Chandogya Upanishad with Shankara's Commentary

Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · छान्दोग्योपनिषद् (सटीका)

Chandogya Upanishad with Shankara's Commentary

Chāndogyopaniṣad with the commentary ascribed to Śaṃkara

छान्दोग्योपनिषद् (सटीका)

SK
ॐ सामवेदीया छान्दोग्योपनिषत्
SK
अथ प्रथमो ऽध्यायः आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मे ऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु //
SK
ॐ शान्तिः शान्तिः शान्तिः श्रीमच्छङ्करभगवत्पादाचार्यविरचितं भाष्यम् उपोद्घातः- ᳚ओमित्येतदक्षरम्᳚ इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् / तस्याः संक्षेपतोर्ऽथजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थश्रीमन्नरेन्द्रपुरीयतीन्द्रविरचितं छान्दोग्योपनिषद्भाष्यटिप्पणमिदमारभ्यते / तत्र सम्बन्धः- समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितमर्चिरादिमार्गेण ब्रह्मलोकप्रतिपत्तिकारणम् / केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् / स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाधोगतिरुक्ता / न चोभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमित्युपनिषदारभ्यते / न चाद्वैतात्मविज्ञानादन्यत्राऽत्यन्तिकी निःश्रेयसप्राप्तिः / वक्ष्यति हि-᳚अथ ये ऽम्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति᳚ / विपर्यये च᳚स स्वराड्भवति᳚इति / तथा द्वैतविषयानृताभिसन्धस्य बन्धनं तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्चेत्युक्त्वाद्वैतात्मसत्याभिसन्धस्यातस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः संसारदुःखनिवृत्तिर्मोक्षश्चेति / अत एव न कर्मसहभाव्.द्वैतात्मदर्शनम् / क्रियाकारकफलभेदोपमर्देन᳚सदेकमेवाद्वितीयम्᳚ ᳚आत्मैवेदं सर्वम्᳚ इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः / कर्मविधिप्रत्यय इति चेत् / न / कर्तृभोक्तृस्वभावविज्ञानवतस्तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् / अधिगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतो ऽपि कर्मेति चेत् / न / कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य᳚सदेकमेवाद्वितीयम्᳚᳚आत्मैवेदं सर्वम्᳚ इत्यनेनोपमर्दितत्वात् / तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते / नाद्वैतज्ञानवतः / अत एव हि वक्ष्यति-᳚सर्व एते पुण्यलोका भवन्ति / ब्रह्मसस्थो ऽमृतत्वमेति᳚इति / तत्रैतस्मिन्नद्वैतविद्याप्रकरणे ऽभ्युदयसाधनान्युपासनान्युच्यन्ते कैवल्यसन्निकृष्टफलानि / चाद्वैतादीषद्वीकृतब्रह्मविषयाणि इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसम्बन्धीनि / रहस्यसामान्यान्मनोवृत्तिसामान्याच्च यथाद्वैतज्ञानं मनोवृत्तिमात्रं तथान्यान्यप्युपासनानि मनोवृत्तिरूपाणीत्यस्ति हि सामान्यम् / कस्तर्ह्यद्वैतज्ञानस्योपासनानां च विशेषः / उच्यते / स्वाभाविकस्याऽत्मन्यक्रिये ऽध्यारोपितस्य कर्त्रादिकारकक्रियाफलभेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् / रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः / उपासनं तु यथाशास्त्रसमर्पितं किञ्चिदालम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्ययानन्तरितमिति विशेषः / तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानोपकारकाण्यालम्बनविषयत्वात् सुसाध्यानि चेति पूर्वमुपन्यस्यन्ते / तत्र कर्माभ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतः समर्पणं कर्तृमिति कर्माङ्गविषयमेव तावदादावुपासनमुपन्यस्यते /
SK
START Cह्Uप् १,१.१
SK
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत | ओम् इति ह्य् उद्गायति | तस्योपव्याख्यानम् || Cह्Uप्_१,१.१ ||
SK
Cह्Uप्Bह्_१,१.१ इत्युपोद्घातभाष्यम्- ओमित्येतदक्षरमुद्गीथमुपासीत / ओमित्येतदक्षरं परमात्मनो ऽभिधानं नेदिष्ठम् / तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोकः / तदिहेतिपरं प्रयुक्तमभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते / तथा चार्चादिवत्परस्याऽत्मनः प्रतीकं सम्पद्यते / एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्वगतम् / जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रैष्ठ्यम् / अतस्तदेतक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत / कर्माङ्गावयवभूत ओङ्कारे परमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् / स्वयमेव श्रुतिरोङ्कारस्योद्गीथशब्दवाच्यत्वे हेतुमाह-ओमिति ह्युद्गायति / ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओङ्कार इत्यर्थः / तस्योपव्याख्यानं तस्याक्षरस्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथनमुपव्याख्यानम् / प्रवर्तत इति वाक्यशेषः
SK
START Cह्Uप् १,१.२
SK
एषां भूतानां पृथिवी रसः | पृथिव्या आपो रसः | अपाम् ओषधयो रसः | ओषधीनां पुरुषो रसः | पुरुषस्य वाग् रसः | वाच ऋग् रसः | ऋचः साम रसः | साम्न उद्गीथो रसः || Cह्Uप्_१,१.२ ||
SK
Cह्Uप्Bह्_१,१.२ एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः / पृथिव्या आपो रसो ऽप्सु ह्योता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः / अपामोषधयो रसो ऽप्परिणामत्वादोषधीनाम् / तासां पुरुषो रसो ऽन्नपरिणामत्वात् पुरुषस्य / तस्यापि पुरुषस्य वाग्रसः / पुरुषावयवानां हि वाक्सारिष्ठा / अतो वाक्पुरुषस्य रस उच्यते / तस्या अपि वाच ऋग्रसः सारतरा / ऋचः साम रसः सारतरम् / तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सारतरः
SK
START Cह्Uप् १,१.३
SK
स एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथः || Cह्Uप्_१,१.३ ||
SK
Cह्Uप्Bह्_१,१.३ एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्तरोत्तररसानामतिशयेन रसो रसतमः / परमः परमात्मप्रतीकत्वात् / परार्ध्योर्ऽधं स्थानं, परं च तदर्धं च परार्धं तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः / अष्टमः पृथिव्यादिरससंख्यायां यदुद्गीथो य उद्गीथः
SK
START Cह्Uप् १,१.४
SK
कतमा कतम र्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति || Cह्Uप्_१,१.४ ||
SK
Cह्Uप्Bह्_१,१.४ वाच ऋग्रस इत्युक्तम् / कतमा सर्क्कतमत्तत्साम कतमो वा स उद्गीथः / कतमा कतमेति वीप्साऽदरार्था / ननु᳚वा बहूनां जातिपरिप्रश्ने डतमच्᳚ / न ह्यत्र ऋग्जातिबहुत्वं कथं डतमच्प्रयोगः / नैष दोषः / जातौ परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः / न तु जातेः परिप्रश्न इति विगृह्यते / ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कठ इत्याद्युदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते / तत्रापि कठादिजातावेव व्यक्तिबहित्वाभिप्रायेण परिप्रश्न इत्यदोषः / यदि जातेः परिप्रश्नः स्यात्कतमा कतमर्गित्यादावुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति
SK
START Cह्Uप् १,१.५
SK
वाग् एवर्क् | प्राणः साम | ओम् इत्य् एतद् अक्षरम् उद्गीथः | तद् वा एतन् मिथुनं यद् वाक् च प्राणश् चर्क् च साम च || Cह्Uप्_१,१.५ ||
SK
Cह्Uप्Bह्_१,१.५ विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्क्प्राणः सामेति / वागृचोरेकत्वे ऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगुणसिद्धय ओमित्येतदक्षरमुद्गीथ इति / वाक्प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते / यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् / सर्वर्क्सामावरोधे चर्क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् / तदवरोधे च सर्वे कामा अवरुद्धाः स्युः / ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का विनर्त्यते / तद्वा एतदिति मिथुनं निर्दिश्यते / किं तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वऋक्सामकारणभूतौ मिथुनम् / ऋक्व साम चेति ऋक्सामकारणावृक्सामशब्दोक्तावित्यर्थः / न तु स्वतन्त्रमृक्च साम च मिथुनम् / अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमृक्साम चापरं मिथुनमिति द्वे मिथुने स्याताम् / तथा च तदेतन्मिथुनमित्येकवचननिर्देषो ऽनुपपन्नः स्यात् / तस्मादृक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम्
SK
START Cह्Uप् १,१.६
SK
तद् एतन् मिथुनम् ओम् इत्य् एतस्मिन्न् अक्षरे संसृज्यते | यदा वै मिथुनौ समागच्छत आपयतो वै ताव् अन्यो ऽन्यस्य कामम् || Cह्Uप्_१,१.६ ||
SK
Cह्Uप्Bह्_१,१.६ तदेतदेवंलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते / एवं सर्वकामावाप्तिगुणविशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् / वाङ्मयत्वमोङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते / यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयानां तदाऽपयतः प्रापयतो ऽन्योन्यस्येतरेतरस्य तौ कामम् / तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः
SK
START Cह्Uप् १,१.७
SK
आपयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते || Cह्Uप्_१,१.७ ||
SK
Cह्Uप्Bह्_१,१.७ तदुपासको ऽप्युद्गाता तद्धर्मा भवतीत्याह-आपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः / ᳚तं यथा यथोपासते तदेव भवति᳚इति श्रुतेः
SK
START Cह्Uप् १,१.८
SK
तद् वा एतद् अनुज्ञाक्षरम् | यद् धि किंचानुजानात्य् ओम् इत्य् एव तद् आह | एषो एव समृद्धिर् यद् अनुज्ञा | समर्धयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते || Cह्Uप्_१,१.८ ||
SK
Cह्Uप्Bह्_१,१.८ समृद्धिगुणवांश्चोङ्कारः / कथम्-तद्वा एतत्प्रकृमनुज्ञाक्षरमनुज्ञा च साक्षरं च तत् / अनुज्ञानुमतिरोङ्कार इत्यर्थः / कथमनुज्ञेत्याह श्रुतिरेव / यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह / तथा च वेदे᳚त्रयस्त्रिंशदित्योमिति होवाच᳚इत्यादिना / तथा च लोके ऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह / अत एषा उ एवैषैव समृद्धिर्यदनुज्ञा यानुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः / समृद्धो ह्योमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः / समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयिता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यादि पूर्ववत्
SK
START Cह्Uप् १,१.९ तेनेयं त्रयी विद्या वर्तते | ओम् इत्य् आश्रावयति | ओम् इति शंसति | ओम् इत्य् उद्गायति | एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन || Cह्Uप्_१,१.९ ||
SK
Cह्Uप्Bह्_१,१.९ अथेदानीमक्षरं स्तौत्युपास्यत्वात्प्ररोचनार्थम् / कथं, तेनाक्षरेण प्रकृतेनेयमृग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर्मेत्यर्थः / न हि त्रयी विद्यैवाऽश्रावणादिभिर्वर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् / कथमोमित्याश्रावत्योमिति शंसत्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते / तच्च कर्मैतस्यैवाक्षरस्यापचित्यै पूजार्थम् / परमात्मप्रतीकं हि तत् / तदपचितिः परमात्मन एव सा / ᳚स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः᳚इति स्मृतेः / महिम्ना रसेन / किञ्चैतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः / तथैतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः / यागहोमाद्यक्षरेण क्रियते / तच्चाऽदित्यमुपतिष्ठते / ततो वृष्ट्यादिक्रमेण प्राणो ऽन्नं च जायते / प्राणैरन्नेन च यज्ञस्तायते / अत उच्यते ऽक्षरस्य महिम्ना रस्न्ति
SK
START Cह्Uप् १,१.१०
SK
तेनोभौ कुरुतः | यश् चैतद् एवं वेद यश् च न वेद | नाना तु विद्या चाविद्या च | यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवतीति खल्व् एतस्यैवाक्षरस्योपव्याख्यानं भवति || Cह्Uप्_१,१.१० ||
SK
Cह्Uप्Bह्_१,१.१० तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाभिपति-तेनाभरेणोभौ यश्चैतदक्षरमेवं व्याख्यातं वेद यश्च कर्ममात्रविदक्षरयाथात्म्यं न वेद तावुभौ कुरुतः कर्म / तयोश्च कर्मसामर्थ्यादेव फलं स्यात्किं तत्राक्षरयाथात्म्यविज्ञानेनेति / दृष्टं हि लोके हरीतकीं भक्षयतोस्तद्रसाभिज्ञेतरयोर्विरेचनम् / नैवम् / यस्मान्नाना तु विद्या चाविद्या च भिन्ने हि विद्याविद्ये / तुशब्दः पक्षव्यावृत्त्यर्थः / नोङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततो ऽभ्यधिकम् / तस्मात्तदङ्गाधिक्यात्फलाधिक्यं युक्तमित्यभिप्रायः / दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् / तस्माद्यदेव विद्यया विज्ञानेन युक्तः सन्करोति कर्मश्रद्धया श्रद्दधानश्च सन्नुपनिषदा योगेन युक्तश्चेत्यर्थः / तदेव कर्म वीर्यवत्तरमविद्वत्कर्मणो ऽधिकफलं भवतीति / विद्वत्कर्मणो वीर्यवत्तर[त्वटवचनादविदुषो ऽपि कर्म वार्यदेव भवतीत्यभिप्रायः / न चाविदुषः कर्मण्यनधिकारः / औषस्त्ये काण्डे ऽविदुषामप्यार्विज्यदर्शनात् / रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् / मध्ये प्रयत्नान्तरादर्शनात् / अनेकैर्हि विशेषणैरनेकधोपास्यत्वात्खल्वेतस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य प्रथम खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,२.१
SK
देवासुरा ह वै यत्र संयेतिरे | उभये प्राजापत्यास् तद् ध देवा उद्गीथम् आजह्रुर् अनेनैनान् अभिभविष्याम इति || Cह्Uप्_१,२.१ ||
SK
Cह्Uप्Bह्_१,२.१ देवासुरा देवाश्चासुराश्च / देवा दीव्यतेर्द्येतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः / अशिरास्तद्विरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव / ह वा इति पूर्ववृत्तोद्भासकौ निपातौ / यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे / सम्पूर्वस्य यततेः संग्रामार्थत्वमिति संग्रामं कृतवन्त उत्यर्थः / शास्रीयप्रकाशवृत्तयभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयो ऽसुराः / तथा तद्विपरीताः शास्रार्थविषयविवेकज्योतिरात्मानो देवा स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो ऽनादिकालप्रवृत्त इत्यभिप्रायः / स इहश्रुत्याऽख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया / अत उभये ऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः / प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः / ᳚पुरुष एवोक्थमयमेव महान्प्रजापतिः᳚इति श्रुत्यन्तरात् / तस्य हि शास्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धा अपत्यानीव तदुद्भवत्वात् / तत्तत्रोत्कर्षापकर्षलक्षणनिमित्ते ह देवा उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्माऽजह्रुराहृतवन्तः / तस्यापि केवलस्याऽहरणासम्भवाज्जोतिष्टोमाद्याहृतवन्त इत्यभिप्रायः / तत्किमर्थमाजह्रुरित्युच्यते अनेन कर्मणैनानसुरानभिभविष्याम इत्येवमभिप्रायाः सन्तः
SK
START Cह्Uप् १,२.२
SK
ते ह नासिक्यं प्राणम् उद्गीथम् उपासां चक्रिरे | तं ह असुराः पाप्मना विविधुः | तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च | पाप्मना ह्य् एष विद्धः || Cह्Uप्_१,२.२ ||
SK
Cह्Uप्Bह्_१,२.२ यदा च तदुद्गीथं कर्माऽजिहीर्षवस्तदा-ते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तारमुद्गीथभक्त्योपासांचक्रिरेझ्रुपासनण्टकृतवन्त इत्यर्थः / नासिक्यप्राणमदृष्ट्योद्गीथाख्यमक्षरमोङ्कारमुपासांचक्रिर इत्यर्थः / एवं हि प्रकृतार्थपरित्यागो ऽप्रकृतार्थोपादानं च न कृतं स्यात् / खल्वेतस्यैवाक्षरस्येत्योङ्कारमुपासांचक्रिर इत्यर्थः / एवं हि प्रकृतार्थपरित्यागो ऽप्रकृतार्थोपादानं च न कृतं स्यात् / खल्वेतस्यैवाक्षरस्येत्योङ्कारो ह्यापास्यतया प्रकृतः / ननूद्गीथोपलक्षितं कर्माऽहृतवन्त इत्यवोच इदानीमेव;कथं नासिक्यप्राणदृष्ट्योङ्कारमुपासांचक्रिर इत्यात्थ / नैष दोषः / उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्योद्गीथभक्त्यवयवश्चोङ्कार उपास्यत्वेन विवक्षितो न स्वतन्त्रो ऽतस्तादर्थ्येन कर्माऽहृतवन्त इति युक्तमेवोक्तम् / तमेवं देवैर्वृतमुद्गातारं हासुराः स्वाभाविकतम आत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाधर्मासङ्गरूपेण विविधुर्विद्धवन्तः संसर्ग कृतवन्त इत्यर्थः / स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव / स तेन दोषेण पाप्मसंसर्गी बभूव / तदिदमुक्तमसुराः पाप्मना विविधुरिति / यस्मादासुरेण पाप्मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घ्राणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् / अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च / पाप्मना ह्येष यस्माद्विद्धः / उभयग्रहणमविवक्षितम् / यस्योभयं हविरार्तिमार्छतीति यद्वत् / यदेवेदमप्रतिरूपं जिघ्रतीति समानप्रकरणश्रुतेः
SK
START Cह्Uप् १,२.३-६
SK
अथ ह वाचम् उद्गीथम् उपासां चक्रिरे | तां हासुराः पाप्मना विविधुः | तस्मात् तयोभयं वदति सत्यं चानृतं च | पाप्मना ह्य् एषा विद्धा || Cह्Uप्_१,२.३ ||
SK
अथ ह चक्षुर् उद्गीथम् उपासां चक्रिरे | तद् धासुराः पाप्मना विविधुः | तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च | पाप्मना ह्य् एतद् विद्धम् || Cह्Uप्_१,२.४ ||
SK
अथ ह श्रोत्रम् उद्गीथम् उपासां चक्रिरे | तद् धासुराः पाप्मना विविधुः | तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च | पाप्मना ह्य् एतद् विद्धम् || Cह्Uप्_१,२.५ ||
SK
अथ ह मन उद्गीथम् उपासां चक्रिरे | तद् धासुराः पाप्मना विविधुः | तस्मात् तेनोभयं संकल्पयते संकल्पनीयं च | पाप्मना ह्य् एतद् विद्धम् || Cह्Uप्_१,२.६ ||
SK
Cह्Uप्Bह्_१,२.३-६ मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थो ऽयं विचारः श्रुत्या प्रवर्तितः / अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽसुरेण पाप्मना विद्धा इत्यपोह्यन्ते / समानमन्यत्, अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि / अनुक्ता अप्यन्यास्त्वग्रसमादिदेवता द्रष्टव्याः / ᳚एवमु खल्वेता देवताः पाप्मभिः᳚ इति श्रुत्यन्तरात् //३-६ //
SK
START Cह्Uप् १,२.७
SK
अथ ह य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासां चक्रिरे | तं हासुरा ऋत्वा विदध्वंसुर् यथाश्मानम् आखणम् ऋत्वा विध्वंसेतैवम् || Cह्Uप्_१,२.७ ||
SK
Cह्Uप्Bह्_१,२.७ आसुरेण विद्धत्वाद्घ्राणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पूर्ववदृत्वा प्राप्य विदध्वंसुर्विनष्टा अभिप्रायमात्रेण / अकृत्वा किञ्चिदपि प्राणस्य / कथं विनष्टा इत्यत्र दृष्टान्तमाह-यथा लोके ऽश्मानमाखणं न शक्यते खनितुं कुद्दालादिभिरपि भेत्तुं न शक्यो ऽखण एवाऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः क्षुत्यन्तराच्चाश्मनि क्षिप्तो ऽश्मभेदनाभिप्रायेण तस्याश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः
SK
START Cह्Uप् १,२.८
SK
एवं यथाश्मानम् आखणम् ऋत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश् चैनम् अभिदासति | स एषो ऽश्माखणः || Cह्Uप्_१,२.८ ||
SK
Cह्Uप्Bह्_१,२.८ एवं विशुद्धो ऽसुरैरधर्षितत्वात्प्राण इति एवंविदः प्राणात्मभूतस्येदं फलमाह-यथाश्मानमिति / एष एव दृष्टान्तः / एवं हैव स विध्वंसते विनश्यति / को ऽसावित्याह-य एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताडनादि प्रयुङ्क्ते सो ऽप्येवमेव विध्वंसत इत्यर्थः / यस्मात्स एष प्राणवित्प्राणभूतत्वादश्माखण इवाश्माखणो ऽधर्षणीय इत्यर्थः / ननु नासिक्यो ऽपि प्राणो वाय्वात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् / नैष दोषः / नासिक्यस्तु स्थानकरणवैगुण्याद्विद्धो वाय्वात्मापि सन्मुख्यः स्थानदेवताबलीयस्त्वान्न विद्ध इति युक्तम् / यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घ्राणसचिवत्वाद्विद्धा घ्राणदेवता न मुख्यः
SK
START Cह्Uप् १,२.९
SK
नैवैतेन सुरभि न दुर्गन्धि विजानाति | अपहतपाप्मा ह्य् एषः | तेन यद् अश्नाति यत् पिबति तेनेतरान् प्राणान् अवति | एतम् उ एवान्ततो ऽवित्त्वोत्क्रामति | व्याददात्य् एवान्तत इति || Cह्Uप्_१,२.९ ||
SK
Cह्Uप्Bह्_१,२.९ यस्मान्न विद्धो ऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घ्राणेनैव तदुभयं विजानाति लोकः / अतश्च पाप्मकार्यादर्शनादपहतपाप्मापहतो विनाशितो ऽपनीतः पाप्मा यस्मात्सो ऽयमपहतपाप्मा ह्येष विशुद्ध इत्यर्थः / यस्माच्चाऽत्मम्भरयः कल्याणाद्यासङ्गवत्त्वाद्घ्राणादयो न तथाऽत्मम्भरिर्मुख्यः किं तर्हि सर्वार्थः / कथमिति, उच्यते-तेन मुख्येन यदश्नाति यत्पिबति लोकस्तेनाशितेन पीतेन चोतरान्घ्राणादीनवति पालयति / तेन हि तेषां स्थितिर्भवतीत्यर्थः / अतः सर्वम्भरः प्राणो ऽतो विशुद्धः / कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यते-एतं (तमु एव) मुख्यं प्राणं मुख्यप्राणस्य वृत्तिमन्नपाने इत्यर्थः / अन्ततो ऽन्ते मरणकाले ऽवित्त्वालब्ध्वोत्-क्रामति / घ्राणादिप्राणसमुदाय इत्यर्थः / अप्राणो हि न शक्नोत्यशितुं पातुं वा / तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य / दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा / अतो व्याददात्येवाऽस्यविदारणं करोतीत्यर्थः / तद्ध्यन्नालाभ उत्क्रान्तस्य लिङ्गम्
SK
START Cह्Uप् १,२.१०
SK
तं हाङ्गिरा उद्गीथम् उपासां चक्रे | एतम् उ एवाङ्गिरसं मन्यन्ते ऽङ्गानां यद् रसः || Cह्Uप्_१,२.१० ||
SK
Cह्Uप्Bह्_१,२.१० तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवङ्गुणमुद्गीथमुयासाञ्चक्रे बक इत्येव सम्बन्धं कृतवन्तः केचित् / एतमु एवाऽङ्गिरसं बृहस्पतिमयास्यं प्राणं मन्यन्त इति चनात् / भवत्येवं यथाश्रुतासम्भवे, सम्भवति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् / तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तमृषिमपि / तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवो ऽत्रिरित्यादि ऋषीनेव प्राणमापादयति श्रुतिः / तथैतानप्यृषीन्प्राणोपासकानङ्गिरोबृहस्पत्ययास्यान्प्राणं करोत्यभेदविज्ञानाय / ᳚प्राणो ह पिता प्राणो माता᳚इत्यादिवच्च / तस्मादृषिरङ्गिरा नाम प्राण एव सन्नात्मानमङ्गिरसं प्राणमुद्गीथमुपासाञ्चक्र इत्येतत् / यद्यस्मात्सो ऽङ्गानां प्राणः सन्रसस्तेनासावाङ्गिरसः
SK
START Cह्Uप् १,२.११-१२
SK
तेन तं ह बृहस्पतिर् उद्गीथम् उपासां चक्रे | एतम् उ एव बृहस्पतिं मन्यन्ते | वाग् घि बृहती तस्या एषपतिः || Cह्Uप्_१,२.११ ||
SK
तेन तं हायास्य उद्गीथम् उपासां चक्रे | एतम् उ एवायास्यं मन्यन्ते | आस्याद् यद् अयते || Cह्Uप्_१,२.१२ ||
SK
Cह्Uप्Bह्_१,२.११,१२ तथा वाचो बृहत्याः पतिस्तेनासौ बृहस्पतिः / यथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽयास्य ऋषिः प्राण एव सन्नित्यर्थः तथान्यो ऽप्युपासक आत्मानमेवाऽङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः //११-१२ //
SK
START Cह्Uप् १,२.१३
SK
तेन तं ह बको दाल्भ्यो विदां चकार | स ह नैमिशीयानाम् उद्गाता बभूव | स ह स्मैभ्यः कामान् आगायति || Cह्Uप्_१,२.१३ ||
SK
Cह्Uप्Bह्_१,२.१३ न केवलमङ्गिरःप्रभृतयः उपासाञ्चक्रिरे / तं ह बको नाम दल्भ्यस्यापत्यं दाल्भ्यो विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् / विदित्वा च स ह नैमिशीयानां सत्त्रिणामुद्गाता बभूव / स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिशीयेभ्यः कामानागायति स्म हाऽगीतवान्किलेत्यर्थः
SK
START Cह्Uप् १,२.१४
SK
आगाता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते | इत्य् अध्यात्मम् || Cह्Uप्_१,२.१४ ||
SK
Cह्Uप्Bह्_१,२.१४ तथान्यो ऽप्युद्गाताऽगाता ह वै कामानां भवति एवं विद्वान्यथोक्तगुणं प्राणमक्षरमुद्गीथमुपास्ते तस्यैतद्दृष्टं फलमुक्तम् / प्राणात्मभावस्त्वदृष्टम्᳚देवो भूत्वा देवानप्येति᳚इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः / इत्यध्यात्ममेतदात्मविषयमुद्गीथोपासनमित्युक्तोपसंहारो ऽधिदैवतोद्गीथोपासने वक्ष्यमाणे बुद्धिसमाधानार्थः
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,३.१ अथाधिदैवतम् | य एवासौ तपति तम् उद्गीथम् उपासीत | उद्यन् वा एष प्रजाभ्य उद्गायति | उद्यंस् तमो भयम् अपहन्ति | अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद || Cह्Uप्_१,३.१ ||
SK
Cह्Uप्Bह्_१,३.१ अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमुत्यर्थो ऽनेकधोपास्यत्वादुद्गीथस्य / य एवासावादित्यस्तपति समुद्गीथमुपासीताऽदित्यदृष्ट्योद्गीथमुपासीतेत्यर्थः / तमुद्गीथमित्युद्गीथशब्दो ऽक्षरवाची सन्कथमादित्ये वर्तत इति?उच्यते / उद्यन्नुद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुद्गायति प्रजानामन्नोत्पत्त्यर्थम् / न ह्यनुद्यति तस्मिन्व्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवोद्गातान्नार्थमत उद्गीथः सवितेत्यर्थः / किञ्चोद्यन्नैशं तमस्तज्जं च भयं प्रणिनामपहन्ति तमेवङ्गुणं सवितारं यो वेद सो ऽपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्याऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति
SK
START Cह्Uप् १,३.२
SK
समान उ एवायं चासौ च | उष्णो ऽयम् उष्णो ऽसौ | स्वर इतीमम् आचक्षते स्वर इति प्रत्यास्वर इत्य् अमुम् | तस्माद् वा एतम् इमम् अमुं च उद्गीथम् उपासीत || Cह्Uप्_१,३.२ ||
SK
Cह्Uप्Bह्_१,३.२ यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते तथापि न स तत्त्वभेदस्तयोः / कथम्-समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन / यस्मादुष्णो ऽयं प्राण उष्णश्चासौ सविता / किञ्च स्वर इतीमं प्राणमाचक्षते कथयन्ति तथा स्वर इति;प्रत्यास्वर इति चामुं सवितारम् / यस्मात्प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति / सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति / अतः प्रत्यास्वरो ऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ / अतः सतत्त्वाभेदादेतं प्राणमिमममुं चाऽदित्यमुद्गीथमुपासीत
SK
START Cह्Uप् १,३.३
SK
अथ खलु व्यानम् एवोद्गीथम् उपासीत | यद् वै प्राणिति स प्राणः | यद् अपानिति सो ऽपानः | अथ यः प्राणापानयोः संधिः स व्यानः | यो व्यानः सा वाक् | तस्माद् अप्राणन्न् अनपानन् वाचम् अभिव्याहरति || Cह्Uप्_१,३.३ ||
SK
Cह्Uप्Bह्_१,३.३ अथ खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते-व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषमुद्गीथमुपासीत / अधुना तत्सतत्त्वं निरूप्यते-यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायोर्वृत्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकर्षति वायुं सो ऽपानो ऽपानाख्या वृत्तिः / ततः किमिति, उच्यते-अथ य उक्तलक्षणयोः प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानः, यः साङ्ख्यादिशास्रप्रसिद्धिः श्रुत्या विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः / कस्मात्पुनः प्राणापानौ हित्वा महताऽयासेन व्यानस्यैवोपासनमुच्यते / वीर्यवत्कर्महेतुत्वमित्याह-यो व्यानः सा वाक् / व्यानकार्यत्वाद्वाचः / यस्माद्व्याननिर्वर्त्या वाक्तस्मादप्राणन्ननपानन्प्राणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चारयति लोकः
SK
START Cह्Uप् १,३.४
SK
या वाक् सर्क् | तस्माद् अप्राणन्न् अनपानन्न् ऋचम् अभिव्याहरति | यर्क् तत् साम | तस्माद् अप्राणन्न् अनपानन् साम गायति | यत् साम स उद्गीथः | तस्माद् अप्रानन्न् अनपानन्न् उद्गायति || Cह्Uप्_१,३.४ ||
SK
Cह्Uप्Bह्_१,३.४ तथा वाग्विशेषामृचमृक्संस्थं च साम सामावयवं चोद्गीथमप्राणन्ननपानन्व्यानेनैव निर्वर्तयतीत्यभिप्रायः
SK
START Cह्Uप् १,३.५
SK
अतो यान्य् अन्यानि वीर्यवन्ति कर्माणि यथाग्नेर् मन्थनम् आजेः सरणं दृढस्य धनुष आयमनम् अप्राणन्न् अनपानंस् तानि करोति | एतस्य हेतोर् व्यानम् एवोद्गीथम् उपासीत || Cह्Uप्_१,३.५ ||
SK
Cह्Uप्Bह्_१,३.५ न केवलं वागाद्यभिव्याहरणमेवातो ऽस्मादन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि यथाग्नेर्मन्थनमाजेर्मर्यादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति / अतोविशिष्टो व्यानः प्राणादिवृत्तिभ्यः / विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् / एतस्य हेतोरेतस्मात्कारणाद्व्यानमेवोद्गीथमुपासीत नान्यद्वृत्त्यन्तरम् / कर्मवीर्यवत्तरत्वं फलम्
SK
START Cह्Uप् १,३.६
SK
अथ खलूद्गीथाक्षराण्य् उपासीत उद्-गी-थ इति | प्राण एवोत् | प्राणेन ह्य् उत्तिष्ठति | वग् गीः | वाचो ह गिर इत्य् आचक्षते | अन्नं थम् | अन्ने हीदं सर्वं स्थितम् || Cह्Uप्_१,३.६ ||
SK
Cह्Uप्Bह्_१,३.६ अथाधुना खलूद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि-उद्गीथ इति / उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासने ऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् / प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः / कथं प्राणस्योत्त्वमित्याह-प्राणेन ह्युत्तिष्ठति सर्वो ऽप्राणस्यावसाददर्शनादतो ऽस्त्युदः प्राणस्य च सामान्यम् / वाग्गीः / वाचो ह गिर इत्याचक्षते शिष्टाः / तथान्नं थमन्ने हीदं सर्वं स्थितमतो ऽस्त्यन्नस्य थाक्षरस्य च सामान्यम्
SK
START Cह्Uप् १,३.७
SK
द्यौर् एवोत् | अन्तरिक्षं गीः | पृथिवी थम् | आदित्य एवोत् | वायुर् गीः | अग्निस् थम् | सामवेद एवोत् | यजुर्वेदो गीः | ऋग्वेदस् थम् | दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः | अन्नवान् अन्नादो भवति | य एतान्य् एवं विद्वान् उद्गीथाक्षराण्य् उपास्त उद्-गी-थ इति || Cह्Uप्_१,३.७ ||
SK
Cह्Uप्Bह्_१,३.७ त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि / द्यौरेवोदुच्चैः स्थानात् / अन्तरिक्षं गार्गिरणाल्लोकानाम् / पृथिवी थं प्राणिस्थानात् / आदित्य एवोदूर्ध्वत्वात् / वायुर्गीरग्न्यादीनां गिरणात् / अग्निस्थं यज्ञीयकर्मावस्थानात् / सामवेद एवोत्स्वर्गसंस्तुतत्वात् / यजुर्वेदो गीर्यजुषा प्रत्तस्य हविषो देवतानां गिरणात् / ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः / उद्गीथाक्षरोपासनफलमधुनोच्यते-दुग्धे दोग्ध्यस्मै साधकास्य / का सा वाक्, कं दोहम् / को ऽसौ दोह इत्याह-यो वाचो दोहः / ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायस्तद्वाचो दोहस्तं स्वयमेव वाग्दोग्ध्यात्मानमेव दोग्धि / किञ्चान्नवान्प्रभूतान्नो ऽन्नादश्च दीप्ताग्निर्भवति / य एतानि यथोक्तान्येवं यथोक्तगुणान्युद्गीथाक्षराणि विद्वान्सन्नुपास्त उद्गीथ इति
SK
START Cह्Uप् १,३.८
SK
अथ खल्व् आशीः समृद्धिः | उपसरणानीत्य् उपासीत | येन साम्ना स्तोष्यन् स्यात् तत् सामोपधावेत् || Cह्Uप्_१,३.८ ||
SK
Cह्Uप्Bह्_१,३.८ अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः / उपसरणान्युपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः / कथम्, इत्युपासीत, एवमुपासीत / तद्यथा-येन साम्ना येन सामविशेषेण स्तोष्यन्स्तुतिं करिष्यन्स्याद्भवेदुद्गाता तत्सामोपधावेदुपसरेच्चिन्तयेदुत्पत्त्यादिभिः
SK
START Cह्Uप् १,३.९
SK
यस्याम् ऋचि ताम् ऋचं, यद् आर्षेयं तम् ऋषिं, यां देवताम् अभिष्टोष्यन् स्यात् तां देवताम् उपधावेत् || Cह्Uप्_१,३.९ ||
SK
Cह्Uप्Bह्_१,३.९ यस्यामृचि तत्साम तां चर्चमुपधावेद्देवतादिभिः / यदार्षेयं साम तं चर्षिम् / यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत्
SK
START Cह्Uप् १,३.१०
SK
येन च्छन्दसा स्तोष्यन् स्यात् तच् छन्द उपधावेत् | येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोमम् उपधावेत् || Cह्Uप्_१,३.१० ||
SK
Cह्Uप्Bह्_१,३.१० येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात्तच्छन्द उपधावेत् / येन स्तोमेन स्तोष्यमाणः स्यात् / स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति / तं स्तोममुपधावेत्
SK
START Cह्Uप् १,३.११
SK
यां दिशम् अभिष्टोष्यन् स्यात् तां दिशम् उपधावेत् || Cह्Uप्_१,३.११ ||
SK
Cह्Uप्Bह्_१,३.११ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदधिष्ठात्रादिभिः
SK
START Cह्Uप् १,३.१२
SK
आत्मानम् अन्तत उपसृत्य स्तुवीत कामं ध्यायन्न् अप्रमत्तः | अभ्याशो ह यद् अस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति || Cह्Uप्_१,३.१२ ||
SK
Cह्Uप्Bह्_१,३.१२ आत्मानमुद्गाता स्वं रूपं गोत्रनामादिभिः सामादीन्क्रमेण स्वं चाऽत्मानमन्ततो ऽन्त उपसृत्य स्तुवीत / कामं ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वंस्ततो ऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् / को ऽसौ, यत्कामो यः कामो ऽस्य सो ऽयं यत्कामः सन्स्तुवीतेति / द्विरुक्तिकादरार्था
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य तृतीयः खण्डः
SK
======================================================================= START Cह्Uप् १,४.१
SK
ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत | ओम् इति ह्य् उद्गायति | तस्योपव्याख्यानम् || Cह्Uप्_१,४.१ ||
SK
Cह्Uप्Bह्_१,४.१ ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् / प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः / ओमित्यादि व्याख्यातम्
SK
START Cह्Uप् १,४.२
SK
देवा वै मृत्योर् बिभ्यतस् त्रयीं विद्यां प्राविशन् | ते छन्दोभिर् अच्छादयन् | यद् एभिर् अच्छादयंस् तच् छन्दसां छन्दस्त्वम् || Cह्Uप्_१,४.२ ||
SK
Cह्Uप्Bह्_१,४.२ देवा वै मृत्योर्मारकाद्विभ्यतः किं कृतवन्त इत्युच्यते / त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिकं कर्म प्रारब्धवन्त इत्यर्थः / तन्मृत्योस्राणं मन्यमानाः / किञ्च ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः / यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्तस्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव
SK
START Cह्Uप् १,४.३
SK
तान् उ तत्र मृत्युर् यथा मत्स्यम् उदके परिपश्येद् एवं पर्यपश्यद् ऋचि साम्नि यजुषि | ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरम् एव प्राविशन् || Cह्Uप्_१,४.३ ||
SK
Cह्Uप्Bह्_१,४.३ तांस्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येद्बडिशोदकस्रावोपायसाध्यं मन्यमान एवं पर्यपश्यद्दृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेन इत्यर्थः / क्वासौ देवान्ददर्शेत्युच्यते-ऋचि साम्नि यजुषि / ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः / ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः / विदित्वा च त ऊर्ध्वा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसम्बद्धात्कर्मणो ऽभ्युत्थायेत्यर्थः / तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः / ओङ्कारोपासनपराः संवृत्ताः / एवशब्दो ऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः / तदुपासनपराः संवृत्ता इत्यर्थः
SK
START Cह्Uप् १,४.४
SK
यदा वा ऋचम् आप्नोत्य् ओम् इत्य् एवातिस्वरति एवं सामैवं यजुः | एष उ स्वरो यद् एतद् अक्षरम् एतद् अमृतम् अभयम् | तत् प्रविश्य देवा अमृता अभवन् || Cह्Uप्_१,४.४ ||
SK
Cह्Uप्Bह्_१,४.४ कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यते-यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुः / एष उ स्वरः / को ऽसौ यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्चाभवन्देवाः
SK
START Cह्Uप् १,४.५
SK
स य एतद् एवं विद्वान् अक्षरं प्रणौत्य् एतद् एवाक्षरं स्वरम् अमृतम् अभयं प्रविशति | तत् प्रविश्य यद् अमृता देवास् तद् अमृतो भवति || Cह्Uप्_१,४.५ ||
SK
Cह्Uप्Bह्_१,४.५ स यो ऽन्यो ऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणौति स्तौति / उपासनमेवात्र स्तुतिरभिप्रेता / स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति / तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञो ऽन्तरङ्गबहिरङ्गतावन्न विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकतामृतत्व इत्यर्थः
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,५.१
SK
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति | असौ वा आदित्य उद्गीथ एष प्रणवः | ओम् इति ह्य् एष स्वरन्न् एति || Cह्Uप्_१,५.१ ||
SK
Cह्Uप्Bह्_१,५.१ प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्याक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते-अथ खलु य उद्गीथः स प्रणवो बह्वृचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः / असौ वा आदित्य उद्गीथ एष प्रणवशब्दवाच्यो ऽपि स एव बह्वृचानां नान्यः / उद्गीथ आदित्यः कथम् / उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् / अथवा स्वरन्गच्छन्नैति / अतो ऽसावुद्गीथः सविता
SK
START Cह्Uप् १,५.२
SK
एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच | रश्मींस् त्वं पर्यावर्तयात् | बहवो वै ते भविष्यन्ति | इत्य् अधिदैवतम् || Cह्Uप्_१,५.२ ||
SK
Cह्Uप्Bह्_१,५.२ तमेतमु एवाहमभ्यगासिषमाभिमुख्येन गीतवानस्म्यादित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः / तेन तस्मात्कारणान्मम त्वमेको ऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाचोक्तवान् / अतो रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात्पर्यावर्तयेत्यर्थः / त्वंयोगात् / एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधि दैवतम्
SK
START Cह्Uप् १,५.३
SK
अथाध्यात्मम् | य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासित | ओम् इति ह्य् एष स्वरन्न् एति || Cह्Uप्_१,५.३ ||
SK
Cह्Uप्Bह्_१,५.३ अथानन्तरमध्यात्ममुच्यते / य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् / तथोमिति ह्येष प्राणो ऽपि स्वरन्नेत्योमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतोत्यर्थः / न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योङ्कारणं शृण्वन्तीति / एतत्सामान्यादादित्ये ऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम्
SK
START Cह्Uप् १,५.४
SK
एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच | प्राणांस् त्वं भूमानम् अभिगायताद् बहवो वै मे भविष्यन्तीति || Cह्Uप्_१,५.४ ||
SK
Cह्Uप्Bह्_१,५.४ एतमु एवाहमभ्यगासिषित्यादि पूर्ववदेव / अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टगुद्गीथं पश्यन्भूमानं मनसाभिगायतात् / पूर्ववदावर्तयेत्यर्थः / बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः / प्राणादित्यैकत्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यते ऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम्
SK
START Cह्Uप् १,५.५
SK
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति | होतृषदनाद् ध एवापि दुरुद्गीथम् अनुसमाहरतीत्य् अनुसमाहरतीति || Cह्Uप्_१,५.५ ||
SK
Cह्Uप्Bह्_१,५.५ अथ खलु य उद्गीथ इत्यादिप्रणवोद्गीथैकत्वदर्शनमपक्तं तस्यैतत्फलमाहर्तुं शक्यम् / किं तद्धैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमुद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः / तदनुसमाहरत्यनुसन्धत्त इत्यर्थः / चिकित्सयेव धातुवैषम्यसमीकरणमिति
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,६.१
SK
इयम् एवर्क् | अग्निः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | इयम् एव सा | अग्निर् अमः | तत् साम || Cह्Uप्_१,६.१ ||
SK
Cह्Uप्Bह्_१,६.१ अथेदानीं सर्वफलसम्पत्त्यर्थमुद्गीथस्योपासनान्तरं विधित्स्यते-इयमेव पृथिव्यृक् / ऋचि पृथिवीदृष्टिः कार्या / तथाग्निः साम / साम्न्यग्निदृष्टिः / कथं पृथिव्यग्न्योर् ऋक्सामत्वमिति / उच्यते / तदेतत्तदेतदग्न्याख्यं सामैतस्यां पृथिव्यामृच्यध्यूढमधिगतमुपरिभावेन स्थितमित्यर्थः / ऋचीव साम / तस्मादत एव कारणादृच्यध्यूढमेव साम गीयत इदानीमपि सामगैः / यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम / तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव / तस्माच्च पृथिव्यग्न्योर् ऋक्सामत्वमित्यर्थः / सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव साग्निरम इति केचित्
SK
START Cह्Uप् १,६.२-३
SK
अन्तरिक्षम् एवर्क् | वायुः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | अन्तरिक्षम् एव सा | वायुर् अमः | तत् साम || Cह्Uप्_१,६.२ ||
SK
द्यौर् एवर्क् | आदित्यः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | द्यौर् एव सा | आदित्यो ऽमः | तत् साम || Cह्Uप्_१,६.३ ||
SK
Cह्Uप्Bह्_१,६.२,३ अन्तरिक्षमेवर्ग्वायुः सामेत्यादि पूर्ववत् //२-३ //
SK
START Cह्Uप् १,६.४
SK
नक्षत्रान्य् एवर्क् | चन्द्रमाः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | नक्षत्राण्य् एव सा | चन्द्रमा अमः | तत् साम || Cह्Uप्_१,६.४ ||
SK
Cह्Uप्Bह्_१,६.४ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम
SK
START Cह्Uप् १,६.५
SK
अथ यद् एतद् आदित्यस्य शुक्लं भाः सैवर्क् | अथ यन् नीलं परःकृष्णं तत् साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्मद् ऋच्य् अध्यूढं साम गीयते || Cह्Uप्_१,६.५ ||
SK
Cह्Uप्Bह्_१,६.५ अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैवर्क / अथ यदादित्ये नीलं परः कृष्णं परो ऽतिशयेन कार्ष्ण्यं तत्साम / तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते
SK
START Cह्Uप् १,६.६
SK
अथ यद् एवैतद् आदित्यस्य शुक्लं भाः सैव सा | अथ यन् नीलं परःकृष्णं तद् अमः | तत् साम | अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर् हिरण्यकेश आ प्रणखात् सर्व एव सुवर्नः || Cह्Uप्_१,६.६ ||
SK
Cह्Uप्Bह्_१,६.६ ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम / अथ य एषो ऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो हिरण्मय इव हिरण्मयः / न हि सुवर्णविकारत्वं देवस्य सम्भवति / ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् / न हि सौवर्णे ऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत / चाक्षुषे चाग्रहणात् / अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः / उत्तरेषवपि समाना योजना / पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽत्मना जगदिति / दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षम् / तेजस्विनो ऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि-हिरण्यश्मश्रुर्हिरण्यकेश इति / ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः / आप्रणखात्प्रणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः
SK
START Cह्Uप् १,६.७
SK
तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी | तस्योद् इति नाम | स एष सर्वेभ्यः पाप्मभ्य उदितः | उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद || Cह्Uप्_१,६.७ ||
SK
Cह्Uप्Bह्_१,६.७ तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्वशेषः / कथं?तस्य यथा कपेर्मर्कटस्याऽसः कप्यासः / आसेरुपवेशनार्थस्य करणे घञ् / कपिपृष्ठान्तो येनोपविशति / कप्यास इव पुण्डरीकमत्यन्ततेजस्व्येवमस्य देवस्याक्षिणी / उपमितोपमानत्वान्न हीनोपमा / तस्यैवङ्गुणविशिष्टस्य गौणमिदं नामोदिति / कथं गौणत्वम् / स एष देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः / य आत्मापहतपाप्मेत्यादि वक्ष्यति / उदित उद् इत उद्गत इत्यर्थः / अतो ऽसावुन्नामा / तमेवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सो ऽप्येवमेवोदेत्युद्गच्छति सर्वेभ्यः पाप्मभ्यः / ह वा इत्यवधारणार्थौ निपातौ / उदेत्येवेत्यर्थः
SK
START Cह्Uप् १,६.८
SK
तस्यर्क् च साम च गेष्णौ | तस्माद् उद्गीथः | तस्मात् त्व् एव उद्गाता | एतस्य हि गाता | स एष ये चामुष्मात् पराञ्चो लोकास् तेषां चेष्ट देवकामानां च | इत्य् अधिदैवतम् || Cह्Uप्_१,६.८ ||
SK
Cह्Uप्Bह्_१,६.८ तस्योद्गीथत्वं देवस्याऽदित्यादीनामिव विवक्षितत्वादाह-तस्यर्क्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी / सर्वात्मा हि देवः / परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्यृक्सामगेष्णत्वम् / सर्वयोनित्वाच्च / यत एवमुन्नामाचासावृक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वप्राप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्षप्रियत्वाद्देवस्य तस्मादुद्गीथ इति / तस्मात्तवेव हेतोरुदं गायतीत्युद्गाता / यस्माद्ध्येतस्य यथोक्तस्योन्नाम्नो गातासावतो युक्तोद्गातेति नामप्रसिद्धिरुद्गातुः / स एष देव उन्नामा ये चामुष्मादादित्यात्पराञ्चः परागञ्चनादूर्ध्वा लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च / ᳚स दाधार पृथिवीं द्यामुतेमाम्᳚इत्यादिमन्त्रवर्णात् / किञ्च देवकामानामीष्ट इत्येतदधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम्
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,७.१
SK
अथाध्यात्मम् | वाग् एवर्क् | प्राणः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | वाग् एव सा | प्राणो ऽमः | तत् साम || Cह्Uप्_१,७.१ ||
SK
Cह्Uप्Bह्_१,७.१ अथाधुनाध्यात्ममुच्यते / वागेवर्क्प्राणः साम / अधरोपरिस्थानत्वसामान्यात् / प्राणो घ्राणमुच्यते सह वायुना, वागेव सा प्राणो ऽम इत्यादि पूर्ववत्
SK
START Cह्Uप् १,७.२
SK
चक्षुर् एवर्क् | आत्मा साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | चक्षुर् एव सा | आत्मामः | तत् साम || Cह्Uप्_१,७.२ ||
SK
Cह्Uप्Bह्_१,७.२ चक्षुरेवर्गात्मा साम / आत्मेति च्छायात्मा तत्स्थत्वात्साम
SK
START Cह्Uप् १,७.३
SK
श्रोत्रम् एवर्क् | मनः साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | श्रोत्रम् एव सा | मनो ऽमः | तत् साम || Cह्Uप्_१,७.३ ||
SK
Cह्Uप्Bह्_१,७.३ श्रोत्रमेवर्ङ्मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम्
SK
START Cह्Uप् १,७.४
SK
अथ यद् एतद् अक्ष्नः शुक्लं भाः सैवर्क् | अथ यन् नीलं परःकृष्णं तत् साम | तद् एतद् एतस्याम् ऋच्य् अध्यूढं साम | तस्माद् ऋच्य् अध्यूढं साम गीयते | अथ यद् एवैतद् अक्ष्णः शुक्लं भाः सैव सा | अथ यन् नीलं परःकृष्णं तद् अमः | तत् साम || Cह्Uप्_१,७.४ ||
SK
Cह्Uप्Bह्_१,७.४ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क / अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम
SK
START Cह्Uप् १,७.५
SK
अथ य एषो ऽन्तर् अक्षिणि पुरुषो दृश्यते सैवर्क् | तत् साम | तद् उक्थम् | तद् यजुः | तद् ब्रह्म | तस्य एतस्य तद् एव रूपं यद् अमुष्य रूपम् | याव् अमुष्य गेष्णौ तौ तौ गोष्णौ | यन् नाम तन् नाम || Cह्Uप्_१,७.५ ||
SK
Cह्Uप्Bह्_१,७.५ अथ य एषो ऽन्तरक्षिणि पुरुषो दृश्यते / पूर्ववत् / सैवर्गध्यात्मं वागाद्या पृथिव्याद्या चाधिदैवतम् / प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका / तथा साम / उक्थसाहचर्याद्वा स्तोत्रं सामोक्थं शस्त्रम् / उक्थादन्यत् तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुस्तत्स एव / सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम / ऋगादिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः / तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते / किं तद्यदमुष्याऽदित्यपुरुषस्य / हिरण्मय इत्यादि यदधिदैवतमुक्तम् / यावमुष्य गेष्णौ पर्वणी तावेवास्यापि चाक्षुषस्य गेष्णौ / यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम / स्थानभेदाद्रूपगिणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽदित्यचाक्षुषयोर्भेद इति चेत् / न / अमुनानेनैवेत्येकस्योभयात्मप्राप्त्यनुपपत्तेः / द्विधाभावेनोपपद्यत इति चेत् / वक्ष्यति हि स एकधा भवति त्रिधा भवतीत्यादि / न / चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः / तस्मादध्यात्माधिदैवतयोरेकत्वमेव / यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय / किं तर्हि स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम्
SK
START Cह्Uप् १,७.६
SK
स एष ये चैतस्माद् अर्वाञ्चो लोकास् तेषां चेष्टे मनुष्यकामानां चेति | तद् य इमे वीणायां गायन्त्य् एतं ते गायन्ति | तस्मात् ते धनसनयः || Cह्Uप्_१,७.६ ||
SK
Cह्Uप्Bह्_१,७.६ स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोर्ऽवाञ्चोर्ऽवाग्गता लोकास्तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् / तत्स्माद्य इमे वीणायां गायन्ति गायकस्त एतमेव गायन्ति / यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयो धनलाभयुक्ता धनवन्त उत्यर्थः
SK
START Cह्Uप् १,७.७
SK
अथ य एतद् एवं विद्वान् साम गायत्य् उभौ स गायति | सो ऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकास् तांश् चाप्नोति देवकामांश् च || Cह्Uप्_१,७.७ ||
SK
Cह्Uप्Bह्_१,७.७ अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च / तस्यैवंविदः फलमुच्यतेसो ऽमुनैवाऽदित्येन स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाऽप्नोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवकामांश्च
SK
START Cह्Uप् १,७.८-९
SK
अथानेनैव ये चैतस्माद् अर्वाञ्चो लोकास् तांश् चाप्नोति मनुष्यकामांश् च | तस्माद् उ हैवंविद् उद्गाता ब्रूयात् || Cह्Uप्_१,७.८ ||
SK
कं ते कामम् आगायानीति | एष ह्य् एव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति || Cह्Uप्_१,७.९ ||
SK
Cह्Uप्Bह्_१,७.८ अथानेनैव चाक्षुषेणैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च चाक्षुषो भूत्वेत्यर्थः / तस्मादु हैवंविदुद्गाता ब्रूयाद्यजमानं कमिष्टं ते तव काममागायानीति / एष हि यस्मादुद्गाता कामागानस्योद्गानेन कामं सम्पादयितुमीष्टे समर्थ इत्यर्थः / को ऽसौ?य एवं विद्वान्साम गायति साम गायति / द्विरुक्तिरुपासनसमाप्त्यर्था //८-९ //
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,८.१
SK
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश् चैकितायनो दाल्भ्यः प्रवाहणो जैवलिर् इति | ते होचुर् उद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति || Cह्Uप्_१,८.१ ||
SK
Cह्Uप्Bह्_१,८.१ अनेकधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय / इतिहासस्तु सुखावबोधनार्थः / त्रयस्त्रिसंख्याकाः / ह, इत्यैतिह्यार्थः / उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः / कस्मिंश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्रायः / न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने / श्रूयन्ते ह्युषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः / के ते त्रय इत्याह-शिलको नामतः शलावतो ऽपत्यं शालावत्यः / चिकितायनस्यापत्यं चैकितायनः / दल्भगोत्रो दाल्भ्यो द्व्यामुष्यायणो वा / प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होचुरन्योन्यमुद्गीथे वै कुशला निपुणा इति प्रसिद्धाः स्मः / अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः / तथा च तद्विद्यसंवादे विपरीतग्रहणनाशो ऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति / अतस्तद्विद्यसंयोगः कर्तव्य इति चेतिहासप्रयोजनम् / दृश्यते हि शिलकादीनाम्
SK
START Cह्Uप् १,८.२
SK
तथेति ह समुपविविशुः | स ह प्रावहणो जैवलिर् उवाच | भगवन्ताव् अग्रे वदताम् | भ्रामणयोर् वदतोर् वाचं श्रोष्यामीति || Cह्Uप्_१,८.२ ||
SK
Cह्Uप्Bह्_१,८.२ तथेत्युक्त्वा ते समुपविविशुर्हेपविष्टवन्तः किल / तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ᳚भगवन्तौ पूजावन्तावग्रे पूर्वं वदताम्᳚ / ब्राह्मणयोरिति लिङ्गाद्राजासौ / युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि / अर्थरहितामित्यपरे वाचमिति विशेषणात्
SK
START Cह्Uप् १,८.३
SK
स ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाच हन्त त्वा पृच्छानीति | पृच्छेति होवाच || Cह्Uप्_१,८.३ ||
SK
Cह्Uप्Bह्_१,८.३ उक्तयोः स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-᳚हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानी᳚त्युक्त इतरः᳚पृच्छे᳚ति होवाच
SK
START Cह्Uप् १,८.४
SK
का साम्नो गतिर् इति | स्वर इति होवाच | स्वरस्य का गतिर् इति | प्राण इति होवाच | अन्नस्य का गतिर् इति | अन्नम् इति होवाच | अन्नस्य का गतिर् इति | आप इति होवाच || Cह्Uप्_१,८.४ ||
SK
Cह्Uप्Bह्_१,८.४ लब्धानुमतिराह-का साम्नः, प्रकृतत्वादुद्गीथस्य / उद्गीथो ह्यत्रोपास्यत्वेन प्रकृतः / ᳚परोवरीयांसमुद्गीथम्᳚इति च वक्ष्यति / गतिराश्रयः परायणमित्येतत् / एवं पृष्टो दाल्भ्य उवाच-स्वर इति / स्वरात्मकत्वात्साम्नः / यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः / स्वरस्य का गतिरिति, प्राण इति होवाच / प्राणनिष्पाद्यो हि स्वरस्तस्मात्सवरस्य प्राणो गतिः / प्राणस्य का गतिरित्यन्नमिति होवाच / अन्नावष्टम्भो हि प्राणः / ᳚शुष्यति वै प्राण ऋते ऽन्नात्᳚इति हि श्रुतेः / ᳚अन्नं दाम᳚इति च / अन्नस्य का गतिरित्याप इति होवाच / अप्सम्भवत्वादन्नस्य
SK
START Cह्Uप् १,८.५
SK
अपां का गतिर् इति | असौ लोक इति होवाच | अमुष्य लोकस्य का गतिर् इति | न स्वर्गं लोकम् अतिनयेद् इति होवाच | स्वर्गं वयं लोकं सामाभिसंस्थापयामः | स्वर्गसंस्तावं हि सामेति || Cह्Uप्_१,८.५ ||
SK
Cह्Uप्Bह्_१,८.५ अपां का गतिरित्यसौ लोक इति / अमुष्माल्लोकाद्वृष्टिः सम्भवति / अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्य उवाच-स्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽह / अतो वयमपि स्वर्गं लोकं सामाभिसंस्थापयामः / स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः / स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्᳚स्वर्गो वै लोकः सामवेद᳚इति श्रुतिः
SK
START Cह्Uप् १,८.६
SK
तं ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम | यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति || Cह्Uप्_१,८.६ ||
SK
Cह्Uप्Bह्_१,८.६ तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-अप्रतिष्ठितमसंस्थितं परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः / वा इत्यागमं स्मारयति किलेति च, दाल्भ्य ते तव साम / यस्त्वसहिष्णुः सामविदेतर्ह्येतस्मिन्काले ब्रूयात्कश्चिद्विपरीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विपतिष्यति विस्पष्टं पतिष्यतीति / एवमुक्तस्यापराधिनस्तथैव तद्विपतेन्न संशयो न त्वाहं ब्रवीमीत्यभिप्रायः / ननु मूर्धपातार्ऽहं चेदपराधं कृतवानतः परेणानुक्तस्यापि पतेन्मूर्धा;न चेदपराध्युक्तस्यापि नैव पतति / अन्यथाकृताभ्यागमः कृतनाशश्च स्याताम् / नैष दोषः / कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात् / तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति
SK
START Cह्Uप् १,८.७
SK
हन्ताहम् एतद् भगवत्तो वेदानीति | विद्धीति होवाच | अमुष्य लोकस्य का गतिर् इति | अयं लोक इति होवाच | अस्य लोकस्य का गतिर् इति | न प्रतिष्ठां लोकम् अतिनयेद् इति होवाच | प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः | प्रतिष्ठासंस्तावं हि सामेति || Cह्Uप्_१,८.७ ||
SK
Cह्Uप्Bह्_१,८.७ एवमुक्तो दाल्भ्य आह-हन्ताहमेतद्भगवत्तो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच / अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्यो ऽयं लोक इति होवाच / अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति / ᳚इतः प्रदानं देवा उपजीवन्ति᳚इति हि श्रुतयः / प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति / अतः साम्नो ऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् / अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः / न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् / अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः / यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः / ᳚इयं वै रथन्तरम्᳚इति च श्रुतिः
SK
START Cह्Uप् १,८.८
SK
तं ह प्रवाहणो जैवलिर् उवाच | अन्तवद् वै किल ते शालावत्य साम | यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति | हन्ताहम् एतद् भगवत्तो वेदानीति | विद्धीति होवाच || Cह्Uप्_१,८.८ ||
SK
Cह्Uप्Bह्_१,८.८ तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् / ततः शालावत्य आह-हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचेतरो ऽनुज्ञात आह
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,९.१
SK
अस्य लोकस्य का गतिर् इति | आकाश इति होवाच | सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते | आकाशं प्रत्य् अस्तं यन्ति | आकाशो ह्य् एवैभ्यो ज्यायान् | आकाशः परायणम् || Cह्Uप्_१,९.१ ||
SK
