एवं मया श्रुतम् / एकस्मिन् समये भगवान् परनिर्मितवशवर्तिषु देवभुवनेषु विहरति स्म अचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे प्रभास्वरे प्रासादे महता बोधिसत्त्वगणेन सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैः / यदुत अनुत्तरायां सम्यक्संबोधावन्योन्यलोकधातुसंनिपतितैः / सर्वैः सर्वबोधिसत्त्वज्ञानविषयगोचरप्रतिलब्धविहारिभिः सर्वतथागतज्ञानविषयप्रवेशावताराप्रतिप्रस्रब्धगोचरैः सर्वजगत्परिपाचनविनययथाकालक्षणाधिष्ठानसर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराप्रतिप्रस्रब्धगोचरैः कल्पार्थक्षेत्रचर्यासंवासिभिः सर्वबोधिसत्त्वपुण्यज्ञानर्द्धिसंभारसुपरिपूर्णाक्षयसर्वजगदुपजीव्यताप्रतिपन्नैः सर्वबोधिसत्त्वप्रज्ञोपायपरमपारमिताप्राप्तैः संसारनिर्वाणमुखसंदर्शनकुशलैः बोधिसत्त्वचर्योपादानाव्यवच्छिन्नैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्यभिज्ञाज्ञानविक्रीडिताभिज्ञासर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वर्द्धिबलवशिताप्राप्तानभिसंस्कारचित्तक्षणसर्वतथागतपर्षन्मण्डलोपसंक्रमणपूर्वंगमकथापुरुषैः सर्वतथागतधर्मचक्रसंधारणविपुलबुद्धपूजोपस्थानाभ्युत्थितैः सर्वबोधिसत्त्वकर्मसमादानसमताप्रयोगसर्वलोकधातुकायप्रतिभासप्राप्तैः सर्वधर्मधात्वसङ्गस्वररुतघोषानुरवितसर्वत्र्यध्वासङ्गचित्तज्ञानविषयस्फरणैः सर्वबोधिसत्त्वगुणप्रतिपत्तिसुपरिपूर्णानभिलाप्यकल्पाधिष्ठानसंप्रकाशनापरिक्षीणगुणवर्णनिर्देशकैः / यदिदम्वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन / रत्नगर्भेण च / पद्मगर्भेण च / श्रीगर्भेण च / पद्मश्रीगर्भेण च / आदित्यगर्भेण च / सूर्यगर्भेण च / क्षितिगर्भेण च / शशिविमलगर्भेण च / सर्वव्यूहालंकारप्रतिभाससंदर्शनगर्भेण च / ज्ञानवैरोचनगर्भेण च / रुचिरश्रीगर्भेण च / चन्दनश्रीगर्भेण च / पुष्पश्रीगर्भेण च / कुसुमश्रीगर्भेण च / उत्पलश्रीगर्भेण च / देवश्रीगर्भेण च / पुण्यश्रीगर्भेण च / अनावरणज्ञानविशुद्धिगर्भेण च / गुणश्रीगर्भेण च / नारायणश्रीगर्भेण च / अमलगर्भेण च / विमलगर्भेण च / विचित्रप्रतिभानालंकारगर्भेण च / महारश्मिजालावभासगर्भेण च / विमलप्रभासश्रीतेजोराजगर्भेण च / सर्वलक्षणप्रतिमण्डितविशुद्धिश्रीगर्भेण च / वज्रार्चिःश्रीवत्सालंकारगर्भेण च / ज्योतिर्ज्वलनार्चिःश्रीगर्भेण च / नक्षत्रराजप्रभावभासगर्भेण च / गगनकोशानावरणज्ञानगर्भेण च / अनावरणस्वरमण्डलमधुरनिर्घोषगर्भेण च / धारणीमुखसर्वजगत्प्रणिधिसंधारणगर्भेण च / सागरव्यूहगर्भेण च / (Dभ् २) मेरुश्रीगर्भेण च / सर्वगुणविशुद्धिगर्भेण च / तथागतश्रीगर्भेण च / बुद्धश्रीगर्भेण च / विमुक्तिचन्द्रेण च बोधिसत्त्वेन महासत्त्वेन / एवंप्रमुखैर् अपरिमाणाप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यानन्तापर्यन्तासीमाप्राप्तानभिलाप्यानभिलाप्यैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं नानाबुद्धक्षेत्रसंनिपतितैर्वज्रगर्भबोधिसत्त्वपूर्वंगमैः //
अथ खलु ते बुद्धा भगवन्तो वज्रगर्भस्य बोधिसत्त्वस्य अनभिभूतात्मभावतां चोपसंहरन्ति स्म / असङ्गप्रतिभाननिर्देशतां च सुविशोभितज्ञानविभक्तिप्रवेशतां च स्मृत्यसंप्रभोषाधिष्ठानतां च सुविनिश्चितमतिकौशल्यतां च सर्वत्रानुगतबुद्ध्यनुत्सर्गतां च सम्यक्संबुद्धबलानवमृद्यतां च तथागतवैशारद्यानवलीनतां च सर्वज्ञज्ञानप्रतिसंविद्विभागधर्मनयनिस्तीरणतां च सर्वतथागतसुविभक्तकायवाक्चित्तालंकाराभिनिर्हारतां चोपसंहरन्ति स्म / तत्कस्माद्धेतोः? यथापि नाम अस्यैव समाधेर्धर्मताप्रतिलम्भेन पूर्वं प्रणिधानाभिर्हारेण च सुपरिशोधिताध्याशयतया च स्ववदातज्ञानमण्डलतया च सुसंभृतसंभारतया च सुकृतपरिकर्मतया (Dभ् ३) च अप्रमाणस्मृतिभाजनतया च प्रभास्वराधिमुक्तिविशोधनतया च सुप्रतिविद्वधारणीमुखासंभेदनतया च धर्मधातुज्ञानमुद्रासुमुद्रिततया च //
SK
अथ खलु ते बुद्धा भगवन्तस्तत्रस्था एव ऋद्ध्यनुभावेन दक्षिणान् पाणीन् प्रसार्य वज्रगर्भस्य बोधिसत्त्वस्य शीर्षं संप्रमार्जयन्ति स्म / समनन्तरस्पृष्टश्च वज्रगर्भो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिः, अथ तावदेव समाधेस्तस्माद् व्युत्थाय तान् बोधिसत्त्वानामन्त्रयते स्म - सुविनिश्चितमिदं भवन्तो जिनपुत्रा बोधिसत्त्वप्रणिधानमसंभिन्नमनवलोक्यं धर्मधातुविपुलं आकाशधातुपर्यवसानमपरान्तकोटिनिष्ठं सर्वसत्त्वधातुपरित्राणम् / यत्र हि नाम भवन्तो जिनपुत्रा बोधिसत्त्वा अतीतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, अनागतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति प्रत्युत्पन्नानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्रा दश बोधिसत्त्वभूमयो बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्राश्च दश बोधिसत्त्वभूमयो ऽतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, याः संधाय अहं एवं वदामि / कतमा दश? यदुत प्रमुदिता च नाम बोधिसत्त्वभूमिः / विमला च नाम / प्रभाकरी च नाम / अर्चिष्मती च नाम / सुदुर्जया च नाम / अभिमुखी च नाम / दूरंगमा च नाम / अचला च नाम / साधुमती च नाम / धर्ममेघा च नाम बोधिसत्त्वभूमिः / इमा भवन्तो जिनपुत्रा दश बोधिसत्त्वानां बोधिसत्त्वभूमयः, या अतीतानागतप्रत्युत्पन्नईर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च / नाहं भवन्तो जिनपुत्रास्तं बुद्धक्षेत्रप्रसरं समनुपश्यामि, यत्र तथागता इमा दश बोधिसत्त्वभूमीर्न प्रकाशयन्ति / तत्कस्य हेतोः? सामुत्कर्षिको ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वानां महासत्त्वानां बोधि(सत्त्व)मार्गपरिशोधनधर्ममुखालोको यदिदं दशभूमिप्रभेदव्यवस्थानम् / अचिन्त्यमिदं भवन्तो जिनपुत्राः स्थानं यदिदं भूमिज्ञानमिति //
तानि च महाप्रणिधानानि दशभिर्निष्ठापदैरभिनिर्हरति / कतमैर्दशभिः? यदुत सत्त्वधातुनिष्ठया च लोकधातुनिष्ठया च आकाशधातुनिष्ठया च धर्मधातुनिष्ठया च निर्वाणधातुनिष्ठया च बुद्धोत्पादधातुनिष्ठया च तथागतज्ञानधातुनिष्ठया च चित्तालम्बनधातुनिष्ठया च बुद्धविषयज्ञानप्रवेशधातुनिष्ठयाः च लोकवर्तनीधर्मवर्तनीज्ञानवर्तनीधातुनिष्ठया च / इति हि या निष्ठा सत्त्वधातुनिष्ठायाः, सा मे निष्ठा एषां महाप्रणिधानानां भवतु / या निष्ठा यावज्ज्ञानवर्तनीधातुनिष्ठायाः, सा मे निष्ठा एषां महाप्रणिधानानां भवतु / इति ह्यनिष्ठा सत्त्वधातुनिष्ठा / अनिष्ठानीमानि मे कुशलमूलानि भवन्तु / अनिष्ठा यावज्ज्ञानवर्तनीधातुनिष्ठा / अनिष्ठानीमानि मे कुशलमूलानि भवन्त्विति //
SK
