Discrimination between Middle and Extremes Madhyāntavibhāgakārikābhāṣya a commentary on the Madhyāntavibhāgakārikās attributed to Maitreyanātha
Mअध्यान्तविभागकारिकाभाष्य अ चोम्मेन्तर्य् ओन् थे Mअध्यान्तविभागकारिकास् अत्त्रिबुतेद् तो Mऐत्रेयनाथ
2 SK [अभ्यर्चन] शास्त्रस्यास्य प्रणेतारम् अभ्यर्ह्य सुगतात्मजं [/] वक्तारं चास्मदादिभ्यो यतिष्ये ऽर्थविवेचने //
3 SK [शास्त्रशरीर] तत्रादितः शास्त्रशरीरं व्यवस्थाप्यते /
4 SK लक्षणं ह्य् आवृतिस् तत्वं प्रतिपक्षस्य भावना / तत्र च स्था फलप्राप्तिर् यानानुत्तर्यम् एव च //
5 SK इत्य् एते सप्तार्था ह्य् अस्मिं च्छास्त्रे उपदिश्यन्ते / यद् उत लक्षणं आवरणं तत्वं प्रतिपक्षस्य भावना / तस्याम् एव च प्रतिपक्षभावनायाम् अवस्था फलप्राप्तिश् च यानानुत्तत्यञ् च सप्तमो ऽर्थः /
6 SK [CHAPTER I. LAKṢAṆAPARICCHEDA] [१. अभूतपरिकल्प; अ. सदसल्लक्सण] तत्र लक्षणम् आरभ्याह /
7 SK अभूतपरिकल्पो ऽस्ति द्वयन् तत्र न विद्यते / शून्यता विद्यते त्व् अत्र तस्याम् अपि स विद्यते // १.१
8 SK तत्राभूतपरिकल्पो ग्राह्यग्राहकविकल्पः / द्वयं ग्राह्यं ग्राहकञ् च / शून्यता तस्याभूतपरिकल्पस्य ग्राह्यग्राहकभावेन विरहितता / तस्याम् अपि स विद्यत इत्य् अभूतपरिकल्पः / एवं यद् यत्र नास्ति तत् तेन शून्यम् इति यथाभूतं समनुपश्यति यत् पुनर् अत्रावशिष्टं भवति तत् सद् इहास्तीति यथाभूतं प्रजानातीत्य् अविपरीतं शून्यतालक्षणम् उद्भावितं भवति /
9 SK न शून्यं नापि चाशून्यं तस्मात् सर्वं विधीयते / सत्वाद् असत्वात् सत्वाच् च मध्यमा प्रतिपच् च सा // I.२
10 SK न शून्यं शून्यतया चाभूतपरिकल्पेन च / न चाशून्यं द्वयेन ग्राह्येन ग्राहकेण च / सर्वं संस्कृतं चाभूतपरिकल्पाख्यं / असंस्कृतं च शून्यताख्यं / विधीयते निर्दिश्यते सत्वाद् अभूतपरिकल्पस्य असत्वाद् द्वयस्य सत्वाच् च शून्यताया अभूतपरिकल्पे तस्यां चाभूतपरिकल्पस्य सा च मध्यमा प्रतिपत् / यत् सर्वं / नैकान्तेन शून्यं नैकान्तेनाशून्यं / एवम् अयं पाठः प्रज्ञापारमितादिष्व् अनुलोमितो भवति सर्वम् इदं न शून्यं नापि चाशून्यम् इति /
11 SK [ब्. Sवलक्षण] एवम् अभूतपरिकल्पस्य सल्लक्षणम् असल्लक्षणं च ख्यापयित्वा / स्वलक्षणं ख्यापयति /
12 SK अर्थसत्वात्मविज्ञप्तिप्रतिभासं प्रजायते / विज्ञानं नास्ति चास्यार्थस् तदभावात् तद् अप्य् असत् // I.३
13 SK तत्रार्थप्रतिभासं यद् रूपादिभावेन प्रतिभासते / सत्वप्रतिभासं यत् पञ्चेन्द्रियत्वेन स्वपरसन्तानयोर् [/] आत्मप्रतिभासं क्लिष्टं मनः / आत्ममोहादिसंप्रयोगात् / विज्ञप्तिप्रतिभासं षड् विज्ञानानि [/] नास्ति चास्यार्थ इति / अर्थसत्वप्रतिभासस्यानाकारत्वात् / आत्मविज्ञप्तिप्रतिभासस्य च वितथप्रतिभासत्वात् / (Mव्भ् १९) तदभावात् तद् अप्य् असद् इति / यत् तद्ग्राह्यं रूपादिपञ्चेन्द्रियं मनः षड्विज्ञानसंज्ञकं चतुर्विधं तस्य ग्राह्यस्यार्थस्याभावात् तद् अपि ग्राहकं विज्ञानम् असत् /
14 SK अभूतपरिकल्पत्वं सिद्धम् अस्य भवत्य् अतः / न तथा सर्वथाभावात् /
15 SK यस्मान् न तथास्य भावो यथा प्रतिभास उत्पद्यते / न च सर्वथाभावो भ्रान्तिमात्रस्योत्पादात्/ किमर्थं पुनस् तस्याभाव एव नेष्यते / यस्मात् /
16 SK तत्क्षयान् मुक्तिर् इष्यते // I.४
17 SK अन्यथा न बन्धो न मोक्षः प्रसिध्येद् इति संक्लेशव्यवदानापवाददोषः स्यात् /
18 SK [च्. Sअंग्रहलक्षण] एवम् अभूतपरिकल्पस्य स्वलक्षणं ख्यापयित्वा संग्रहलक्षणं ख्यापयति / अभूतपरिकल्पमात्रे सति यथा त्रयाणां स्वभावानां संग्रहो भवति /
19 SK कल्पितः परतन्त्रश् च परिनिष्पन्न एव च / अर्थाद् अभूतकल्पाच् च द्वयाभावाच् च देशितः // I.५
20 SK अर्थः परिकल्पितः स्वभावः / अभूतपरिकल्पः परतन्त्रः स्वभावः / ग्राह्यग्राहकाभावः परिनिष्पन्नः स्वभावः /
21 SK [द्. Aसल्लक्षणानुप्रवेशोपायलक्षण] इदानीं तस्मिन्न् एवाभूतपरिकल्पे ऽसल्लक्षणानुप्रवेशोपायलक्षणं परिदीपयति /
22 SK उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते / नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते // I.६
23 SK विज्ञप्तिमात्रोपलब्धिं निश्रित्यार्थानुपलब्धिर् जायते / अर्थानुपलब्धिं निश्रित्य विज्ञप्तिमात्रस्याप्य् अनुपलब्धिर् जायते / एवम् असल्लक्षणं ग्राह्यग्राहकयोः प्रविशति /
24 SK उपलब्धेस् ततः सिद्धा नोपलब्धिस्वभावता /
25 SK उपलभ्यार्थाभावे उपलब्ध्ययोगात् /
26 SK तस्माच् च समता ज्ञेया नोपलम्भोपलम्भयोः // I.७
27 SK उपलब्धेर् उपलब्धित्वेनासिद्धत्वाद् अभूतार्थप्रतिभासतया तूपलब्धिर् इत्य् उच्यते ऽनुपलब्धिस्वभावापि सती
28 SK [ए. Pरभेदलक्षण] तस्यैवेदानीम् अभूतपरिकल्पस्य प्रभेदलक्षणं ख्यापयति /
29 SK अभूतपरिकल्पश् च चित्तचैत्तास् त्रिधातुकाः /
30 SK कामरूपारूप्यावचरभेदेन /
31 SK [f. Pअर्यायलक्षण] पर्यायलक्षणं च ख्यापयति /
32 SK तत्रार्थदृष्टिर् विज्ञानं तद्विशेषे तु चैतसाः // I.८
33 SK तत्रार्थमात्रे दृष्टिर् विज्ञानं / अर्थविशेषे दृष्टिश् चैतसा वेदनादयः /
34 SK [ग्. Pरवृत्तिलक्षण] प्रवृत्तिलक्षणं च ख्यापयति /
35 SK एकं प्रत्ययविज्ञानं द्वितीयम् औपभोगिकं / उपभोगपरिच्छेदप्रेरकास् तत्र चैतसाः // I.९
36 SK आलयविज्ञानम् अन्येषां विज्ञानानां प्रत्ययत्वात् प्रत्ययविज्ञानं / तत्प्रत्ययं प्रवृत्तिविज्ञानम् औपभोगिकं / उपभोगो वेदना / परिच्छेदः संज्ञा / प्रेरकाः संस्कारा विज्ञानस्य चेतनामनस्कारादयः /
37 SK [ह्. Sअंक्लेशलक्सण] संक्लेशलक्षणं च ख्यापयति/
38 SK छादनाद् रोपणाच् चैव नयनात् संपरिग्रहात् / पूरणात् त्रिपरिच्छेदाद् उपभोगाच् च कर्षणात् // I.१०
39 SK निबन्धनाद् आभिमुख्याद् दुःखनात् क्लिश्यते जगत् /
40 SK तत्र च्छादनाद् अविद्यया यथाभूतदर्शनविबन्धनात् / रोपणात् संस्कारैर् विज्ञाने कर्मवासनायाः प्रतिष्ठापनात् / नयनाद् विज्ञानेनोपपत्तिस्थानसंप्रापणात् / संपरिग्रहान् नामरूपेणात्मभावस्य / पूरणात् षडायतनेन / त्रिपरिच्छेदात् स्पर्शेन / उपभोगाद् वेदनया / कर्षणात् तृष्णया कर्माक्षिप्तस्य पुनर्भवस्य [/] निबन्धनाद् उपादानैर् विज्ञानस्योत्पत्त्यनुकूलेषु कामादिषु / आभिमुख्याद् भवेन कृतस्य कर्मणः पुनर्भवे विपाकदानायाभिमुखीकरणात् / दुःखनाज् जात्या जरामरणेन च परिक्लिश्यते जगत् / सो ऽयं /
41 SK त्रेधा द्वेधा च संक्लेशः सप्तधाभूतकल्पनात् // I.११
42 SK त्रेधा संक्लेशः / क्लेशसंक्लेशः कर्मसंक्लेशः जन्मसंक्लेशश् च / तत्र क्लेशसंक्लेशो ऽविद्यातृष्णोपादानानि / कर्मसंक्लेशः संस्कारा भवश् च / जन्मसंक्लेशः शेषाण्य् अङ्गानि / द्वेधा संक्लेशः / हेतुसंक्लेशः फलसंक्लेशश् च / (Mव्भ् २२) तत्र हेतुसंक्लेशः क्लेशकर्मस्वभावैर् अङ्गैः फलसंक्लेशश् च शेषैः / सप्तधा संक्लेशः सप्तविधो हेतुः / विपर्यासहेतुः / आक्षेपहेतुः इ उपनयहेतुः / परिग्रहहेतुः / उपभोगहेतुः / आकर्षणहेतुः / उद्वेगहेतुश् च / तत्र विपर्यासहेतुर् अविद्या / आक्षेपहेतुः संस्काराः / उपनयहेतुर् विज्ञानं / परिग्रहहेतुर् नामरूपषडायतने / उपभोगहेतुः स्पर्शवेदने / आकर्षणहेतुस् तृष्णोपादानभवाः / उद्वेगहेतुर् जातिजरामरणे / सर्वश् चैष संक्लेशो ऽभूतपरिकल्पात् प्रवर्तत इति /
43 SK [Aभूतपरिकल्पपिण्डार्थ] पिण्डार्थः पुनर् अभूतपरिकल्पस्य नवविधं लक्षणं परिदीपितं भवति / सल्लक्षणं / असल्लक्षणं स्वलक्षणं / संग्रहलक्षणं [/] असल्लक्षणानुप्रवेशोपायलक्षणं / प्रभेदलक्षणं / पर्यायलक्षणं / प्रवृत्तिलक्षणं / संक्लेशलक्षणञ् च /
44 SK [२. Śऊन्यता] एवम् अभूतपरिकल्पं ख्यापयित्वा यथा शून्यता विज्ञेया तन् निर्दिशति /
45 SK लक्षणं चाथ पर्यायस् तदर्थो भेद एव च / साधनं चेति विज्ञेयं शून्यतायाः समासतः // I.१२
46 SK [अ. Sऊन्यतालक्षण] कथं लक्षणं विज्ञेयं /
47 SK द्वयाभावो ह्य् अभावस्य भावः शून्यस्य लक्षणं /
48 SK द्वयग्राह्यग्राहकस्याभावः / तस्य चाभावस्य भावः शून्यतया (Mव्भ् २३) लक्षणम् इत्य् अभावस्वभावलक्षणत्वं शून्यतायाः परिदीपितं भवति / यश् चासौ तदभावस्वभावः स /
50 SK कथं न भावो यस्मात् द्वयस्याभावः / कथं नाभावो यस्मात् द्वयाभावस्य भावः / एतच् च शून्यताया लक्षणं / तस्माद् अभूतपरिकल्पान्
51 SK न पृथक्त्वैकलक्षणं // I.१३
52 SK पृथक्त्वे सति धर्माद् अन्या धर्मतेति न युज्यते / अनित्यतादुःखतावत् / एकत्वे सति विशुद्ध्यालम्बनं ज्ञानं न स्यात् सामान्यलक्षणञ् च / एतेन तत्त्वान्यत्वविनिर्मुक्तं लक्षणं परिदीपितं भवति /
53 SK [ब्. Sऊन्यतापर्याय] कथं पर्यायो विज्ञेयः /
54 SK तथता भूतकोटिश् चानिमित्तं परमार्थता / धर्मधातुश् च पर्यायाः शून्यतायाः समासतः // I.१४
55 SK [च्. Śऊन्यतापर्यायार्थ] कथं पर्यायार्थो विज्ञेयः /
56 SK अनन्यथाविपर्यासतन्निरोधार्यगोचरैः / हेतुत्वाच् चार्यधर्माणां पर्यायार्थो यथाक्रमं // I.१५
57 SK अनन्यथार्थेन तथाता नित्यन् तथैवेति कृत्वा [/] अविपर्यासार्थेन भूतकोटिः विपर्यासावस्तुत्वात् / निमित्तनिरोधार्थेनानिमित्तं सर्वनिमित्ताभावात् / आर्यज्ञानगोचरत्वात् परमार्थः / परमज्ञानविषयत्वाद् [/] आर्यधर्महेतुत्वाद् धर्मधातुः / (Mव्भ् २४) आर्यधर्माणान् तदालम्बनप्रभवत्वात् / हेत्वर्थो ह्य् अत्र धात्वर्थः /
58 SK [द्. Śऊन्यताप्रभेद] कथं शून्यतायाः प्रभेदो ज्ञेयः /
59 SK संक्लिष्टा च विशुद्धा च /
60 SK इत्य् अस्याः प्रभेदः / कस्याम् अवस्थायां संक्लिष्टा कस्यां विशुद्धा /