Cह्Uप्Bह्_१,९.१ अस्य लोकस्य का गतिरिति / आकाश इति होवाच प्रवाहणः / आकाश इति च पर आत्मा᳚आकाशो वै नामे᳚ति श्रुतेः / तस्य हि कर्म सर्वभूतोत्पादकत्वम् / तस्मिन्नेव हि भूतप्रलयः / तत्तेजो ऽसृजत / तेजः परस्यां देवतायामिति हि वक्ष्यति / सर्वाणि ह वा इमानि भूतानि स्थावरजङ्गमान्याकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात् / आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्महत्तरो ऽतः स सर्वेषां भृतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः
SK
START Cह्Uप् १,९.२
SK
स एष परोवरीयान् उद्गीथः | स एषो ऽनन्तः | परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ् जयति य एतद् एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते || Cह्Uप्_१,९.२ ||
SK
Cह्Uप्Bह्_१,९.२ यस्मात्परं परं वरीयो वरीयसो ऽप्येष वरः परश्च वरीयाश्च रपोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः / अत एव स एषो ऽनन्तो ऽविद्यामानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते / तस्यैतत्फलमाह-परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते
SK
START Cह्Uप् १,९.३
SK
तं हैतम् अतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच | यावत् त एनं प्रजायाम् उद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस् तावद् अस्मिंल् लोके जीवनं भविष्यति || Cह्Uप्_१,९.३ ||
SK
Cह्Uप्Bह्_१,९.३ किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदरशाडिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच / यावत्ते तव प्रजायां प्रजासन्ततावित्यर्थः / एनमुद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति
SK
START Cह्Uप् १,९.४
SK
तथामुष्मिंल् लोके लोक इति | स य एतम् एव विद्वान् उपास्ते परोवरीय एव हास्यामुष्मिंल् लोके जीवनं भवति तथामुष्मिंल् लोके लोक इति लोके लोक इति || Cह्Uप्_१,९.४ ||
SK
Cह्Uप्Bह्_१,९.४ तथादृष्टे ऽपि परलोके ऽमुष्मिन्परोवरीयांल्लोको भविष्यतीत्युक्तवाञ्शाण्डिल्यायातिधन्वा शौनकः / स्यादेतत्फलं पूर्वेषां महाभाग्यानां नैदंयुगीनानामित्याशङ्कानिवृत्तय आह-स यः कश्चिदेतदेवं विद्वानुद्गीथमेतर्ह्युपास्ते तस्याप्येवमेव परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोके लोक इति
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,१०.१
SK
मटचीहतेषु कुरुष्व् आटिक्या सह जाययोषस्तिर् ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास || Cह्Uप्_१,१०.१ ||
SK
Cह्Uप्Bह्_१,१०.१ उद्गीयोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते / आख्यायिका त सुखावबोधार्था / मटचीहतेषु मटच्यो ऽशनयस्ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः / ततो दुर्भिक्षे जात आटिक्यानुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह नामतश्चक्रस्यापत्यं चाक्रायणः / इभो हस्ती तमर्हतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम इभ्यग्रामस्तस्मिन्प्रद्राणको ऽन्नालाभात् / द्रा कुत्सायां गतौ / कृत्सितां गतिं गतो ऽन्त्यावस्थां प्राप्त इत्यर्थः / उवासोषितवान्कस्यचिद्गृहमाश्रित्य
SK
START Cह्Uप् १,१०.२
SK
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे | तं होवाच | नेतो ऽन्ये विद्यन्ते यच् च ये म इम उपनिहिता इति || Cह्Uप्_१,१०.२ ||
SK
Cह्Uप्Bह्_१,१०.२ सो ऽन्नार्थमटन्निभ्यं कुल्माषान्कुत्सितान्माषान्खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् / तमुषस्तिं होवाचेभ्यः / नेतो ऽस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते / यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजते किं करोमीत्युक्तः प्रत्युवाचोषस्तिः
SK
START Cह्Uप् १,१०.३
SK
एतेषां मे देहीति होवाच | तान् अस्मै प्रददौ | हन्तानुपानम् इति | उच्छिष्टं वै मे पीतं स्याद् इति होवाच || Cह्Uप्_१,१०.३ ||
SK
Cह्Uप्Bह्_१,१०.३ एतेषामेतानित्यर्थः / मे मह्यं देहीति होवाच / तान्स इभ्यो ऽस्मा उषस्तये प्रददौ प्रदत्तवान् / अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्युक्तः प्रत्युवाच / उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्तवन्तं प्रत्युवाचेतरः
SK
START Cह्Uप् १,१०.४
SK
न स्विद् एते ऽप्य् उच्छिष्टा इति | न वा अजीविष्यम् इमान् अखादन्न् इति होवाच | कामो म उदपानम् इति || Cह्Uप्_१,१०.४ ||
SK
Cह्Uप्Bह्_१,१०.४ किं न स्विदेते कुल्माषा उप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कुल्माषानखादन्नभक्षयन्निति होवाच / काम इच्छातो मे ममोदकपानं लभ्यत इत्यर्थः / अतश्चैतामवस्यां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽगःस्पर्श इत्यभिप्रायः / तस्यापि जावितं प्रत्युपायान्तरे ऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय / ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः / प्रद्राणकशब्दश्रवणात्
SK
START Cह्Uप् १,१०.५
SK
स ह खादित्वातिशेषाञ् जायाया आजहार | साग्र एव सुभिक्षा बभूव | तान् प्रतिगृह्य निदधौ || Cह्Uप्_१,१०.५ ||
SK
Cह्Uप्Bह्_१,१०.५ तांश्च स खादित्वातिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार / साऽटिक्यग्र एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा लब्धान्नेत्येतद्बभूव संवृत्ता / तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान्पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती
SK
START Cह्Uप् १,१०.६
SK
स ह प्रातः संजिहान उवाच | यद् बतान्नस्य लभेमहि लभेमहि धनमात्राम् | राजासौ यक्ष्यते | स मा सर्वैर् आर्त्विज्यैर् वृणीतेति || Cह्Uप्_१,१०.६ ||
SK
Cह्Uप्Bह्_१,१०.६ स तस्याः कर्म जानन्प्रातरुषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन्नुवाच पत्न्याः शृण्वत्या यद्यदि वतेति खिद्यमानो ऽन्नस्य स्तोकं लभेमहि तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् / ततो ऽस्माकं जीवनं भविष्यतीति / धनलाभे च कारणमाह-राजासौ नातिदूरे स्थाने यक्ष्यते / यजमानत्वात्तस्याऽत्मनेपदम् / स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैरॄत्विक्कर्मभिरॄत्विक्कर्मप्रयोजनायेत्यर्थो वृणीतेति
SK
START Cह्Uप् १,१०.७
SK
तं जायोवाच | हन्त पत इम एव कुल्माषा इति | तान् खादित्वामुं यज्ञं विततम् एयाय || Cह्Uप्_१,१०.७ ||
SK
Cह्Uप्Bह्_१,१०.७ एवमुक्तवन्तं जायोवाच-हन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति / तान्खादित्वामुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिरेयाय
SK
START Cह्Uप् १,१०.८ तत्रोद्गात्ःन् आस्तावे स्तोष्यमाणान् उपोपविवेश | स ह प्रस्तोतरम् उवाच || Cह्Uप्_१,१०.८ ||
SK
Cह्Uप्Bह्_१,१०.८ तत्र च गत्वोद्गातॄनुद्गातृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः / उपविश्य स ह प्रस्तोतारमुवाच
SK
START Cह्Uप् १,१०.९
SK
प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति || Cह्Uप्_१,१०.९ ||
SK
Cह्Uप्Bह्_१,१०.९ हे प्रस्तोतरित्यामन्त्र्याभिमुखीकरणाय / या देवता प्रस्तावं प्रस्तावभक्तिमनुगतान्वायत्ता तां चेद्देवतां प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे / तत्परोक्षे ऽपि चेद्विपतेत्तस्य मूर्धा कर्ममात्रविदामनधिकार एव कर्मणि स्यात् / तच्चानिष्टमविदुषामपि कर्मदर्शनात् / दक्षिणमार्गश्रुतेश्च / अनधिकारे चाविदुषामुत्तर एवैको मार्गः श्रूयेत / न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः / यज्ञेन दानेनेत्यादिश्रतेः / तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारो न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च / अनुज्ञायास्तत्र तत्र दर्शनात् कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति / मूर्धा ते विपतिष्यतीति
SK
START Cह्Uप् १,१०.१०-११
SK
एवम् एवोद्गातारम् उवाच | उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति || Cह्Uप्_१,१०.१० ||
SK
एवम् एव प्रतिहर्तारम् उवाच | प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति | ते ह समारतास् तूष्णीम् आसां चक्रिरे || Cह्Uप्_१,१०.११ ||
SK
Cह्Uप्Bह्_१,१०.१०-११ एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् / ते प्रस्तोत्रादयः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयात्तूष्णीमासांचक्रिरे ऽन्यच्चाकुर्वन्तः अर्थित्वात् //१०-११ //
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोधध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,११.१
SK
अथ हैनं यजमान उवाच | भगवन्तं वा अहं विविदिषाणीति | उषस्तिर् अस्मि चाक्रायण इति होवाच || Cह्Uप्_१,११.१ ||
SK
Cह्Uप्Bह्_१,११.१ अथानन्तरं हैनमुषस्तिं यजमानो राजोवाच / भगवन्तं वै पूजावर्न्तमहं विविदिषामि वेदितुमिच्छामीत्युक्त उषस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमागतो यदीति होवाचोक्तवान्
SK
START Cह्Uप् १,११.२
SK
स होवाच | भगवन्तं वा अहम् एभिः सर्वैर् आर्त्विज्यैः पर्यैषिषम् | भगवतो वा अहम् अवित्त्यान्यान् अवृषि || Cह्Uप्_१,११.२ ||
SK
Cह्Uप्Bह्_१,११.२ स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रौषं सर्वैश्च ऋच्विक्कर्मभिरार्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि / अन्विष्य भगवतो वा अहमवित्त्यालाभेनान्यानिमानवृषि वृतवानस्मि
SK
START Cह्Uप् १,११.३
SK
भगवांस् त्व् एव मे सर्वैर् आर्त्विज्यैर् इति | तथेति | अथ तर्ह्य् एत एव समतिसृष्टाः स्तुवताम् | यावत् त्व् एभ्यो धनं दद्यास् तावन् मम दद्या इति | तथेति ह यजमान उवाच || Cह्Uप्_१,११.३ ||
SK
Cह्Uप्Bह्_१,११.३ अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैरृत्विक्कर्मार्थमस्त्वित्युक्तस्तथेत्याहोषस्त् इः / किन्त्वथैवं तर्ह्येत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्यक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम् / त्वया त्वेतत्कार्यम् / यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यजमान उवाच
SK
START Cह्Uप् १,११.४
SK
अथ हैनं प्रस्तोतोपससाद | प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् | कतमा सा देवतेति || Cह्Uप्_१,११.४ ||
SK
Cह्Uप्Bह्_१,११.४ अथ हैनमौषस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोषस्तिं विनयेनोपजगाम / प्रस्तोतर्या देवतेत्यादि मा मां मगवानवोचत्पूर्वम् / कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति
SK
START Cह्Uप् १,११.५
SK
प्राण इति होवाच | सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति | प्राणम् अभ्युज्जिहते | सैषा देवता प्रस्तावम् अन्वायत्ता | तां चेद् अविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत् तथोक्तस्य मयेति || Cह्Uप्_१,११.५ ||
SK
Cह्Uप्Bह्_१,११.५ पृष्टः प्राण इति होवाच / युक्तं प्रस्तावस्य प्राणो देवतेति / कथं, सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले / अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि मूर्धा शिरस्ते व्यपतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति / अतस्त्वया साधु कृतम् / मया निषिद्धः कर्मणो यदुपरममकार्षीरित्यभिप्रायः
SK
START Cह्Uप् १,११.६
SK
अथ हैनम् उद्गातोपससाद | उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् | कतमा सा देवता इति || Cह्Uप्_१,११.६ ||
SK
Cह्Uप्Bह्_१,११.६ तथोद्गाता पप्रच्छ कतमा सोद्गीथभक्तिमनुगतान्वायत्ता देवतेति
SK
START Cह्Uप् १,११.७
SK
आदित्य इति होवाच | सर्वाणि ह वा इमानि भूतान्य् आदित्यम् उच्चैः सन्तं गायन्ति | सैषा देवतोद्गीथम् अन्वायत्ता | तां चेद् अविद्वान् उदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति || Cह्Uप्_१,११.७ ||
SK
Cह्Uप्Bह्_१,११.७ पृष्ट आदित्य इति होवाच / सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूर्ध्वं सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः / उच्छब्दसामान्यात्प्रशब्दसामान्यादिव प्राणो ऽतः सैषा देवतेत्यादि पूर्ववत्
SK
START Cह्Uप् १,११.८
SK
अथ हैनं प्रतिहर्तोपससाद | प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् | कतमा सा देवतेति || Cह्Uप्_१,११.८ ||
SK
Cह्Uप्Bह्_१,११.८ एवमेवाथ हैनं प्रतिहर्तोपसाद कतमा सा देवता प्रतिहारमन्वायत्तेति
SK
START Cह्Uप् १,११.९
SK
अन्नम् इति होवाच | सर्वाणि ह वा इमानि भूतन्य् अन्नम् एव प्रतिहरमाणानि जीवन्ति | सैषा देवता प्रतिहारम् अन्वायत्ता | तां चेद् अविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति || Cह्Uप्_१,११.९ ||
SK
Cह्Uप्Bह्_१,११.९ पृष्टो ऽन्नमिति होवाच / सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति / सैषा देवता प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता / समानमन्यत्तथोक्तस्य मयेति / प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्ट्योपासीतेति समुदायार्थः / प्राणाद्यापत्तिः कर्मसमृद्धिर्वा फलमिति
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,१२.१
SK
अथातः शौव उद्गीथः | तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायम् उद्वव्राज || Cह्Uप्_१,१२.१ ||
SK
Cह्Uप्Bह्_१,१२.१ अतीते खण्डे ऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा / सा मा भूदित्यन्नलाभायाथानन्तरं शौवः श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते / तत्तत्र ह किल बको नामतो दल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाश्चापत्यं मैत्रेयः / वाशब्दश्चार्थे / द्व्यामुष्यायणो ह्यसौ / वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः / द्विनामा द्विगोत्र इत्यादि हि स्मृतिः / दृश्यते चोभयतः पिण्डभाक्त्वम् / उद्गीथे बद्धचित्तत्वादृषावनादराद्वा / वाशब्दः स्वाध्यायार्थः / स्वाध्यायं कर्तुं ग्रामाद्बहिरुद्वव्राजोद्गतवान्विविक्तदेशस्थोदकाभ्याशम् / उद्वव्राज प्रतिपालयाञ्चकारेति चैकवचनाल्लिङ्गादेको ऽसावृषिः / श्वोद्गीथकालप्रतिपालनादृषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायः
SK
START Cह्Uप् १,१२.२
SK
तस्मै श्वा श्वेतः प्रादुर् बभूव | तम् अन्ये श्वान उपसमेत्योचुः | अन्नं नो भगवान् आगायतु | अशनायाम वा इति || Cह्Uप्_१,१२.२ ||
SK
Cह्Uप्Bह्_१,१२.२ स्वाध्यायेन तोषिता देवतर्षिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार / तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वान उपसमेत्योचुरुक्तवन्तो ऽन्नं नो ऽस्मभ्यं भगवानागायत्वागानेन निष्पादयत्वित्यर्थः / मुक्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तो ऽनुगृह्णीयुरेनं स्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् / अशनायाम वै बुभुक्षिताः स्मो वा इति
SK
START Cह्Uप् १,१२.३
SK
तान् होवाचेहैव मा प्रातर् उपसमीयतेति | तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार || Cह्Uप्_१,१२.३ ||
SK
Cह्Uप्Bह्_१,१२.३ एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लाकाञ्शुन इहैवास्मिन्नेव देशे मा मां प्रातः प्रातःकाल उपसमीयातेति / दैर्ध्यं छन्दसं समीयातेति, प्रमादपाठो वा / प्रातः कालकरणं तत्काल एव कर्तव्याझ्र्व्यताटर्थम् / अन्नदस्य वा सवितुरपराह्ने ऽनाभिमुख्यात् / तत्तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः
SK
START Cह्Uप् १,१२.४
SK
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्य् एवम् आससृपुः | ते ह समुपविश्य हिञ् चक्रुः || Cह्Uप्_१,१२.४ ||
SK
Cह्Uप्Bह्_१,१२.४ ते श्वानस्तत्रैवाऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा / उद्गातृपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य पुच्छं गृहीत्वाऽससृपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः / त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुर्हिङ्कारं कृतवन्तः
SK
START Cह्Uप् १,१२.५
SK
ओ३मदा३म | ॐ३ पिबा३म | ॐ३ देवो वरुणः प्रजापतिः सविता२ऽन्नम् इहा२ऽहरत् | अन्नपते३ऽन्नमिहा२ऽऽहरा२ऽऽहरो३मिति || Cह्Uप्_१,१२.५ ||
SK
Cह्Uप्Bह्_१,१२.५ ओमदाम्ॐ पिबाम्ॐ देवो द्योतनात् / वरुणो वर्षणाज्जगतः / प्रजापतिः पालनात्प्रजानाम् / सविता प्रसवितृत्वात्सर्वस्याऽदित्य उच्यते / एतैः पर्यायैः स एवंभूत आदित्यो ऽन्नमस्मभ्यमिहाऽबरदाबरत्विति / त एवं हिं कृत्वा पुनरप्यूचुः-स त्वं हे ऽन्नपते / स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः / न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् / अतो ऽन्नपतिः / हे ऽन्नपते ऽन्नमस्मभ्यमिहाऽहराऽहरेति / अभ्यास आदरार्थः / ओमिति
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् १,१३.१
SK
अयं वाव लोको हाउकारः | वायुर् हाइकारः | चन्द्रमा अथकारः | आत्मेहकारः | अग्निर् ईकारः || Cह्Uप्_१,१३.१ ||
SK
Cह्Uप्Bह्_१,१३.१ भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षर विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते ऽनन्तरं सामावयवसम्बद्धत्वाविशेषात्-अयं वावायमेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्धः-᳚इयं वै रथन्तरम्᳚ इति / अस्मात्सम्बन्धसामान्याद्धाउकारस्तोभो ऽयं लोक इत्येवमुपासीत / वायुर्हाकारः / वामदेव्ये सामनि हाइकारः प्रसिद्धः / वाय्वप्सम्बन्धश्च वामदेवस्य साम्नो योनिरित्यस्मात्सामान्याद्धाइकारं वायुदृष्ट्योपासीत / चन्द्रमा अथकारः / चन्द्रदृष्ट्याथकारमुपासीत / अन्ने हीदं स्थितम् / अन्नात्मा चन्द्रः / थकाराकारसामान्याच्च / आत्मेहकारः / इहेति स्तोभः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते / इहेति च स्तोभः / तत्सामान्यात् / अग्निरीकारः / ईनिधनानि चाऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात्
SK
START Cह्Uप् १,१३.२
SK
आदित्य ऊकारः | निहव एकारः | विश्वे देवा औहोयिकारः | प्रजपतिर् हिङ्कारः | प्राणः स्वरः | अन्नं या | वाग् विराट् || Cह्Uप्_१,१३.२ ||
SK
Cह्Uप्Bह्_१,१३.२ आदित्य ऊकारः / उच्चैरूर्ध्वं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभः / आदित्यदैवत्ये साम्नि स्तोभ ऊ इत्यादित्य ऊकारः / निहव इत्याह्वानमेकारः स्तोभः / एहीति चाऽह्वयन्तीति तत्सामान्यात् / विश्वे देवा औहोयिकारोवैश्वदेव्ये साम्नि दर्शनात् / प्रजापतिर्हिङ्कारः / आनिरुक्त्याद्धिङ्कारस्य चाव्यक्तत्वात् / प्राणः स्वरः / स्वर इति स्तोभः / प्राणस्य च स्वरहेतुत्वसामान्यात् / अन्नं या या इति स्तोभो ऽन्नम् / अन्नेन हीदं यातीत्यतस्तत्सामान्यात् / वागिति स्तोभो विराडन्नं देवताविशेषो वा / वैराजे साम्नि स्तोभदर्शनात्
SK
START Cह्Uप् १,१३.३
SK
अनिरुक्तस् त्रयोदशः स्तोभः संचरो हुङ्कारः || Cह्Uप्_१,१३.३ ||
SK
Cह्Uप्Bह्_१,१३.३ अनिरुक्तो ऽव्यक्तत्वादिदं वेदं वेति निर्वक्तुं न शक्यत इत्यतः सञ्चरो विकल्प्यमानस्वरूप इत्यर्थः / को ऽसावित्याह-त्रयोदशः स्तोभो हुङ्कारः / अव्यक्तो ह्ययमतो ऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः
SK
START Cह्Uप् १,१३.४
SK
दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः | अन्नवान् अन्नादो भवति | य एताम् एवं साम्नाम् उपनिषदं वेदोपनिषदं वेद || Cह्Uप्_१,१३.४ ||
SK
Cह्Uप्Bह्_१,१३.४ दुग्धे ऽस्मै वाग्दोहमित्याद्युक्तार्थम् / य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः / द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः / सामावयवविषयोपासनाविशेषपरिमाप्त्यर्थो वेति //४ // //
SK
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य त्रयोदशः खण्डः इति छान्दोग्योपनिषद्ब्राह्मणे प्रथमोध्यायः समाप्तः
SK
अथ द्वितीयो ऽध्यायः ॐ
SK
START Cह्Uप् २,१.१
SK
समस्तस्य खलु साम्न उपासनं साधु | यत् खलु साधु तत् सामेत्य् आचक्षते | यद् असाधु तद् असामेति || Cह्Uप्_२,१.१ ||
SK
Cह्Uप्Bह्_२,१.१ ᳚ओमित्येतदक्षरम्᳚ इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम् / अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् / सर्वथापि सामैकदेशसम्बद्धमेव तदित्यथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यारभते श्रुतिः / युक्तं ह्येकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति / समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य चेत्यर्थः / खल्विति वाक्यालङ्कारार्थः / साम्न उपासनं साधु / समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न पूर्वोक्तोपासननिन्दार्थत्वं साधुशब्दः शोभनवाची / कथमवगम्यत इत्याह-यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः / यदसाधु विपरीतं तदसामेति
SK
START Cह्Uप् २,१.२
SK
तद् उताप्य् आहुः | साम्नैनम् उपागाद् इति साधुनैनम् उपागाद् इत्य् एव तद् आहुः | असाम्नैनम् उपागाद् इत्य् एव तद् आहुः || Cह्Uप्_२,१.२ ||
SK
Cह्Uप्Bह्_२,१.२ तत्तत्रैव साध्वसाधुविवेककरण उताप्याहुः-साम्नैनं राजानं सामन्तं चोपागादुपगतवान् / को ऽसौ यतो ऽसाधुत्वप्राप्त्याशङ्का?स इत्यभिप्रायः / शोभनाभिप्रायेण साधुनैनमुपागादित्येव तत्तत्राऽहुर्लौकिका बन्धनाद्यसाधुकार्यमपश्यन्तः / यत्र पुनर्विपर्ययो बन्धनाद्यसाधुकार्यं पश्यन्ति तत्रासाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः
SK
START Cह्Uप् २,१.३
SK
अथोताप्य् आहुः | साम नो बतेति यत् साधु भवति साधु बतेत्य् एव तद् आहुः | असाम नो बतेति यद् असाधु भवत्य् असाधु बतेत्य् एव तद् आहुः || Cह्Uप्_२,१.३ ||
SK
Cह्Uप्Bह्_२,१.३ अथोताप्याहुः स्वसंवेद्यं साम नो ऽस्माकं बतेत्यनुकम्पयतः संवृत्तमित्याहुः / एतत्तैरुक्तं भवति यत्साधु भवति साधु वतेत्येव तदाहुः / विपर्यये जाते ऽसाम नो बतेति / यदसाधु भवत्यसाधु बतेत्येव तदाहुः तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम्
SK
START Cह्Uप् २,१.४
SK
स य एतद् एवं विद्वान् साधु सामेत्य् उपास्ते ऽभ्याशो ह यद् एनं साधवो धर्मा आ च गच्छेयुर् उप च नमेयुः || Cह्Uप्_२,१.४ ||
SK
Cह्Uप्Bह्_२,१.४ अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वांस्तस्यैतत्फलमभ्याशो ह क्षिप्रं ह;यदिति क्रियाविशेषणार्थमेनमुपासकं साधवः शोभना धर्माः श्रुतिस्मृत्यविरुद्धा आ च गच्छेयुरागच्छेयुश्च न केवलमागच्छेयुरुप च नमेयुरुपनमेयुश्च भोग्यत्वेनोपतिष्ठेयुरित्यर्थः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य प्रथमः खण्डः =======================================================================
SK
START Cह्Uप् २,२.१
SK
लोकेषु पञ्चविधं सामोपासीत | पृथिवी हिङ्कारः | अग्निः प्रस्तावः | अन्तरिक्षम् उद्गीथः | आदित्यः प्रतिहारः | द्यौर् निधनम् | इत्य् ऊर्ध्वेषु || Cह्Uप्_२,२.१ ||
SK
Cह्Uप्Bह्_२,२.१ कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति / इमानि तान्युच्यन्ते लोकेषु पञ्चविधमित्यादीनि / ननु लोकादिदृष्ट्या तान्युपास्यानि साधुदृष्ट्या चेति विरुद्धम् / न / साध्वर्थस्य लोकादिकार्येषु कारणस्यानुगतत्वात् मृदादिवद्घटादिविकारेषु / साधुशब्दवाच्योर्ऽथो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम् / अतो यथा यत्र घटादिदृष्टिर्मृदादिदृष्ट्यनुगतैव सा / तथा साधुदृष्ट्यनुगतैव लोकादिदृष्टिः / धर्मादिकार्यत्वाल्लोकादीनाम् / यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथापि धर्म एव साधुशब्दवाच्य इति युक्तं᳚साधुकारी साधुर्भवती᳚ति धर्मविषये साधुशब्दप्रयोगात् / ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तद्दृष्टिरिति साधु सामेत्युपास्त इति न वक्तव्यम् / न / शास्रगम्यत्वात्तद्दृष्टेः / सर्वत्र हि शास्रप्रापिता एव धर्मा उपास्या न विद्यमाना अप्यशास्रीयाः / लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधुसमस्तं सामोपासीत / कथम् / पृथिवो हिङ्कारः / लोकेष्विति या सप्तमी तां प्रथमात्वेन वि
SK
START Cह्Uप् २,२.२
SK
अथावृत्तेषु | द्यौर् हिङ्कारः | आदित्यः प्रस्तावः | अन्तरिक्षम् उद्गीथः | अग्निः प्रतिहारः | पृथिवी निधनम् || Cह्Uप्_२,२.२ ||
SK
Cह्Uप्Bह्_२,२.२ अथाऽवृत्तेष्ववाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् / गत्यागतिविशिष्टा हि लोकाः / यथा ते तथादृष्ट्यैव सामोपासनं विधीयते यतो ऽत आवृत्तेषु लोकेषु / द्यौर्हिङ्कारः प्राथम्यात् / आदित्यः प्रस्तावः / उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् / अन्तरिक्षमुद्गीथः पूर्ववत् / अग्निः प्रतिहारः / प्राणिभिः प्रतिहरणादग्नेः / पृथिवी निधनम् / तत आगतानामिह निधनात्
SK
START Cह्Uप् २,२.३
SK
कल्पन्ते हास्मै लोका ऊर्ध्वाश् चावृत्तश् च य एतद् एवं विद्वांल् लोकेषु पञ्चविधं सामोपास्ते || Cह्Uप्_२,२.३ ||
SK
Cह्Uप्Bह्_२,२.३ उपासनफलं-कल्पन्ते समर्था भवन्ति हास्मै लोका ऊर्ध्वाश्चाऽवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः / य एतदेवं विद्वांल्लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्त इति सर्वत्र योजना पञ्चविधे सप्तविधे च
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वितीयः खण्डः
SK
======================================================================= START Cह्Uप् २,३.१
SK
वृष्टौ पञ्चविधं सामोपासीत | पुरोवातो हिङ्कारः | मेघो जायते स प्रस्तावः | वर्षति स उद्गीथः | विद्योतते स्तनयति स प्रतिहारः || Cह्Uप्_२,३.१ ||
SK
Cह्Uप्Bह्_२,३.१ वृष्टौ पञ्चविधं सामोपासीत / लोकस्थितेर्वृष्टिनिमित्तत्वादानन्तर्यम् / पुरोवातो हिङ्कारः / पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः / यथा साम हिङ्कारादिनिधनान्तम् / अतः पुरोवातो हिङ्कारः / प्राथम्यात् / मेघो जायते स प्रस्तावः / प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः / वर्षति स उद्गीथः श्रैष्ठ्यात् / विद्योतते स्तनयति स प्रतिहारः / प्रतिहृतत्वात्
SK
START Cह्Uप् २,३.२
SK
उद्गृह्णाति तन् निधनं वर्षयति ह य एतद् एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते || Cह्Uप्_२,३.२ ||
SK
Cह्Uप्Bह्_२,३.२ उद्गृह्णाति तन्निधनम् / समाप्तिसामान्यात् / फलमुपासनस्य-वर्शति हास्मा इच्छातः / तथा वर्षयति हासत्यामपि वृष्टौ / य एतदित्यादि पूर्ववत्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,४.१
SK
सर्वास्व् अप्सु पञ्चविधं सामोपासीत | मेघो यत् संप्लवते स हिङ्कारः | यद् वर्षति स प्रस्तावः | याः प्राच्यः स्यन्दन्ते स उद्गीथः | याः प्रतीच्यः स प्रतिहारः | समुद्रो निधनम् || Cह्Uप्_२,४.१ ||
SK
Cह्Uप्Bह्_२,४.१ सर्वास्वप्सु पञ्चविधं सामोपासीत / वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् / मेघो यत्संप्लवत एकीभावेनेतरेतरं घनीभवति मेघो यदोन्नतस्तदा संप्लवत इत्युच्यते मेघस्तदापामारम्भः स हिङ्कारः / यद्वर्षति स प्रस्तावः / आपः सर्वतो व्याप्तुं प्रस्तुताः / याः प्राच्यः स्यन्दन्ते स उद्गीथः श्रैष्ठ्यात् / याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्यात् / समुद्रो निधनम् / तन्निधनत्वादपाम्
SK
START Cह्Uप् २,४.२
SK
न हाप्सु प्रैत्य् अप्सुमान् भवति य एतद् एवं विद्वान् सर्वास्व् अप्सु पञ्चविधं सामोपास्ते || Cह्Uप्_२,४.२ ||
SK
Cह्Uप्Bह्_२,४.२ न हाप्सु प्रैति / नेच्छति चेत् / अप्सुमानंमान्भवति फलम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,५.१
SK
ऋतुषु पञ्चविधं सामोपासीत | वसन्तो हिङ्कारः | ग्रीष्मः प्रस्तावः | वर्षा उद्गीथः | शरत् प्रतिहारः | हेमन्तो निधनम् || Cह्Uप्_२,५.१ ||
SK
Cह्Uप्Bह्_२,५.१ ॠतुषु पञ्चविधं सामोपासीत / ॠतुव्यवस्थाया यथोक्ताम्बुनिमित्तत्वादानन्तर्यम् / वसन्तो हिङ्कारः / प्राथम्यात् / ग्रीष्मः प्रस्तावः / यवादिसंग्रहः प्रस्तूयते हि प्रावृडर्थम् / वर्षा उद्गीथः प्राधान्यात् / शरत्प्रतिहारः / रोगिणां मृतानां च प्रतिहरणात् / हेमन्तो निधनम् / निवाते निधनात्प्राणिनाम्
SK
START Cह्Uप् २,५.२
SK
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतद् एवं विद्वान् ऋतुषु पञ्चविधं सामोपास्ते || Cह्Uप्_२,५.२ ||
SK
Cह्Uप्Bह्_२,५.२ फलं-कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मा उपासकायर्तवः / ऋतुमानार्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,६.१
SK
पशुषु पञ्चविधं सामोपासीत | अजा हिङ्कारः | अवयः प्रस्तावः | गाव उद्गीथः | अश्वः प्रतिहारः | पुरुषो निधनम् || Cह्Uप्_२,६.१ ||
SK
Cह्Uप्Bह्_२,६.१ पशुषु पञ्चविधं सामोपासीत / सम्यग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम् / अजा हिङ्कारः / प्राधान्यात् प्राथम्याद्वा / ᳚अजः पशूनां प्रथम᳚इति श्रुतेः / अवयः प्रस्तावः / साहचर्यदर्शनादजादीनाम् / गावः उद्गीथः / श्रैष्ठ्यात् / अश्वाः प्रतिहारः / प्रतिहरणात्पुरुशाणाम् / पुरुषो निधनम् / पुरुषाश्रयत्वात्पशूनाम्
SK
START Cह्Uप् २,६.२
SK
भवन्ति हास्य पशवः पशुमान् भवति य एतद् एवं विद्वान् पशुषु पञ्चविधं सामोपास्ते || Cह्Uप्_२,६.२ ||
SK
Cह्Uप्Bह्_२,६.२ फलं-भवन्ति हास्य पशवः पशुमान्भवति / पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षष्ठः खण्डः =======================================================================
SK
START Cह्Uप् २,७.१
SK
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत | प्राणो हिङ्कारः | वाक् प्रस्तावः | चक्षुर् उद्गीथः | श्रोत्रं प्रतिहारः | मनो निधनम् | परोवरीयांसि वा एतानि || Cह्Uप्_२,७.१ ||
SK
Cह्Uप्Bह्_२,७.१ प्राणेषु पञ्चविधं परोवरीयः सामोपासीत / परंपरं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः / प्राणो घ्राणं हिङ्कारः / उत्तरोत्तरवरीयसां प्राथम्यात् / वाक्प्रस्तावः / वाचा हि प्रस्तूयते सर्वम् / वाग्वरीयसी प्राणात् / अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः / चक्षुरुद्गीथः / वाचो बहुतरविषयं प्रकाशयति चक्षुरतो वरीयो वाचः, उद्गीथः / श्रैष्ठ्यात् / श्रोत्रं प्रतिहारः / प्रतिहृतत्वात् / वरीयस्त्वं च श्रोत्रान्मनसः / सर्वेन्द्रियविषयव्यापकत्वात् / अतीन्द्रियविषयो ऽपि मनसो गोचर एवेति / यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वा एतानि
SK
START Cह्Uप् २,७.२
SK
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ् जयति य एतद् एवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते | इति तु पञ्चविधस्य || Cह्Uप्_२,७.२ ||
SK
Cह्Uप्Bह्_२,७.२ एतद्दृष्ट्या विशिष्टं यः परोवरीयः सामोपास्ते परोवरीयो हास्य जीवनं भवतीत्युक्तार्थम् / इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम् / निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तमः खण्डः
SK
======================================================================= START Cह्Uप् २,८.१
SK
अथ सप्तविधस्य | वाचि सप्तविध्.अम् सामोपासीत | यत् किंच वाचो हुम् इति स हिङ्कारः | यत् प्रेति स प्रस्तावः | यद् एति स आदिः || Cह्Uप्_२,८.१ ||
SK
Cह्Uप्Bह्_२,८.१ अथानन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते / वाचीति सप्तमी पूर्ववत् / वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः / यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिङ्कारो हकारसामान्यात् / यत्प्रेति शब्दरूपं स प्रस्तावः प्रसामान्यात् / यत्-आ, इति स आदिः / आकारसामान्यात् / आदिरित्योङ्कारः / सर्वादित्वात्
SK
START Cह्Uप् २,८.२
SK
यद् उद् इति स उद्गीथः | यत् प्रतीति स प्रतिहारः | यद् उपेति स उपद्रवः | यन् नीति तन् निधनम् || Cह्Uप्_२,८.२ ||
SK
Cह्Uप्Bह्_२,८.२ यदुदिति स उद्गीथः / फत्पूर्वत्वादुद्गीथस्य / यत्प्रतीति स प्रतिहारः / प्रतिसामान्यात् / यदुपेति स उपद्रव उपोपक्रमत्वादुपद्रवस्य / यन्नीति तन्निधनम् / निशब्दसामान्यात्
SK
START Cह्Uप् २,८.३
SK
दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः | अन्नवान् अन्नादो भवति | य एतद् एवं विद्वान् वाचि सप्तविधं सामोपास्ते || Cह्Uप्_२,८.३ ||
SK
Cह्Uप्Bह्_२,८.३ दुग्धे ऽस्मा इत्याद्युक्तार्थम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्याष्टमः खण्डः
SK
======================================================================= START Cह्Uप् २,९.१
SK
अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत | सर्वदा समस् तेन साम | मां प्रति मां प्रतीति सर्वेण समस् तेन साम || Cह्Uप्_२,९.१ ||
SK
Cह्Uप्Bह्_२,९.१ अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये / अथेदानीं खल्वमुमादित्यं समस्ते साम्न्यवयवविभागशो ऽध्यस्य सप्तविधं सामोपासीत / कथं पुनः सामत्वमादित्यस्येति / उच्यते / उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः / को ऽसौ, सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना सामाऽदित्यो मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति / अतः सर्वेण समो ऽतः साम समत्वादित्यर्थः / उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्याद्धिङ्कारादित्वं गम्यत इति हिङ्कारादित्वे कारणं नोक्तम् / सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम्
SK
START Cह्Uप् २,९.२
SK
तस्मिन्न् इमानि सर्वाणि भूतान्य् अन्वायत्तानीति विद्यात् | तस्य यत् पुरोदयात् स हिङ्कारः | तद् अस्य पशवो ऽन्वायत्ताः | तस्मात् ते हिङ्कुर्वन्ति | हिङ्कारभाजिनो ह्य् एतस्य साम्नः || Cह्Uप्_२,९.२ ||
SK
Cह्Uप्Bह्_२,९.२ तस्मिन्नादित्ये ऽवयवविभागश इमानि वक्ष्यमाणानि सर्वामि भूतान्यन्वायत्तान्यनुगतान्यादित्यमुपजीव्यत्वेनेति विद्यात् / कथं, तस्याऽदित्यस्य यत्पुरोदयाद्धर्मरूपं स हिङ्कारो भक्तिस्तत्रेदं सामान्यं यत्तस्य हिङ्कारभक्तिरूपं तदस्याऽदित्यस्य साम्नः पशवो गवादयो ऽन्वायत्ता अनुगतास्तद्भक्तिरूपमुपजीवन्तीत्यर्थः / यस्मादेवं तस्मात्ते हिङ्कुर्वन्ति पशवः प्रागुदयात् / तस्माद्धिङ्कारभाजिनो ह्येतस्याऽदित्याख्यस्य साम्नः तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते
SK
START Cह्Uप् २,९.३
SK
अथ यत् प्रथमोदिते स प्रस्तावः | तद् अस्य मनुष्या अन्वायत्ताः | तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः | प्रस्तावभाजिनो ह्य् एतस्य साम्नः || Cह्Uप्_२,९.३ ||
SK
Cह्Uप्Bह्_२,९.३ अथ यत्प्रथमोदिते सवितृरूपं तदस्याऽदित्याख्यास्य साम्नः स प्रस्तावस्तदस्य मनुष्या अन्वायत्ताः पूर्ववत् / तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते / यस्मात्प्रस्तावभाजिनो ह्येतस्य साम्नः
SK
START Cह्Uप् २,९.४
SK
अथ यत् संगववेलायां स आदिः | तद् अस्य वयांस्य् अन्वायत्तानि | तस्मात् तान्य् अन्तरिक्षे ऽनारम्भणान्य् आदायात्मानं परिपतन्ति | आदिभाजीनि ह्य् एतस्य साम्नः || Cह्Uप्_२,९.४ ||
SK
Cह्Uप्Bह्_२,९.४ अथ यत्सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गमो यस्यां वेलायां, गवां वा वत्सैः सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपं स आदिर्भक्तिविशेष ओङ्कारस्तदस्य वयांसि पक्षिणो ऽन्वायत्तानि / यत एवं तस्मात्तानि वयांस्तन्तरिक्षे ऽनारम्बणान्यनालम्बनान्यात्मानमादायाऽत्मानमेवाऽलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्त्यत आकारसामान्यादादिभक्तिभाजीनि ह्येतस्य साम्नः
SK
START Cह्Uप् २,९.५
SK
अथ यत् संप्रति मध्यंदिने स उद्गीथः | तद् अस्य देवा अन्वायत्ताः | तस्मात् ते सत्तमाः प्राजापत्यानाम् | उद्गीथभाजिनो ह्य् एतस्य साम्नः || Cह्Uप्_२,९.५ ||
SK
Cह्Uप्Bह्_२,९.५ अथ यत्सम्प्रति मध्यन्दिन ऋजुमध्यन्दिन इत्यर्थः / स उद्गीथभक्तिस्तदस्य देवा अन्वायत्ताः / द्योतनातिशयात्तत्काले / तस्मात्ते सत्तमा विशिष्टतमाः / प्राजापत्यानां प्रजापत्यपत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः
SK
START Cह्Uप् २,९.६
SK
अथ यद् ऊर्ध्वं मध्यंदिनात् प्राग् अपराह्णात् स प्रतिहारः | तद् अस्य गर्भा अन्वायत्ताः | तस्मात् ते प्रतिहृता नावपद्यन्ते | प्रतिहारभाजिनो ह्य् एतस्य साम्नः || Cह्Uप्_२,९.६ ||
SK
Cह्Uप्Bह्_२,९.६ अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्नाद्यद्रूपं सवितुः स प्रतिहारस्तदस्य गर्भा अन्वायत्ताः / अतस्ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तो नावपद्यन्ते नाधः पतन्ति तद्द्वारे सत्यपीत्यर्थः / यतः प्रतिहारभाजिनो ह्येतस्य साम्नो गर्भाः
SK
START Cह्Uप् २,९.७
SK
अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तम् अयात् स उपद्रवः | तद् अस्यारण्या अन्वायत्ताः | तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रम् इत्य् उपद्रवन्ति | उपद्रवभाजिनो ह्य् एतस्य साम्नः || Cह्Uप्_२,९.७ ||
SK
Cह्Uप्Bह्_२,९.७ अथ यदूर्ध्वमपराह्नात्प्रागस्तमयात्स उपद्रवस्तदस्याऽरण्याः पश्वो ऽन्वायत्ताः / तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति दृष्ट्वोपद्रवणादुपद्रवभाजिनो ह्येतस्य साम्नः
SK
START Cह्Uप् २,९.८
SK
अथ यत् प्रथमास्तमिते तन् निधनम् | तद् अस्य पितरो ऽन्वायत्ताः | तस्मात् तान् निदधति | निधनभाजिनो ह्य् एतस्य साम्नः | एवं खल्व् अमुम् आदित्यं सप्तविधं सामोपास्ते || Cह्Uप्_२,९.८ ||
SK
Cह्Uप्Bह्_२,९.८ अथ यत्प्रथमास्तमिते ऽदर्शनं जिगमिषति सवितरि तन्निधनं तदस्य पितरो ऽन्वायत्तास्तस्मात्तान्निदधति पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तांस्तदर्थं पिण्डान्वा स्थापयन्ति / निधनसम्बन्धान्निधनभाजिनो ह्येतस्य साम्नः पितरः / एवमवयवशः सप्तधा विभक्तं खल्वमुमादित्यं सप्तविधं सामोपास्ते यस्तस्य तदापत्तिः फलमिति वाक्यशेषः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,१०.१
SK
अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत | हिङ्कार इति त्र्यक्षरम् | प्रस्ताव इति त्र्यक्षरम् | तत् समम् || Cह्Uप्_२,१०.१ ||
SK
Cह्Uप्Bह्_२,१०.१ मृत्युरादित्यः अहोरात्रादिकालेन जगतः प्रमापयितृत्वात् / तस्यातितरणायेदं सामोपासनमुपदिश्यते-अथ खल्वनन्तरम् / आदित्यमृत्युविषयसामोपासनस्य, आत्मसंमितं स्वावयवतुल्यतया मितं परमात्मतुल्यतया वा संमितमतिमृत्यु मृत्युजयहेतुत्वात् / यथा प्रथमे ऽध्याय उद्गीथभक्तिनामाक्षराण्युद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्रिभिः समतया सामत्वं परिकल्प्योपास्यत्वेनोच्यन्ते / तदुपासनेन मृत्युगोचराक्षरसमख्यासामान्येन तं मृत्युं प्राप्य तदतिरिक्ताक्षरेण तस्याऽदित्यस्य मृत्योरतिक्रमणायैव संक्रममं कल्पयति / अतिमृत्यु सप्तविधं सामोपासीत मृत्युमतिक्रान्तमतिरिक्ताक्षरसंख्ययेत्यमृत्यु साम / तस्य प्रथमभक्तिनामाक्षराणि बिङ्कार इत्येतत्त्र्यक्षरं भक्तिमान प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव मान तत्पूर्वेण समम्
SK
START Cह्Uप् २,१०.२
SK
आदिर् इति द्व्यक्षरम् | प्रतिहार इति चतुरक्षरम् | तत इहैकम् | तत् समम् || Cह्Uप्_२,१०.२ ||
SK
Cह्Uप्Bह्_२,१०.२ आदिरिति द्व्यक्षरं, सप्तविधस्य साम्नः संख्यापूरण ओङ्कार आदिरित्युच्यते / प्रतिहार इति चतुरक्षरम् / तत इहैकमक्षरमवच्छिद्याऽद्यक्षरयोः प्रक्षिप्यते / तेन तत्सममेव भवति
SK
START Cह्Uप् २,१०.३
SK
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस् त्रिभिः समं भवति | अक्षरम् अतिशिष्यते त्र्यक्षरम् | तत् समम् || Cह्Uप्_२,१०.३ ||
SK
Cह्Uप्Bह्_२,१०.३ उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्रिभिः समं भवत्यक्षरमतिशिष्.यते ऽतिरिच्यते / तेन वैषम्ये प्राप्ते साम्नः समत्वकरणायाऽह-तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति / अतस्तत्समम्
SK
START Cह्Uप् २,१०.४
SK
निधनम् इति त्र्यक्षरम् | तत् समम् एव भवति | तानि ह वा एतानि द्वाविंशतिर् अक्षराणि || Cह्Uप्_२,१०.४ ||
SK
Cह्Uप्Bह्_२,१०.४ निधनमिति त्र्यक्षरं तत्सममेव भवति / एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते - तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः
SK
START Cह्Uप् २,१०.५
SK
एकविंशत्यादित्यम् आप्नोति | एकविंशो वा इतो ऽसाव् आदित्यः | द्वाविंशेन परम् आदित्याज् जयति | तन् नाकम् | तद् विशोकम् || Cह्Uप्_२,१०.५ ||
SK
Cह्Uप्Bह्_२,१०.५ तत्रैकविंशत्यक्षरसंख्ययाऽदित्यमाप्नोति मृत्युम् / यस्मादेकविंश इतो ऽस्माल्लोकादसावादित्यः संख्यया / ᳚द्वादश मासाः पञ्चर्तवस्रय इमे लोका असावादित्य एकविंश᳚इति श्रुतेरतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योरादित्याज्जयत्याप्नोतीत्यर्थः / यच्च तदादित्यात्परं किं तत्?नाकं कमिति सुखं तस्य प्रतिषेधो ऽकं तन्न भवतीति नाकं कमेवेत्यर्थः / मृत्युविषयत्वाद्दुःखस्य विशोकं च तद्विगतशोकं मानसदुःखरहितमित्यर्थः / तदाप्नोतीति
SK
START Cह्Uप् २,१०.६
SK
आप्नोतीहादित्यस्य जयम् | परो हास्यादित्यजयाज् जयो भवति य एतद् एवं विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते || Cह्Uप्_२,१०.६ ||
SK
Cह्Uप्Bह्_२,१०.६ उक्तस्यैव पिण्डितार्थमाह-एकविंशतिसंख्ययाऽदित्यस्य जयमाप्नोति परो हास्यैवंविद आदित्यजयान्मृत्युगोचरात्परो जयो भवति द्वाविंशत्यक्षरसंख्ययेत्यर्थः / य एतदेवं द्वानितिक्याद्युक्तार्थम् / तस्यैतद्यथोक्तं फलमिति द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,११.१
SK
मनो हिङ्कारः | वाक् प्रस्तावः | चक्षुर् उद्गीथः | श्रोत्रं प्रतिहारः | प्राणो निधनम् | एतद् गायत्रं प्राणेषु प्रोतम् || Cह्Uप्_२,११.१ ||
SK
Cह्Uप्Bह्_२,११.१ विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम् / अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामोपासनान्तराण्युच्यन्ते यथाक्रमं गायत्रादीनां कर्मणि प्रयोगस्तथैव / मनो हिङ्कारो मनसः सर्वकरणप्रवृत्तीनां प्राथम्यात् / तदानन्तर्याद्वाक्प्रस्तावश्चक्षुरुद्गीथः श्रैष्ठ्यात् / श्रोत्रं प्रतिहारः प्रतिहृतत्वात् / प्राणो निधनं यथोक्तानां प्राणे निधनात्स्वापकाले / एतद्गायत्रं साम प्राणेषु प्रोतम् / गायत्र्याः प्राणसंस्तुतत्वात्
SK
START Cह्Uप् २,११.२
SK
स य एवम् एतद् गायत्रं प्राणेषु प्रोतं वेद | प्राणी भवति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | महामनाः स्यात् | तद् व्रतम् || Cह्Uप्_२,११.२ ||
SK
Cह्Uप्Bह्_२,११.२ स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति / अविकलकरणो भवतीत्येतत् / सर्वमायुरेति / शतं वर्षणि सर्वमायुः पुरुषस्येति श्रुतेः / ज्योगुज्ज्वलं जीवति / महान्भवति प्रजादिभिर्महांश्च कीर्त्या / गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,१२.१
SK
अभिमन्थति स हिङ्कारः | धूमो जायते स प्रस्तावः | ज्वलति स उद्गीथः | अङ्गारा भवन्ति स प्रतिहारः | उपशाम्यति तन् निधनम् | संशाम्यति तन् निधनम् | एतद् रथंतरम् अग्नौ प्रोतम् || Cह्Uप्_२,१२.१ ||
SK
Cह्Uप्Bह्_२,१२.१ अभिमन्थति स हिङ्कारः प्राथम्यात् / अग्नेर्धूमो जायते स प्रस्ताव आनन्तर्यात् / ज्वलति स उद्गीथो हविः सम्बन्धाच्छ्रैष्ठ्यं ज्वलनस्य / अङ्गारा भवन्ति स प्रतिहारो ऽङ्गाराणां प्रतिहृतत्वात् / उपशमः सावशेषत्वादग्नेः / संशमो निःशेषोपशमः समाप्तिसामान्यान्निधनमेतद्रथन्तर मग्नौ प्रोतम् / मन्थने ह्यग्नेर्गीयते
SK
START Cह्Uप् २,१२.२
SK
स य एवम् एतद् रथंतरम् अग्नौ प्रोतं वेद | ब्रह्मवर्चस्य्: अन्नादो भवति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | न प्रत्यङ्ङ् अग्निम् आचामेन् न निष्ठीवेत् | तद् व्रतम् || Cह्Uप्_२,१२.२ ||
SK
Cह्Uप्Bह्_२,१२.२ स य इत्यादि पूर्ववत् / ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्तसम् / तेजस्तु केवलं त्विड्भावः / अन्नादो दीप्ताग्निः / न प्रत्यङ्ङग्नेरभिमुखो नाऽचामेन्न भक्षयेत्किञ्चिन्न निष्ठीवेच्छ्लेष्मनिरसनं च न कुर्यात्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,१३.१
SK
उपमन्त्रयते स हिङ्कारः | ज्ञपयते स प्रस्तावः | स्त्रिया सह शेते स उद्गीथः | प्रति स्त्रीं सह शेते स प्रतिहारः | कालं गच्छति तन् निधनम् | पारं गच्छति तन् निधनम् | एतद् वामदेव्यं मिथुने प्रोतम् || Cह्Uप्_२,१३.१ ||
SK
Cह्Uप्Bह्_२,१३.१ उपमन्त्रयते सङ्केतं करोति प्राथम्यात्स हिङ्कारः / ज्ञपयते तोषयति स प्रस्तावः / सहशयनमेकपर्यङ्कगमनं स उद्गीथः श्रैष्ठ्यात् / प्रति स्रीं शयनं स्रिया अभिमुखीभावः स प्रतिहारः / कालं गच्छति मैथुनेन पारं समाप्तिं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् / वाय्वम्बुमिथुनसम्बन्धात्
SK
START Cह्Uप् २,१३.२
SK
स य एवम् एतद् वामदेव्यं मिथुने प्रोतं वेद | मिथुनी भवति | मिथुनान् मिथुनात् प्रजायते | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | न कांचन परिहरेत् | तद् व्रतम् || Cह्Uप्_२,१३.२ ||
SK
Cह्Uप्Bह्_२,१३.२ स य इत्यादि पूर्ववत् / मिथुनी भवत्यविधुरो भवतीत्यर्थः / मिथुनान्मिथुनात्प्रजायत इत्यमोघरेतस्त्वमुच्यते / न काञ्चन काञ्चिदपि स्रियं स्वात्मतल्पप्राप्तां न परिहरेत्समागमार्थिनीम् / वामदेव्यसामोपासनाङ्गत्वेन विधानात् एतस्मादन्यत्र प्रतिषेधस्मृतयः वचनप्रामाण्याच्च धर्मावगतेर्न प्रतिषेधशास्रेणास्य विरोधः
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्र्योदशः खण्डः
SK
======================================================================= START Cह्Uप् २,१४.१
SK
उद्यन् हिङ्कारः | उदितः प्रस्तावः | मध्यंदिन उद्गीथः | अपराह्णः प्रतिहारः | अस्तं यन् निधनम् | एतद् बृहद् आदित्ये प्रोतम् || Cह्Uप्_२,१४.१ ||
SK
Cह्Uप्Bह्_२,१४.१ उद्यन्सविता स हिङ्कारः प्राथम्याद्दर्शनस्य / उदितः प्रस्तावः प्रस्तवनहेतुत्वात्कर्मणाम् / मध्यन्दिन उद्गीथः श्रैष्ठ्यात् / अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हरणात् / यदस्तं यंस्तन्निधनं रात्रौ गृहे निधानात्प्राणिनाम् / एतद्बृहदादित्ये प्रोतं बृहत आदित्यदैवत्यत्वात्
SK
START Cह्Uप् २,१४.२
SK
स य एवम् एतद् बृहद् आदित्ये प्रोतं वेद | तेजस्व्य्: अन्नादो भवति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | तपन्तं न निन्देत् | तद् व्रतम् || Cह्Uप्_२,१४.२ ||
SK
Cह्Uप्Bह्_२,१४.२ स य इत्यादि पूर्ववत् / तपन्तं न निन्देत्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्दशः खण्डः
SK
======================================================================= START Cह्Uप् २,१५.१
SK
अभ्राणि संप्लवन्ते स हिङ्कारः | मेघो जायते स प्रस्तावः | वर्षति स उद्गीथः | विद्योतते स्तनयति स प्रतिहारः | उद्गृह्णाति तन् निधनम् | एतद् वैरूपं पर्जन्ये प्रोतम् || Cह्Uप्_२,१५.१ ||
SK
Cह्Uप्Bह्_२,१५.१ अभ्राण्यब्भरणात्, मेघ उदकसेक्तृत्वात् / उक्तार्थमन्यत् / एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् / अनेतरूपत्वात् अभ्रादिभिः पर्जन्यस्य वैरूप्यम्
SK
START Cह्Uप् २,१५.२
SK
स य एवम् एतद् वैरूपं पर्जन्ये प्रोतं वेद | विरूपांश् च सुरूपंश् च पशून् अवरुन्धे | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | वर्षन्तं न निन्देत् | तद् व्रतम् || Cह्Uप्_२,१५.२ ||
SK
Cह्Uप्Bह्_२,१५.२ विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्यर्थः / वर्षन्तं न निन्देत्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चदशः खण्डः
SK
======================================================================= START Cह्Uप् २,१६.१
SK
वसन्तो हिङ्कारः | ग्रीष्मः प्रस्तावः | वर्षा उद्गीथः | शरत् प्रतिहारः | हेमन्तो निधनम् | एतद् वैराजम् ऋतुषु प्रोतम् || Cह्Uप्_२,१६.१ ||
SK
Cह्Uप्Bह्_२,१६.१ वसन्तो हिंङ्कारः प्राथम्यात् / ग्रीष्मः प्रस्ताव इत्यादि पूर्ववत्
SK
START Cह्Uप् २,१६.२
SK
स य एवम् एतद् वैराजम् ऋतुषु प्रोतं वेद | विराजति प्रजया | पशुभिर् ब्रह्मवर्चसेन | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | ऋतून् न निन्देत् | तद् व्रतम् || Cह्Uप्_२,१६.२ ||
SK
Cह्Uप्Bह्_२,१६.२ एतद्वैराजमृतुषु प्रोतं वेद विराजति ऋतुवद्यथर्तव आर्तवैर्धर्मैर्विराजन्त एवं प्रजादिभिर्विद्वानित्युक्तमन्यत् / ऋतीन्न निन्देत्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षोडशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,१७.१
SK
पृथिवी हिङ्कारः | अन्तरिक्षं प्रस्तावः | द्यौर् उद्गीथः | दिशः प्रतिहारः | समुद्रो निधनम् | एताः शक्वर्यो लोकेषु प्रोताः || Cह्Uप्_२,१७.१ ||
SK
Cह्Uप्Bह्_२,१७.१ पृथिवी हिङ्कार इत्यादि पूर्ववत् / शक्वर्य इति नित्यं बहुवचनं रेवत्य इव / लोकेषु प्रोताः
SK
START Cह्Uप् २,१७.२
SK
स य एवम् एताः शक्वर्यो लोकेषु प्रोता वेद | लोकी भवति सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | लोकान् न निन्देत् | तद् व्रतम् || Cह्Uप्_२,१७.२ ||
SK
Cह्Uप्Bह्_२,१७.२ लोकी भवति लोकफलेन युज्यत इत्यर्तः / लोकान्न निन्देत्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,१८.१
SK
अजा हिङ्कारः | अवयः प्रस्तावः | गाव उद्गीथः | अश्वाः प्रतिहारः | पुरुषो निधनम् | एता रेवत्यः पशुषु प्रोताः || Cह्Uप्_२,१८.१ ||
SK
Cह्Uप्Bह्_२,१८.१ अजा हिङ्कार इत्यादि पूर्ववत् / पशुषु प्रोताः
SK
START Cह्Uप् २,१८.२
SK
स य एवम् एता रेवत्यः पशुषु प्रोता वेद | पशुमान् भवति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | पशून् न निन्देत् | तद् व्रतम् || Cह्Uप्_२,१८.२ ||
SK
Cह्Uप्Bह्_२,१८.२ पशून्न निन्देत्तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यस्याष्टादशः खण्डः
SK
======================================================================= START Cह्Uप् २,१९.१
SK
लोम हिङ्कारः | त्वक् प्रस्तावः | मांसम् उद्गीथः | अस्थि प्रतिहारः | मज्जा निधनम् | एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतम् || Cह्Uप्_२,१९.१ ||
SK
Cह्Uप्Bह्_२,१९.१ लोम हिङ्कारो देहावयवानां प्राथम्यात् / त्वक्प्रस्ताव आनन्तर्यात् / मांसमुद्गीथः श्रैष्ठ्यात् / अस्थि प्रतिहारः प्रतिहृतत्वात् / मज्जा निधनमान्त्यात् / एतद्यज्ञायज्ञीयं नाम साम देहावयववेषु प्रोतम्
SK
START Cह्Uप् २,१९.२
SK
स य एवम् एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतं वेद | अङ्गी भवति | नाङ्गेन विहूर्छति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | संवत्सरं मज्ज्ञो नाश्नीयात् | तद् व्रतम् | मज्ज्ञो नाश्नीयाद् इति वा || Cह्Uप्_२,१९.२ ||
SK
Cह्Uप्Bह्_२,१९.२ अङ्गी भवति समग्राङ्गो भवतीत्यर्थः / नाङ्गेन हस्तपादादिना विहूर्छति न कुटिली भवति पङ्गुः कुणी वेत्यर्थः / संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयान्न भक्षयेत् / बहुवचनं मत्स्योपलक्षणार्थम् / मज्ज्ञो नाश्नीयात्सर्वदैव नाश्नीयादिति वा तद्व्रतम्
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकोनविंशः खण्डः
SK
======================================================================= START Cह्Uप् २,२०.१
SK
अग्निर् हिङ्कारः | वायुः प्रस्तावः | आदित्य उद्गीथः | नक्षत्राणि प्रतिहारः | चन्द्रमा निधनम् | एतद् राजनं देवतासु प्रोतम् || Cह्Uप्_२,२०.१ ||
SK
Cह्Uप्Bह्_२,२०.१ अग्निर्हिङ्कारः प्रथमस्थानत्वात् / वायुः प्रस्ताव आनन्तर्यसामान्यात् / आदित्य उद्गीथः श्रैष्ठ्यात् / नक्षत्राणि प्रतिहारः प्रतिहृतत्वात् / चन्द्रमा निधनं कर्मिणां तन्निधनात् / एतद्राजनं देवतासु प्रोतं देवतानां दीप्तिमत्त्वात्
SK
START Cह्Uप् २,२०.२
SK
स य एवम् एतद् राजनं देवतासु प्रोतं वेद | एतासाम् एव देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति | सर्वम् आयुर् एति | ज्योग् जीवति | महान् प्रजया पशुभिर् भवति | महान् कीर्त्या | ब्राह्मणान् न निन्देत् | तद् व्रतम् || Cह्Uप्_२,२०.२ ||
SK
Cह्Uप्Bह्_२,२०.२ विद्वत्फलम्-एतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं समुग्भावमेकदेहदेहित्वमित्येतत् / वाशब्दो ऽत्र लुप्तो द्रष्टव्यः सलोकतां वेत्यादि / भावनाविशेषतः फलविशेषोपपत्तेः / गच्छति प्राप्नोति / समुच्चयानुपपत्तेश्च / ब्राह्मणान्न निन्देत्तद्व्रतम् / ᳚एते वै देवाः प्रत्यक्षं यद्ब्राह्मणा᳚इति श्रुतेर्ब्राह्मणनिन्दा देवतानिन्दैवेति
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य विंशः खण्डः
SK
======================================================================= START Cह्Uप् २,२१.१ त्रयी विद्या हिङ्कारः | त्रय इमे लोकाः स प्रस्तावः | अग्निर् वायुर् आदित्यः स उद्गीथः | नक्षत्राणि वयांसि मरीचयः स प्रतिहारः | सर्पा गन्धर्वाः पितरस् तन् निधनम् | एतत् साम सर्वस्मिन् प्रोतम् || Cह्Uप्_२,२१.१ ||
SK
Cह्Uप्Bह्_२,२१.१ त्रयी विद्या हिङ्कारः / अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः / हिङ्कारः प्राथम्यात्सर्वकर्तव्यानाम् / त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः / अग्न्यादीनामुद्गीथत्वं श्रैष्ठ्यात् / नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम् / सर्पादीनां धकारसामान्यान्निधनत्वमेतत्साम नामविश्षाभावात्सामसमुदायः सामशब्दः सर्वस्मिन्प्रोतम् / त्रयीविद्यादिदृष्ट्या हिङ्कारादिसामभक्तय उपास्याः / अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम तद्दृष्ट्या तदुपास्यमिति / कर्माङ्गनां दृष्टिविशेषेणाज्यस्येव संस्कार्यत्वात्
SK
START Cह्Uप् २,२१.२
SK
स य एवम् एतत् साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति || Cह्Uप्_२,२१.२ ||
SK
Cह्Uप्Bह्_२,२१.२ सर्वविषयसामविदः फलं-सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः / निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्राप्त्यनुपपत्तिः
SK
START Cह्Uप् २,२१.३
SK
तद् एष श्लोकः | यानि पञ्चधा त्रीणि त्रीणि | तेभ्यो न ज्यायः परम् अन्यद् अस्ति || Cह्Uप्_२,२१.३ ||
SK
Cह्Uप्Bह्_२,२१.३ तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽप्यस्ति / यानि पञ्चधा पञ्चप्रकारेण हिङ्कारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यो ज्यायो महत्तरं परं च व्यतिरिक्तमन्यद्वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः / तत्रैव हि सर्वस्यान्तभविः
SK
START Cह्Uप् २,२१.४
SK
यस् तद् वेद स वेद सर्वम् | सर्वा दिशो बलिम् अस्मै हरन्ति | सर्वम् अस्मीत्य् उपासित | तद् व्रतं तद् व्रतम् || Cह्Uप्_२,२१.४ ||
SK
Cह्Uप्Bह्_२,२१.४ यस्तद्यथोक्तं सर्वात्मकं साम वेद स वेद सर्वं;स सर्वज्ञो भवतीत्यर्थः / सर्वा दिशः सर्वदिक्स्था अस्मा एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः / सर्वमस्मि भवामीत्येवमेतत्सामोपासीत तस्यैतदेव व्रतम् / द्बिरुक्तिः सामोपासनसमाप्त्यर्प्था
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,२२.१
SK
विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः | अनिरुक्तः प्रजापतेः | निरुक्तः सोमस्य | मृदु श्लक्ष्णं वायोः | श्लक्ष्णं बलवद् इन्द्रस्य | क्रौञ्चं बृहस्पतेः | अपध्वान्तं वरुणस्य | तान् सर्वान् एवोपसेवेत | वारुणं त्व् एव वर्जयेत् || Cह्Uप्_२,२२.१ ||
SK
Cह्Uप्Bह्_२,२२.१ सामोपासनप्रसङ्गेन गानविशेषादिसम्पदुद्गातुरुपदिश्यते / फलविशेषसम्बन्धात्ष विनर्दि विशिष्टो नर्दः स्वरविशेष ऋषभकूजितसमो ऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः / तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यमग्नेरग्निदेवत्यं चोद्गीथ उद्गानम् / तदहमेवंविशिष्टं वृणे प्रर्थय इति कश्चिद्यजमान उद्गाता वा मन्यते / अनिरुक्तो ऽमुकसम इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स न गानविशेषः / आनिरुक्त्यात्प्रजापतेर्निरुक्तः स्पष्टः सोमस्य, सोमदेवत्यः स उद्गीथ इत्यर्थः / मृदु श्लक्षणं च गानं वायोर्वायुदेवत्यं तत् / श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं चेन्द्रस्यैन्द्रं तद्गानम् / क्रौञ्चं क्रौञ्चपक्षिनिनादसमं बृहस्पतेर्बार्हस्पत्यं तत् / अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्यैतद्गानम् / तान्सर्वानेवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत्
SK
START Cह्Uप् २,२२.२
SK
अमृतत्वं देवेभ्य आगायानीत्य् आगायेत् | स्वधां पितृभ्य आशां मनुष्येभ्यस् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नम् आत्मन आगायानीत्य् एतानि मनसा ध्यायन्न् अप्रमत्तः स्तुवीत || Cह्Uप्_२,२२.२ ||
SK
Cह्Uप्Bह्_२,२२.२ अमृतत्वं देवेभ्य आगायानि साधयानि / स्वधां पितृभ्य आगायान्याशां मनुष्येभ्य आशां प्रार्थनां प्रार्थितमित्येतत् / तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मने मह्यमागायानीत्येतानि मनसा चिन्तयन्ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत
