3 SK केनचित् सुगतिप्राप्तुकामेन हेया दशाकुशलकर्मपथाः प्रकृतिसावद्याः, तद्यथा-
1 SK ᳚त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम् / मानसं त्रिप्रकारं च दशैते ऽकुशला मताः
5 SK एते प्रविभागशः व्याख्यायन्ते- तत्र तावत् कायिकम्-प्राणातिपातः, अदत्तादानम्, काममिथ्याचारश्चेति / वाचिकम्- मृषावादः, पैशुन्यम्, पारुष्यम्, संभिन्नप्रलापश्च / मानसञ्च- अभिध्या, व्यापादो, मिथ्यादृष्टिश्च / तत्र प्राणातिपातस्तु प्राणिभावः, प्राणिसंज्ञाभावः, वधकचित्तोपस्थितिः, एतदुपायकरणम्, प्राणावरोधभावश्चेति एतत्पञ्चाङ्गैः संयुक्तो भवति प्राणातिपातः /
6 SK तत्र कतमत् अदत्तादानम्? परभावः, परपरिग्रहसंज्ञत्वम् च, स्तेयचित्तोपस्थितिः, तदुपायकरणम्, स्थानच्युतिश्च एतत्पञ्चाङ्गसंयुक्तं भवत्यदत्तादानम् /
7 SK काममिथ्याचारस्तु चतुर्विधः / अस्थानम्, अकालः, अदेशः, अगम्यश्चेति / तत्र अस्थानं तु सद्धर्म-प्रतिमादि-बोधिसत्त्वस्थानाचार्योपाध्यायदक्षिणीय- माता-पितृ-गुर्वादिसंनिधिः / अकाल इति दिवसे ऋतुमती-गर्भिणी-शिशुपोषिणीभिः अनिच्छादुःखदौर्मनस्यपीडिताभिः, अष्टाङ्गोपोसथावस्थितौ च / अदेश इति मुखवर्चोमार्गत्वं, कुमारकन्ययोः पुरःपृष्ठरन्ध्रत्वं स्वगस्तत्वं च / अगम्यास्तु सर्वाः परस्त्रियः धर्म-ध्वज-कुल-रक्षिताः, राजरक्षिताः, परपरिगृहीता वेश्याः, सम्बन्धिन्यः, तिरश्च्यश्च / एवं स्वभार्यासेवने ऽपि भवति काममिथ्याचारः /
8 SK तत्र मृषावादस्तु अवास्तविकत्वम्, वस्तुस्थितिच्युतिः, मिथ्यासंज्ञाभावः, मिथ्योपायोपस्थितिश्च, तदुपायकरणन्चेति मिथ्यावचनोक्तिश्च इत्येतत् पञ्चाङ्गसंयोगे मृषावादः /
9 SK पैशुन्यं तु क्लिष्टचित्तेन परभेदकथनम् / पारुष्यमिति परमर्मवेधि द्वेषवचनम् / सम्भिन्नप्रलाप इति-रागोपयुक्तत्वाद् आसक्तियोगाद् वा अवाच्यवचनम् / अभिध्येति परधन-द्रव्यैश्वर्येषु तीव्रासक्तचित्तता / व्यापादस्तु सत्त्वेषु विद्वेषभावः, एतान् सत्त्वान् हनिष्यामि रोत्स्यामि, ताडयिष्यामि, बन्धयिष्यामि इति चिन्तनम् /
10 SK मिथ्यादृष्टिरिति नास्ति दानम्, न यज्ञं, नेहलोकः, न परलोकः, न श्रमणः, न ब्राह्मणः, न देवः, न बुद्धो भगवान्, न अर्हन्, न प्रत्येकबुद्धः, न सुचरितम् न च दुश्चरितम्, न सुकृत-दुष्कृत-कर्माणां फलविपाकश्चेति /
11 SK भगवता उक्ते ऽआर्यसद्धर्मस्मृत्युपस्थानेऽ महायानसूत्रे च निर्दिष्टो दशाकुशलकर्मपथो ऽयं तु महानरकहेतुः / दशाकुशलकर्मपथसेवनेन पतन्ति सत्त्वा नरकेषु /
12 SK महाचार्यदीपङ्करश्रीज्ञानपादेन प्रणीता दशाकुशलकर्मपथदेशना समाप्ता /
13 SK तेनैव भारतीयोपाध्यायेन महासंशोधकलोकक्षुषा भिक्षु-जयशीलेन चानूदितः सम्पादितश्च //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dīpaṃkaraśrījñāna [= Atīśa]: Daśākuśalakarmapathadeśanā (sa_dIpaMkarazrIjJAna-dazAkuzalakarmapathadezanA.htm).
Source