62 SK यदा सह मलेन वर्तते तदा संक्लिष्टा / यदा प्रहीणमला तदा विशुद्धा / यदि समला भूत्वा निर्मला भवति कथं विकारधर्मिणीत्वाद् अनित्या न भवति / यस्माद् अस्याः
63 SK अब्धातुकनकाकाशशुद्धिवच् छुद्धिर् इष्यते // I.१
64 SK आगन्तुकमलापगमान् न तु तस्याः स्वभावान्यत्वं भवति /
66 SK अयम् अपरः प्रभेदः षोडशविधा शून्यता / अध्यात्मशून्यता / बहिर्धाशून्यता / अध्यात्मबहिर्धाशून्यता / महाशून्यता / शून्यताशून्यता / परमार्थशून्यता / संस्कृतशून्यता / असंस्कृतशून्यता / अत्यन्तशून्यता / अनवराग्रसून्यता / अनवकारशून्यता / प्रकृतिशून्यता / लक्षणशून्यता / सर्वधर्मशून्यता / अभावशून्यता / अभावस्वभावशून्यता च / सैषा समासतो वेदितव्या /
67 SK भोक्तृभोजनतद्देहप्रतिष्ठावस्तुशून्यता / (Mव्भ् २५) तच् च येन यथा दृष्टं यदर्थंतस्य शून्यता // I.१७१
68 SK तत्र भोक्तृशून्यता (/) आध्यात्मिकान्य् आयतनान्य् आरब्धा भोजनशून्यता बाह्यानि / तद्देहस् तयोर् भोक्तृभोजनयोर् यद् अधिष्ठानं शरीरं [/] तस्य शून्यताध्यात्मबहिर्धाशून्यतेत्य् उच्यते / प्रतिष्ठावस्तु भाजनलोकः [/] तस्य विस्तीर्णत्वाच् छून्यता महाशून्यतेत्य् उच्यते / तच् चाध्यात्मिकायतनादि येन शून्यं दृष्टं शून्यताज्ञानेन [/] तस्य शून्यता शून्यताशून्यता / यथा च दृष्टं परमार्थाकारेण तस्य शून्यता परमार्थ शून्यता / यदर्थं च बोधिसत्वः प्रपद्यते तस्य च शून्यता / किमर्थञ् च प्रपद्यते /
69 SK शुभद्वयस्य प्राप्त्यर्थं /
70 SK कुशलस्य संस्कृतस्यासंस्कृतस्य च /
72 SK अत्यन्तसत्वहितार्थं /
73 SK संसारात्यजनार्थञ् च /
74 SK अनवराग्रस्य हि संसारस्य शून्यताम् अपश्यन् खिन्नः संसारं परित्यजेत /
75 SK कुशलस्याक्षयाय च // I.१८
76 SK निरुपधिशेषे निर्वाणे ऽपि यन् नावकिरति नोत्सृजति तस्य शून्यता (/) (Mव्भ् २६) अनवकारशून्यतेत्य् उच्यते /
77 SK गोत्रस्य च विशुद्ध्यर्थं /
78 SK गोत्रं हि प्रकृतिः स्वाभाविकत्वात् /
80 SK महापुरुषलक्षणानां सानुव्यञ्जनानां प्राप्तये /
81 SK शुद्धये बुद्धधर्माणां बोधिसत्वः प्रपद्यते // I.१९
82 SK बलवैशारद्यावेणिकादीनां / एवन् तावच् चतुर्दशानां शून्यतानां व्यवस्थानं वेदितव्यं / का पुनर् अत्र शून्यता /
83 SK पुद्गलस्याथ धर्माणाम् अभावः शून्यतात्र हि / तदभावस्य सद्भावस् तस्मिन् सा शून्यतापरा // I.२०
84 SK पुद्गलधर्माभावश् च शून्यता / तदभावस्य च सद्भावः [/] तस्मिन् यथोक्ते भोक्त्रादौ सान्या शून्यतेति [/] शून्यतालक्षणख्यापनार्थं द्विविधाम् अन्ते शून्यतां व्यवस्थापयति / अभावशून्यताम् अभावस्वभावशून्यतां च / पुद्गलधर्मसमारोपस्य तच्छून्यतापवादस्य च परिहारार्थं यथाक्रमं / एवं शून्यतायाः प्रभेदो विज्ञेयः /
85 SK [ए. Śऊन्यतासाधन] कथं साधनं विज्ञेयं /
86 SK संक्लिष्टा चेद् भवेन् नासौ मुक्ताः स्युः सर्वदेहिनः / विशुद्धा चेद् भवेन् नासौ व्यायामो निष्फलो भवेत् // I.२१
87 SK यदि धर्माणां शून्यता आगन्तुकैर् उपक्लेशैर् अनुत्पन्ने (Mव्भ् २७) ऽपि प्रतिपक्षे न संक्लिष्टा भवेत् संक्लेशाभावाद् अयत्नत एव मुक्ताः सर्वसत्वा भवेयुः / अथोत्पन्ने ऽपि प्रतिपक्षे न विशुद्धा भवेत् मोक्षार्थम् आरम्भो निष्फलो भवेत् / एवं च कृत्वा /
88 SK न क्लिष्टा नापि वाक्लिष्टा शुद्धाशुद्धा न चैव सा /
89 SK कथं न क्लिष्टा नापि चाशुद्धा / प्रकृत्यैव /
90 SK प्रह्हास्वरत्वाच् चित्तस्य /
91 SK कथं नाक्लिष्टा न शुद्धा /
92 SK क्लेशस्यागन्तुकत्वतः // I.२२
93 SK एवं शून्यताया उद्दिष्टः प्रभेदः साधितो भवति /
94 SK [Śऊन्यतापिण्डार्थ] तत्र शून्यतायाः पिण्डार्थः / लक्षणतो व्यवस्थानतश् च वेदितव्यः / तत्र लक्षणतो ऽभावलक्षणतो भावलक्षणतश् च / भावलक्षणं पुनर् भावाभावविनिर्मुक्तलक्षणतश् च / तत्वान्यत्वविनिर्मुक्तलक्षणतश् च / व्यवस्थानं पुनः पर्यायादिव्यवस्थानतो वेदितव्यं / तत्रैतया चतुःप्रकारदेशनया शून्यतायाः स्वलक्षणं / कर्मलक्षणं / संक्लेशव्यवदानलक्षणं / युक्तिलक्षणं चोद्भावितं भवति / विकल्पत्रासकौशीद्यविचिकित्सोपशान्तये /
95 SK मध्यान्तविभागे /अक्षणपरिच्छेदः प्रथमः // //
96 SK [CHAPTER II. ĀVARAṆAPARICCHEDA] [१. Vयाप्यादिपञ्चावरण]
98 SK व्यापिप्रादेशिकोद्रिक्तसमादानविवर्जनंइ / द्वयावरणम् आख्यातं /
99 SK तत्र व्यापि क्लेशज्ञेयावरणं बोधिसत्वगोत्रकाणां कं साकल्यात् / प्रादेशिकं क्लेशावरनं श्रावकादिगोत्रकाणां / उद्रिक्तं तेषाम् एव रागादिचरितानां / समं समभागचरितानां / संसारादानत्यागावरणं बोधिसत्वगोत्रकाणाम् अप्रतिष्ठितनिर्वाणावरणाद् इत्य् एतद् यथायोगम् उभयेषाम् आवरणम् आख्यातं / बोधिसत्वगोत्रकानां श्रावकादिगोत्रकाणां च /
100 SK [२. Pरयोगनवसंयोजनावरण]
102 SK नवधा क्लेशलक्षणं // II.१
104 SK नव संयोजनानि (/) क्लेशावरणं / कस्यैतस्यावरणं /
105 SK उद्वेगसमुपेक्षयोः / तत्त्वऽदृष्टेश् च /
106 SK अनुनयसंयोजनं संवेगस्यावरणं [/] प्रतिघसंयोजनम् (Mव्भ् २९) उपेक्षीयाः / तेन हि प्रतिकूलम् अपि प्रतिघवस्तु उपेक्षितुं न शक्नोति / शेषानि तत्त्वदर्शनस्यावरणं / कथं कृत्वा / तानि हि यथाक्रमं /
107 SK सत्कायदृष्टेस् तद्वस्तुनो ऽपि च // II.२
108 SK निरोधमार्गरत्नेषु लाभसत्कार एव च / संलेखस्य परिज्ञाने /
109 SK संयोजनान्य् आवरणं भवंति / मानसंयोजनं हि सत्कायदृष्टिपरिज्ञाने भवत्य् आवरणं / अभिसमयकाले सान्तरव्यन्तरास्मिमानसमुदाचारवशेन तदप्रहाणात् / अविद्यासंयोजनं सत्कायदृष्टिवस्तुपरिज्ञाने / तेनोपादानस्कन्धापरिज्ञानात् / दृष्टिसंयोजनं निरोधसत्यपरिज्ञाने / सत्कायान्तग्राहदृष्टिभ्यां तदुत्त्रासात् [/] मिथ्यादृष्ट्या चापवादात् / परामर्शसंयोजनं मार्गसत्यपरिज्ञाने / अन्यथाग्रशुद्धिपरामर्षणात् / विचिकित्सासंयोजनं रत्नत्रयपरिज्ञाने तद्गुणानभिश्रद्धानात् / ईर्ष्यासंयोजनं लाभसत्कारपरिज्ञाने तद्दोषादर्शनात् / मात्सर्यसंयोजनं संलेखपरिज्ञाने परिष्काराध्यवसानात् /
110 SK [३. Bओधिसत्त्वावरण] [अ. Dअशशुभादिष्व् आवरणम्]
111 SK शुभादौ दशधापरं // II.३
112 SK अपरं पुनर् आवरणं / दशविधे शुभादौ वेदितव्यं / किन् तद् आवरणं के च शुभादयः /
113 SK अप्रयोगो ऽनायतने ऽयोगविहितश् च यः / नोत्पत्तिर् अमनस्कारः संभारस्याप्रपूर्णता // II.४
114 SK गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता /
115 SK प्रतिपत्तेश् च वैधुर्यं कुदुष्टजनवासता // II.५
116 SK दौष्ठुल्यम् अवशिष्टत्वं त्रयात् प्रज्ञाविपक्वता / प्रकृत्या चैव दौष्ठुल्यं कौशीद्यं च प्रमादिता // II.६
117 SK सक्तिर् भवे च भोगे च लीनचित्तत्वम् एव च / अश्रद्धानधिमुक्तिश् च यथारुतविचारणा // II.७
118 SK सद्धर्मे ऽगौरवं लाभे गुरुता कृपता तथा / श्रुतव्यसनम् अल्पत्वं समाध्यपरिकर्मिता // II.८
119 SK एतद् आवरणं / के शुभादयः /
120 SK शुभं बोधिः समादानन् धीमत्त्वाभ्रान्त्यनावृती / नत्यत्रासो ऽमत्सरित्वं वशित्वं च शुभादयः // II.९
121 SK एषां शुभादीनां कस्य कत्य् आवरणानि ज्ञेयानीत्य् आह /
122 SK त्रीणि त्रीणि च एतेषां ज्ञेयान्य् आवरणानि हि /
123 SK कुशलस्य त्रीण्य् आवरणानि / अप्रयोगो ऽनायतनप्रयोगो ऽयोनिशःप्रयोगश् च / बोधेस् त्रीणि कुशलस्यानुत्पत्तिर् अमनसिकरणं / अपरिपूर्णसंभारता च / समादानं बोधिचित्तोत्पादः / तस्य त्रीणि गोत्रवैधुर्यं कल्याणमित्रवैधुर्यं / परिखेदचित्तता च / धीमत्वं बोधिसत्वता / तस्याः प्रज्ञाने त्रीण्य् आवरणानि प्रतिपत्तिवैधुर्यं कुजनवासः / दुष्टजनवासश् च / तत्र कुजनो मूर्खजनः [/] दुष्टजनः प्रतिहतः / अभ्रान्तेस् त्रीणि विपर्यासदौष्ठुल्यं / क्लेशाद्यावरणत्रयाद् अन्यतमावशिष्टता / विमुक्तिपरिपाचिन्याः (/) प्रज्ञाया अपरिपक्वता च / आवरणप्रहाणम् अनावरणं / तस्य त्रीणि सहजं दौष्ठुल्यं / कौशीद्यं प्रमादश् च / परिणतेस् त्रीणि यैर् अन्यत्र चित्तं परिणामयति / नानुत्तरस्यां सम्यक्संबोधौ [/]
124 SK भवसक्तिर् भोगसक्तिर् लीनचित्तता च / अत्रासस्य त्रीणि [/] असंभावना पुद्गले / अनधिमुक्तिर् धर्मे / यथारुतविचारणार्थे / अमात्सर्यस्य त्रीणि सद्धर्मे ऽगौरवं / लाभसत्कारपूजायां गौरवं सत्वेष्व् अकारुण्यं च / वशित्वस्य त्रीणि यैर् विभुत्वं न लभते [/] श्रुतव्यसनं धर्मव्यसनसंवर्तनीयकर्मप्रभवनात् / अल्पश्रुतत्वं / समाधेर् अपरिकर्मितत्वं च /
125 SK [ब्. Dअश कारणानि] तत् पुनर् एतद् आवरणं शुभादौ यत्रार्थे दश कारणानि तदर्थाधिकारेण वेदितव्यं / दशकारणानि [/] उत्पत्तिकारणं तद्यथा चक्षुरादयश् चक्षुर्विज्ञानस्य / स्थितिकारणं तद् यथा चत्वार आहाराः सत्वानां / धृतिकारणं यद् यस्याधारभूतं / तद् यथा भाजनलोकः सत्वलोकस्य / अभिव्यक्तिकारणं / तद् यथा [/] आलोको रूपस्य / विकारकारणं / तद् यथाग्न्यादयः पाक्यादीनां / विश्लेषकारणं तद् यथा दात्रादयः च्छेद्यादीनां / परिणतिकारणं / तद् यथा सुवर्णकारादयः सुवर्णादीनां कटकादिभावेन परिणतौ / संप्रत्ययकारणं / तद् यथा धूमादयो ऽग्न्यादीनां / संप्रत्यायनन्कारणं / तद् यथा हेतुः प्रतिज्ञायाः [/] प्राप्तिकारणं / तद् यथा मार्गादयो निर्वाणादीनां /