SK
START Cह्Uप् २,२२.३
SK
सर्वे स्वरा इन्द्रस्यात्मानः | सर्व ऊष्माणः प्रजापतेर् आत्मानः | सर्वे स्पर्शा मृत्योर् आत्मानः | तं यदि स्वरेषूपालभेत | इन्द्रं शरणं प्रपन्नो ऽभूवं स त्वा प्रति वक्ष्यतीत्य् एनं ब्रूयात् || Cह्Uप्_२,२२.३ ||
SK
Cह्Uप्Bह्_२,२२.३ सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्याऽत्मानो देहावयवस्थानीयाः सर्व ऊष्माणः शषसहादयः प्रजापतेर्विराजः कश्यपस्य वाऽत्मानः / सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानस्तमेवंविदमुद्गातारं यदि कश्चित्स्वरेषूपालभेत स्वरस्त्वया दुष्टः प्रयुक्त इत्येवमुपालब्ध इन्द्रं प्राणमीश्वरं शरणमाश्रयं प्रपन्नो ऽभूवं स्वरान् प्रयुञ्जानो ऽहं स इन्द्रो यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात्
SK
START Cह्Uप् २,२२.४
SK
अथ यद्य् एनम् ऊष्मासूपालभेत | प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रति पेक्ष्यतीत्य् एनं ब्रूयात् | अथ यद्य् एनं स्पर्शेषूपालभेत | मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यतीत्य् एनं ब्रूयात् || Cह्Uप्_२,२२.४ ||
SK
Cह्Uप्Bह्_२,२२.४ अथ यद्येनमूष्मसु तथैवोपालभेत प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रतिपेक्ष्यति सञ्चूर्णयिष्यतीत्येनं ब्रूयात् / अथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात्
SK
START Cह्Uप् २,२२.५
SK
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति | सर्व ऊष्माणो ऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेर् आत्मानं परिददानीति | सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योर् आत्मानं परिहराणीति || Cह्Uप्_२,२२.५ ||
SK
Cह्Uप्Bह्_२,२२.५ यत इन्द्राद्यात्मानः स्वरादयो ऽतः सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः / तथाहमिन्द्रे बलं ददानि बलमादधानीति / तथा सर्व ऊष्माणो ऽग्रस्ता अन्तरप्रवेशिता अनिरस्ता बहिरप्रक्षिप्ता विवृता[विवृत्ता] विवृतप्रयत्नोपेताः प्रजापतेरात्मानं परिददानि प्रयच्छानीति / सर्वे स्पर्शा लेशेन शनकैरनभिनिहिता अनभिनिक्षिप्ता वक्तव्या मृत्योरात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिहराणीति
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वाविंशः खण्डः
SK
======================================================================= START Cह्Uप् २,२३.१
SK
त्रयो धर्मस्कन्धाः | यज्ञो ऽध्ययनं दानम् इति प्रथमः | तप एव द्वितीयः | ब्रह्मचार्याचार्यकुलवासी तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन् | सर्व एते पुण्यलोका भवन्ति | ब्रह्मसंस्थो ऽमृतत्वम् एति || Cह्Uप्_२,२३.१ ||
SK
Cह्Uप्Bह्_२,२३.१ ओङ्कारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते / नैवं मनतव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योङ्कारस्योपासनात्फलं प्राप्यत इति / किं तर्हि?यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोङ्कारोपासनात्प्राप्यत इति / तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः / त्रयस्रिसंख्याका धर्मस्य स्कन्धा धर्मस्कन्धाः धर्मविबागा इत्यर्थः / के त इत्याह -यज्ञो ऽग्निहोत्रादिः / अध्ययनं सनियमस्य ऋगादेरभ्यासः / दानं बहिर्वेदि यथाशक्तिद्रव्यसंविभागो भिक्षमाणेभ्यः / इत्येष प्रथमो धर्मस्कन्धः / गृहस्थसमवेतत्वात्तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते प्रथम एक इत्यर्थो द्वितीयतृतीयश्रवणान्नाऽद्यार्थः / तप एव द्वितीयस्तप इति कृच्छ्रचान्द्रायणादि तद्वांस्तापसः परिव्राड्वा न ब्रह्मसंस्थ आश्रमधर्ममात्रसंस्थो;ब्रह्मसंस्थस्य त्वमृतत्वश्रवणात् / द्वितीयो धर्मस्कन्धः / ब्रह्मचार्याचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी / अत्यन्तं यावज्जीवमात्मानं नियमैराचार्यकुले ऽवसादयन्क्षपयन्देहं तृतीयो धर्मस्कन्धः / अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते / उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वान्न पुण्यलोकत्वं ब्रह्मचर्येण / सर्व एते त्रयो ऽप्याश्रमिणो यथोक्तैर्धर्मैः पुण्यलोका भवन्ति / पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति / अवशिष्टस्त्वनुक्तः परिव्राड्ब्रह्मसंस्थो ब्रह्मणि सम्यक्स्थितः सो ऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकमेति नाऽपेक्षिकं देवाद्यमृतत्ववत् / पुण्यलोकात्पृयगमृतत्वस्य विभागकरणात् / यदि च पुम्यलोकातिशयमात्रममृतत्वमभविष्यत्ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् / विभक्तेपदेशाच्चाऽत्यन्तिकममृतत्वमिति गम्यते / अत्र चाऽश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थं न तत्फलविध्यर्थम् / स्तुतये च प्रवमसेवाया आश्रमधर्मफलविधये चेति हि भिद्येत वाक्यम् / तस्मात्स्मृतिसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन्प्रणवसेवां स्तौति / यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला राजवर्मणस्तु सेवा राज्यतुल्यफलेति तद्वत् / प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् / ᳚एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्᳚ इत्याद्याम्नायात्काठके युक्तं तत्सेवातो ऽमृतत्वम् / चतुर्णामधिकृतत्वाविशेषात् / ब्रह्मसंस्थत्वे ऽप्रतिषेधाच्च / स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्ध्योपपत्तेः / न च यववराहादिशब्दवद्ब्रह्मसंस्थशब्दः परिव्राजके रूढः / ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् / न हि रूढिशब्दा निमित्तमुपाददते / सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते / यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिस्तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोच कारणाभावान्निरोद्धुम युक्तम् / न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम् / ज्ञानानर्थक्यप्रसङ्गात् / पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेन्न / आश्रमधर्मत्वाविशेषात् / धर्मो वा ज्ञानविशिष्टो ऽमृतत्वसाधनमित्येदपि सर्वाश्रमधर्माणामविशिष्टम् / न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षो नान्येषामिति / ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितकर्मवतां सो ऽमृतत्वमेतीति / कुर्विदं मा कार्षीरिति कर्मविधयः प्रवृत्ताः / तच्च निमित्तं न शास्रकृतम् / सर्वप्राणिषु दर्शनात् / ᳚सदेकमेवाद्वितीयं᳚ ᳚आत्मैवेदं सर्वं᳚ ᳚ब्रह्मैवेदं सर्वम्᳚ इतिशास्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते / भेदाभेदप्रत्यययोर्विरोधात् / न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते / विद्याविद्याप्रत्यययोर्विरोधात् / तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृताः स यस्योपमर्दितः सदेकमेवाद्वितीयं तत्सत्यं विकारभेदो ऽनृतमित्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन स सर्वकर्मभ्यो निवृत्तो निमित्तनिवृत्ते:,स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते, स च परिव्राडेवान्यस्यासम्भवात् / अन्यो ह्यनिवृत्तभेदप्रत्ययः सो ऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते / तस्यैवं कुर्वतो न ब्रह्मसंस्थता / वाचारम्भणमात्रविकारानृताभिसन्धिप्रत्ययत्वात् / न चासत्यमित्युपर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते / आकाश इव तलमलबुद्धिर्विवेकिनः / उपमर्दिते ऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्प्रागिव भेदप्रत्ययोपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् / अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवद्युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् / सर्वोपनिषदां तत्परत्वात् / कर्मविधीनामप्रामाण अयप्रसङ्ग इति चेत् / न / अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात् / विवेकिनामकरणात्कर्मविधिप्रामाण्योच्छेद इति चेत् / न / काम्यविध्यनुच्छेददर्शनात् / न हि कामात्मता न प्रशस्तेत्येवंविज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति काम्यकर्मविधय उच्छिद्यन्ते ऽनुष्ठीयन्त एव कामिभिरिति / तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्ते ऽब्रह्मविद्भिरनुष्ठीयन्त एवेति / परिव्रादकानां भिक्षाचरणादिवदुत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेन्न / प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् / न हि नाभिचरेदिति प्रतिषिद्धमप्यभिचरमं कश्चित्कुर्वन्दृष्ट इति शत्रौ द्वेषरहितेनापि विवेकिनाभिचरणं क्रियते / न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधिते ऽग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् / इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत् / न / भेदप्रत्ययवतो ऽधिकृतत्वात् / भेदप्रत्ययवाननुपमर्दितभेदबुद्धिर्विद्यया यः स कर्मण्यधिकृत इत्यवोचाम / यो ह्यधिकृतः कर्मणि तस्य तदकरमे प्रत्यवायो न निवृत्ताधिकारस्य गृहस्थस्येव ब्रह्मचारिणो विशेषधर्माननुष्ठाने / एवं तर्हि सर्वः स्वाश्रमस्थ उत्पन्नेकत्वप्रत्ययः परिव्राडिति चेत् / न / स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः / कर्मार्थत्वाच्चेतराश्रमाणाम् / ᳚अथ कर्म कुर्वीय᳚इति श्रुतेः / तस्मात्स्वस्वामित्वाभावाद्भिक्षुरेक एव परिव्राट् / न गृहस्थादिः / एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वाद्यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत् / न / बुभुक्षादिनैकत्वप्रत्ययात्प्राच्यावितस्योपपत्तेर्निवृत्त्यर्थत्वात् / न च प्रतिषिद्धसेवाप्राप्तिः / एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् / न हि रात्रौ कूपे कण्टके वा पतित उदिते ऽपि सवितरि पतति तस्मिन्नेव / तस्मात्सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति / यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति / सत्यमेतत् / यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति / एतदसत् / कस्मात् / परिव्राजकस्यैव ब्रह्मसंस्थतासम्भवात् / स एव ह्यवशेषित इत्यवोचाम / एकत्वविज्ञानवतो ऽग्निहोत्रादिवत्तपोनिवृत्तेश्च / भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् / एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यं अप्रतिषेधश्च प्रत्युक्तः / तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम् / यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिहृतम् / तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति / यत्पुनरुक्तं रूढशब्दा निमित्तं नोपाददत इति / तन्न / गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् / गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि गृहस्थपरिव्राजकाश्रमिविशेषे विशिष्टजातिमति च तक्षेति रूढा दृश्यन्ते शब्दाः / न यत्र यत्र तानि निमित्तानि तत्र तत्र वर्तन्ते / प्रसिद्ध्यभावात् / तथेहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषये ऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति / मुख्यामृतत्वफलश्रवणात् / अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम् / न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति / ᳚मुण्डो ऽपरिग्रहो ऽसङ्ग᳚इति श्रुतिः᳚अत्याक्षमिब्यः परमं पवित्रम्᳚ इत्यादि च श्वेताश्वतरीये / ᳚निःस्तुतिर्निर्नमस्कार᳚इत्यादिस्मृतिभ्यश्च / ᳚तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः᳚ / ᳚तस्मादलिङ्गो धर्मज्ञो ऽव्यक्तलिङ्ग᳚इत्यादिस्मृतिभ्यश्च / यत्तु सांख्यैः कर्मत्यागो ऽभ्युपगम्यते / क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात् तन्मृषा / यच्च बौद्धैः शून्यताभ्युपगमादकर्तृत्वमभ्युपगम्यते / तदप्यसत् / तदभ्युपगन्तुः सत्त्वाभ्युपगमात् / यच्चाज्ञैरलसतयाकर्तृत्वाभ्युपगमः सो ऽप्यसन्, कारकबुद्धेरनिवर्ततत्वात्प्रमाणेन / तस्माद्वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् / एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम् / नन्वग्न्युत्सादनदोषभाक्स्यात्परिव्रजन् / ᳚वीरहा वा एष देवानां यो ऽग्निमुद्वासयते᳚इति श्रुतेः / न / वेदेनैवोत्सादितत्वात् उत्सन्न एव हि स एकत्वदर्शने जाते / अपागादग्नेरग्नित्वमिति श्रुतेः / अतो न दोषभाग्गृहस्थः परिव्रजन्निति
SK
START Cह्Uप् २,२३.२
SK
प्रजापतिर् लोकान् अभ्यतपत् | तेभ्यो ऽभितप्तेभ्यस् त्रयी विद्या संप्रास्रवत् | ताम् अभ्यतपत् | तस्या अभितप्ताया एतान्य् अक्षराणि संप्रस्र्वन्त भूर् भुवः स्वर् इति || Cह्Uप्_२,२३.२ ||
SK
Cह्Uप्Bह्_२,२३.२ यत्संस्थो ऽमृतत्वमेति तन्निरूपणार्थमाह -प्रजापतिर्विराट् कश्यपो वा लोकानुद्दिश्य तेषु सारजिघृक्षयाभ्यत पदभितापं कृतवान्ध्यानं तपः कृतवानित्यर्थः / तेभ्यो ऽभितप्तेभ्यः सारभूता त्रयी विद्या सम्प्रास्रवत्प्रजापतेर्मनसि प्रत्यभादित्यर्थः / तामभ्यतपत् / पूर्ववत् / तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवः स्वरितिव्याहृतयः
SK
START Cह्Uप् २,२३.३
SK
तान्य् अभ्यतपत् | तेभ्यो ऽभितप्तेभ्य ॐकारः संप्रास्रवत् | तद् यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्य् एवम् ॐकारेण सर्वा वाक् संतृण्णा | ॐकार एवेदं सर्वम् ॐकार एव इदं सर्वम् || Cह्Uप्_२,२३.३ ||
SK
Cह्Uप्Bह्_२,२३.३ तान्यक्षराण्यभ्यतपत्तेभ्यो ऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्तद्ब्रह्म, कीदृशमित्याह-तद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि सन्तृण्णानि निविद्धानि व्याप्तानीत्यर्थः / एवमोङ्कारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक्यशब्दजातं सन्तृण्णा / ᳚अकारो वै सर्वा वाक्᳚इत्यादिश्रुतेः / परमात्मविकारश्च नामधेयमात्रमित्यत ओङ्कार एवेदं सर्वमिति / द्विरभ्यास आदरार्थः / लोकादिनिष्पादनकथनमोङ्कारस्तुत्यर्थमिति
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्रयोविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् २,२४.१
SK
ब्रह्मवादिनो वदन्ति | यद् वसूनां प्रातःसवनम् | रुद्राणां माध्यंदिनं सवनम् | आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् || Cह्Uप्_२,२४.१ ||
SK
Cह्Uप्Bह्_२,२४.१ सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्योङ्कारं परमात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्याङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह-ब्रह्मवादिनो वदन्ति यत्प्रातःसवनं तद्वसूनाम् / तैश्च प्रातः सवनसम्बद्धो ऽयं लोको वशीकृतः सवनेशानैः / तथा रुद्रैर्माध्यन्दिनसवनेशानैरन्तरिक्षलोकः / आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः / इति यजमानस्य लोको ऽन्यः परिशिष्टो न विद्यते
SK
START Cह्Uप् २,२४.२
SK
क्व तर्हि यजमानस्य लोक इति | स यस् तं न विद्यात् कथं कुर्यात् | अथ विद्वान् कुर्यात् || Cह्Uप्_२,२४.२ ||
SK
Cह्Uप्Bह्_२,२४.२ अतः क्व तर्हि यजमानस्य लोको यदर्थं यजते / न क्वचिल्लोको ऽस्तीत्यभिप्रायः / ᳚लोकाय वै यजते यो यजते᳚इति श्रुतेः / लोकाभावे च स यो यजमानस्तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यान्न विजानीयात्सो ऽज्ञः कथं कुर्याद्यज्ञं न कथञ्चन तस्य कर्तृत्वमुपपद्यत इत्यर्थः / सामादिविज्ञानस्तुतिपरत्वान्नाविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते / स्तुतये च सामादिविज्ञानस्याविद्वत्कर्तृत्वप्रतिषेधाय चेति हि भिद्यते वाक्यम् / आद्ये चौषस्त्ये काण्डे ऽविदुषो ऽपि कर्मास्तीति हेतुमवोचाम / अथैतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात्
SK
START Cह्Uप् २,२४.३
SK
पुरा प्रातरनुवाकस्योपाकरणाज् जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति || Cह्Uप्_२,२४.३ ||
SK
Cह्Uप्Bह्_२,२४.३ किं तद्वेद्यमित्याह-पुरा पूर्वं प्रातरनुवाकस्य शस्रस्य प्रारम्भाज्जघनेन गार्हपत्यस्य पश्चादुदङ्मुखः सन्नुपविश्य स वासवं वसुदैवत्यं सामाभिगायति
SK
START Cह्Uप् २,२४.४
SK
लो ३ कद्वारम् अपावा ३ र्णू ३३ | पश्येम त्वा वयं रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति || Cह्Uप्_२,२४.४ ||
SK
Cह्Uप्Bह्_२,२४.४ लोकद्वारमस्य पृथिवीलोकस्य प्राप्तये द्वारमपावृणु हे ऽग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति
SK
START Cह्Uप् २,२४.५
SK
अथ जुहोति | नमो ऽग्नये पृथिवीक्षिते लोकक्षिते | लोकं मे यजमानाय विन्द | एष वै यजमानस्य लोकः | एता अस्मि || Cह्Uप्_२,२४.५ ||
SK
Cह्Uप्Bह्_२,२४.५ अथानन्तरं जुहोत्यनेन मन्त्रेण नमो ऽग्नये प्रह्वीभूतास्तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते पृथिवीलोकनिवासायेत्यर्थः / लोकं मे मह्यं यजमानाय विन्द लभस्व / एष वै मम यजमानस्य लोक एता गन्तास्मि
SK
START Cह्Uप् २,२४.६
SK
अत्र यजमानः परस्ताद् आयुषः स्वाहा | अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति | तस्मै वसवः प्रातःसवनं संप्रयच्छन्ति || Cह्Uप्_२,२४.६ ||
SK
Cह्Uप्Bह्_२,२४.६ अत्रास्मिंल्लोके यजमानो ऽहमायुषः परस्तादूर्ध्वं मृतः सन्नित्यर्थः / स्वाहोति जुहोति / अपजह्यपनय परिघं लोकद्वारार्गलमित्येवं मन्त्रमुक्त्वोत्तिष्ठति एवमेतैर्वसुभ्यः प्रातः सवनसम्बद्धो लोको निष्क्रीतः स्यात्ततस्ते प्रातःसवनं धसवो यजमानाय सम्प्रयच्छन्ति
SK
START Cह्Uप् २,२४.७-८
SK
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज् जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रं सामाभिगायति || Cह्Uप्_२,२४.७ ||
SK
लो ३ कद्वारमपावार् ३ णू ३३ | पश्येम त्वा वयं वैरा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति || Cह्Uप्_२,२४.८ ||
SK
Cह्Uप्Bह्_२,२४.७,८ तथाऽग्नीध्रीयस्य दक्षिणाग्नेर्जघनेनोदङ्मुख उपविश्य स रौद्रं सामाभिगायति यजमानो रुद्रदैवत्यंवैराज्याय //७-८ //
SK
START Cह्Uप् २,२४.९-१०
SK
अथ जुहोति | नामो वायवे ऽन्तरिक्षक्षिते लोकक्षिते | लोकं मे यजमानाय विन्द | एष वै यजमानस्य लोकः | एतास्मि || Cह्Uप्_२,२४.९ ||
SK
अत्र यजमानः परस्ताद् आयुषः स्वाहा | अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति | तस्मै रुद्रा माध्यन्दिनं सवनं संप्रयच्छन्ति || Cह्Uप्_२,२४.१० ||
SK
Cह्Uप्Bह्_२,२४.९.१० अन्तरिक्षक्षित इत्यादि समानम्
SK
START Cह्Uप् २,२४.११-१३
SK
पुरा तृतीयसवनस्योपाकरणाज् जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति || Cह्Uप्_२,२४.११ ||
SK
लो ३ कद्वारमपावा ३ र्णू३३ | पश्येम त्वा वयं स्वारा ३३३३३ हु३म्, आ ३३ ज्या ३ यो ३ आ ३२१११ इत्य् आदित्यम् || Cह्Uप्_२,२४.१२ ||
SK
अथ वैश्वदेवम् | लो३कद्वारमपावा३र्णू३३ | पश्येम त्वा वयं साम्रा ३३३३३ हु३म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति || Cह्Uप्_२,२४.१३ ||
SK
Cह्Uप्Bह्_२,२४.११-१३ तथाऽहवनीयस्योदङ्मुख उपविश्य स आदित्यदैवत्यमादित्यं वैश्वदेवं च सामाभिगायति क्रमेण स्वाराज्याय साम्राज्याय //११-१३ //
SK
START Cह्Uप् २,२४.१४-१५
SK
अथ जुहोति | नम आदित्येभ्यश् च विश्वेभ्यश् च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः | लोकं मे यजमानाय विन्दत || Cह्Uप्_२,२४.१४ ||
SK
एष वै यजमानस्य लोकः | एतास्म्य् अत्र यजमानः परस्ताद् आयुषः स्वाहा | अपहत परिघम् इत्य् उक्त्वोत्तिष्ठति || Cह्Uप्_२,२४.१५ ||
SK
Cह्Uप्Bह्_२,२४.१४-१५ दिविक्षिद्भ्य इत्येवमादि समानमन्यत् / विन्दतापहतेति बहिवचनमात्रं विशेषः / याजमानं त्वेतत् / एतास्म्यत्र यजमान इत्यादिलिङ्गात् //१४-१५ //
SK
START Cह्Uप् २,२४.१६
SK
तस्मा आदित्याश् च विश्वे च देवास् तृतीयसवनं संप्रयच्छन्ति | एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद || Cह्Uप्_२,२४.१६ ||
SK
Cह्Uप्Bह्_२,२४.१६ एष ह वै यजमान एवंवित् यथोक्तस्य सामादेर्विद्वान्यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् / य एवं वेद य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था
SK
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्विंशः खण्डः इति छान्दोग्योपनिषद्ब्राह्मणे द्वितीयो ऽध्यायः समाप्तः
SK
SK
अथ तृतीयो ऽध्यायः
SK
START Cह्Uप् ३,१.१
SK
असौ वा आदित्यो देवमधु | तस्य द्यौर् एव तिरश्चीनवंशः | अन्तरिक्षम् अपूपः | मरीचयः पुत्राः || Cह्Uप्_३,१.१ ||
SK
Cह्Uप्Bह्_३,१.१ असौ वा आदित्य उत्याद्यध्यायारम्भे सम्बन्धः / अतीतानन्तराध्यायान्त उक्तं यज्ञस्य मात्रां वेदेति यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि / सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते / स एष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते / अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः-असौ वा आदित्यो देवमध्वित्यादि / देवनां मोदनान्मध्विव मध्वसावादित्यः / वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य / कथं मधुत्वमित्याह-तस्य मधुनो द्यौरेव भ्रामरस्येव मधुनस्तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः / तिर्यग्गतेव हि द्यौर्लक्ष्यते / अन्तरिक्षं च मध्वपूपो द्युवंशे लग्नः सल्लंम्बत इवातो मध्वपूपसामान्यादन्तरिक्षं मध्वपूपो मधुनः सवितुराश्रयत्वाच्च / मरीचयो रश्मयो रश्मिस्था आपो भौमाः सवित्राकृष्टाः᳚एता वा आपः स्वराजो यन्मरीचय᳚इति इति हि विज्ञायते / ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वाद्भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्रा मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः
SK
START Cह्Uप् ३,१.२
SK
तस्य ये प्राञ्चो रश्मयस् ता एवास्य प्राच्यो मधुनाड्यः | ऋच एव मधुकृतः | ऋग्वेद एव पुष्पम् | ता अमृता आपः | ता वा एता ऋचः || Cह्Uप्_३,१.२ ||
SK
Cह्Uप्Bह्_३,१.२ तस्य सवितुर्मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गता रश्मयस्ता एवास्य प्राच्यः प्रागञ्चनान्मधुनो नाड्यो मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः / तत्र ऋच एव मधुकृतो लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतो भ्रमरा इव यतो रसानादाय मधु कुर्वन्ति / तत्पुष्पमिव पुष्पमृग्वेद एव / तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वाच्छब्दमात्राच्च भोग्यरूपरसनिस्रावासम्भवादृग्वेदशब्देनात्र ऋग्वेदविहितं कर्म / ततो हि कर्मफलभूतमधुरसनिस्रावसम्भवात् / मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणो ऽप आदाय ऋग्भिर्मधु निर्वर्त्यते / कास्ता आप इत्याह-ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा अग्नौ प्रक्षिप्तास्तत्पाकाभिनिर्वृत्ता अमृता अमृतार्थत्वादत्यन्त रसवत्य आपो भवन्ति / तद्रसानादाय ता वा एता ॠचः पुष्पेभ्यो रसमाददाना एव भ्रमराः ऋचः
SK
START Cह्Uप् ३,१.३
SK
एतम् ऋग्वेदम् अभ्यतपन् | तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत || Cह्Uप्_३,१.३ ||
SK
Cह्Uप्Bह्_३,१.३ एतमृग्वेदमृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्नभितापं कृतवत्य इवैता ऋचः कर्मणि प्रयुक्ताः / ॠग्भिर्हि मन्त्रैः शस्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते पुष्पाणीव भ्रमरैराचूष्यमाणानि / तदेतदाह-तस्यर्ग्वेदस्याभितप्तस्य / को ऽसौ रसो य ऋङ्मधुकराभितापनिःसृत इत्युच्यते / यशो विश्रुतत्वं तेजो देहगता दीप्तिरिन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः / अन्नाद्यमन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात्तदन्नाद्यमेष रसो ऽजायत यागादिलक्षणात्कर्मणः
SK
START Cह्Uप् ३,१.४
SK
तद् व्यक्षरत् | तद् आदित्यम् अभितो ऽश्रयत् | तद् वा एतद् यद् एतद् आदित्यस्य रोहितं रूपम् || Cह्Uप्_३,१.४ ||
SK
Cह्Uप्Bह्_३,१.४ यश आद्यन्नाद्यपर्यन्तं तद्व्यक्षरद्विशेषेणाक्षरदगमत् / गत्वा च तदादित्यमभितः पार्श्वतः पूर्वभागं सवितुरश्रयदाश्रितवदित्यर्थः / अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यश-आदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः / तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोस्तद्वा एतत् / किं तद्यदेतदादित्यस्योद्यतो दृश्यते रोहितं रूपम्
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,२.१
SK
अथ ये ऽस्य दक्षिणा रश्मयस् ता एवास्य दक्षिणा मधुनाड्यः | यजूंष्य् एव मधुकृतः | यजुर्वेद एव पुष्पम् | ता अमृता आपः || Cह्Uप्_३,२.१ ||
SK
Cह्Uप्Bह्_३,२.१ अथ ये ऽस्य दक्षिणा रश्मय इत्यादि समानम् / यजूं#येव मधुकृतो यजुर्वेदविहिते कर्मणि प्रयुक्तानि / पूर्ववन्मधुकृत इव / यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते / ता एव सोमाद्या अमृता आपः
SK
START Cह्Uप् ३,२.२-३
SK
तानि वा एतानि यजूंष्य् एतं यजुर्वेदम् अभ्यतपन् | तस्य अभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत || Cह्Uप्_३,२.२ ||
SK
तद् व्यक्षरत् | तद् आदित्यम् अभितो ऽश्रयत् | तद् वा एतद् यद् एतद् आदित्यस्य शुक्लं रूपम् || Cह्Uप्_३,२.३ ||
SK
Cह्Uप्Bह्_३,२.२,३ तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन्नित्येवमादि सर्वं समानम् / मध्वेतदादित्यस्य दृश्यते शुक्लं रूपम् //२--३ //
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,३.१-३
SK
अथ ये ऽस्य प्रत्यञ्चो रश्मायस् ता एवास्य प्रतीच्यो मधुनाड्यः | सामान्य् एव मधुकृतः | सामवेद एव पुष्पम् | ता अमृता आपः || Cह्Uप्_३,३.१ ||
SK
तानि वा एतानि सामान्य् एतं सामवेदम् अभ्यतपन् | तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत || Cह्Uप्_३,३.२ ||
SK
तद् व्यक्षरत् | तद् आदित्यम् अभितो ऽश्रयत् | तद् वा एतद् यद् एतद् आदित्यस्य कृष्णं रूपम् || Cह्Uप्_३,३.३ ||
SK
Cह्Uप्Bह्_३.३.१-३ अथ ये ऽस्य प्रत्यश्चो रश्मय इत्यादि समानम् / तथा साम्नां मधु / एतदादित्यस्य कृष्णं रूपम् //१-३ //
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयः खण्डः
SK
======================================================================= START Cह्Uप् ३,४.१-३
SK
अथ ये ऽस्योदञ्चो रश्मयस् ता एवास्योदीच्यो मधुनाड्यः | अथर्वाङ्गिरस एव मधुकृतः | इतिहासपुराणं पुष्पम् | ता अमृता आपः || Cह्Uप्_३,४.१ ||
SK
ते वा एते ऽथर्वाङ्गिरस एतद् इतिहासपूराणम् अभ्यतपन् | तस्याभितप्तस्य यशस् तेज इन्द्रियां वीर्यम् अन्नाद्यं रसो ऽजायत || Cह्Uप्_३,४.२ ||
SK
तद् व्यक्षरत् | तद् आदित्यम् अभितो ऽश्रयत् | तद् वा एतद् यद् एतद् आदित्यस्य परःकृष्णं रूपम् || Cह्Uप्_३,४.३ ||
SK
Cह्Uप्Bह्_३,४.१-३ अथ ये ऽस्योदञ्चो रश्मय इत्यादि समानम् / अथर्वाङ्गिरसो ऽथर्वणाङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः कर्मणि प्रयुक्ता मधुकृतः / इतिहासपुराणं पुष्पम् / तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः / मध्वेतदादित्यस्य परः कृष्णं रूपमतिशयेन कृष्णमित्यर्थः //१-३ //
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,५.१-३
SK
अथ ये ऽस्योर्ध्वा रश्मयस् ता एवास्योर्ध्वा मधुनाड्यः | गुह्या एवादेशा मधुकृतः | ब्रह्मैव पुष्पं | ता अमृता आपः || Cह्Uप्_३,५.१ ||
SK
ते वा एते गुह्या आदेशा एतद् ब्रह्माभ्यतपन् | तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत || Cह्Uप्_३,५.२ ||
SK
तद् व्यक्षरत् | तद् आदित्यम् अभितो ऽश्रयत् | तद् वा एतद् यद् एतद् आदित्यस्य मध्ये क्षोभत इव || Cह्Uप्_३,५.३ ||
SK
Cह्Uप्Bह्_३,५.१,२,३ अथ ये ऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् / गुह्या गोप्या रहस्या एवाऽदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतो ब्रह्मैव शब्दाधिकारात्प्राणवाख्यं पुष्पम् / समानमन्यत् / मध्वेतदादित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते सञ्चलतीव //१-३ //
SK
START Cह्Uप् ३,५.४
SK
ते वा एते रसानां रसाः | वेदा हि रसाः | तेषाम् एते रसाः | तानि वा एतान्य् अमृतानाम् अमृतानि | वेदा ह्य् अमृताः | तेषाम् एतान्य् अमृतानि || Cह्Uप्_३,५.४ ||
SK
Cह्Uप्Bह्_३,५.४ ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः / केषां रसानामित्याह-वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसास्तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषा रसा इत्यन्तसारभूता इत्यर्थः / तथामृतानाममृतानि वेदा ह्यमृता नित्यत्वातेषामेतानि रोहितादीनि रूपाण्यमृतानि / रसानां रसा इत्यादि कर्मस्तुतिरेषा / यस्यैवंविशिष्टान्यमृतानि फलमिति
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,६.१
SK
तद् यत् प्रथमम् अमृतं तद् वसव उपजीवन्त्य् अग्निना मुखेन | न वै देवा अश्नन्ति न पिबन्ति | एतद् एवामृतं दृष्ट्वा तृप्यन्ति || Cह्Uप्_३,६.१ ||
SK
Cह्Uप्Bह्_३,६.१ रूपस्येति / न / यश आदीनां श्रोत्रादिगम्यत्वात् / श्रोत्रग्राह्यं यशः / तेजोरूपं चाक्षुषम् / इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम् / वीर्यं बलं देहगत उत्साहः प्राणवत्ता / अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति रसो ह्येवमात्मकः सर्वः / यं दृष्ट्वा तृप्यन्ति सर्वे देवाः / दृष्ट्वा तृप्यन्तीत्येतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः / आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च
SK
START Cह्Uप् ३,६.२
SK
त एतद् एव रूपम् अभिसंविशन्ति | एतस्माद् रूपाद् उद्यन्ति || Cह्Uप्_३,६.२ ||
SK
Cह्Uप्Bह्_३,६.२ किं ते निरुद्यमा अमृतमुपजीवन्ति / न / कथं तर्हि, एतदेव रूपमभिलक्ष्याधुना भोगावसरो नास्माकमिति बुद्ध्वाभिसंविशन्त्युदासते / यदा वै तस्यामृतस्य भोगावसरो भवेत्तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः / एतस्माद्रूपादुद्यन्त्युत्साहवन्तो भवन्तीत्यर्थः / न ह्यनुत्साहवतामननपतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा
SK
START Cह्Uप् ३,६.३
SK
स य एतद् एवम् अमृतं वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति | स एतद् एव रूपम् अभिसंविशति | एतस्माद् रूपाद् उदेति || Cह्Uप्_३,६.३ ||
SK
Cह्Uप्Bह्_३,६.३ स यः कश्चिदेतदेवं यथोदितमृङ्मधुकरतापरससंरक्षणमृग्वेदविहितकर्मपुष्पात्तस्य चाऽदित्यसंश्रयणं रोहित रूपत्वं चामृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वाग्निना मुकेनोपजीवनं दर्शनमात्रेण तृप्तिं स्वभोगावसर उद्यमनं तत्कालापाये च संवेशनं वेद सो ऽपि वसुवत्सर्वं तथैवानुभवति
SK
START Cह्Uप् ३,६.४
SK
स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता वसूनाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता || Cह्Uप्_३,६.४ ||
SK
Cह्Uप्Bह्_३,६.४ कियन्तं कालं विद्वांस्तदमृतमुपजीवतीत्युच्यते - स विद्वान्यावदादित्यः पुरस्तात्प्राच्यां दिश्युदेता पश्चात्प्रतीच्यामस्तमेता तावद्वसूनां भोगकालस्तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्यता परितो गन्ता भवतीत्यर्थः / न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः / किं तर्ह्ययमाधिपत्यं स्वराड्भावं चाधिगच्छति
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,७.१-३
SK
अथ यद् द्वितीयम् अमृतं तद् रुद्रा उपजीवन्तीन्द्रेण मुखेन | न वै देवा अश्नन्ति न पिबन्ति | एतद् एवामृतं दृष्ट्वा तृप्यन्ति || Cह्Uप्_३,७.१ ||
SK
त एतद् एव रूपम् अभिसंविशन्ति | एतस्माद् रूपाद् उद्यन्ति || Cह्Uप्_३,७.२ || स य एतद् एवम् अमृतं वेद रुद्राणाम् एवैको भूत्वेन्द्रेणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति | स एतद् एव रूपम् अभिसंविशति | एतस्माद् रूपाद् उदेति || Cह्Uप्_३,७.३ ||
SK
Cह्Uप्Bह्_३,७.१-३ अथा यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् //१-२-३ //
SK
START Cह्Uप् ३,७.४
SK
स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता द्विस् तावद् दक्षिणत उदेतोत्तरतो ऽस्तम् एता रुद्राणाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता || Cह्Uप्_३,७.४ ||
SK
Cह्Uप्Bह्_३,७.४ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत्ततो द्विगुणं कालं दक्षिणत उदेतोत्तरतो ऽस्तमेता रुद्राणां तावद्भोगकालः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,८.१-४
SK
अथ यत् तृतीयम् अमृतं तद् आदित्या उपजीवन्ति वरुणेन मुखेन | न वै देवा अश्नन्ति न पिबन्ति | एतद् एवामृतं दृष्ट्वा तृप्यन्ति || Cह्Uप्_३,८.१ ||
SK
त एतद् एव रूपम् अभिसंविशन्ति | एतस्माद् रूपाद् उद्यन्ति || Cह्Uप्_३,८.२ ||
SK
स य एतद् एवम् अमृतं वेदादित्यानाम् एवैको भूत्वा वरुणेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति | स एतद् एव रूपम् अभिसंविशति | एतस्माद् रूपाद् उदेति || Cह्Uप्_३,८.३ ||
SK
स यावद् आदित्यो दक्षिणत उदेतोत्तरतो ऽस्तम् एता द्विस् तावत् पश्चाद् उदेता पुरस्ताद् अस्तम् एतादित्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता || Cह्Uप्_३,८.४ ||
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,९.१-४
SK
अथ यच् चतुर्थम् अमृतं तन् मरुत उपजीवन्ति सोमेन मुखेन | न वै देवा अश्नन्ति न पिबन्ति | एतद् एवामृतं दृष्ट्वा तृप्यन्ति || Cह्Uप्_३,९.१ ||
SK
त एतद् एव रूपम् अभिसंविशन्ति | एतस्माद् रूपाद् उद्यन्ति || Cह्Uप्_३,९.२ ||
SK
स य एतद् एवम् अमृतं वेद मरुताम् एवैको भूत्वा सोमेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति | स एतद् एव रूपम् अभिसंविशति | एतस्माद् रूपाद् उदेति || Cह्Uप्_३,९.३ ||
SK
स यावद् आदित्यः पश्चाद् उदेता पुरस्ताद् अस्तम् एता द्विस् तावद् उत्तरत उदेता दक्षिणतो ऽस्तम् एता मरुताम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता || Cह्Uप्_३,९.४ ||
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१०.१
SK
अथ यत् पञ्चमम् अमृतं तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन | न वै देवा अश्नन्ति न पिबन्ति | एतद् एवामृतं दृष्ट्वा तृप्यन्ति || Cह्Uप्_३,१०.१ ||
SK
त एतद् एव रूपम् अभिसंविशन्ति | एतस्माद् रूपाद् उद्यन्ति || Cह्Uप्_३,१०.२ ||
SK
स य एतद् एवम् अमृतं वेद साध्यानाम् एवैको भूत्वा ब्रह्मणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति | स एतद् एव रूपम् अभिसंविशति | एतस्माद् रूपाद् उदेति || Cह्Uप्_३,१०.३ ||
SK
स यावद् आदित्य उत्तरत उदेता दक्षिणतो ऽस्तम् एता द्विस् तावद् ऊर्ध्वम् उदेतार्वाग् अस्तम् एता साध्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता || Cह्Uप्_३,१०.४ ||
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य दशमः खण्डः
SK
Cह्Uप्Bह्_३.८.१-४, ९.१-४, १०.१-४ तथा पश्चादुत्तरत ऊर्ध्वमुदेता विपर्ययेणास्तमेता / पूर्वस्मात्पूर्वस्माद्द्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् / सवितुश्चतुर्दिशमिन्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् / मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति / अत्रोक्तः परिहार आचार्यैः / अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् / उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुगोचरापत्तिस्तदत्ययष्चस्तमनं न परमार्थत उदयास्तमने स्तः / तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरापत्तेस्तदत्ययस्य चाभावात् / तथामरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इवोदेत्युत्तरतो ऽस्तमेतीत्युच्यते ऽस्मद्बुद्धिं चापेक्ष्य / तथोत्तरास्वपि पुरीषु योजना / सर्वेषां च मेरुरुत्तरतो भवति / यदामरावत्यां मध्याह्नगतः सविता तदा संयमन्यामुद्यन्दृश्यते तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते, तथोत्तरस्यां, प्रदक्षिणावृत्तेस्तुल्यत्वात् / इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्ध्व इवोदेतावगिस्तमेता दृश्यते / पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य / तथर्गाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन / उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम् //१-४ //
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमनवमदशमखण्डाः
SK
=======================================================================
SK
START Cह्Uप् ३,११.१
SK
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तम् एतैकल एव मध्ये स्थाता | तद् एष श्लोकः || Cह्Uप्_३,११.१ ||
SK
Cह्Uप्Bह्_३,११.१ कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहं तत्कर्मफलोपभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्याथ ततस्तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन्नात्मन्युदेत्योद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्स्वात्मस्थो नैवोदेता नास्तमेतैकलो ऽद्वितीयो ऽनवयवो मध्ये स्वात्मन्येव स्थाता / तत्र कश्चिद्विद्वान्वस्वादिसमानचरणो रोहिताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन्नेतं मन्त्रं दृष्ट्वोत्थितो ऽन्यस्मै पृष्टवते जगाद / यतस्त्वमागतो ब्रह्मलोकात्किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकमित्येवं पृष्टः प्रत्याह / तत्तत्र यथा पृष्टे यथोक्ते चार्थ एष श्लोको भवति तनोक्तो योगिनेति श्रुतेर्वचनमिदम्
SK
START Cह्Uप् ३,११.२
SK
न वै तत्र न निम्लोच | नोदियाय कदाचन | देवास् तेनाहं सत्येन | मा विराधिषि ब्रह्मणेति || Cह्Uप्_३,११.२ ||
SK
Cह्Uप्Bह्_३,११.२ न वै तत्र यतो ऽहं ब्रह्मलोकादागतस्तस्मिन्न वै तत्रैतदस्ति यत्पृच्छसि / न हि तत्र निम्लोचो ऽस्तमगमत्सविता न चोदियायोद्गतः कुतश्चित्कदाचन कस्मिंश्चिदपि काल इति / उदयास्तमयवर्जितो ब्रह्मलोक इत्यनुपपन्नमित्युक्तः शुथमिव प्रतिपेदे / हे देवाः साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वचस्तेन स्तेयनाहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयमप्राप्तिर्ब्रह्मणा मम मा भूदित्यर्थः
SK
START Cह्Uप् ३,११.३
SK
न ह वा अस्मा उदेति न निम्लोचति | सकृद् दिवा हैवास्मै भवति | य एताम् एवं ब्रह्मोपनिषदं वेद || Cह्Uप्_३,११.३ ||
SK
Cह्Uप्Bह्_३,११.३ सत्यं तेनोक्तमित्याह श्रुतिः-न ह वा अस्मै यथोक्तब्रह्मविदे नोदेति न निम्लोचति नास्तमेति किं तु ब्रह्मविदे ऽस्मै सकृद्दिवा हैव सदैवाहर्भवति स्वयञ्ज्योतिष्ट्वाद्य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद / एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसम्बन्धं च यच्चान्यदवोचामैवं जानातीत्यर्थः / विद्वानुदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः
SK
START Cह्Uप् ३,११.४
SK
तद् धैतद् ब्रह्मा प्रजापतय उवाच | प्रजापतिर् मनवे | मनुः प्रजाभ्यः | तद् धैतद् उद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच || Cह्Uप्_३,११.४ ||
SK
Cह्Uप्Bह्_३,११.४ तद्धैतन्मधुज्ञानं ब्रह्मा हिरण्यगर्भो विराजे प्रजापतय उवाच / सो ऽपि मनवे / मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति ब्रह्मादिविशिष्टक्रमागतेति / किं च तद्धैतन्मधुज्ञानमुद्दालकायाऽरुणये पिता
SK
START Cह्Uप् ३,११.५
SK
इदं वाव तज् ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वान्तेवासिने || Cह्Uप्_३,११.५ ||
SK
Cह्Uप्Bह्_३,११.५ इदं वाव तद्यथोक्तमन्यो ऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् / प्रणाय्याय वा योग्यायायन्तेवासिने शिष्याय
SK
START Cह्Uप् ३,११.६
SK
नान्यस्मै कस्मैचन | यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूय इति || Cह्Uप्_३,११.६ ||
SK
Cह्Uप्Bह्_३,११.६ नान्यस्मै कस्मैचन प्रब्रूयात्तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम् / कस्मात्पुनस्तीर्थसङ्कोचनं विद्याया निष्क्रयार्थमाचार्याय धनस्य पूर्णां सम्पन्नां भोगोपररणैर्नासावस्य निष्क्रयो यस्मात्ततो ऽपि दानादेतदेव यन्मधुविद्यादानं भूयो बहुतरफलमित्यर्थः / द्विरभ्यास आदरार्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१२.१
SK
गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च | वाग् वै गायत्री | वाग् वा इदं सर्वं भूतं गायति च त्रायते च || Cह्Uप्_३,१२.१ ||
SK
Cह्Uप्Bह्_३,१२.१ यत एवमतिशयफलैषा ब्रह्मविद्यातः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्याद्यारभ्यते / गायत्रीद्वारेण चोच्यते / ब्रह्मणः सर्वविशेषरहितस्य नेति नेतीत्यादिशिषप्रतिषेधगम्यस्य दुर्बोधत्वात् / सत्स्वनेकेषु च्छन्दःसु गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् / सोमाहरणात् इतरच्छन्दोक्षराहरणेनेतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः / गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव हित्वा गुरुतरां गायत्रीं ततो ऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति / तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् / अतो गायत्रीमुखेनैव ब्रह्मोच्यते / गायत्री वा इत्यवधारणार्थो वैशब्दः / इदं सर्वं भूतं प्रामिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव / तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दयत्यसौ गौरसावश्व इति च त्रायते च रक्षत्यमुष्मान्मा भैषीः किं ते भयमुत्थितमित्यादिना सर्वतो भयान्निवर्त्यमानो वाचा त्रातः स्यात् / यद्वाग्भूतं गायति च त्रायते च गायत्र्येव तद्गायति च त्रायते च वाचो ऽनन्यत्वाद्गायत्र्याः / गानात्त्राणाच्च गायत्र्या गायत्रीत्वम्
SK
START Cह्Uप् ३,१२.२
SK
या वै सा गायत्रीयं वाव सा येयं पृथिवी | अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् | एताम् एव नातिशीयते || Cह्Uप्_३,१२.२ ||
SK
Cह्Uप्Bह्_३,१२.२ या वै सैवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी / कथं पुनरियं पृथिवी गायत्रीति, उच्यतेसर्वभूतसम्बन्धात् / कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात्सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितमेतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् / यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्या एवं भूतप्रतिष्ठानादुभूतसम्बद्धा पृथिव्यतो गायत्री पृथिवी
SK
START Cह्Uप् ३,१२.३
SK
या वै सा पृथिवीयं वाव सा यद् इदम् अस्मिन् पुरुषे शरीरम् | अस्मिन् हीमे प्राणाः प्रतिष्ठिताः | एतद् एव नातिशीयन्ते || Cह्Uप्_३,१२.३ ||
SK
Cह्Uप्Bह्_३,१२.३ या वै सा पृथिवी गायत्रीयं वाव सेदमेव / तत्किं, यदिदमस्मिन्पुरुषे कार्यकारणसङ्घाते जीवति शरीरं पार्थिवत्वाच्छरीरस्य / कथं शरीरस्य गायत्रीत्वमिति / उच्यते-अस्मिन्हीमे प्राणा भूतशब्दवाच्याः प्रतिष्ठिताः / अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानाच्छरीरं गायत्री / एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः
SK
START Cह्Uप् ३,१२.४
SK
यद् वै तत् पुरुषे शरीरम् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे हृदयम् | अस्मिन् हीमे प्राणाः प्रतिष्ठिताः | एतद् एव नातिशीयन्ते || Cह्Uप्_३,१२.४ ||
SK
Cह्Uप्Bह्_३,१२.४ यद्व तत्पुरुषे शरीरं गायत्रीदं वाव तत् / यदिदमस्मिन्नन्तर्मध्ये पुरुषे हृदयं पुण्डरीकाख्यमेतद्गायत्री / कथमित्याह-अस्मिन्हीमे प्राणाः प्रतिष्ठिता अतः शरीरवद्गायत्री हृदयम् / एतदेव च नातिशीयन्ते प्राणाः / ᳚प्राणो ह पिता / प्राणो माता / ᳚इति,᳚अहिंसन्सर्वभूतानि᳚इति च श्रुतेर्भूतशब्दवाच्याः प्राणाः
SK
START Cह्Uप् ३,१२.५
SK
सैषा चतुष्पदा षड्विधा गायत्री | तद् एतद् ऋचाभ्यनूक्तम् || Cह्Uप्_३,१२.५ ||
SK
Cह्Uप्Bह्_३,१२.५ सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति / वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम् / अन्यथा षड्विधसंख्यापूरणानुपपत्तेः / तदेतस्मिन्नर्थ एतद्गीयत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तमृचापि मन्त्रेणाभ्यनूक्तं प्रकाशितम्
SK
START Cह्Uप् ३,१२.६
SK
तावान् अस्य महिमा ततो ज्यायांश् च पुरुषः | पादो ऽस्य सर्वा भूतानि त्रिपाद् अस्यामृतं दिवीति || Cह्Uप्_३,१२.६ ||
SK
Cह्Uप्Bह्_३,१२.६ तावानस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः / यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः / अतस्तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात्ततो ज्यायान्महत्तरश्च परमार्थसत्यरूपो ऽविकारः पूरुषः पुरुषः सर्वपूरणात्पुरि शयनाच्च / तस्यास्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि / त्रिपात्त्रयः पादा अस्य सो ऽयं त्रिपात् / त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति
SK
START Cह्Uप् ३,१२.७
SK
यद् वै तद् ब्रह्मेतीदं वाव तद् यो ऽयं बहिर्धा पुरुषाद् आकाशः | यो वै स बहिर्धा पुरुषाद् आकाशः || Cह्Uप्_३,१२.७ ||
SK
Cह्Uप्Bह्_३,१२.७ यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेतीदं वाव तदिदमेव / तद्यो ऽयं प्रसिद्धो बहिर्धा बहिः पुरुषादाकाशो भौतिको यो वै स बहिर्धा पुरुषादाकाश उक्तः
SK
START Cह्Uप् ३,१२.८ अयं वाव स यो ऽयम् अन्तः पुरुष आकाशः | यो वै सो ऽन्तः पुरुष आकाशः || Cह्Uप्_३,१२.८ ||
SK
Cह्Uप्Bह्_३,१२.८ अयं वाव स यो ऽयमन्तः पुरुषे शरीर आकाशो यो वै सो ऽन्तः पुरुष आकाशः
SK
START Cह्Uप् ३,१२.९
SK
अयं वाव स यो ऽयम् अन्तर्हृदय आकाशः | तद् एतत् पूर्णम् अप्रवर्ति | पूर्णम् अप्रवर्तिनीं श्रियं लभते य एवं वेद || Cह्Uप्_३,१२.९ ||
SK
Cह्Uप्Bह्_३,१२.९ अयं वाव स यो ऽयमन्तर्हृदये हृदयपुण्डरीक आकाशः / कथमेकस्य सत आकाशस्य त्रिधा भेद इति / उच्यते-बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते / ततो ऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति स्वप्नान्पश्यतः / हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति / अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम् / अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् / बहिर्धा पुरुषादारभ्याऽकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये / यथा᳚त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते / अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्᳚इति तद्वत् / तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् / यद्यपि हृदयाकाशे चेतः समाधीयते ऽप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति तदनुच्छित्तिधर्मकम् / यथान्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि न तथा हार्दं नभः / पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टं य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानातीहैव जीवंस्तद्भावं प्रतिपद्यत इत्यर्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१३.१
SK
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः | स यो ऽस्य प्राङ् सुषिः स प्राणः | तच् चक्षुः | स आदित्यः | तद् एतत् तेजो ऽन्नाद्यम् इत्य् उपासीत | तेजस्व्य् अन्नादो भवति य एवं वेद || Cह्Uप्_३,१३.१ ||
SK
Cह्Uप्Bह्_३,१३.१ तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते / यथा लोके द्वारपाला राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति तथेहापीति / तस्येति प्रकृतस्य हृदयस्येत्यर्थः / एतस्यानन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याका देवानां सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवेः प्राणादित्यादिभी रक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्गलोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणस्तत्स्थस्तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः / तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैव स आदित्यः᳚आदित्यो ह वै बाह्यः प्राणः᳚इति श्रुतेश्चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः / ᳚स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि᳚इत्यादि हि वाजसनेयके / प्राणवायुदेवतैव ह्येका चक्षुरादित्यश्च सहाऽश्रयेण / वक्ष्यति च-प्राणाय स्वाहेति हतुं हविः सर्वमेतत्तर्पयतीति / तदेत्प्राणाख्यं स्वर्गलोकद्वारपालत्वाद्ब्रह्म / स्वर्गलोकं प्रतिपित्सुस्तेजश्चैतच्चक्षुरादित्यस्वरूपेण, अन्नाद्यत्वाच्च सवितुस्तेजो ऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत / ततस्तेजस्व्यन्नादश्चाऽमयावित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम् / उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्ति हेतुर्भवतीति मुख्यं च फलम्
SK
START Cह्Uप् ३,१३.२
SK
अथ यो ऽस्य दक्षिणः सुषिः स व्यानः | तच् छ्रोत्रम् | स चन्द्रमाः | तद् एतच् छ्रीश् च यशश् चेत्य् उपासीत | श्रीमान् यशस्वी भवति य एवं वेद || Cह्Uप्_३,१३.२ ||
SK
Cह्Uप्Bह्_३,१३.२ अथ यो ऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ, नाना वानितीति व्यानस्तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः / ᳚श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चे᳚ति श्रुतेः / सहाश्रयौ पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वमतस्ताभ्यां श्रीत्वम् / ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम्
SK
START Cह्Uप् ३,१३.३
SK
अथ यो ऽस्य प्रत्यङ् सुषिः सो ऽपानः | सा वाक् | सो ऽग्निः | तद् एतद् ब्रह्मवर्चसम् अन्नाद्यम् इत्य् उपासीत | ब्रह्मवर्चस्य् अन्नादो भवति य एवं वेद || Cह्Uप्_३,१३.३ ||
SK
Cह्Uप्Bह्_३,१३.३ अथ यो ऽस्य प्रत्यङ्सुषिः पश्चिमस्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधो ऽनितीत्यपानः सा तथा वाक् / तत्सम्बन्धात्तथाग्निस्तदेतद्ब्रह्मवर्चसं, वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् / अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य / अन्नघ्रसनहेतुत्वादपानस्यान्नाद्यत्वम् / समानमन्यत्
SK
START Cह्Uप् ३,१३.४
SK
अथ यो ऽस्योदङ् सुषिः स समानः | तन् मनः | स पर्जन्यः | तद् एतत् कीर्तिश् च व्युष्टिश् चेत्युपासीत | कीर्तिमान् व्युष्टिमान् भवति य एवं वेद || Cह्Uप्_३,१३.४ ||
SK
Cह्Uप्Bह्_३,१३.४ अथ यो ऽस्योदङ्सुषिरुदग्गतः सुषिस्तत्स्यो वायुविशेषः सो ऽशितपीते समं नयतीति समानः / तत्सम्बद्धं मनो ऽन्तःकरणं स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्चाऽप इति / ᳚मनसा सृष्टा आपश्च वरुणश्च᳚इति श्रुतेः / तदेत्कीर्तिश्च / मनसो ज्ञानस्य कीर्तिहेतुत्वात् / आत्मपरोक्षं वुश्रुतत्वं कीर्तिः / यशः स्वकरणसंवेद्यं विश्रुतत्वम् / व्युष्टिः कान्तिर्देहगतं लावण्यम् / ततश्च कीर्तिसम्भवात्कीर्तिश्चेति / समानमन्यत्
SK
START Cह्Uप् ३,१३.५
SK
अथ यो ऽस्योर्ध्वः सुषिः स उदानः | स वायुः | स आकाशः | तद् एतद् ओजश् च महश् चेत्य् उपासीत | ओजस्वी महस्वान् भवति य एवं वेद || Cह्Uप्_३,१३.५ ||
SK
Cह्Uप्Bह्_३,१३.५ अथ यो ऽस्योर्ध्वः सुषिः स उदान आ पादलादारभ्योर्ध्वमुत्क्रमणादुत्कर्षार्थं च कर्म कुर्वन्ननितीत्युदानः स वायुस्तदाधारश्चाऽकाशस्तदेतद्वाय्वाकाशयोरोजोहेतुत्वादोजो बलं महत्वाच्च मह इति / समानमन्यत्
SK
START Cह्Uप् ३,१३.६
SK
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः | स य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते | प्रतिपद्यते स्वर्गं लोकं य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद || Cह्Uप्_३,१३.६ ||
SK
Cह्Uप्Bह्_३,१३.६ ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात्पञ्च ब्रह्मणो हार्दस्य पुरषा राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपा द्वारपालाः / एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धनि / प्रत्यक्षं ह्येतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वान्न हार्दे ब्रह्मणि मनस्तिष्ठति / तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य द्वारपा इति / अतः स य एतानेवं यथोक्तगुणविशिष्टान्स्वर्गस्य लोकस्य द्वारपान्वेदोपास्त उपासनया वशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोर्क राजानमिव हार्दं ब्रह्म / किञ्चास्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् / तस्य चर्णापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् / ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम
SK
START Cह्Uप् ३,१३.७
SK
अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः | तस्यैषा दृष्टिर् यत्रैतद् अस्मिञ् छरीरे संस्पर्शेनोष्णिमानं विजानाति | तस्यैषा श्रुतिर् यत्रैतत् कर्णाव् अपिगृह्य निनदम् इव नदथुर् इवाग्नेर् इव ज्वलत उपशृनोति | तद् एतद् दृष्टं च श्रुतं चेत्य् उपासीत | चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद || Cह्Uप्_३,१३.७ ||
SK
Cह्Uप्Bह्_३,१३.७ अथ यदसौ विद्वान्स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते / यच्चोक्तं᳚त्रिपादस्यामृतं दिवी᳚ति तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथाग्न्यादि धूमादिलिङ्गेन / तथा ह्येवमेवेदमिति यथोक्ते ऽथ दृढ प्रतीतिः स्यात् / अनन्यत्वेन च निश्चय इति / अत आह-यदतो ऽमुष्माद्दिवो द्युलोकात्परः परमिति लिङ्गव्यत्ययेन / ज्योतिर्दीप्यते / स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यते इव दीप्यत इत्युच्यते / अग्न्यादिवाज्ज्वलनलक्षणाया दीप्तेरसम्भवात् / विश्वतः पृष्ठेष्वित्येतस्य व्याख्यान सर्वतः पृष्ठेष्विति / संसारादुपरीत्यर्थः / संसार एव हि सर्वः / असंसारिण एकत्वान्निर्भेदत्वाच्च / अनुत्तमेषु तत्पुरुषसमासाशङ्कानिवृत्तय आहोत्तमेषु लोकेष्विति सत्यलोकादिषु हिरण्यगर्भादिकार्यस्थपरस्येश्वरस्याऽसन्नत्वादुच्यत उत्तमेषु लोकेष्विति / इदं वावेदमेव तद्यदिदमस्मिन्पुरुषे ऽन्तर्मध्ये ज्योतिश्चक्षुः - श्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन चावगम्यते / यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव / दृढप्रतीतिकरत्वात्त्वचः / अविनाभूतत्वाच्च रूपस्पर्शयोः / कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह-यत्र यस्मिन्काले / एतदिति क्रियाविशेषणम् / अस्मिञ्शरीरे हस्तेनाऽलभ्य संस्पर्शेनोष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति / स ह्यूष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् / न हि जीवन्तमात्मानमूष्णिमा व्यभिचरति᳚उष्ण एव जीविष्यञ्शीतो मरिष्यन्न्᳚ इति हि विज्ञायते / मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात् / अतो ऽसाधारमं लिङ्गमौष्ण्यमग्नेरिव धूमः / अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः / तथा तस्य ज्योतिष एषा श्रुतिः श्रवणंश्रवणोपायो ऽप्युच्यमानः / यत्र यदा पुरुषो ज्योतिषो लिङ्गं शुश्रूषति श्रोतमिच्छति तदैतत्कर्णावपिगृह्यैतच्छब्दः क्रियाविशेषणम् / अपिगृह्यापिधायेत्यर्थो ऽङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदस्तमिव शृणोति नदथुरिव ऋषभकूजितमिव शब्दो यथा चाग्नेर्बहिर्ज्वलत एवं शब्दमन्तः शरीर उपशृणोति तदेतज्ज्योतिर्दृष्टश्रुतलिङ्गत्वाद्दृष्टं च श्रुतं चेत्युपासीत / तथोपासनाच्चक्षुष्यो दर्शनीयः श्रुतो विश्रुतश्च / यत्स्पर्शगुणोपासननिमित्तं फलं तद्रूपे सम्पादयति चक्षुष्य इति / रूपस्पर्शयोः सहभावित्वात् / इष्टत्वाच्च दर्शनीयतायाः / एवं च विद्यायाः फलमुपपन्नं स्यान्न तु मृदुत्वादिस्पर्शवत्त्वे / य एवं यथोक्तौ गुणौ वेद / स्वर्गलोकप्रतिपत्तिस्तूक्तमदृष्टं फलम् / द्विरभ्यास आदरार्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१४.१
SK
सर्वं खल्व् इदं ब्रह्म तज्जलान् इति शान्त उपासीत | अथ खलु क्रतुमयः पुरुषो यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति | स क्रतुं कुर्वीत || Cह्Uप्_३,१४.१ ||
SK