स एवं स्वभिनिर्हृतप्रणिधानः कर्मण्यचित्तो मृदुचित्तो ऽसंहार्यश्रद्धो भवति / सो ऽभिश्रद्दधाति तथागतानामर्हतां सम्यक्संबुद्धानां पूर्वान्तचर्याभिनिर्हारप्रवेशं पारमितासमुदागमं भूमिपरिनिष्पत्तिं वैशेषिकतां बलपरिनिष्पत्तिं वैशारद्यपरिपूरिमावेणिकबुद्धधर्मासंहार्यतामचिन्त्यां बुद्धधर्मतामनन्तमध्यं तथागतविषयाभिनिर्हारमपरिमाणज्ञानानुगतं तथागतगोचरानुप्रवेशं फलपरिनिष्पत्तिमभिश्रद्दधाति / समासतः सर्वबोधिसत्त्वचर्यां यावत्तथागतभूमिज्ञाननिर्देशाधिष्ठानमभिश्रद्दधाति //
SK
तस्यैवं भवति - एवं गम्भीराः खलु पुनरिमे बुद्धधर्माः एवं विविक्ताः एवं शान्ताः एवं शून्याः एवमानिमित्ताः एवमप्रणिहिताः एवं निरुपलेपाः एवं विपुलाः एवमपरिमाणाः एवमुदाराः एवं दुरासदाश्चेमे बुद्धधर्माः / अथ च पुनरिमे बालपृथग्जनाः कुदृष्टिपतितया संतत्या अविद्यान्धकारपर्यवनद्धमानसेन मानध्वजसमुच्छ्रितैः संकल्पैस्तृष्णाजालाभिलषितैर्मनसिकारैर्मायाशाठ्यगहनानुचरितैश्चित्ताशयैरीर्ष्यामात्सर्यसंप्रयुक्तैर्गत्युपपत्तिप्रयोगै रागद्वेषमोहपरिचितैः कर्मोपचयैः क्रोधोपनाहसंधुक्षिताभिश्चित्तज्वालाभिर्विपर्याससंप्रयुक्तैः कर्मक्रियाभिनिर्हारैः कामभवाविद्यास्रवानुबद्धैश्चित्तमनोविज्ञानबीजैस्त्रैधातुके पुनर्भवाङ्कुरमभिनिर्वर्तयन्ति यदिदं नामरूपसहजाविनिर्भागगतम् / तेनैव च नामरूपेण विवर्धितेन एषां षडायतनग्रामः संभवति / संभूतेष्वायतनेष्वन्योन्यस्पर्शनिपाततो वेदना संभवति / तामेव वेदनां भूयो भूयो ऽभिनन्दतां तृष्णोपादानं विवर्धते / विवृद्धे तृष्णोपादाने भवः संभवति / संभूते च भवे जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः प्रादुर्भवन्ति / एवमेतेषां सत्त्वानां दुःखस्कन्धो ऽभिनिर्वर्तते आत्मात्मीयविगतो रिक्तस्तुच्छः शून्यो निरीहो निश्चेष्टो जडस्तृणकाष्ठकुड्यवर्त्मप्रतिभासोपमः / न चैवमवबुध्यन्त इति / तेषामेवंरूपेण सत्त्वानां दुःखस्कन्धाविप्रमोक्षं दृष्ट्वा सत्त्वेषु महाकरुणोन्मिञ्जः संभवति - एते ऽस्माभिः सत्त्वाः परित्रातव्याः परिमोचयितव्या (Dभ् १२) अतो महासंमोहात्, अत्यन्तसुखे च निर्वाणे प्रतिष्ठापयितव्याः इति / अतो ऽस्य महामैत्र्युन्मिञ्जः संभवति //
SK
एवं कृपामैत्र्यनुगतेन खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वो ऽध्याशयेन प्रथमायां बोधिसत्त्वभूमौ वर्तमानः सर्ववस्तुषु सापेक्षचित्तं परिवर्ज्य बुद्धज्ञाने च उदारस्पृहाभिलाषबुद्धिर्महात्यागेषु प्रयुञ्जते / स य इमे त्यागाः - यदुत धनधान्यकोशकोष्ठागारपरित्यागो वा हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतपरित्यागो वा रत्नाभरणविभूषणपरित्यागो वा हयरथगजपतिवाहनपरित्यागो वा उद्यानतपोवनविहारपरित्यागो वा दासीदासकर्मकरपौरुषेयपरित्यागो वा ग्रामनगरनिगमजनपदराष्ट्रराजधानीपरित्यागो वा भार्यापुत्रदुहितृपरित्यागो वा सर्वप्रियमनापवस्तुपरित्यागो वा शिरःकर्णनासाकरचरणनयनस्वमांसशोणितास्थिमज्जामेदश्छविचर्महृदयसर्वात्मभावपरित्यागो वा, तेष्वनपेक्षो भूत्वा सर्ववस्तुषु बुद्धज्ञाने च उदारस्पृहाभिलाषबुद्धिः परित्यजति / एवं ह्यस्य प्रथमायां बोधिसत्त्वभूमौ स्थितस्य महात्यागः संभवति //
तस्य अस्यां प्रमुदितायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति औदारिकदर्शनेन प्रणिधानबलेन च / बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बहूनि बुद्धनयुतशतसहस्राणि बहवो बुद्धकोट्यो बहूनि बुद्धकोटीशतानि बहूनि बुद्धकोटीसहस्राणि बहूनि बुद्धकोटीशतसहस्राणि बहूनि बुद्धकोटीनयुतशतसहस्राण्याभासमागच्छन्ति औदारिकदर्शनेन प्रणिधानबलेन च / स तांस्तथागतानर्हतः सम्यक्संबुद्धान् दृष्ट्वा उदाराध्याशयेन सत्करोति गुरुकरोति मानयति पूजयति, चीवरपिण्डपात्रशयानासनग्लानप्रत्ययभैषज्यपरिष्कारैश्च प्रतिपादयति / बोधिसत्त्वसुखोपधानं चोपसंहरति / संघगणसंमानतां च करोति / तानि च कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिणामयति / तांश्च अस्य बुद्धान् भगवतः पूजयतः सत्त्वपरिपाक आजातो भवति / स सत्त्वांश्च परिपाचयति (Dभ् १३) दानेन प्रियवद्येन च अधिमुक्तिबलेन च / अस्योपरि द्वे अर्थसंग्रहवस्तून्याजायेते न तु खल्वशेषज्ञानप्रतिवेधप्रतिलम्भेन / तस्य दशभ्यः पारमिताभ्यो दानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम् / स यथा यथा बुद्धांश्च भगवतः पूजयति, सत्त्वपरिपाकाय च प्रयुज्य तानिमान् दश भूमिपरिशोधकान् धर्मान् समादाय वर्तते, तथा तथास्य तानि कुशलमूलानि सर्वज्ञतापरिणामितानि भूयस्या मात्रयोत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति यथाकामतया / तद्यथापि नाम भवन्तो जिनपुत्रा जातरूपं कुशलेन कर्मारेण यथा यथाग्नौ प्रक्षिप्यते, तथा तथा परिशुद्ध्यति कर्मण्यं च भवति विभूषणालंकारविधिषु यथाकामतया, एवमेव भवन्तो जिनपुत्रा यथा यथा बोधिसत्त्वो ... पेयालं ... यथाकामतया //
SK
पुनरपरं भवन्तो जिनपुत्र बोधिसत्त्वेन अस्यां प्रथमायां बोधिसत्त्वभूमौ स्थितेन अस्या एव प्रथमाया बोधिसत्त्वभूमेराकारप्रतिलम्भनिष्यन्दाः परिमार्गितव्याः परिगवेषितव्याः परिप्रष्टव्याः / बुद्धबोधिसत्त्वानां कल्याणमित्राणां च सकाशादतृप्तेन च भवितव्यं भूम्यङ्गपरिनिष्पादनाय / एवं यावद्दशम्या बोधिसत्त्वभूमेरङ्गपरिनिष्पादनाय / तेन भूमिपक्षप्रतिपक्षकुशलेन च भवितव्यं भूमिसंवर्तविवर्तकुशलेन च भूम्याकारनिष्यन्दकुशलेन च भूमिप्रतिलम्भविभावनाकुशलेन च भूम्यङ्गपरिशोधनकुशलेन च भूमेर्भूमिसंक्रमणकुशलेन च भूमिभूमिव्यवस्थानकुशलेन च भूमिभूमिविशेषज्ञानकुशलेन च भूमिभूमिप्रतिलम्भाप्रत्युदावर्त्यकुशलेन च सर्वबोधिसत्त्वभूमिपरिशोधनतया तथागतज्ञानभूम्याक्रमणकुशलेन च भवितव्यम् / एवं भूम्याकाराभिनिर्हारकुशलस्य हि भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रथमाया बोधिसत्त्वभूमेरुच्छलितस्य निष्ठानं न संभवति यावद्दशभूमिभूम्याक्रमणमिति / मार्गाधिष्ठानागमेन च भूमेज्ञानालोकेन च बुद्धज्ञानालोकं प्राप्नोति / तद्यथापि नाम भवन्तो जिनपुत्राः कुशलः सार्थवाहो महासार्थपरिकर्षणाभिप्रायो महानगरमनुप्रापयितुकामः आदावेव मार्गगुणांश्च मार्गविवर्तदोषांश्च मार्गस्थानान्तरविशेषांश्च मार्गस्थानान्तरविवर्तदोषांश्च मार्गक्रियापथ्योदनकार्यतां च परिमार्गयति परिगवेषयते / स यावन्महानगरानुप्राप्तये कुशलो भवत्यनुच्चलित एव प्रथमान्मार्गान्तरस्थानात् / स एवं ज्ञानविचारितया बुद्ध्या महापथ्योदनसमृद्ध्या अनुपूर्वेण महासार्थेन सार्धं यावन्महानगरमनुप्राप्नोति, न चाटवीकान्तारदोषैः सार्थस्य वा आत्मनो वास्योपघातः संपद्यते / एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वः कुशलो महासार्थवाहो यदा प्रथमायां बोधिसत्त्वभूमौ स्थितो भवति, तदा भूमिपक्षप्रतिपक्षकुशलो भवति, भूमिसंवर्तविवर्तकुशलो भवति, भूम्याकारनिष्यन्दकुशलो भवति, भूमिप्रतिलम्भविभावनाकुशलो भवति, भूम्यङ्गपरिशोधनकुशलो भवति, भूमेर्भूमिसंक्रमणकुशलो भवति, भूमिभूमिव्यवस्थानकुशलो भवति, भूमिभूमिविशेषज्ञानकुशलो भवति, भूमिभूमिप्रतिलम्भाप्रत्युदावर्त्यकुशलो