126 SK एवम् उत्पत्त्यावरणं शुभे द्रष्टव्यं तस्योत्पादनीयत्वात् / स्थित्यावरणं बोधौ तस्या अकोप्यत्वाद् [/] धृत्यावरणं समादाने बोधिचित्तस्याधारभूतत्वाद् [/] अभिव्यक्त्यावरणं धीमत्वे तस्य प्रकाशनीयत्वात् / विकारावरणम् अभ्रान्तौ तस्या (Mव्भ् ३२) भ्रान्तिपरिवृत्तित्वेन विकारत्वात् / विश्लेषावरणम् अनावरणे तस्यावरणविसंयोगत्वात् [/] परिणत्यावरणं नतौ बोधौ चित्तपरिणतिलक्षणत्वात् / संप्रत्ययावरणम् अत्रासे / असंप्रत्ययेन त्रसनात् / संप्रत्यायनावरणम् अमत्सरित्वे धर्मामत्सरित्वेन परसंप्रत्यायनात् / प्राप्त्यावरणं वशित्वे तस्य विभुत्वप्राप्तिलक्षणत्वात् /
127 SK कारणं दशधोत्पत्तौ स्थितौ धृत्यां प्रकाशने / विकारविश्लेषनतिप्रत्ययप्रायणाप्तिषु //
128 SK चक्षुराहारभूदीपवह्न्यादिस् तदुदाहृतिः / दात्रशिल्पज्ञताधूमहेतुमार्गादयो ऽपरे //
129 SK बोधिप्राप्तुकामेनादित एव तावत् कुशलमूलम् उत्पादयितव्यं / ततः कुशलमूलबलाधानेन बोधिः प्राप्तव्या / तस्याः पुनः कुशलमूलोत्पत्तेर् बोधिचित्तं प्रतिष्ठा [/] तस्य बोधिचित्तस्य बोधिसत्व आश्रयः [/] तेन पुनर् उत्पादितबोधिचित्तेन कुशलमूलबलाधानप्राप्तेन बोधिसत्वेन विपर्यासं प्रहाय अविपर्यास उत्पादितव्यः / ततो दर्शनमार्गे ऽविपर्यस्ते भावनामार्गे सर्वावरणानि प्रहातव्यानि / प्रहीणावरणेन सर्वाणि कुशलमूलानि अनुत्तरायां सम्यक्संबोधौ परिणामयितव्यानि / ततः परिणामनाबलाधानेन गम्भीरोदारधर्मदेशनासु नोत्त्रसितव्यं / तथानुत्त्रस्तमानसेन धर्मेषु गुणदर्शिना परेषां ते धर्मा विस्तरेण संप्रकाशयितव्यास् [/] ततः स बोधिसत्व एवं विचित्रगुणबलाधानप्राप्तः क्षिप्रम् (Mव्भ् ३३) अनुत्तरां सम्यक्संबोधिम् अनुप्राप्तवान् सर्वधर्मवशिताम् अनुप्राप्नोतीत्य् एषो ऽनुक्रमः (/) शुभादीनां [/]
130 SK [४. Bओधिपक्ष्यपारमिताभूमिष्व् आवरणम्] पक्ष्यपारमिताभूमिष्व् अन्यद् आवरणं पुनः // II.१०
131 SK [अ. Bओधिपक्ष्येष्व् आवरणम्] बोधिपक्ष्येषु तावत् /
132 SK वस्त्वकौशलकौसीद्यं समाधेर् द्वयहिनता / अरोपणाथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता // II.११
133 SK स्मृत्युपस्थानेषु वस्त्वकौशलम् आवरणं / सम्यक्प्रहाणेषु कौसीद्यं [/] ऋद्धिपादेषु समाधेर् द्वयहीनता [/] परिपूर्या च च्छन्दवीर्यचित्तमीमान्सानाम् अन्यतमवैकल्यात् / भावनया च प्रहाणसंस्कारवैकल्यात् / इन्द्रियेषु मोक्षभागीयानाम् अरोपणं / बलेषु तेषाम् एवेन्द्रियाणां दौर्बल्यं विपक्षव्यवकिरणात् / बोध्यङ्गेषु दृष्टिदोषः तेषां दर्शनमार्गप्रभावितत्वात् / मार्गाङ्गेषु दौष्ठुल्यदोषः / तेषां भावनामार्गप्रभावितत्वात् /
134 SK [ब्. Pआरमितास्व् आवरणम्] पारमितास्व् आवरणं /
135 SK ऐश्वर्यस्याथ सुगतेः सत्वात्यागस्य चावृतिः / हानिवृद्ध्योश् च दोषाणां गुणानाम् अवतारणे // II.१२
136 SK विमोचने ऽक्षयत्वे च नैरन्तर्ये शुभस्य च / नियतीकरणे धर्मसंभोगपरिपाचने // II.१३
137 SK अत्र दशानां पारमितानां यस्याः पारमितायाः यत् फलं तदावरणेन तस्या आवरणम् उद्भावितं भवति / तत्र दानपारमितायाः ऐश्वर्याधिपत्यावरणम् आवरणं / शीलपारमितायाः सुगत्यावरणं क्षान्तिपारमितायाः सत्वापरित्यागावरणं / वीर्यपारमिताया दोषगुणहानिवृद्ध्यावरणं / ध्यानपारमिताया विनेयावतारणावरणं / प्रज्ञापारमितायाः विमोचनावरणं / उपायकौशल्यपारमिताया दानाद्यक्षयत्वावरणं / बोधिपरिणामनया तदक्षयत्वात् / प्रणिधानन्पारमितायाः सर्वजन्मसु कुशलनैरन्तर्यप्रवृत्त्यावरणं [/] प्रणिधानवशेन तदनुकूलोपपत्तिपरिग्रहाद् [[] बलपारमितायास् तस्यैव कुशलस्य नियतीकरणावरणं / प्रतिसंख्यानभावनाबलाभ्यां विपक्षानभिभवात् / ज्ञानपारमितायाः आत्मपरयोर् धर्मसंभोगपरिपाचनावरणम् आवरणं / अयथारुतश्रुतार्थावबोधात् /
138 SK [च्. Bहूमिष्व् आवरणम्] भूमिषु पुनर् यथाक्रमं /
139 SK सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च /
140 SK निष्परिग्रहतार्थे च सन्तानाभेद एव च // II.१४
141 SK निःसंक्लेशविशुद्ध्यर्थे ऽनानात्वार्थ एव च / अहीनानधिकार्थे च चतुर्धावशिताश्रये // II.१५
142 SK धर्मधाताव् अविद्येयं अक्लिष्टा दशधावृतिः / दशभूमिविपक्षेण प्रतिपक्षास् तु भूमयः // II.१६
143 SK धर्मधातौ दशविधे सर्वत्रगाद्यर्थे यद् अक्लिष्टम् अज्ञानं तद् दशसु बोधिसत्वभूमिष्व् आवरणं यथाक्रमं तद्विपक्षत्वात् / यद् उत
145 SK प्रथमया हि भूम्या धर्मधातोः सर्वत्रगार्थं प्रतिविध्यति [/] येनात्मपरसमतां प्रतिलभते / द्वितीययाग्रार्थं [/] येनास्यैवं भवति तस्मात् तर्ह्य् अस्माभिः समाने ऽभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति / तृतीयया तन्निष्यन्दाग्रार्थं / येन धर्मधातुनिष्यन्दस्य श्रुतस्याग्रतां विदित्वा तदर्थं त्रिसाहस्रमहासाहस्रप्रमाणायाम् अप्य् अग्निखदायाम् आत्मानं प्रक्षिपेत् / चतुर्थ्या निष्परिग्रहतार्थन् तथा हि धर्मतृष्णापि व्यावर्तते / पञ्चम्या सन्तानाभेदार्थं दशभिश् चित्ताशयविशुद्धिसमताभिः / षष्ठ्या निःसंक्लेषविशुद्ध्यर्थं प्रतीत्यसमुत्पादे (/) नास्ति स कश्चिद् धर्मो यः संक्लिश्यते वा विशुध्यते वेति प्रतिवेधात् / सप्तम्यानानात्वार्थं निर्निमित्ततया सूत्रादिधर्मनिमित्तनानात्वासमुदाचाराद् [/] अष्टम्याहीनानधिकार्थम् अनुत्पत्तिकधर्मक्षान्तिलाभात् संक्लेशे व्यवदाने वा (Mव्भ् ३६) कस्यचिद् धर्मस्य हानिवृद्ध्यदर्शनाच् [/] चतुर्धा वशिता निर्विकल्पवशिता क्षेत्रपरिशुद्धिवशिता ज्ञानवशिता कर्मवशिता च [/] तत्र प्रथमद्वितीयवशिताश्रयत्वं धर्मधाताव् अष्टम्यैव भूम्या प्रतिविद्धति / ज्ञानवशिताश्रयत्वं नवम्यां प्रतिसंविल्लाभात् / कर्मवशिताश्रयत्वं दशम्यां यथेच्छं निर्माणैः सत्वार्थकरणात् /
146 SK [५. Aवरणसमास] समासेन पुनः /
147 SK क्लेशावरणम् आख्यातं ज्ञेयावरणम् एव च / सर्वाण्य् आवरणानीह यत्क्षयान् मुक्तिर् इष्यते // II.१७
148 SK अस्य हि द्विविधस्यावरणस्य (/) क्षयात् सर्वावरणेभ्यो मुक्तिर् इष्यते /
149 SK [Āवरणपिण्डार्थ] आवरणानां पिण्डार्थः / महद् आवरणं यद् व्यापि / प्रतन्व् आवरणं यत् प्रादेशिकं / प्रयोगावरणं यद् उद्रिक्तं / प्राप्त्यावरणं यत् समं / प्राप्तिविशेषावरणं यद् आदानविवर्जने / सम्यक्प्रयोगावरणं यन् नवधाक्लेशावरणं / हेत्वावरणं यच् छुभादौ दशविधहेत्वर्थाधिकारात् इ तत्वप्रवेशावरणं यद् बोधिपक्ष्येषु / शुभानुत्तर्यावरणं यत् पारमितासु / तद्विशेषगत्यावरणं यद् भूमिषु / संग्रहावरणं यत् समासतो द्विविधं //
150 SK मध्यान्तविभागे आवरणपरिच्छेदो द्वितीयः // ः //
151 SK [CHAPTER III. TATTVAPARICCHEDA] तत्वम् अधिकृत्याह /
152 SK मूललक्षणतत्वं अविपर्यासलक्षणं / फलहेतुमयन् तत्वं सूक्ष्मौदारिकम् एव च // III. १
153 SK प्रसिद्धं शुद्धिविषयं संग्राह्यं भेदलक्षणं / कौशल्यतत्वं दशधा आत्मदृष्टिविपक्षतः // III.२
154 SK इत्य् एतद् दशविधं तत्वं यद् उत मूलतत्वं लक्षणतत्वं / अविपर्यासतत्वं / फलहेतुतत्वं / औदारिकसूक्ष्मतत्वं / प्रसिद्धतत्वं / विशुद्धिगोचरतत्वं / संग्रहतत्वं] प्रभेदतत्वं / कौशल्यतत्वञ् च / तत् पुनर् दशविधं दशविधात्मग्राहप्रतिपक्षेण वेदितव्यं / तद् यथा स्कन्धकौशल्यं / धातुकौशल्यम् आयतनकौशल्यं / प्रतीत्यसमुत्पादकौशल्यं / स्थानास्थानकौशल्यम् इन्द्रियकौशल्यं अध्वकौशल्यं सत्यकौशल्यं यानकौशल्यं / संस्कृतासंस्कृतकौशल्यं च /
155 SK [१. Mऊलतत्त्व] तत्र मूलतत्वं /
157 SK परिकल्पितः परतन्त्रः परिनिष्पन्नश् च / तत्रान्यतत्वव्यवस्थापनात् / किम् अत्र स्वभावत्रये तत्वम् इष्यते /
158 SK असच् च नित्यं सच् चाप्य् अतत्वतः सदसत्तत्वतश् चेति स्वभावत्रय इष्यते // III.३
159 SK परिकल्पितलक्षणं नित्यम् असद् इत्य् एतत् परिकल्पितस्वभावे तत्वम् अविपरीतत्वात् [/] परतन्त्रलक्षणं सच् च न च तत्वतो भ्रान्तत्वाद् इत्य् एतत् परतन्त्रस्वभावे तत्वं / परिनिष्पन्नलक्षणं सदसत्तत्वतश् चेत्य् एतत् (/) परिनिष्पन्नस्वभावे तत्वं /
160 SK [२. Lअक्सणतत्त्व] लक्षणतत्वं कतमत् /
161 SK समारोपापवादस्य धर्मपुद्गलयोर् इह / ग्राह्यग्राहकयोश् चापि भावाभावे च दर्शनं // III.४
162 SK यज्ज्ञानान् न प्रवर्तेत तद् धि तत्वस्य लक्षणं /
163 SK पुद्गलधर्मयोः समारोपापवाददर्शनं यस्य ज्ञानान् न प्रवर्तते / तत् परिकल्पितस्वभावे तत्वलक्षणं / ग्राह्यग्राहकयोः समारोपापवाददर्शनं यस्य ज्ञानान् न प्रवर्तते / तत् परतन्त्रस्वभावे तत्वलक्षणं / भावाभावसमारोपापवाददर्शनं यस्य ज्ञानान् न प्रवर्तते / तत् परिनिष्पन्नस्वभावे तत्वलक्षणं / एतन् मूलतत्वे लक्षणम् अविपरीतं लक्षणतत्वम् इत्य् उच्यते /
164 SK [३. Aविपर्यासतत्त्व] अविपर्यासतत्वं नित्यादिविपर्यासप्रतिपक्षेणानित्यदुःखशून्यानात्मता मूलतत्वे यथाक्रमं [/] कथं च तत्रानित्यतादिता वेदितव्या /
165 SK असदर्थो ह्य् अनित्यार्थ उत्पादव्ययलक्षणः // III.५
166 SK समलामलभावेन मूलतत्वे यथाक्रमं /
167 SK त्रयो हि स्वभावा मूलतत्वं [/] तेषु यथाक्रमम्
168 SK असदर्थो ह्य् अनित्यार्थ
169 SK उत्पादव्ययार्थः समलामलतार्थश् च /
170 SK दुःखम् आदानलक्ष्माख्यं संबन्धेनापरं मतं // III.६
171 SK मूलतत्वे यथाक्रमं दुःखम् उपादानतः पुद्गलधर्माभिनिवेशोपादानात् / लक्षणतस् त्रिदुःखतालक्षणत्वात् / संबन्धतश् च दुःखसंबन्धात् [/] तत्रैव मूलतत्वे यथाक्रमं वेदितव्यम् /
172 SK अभावश् चाप्य् अतद्भावः प्रकृतिः शून्यता मता /
173 SK परिकल्पितलक्षणं न केनचित् प्रकारेणास्तीत्य् अभाव एवास्य शून्यता परतन्त्रलक्षणं तथा नास्ति यथा परिकल्प्यते न तु सर्वथा नास्तीति तस्यातद्भावः (/) शून्यता [/] परिनिष्पन्नलक्षणं शून्यतास्वभावम् एवेति प्रकृतिर् एवास्य शून्यता /
174 SK अलक्षणं च नैरात्म्यं तद्विलक्षणम् एव च // III.७