Cह्Uप्Bह्_३,१४.१ पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणो ऽनन्तगुणवतो ऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्वेनोपासनं विधित्सन्नाह-सर्वं समस्तं;खल्विति वाक्यालङ्कारार्थो निपातः / इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्मकारणं वृद्धतमत्वाद्ब्रह्म / कथं सर्वस्य ब्रह्मत्वमित्यत आह-तज्जलानिति / तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम् / अतस्तज्जम् / तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् / तथा तस्मिन्नेव स्थितिकाले ऽनिति प्राणिति चेष्टत इति / एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टं तद्व्यतिरेकेणाग्रहणात् / अतस्तदेवेदं जगत् / यथा चेदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः / यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तो रागद्वेषादिदोषरहितः संयतः सन्यत्तत्सर्वं ब्रह्म तद्वक्ष्यमाणैर्गुणैरुपासीत / कथमुपासीत / क्रतुं कुर्वीत क्रतुर्निश्चयो ऽध्यवसाय एवमेव नान्यथेत्यविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन सम्बन्धः / किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् / कथं वा क्रतुः कर्तव्यः क्रतुकरणं चाभिप्रेतार्थसिद्धिसाधनं कथमित्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः / अथ खल्विति हेत्वर्थः / यस्मात्क्रतुमयः क्रतुप्रायो ऽध्यवसायात्मकः पुरुषो जीवः / यथाक्रतुर्यादृशः क्रतुरस्य सो ऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्निश्चयो ऽस्मिंल्लोके जीवन्निह पुरुषो भवति तथेतो ऽस्माद्देहात्प्रेत्य मृत्वा भवति / क्रत्वनुरूपफलात्मको भवतीत्यर्थः / एवं ह्येतच्छास्रतो दृष्टम् / ᳚यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्᳚इत्यादि / यत एवं व्यवस्था शास्रदृष्टातः स एवं जानन्कतुं कुर्वीत यादृशं क्रतुं वक्ष्यामस्तम् / यत एवं शास्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कर्तव्यः क्रतुः
SK
START Cह्Uप् ३,१४.२
SK
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्य् अनादरः || Cह्Uप्_३,१४.२ ||
SK
Cह्Uप्Bह्_३,१४.२ कथम् / मनोमयो मनःप्रायः / मनुते ऽनेनेति मनस्तत्स्ववृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः, तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च / अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमीर्छितः / ᳚यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः᳚इति श्रुतेः / स शरीरं यस्य स प्राणशरीरः / ᳚मनोमयः úआणशरीरनेता᳚इति च श्रुत्यन्तरात् / भारूपः / भा दीप्तिश्चैतन्यलक्षणं रूपं यस्य स भारूपः / सत्यसङ्कल्पः / सत्या अवितथाः सङ्कल्पा यस्य सो ऽयं सत्यसङ्कल्पः / न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः / अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात्सङ्कल्पस्य मिथ्याफलत्वम् / वक्ष्यत्यनृतेन हि प्रत्यूढा इति / आकाशात्मा / आकाश इवाऽत्मा स्वरूपं यस्य स आकाशात्मा / सर्वगतत्वं सूक्ष्मत्वं रूपदिहीनत्वं चाऽकाशतुल्यतेश्वरस्य / सर्वकर्मा / सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य स सर्वकर्मा / ᳚स हि सर्वस्य कर्ता᳚इति श्रुतेः / सर्वकामः / सर्वे कामा दोषरहिता अस्येति सर्वकामः / ᳚धर्मविरुद्धो भूतेषु कामो ऽस्मि᳚इति स्मृतेः / ननु कामो ऽस्मीति वचनादिह बहुव्रीहिस्तथा कामो ऽस्मीतिस्मृत्यर्थो वाच्यः / सर्वगन्धः / सर्वे गन्धाः सुखकरा अस्य सो ऽयं सर्वगन्धः / ᳚पुण्यो गन्धः पृथिव्याम्᳚इति स्मृतेः / तथा रसा अपि विज्ञेयाः. अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् / ᳚तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च / पाप्मना ह्येषु विद्धः᳚इति श्रुतेः / न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः / सर्वमिदं जगदभ्यात्तो ऽभिव्याप्तः / अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा / तथावाक्युच्यते ऽनयेति वाग्वागेव वाकः / द्वा वचेर्घञन्तस्य करणे वाक् / स यस्य विद्यते स वाकी न वाक्यवाकी / वाक्प्रतिषेधश्चात्रोपलक्षणार्थः / गन्धरसादिश्रवणादीश्वरस्य प्राप्तानिघ्राणादीनि करणानि गन्धादिग्रहणाय / अतो वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि / ᳚अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः᳚इत्यादिमन्त्रवर्णात् / अनादरो ऽसंभ्रमः / अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य / न त्वाप्तकामत्वान्नित्यतृप्तस्येश्वरस्य संभ्रमो ऽस्ति क्वचित्
SK
START Cह्Uप् ३,१४.३
SK
एष म आत्मा अन्तर्हृदये ऽणीयान् व्रीहेर् वा यवाद् वा सर्षपाद् वा श्यामाकाद् वा श्यामाकतण्डुलाद् वा | एष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायान् एभ्यो लोकेभ्यः || Cह्Uप्_३,१४.३ ||
SK
Cह्Uप्Bह्_३,१४.३ एष यथोक्तगुणो मे ममाऽत्मान्तर्हृदये हृदयपुण्डरीकस्यान्तर्मध्ये ऽणीयानणुतरो व्रीहेर्वा यवाद्वेत्याद्यत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् / श्यामाकाद्वा श्यामाकतण्डुलाद्वेति परिच्छिन्नपरिमाणादणीयानित्युक्ते ऽणुपरिमाणत्वं प्राप्तमाशङ्क्यातस्तत्प्रतिषेधायाऽरभते - एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना / ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन्ननन्तपरिमाणत्वं दर्शयति
SK
START Cह्Uप् ३,१४.४
SK
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्यनादरः | एष म आत्मा अन्तर्हृदये | एतद् ब्रह्म | एतम् इतः प्रेत्याभिसंभविता अस्मीति यस्य स्याद् अद्धा न विचिकित्सा अस्ति | इति ह स्माह शाण्डिल्यः शाण्डिल्यः || Cह्Uप्_३,१४.४ ||
SK
Cह्Uप्Bह्_३,१४.४ मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन यथोक्तगुणलक्षण ईश्वरो ध्येयो न तु तद्गुणविशिष्ट एव यथा राजपुरुषमानय चित्रगुं वेत्युक्ते न विशेषणश्याप्यानयने व्याप्रियते तद्वदिहापीति प्राप्तमतस्तन्निवृत्त्यर्थ सर्वकर्मेत्यादि पुनर्वचनम् / तस्मान्मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः / अत एव षष्ठसप्तमयोरिव तत्त्वमस्यात्मैवेदं सर्वमिति नेह स्वाराज्ये ऽभिषिञ्चति / एष म आत्मैतद्ब्रह्मैतमितः प्रत्याभिसम्भवितास्मीति लिङ्गान्न त्वात्मशब्देन प्रत्यगात्मैवोच्यते / ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वादेतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात् / ननु षष्ठे ऽप्यथ सम्पत्स्य इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति / न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् न कालान्तरितार्थता / अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात् / यद्यप्यात्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतमेष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते तथाप्यन्तर्धानमीषदपरित्यज्यैवैतमात्मानमितो ऽस्माच्छरीरात्प्रेत्याभिसम्भवितास्मीत्युक्तम् / यथाक्रतुरूपस्याऽत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्याद्भवेदद्धा सत्यमेवं स्यामहं प्रेत्य एवं न स्यामिति न च विचिकित्सास्तीत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे स तथैवेश्वरभावं प्रतिपद्यते विद्वानित्येतदाह स्मोक्तवान्किल शाण्डल्यो नामर्षिः / द्विरभ्यास आदरार्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्दशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१५.१
SK
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति | दिशो ह्य् अस्य स्रक्तयो द्यौर् अस्योत्तरं बिलम् | स एष कोशो वसुधानस् तस्मिन् विश्वम् इदं श्रितम् || Cह्Uप्_३,१५.१ ||
SK
Cह्Uप्Bह्_३,१५.१ अस्य कुले वीरो जायत इत्युक्तम् / न वीरजन्ममात्रं पितुस्त्राणाय / ᳚तस्मात्पुत्रमनुश्ष्टं लोक्यमाहुः᳚इति श्रुत्यन्तरात् / अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः / अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदानीमेवाऽरभ्यते-अन्तरिक्षमुदरमन्तःसुषिरं यस्य सो ऽयमन्तरिक्षोदरः कोशः कोश इवानेकधर्मसादृश्यात्कोशः / स च भूमिबुध्नो भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नो न जीर्यति न विनश्यति त्रैलोक्यात्मकत्वात् / सहस्रयुगकालावस्थायी हि सः / दिशो ह्यस्य सर्वाः स्रक्तयः कोणाः / द्यौरस्य कोशस्योत्तरमूर्ध्वं बिलं स एष यथोक्तगुणः कोशो वसुधानो वसु धीयते ऽस्मिन्प्राणिनां कर्मफलाख्यमतो वसुधानः / यस्मिन्नन्तर्विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैरिदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितमाश्रितं स्थितमित्यर्थः
SK
START Cह्Uप् ३,१५.२
SK
तस्य प्राची दिग् जुहूर् नाम | सहमाना नाम दक्षिणा | राज्ञी नाम प्रतीची | सुभूता नामोदीची | तासां वायुर् वत्सः | स य एतम् एवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति | सो ऽहम् एतम् एवं वायुं दिशां वत्सं वेद | मा पुत्ररोदं रुदम् || Cह्Uप्_३,१५.२ ||
SK
Cह्Uप्Bह्_३,१५.२ तस्यास्य प्राची दिग्प्राग्गतो भागो जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूनमि / सहमाना मान सहन्ते ऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणादिक् / तथा राज्ञी नाम प्रतीची पश्चिमा दिग्राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा / सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात्सुभूता नामोदीची / तासां दिशां वायुर्वत्सो दिग्जत्वाद्वायोः / ᳚पुरोवात᳚इत्यादिदर्शनात् / स यः कश्चित्पुत्रदीर्घजीवितर्थ्येवं यथोक्तगुणं वायुं दिशां वत्सममृतं वेद स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति पुत्रो न म्रियत इत्यर्थः / यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानमतः सो ऽहं पुत्रजीवितार्थ्येवमेतं वायुं दिशां वत्सं वेद जाने / अतो मा पुत्ररोदं रुदं मा रुदं पुत्रमरणनिमित्तम् / पुत्रोरोदो मम मा भूदित्यर्थः
SK
START Cह्Uप् ३,१५.३
SK
अरिष्टं कोशं प्रपद्ये ऽमुनामुनामुना | प्राणं प्रपद्ये ऽमुनामुनामुना | भूः प्रपद्ये ऽमुनामुनामुना | भुवः प्रपद्ये ऽमुनामुनामुना | स्वः प्रपद्ये ऽमुनामुनामुना || Cह्Uप्_३,१५.३ ||
SK
Cह्Uप्Bह्_३,१५.३ अरिष्टमविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नो ऽस्मि पुत्रायुषे / अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य / तथा प्राणं प्रपद्ये ऽमुनामुनामुना, भूः प्रपद्ये ऽमुनामुनामुना भुवः प्रपद्ये ऽमुनामुनामुना स्वः प्रपद्ये ऽमुनामुनामुना, सर्वत्र प्रपद्य इति त्रिनमि गृह्णाति पुनः पुनः
SK
START Cह्Uप् ३,१५.४
SK
स यद् अवोचं प्राणं प्रपद्य इति | प्रानो वा इदं सर्वं भूतं यद् इदं किंच | तम् एव तत् प्रापत्सि || Cह्Uप्_३,१५.४ ||
SK
Cह्Uप्Bह्_३,१५.४ स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः / प्राणो वा इदंसर्वं भूतं यदिदं जगत् / ᳚यथा वारानाभाव्᳚ इति वक्ष्यति / अतस्तमेव सर्वं तत्तेन प्राणप्रपदनेन प्रापत्सि प्रपन्नो ऽभवम्
SK
३.१५.५ अथ यदवीचं भूः प्रपद्य इति पृथिवीं प्रपद्ये ऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम्
SK
Cह्Uप्Bह्_३,१५.५ तथा भूः प्रपद्य इति त्रींल्लोकान्भूरादीन्प्रपद्य इति तदवोचम्
SK
START Cह्Uप् ३,१५.६
SK
अथ यद् अवोचं भुवः प्रपद्य इत्य् अग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्य् एव तद् अवोचम् || Cह्Uप्_३,१५.६ ||
SK
Cह्Uप्Bह्_३,१५.६ अथ यदवोचं भुवः प्रपद्य इत्यग्न्यादीन्प्रपद्य इति तदवोचम्
SK
START Cह्Uप् ३,१५.७
SK
अथ यद् अवोचं स्वः प्रपद्य इत्य् ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्य् एव तद् अवोचम् || Cह्Uप्_३,१५.७ ||
SK
Cह्Uप्Bह्_३,१५.७ अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदादीन्प्रपद्य इत्येव तदवोचमिति / उपरिष्टान्मन्त्राञ्जपेत्ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा द्विर्वचनमादरार्थम्
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१६.१
SK
पुरुषो वाव यज्ञः | तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् | चतुर्विंशत्यक्षरा गायत्री | गायत्रं प्रातःसवनम् | तद् अस्य वसवो ऽन्वायत्ताः | प्राणा वाव वसवः | एते हीदं सर्वं वासयन्ति || Cह्Uप्_३,१६.१ ||
SK
Cह्Uप्Bह्_३,१६.१ पुत्रायुष उपासनमुक्तं जपश्च / अथेदानीमात्मनो दीर्घजीवनायेदमुपासनं जपं च विदधदाह / जीवन्हि स्वयं पुत्रादिफलेन युज्यते नान्यथा इत्यत आत्मानं यज्ञं सम्पादयति-पुरषः पुरुषो जीवनविशिष्टः कार्यकरणसङ्घातो यथाप्रसिद्ध एव / वावशब्दो ऽवधारणार्थः / पुरष एव यज्ञ इत्यर्थः / तथा हि सामान्यैः सम्पादयति यज्ञत्वम् / कथम् / तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषस्तत्प्रातःसवनं यज्ञस्य / केन सामान्येनेत्याह-चतुर्विंशत्यक्षरा गायत्रो छन्दो गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् / अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः / अतो विधियज्ञसादृश्याद्यज्ञः / तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिस्रिष्टुब्जगत्यक्षरसंख्यासामान्यतो वाच्या / किञ्च तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवो देवा अन्वायत्ता अनुगताः / सवनदेवतात्वेन स्वामिन इत्यर्थः / पुरुषयज्ञे ऽपि विधियज्ञ इवाग्न्यादयो वसवो देवाः प्राप्ता इत्यतो विशिनष्टि-प्राणा वाव वसवो वागादयो वायवश्च / तेहि यस्मादिदं पुरुषादिप्राणिजातमेते वासयन्ति / प्राणेषु हि देहे वत्सतु सर्वमिद वसति नान्यथा / इत्यतो वसनाद्वासनाच्च वसवः
SK
START Cह्Uप् ३,१६.२
SK
तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् | प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनम् अनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति | उद् धैव तत एत्य् अगदो ह भवति || Cह्Uप्_३,१६.२ ||
SK
Cह्Uप्Bह्_३,१६.२ तं चेद्यज्ञसम्पादितमेतस्मिन्प्रातः सवनसम्पन्ने वयसि किञ्चिद्व्याध्यादि मरणशङ्कारणमुपतपेद्दुःखमुत्पादयेत्स तदा यज्ञसम्पादी पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थः इमं मन्त्रं हे प्राणा वसव अदं मे प्रातः सवनं मम यज्ञस्य वर्तते तन्माध्यन्दिनं सवनमनुसन्तनुतेति माध्यन्दिनेन सवनेनाऽयुषा सहितमेकीभूतं सन्ततं कुरुतेत्यर्थः / माहं यज्ञो युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः / इतिशब्दो मन्त्रपरिसमाप्त्यर्थः / स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति / उद्गम्य विमुक्तः सन्नगदो हानुपतापो भवत्येव
SK
START Cह्Uप् ३,१६.३
SK
अथ यानि चतुश्चत्वारिंशद् वर्षाणि तन् माध्यंदिनं सवनम् | चतुश्चत्वारिंशदक्षरा त्रिष्टुप् | त्रैष्टुभं माध्यंदिनं सवनम् | तद् अस्य रुद्रा अन्वायत्ताः | प्राणा वाव रुद्राः | एते हीदं सर्वं रोदयन्ति || Cह्Uप्_३,१६.३ ||
SK
Cह्Uप्Bह्_३,१६.३ अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् / रुदन्ति रोदयन्तीति प्राणा रुद्राः / क्रूरा हि ते मध्यमेवयस्यतो रुद्राः
SK
START Cह्Uप् ३,१६.४-६
SK
तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् | प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनम् अनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति | उद् धैव तत एत्य् अगदो ह भवति || Cह्Uप्_३,१६.४ ||
SK
अथ यान्य् अष्टाचत्वारिंशद् वर्षाणि तत् तृतीयसवनम् | अष्टाचत्वारिंशदक्षरा जगती | जागतं तृतीयसवनम् | तद् अस्यादित्या अन्वायत्ताः | प्राणा वावादित्याः | एते हीदं सर्वम् आददते || Cह्Uप्_३,१६.५ ||
SK
तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् | प्राणा आदित्या इदं मे तृतीयसवनम् आयुर् अनुसंतनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयेति | उद् धैव तत एत्य् अगदो हैव भवति || Cह्Uप्_३,१६.६ ||
SK
Cह्Uप्Bह्_३,१६.४-६ तथाऽदित्याः प्राणाः / ते हीदं शब्दादिजातमाददते ऽत आदित्यास्तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयतानुसन्तनुत यज्ञं समापयतेत्यर्थः / समानमन्यत् //४-६ //
SK
START Cह्Uप् ३,१६.७
SK
एतद् ध स्म वै तद् विद्वान् आह महिदास ऐतरेयः | स किं म एतद् उपतपसि यो ऽहम् अनेन न प्रेष्याम् इति | स ह षोडशं वर्षशतम् अजीवत् | प्र ह षोडशं वर्षशतं जीवति य एवं वेद || Cह्Uप्_३,१६.७ ||
SK
Cह्Uप्Bह्_३,१६.७ निश्चिता हि विद्या फलायेत्येतद्दर्शयन्नुदाहरति-एतद्यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः / इतराया अपत्यमैतरेयः / किं कस्मान्मे ममैतदुपतपनमुपतपसि स त्वं हे रोग यो ऽहं यज्ञो ऽनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्याम्यतो वृथा तव श्रम इत्यर्थः / इत्येवमाह स्मेति पूर्वेण सम्बन्धः / स एवंनिश्चयः सन्षोडशं वर्षशतमजीवत् / अन्यो ऽप्येवंनिश्चः षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति स इत्यर्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षोडशः खण्डः
SK
======================================================================= START Cह्Uप् ३,१७.१
SK
स यद् अशिशिषति यत् पिपासति यन् न रमते ता अस्य दीक्षाः || Cह्Uप्_३,१७.१ ||
SK
Cह्Uप्Bह्_३,१७.१ स यदशिशिषतोत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते / यदशिशिषत्यशितुमिच्छति / तथा पिपासति पातुमिच्छति / यन्न रमत इष्टाद्यप्राप्तिनिमित्तं यदैवञ्जातीयकं दुःखमनुभवति ता अस्य दीक्षाः / दुःखसामान्याद्विधियज्ञस्येव
SK
START Cह्Uप् ३,१७.२
SK
अथ यद् अश्नाति यत् पिबति यद् रमते तद् उपसदैर् एति || Cह्Uप्_३,१७.२ ||
SK
Cह्Uप्Bह्_३,१७.२ अथ यदश्नाति यत्पिबति यद्रमते रतिं चानुभवतीष्टादिसंयोगात्तदुपसदैः समानतामेति / उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति / अल्पभोजनीयानि चाहान्याश्वासन्नानीति प्रश्वासो ऽतो ऽशनादीनामुपसदां च सामान्यम्
SK
START Cह्Uप् ३,१७.३
SK
अथ यद् धसति यज् जक्षति यन् मैथुनं चरति स्तुतशस्त्रैर् एव तद् एति || Cह्Uप्_३,१७.३ ||
SK
Cह्Uप्Bह्_३,१७.३ अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति स्तुतशस्रैरेव तत्समानतामेति / शब्दवत्त्वसामान्यात्
SK
START Cह्Uप् ३,१७.४
SK
अथ यत् तपो दानम् आर्जवम् अहिंसा सत्यवचनम् इति ता अस्य दक्षिणाः || Cह्Uप्_३,१७.४ ||
SK
Cह्Uप्Bह्_३,१७.४ अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः / धर्मपुष्टिकरत्वसामान्यात्
SK
START Cह्Uप् ३,१७.५
SK
तस्माद् आहुः सोष्यत्य् असोष्टेति | पुनर् उत्पादनम् एवास्य तत् | मरणम् एवावभृथः || Cह्Uप्_३,१७.५ ||
SK
Cह्Uप्Bह्_३,१७.५ यस्माच्च यज्ञः पुरषस्तस्मात्तं जनयिष्यति माता यदा तदाऽहुरन्ये सोष्यतीति तस्य मातरं यदा च प्रसूता भवति तदासोष्ट पूर्णिकेति विधियज्ञ इव सोष्यति सोमं देवदत्तो ऽसोष्ट सोमं यज्ञदत्त इति, अतः शब्दसामान्याद्वा पुरुषो यज्ञः / पुनरुत्पादनमेवास्य तत्पुरुषाख्यस्य यज्ञस्य यत्सोष्यत्यसोष्टेति शब्दसम्बन्धित्वं विधियज्ञस्येव / किञ्च तन्मरणमेवास्य पुरुषयज्ञस्यावभृथः समाप्तिसामान्यात्
SK
START Cह्Uप् ३,१७.६
SK
तद् धैतद् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच | अपिपास एव स बभूव | सो ऽन्तवेलायाम् एतत् त्रयं प्रतिपद्येताक्षितम् अस्य् अच्युतम् असि प्राणसंशितम् असीति | तत्रैते द्वे ऋचौ भवतः || Cह्Uप्_३,१७.६ ||
SK
Cह्Uप्Bह्_३,१७.६ तद्धैतद्यज्ञदर्शनं घोरो नामत आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोकत्वोवाच तदेतत्त्रयमित्यादिव्यवहितेन सम्बन्धः / स चैतद्दर्शनं श्रुत्वापिपास एवाम्याभ्यो विद्याभ्यो बभूव / इत्थं च विशिष्टेयं विद्या यत्कृष्णस्य देवकीपुत्रस्यान्यां विद्यां प्रति तृड्विच्छेदकरीति पुरुषयज्ञविद्यां स्तौति / घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति तदाह-स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एतन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः / किं तदक्षितमक्षीणमक्षतं वासीत्येकं यजुः सामर्थ्यादादित्यस्थं प्राणं चैकीकृत्याऽह / तथा तमेवाऽहाच्युतं स्वरूपादप्रच्युतमसीति द्वितीयं यजुः / प्राणसंशितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत्त्वमसीति तृतीयं यजुः / तत्रैतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतो न जपार्थे / त्रयं प्रतिपद्येतेति त्रित्वसंख्याबाधनात् / पञ्चसंख्या हि तदा स्यात्
SK
START Cह्Uप् ३,१७.७
SK
आदित् प्रत्नस्य रेतसः | उद् वयं तमसस्परि | ज्योतिः पश्यन्त उत्तरम् | स्वः पश्यन्त उत्तरम् | देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् इति ज्योतिर् उत्तमम् इति || Cह्Uप्_३,१७.७ ||
SK
Cह्Uप्Bह्_३,१७.७ आदिदित्यत्राऽकारस्यानुबन्धस्तकारो ऽनर्थक इच्छब्दश्च / प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः / रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति / आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते / किं तज्जयोतिः पश्यन्ति / वासरमहरहरिव तत्सर्वतो व्याप्तं ब्रह्मणो ज्योतिः / निवृत्तचक्षुषो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणा आ समन्ततो ज्योतिः पश्यन्तीत्यर्थः / परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् / यदिध्यते दीप्यते दिवि द्योतनवति पस्मिन्ब्रह्मणि वर्तमानम् / येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते / किञ्चान्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् / उद्वयं तमसो ऽज्ञानलक्षणात्परि परस्तादिति शेषः / तमसो वापनेतृ यज्जयोतिरुत्तरमादित्यस्थं परिपश्यन्तो वयमुदगन्मेति व्यवहितेन सम्बन्धः / तज्ज्योतिः स्वः स्वमात्मीयमस्मद्धृदि स्थितम् / आदित्यस्थं च तदेकं ज्योतिः / यदुत्तरमुत्कृष्टतरमूर्ध्वतरं वापरं ज्योतिरपेक्ष्य पश्यन्त उदगन्म वयम् / कमुदगन्मेत्याह / देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु सूर्यं रसानां रश्मीनां प्राणानां च जगत ईरणात्सूर्यस्तमुदगन्म गतवन्तो ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतममहो प्राप्ता वयमित्यर्थः / इदं तज्ज्योतिर्यदृग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् / द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१८.१
SK
मनो ब्रह्मेत्य् उपासीत | इत्य् अध्यात्मम् | अथाधिदैवतम् | आकाशो ब्रह्म | इत्य् उभयम् आदिष्टं भवत्य् अध्यात्मं चाधिदैवतं च || Cह्Uप्_३,१८.१ ||
SK
Cह्Uप्Bह्_३,१८.१ मनोमय ईश्वर उक्त आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन / अथेदानीं मन आकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भो मनो ब्रह्मेत्यादि / मनो मनुते ऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनमध्यात्मम् / अथाधिदैवतं देवताविषयमिदं वक्ष्यामः / आकाशो ब्रह्मेत्युपासीत / एवमभुयमध्यात्ममधिदैवतं चोभयं ब्रह्मदृष्टिविषयमादिष्टमुपदिष्टं भवति / आकाशमनसोः सूक्ष्मत्वात् / मनसोपलभ्यत्वाच्च ब्रह्मणो योग्यं मनो ब्रह्मदृष्टेः / आकाशश्च सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च
SK
START Cह्Uप् ३,१८.२
SK
तद् एतच् चतुष्पाद् ब्रह्म | वाक् पादः प्राणः पादश् चक्षुः पादः श्रोत्रं पादः | इत्य् अध्यात्मम् | अथाधिदैवतम् | अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः | इत्य् उभयम् एवादिष्टं भवत्य् अध्यात्मं चाधिदैवतं च || Cह्Uप्_३,१८.२ ||
SK
Cह्Uप्Bह्_३,१८.२ तदेतन्मन आख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति / कथं चतुष्पात्त्वं मनसो ब्रह्मण इत्याह-वाक्प्राणश्चक्षुः श्रोत्रमित्येते पादा इत्यध्यात्मम् / अथाधिदैवतमाकाशस्य ब्रह्मणो ऽग्निर्वायुरादित्यो दिश इत्येते / एवमुभयमेव चतुष्पाद्ब्रह्माऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च
SK
START Cह्Uप् ३,१८.३
SK
वाग् एव ब्रह्मणश् चतुर्थः पादः | सो ऽग्निना ज्योतिषा भाति च तपति च | भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद || Cह्Uप्_३,१८.३ ||
SK
Cह्Uप्Bह्_३,१८.३ तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया / वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति प्रतिष्ठति / अतो मनसः पाद इव वाक् / तथा प्राणो घ्राणः पादः / तेनापि गन्धविषयं प्रति चङ्क्रमति / तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्तवं मनसो ब्रह्मणः / अथाधिदैवतमग्निवाय्वादित्यदिश आकाशस्य ब्रह्मण उदार इव गोः पादा विलग्ना उपलभ्यन्ते / तेन तस्याऽकाशस्याग्न्यादयः पादा उच्यन्ते / एवमुभयमध्यात्मं चैवाधिदैवतं चतुष्पादादिष्टं भवति / तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः / सो ऽग्निनाधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं चौष्ण्यं करोति / अथवा तैलघृताद्याग्नेयाशनेनेद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः / विद्वत्फलं भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं यथोक्तं वेदः
SK
START Cह्Uप् ३,१८.४-६
SK
प्राण एव ब्रह्मणश् चतुर्थः पादः | स वायुना ज्योतिषा भाति च तपति च | भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद || Cह्Uप्_३,१८.४ ||
SK
चक्षुर् एव ब्रह्मणश् चतुर्थः पादः | स आदित्येन ज्योतिषा भाति च तपति च | भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद || Cह्Uप्_३,१८.५ ||
SK
श्रोत्रम् एव ब्रह्मणश् चतुर्थः पादः | स दिग्भिर् ज्योतिषा भाति च तपति च | भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद || Cह्Uप्_३,१८.६ ||
SK
Cह्Uप्Bह्_३,१८.४,५,६ तथा प्राण एव ब्रह्मणश्चतुर्थः पादः / स वायुना गन्धाय भाति च तपति च / तता चक्षुरादित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दग्रहणाय / विद्याफलं समानं सर्वत्र ब्रह्मसम्पत्तिरदृष्टं फलं य एवं वेद / द्विरुक्तिर्दर्शनसमाप्त्यर्था //४-६ //
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ३,१९.१
SK
आदित्यो ब्रह्मेत्य् आदेशः | तस्योपव्याख्यानम् | असद् एवेदम् अग्र आसीत् | तत् सद् आसीत् | तत् समभवत् | तद् आण्डं निरवर्तत | तत् संवत्सरस्य मात्राम् अशयत | तन् निरभिद्यत | ते आण्डकपाले रजतं च सुवर्णं चाभवताम् || Cह्Uप्_३,१९.१ ||
SK
Cह्Uप्Bह्_३,१९.१ आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्ट्यर्थमिदमारभ्यते-आदित्यो ब्रह्मेत्यादेश उपदेशस्तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् / असदव्यकृतनामरूपमिदं जगदशेषमग्रे प्रागवस्थायामुत्पत्तेरासीन्न त्वसदेव / कथमसतः सज्जायेतेत्यसत्कार्यत्वस्य प्रतिषेधात् / नन्विहासदेवेति विधानाद्विकल्पः स्यात् / न, क्रियास्विव वस्तुनि विकल्पानुपपत्तेः / कथं तर्हीदमसदेवेति / नन्ववोचामाव्याकृतनामरूपत्वादसदिवासदिति / नन्वेवशब्दो ऽवधारणार्थः / सत्यमेवं, न तु सत्त्वाभावमवधारयति / किं तर्हि?व्याकृतनामरूपाभावमवधारयति नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः / तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः तदभावे ह्यन्धं तम इदं न प्रज्ञायेत किञ्चनेत्यतस्तत्स्तुतिपरे वाक्ये सदपीदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् / न च सत्त्वमसत्त्वं वेह जगतः प्रतिपिपादयिषितमादित्यो ब्रह्मेत्यादेशपरत्वात् / उपसंहरिष्यत्यन्त आदित्यं ब्रह्मेत्युपास्त इति / तत्सदासीत्तदसच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितमनिस्पन्दमसदिव सत्कार्याभिमुखमीषदुपजातप्रवृत्ति सदासीत्ततो लब्धपरिस्पन्दं तत्समभवदल्पतरनामरूपव्याकरणेनाङ्कुरीभूतमि व बीजम् / ततो ऽपि क्रमेण स्थूलीभवत्तदद्भ्य आण्डं समवर्तत संवृत्तम् / आण्डमिति दैर्ध्यं छान्दसम् / तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणमभिन्नस्वरूपमेवाशयत स्थितं बभूव / तत्ततः संवत्सरपरिमाणात्कालादूर्ध्वं निरभिद्यत निर्भिन्नं वयसामिवाण्डम् / तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं चाभवतां संवृत्ते
SK
START Cह्Uप् ३,१९.२
SK
तद् यद् रजतं सेयं पृथिवी | यत् सुवर्णं सा द्यौः | यज् जरायु ते पर्वताः | यद् उल्बं (स) समेघो नीहारः | या धमनयस् ता नद्यः | यद् वास्तेयम् उदकं स समुद्रः || Cह्Uप्_३,१९.२ ||
SK
Cह्Uप्Bह्_३,१९.२ तत्तयोः कपालयोर्यद्रजतं कपालमासीत्सेयं पृथिवी पृथिव्युपलक्षितमधो ऽण्डकपालमित्यर्थः / यत्सुवर्णं कपालं सा द्यौर्द्युलोकोपलक्षितमूर्ध्वं कपालमित्यर्थः / यज्जरायु गर्भपरिवेष्टनं स्थूलमण्डस्य द्विशकलीभावकाल आसीत्ते पर्वता बभूवुः / यदुल्वं सूक्ष्मं गर्भपरिवेष्टनं तत्सह मेद्यैः समेघो नीहारो ऽवश्यायो बभूवेत्यर्थः / या गर्भस्य जातस्य देहे धमनयः शिरास्ता नद्यो बभूवुः / यत्तस्य बस्तौ भवं वास्तेयमुदकं स समुद्रः
SK
START Cह्Uप् ३,१९.३
SK
अथ यत् तद् अजायत सो ऽसाव् आदित्यः | तं जायमानं घोषा उलूलवो ऽनूदतिष्ठन्त् सर्वाणि च भूतानि सर्वे च कामाः | तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवो ऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः || Cह्Uप्_३,१९.३ ||
SK
Cह्Uप्Bह्_३,१९.३ अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे सो ऽसावादित्यस्तमादित्यं जायमानं घोषाः शब्दा उलूलव उरूरवो विस्तीर्णरवा उदतिष्ठन्नुत्थितवन्त ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्रान्नादयः / यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिस्तस्मादद्यत्वे ऽपि तस्याऽदित्यस्योदयं प्रति प्रत्यायनं प्रत्यस्तगमनं च प्रत्यथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः / सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानूत्तिष्ठन्ति / प्रसिद्धं ह्येतदुदयादौ सवितुः
SK
START Cह्Uप् ३,१९.४
SK
स य एतम् एवं विद्वान् आदित्यं ब्रह्मेत्य् उपास्ते | अभ्याशो ह यद् एनं साधवो घोषा आ च गच्छेयुर् उप च निम्रेडेरन् निम्रेडेरन् || Cह्Uप्_३,१९.४ ||
SK
Cह्Uप्Bह्_३,१९.४ स यः कश्चिदेतमेवं यथोक्तमहिमानं विद्वान्सन्नादित्यं ब्रह्मेत्युपास्ते स तद्भावं प्रतिपद्यत इत्यर्थः / किञ्च दृष्टं फलमभ्याशः क्षिप्रं तद्विदो यदिति क्रियाविशेषणमेनमेवंविदं साधवः / शोभना घोषाः / साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः / आ च गच्छेयुरागच्छेयुश्चोप च निम्रेडेरन्नुपनिम्रेडेरंश्च न केवलमागमनमात्रं घोषाणामुपसुखयेयुश्चोपसुखं च कुर्यरित्यर्थः / द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः आदरार्थश्च
SK
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकोनविंशः खण्डः इति च्छान्दोग्योपनिषद्ब्राह्मणे तृतीयो ऽध्यायः समाप्तः
SK
IN REE NICHT ZULÄSSIGE ZEICHEN:
SK
अथ चतुर्थो ऽध्यायः
SK
START Cह्Uप् ४,१.१
SK
जानश्रुतिर् ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस | स ह सर्वत आवसथान् मापयां चक्रे सर्वत एव मे ऽन्नम् अत्स्यन्तीति || Cह्Uप्_४,१.१ ||
SK
Cह्Uप्Bह्_४,१.१ वायुप्राणयोर्ब्रह्मणः पाददृष्ट्यध्यासः पुरस्ताद्वर्णितः / अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्यते / सुखावबोधार्थाऽख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्ति साधनत्वं प्रदर्श्यत आख्यायिकया / जानश्रुतिर्जनश्रुतस्यापत्यम् / हः ऐतिह्यार्थः / पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः / बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी / बहुपाक्यो बहु पक्तव्यमहन्यहनि गृहे यस्यासौबहुपाक्यः / भोजनार्थिभ्यो बह्वस्य गृहे ऽन्नं पच्यत इत्यर्थः / एवङ्गुणसम्पन्नो ऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चिदास बभूव / स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु चाऽवसथानेत्य वसन्ति येष्वित्यावसथास्तान्मापयाञ्चक्रे कारितवानित्यर्थः / सर्वत एव मे ममान्नं तेष्वावसथेषु वसन्तो ऽत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः
SK
START Cह्Uप् ४,१.२
SK
अथ ह हंसा निशायाम् अतिपेतुः | तद् धैवं हंसो हंसम् अभ्युवाद | हो हो ऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिर् आततं तन् मा प्रसाङ्क्षीस् तत् त्वां मा प्रधाक्षीर् इति || Cह्Uप्_४,१.२ ||
SK
Cह्Uप्Bह्_४,१.२ तत्रैवं सति राजनि तस्मिन्धर्मकाले हर्म्यतलस्थे ऽथ ह हंसा निशायां रात्रावतिपेतुः / ऋषयो देवता वा राज्ञो ऽन्नदानगुणैस्तोषिताः सन्तो हंसारूपा भूत्वा राज्ञो दर्शनगोचरे ऽतिपेतुः / तत्तस्मिन्काले तेषां पततां हंसानामेकः पृष्ठतः पतन्नग्रतः पतन्तं हंसमभ्युवादाभ्युक्तवान्हो हो ऽयीति भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याऽश्चर्यमिति तद्वत् / भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह / अथवा सम्यग्ब्रह्मदर्शनाभिमानवत्त्वात्तस्यासकृदुपालब्धस्तेन पीड्यमानो ऽमर्षितया तत्सूचयति भल्लाक्षेति / जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरमन्नदानादिजनितप्रभावजमाततं व्याप्तं द्युलोकस्पृगित्यर्थः / दिवाह्ना वा समं ज्योतिरित्येतत् / तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षीरित्यर्थः / तत्प्रसञ्जनेन तज्ज्योतिस्त्वा त्वां मा प्रधाक्षीर्मा दहत्वित्यर्थः पुरुषव्यत्यनेन मा प्रधाक्षीदिति
SK
START Cह्Uप् ४,१.३
SK
तम् उ ह परः प्रत्युवाच कम् व् अर एनम् एतत् सन्तं सयुग्वानम् इव रैक्वम् आत्थ इति | यो नु कथं सयुग्वा रैक्व इति || Cह्Uप्_४,१.३ ||
SK
Cह्Uप्Bह्_४,१.३ तमेवमुक्तवन्तं पर इतरो ऽग्रगामी प्रत्युवाचारे निकृष्टो ऽयं राजा वराकस्तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयत्येनमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव, सयुग्वानं सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः / तमिवाऽत्थैनम् / अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः / इतरश्चाऽह-यो नु कथं त्वयोच्यते सयुग्वा रैक्व इत्युक्तवन्तं भल्लाक्ष आह शृणु यथा स रैक्वः
SK
START Cह्Uप् ४,१.४
SK
यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति | यस् तद् वेद यत् स वेद स मयैतद् उक्त इति || Cह्Uप्_४,१.४ ||
SK
Cह्Uप्Bह्_४,१.४ यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरे ऽयास्त्रेताद्वापरकलिनामानः संयन्ति संगच्छन्ते ऽन्तर्भवन्ति / चतुरङ्के कृताये त्रिद्व्येकाङ्कानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः / यथायं दृष्टान्त एवमेनं रैक्वं कृतायस्थानीयं त्रेताद्यायस्थानीयं सर्वं तदभिसमेत्यन्तर्भवति रैक्वे / किं तद्यत्किञ्च लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति तत्सर्वं रैक्वस्य धर्मे ऽन्तर्भवति / तस्य च फले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः / तथान्यो ऽपि कश्चिद्यस्तद्वेद्यं वेद / किं तद्यद्वेद्यं स रैक्वो वेद / तद्वेद्यमन्यो ऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्वमिवाभिसमेतीत्यनुवर्तते / स एवंभूतो मया विद्वानेतदिक्त एवमुक्तो रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः
SK
START Cह्Uप् ४,१.५-६
SK
तद् उ ह जानश्रुतिः पौत्रायण उपशुश्राव | स ह संजिहान एव क्षत्तारम् उवाचाङ्गारे ह सयुग्वानम् इव रैक्वम् आत्थेति | यो नु कथं सयुग्वा रैक्व इति || Cह्Uप्_४,१.५ ||
SK
यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति | यस् तद् वेद यत् स वेद स मयैतद् उक्त इति || Cह्Uप्_४,१.६ ||
SK
Cह्Uप्Bह्_४,१.५,६ तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपमुपशुश्राव श्रुतवान्हर्म्यतलस्थो राजा जानश्रुतिः पौत्रायणः / तच्च हंसवाक्यं स्मरन्नेव पौनः पुन्येन रात्रिशेषमतिवाहयामास / ततः स बन्दिभी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमान उवाच क्षत्तारं संजिहान एव शयनं निद्रां वा परित्यजन्नेव हे ऽङ्ग वत्सारे स सयुग्वानमिव रैक्वमात्थ किं माम् / स एव स्तुत्यर्हे नाहमित्यभिप्रायः / अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षा;तदेवशब्दो ऽवधारणार्थो ऽनर्थको वा वाच्यः / स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञो ऽभिप्रायज्ञो यो नु कथं सयुग्वा रैक्व इति, राज्ञैवं चोक्त आनेतुं तच्चिह्नं ज्ञतुमिच्छन्यो नु कथं सयुग्वा रैक्व इत्यवोचत् / स च भल्लाक्षवचनमेवावोचत् //५-६ //
SK
START Cह्Uप् ४,१.७
SK
स ह क्षत्तान्विष्य नाविदम् इति प्रत्येयाय | तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तद् एनम् अर्च्छेति || Cह्Uप्_४,१.७ ||
SK
Cह्Uप्Bह्_४,१.७ तस्य स्मरन्स ह क्षत्ता नगरं ग्रामं वा गत्वान्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान् / तं होवाच क्षत्तरमरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्ते ऽरण्ये नदीपुलिनादौ विविक्ते देशे ऽन्वेषणानुमार्गणं भवति तत्तत्रैनं रैक्वमर्छ ऋच्छ गच्छ तत्र मार्गणं कुर्वित्यर्थः
SK
START Cह्Uप् ४,१.८
SK
सो ऽधस्ताच् छकटस्य पामानं कषमाणम् उपोपविवेश | तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इति | अहं ह्य् अरा ३ इति ह प्रतिजज्ञे | स ह क्षत्ताविदम् इति प्रत्येयाय || Cह्Uप्_४,१.८ ||
SK
Cह्Uप्Bह्_४,१.८ इत्युक्तः क्षत्तान्विष्य तं विजने देशे ऽधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वायं नूनं सयुग्वा रैक्व इत्युप समीप उपविवेश विनयेनोपविष्टवान् / तं च रैक्वं हाभ्युवादोक्तवान् / त्वमसि हे भगवो भगवन्सयुग्वा रैक्व इति / एवं पृष्टो ऽहमस्मि ह्यरा ३ अर इति हानादर एव प्रतिजज्ञे ऽभ्युपगतवान् / स तं विज्ञायाविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,२.१
SK
तद् उ ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कम् अश्वतरीरथं तद् आदाय प्रतिचक्रमे | तं हाभ्युवाद || Cह्Uप्_४,२.१ ||
SK
Cह्Uप्Bह्_४,२.१ तत्तत्र ऋषेर्गार्हस्थ्यं प्रत्यभिप्रयं बुद्ध्वा धनार्थितां चो ह, एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारमश्वतरीरथमश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान् / तं च गत्वाभ्युवाद हाभ्युक्तवान्
SK
START Cह्Uप् ४,२.२
SK
रैक्वेमानि षट् शतानि गवाम् अयं निष्को ऽयम् अश्वतरीरथः | अनु म एतां भगवो देवतां शाधि यां देवताम् उपास्स इति || Cह्Uप्_४,२.२ ||
SK
Cह्Uप्Bह्_४,२.२ हे रैक्व गवां षट्शतानीमानि तुभ्यं मयाऽनीतान्ययं निष्को ऽश्वतरीरथश्चायमेतद्धनमादत्स्व भगवो ऽनुशाधि च मे मामेतां यां च देवतां त्वमुपाःसे तद्देवतोपदेशेन मामनुशाधीत्यर्थः
SK
START Cह्Uप् ४,२.३
SK
तम् उ ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिर् अस्त्व् इति | तद् उ ह पुनर् एव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कम् अश्वतरीरथं दुहितरं तद् आदाय प्रतिचक्रमे || Cह्Uप्_४,२.३ ||
SK
Cह्Uप्Bह्_४,२.३ तमेवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः / अहेत्ययं निपातो विनिग्रहार्थीयो ऽन्यत्रेह त्वनर्थकः / एवशब्दस्य पृथक्प्रयोगात् / हारेत्वा हारेण युक्तेत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तिष्ठतु न ममापर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायो हे शूद्रेति / ननु राजासौ क्षत्तृसम्बन्धात्स ह क्षत्तारमुवाचेत्युक्तम् / विद्याग्रहणाय च ब्राह्मणसमीपोपगमाच्छूद्रस्य चानधिकारात्कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति / तत्राऽहुराचार्याः-हंसवचनश्रवणाच्छुगेनमाविवेश / तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिरात्मनः परोक्षज्ञतां दर्शयञ्शूद्रेत्याहेति / शूद्रवद्वा धनेनैवैनं विद्याग्रहणायोपजगाम न च शुश्रूषया / न तु जात्यैव शूद्र इति / अपरे पुनराहुरल्पं धनमाहृतमिति रुषैवैनमुक्तवाञ्छूद्रेति / लिङ्गं च बह्वाहरण उपादानं धनस्येति / तदुहर्षेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां चर्षेरभिमतां दुहितरमात्मनस्तदादाय प्रतिचक्रमे क्रान्तवान्
SK
START Cह्Uप् ४,२.४-५
SK
तं हाभ्युवाद | रैक्वेदं सहस्रं गवाम् अयं निष्को ऽयम् अश्वतरीरथ इयं जायायं ग्रामो यस्मिन्न् आस्से ऽन्व् एव मा भगवः शाधीति || Cह्Uप्_४,२.४ ||
SK
तस्या ह मुखम् उपोद्गृह्णन्न् उवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति | ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास | तस्मै होवाच || Cह्Uप्_४,२.५ ||
SK
Cह्Uप्Bह्_४,२.४,५ रैक्वेदं गवां सहस्रमयं निष्को ऽयमश्वतरीरथ इयं जायार्थं मम दुहिताऽनीतायं च ग्रामो यस्मिन्नाःसे तिष्ठसि स च त्वदर्थे मया कल्पितः तदेतत्सर्वमादायानुशाध्येव मा मां हे भगव इत्युक्तस्तस्या जायार्थमानीताया राज्ञो दुहितुर्हैव मुखं द्वारं विद्याया दाने तीर्थमुपोद्गृह्णञ्जानन्नित्यर्थः / ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः / विद्यया वा विद्या प्राह तानि तीर्थानि षण्मम //
SK
इति विद्याया वचनं विज्ञायते हि / एवं जानन्नुपोद्गृह्णन्नुवाचोक्तवान् / आजहाराऽहृतवान्भवान्यदिमा गा यच्चान्यद्धनं तत्साध्विति वाक्यशेषः / शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् / अनेनैव मुखेन विद्याग्रहणतीर्थेनाऽलापयिष्यथा आलापयसीति मां भाषयसीत्यर्थः / ते हैते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषूवासोषितवान् रैक्वस्तानसौ ग्रामानदादस्मै रैक्वाय राजा / तस्मै राज्ञे धनं दत्तवते ह किलोवाच विद्यां स रैक्वः //४-५ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,३.१
SK
वायुर् वाव संवर्गः | यदा वा अग्निर् उद्वायति वायुम् एवाप्येति | यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति | यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति || Cह्Uप्_४,३.१ ||
SK
Cह्Uप्Bह्_४,३.१ वायुर्वाव संवर्गो वायुर्बाह्यो वावेत्यवधारणार्थः / संवर्गः संवर्जनात्संग्रहणात्संग्रसनाद्वा संवर्गः / वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यतः संवर्गः / सवर्जवाख्यो गुणो ध्येयो वायुवत् / कृतायान्तभर्वदृष्टान्तात् / कथं संवर्गत्त्वं वायोरित्याह / यदा यस्मिन्काले वा अग्निरुद्वायत्युद्वासनं प्राप्नोत्युपशाम्यति तदासावग्निर्वायुमेवाप्येति वायुस्वाभाव्यमपिगच्छति / तथा यदा सूर्यो ऽस्तमेति वायुमेवाप्येति / यदा चन्द्रो ऽस्तमेति वायुमेवाप्येति / ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोर्वायावपिगमनम् / नैष दोषः / अस्तमने ऽदर्शनप्राप्तेर्वायुनिमित्तत्वात् / वायुना ह्यस्तं नीयते सूर्यः चलनस्य वायुकार्यत्वात् / अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोर्वायावेवापिगमनं स्यात्
SK
START Cह्Uप् ४,३.२
SK
यदाप उच्छुष्यन्ति वायुम् एवापियन्ति | वायुर् ह्य् एवैतान् सर्वान् संवृङ्क्ते | इत्य् अधिदैवतम् || Cह्Uप्_४,३.२ ||
SK
Cह्Uप्Bह्_४,३.२ तथा यदाऽप उच्छुष्यन्त्युच्छोषमाप्नुवन्ति तदा वायुमेवापियन्ति / वायुर्हि यस्मादेवैतानग्न्याद्यान्महाबलान्संवृङ्क्ते / अतो वायुः संवर्गगुण उपास्य इत्यर्थः / इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम्
SK
START Cह्Uप् ४,३.३
SK
अथाध्यात्मम् | प्राणो वाव सम्वर्गः | स यदा स्वपिति प्राणम् एव वाग् अप्य् एति | प्राणं चक्षुः | प्राणं श्रोत्रम् | प्राणं मनः | प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्त इति || Cह्Uप्_४,३.३ ||
SK
Cह्Uप्Bह्_४,३.३ अथानन्तरमध्यात्ममात्मनि संवर्गदर्शनमिदमुच्यते / प्राणो मुख्योवाव संवर्गः / स पुरुषो यदा यस्मिन्काले स्वपिति प्राणमेव वागप्येति वायुमिवाग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन्सर्वान्संवृङ्क्त इति
SK
START Cह्Uप् ४,३.४
SK
तौ वा एतौ द्वौ सम्वर्गौ | वायुर् एव देवेषु प्राणः प्राणेषु || Cह्Uप्_४,३.४ ||
SK
Cह्Uप्Bह्_४,३.४ तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणो वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः
SK
START Cह्Uप् ४,३.५
SK
अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे | तस्मा उ ह न ददतुः || Cह्Uप्_४,३.५ ||
SK
Cह्Uप्Bह्_४,३.५ अथैतयोः स्तुत्यर्थमियमाख्यायिकाऽरभ्यते / हेत्यैतिह्यार्थः / शौनकं च शुनकस्यापत्यं शोनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैर्ब्रह्मचारी ब्रह्मविच्छण्डो बिभिक्षे भिक्षितवान् / ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मा उ भिक्षां न जजतुर्न दत्तवन्तौ ह किमयं बक्ष्यतीति
SK
START Cह्Uप् ४,३.६
SK
स होवाच | महात्मनश् चतुरो देव एकः कः स जगार भुवनस्य गोपाः | तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् | यस्मै वा एतद् अन्नं तस्मा एतन् न दत्तम् इति || Cह्Uप्_४,३.६ ||
SK
Cह्Uप्Bह्_४,३.६ स होवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् / देव एको ऽग्न्यादीन्वायुर्वागादीन्प्राणः / कः स प्रजापतिर्जगार ग्रसितवान् / कः स जगारेति प्रश्नमेके / भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकस्तस्य गोपा गोपायिता रक्षिता गोप्तेत्यर्थः / तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्या मरणधर्माणो ऽविवेकिनो वा हे ऽभिप्रतारिन्बहुधाध्यात्माधिदैवताधिभूतप्रकारैर्वसन्तम् / यस्मै वा एतदहन्यहन्यन्नमदनायाऽह्रियते संस्क्रियते च तस्मै प्रजापतय एतदन्नं न दत्तमिति
SK
START Cह्Uप् ४,३.७
SK
तद् उ ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय | आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसो ऽनसूरिः | महान्तम् अस्य महिमानम् आहुर् अनद्यमानो यद् अनन्नम् अत्ति | इति वै वयम् ब्रह्मचारिन् नेदम् उपास्महे दत्तास्मै भिक्षाम् इति || Cह्Uप्_४,३.७ ||
SK
Cह्Uप्Bह्_४,३.७ तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानो मनसाऽलोचयन्ब्रह्मचारिणं प्रत्येयायाऽजगाम / गत्वा चाऽह-यं त्वमवोचो न पश्यन्ति मर्त्या इति तं वयं पश्यामः / कथम्?आत्मा सर्वस्य स्थावरजङ्गमस्य / किञ्च देवानामग्न्यादीनामात्मनि संहृत्य ग्रसित्वा पुनर्जनितोत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम् / अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च दनिता / अथ वाऽत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् / हिरण्यदंष्ट्रो ऽभग्नदंष्ट्र इति यावत् / बभसो भक्षणशीलः / अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधो ऽनसूरिः सूरिरेवेत्यर्थः / महान्तमतिप्रमाणमप्रमेयमस्य प्रजापतेर्महिमानं विभूतिमाहुर्ब्रह्मविदः / यस्मात्स्वयमन्यैरनद्यमानो ऽभक्ष्यमाणो यदनन्नमग्निवागादिदेवतारूपमत्ति भक्षयतीति / वा इति निरर्थकः / वयं हे ब्रह्मचारिन्, आ, इदमेवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे / वयमिति व्यवहितेन सम्बन्धः / अन्ये न वयमिदमुपास्महे / किं तर्हि परमेव ब्रह्मोपास्मह इति वर्णयन्ति / दत्तास्मै भिक्षामित्यवोचद्भृत्यान्
SK
START Cह्Uप् ४,३.८
SK
तस्मै उ ह ददुः | ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस् तत् कृतम् | तस्मात् सर्वासु दिक्ष्व् अन्नम् एव दश कृतम् | सैषा विराड् अन्नादी | तयेदं सर्वं दृष्टम् | सर्वम् अस्य इदं दृष्टं भवत्य् अन्नादो भवति य एवं वेद य एवं वेद || Cह्Uप्_४,३.८ ||
SK
तस्मा उ ह ददुस्ते हि भिक्षाम् / ते वै ये ग्रस्यन्ते ऽग्न्यादयो यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथान्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश सन्तस्तत्कृतं भवति, ते चतुरङ्क एकाय एवं चत्वारः त्र्यङ्कायः एवं त्रयो ऽपरे द्व्यङ्कायः एवं द्वावन्यावेकाङ्काय एवमेको ऽन्य, इत्येवं देश सन्तस्तत्कृतं भवति / यत एवं तस्मात्सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव᳚दशाक्षरा विराड् विराडन्नम्᳚ इति हि श्रुतिः /
SK
अतो ऽन्नमेव दशसंख्यत्वात् / तत एव दश कृतं कृते ऽन्तर्भावाच्चतुरायत्वेनेत्यवोचाम / सैषा विराड्दशसंख्या सत्यन्नं चान्नाद्यन्नादिनी च कृतत्वेन दशसंख्ययान्नं कृतसंख्ययान्नादी तया अन्नान्नादिन्या इदं सर्वं जगद्दशदिक्संस्थं दृष्टं कृतसंख्याभूतयोपलब्धम् / एवंविदो ऽस्य सर्वं कृतसंख्याभूतस्य दशदिक्संबद्धं दृष्टमुपलब्धं भवति / किञ्चान्नादश्च भवति य एवं वेद यथोक्तदर्शी / द्विरभ्यास उपासनमाप्त्यर्थः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,४.१
SK
सत्यकामो ह जाबालो जबालां मातरम् आमन्त्रयां चक्रे | ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्व् अहम् अस्मीति || Cह्Uप्_४,४.१ ||
SK
Cह्Uप्Bह्_४,४.१ सर्वं वागाद्यग्न्यादि चान्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते / श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽख्यायिका / सत्यकामो ह नामतो हशब्द ऐतिह्यार्थो जबालाया अपत्यं जाबालो जबलां स्वां मातरमामन्त्रयाञ्चक्र आमन्त्रितवान् / ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्याम्याचार्यकुले, किङ्गोत्रो ऽहं किमस्य मम गोत्रं सो ऽहं न्वहमस्मीति
SK
START Cह्Uप् ४,४.२
SK
सा हैनम् उवाच | नाहम् एतद् वेद तात यद्गोत्रस् त्वम् असि | बह्व् अहम् चरन्ती परिचारिणी यौवने त्वाम् अलभे | साहम् एतन् न वेद यद्गोत्रस् त्वम् असि | जबाला तु नामाहम् अस्मि | सत्यकामो नाम त्वम् असि | स सत्यकाम एव जाबालो ब्रुवीथा इति || Cह्Uप्_४,४.२ ||
SK
Cह्Uप्Bह्_४,४.२ एवं पृष्टा जबाला सा हैनं पुत्रमुवाच-नाहमेतत्तव गोत्रं वेद हे तात यद्गोत्रस्त्वमसि / कस्मान्न वेत्सीत्युक्ताऽह-बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्त्यहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहं परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् / यौवने च तत्काले त्वामलभे लब्धवत्यस्मि / तदैव ते पितोपरतः / अतो ऽनाथाहं साहमेतन्न वेद यद्गोत्रस्त्वमसि / जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स त्वं सत्यकाम एवाहं जाबालो ऽस्मीत्याचार्याय ब्रुवीथाः यद्याचार्येण पृष्ट इत्यभिप्रायः
SK
START Cह्Uप् ४,४.३-४
SK
स ह हारिद्रुमतं गौतमम् एत्योवाच | ब्रह्मचर्यं भगवति वत्स्यामि | उपेयां भगवन्तम् इति || Cह्Uप्_४,४.३ ||
SK
तं होवाच किंगोत्रो नु सोम्यासीति | स होवाच | नाहम् एतद् वेद भो यद्गोत्रो ऽहम् अस्मि | अपृच्छं मातरम् | सा मा प्रत्यब्रवीद् बह्व् अहम् चरन्ती परिचरिणी यौवने त्वाम् अलभे | साहम् एतन् न वेद यद्गोत्रस् त्वम् असि | जबाला तु नामाहम् अस्मि | सत्यकामो नाम त्वम् असीति | सो ऽहं सत्यकामो जाबालो ऽस्मि भो इति || Cह्Uप्_४,४.४ ||
SK
Cह्Uप्Bह्_४,४.४ स ह सत्यकामो हारिद्रुमतं हरिद्रुमतो ऽपत्यं हारिद्रुमतं गौतमं गोत्रत एत्य गत्वोवाच ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्याम्यत उपेयामुपगच्छेयं शिष्यतया भगवन्तमित्युक्तवन्तं तं होवाच गौतमः / किङ्गोत्रो नु सोम्यासीति विज्ञातकुलगोत्रः शिष्य उपनेतव्य इति पृष्टः प्रत्याह सत्यकामः / स होवाच नाहमेतद्वेद भो यद्गोत्रो ऽहमस्मि / किं त्वपृच्छं पृष्टवानस्मि मातरम् / सा मया पृष्टा मां प्रत्यब्रवीन्माता / बह्वहं चरन्तीत्यादि पूर्ववत् / तस्या अहं वचः स्मरामि सो ऽहं सत्यकामो जाबालो ऽस्मि भो इति //३-४ //
SK
START Cह्Uप् ४,४.५
SK
तं होवाच | नैतद् अब्रह्मणो विवक्तुम् अर्हति | समिधं सोम्याहर | उप त्वा नेष्ये न सत्याद् अगा इति | तम् उपनीय कृशानाम् अबलानां चतुःशता गा निराकृत्य उवाचेमाः सोम्यानुसंव्रजेति | ता अभिप्रस्थापयन्न् उवाच | नासहस्रेणावर्तेयेति | स ह वर्षगणं प्रोवास | ता यदा सहस्रं सम्पेदुः || Cह्Uप्_४,४.५ ||
SK
Cह्Uप्Bह्_४,४.५ तं होवाच गौतमो नैतद्वचो ऽब्राह्मणो विशेषेण वक्तुमर्हत्यार्जवार्थसंयुक्तम् / ऋजवो हि ब्रह्मणा नेतरे स्वभावतः / यस्मान्न सत्याद्ब्राह्मणजातिधर्मादगा नापेतवानसि / अतो ब्राह्मणं त्वामुपनेष्ये ऽतः संस्कारार्थं होमाय समिधं सोम्याऽहरेत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्यापकृष्य चतुःशता चत्वारि शतानि गवामुवाचेमा गाः सोम्यानुसंव्रजानुगच्छ / इत्युक्तस्ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच-नासहस्रेणापूर्णेन सहस्रेण नाऽवर्तेय न प्रत्यागच्छेयम् / स एवमुक्त्वा गा अरण्यं तृणोदकबहुलं द्वन्द्वंरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् / ताः सम्यग्गावो रक्षिता यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,५.१
SK
अथ हैनम् ऋषभो ऽभ्युवाद सत्यकाम ३ इति | भगव इति ह प्रतिशुश्राव | प्राप्ताः सोम्य सहस्रं स्मः | प्रापय न आचार्यकुलम् || Cह्Uप्_४,५.१ ||
SK
Cह्Uप्Bह्_४,५.१ तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सत्यृषभमनुप्रविश्यर्षभापन्नानुग्रहायाथ हैनमृषभो ऽभ्युवादाभ्युक्तवान्सत्यकाम ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ / प्रप्ताः सोम्य सहस्रं स्मः पूर्णा तव प्रतिज्ञातः प्रापय नो ऽस्मानाचार्यकुलम्
SK
START Cह्Uप् ४,५.२
SK
ब्रह्मणश् च ते पादं ब्रवाणि इति | ब्रवीतु मे भगवान् इति | तस्मै होवाच | प्राची दिक् कला | प्रतिची दिक् कला | दक्षिणा दिक् कला | उदीची दिक् कला | एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम || Cह्Uप्_४,५.२ ||
SK
Cह्Uप्Bह्_४,५.२ किञ्चाहं ब्रङ्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि / इत्युक्तः प्रत्युवाच-ब्रवीतु कथयतु मे मह्यं भगवान् / इत्युक्त ऋषभस्तस्मै सत्यकामाय होवाच / प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः / तथा प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सैम्य ब्रह्मणः पादश्चतुशष्कलश्चतस्रः कला अवयवा यस्य सो ऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्यवं नामाभिधानं यस्य / तथोत्तरे ऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः
SK
START Cह्Uप् ४,५.३
SK
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते प्रकाशवान् अस्मिंल् लोके भवति | प्रकाशवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते || Cह्Uप्_४,५.३ ||
SK
Cह्Uप्Bह्_४,५.३ स यः कश्चिदेवं यथोक्तमेतं ब्रह्मणश्चतुष्कलं पादं विद्वान्प्रकाशवानित्यनेन गुणेन विशिष्टमुपास्ते तस्येदं फलं प्रकाशवानस्मिन् लोके भवति प्रख्यातो भवतीत्यर्थः / तथादृष्टं फलं प्रकाशवतो ह लोकान्देवादिसंबन्धिनो मृतः सञ्जयति प्राप्नोति / य एतमेव विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चमः खण्डः
SK
START Cह्Uप् ४,६.१
SK
अग्निष्टे पादं वक्तेति | स ह श्वो भूते गा अभिप्रस्थापयां चकार | ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश || Cह्Uप्_४,६.१ ||
SK
Cह्Uप्Bह्_४,६.१ सो ऽग्निस्ते पादं वक्तेत्युपररामर्षभः / स सत्याकामो ह श्वोभूते परेद्युर्नैत्यकं नित्यं कर्म कृत्वा गा अभिप्रस्थापयाञ्चकाराऽचार्यकुलं प्रति / ताः शनैश्चरन्त्य आचार्यकुलाभिमुख्यः प्रस्थिता यत्र यस्मिन्काले देशे ऽभि सायं निशायामभिसंबभूवुरेकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्रङुपोपविवेश ऋषभवचो ध्यायन्
SK
START Cह्Uप् ४,६.२
SK
तम् अग्निर् अभ्युवाद सत्यकाम ३ इति | भगव इति ह प्रतिशुश्राव || Cह्Uप्_४,६.२ ||
SK
Cह्Uप्Bह्_४,६.२ तमग्निरभ्युवाद सत्यकाम ३ इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ
SK
START Cह्Uप् ४,६.३
SK
ब्रह्मणः सोम्य ते पादं ब्रवाणीति | ब्रवीतु मे भगवान् इति | तस्मै ह उवाच | पृथिवी कला | अन्तरिक्षं कला | द्यौः कला | समुद्रः कला | एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ऽनन्तवान् नाम || Cह्Uप्_४,६.३ ||
SK
Cह्Uप्Bह्_४,६.३ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानीति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् / एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ऽनन्तवान्नाम
SK
START Cह्Uप् ४,६.४
SK
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते ऽनन्तवान् अस्मिंल् लोके भवति | अनन्तवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते || Cह्Uप्_४,६.४ ||
SK
Cह्Uप्Bह्_४,६.४ स यः कश्चिद्यथोक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते स तथैव तद्गुणो भवत्यस्मिंल्लोके / मृतश्चानन्तवतो ह लोकान्स जयति य एतमेवमित्यादि पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षष्ठ खण्डः
SK
४.७.१-२
SK
हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाया गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश
SK
तं हंस उपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव
SK
Cह्Uप्Bह्_४,७.१,२ सो ऽग्निर्हंसस्ते पादं वक्तेत्युक्तवोपरराम / हंस आदित्यः / शौक्ल्यात्पतनसामान्याच्च / स ह श्वोभूत इत्यादि समानम् //१-२ //
SK
START Cह्Uप् ४,७.३-४
SK
ब्रह्मणः सोम्य ते पादं ब्रवाणीति | ब्रवीतु मे भगवान् इति | तस्मै होवाच | अग्निः कला | सूर्यः कला | चन्द्रः कला | विद्युत् कला | एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान् नाम || Cह्Uप्_४,७.३ ||
SK
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते ज्योतिष्मान् अस्मिंल् लोके भवति | ज्योतिष्मतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते || Cह्Uप्_४,७.४ ||
SK
Cह्Uप्Bह्_४,७.३,४ अग्निःकला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाचातो हंसस्याऽदित्यत्वं प्रतीयते / विद्वत्फलं-ज्योतिष्मान्दीप्तियुक्तो ऽस्मिंल्लोके भवति / चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकाञ्जयति / समानमुत्तरम् //३-४ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,८.१
SK