भवति, सर्वबोधिसत्त्वभूमिपरिशोधनतया तथागतज्ञानभूम्याक्रमणकुशलश्च भवति / तदा बोधिसत्त्वो महापुण्यसंभारपथ्योदनसुसंगृहितो (Dभ् १४) ज्ञानसंभारसुकृतविचयो महासत्त्वसार्थपरिकर्षणाभिप्रायः सर्वज्ञतामहानगरमनुप्रापयितुकामः आदावेव भूमिमार्गगुणांश्च भूमिमार्गविवर्तदोषांश्च भूमिमार्गस्थानान्तरविशेषांश्च भूमिमार्गस्थानान्तरविवर्तदोषांश्च महापुण्यज्ञानसंभारपथ्यदनक्रियाकार्यतां च परिमार्गते परिगवेषते बुद्धानां भगवतां बोधिसत्त्वानां कल्याणमित्राणां च सकाशात् / स यावत्सर्वज्ञतामहानगरानुप्राप्तिकुशलो भवत्यनुच्चलित एव प्रथमान्मार्गान्तरस्थानात् / स एवं ज्ञानविचारितया बुद्ध्या महापुण्यज्ञानसंभारपथ्यदनसंरुद्धया महान्तं सत्त्वसार्थं यथापरिपाचितं संसाराटवीकान्तारदुर्गादतिक्रम्य यावत्सर्वज्ञतामहानगरमनुप्रापयति / न संसारटवीकान्तारदोषैः सत्त्वसार्थस्य वा आत्मनो वा अस्योपघातः संपद्यते / तस्मात्तर्हि भवन्तो जिनपुत्रा बोधिसत्त्वेन अपरिखिन्नेन भूमिपरिकर्मपरिकर्मविशेषाभियुक्तेन भवितव्यम् / अयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रथमायाः प्रमुदिताया बोधिसत्त्वभूमेर्मुखप्रवेशः समासतो निर्दिश्यते //
SK
यो ऽस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन जम्बूद्वीपेश्वरो भवति महैश्वर्याधिपत्यप्रतिलब्धो धर्मानुरक्षी कृती प्रभुः सत्त्वान् महात्यागेन संग्रहीतुकुशलः सत्त्वानां मात्सर्यमलविनिवृत्तये ऽपर्यन्तो महात्यागारम्भैः / यच्च किंचित्कर्मारभते दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा, तत्सर्वमविरहितं बुद्धमनसिकारैर्धर्ममनसिकारैः संघमनसिकारैर्बोधिसत्त्वमनसिकारैर्बोधिसत्त्वचर्यामनसिकारैः पारमितामनसिकारैर्भूमिमनसिकारैर्बलमनसिकारैर्वैशारद्यमनसिकारैरावेणिकबुद्धधर्ममनसिकारैर्यावत्सर्वाकारवरोपेतसर्वज्ञज्ञानमनसिकरैः / किमिति? सर्वसत्त्वानामग्र्यो भवेयं श्रेष्ठो ज्येष्ठो वरः प्रवर उत्तमो ऽनुत्तमो नायको विनायकः परिणायको यावत्सर्वज्ञज्ञानप्रतिशरणो भवेयम् इति / आकाङ्क्षंश्च तथारूपं वीर्यमारभते यथारूपेण वीर्यारम्भेण सर्वगृहकलत्रभोगानुत्सृज्य तथागतशासने प्रव्रजति / प्रव्रजितश्च सन् एकक्षणलवमुहूर्तेन समाधिशतं च प्रतिलभते समापद्यते च / बुद्धशतं च पश्यति, तेषां चाधिष्ठानं संजानीते / लोकधातुशतं च कम्पयति / क्षेत्रशतं चाक्रमति / लोकधातुशतं चावभासयति / सत्त्वशतं च परिपाचयति / कल्पशतं च तिष्ठति / कल्पशतं च पूर्वान्तापरान्ततः प्रविशति / धर्ममुखशतं च प्रविचिनोति / कायशतं चादर्शयति / कायं कायं च बोधिसत्त्वशतपरिवारमादर्शयति / तथा उत्तरे प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानविशेषिकतया विकुर्वन्ति येषां न सुकरा संख्या कुर्तुं कायस्य वा प्रभाया वा ऋद्वेर्वा चक्षुषो वा गोचरस्य वा स्वरस्य वा चर्याया वा व्यूहस्य वा अधिष्ठानस्य वा अधिमुक्तेर्वा अभिसंस्कारणां वा यावदेवतावद्भिरपि कल्पकोटिनियुतशतसहस्रैरिति //
SK
प्रमुदिता नाम प्रथमा भूमिः //
SK
२ विमला नाम द्वितीया भूमिः /
SK
वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः प्रथमायां बोधिसत्त्वभूमौ सुपरिकर्मकृतो द्वितीयां बोधिसत्त्वभूमिमभिलषति, तस्य दश चित्ताशयाः प्रवर्तन्ते / कतमे दश? यदुत ऋज्वाशयता च मृद्वाशयता च कर्मण्याशयता च दमाशयता च शमाशयता च कल्याणाशयता च असंसृष्टाशयता च अनपेक्षाशयता च उदाराशयता च माहात्म्याशयता च / इमे दश चित्ताशयाः प्रवर्तन्ते / ततो द्वितीयायां बोधिसत्त्वभूमौ विमलायां प्रतिष्ठितो भवति //
पिशुनवचनात्प्रतिविरतः खलु पुनर्भवति अभेदाविहेठाप्रतिपन्नः सत्त्वानाम् / स नेतः श्रुत्वा अमुत्राख्याता भवत्यमीषां भेदाय / न अमुतः श्रुत्वा इहाख्याता भवत्येषां भेदाय / न संहितान् भिनत्ति, न भिन्नानामनुप्रदानं करोति / न व्यग्रारामो भवति न व्यग्ररतो न व्यग्रकरणीं वाचं भाषते सद्भूतामसद्भूतां वा //
वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वो द्वितीयायां बोधिसत्त्वभूमौ सुपरिशोधिताध्याशयस्तृतीयां बोधिसत्त्वभूमिमाक्रमति, स दशभिश्चित्ताशयमनस्कारैराक्रमति / कतमैर्दशभिः? यदुत शुद्धचित्ताशयमनस्कारेण च स्थिरचित्ताशयमनस्कारेण च निर्विच्चित्ताशयमनस्कारेण च अविरागचित्ताशयमनस्कारेण च अविनिवर्तचित्ताशयमनस्कारेण च दृढचित्ताशयमनस्कारेण च उत्तप्तचित्ताशयमनस्कारेण च अतृप्तचित्ताशयमनस्कारेण च उदारचित्ताशयमनस्कारेण च माहात्म्यचित्ताशयमनस्कारेण च / एभिर्दशभिश्चित्ताशयमनस्कारैराक्रमति / स खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वस्तृतीयायां बोधिसत्त्वभूमौ स्थितो ऽनित्यतां च सर्वसंस्कारगतस्य यथाभूतं प्रत्यवेक्षते, दुःखतां च अशुभतां च अनाश्वासिकतां च विप्रलोपतां च अचिरस्थितिकतां च क्षणिकोत्पादनिरोधतां च पूर्वन्तासंभवतां च अपरान्तासंक्रान्तितां च प्रत्युत्पन्नाव्यवस्थिततां च सर्वसंस्कारगतस्य प्रत्यवेक्षते / स एवंभूतं सर्वसंस्कारगतं संपश्यन्ननभिसरं निराक्रन्दं सशोकं सपरिदेवं सोपायासं प्रियाप्रियविनिबद्ध दुःखदौर्मनस्योपायासाबहुलमसंनिचयभूतं रागद्वेषमोहाग्निसंप्रदीप्तमनेकव्याधिविवर्धितं च आत्मभावं संपश्यन् भूयस्या मात्रया सर्वसंस्कारेभ्यश्चित्तमुच्चालयति, तथागतज्ञाने च संप्रेषयति / स तथागतज्ञानस्याचिन्त्यतां च समनुपश्यति, अतुल्यतां च अप्रमेयतां च दुरासदतां च असंस्पृष्टतां च निरुपद्रवतां च निरुपायासतां च अभयपुरगमनीयतां च अपुनरावृत्तितां च बहुजनपरित्राणतां च समनुपश्यति / स एवमप्रमाणतां च तथागतज्ञानस्य समनुपश्यन् एवं बहूपद्रवतां च सर्वसंस्कारगतस्य व्युपपरीक्षमाणो भूयस्या मात्रया सत्त्वानामन्तिके दश चित्ताशयानुपस्थापयति / कतमान् दश? यदुत अनाथात्राणाप्रतिशरणचित्ताशयतां च नित्यदरिद्रप्रतिशरणचित्ताशयतां च रागद्वेषमोहाग्निसंप्रदीप्तप्रतिशरणचित्ताशयतां च भवचारकावरुद्धप्रतिशरणचित्ताशयतां च सततसमितक्लशगहेनावृतप्रसुप्तप्रतिशरणचित्ताशयतां च विलोकनसमर्थप्रतिशरणचित्ताशयतां च कुशलधर्मच्छन्दरहितप्रतिशरणचित्ताशयतां च बुद्धधर्मप्रमुषितप्रतिशरणचित्ताशयतां च संसारस्रोतोनुवाहिप्रतिशरणचित्ताशयतां च मोक्षोपायप्रणष्टप्रतिशरणचित्ताशयतां च / इमान् दश चित्ताशयनुपस्थापयति //
SK
स एवं बहूपद्रवं सत्त्वधातुं समनुपश्यन् एवं वीर्यमारभते - मयैवैते सत्त्वाः परित्रातव्याः परिमोचयितव्याः परितोषयितव्याः संरोपयितव्या विनेतव्याः परिनिर्वापयितव्या इति / स एवं निर्विदनुगतश्च सर्वसंस्कारगत्या उपेक्षानुगतश्च सर्वसत्त्वेषु अनुशंसानुगतश्च सर्वज्ञज्ञाने तथागतज्ञानप्रतिशरणः सर्वसत्त्वपरित्राणायाभियुक्तः एवं व्युपपरीक्षते - कतमेन खलु उपायमार्गेण शक्या इमे सत्त्वा एवं बहुदुःखोपक्लेशप्रपतिता अभ्युद्धर्तुम्, अत्यन्तसुखे च निर्वाणे प्रतिष्ठापयितुम्, सर्वधर्मनिःसंशयतां चानुप्रापयितुमिति?