175 SK स्वलक्षणञ् च निर्दिष्टं /
176 SK परिकल्पितस्य स्वभावस्य लक्षणम् एव नास्तीत्य् अलक्षणम् एवास्य नैरात्म्यं [/] परतन्त्रस्यास्ति लक्षणं न तु यथा परिकल्प्यत इति तद्विलक्षणम् अस्य लक्षणन् नैरात्म्यं / परिनिष्पन्नस् तु स्वभावो नैरात्म्यम् एवेति प्रकृतिर् एवास्य नैरात्म्यम् इति त्रिविधे मूलतत्वे त्रिविधानित्यता परिदीपिता असदर्थानित्यता उत्पादभङ्गानित्यता समलनिर्मलानित्यता च / त्रिविधा दुःखता उपादानदुःखता लक्षणदुःखता संबन्धदुःखता (Mव्भ् ४०) च / त्रिविधा शून्यता अभावशून्यता अतद्भावशून्यता स्वभावशून्यता च त्रिविधं नैरात्म्यं अलक्षणनैरात्म्यं / विलक्षणनैरात्म्यं स्वलक्षणनैरात्म्यं च /
177 SK [४. Pहलहेतुतत्त्व] फलहेतुमयन् तत्वं तत्रैव मूलतत्वे दुःखसमुदयनिरोधमार्गसत्यत्वं [/] कथं त्रिविधं मूलतत्वं दुःखादिसत्यत्वं [/] यतस् तद् अनित्यादिलक्षणं /
179 SK त्रिविधेन समुदयार्थेन समुदयसत्यं [/] त्रिविधः समुदयार्थः /
180 SK वासनाथ समुत्थानम् अविसंयोग एव च // III.८
181 SK वासनासमुदयः परिकल्पितस्वभावाभिनिवेशवासना समुत्थानसमुदयः कर्मक्लेशाः / अविसंयोगसमुदयः / तथताया आवरणाविसंयोगः / त्रिविधेन निरोधेन निरोधसत्यं [/] त्रिविधो निरोधः /
182 SK स्वभावद्वयनोत्पत्तिर् मलशान्तिद्वयं मतं /
183 SK स्वभावानुत्पत्तिर् ग्राह्यग्राहकयोर् अनुत्पत्तिर् मलशान्तिद्वयं च प्रतिसंख्यानिरोधतथताख्यम् इत्य् एष त्रिविधो निरोधो यद् उत स्वभावनिरोधो द्वयनिरोधः / प्रकृतिनिरोधश् च / मार्गसत्यं त्रिविधे मूलतत्वे कथं व्यवस्थाप्यते /
184 SK परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृताव् अयं [//] III.९ मार्गसत्यं समाख्यातं /
185 SK परिकल्पितस्य परिज्ञाने परतन्त्रस्य परिज्ञाने प्रहाणे च / परिनिष्पन्नस्य परिज्ञाने प्राप्तिसाक्षात्करणे च एवम् अत्र परिज्ञाप्रहाणसाक्षात्क्रियायां मार्गसत्यव्यवस्थानम् इति वेदितव्यं [/]
186 SK [५. Aउदारिकसूक्ष्मतत्त्व] औदारिकसूक्ष्मतत्वं पुनः संवृतिपरमार्थसत्यं तन् मूलतत्वे कथं वेदितव्यं /
187 SK प्रज्ञप्तिप्रतिपत्तितस् तथोद्भावनयोदारं /
188 SK त्रिविधा हि संवृतिः प्रज्ञप्तिसंवृतिः / प्रतिपत्तिसंवृतिः / उद्भावनासंवृतिश् च / तया संवृतिसत्यत्वं मूलतत्वे यथाक्रमं वेदितव्यं /
189 SK परमार्थन् तु एकतः // III.१०
190 SK परमार्थसत्यं / एकस्मात् परिनिष्पन्नाद् एव स्वभावाद् वेदितव्यं / स पुनः कथं परमार्थः /
191 SK अर्थप्राप्तिप्रपत्त्या हि परमार्थस् त्रिधा मतः /
192 SK अर्थपरमार्थस् तथता परमस्य ज्ञानस्यार्थ इति कृत्वा / प्राप्तिपरमार्थो निर्वाणं परमो ऽर्थ इति कृत्वा प्रतिपत्तिपरमार्थो मार्गः परमो ऽस्यार्थ इति कृत्वा [/] कथम् असंस्कृतं च (/) संस्कृतं च (/) परिनिष्पन्नः (/) स्वभाव उच्यते /
193 SK निर्विकराविपर्यासपरिनिष्पत्तितो द्वयं // III.११
194 SK असंस्कृतम् अविकारपरिनिष्पत्त्या परिनिष्पन्नं / संस्कृतं मार्गसत्यसंगृहीतम् अविपर्यासपरिनिष्पत्त्या पुनर् ज्ञेयवस्तुन्य् (Mव्भ् ४२) अविपर्यासात् /
195 SK [६. Pरसिद्धतत्त्व] प्रसिद्धतत्वं मूलतत्वे कथं व्यवस्थाप्यते / द्विविधं हि प्रसिद्धतत्वं / लोकप्रसिद्धं युक्तिप्रसिद्धं च / तत्र /
196 SK लोकप्रसिद्धम् एकस्मात्
197 SK परिकल्पितस्वभावात् / यस्मिन् वस्तुनि संकेतसंस्तवानुप्रविष्टया बुद्ध्या सर्वेषां लौकिकानां दर्शनतुल्यता भवति / पृथिव्य् एवेयं नाग्नी रूपम् एवेदं न शब्द इत्य् एवमादि /
198 SK त्रयाद् युक्तिप्रसिद्धकं /
199 SK यत् सतां युक्तार्थपण्डितानां तार्किकाणां प्रमाणत्रयं निश्रित्योपपत्तिसाधनयुक्त्या प्रसिद्धं वस्तु /
200 SK [७. Vइशुद्धिगोचरतत्त्व] विशुद्धिगोचरतत्वं द्विविधं क्लेशावरणविशुद्धिज्ञानगोचरं / ज्ञेयावरणविशुद्धिज्ञानगोचरं च / तद् एतत् /
201 SK विशुद्धिगोचरं द्वेधा एकस्माद् एव कीर्तितं // III.१२
202 SK परिनिष्पन्नाद् एव स्वभावान् न ह्य् अन्यस्वभावो विशुद्धिज्ञानद्वयगोचरो भवति /
203 SK [८. Sअंग्रहतत्त्व] कथं त्रिविधे मूलतत्वे संग्रहतत्वं वेदितव्यं /
204 SK निमित्तस्य विकल्पस्य नाम्नश् च द्वयसंग्रहः /
205 SK यथायोगं पञ्च वस्तून्य् आरभ्य निमित्तविकल्पयोः परतन्त्रेण (Mव्भ् ४३) संग्रहः नाम्नः परिकल्पितेन /
206 SK सम्यग्ज्ञानसतत्वस्य एकेनैव च संग्रहः // III.१३
207 SK तथतासम्यग्ज्ञानयोः परिनिष्पन्नेन स्वभावेन संग्रहः /
208 SK [९. Pरभेदतत्त्व] प्रभेदतत्वं मूलतत्वे कथं वेदितव्यं / सप्तविधं प्रभेदतत्वं प्रवृत्तितत्वं / लक्षणतत्वं / विज्ञप्तितत्वं सन्निवेशतत्वं / मिथ्याप्रतिपत्तितत्वं / विशुद्धितत्वं सम्यक्प्रतिपत्तितत्वञ् च / (तत्र प्रवृत्तितत्वादित्रिविधं / अनवराग्रेष्व् एति संसारः तथताचित्तसंक्लेशात् सत्वाः संक्लिश्यन्त इति सर्वं दुःखादिसत्यं च यथासंख्यं) यैव च सन्धिनिर्मोचनसूत्रे सप्तविधा तथता निर्दिष्टा / तत्र /
209 SK प्रवृत्तितत्वं द्विविधं /
210 SK मूलतत्वं वेदितव्यं / परिकल्पितपरतन्त्रलक्षणं / यथा प्रवृत्तितत्वं तथा /
212 SK सन्निवेशमिथ्याप्रतिपत्तितत्वे अपि तथैव द्विविधं मूलतत्वं /
213 SK एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता // III.१४
214 SK लक्षणतत्वादीनि चत्वार्य् एकं मूलतत्वं परिनिष्पन्नलक्षणं /
215 SK [१०. Kऔशल्यतत्त्व] कौशल्यतत्वं दर्शनप्रतिपक्षेणेत्य् उक्तं / कथम् एषु स्कन्धादिषु दशविधम् आत्मदर्शनम् / एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने / आधिपत्यार्थनित्यत्वे क्लेशशुद्ध्याश्रये ऽपि च // III.१५
216 SK एष दशविध आत्मासद्ग्राहः स्कन्धादिषु प्रवर्तते / यस्य प्रतिपक्षेण दशविधं कौशल्यं यद् उतैकत्वग्राहो हेतुत्वग्राहो भोक्तृत्वग्राहः / कर्तृत्वग्राहः / स्वतन्त्रग्राहः इ अधिपतित्वग्राहो नित्यत्वग्राहः / संक्लिष्टव्यवदानत्वग्राहो योगित्वग्राहः / अमुक्तमुक्तत्वग्राहश् च /
217 SK कथम् इदं दशविधं कौशल्यतत्वं मूलतत्वे ऽन्तर्भवति / यतस् त्रिषु स्वभावेषु ते स्कन्धादयो ऽन्तर्भूताः / कथम् अन्तर्भूताः /
218 SK परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते // III.१६
219 SK त्रिविधं रूपं परिकल्पितं रूपं यो रूपस्य परिकल्पितः स्वभावः / विकल्पितं रूपं यो रूपस्य परतन्त्रः (/) स्वभावस् तत्र हि रूपविकल्पः क्रियते / धर्मतारूपं यो रूपस्य परिनिष्पन्नः स्वभावः / यथा रूपम् एवं वेदनादयः स्कन्धाः धात्वायतनादयश् च योज्याः / एवन् त्रिषु स्वभावेषु स्कन्धादीनाम् अन्तर्भावाद् दशविधं कौशल्यतत्वं मूलतत्व एव द्रष्टव्यं / उक्तम् इदं यथा दशविधात्मदर्शनप्रतिपक्षेण स्कन्धादिकौशल्यं [/] स्कन्धाद्यर्थस् तु नोक्तः / स इदानीम् उच्यते/
220 SK [अ. Sकन्धार्थ] अनेकत्वाभिसंक्षेपपरिच्छेदार्थ आदितः /
221 SK आदितस् तावत् स्कन्धास् ते त्रिविधेनार्थेन वेदितव्याः / अनेकत्वार्थेन यत् किञ्चिद् रूपम् अतीतानागतप्रत्युत्पन्नम् इति विस्तरः / अभिसंक्षेपार्थेन तत् सर्वम् ऐकध्यम् अभिसंक्षिप्येति / परिच्छेदार्थेन च रूपादिलक्षणस्य पृथक्त्वव्यवस्थानात् / राश्यर्थो हि स्कन्धार्थ एवं च लोके राश्यर्थो दृष्ट इति /
222 SK [ब्. Dहात्वर्थ] ग्राहकग्राह्यतद्ग्राहबीजार्थश् चापरो मतः // III. १७
223 SK कतमो ऽपरो धातुस् तत्र ग्राहकबीजार्थः चक्षुर्धात्वादयः [/] ग्राह्यबीजार्थो रूपधात्वादयस् [/] तद्ग्राहबीजार्थश् चक्षुर्विज्ञानधात्वादयः /
224 SK [च्. Āयतनार्थ] वेदितार्थपरिच्छेदभोगायद्वारतो ऽपरं /
225 SK किम् अपरं आयतनं / तत्र वेदितोपभोगायद्वारार्थेन षड् आध्यात्मिकान्य् आयतनानि / अर्थपरिच्छेदोपभोगायद्वारार्थेन षड् बाह्यानि /
226 SK [द्. Pरतीत्यसमुत्पादार्थ] प्रतीत्यसमुत्पादार्थः /
227 SK पुनर् हेतुफलायासानारोपानपवादतःII III.१८
228 SK हेतुफलक्रियाणाम् असमारोपानपवादार्थः प्रतीत्यसमुत्पादार्थः / तत्र हेतु स नारोपः संस्कारादीनां विषमहेतुकल्पनात् / (Mव्भ् ४६) हेत्वपवादो निर्हेतुकत्वकल्पनात् फलसमारोपः सात्मकानां संस्कारादीनाम् अविद्यादिप्रत्ययप्रवृत्तिकल्पनात् / फलापवादो न सन्त्य् अविद्यादिप्रत्ययाः संस्कारादय इति कल्पनात् / क्रियासमारोपो ऽविद्यादीनां संस्काराद्युत्पत्तौ व्यापारकल्पनात् क्रियापवादो निःसामर्थ्यकल्पनात् तदभावाद् असमारोपानपवादो वेदितव्यः /
229 SK [ए. Sथानास्थानार्थ] अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः / संप्राप्तिसमुदाचारपारतन्त्र्यार्थतो ऽपरं // III. १९
230 SK स्थानास्थानं सप्तविधपारतन्त्र्यार्थेन वेदितव्यं / तत्रानिष्टे पारतन्त्र्यं दुश्चरितेनानिच्छतो ऽपि दुर्गतिगमनाद् इष्टे पारतन्त्र्यं सुचरितेन सुगतिगमनात् / विशुद्धौ पारतन्त्र्यं पञ्च निवरणान्य् अप्रहाय यावत् सप्तबोध्यङ्गान्य् अभावयित्वा दुःखस्यान्ताकरणात् समोत्पत्तौ पारतन्त्र्यं द्वयोर् अपूर्वाचरमयोस् तथागतयोश् चक्रवर्तिनोश् चैकस्मिन् लोकधाताव् अनुत्पादाद् आधिपत्ये पारतन्त्र्यं स्त्रियाश् चक्रवर्तित्वाद्यकरणात् संप्राप्तौ पारतन्त्र्यं स्त्रियाः प्रत्येकानुत्तरबोध्यनभिसंबोधात् समुदाचारे पारतन्त्र्यं दृष्टिसंपन्नस्य वधाद्युपक्रमासमुदाचारात् पृथग्जनस्य च समुदाचाराद् विस्तरेण बहुधातुकसूत्रानुसाराद् अनुगन्तव्यं /
231 SK [f. Iन्द्रियार्थ] इन्द्रियं पुनर् द्वाविंशतिविधं /
232 SK ग्रहणस्थानसंधानभोगशुद्धिद्वयार्थतः /