मद्गुष्टे पादं वक्तेति | स ह श्वो भूते गा अभिप्रस्थापयां चकार | ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश || Cह्Uप्_४,८.१ ||
SK
Cह्Uप्Bह्_४,८.१ हंसो ऽपि मद्गुष्टे पादं वक्तेत्युपरराम / मद्गुरुदकचरः पक्षी स चाप्सम्बन्धात्प्राणः स ह श्वोभूत इत्यादि पूर्ववत्
SK
START Cह्Uप् ४,८.२-३
SK
तं मद्गुर् उपनिपत्याभ्युवाद सत्यकाम ३ इति | भगव इति ह प्रतिशुश्राव || Cह्Uप्_४,८.२ ||
SK
ब्रह्मणः सोम्य ते पादं ब्रवाणीति | ब्रवीतु मे भगवान् इति | तस्मै होवाच | प्राणः कला | चक्षुः कला | श्रोत्रं कला | मनः कला | एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान् नाम || Cह्Uप्_४,८.३ ||
SK
Cह्Uप्Bह्_४,८.२,३ स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्यादि, आयतनवानित्येवं नाम / आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः //२-३ //
SK
START Cह्Uप् ४,८.४
SK
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्त आयतनवान् अस्मिंल् लोके भवति | आयतनवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्ते || Cह्Uप्_४,८.४ ||
SK
Cह्Uप्Bह्_४,८.४ तं पादं तथैवोपास्ते यः स आयतनवानाश्रयवानस्मिंल्लोके भवति / तथाऽयतनवत एव सावकाशांल्लोकान्मृतो जयति / य एतमेवमित्यादि पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्याष्टमः खण्डः
SK
START Cह्Uप् ४,९.१
SK
प्राप हाचर्यकुलम् | तम् आचर्यो ऽभ्युवाद सत्यकाम ३ इति | भगव इति ह प्रतिशुश्राव || Cह्Uप्_४,९.१ ||
SK
Cह्Uप्Bह्_४,९.१ स एवं ब्रह्मवित्सन्प्राप ह प्राप्तवानाचार्यकुलम् / तमाचार्यो ऽभ्युवाद सत्यकाम ३ इति / भगव इति ह प्रतिशुश्राव
SK
START Cह्Uप् ४,९.२
SK
ब्रह्मविद् इव वै सोम्य भासि | को नु त्वानुशशासेति | अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे | भगवांस् त्व् एव मे कामे ब्रूयात् || Cह्Uप्_४,९.२ ||
SK
Cह्Uप्Bह्_४,९.२ ब्रह्मविदिव वै सोम्य भासि / प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति / अत आचार्यो ब्रह्मविदिव भासोति / को न्विति वितर्कयन्नुवाच कस्त्वामनुशशासेति / स चाऽह सत्यकामो ऽन्ये मनुष्येभ्यः / देवता मामनुशिष्टवत्यः / को ऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः / अतो ऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् / भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात्किमन्यैरुक्तेन नाहं तद्गणयामीत्यभिप्रायः
SK
START Cह्Uप् ४,९.३
SK
श्रुतं ह्य् एव मे भगवद्दृशेभ्य आचार्याद् धैव विद्या विदिता साधिष्ठं प्रापतीति | तस्मै ह एतद् एव उवाच | अत्र ह न किंचन वीयायेति वीयायेति || Cह्Uप्_४,९.३ ||
SK
Cह्Uप्Bह्_४,९.३ किञ्च श्रुतं हि यस्मान्मम विद्यत एवास्मिन्नर्थे भगवत्समेभ्य ॠषिभ्यः / आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापदिति प्राप्नोतीत्यतो भगवानेब ब्रूयादित्युक्त आचार्यो ऽब्रवीत्तस्मै तामेव दैवतैरुक्तां विद्याम् / अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः / द्विरभ्यासो विद्यापरिसमाप्त्यर्थः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१०.१
SK
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यम् उवास | तस्य ह द्वादश वार्षान्य् अग्नीन् परिचचार | स ह स्मान्यान् अन्तेवासिनः समावर्तयंस् तं ह स्मैव न समावर्तयति || Cह्Uप्_४,१०.१ ||
SK
Cह्Uप्Bह्_४,१०.१ पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभेत गतिं च तद्विदो ऽग्निविद्यां च / आख्यायिका पूर्ववच्छ्रद्धातपसोर्ब्रह्मविद्यासाधनत्वप्रदश्रनार्था-उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य, हः एतिह्यार्थः / तस्याऽचार्यस्य द्वादश वर्षाण्यग्नीन्परिचचाराग्नीनां परिचरणं कृतवान् / स ह स्माऽचार्यो ऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयंस्तमेवोपकोसलमेकं न समावर्तयति स्म ह
SK
START Cह्Uप् ४,१०.२
SK
तं जायोवाच तप्तो ब्रह्मचारी कुशलम् अग्नीन् परिचचारीत् | मा त्वा अग्नयः परिप्रवोचन् | प्रब्रूह्य् अस्मा इति | तस्मै हाप्रोच्यैव प्रवासां चक्रे || Cह्Uप्_४,१०.२ ||
SK
Cह्Uप्Bह्_४,१०.२ तमाचार्यजायोवाच तप्तोब्रह्मचारी कुशलं सम्यगग्नीन्परिचचारीत्परिचरितवान् / भगवांश्चाग्निषु भक्तं न समावर्तयति / अतो ऽस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वामग्नयो मा परिप्रवोचन्गर्हां तव मा कुर्युः / अतः प्रब्रूह्यस्मै विद्यामिष्टामुपकोसलायेति / तस्मा एवं जाययोक्तो ऽपि हाप्रोच्यैवानुक्त्वैव किञ्चित्प्रवासांचक्रे प्रवसितवान्
SK
START Cह्Uप् ४,१०.३
SK
स ह व्याधिना अनशितुं दध्रे | तम् आचार्यजाया उवाच ब्रह्मचारिन्न् अशान | किं नु न अश्नासि इति | स ह उवाच बहव इमे ऽस्मिन् पुरुषे कामा नानात्यायाः | व्याधीभीः प्रतिपूर्णो ऽस्मि | न अस्/इष्यामि इति || Cह्Uप्_४,१०.३ ||
SK
Cह्Uप्Bह्_४,१०.३ स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दध्रे धृतवान्मनः / तं तूष्णीमग्न्यगारे ऽवस्थितमाचार्यजायोवाच हे ब्रह्मचारिन्नशान भुङ्क्ष्व किं नु कस्मान्नु कारणान्नाश्नासीति / स होवाच बहवो ऽनेके ऽस्मिन्पुरुषे ऽकृतार्थे प्राकृते कामा इच्छाः कर्तव्यं प्रति नानात्ययो ऽतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्यया व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः / तैः प्रतिपूर्णो ऽस्मि / अतो नाशिष्यामीति
SK
START Cह्Uप् ४,१०.४
SK
अथ हाग्नयः समूदिरे | तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् | हन्तास्मै प्रब्रवामेति तस्मै होचुः | प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति || Cह्Uप्_४,१०.४ ||
SK
Cह्Uप्Bह्_४,१०.४ उक्त्वा तूष्णींभूते ब्रह्मचारिण्यथ हाग्नयः शुश्रूषयाऽवर्जिताः कारुण्याविष्टाः सन्तस्रयो ऽपि समूदिरे संभूयोक्तवन्तः / हन्तेदानीमस्मै ब्रह्मचारिणे ऽस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वे ऽनुशास्मो ऽनुप्रब्रवाम ब्रह्मविद्यामिति / एवं संप्रधार्य तस्मै होचुरुक्तवन्तः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति
SK
START Cह्Uप् ४,१०.५
SK
स होवाच | विजानाम्य् अहं यत् प्राणो ब्रह्म | कं च तु खं च न विजानामीति | ते होचुः | यद् वाव कं तद् एव खम् | यद् एव खं तद् एव कम् इति | प्राणं च हास्मै तद् आकाशं चोचुः || Cह्Uप्_४,१०.५ ||
SK
Cह्Uप्Bह्_४,१०.५ स होवाच ब्रह्मचारी विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्प्राणो ब्रह्मेति / यस्मिन्सति जीवनं यदपगमे च न भवतीति तस्मिन्वायुविशेषे लोके रूढो ऽतो युक्तं ब्रह्मत्वं तस्य / तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति / कं च तु खं न विजानामीति / ननु कङ्खंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणो ऽज्ञानम्?नृनं सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात्खंशब्दवाच्यस्य चाऽकाशस्याचेतनस्य कथं ब्रह्मत्वमिति मन्यते / कथं च भवतां वाक्यमप्रमाणं स्यादिति / अतो न विजानामीत्याह / तमेवमुक्तन्तं ब्रह्मचारिणं ते हाग्नयः ऊचुः यद्वाव यदेव वयं कमवोचाम तदेव खमाकाशमित्येवं खेन विशेष्यमाणं कं विषयेन्द्रिसंयोगजात्सुखान्निवर्तितं स्यान्नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः / यदेव खमित्याकाशमवोचाम तदेव च कं सुखमिति जानीहि / एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यान्नीलोत्पलवदेव / सुखमाकाशस्थं नेतरल्लौकिकम् / आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः / नन्वाकाशं चेत्सुखेन विशेषयितुमिष्टमस्त्वन्यतरदेव विशेषणं यद्वाव कं तदेव खमित्यतिरिक्तमितरत् / यदेव खं तदेव कमिति पूर्वविशेषेणं वा / ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम / सुखेनाऽकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्सत्यमेवं किन्तु सुखेन विशेषितस्यैवाऽकाशस्य ध्येयत्वं विहितं न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात् / विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात् / अतः खेन सुखमपि विशेष्यते ध्येयत्वाय / कुतश्चैतन्निश्चीयते / कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात्कं ब्रह्मेति / यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्कं खं ब्रह्मेति ब्रूयुरग्नयः प्रथमम् / न चैवमुक्तवन्तः / किं तर्हि कं ब्रह्म खं ब्रह्मेति / अतो ब्रह्मचारिणो मोहापनयनाय कङ्खंशब्दयोरितरेतरविशेषणविशेष्यत्व निर्देशो युक्त एव यद्वाव कमित्यादिः / तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह-प्राणं च हास्मै ब्रह्मचारिणे / तस्याऽकाशस्तदाकाशः / प्राणस्य सम्बन्ध्याश्रयत्वेन हार्द आकाश इत्यर्थः / सुखगुणवत्त्वनिर्देशात्तं चाऽकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसम्पर्कादेव ब्रह्मेत्युभयं प्राणं चाऽकाशं च समुच्चित्य ब्रह्मणी ऊचुरग्नय इति
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य दशमः खण्डः
SK
======================================================================= START Cह्Uप् ४,११.१
SK
अथ हैनं गार्हपत्यो ऽनुशशास पृथिव्य् अग्निर् अन्नम् आदित्य इति | य एष आदित्ये पुरुषो दृश्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति || Cह्Uप्_४,११.१ ||
SK
Cह्Uप्Bह्_४,११.१ सम्भूयाग्नयो ब्रह्मचारिणे ब्रह्मोक्तवन्तः / अथानन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे / तत्राऽदावेनं ब्रह्मचारिणं गार्हपत्यो ऽग्निरनुशशास / पृथिव्यग्निरन्नमादित्य इति ममैताश्चस्रस्तनवः / तत्र य आदित्य एष पुरुषो दृश्यते सो ऽहमस्मि गार्हपत्यो ऽग्निर्यश्च गार्हपत्यो ऽग्निः स एवाहमादित्यो पुरुषो ऽस्मीति / पुनः परावृत्त्या स एवाहमस्मीति वचनम् / पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययोः / अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यत एकत्वमेवानयोरत्यन्तम् / पृथिव्यन्नयोस्तु भोज्यत्वेनाऽभ्यां सम्बन्धः
SK
START Cह्Uप् ४,११.२
SK
स य एतम् एवं विद्वान् उपास्ते | अपहते पापकृत्याम् | लोकी भवति | सर्वम् आयुर् एति | ज्योग् जीवति | न अस्य अवरपुरुषाः क्षीयन्ते | उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च | य एतम् एवं विद्वान् उपास्ते || Cह्Uप्_४,११.२ ||
SK
Cह्Uप्Bह्_४,११.२ स यः कश्चिदेवं यथोक्तं गार्हपत्यमग्निमन्नान्नादत्वेन चतुर्धा प्रविभक्तमुपास्ते सो ऽपहते विनाशयति पापकृत्यां पापं कर्म / लोकी लोकवांश्चास्मदायेन लोकेनाऽग्नेयेन तद्वान्भवति यथा वयमिह च लोके / सर्वं वर्षशतमायुरेति प्राप्नोति ज्योगुज्जवलं जीवति नाप्रख्यात इत्येतत् / न चास्यावराश्च ते पुरुषाश्चास्य विदुषः सन्ततिजा इत्यर्थः / न क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः / किं च तं वयमुपभुञ्जामः पालयामो ऽस्मिंश्च लोके जीवन्तममुष्मिंश्च परलोके / य एतमेवं विद्वानुपास्ते यथेक्तं तस्यैतत्फलमित्यर्थः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१२.१
SK
अथ ह एनम् अन्वाहार्यपचनो ऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति | य एष चन्द्रमसि पुरुषो दृष्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति || Cह्Uप्_४,१२.१ ||
SK
स य एतम् एवं विद्वान् उपास्ते | अपहते पापकृत्याम् | लोकी भवति | सर्वम् आयुर् एति | ज्योग् जीवति | न अस्य अवरपुरुषाः क्षीयन्ते | उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च | य एतम् एवं विद्वान् उपास्ते || Cह्Uप्_४,१२.२ ||
SK
Cह्Uप्Bह्_४,१२.१,२ अथ हैनमन्वाहार्यपचनो ऽनुशशास दक्षिणाग्निरापो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवश्चतुर्धाहमन्वाहार्यपचन आत्मानं प्रविभज्यावस्थितः तत्र य एष चन्द्रमसि पुरुषो दृश्यते सो ऽहमस्मि स एवाहमस्मीति पूर्ववत् / अन्नसम्बन्धाज्ज्योतिष्ट्वसामान्याच्चान्वाहार्यपचनचन्द्रमसोरेकत्वन्दक्षिणा(ण) दिक्सम्बन्धाच्च / अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव सम्बन्धः / नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धेः / अपान्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः पृथिवीवद्गार्हपत्यस्य / समानमन्यत् //१-२ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१३.१ अथ हैनम् आहवनीयो ऽनुशशास प्राण आकाशो द्यौर् विद्युद् इति | य एष विद्युति पुरुषो दृश्यते सो ऽहम् अस्मि स एवाहम् अस्मीति || Cह्Uप्_४,१३.१ ||
SK
स य एतम् एवं विद्वान् उपास्ते | अपहते पापकृत्याम् | लोकी भवति | सर्वम् अयुर् एति | ज्योग् जीवति | नास्यावरपुरुषाः क्षीयन्ते | उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च | य एतम् एवं विद्वान् उपास्ते || Cह्Uप्_४,१३.२ ||
SK
Cह्Uप्Bह्_४,१३.१,२ अथ हैनमाहवनीयो ऽनुशशास प्राण आकाशो द्यौर्विद्युदिति ममाप्येताश्चतस्रस्तनवः / य एव विद्युति पुरुषो दृश्यते सो ऽहमस्मीत्यादि पूर्ववत्सामान्यात् / दिवा(द्य्वा) काशयोस्त्वाश्रयत्वाद्विद्युदाहवनीययोर्भोग्यत्वेनैव सम्बन्धः / समानमन्यत् //१-२ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१४.१
SK
ते होचुः | उपकोसलैषा सोम्य ते ऽस्मद्विद्यात्मविद्या च | आचार्यस् तु ते गतिं वक्तेति | आजगाम हास्याचार्यः | तम् आचार्यो ऽभ्युवादोपकोसल ३ इति || Cह्Uप्_४,१४.१ ||
SK
Cह्Uप्Bह्_४,१४.१ ते पुनः सम्भूयोचुर्हेपकोसलैषा सोम्य ते तवास्मद्विद्याग्निविद्येत्यर्थः / आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च / आचार्यस्तु ते गतिं वक्ता विद्याफलप्राप्तय इत्युक्त्वोपरेमुरग्नयः / आजगाम हास्याऽचार्यः कालेन / तं च शिष्यमाचार्यो ऽभ्युवादोपकोसल३ इति
SK
START Cह्Uप् ४,१४.२-३
SK
भगव इति ह प्रतिशुश्राव | ब्रह्मविद इव सोम्य मुखं भाति | को नु त्वानुशशासेति | को नु मानुशिश्याद् भो इतीहापेव निह्नुते | इमे नूनम् ईदृशा अन्यादृशा इतीहाग्नीन् अभ्यूदे | किं नु सोम्य किल ते ऽवोचन्न् इति || Cह्Uप्_४,१४.२ ||
SK
इदम् इति ह प्रतिजज्ञे | लोकान् वाव किल सोम्य ते ऽवोचन् | अहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवम् एवंविदि पापं कर्म न श्लिष्यत इति | ब्रवीतु मे भगवान् इति | तस्मै होवाच || Cह्Uप्_४,१४.३ ||
SK
Cह्Uप्Bह्_४,१४.२,३ भगव इति ह प्रतिशुश्राव / ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वानुशशासेत्युक्तः प्रत्याह / को नु मानुशिष्यादनुशासनं कुर्याद्भो भगवंस्त्वयि प्रोषित इतीहापेव निह्नुते ऽपनिह्नुत इवेति व्यवहितेन सम्बन्धो न चापनिह्नुते न च यतावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः / कथमिमे ऽग्नयो मया परिचरिता उक्तवन्तो नूनं यतस्त्वां दृष्ट्वा वेपमाना इवेदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्त इतीहाग्नीनभ्यूदे ऽभ्युक्तवान्काक्वाग्नीन्दर्शयन् / किं नु सोम्य किल ते तुभ्यमवोचन्नग्नय इति पृष्ट इत्येवमिदमुक्तवन्त इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान्प्रतीकमात्रं किञ्चिन्न सर्वं यथोक्तमग्निभिरुक्तमवोचत् / यत आहाऽचार्यो लोकान्वाव पृथिव्यादीन्हे सोम्य किल ते ऽवोचन्न ब्रह्म साकल्येन / अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यं यथा पुष्करपलाशे पद्मपत्र आपो न शिलष्यन्त एवं यता वक्ष्यामि ब्रह्मैवंविदि पापं कर्म न शिलष्यते न सम्बध्यत इत्येवमुक्तवत्याचार्य आहोपकोसलो ब्रवीतु मे भगवानिति तस्मै होवाचाऽचार्यः //२-३ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्दशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१५.१
SK
य एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | तद् यद्य् अप्य् अस्मिन् सर्पिर् वोदकं वा सिञ्चति वर्त्मनी एव गच्छति || Cह्Uप्_४,१५.१ ||
SK
Cह्Uप्Bह्_४,१५.१ य एषो ऽक्षिणि पुरुषो दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैर्विवेकिभिर्दृष्टेर्द्रष्टा᳚चक्षुषश्चक्षुः᳚इत्यादिश्रुत्यन्तरात् / नन्वग्निभिरुक्तं वितथं यत आचार्यस्तु ते गतिं वक्तेति गतिमात्रस्य वक्तेत्यवोचन्भविष्यद्विषयापरिज्ञानं चाग्नीनम् / नैष दोषः / सुखाकाशस्यैवाक्षिणि दृश्यत इति द्रष्टुरनुवादात् / एष आत्मा प्राणिनामिति होवाचैवमुक्तवानेतद्यदेवाऽत्मतत्त्वमवोचाम / एतदमृतममरणधर्म्यविनाश्यत एवाभयं यस्य हि विनाशाशङ्का तस्य भयोपपत्तिस्तदभावादभयमत एवैतद्ब्रह्म बृहदनन्तमिति / किञ्चास्य ब्रह्मणो ऽक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थाने ऽक्षिणि यद्यप्यस्मिन्यर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति न चक्षुषा सम्बन्ध्यते पद्मपत्रेणेवोदकम् / स्थानस्याप्येतन्माहात्म्यं किं पुनः स्थानिनो ऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः
SK
START Cह्Uप् ४,१५.२
SK
एतं संयद्वाम इत्य् आचक्षते | एतं हि सर्वाणि वामान्य् अभिसंयन्ति | सर्वाण्य् एनं वामान्य् अभिसंयन्ति य एवं वेद || Cह्Uप्_४,१५.२ ||
SK
Cह्Uप्Bह्_४,१५.२ एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते / कस्मात् / यस्मादेतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनान्यभिसंयन्त्यभिसङ्गच्छन्तीत्यतः संयद्वामः / तथैवंविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद
SK
START Cह्Uप् ४,१५.३
SK
एष उ एव वामनीः | एष हि सर्वाणि वामानि नयति | सर्वाणि वामानि नयति य एवं वेद || Cह्Uप्_४,१५.३ ||
SK
Cह्Uप्Bह्_४,१५.३ एष उ एव वामनीर्यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति चाऽत्मधर्मत्वेन / विदुषः फलं-सर्वाणि वामानि नयति य एवं वेद
SK
START Cह्Uप् ४,१५.४
SK
एष उ एव भामनीः | एष हि सर्वेषु लोकेषु भाति | सर्वेषु लोकेषु भाति य एवं वेद || Cह्Uप्_४,१५.४ ||
SK
Cह्Uप्Bह्_४,१५.४ एष उ एव भामनीरेष हि यस्मात्सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपैर्भाति दीप्यते / ᳚तस्य भासा सर्वमिदं विभाति᳚इति श्रुतेरतो भामानि नयतीति भामनीः / य एवं वेदासावपि सर्वेषु लोकेषु भाति
SK
START Cह्Uप् ४,१५.५
SK
अथ यद् उ चैवास्मिञ् छव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसंभवन्ति | अर्चिषो ऽहः | अह्न आपूर्यमाणपक्षम् | आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान् | मासेभ्यः संवत्सरम् | संवत्सराद् आदित्यम् | आदित्याच् चन्द्रमसम् | चन्द्रमसो विद्युतम् | तत् पुरुषो ऽमानवः | स एनान् ब्रह्म गमयति | एष देवपथो ब्रह्मपथः | एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते नावर्तन्ते || Cह्Uप्_४,१५.५ ||
SK
Cह्Uप्Bह्_४,१५.५ अथेदानीं यथोक्तब्रह्मविदो गतिरुच्यते / यद्यदि उ चैवास्मिन्नेवंविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथाप्येवंवित्तेन शवकर्मणाकृतेनापि प्रतिबद्धो न ब्रह्म[द्मटप्राप्नोति / न च कृतेन शवकर्मणास्य कश्चनाभ्यधिको लोकः / ᳚न कर्मणा वर्धते नो कनीयान्᳚इति श्रुत्यन्तरात् / शवकर्मण्यनादरं दर्शयन्विद्यां स्तौति न पुनः शवकर्मैवंविदो न कर्तव्यमिति / अक्रियमाणे हि शवकर्मणि कर्मणा फलारम्भे प्रतिबन्धः कश्चिदनुमीयते ऽन्यत्र / यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतो ऽप्रतिबन्धेन फलारम्भं दर्शयति / ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवङ्गुणमुपासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मा वा भूत्सर्वथापि ते ऽर्चिषमेवाभिसम्भवन्त्यर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः / अर्चिषो ऽर्चिर्देवताया अहरहरभिमानिनीं देवतामह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमेति सविता तान्मासानुत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादिदित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्रस्थांस्तान्पुरुषः कश्चिद्ब्रह्मलोकादेत्यामानवो मानव्यां सृष्टौ भवो मानवो न मानवो ऽमानवः स पुरुष एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः / सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः / ब्रह्मैव सन्ब्रह्माप्येतीति हि तत्र वक्तुं न्याय्यम् / सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति / न चादृष्टो मार्गो ऽगमनायोपतिष्ठते / ᳚स एनमविदितो न भुनक्ति᳚इति श्रुत्यन्तरात् / एष देवपथः देवैरर्चिरादिभिः गमयितृत्वेनाधिकृतैः उपलक्षितः पन्था देवपथ उच्यते / ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः / एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्मेमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावत नाऽवर्तन्त आवर्तन्ते ऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यार्वतस्तं न प्रतिपद्यन्ते / नावर्तन्ते नाऽवर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चदशः खण्डः
SK
======================================================================= START Cह्Uप् ४,१६.१
SK
एष ह वै यज्ञो यो ऽयं पवते | एष ह यन्न् इदं सर्वं पुनाति | यद् एष यन्न् इदं सर्वं पुनाति | तस्माद् एष एव यज्ञः | तस्य मनश् च वाक् च वर्तनी || Cह्Uप्_४,१६.१ ||
SK
Cह्Uप्Bह्_४,१६.१ रहस्यप्रकरणे प्रसङ्गादारण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्यास्तदभिज्ञस्य चर्त्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते-एष ह वा एष वायुर्यो ऽयं पवते ऽयं यज्ञः / ह वा इति प्रसिद्धार्थावद्योतकौ निपातौ / वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु / ᳚स्वाहा वातेधाः / ᳚ ᳚अयं वै यज्ञो यो ऽयं पवते᳚इत्यादिश्रुतिभ्यः / वात एव हि चलनात्मवत्वात्क्रियासमवायी / ᳚वात एव यज्ञस्याऽरम्भको वातः प्रतिष्ठा᳚इति च श्रवणात् / एष ह यन्गच्छंश्चलन्निदं सर्वं जगत्पुनाति पावयति शोधयति / न ह्यचलतः शुद्धिरस्ति / दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य / यद्यस्माच्च यन्नष इदं सर्वं पुनाति तस्मादेष एव यज्ञो यत्पुनातीति / तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता / मनश्च यथाभूतार्थज्ञाने व्यापृतम् / ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी / प्राणापानपरिचलनवत्या हि᳚वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः᳚इति हि श्रुत्यन्तरम् / अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य
SK
START Cह्Uप् ४,१६.२-३
SK
तयोर् अन्यतरां मनसा संस्करोति ब्रह्मा | वाचा होताध्वर्युर् उद्गातान्यतराम् | स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति || Cह्Uप्_४,१६.२ ||
SK
अन्यतराम् एव वर्तनीं संस्करोति | हीयते ऽन्यतरा | स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्य् एवम् अस्य यज्ञो रिष्यति | यज्ञं रिष्यन्तं यजमानो ऽनु रिष्यति | स इष्ट्वा पापीयान् भवति || Cह्Uप्_४,१६.३ ||
SK
Cह्Uप्Bह्_४,१६.३ तयोर्वर्तन्योरन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मर्त्विग्वाचा वर्तन्या होताध्वर्युरुद्गातेत्येते त्रयो ऽप्यृत्विजो ऽन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति / तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे / अथ स ब्रह्मा यत्र यस्मिन्काल उपाकृते प्रारब्धे प्रातरनुवाके शस्रे पुरा पूर्वं परिधानीयाया ऋचो ब्रह्मैतस्मिन्नन्तरे काले व्यववदति मौनं परित्यजति यदि तदान्यतरामेव वा#अग्वर्तनीं संस्करोति ब्रह्मणासंस्क्रियमाणा मनोवर्तनी हीयते विनश्यति च्छिद्रीभवत्यन्यतरा / स यज्ञो वाग्वर्तन्यैवान्यतरया वर्तितुमशक्नुवन्रिष्यति / कथमिवेत्याह / स यथैकपात्पुरुषो ब्रजन्गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन्रिष्यत्येवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति / यज्ञं रिष्यन्तं यजमानो ऽरिष्यति / यज्ञप्राणो हि यजमानः / अतो युक्तो यज्ञरेषे रेषस्तस्य / स तं यज्ञमिष्ट्वा तादृशं पापीयान्पापतरो भवति //२-३ //
SK
START Cह्Uप् ४,१६.४-५
SK
अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्य् उभे एव वर्तनी संस्कुर्वन्ति | न हीयते ऽन्यतरा || Cह्Uप्_४,१६.४ ||
SK
स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्य् एवम् अस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानो ऽनु प्रतितिष्ठति | स इष्ट्वा श्रेयान् भवति || Cह्Uप्_४,१६.५ ||
SK
Cह्Uप्Bह्_४,१६.४,५ अथ पुनर्यत्र ब्रह्मा विद्वान्मौनं परिगृह्य वाग्विसर्गमकुर्वन्वर्तते यावत्परिधानीयाया न व्यववदति तथैव सर्वर्त्विज उभे एव वर्तनी संस्कुर्वन्ति न हीयते ऽन्यतरापि / किमिवेत्याह / पूर्वोक्तविपरीतौ दृष्टान्तौ / एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेनाऽत्मनाविनश्यन्वर्तत इत्यर्थः / यज्ञं प्रतितिष्ठन्तं यजमानो ऽनुप्रतितिष्ठति स यजमान एवं मौनविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः //४-५ //
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षोडशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ४,१७.१
SK
प्रजापतिर् लोकान् अभ्यतपत् | तेषां तप्यमानानां रसान् प्रावृहत् | अग्निं पृथिव्याः | वायुम् अन्तरिक्षात् | आदित्यं दिवः || Cह्Uप्_४,१७.१ ||
SK
Cह्Uप्Bह्_४,१७.१ अत्र ब्रह्मणो मौनं विहितं तद्रेषे ब्रह्मत्वकर्मणि चान्यस्मिंश्च होत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्या इत्याह-प्रजापतिर्लोकानभ्यतपल्लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार / तेषां तप्यमानानां लोकानां रसान्साररूपान्प्रावृहदुद्धृतवाञ्जग्राहेत्यर्थः / कान् / अग्निं रसं पृथिव्याः / वायुमन्तरिक्षात् / आदित्यं दिवः
SK
START Cह्Uप् ४,१७.२
SK
स एतास् तिस्रो देवता अभ्यतपत् | तासां तप्यमानानां रसान् प्रावृहत् | अग्नेर् ऋचः | वायोर् यजूंषि | सामान्य् आदित्यात् || Cह्Uप्_४,१७.२ ||
SK
Cह्Uप्Bह्_४,१७.२ पुनरप्येवमेवमग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्याभ्यतपत् / ततो ऽपि सारं रसं त्रयीविद्यां जग्राह
SK
START Cह्Uप् ४,१७.३-४
SK
स एतां त्रयीं विद्याम् अभ्यतपत् | तस्यास् तप्यमानाया रसान् प्रावृहत् | भूर् इत्य् ऋग्भ्यः | भुवर् इति यजुर्भ्यः | स्वर् इति सामभ्यः || Cह्Uप्_४,१७.३ ||
SK
तद् यद्य् ऋक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयात् | ऋचाम् एव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति || Cह्Uप्_४,१७.४ ||
SK
Cह्Uप्Bह्_४,१७.३,४ स एतां पुनरभ्यतपत्त्रयीं विद्याम् / तस्यास्तप्यमानाया रसं भूरिति व्याहृतिमृग्भ्यो जग्राह / भुवरिति व्याहृतिं यजुर्भ्यः / स्वरिति व्याहृतिं सामभ्यः / अत एव लोकदेववेदरसा महाव्याहृतयाः / अतस्तत्तत्र यज्ञे यद्यृक्त ऋक्सम्बन्धादृङ्निमित्तं रिष्येद्यज्ञः क्षतं प्राप्नुयाद्भूः स्वाहेति गार्हपत्ये जुहुयात् / सा तत्र प्रायश्चित्तिः / कथम्, ॠचामेव तदिति क्रियाविशेषणं, रसेनर्चां वीर्येणौजसर्चां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं सन्दधाति प्रतिसन्धत्ते //३-४ //
SK
START Cह्Uप् ४,१७.५-६
SK
अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् | यजुषाम् एव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति || Cह्Uप्_४,१७.५ ||
SK
अथ यदि सामतो रिष्येत् स्वः स्वाहेत्य् आहवनीये जुहुयात् | साम्नाम् एव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति || Cह्Uप्_४,१७.६ ||
SK
Cह्Uप्Bह्_४,१७.५,६ अथ यदि यजुष्टो यजुर्निमित्तं रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् / तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये जुहुयात् / तथा पूर्ववद्यज्ञं सन्दधाति / ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु / तिसृभिर्व्याहृतिभिर्जुहुयात् / त्रय्या हि विद्यायाः स रेषः / ᳚अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया᳚इति श्रुतेः / न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे //५-६ //
SK
START Cह्Uप् ४,१७.७-८
SK
तद् यथा लवणेन सुवर्णं संदध्यात् | सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा || Cह्Uप्_४,१७.७ ||
SK
एवम् एषां लोकानाम् आसां देवतानाम् अस्यास् त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति | भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति || Cह्Uप्_४,१७.८ ||
SK
Cह्Uप्Bह्_४,१७.७,८ तद्यथा लवणेन सुवर्णं सन्दध्यात् / क्षारेण टङ्कणादिना खरे;मृदुत्वकरं हि तत् / सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् / रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोह लोहेन दारु दारु चर्मणा चर्मबन्धनेन / एवमेषां लोकानामासां देवतानामस्यास्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति / भेषजकृतो ह वा एष यज्ञः / रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेनैष यज्ञो भवति / को ऽसौ / यत्र यस्मिन्यज्ञ एवंविद्यथोक्तव्याहृतिहोमप्रायश्चित्तविद्ब्रह्मर्त्विग्भवति स यज्ञ इत्यर्थः //७-८ //
SK
START Cह्Uप् ४,१७.९
SK
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवति | एवंविदं ह वा एषा ब्रह्माणम् अनु गाथा | यतो यत आवर्तते तत् तद् गच्छति || Cह्Uप्_४,१७.९ ||
SK
Cह्Uप्Bह्_४,१७.९ किञ्चैष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति / उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः / यत्रैवंविद्ब्रह्मा भवत्येवंविदं ह वै ब्रह्माणमृत्विजं प्रत्येषानुगाथा ब्रह्मणः स्तुतिपरा / यतो यत आवर्तते कर्म प्रदेशादृत्विजां यज्ञः क्षतीभवंस्तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत्प्रायश्चित्तेन गच्छति परिपालयतीत्येतत्
SK
START Cह्Uप् ४,१७.१०
SK
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश् चर्त्विजो ऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्
SK
मानवः | ब्रह्मैवैक ऋत्विक् कुरून् अश्वाभिरक्षति | एवंविद् ध वै ब्रह्मा यज्ञं यजमानं सर्वांश् चर्त्विजो ऽभिरक्षति | तस्माद् एवंविदम् एव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् || Cह्Uप्_४,१७.१० ||
SK
Cह्Uप्Bह्_४,१७.१० मानवो भ्रह्मा मौनाचरणान्मननाद्वा ज्ञावनत्त्वात्ततो ब्रह्मैवैकर्त्विक्कुरून्कर्तॄन् / योद्धॄनारूढानश्वा वडवा यथाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजो ऽभिरक्षति तत्कृतदोषापनयनात् / यत एवंविशिष्टो ब्रह्मा विद्वांस्तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत नानेवंविदं कदाचनेति / द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः
SK
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तदशः खण्डः इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपर् इव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ च्छान्दोग्योपनिषद्विवरणे चतुर्थो ऽध्यायः
SK
अथ पञ्चमो ऽध्यायः
SK
START Cह्Uप् ५,१.१
SK
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति | प्राणो वाव ज्येष्ठश् च श्रेष्ठश् च || Cह्Uप्_५,१.१ ||
SK
Cह्Uप्Bह्_५,१.१ सगुण ब्रह्मविद्याया उत्तरा गतिरुक्ता / अथेदानीं पञ्चमे ऽध्याये पञ्चाग्निविदो गृहस्थस्योर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्यान्या दक्षिणदिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिर्वैराग्यहेतोर्वक्तव्येत्यारभ्यते / प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशो ऽतीते ग्रन्थे प्राणग्रहणं कृतम् / स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे?कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सयेदमनन्तरमारभ्यते-यो ह वै कश्चिज्ज्येष्ठं च प्रथमं वयसा वाव ज्येष्ठश्च वयसा वागादिभ्यः / गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्वं लब्धात्मिका भवति यया गर्भो विवर्धते चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति / श्रेष्ठत्वं तु प्रतिपादयिष्यति सुहय इत्यादिनिदर्शनेन / अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्चास्मिन्कार्यकरणसङ्घाते
SK
START Cह्Uप् ५,१.२
SK
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति | वाग् वाव वसिष्ठः || Cह्Uप्_५,१.२ ||
SK
Cह्Uप्Bह्_५,१.२ यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् / कस्तर्हि वसिष्ठ इत्याह / वाग्वाव वसिष्ठो वाग्मिनो हि पुरुषा वसन्त्यभिभवन्त्यन्यान्वसुमत्तमाश्चातो वाग्वसिष्ठः
SK
START Cह्Uप् ५,१.३
SK
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च | चक्षुर् वाव प्रतिष्ठा || Cह्Uप्_५,१.३ ||
SK
Cह्Uप्Bह्_५,१.३ यो ह वै प्रतिष्ठां वेद स चास्मिंल्लोके ऽमुष्मिंश्च परे प्रतितिष्ठति ह / का तर्हि प्रतिष्ठेत्याह-चक्षुर्वाव प्रतिष्ठा / चक्षुषा हि पश्यन्समे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा चक्षुः
SK
START Cह्Uप् ५,१.४
SK
यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश् च मानुषाश् च | श्रोत्रं वाव संपत् || Cह्Uप्_५,१.४ ||
SK
Cह्Uप्Bह्_५,१.४ यो ह वै सम्पदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह / का तर्हि सम्पदित्याह-श्रोत्रं वाव सम्पत् / यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसम्पदित्येवं कामसम्पद्धेतुत्वाच्छ्रोत्रं वाव संपत्
SK
START Cह्Uप् ५,१.५
SK
यो ह वा आयतनं वेदायतनं ह स्वानां भवति | मनो ह वा आयतनम् || Cह्Uप्_५,१.५ ||
SK
Cह्Uप्Bह्_५,१.५ यो ह वा आयतनं वेदाऽयतनं ह स्वानां भवत्याश्रयो भवतीत्यर्थः / किं तदायतनमित्याह-मनो ह वा आयतनम् / इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपामां मन आयतनमाश्रयः / अतो मनो ह वा आयतनमित्युक्तम्
SK
START Cह्Uप् ५,१.६
SK
अथ ह प्राणा अहंश्रेयसि व्यूदिरे | अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति || Cह्Uप्_५,१.६ ||
SK
Cह्Uप्Bह्_५,१.६ अथ ह प्राणा एवं यथोक्तगुणाः सन्तो ऽहंश्रेयस्यहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिर उक्तवन्तः
SK
START Cह्Uप् ५,१.७
SK
ते ह प्राणाः प्रजापतिं पितरम् एत्योचुः भगवन् को नः श्रेष्ठ इति | तान् होवाच | यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरम् इव दृश्येत स वः श्रेष्ठ इति || Cह्Uप्_५,१.७ ||
SK
Cह्Uप्Bह्_५,१.७ ते ह - तै हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्योचुरुक्तवन्तो हे भगवन्को नो ऽस्माकं मध्ये श्रेष्ठो ऽभ्यधिको गुणैरित्येवं पृष्टवन्तः / तान्पितोवाच ह यस्मिन्वो युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतो ऽपि, समुत्क्रान्तप्राणं ततो ऽपि पापिष्ठतरमिवातिशयेन दृष्यते कुणपमस्पृश्यमशुचि दृश्येत स वो युष्माकं श्रेष्ठ इत्यवोचत्काक्वा तद्दुःखं परिजिहीर्षुः
SK
START Cह्Uप् ५,१.८-११
SK
सा ह वाग् उच्चक्राम | सा संवत्सरं प्रोष्य पर्येत्योवाच | कथम् अशकतर्ते मज् जीवितुम् इति | यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति | प्रविवेश ह वाक् || Cह्Uप्_५,१.८ ||
SK
चक्षुर् होच्चक्राम | तत् संवत्सरं प्रोष्य पर्येत्योवाच | कथम् अशकतर्ते मज् जीवितुम् इति | यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति | प्रविवेश ह चक्षुः || Cह्Uप्_५,१.९ || श्रोत्रं होच्चक्राम | तत् संवत्सरं प्रोष्य पर्येत्योवाच कथम् अशकतर्ते मज् जीवितुम् इति | यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा ध्यायन्तो मनसैवम् इति | प्रविवेश ह श्रोत्रम् || Cह्Uप्_५,१.१० ||
SK
मनो होच्चक्राम | तत् संवत्सरं प्रोष्य पर्येत्योवाच | कथम् अशकतर्ते मज् जीवितुम् इति | यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति | प्रविवेश ह मनः || Cह्Uप्_५,१.११ ||
SK
Cह्Uप्Bह्_५,१.८,९,१०,११ तथोक्तेषु पित्रा प्राणेषु सा ह वागुच्चक्रामोत्क्रान्तवती / सा चोत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्येतरान्प्राणानुवाच कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ते होचुर्यथाकला इत्यादि / अकला मूका यथा लोके ऽवदन्तो वाचा जीवन्ति / कथम्?प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः / एवं वयमजीविष्मेत्यर्थः / आत्मनो ऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक्पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः / समानमन्यच्चक्षुर्हेच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि / यथा बाला अमनसो ऽप्ररूढमनस इत्यर्थः // ८-११ //
SK
START Cह्Uप् ५,१.१२
SK
अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्वीशशङ्कून् संखिदेद् एवम् इतरान् प्राणान् समखिदत् | तं हाभिसमेत्योचुः | भगवन्न् एधि | त्वं नः श्रेष्ठो ऽसि | मोत्क्रमीर् इति || Cह्Uप्_५,१.१२ ||
SK
Cह्Uप्Bह्_५,१.१२ एवं परीक्षितेषु वागादिष्वथानन्तरं ह स मुख्यः प्राण उच्चिक्रमिषन्नुत्क्रमितुमिच्छन्किमकरोदित्युच्यते / यथा लोके सुहयः शोभनो ऽश्वः पड्वीशशङ्कून्पादबन्धनकीलान्परीक्षणायाऽरूढेन कश्याहतः सन्सङ्खिदेत्समुत्खनेत् समुत्पाटयेत्, एवमितरान्वागादीन्प्राणान्समखिदत्समुद्धृतवान् / ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना अभिसमेत्य मुख्यं प्राणं तमूचुर्हें भगवन्नेधि भव नः स्वामी यस्मात्त्वं नो ऽस्माकं श्रेष्ठो ऽसि मा चास्माद्देहादुत्क्रमीरिति
SK
START Cह्Uप् ५,१.१३-१४
SK
अथ हैनं वाग् उवाच | यद् अहं वसिष्ठो ऽस्मि त्वं तद्वसिष्ठो ऽसीति | अथ हैनं चक्षुर् उवाच | यद् अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति || Cह्Uप्_५,१.१३ ||
SK
अथ हैनं श्रोत्रम् उवाच | यद् अहं संपद् अस्मि त्वं तत्संपद् असीति | अथ हैनं मन उवाच | यद् अहम् आयतनम् अस्मि त्वं तदायतनम् असीति || Cह्Uप्_५,१.१४ ||
SK
Cह्Uप्Bह्_५,१.१३,१४ अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येणाऽपादयन्त आहुर्बलिमिव हरन्तो राज्ञे विशः / कथं, वाक् तावदुवाच यदहं वसिष्ठो ऽस्मि / यदिति क्रियाविशेषणं यद्वसिष्ठत्वगुणास्मीत्यर्थः / त्वं तद्वसिष्ठस्तेन वसिष्ठत्वगुणो ऽज्ञानान्ममेति मयाभिमत इत्येतत् / तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु // १३-१४ //
SK
START Cह्Uप् ५,१.१५
SK
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते | प्राणा इत्य् एवाचक्षते | प्राणो ह्य् एवैतानि सर्वाणि भवति || Cह्Uप्_५,१.१५ ||
SK
Cह्Uप्Bह्_५,१.१५ श्रुतेरिदं वचो युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितं यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा / किं तर्हि?प्राणा इत्येवाऽचक्षते कथयन्ति यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवत्यतो मुख्यं प्रामं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति / ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तो ऽन्योन्यं स्पर्धेरन्निति / न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति / तथापगमो देहात्पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते / तत्राग्न्यादिचेतनावद्देवताधिष्ठितत्वाद्वागादीनां चेतनावत्त्वं तावत्सिद्धमागमतः. तार्किकसमयविरोध इति चेद्देह एकस्मिन्ननेकचेतनावत्त्वे / न / ईश्वरस्य निमित्तकारमत्वाभ्युपगमात् / ये तावदीश्वरमभ्युपगच्छन्ति तार्किकास्ते मन आदिकार्यकरमानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति रथादिवत् / न चास्माभिरग्न्याद्याश्चेतनावत्यो ऽपि देवता अध्यात्मं भोक्त्र्यो ऽभ्युपगम्यन्ते, किं तर्हि,कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्तेश्वरो ऽभ्युपगम्यते / स ह्यकरणः / ᳚हिरण्यगर्भं जनयामान पूर्वम्᳚इत्यादि च श्वेताश्वतरीयाः पठन्ति / भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः / वागादीनां चेह संवादः कल्पितो विदुषो ऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम् / यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति / तेनोक्ता एकैकश्येनादः कार्यं साधयितुमुद्यच्छत येनादः कार्यं साध्यते स वः श्रेष्ठ इत्युक्तास्तथैवोद्यच्छन्त आत्मनो ऽन्यस्य वा श्रेष्ठवां निर्धारयन्ति / ततेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः / कथं नाम विद्वान्वागादीनामेकैकस्याभावे ऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्यतेति / तथाच श्रुतिः कौषीतकिनाम् -᳚जीवति वागपेतो मूकान्हि पस्यामो जीवति चक्षुरपेतो ऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः᳚इत्याद्या
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,२.१
SK
स होवाच किं मे ऽन्नं भविष्यतीति | यत् किंचिद् इदम् आ श्वभ्य आ शकुनिभ्य इति होचुः | तद् वा एतद् अनस्यान्नम् | अनो ह वै नाम प्रत्यक्षम् | न ह वा एवंविदि किंचनानन्नं भवतीति || Cह्Uप्_५,२.१ ||
SK
Cह्Uप्Bह्_५,२.१ स होवाच मुख्यः प्राणः किं मे ऽन्नं भविष्यतीति / मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह-यदिदं लोके ऽन्नजातं प्रसिद्धमा श्वभिः सहाऽशकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति / प्राणस्य सर्वमन्नं प्राणो ऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाऽह-तद्वा एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते ऽनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः / सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थमन इति प्राणस्य प्रत्यक्षं नाम / प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात् / तथाच सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नामान इति सर्वान्नानामत्तुः साक्षादभिधानम् / न ह वा एवंविदि यथोक्तप्राणविदि प्राणो ऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिराद्यं सर्वैरनन्नमन्नाद्यं न भवति सर्वमेवंविद्यन्नं भवतीत्यर्थः /
SK
प्राणभूतत्वाद्विदुषः / ᳚प्राणाद्वा एष उदेति प्राणे ऽस्तमेति᳚इत्युपक्रम्य-᳚एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति᳚इति श्रुत्यन्तरात्
SK
START Cह्Uप् ५,२.२
SK
स होवाच किं मे वासो भविष्यतीति | आप इति होचुः | तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति | लम्भुको ह वासो भवति | अनग्नो ह भवति || Cह्Uप्_५,२.२ ||
SK
Cह्Uप्Bह्_५,२.२ स होवाच पुनः प्राणः / पूर्ववदेव कल्पना / किं मे वासो भविष्यतीत्याप इति होचुर्वागादयः / यस्मात्प्राणस्य वास आपस्तस्माद्वा एतदशिष्यन्तो भोक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति / किम् / अद्भिर्वासस्थानीयाभिः पुरस्ताद्भोजनात्पूर्वमुपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य लम्भुको सम्भनशीलो वासो ह भवति / वाससो लब्धैव भवतीत्यर्थः / अनग्नो ह भवति / वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेत्यनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् / भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातं तस्मिन्प्राणस्य वास इति दर्शनमात्रमिह विधीयते / अद्भिः परिदधतीति नाऽचमनान्तरम् / यथा लौकिकैः प्रामिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रं तद्वत्किं मे ऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् / यद्याचमनमपूर्वं तादर्थ्येन क्रियते तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् / तुल्ययोर्विज्ञानार्थयोः प्रस्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् / यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते न तथा वयमाचमनमुभयार्थं ब्रूमः / किं तर्हि प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः / तत्राऽचमनस्योभयार्थत्वप्रसङ्गदोषचोदनानुपपन्ना / वासोर्थ एवाऽचमने तद्दर्शनं स्यादिति चेत् / न / वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः आचमनस्य तदर्थत्वमन्यार्थत्वं चेति / प्रमाणाभावात्
SK
START Cह्Uप् ५,२.३
SK
तद् धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच | यद्य् अप्य् एनच् छुष्काय स्थाणवे ब्रूयाज् जायेरन्न् एवास्मिञ् छाखाः प्ररोहेयुः पलाशानीति || Cह्Uप्_५,२.३ ||
SK
Cह्Uप्Bह्_५,२.३ तदेतत्प्राणदर्शनं स्तूयते / कथम् / तद्धैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदो ऽपत्यं वैयाघ्रपद्यस्तस्मै गोश्रुत्याख्यायोक्त्वोवाचान्यदपि वक्ष्यमाणं वचः / किं तदुवाचेत्याह-यद्यपि शुष्काय स्थाणव एतद्दर्शनं ब्रूयात्प्राणविज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्रामि, किमु जीवते पुरुषाय ब्रूयादिति
SK
START Cह्Uप् ५,२.४
SK
अथ यदि महज् जिगमिषेत्, अमावास्यायाम् दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थम् दधिमधुनोर् उपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् || Cह्Uप्_५,२.४ ||
SK
Cह्Uप्Bह्_५,२.४ अथानन्तरं यदि महन्महत्त्वं जिगमिषेद्गन्तुमिच्छेन्महत्त्वं प्राप्तुं यदिकामयेतेत्यर्थः / तस्येदं कर्म विधीयते / महत्त्वे हि सति श्रीरुपनमते / श्रीमतो ह्यर्थप्राप्तं धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म न विषयोपभोगकामस्य / तस्यायं कालादिविधिरुच्यते-अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः / न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते / अतद्विकारत्वान्मन्थाख्यस्य कर्मणः / ᳚उपसद्व्रती᳚इति श्रुत्यन्तरात्पयोमात्रभक्षमं च शुद्धिकारमं तप उपादत्ते / पौर्णमास्यां रात्रौ कर्माऽरभते सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्याऽममेव पिष्टं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्योपमथ्याग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्य आज्यस्याऽवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे संपातमवनयेत्संस्रवमधः पातयेत्
SK
START Cह्Uप् ५,२.५
SK
वसिष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् | प्रतिष्ठायै स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् | संपदे स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् | आयतनाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् || Cह्Uप्_५,२.५ ||
SK
Cह्Uप्Bह्_५,२.५ समानमन्यत् / वसिष्ठाय प्रतिष्ठायै संपद आयतनाय स्वाहेति प्रत्येकं तथैव संपातमवनयेद्धुत्वा
SK
START Cह्Uप् ५,२.६
SK
अथ प्रतिसृप्याञ्जलौ मन्थम् आधाय जपति | अमो नामासि | अमा हि ते सर्वम् इदम् | स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः | स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं गमयतु | अहम् एवेदं सर्वम् असानीति || Cह्Uप्_५,२.६ ||
SK
Cह्Uप्Bह्_५,२.६ अथ प्रतिसृप्याग्नेरीषदपसृप्याञ्जलौ मन्थमाधाय जपतीमं मन्त्रम् / अमो नामास्यमा हि ते / अम इति प्राणस्य नाम / अन्नेन हि प्राणः प्राणिति देह इत्यतो मन्थद्रव्यं प्राणस्यान्नत्वात्प्राणत्वेन स्तूयते ऽमो नामासीति / कुतः / यतो ऽमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदमतः / स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च / अत एव च राजा दीप्तिमानधिपतिश्चाधिष्ठाय पालयिता सर्वस्य / समा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनो गमयत्वहमेवेदं सर्वं जगदसानि भवनि प्राणवत् / इतिशब्दो मन्त्रपरिसमाप्त्यर्थः
SK
START Cह्Uप् ५,२.७
SK
अथ खल्व् एतयर्चा पच्छ आचामति | तत् सवितुर् वृणीमह इत्य् आचामति | वयं देवस्य भोजनम् इत्य् आचामति | श्रेष्ठं सर्वधातमम् इत्य् आचामति | तुरं भगस्य धीमहीति सर्वं पिबति | निर्णिज्य कंसं चमसं वा पश्चाद् अग्नेः संविशति | चर्मणि वा स्थण्डिले वा वाचंयमो ऽप्रसाहः | स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् || Cह्Uप्_५,२.७ ||
SK
Cह्Uप्Bह्_५,२.७ अथानन्तरं खल्वेतया वक्ष्यमाणयर्चा पच्छः पादश आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति / तद्भोजनं सवितुः सर्वस्य प्रसवितुः / प्राणमादित्यं चैकीकृत्योच्यते / आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम् / येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः / देवस्य सवितुरिति पूर्वेण सम्बन्धः / श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतममतिशयेन विधातृतममिति वा / सर्वथा भोजनविशेषणम् / तुरं त्वरं तूर्णं शीघ्रमित्यतत् / भगस्य देवस्य सवितुः स्वरूपमिति शेषः / धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः / अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धोमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वौदुम्बरं पात्रम् / पीत्वाऽचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वाजिने स्थण्डिले केवलायां वा भूमौ / वाचंयमो वाग्यतः सन्नित्यर्थः / अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा तथा संयतचित्तः सन्नित्यर्थः / स एवंभूतो यदि स्रियं पश्येत्स्वप्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति
SK
START Cह्Uप् ५,२.८
SK
तद् एष श्लोकः | यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति | समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने || Cह्Uप्_५,२.८ ||
SK
Cह्Uप्Bह्_५,२.८ तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽपि भवति / यदा कर्मसु काम्येषु कामार्थेषु स्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति समृद्धिं तत्र जानीयीत् / कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः / तस्मिन्स्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः / द्विरुक्तिः कर्मसमाप्त्यर्था
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,३.१
SK
श्वेतकेतुर् हारुणेयः पञ्चालानां समितिम् एयाय | तं ह प्रवाहणो जैवलिर् उवाच | कुमारानु त्वा अशिषत् पितेति | अनु हि भगव इति || Cह्Uप्_५,३.१ ||
SK
Cह्Uप्Bह्_५,३.१ ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्या वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽरभ्यते-श्वेतकेतुनमितो ह, इत्यैतिह्यार्थः / अरुणस्यापत्यारुणिस्तस्यापत्यमारुणेयः पञ्चालानां समितिं सभामेयायाऽजगाम / तमागतवन्तं ह प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरुवाचोक्तवान् / हे कुमारानु त्वा त्वामशिषदन्वसिषत्पिता / किमनुशिष्टस्त्वं पित्रेत्यर्थः / इत्युक्तः स आहानु ह्यनुशिष्टो ऽस्मि भगव इति सूचयन्नाह
SK
START Cह्Uप् ५,३.२
SK
वेत्थ यद् इतो ऽधि प्रजाः प्रयन्तीति | न भगव इति | वेत्थ यथा पुनर् आवर्तन्त ३ इति | न भगव इति | वेत्थ पथोर् देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति | न भगव इति || Cह्Uप्_५,३.२ ||
SK
Cह्Uप्Bह्_५,३.२ तं होवाच यद्यनुशिष्टो ऽसि वेत्थ यदितो ऽस्माल्लोकादध्यूर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत्किं जानीष इत्यर्थः / न भगव इत्याहेतरो न जाने ऽहं तद्यत्पृच्छसि / एवं तर्हि वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति / न भगव इति प्रत्याह / वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः / न भगव इति
SK
START Cह्Uप् ५,३.३
SK
वेत्थ यथासौ लोको न संपूर्यत ३ इति | न भगव इति | वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति | नैव भगव इति || Cह्Uप्_५,३.३ ||
SK
Cह्Uप्Bह्_५,३.३ वेत्था यथासौ लोकः पितृसम्बन्धी यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भिरपि येन कारमेन न सम्पूर्यत इति / न भगव इति प्रत्याह / वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायामाहुतिनिर्वृत्ता आहुतिसाधनाश्चाऽपः पुरुषवचसः पुरुष इत्येवं वचो ऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः / इत्युक्तो नैव भगव इत्याह / नैवाहमत्र किञ्चन जानामीत्यर्थः
SK
START Cह्Uप् ५,३.४
SK
अथानु किम् अनु शिष्ठो ऽवोचथा यो हीमानि न विद्यात् | कथं सो ऽनुशिष्टो ब्रुवीतेति | स हायस्तः पितुर् अर्धम् एयाय | तं होवाचाननुशिष्य वाव किल मा भगवान् अब्रवीद् अनु त्वाशिषम् इति || Cह्Uप्_५,३.४ ||
SK
Cह्Uप्Bह्_५,३.४ अथैवमज्ञः सन्किमनु कस्मात्त्वमनुशिष्टो ऽस्मीत्यवोचथा उक्तवानसि / यो हीमानि मया पृष्टान्यर्थजातानि न विद्यान्न विजानीत्यात्कथं स विद्वत्स्वनुशिष्टो ऽस्मीति ब्रुवीत / इत्येवं स श्वेतकेतुः राज्ञाऽयस्त आयासितः सन्पितुरर्धं स्थानमेयायाऽगतवांस्तं च पितुरमुवाचाननुशिष्यानुशासनमकृत्वैव मा मां किल भगवान्समावर्तनकाले ऽब्रवीदुक्तवाननु त्वाशिषमन्वशिषं त्वामिति
SK
START Cह्Uप् ५,३.५-६
SK
पञ्च मा राजन्यबन्धुः प्रश्नान् अप्राक्षीत् | तेषां नैकंचनाशकं विवक्तुम् इति | स होवाच यथा मा त्वं तदैतान् अवदो यथाहम् एषां नैकंचन वेद | यद्य् अहम् इमान् अवेदिष्यं कथं ते नावक्ष्यम् इति || Cह्Uप्_५,३.५ ||
SK
स ह गौतमो राज्ञो ऽर्धम् एयाय | तस्मै ह प्राप्तायार्हां चकार | स ह प्रातः सभाग उदेयाय | तं होवाच | मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति | स होवाच | तवैव राजन् मानुषं वित्तम् | याम् एव कुमारस्यान्ते वाचम् अभाषथास् ताम् एव मे ब्रूहीति | स ह कृच्छ्री बभूव || Cह्Uप्_५,३.६ ||
SK
Cह्Uप्Bह्_५,३.५,६ यतः पञ्च पञ्चसंख्याकान्प्रश्नान्राजन्यबन्धू राजान्या बन्धवो ऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः / अप्राक्षीत्पृष्टवांस्तेषां प्रश्नानां नैकञ्चनैकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः / स होवाच पिता यथा मा मां वत्स त्वं तदाऽगतमात्र एवैतान्प्रश्नानवद उक्तवानसि तेषां नैकञ्चनाशकं विवक्तुमिति तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः / कथं, यथाहमेषां प्रश्नानामेकञ्चनैकमपि न वेद न जान इति यथा त्वमेवाङ्गैतान्प्रश्नान्न जानीषे तथाहमप्येतान्न जान इत्यर्थः / अतो मय्यन्यथाभावो न कर्तव्यः / कुत एतदेवं यतो न जाने यद्यहमिमान्प्रश्नानवेदिष्यं विदितवानस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मीत्युक्त्वा स ह गोत्रतो राज्ञो जैवलेरर्धं स्थानमेयाय गतवान् / तस्मै ह गौतमाय प्राप्तायार्हामर्हूणां चकार कृतवान् / स च गौतमः कृतातिथ्य उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञ्युदेयाय / भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानो ऽन्यैः स्वयं गौतम उदेयाय राजानमुद्गतवान् / तं होवाच गौतमं राजा मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेर्वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः / स होवाच गौतमस्तवैव तिष्ठतु राजन्मानुषं वित्तम् / यामेव कुमारस्य मम पुत्रस्यान्ते समीपे वाचं पञ्चप्रश्नलक्षणामभाषथा उक्तवानसि तामेव वाचं मे मह्यं ब्रूहि कथयेत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव / कथं त्विदमिति //५-६ //
SK
START Cह्Uप् ५,३.७
SK
तं ह चिरं वसेत्य् आज्ञापयां चकार | तं होवाच | यथा मा त्वं गौतमावदः | यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति | तस्माद् उ सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनम् अभूद् इति | तस्मै होवाच || Cह्Uप्_५,३.७ ||
SK
Cह्Uप्Bह्_५,३.७ स ह कृच्छ्रीभूतो ऽप्रत्याख्येयं ब्राह्मणं मन्वानो न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वसेत्येवमाज्ञापयाञ्चकाराऽज्ञप्तवान् / यत्पूर्वं प्रत्याख्यातवान्राजा विद्यां यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्ममं क्षमापयति हेतुवचनोक्त्या-तं होवाच राजा सर्वविद्यो ब्रह्मणो ऽपि सन्यथा येन प्रकारेण मा मां हे गौतमावदस्त्वं तामेव विद्यालक्षणां वाचं मे ब्रूहीत्यज्ञानात्तेन त्वं जानीहि / तत्रास्ति वक्तव्यं यथा येन प्रकारेणेयं विद्या प्राक्त्वत्तो ब्राह्मणान्न गच्छति न गतवती, न च ब्राह्मणा अनया विद्ययानुशासितवन्तः, तथैतत्प्रसिद्धं लोके यतस्तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेवानया विद्यया प्रशासनं प्रशास्तृत्वं शिष्यामामभूद्बभूव / क्षत्त्रियपरम्परयैवेयं विद्यतावन्तं कालमागता / तथाप्यहमेतां तुभ्यं वक्ष्यामि च्वत्सम्प्रदानादूर्ध्वं ब्राह्मणान्गमिष्यति / अतो मया यदुक्तं तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै होवाच विद्यां राजा
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,४.१
SK
असौ वाव लोको गौतमाग्निः | तस्यादित्य एव समित् | रश्मयो धूमः | अहर् अर्चिः | चन्द्रमा अङ्गाराः | नक्षत्राणि विस्फुलिङ्गाः || Cह्Uप्_५,४.१ ||
SK