SK
तस्य बोधिसत्त्वस्यैवं भवति - नान्यत्र अनावरणविमोक्षज्ञानस्थानात् / तच्च अनावरणज्ञानविमोक्षस्थानम् नान्यत्र सर्वधर्मयथावदवबोधात् / स च सर्वधर्मयथावदवबोधो नान्यत्र अप्रचारानुत्पादचारिण्याः प्रज्ञायाः / स च प्रज्ञालोको नान्यत्र ध्यानकौशल्यविनिश्चयबुद्धिप्रत्यवेक्षणात् / तच्च ध्यानकौशल्यविनिश्चयबुद्धिप्रत्यवेक्षणं नान्यत्र श्रुतकौशल्यादिति //
SK
स एवं प्रत्यवेक्षितज्ञानो भूयस्या मात्रया सद्धर्मपर्येषणाभियुक्तो विहरति / रात्रिदिवं धर्मश्रवणार्थिको धर्मकामातृप्ताप्रतिप्रस्रब्धो बुद्धर्धर्मपर्येष्टिहेतोः / धर्मारामो धर्मरतो धर्मप्रतिशरणो धर्मनिम्नो धर्मप्रवणो धर्मप्राग्भारो धर्मपरायणो धर्मलयनो धर्मत्राणो धर्मानुधर्मचारी / स एवं बुद्धधर्मपर्येषणाभियुक्तो नास्ति तत्किंचिद् द्रव्यवित्तजातं वा धनधान्यकोशकोष्ठागारजातं वा हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालजातरूपरजतजातं वा यावत्सर्वाङ्गप्रत्यङ्गपरित्यागो वा यन्न परित्यजति तया धर्मकामतया / न च तस्माद्दुष्करसंज्ञी भवति अन्यत्र तस्मिन्नेव धर्मभाणकपुद्गले दुष्करसंज्ञी भवति यो ऽस्यैकधर्मपदमपि देशयति / स धर्महेतोर्नास्ति तत्किंचिदुपातं बाह्यं वस्तु यन्न परित्यजति / नास्ति तत्किचिंदाध्यात्मिकं वस्तु यन्न परित्यजति / नास्ति तत्किंचिद्गुरुपरिचर्योपस्थानं यन्नोपादत्ते / नास्ति सा काचिद् मानाभिमानोत्सर्गनिर्माणोपचारता यां नोपादत्ते / नास्ति सा काचित्कायिकी पीडा यां नोपादत्ते / स चित्रो भवत्यश्रुतधर्मपद श्रवणेन, न त्वेव त्रिसाहस्रमहासाहस्रलोकधातुप्रतिमेन रत्नराशिप्रतिलम्भेन / स चित्रो भवत्येकसुभाषितगाथाश्रवणेन न त्वेव चक्रवर्तिराज्यप्रतिलम्भेन / स चित्रो भवत्यश्रुतधर्मपदश्रवणेन बोधिसत्त्वचर्यापरिशोधनेन न त्वेव शक्रत्वब्रह्मत्वप्रतिलम्भेन बहुकल्पशतसहस्रपर्यवसानेन / सचेदिदं कश्चिदेवं ब्रूयात् - एवमहं तुल्यमिदं धर्मपदं सम्यक्संबुद्धोपनीतं बोधिसत्त्वचर्यापरिशोधनं संश्रावयेयम्, सचेत्त्वं महत्यामग्निखदायां संप्रज्वलितायामेकज्वालीभूतायामात्मानं प्रपातयेः, महान्तं च दुःखवेदनोपक्रमं स्वशरीरेणोपादद्या इति / तस्यैवं भवति - उत्सहे ऽहमेकस्यापि धर्मपदस्य सम्यक्संबुद्धोपनीतस्य बोधिसत्त्वचर्यापरिशोधनस्यार्थाय त्रिसाहस्रमहासाहस्रलोकधातावग्निपरिपूर्णे ब्रह्मलोकादात्मानमुत्स्रष्टुम्, किं पुनः प्राकृतायां अग्निखदायाम् / अपि तु खलु पुनः सर्वैर्निरयापायदुःखसंवासैरप्यस्माभिर्बुद्धधर्माः पर्येषितव्याः, किं पुनर्मनुष्यदुःखसंवासैरिति / स एवंरूपेण वीर्यारम्भेण धर्मान् पर्येषते / यथाश्रुतेषु धर्मेषु च योनिशः प्रत्यवक्षेणजातीयो भवति / तांश्च धर्मान् श्रुत्वा स्वचित्तनिध्यप्त्या एको रहोगत एवं मीमांसते - धर्मानुधर्मप्रतिपत्त्या इमे बुद्धधर्मा अनुगन्तव्या न केवलं वाक्कर्मपरिशुद्ध्येति / सो ऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतोर्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति / स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति / स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् / सुखं च कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते - उपेक्षकः स्मृतिमान् / सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति / स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति / स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य (Dभ् २१) विहरति / स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति / स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति / स सर्वश आकिंचन्यायतनसमतिक्रमान्नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति तेनानभिरतिपदस्थानेन नान्यत्र धर्मानुधर्मप्रतिपत्तिमुपादाय //
स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठेते / न च तेषां वशेनोपपद्यते ऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते / तत्कस्य हेतोः? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः //
SK
तस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति / पेयालं / परिणामयति / तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपास्ते / तेषां च धर्मदेशनां सत्कृत्य शृणोति उद्गृह्णाति धारयति / श्रुत्वा च यथाभजमानं प्रतिपत्त्या समादयति / स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति //
SK
तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति / सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति / दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति / तस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य ... पेयालं ... अनुपचयं मिथ्यारागः प्रहाणं गच्छति अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति / तानि चास्य कुशलमूलान्युत्तप्यन्ते परिशुद्ध्यन्ति कर्मण्यानि (Dभ् २३) च भवन्ति / तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं कुशलस्य कर्मारस्य हस्तगतं तुल्यधरणमेव प्रमाणेनावतिष्ठते, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्राणि ... .प्रहाणं गच्छन्ति / तस्य भूयस्या मात्रया क्षान्तिसौरत्याशयता च परिशुद्ध्यति, साखिल्यमाधुर्याशयता च अकोप्याशयता च अक्षुभिताशयता च अलुभिताशयता च अनुन्नामवनामाशयता च सर्वकृतप्रतिकृतानां निःकाङ्क्षाशयता च सत्त्वकृतप्रतिकृतानां काङ्क्षाशयता च अशाठ्यमायाविताशयता च अगहनाशयता च परिशुद्ध्यति / तस्य चतुर्भ्यः संग्रहवस्तुभ्यो ऽर्थचर्या अतिरिक्ततमा भवति / दशभ्यः पारमिताभ्यः क्षान्तिपारमिता अतिरिक्ततमा भवति / न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम् / इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम्, यच्च किंचित् ... पेयालं ... यथारूपेण वीर्यारम्भेण एकक्षणलवमुहूर्तेन समाधिशतसहस्रं च प्रतिलभते ... //
SK
प्रभाकरी नाम तृतिया भूमिः //
SK
४ अर्चिष्मती नाम चतुर्थी भूमिः /
SK