233 SK ग्रहणार्थेन यावद् विशुद्धिद्वयार्थेन तेषु तदाधिपत्याद् रूपादिविषयग्रहणे हि चक्षुरादीनां षण्णाम् आधिपत्यं स्थाने जीवितेन्द्रियस्य तदाधिपत्येनामरणात् / कुलसन्धाने स्त्रीपुरुषेन्द्रिययोर् अपत्यप्रसवाधिपत्याद् उपभोगे वेदनेन्द्रियाणां कुशलाकुशलकर्मफलोपभोगात् / लौकिकविशुद्धौ श्रद्धादीनां / लोकोत्तरविशुद्धौ अनाज्ञातमाज्ञास्यामीन्द्रियादीनां /
234 SK [ग्. Aध्वार्थ] फलहेतूपयोगार्थनोपयोगात् तथापरं // III.२०
235 SK किम् अपरम् अध्वत्रयं यथायोगं फलहेतूपयोगार्थेनातीतो ऽध्वा फलहेत्वनुपयोगार्थेनानागतो ऽध्वा हेतूपयोगफलानुपयोगार्थेन प्रत्युत्पन्नो ऽध्वा वेदितव्यः /
236 SK [ह्. Cअतुःसत्यार्थ] वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः / तच्छमप्रतिपक्षार्थयोगाद् अपरम् इष्यते // III.२१
237 SK किम् अपरं सत्यचतुष्टयं / तत्र दुःखसत्यं वेदनासनिमित्तार्थेन यत् किञ्चिद् वेदितम् इदम् अत्र दुःखस्येति कृत्वा वेदनानिमित्तं पुनर् वेदनास्थानीया धर्मा वेदितव्याः / तन्निमित्तप्रतिपत्तितः समुदयसत्यं दुःखसत्यनिमित्तं या प्रतिपत्तिः / तयोः शमार्थेन निरोधसत्यं / प्रतिपक्षार्थेन मार्गसत्यं /
238 SK [इ. Yआनत्रयार्थ] गुणदोषाविकल्पेन ज्ञानेन परतः स्वयं [/] निर्याणाद् अपरं ज्ञेयं /
239 SK यानत्रयं यथायोगं / तत्र निर्वाणसंसारयोर् गुणदोषज्ञानेन परतः (/) श्रुत्वा निर्याणार्थेन श्रावकयानं / तेनैव स्वयम् अश्रुत्वा परतो निर्याणार्थेन प्रत्येकबुद्धयानं / अविकल्पेन ज्ञानेन स्वयं निर्याणार्थेन महायानं वेदितव्यं //
240 SK [ज्. Sअंस्कृतासंस्कृतार्थ] सप्रज्ञप्तिसहेतुकात् / निमित्तात् प्रशमात् सार्थात् पश्चिमं समुदाहृतं // III.२२
241 SK संस्कृतासंस्कृतं तत्र सप्रज्ञप्तिर् नामकायादयः हेतुर् बीजसंगृहीतम् आलयविज्ञानं / निमित्तं प्रतिष्ठादेहभोगसंगृहीतं / प्रवृत्तिविज्ञानसंगृहीताश् च मनौद्ग्रहविकल्पः / एतत् सप्रज्ञप्तिसहेतुकं निमित्तं ससंप्रयोगं संस्कृतं वेदितव्यं / तत्र मनो यन् नित्यं मन्यनाकारं / उद्ग्रहः पञ्चविज्ञानकायाः विकल्पो मनोविज्ञानं (/) तस्य विकल्पकत्वाद् असंस्कृतं पुनः प्रशमश् च निरोधः / प्रशमार्थश् च तथता तत्र प्रशमो निरोधो मार्गश् च यश् च प्रशमो येन चेति कृत्वा प्रशमार्थः तथता प्रशमस्यार्थ इति कृत्वा तथताया मार्गालम्बनत्वात् / मार्गस्य प्रशमत्वन् तेन प्रशमनात् /
242 SK इत्य् एतेनार्थेन स्कन्धादिषु ज्ञानं स्कन्धादिकौशल्यं वेदितव्यं /
243 SK [Tअत्त्वपिण्डार्थ] तत्वस्य पिण्डार्थः / समासतो द्विविधं तत्वं / आदर्शतत्वं / दृश्यतत्वं च तत्रादर्शतत्वं मूलतत्वं तत्र शेषाणां दर्शनात् / (Mव्भ् ४९) दृश्यतत्वं नवविधं निरभिमानदृश्यतत्वं / अविपर्यासदृश्यतत्वं / श्रावकयाननिर्याणदृश्यतत्वं / महायाननिर्याणदृश्यतत्वं / औदारिकेण परिपाचनात् / सूक्ष्मेण च विमोचनात् परवादिनिग्रहदृश्यतत्वं / दृष्टान्तसन्निश्रयेण युक्त्या निग्रहात् / महायानाभिद्योतनदृश्यतत्वं / सर्वाकारज्ञेयप्रवेशदृश्यतत्वं / अवितथतथताभिद्योतनदृश्यतत्वं / आत्मग्राहवस्तुसर्वाभिसन्धिप्रवेशदृश्यतत्वं च // ः //
244 SK मध्यान्तविभागशास्त्रे तत्वपरिच्छेदस् तृतीयः // ः //
245 SK [CHAPTER IV. PRATIPAKṢABHĀVANĀVASTHĀPHALAPARICCHEDA] [१.Pरतिपक्सभावना] प्रतिपक्षभावना बोधिपक्ष्यभावना सेदानीं वक्तव्या /
246 SK [अ. Cअत्वारि स्मृत्युपस्थानानि] तत्र तावद् आदौ /
247 SK दौष्ठुल्यात् तर्षहेतुत्वाद् वस्तुत्वाद् अविमोहतः / चतुःसत्यावताराय स्मृत्युपस्थानभावना // IV.१
248 SK कायेन हि दौष्ठुल्यं प्रभाव्यते / तत्परीक्षया दुःखसत्यम् अवतरति / तस्य सदौष्ठुल्यसंस्कारलक्षणत्वात् / दौष्ठुल्यं हि संस्कारदुःखता / तया सर्वं सास्रवं वस्त्व् आर्या दुःखतः पश्यन्तीति / तृष्णाहेतुर् वेदना तत्परीक्षया समुदयसत्यम् अवतरति / आत्माभिनिवेशवस्तु चित्तं तत्परीक्षया निरोधसत्यम् अवतरत्य् आत्मोच्छेदभयापगमात् / धर्मपरीक्षया सांक्लेशिकवैयवदानिकधर्मासंमोहात् / मार्गसत्यम् अवतरत्य् अतः (/) आदौ चतुःसत्यावताराय स्मृत्युपस्थानभावना व्यवस्थाप्यते /
249 SK [ब्. Cअत्वारि सम्यक्प्रहाणानि] ततः सम्यक्प्रहाणभावना यस्मात् /
250 SK परिज्ञाते विपक्षे च प्रतिपक्षे च सर्वथा / तदपायायवीर्यं हि चतुर्धा संप्रवर्तते // IV.२
251 SK स्मृत्युपस्थानभावनया विपक्षे प्रतिपक्षे च सर्वप्रकारं परिज्ञाते विपक्षापगमाय प्रतिपक्षोपगमाय च वीर्यञ् चतुर्धा संप्रवर्तते / उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणायेति विस्तरः /
252 SK [च्. Cअत्वार ऋद्धिपादाः] कर्मण्यता स्थितेस् तत्र सर्वार्थानां समृद्धये / पञ्चदोषप्रहाणाष्टसंस्कारासेवनान्वया // IV.३
253 SK तस्यां तदपायायवीर्यभावनायां चित्तस्थितेः (/) कर्मण्यता चत्वार ऋद्धिपादाः सर्वार्थसमृद्धिहेतुत्वात् स्थितिर् अत्र चित्तस्थितिः समाधिर् वेदितव्यः / अतः सम्यक्प्रहाणानन्तरम् ऋद्धिपादाः / सा पुनः कर्मण्यता पञ्चदोषप्रहाणायाष्टप्रहाणसंस्कारभावनान्वया वेदितव्या /
254 SK [Pअंच दोसाः] कतमे पञ्च दोषा इत्य् आह /
255 SK कौसीद्यम् अववादस्य संमोषो लय उद्धतः / असंस्कारो ऽथ संस्कारः पञ्च दोषा इमे मताः // IV.४
256 SK तत्र लयौद्धत्यम् एको दोषः क्रियते / अनभिसंस्कारो लयौद्धत्यप्रशमनकाले दोषः / अभिसंस्कारः प्रशान्तौ [/]
257 SK [Aष्ट प्रहाणसंस्काराः] एषां प्रहाणाय कथम् अष्टौ प्रहाणसंस्कारा व्यवस्थाप्यन्ते / चत्वारः कौसीद्यप्रहाणाय च्छन्दव्यायामश्रद्धाप्रस्रब्धयस् ते पुनर् यथाक्रमं वेदितव्याः /
258 SK आश्रयो ऽथाश्रितस् तस्य निमित्तं फलम् एव च /
259 SK आश्रयश् छन्दो व्यायामस्य / आश्रितो व्यायामस् तस्याश्रयस्य च्छन्दस्य निमित्तं श्रद्धा संप्रत्यये (/) सत्य् अभिलाषात् तस्याश्रितस्य व्यायामस्य फलं प्रस्रब्धिर् आरब्धवीर्यस्य समाधिविशेषाधिगमाच् (Mव्भ् ५२) छेषाश् चत्वारः प्रहाणसंस्काराः स्मृतिसंप्रजन्यचेतनोपेक्षाश् चतुर्णां दोषाणां यथासंख्यं प्रतिपक्षास् ते पुनः स्मृत्यादयो वेदितव्या यथाक्रमं /
260 SK आलम्बने ऽसंमोषो लयौद्धत्यानुबुद्ध्यना / तदपायाभिसंस्कारः शान्तौ प्रशठवाहिता // IV.५
261 SK स्मृतिर् आलम्बने ऽसंप्रमोषः संप्रजन्यं स्मृत्यसंप्रमोषे सति लयौद्धत्यानुबोधः / अनुबुध्य तदपगमायाभिसंस्कारश् चेतना / तस्य लयौद्धत्यस्योपशान्तौ सत्यां प्रशठवाहिता चित्तस्योपेक्षा [/]
262 SK [द्. Pअञ्चेन्द्रियाणि] ऋद्धिपादानाम् अनन्तरं पञ्चेन्द्रियाणि श्रद्धादीनि तेषां कथं व्यवस्थानं /
263 SK रोपिते मोक्षभागीये च्छन्दयोगाधिपत्यतः / आलम्बने ऽसंमोषाविसारविचयस्य च // IV.६
264 SK आधिपत्यत इति वर्तते / ऋद्धिपादैः कर्मण्यचित्तस्यारोपिते मोक्षभागीये कुशलमूले च्छन्दाधिपत्यतः प्रयोगाधिपत्यतः / आलम्बनासंप्रमोषाधिपत्यतः / अविसाराधिपत्यतः / प्रविचयाधिपत्यतश् च / यथाक्रमं पञ्च श्रद्धादीनीन्द्रियाणि वेदितव्यानि /
265 SK [ए. Pअञ्च बलानि] तान्य् एव श्रद्धादीनि बलवन्ति बलानीत्य् उच्यन्ते / तेषां पुनर् बलवत्वं
266 SK विपक्षस्य हि संलेखद् /
267 SK यदा तान्य् अश्रद्धादिभिर् विपक्षैर् न व्यवकीर्यन्ते / कस्माच् छ्रद्धादीनां पूर्वोत्तरनिर्देशः / यस्मात्
268 SK पूर्वस्य फलम् उत्तरं /
269 SK श्रद्दधानो हि हेतुफलं वीर्यम् आरभते / आरब्धवीर्यस्य स्मृतिर् उपतिष्ठते / उपस्थितस्मृतेश् चित्तं समाधीयते / समाहितचित्तो यथाभूतं प्रजानाति / अवरोपितमोक्षभागीयस्येन्द्रियाण्य् उक्तान्य् अथ निर्वेधभागीयानि किम् इन्द्रियावस्थायां वेदितव्यान्य् आहोस्विद् बलावस्थायां /
270 SK द्वौ द्वौ निर्वेधभागीयाव् इन्द्रियाणि बलानि च // IV.७
271 SK उष्मगतं मूर्धानश् चेन्द्रियाणि / क्षान्तयो लौकिकाश् चाग्रधर्मा बलानि /
272 SK [f. Sअप्त बोध्यङ्गानि] बलानन्तरं बोध्यङ्गानि तेषां कथं व्यवस्थानं /
273 SK आश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं / चतुर्थम् अनुशंसाङ्गन् निःक्लेशाङ्गं त्रिधा मतं // IV.८
274 SK दर्शनमार्गे बोधाव् अङ्गानि बोध्यङ्गानि / तत्र बोधेर् आश्रयाङ्गं स्मृतिः / स्वभावाङ्गं धर्मविचयः / निर्याणाङ्गं वीर्यं / अनुशन्साङ्गं प्रीतिः / असंक्लेशाङ्गं त्रिधा प्रस्रब्धिसमाध्युपेक्षाः / किमर्थं पुनर् असंक्लेशाङ्गं त्रिधा देशितं
275 SK निदानेनाश्रयेणेह स्वभावेन च देशितं /
276 SK असंक्लेशस्य निदानं प्रस्रब्धिर् दौष्ठुल्यहेतुत्वात् संक्लेशस्य / तस्याश् च तत्प्रतिपक्षत्वाद् आश्रयः समाधिः / स्वभावौपेक्षा [/]
277 SK [ग्. Aष्ट मार्गाङ्गानि] बोध्यङ्गानन्तरं मार्गाङ्गानि तेषां कथं व्यवस्थानं /
278 SK परिच्छेदो ऽथ संप्राप्तिः परसंभावना त्रिधा [//] IV.९ विपक्षप्रतिपक्षश् च मार्गस्याङ्गं तद् अष्टधा /
279 SK भावनामार्गे ऽस्य परिच्छेदाङ्गं सम्यग्दृष्टिर् लौकिकी लोकोत्तरपृष्ठलब्धा यया स्वाधिगमं परिच्छिनत्ति / परसंप्रापणाङ्गं सम्यक्संकल्पः सम्यग्वाक् च / ससमुत्थानया वाचा तत्प्रापणात् / परसंभावनाङ्गं त्रिधा सम्यग्वाक्कर्मान्ताजीवास् तैर् हि यथाक्रमं /
280 SK दृष्टौ शीले ऽथ संलेखे परविज्ञप्तिर् इष्यते // IV.१०
281 SK तस्य सम्यग्वाचा कथासांकथ्यविनिश्चयेन प्रज्ञायां संभावना भवति / सम्यक्कर्मान्तेन शीले ऽकृत्याकरणात् सम्यगाजीवेन संलेखे धर्मेण मात्रया च चीवराद्यन्वेषणात् / विपक्षप्रतिपक्षाङ्गं त्रिधैव सम्यग्व्यायमस्मृतिसमाधयः / एषां हि यथाक्रमं /
282 SK क्लेशोपक्लेशवैभुत्वविपक्षप्रतिपक्षता /