Cह्Uप्Bह्_५,४.१ पञ्चम्यामाहुतावाप इत्ययं प्रश्नः प्राथम्येनापाक्रियते / तदपाकरणमन्वितरेषामपाकरणमनुकूलं भवेदिति / अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तो वाजसनेयके / तं प्रति प्रस्नाः-उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति / तेषां चापाकरणमुक्तं तत्रैव-᳚ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत इत्याद्येवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते / इमामाविश्य तर्पयित्वा पुरुषमाविशतः / ततः स्रियमाविश्य लोकं प्रत्युत्थाया भवति᳚इति / तत्राग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्ताम / इह तु तं कार्यारम्भमग्नि होत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्याग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्नाह-असौ वाव लोको गौतमाग्निरित्यादि / इह सायंप्रातरग्निहोत्राहुती हुते पय आदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोरधिकरणो ऽग्निरन्यच्च तत्सम्बन्धं समिदादीत्युच्यते / या चासावग्न्यादिभावनाऽहुत्योः सापि तथैव निर्दिश्यते / असौ वाव लोको ऽग्निर्हे गौतम यथाग्निहोत्राधिकरणमाहवनीय इह / तस्याग्नेर्घुलोकाख्यस्याऽदित्य एव समित्तेन हीद्धो ऽसौ लोको दीप्यते / अतः समिन्धनात्समिदादित्यः / रश्मयो धूमस्तदुत्थानात्, समिधो हि धूम उत्तिष्ठति / अहरर्चिः प्रकाशसामान्यात्, आदित्यकार्यत्वाच्च चन्द्रमा अङ्गाराः / अहःप्रशमे ऽभिव्यक्तेः / अर्चिषा हि प्रशमे ऽङ्गारा अभिव्यज्यन्ते / नक्षत्राणि विस्फुलिङ्गाश्चन्द्रमसो ऽवयवा इव विप्रकीर्णत्वसामान्यात्
SK
START Cह्Uप् ५,४.२
SK
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति | तस्या आहुतेः सोमो राजा संभवति || Cह्Uप्_५,४.२ ||
SK
Cह्Uप्Bह्_५,४.२ तस्मिन्नेतस्मिन्यथोक्तलक्षणे ऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् / श्रद्धामग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते / ᳚पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति᳚इत्यपां होम्यतया प्रश्ने श्रुतत्वात् / ᳚श्रद्धा वा आपः श्रद्धामेवाऽरभ्य प्रणीय प्रचरति᳚इति च विज्ञायते / तां श्रद्धामब्रूपां जुह्वाति / तस्या आहुतेः सोमो राजापां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा सम्भवति / यथर्ग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यश आदिकार्यं रोहितादिरूपलक्षणमारभन्त इत्युक्तं तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपो द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः / यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽकृष्टाः श्रद्धाप्समवायुनो द्युलोकमनुप्रविश्य भवन्ति / तदर्थं हि तैरग्निहोत्रं हुतम् / अत्र त्वाहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः / तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति विदुषां चोत्तरां विद्याकृताम्
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,५.१
SK
पर्जन्यो वाव गौतमाग्निः | तस्य वायुर् एव समित् | अभ्रं धूमः | विद्युद् अर्चिः | अशनिर् अङ्गाराः | ह्रादुनयो विस्फुलिङ्गाः || Cह्Uप्_५,५.१ ||
SK
Cह्Uप्Bह्_५,५.१ द्वितीयहोमपर्यायार्थमाह-पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः / तस्य वायुरेव समित् / वायुना हि पर्जन्यो ऽग्निः समिध्यते / पुरोवातादिप्राबल्ये वृष्टिदर्शनात् / अभ्रं धूमो धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् / विद्युदर्चिः / प्रकाशसामान्यात् / अशनिरङ्गाराः / काठिन्याद्विद्युत्सम्बन्धाद्वा / ह्रादुनयो विस्फुलिङ्गाः / ह्रादुनयो गर्जितशब्दाः / मेघानां विप्रकीर्णत्वसमान्यात्
SK
START Cह्Uप् ५,५.२
SK
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति | तस्या आहुतेर् वर्षं संभवति || Cह्Uप्_५,५.२ ||
SK
Cह्Uप्Bह्_५,५.२ तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति / तस्या आहुतेर्वर्षं सम्भवति / श्रद्धाख्या आपः सोमाकारणपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,६.१
SK
पृथिवी वाव गौतमाग्निः | तस्याः सम्वत्सर एव समित् | आकाशो धूमः | रात्रिर् अर्चिः | दिशो ऽङ्गाराः | अवान्तरदिशो विस्फुलिङ्गाः || Cह्Uप्_५,६.१ ||
SK
Cह्Uप्Bह्_५,६.१ पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् / तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् / संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति / आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते / यथाग्नेर्धूमः / रात्रिरर्चिः पृथिव्या ह्यप्रकाशात्मिकाया अनुरूपा रात्रिः / तमोरूपत्वात् / अग्नेरिवानुरूपमर्चिः / दिशो ऽङ्गारा उपशान्तत्वसामान्यात् / एवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसामान्यात्
SK
START Cह्Uप् ५,६.२
SK
तस्मिन्न् एतस्मिन्न् अग्नौ देवा वर्षं जुह्वति | तस्या आहुतेर् अन्नं संभवति || Cह्Uप्_५,६.२ ||
SK
Cह्Uप्Bह्_५,६.२ तस्मिन्नित्यादि समानम् / तस्या आहुतेरन्नं व्रीहियवादि सम्भवति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,७.१
SK
पुरुषो वाव गौतमाग्निः | तस्य वाग् एव समित् | प्राणो धूमः | जिह्वार्चिः | चक्षुर् अङ्गाराः | श्रोत्रं विस्फुलिङ्गाः || Cह्Uप्_५,७.१ ||
SK
Cह्Uप्Bह्_५,७.१ पुरुषो वाव गौतमाग्निः / तस्य वागेव समित् / वाचा हि मुखेन समिध्यते पुरुषो न मूकः / प्राणो धूमो धूम इव मुखान्निर्गमनात् / जिह्वार्चिर्लोहितत्वात् / चक्षुरङ्गारा भास आश्रयत्वात् / श्रोत्रं विस्फुलिङ्गाः / विप्रकीर्णत्वसाम्यात्
SK
START Cह्Uप् ५,७.२
SK
तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति | तस्या आहुतेर् रेतः सम्भवति || Cह्Uप्_५,७.२ ||
SK
Cह्Uप्Bह्_५,७.२ समानमन्यत् / अन्नं जुह्वति व्रीह्यादिसंस्कृतम् / तस्या आहुते रेतः सम्भवति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,८.१
SK
योषा वाव गौतमाग्निः | तस्या उपस्थ एव समित् | यद् उपमन्त्रयते स धूमः | योनिर् अर्चिः | यद् अन्तः करोति ते ऽङ्गाराः | अभिनन्दा विस्फुलिङ्गाः || Cह्Uप्_५,८.१ ||
SK
Cह्Uप्Bह्_५,८.१ योषा वाव गौतमाग्निः / तस्या उपस्थ एव समित् / तेन हि सा पुत्राद्युत्पादनाय समिध्यते / यदुपमन्त्रयते स धूमः / स्रीसम्भवादुपमन्त्रणस्य / योनिरर्चिर्लोहितत्वात् / यदन्तः करोति ते ऽङ्गारा अग्निसम्बन्धात् / अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात्
SK
START Cह्Uप् ५,८.२
SK
तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति | तस्या आहुतेर् गर्भः संभवति || Cह्Uप्_५,८.२ ||
SK
Cह्Uप्Bह्_५,८.२ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति / तस्या आहुतेर्गर्भः सम्भवतीति / एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेणाऽप एव गर्भीभूतास्ताः / तत्रापामाहुतिसमवायित्वात्प्राधान्यविवक्षाऽपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति / न त्वाप एव केवलाः सोमादिकार्यमारभन्ते / न चाऽपो ऽत्रिवृत्कृताः सन्तीति / त्रिवृत्कृतत्वे ऽपि विशेषसंज्ञालाभो दृष्टः पृथिवीयमिमा आपो ऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः / तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते / दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु / बहुद्रवं च शरीरं यद्यपि पार्थिवम् / तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,९.१
SK
इति तु पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति | स उल्बावृतो गर्भो दश वा नव वा मासान् अन्तः शयित्वा यावद् वाथ जायते || Cह्Uप्_५,९.१ ||
SK
Cह्Uप्Bह्_५,९.१ इति त्वेवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यात एकः प्रश्नः / यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्यो पृथिवीं पुरुषं स्रियं क्रमेणाऽविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयक उक्तं तत्प्रासङ्गिकमिहोच्यते / इह च प्रथमे प्रश्न उक्तं वेत्थ यदितो ऽधि प्रजाः प्रयन्तीति / तस्य चायमुपक्रमः / स गर्भो ऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानामुल्बावृत उल्बेन जरायुणाऽवृतो वेष्टितो दश वा नव वा मासानन्तर्मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वाथानन्तरं जायते / उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते / कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितरेतो ऽशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् / ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति / मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च
SK
START Cह्Uप् ५,९.२
SK
स जातो यावदायुषं जीवति | तं प्रेतं दिष्टम् इतो ऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति || Cह्Uप्_५,९.२ ||
SK
Cह्Uप्Bह्_५,९.२ स एवं जातो यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन्कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुस्तावज्जीवति / तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति यदि चेज्जीवन्वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितो ऽस्माद्ग्रामादग्नये ऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे /
SK
यत एवेत आगतो ऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्यो ऽग्निभ्यः संभूत उत्पन्नो भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१०.१-२
SK
तद् य इत्थं विदुः | ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते | ते ऽर्चिषम् अभिसंभवन्ति | अर्चिषो ऽहः | अह्न आपूर्यमाणपक्षम् | आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान् || Cह्Uप्_५,१०.१ || मासेभ्यः संवत्सरम् | संवत्सराद् आदित्यम् | आदित्याच् चन्द्रमसम् | चन्द्रमसो विद्युतम् | तत् पुरुषो ऽमानवः | स एनान् ब्रह्म गमयति | एष देवयानः पन्था इति || Cह्Uप्_५,१०.२ ||
SK
Cह्Uप्Bह्_५,१०.१,२ वेत्थ यदितो ऽधि प्रजाः प्रयन्तीत्ययं प्रश्नः प्रत्युपस्थितो ऽपाकर्तव्यतया / तत्तत्र लोकं प्रत्युत्थितानामधिकृतानां गृहमेधिनां य इत्थमेवं यथोक्तं पञ्चाग्निदर्शनं द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मान इत्येवं विदुर्जानीयुः / कथमवगम्यत इत्थं विदुरिति गृहस्था एवोच्यन्ते नान्य इति? गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपरास्ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति /
SK
ये चारण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धातप इत्युपासते तेषां चेत्थंविद्भिः सहार्चिरादिना गमनं वक्ष्यति पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्त इत्थं विदुरिति / ननु ब्रह्मचारिणो ऽप्यगृहीता ग्रामश्रुत्यारण्यश्रुत्या विद्यन्ते कथं पारिशेष्यसिद्धिः?नैष दोषः / पुराणस्मृतिप्रामाण्यादूर्ध्वरेतसां नैष्ठिकब्रह्मचारिणामुत्तरेणार्था इति न विशेषनिर्देशार्हाः / ननूर्ध्वरेतस्त्वं चेदुत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यत इत्थंवित्त्वमनर्थकं प्राप्तम् / न / गृहस्थान्प्रत्यर्थवत्त्वात् / ये गृहस्था अनित्थंविदस्तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धस्तेषां यं इत्थं विदुः सगुणं वान्यद्ब्रह्म विदुः / ᳚अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि नार्चिषमेव᳚इति लिङ्गादुत्तरेण ते गच्छन्ति / ननूर्ध्वरेतसां गृहस्थानां च समान आश्रमित्व ऊर्ध्वरेतसामेवोत्तरेण पथा गमनं न गृहस्थानामिति न युक्तमग्निहोत्रादिवैदिककर्मबाहुल्ये च सति / नैष दोषः / अपूता हि ते / शत्रुमित्रसंयोगनिमित्तं हि तेषां रागद्वेषौ / तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ / हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् / अतो ऽपूताः / अपूतत्वान्नोत्तरेण पथा गमनम् / हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हीतरे शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसस्तेषां युक्त उत्तरः पन्थाः / तथाच पौराणिकाः - ᳚ये प्रजामीषिरे ऽधीरास्ते श्मशानानि भेजिरे / ये प्रजां नेषिरे धीरास्ते ऽमृतत्वं हि भेजिरे᳚ / इत्याहुः / इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वे ऽमृतत्वफले च सत्यरण्यवासिनां विद्यानर्थक्यं प्राप्तम् / तथाच श्रुतिविरोधः / ᳚न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः᳚इति / ᳚स एनमविदितो न भुनक्ति᳚इति च विरुद्धम् / न / आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात् / तत्रैवोक्तं पौराणिकैः-आभूतसंप्तवं स्थानममृतत्वं हि भाष्यते इति / यच्चाऽत्यन्तिकममृतत्वं तदपेक्षया᳚न तत्र दक्षिणा यन्ति᳚ ᳚स एनमविदितो न भुनक्ती᳚-त्याद्याः श्रुतय इत्यतो न विरोधः / ᳚न च पुनरावर्तन्त᳚इति᳚मं मानवमावर्तं नाऽवर्तन्त᳚इत्यादिश्रुतिविरोध इति चेत् / न / इमं मानवमिति विशेषणात्तेषामिह न पुनरावृत्तिरस्तीति च / यदि ह्येकान्तेनैव नाऽवर्तेरन्निमं मानवमिहेति च विशेषणमनर्थकं स्यात् / इममिहेत्याकृतिमात्रमुच्यत इति चेत् / न / अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वादाकृतिकल्पनानर्थिका / अत इममिहेति च विशेषणार्थवत्त्वायान्यत्राऽवृत्तिः कल्पनीया / न च सदेकमेवाद्वितीयमित्येवंप्रत्ययवतां मूर्धन्यया नाड्यार्चिरादिमार्गेण गमनम् / ᳚ब्रह्मैव सन्ब्रह्माप्यति᳚ / ᳚तस्मात्तत्सर्वमभवत्᳚ / ᳚न तस्य प्राणा उत्क्रामन्ति / अत्रैव समवनीयन्ते᳚इत्यादिश्रुतिशतेभ्यः / ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् / न / अत्रैव समवनीयन्त इति विशेषणानर्थक्यात् / सर्वे प्राणा अनूत्क्रामन्तीति च प्राणैर्गमनस्य प्राप्तत्वात् / तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा / यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सहागमाश्ङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते तदाप्यत्रैव समवनीयन्त इति विशेषणमनर्थकं स्यात् / न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा / सर्वगतत्वात्सदात्मनो निरवयवत्वात्प्राणसम्बन्धमात्रमेव ह्यग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतस्तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुं श्रुतयश्चेत्प्रमाणम् / न सतो ऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन्गच्छतीति शक्यं कल्पयितुम् / तस्मात्᳚तयोर्ध्वमायन्नमृतत्वमेति᳚इति सगुणब्रह्मोपाकस्य प्राणैः सह नाड्या गमनं सापेक्षमेव चामृतत्वं न साक्षान्मोक्ष इति गम्यते / ᳚तदपराजिता पूस्तदैरं मदीयं सरः᳚इत्याद्युक्त्वा᳚तेषामेवैष ब्रह्मलोकः᳚इति विशेषमात् / अतः पञ्चाग्निविदो गृहस्था ये चेमे ऽरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्दधानास्तपस्विनश्चेत्यर्थः / उपासनशब्दस्तात्पर्यार्थः / इष्टापूर्ते दत्तमित्युपासत इति यद्वत् / श्रुत्यन्तराद्ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते ते सर्वे ऽर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते / समानमन्यच्चतुर्थगतिव्याख्यानेन / एष देवयानः पन्था व्याख्यातः सत्यलोकावसानो नाण्डाद्बहिः / ᳚यदन्तरा पितरं मातरं च᳚इति मन्त्रवर्णात् //१-२ //
SK
START Cह्Uप् ५,१०.३
SK
अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते | ते धूमम् अभिसंभवन्ति | धूमाद् रात्रिम् | रात्रेर् अपरपक्षम् | अपरपक्षाद् यान् षड् दक्षिणैति मासांस् तान् | नैते संवत्सरम् अभिप्राप्नुवन्ति || Cह्Uप्_५,१०.३ ||
SK
Cह्Uप्Bह्_५,१०.३ अथेत्यर्थान्तरप्रस्तावनार्थो य इमे गृहस्था ग्रामे / ग्राम इति गृहस्थानामसाधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् / यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत् / इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म पूर्तं वापीकूपतडागारामादिकरणम् / दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम् / इत्येवंविधं परिचरणपरित्राणाद्युपासते / इतिशब्दस्य प्रकारदर्शनार्थत्वात् / ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते / तयातिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेदेवतां रात्रेरपरपक्षदेवतामेव कृष्णपक्षाभिमानिनीमपरपक्षाद्यान्षण्मासान्दक्षिणा दक्षिणां दशमेति सविता / तान्मासान्दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः / सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु नैते कर्मिणः प्रकृताः संवत्सरं संवत्सरस्य ह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्यो ऽवयविनः संवत्सरस्य प्राप्तिरुक्ता / अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्रप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्रप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति
SK
START Cह्Uप् ५,१०.४
SK
मासेभ्यः पितृलोकम् | पितृलोकाद् आकाशम् | आकासाच् चन्द्रमसम् | एष सोमो राजा | तद् देवानाम् अन्नम् | तं देवा भक्षयन्ति || Cह्Uप्_५,१०.४ ||
SK
Cह्Uप्Bह्_५,१०.४ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् / को ऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यते ऽन्तरिक्षे सोमो राजा ब्राह्मणानां, तदन्नं देवानां तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति / अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते / नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् / नैष दोषः / अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् / न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते / किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते स्त्रीपशुभृत्यादिवत् / दृष्टश्चान्नशब्द उपकरणेषु᳚स्त्रियो ऽन्नं पशवो ऽन्नं विशां विशो ऽन्नं राज्ञाम्᳚ इत्यादि / न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वे ऽप्युपभोगो नास्ति / तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति / शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डल आप्यमारभ्यते / तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति / ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति / अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सहोर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति / तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते
SK
START Cह्Uप् ५,१०.५
SK
तस्मिन् यवात्संपातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते | आकाशम् | आकाशाद् वायुम् | वायुर् भूत्वा धूमो भवति | धूमो भूत्वाभ्रं भवति || Cह्Uप्_५,१०.५ ||
SK
Cह्Uप्Bह्_५,१०.५ यावत्तदुपभोगनिमित्तस्य कर्मणः क्षयः सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः / तावत्तस्मिंश्चन्द्रमण्डल उषित्वाथानन्तरमेतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्त्नते / पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्चाऽसन्निति गम्यते / तस्मादिह लोक इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति / तत्क्षये चाऽवर्तन्ते / क्षणमात्रमपि तत्र स्थातुं न लभ्यते / स्थितिनिमित्तकर्मक्षयात् / स्नेहक्षयादिव प्रदीपस्य / तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति / किं ततः / यदि सर्वस्यैव क्षयः कर्मणश्चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति / तिष्ठतु तावत्तत्रैव मोक्षः स्यान्न वेति / तत आगतस्येह शरीरोपभोगादि न सम्भवति / ᳚ततः शेषेणे᳚त्यादिस्मृतिविरोधश्च स्यात् / नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति / न च तेषां चन्द्रमण्डल उपभोगः / अतो ऽक्षीणानि तानि / यन्निमितं चन्द्रमण्डलमारूढस्तान्येव क्षीणानीत्यविरोधः / शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः / अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः / विरुद्धानेकयोन्युपभोगफलानां च कर्मणामेकैकस्य जन्तोरारम्भकत्वसम्भवात् / न चैकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते / ब्रह्महत्यादेश्चैकैकस्य कर्मणो ऽनेकजन्मारम्भकत्वस्मरणात् / स्थावरादिप्राप्तानां चात्यन्तमूढानामुत्कर्मषहेतोः कर्मण आरम्भकत्वासम्भवात् / गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः / तस्मान्नैकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः / यत्तु कैश्चिदुच्यते सर्वकर्मश्रियोपमर्देन प्रायणे कर्मणां जन्मारम्भकत्वम् / तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्माऽरभन्त इति नोपपद्यते / मरणस्य सर्वकर्माभिव्यञ्जकत्वात्स्वगोचराभिव्यञ्जकप्रदीपवदिति / तदसत् / सर्वस्य सर्वात्मकत्वाभ्युपगमात् / न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते / तथा कर्मणामपि साश्रयाणां भवेत् / यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृता विरुद्धानेकवासना मर्कटत्वप्रापकेन कर्मणा मर्कटजन्माऽरभमाणेन नोपमृद्यन्ते तथा कर्माण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम् / यदि हि सर्वाः पूर्वजन्मानुभववासना उपमृद्येरन्मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति / इह जन्मन्यनभ्यस्तत्वात् / न चातीतानन्तरजन्मनि मर्कटत्वमेवाऽसीत्तस्येति शक्यं वक्तुम् / ᳚तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च᳚इति श्रुतेः / तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः / यत एवं तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः / को ऽसावध्वा यं प्रति निवर्तन्त इत्युच्यते / यथेतं यथागतं निवर्तन्ते / ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तो न तथा निवृत्तिः / किं तर्ह्यकाशाद्वायुमित्यादि, कथं यथेतमित्युच्यते / नैष दोषः / आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च न चात्र यथेतमेवेति नियमो ऽनेवंविधमपि निवर्तन्ते पुनर्निवर्तन्ते इति तु नियमः / अत उपलक्षणार्थमेतद्यथेतमिति / अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते / यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसंस्तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते / घृतसंस्थानमिवाग्निसंयोगे / ता विलीना अन्तरिक्षस्था आकाशभूता इव सूक्ष्मा भवन्ति ता अन्तरिक्षाद्वायुर्भवन्ति / वायुप्रतिष्ठा वायुभूता इतश्चामुतश्चोह्यमानास्ताभिः सह क्षीणकर्मा वायुभूतो भवति / वायुर्भूत्वा ताभिः सहैव धूमो भवति / धूमो भूत्वाभ्रमब्भरणमात्ररूपो भवति
SK
START Cह्Uप् ५,१०.६
SK
अभ्रं भूत्वा मेघो भवति | मेघो भूत्वा प्रवर्षति | त इह व्रीहियवा ओषधिवनस्पतयस् तिलमासा इति जायन्ते ऽतो वै खलु दुर्निष्प्रपतरम् | यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति || Cह्Uप्_५,१०.६ ||
SK
Cह्Uप्Bह्_५,१०.६ अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति मेघो भूत्वोन्नतेषु प्रदेशेष्वथ प्रवर्षति / वर्षधारारूपेण शेषकर्मा पततीत्यर्थः / त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते / क्षीणकर्मणामनेकत्वाद्बहुवचननिर्देशः / मेघादिषु पूर्वेष्वेकरूपत्वादेकवचननिर्देशः / यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसन्निवेशसहस्राणि वर्षधाराभिः पतितानाम् / अतस्तस्माद्धेतोर्वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् / यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकारादिभिर्भक्ष्यन्ते / ते ऽप्यन्येन / तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातटे वागम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालम-गादिपीता भक्षिताश्चान्यैः / ते ऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन् / कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् / भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव बहुत्वात्स्थावराणामित्यतो दुर्निष्क्रमणत्वम् / अथवातो ऽस्माद्व्रीहियवादिभावाद्दुर्निष्प्रपतरं दुर्निर्गमतरम् / दुर्निष्प्रपतरमिति तकार एको लुप्तो द्रष्टव्यः / व्रीहियवादिभावो दुर्निष्प्रपतस्तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः / यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते / अनेकत्वादन्नादानाम् / कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः / कथम् / यो यो ह्यन्नमत्त्यनुशयिभिः संश्लिष्टं रेतः सिञ्चत्यृतुकाले योषिति तद्भूय एव तदाकृतिरेव भवति / तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भशये ऽन्तः प्रविष्टो ऽनुशयी / रेतसो रेतःसिगाकृतिभावितत्वात् / ᳚सर्वेभ्यो ऽङ्गेभ्यस्तेजः संभूतम्᳚इति हि श्रुत्यन्तरात् / अतो रेतःसिगाकृतिरेव भवतीत्यर्थः / तथा हि / पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिस्तस्माद्युक्तं तद्भूय एव भवतीति / ये त्वन्ये ऽनुशयिभ्यश्चन्द्रमण्डलमनारुह्येहैव पापकर्मभिर्घोरैव्रीहियवादिभावं प्रतिपद्यन्ते पुनर्मनुष्यादिभावं तेषां नानुशयिनामिव दुर्निष्प्रतरम् / कस्मात् / कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना एव᳚सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति᳚इति श्रुत्यन्तरात् / यद्यप्युसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तथापि स्वप्नवद्देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति / श्रुतिप्रामाण्यात् / तथार्चिरादिना धूमादिना च गमनं स्वप्त इवोद्भूतविज्ञानेन / लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य / न तथानुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतः-सिग्योषिद्देहसम्बन्ध उपपद्यते / न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति / ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वाज्जलूकावत्सविज्ञानतैव युक्ता / तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म / तथा च सत्यनर्थायैवेष्टापूर्ताद्युपासनं विहितं स्यात् / श्रुतेश्चाप्रामाण्यं प्राप्तं वैदिकानां कर्मणामनर्थानुबन्धित्वात् / न, वृक्षारोहणपतनवद्विशेषसम्भवात् / देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वाकर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् / वृक्षाग्रमारोहत इव फलं जिघृक्षोः / तथार्चिरादिना गच्छतां सविज्ञानत्वं भवेत् / धूमादिना च चन्द्रमण्डलमारुरुक्षताम् / न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् / यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा तथा चन्द्रमण्डलान्मानुषादिदेहान्तरं प्रत्यवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयान्मृदिताब्देहानां प्रतिबद्धकरणानाम् / अतस्ते ऽपरित्यक्तदेहबीजभूताभिरद्भिर्मूर्छिता इवाऽकाशादिक्रमेणेमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतयानुद्भूतविज्ञाना एव / तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव / देहान्तरारम्भकस्य कर्मणो ऽलब्धवृत्तित्वात् / देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावच्चेतनावत्त्वं न विरुध्यते / अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः / न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् / हिंसायाः शास्त्रचोदितत्वात् / ᳚अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः᳚इति श्रुतेः शास्त्रचोदिताया हिंसाया नाधर्महेतुत्वमभ्युपगम्यते / अभ्युपगते ऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत्तदपनयोपपत्तेर्न दुःखकार्यारम्भकत्वोपपत्तिर्वैदिकानां कर्मणां मन्त्रेणेव विषभक्षणस्येति
SK
START Cह्Uप् ५,१०.७
SK
तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा | अथ य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्वयोनिम् वा सूकरयोनिं वा चण्डालयोनिं वा || Cह्Uप्_५,१०.७ ||
SK
Cह्Uप्Bह्_५,१०.७ तत्तत्र तेष्वनुशयिनां य इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणाः रमणीयचरणेनोपलक्षितः शोभनो ऽनुशयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते / क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः / तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेणाभ्याशो ह क्षिप्रमेव / यदिति क्रियाविशेषणं ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन्प्राप्नुयुर्ब्राह्मणयोनिं वा क्षत्त्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण / अथ पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणो ऽशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन्कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा स्वकर्मानुरूपेणैव / ये तु रमणीयचरणा द्विजातयस्ते स्वकर्मस्थाश्चेदिष्टादिकारिणस्ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनर्घटीयन्त्रवत् / विद्यां चेत्प्राप्नुयुस्तदार्चिरादिना गच्छन्ति
SK
START Cह्Uप् ५,१०.८
SK
अथैतयोः पथोर् न कतरेणचन तानीमानि क्षुद्राण्य् असकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति | एतत् तृतीयं स्थानम् | तेनासौ लोको न संपूर्यते | तस्माज् जुगुप्सेत | तद् एष श्लोकः || Cह्Uप्_५,१०.८ ||
SK
Cह्Uप्Bह्_५,१०.८ यदा तु न विद्यासेविनो नापीष्टादिकर्म सेवन्ते तदाथैतयोः पथोर्यथोक्तयोरर्चिर्धूमादिलक्षणयोर्न कतरेणान्यतरेणचनापि यन्ति तानीमानि भूतानि क्षूद्राणि दंशमसककीटादीन्यसकृदावर्तीनि भवन्ति / अत उभयमार्गपरिभ्रष्टा ह्यसकृज्जायन्ते म्रियन्ते चेत्यर्थः / तेषां जननमरणसन्ततेरनुकरणमिदमुच्यते / जायस्व म्रियस्वेतीश्वरनिमित्तचेष्टोच्यते / जननमरणलक्षणेनैव कालयापना भवति / न तु क्रियासु भोगेषु वा कालो ऽस्तीत्यर्थः / एतत्क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् / येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्त्यनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति / तेनासौ लोको न संपूर्यते / पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः / प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतो दक्षिणोत्तरयोः पथोर्व्यावर्तनापि मृतानामग्नौ प्रक्षेपः समानस्ततो व्यावर्तनान्ये ऽर्चिरादिना यन्त्यन्ये धूमादिना / पुनरुत्तरदक्षिणायने षण्मासान्प्रप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते / अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकमिति व्याख्याता / पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेणोक्ता / अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम्-तेनासौ लोको न संपूर्यत इति / यस्मादेवं कष्टा संसारगतिस्तस्माज्जुगुप्सेत / यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः सागर इवागाधे ऽप्लवे निराशाश्चोत्तरणं प्रति तस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घृणी भवेन्मा भूदेवंविधे संसारमहोदधौ घोरे पात इति / तदेतस्मिन्नर्थ एष श्लोकः पञ्चाग्निविद्यास्तुततये
SK
START Cह्Uप् ५,१०.९
SK
स्तेनो हिरण्यस्य सुरां पिबंश् च | गुरोस् तल्पम् आवसन् ब्रह्महा च | एते पतन्ति चत्वारः पञ्चमश् चाचरंस् तैर् इति || Cह्Uप्_५,१०.९ ||
SK
Cह्Uप्Bह्_५,१०.९ स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता / सुरां पिबन्ब्राह्मणः सन् / गुरोश्च तल्पं दारानावसन् / ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः / पञ्चमश्च तैः सहाऽचरन्निति
SK
START Cह्Uप् ५,१०.१०
SK
अथ ह य एतान् एवं पञ्चाग्नीन् वेद न सह तैर् अप्य् आचरन् पाप्मना लिप्यते | शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद || Cह्Uप्_५,१०.१० ||
SK
Cह्Uप्Bह्_५,१०.१० अथ ह पुनर्यो यथोक्तान्पञ्चाग्नीन्वेद स तैरप्याचरन्महापातकिभिः सह न पाप्मना लिप्यते शुद्ध एव / तेन पञ्चाग्निदर्शनेन पावितो यस्मात्पूतः पुण्यो लोकः प्राजापत्यादिर्यस्य सो ऽयं पुण्यलोको भवति य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद / द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,११.१
SK
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिर् इन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस् ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः | को न आत्मा किं ब्रह्मेति || Cह्Uप्_५,११.१ ||
SK
Cह्Uप्Bह्_५,११.१ दक्षिणेन पथा गच्छतामन्नभाव उत्कस्तद्देवानामन्नं तं देवा भक्षयन्तीति / क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता / तदुभयदोषपरिजिर्हीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते / अत्स्यन्नं पश्यसि प्रियमित्यादिलिङ्गात् / आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायाप्रदर्शनार्था च-प्राचीनशाल इति नामत उपमन्योरपत्यमौपमन्यवः / सत्ययज्ञो नामतः पुलुषस्यापत्यं पौलुषिः / तथेन्द्रद्युम्नो नामतो भल्लवेरपत्यं भाल्लविस्तस्यापत्यं भाल्लवेयः / जन इति नामतः शर्कराक्षस्यापत्यं शार्कराक्ष्यः / बुडिलो नामतो ऽश्वतराश्वस्यापत्यमाश्वतराश्विः / पञ्चापि ते हैते महाशाला महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः / महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः / त एवंभूताः सन्तः समेत्य संभूय क्वचिन्मीमांसा विचारणां चक्रुः कृतवन्त इत्यर्थः / कथम् / को नो ऽस्माकमात्मा किं ब्रह्मेत्यात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् / ब्रह्मेत्यध्यात्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चाऽत्मव्यतिरिक्तस्याऽदित्यादिब्रह्मण उपास्यत्वं निवर्तयति / अभेदेनाऽत्मैव ब्रह्म ब्रह्मैवाऽत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति / मूर्धा ते व्यपतिष्यदन्धो ऽभविष्यदित्यादिलिङ्गात्
SK
START Cह्Uप् ५,११.२
SK
ते ह संपादयां चक्रुः | उद्दालको वै भगवन्तो ऽयम् आरुणिः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति | तं हन्ताभ्यागच्छामेति | तं हाभ्याजग्मुः || Cह्Uप्_५,११.२ ||
SK
Cह्Uप्Bह्_५,११.२ ते ह मीमांसन्तो ऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् / उद्दालको वै प्रसिद्धो नामतो भगवन्तः पूजावन्तो ऽयमारुणिररुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरमस्मदभिप्रेतमध्येति / तं हन्तेदानीमभ्यागच्छामेत्येवं निश्चित्यं तं हाभ्याजग्मुर्गतवन्तस्तमारुणिम्
SK
START Cह्Uप् ५,११.३
SK
स ह संपादयां चकार | प्रक्ष्यन्ति माम् इमे महाशाला महाश्रोत्रियाः | तेभ्यो न सर्वम् इव प्रतिपत्स्ये | हन्ताहम् अन्यम् अभ्यनुशासानीति || Cह्Uप्_५,११.३ ||
SK
Cह्Uप्Bह्_५,११.३ स ह तान्दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार / कथम् / प्रक्ष्यन्ति मां वैश्वानरमिमे महाशाला महाश्रोत्रियास्तेभ्यो ऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे / अतो हन्ताहमिदानीमन्यमेषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति
SK
START Cह्Uप् ५,११.४
SK
तान् होवाच | अश्वपतिर् वै भगवन्तो ऽयं कैकेयः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति | तं हन्ताभ्यागच्छामेति | तं हाभ्याजग्मुः || Cह्Uप्_५,११.४ ||
SK
Cह्Uप्Bह्_५,११.४ एवं सम्पाद्य तान्होवाच / अश्वपतिर्वै नामतो भगवन्तो ऽयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम्
SK
START Cह्Uप् ५,११.५-७ तेभ्यो ह प्राप्तेभ्यः पृथग् अर्हाणि कारयां चकार | स ह प्रातः संजिहान उवाच | न मे स्तेनो जनपदे न कदर्यो न मद्यपः | नानाहिताग्निर् नाविद्वान् न स्वैरी स्वैरिणी कुतः | यक्ष्यमाणो वै भगवन्तो ऽहम् अस्मि | यावद् एकैकस्मा ऋत्विजे धनं दास्यामि तावद् भगवद्भ्यो दास्यामि | वसन्तु भगवन्त इति || Cह्Uप्_५,११.५ ||
SK
ते होचुः | येन हैवार्थेन पुरुषश् चरेत् तं हैव वदेत् | आत्मानम् एवेमं वैश्वानरं संप्रत्य् अध्येषि | तम् एव नो ब्रूहीति || Cह्Uप्_५,११.६ ||
SK
तान् होवाच | प्रातर् वः प्रतिवक्तास्मीति | ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे | तान् हानुपनीयैवैतद् उवाच || Cह्Uप्_५,११.७ ||
SK
Cह्Uप्Bह्_५,११.५,६,७ तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाण्यर्हणानि पुरोहितैर्भृत्यैश्च कारयाञ्चकार कारितवान् / स हान्येद्यू राजा प्रातः सञ्जिहान उवाच विनयेनोपगम्यैतद्धनं मत्त उपादद्ध्वमिति / तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रतिगृह्णन्ति मत्तो धनमिति मन्वान आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह / न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते / न कदर्यो ऽदाता सति विभवे / न मद्यपो द्विजोत्तमः सन् / नानाहिताग्निः शतगुः / नाविद्वानधिकारानुरूपम् / न स्वैरी परदारेषु गन्ता / अत एव स्वैरिणी कुतो दुष्टचारिणी न सम्भवतीत्यर्थः / तैश्च न वयं धनेनार्धिन इत्युक्त आह-अल्पं मत्वैते धनं न गृह्णन्तीति / यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तो ऽस्मि / तदर्थं कॢप्तं धनं मया यावदेकैकस्मै यथोक्तमृत्विजे धनं दास्यामि तावत्प्रत्येकं भगवद्भ्यो ऽपि दास्यामि / वसन्तु भगवन्तः पश्यन्तु च मम यागमित्युक्तास्ते होचुः / येन हैवार्थेन प्रयोजनेन यं प्रति चरेद्गच्छेत्पुरुषस्तं हैवार्थं वदेत् / इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम् / वयं वैश्वानरज्ञानार्थिनः / आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि / अतस्तमेव नो ऽस्मभ्यं ब्रूहीत्युक्तस्तान्होवाच / प्रातर्वो युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्तास्ते ह राज्ञो ऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ता अपरेद्युः पूर्वाह्ने राजानं प्रतिचक्रमिरे गतवन्तः / यत एवं महाशाला महाश्रोत्रिया ब्राह्मणाः सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः / तथान्यैर्विद्योपादित्सुभिर्भवितव्यम् / तेभ्यश्चादाद्विद्यामनुपनीयैवोपनयनमकृत्वैव तान् / यथा योग्येभ्यो विद्यामदात्तथान्येनापि विद्या दातव्येत्याख्यायिकार्थः / एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः //५-७ //
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१२.१
SK
औपमन्यव कं त्वम् आत्मानम् उपास्स इति | दिवम् एव भगवो राजन्न् इति होवाच | एष वै सुतेजा आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से | तस्मात् तव सुतं प्रसुतम् आसुतं कुले दृश्यते || Cह्Uप्_५,१२.१ ||
SK
Cह्Uप्Bह्_५,१२.१ स कथमुवाचेत्याह-औपमन्यव हे कमात्मानं वैश्वानरं त्वमुपाःस इति पप्रच्छ / नन्वयमपन्यायः आचार्यः सञ्शिष्यं पृच्छतीति / नैष दोषः / ᳚यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामी᳚ति न्यायदर्शनात् / अन्यत्राप्याचार्यस्य अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टो ऽजातशत्रोः᳚क्वैष तदाभूत्कुत एतदागाद्᳚ इति / दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन्निति होवाच / एष वै सुतेजाः शोभनं तेजो यस्य सो ऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्माऽत्मनो ऽवयवभूतत्वाद्यं त्वमात्मानमात्मैकदेशमुपाःसे तस्मात्सुतेजसो वैशेवानरस्योपासनात्तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतमासुतं चाहर्गणादिषु तव कुले दृश्यते ऽतीव कर्मिणस्त्वत्कुलीना इत्यर्थः
SK
START Cह्Uप् ५,१२.२
SK
अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियम् भवत्य् अस्य ब्रह्मवर्चसं कुले ये एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | मूधा त्व् एष आत्मन इति होवाच | मूर्धा ते व्यपतिष्यद् यन् मां नागमिष्य इति || Cह्Uप्_५,१२.२ ||
SK
Cह्Uप्Bह्_५,१२.२ अत्स्यन्नं दीप्ताग्निः सन्पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् / अन्यो ऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादिकर्मित्वं;ब्रह्मवर्चसं कुले यः कश्चिदेतं यथोक्तमेवं वैश्वानरमुपास्ते / मूर्धा त्वात्मनो वैश्वानरस्यैष न समस्तो वैश्वानरः / अतः समस्तबुद्ध्या वैश्वानरस्योपासनान्मूर्धा शिरस्ते विपरीतग्राहिमो व्यपतिष्यद्विपतितमभविष्यत् / यद्यदि मां नाऽगमिष्यो नाऽगतो ऽभविष्यः / साध्वकार्षीर्यन्मामागतो ऽसीत्यभिप्रायः
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१३.१
SK
अथ होवाच सत्ययज्ञं पौलुषिम् | प्राचीनयोग्य कं त्वम् आत्मानम् उपास्स इति | आदित्यम् एव भगवो राजन्न् इति होवाच | एष वै विश्वरूप आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्ते | तस्मात् तव बहु विश्वरूपं कुले दृश्यते || Cह्Uप्_५,१३.१ ||
SK
Cह्Uप्Bह्_५,१३.१ अथ होवाच सत्ययज्ञं पौलुषिं हे प्राचीनयोग्य कं त्वमात्मानमुपास्त इत्यादित्यमेव भगवो राजन्निति होवाच / शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य सर्वरूपत्वाद्वा / सर्वाणि रूपाणि हि त्वाष्ट्राणि यतो ऽतो वा विश्वरूप आदित्यस्तदुपासनात्तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले
SK
START Cह्Uप् ५,१३.२ प्रवृत्तो ऽश्वतरीरथो दासी निष्कः | अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | चक्षुष् ट्व् एतद् आत्मन इति होवाच | अन्धो ऽभविष्यो यन् मां नागमिष्य इति || Cह्Uप्_५,१३.२ ||
SK
Cह्Uप्Bह्_५,१३.२ किञ्च त्वामनु प्रवृत्तो ऽश्वतरीभ्यां युक्तो रथो ऽश्वतरीरथो दासीनिष्को दासीभिर्युक्तो निष्को हारो दासीनिष्कः / अत्स्यन्नमित्यादि समानम् / चक्षुर्वैश्वानरस्य तु सविता / तस्य समस्तबुद्ध्योपासनादन्धो ऽभविष्यश्चक्षुर्हीनो ऽभवि ष्यो यन्मां नाऽगमिष्य इति पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१४.१
SK
अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् | वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति | वायुम् एव भगवो राजन्न् इति होवाच | एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से | तस्मात् त्वां पृथग् बलय आयन्ति पृथग् रथश्रेणयो ऽनुयन्ति || Cह्Uप्_५,१४.१ ||
SK
Cह्Uप्Bह्_५,१४.१ अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपाःस इत्यादि समानम् / पृथग्वर्त्मा नाना वर्त्मानि यस्य वायोरावहोद्वहादिभिर्भेदैर्वर्तमानस्य सो ऽयं पृथग्वर्त्मा वायुः / तस्मात्पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात्पृथङ्नानादिक्कास्त्वां बलयो वस्रान्नादिलक्षणा बलय आयन्त्यागच्छन्ति / पृथग्रथश्रेणयो रथपङ्क्तयो ऽपि त्वामनुयन्ति
SK
START Cह्Uप् ५,१४.२
SK
अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | प्राणस् त्व् एष आत्मन इति होवाच | प्राणस् त उदक्रमिष्यद् यन् मां नागमिष्य इति || Cह्Uप्_५,१४.२ ||
SK
Cह्Uप्Bह्_५,१४.२ अत्स्यन्नमित्यादि समानम् / प्रणस्त्वेष आत्मन इति होवाच प्राणस्ते तवोदक्रमिष्यदुत्क्रान्तो ऽभविष्यद्यन्मां नाऽगमिष्य इति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्दशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१५.१
SK
अथ होवाच जनं शार्कराक्ष्यम् | शार्कराक्ष्य कं त्वम् आत्मानम् उपास्स इति | आकाशम् एव भगवो राजन्न् इति होवाच | एष वै बहुल आत्मा वैश्वानरो यं त्वम् आत्मानम् उपस्से | तस्मात् त्वं बहुलो ऽसि प्रजया च धनेन च || Cह्Uप्_५,१५.१ ||
SK
Cह्Uप्Bह्_५,१५.१ अथ होवाच जनमित्यादि समानम् / एष वै बहुल आत्मा वैश्वानरः / बहुलत्वमाकाशस्य सर्वगतत्वात् / बहुलगुणोपासनाच्च त्वं बहुलो ऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना
SK
START Cह्Uप् ५,१५.२ अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | संदेहस् त्व् एष आत्मन इति होवाच | संदेहस् ते व्यशीर्यद् यन् मां नागमिष्य इति || Cह्Uप्_५,१५.२ ||
SK
Cह्Uप्Bह्_५,१५.२ सन्देहस्त्वेष सन्देहो मध्यमं शरीरं वैश्वानरस्य / दिहेरुपचयार्थत्वान्मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्सन्देहस्ते तव शरीरं व्यशीर्यच्छीर्णमभविष्यद्यन्मां नाऽगमिष्य इति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१६.१
SK
अथ होवाच बुडिलम् आश्वतराश्विम् | वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति | अप एव भगवो राजन्न् इति होवाच | एष वै रयिर् आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से | तस्मात् त्वं रयिमान् पुष्टिमान् असि || Cह्Uप्_५,१६.१ ||
SK
Cह्Uप्Bह्_५,१६.१ अथ होवाच बुडिलमाश्वतराश्विमित्यादि समानम् / एष वै रयिरात्मा वैश्वानरो धनरूपः / अद्भ्यो ऽन्नं ततो धनमिति / तस्माद्रयिमान्धनवांस्त्वं पुष्टिमांश्च शरीरेण;पुष्टेश्चान्ननिमित्तत्वात्
SK
START Cह्Uप् ५,१६.२
SK
अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | बस्तिस् त्व् एष आत्मन इति होवाच | बस्तिस् ते व्यभेत्स्यद् यन् मां नागमिष्य इति || Cह्Uप्_५,१६.२ ||
SK
Cह्Uप्Bह्_५,१६.२ बस्तिस्त्वेष आत्मनो वैश्वानरस्य बस्तिर्मूत्रसंग्रहस्थानं बस्तिर्मूत्रसंग्रहस्थानं बस्तिस्ते व्यभेत्स्यद्भिन्नो ऽभविष्यद्यन्मां नाऽगमिष्य इति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षोडशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१७.१-२
SK
अथ होवाचोद्दालकम् आरुणिम् | गौतम कं त्वम् आत्मानम् उपस्स इति | पृथिवीम् एव भगवो राजन्न् इति होवाच | एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से | तस्मात् त्वं प्रतिष्ठितो ऽसि प्रजया च पशुभिश् च || Cह्Uप्_५,१७.१ ||
SK
अत्स्य् अन्नं पश्यसि प्रियम् | अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते | पादौ त्व् एताव् आत्मन इति होवाच | पादौ ते व्यम्लास्येतां यन् मां नागमिष्य इति || Cह्Uप्_५,१७.२ ||
SK
Cह्Uप्Bह्_५,१७.१,२ अथ होवाचोद्दालकमित्यादि समानम् / पृथिवीमेव भगवो राजन्निति होवाच / एष वै प्रतिष्ठा पादौ वैश्वानरस्य / पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां श्लथीभूतौ यन्मां नाऽगमिष्य इति //१-२ //
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तदशः खण्डः
SK
======================================================================= START Cह्Uप् ५,१८.१
SK
तान् होवाच | एते वै खलु यूयं पृथग् इवेमम् आत्मानं वैश्वानरं विद्वांसो ऽन्नम् अत्थ | यस् त्व् एतम् एवं प्रादेशमात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते | स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति || Cह्Uप्_५,१८.१ ||
SK
Cह्Uप्Bह्_५,१८.१ तान्यथोक्तवैश्वानरदर्शनवतो होवाच / एते यूयं वै खल्वित्यनर्थकौ / यूयं पृथगिवापृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसो ऽन्नमत्थ परिच्छिन्नात्मबुद्ध्येत्येतद्धस्तिदर्शन इव जात्यन्धाः / यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैर्द्युमूर्धादिभिः पृथिवीपादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्राम् / मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः / द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः / प्रकर्षेण शास्रेणाऽदिश्यन्त इति प्रादेशा द्युलोकादय एतावत्परिमाणः / शाखान्तरे तु मूर्धादिः चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति / इह तु न तथाभिप्रेतः / तस्य ह वा एतस्याऽत्मन इत्याद्युपसंहारात् / प्रत्यगात्मतयाभिविमीयते ऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरो विश्वो नर एव वा सर्वात्मत्वात् / विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरस्तमेवमुपास्ते यः सो ऽदन्नन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन्नन्नमत्ति / न यथाज्ञः पिण्डमात्राभिमानः सन्नित्यर्थः
SK
START Cह्Uप् ५,१८.२
SK
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिर् एव रयिः पृथिव्य् एव पादाव् उर एव वेदिर् लोमाणि बर्हिर् हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यम् आहवनीयः || Cह्Uप्_५,१८.२ ||
SK
Cह्Uप्Bह्_५,१८.२ कस्मादेवम् / यस्मात्तस्य ह वै प्रकृतस्यैवैतस्याऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽत्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ / अथवा विध्यर्थमेतद्वचनमेवमुपास्य इति / अथेदानीं वैश्वानरविदो भोजने ऽग्निहोत्रं संपिपादयिषन्नाह-एतस्य वैश्वानरस्य भोक्तुरुर एव वेदिराकारसामावन्यात् / लोमानि बर्हिर्वेद्यामिवोरसि लोमान्यास्तीर्णानि (न) दृश्यन्ते / हृदयं गार्हपत्यो हृदयाद्धि मनः प्रणीतमिवानन्तरी भवत्यतो ऽन्वाहार्यपचनो ऽग्निर्मनः / आस्यं मुखमाहवनीय इवाऽहवनीयो हूयते ऽस्मिन्नन्नमिति
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,१९.१
SK
तद् यद् भक्तं प्रथमम् आगच्छेत् तद् धोमीयम् | स यां प्रथमाम् आहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति | प्राणस् तृप्यति || Cह्Uप्_५,१९.१ ||
SK
Cह्Uप्Bह्_५,१९.१ तत्तत्रैवं सति यद्भक्तं भोजनकाल आगच्छेद्भोजनार्थं तद्धोतव्यम् / अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह / स भोक्ता यां प्रथमामाहुतिं जुहुयात्तां कथं जुहुतादित्याह-प्राणाय स्वाहेत्यनेन मन्त्रेणाऽहुतिशब्दादवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः / तेन प्राणस्तृप्यति
SK
START Cह्Uप् ५,१९.२
SK
प्राणे तृप्यति चक्षुस् तृप्यति | चक्षुषि तृप्यत्य् आदित्यस् तृप्यति | आदित्ये तृप्यति द्यौस् तृप्यति | दिवि तृप्यन्त्यां यत् किंच द्यौश् चादित्यश् चाधितिष्ठतस् तत् तृप्यति | तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति || Cह्Uप्_५,१९.२ ||
SK
Cह्Uप्Bह्_५,१९.२ प्राणे तृप्यति चक्षुरादित्यो द्यौश्चेत्यादि तृप्यति यच्चान्यद्द्यौश्चाऽदित्यश्च स्वामित्वेनाधितिष्ठतस्तच्च तृप्यति तस्य तृप्तिमनु स्वयं भुञ्जानस्तृप्यत्येवं प्रत्यक्षम् / किं च प्रजादिभिश्च / तेजः शरीरस्था दीप्तिरुज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकोनविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,२०.१
SK
अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति | व्यानस् तृप्यति || Cह्Uप्_५,२०.१ ||
SK
व्याने तृप्यति श्रोत्रं तृप्यति | श्रोत्रे तृप्यति चन्द्रमास् तृप्यति | चन्द्रमसि तृप्यति दिशस् तृप्यन्ति | दिक्षु तृप्यन्तीषु यत् किंच दिशश् चन्द्रमाश् चाधितिष्ठन्ति तत् तृप्यति | तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति || Cह्Uप्_५,२०.२ ||
SK
Cह्Uप्Bह्_५,२०.१,२ अथ यां द्वितीयां चतुर्थीं पञ्चमीमिति समानम् //१-२ //
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य विंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,२१.१-२
SK
अथ यां तृतीयां जुहुयात् तां जुहुयाद् अपानाय स्वाहेति | अपानस् तृप्यति || Cह्Uप्_५,२१.१ ||
SK
अपाने तृप्यति वाक् तृप्यति | वाचि तृप्यन्त्याम् अग्निस् तृप्यति | अग्नौ तृप्यति पृथिवी तृप्यति | पृथिव्यां तृप्यन्त्यां यत् किं च पृथिवी चाग्निश् चाधितिष्ठतस् तत् तृप्यति | तस्यानुतृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति || Cह्Uप्_५,२१.२ ||
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,२२.१-२
SK
अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति | समानस् तृप्यति || Cह्Uप्_५,२२.१ ||
SK
समाने तृप्यति मनस् तृप्यति | मनसि तृप्यति पर्जन्यस् तृप्यति | पर्जन्ये तृप्यति विद्युत् तृप्यति | विद्युति तृप्यन्त्यां यत् किं च विद्युच् च पर्जन्यश् चाधितिष्ठतस् तत् तृप्यति | तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति || Cह्Uप्_५,२२.२ ||
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वाविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ५,२३.१-२
SK
अथ याम् पञ्चमीं जुहुयात् तां जुहुयात् उदानाय स्वाहेति | उदानस् तृप्यति || Cह्Uप्_५,२३.१ ||
SK
उदाने तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस् तृप्यति | वायौ तृप्यत्य् आकाशस् तृप्यति | आकाशे तृप्यति यत् किंच वायुश् चाकाशश् चाधितिष्ठतस् तत् तृप्यति | तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति || Cह्Uप्_५,२३.२ ||
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोविंशः खण्डः
SK
START Cह्Uप् ५,२४.१
SK
स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् || Cह्Uप्_५,२४.१ ||
SK
Cह्Uप्Bह्_५,२४.१ स यः कश्चिदिदं वैश्वानरदर्शनं यथोक्तमविद्वान्सन्नग्निहोत्रं प्रसिद्धं जुहोति यथाङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात्तादृक्तत्तुल्यं तस्य तदग्निहोत्रहवनं स्याद्वैश्वानरविदो ऽग्निहोत्रमपेक्ष्येति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदो ऽग्निहोत्रं स्तूयते
SK
START Cह्Uप् ५,२४.२
SK
अथ य एतद् एवं विद्वान् अग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मसु हुतं भवति || Cह्Uप्_५,२४.२ ||
SK
Cह्Uप्Bह्_५,२४.२ अतश्चैतद्विशिष्टमग्निहोत्रम् / कथम् / अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम् / हुतमन्नमत्तीत्यनयोरेकार्थत्वात्
SK
START Cह्Uप् ५,२४.३
SK
तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतद् एवं विद्वान् अग्निहोत्रं जुहोति || Cह्Uप्_५,२४.३ ||
SK
Cह्Uप्Bह्_५,२४.३ किञ्च तद्यथेषीकायास्तूलमग्रमग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रमेवं हास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानो धर्माधर्माख्या अनेकजन्मसञ्चिता इह च प्राग्ज्ञानोत्पत्तेर्ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन्वर्तमानशरीरारम्भकपाप्मवर्जं, लक्ष्यं प्रति मुक्तेषुवत्प्रवृत्तफलत्वात्तस्य न दाहः / य एतदेवं विद्वानग्निहोत्रं जुहोति भुङ्क्ते
SK
START Cह्Uप् ५,२४.४
SK
तस्माद् उ हैवंविद् यद्य् अपि चण्डालाय उच्छिष्टं प्रयच्छेत् | आत्मनि हैवास्य तद् वैश्वानरे हुतं स्याद् इति | तद् एष श्लोकः || Cह्Uप्_५,२४.४ ||
SK
Cह्Uप्Bह्_५,२४.४ स यद्यपि चण्डालायोच्छिष्टानर्हायोच्छिष्टं प्रयच्छेदुच्छिष्टं दद्यात्प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यादात्मनि हैवास्य चण्डालहेहस्थे वैश्वानरे तद्धुतं स्यान्नाधर्मनिमित्तमिति विद्यामेव स्तौति / तदेतस्मिन्स्तुत्यर्थे श्लोको मन्त्रो ऽप्येष भवति
SK
START Cह्Uप् ५,२४.५
SK
यथेह क्षुधिता बाला मातरं पर्युपासते | एवं सर्वाणि भूतान्य् अग्निहोत्रम् उपासत || Cह्Uप्_५,२४.५ ||
SK
Cह्Uप्Bह्_५,२४.५ यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदा नो मातान्नं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदो ऽग्निहोत्रं भोजनमुपासते कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः / द्विरुक्तिरध्यायपरिसमाप्त्यर्था //५ // //
SK
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्विंशः खण्डः इति च्छान्दोग्योपनिषद्ब्राह्मणे पञ्चमोध्यायः समाप्तः
SK
अथ षष्ठोध्यायः
SK
START Cह्Uप् ६,१.१
SK
श्वेतकेतुर् हारुणेय आस | तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् | न वै सोम्यास्मत् कुलीनो ऽननूच्य ब्रह्मबन्धुर् इव भवतीति || Cह्Uप्_६,१.१ ||
SK
Cह्Uप्Bह्_६,१.१ श्वेतकेतुर्हाऽरुणेय आसेत्याद्यध्यायसम्बन्धः / सर्वं खल्विदं ब्रह्म तज्जलानित्युक्तं कथं तस्माज्जगदिदं जायते तस्मिन्नेव च लीयते ऽनिति च तेनैवेत्येतद्वक्तव्यम् / अनन्तरं चैकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तं तदेकत्वे सत्यात्मनः सर्वभूतस्थस्योपपद्यते नाऽत्मभेदे / कथं च तदेकत्वमिति तदर्थो ऽयं षष्ठो ऽध्याय आरभ्यते / पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था / श्वेतकेतुरिति नामतो हेत्यैतिह्यार्थः आरुणेयो ऽरुणस्य पौत्र आस बभूव / तं पुत्रं हाऽरुणिः पिता योग्यं विद्याभाजनं मन्वानस्तस्योपनयनकालात्ययं च पश्यन्नुवाच हे श्वेतकेतो ऽनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् / न चैतद्युक्तं यदस्मत्कुलीनो हे सोम्याननूच्यानधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति
SK
START Cह्Uप् ६,१.२
SK
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदान् अधीत्य महामना अनूचानमानी स्तब्ध एयाय | तं ह पितोवाच || Cह्Uप्_६,१.२ ||
SK
Cह्Uप्Bह्_६,१.२ तस्यातः प्रवासो ऽनुमीयते पितुः / येन स्वयं गुणवान्सन्पुत्रं नोपनेष्यति / स पित्रोक्तः श्वेतकेतुर्ह द्वादशवर्षः सन्नुपेत्याऽचार्यं यावच्चतुविंशतिवर्षो बभूव तावत्सर्वान्वेदांश्चतुरो ऽप्यधीत्य तदर्थं च बुद्ध्वा महामना महद्गम्भीरं मनो यस्यासममात्मानमन्यैर्मन्यमानं मनो यस्य सो ऽयं महामनाः अनूचानमान्यनूचानमात्मानं मन्यत इत्येवंशीलो यः सो ऽनूचानमानी स्तब्धो ऽप्रणतस्वभाव एयाय गृहम् / तमेवंभूतं हाऽत्मनो ऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया / श्वेतकेतो यन्निवदं महामना अनूचानमानी स्तब्धश्चासि कस्ते ऽतिशयः प्राप्त उपाध्यायात्?उतापि तमादेशमादिश्यत इत्यादेशः केवलशास्राचार्योपदेशगम्यमित्येतद्येन वा परं ब्रह्माऽदिश्यते स आदेशस्तमप्राक्ष्यः पृष्टवानस्याचार्यम्
SK
START Cह्Uप् ६,१.३
SK