वज्रगर्भ आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वस्तृतीयायां बोधिसत्त्वभूमौ सुपरिशुद्धालोकश्चतुर्थी बोधिसत्त्वभूमिमाक्रमति, स दशभिर्धर्मालोकप्रवेशैराक्रमति / कतमैर्दशभिः? यदुत सत्त्वधातुविचारणालोकप्रवेशेन च लोकधातुविचरणालोकप्रवेशेन च धर्मधातुविचारणालोकप्रवेशेन आकाशधातुविचारणालोकप्रवेशेन च विज्ञानधातुविचारणा लोकप्रवेशेन च कामधातुविचरणालोकप्रवेशेन च रूपधातुविचरणालोकप्रवेशेन च आरूप्यधातुविचरणालोकप्रवेशेन उदाराशयाधिमुक्तिधातुविचरणालोकप्रवेशेन च माहात्म्याशयाधिमुक्तिधातुविचरणालोकप्रवेशेन / एभिर्दशभिर्धर्मालोकप्रवेशैराक्रमति //
वज्रगर्मो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः पञ्चम्यां बोधिसत्त्वभूमौ सुपरिपूर्णमार्गः षष्ठीं बोधिसत्त्वभूमिमवतरति / स दशभिर्धर्मसमताभिरवतरति / कतमाभिर्दशभिः? यदुत सर्वधर्मानिमित्तसमतया च सर्वधर्मालक्षणसमतया च सर्वधर्मानुत्पादसमतया च सर्वधर्माजाततया च सर्वधर्मविविक्तसमतया च सर्वधर्मादिविशुद्धिसमतया च सर्वधर्मनिष्प्रपञ्चसमतया च सर्वधर्मानाव्यूहानिर्व्यूहसमतया च सर्वधर्ममायास्वप्नप्रतिभासप्रतिश्रुत्कोदकचन्द्रप्रतिबिम्बनिर्माणसमतया च सर्वधर्मभावाभावाद्वयसमतया च / आभिर्दशभिर्धर्मसमताभिरवतरति //
SK
स एवंस्वभावान् सर्वधर्मान् प्रत्यवक्षेमाणो ऽनुसृजन् अनुलोमयन् अविलोमयन् श्रद्दधन् अभियन् प्रतियन् अविकल्पयन् अनुसरन् व्यवलोकयन् प्रतिपद्यमानः षष्ठीमभिमुखीं बोधिसत्त्वभूमिमनुप्राप्नोति तीक्ष्णया आनुलोमिक्या क्षान्त्या / न च तावदनुत्पत्तिकधर्मक्षान्तिमुखमनुप्राप्नोति //
एवमस्य भवन्तो जिनपुत्राः संस्कारगतं बहुदोषदुष्टं स्वभावरहितमनुत्पन्नानिरुद्धं प्रकृत्या प्रत्यवेक्षमाणस्य महाकरुणाभिनिर्हारतश्च सत्त्वकार्यानुत्सर्गतश्च सङ्गज्ञानाभिमुखो नाम प्रज्ञापारमिताविहारो ऽभिमुखीभवत्यवभासयोगेन / स एवं ज्ञानसमन्वागतः प्रज्ञापारमिताविहारावभासितो बोध्यङ्गाहारकांश्च प्रत्ययानुपसंहरति / न च संस्कृतसंवासेन संवसति / स्वभावोपशमं च संस्काराणां प्रत्यवेक्षते / न च तत्रावतिष्ठते बोध्यङ्गापरित्यक्तत्वात् //
सो ऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो ऽध्याशयपरिशुद्धेन कायकर्मणा समन्वागतो भवति / अध्याशयपरिशुद्धेन वाक्कर्मणा अध्याशयपरिशुद्धेन मनस्कर्मणा समन्वागतो भवति / ये चेमे दशाकुशलाः कर्मपथास्तथागतविवर्णिताः, तान् सर्वेण सर्वं समतिक्रान्तो भवति / ये चेमे दश कुशलाः कर्मपथाः सम्यक्संबुद्धानुभाविताः, तान् सततसमितमनुवर्तते / यानि लौकिकानि शिल्पस्थानकर्मस्थानानि यान्यभिनिर्हृतानि पञ्चम्यां बोधिसत्त्वभूमौ, तान्यस्य सर्वाण्यनाभोगत एवं प्रवर्तन्ते / स आचार्यः संमतो भवति त्रिसाहस्र महासाहस्रलोकधातौ, स्थापयित्वा तथागतानर्हतः सम्यक्सम्बुद्धान्, अष्टमीं भूमिमुपादाय च बोधिसत्त्वान् / नास्य कश्चित्समो भवत्याशयेन वा प्रयोगेण वा / यानि चेमानि ध्यानानि (Dभ् ३९) समाधयः समपत्तयो ऽभिज्ञा विमोक्षाश्च, तान्यस्य सर्वेण सर्वमामुखीभवन्ति भावनाभिनिर्हाराकारेण / न च तावद्विपाकतः परिनिष्पन्नानि भवन्ति तद्यथापि नाम अष्टम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य / अस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य सर्वचित्तोत्पादेषु प्रज्ञोपायभावनाबलं परिपूर्यते / भूयस्या मात्रया सर्वबोध्यङ्गपरिपूरिं प्रतिलभते //
SK
सो ऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितः सन् सुविचितविचयं च नाम बोधिसत्त्वसमाधि समापद्यते / सुविचिन्तितार्थं च नाम ... / विशेषमतिं च नाम ... / प्रभेदार्थकोशं च ... / सर्वार्थविचयं च ... / सुप्रतिष्ठितदृढमूलं च ... / ज्ञानाभिज्ञामुखं च ... / धर्मधातु(परि)कर्मं च ... / तथागतानुशंसं च ... / विचित्रार्थकोशसंसारनिर्वाणमुखं च बोधिसत्त्वसमाधिं समापद्यते / स एवंप्रमुखानि महाभिज्ञाज्ञानमुखानि परिपूर्णानि दश समाधिशतसहस्राणि भूमिपरिशोधिकानि समापद्यते //
वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः सप्तसु बोधिसत्त्वभूमिषु सुकृतविचयः प्रज्ञोपायाभ्यां सुपरिशोधितमार्गः सुसंभृतसंभारः सुपरिबद्धमहाप्रणिधानः अधिष्ठिततथागताधिष्ठानः स्वकुशलमूलबलाधानप्राप्तः तथागतबलवैशारद्यावेणिकबुद्धधर्मानुगतसंज्ञामनसिकारः सुपरिशोधिताध्याशयसंकल्प पुण्यज्ञानबलाभ्युद्गतः महाकरुणाकृपाभ्यां सर्वसत्त्वानुत्सृष्टप्रयोगः अप्रमाणज्ञानपथानुगतः, स सर्वधर्माणामाद्यनुत्पन्नतां च यथाभूतमवतरति / अजाततां च अलक्षणतां च असंभूततां च अविनाशितां च अनिष्ठिततां च अप्रवृत्तितां च अनभिनिवृत्तितां च अभावस्वभावतां च आदिमध्यपर्यवसानसमतां च तथताविकल्पसर्वज्ञज्ञानप्रवेशतां च सर्वधर्माणां यथाभूतमवतरति / स सर्वशश्चित्तमनोविज्ञानविकल्पसंज्ञापगतो ऽनवगृहीताकाशसमो ऽभ्यवकाशप्रकृतितो ऽवतीर्णो ऽनुत्पत्तिकधर्मक्षान्तिप्राप्त इत्युच्यते //
स सर्वकायविकल्पापगतः कायसमताप्राप्तः (तच्चास्य कायसंदर्शनमक्षूणमवन्ध्यं च सत्त्वपरिपाकविनयाय) स सत्त्वकायं च प्रजानाति / क्षेत्रकायं च ... / कर्मविपाककायं च ... / श्रावककायं च ... / प्रत्येकबुद्धकायं च ... / बोधिसत्त्वकायं च ... / तथागतकायं च ... / ज्ञानकायं च ... / धर्मकायं च ... / आकाशकायं च प्रजानाति / स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यथाकालपरिपाकविनयानतिक्रमादाकाङ्क्षन् सत्त्वकायं स्वकायमधितिष्ठति / एवं क्षेत्रकायं कर्मविपाककायं ... आत्मकायमधितिष्ठति / स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यं यमेव कायं यस्मिन् यस्मिन् काये आकाङ्क्षति, तं तमेव कायं तस्मिन् तस्मिन् काये (स्वकायं) अधितिष्ठति / स सत्त्वकायानां कर्मकायतां च प्रजानाति / विपाककायतां च ... / क्लेशकायतां च ... / रूपकायतां च ... / आरूप्यकायतां च प्रजानाति / क्षेत्रकायानां परीत्ततां च प्रजानाति, महद्गततां च अप्रमाणतां च संक्लिष्टतां च विशुद्धतां च व्यत्यस्ततां च अधोमूर्धतां च समतलतां च समवसरणतां च दिग्जालविभागतां च प्रजानाति / कर्मविपाककायानां विभक्तिसंकेतं प्रजानाति / एवं श्रावकाकायानां प्रत्येकबुद्धकायानां बोधिसत्त्वकायानां विभक्तिसंकेतं प्रजानाति / तथागतकायानामभिसंबोधिकायतां च प्रजानाति / प्रणिधानकायतां च ... / निर्माणकायतां च / अधिष्ठानकायतां च / रूपलक्षणानुव्यञ्जनविचित्रालंकारकायतां च / प्रभाकायतां च / मनोमयकायतां च / पुण्यकायतां च / ज्ञानकायतां च / धर्मकायतां च प्रजानाति / ज्ञानकायानां सुविचारिततां च प्रजानाति / यथावन्निस्तीरणतां च फलप्रयोगसंगृहीततां (Dभ् ४६) च लौकिकलोकोत्तरविभागतां च त्रियाणव्यवस्थानतां च साधारणासाधारणतां च नैर्याणिकानैर्याणिकतां च शैक्षाशैक्षतां च प्रजानाति / धर्मकायानां समतां च प्रजानाति / अविकोपनतां च अवस्थानसंकेतसंवृत्तिव्यवस्थानतां च सत्त्वासत्त्वधर्मव्यवस्थानतां च बुद्धधर्मार्यसंघव्यवस्थानतां च प्रजानाति / आकाशकायानामप्रमाणतां च सर्वत्रानुगततां च अशरीरतां च अवितथानन्ततां च रूपकायाभिव्यक्तितां च प्रजानाति //