283 SK त्रिविधो हि विपक्षः क्लेशो भावनाहेयः / उपक्लेशो लयौद्धत्यं (Mव्भ् ५५) विभुत्वविपक्षश् च वैशेषिकगुणाभिनिर्हारविबन्धः तत्र प्रथमस्य सम्यग्व्यायामः प्रतिपक्षस् तेन मार्गभावनात् / द्वितीयस्य सम्यक्स्मृतिः शमथादिनिमित्तेषु सूपस्थितस्मृतेः लयौद्धत्याभावात् / तृतीयस्य सम्यक्समाधिः ध्यानसन्निश्रयेणाभिज्ञादिगुणाभिनिर्हारात् /
284 SK [ह्. Pरतिपक्षभावनाप्रभेद] सैषा प्रतिपक्षभावना समासेन त्रिविधा वेदितव्या /
285 SK अनुकूला विपर्यस्ता सानुबन्धा विपर्यया // IV.११
286 SK अविपर्यस्तविपर्यासानानुबन्धा च भावना /
287 SK विपर्यस्तापि अविपर्यासानुकूलाविपर्यस्ता विपर्यासानुबन्धा अविपर्यस्ता विपर्यासनिरनुबन्धा च यथाक्रमं पृथग्जनशैक्षाशैक्षावस्थासु / बोधिसत्वानान् त्व्
288 SK आलम्बनमनस्कारप्राप्तितस् तद्विशिष्टता // IV.१२
289 SK श्रावकप्रत्येकबुद्धानां हि स्वासन्तानिकाः कायादयः आलम्बनम् / बोधिसत्वानां स्वपरसान्तानिकाः श्रावकप्रत्येकबुद्धा अनित्यादिभिर् आकारैः कायादीन् मनसिकुर्वन्ति / बोधिसत्वास् त्व् अनुपलम्भयोगेन / श्रावकप्रत्येकबुद्धाः स्मृत्युपस्थानादीनि भावयन्ति यावद् एव कायादीनां विसंयोगाय / बोधिसत्वा न विसंयोगाय / नाविसंयोगाय / यावद् एवाप्रतिष्ठितनिर्वाणाय / उक्ता प्रतिपक्षभावना /
290 SK [२. Tअत्रावस्था] तत्रावस्था कतमा /
291 SK हेत्ववस्थावताराख्या प्रयोगफलसंज्ञिता / कार्याकार्यविशिष्टा च / उत्तरानुत्तरा च सा // IV.१३ अधिमुक्तौ प्रवेशे च निर्याणे व्याकृताव् अपि / कथिकत्वे ऽभिषेके च संप्राप्ताव् अनुशन्सने // IV.१
292 SK तत्र हेत्ववस्था या गोत्रस्थस्य पुद्गलस्यावतारावस्था उत्पादितबोधिचित्तस्य प्रयोगावस्था चित्तोत्पादाद् ऊर्धम् अप्राप्ते फले / फलावस्था प्राप्ते / सकरणीयावस्था शैक्षस्य / अकरणीयावस्था अशैक्षस्य / विशेषावस्थाभिज्ञादिगुणविशेषसमन्वागतस्य / उत्तरावस्था श्रावकादिभ्यो भूमिप्रविष्टस्य बोधिसत्वस्य / अनुत्तरावस्था बुद्धस्य तत ऊर्धम् अवस्थाभावाद् अधिमुक्त्यवस्था बोधिसत्वानां सर्वस्याम् अधिमुक्तिचर्याभूमौ / प्रवेशावस्था प्रथमायां भूमौ निर्याणावस्था तदुत्तरासु षट्सु भूमिषु / व्याकरणावस्था अष्टम्यां भूमौ कथिकत्वावस्था नवम्याम् अभिषेकावस्था दशम्यां / प्राप्त्यवस्था बुद्धानान् धर्मकायः / अनुशन्सावस्था सांभोगिकः कायः / कृत्यानुष्ठानावस्था निर्माणकायः / सर्वाप्य् एषा बहुविधावस्थाभिसमस्य वेदितव्या /
293 SK धर्मधातौ त्रिधा पुउअः / अशुद्धाशुद्धशुद्धा च विशुद्धा च यथार्हतः // IV.१५
294 SK तत्राशुद्धावस्था हेत्ववस्थाम् उपादाय यावत् प्रयोगाद् अशुद्धशुद्धावस्था (Mव्भ् ५७) शैक्षाणां / विशुद्धावस्था अशैक्षाणां /
295 SK पुद्गलानां व्यवस्थानं यथायोगम् अतो मतम् /
296 SK अतो ऽवस्थाप्रभेदाद् यथायोगं पुद्गलानां व्यवस्थानं (/) वेदितव्यम् अयं गोत्रस्थो ऽयम् अवतीर्ण इत्य् एवमादि / उक्तावस्था [/]
297 SK [३. Pहलप्राप्ति] फलप्राप्तिः कतमा /
298 SK भाजनत्वं विपाकाख्यं बलन् तस्याधिपत्यतः // IV.१६
299 SK रुचिर् वृद्धिर् विशुद्धिश् च फलम् एतद् यथाक्रमं /
300 SK भाजनत्वं यः कुशलानुकूलो विपाकः / बलं या भाजनत्वाधिपत्यात् कुशलस्याधिमात्रता / रुचिर् या पूर्वाभ्यासात् कुशलरुचिः / वृद्धिर् या प्रत्युत्पन्ने कुशलधर्माभ्यासात् कुशलमूलपरिपुष्टिः / विशुद्धिर् यद् आवरणप्रहाणं / एतद् यथाक्रमं फलं पञ्चविधं वेदितव्यम् / विपाकफलम् अधिपतिफलन् निष्यन्दफलं पुरुषकारफलं विसंयोगफलञ् च /
301 SK उत्तरोत्तरम् आद्यञ् च तदभ्यासात् समाप्तितः // IV.१७
302 SK आनुकूल्याद् विपक्षाच् च विसंयोगाद् विशेषतः / उत्तरानुत्तरत्वाच् च फलम् अन्यत् समासतः // IV.१८
303 SK उत्तरोत्तरफलं गोत्राच् चित्तोत्पाद इत्य् एवमादि परंपरया वेदितव्यं / आदिफलं प्रथमतो लोकोत्तरधर्मप्रतिलम्भः / अभ्यासफलं तस्मात् परेण शैक्षावस्थायां / समाप्तिफलम् अशैक्षाधर्माः / आनुकूल्यफलम् उपनिषद्भावेनोत्तरोत्तरफलम् एव वेदितव्यं / विपक्षफलं प्रहाणमार्गो यद् एवादिफलं / प्रतिपक्षो ऽभिप्रेतः / विसंयोगफलं निरोधसाक्षात्क्रिया अभ्यासफलं समाप्तिफलं च क्लेशविसंयोगः (Mव्भ् ५८) शैक्षाशैक्षाणां यथाक्रमं / विशेषफलम् अभिज्ञादिको गुणविशेषः / उत्तरफलं बोधिसत्वभूमयस् तदन्ययानोत्तरत्वाद् अनुत्तरफलं बुद्धभूमिः / एतानि चत्वारि अभ्याससमाप्तिफलप्रभेद एव एतद् अन्यत् फलं समासनिर्देशतो व्यासतस् त्व् अपरिमाणं /
304 SK [Pरतिपक्षभावनापिण्डार्थ] तत्र प्रतिपक्षभावनायाः पिण्डार्थः / व्युत्पत्तिभावना निर्लेखभावना परिकर्मभावना / उत्तरसमारम्भभावना / श्लिष्टभावना दर्शनमार्गश्लेषात् / प्रविष्टभावना उत्कृष्टभावना आदिभावना मध्यभावना पर्यवसानभावना / सोत्तरा भावना निरुत्तरा च भावना यालम्बनमनस्कारप्राप्तिविशिष्टा // अवस्थानां पिण्डार्थः / भव्यतावस्था गोत्रस्थस्य / आरम्भावस्था यावत् प्रयोगात् / असुद्धावस्था अशुद्धशुद्धावस्था विशुद्धावस्था / सालंकारावस्था / व्याप्त्यवस्था दशभूमिव्यापनात् / अनुत्तरावस्था च // फलानां पिण्डार्थः संग्रहतः तद्विशेषतः पूर्वाभ्यासतःन् उत्तरोत्तरनिर्हारतः / उद्देशतो निर्देशतश् च / तत्र संग्रहतः / पञ्च फलानि / तद्विशेषतः शेषाणि / पूर्वाभ्यासतः विपाकफलं / उत्तरोत्तरनिर्हारतस् तदन्यानि चत्वारि / उद्देशतः उत्तरोत्तरफलादीनि चत्वारि निर्देशतः आनुकूल्यफलादिनि षट् / तेषाम् एव (Mव्भ् ५९) चतुर्णां निर्देशात् //
305 SK मध्यान्तविभागे प्रतिपक्षभावनावस्थाफलपरिच्छेदश् चतुर्थः // ः
306 SK [CHAPTER V. YĀNĀNUTTARYAPARICCHEDA] [१. Tरिविधानुत्तर्य] यानानुत्तर्यम् इदानीं वक्तव्यं / तद् उच्यते /
307 SK आनुत्तर्यं प्रपत्तौ हि पुनर् आलम्बने मतं / समुदागम उद्दिष्टं /
308 SK त्रिविधम् आनुत्तर्यं महायाने येनैतद् अनुत्तरं यानं प्रतिपत्त्यानुत्तर्यं / आलम्बनानुत्तर्यं / समुदागमानुत्तर्यञ् च /
309 SK [२. Pरतिपत्त्यानुत्तर्य] तत्र प्रतिपत्त्यानुत्तर्यं दशपारमिताप्रतिपत्तितो वेदितव्यं /
310 SK प्रतिपत्तिस् तु षड्विधा // V.१
312 SK परमाथ मनस्कारे अनुधर्मे ऽन्तवर्जने / विशिष्टा चाविशिष्टा च /
313 SK इत्य् एषा षड्विधा प्रतिपत्तिर् यद् उत परमा प्रतिपत्तिः / मनस्कारप्रतिपत्तिर् अनुधर्मप्रतिपत्तिः / अन्तद्वयवर्जिता प्रतिपत्तिः विशिस्ता प्रतिपत्तिः / अविशिष्टा च प्रतिपत्तिः /
314 SK [अ. Pअरमा प्रतिपत्तिः] तत्र /
315 SK परमा द्वादशात्मिका // V.२
316 SK औदार्यम् आयतत्वं च अधिकारो ऽक्षयात्मता / नैरन्तर्यम् अकृच्छ्रत्वं वित्तत्वं च परिग्रहः // V.३
317 SK आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता /
318 SK इत्य् एषा द्वादशविधा परमा मता / यद् उतौदार्यपरमता आयतत्वपरमता अधिकारपरमता अक्षयत्वपरमता नैरन्तर्यपरमता अकृच्छ्रत्वपरमता / वित्तत्वपरमता परिग्रहपरमता / आरम्भपरमता प्रतिलम्भपरमता निष्यन्दपरमता निष्पत्तिपरमता च / तत्रौदार्यपरमता सर्वलौकिकसंपत्त्यनर्थित्वेनोत्कृष्टतया च वेदितव्या / आयतत्वपरमता त्रिकल्पासंख्येयपरिभावनात् / अधिकारपरमता सर्वसत्वार्थक्रियाधिकारात् / अक्षयत्वपरमता महाबोधिपरिणामनयात्यन्तम् अपर्यादानान् नैरन्तर्यपरमतात्मपरसमताधिमोक्षात् सर्वसत्वदानादिभिः पारमितापरिपूरणाद् अकृच्छ्रत्वपरमतानुमोदनामात्रेण परदानादीनांपरमितापरिपूरणात् / वित्तत्वपरमता / गगनगञ्जसमाध्यादिभिर् दानादिपरिपूरणात् परिग्रहपरमता निर्विकल्पज्ञानपरिगृहीतत्वात् / आरम्भपरमताधिमुक्तिचर्याभूमाव् अधिमात्रायां क्षान्तौ प्रतिलम्भपरमता प्रथमायां भूमौ / निष्यन्दपरमता / तदन्यास्व् अष्टासु भूमिषु / निष्पत्तिपरमता दशम्यां भूमौ तथागत्यां च / बोधिसत्वनिष्पत्त्या बुद्धनिष्पत्त्या च /
319 SK ततश् च परमार्थेन दश पारमिता मताः // V.४
320 SK यत एषा द्वादशविधा परमता एतासु संविद्यते / ततः परमा (Mव्भ् ६२) इत्य् अनेनार्थेन दश पारमिताः / कतमा दशेत्य् एकेषां तन्नामव्युत्पादनार्थम् उच्यते /
321 SK दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता / प्रणिधानं बलं ज्ञानम् एताः पारमिता दशेति // V.५
322 SK किम् आसां प्रत्येकं कर्म /
323 SK अनुग्रहो ऽविघातश् च कर्म तस्य च मर्षणं / गुणवृद्धिश् च सामर्थ्यम् अवतारविमोचने / अक्षयत्वं सदा वृत्तिर् नियतं भोगपाचने // V.६
324 SK इत्य् एतद् आसां कर्म यथाक्रमं / दानेन हि बोधिसत्वः सत्वान् अनुगृह्णाति / शीलेनोपघातं परेषां न करोति / क्षान्त्या परैः कृतम् उपघातं मर्षयति / वीर्येण गुणान् वर्धयति / ध्यानेन र्द्ध्यादिभिर् आवर्ज्यावतारयति / प्रज्ञया सम्यगववाददानाद् विमोचयति / उपायकौशल्यपारमितया महाबोधिपरिणामनाद् दानादीन् अक्षयान् करोति / प्रणिधानपारमितयानुकूलोपपत्तिपरिग्रहात् / सर्वजन्मसु बुद्धोत्पादारागणतो दानादिषु सदा प्रवर्तते बलपारमितया प्रतिसंख्यानभावनाबलाभ्यां नियतं दानादिषु प्रवर्तते / विपक्षानभिभवात् / ज्ञानपारमितया यथारुतधर्मसंमोहापगमाद् दानाद्याधिपतेयधर्मसंभोगञ् च प्रत्यनुभवति / सत्वांश् च परिपाचयति / उक्ता परमा प्रतिपत्तिः /
325 SK [ब्. Mअनसिकारप्रतिपत्ति]
326 SK मनसिकारप्रतिपत्तिः कतमा /
327 SK यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया / बोधिसत्वस्य सततं प्रज्ञया त्रिप्रकारया // V.७
328 SK दानादीन्य् अधिकृत्य यथाप्रज्ञप्तानां सूत्रादिधर्माणां महायाने मनसिकरणम् अभीक्ष्णं श्रुतचिन्ताभावनामय्या प्रज्ञया मनसिकारप्रतिपत्तिः / सा त्रिप्रकारया प्रज्ञया मनसिक्रिया कं गुणंकरोति /
