SK
(तत्र रुद्रमूर्तेरवस्थितिः) ध्यायेन्मेषाधिरूढं नवतपननिभं वेदबाहूज्ज्वलाङ्गं तत्क्रोडे रुद्रमूर्तिर्निवसति सततं शुद्धसिन्दूररागः | भस्माऽलिप्ताङ्गभूषाभरणसितवपुर्वृद्धरूपी त्रिनेत्रो लोकानामिष्टदाताऽभयलसितकरः सृष्टिसंहारकारी || २१ || ______________________________________________________________ प्रकाशे इति विशेषणेन पद्मस्य नीलवर्णता प्रतीयते प्रागुक्तशाक्तानन्दतरङ्गिणीवचनेन तु रक्तवर्णत्वं स्पष्टमुक्तम् | गन्धर्वतन्त्रे पञ्चमपटले तु � तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत् पुरम् | हेमाभं वैद्युताभञ्च बहुतेजोमयं तथा || इत्यनेन हेमाभत्वादिकं पद्मस्य विशेषणत्वेनोपपादितम् | एवञ्च स्थिते स्वरूपभेदे, श्रीनाथस्याज्ञया ध्यानार्थम् एकतरः पक्षः समाश्रयणीय इति तत्त्वम् | मणिपूरपदव्युत्पत्तिमाह � गन्धर्वतन्त्रे पञ्चमपटले � मणिमद्भिन्नं तं पूरं मणिपूरं ततो विदुः | इति | अयमस्य निष्कर्षः � स्वाधिष्ठानोर्द्ध्वे नाभिमूले गाढजलधरप्रभदशदलं मणिपूराख्यं कमलम् | दलानि चोर्द्ध्वनादबिन्दुसहितैर्नीलप्रभाभास्वरैः ड-ढ-ण-त-थ- द-ध-न-प-फ-रूपैर्दशभिर्वर्णैरुपेतानि | पद्मस्य कर्णिकायामरुणारुणप्रभाभास्वरं त्रिकोणं रंबीजगर्भं स्वस्तिकाख्यद्वारत्रययुक्तं वह्निमण्डलमिति | २१ | पूर्वश्लोके तत्र वह्नेः स्वबीजमित्युक्तम्, तदेव वह्निबीजं विशेषयति � ध्यायेदित्यादिना | तद् वह्निबीजं कीदृशमित्यत आह � मेषाधिरूढं मेषवाहनम्, तथा नवतपननिभं तरुणारुणरागं रक्तवर्णमित्यर्थः, तथा वेदबाहूज्ज्वलाङ्गं वेदैश्चतुर्भिर्बाहुभिरुज्ज्वलं शोभमानमङ्गं यस्य बाहुचतुष्टयेन काञ्चनशोभामावहदित्यर्थः | एवंविधं वह्निबीजं ध्यायेदिति पूर्वेण सम्बन्धः | अत्र रामवल्लभादिभिर्मेषाधिरूढं छागवाहनमिति व्याख्यातम् | तदसत् छागस्थः साक्षसूत्रोऽग्निरित्यादिनाऽन्यत्र तस्य छागवाहनत्वेऽभिहितेऽपि � मेषस्थं साक्षसूत्रञ्च शक्तिहस्तं स्मरेत् ततः |