SK
स एवं कायज्ञानाभिनिर्हारप्राप्तो वशवर्ती भवति सर्वसत्त्वेषु / आयुर्वशितां च प्रतिलभते ऽनभिलाप्यानभिलाप्यकल्पायुःप्रमाणाधिष्ठानतया / चेतोवशितां च प्रतिलभते ऽप्रमाणासंख्येयसमाधिनिध्यप्तिज्ञानप्रवेशतया / परिष्कारवशितां च सर्वलोकधात्वनेकव्यूहालंकारप्रतिमण्डिताधिष्ठानसंदर्शनतया / कर्मवशितां च यथाकालं कर्मविपाकाधिष्ठानसंदर्शनतया / उपपत्तिवशितां च सर्वलोकधातूपपत्तिसंदर्शनतया अधिमुक्तिसंदर्शनतया सर्वलोकधातुबुद्धप्रतिपूर्णसंदर्शनतया प्रणिधानसंदर्शनतया यथेष्टबुद्धक्षेत्रकालाभिसंबोधिसंदर्शनतया ऋद्धिसंदर्शनतया सर्वबुद्धक्षेत्र-ऋद्धिविकुर्वणसंदर्शनतया धर्मसंदर्शनतया अनन्तमध्यधर्ममुखालोकसंदर्शनतया ज्ञानसंदर्शनतया तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनाभिसंबोधिसंदर्शनतया //
वज्रगर्भो बोधिसत्त्व आह - यो ऽयं भवन्तो जिनपुत्रा बोधिसत्त्व एवमप्रमाणज्ञेयविचारितया बुद्ध्या भूयश्चोत्तरान् शान्तान् विमोक्षानध्यवस्यन् अध्यालम्बमानः भूयश्चोत्तरं तथागतज्ञानं सुसमाप्तं विचारयन् तथागतगुह्यानुप्रवेशं चावतरन् अचिन्त्यज्ञानमाहात्म्यं च प्रविचिन्वन् धारणीसमाधिप्रविचयं च परिशोधयन् अभिज्ञावैपुल्यं चाभिनिर्हरन् लोकधातुविभक्तिं चानुगच्छन् तथागतबलवैशाद्यावेणिकबुद्धधर्मासंहार्यतां च परिकर्मयन् तथागतधर्मचक्रप्रवर्तनवृषभतां चानुक्रममाणः महाकरुणाधिष्ठानप्रतिलम्भं चानुत्सृजन् नवमीं बोधिसत्त्वभूमिमाक्रमति / सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः कुशलाकुशलाव्याकृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति / सास्रवानास्रवधर्माभिसंस्कारं च ... / लौकिकलोकोत्तरधर्माभिसंस्कारं च ... / चिन्त्याचिन्त्यधर्माभिसंस्कारं च ... / नियतानियतधर्माभिसंस्कारं च ... / श्रावकप्रत्येकबुद्धधर्माभिसंस्कारं च ... / बोधिसत्त्वचर्याधर्माभिसंस्कारं च ... / तथागतभूमिधर्माभिसंस्कारं च ... / संस्कृतधर्माभिसंस्कारं च.. / असंस्कृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति //
SK
स एवंज्ञानानुगतया बुद्ध्या सत्त्वचित्तगहनोपचारं च यथाभूतं प्रजानाति / क्लेशगहनोपचारं च ... / कर्मगहनोपचारं च ... / इन्द्रियगहनोपचारं च ... / अधिमुक्तिगहनोपचारं च ... / धातुगहनोपचारं च ... / आशयानुशयगहनोपचारं च ... / उपपत्तिगहनोपचारं च ... / वासनानुसंधिगहनोपचारं च ... / त्रिराशिव्यवस्थानगहनोपचारं च यथाभूतं प्रजानाति / स सत्त्वानां चित्तवैमात्रतां च यथाभूतं प्रजानाति / चित्तविचित्रतां च चित्तक्षणलघुपरिवर्तभङ्गभङ्गतां च चित्तशरीरतां च चित्तानन्त्यसर्वतःप्रभूततां च चित्तप्रभास्वरतां च चित्तसंक्लेशनिःक्लेशतां च चित्तबन्धविमोक्षतां च चित्तमायाविठपनतां च चित्तयथागतिप्रत्युपस्थानतां च यावदनेकानि चित्तनानात्वसहस्राणि यथाभूतं प्रजानाति / स क्लेशानां दूरानुगततां च यथाभूतं प्रजानाति / प्रयोगानन्ततां च ... / सहजाविनिर्भागतां च ... / अनुशयपर्युत्थानैकार्थतां च ... / चित्तसंप्रयोगासंप्रयोगतां च ... / उपपत्तिसंधियथागतिप्रत्युपस्थानतां च ... / त्रैधातुकविभक्तितां च ... / तृष्णाविद्यादृष्टिशल्यमानमहासावद्यतां च ... / त्रिविधकर्मणि दानानुपच्छेदतां च ... / समासतो यावच्चतुरशीतिक्लेशचरितनानात्वसहस्रानुप्रवेशतां (Dभ् ५०) च यथाभूतं प्रजानाति / स कर्मणां कुशलाकुशलाव्याकृततां च ... / विज्ञप्त्यविज्ञप्तितां च ... / चित्तसहजाविनिर्भागतां च ... / स्वरसक्षणक्षीणभङ्गोपचयाविप्रणाशफलानुसंधितां च ... / विपाकविपाकतां च ... कृष्णशुक्लाकृष्णशुक्लानेकदेशकर्मसमादानवैमात्रतां च ... / कर्मक्षेत्राप्रमाणतां च ... / आर्यलौकिकप्रविभक्तितां च ... / लोकोत्तरधर्मव्यवस्थानतां च ... / (सोपादानानुपादानतां च ... / संस्कृतासंस्कृततां च / ) दृष्टधर्मोपपद्यापरपर्यायवेदनीयतां च ... / यानायाननियतानियततां च ... / समासतो यावच्चतुरशीतिकर्मनानात्वसहस्रप्रविभक्तिविचयकौशल्यं च यथाभूतं प्रजानाति / स इन्द्रियाणां मृदुमध्याधिमात्रतां च ... / पूर्वान्तापरान्तसंभेदासंभेदतां च ... / उदारमध्यनिकृष्टतां च ... / क्लेशसहजाविनिर्भागतां च ... / यानायाननियतानियततां च ... / यथापरिपव्कापरिपक्ववैनेयिकतां च ... / इन्द्रियजालानुपरिवर्तनलघुभङ्गनिमित्तग्रहणतां च ... / इन्द्रियाधिपत्यानवमर्दनीयतां च ... / विवर्त्याविवर्त्येन्द्रियप्रविभागतां च ... / दूरानुगतसहजाविनिर्भागनानात्वविमात्रतां च, समासतो यावदनेकानीन्द्रियनानात्वसहस्राणि प्रजानाति / सो ऽधिमुक्तीनां मृदुमध्याधिमात्रतां च ... यावदनेकान्यधिमुक्तिनानात्वसहस्राणि प्रजानाति / स धातूनां ... . / स आशयानां ... . / सो ऽनुशयानामाशयसहजचित्तसहजतां च ... . / चित्तसंप्रयोगतां च ... / विप्रयोगविभागदूरानुगततां च ... / अनादिकालानुद्धटिततां च ... / सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाप्रसह्यतां च / त्रैधातुकसंधिसुनिबद्धतां च / अनादिकालचित्तनिबन्धसमुदाचारतां च / आयतनद्वारसमुदयविज्ञप्तितां च / प्रतिपक्षालाभाद्रव्यभूततां च / भूम्यायतनसमवधानासमवधानतां च / अनन्यार्यमार्गसमुद्धटनतां च प्रजानाति / स उपपत्तिनानात्वतां च / यथाकर्मोपपत्तितां च / निरयतिर्यग्योनिप्रेतासुरमनुष्यदेवव्यवस्थानतां च / रूपारूप्योपपत्तितां च / संज्ञासंज्ञोपपत्तितां च / कर्मक्षेत्रतृष्णास्नेहाविद्यान्धकारविज्ञानबीजपुनर्भवप्ररोहणतां च / नामरूपसहजाविनिर्भागतां च / भवसंमोहतृष्णाभिलाषसंधितां च / भोक्तुकामभवितुकामसत्त्वरत्यनवराग्रतां च / त्रैधातुकावग्रहणसंज्ञानिष्कर्षणतां च प्रजानाति / स वासनानामुपचारानुपचारतां च ... / यथागतिसंबन्धवासनावासिततां च / यथासत्त्वचर्याचरणवासिततां च / यथाकर्मक्लेशाभ्यासवासिततां च / कुशलाकुशलाव्याकृतधर्माभ्यासवासिततां च / पुनर्भवगमनाधिवासिततां च ... / अनुपूर्वाधिवासिततां च / दूरानुगतानुपच्छेदक्लेशोपकर्षणविकारानुद्धरणवासिततां च / द्रव्यभूताद्रव्यभूतवासिततां च / श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतदर्शनश्रवणसंवासवासिततां च प्रजानाति / स सत्त्वराशीनां सम्यक्त्वनियततां च प्रजानाति मिथ्यात्वनियततां च / उभयत्वानियततां च ... / सम्यग्दृष्टिसम्यग्नियततां च मिथ्यादृष्टिमिथ्या ... नियततां च / तदुभयविगमादनियततां च पञ्चानन्तर्यान्यतममिथ्यादृष्टिनियततां च ... / पञ्चेन्द्रियसम्यग्नियततां च ... / अष्टमिथ्यात्वमिथ्यानियततां च ... / सम्यक्त्वसम्यग्नियततां च ... / अपुनःकारिततां च ... / मात्सर्येर्ष्याघृणोपचाराविनिवृत्त्या मिथ्यानियततां च ... / आर्यानुत्तरमार्गभावनोपसंहारसम्यक्त्वनियततां च ... / तदुभयविगमादनियतराश्युपदेशतां च प्रजानाति / इति हि भो जिनपुत्र एवंज्ञानानुगतो बोधिसत्त्वः साधुमत्यां बोधिसत्त्वभूमौ प्रतिष्ठित इत्युच्यते //
SK
सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थित एवं चर्याविमात्रतां सत्त्वानामज्ञाय तथैव मोक्षोपसंहारमुपसंहरति / स सत्त्वपरिपाकं प्रजानाति / सत्त्वविनयं च ... / श्रावकयानदेशनां च / प्रत्येकबुद्धयानदेशनां च / बोधिसत्त्वयानदेशनां च / तथागतभूमिदेशनां च प्रजानाति / स एवं ज्ञात्वा तथत्वाय सत्त्वेभ्यो धर्मं देशयति / यथाशयविभक्तितो यथानुशयविभक्तितो यथेन्द्रियविभक्तितो (Dभ् ५१) यथाधिमुक्तिविभक्तितो यथागोचरविभागज्ञानोपसंहारतः सर्वगोचरज्ञानानुगमनतो यथाधातुगहनोपचारानुगमनतो यथागत्युपपत्तिक्लेशकर्मवासनानुवर्तनतो यथाराशिव्यवस्थानानुगमनतो यथायानाधिमोक्षविमुक्तिप्राप्तितो ऽनन्तवर्णरूपकायसंदर्शनतः सर्वलोकधातुमनोज्ञस्वरविज्ञापनतः सर्वरुतरवितपरिज्ञानतः सर्वप्रतिसंविद्विनिश्चयकौशल्यतश्च धर्मं देशयति //
SK
सो ऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः सन् बोधिसत्त्वो धर्मभाणकत्वं कारयति, तथागतधर्मकोशं च रक्षति / स धर्माभाणकगतिमुपगतो ऽप्रमाणज्ञानानुगतेन कौशल्येन चतुःप्रतिसंविदभिनिर्हृतया बोधिसत्त्ववाचा धर्मं देशयति / तस्य सततसमितमसंभिन्नाश्चतस्रो बोधिसत्त्वप्रतिसंविदो ऽनुप्रवर्तन्ते / कतमाश्चतस्रः? यदुत धर्मप्रतिसंवित् अर्थप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् //
तस्य खलु पुनर्भवन्तो जिनपुत्रा एवंज्ञानानुगतस्य बोधिसत्त्वस्य अभिषेकभूमिसमापन्नस्य विमलो नाम समाधिरामुखीभवति / धर्मधातुविभक्तिप्रवेशश्च नाम / बोधिमण्डालंकारव्यूहश्च नाम / सर्वाकाररश्मिकुसुमश्च नाम / सागरगर्भश्च नाम / सागरसमृद्धिश्च नाम / आकाशधातुविपुलश्च नाम / सर्वधर्मस्वभावविचयश्च नाम / सर्वसत्त्वचित्तचरितानुगतश्च नाम / प्रत्युत्पन्नसर्वबुद्धसंमुखावस्थितश्च नाम बोधिसत्त्वसमाधिरामुखीभवति / तसैवंप्रमुखानि दश समाध्यसंख्येयशतसहस्राण्यामुखीभवन्ति / स तान् सर्वान् समाधीन् समापद्यते च व्युत्तिष्ठते च, समाधिकौशल्यानुगतश्च यावत्समाधिकार्यं तत्सर्वं प्रत्यनुभवति / तस्य यावद्दशसमाध्यसंख्येयशतसहस्राणां पर्यन्ते सर्वज्ञज्ञानविशेषाभिषेकवान्नाम बोधिसत्त्वसमाधिरामुखीभवति //
सो ऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वो धर्मधातुसमुदागमं च यथाभूतं प्रजानाति / कामधातुसमुदागमं च यथाभूतं प्रजानाति / रूपधातुसमुदागमं च यथाभूतं प्रजानाति / आरूप्यधातुसमुदागमं च यथाभूतं प्रजानाति / लोकधातुसमुदागमं च यथाभूतं प्रजानाति / सर्वसत्त्वधातुसमुदागमं च यथाभूतं प्रजानाति / विज्ञानधातुसमुदागमं (Dभ् ५८) च यथाभूतं प्रजानाति / संस्कृतासंस्कृतधातुसमुदागमं च यथाभूतं प्रजानाति / आकाशधातुसमुदागमं च यथाभूतं प्रजानाति / भूताभूतदेशनां च यथाभूतं प्रजानाति / निर्वाणं च यथाभूतं प्रजानाति / दृष्टिक्लेशसमुदागमं च यथाभूतं प्रजानाति / लोकधातुप्रवृत्तिनिवृत्तिसमुदागमं च यथाभूतं प्रजानाति / श्रावकचर्यासमुदागमं च यथाभूतं प्रजानाति / प्रत्येकबुद्धचर्यासमुदागमं च यथाभूतं प्रजानाति / बोधिसत्त्वचर्यासमुदागमं च यथाभूतं प्रजानाति / तथागतबलवैशारद्यावेणिकबुद्धधर्मरूपकायधर्मकायसमुदागमं च यथाभूतं प्रजानाति / सर्वाकारसर्वज्ञज्ञानसमुदागमं च यथाभूतं प्रजानाति / अभिसंबोधिधर्मचक्रप्रवृत्तिसंदर्शनसमुदागमं च यथाभूतं प्रजानाति / समासतः सर्वधर्मप्रवेशविभक्तिनिष्तीर्णसमुदागमं च यथाभूतं प्रजानाति / स एवंज्ञानानुगतया बुद्ध्या उत्तरि सत्त्वकायनिर्माणं च यथाभूतं प्रजानाति / क्लेशकायनिर्माणं च यथाभूतं प्रजानाति / दृष्टिकृतनिर्माणं च ... लोकधातुनिर्माणं च ... धर्मधातुनिर्माणं च ... श्रावकनिर्माणं च ... प्रत्येकबुद्धनिर्माणं च ... बोधिसत्त्वनिर्माणं च ... तथागतनिर्माणं च ... सर्वनिर्माणकल्पाकल्पतां च यथाभूतं प्रजानाति / सर्वबुद्धाधिष्ठानं च ... धर्माधिष्ठानं च ... संघाधिष्ठानं च ... कर्माधिष्ठानं च क्लेशाधिष्ठानं च ... कालाधिष्ठानं च ... प्रणिधानाधिष्ठानं च ... पूजाधिष्ठानं च ... चर्याधिष्ठानं च ... कल्पाधिष्ठानं च ... ज्ञानाधिष्ठानं च प्रजानाति / स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां सूक्ष्मप्रवेशज्ञानानि यदुत चर्यासूक्ष्मप्रवेशज्ञानं वा, च्युत्युपपत्तिसुक्ष्मप्रवेशज्ञानं वा, जन्मसूक्ष्मप्रवेशज्ञानं वा, अभिनिष्क्रमणसूक्ष्मप्रवेशज्ञानं वा, अभिसंबोधिसूक्ष्मप्रवेशज्ञानं वा, विकुर्वणसुक्ष्मप्रवेशज्ञानं वा, धर्मचक्रप्रवर्तनसूक्ष्मप्रवेशज्ञानं वा, धर्मदेशनासुक्ष्मप्रवेशज्ञान वा, धर्मविस्तरसूक्ष्मप्रवेशज्ञानं वा, आयुःप्रमाणाधिष्ठानज्ञानं वा, वर्णरूपकायसंदर्शनज्ञानं वा, सर्वसत्त्वविनयातिक्रमणज्ञानं वा, सर्वलोकधातुस्फरणज्ञानं वा, सर्वसत्त्वचित्तचरितव्यवलोकनज्ञानं