329 SK धातुपुष्ट्यै प्रवेशाय चार्थसिद्ध्यै भवत्य् असौ /
330 SK श्रुतमय्या प्रज्ञया मनसिकुर्वतो धातुपुष्टिर् भवति / चिन्तामय्या तस्य श्रुतस्यार्थं भावेन प्रविशति / भावनामय्यार्थसिद्धिं प्राप्नोति भूमिप्रवेशपरिशोधनात् /
331 SK संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः // V.८
332 SK सा पुनर् मनसिकारप्रतिपत्तिः / दशभिर् धर्मचरितैः परिगृहीता वेदितव्या कतमद् दशधा धर्मचरितं /
333 SK लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः / प्रकाशनाथ स्वाध्यायश् चिन्तना भावना च तत् // V.९
334 SK महायानस्य लेखनं पूजनं परेभ्यो दानं परेण वाच्यमानस्य श्रवणं / स्वयं च वाचनं / उद्ग्रहणं / परेभ्यो देशनं ग्रन्थस्यार्थस्य वा स्वाध्यायनं / चिन्तनं भावनञ् च /
335 SK अमेयपुण्यस्कन्धं हि चरितन् तद् दशात्मकं /
336 SK कस्मान् महायान एव धर्मचरितम् अत्यर्थं महाफलन् देश्यते सूत्रेषु न पुनः श्रावकयाने / द्वाभ्यां कारणाभ्यां /
337 SK विशेषाद् अक्षयत्वाच् च /
338 SK कथं विशेषात् / कथम् अक्षयत्वात् /
339 SK परानुग्रहतो ऽशमात् // V.१०
340 SK परानुग्रहवृत्तित्वाद् विशिष्टत्वं / परिनिर्वाणे ऽप्य् अशमात् / अनुपरमाद् अक्षयत्वं वेदितव्यं / उक्ता मनसिकारप्रतिपत्तिः /
341 SK [च्. Aनुधर्मप्रतिपत्ति] अनुधर्मप्रतिपत्तिः कतमा /
342 SK अविक्षिप्ताविपर्यासप्रणता चानुधार्मिकी /
343 SK इत्य् एषा द्विविधानुधर्मप्रतिपत्तिः / यद् उताविक्षिप्ता चाविपर्यासपरिणता च /
344 SK [Aविक्षेपपरिणता] तत्र षड्विधविक्षेपाभावाद् अविक्षिप्ता / तत्र षड्विधो विक्षेपः / प्रकृतिविक्षेपः / बहिर्धाविक्षेपः / अध्यात्मविक्षेपः निमित्तविक्षेपः दौष्ठुल्यविक्षेपः मनसिकारविक्षेपश् च / स एष किंलक्षणो वेदितव्य इत्य् अत आह /
345 SK व्युत्थानं विषये सारस् तथास्वादलयोद्धतः / V.११
346 SK संभावनाभिसन्धिश् च मनस्कारे ऽप्य् अहंकृतिः / हीनचित्तंच विक्षेपः परिज्ञेयो हि धीमता // V.१२
347 SK इत्य् एवंलक्षणः षड्विधो विक्षेपो यो बोधिसत्वेन परिज्ञेयः / तत्र व्युत्थानं समाधितः पञ्चभिर् विज्ञानकायैः प्रकृतिविक्षेपः विषये विसारो बहिर्धाविक्षेपः / समाधेर् आस्वादना लयौद्धत्यं चाध्यात्मविक्षेपः / संभावनाभिसन्धिः निमित्तविक्षेपः / तन् निमित्तं कृत्वा प्रयोगात् / साहंकारमनस्कारता दौष्ठुल्यविक्षेपः / दौष्ठुल्यवशेनास्मिमानसमुदाचारात् / हीनचित्तत्वं / मनसिकारविक्षेपः हीनयानमनसिकारसमुदाचारात् /
348 SK [Aविपर्यासपरिणता] तत्राविपर्यासो दशविधे वस्तुनि वेदितव्यः / यद् उत /
349 SK व्यञ्जनार्थमनस्कारे ऽविसारे लक्षणद्वये / अशुद्धशुद्धाव् आगन्तुकत्वे ऽत्रासितानुन्नतौ // V.१३
351 SK संयोगात् संस्तवाच् चैव वियोगाद् अप्य् असंस्तवात् / अर्थसत्वम् असत्वञ् च व्यञ्जने सो ऽविपर्ययः /] V.१४
352 SK संयोगे सति व्यञ्जनानाम् अविच्छिन्नोच्चारणतया अस्य चेदं नामेति संस्तवात् सार्थकत्वं विपर्ययान् निरर्थकत्वम् इति / यद् एवन्दर्शनं सो ऽविपर्यासो व्यञ्जने वेदितव्यः / कथम् अर्थे ऽविपर्यासः /
353 SK द्वयेन प्रतिभासत्वं तथा चाविद्यमानता ज् अर्थे स चाविपर्यासः सदसत्वेन वर्जितः // V.१५
354 SK द्वयेन ग्राह्यग्राहकत्वेन प्रतिभासते तदाकरोत्पत्तितः / तथा (Mव्भ् ६६) च न विद्यते / यथा प्रतिभासत इति / अर्थे यद् दर्शनं स तत्राविपर्यासः अर्थस्य सत्वेन वर्जितो ग्राह्यग्राहकाभावाद् असत्वेन वर्जितः / तत्प्रतिभासभ्रान्तिसद्भावात् / तज्जल्पभावितो जल्पमनस्कारस् तदाश्रयः मनस्कारे ऽविपर्यासो द्वयप्रख्यानकारणे // V.१६
355 SK ग्राह्यग्राहकजल्पपरिभावितो जल्पमनस्कारस् तस्य ग्राह्यग्राहकविकल्पस्याश्रयो भवतीत्य् अयं मनस्कारे ऽविपर्यासः / कतमस्मिन् मनस्कारे ग्राह्यग्राहकसंप्रख्यानकारणे स ह्य् असौ जल्पमनस्कारो ऽभिलापसंज्ञापरिभावितत्वात् ग्राह्यग्राहकविकल्पाश्रयो वेदितव्यः /
356 SK मायादिवद् असत्वञ् च सत्वं चार्थस्य तन् मतं [/] सो ऽविसारे ऽविपर्यासो भावाभावाविसारतः // V.१७
357 SK यत् तद् अर्थस्यासत्वं सत्वं चानन्तरम् उक्तं / तन् मायादिवन् मतं यथा माया न हस्त्यादिभावेनास्ति न च नैवास्ति / तद्भ्रान्तिमात्रास्तित्वात् / एवम् अर्थो ऽपि न चास्ति यथा संप्रख्याति ग्राह्यग्राहकत्वेन न च नैवास्ति तद्भ्रान्तिमात्रास्तित्वात् / आदिशब्देन मरीचिस्वप्नोदकचन्द्रादयो दृष्टान्ता यथायोगं वेदितव्या इति यन् मायाद्युपमार्थे दर्शनाद् अविसारं चेतसः पश्यति सो ऽविसारे ऽविपर्यासस् तेन भावाभावयोश् चित्तस्याविसरणात् /
358 SK सर्वस्य नाममात्रत्वं सर्वकल्पाप्रवृत्तये / स्वलक्षणे ऽविपर्यासः /
359 SK सर्वम् इदं नाममात्रं / यद् इदं चक्षूरूपं यावन् मनोधर्मा इति यज् ज्ञानं सर्वविकल्पानां प्रतिपक्षेण अयं स्वलक्षणे ऽविपर्यासः / कतमस्मिन् स्वलक्षणे /
360 SK परमार्थे स्वलक्षणे // V.१८
361 SK संवृत्या तु नेदं नाममात्रम् इति गृह्यते /
362 SK धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते / सामान्यलक्षणं तस्मात् स च तत्राविपर्ययः // V.१९
363 SK न हि धर्मनैरात्म्येन विना कश्चिद् धर्मो विद्यते / तस्माद् धर्मधातुः सर्वधर्माणां सामान्यं लक्षणम् इति / यद् एवंज्ञानम् अयं सामान्यलक्षणे ऽविपर्यासः /
364 SK विपर्यस्तमनस्काराविहानिपरिहाणितः / तदशुद्धिर् विशुद्धिश् च स च तत्राविपर्ययः // V.२०
365 SK विपर्यस्तस्मनस्काराप्रहाणन् तस्य धर्मधातोर् अविशुद्धिस् तत्प्रहाणं विशुद्धिर् इति यद् एवंज्ञानम् अयम् अविशुद्धौ विशुद्धौ चाविपर्यासो यथाक्रमं /
366 SK धर्मधातोर् विशुद्धत्वात् प्रकृत्या व्योमवत् पुनः / द्वयस्यागन्तुकत्वं हि स च तत्राविपर्ययः // V.२१
367 SK धर्मधातोः पुनर् आकाशवत् / प्रकृतिविशुद्धत्वात् / द्वयम् अप्य् एतद् आगन्तुकम् अविशुद्धिरु विशुद्धिश् च पश्चाद् इति / यद् एवंज्ञानम् अयम् आगन्तुकत्वे ऽविपर्यासः /
368 SK संक्लेशश् च विशुद्धिश् च धर्मपुद्गलयोर् न हि / असत्वात् त्रासतामानौ नातः सो ऽत्राविपर्ययः // V.२२
369 SK न हि पुद्गलस्य संक्लेशो न विशुद्धिर् नापि धर्मस्य / यस्मान् न पुद्गलो ऽस्ति न धर्मो यतश् च न कस्यचित् संक्लेशो न व्यवदानं अतो न संक्लेशपक्षे कस्यचिद् धानिः न व्यवदानपक्से कस्यचिद् विशेषः / यतस् त्रासो वा स्याद् उन्नतिर् वेत्य् अयम् अत्रासे ऽनुन्नतौ चाविपर्यासः /
370 SK [Dअश वज्रपदानि] एते च दशाविपर्यासा दशसु वज्रपदेषु यथाक्रमं योजयितव्याः / दश वज्रपदानि / सदसत्ता अविपर्यसः / आश्रयो मायोपमता अविकल्पनता प्रकृतिप्रभास्वरता संक्लेशो व्यवदानं / आकाशोपमता अहीनता अविशिष्टता च / वज्रपदानां शरीरव्यवस्थानं / स्वभावतः / आलम्बनतः / अविकल्पनतः / चोद्यपरिहारतश् च / तत्र स्वभावतः त्रयः स्वभावाः / परिनिष्पन्नपरिकल्पितपरतन्त्राख्या आद्यैस् त्रिभिः पदैर् यथाक्रमं / आलम्बनतः / त एव अविकल्पनतो येन च न विकल्पयति निर्विकल्पेन ज्ञानेन यच् च न विकल्पयति प्रकृतिप्रभास्वरतां / तद् अनेन ज्ञेयज्ञानव्यवस्थानं यथाक्रमं वेदितव्यं / यद् उत त्रिभिः स्वभावैर् अविकल्पनतया च / चोद्यपरिहारतः / शिष्टानि पदानि तत्रेदं चोद्यं / यद्य् एते परिकल्पितपरतन्त्रलक्षणा धर्मा न संविद्यन्ते / कथम् उपलभ्यन्ते / अथ संविद्यन्ते धर्माणां प्रकृतिप्रभास्वरता न (Mव्भ् ६९) युज्यते / तन् मायोपमतया परिहरति / यथा मायाकृतं न विद्यत उपलभ्यते च यदि प्रकृतिप्रभास्वरता धर्माणां तत् कथं पूर्वं संक्लेशः पश्चाद् व्यवदानं / अस्य परिहारः / संक्लेशव्यवदानम् आकाशोपमतया वेदितव्यं / यथाकाशं प्रकृतिपरिशुद्धं संक्लिश्यते / व्यवदायते चेति / यद्य् अप्रमेयबुद्धोत्पादे सत्य् अप्रमेयाणां सत्वानां क्लेशापशमः / तत् कथं न संसारसमुच्छेदो न निर्वाणवृद्धिर् भवति / तस्याहीनाविशिष्टतया परिहारः / अप्रमेयत्वात् सत्वधातोर् व्यवदानपक्षस्य च /
371 SK द्वितीयं शरीरव्यवस्थानम् /
372 SK यत्र या च यतो भ्रान्तिर् अभ्रान्तिर् या च यत्र च / भ्रान्त्यभ्रान्तिफले चैव पर्यन्तश् च तयोर् इति //
373 SK सदसत्ताविपर्यासः आश्रयो माययोपमा / अकल्पना प्रकृत्या च भास्वरत्वं सदैव हि //
374 SK संक्लेशो व्यवदानं चाकाशोपमता तथा / अहीनानधिकत्वञ् च दश वज्रपदानि हि //
375 SK उक्तानुधर्मप्रतिपत्तिः /
376 SK [द्. Aन्तद्वयवर्जने प्रतिपत्तिः] अन्तद्वयवर्जने प्रतिपत्तिः कतमा या रत्नकूटे मध्यमा प्रतिपत्तिर् उपदिष्टा / कस्यान्तस्य वर्जनाद् असौ वेदितव्या /
377 SK पृथक्त्वैकत्वम् अन्तश् च तिर्थ्यश्रावकयोर् अपि / समारोपापवादान्तो द्विधा पुद्गलधर्मयोः // V.२३
378 SK विपक्षप्रतिपक्षान्तः शाश्वतोच्छेदसंज्ञितः / ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा // V.२४
379 SK विकल्पद्वयतान्तश् च स च सप्तविधो मतः / भावाभावे प्रशाम्ये ऽथ शमने त्रास्यन्तद्भये // V.२५ ग्राह्यग्राहे ऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च / अजन्मसमकालत्वे स विकल्पद्वयान्तता // V.२६