श्वेतकेतो यन् नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽसि | उत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् इति | कथं नु भगवः स आदेशो भवतीति || Cह्Uप्_६,१.३ ||
SK
Cह्Uप्Bह्_६,१.३ तमादेशं विशिनष्टि-येनाऽदेशेन श्रुतेनाश्रुतमप्यन्यच्छतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञानं विज्ञातमनिश्चितं निश्चितं भवतीति / सर्वानपि वेदानधात्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातो ऽवगम्यते / तदेतदद्भुतं श्रुत्वाऽह-कथं न्वेतदप्रसिद्धमन्यविज्ञानेनान्यद्विज्ञातं भवतीत्येवं मन्वानः पृच्छति कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति
SK
START Cह्Uप् ६,१.४
SK
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् | वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् || Cह्Uप्_६,१.४ ||
SK
Cह्Uप्Bह्_६,१.४ यथा स आदेशो भवति तच्छृणु हे सोम्य / यथा लोक एकेन मृत्पिण्डेन घटशरावादिकारणभूतेन विज्ञातेन सर्वमन्यद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् / कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् / नैष दोषः / कारणेनानन्यत्वात्कार्यस्य / यन्मन्यसे ऽन्यस्मिन्विज्ञाते ऽन्यन्न ज्ञायत इति / सत्यमेवं स्यात् / यद्यन्यत्कारणात्कार्यं स्यान्न त्वेवमन्यत्कारणात्कार्यम् / कथं तर्हिदं लोक इदं कारणमयस्य विकार इति / शृणु / वाचाऽरम्भणं वागारम्भणं वागालम्बनमित्येतत् / को ऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेयप्रत्ययः / वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति परमार्थतो मृत्तिकेत्येव तु मृत्तिकेत्येव तु मृत्तिकैव सत्यं वस्त्वस्ति
SK
START Cह्Uप् ६,१.५
SK
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् | वाचारम्भणं विकारो नामधेयं लोहम् इत्य् एव सत्यम् || Cह्Uप्_६,१.५ ||
SK
Cह्Uप्Bह्_६,१.५ यथा सौम्यैकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् / वाचाऽरम्भणमित्यादि समानम्
SK
START Cह्Uप् ६,१.६-७
SK
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् | वाचारम्भणं विकारो नामधेयं कृष्णायसम् इत्य् एव सत्यम् | एवं सोम्य स आदेशो भवतीति || Cह्Uप्_६,१.६ ||
SK
न वै नूनं भगवन्तस् त एतद् अवेदिषुः | यद् ध्य् एतद् अवेदिष्यन् कथं मे नावक्ष्यन् | इति भगवांस् त्व् एव मे ब्रवीत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१.७ ||
SK
Cह्Uप्Bह्_६,१.६,७ यथा सौम्यैकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः / सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् / समानमन्यत् / अनेकदृष्टान्तोपादानं दार्ष्टान्तिकारेकभेदानुगमार्थं दृढप्रतीत्यर्थं च / एवं सोम्य स आदेशो यो मयोक्तो भवतीत्युक्तवति पितर्याहेतरो न वै नूनं भगवन्तः पूजावन्तो गुरवो मम ये त एतद्यद्भवदुक्तं वस्तु नावेदिषुर्न विज्ञातवन्तो नूनम् / यद्यदि ह्यवेदिष्यन् विदितवन्त एतद्वस्तु कथं मे गुणवते भक्तायानुगताय नावक्ष्यन्नोक्तवन्तस्तेनाहं मन्ये न विदितवन्त इति / अवाच्यमपि गुरोर्न्यग्भावमवादीत्पुनर्गुरुकुलं प्रति प्रेषणभयात् / अतो भगवांस्त्वेव मे मह्यं तद्वस्तु येन सर्वज्ञत्वं ज्ञातेन मे स्यात्तद्ब्रवीतु कथयत्वित्युक्तः पितोवाच तथास्तु सौम्येति //६-७ //
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,२.१
SK
सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् | तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयम् | तस्माद् असतः सज् जायत || Cह्Uप्_६,२.१ ||
SK
Cह्Uप्Bह्_६,२.१ सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः / एवशब्दो ऽवधारणार्थः / किं तदवध्रियत इत्याह / इदं जगन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवाऽसीदित्यासीच्छब्देन सम्बध्यते / कदा सदेवेदमासीदित्युच्ते / अग्रे जगतः प्रागुत्पत्तेः / किं नेदानीमिदं यद्येनाग्र आसीदिति विशेष्यते / न, कथं तर्हि विशेषणम् / इदानीमपीदं सदेव किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेतीदं च भवति / प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते / न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाल इव / यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति तथा प्रागुत्पत्तेरित्यभिप्रायः / यथेदमुच्यते लोके पूर्वाह्ने घटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतो ऽपराह्ने तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्ने आसीदिति तथेहाप्युच्यते सदेवेदमग्र आसीदिति / एकमेवेति / स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते / अद्वितीयमिति / मृद्व्यतिरेकेण मृदो यथान्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते ऽद्वितीयमिति / नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम् / ननु वेशेषिकपक्षे ऽपि सत्सामानाधिकरम्यं सर्वस्योपपद्यते / द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः / सद्द्रव्यं सन्गुणः सत्कर्मेत्यादिदर्शनात् / सत्यमेवं स्यादिदानीं प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवाऽसीदित्यभ्युपगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् / न चैकमेव सदद्वितीयं प्रगुत्पत्तेरिच्छन्ति / तस्माद्वैशेषिकपरिकल्पितात्सतो ऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः / तत्तत्र हैतस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपण एके वैनाशिका आहुर्वस्तु निरूपयन्तो ऽसत्सदभावमात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रे ऽद्वितीयमासीदिति / सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः / न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति / यथा सच्चासदिति गृह्यमामं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः / ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसम्बन्धः संख्यासम्बन्धो ऽद्वितीयत्वं चोच्यते तैः / बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् / असत्तवमात्राभ्युपगमो ऽप्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः / इदानीमभ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति चेत् / न / प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात् प्रागुत्पत्तेरसदेवेतिकल्पनानुपपत्तिः / ननु कथं वस्त्वाकृतेः शब्दार्थत्वे ऽसदेकमेवाद्वितीयमितिपदार्थवाक्यार्थोपपत्त् इः?तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतेति चेति / नैष दोषः / सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य / सदित्ययं तावच्छब्दः सदाकृतिवाचकः / एकमेवाद्वितीयमित्येतौ च सच्छब्देन समानाधिकरणौ / तथेदमासीदिति च / तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयत्यश्वारूढ इवाश्वालम्बनो ऽश्वं तदभिमुखविषयान्निवर्तयति तद्वत् / न तु पुनः सदभावमेवाभिधत्तेः / अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते / दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वादसदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः / तस्मादसतः सर्वाभावरूपात्सद्विद्यमानमजायत समुत्पन्नम् / अडभावश्छान्दसः
SK
START Cह्Uप् ६,२.२
SK
कुतस् तु खलु सोम्यैवं स्याद् इति होवाच | कथम् असतः सज् जायेत | सत् त्व् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् || Cह्Uप्_६,२.२ ||
SK
Cह्Uप्Bह्_६,२.२ तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति-कुतस्तु प्रमाणात्खलु हे सोम्यैवं स्यादसतः सज्जायतेत्येवं कुतो भवेन्न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः / यदपि बीजोपमर्दे ऽङ्कुरो जायमानो दृष्टो ऽभावदेवेति तदप्यभ्युपगमविरुद्धं तेषाम् / कथम् / ये तावद्बीजावयवा बीजसंस्थानविशिष्टास्ते ऽङ्कुरे ऽप्यनुवर्तन्त एव न तेषामुपमर्दे ऽङ्कुरजन्मनि / यत्पुनर्बीजाकारसंस्थानं तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमृद्येत / अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः / अथ संवृत्याभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत् / केयं संवृतिर्नाम किमसावभाव उत भाव?इति / यद्यभावो दृष्टान्ताभावः / अथ भावस्तथापि नाभावादङ्कुरोत्पत्तिर्बीजावयवेभ्यो ह्यङ्कुरोत्पत्तिः / अवयवा अप्युपमृद्यन्त इति चेत् / न / तदवयवेषु तुल्यत्वात् / यथा वैनाशिकानां बीजसंस्थानरूपो ऽवयवी नास्ति तथावयवा अपीति तेषामप्युपमर्दानुपपत्तिः / बीजावयवानामपि सूक्ष्मावयवास्तदवयवानामप्यन्ये सूक्ष्मतरावयवा इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः / सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति / न त्वसद्वादिनां दृष्टान्तो ऽस्त्यसतः सदुत्पत्तेः / मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां तद्भावे भावात्तदभावे चाभावात् / यद्यभावादेव घट उत्पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत / अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत / न त्वेतदस्त्यतो नासतः सदुत्पत्तिः / यदप्याहुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः / मृद्घटबुद्ध्योर्निमित्तनैमित्तिकतयाऽनन्तर्यमात्रं न तु कार्यकारणत्वमिति चेत् / न / बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् / अतः कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथं केन प्रकारेणासतः सज्जायेतेति / असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारो ऽस्तीत्यभिप्रायः / एवमसद्वादिपक्षमुन्मध्योपसंहरति सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् / ननु सद्वादिनो ऽपि सतः सदुत्पद्यत इति नैव दृष्टान्तो ऽस्ति / घटाद्घटान्तरोत्पत्त्यदर्शनात् / सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्थानान्तरेणावतिष्ठते / यथा सर्पः कुण्डली भवति / यथा च मृच्चूर्णपिण्डघटकपालादिप्रभेदैः / यद्येवं सदेव सर्वप्रकारवस्थं कतं प्रागुत्पत्तेरिदमासीदिति / उच्यते / ननु न श्रुतं त्वया सदेवेत्यव धारणमिदंशब्दवाच्यस्य कार्यस्य / प्राप्तं तर्हि प्रागुत्पत्तेरसदेवाऽसीन्नेदंशब्दवाच्यमिदानीमिदं जातमिति / न / सत एवेदंशब्दबुद्धिविषयतयावस्थानाद्यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते तद्वत् / ननु यथा मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतो ऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथाश्वाद्गौः / न / पिण्डघटादीनामितरेतरव्यभिचारे ऽपि मृत्त्वाव्यभिचारात् / यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं तथापि मृत्तवं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ / (व्यभिचरति त्वश्वं गौरश्वो वा गाम्) / तस्मान्मृदादिसंस्थानमात्रं घटादयः / एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः / सदेवेति / वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य / ननु निरवयवं सत्᳚निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं᳚ ᳚दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यज᳚इत्यादिश्रुतिभ्यो निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते / नैष दोषः / रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपारिकल्पितेभ्यः सदवयवेब्यो विकारसंस्थानोपपत्तेः / वाचाऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुतेः / एकमेवाद्वितीयं परमार्थत इदंबुद्धिकाले ऽपि
SK
START Cह्Uप् ६,२.३
SK
तद् ऐक्षत | बहु स्यां प्रजायेयेति | तत् तेजो ऽसृजत | तत् तेज ऐक्षत | बहु स्यां प्रजायेयेति | तद् अपो ऽसृजत | तस्माद् यत्र क्व च शोचति स्वेदते वा पुरुषस् तेजस एव तद् अध्य् आपो जायन्ते || Cह्Uप्_६,२.३ ||
SK
Cह्Uप्Bह्_६,२.३ तत्सदैक्षतेक्षां दर्शनं कृतवत् / अतश्च न प्रधानं सांख्यपरिकल्पितं जगत्कारणम् / प्रधानस्याचेतनत्वाभ्युपदमात् / इदं तु सच्चेतनमीक्षितृत्वात् / तत्कथमैक्षतेत्याह-बहु प्रभूतं स्यां भवेयं प्रजायेत प्रकर्षेणोत्पद्येय / यथा मृद्घटाद्याकरेण यथा वा रज्जवादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन / असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकारेण बुद्धिपरिकल्पितेन / असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकरेण / न / सत एव द्वैतभेदेनान्यथागृह्यमाणत्वान्नासत्त्वं कस्यचित्क्वचिदिति ब्रूमः / यथा सतो ऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वमसत्त्वं ब्रुवते तार्किका न तथास्माभिः कदाचित्क्वचिदिपि सतो ऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते / सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या / तथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा वा पिण्डघटादि मृदो ऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके / रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते / ᳚यतो वाचो निवर्तन्ते / अप्राप्य मनसा सहे᳚ति᳚अनिरुक्ते ऽनिलयन᳚इत्यादिश्रुतिभ्यः / एवमीक्षित्वा तत्तेजो ऽसृजत तेजः सृष्टवत् / ननु तस्माद्वा एतस्मादात्मन आकाशः संभूत इति श्रुत्यन्तर आकाशाद्वायुस्ततस्तृतीयं तेजः श्रुतमिह तु कथ प्राथम्येन तस्मादेव तेजः सृज्यते तत एव चाऽकाशमिति विरुद्धम् / नैष दोषः / आकाशवायुसर्गानन्तरं तत्सत्तेजो ऽसृजतेतिकल्पनोपपत्तेः / अथ वाविवक्षित इह सृष्टिक्रमः सत्कार्यमिदं सर्वमतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम् / मृदादिदृष्टान्तात् / अथवा त्रिवृत्करणस्य विवक्षितत्वात्तेजोबन्नानामेव सृष्टिमाचष्टे / तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति / तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः / बहु स्यां प्रजायेयेति पूर्ववत् / तदपो ऽसृजत / आपो द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके / यस्मात्तेजसः कार्यभूता आपस्तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषस्तेजस एव तत्तदाऽपो ऽधिजायन्ते
SK
६.२.४ ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते
SK
Cह्Uप्Bह्_६,२.४ ता आप ऐक्षन्त पूर्ववदेवाबाकारसंस्थितं सदैक्षतेत्यर्थः / बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहोति / ता अन्नमसृजन्त पृथिवीलक्षणम् / पार्थिवं ह्यन्नं यस्मादप्कार्यमन्नं तस्माद्यत्र क्व च वर्षति देशे तत्तत्रैव भूयिष्ठं प्रबूतमन्नं भवति / अतो ऽद्भ्य एव तदन्नाद्यमधिजायते / ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वमिह तु दृष्टान्ते ऽन्नं च तदाद्यं चेति विशेषणाद्व्रीहियवाद्या उच्यन्ते / अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् / ननु तेजः प्रभृतिष्वीक्षणं न गम्यते हिंसादिप्रतिषेधाभावात्त्रासादिकार्यानुपलम्भाच्च तत्र कथं तत्तेज ऐक्षतेत्यादि / नेष दोषः / ईक्षितृकारणपरिणामत्वात्तेजः प्रभृतीनां सत इवेक्षितुर्नियतक्रमविशिष्टकार्योत्पादकत्वात् तेजः प्रभृतीक्षत इवेक्षत इत्युच्यते भूतम् / ननु सतो ऽप्युपचरितमेवेक्षितृत्वम् / न / सदीक्षणस्य केवलशब्दगम्यत्वान्न शक्यमुपचरितं कल्पयितुम् / तेजः प्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् / ननु सतो ऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम् / अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वान्नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्चैक्षतेवैक्षतेति शक्यमनुमातुमुपचरितमेवेक्षणम् / दृष्टश्च लोके ऽचेतने चेतनवदुपचारः / यथा कूलं पिपतिषतीति तद्वत्सतो ऽपि स्यात् / न / तत्सत्यं स आत्मेति तस्मिन्नात्मोपदेशात् / आत्मोपदेशो ऽप्युपचरित इति चेद्यथा ममाऽत्मा भद्रसेन इति आत्मनः सर्वार्थकारिण्यनात्मन्यात्मोपचारस्तद्वत् / न / सदस्मीति सत्सत्याभिसन्धस्य᳚तस्य तावदेव चिरम्᳚ इति मोक्षोपदेशात् / सो ऽप्युपचार इति चेत् / प्रधानात्माभिसन्धस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशो ऽप्युपचरित एव / यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात् त्वरापेक्षया तद्वत् / न / येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात् / सत्येतस्मिन्विज्ञाते सर्वं विज्ञातं भवति तदनन्यत्वात्सर्वस्याद्वितीयवचनाच्च / न चान्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्यानुमेयं वा लिङ्गतो ऽस्ति येन मोक्षोपदेश उपचरितः स्यात् / सर्वस्य च प्रपाठकार्थस्योपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य / तस्माद्वेदप्रामाण्यान्न श्रुतार्थपरित्यागः / अतश्चेतनावत्कारणं जगत इति सिद्धम्
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,३.१
SK
तेषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्त्य् आण्डजं जीवजम् उद्भिज्जम् इति || Cह्Uप्_६,३.१ ||
SK
Cह्Uप्Bह्_६,३.१ तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्देशान्न तु तेजःप्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करमे प्रत्यक्षनिर्देशानुपपत्तिः / देवताशब्दप्रयोगाच्च तेजः प्रभृतिष्विमास्तिस्रो देवता इति / तस्मात्तेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति / कानि तानीत्युच्यन्ते / आण्डजमण्डाज्जातमण्डजमण्डजमेवाऽण्डजं पक्ष्यादि / पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते / तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां तथान्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः / नन्वण्डाज्जातमण्डजमुच्यते ऽतो ऽण्डमेव बीजमिति युक्तं कथमण्डजं बीजमुच्यते / सत्यमेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्तवतन्त्रा तु श्रुतिर्यत आहाऽण्डजाद्येव बीजं नाण्डादीति / दृश्यते चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे / अतो ऽण्डजादीन्येव बीजान्यण्डजादीनाम् / तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि / उद्भिज्जमुद्भिनत्तीत्युद्भित्स्थावरं ततो जातमुद्भिज्जं धाना वोद्भित्ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः / स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः / एवं ह्यवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति
SK
START Cह्Uप् ६,३.२
SK
सेयं देवतैक्षत | हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति || Cह्Uप्_६,३.२ ||
SK
Cह्Uप्Bह्_६,३.२ सेयं प्रकृता सदाख्या तेजोबन्नयोनिर्देवतोक्तैक्षतेक्षितवती यथापूर्वं बहु स्यामिति / तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तमित्यत ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य / कथम् / हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवता, अनेन जीवेनेति, स्वबुद्धिस्थं पूर्वसृष्ट्यनुभूतप्राणधाराणमात्मानमेव स्मरन्त्याहानेन जीवेनाऽत्मनेति / प्राणधारणकर्त्राऽत्मनेति वचनात्स्वात्मनो ऽव्यतिरिक्तेन चैतन्यस्वरूपतयाविशिष्टेनेत्येतद्दर्शयति / अनुप्रविश्य, तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सती, नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवा᳚ण्यसौनामायमिदंरूप᳚इति व्याकुर्यामित्यर्थः / ननु न युक्तमिदमसंसारिण्याः सर्वज्ञाया देवताया बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति सङ्कल्पनमनुप्रवेशश्च स्वातन्त्र्ये सति /
SK
सत्यमेवं न युक्तं स्याद्यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती न त्वेवम् / कथं तर्हि / अनेन जीवेनाऽत्मनानुप्रविश्येति वचनात् / जीवो हि नाम देवताया आभासमात्रम् / बुद्ध्यादिभूतमात्रासंसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बो जलादिष्विव च सूर्यादीनाम् / अचिन्त्यानन्तशक्तिमत्या देवताया बुद्ध्यादिसम्बन्धश्चैतन्याभासो देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः / छायामात्रेण जीवरूपेणानुप्रविष्टत्वाद्देवता न दैहिकैः स्वतः सुख दुःखादिभिः सम्बध्यते / यथा पुरुषादित्यादय आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टा आदर्शोदकदिदोषैनं सम्बध्यन्ते तद्वद्देवतापि / सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः / एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः //
SK
᳚आकाशवत्सर्वगतश्च नित्यः᳚इति च वाजसनेयके / ननु च्छायामात्रश्चेज्जीवो मृषैव प्राप्तस्तया परलोकेहलोकादि च तस्य / नैष दोषः / सदात्मना सत्यत्वाभ्युपगमात् / सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातं स्वस्त्वनृतमेव / वाचाऽरम्भण विकारो नामधेयमित्युक्कत्वात् / तथा जीवो ऽपीति / यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः / अतः सदात्मना सर्वव्यवहाराणां सर्वविकारामां च सत्यत्वं सतो ऽन्यत्वेनानृतत्वमिति न कश्चिद्दोषस्तार्किकैरिहानुवक्तुं शक्यः / यथेतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम्
SK
START Cह्Uप् ६,३.३
SK
तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति | सेयं देवतेमास् तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् || Cह्Uप्_६,३.३ ||
SK
Cह्Uप्Bह्_६,३.३ सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीतीक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि / एकैकस्यास्रिवृत्करण एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावो ऽन्थथा हि रज्जवा इवैकमेव त्रिवृत्करणं स्यात् न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति / एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात्तेज इदमिमा आपो ऽन्नमिदमिति च / सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् / एवमीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदंरूप इति
SK
START Cह्Uप् ६,३.४
SK
तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् | यथा तु खलु सोम्येमास् तिस्रो देवतास् त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति || Cह्Uप्_६,३.४ ||
SK
Cह्Uप्Bह्_६,३.४ तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेकैकामकरोत्कृतवती देवता / तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वं, यथा तु खलु बहुरिमाः पिण्डेभ्यस्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे मम निगदतो विजानीहि विष्टस्पमवधारयोदाहरणतः
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,४.१
SK
यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् | यच् छुक्लं तद् अपाम् | यत् कृष्णं तद् अन्नस्य | अपागाद् अग्नेर् अग्नित्वम् | वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् || Cह्Uप्_६,४.१ ||
SK
Cह्Uप्Bह्_६,४.१ यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते / उदाहरणं नामैकदेशप्रसिद्ध्यर्थमुदाह्रियत इति / तदेतदाह - यदग्नेस्रिवृत्कृतानां, यत्कृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धि / तत्रैवं सत रूपत्रयव्यतिरेकेणाग्निरिति यन्मन्यसे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपगतम् / प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासीत्ते साग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः / यथादृष्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागो ऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुस्तद्वत् / ननु किमत्र बुद्धिशब्दकल्पनया क्रियते प्राग्रूपत्रयविवेककरणादग्निरेवाऽसीत्तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तं यथा तन्त्वपकर्षणे पटाभावः / नैवं, बुद्धिशब्दमात्रमेव ह्यग्निर्यत आह वाचाऽरम्भणमग्निर्नाम विकारो नामधेय नाममात्रमित्यर्थः / अतो ऽग्निबुद्धरपि मृषैव / किं तर्हि तत्र सत्यं त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः
SK
START Cह्Uप् ६,४.२
SK
यद् आदित्यस्य रोहितं रूपं तेजसस् तद् रूपम् | यच् छुक्लं तद् अपाम् | यत् कृष्णं तद् अन्नस्य | अपागाद् आदित्याद् आदित्यत्वम् | वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् || Cह्Uप्_६,४.२ ||
SK
यच् चन्द्रमसो रोहितं रूपं तेजसस् तद् रूपम् | यच् छुक्लं तद् अपाम् | यत् कृष्णं तद् अन्नस्य | अपागाच् चन्द्राच् चन्द्रत्वम् | वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् || Cह्Uप्_६,४.३ ||
SK
यद् विद्युतो रोहितं रूपं तेजसस् तद् रूपम् | यच् छुक्लं तद् अपाम् | यत् कृष्णं तद् अन्नस्य | अपागाद् विद्युतो विद्युत्त्वम् | वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् || Cह्Uप्_६,४.४ ||
SK
Cह्Uप्Bह्_६,४.२,३,४ तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् / ननु यथा नु खलु सोम्येमास्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहित्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैरग्न्यादिभिस्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे / नैष दोषः / अबन्नविषयाण्यप्युदाहरणान्येवमेव च द्रष्टव्यानीति मन्यते श्रुतिः / तेजस उदाहरणमुपलक्षणार्थम् / रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च / गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् / न हि गन्धरसौ तेजसि स्तः / स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् / यदि सर्वं जगत्त्रिवृत्कृतमित्यग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागाज्जगतो जगत्त्वम् / तथान्नस्याप्यप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम् / तथापामपि तेजःशुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम् / तेजसो ऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं सदित्येव सत्यमित्येषोर्ऽथो विवक्षितः / ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजः प्रभृतिष्वनन्तर्भूतत्वादवशिष्येते / एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यद्विज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् / नैष दोषः / रूपवद्द्रव्ये सर्वस्य दर्शनात् / तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युलभ्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावो ऽनुमीयते / तथाबन्नयो रूपवतो रसगन्धान्तभाव इति / रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात् रूपत्रयवत् विज्ञातं मन्यते श्रुतिः / न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोस्तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति / अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः / यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यं तथा पञ्चीकरणे ऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात्सता विज्ञातेन सर्वमिदं विज्ञातं स्यात्सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति / तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् //२-४ //
SK
START Cह्Uप् ६,४.५
SK
एतद् ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः | न नो ऽद्य कश्चनाश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यति | इति ह्य् एभ्यो विदां चक्रुः || Cह्Uप्_६,४.५ ||
SK
Cह्Uप्Bह्_६,४.५ एतद्विद्वांसो विदितवन्तः पूर्वे ऽतिक्रान्ता महाशाला महाश्रोणिया आहुर्ह स्म वै किल / किमुक्तवन्त इत्याहन नो ऽस्माकं कुले ऽद्येदानीं यथोक्तविज्ञानवतां कश्न कश्चिदप्यश्रुतममतमविज्ञातमुदाहरिष्यति नोदाहरिष्यति सर्वं विज्ञातमेवास्मत्कुलीनानां सद्विज्ञानवत्त्वादित्याभिप्रायः / ते पुनः कथं सर्वं विज्ञातवन्त इत्याह-एभ्यस्रिभ्यो रोहितादिरूपेभ्यस्रिवृत्कृतेभ्यो विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदाञ्चक्रुर्विज्ञातवन्तो यस्मात्तस्मात्सर्वज्ञा एव सद्विज्ञानात्त आसुरित्यर्थः /
SK
अथवैभ्यो विदाञ्चक्रुरित्यग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदाञ्चक्रुरित्येतत्
SK
START Cह्Uप् ६,४.६
SK
यद् उ रोहितम् इवाभूद् इति तेजसस् तद् रूपम् इति तद् विदां चक्रुः | यद् उ शुक्लम् इवाभूद् इत्य् अपां रूपम् इति तद् विदां चक्रुः | यद् उ कृष्णम् इवाभूद् इत्य् अन्नस्य रूपम् इति तद् विदां चक्रुः || Cह्Uप्_६,४.६ ||
SK
यद् व् अविज्ञातम् इवाभूद् इत्य् एतासाम् एव देवतानां समास इति तद् विदां चक्रुः | यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति || Cह्Uप्_६,४.७ ||
SK
Cह्Uप्Bह्_६,४.६,७ कथम् / यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत्तेषां पूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदाञ्चक्रुः तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदापां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदाञ्चक्रुरेवमेवात्यन्तदुर्लक्ष्यं यदु अप्यविज्ञातमिव विशेषतो ऽगृह्यमाणमभूत्तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः / एवं तावद्बाह्यं वस्त्वग्न्यादिवविज्ञातं तथेदानीं यथा नु खलु हे सोम्येमा यथोक्तास्तिस्रो देवताः पुरषं शिरःपाम्यादिलक्षणं कार्यकारणसङ्घातं प्राप्य पुरुषेणोपयुज्यमानास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि निगदत इत्युक्त्वाऽह //६-७ //
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,५.१
SK
अन्नम् अशितं त्रेधा विधीयते | तस्य यः स्थविष्ठो धातुस् तत् पुरीषं भवति | यो मध्यमस् तन् मांसम् | यो ऽणिष्ठस् तन् मनः || Cह्Uप्_६,५.१ ||
SK
Cह्Uप्Bह्_६,५.१ अन्नमशितं भुक्तं त्रेधा विधीयते जाठरेमाग्निना पच्यमानं त्रिधा विभज्यते / कथं, तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूल्ॐऽशस्तत्पुरीषं भवति / यो मध्यम्ॐऽशो धातुरन्नस्य तद्रसादिक्रमेण परिणम्य मांसं भवति यो ऽणिष्ठो ऽणुतमो धातुः स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीप्वनुप्रविस्य वागादिकरणसङ्घातस्य स्थितिमुत्पादयन्मनो भवति मनोरूपेण विपरिणमन्मनस उपचयं करोति / ततश्चान्नोपचितत्वान्मनसो भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयं चेति गृह्यते / यदपि मनो ऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापकत्वापेक्षया / यच्चान्येन्द्रियविषयापेक्षया नित्यत्वं तदप्यापेक्षिकमेवेति वक्ष्यामः / सदेकमेवाद्वितीयमिति श्रुतेः
SK
START Cह्Uप् ६,५.२
SK
आपः पीतास् त्रेधा विधीयन्ते | तासां यः स्थविष्ठो धातुस् तन् मूत्रं भवति | यो मध्यमस् तल् लोहितम् | यो ऽणिष्ठः स प्राणः || Cह्Uप्_६,५.२ ||
SK
Cह्Uप्Bह्_६,५.२ तथाऽपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति / यो मध्यमस्तल्लोहितं भवति / यो ऽणिष्ठः स प्राणो भवति / वक्ष्यति ह्यापोमयः प्राणो न पिबतो विच्छेत्स्यत इति
SK
START Cह्Uप् ६,५.३
SK
तेजो ऽशितं त्रेधा विधीयते | तस्य यः स्थविष्ठो धातुस् तद् अस्थि भवति | यो मध्यमः स मज्जा | यो ऽणिष्ठः सा वाक् || Cह्Uप्_६,५.३ ||
SK
Cह्Uप्Bह्_६,५.३ तथा तेजो ऽशितं तैलघृतादि भक्षितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति / यो मध्यमःस मज्जास्थ्यन्तर्गतः स्नेहः / यो ऽणिष्ठः सा वाक् / तैलघृतादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके
SK
START Cह्Uप् ६,५.४
SK
अन्नमयं हि सोम्य मनः | आपोमयः प्राणः | तेजोमयी वाग् इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,५.४ ||
SK
Cह्Uप्Bह्_६,५.४ यत एवमन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् / ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च तथांमात्रभक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्ग्मिनश्च तथा स्नेहपानामपि प्राणवत्त्वं चानुमेयं यदि सन्ति तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते / नैष दोषः / सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः / न ह्यत्रिवृत्कृतमन्नमश्नाति कश्चिदापो वात्रिवृत्कृताः पीयन्ते तेजो वात्रिवृत्कृतमश्नाति कश्चिदित्यन्नादानामाखुप्रभृतीनां वाग्ग्मित्वं प्राणवत्त्वं चेत्याद्यविरुद्धम् / इत्येवं प्रत्यायितः श्वेकेतुराह-भूय एव पुनरेव मा मां भगवानन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनावगमयु नाद्यापि ममास्मिन्नर्थे सम्यङ्निश्चयो जातः / यस्मात्तेजोवन्नमयत्वेनाविशिष्टे देह एकस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातान्यणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायो ऽतो भूय एवेत्याद्याह / तमेवमुक्तवन्तं तथास्तु सोम्येति होवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,६.१
SK
दध्नः सोम्य मथ्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति | तत् सर्पिर् भवति || Cह्Uप्_६,६.१ ||
SK
Cह्Uप्Bह्_६,६.१ दध्नः सोम्य मथ्यमानस्य यो ऽणिमाणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनूतभावेन गच्छति तत्सर्पिर्भवति
SK
START Cह्Uप् ६,६.२
SK
एवम् एव खलु सोम्यान्नस्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति | तन् मनो भवति || Cह्Uप्_६,६.२ ||
SK
Cह्Uप्Bह्_६,६.२ यथायं दृष्टान्त एवमेव खलु सोम्यान्नस्यौदनादेरश्यमानस्य भुज्यमानस्योदर्येमाग्निना वायुसहितेत खजेनेव मथ्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति मनो ऽवयवैः सह सम्भूय मन उपचिनोतीत्येतत्
SK
START Cह्Uप् ६,६.३
SK
अपां सोम्य पीयमानानां यो ऽणिमा स ऊर्ध्वः समुदीषति | सा प्रानो भवति || Cह्Uप्_६,६.३ ||
SK
Cह्Uप्Bह्_६,६.३ तथापां सोम्य पीयमानानां यो ऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवतीति
SK
START Cह्Uप् ६,६.४
SK
तेजसः सोम्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति | सा वाग् भवति || Cह्Uप्_६,६.४ ||
SK
Cह्Uप्Bह्_६,६.४ एवमेव खलु सोम्य तेजसो ऽश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति
SK
START Cह्Uप् ६,६.५
SK
अन्नमयं हि सोम्य मनः | आपोमयः प्राणः | तेजोमयी वाग् इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,६.५ ||
SK
Cह्Uप्Bह्_६,६.५ अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति युक्तमेव मयोक्तमित्यमिप्रायः / अतो ऽप्तेजसोरस्त्वेतत्सर्वमेवम् / मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातो ऽतो भूय एव मा भगवान्मनसो ऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति / तथा सोम्येति होवाच पिता
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,७.१
SK
षोडशकलः सोम्य पुरुषः | पञ्चदशाहानि माशीः | कामम् अपः पिब | आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति || Cह्Uप्_६,७.१ ||
SK
Cह्Uप्Bह्_६,७.१ अन्नस्य भुक्तस्य यो ऽणिष्ठो धातुः स मनसि शक्तिमधात् सान्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता / तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तस्तद्वान्कार्यकरणसङ्घातलक्षणो जीवविशिष्टः पिण्डः पुरुषः षोडशकल उच्यते यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति हीयमानायां च यस्यां सामर्थ्यहानिः / वक्ष्यति᳚चाथान्नस्याऽयी द्रष्टे᳚त्यादि / सर्वस्य कार्यकरणस्य सामर्थ्यं मनःकृतमेव / मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके, ध्यानाहाराश्च केचिदन्नस्य सर्वात्मकत्वात् / अतो ऽन्नकृतं मानसं वीर्यं षोडश कला यस्य पुरुषस्य सो ऽयं षोडशकलः पुरुषः एतच्चेत्प्रत्यक्षीकर्तुमिच्छसि पञ्चदशसंख्याकान्यहानि माशीरशनं मा कार्षीः / काममिच्छातो ऽपः पिब यस्मान्नपिबतो ऽपस्ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापोमयो ऽब्विकारः प्राण इत्यवोचाम / न हि कार्यं स्वकारणोपष्टम्भमन्तरेणाविभ्रंशमानं स्थातुमुत्सहते
SK
START Cह्Uप् ६,७.२
SK
स ह पञ्चदशाहानि नाश | अथ हैनम् उपससाद किं ब्रवीमि भो इति | ऋचः सोम्य यजूंषि सामानीति | स होवाच न वै मा प्रतिभान्ति भो इति || Cह्Uप्_६,७.२ ||
SK
Cह्Uप्Bह्_६,७.२ स हैवं श्रुत्वा मनसो ऽन्नमयत्वं प्रत्यक्षीकर्तुंमिच्छन्पञ्चदशाहानि नाऽशाशनं न कृतवान् / अथ षोडशे ऽहनि हैनं पितरमुपससादोपगतवानुपगम्य चोवाच किं ब्रवीमि भो इति / इतर आह ऋचः सोम्य यजूंषि सामान्यधीष्वेति / एवमुक्तः पित्राऽह-न वै मा मामृगादीनि मम मनसि न दृश्यन्त इत्यर्थो हे भो भगवन्निति
SK
START Cह्Uप् ६,७.३
SK
तं होवाच यथा सोम्य महतो ऽभ्याहितस्यैको ऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् | तेन ततो ऽपि न बहु दहेत् | एवं सोम्य ते षोडशानां कलानाम् एका कला अतिशिष्टा स्यात् | तयैतर्हि वेदान् नानुभवसि | अशान | अथ मे विज्ञास्यसीति || Cह्Uप्_६,७.३ ||
SK
Cह्Uप्Bह्_६,७.३ एवमुक्तवन्तं पिताऽह-शृणु तत्र कारणं येन ते तान्यृगादीनि न प्रतिभान्तीति (तं होवाच) यथा लोके हे सोम्य महतो महत्परिमाणस्याभ्याहितस्योपचितस्येन्धनैरग्नेरेको ऽङ्गारः खद्योतपरिमाणः शान्तस्य परिशिष्टो ऽवशिष्टः स्याद्भवेत्तेनोङ्गारेण ततो ऽपि तत्परिमाणादीषदपि न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवो ऽतिशिष्टावशिष्टा न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवो ऽतिशिष्टा स्यात्तया त्वं खद्योतमात्राङ्गारतुल्ययैतर्हीदानीं वेदान्नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचमथाशेषं विज्ञास्यस्यशान भुङ्क्ष्व तावत्
SK
START Cह्Uप् ६,७.४
SK
स हाश | अथ हैनम् उपससाद | तं ह यत् किं च पप्रच्छ सर्वं ह प्रतिपेदे || Cह्Uप्_६,७.४ ||
SK
Cह्Uप्Bह्_६,७.४ स ह तथैवाऽश भुक्तवानथानन्तरं हैनं पितरं शुश्रूषुरुपससाद तं होपगतं पुत्रं यत्किञ्चर्गादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च
SK
START Cह्Uप् ६,७.५
SK
तं होवाच | यथा सोम्य महतो ऽभ्याहितस्यैकम् अङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैर् उपसमाधाय प्राज्वलयेत् तेन ततो ऽपि बहु दहेत् || Cह्Uप्_६,७.५ ||
SK
Cह्Uप्Bह्_६,७.५ तं होवाच पुनः पिता यथा सोम्य महतो ऽभ्याहितास्येत्यादि समानमेकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्चोपसमाधाय प्राज्वलयेद्वर्धयेत् / तेनेद्धेनाङ्गारेण ततो ऽपि पूर्वपरिमाणाद्बहु दहेत्
SK
START Cह्Uप् ६,७.६
SK
एवं सोम्य ते षोडशानां कलानाम् एका कलातिशिष्टाभूत् | सान्नेनोपसमाहिता प्राज्वाली | तयैतर्हि वेदान् अनुभवसि | अन्नमयं हि सोम्य मनः | आपोमयः प्राणः | तेजोमयी वाग् इति | तद् धास्य विजज्ञाव् इति विजज्ञाव् इति || Cह्Uप्_६,७.६ ||
SK
Cह्Uप्Bह्_६,७.६ एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणामेका कलातिशिष्टाभूदतिशिष्टाऽसीत्पञ्चदशाहान्यभुक्तवत एकैकेनाह्नैकैका कला चन्द्रमस इवापरपक्षे क्षीणा सातिशिष्टा कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि / दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः / प्राज्वालीदिति कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि / दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः / प्राज्वालीदिति पाठान्तरं तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीर्यर्थः / तया वर्धितयैतर्हीदानीं वेदाननुभवस्युपलभसे / एवं व्यावृत्त्यनुवृत्तिभ्यामन्नामयत्वं मनसः सिद्धमित्युपसंहरत्यन्नमयं हि सोम्य मन इत्यादि / यथैतन्मनसो ऽन्नमयत्वं तव सिद्धं तथाऽपोमयः प्राणस्तेजोमयी वागित्येतदपि सिद्धमेवेत्यभिप्रायः / तदेतद्धास्य पितुरुक्तं मन आदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवाञ्श्वेतकेतुः / द्विरभ्यासस्त्रिवृत्करणप्रकरणसमाप्त्यर्थः
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,८.१
SK
उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति | यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति | स्वम् अपीतो भवति | तस्माद् एनं स्वपितीत्य् आचक्षते | स्वं ह्य् अपीतो भवति || Cह्Uप्_६,८.१ ||
SK
Cह्Uप्Bह्_६,८.१ यस्मिन्मनसि जीवेनाऽत्मनानुप्रविष्टा परा देवताऽदर्श इव पुरुषः प्रतिबिम्बेन जलादिविष्विव च सूर्यादयः प्रतिबिम्बैः / तन्मनो ऽन्नमयं तेजो ऽंमयाभ्यां वाक्प्राणाभ्यां संगतमधिगतम् / यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यावहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते / तदुक्तं श्रुत्यन्तरे᳚ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति᳚᳚स वा आयमात्मा ब्रह्म विज्ञानमयो मनोमय᳚इत्यादि,᳚स्वप्नेन शारीरम्᳚ इत्यादि,᳚प्राणन्नेव प्राणो नाम भवती᳚त्यादि च / तस्यास्य मनःस्थस्य मन आख्यां गतस्य मनौपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभातायां यदवस्थानं तत्पुत्रायाऽचिख्यासुरुद्दालको ह किलाऽरुणिः श्वेतकेतुं पुत्रमुवाचोक्तवान् / स्वप्नान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वप्नस्याऽख्या तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् / अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः तत्राप्यर्थात्सुषुप्तमेव भवति / स्वमपीतो भवतीति वचनात् / न ह्यन्यत्र सुषुप्तात्स्वमपीतिं जीवस्येच्छन्ति ब्रह्मविदः / तत्र ह्यादर्शापनयने पुरुषप्रतिबिम्बि आदर्शगतो यथा स्वमेव पुरुषमपीतो भवत्येवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेनाऽत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेवाऽत्मानं प्रतिपद्यते जीवरूपतां मन आख्यां हित्वा / अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते / यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् / पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखतद्दर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्न इति न स्वमपीता भवति / ᳚अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति᳚ ᳚तद्वा अस्यैतदतिच्छन्दा᳚ ᳚एष परम आनन्द᳚इत्यादिश्रुतिभ्यः / सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह / स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः / कदा स्वप्नान्तो भवतीत्युच्यते / यत्र यस्मिन्काल एतन्नाम भवति पुरुषस्य स्वप्स्यतः / प्रसिद्धं हि लोके स्वपितीति / गौणं चेदं नामेत्याह / यदा स्वपितीत्युच्यते पुरुषस्तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगत एकीभूतो भवति / मनसि प्रविष्टं मन आदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यमपीतो ऽपिगतो भवति / अतस्तस्मात्स्वपितीत्येनमाचक्षते लोकिकाः / स्वमात्मानं हि यस्मादपीतो भवति / ततश्चाऽयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति / श्रुतेश्च᳚श्राम्यत्येव वाक्श्राम्यति चक्षुर्᳚ इत्येवमादि / तथा च᳚गृहीता वाग्गृहीतं श्रोत्रं गृहीतं मन᳚इत्येवमादीनि करणानि प्राणग्रस्तानि / प्राण एको ऽश्रान्तो देहे कुलाये यो जागर्ति तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते / नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानां स्वं ह्यपीतो भवतीति / दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्नोके स्वात्मस्थानां विश्रमणं तद्वदिहापि स्यादिति युक्तम् / ᳚तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त᳚इत्यादिश्रुतेष्च
SK
START Cह्Uप् ६,८.२
SK
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते | एवम् एव खलु सोम्य तन् मनो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा प्राणम् एवोपश्रयते | प्राणबन्धनं हि सोम्य मन इति || Cह्Uप्_६,८.२ ||
SK
Cह्Uप्Bह्_६,८.२ तत्रायं दृष्टान्तो यथोक्तेर्ऽथे-स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितो दिशं दिशं बन्धनमोक्षार्थी सन्प्रतिशिदिशं पतित्वान्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाप्राप्य बन्धनमेवोपश्रयते / एवमेव यथायं दृष्टान्तः खलु हे सोभ्य तन्मनस्तत्प्रकृतं पोडशकलमन्नोपचितं मनो निर्धारितं ततेप्रविष्टस्तत्स्थस्तदुपलक्षितो जीवस्तन्मन इति निर्दिश्यते मञ्चाक्रोशनवत् / स मन आख्योपाधिर्जीवो ऽविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वानुभूयेत्यर्थः / अन्यत्र सदाख्यात्स्वात्मन आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता / ᳚प्राणस्य प्राणं᳚ ᳚प्राणशरीरो भारूप᳚इत्यादिश्रुतेः / अतस्तां देवतां प्राणं प्राणाख्यामेवोपश्रयते / प्राणो बन्धनं यस्य मनसस्तत्प्राणबन्धनं हि यस्मात्सोम्य मनः प्राणोपलक्षितदेवताश्रयं मन इति तदुपलक्षितो जीव इति
SK
START Cह्Uप् ६,८.३
SK
अशनापिपासे मे सोम्य विजानीहीति | यत्रैतत् पुरुषो ऽशिशिषति नामाप एव तद् अशितं नयन्ते | तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तद् अप आचक्षते ऽशनायेति | तत्रैतच् छुङ्गम् उत्पतितं सोम्य विजानीहि | नेदम् अमूलं भविष्यतीति || Cह्Uप्_६,८.३ ||
SK
Cह्Uप्Bह्_६,८.३ एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वाऽहान्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः / अशनापिपासे अशितुमिच्छाशना यालोपेन / पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्वं विजानीहीत्येतत् / यत्र यस्मिन्काल एतन्नाम पुरुषो भवति / किं तत्?अशिशिषत्यशितुमिच्छतीति / तदा तस्य पुरुषस्य किनिमित्तं नाम भवतीत्याह / यत्तत्पुरुषेणाशितमन्नं कठिनं पोता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते तदा भुक्तमन्नं जीर्यति / अथ च भवत्यस्य नामाशिशिषतीति गौणम् / जीर्णे ह्यन्ने ऽशितुमिच्छति सर्वो हि जन्तुः / तत् तत्र अपामशितनेतृत्वादशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे / यथा गोनायो गां नयतीति गोनाय इत्युच्यते गोपालः / तथाश्वान्नयतीत्यश्वनायो ऽश्वपाल इत्युच्यते / पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा / एवं तत्तदाप आचक्षते लौकिका अशनायेति विसर्जनीयलोपेन / तत्रैवं सत्यद्भी रसादिभावेन नीतेनाशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गो ऽङ्कुर उत्पतित उद्गतस्तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोभ्य विजानीहि / किं तत्र विज्ञेयमित्युच्यते / शुण्विदं शुङ्गवत्कार्यत्वाच्छरीरं नामूलं मूलरहितं भविष्यतीत्युक्त आह श्वेतकेतुः
SK
START Cह्Uप् ६,८.४
SK
तस्य क्व मूलं स्याद् अन्यत्रान्नात् | एवम् एव खलु सोम्यान्नेन शुङ्गेनापो मूलम् अन्विच्छ | अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ | तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ | सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः || Cह्Uप्_६,८.४ ||
SK
Cह्Uप्Bह्_६,८.४ यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत्तस्यास्य क्व मूलं स्याद्भवेदित्येवं पृष्ट आह पिता / तस्य क्व मूलं स्यादन्यत्रान्नादन्नं मूलमित्यभिप्रायः / कथम् / अशितं ह्यन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते / रसोच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसो ऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम् / तथा योषिद्भुक्तं चान्नं रसादिक्रमेणैवं परिणतं लोहितं भवति / ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेनैव प्रत्यहं भुज्यमानेनाऽपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्युहमुपचीयमानो ऽन्नमूलो देहशुङ्गः परिनिष्पन्न इत्यर्थः / यत्तु देहशुङ्गो ऽन्नमूल एवमेव खलु सोम्यान्नेन शुह्गेन कार्यभूतेनापो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व / अपामपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमेवेति अद्भिः सीम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ / तेजसो ऽपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलमेकमेवाद्वितीयं परमार्थसत्यम् / यस्मिन्सर्वमिदं वाचाऽरम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया तदस्य जगतो मूलमतः सन्मूलाः सत्कारणा हे सोम्येमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजा न केवलं सन्मूला एवेदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव / नहि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वास्ति / अतो मृद्वत्सन्मूत्वात्प्रजानां सदायतनं यासां ताः सदायतनाः प्रजाः / अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्टा लयः समाप्तिपवसानं परिशेषो यासां ताः सत्प्रतिष्ठाः
SK
START Cह्Uप् ६,८.५
SK
अथ यत्रैतत् पुरुषः पिपासति नाम तेज एव तत् पीतं नयते | तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तत् तेज आचष्ट उदन्येति | तत्रैतद् एव शुङ्गम् उत्पतितं सोम्य विजानीहि | नेदम् अमूलं भविष्यतीति || Cह्Uप्_६,८.५ ||
SK
Cह्Uप्Bह्_६,८.५ अथेदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह / यत्र यस्मिन्काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति / अशिशिषतीतिवदिदमपि गौणमेव नाम भवति / द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपो ऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथिली कुर्युरब्बाहुल्याद्यदि तेजसा न शोष्यन्ते / नितरां च तेजसा शोष्यमाणा स्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाह / तेज एव तत्तदा पीतमबादि शोषयद्देहगतलोहितप्राणभावेन नयते परिणमयति / तद्यथा गोनाय इत्यादि समानमेवं तत्तेज आचष्टे लोक उदन्येत्युदकं नयतीत्युदन्यम् / उदन्येतीति च्छान्दसं तत्रापि पूर्ववत् / अपामप्येतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत्
SK
START Cह्Uप् ६,८.६
SK
तस्य क्व मूलं स्याद् अन्यत्राद्भ्यः | अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ | तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ | सन्मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत्प्रतिष्ठाः | यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तद् उक्तं पुरस्ताद् एव भवति | अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् || Cह्Uप्_६,८.६ ||
SK
Cह्Uप्Bह्_६,८.६ सामर्थ्यात्तेजसो ऽप्येतदेव शरीराख्यं शुङ्गम् / अतो ऽप्शुङ्गेन देहेनाऽपो मूलं गम्यते / अद्भिः शुङ्गेन तेजो मूलं गम्यते / तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् / एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्यान्नादिपरम्परया परमार्थसत्यं सन्मूलमभयसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वाशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यदिहास्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपभुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांकर्येणोपचयकरत्वं वक्तव्यं प्राप्तं तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति / यथा नु खलु येन प्रकारेणेमास्तेजोबन्नाख्यास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यन्नमशितं त्रेधा विधीयत इत्यादि / तत्रैवोक्तमन्नादीनामसितानां ये मव्यमा धातवस्ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् / ᳚मांसं भवति लोहितं भवति मज्जा भवत्यस्थि भवति ये त्वणिष्ठा धातवो मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्ती᳚ति चोक्तं᳚तन्मनो भवति स प्राणो भवति सा वाग्भवती᳚ति / सो ऽयं प्राणकरणसंघातो देहे विशीर्णे देहान्तरं जीवाधिष्ठितो येन क्रमेण पूर्वदेहात्प्रच्युतो गच्छति तदाहास्य हे सोम्य पुरुषस्य प्रयतो म्रियमाणस्य वाङ्मनसि संपद्यते मनस्युपसंह्रियते / अथ तदाऽहुर्ज्ञातयो न वदतीति / मनःपूर्वको हि वाग्व्यापारः / ᳚यद्वै मनसा ध्यायति तद्वाचा वदति᳚इति श्रुतेः / वाच्युपसंहृतायां मनसि मनो मननव्यापारेण केवलेन वर्तते / मनो ऽपि यदोपसंह्रियते तदा मनः प्राणे संपन्नं भवति सुषुप्तकाल इव तदा पार्श्वस्था ज्ञातयो न विजानातीत्याहुः / प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनाद्धस्तपादादीन्विक्षिपन्मर्मस्थानानि निकृन्तन्नन इवोत्सृजन् क्रमेणोपसंहृतस्तेजसि सम्पद्यते / तदाऽहुर्ज्ञातयो न चलतीति मृतो नेति वा विचिकित्सन्तो देहमालभमाना उष्णं चोपलभमाना देह उष्णो जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते तदा तत्तेजः परस्यां देवतायां प्रशाम्यति / तदेवङ्क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवो ऽपि सुषुप्तकालवन्निमित्तोपसंहारादुपसंह्रियमाणः सन्सत्याभिसंधिपूर्वकं चेदुपसंह्रियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति / यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तस्तद्वत् / इतरस्त्वनात्मज्ञस्तस्मादेव मूलात्सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति
SK
START Cह्Uप् ६,८.७
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,८.७ ||
SK
Cह्Uप्Bह्_६,८.७ यस्मान्मूलादुत्थाय देहमाविशति जीवः स यः सदाख्य एष उक्तो ऽणिमाणुभावो जगतो मूलमैतदात्म्यमेतत्सदात्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् / एतेन सदाख्येनाऽत्मनाऽत्मवत्सर्वमिदं जगत् / नान्यो ऽस्त्यस्याऽत्मा संसारी / ᳚नान्यदतो ऽति श्रोतृ᳚इत्यादिश्रुत्यन्तरात् / येन चाऽत्मनाऽत्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्यं परमार्थसत् / अतः स एवाऽत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् / आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवन्निरूढत्वात् / अतस्तत्सत्त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्र आह-भूय एव मा भगवान्विज्ञापयतु यद्भवदुक्तं तत्सन्दिग्धं ममाहन्यहनि सर्वाः प्रजाः सुषुप्ते सत्संपद्यन्त इत्येतद्येन तत्संपद्य न विदुः सत्सम्पन्ना वयमिति / अतो दृष्टोन्तेन मां प्रत्याययत्वित्यर्थः / एवमुक्तस्तथास्तु सोम्येति होवाच पिता
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,९.१
SK
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति || Cह्Uप्_६,९.१ ||
SK
Cह्Uप्Bह्_६,९.१ यत्पृच्छस्यहन्यहनि सत्संपद्य न विदुः सत्संपन्नाः स्म इति तत्कस्मादित्यत्र शृणु दृष्टान्तम् / यथा लोके हे सोम्य मधुकृतो मधु कुर्वन्तीति मधुकृतो मधुकरमक्षिका मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः / कथम्?नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान्समवहारं समाहृत्यैकतामेकभावं मधुत्वेन रसान्गमयन्ति मधुत्वमापादयन्ति
SK
START Cह्Uप् ६,९.२
SK
ते यथा तत्र न विवेकं लभन्ते ऽमुष्याहं वृक्षस्य रसो ऽस्म्य् अमुष्याहं वृक्षस्य रसो ऽस्मीति | एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति || Cह्Uप्_६,९.२ ||
SK
Cह्Uप्Bह्_६,९.२ ते रसा यथा मधुत्वेनैकतां गतास्तत्र मधुनि विवेकं न लभन्ते / कथम्, अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसो ऽस्मीति / यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवत्यमुष्याहं पुत्रो ऽमुष्याहं नप्तास्मीति / ते च लब्धविवेकाः सन्तो न संकीर्यन्ते न तथेहानेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेनैकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः / यथायं दृष्टान्त इत्येवमेव खलु सोम्येमाः सर्वाः प्रजा अहन्यहनि सति संपद्य सुषुप्तकाले मरणप्रलययोश्च न विदुर्न विजानीयुः सति संपद्यामह इति संपन्ना इति वा
SK
START Cह्Uप् ६,९.३
SK
त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति || Cह्Uप्_६,९.३ ||
SK
Cह्Uप्Bह्_६,९.३ यस्माच्चैवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते / अतस्त इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुर्व्याघ्रादीनां व्याघ्रो ऽहं सिंहो ऽहमित्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति वभूवुरित्यर्थः / तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरितापि संसारिणो जन्तोर्या पुरा भाविता वासना सा न नश्यतीत्यर्थः / ᳚यथाप्रज्ञं हि संभवाः᳚इति श्रुत्त्यन्तरात्
SK
START Cह्Uप् ६,९.४ स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,९.४ ||
SK
Cह्Uप्Bह्_६,९.४ ताः प्रजा यस्मिन्प्रविश्य पुनराविर्भवन्ति / ये त्वितो ऽन्ये सत्सत्यात्माभिसंधा यमणुभावं सदात्मानं प्रविश्य नाऽवर्तन्ते स य एषो ऽणिमेत्यादि व्याख्यातम् / यथा लोके स्वकीये गृहे सुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहादागतो ऽस्मीत्येवं सत आगतो ऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयत्वित्युक्तस्तथा सोभ्येति होवाच पिता
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१०.१
SK
इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यः | ताः समुद्रात् समुद्रम् एवापियन्ति | स समुद्र एव भवति | ता यथा तत्र न विदुर् इयम् अहम् अस्मीयम् अहम् अस्मीति || Cह्Uप्_६,१०.१ ||
SK
Cह्Uप्Bह्_६,१०.१ शृणु तत्र दृष्टान्तं यथा सोम्येमा नद्यो गङ्गाद्याः पुरस्तात्पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ति / पश्चात्प्रतीचीं दिशं प्रति सिन्ध्वाद्याः प्रतीचीमञ्चन्ति गच्छन्तीति प्रतीच्यस्ताः समुद्रादम्भोनिधेर्जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिता गङ्गादिनदीरूपिण्यः पुनः समुद्रमम्भोनिधिमेवापियन्ति स समुद्र एव भवति ता नद्यो यथा तत्र समुद्रे समुद्रात्मनैकतां गता न विदुर्न जानन्तीयं गङ्गाहमस्मीयं यमुनाहमस्मीतीयं मह्यहमस्मीति च