वा, एकक्षणे त्र्यध्वव्यवलोकनज्ञानं वा, पूर्वान्तापरान्तनिरवशेषज्ञानं वा, सर्वसत्त्वचित्तचरितनानात्वसमन्तज्ञानं वा, तथागतबलवैशारद्यबुद्धधर्माचिन्त्यज्ञानं वा, तथागतपरिनिर्वाणज्ञानं वा, शासनाधिष्ठानसद्धर्मस्थितिज्ञानं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां सुक्ष्मप्रवेशज्ञानानि, तानि सर्वाणि यथाभूतं प्रजानाति / स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानां गुह्यस्थानानि यदुत कायगुह्यं वा वाग्गुह्यं वा चित्तगुह्यं वा कालाकालविचारणागुह्यं वा बोधिसत्त्वव्याकरणगुह्यं वा सत्त्वसंग्रहनिग्रहगुह्यं वा विनेयोत्सादनावसानगुह्यं वा यथाकालाववादानुशासनाध्युपेक्षणं वा याननानात्वव्यवस्थापनगुह्यं वा सत्त्वचर्येन्द्रियविभक्तिगुह्यं वा सत्त्वकर्मक्रियावतारगुह्यं वा बोधिसत्त्वचर्येन्द्रियविभक्तिगुह्यं वा चर्याभिसंबोधिस्वभावप्रभावानुबोधिगुह्यं वा स्वभावाभिसंबोध्यधिष्ठानगुह्यं वा अवतारोत्तारणगुह्यं वा आकर्षणसंप्रेषणगुह्यं वा स्थानचंक्रमणनिषद्याशय्यासनसंदर्शनगुह्यं वा आहारपरिभोगकायोपकरणप्रतिसेवनगुह्यं वा भाषिततूष्णींभावध्यानविमोक्षसमाधिसमापत्तिसंदर्शनगुह्यं वा, एवंप्रमुखान्यप्रमेयासंख्येयानि तथागतानां (Dभ् ५९) गुह्यस्थानानि, तानि सर्वाणि यथाभूतं प्रजानाति / स यानीमानि तथागतानां कल्पप्रवेशसमवसरणज्ञानानि यदुत एककल्पासंख्येयकल्पसमवसरणता / असंख्येयकल्पैककल्पसमवसरणता / संख्येयकल्पासंख्येयकल्पसमवसरणता / असंख्येयकल्पसंख्येयकल्पसमवसरणता / चित्तक्षणकल्पसमवसरणता / कल्पचित्तक्षणसमवसरणता / कल्पाकल्पसमवसरणता / अकल्पकल्पसमवसरणता / सबुद्धककल्पाबुद्धककल्पसमवसरणता / अबुद्धककल्पसबुद्धककल्पसमवसरणता / अतीतानागतकल्पप्रत्युत्पन्नकल्पसमवसरणता / प्रत्युत्पन्नकल्पातीतानागतकल्पसमवसरणता / अतीतकल्पानागतकल्पसमवसरणता / अनागतकल्पातीतकल्पसमवसरणता / दीर्घकल्पह्रस्वकल्पसमवसरणता / ह्रस्वकल्पदीर्घकल्पसमवसरणता / सर्वकल्पेषु संज्ञाकृतसमवसरणता / सर्वसंज्ञाकृतेषु कल्पसमवसरणता / एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि कल्पप्रवेशसमवसरणानि, तानि सर्वानि यथाभूतं प्रजानाति / स यानीमानि तथागतानामर्हतां सम्यक्संबुद्धानामवतारज्ञानानि यदुत वालपथावतारज्ञानं वा परमाणुरजोवतारज्ञानं वा बुद्धक्षेत्रकायाभिसंबोध्यवतारज्ञानं वा सत्त्वकायचित्ताभिसंबोध्यवतारज्ञानं वा सर्वत्रानुगताभिसंबोध्यवतारज्ञानं वा व्यत्यस्तचरिसंदर्शनावतारज्ञानं वा अनुलोमचरिसंदर्शनावतारज्ञानं वा प्रतिलोमचरिसंदर्शनावतारज्ञानं चिन्त्याचिन्त्यलोकविज्ञेयविज्ञेयं चरिसंदर्शनावतारज्ञानं वा श्रावकविज्ञेयप्रत्येकबुद्धविज्ञेयबोधिसत्त्वविज्ञेयतथागतविज्ञेयचरिसंदर्शनावतारज्ञानं वा, तानि सर्वाणि यथाभूतं प्रजानाति / इति हि भो जिनपुत्रा अप्रमेयं बुद्धानां भगवतां ज्ञानवैपुल्यमप्रमाणमेवास्यां भूमौ स्थितस्य बोधिसत्त्वस्यावतारज्ञानम् //
SK
स खलु पुनर्भो जिनपुत्रा बोधिसत्त्व एवमिमां बोधिसत्त्वभूमिमनुगतो ऽचिन्त्यं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते / अनावरणं च नाम विशुद्धिविचयं च नाम समन्तमुखावभासं च नाम तथागतकोशं च नाम अप्रतिहतचक्रानुगतं च नाम त्र्यध्वानुगतं च नाम धर्मधातुगर्भं च नाम विमुक्तिमण्डलप्रभासं च नाम अशेषविषयगमं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते / इति हि भो जिनपुत्रा इमान् दश बोधिसत्त्वविमोक्षान् प्रमुखान् कृत्वा अप्रमेयासंख्येयानि बोधिसत्त्वविमोक्षमुखशतसहस्राणि बोधिसत्त्वो ऽस्यां दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठितः प्रतिलभते / एवं यावत्समाधिशतसहस्राणि धारणीशतसहस्राणि अभिज्ञाभिनिर्हारशतसहस्राणि प्रतिलभते / ज्ञानालोकशतसहस्राणि विकुर्वणशतसहस्राणि प्रसंविन्निर्हारशतसहस्राणि उपायप्रज्ञाविक्रीडितशतसहस्राणि गम्भीरधर्मनयप्रवेशशतसहस्राणि महाकरुणावेगशतसहस्राणि बोधिसत्त्ववशिताप्रवेशशतसहस्राणि प्रतिलभते //
SK
स एवंज्ञानानुगतया बुद्ध्या अप्रमाणानुगतेन स्मृतिकौशल्येन समन्वागतो भवति / स दशभ्यो दिग्भ्यो ऽप्रमेयाणां बुद्धानां भगवतां सकाशादेकक्षणलवमुहूर्तेना अप्रमाणान् महाधर्मावभासान् महाधर्मालोकान् महाधर्ममेघान् सहते संप्रतीच्छति स्वीकरोति (Dभ् ६०) संघारयति / तद्यथापि नाम भो जिनपुत्राः सागरनागराजमेघविसृष्टो महानप्स्कन्धो न सुकरो ऽन्येन पृथिवीप्रदेशेन सोढुं वा संप्रत्येषितुं वा स्वीकर्तुं वा संधारयितुं वा अन्यत्र महासमुद्रात्, एवमेव भो जिनपुत्रा ये ते तथागतानां भगवतां गुह्यानुप्रवेशा यदुत महाधर्मावभासा महाधर्मालोका महाधर्मामेघाः, ते न सुकराः सर्वसत्त्वैः सर्वश्रावकप्रत्येकबुद्धैः प्रथमां भूमिमुपादाय यावन्नवमीभूमिप्रतिष्ठितैरपि बोधिसत्त्वैः, तान् बोधिसत्त्वो ऽस्यां धर्ममेघायां बोधिसत्त्वभूमौ स्थितः सर्वान् सहते संप्रतीच्छति स्वीकरोति संधारयति / तद्यथापि नाम भो जिनपुत्रा महासमुद्र एकस्यापि महाभुजगेन्द्रस्य महामेघान् सहते ... द्वयोरपि त्रयाणामपि यावदपरिमानाणामपि भुजगेन्द्राणामेकक्षणलवमुहूर्तेनाप्रमेयान् महामेघान् सहते ... / तत्कस्य हेतोः? अप्रमाणविपुलविस्तीर्णत्वान्महासमुद्रस्य / एवमेव भो जिनपुत्रा अस्यां धर्ममेघायाम् बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्व एकस्यापि तथागतस्य सकाशादेकक्षण ... द्वयोरपि त्रयानामपि यावदपरिमानाणामपि तथागतानां सकाशादेकक्षण ... / तत उच्यत इयं भूमिर्धर्ममेघेति //
संभारपुण्युपचया तथ ज्ञान श्रेष्ठं नैका उपाय अभिरोचनभूम्य भासान् / बुद्धधिष्ठान स्मृतिमां मतिबुद्धिप्राप्ता चत्त्वारि सत्य निखिलाननुचिन्तयन्ति
SK
परमार्थसत्यमपि संवृतिलक्षणं च सत्यविभागमथ सत्यनितीरणं च / तथ वस्तु सास्रव क्षयं अपि मार्गसत्यं यावन्तनावरणसत्य समोसरन्ति
SK
एवं च सत्य परिमार्गति सूक्ष्मबुद्धिः न च तावदनावरणप्राप्तु विमोक्षं श्रेष्ठम् / ज्ञानाधिमुक्तिविपुलात्तु गुणाकराणाम् अतिभोन्ति सर्वजगतो अर्हप्रत्ययानाम्
SK
सो एव सत्य-अभिनिर्हृत तत्त्वबुद्धिः जानाति संस्कृत मृषाप्रकृती असारम् / कृपमैत्र-आभ लभते सुगतान भूयः सत्त्वार्थिकः सुगतज्ञान गवेषमाणः