380 SK तत्र रूपादिभ्यः / पृथक्त्वम् आत्मन इत्य् अन्तः / एकत्वम् इत्य् अन्तः तत्परिवर्जनार्थं मध्यमा प्रतिपत् / या नात्मप्रत्यवेक्षा / यावन् न मानवप्रत्यवेक्षा आत्मदर्शने हि जीवस् तच् छरीरं / अन्यो जीवो ऽन्यच् छरीरम् इति भवति दर्शनं / नित्यं रूपम् इति तीर्थिकान्तः / अनित्यम् इति श्रावकान्तः / तत्परिवर्जनार्थं मध्यमा प्रतिपद् या रूपादीनां न नित्यप्रत्यवेक्षा नानित्यप्रत्यवेक्षा / आत्मेति पुद्गलसमारोपान्तः नैरात्म्यम् इत्य् अपवादान्तः प्रज्ञप्तिसतो ऽप्य् अपवादात् / तत्परिवर्जनार्थं मध्यमा प्रतिपद् यद् आत्मनैरात्म्ययोर् मध्यं निर्विकल्पं ज्ञानं / भूतं चित्तम् इति धर्मसमारोपान्तः अभूतम् इत्य् अपवादान्तः / तत्परिवर्जनार्थं मध्यमा प्रतिपद् यत्र न चित्तं न चेतना न मनो न विज्ञानं / अकुशलादयो धर्माः संक्लेश इति विपक्षान्तः / कुशलादयो व्यवदानम् इति प्रतिपक्षान्तस् तत्परिवर्जनार्थं मध्यमा प्रतिपद् यो ऽस्यान्तद्वयस्यानुपगमो ऽनुदाहारो ऽप्रव्याहारः / अस्तीति शाश्वतान्तस् तयोर् एव पुद्गलधर्मयोर् नास्तीत्य् उच्छेदान्तस् तत्परिवर्जनार्थं मध्यमा प्रतिपद् यद् अनयोर् द्वयोर् अन्तयोर् मध्यं / अविद्या ग्राह्या ग्राहका चेत्य् अन्तः / एवं विद्या संस्कारा असंस्कृतं च तत्प्रतिपक्षः / यावज् जरामरणं ग्राह्यं ग्राहकं चेत्य् अन्तस् तन्निरोधो ग्राह्यो ग्राहको वेत्य् अन्तो येन मार्गेण तन् निरुध्यते / एवं ग्राह्यग्राहकान्तो (Mव्भ् ७१) द्विधा कृष्णशुक्लपक्षभेदेन तत्परिवर्जनार्थं मध्यमा प्रतिपद् विद्या चाविद्या चाद्वयम् एतद् इति विस्तरेण विद्याविद्यादीनां ग्राह्यग्राहकत्वाभावात् /
381 SK त्रिविधः संक्लेशः / क्लेशसंक्लेशः / कर्मसंक्लेशः / जन्मसंक्लेशश् च / तत्र क्लेशसंक्लेशस् त्रिविधः / दृष्टिः रागद्वेषमोहनिमित्तं पुनर्भवप्रणिधानं च / यस्य प्रतिपक्षो ज्ञानशून्यता ज्ञानानिमित्तं ज्ञानाप्रणिहितं च / कर्मसंक्लेशः / शुभाशुभकर्माभिसंस्कारः यस्य प्रतिपक्षो ज्ञानानभिसंस्कारः / जन्मसंक्लेशः / पुनर्भवजातिः जातस्य चित्तचैत्तानां प्रतिक्षणोत्पादः / पुनर्भवप्रबन्धश् च यस्य प्रतिपक्षो ज्ञानाजातिः ज्ञानानुत्पादो ज्ञानास्वभावता च / एतस्य त्रिविधस्य संक्लेशस्यापगमो व्यवदानं / तत्र ज्ञानशून्यतादिभिः / ज्ञेयशून्यतादयो धर्मा एतेन त्रिविधेन संक्लेशेन यथायोगं यावन् न शून्यतादयः क्रियन्ते / प्रकृत्यैव शून्यतादयो धर्मधातोः प्रकृत्यसंक्लिष्टत्वात् तेन यदि धर्मधातुः संक्लिश्यते वा विशुध्यते वेति कल्पयत्य् अयम् अन्तः / प्रकृत्यसंक्लिष्टस्य संक्लेशविशुद्ध्यभावाद् एतस्यान्तस्य परिवर्जनार्थं / मध्यमा प्रतिपत् / यन् न शून्यतया धर्माञ् छून्यां करोति / अपि तु धर्मा एव शून्या इत्य् एवमादि /
382 SK अपरः सप्तविधो विकल्पद्वयान्तस् तद् यथा भावे ऽपि विकल्पो ऽन्तः/ अभावे ऽपि पुद्गलो ऽस्ति यस्य विनाशाय शून्यता (Mव्भ् ७२) नैरात्म्यम् अपि वा नास्तीति कल्पनात् / तद् एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थम् इयं मध्यमा प्रतिपत् / न खलु पुद्गलविनाशाय शून्यता अपि तु शून्यतैव शून्या पूर्वान्तशून्यता / अपरान्तशून्यता इत्य् एवमादिविस्तरः /
383 SK शाम्ये ऽपि विकल्पो ऽन्तः / शमने ऽपि विकल्पो ऽनतः प्रहेयप्रहाणकल्पनया शून्यतायास् त्रसनाद् एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थम् आकाशदृष्टान्तः /
384 SK त्रास्ये ऽपि विकल्पो ऽन्तस् ततश् च त्रास्याद् भये ऽपि परिकल्पितरूपादित्रसनात् (/) दुःखभीरुतया एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं चित्रकरदृष्टान्तः / पूर्वको दृष्टान्तः श्रावकान् आरभ्यायं तु बोधिसत्वान् /
385 SK ग्राह्ये ऽपि विकल्पो ऽन्तः ग्राहके ऽपि एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं मायाकारदृष्टान्तः / विज्ञप्तिमात्रज्ञानकृतं ह्य् अर्थाभावज्ञानं / तच् चार्थाभावज्ञानं / तद् एव विज्ञप्तिमात्रज्ञानं निवर्तयति / अर्थाभावे विज्ञप्त्यसंभवाद् इत्य् एतद् अत्र साधर्म्यं /
386 SK सम्यक्त्वे ऽपि विकल्पो ऽन्तः मिथ्यात्वे ऽपि भूतप्रत्यवेक्षां सम्यक्त्वेन कल्पयतो मिथ्यात्वेन वा एतस्यान्तद्वयस्य परिवर्जनार्थं / काष्ठद्वयाग्निदृष्टान्तः / यथाकाष्ठद्वयाद् (Mव्भ् ७३) अनग्निलक्षणाद् अग्निर् जायते / जातश् च तद् एव काष्ठद्वयं दहत्य् एवम् असम्यक्त्वलक्षणाया यथाभूतप्रत्यवेक्षायाः सम्यक्त्वलक्षणम् आर्यं प्रज्ञेन्द्रियं जायते जातं च ताम् एव भूतप्रत्यवेक्षां विभावयतीत्य् एतद् अत्र साधर्म्यं न चासम्यक्त्वलक्षणापि भूतप्रत्यवेक्षा मिथ्यात्वलक्षणा सम्यक्त्वानुकूल्यात् /
387 SK व्यापृताव् अपि विकल्पो ऽन्तः / अव्यापृताव् अपि ज्ञानस्य बुद्धिपूर्वां क्रियां निःसामर्थ्यं वा कल्पयतः / एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं / तैलप्रद्योतदृष्टान्तः /
388 SK अजन्मत्वे ऽपि विकल्पो ऽन्तः समकालत्वे ऽपि यदि प्रतिपक्षस्यानुत्पत्तिं वा कल्पयति संक्लेशस्यैव वा दीर्घकालत्वम् एतस्य विकल्पद्वयान्तस्य परिवर्जनार्थं द्वितीयस् तैलप्रद्योतदृष्टान्तः /
389 SK उक्तान्तद्वयपरिवर्जने प्रतिपत्तिः /
390 SK [ए. Vइशिस्टा चाविशिष्टा च प्रतिपत्तिः] विशिष्टा चाविशिष्टा च प्रतिपत्तिः / कतमा /
391 SK विशिष्टा चाविशिष्टा च ज्ञेया दशसु भूमिषु /
392 SK यस्यां भूमौ या पारमितातिरिक्ततरा सा तत्र विशिष्टा सर्वासु च सर्वत्र समुदागच्छतीत्य् अविशिष्टा /
393 SK उक्तं प्रतिपत्त्यानुत्तर्यं /
394 SK [३. Āलम्बनानुत्तर्य] आलम्बनानुत्तर्यं / कतमत् /
395 SK व्यवस्थानं तथा धातुः साध्यसाधनधारणा // V.२७
396 SK अवधारप्रधारा च प्रतिवेधः प्रतानता / प्रगमः प्रशठत्वं च प्रकर्षालम्बनं मतं // V.२८
397 SK इत्य् एतत् / द्वादशविधम् आलम्बनं / यद् उत धर्मप्रज्ञप्तिव्यवस्थानालम्बनं धर्मधात्वालम्बनं साध्यालम्बनं साधनालम्बनं / धारणालम्बनं अवधारणालम्बनं / प्रधारणालम्बनं / प्रतिवेधालम्बनं / प्रतानतालम्बनं / प्रगमालम्बनं / प्रशठत्वालम्बनं प्रकर्षालम्बनं च / तत्र प्रथमं ये पारमितादयो धर्मा व्यवस्थाप्यन्ते / द्वितीयन् तथता तृतीयचतुर्थे ते एव यथाक्रमं धर्मधातुप्रतिवेधेन पारमितादिधर्माधिगमात् / पञ्चमं श्रुतमयज्ञानालम्बनं / षष्ठं / चिन्तामयस्यावगम्य धारणात् / सप्तमं भावनामयस्य प्रत्यात्मं धारणात् / अष्टमं प्रथमायां भूमौ दर्शनमार्गस्य / नवमं भावनामार्गस्य यावत् सप्तम्यां भूमौ / दशमं तत्रैव लौकिकलोकोत्तरस्य मार्गस्य / प्रकारशो धर्माधिगमात् / एकादशम् अष्टम्यां भूमौ द्वादशं नवम्यादिभूमित्रये तद् एव हि प्रथमद्वयं / तस्यान् तस्याम् अवस्थायां तत्तदालम्बनं नाम लभते /
399 SK [४. Sअमुदागमानुत्तर्य] समुदागमः कतमः /
400 SK अवैकल्याप्रतिक्षेपो ऽविक्षेपश् च प्रपूरणा / समुत्पादो निरूढिश् च कर्मण्यत्वाप्रतिष्ठिता / निरावरणता तस्याप्रस्रब्धिसमुदागमः // V.२९
401 SK इत्य् एष दशविधः समुदागमः / तत्र प्रत्ययावैकल्यं / गोत्रसमुदागमः / (Mव्भ् ७५) महायानाप्रतिक्षेपो ऽधिमुक्तिसमुदागमः / हीनयानाविक्षेपश् चित्तोत्पादसमुदागमः / पारमितापरिपूरणा प्रतिपत्तिसमुदागमः / आर्यमार्गोत्पादो नियामावक्रान्तिसमुदागमः / कुशलमूलनिरूढिः दीर्घकालपरिचयात् सत्वपरिपाकसमुदागमः [/] चित्तकर्मण्यत्वं क्षेत्रपरिशुद्धिसमुदागमः / संसारनिर्वाणाप्रतिष्ठता अविनिवर्तनीयभूमिव्याकरणलाभसमुदागमः संसारनिर्वाणाभ्याम् अविनिवर्तनात् / निरावरणता बुद्धभूमिसमुदागमः / तदप्रस्रब्धिर् बोधिसंदर्शनसमुदागमः [//]
402 SK [Śआस्त्रनामव्याख्यान] इत्य् एतच्
403 SK छास्त्रं मध्यविभागं हि
404 SK मध्यमाप्रतिपत्प्रकाशनात् मध्यान्तविभागम् अप्य् एतन् मध्यस्यान्तयोश् च प्रकाशनात् / आद्यपरवर्जितस्य मध्यस्य वा /
406 SK तर्कस्यागोचरत्वात् परवादिभिर् अभेद्यत्वाच् च यथाक्रमं /
411 SK सर्वानर्थप्रणोदनं // V.३०
412 SK क्लेशज्ञेयावरणप्रहाणावाहनात् /
413 SK [Yआनानुत्तर्यपिण्डार्थ] आनुत्तर्यस्य पिण्डार्थः / समासतस् त्रिविधम् आनुत्तर्यं प्रतिपत्तिः (/) प्रतिपत्त्याधारः प्रतिपत्तिफलं चैव / सा च प्रतिपत्तिर् यादृशी परमा / येन च
414 SK यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया (V. ७अब्)
415 SK इत्य् एवमादिना / यथा येन प्रकारेणाविक्षेपपरिणता च शमथभावनया अविपर्यासपरिणता च विपश्यनाभावनया/ यदर्थं च मध्यमया प्रतिपदा निर्याणार्थं / यत्र च
416 SK दशसु भूमिषु (V. २७ब्) /
417 SK विशिष्टा चाविशिष्टा च (V. २७अ) /
418 SK अविपर्यासानां पिण्डार्थः / व्यञ्जनाविपर्यासेन शमथनिमित्तं प्रतिविध्यति / अर्थाविपर्यासेन विपश्यनानिमित्तं प्रतिविध्यति / मनस्काराविपर्यासेन विपर्यासनिदानं परिवर्जयति / अविसाराविपर्यासेन तन्निमित्तं सुगृहीतं करोति / स्वलक्षणाविपर्यासेन तत्प्रतिपक्षेणाविकल्पं मार्गं भावयति / सामान्यलक्षणाविपर्यासेन व्यवदानप्रकृतिं प्रतिविध्यति / अशुद्धिशुद्धिमनस्काराविपर्यासेन तदावरणप्रहीणाप्रहीणतां प्रजानाति / तदागन्तुकत्वाविपर्यासेन संक्लेशव्यवदानं यथाभूतं प्रजानाति / अत्रासानुन्नत्यविपर्यासेन निरावरणे निर्याति /
419 SK आनुत्तर्यपरिच्छेदः पञ्चमः //
420 SK // समाप्तो मध्यान्तविभागः //
421 SK // व्याख्याम् इमाम् उपनिबध्य यद् अस्ति पुण्यं पुण्योदयाय महतो जगतस् तद् अस्तु / ज्ञानोदयाय च यतो ऽभ्युदयं महान्तं बोधित्रयं च न चिराज् जगद् अश्नुवीत //
423 SK मध्यान्तविभागकारिकाभाष्यं समाप्तम् //
424 SK // कृतिर् आचार्यभदन्तवसुबन्धोः /
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vasubandhu: Madhyāntavibhāgakārikābhāṣya a commentary on the Madhyāntavibhāgakārikās attributed to Maitreyanātha (sa_vasubandhu-madhyAntavibhAgakArikAbhASya.htm).
Source