SK
START Cह्Uप् ६,१०.२-३
SK
एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति | त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति || Cह्Uप्_६,१०.२ ||
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१०.३ ||
SK
Cह्Uप्Bह्_६,१०.२,३ एवमेव खलु सोम्येमाः सर्वाः प्रजा यस्मात्सति सम्पद्य न विदुस्तस्मात्सत आगम्य न विदुः सत आगच्छामह आगता इति वा / त इह व्याघ्र इत्यादि समानमन्यत् / दृष्टं लोके जले वीचीतरङ्गफेनबुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति / जीवास्तु तत्कारणमणुभावं प्रत्यहं गच्छन्तो ऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत् भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन / तथा सोम्येति होवाच पिता //२-३ //
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,११.१
SK
अस्य सोम्य महतो वृक्षस्य यो मूले ऽभ्याहन्याज् जीवन् स्रवेद् यो मध्ये ऽभ्याहन्याज् जीवन् स्रवेद् यो ऽग्रे ऽभ्याहन्याज् जीवन् स्रवेत् | स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस् तिष्ठति || Cह्Uप्_६,११.१ ||
SK
Cह्Uप्Bह्_६,११.१ शृणु दृष्टान्तमस्य - हे सोम्य महतो ऽनेकशाखादियुक्तस्य वृक्षस्यास्येत्यग्रतः स्थितं वृक्षं दर्शयन्नाह / यदि यः कश्चिदस्य मूले ऽभ्याहन्यात्परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति तदा तस्य रसः स्रवेत् / तथा यो मध्ये ऽभ्याहन्याज्जीवन्स्रवेत्तथा यो ऽग्रे ऽभ्याहन्याज्जीवन्स्रवेत्स एष वृक्ष इदानीं जीवेनाऽत्मनानुप्रभूतो ऽनुव्याप्तः पेपीयमानो ऽत्यर्थं पिबन्नुदकं भौमांश्च रसान्मूलैर्गृह्णन्मोदमानो हर्षं प्राप्नुवंस्तिष्ठति
SK
START Cह्Uप् ६,११.२
SK
अस्य यद् एकां शाखां जीवो जहात्य् अथ सा शुष्यति | द्वितीयां जहात्य् अथ सा शुष्यति | तृतीयां जहात्य् अथ सा शुष्यति | सर्वं जहाति सर्वः शुष्यति || Cह्Uप्_६,११.२ ||
SK
Cह्Uप्Bह्_६,११.२ तस्यास्य यदेकां शाखां रोगग्रस्तामाहतां वा जीवो जहात्युपसंहरति शाखायां विप्रसृतमात्मांशम् / अथ सा शुष्यति / वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहार उपसंह्रियते / जीवेन च प्राणयुक्तेनाशितं पोतं च रसतां गतं जीवच्छरीरं वृक्षं वर्धयद्रसरूपेण जीवस्य सद्भावे लिङ्गं भवति / अशितपीताभ्यां हि देहे जीवस्तिष्ठति ते चाशितपीते जीवकर्मानुसारिणी इति / तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति तदा जीव एकां शाखां जहाति शाखाया आत्मानमुपसंहरति / अथ तदा सा शाखा शुष्यति / जीवस्थितिनिमित्तो रसो जीवकर्माक्षिप्तो जीवोपसंहारे न तिष्ठति / रसापगमे च शाखा शोषमुपैति / तथा सर्वं वृक्षमेव यदायं जहाति तदा सर्वो ऽपि वृक्षः शुष्यति / वृक्षस्य रसस्रवणशोषणादिलिङ्गाज्जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति
SK
START Cह्Uप् ६,११.३
SK
एवम् एव खलु सोम्य विद्धीति ह उवाच | जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति | स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,११.३ ||
SK
Cह्Uप्Bह्_६,११.३ यथास्मिन्वृक्षदृष्टान्ते दर्शितं जीवेन युक्तो वृक्षो ऽशुष्को रसपानादियुक्तो जावतीत्युच्यते तदपेतश्च म्रियत इत्युच्यते / एवमेव खलु सोम्य विद्धीति होवाच-जीवापेतं जीववियुक्तं वाव किलेदं शरीरं म्रियते न जीवो म्रियत इति कार्यशेषे च सुप्तोत्थितस्य ममेदं कार्यशेषमपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् / जातमात्राणां च जन्तूनां स्तन्याभिलाषयादिदर्शनाच्चातीतजन्मान्तरानुभूतस्तन (न्य) पानदुःखानुभवस्मृतिर्गम्यते / अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वान्न जीवो म्रियत इति / स य एषो ऽणिमेत्यादि समानम् / कथं पुनरिदमत्यन्तस्थीलं पृथिव्यादि नामरूपवज्जगदत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरह् इतात्सतो जायत इत्येतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति / तथा सोम्येति होवाच पिता
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१२.१
SK
न्यग्रोधफलम् अत आहरेति | इदं भगव इति | भिन्द्धीति | भिन्नं भगव इति | किम् अत्र पश्यसीति | अण्व्य इवेमा धाना भगव इति | आसाम् अङ्गैकां भिन्द्धीति | भिन्ना भगव इति | किम् अत्र पश्यसीति | न किंचन भगव इति || Cह्Uप्_६,१२.१ ||
SK
Cह्Uप्Bह्_६,१२.१ यद्येतत्प्रत्यक्षीकर्तुमिच्छसि, अतो ऽस्मान्महतो न्यग्रोधात्फलमेकमाहरेत्युक्तस्तथा चकार, स इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रत्याह फलं भिन्धीति / भिन्नमित्याहेतरः / तमाह पिता किमत्र पश्यसीत्युक्त आहाण्व्यो ऽणुतरा इवेमा धाना बीजानि पश्यामि भगव इति / आसां धानानामेकां धानामङ्ग हे वत्स भिन्धीत्युक्त आह भिन्ना भगव इति / यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसीत्युक्त आह न किञ्चन पश्यामि भगव इति
SK
START Cह्Uप् ६,१२.२
SK
तं होवाच यं वै सोम्यैतम् अणिमानं न निभालयस एतस्य वै सोम्यैषो ऽणिम्न एवं महान्यग्रोधस् तिष्ठति | श्रद्धत्स्व सोम्येति || Cह्Uप्_६,१२.२ ||
SK
Cह्Uप्Bह्_६,१२.२ तं पुत्रं होवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सौम्यैतं न निभालयसे न पश्यसि / तथाप्येतस्य वै किल सोम्यैष महान्न्यग्रोधो बीजस्याणिम्नः सूक्ष्मस्यादृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवांस्तिष्ठत्युत्पन्नः सन्नुत्तिष्ठतीति वोच्छब्दो ऽध्याहार्यो ऽतः श्रद्धत्स्व सोम्य सत एवाणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति / यद्यपि न्यायागमाभ्यां निर्धारितोर्ऽथस्तथैवेत्यवगम्यते तथाप्यत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह श्रद्धत्स्वेति / श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेर्ऽथे भवेत्ततश्च तदर्थावगतिः / ᳚अन्यत्रमना अभूवम्᳚ इत्यादिश्रुतेः
SK
START Cह्Uप् ६,१२.३
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१२.३ ||
SK
Cह्Uप्Bह्_६,१२.३ स य इत्याद्युक्तार्थम् / यदि तत्सज्जगतो मूलं कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति / तथा सोम्येति होवाच पिता
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१३.१
SK
लवणम् एतद् उदके ऽवधायाथ मा प्रातर् उपसीदथा इति | स ह तथा चकार | तं होवाच | यद् दोषा लवणम् उदके ऽवाधा अङ्ग तद् आहरेति | तद् धावमृश्य न विवेद || Cह्Uप्_६,१३.१ ||
SK
Cह्Uप्Bह्_६,१३.१ विद्यमानमपि वस्तु नोपलभ्यते प्रकारान्तरेण तूपलभ्यत इति शृण्वत्र दृष्टान्तम् यदि चेममर्थं प्रत्यक्षो स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार / तं होवाच परेद्युः प्रातरूपसीदथा उपगच्छेथा इति / स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार / तं होवाच परेद्युः प्रातर्यल्लवं दोषा रात्रावुदके ऽवाधा निक्षिप्तवानस्यङ्ग हे वत्स तदाहरेत्युक्तस्तल्लवणमाजिहीर्षुर्ह किलावमृश्योदके न विवेद न विज्ञातवान्यथा तल्लवणं, विद्यमानमेव सदप्सु लीनं संश्लिष्टमभूतं
SK
START Cह्Uप् ६,१३.२
SK
यथा विलीनम् एव | अन्;गास्यान्ताद् आचामेति | कथम् इति | लवणम् इति | मध्याद् आचामेति | कथम् इति | लवणम् इति | अन्ताद् आचामेति | कथम् इति | लवणम् इति | अभिप्रास्यैतद् अथ मोपसीदथा इति | तद् ध तथा चकार | तच् छश्वत् संवर्तते | तं होवाचात्र वाव किल तत् सोम्य न निभालयसे ऽत्रैव किलेति || Cह्Uप्_६,१३.२ ||
SK
Cह्Uप्Bह्_६,१३.२ यथा विलीनं लवणं न वेत्थ तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एवाप्सूपलभ्यते चोपायान्तरेणेत्येतत्पुत्रं प्रत्याययितुमिच्छन्नाह-अङ्गास्योदकस्यान्तादुपरि गृहीत्वाऽचामेत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच कथमितीतर आह लवणं स्वादुतः इति / तथा मध्यादुदकस्य गृहीत्वाऽचामेति कथमिति लवणमिति / तथान्तादधोदेशाद्गृहीत्वाऽचामेति कथमिति लवणमिति / यद्येवमभिप्रास्य परित्यज्यैतदुदकमाचम्याथ मोपसीदथा इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः / इदं वचनं ब्रवंस्तल्लवमं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शाश्वन्नित्यं संवर्तते विद्यमानमेव सत्सम्यग्वर्तते / इत्येवमुक्तवन्तं तं होवाच पिता / यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एवोपायान्तरेण जिह्वयोपलभ्यमानत्वात् / एवमेवात्रैवास्मिन्नेव तेजोबन्नादिकार्ये शुङ्गेदेहे / वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ / सत्तेजोबन्नादिशुङ्गकारमं वटबीजाणिमवद्विद्यमानमेवेन्द्रियैर्नोपलभसे न निभालयसे / यथात्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वयोपलब्धवानसि / एवमेवात्रैव किल विद्यमानं सज्जगन्मूलमुपायान्तरेण लवणाणिमवदुपलप्स्यस इति वाक्यशेषः
SK
START Cह्Uप् ६,१३.३
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१३.३ ||
SK
Cह्Uप्Bह्_६,१३.३ स य इत्यादि समानम् / यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सदुपायान्तरेणोपलब्धुं शक्यते यदुपलम्भात्कृतार्थः स्यामनुपलम्भाच्चाकृतार्थः स्यामहं तस्यैवोपलब्धौ क उपाय इत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन तथा सोम्येति होवाच
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१४.१ यथा सोम्य पुरुषं गन्धारेभ्यो ऽभिनद्धाक्षम् आनीय तं ततो ऽतिजने विसृजेत् | स यथा तत्र प्राङ् वोदङ् वा अधराङ् वा प्रत्यङ् वा प्रध्मायीताभिनद्धाक्ष आनीतो ऽभिनद्धाक्षो विसृष्टः || Cह्Uप्_६,१४.१ ||
SK
Cह्Uप्Bह्_६,१४.१ यथा लोके हे सोम्य पुरुषं यं कञ्चिद्गन्धारेभ्यो जनपदेभ्यो ऽभिनद्धाक्षं बद्धचक्षुषमानीय द्रव्यहर्ता तस्करस्तमभिनद्धाक्षमेव बद्धहस्तमरण्ये ततो ऽप्यतिजने ऽतिगतजने ऽत्यन्तविगतजने देशे विसृजेत्स तत्र दिग्भ्रमोपेतो यथा प्राङ्वा प्रागञ्चनः प्राङ्मुखो, वेत्यर्थः / तथोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्याद्विक्रोशेत् / अभिनद्धाक्षो ऽहं गन्धारेभ्यस्तस्करेणाऽनीतो ऽभिनद्धाक्ष एव विसृष्ट इति
SK
START Cह्Uप् ६,१४.२
SK
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयाद् एतां दिशं गन्धारा एतां दिशं व्रजेति | स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारान् एवोपसंपद्येत | एवम् एवेहाचार्यवान् पुरुषो वेद | तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ संपत्स्य इति || Cह्Uप्_६,१४.२ ||
SK
Cह्Uप्Bह्_६,१४.२ एवं विक्रोशतस्तस्य यथाभिनहनं यथाबन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चिदेतां दिशमुत्तरतो गन्धारा एतां दिशं व्रजेति प्रब्रूयात्स एवं कारुणिकेन बन्धनान्मोक्षितो ग्रामाद्ग्रामान्तरं पृच्छन्पण्डित उपदेशवान्मेधावो परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन्गन्धारानेवोपसम्पद्येत नेतरो मूढमतिर्देशान्तरदर्शनतृड्वा / यथायं दृष्टान्तो वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुषस्तस्करैरभिनद्धाक्षो ऽविवेको दिङ्मूढो ऽशनायापिपासादिमान्व्याघ्रतस्कराद्यनेकभयानथर्व्रातयुतमरण्यं प्रवेशितो दुःखार्तो विक्रोशन्बन्धनेभ्यो मुमुक्षुस्तिष्ठति स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवाऽपन्नो निर्वृतः सुख्यभूत् / एवमेव सतो जगदात्मनः स्वरूपात्तेजोवन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवच्छीतोष्णाद्यनेकद्वन्द्वसुखदुःखवच्चेदं मोहपटाभिनद्धाक्षो भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितो᳚ऽहममुष्य पुत्रो ममैते बान्धवाः सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमाञ्जातो मृतो जीर्णः पापी पुत्रो मे मृतो धनं मे नष्टं हा हतो ऽस्मि कथं जाविष्यामि का मे गतिः किं मे त्राणम्᳚ इत्येवमनेकशतसहस्रानर्थजालवान्विक्रोशन्कथञ्चिदेव पुण्यातिशयात्परमकारुणिकं कञ्चित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदाऽसादयति तेन च ब्रह्मविदा कारुण्याद्दर्शितसंसारविषयदोषदर्शनमार्गो विरक्तः संसारविषयेभ्यो नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्मवान्किं तर्हि सद्यत्तत्त्वमसीत्यविद्यामोहपटाभिनहनान्मोक्षितो गन्धारपुरुषवच्च स्वं सदात्मानमुपसम्पद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाहाऽचार्यवान्पुरुषो वेदेति तस्यास्यैवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालश्चिरं क्षेपः सदात्मस्वरूपसम्पत्तेरिति वाक्यशेषः / कियान्कालश्चिरमित्युच्यते यावन्न विमोक्ष्ये न विमोक्ष्यत इत्येतत्पुरुषव्यत्यनेन / सामर्थ्यात् / येन कर्मणा शरीरमारब्धं तस्योपभोगेन येनाथशब्द आनन्तर्यार्थः स्यात् / ननु यथा सद्विज्ञानान्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात्तथाप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसञ्चितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतिते ऽस्मिञ्शरीरान्तरमारब्धव्यम् / उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं चावश्यं शरीरान्तरमारब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानार्थक्यं कर्मणां फलवत्त्वात् / अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् / तथाचाऽचार्याभाव ᳚इत्याचार्यवान्पुरुषो वेदे᳚त्याचार्यवत्त्वानुपपत्तिर्ज्ञानान्मोक्षाभावप्रसङ्गश्च / देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य / न / कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः / यदुक्तमप्रवृत्तफलानां कर्ममां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यमप्रवृत्तकर्मफलोपभोगाथर्मित्येतदसत् / विदुष᳚स्तस्य तावदेव चिरम्᳚ इति श्रुतेः प्रामाण्यात् / ननु᳚पुण्यो वै पुम्येन कर्मणाभवति᳚इत्यादिश्रुतेरपि प्रामाण्यमेव / तस्यमेवम् / तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषो ऽस्ति / कथम् / यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धं तेषामुपभोगेनैव क्षयः / यथाऽरह्धवेगस्य लक्ष्यमुक्तेष्वादेर्वेगक्षयादेव स्थितिर्न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति तद्वत् / अन्यानि त्वप्रवृत्तफलानीह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वातीतजन्मान्तरकृतानि वाप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव / ᳚क्षीयन्ते चास्य कर्माणि᳚इति चाऽथर्वणे / अतो ब्रह्मविदो जीवनादिप्रयोजनाभावे ऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत्तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम᳚ब्रह्मसंस्थो ऽमृतत्वमेती᳚त्यत्र /
SK
तच्च स्मर्तुमर्हसि
SK
START Cह्Uप् ६,१४.३
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१४.३ ||
SK
Cह्Uप्Bह्_६,१४.३ स य इत्याद्युक्तार्थम् / आचार्यवान्विद्वान्येन क्रमेण सत्सम्पद्यते तं क्रमं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति / तथा सोम्येति होवाच
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्दशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१५.१
SK
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि माम् इति | तस्य यावन् न वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायां तावज् जानाति || Cह्Uप्_६,१५.१ ||
SK
Cह्Uप्Bह्_६,१५.१ पुरुषं हे सोम्योतोपतापिनं ज्वराद्युपतापवन्तं ज्ञातयो बान्धवाः परिवार्योपासते मुमूर्षुं जानासि मां तव पितरं पुत्रं भ्रातरं वेति पृच्छन्तस्तस्य मुमूर्षोर्यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामित्येतदुक्तर्थम्
SK
START Cह्Uप् ६,१५.२
SK
अथ यदास्य वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् अथ न जानाति || Cह्Uप्_६,१५.२ ||
SK
Cह्Uप्Bह्_६,१५.२ संसारिणो यो मरणक्रमः स एवायं विदुषो ऽपि सत्सम्पत्तिक्रम इत्येतदाह परस्यां देवतायां तेजसि सम्पन्ने ऽथ न जानाति / अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति / विद्वांस्तु शास्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य नाऽवर्तत इत्येष सत्सम्पत्तिक्रमः / अन्ये तु मूर्धन्यया नाड्योत्क्रम्याऽदित्यादिद्वारेण सद्गच्छन्तीत्याहुस्तदसत् / देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् / न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते / विरोधात् / अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वाद्गमनानुपपत्तिरेव / ᳚पर्याप्तकामस्य कृतात्मनस्तिवहैव सर्वे प्रविलीयन्ति कामाः᳚इत्याद्याथर्वणे / नदीसमुद्रदृष्टान्तश्रुतेश्च
SK
START Cह्Uप् ६,१५.३
SK
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | भूय एव मा भगवान् विज्ञापयत्व् इति | तथा सोम्येति होवाच || Cह्Uप्_६,१५.३ ||
SK
Cह्Uप्Bह्_६,१५.३ स य इत्यादि समानम् / यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिस्तत्र विद्वान्सत्सम्पन्नो नाऽवर्तत आवर्तते त्वविद्वानित्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ६,१६.१
SK
पुरुषं सोम्योत हस्तगृहीतम् आनयन्ति | अपहार्षीत् स्तेयम् अकार्षीत् परशुम् अस्मै तपतेति | स यदि तस्य कर्ता भवति तत एवानृतम् आत्मानं कुरुते | सो ऽनृताभिसंधो ऽनृतेनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति | स दह्यते | अथ हन्यते || Cह्Uप्_६,१६.१ ||
SK
Cह्Uप्Bह्_६,१६.१ शृणु यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय वोतापि हस्तगृहीतं बद्धहस्तमानयन्ति राजपुरुषाः / किं कृतवानयमिति पृष्टाश्चाऽहुरपहार्शीद्धनमस्यायम् / ते चाऽहुः किमपहरणमात्रेम बन्धनमर्हति / अन्यथा दत्ते ऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीत्तौर्येण धनमपहार्षीदिति / तेष्वेवं वदत्स्वितरो ऽपह्नते नाहं तत्कर्तेति / (ते चाऽहुः सन्दिह्यमानं स्तेयमकार्षीस्त्वमस्य धनस्येति) / तस्मिंश्चापह्नवाने आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति / स यदि तस्य स्तैन्यस्य कर्ता बवति बहिश्चापह्नते स एवंभूतस्तत एवानृतमन्यथाभूतं सन्तमन्यथाऽमानं कुरुते स तथानृताभिसन्धो ऽनृतेनाऽत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्राति स दह्यते ऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण
SK
START Cह्Uप् ६,१६.२
SK
अथ यदि तस्याकर्ता भवति | तत एव सत्यम् आत्मानं कुरुते | स सत्याभिसन्धः सत्येनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति | स न दह्यते | अथ मुच्यते || Cह्Uप्_६,१६.२ ||
SK
Cह्Uप्Bह्_६,१६.२ अथ यदि तस्य कर्मणो ऽकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्येन तया स्तैन्याकर्तृतयाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स सत्याभिसन्धः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः / तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वे ऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः
SK
START Cह्Uप् ६,१६.३
SK
स यथा तत्र नादाह्येत | एतद् आत्म्यम् इदं सर्वम् | तत् सत्यम् | स आत्मा | तत् त्वम् असि श्वेतकेतो इति | तद् धास्य विजज्ञाव् इति विजज्ञाव् इति || Cह्Uप्_६,१६.३ ||
SK
Cह्Uप्Bह्_६,१६.३ स यथा सत्याभिसन्धस्तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वान्नादाह्येत न दह्येतेत्येतदेवं सद्ब्रह्मसत्याभिसन्धीतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान्सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणायाऽवर्तते / अविद्वांस्तु विकारानृताभिसन्धः पुनर्व्याघ्रादिभावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते / यदात्माभिसन्ध्यनभिसन्धिकृते मोक्षबन्धने यच्च मूलं जगतो यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजा यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयं तत्सत्यं स आत्मा तवातस्तत्त्वमसि हे श्वेतकेतो इत्युक्तार्थमसकृद्वाक्यम् /
SK
कः पुनरसौ श्वेतकेतुस्त्वंशब्दार्थः / यो ऽहं श्वेतकेतुरुद्दालकस्य पुत्र इति वेदाऽत्मानमादेशं श्रुत्वा मत्वा विज्ञाय चाश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं नु भगवः स आदेशो बवतीति स एषो ऽधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकारणसङ्घातं प्रविष्टा परैव देवता नामस्वरूपव्याकरणायाऽदर्श इव पुरुषः सूर्यादुरिव जलादौ प्रतिबोधितस्तत्त्वमसीतिदृष्टान्तैर्हेतुभिश्च तत्पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् / द्विर्वचनमध्यायपरिसमाप्त्यर्थम् / किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलम्?आत्मनि कर्तृत्वभोक्तृत्वयोरधिकृतत्वविज्ञाननिवृत्तिस्तस्य फलं यं वयमवोचाम त्वंशब्दवाच्यमर्थं श्रोतुं मन्तुं चाधिकृतमविज्ञातविज्ञानफलार्थम् / प्राक्चैतस्माद्विज्ञानादहमेवं करिष्याम्यग्निहोत्रादीनि कर्माण्यहमत्राधिकृतः / एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यः स्यामित्येवं कर्तृत्वभोक्तृत्वयोरधिकृतो ऽस्मीत्यात्मनि यद्विज्ञानमभूत्तत्तस्य यत्सज्जगतो मूलमेकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते / विरोधात् / न ह्येकस्मिन्नद्वितीय आत्मन्ययमहमस्मीति विज्ञाते ममेदमन्यदनेन कर्तव्यमिदं कृत्वास्य फलं भोक्ष्य इति वा भेदविज्ञानमुपपद्यते / तस्मात्सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तत इति युक्तम् / ननु तत्त्वमसीत्यत्र त्वंशब्दवाच्येर्ऽथे सद्बुद्धिराधित्स्यते यथाऽदित्यमन आदिषु ब्रह्मादिबुद्धिः / यथा च लोके प्रतिमादिषु विष्ण्वादिबुद्धिस्तद्वन्नतु सदेव त्वमिति, यदि सदेव श्वेतकेतुः स्यात्कथमात्मानं न विजानीयाद्येन तस्मै तत्त्वमसीत्युपदिश्यते / न / आदित्यादिवाक्यवैलक्षण्यात् / आदित्यो ब्रह्मेत्यादावितिशब्दव्यवधानान्न साक्षाद्ब्रह्मत्वं गम्यते / रूपादिमत्त्वाच्चाऽदित्यादीनामाकाशमनसोश्चेतिशब्दव्यवधानादेवाब्रह्मत्वमिह तु सत एवेह प्रवेशं दर्शयित्वा तत्त्वमसीति निरङ्कुशं सदात्मभावमुपदिशति / ननु पराक्रमादिगुणः सिंहो ऽसि त्वमितिवत्तत्त्वमसीति स्यात् / न / मृदादिवत्सदेकमेवाद्वितीयं सत्यमित्युपदेशात् / न चोपचारविज्ञानात्तस्य तावदेव चिरमिति सत्सम्पत्तिरूपदिश्येत / मृषात्वादुपचारविज्ञानस्य / त्वमिन्द्रो ऽसि यम इतिवत् / नापि स्तुतिरनुपास्यत्वाच्छ्वेतकेतोः / नापि सच्छ्वेतकेतुत्वोपदेशेन स्तूयेत / न हि राजा दासस्त्वमिति स्तुत्यः स्यात् / नापि सतः सर्वात्मन एकदेशनिरोधो युक्तस्तत्त्वमसीति देशाधिपतेरिव ग्रामाध्यक्षस्त्वमिति / न चान्या गतिरिह सदात्मत्वोपदेशादर्थान्तरभूता सम्भवति / ननु सदस्मीतिबुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् / नन्वस्मिन्पक्षे ऽप्यश्रुतं श्रुतं भवतीत्याद्यनुपपन्नम् / न, सदस्मीतिबुद्धिविधेः स्तुत्यर्थत्वात् / न, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरमित्युपदेशात् / यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव तदा नाऽचार्यवान्वेदेति ज्ञानोपायोपदेशो वाच्यः स्यात् / यथाग्निहोत्रं जुहुयादित्येवमादिष्वर्थप्राप्तमेवाऽचार्यवत्त्वमिति तद्वत् / तस्य तावदेव चिरमिति च क्षेपकरणं न युक्तं स्यात् / सदात्मतत्त्वे ऽविज्ञाते ऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् / न च तत्त्वमसीत्युक्ते नाहं सदितिप्रमाणवाक्यजनिता बुद्धीर्निवर्तयितुं शक्या नोत्पन्नेति वा शक्यं वक्तुम् / सर्वोपनिषद्वाक्यानां तत्परतयैवोपक्षयात् / यथाग्निहोत्रादिविधिजनिताग्निहोत्रादिकर्तव्यताबुद्धीनामतथार्थत्वमनुत्पन्नत्वं वा न शक्यते वक्तुं तद्वत् / यत्तूक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति / नासौ दोषः / कार्यकरणसङ्घातव्यतिरिक्तो ऽहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञानादर्शनात्किसु तस्य सदात्मविज्ञानम् / कथमेवं व्यतिरिक्तविज्ञाने सति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च / तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वान्न स्यात्सदात्मविज्ञानम् / तस्माद्विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेवेदं वाक्यं तत्त्वमसीति सिद्धमिति //३ // //
SK
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षोडशः खण्डः इति च्छान्दोग्योपनिषद्ब्राह्मणे षष्ठोध्यायः समाप्तः
SK
अथ सप्तमो ऽध्यायः
SK
START Cह्Uप् ७,१.१
SK
अधीहि भगव इति होपससाद सनत्कुमारं नारदः | तं होवाच यद् वेत्थ तेन मोपसीद | ततस् त ऊर्ध्वं वक्ष्यामीति | स होवाच || Cह्Uप्_७,१.१ ||
SK
Cह्Uप्Bह्_७,१.१ परमार्थन्तत्त्वोपदेशप्रधानपरः षष्ठो ऽध्यायः सदात्मैकत्वनिर्णयपरतयैवोपयुक्तः / न सतोर्ऽवाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामीति शाखाचन्द्रदर्शनवदितीनं सप्तमं प्रपाठकमारभते / अनिर्दिष्टेषु हि सतोर्ऽवाक्तत्त्वेषु सन्मात्रे च निर्दिष्टे ऽन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात्सा मा भूदिति वा तानि निर्दिदिक्षति /
SK
अथवा सोपानारोहणवत्स्थूलादारभ्य सूक्ष्मं सूक्षमतं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वाराज्ये ऽभिषेक्ष्यामीति नामादीनि निर्दिदिक्षति / अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्त्वान्यतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः /
SK
आख्यायिका तु परविद्यास्तुत्यर्था / कथम् / नारदो देवर्षिः कृतकर्तव्यः सर्वविद्यो ऽपि सन्ननात्मज्ञत्वाच्छुशोचैव किमु वक्तव्यमन्यो ऽल्पविज्जन्तुरकृतपुण्यातिशयो ऽकृतार्थ इति / अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयः साधनमस्तीत्येतत्प्रदर्शनार्थं सनत्कुमारनारदाख्यायिकाऽरभ्यते / येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवर्षेः श्रेयो न बभूव येनोत्तमाभिजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभि मानं हित्वा प्राकृतपुरुषवत्सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तये ऽतः प्रख्यापितं भवति निरतिशयप्राप्तिसाधनत्वमात्मविद्याया इति / अधीह्यधीष्व भगवा भ विन्निति किलोपससाद / अधीहि भगव इति मन्त्रः / सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारद उपसन्नवान् / तं न्यायत उपसन्नं होवाच यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीदेदमहं जान इति ततो ऽहं भवतो विज्ञानात्ते तुब्यमूर्ध्वं वक्ष्यामीत्युक्तवति स होवाच नारदः
SK
START Cह्Uप् ७,१.२
SK
ऋग्वेदं भगवो ऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्याम् एतद् भगवो ऽध्येमि || Cह्Uप्_७,१.२ ||
SK
Cह्Uप्Bह्_७,१.२ ऋग्वेदं भगवो ऽध्येमि स्मरामि यद्वेत्थेति विज्ञानस्य पृष्टत्वात् / तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः /
SK
व्याकरणेन हि पदादिविभागश ऋग्वेदादयो ज्ञायन्ते / पित्र्यं श्राद्धकल्पम् / काशिं गणितम् / दैवमुत्पातज्ञानम् / निधिं महाकालादिनिधिशास्त्रम् / वाकोवाक्यं तर्कशास्रम् / एकायनं नीतिशास्रम् / देवविद्यां निरुक्तम् / ब्रह्मण ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दोविचितयः / भूतविद्यां भूततन्त्रम् / क्षत्त्रविद्यां धनुर्वेदम् / नक्षत्रविद्यां ज्यौतिषम् / सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यिशिल्पादिविज्ञानानि / एतत्सर्वं हे भगवो ऽध्येमि
SK
START Cह्Uप् ७,१.३
SK
सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित् | श्रुतं ह्य् एव मे भगवद्दृशेभ्यस् तरति शोकम् आत्मविद् इति | सो ऽहं भगवः शोचामि | तं मा भगवाञ् छोकस्य पारं तारयत्व् इति | तं होवाच यद् वै किंचैतद् अध्यगीष्ठा नामैवैतत् || Cह्Uप्_७,१.३ ||
SK
Cह्Uप्Bह्_७,१.३ सो ऽहं भगव एतत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः / सर्वो हि शब्दो ऽभिधानमात्रमभिधानं च सर्वं मन्त्रेष्वन्तर्भवति / मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः / ऽमन्त्रेषु कर्माणीऽति हि वक्ष्यति नाऽत्मविन्नाऽत्मानं वेद्भि / नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्रविच्चेन्नाऽत्मवित् / न / अभिधानाभिधेयभेदस्य विकारत्वात् / न च विकार आत्मेष्यते / नन्वात्माप्यात्मशब्देनाभिधीयते / न᳚यतो वाचो निवर्तन्ते᳚ / ᳚यत्र नान्य पश्यति᳚इत्यादिश्रुतेः / कथं तर्ह्याऽत्मैवाधस्तात्ऽ ऽस आत्मेऽत्यादिशब्दा आत्मानं प्रत्याययन्ति / नैष दोषः / देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दो देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सदवाच्यमपि प्रत्याययति / यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहिते ऽदृश्यमाने ऽपि राजन्येष राजा दृश्यत इति भवति शब्दप्रयोगस्तत्र को ऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्याने ऽन्यस्मिन्नदृश्यमाने ऽपि राजनि राजप्रतीतिर्भवेत्तद्वत् / तस्मात्सोहं मन्त्रवित्कर्मविदेवास्मि कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि नाऽत्मविन्नाऽत्मप्रकृतिस्वरूपज्ञ इत्यर्थः / अत एवोक्त᳚माचार्यवान्पुरुषो वेदे᳚ति / ᳚यतो वाचो निवर्तन्ते᳚इत्यादिश्रुतिभ्यश्च / श्रुतमागमज्ञानमस्त्येव हि यस्मान्मे मम भगवद्दृशेभ्यो युष्मत्सदृशेभ्यस्तरत्यतिक्रामति शोकं मनस्तापमकृतार्थबुद्धितामात्मविदित्यतः / सो ऽहमनात्मवित्त्वाद्धे भगवः शोचाम्यकृतार्थबुद्ध्या सन्तप्ये सर्वदा तं मा मां शोकस्य शोकसागरस्य पारमन्तं भगवांस्तारयत्वात्मज्ञानोडुपेन कृतार्थबुद्धिमापादयत्वभयं गमयत्वित्यर्थः / तमेवमुक्तवन्तं होवाच यद्वै किञ्चैतदध्यगीष्ठा अधीतवानसि / अध्ययनेन तदर्थज्ञानमुपलक्ष्यते ज्ञातवानसीत्येतन्नामैवैतत् / ᳚वाचाऽरम्भणं विकारो नामधेयम्᳚इति श्रुतेः
SK
START Cह्Uप् ७,१.४
SK
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश् चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर् दैवो निधिर् वाकोवाक्यम् एकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या | नामैवैतत् | नामोपास्स्वेति || Cह्Uप्_७,१.४ ||
SK
Cह्Uप्Bह्_७,१.४ नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् / नामोपाःस्व ब्रह्मेति ब्रह्मबुद्ध्या / यथा प्रतिमां विष्णुबुद्ध्योपास्ते तद्वत्
SK
START Cह्Uप् ७,१.५
SK
स यो नाम ब्रह्मेत्य् उपास्ते | यावन् नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्य् उपास्ते | अस्ति भगवो नाम्नो भूय इति | नाम्नो वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,१.५ ||
SK
Cह्Uप्Bह्_७,१.५ स यस्तु नाम ब्रह्मेत्युपास्ते तस्य यत्फलं भवति तच्छृणु यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन्नामविषये ऽस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति / यो नाम ब्रह्मेत्युपास्त इत्युपसंहारः / किमस्ति भगवो नाम्नो भूयो ऽधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः / सनत्कुमार आह नाम्नो वाव भूयो ऽस्त्येवेत्युक्त आह यद्यस्ति तन्मे भगवान्ब्रवीत्विति
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,२.१
SK
वाग् वाव नाम्नो भूयसी | वाग् वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च तृणवनस्पतीञ् श्वापदान्य् आकीटपतङ्गपिपीलकं धर्मं चाधर्मं | च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च | यद् वै वाङ् नाभविष्यन् न धर्मो नाधर्मो व्यज्ञापयिष्यन् न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञः | वाग् एवैतद् सर्वं विज्ञापयति वाचम् उपास्स्वेति || Cह्Uप्_७,२.१ ||
SK
Cह्Uप्Bह्_७,२.१ वाग्वाव / वागितीन्द्रियं जिह्वाभूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम् / वर्णाश्च नामेति नाम्नो वाग्भूयसीत्युच्यते / कार्यद्धि कारणं भूयो दृष्टं लोके यथा पुत्रात्पिता तद्वत् / कथं च वाङ्नाम्नो भूयसीत्याहवाग्वा ऋग्वेदं विज्ञापयत्ययमृग्वेद इति / तथा यजुर्वेदमित्यादि समानम् / हृदयज्ञं हृदयप्रियम् / तद्विपरीतमहृदयज्ञम् / यद्यदि वाङ्नाभविष्यद्धर्मादि न व्यज्ञापयिष्यद्वागभावे ऽध्ययनाभावे तदर्थश्रवणाभावस्तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यन्न विज्ञातमभविष्यदित्यर्थः / तस्माद्वागेवैतच्छब्दोच्चारणेन सर्वं विज्ञापयत्यतो भूयसी वाङ्नाम्नस्तस्माद्वाचं ब्रह्मेत्युपाःस्व
SK
START Cह्Uप् ७,२.२
SK
स यो वाचं ब्रह्मेत्य् उपास्ते | यावद् वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्य् उपास्ते | अस्ति भगवो वाचो भूय इति | वाचो वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,२.२ ||
SK
Cह्Uप्Bह्_७,२.२ समानमन्यत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,३.१
SK
मनो वाव वाचो भूयः | यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिर् अनुभवत्य् एवं वाचं च नाम च मनो ऽनुभवति | स यदा मनसा मनस्यति मन्त्रान् अधीयीयेत्य् अथाधीते | कर्माणि कुर्वीयेत्य् अथ कुरुते | पुत्रांश् च पशूंश् चेच्छेयेत्य् अथेच्छते | इमं च लोकम् अमुं चेच्छेयेत्य् अथेच्छते | मनो ह्य् आत्मा | मनो हि लोकः | मनो हि ब्रह्म | मन उपास्स्वेति || Cह्Uप्_७,३.१ ||
SK
Cह्Uप्Bह्_७,३.१ मनो मनस्यनविशिष्टमन्तःकरणं वाचो भूयः / तद्धि मनस्यनव्यापारवद्वाचं वक्तव्ये प्रेरयति / तेन वाङ्मनस्यन्तर्भवति / यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात्ततो भूयो भवति / यथा वै लोके द्वे वाऽमलके फले द्वे वा कोले बदरफले द्वौ वाक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः / एवं वाचं च नाम चाऽमलकादिवन्मनो ऽनुभवति / स यदा पुरुषे यस्मिन्काले मनसान्तःकरणेन मनस्यति मनस्यनं विवक्षाबुद्धिः कथं?मन्त्रानधीयीयोच्चारयेयमित्येवं विवक्षां कृत्वाथाधीते तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वाथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेनाथेच्छते पुत्रादीन्प्राप्नोतीत्यर्थः / तथेमं च लोकममुं चोपायेनेच्छेयेति तत्प्रप्त्युपायानुष्ठानेनाथेच्छचे प्राप्नोति / मनो ह्यात्माऽत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो ह्यात्मेत्युच्यते / मनो हि लोकः सत्येव हि मनसि लोको भवति तत्प्राप्त्युपायानुष्ठानं चेति मनो हि लोको यस्मात्तस्मान्मनो हि ब्रह्म / यत एवं तस्मान्मन उपाःस्वेति
SK
START Cह्Uप् ७,३.२
SK
स यो मनो ब्रह्मेत्य् उपास्ते | यावन् मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्य् उपास्ते | अस्ति भगवो मनसो भूय इति | मनसो वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,३.२ ||
SK
Cह्Uप्Bह्_७,३.२ स यो इत्यादि समानम्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,४.१
SK
संकल्पो वाव मनसो भूयान् | यदा वै संकल्पयते ऽथ मनस्यति | अथ वाचम् ईरयति | ताम् उ नाम्नीयूअति | नाम्नि मन्त्रा एकं भवन्ति | मन्त्रेषु कर्माणि || Cह्Uप्_७,४.१ ||
SK
Cह्Uप्Bह्_७,४.१ संकल्पो वाव मनसो भूयान् / संकल्पो ऽपि मनस्यनवदन्तःकरणवृत्तिः कर्तव्याकर्तव्यविषयविभागेन समर्थनम् / विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिर्मनस्यनानन्तरं भवति / कथम् / यदा वै संकल्पयते कर्तव्यादिविषयान्विभजत इदं कर्तुं युक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि / अथानन्तरं वाचमीरयति मन्त्राद्युच्चारणे / तां च वाचमु नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वेरयति नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्त एकं भवन्त्यन्तर्भवन्तीत्यर्थः / सामान्ये हि विशेषो ऽन्तभवति / मन्त्रेषु कर्माण्येकं भवन्ति / मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्म / यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत्कर्म ब्राह्मणेनेदं कर्तव्यमस्मै फलायेति विधीयते / याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम् / न हि मन्त्राप्रकाशितं कर्म किञ्चिद्ब्राह्मण उत्पन्नं दृश्यते / त्रयीविहितं कर्मेति प्रसिद्धम् लोके / त्रयीशब्दश्च ॠग्यजुःसामसमाख्या / मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति चाऽथर्वणे / तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति
SK
START Cह्Uप् ७,४.२
SK
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि | समकॢपतां द्यावापृथिवी | समकल्पेतां वायुश् चाकाशं च | समकल्पन्तापश् च तेजश् च | तेषां संकॢप्त्यै वर्षं संकल्पते | वर्षस्य संकॢप्त्या अन्नं संकल्पते | अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते | प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते | मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते | कर्मणां संकॢप्त्यै लोकः संकल्पते | लोकस्य संकॢप्त्यै सर्वं संकल्पते | स एष संकल्पः | संकल्पम् उपास्स्वेति || Cह्Uप्_७,४.२ ||
SK
Cह्Uप्Bह्_७,४.२ तानि ह वा एतानि मन आदीनि संकल्पैकायनानि संकल्प एको ऽयनं गमनं प्रलयो येषां तानि संकल्पैकायनानि संकल्पात्मकान्युत्पत्तौ संकल्पे प्रतिष्ठितानि स्थितौ समकॢपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिव्यौ निश्चले लक्ष्येते / तथा समकल्पेतां वायुश्चाऽकाशं चैतावपि संकल्पं कृतवन्ताविव तथा समकल्पन्तामापश्च तेजश्च स्वेन रूपेम निश्चलानि लक्ष्यन्ते / यतस्तेषां द्यावापृथिव्यादीनां संकॢप्त्यै संकल्पनिमित्तं वर्षं संकल्पन्ते / अन्नमया हि प्राणा अन्नोपष्टम्भकाः / ᳚अन्नं दाम᳚इति हि श्रुतिः / तेषां संकॢप्त्यै मन्त्राः संकल्पन्ते / प्राणावान्हि मन्त्रानधीते नाबलः / मन्त्राणां हि संकॢप्त्यै कर्माण्यग्निहोत्रादीनि संकल्पन्ते ऽनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय / ततो लोकः फलं संकल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः / लोकस्य संकॢप्त्यै सर्वं जगत्संकल्पते स्वरूपावैकल्याय / एतद्धीदं सर्वं जगद्यत्फलावसानं तत्सर्वं संकल्पमूलम् / अतो विशिष्टः स एष संकल्पः / अतः संकल्पमुपाःस्वेत्युक्त्वा फलमाह तदुपासकस्य
SK
START Cह्Uप् ७,४.३
SK
स यः संकल्पं ब्रह्मेत्य् उपास्ते | कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति | यावत् संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्य् उपास्ते | अस्ति भगवः संकल्पाद् भूय इति | संकल्पाद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,४.३ ||
SK
Cह्Uप्Bह्_७,४.३ स यः संकल्पं ब्रह्मेति ब्रह्मबुद्ध्योपास्तेकॢप्तान्वै धात्रास्येमे लोकाः फलमिति कॢप्तान्समर्थितान्संकल्पितान्स विद्वान्ध्रुवान्नित्यानत्यन्ताध्रुवापेक्षया ध्रुवश्च स्वयम् / लोकिनो ह्यध्रुवत्वे लोके ध्रुवकॢप्तिव्यर्थेति ध्रुवः सन्प्रतिष्ठितानुपकरणसंपन्नानित्यर्थः / पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात्स्वयं च प्रतिष्ठित आत्मीयोपकरणसंपन्नो ऽव्यथमानानमित्रादित्रासरह् इतानव्यथमानश्च स्वयमभिसिध्यत्यभिप्राप्नोतीत्यर्थः / यावत्संकल्पस्य गतं संकल्पगोचरस्तत्रास्य यथाकामचारो भवति आत्मनः संकल्पस्य न तु सर्वेषां संकल्पस्येति / उत्तरफलविरोधात् / यः संकल्पं ब्रह्मेत्युपास्त इत्यादि पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,५.१
SK
चित्तं वाव संकल्पाद् भूयः | यदा वै चेतयते ऽथ संकल्पयते | अथ मनस्यति | अथ वाचम् ईरयति | ताम् उ नाम्नीयूअति | नाम्नि मन्त्रा एकं भवन्ति | मन्त्रेषु कर्माणि || Cह्Uप्_७,५.१ ||
SK
Cह्Uप्Bह्_७,५.१ चित्तं वाव संकल्पाद्भूयः / चित्तं चेतयितृत्वं प्राप्तकालानुरूपबोधवत्त्वमतीतान गतविषयप्रयोजननिरूपणसामर्थ्यं च तत्संकल्पादपि भूयः / कथम् / यदा वै प्राप्तमिति चेतयते तदा दानाय वापोहाय वाथ संकल्पयते ऽथ मनस्यतीत्यादि पूर्ववत्
SK
START Cह्Uप् ७,५.२
SK
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि | तस्माद् यद्य् अपि बहुविद् अचित्तो भवति नायम् अस्तीत्य् एवैनम् आहुः | यद् अयं वेद यद् वा अयं विद्वान् नेत्थम् अचित्तः स्याद् इति | अथ यद्य् अल्पविच् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते | चित्तं ह्य् एवैषाम् एकायनम् | चित्तम् आत्मा | चित्तं प्रतिष्ठा | चित्तम् उपास्स्वेति || Cह्Uप्_७,५.२ ||
SK
Cह्Uप्Bह्_७,५.२ तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि पूर्ववत् / किञ्च चित्तस्य माहात्म्यम् / यस्माच्चित्तं संकल्पादिमूलं तस्माद्यद्यपि बहुविद्बहुशास्रादिपरिज्ञानवान्सन्नचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणा लौकिकानायमस्ति विद्यमानो ऽप्यसत्सम एवेत्येनमाहुः / यच्चायं किञ्चिच्छास्रादि वेद श्रुतवांस्तदप्यस्य वृथैवेति कथयन्ति / कस्मात् / यद्ययं विद्वान्स्यादित्थमेवमचित्तो न स्यात्तस्मादस्य श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः / अथाल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदुक्तार्थग्रहणायैवोतापि शुश्रूषन्ते श्रोतुमिच्छन्ति / तस्माच्च चित्तं ह्येवैषां संकल्पादीनामेकायनमित्यादि पूर्ववत्
SK
START Cह्Uप् ७,५.३
SK
स यश् चित्तं ब्रह्मेत्य् उपास्ते | चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति | यावच् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश् चित्तं ब्रह्मेत्य् उपास्ते | अस्ति भगवश् चित्ताद् भूय इति | चित्ताद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,५.३ ||
SK
Cह्Uप्Bह्_७,५.३ चित्तानुपचितान्हुद्धिमद्गुणैः स चित्तोपासको ध्रुवानित्यादि चोक्तार्थम्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,६.१-२
SK
ध्यानं वाव चित्ताद् भूयः | ध्यायतीव पृथिवी | ध्यायतीवान्तरिक्षम् | ध्यायतीव द्यौः | ध्यायन्तीवापः | ध्यायन्तीव पर्वताः | ध्यायन्तीव देवमनुष्याः | तस्माद् य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्ति | अथ ये ऽल्पाः कलहिनः पिशुना उपवादिनस् ते | अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति | ध्यानम् उपास्स्वेति || Cह्Uप्_७,६.१ ||
SK
स यो ध्यानं ब्रह्मेत्य् उपास्ते | यावद् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्य् उपास्ते | अस्ति भगवो द्यानाद् भूय इति | ध्यानाद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,६.२ ||
SK
Cह्Uप्Bह्_७,६.१-२ ध्यानं वाव चित्ताद्भूयः / ध्यानं नाम शास्रोक्तदेवताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः / एकाग्रतेति यमाहुः / दृश्यते च ध्यानस्य माहात्म्यं फलतः / कथम् / यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे / एवं ध्यायतीव निश्चला दृश्यते पृथिवी / ध्यायतीवान्तरिक्षमित्यादि समानमन्यत् / देवाश्च मनुष्याश्च देवमनुष्या मनुष्या एव वा देवसमा देवमनुष्याः शमादिगुणसंपन्ना मनुष्या देवस्वरूपं न जहतीत्यर्थः / यस्मादेवं विशिष्टं ध्यानं तस्माद्य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः / ध्यानापादांशा इव ध्यानस्याऽपादनमापादो ध्यानफललाभ इत्येतत्तस्यांशो ऽवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः / ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव / अथ ये पुनरल्पाः क्षुद्राः किञ्चिदपि धनादिमहत्त्वैकदेशमप्राप्तास्ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासका उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं योषां त उपवादिनश्च भवन्ति / अथ ये महत्त्वं प्राप्ता धनादिनिमित्तं ते ऽन्यान्प्रति प्रभवन्तीति प्रभवो विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्याद्युक्तार्थम् / अतो दृश्यते ध्यानस्य महत्त्वं फलतो ऽतो भूयश्चित्तादतस्तदुपाःस्वेत्याद्युक्तार्थम् //१-२ //
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,७.१
SK
विज्ञानं वाव ध्यानाद् भूयः | विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च तृणवनस्पतीञ् छ्वापदान्य् आकीटपतङ्गपिपीलकम् | धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकम् अमुं च विज्ञानेनैव विजानाति | विज्ञानम् उपास्स्वेति || Cह्Uप्_७,७.१ ||
SK
Cह्Uप्Bह्_७,७.१ विज्ञानं वाव ध्यानाद्भूयः / विज्ञानं शास्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वाद्ध्यानाद्भूयस्त्वम् / कथं च तस्य भूयस्त्वमित्याह-विज्ञानेन वा ऋग्वेदं विजानात्ययमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् / तथा यजुर्वेदमित्यादि / किञ्च पश्वादींश्च धर्माधर्मौ शास्रसिद्धौ / साध्वसाधुनी लोकतः सिद्धे, स्मार्ते वा दृष्टादृष्टाविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः / तस्माद्युक्तं ध्यानादिज्ञानस्य भूयस्त्वम् अतो विज्ञानमुपाःस्वेति
SK
START Cह्Uप् ७,७.२
SK
स यो विज्ञानं ब्रह्मेत्य् उपास्ते | विज्ञानवतो वै स लोकाञ् ज्ञानवतो ऽभिसिध्यति | यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्य् उपास्ते | अस्ति भगवो विज्ञानाद् भूय इति | विज्ञानाद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,७.२ ||
SK
Cह्Uप्Bह्_७,७.२ शृणूपासनफलं विज्ञानवतो विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकाञ्ज्ञानवतश्चाभिसिध्यत्यभिप्राप्नोति / विज्ञानं शास्रार्थविषयं ज्ञानमन्यविषयं नैपुण्यं तद्वद्भिर्युक्तांल्लोकान्नाप्राप्नोतीत्यर्थः / यावद्विज्ञानस्येत्यादि पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,८.१-२
SK
बलं वाव विज्ञानाद् भूयः | अपि ह शतं विज्ञानवताम् एको बलवान् आकम्पयते | स यदा बली भवत्य् अथोत्थाता भवति | उत्तिष्ठन् परिचरिता भवति | परिचरन्न् उपसत्ता भवति | उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति | बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर् बलेन पर्वता बलेन देवमनुष्या बलेन पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् | बलेन लोकस् तिष्ठति | बलम् उपास्स्वेति || Cह्Uप्_७,८.१ ||
SK
स यो बलम् उपास्ते | यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्य् उपास्ते | अस्ति भगवो बलाद् भूय इति | बलाद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,८.२ ||
SK
Cह्Uप्Bह्_७,८.१-२ बलं वाव विज्ञानाद्भूयः / बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् / अनशनादृगादीनि न वै मा प्रतिभान्ति भो इति श्रुतेः / शरीरे ऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवाना कम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि / यस्मादेवमन्नाद्युपयोगनिमित्तं बलं तस्मात्स पुरुषो यदा बली बलेन तद्वान्भवत्यथोत्थातोत्थानस्य कर्तोत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन्नुपसत्ता तेषां समीपगो ऽन्तरङ्गः प्रयो भवतीत्यर्थः / उपसीदंश्च समीप्यं गच्छन्नेकाग्रतयाऽचार्यस्यान्यस्य चोपदेष्टुर्गुरोर्द्रष्टा भवति / ततस्तदुक्तस्य श्रोता भवति / तत इदमेभिरुक्तमेवमुपपद्यत इत्युपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवत्येवमेवेदमिति / तत एवं निश्चित्य तदुक्तार्थस्य कर्तानुष्ठाता भवति विज्ञातानुष्ठानफलस्यानुभविता भवतीत्यर्थः / किञ्च बलस्य माहात्म्यं बलेन वै पृथिवी तिष्ठतीत्याद्युज्वर्थम् //१-२ //
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,९.१
SK
अन्नं वाव बलाद् भूयः | तस्माद् यद्य् अपि दश रात्रीर् नाश्नीयात् | यद्य् उ ह जीवेत् | अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति | अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति | अन्नम् उपास्स्वेति || Cह्Uप्_७,९.१ ||
SK
Cह्Uप्Bह्_७,९.१ अन्नं वाव बलाद्भूयः / बलहेतुत्वात् / कथमन्नस्य बलहेतुत्वमित्युच्यते / यस्माद्बलकारणमन्नं तस्माद्यद्यपि कश्चिद्दश रात्रीर्नाश्नीयात्सो ऽन्नोपयोगानिमित्तस्य बलस्य हान्या म्रियते न चेन्म्रियते यद्यु ह जीवेत् / दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः / अथवा स जीवन्नप्यद्रष्टा भवति गुरोरपि तत एवाश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति / अथ यदा बहून्यहान्यनशितो दर्शनादिक्रियास्वसमर्थः सन्नन्नस्याऽयी / आगमनमायो ऽन्नस्य प्राप्तिरित्यर्थः / सा यस्य विद्यते सो ऽन्नस्याऽयी / आय इत्येतद्वर्णव्यत्ययेन / अथान्नस्याऽया इत्यपि पाठ एवमेवार्थः / द्रष्टेत्यादिकार्यश्रवणात् / दृश्यते ह्यन्नोपयोगे दर्शनादिसामर्थ्यं न तदप्राप्तावतो ऽन्नमुपाःस्वेति
SK
START Cह्Uप् ७,९.२
SK
स यो ऽन्नं ब्रह्मेत्य् उपास्ते | अन्नवतो वै स लोकान् पानवतो ऽभिसिध्यति | यावद् अन्नस्य गतं तत्रास्य यथाकामचारो भवति यो ऽन्नं ब्रह्मेत्य् उपास्ते | अस्ति भगवो ऽन्नाद् भूय इति | अन्नाद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,९.२ ||
SK
Cह्Uप्Bह्_७,९.२ फलं चान्नवतः प्रभूतान्नान्वै स लोकान्पानवतः प्रभूतोदकांश्चान्नपानयोर्नित्यसंबन्धाल्लोकानभिसि ध्यति / समानमन्यत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,१०.१
SK
आपो वावान्नाद् भूयस्यः | तस्माद् यदा सुवृष्टिर् न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीति | अथ यदा सुवृष्टिर् भवत्य् आनन्दिनः प्राणा भवन्त्य् अन्नं बहु भविष्यतीति | आप एवेमा मूर्ता येयं पृथिवी यद् अन्तरिक्षं यद् द्यौर् यत् पर्वता यद् देवमनुष्या यत् पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् | आप एवेमा मूर्ताः | अप उपास्स्वेति || Cह्Uप्_७,१०.१ ||
SK
Cह्Uप्Bह्_७,१०.१ आपो वावान्नाद्भूयस्यो ऽन्नकारणत्वात् / यस्मादेवं तस्माद्यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिर्न भवति तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति / किंनिमित्तमित्याहान्नमस्मिन्संवत्सरे नः कनीयो ऽल्पतरं भविष्यतीति / अथ पुनर्यदा सुवृष्टिर्भवति तदाऽनन्दिनः सुखिनो हृष्टाः प्राणाः प्राणिनो भवन्त्यन्तं बहु प्रभूतं भविष्यतीति / अप्संभवत्वान्मूर्तस्यान्नस्याऽप एवेमा मूर्तामृर्तभेदाकारपरिणता इति मूर्ता येयं पृथिवी यदन्तरिक्षमित्यादि / आप एवेमा मूर्ता अतो ऽप उपाःस्वेति
SK
START Cह्Uप् ७,१०.२
SK
स यो ऽपो ब्रह्मेत्य् उपास्ते | आप्नोति सर्वान् कामांस् तृप्तिमान् भवति | यावद् अपां गतं तत्रास्य यथाकामचारो भवति यो ऽपो ब्रह्मेत्य् उपास्ते | अस्ति भगवो ऽद्भ्यो भूय इति | अद्भ्यो वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,१०.२ ||
SK
Cह्Uप्Bह्_७,१०.२ फलं-स यो ऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामान्काम्यान्मूर्तिमतो विषयानित्यर्थः / अप्संभवत्वाच्च तृप्तेरम्बुपासनात्तृप्तिमांश्च भवति / समानमन्यत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,११.१
SK
तेजो वावाद्भ्यो भूयः | तद् वा एतद् वायुम् आगृह्याकाशम् अभितपति तदाहुर् निशोचति नितपति वर्षिष्यति वा इति | तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते | तद् एतद् ऊर्ध्वाभिश् च तिरश्चीभिश् च विद्युद्भिर् आह्रादाश् चरन्ति तस्माद् आहुर् विद्योतते स्तनयति वर्षिष्यति वा इति | तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते | तेज उपास्स्वेति || Cह्Uप्_७,११.१ ||
SK
Cह्Uप्Bह्_७,११.१ तेजो वावाद्भ्यो भूयः / तेजसो ऽपकारणत्वात् / कथमप्कारणत्वमित्याह / यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजो वायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभितपत्याकाशमभिव्याप्नुवत्तपति यदा तदाऽहुर्लौकिका निशोचति संतपति सामान्येन जगन्नितपति देहानतो वर्षिष्यति वा इति / प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्य भविष्यतीति विज्ञानम् / तेज एव तत्पूर्वमात्मानमुद्भूतं दर्शयित्वाथानन्तरमपः सृजते ऽतो ऽप्स्रष्टृत्वाद्भून्यो ऽद्भ्यस्तेजः / किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति / कथम् / ऊर्ध्वाभिश्चोर्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च तिर्यग्गताभिश्च सहाऽह्रादाः स्तननशब्दाश्चरन्ति / तस्मात्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा इत्याद्युक्तार्थम् / अतस्तेज उपाःस्वेति
SK
START Cह्Uप् ७,११.२
SK
स यस् तेजो ब्रह्मेत्य् उपास्ते | तेजस्वी वै स तेजस्वतो लोकान् भास्वतो ऽपहततमस्कान् अभिसिध्यति | यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस् तेजो ब्रह्मेत्य् उपास्ते | अस्ति भगवस् तेजसो भूय इति | तेजसो वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,११.२ ||
SK
Cह्Uप्Bह्_७,११.२ तस्य तेजस उपासनफलं-तेजस्वी वै भवति / तेजस्वत एव च लोकान्भास्वतः प्रकाशवतो ऽपहततमस्कान्बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कानभिसिध्यति / ऋज्वर्थमन्यत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,१२.१
SK
आकाशो वाव तेजसो भूयान् | आकाशे वै सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राण्य् अग्निः | आकाशेनाह्वायति | आकाशेन सृणोति | आकाशेन प्रतिसृणोति | आकाशे रमते | आकाशे न रमते | आकाशे जायते | आकाशम् अभिजायते | आकाशम् उपास्स्वेति || Cह्Uप्_७,१२.१ ||
SK
Cह्Uप्Bह्_७,१२.१ आकाशो वाव तेजसो भूयान् / वायुसहितस्य तेजसः कारणत्वाद्व्योम्नो वायुमागृह्येति तेजसा सहोक्तो वायुरिति पृथगिह नोक्तस्तेजसः / कारणं हि लोके कार्याद्भूयो दृष्टम् / यथा घटादिभ्यो मृत्तथाऽकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् / कथम् / आकाशो वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशे ऽन्तः / यच्च यस्यान्तर्वर्ति तदल्पं भूय इतरत् / किञ्चाऽकाशेनाऽह्वयति चान्यमन्य आहूतश्चेतर आकाशेन शृणोत्यन्योक्तं च शब्दमन्यः प्रतिशृणोत्याकाशे रमते क्रीडत्यन्योन्यं सर्वस्तथा न रमते चाऽकाशे वध्वादिवियोग आकाशे जायते न मूर्तेनावष्टब्धे / तथाऽकाशमभिलक्ष्याङ्कुरादि जायते न प्रतिलोमम् / अत आकाशमुपाःस्व
SK
START Cह्Uप् ७,१२.२
SK
स य आकाशं ब्रह्मेत्य् उपास्ते | आकाशवतो वै स लोकान् प्रकाशवतो ऽसंबाधान् उरुगायवतो ऽभिसिध्यति | यावद् आकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्य् उपास्ते | अस्ति भगव आकाशाद् भूय इति | आकाशद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,१२.२ ||
SK
Cह्Uप्Bह्_७,१२.२ फलं शृण्वाकाशवतो वै विस्तारयुक्तान्स विद्वांल्लोकान्प्रकाशवतः / प्रकाशाकाशयोर्नित्यसंबन्धात्प्रकाशवतश्च लोकानसंबाधान्संबाधनं संबाधः संबाधो ऽन्योन्यपीडा तद्रहितानसंबाधानुरुगायवतो विस्तीर्णगतीन्विस्तीर्णप्रचारांल्लोकानभिसिध्यति / यावदाकाशस्येत्याद्युक्तार्थम्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,१३.१-२
SK
स्मरो वावाकाशाद् भूयः | तस्माद् यद्य् अपि बहव आसीरन्न् अ स्मरन्तो नैव ते कंचन शृणुयुर् न मन्वीरन् न विजानीरन् | यदा वाव ते स्मरेयुर् अथ शृणुयुर् अथ मन्वीरन्न् अथ विजानीरन् | स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् | स्मरम् उपास्स्वेति || Cह्Uप्_७,१३.१ ||
SK
स यः स्मरं ब्रह्मेत्य् उपास्ते | यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्य् उपास्ते | अस्ति भगवः स्मराद् भूय इति | स्मराद् वाव भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,१३.२ ||
SK
Cह्Uप्Bह्_७,१३.१-२ स्मरो वावाऽकाकाशाद्भूयः / स्मरणं स्मरो ऽन्तःकरणधर्मः / स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन स्मर्तुः स्मरणे हि सत्याकाशादि सर्वमर्थवत्स्मरणवतो भोग्यत्वात् / असति तु स्मरमे सदप्यसदेव / सत्त्वकार्याभावात् / नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्याऽकाशाद्भृयस्त्वम् / दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात्तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन्नुपविशेयुस्ते तत्राऽसीना अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युर्नैव ते कञ्चन शब्दं शृणुयुस्तथा न मन्वीरन्मन्तव्यं चेत्स्मरेयुस्तदा मन्वीरन्स्मृत्यभावान्न मन्वीरंस्तथा न विजानीरन् / यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं चाथ शृणुयुरथ मन्वीरन्नथ विजानीरन् / तथा स्मरेण वै मम पुत्रा एत इति पुत्रान्विजानाति स्मरेण पशून् / अतो भूयस्त्वात्स्मरमुपाःस्वेति / उक्तार्थमन्यत् //१-२ //
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,१४.१
SK
आशा वाव स्मराद् भूयसी | आशेद्धो वै स्मरो मन्त्रान् अधीते कर्माणि कुरुते पुत्रांश् च पशूंश् चेच्छत इमं च लोकं अमुं चेच्छते | आशाम् उपास्स्वेति || Cह्Uप्_७,१४.१ ||
SK
Cह्Uप्Bह्_७,१४.१ आशा वाव स्मराद्भूयसी / आशाप्राप्तवस्त्वाकाङ्क्षाऽशा तृष्णा काम इति यामाहुः पर्यायैः सा च स्मराद्भूयसी / कथम् / आशया / ह्यन्तःकरणस्थया स्मरति स्मर्तव्यम् / आशाविषयरूपं स्मरन्नसौ स्मरो भवत्यत आशेद्ध आशयाभिवर्धितः स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीते ऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव पुत्रांश्च कर्मफलभूतानिच्छते ऽभिवाञ्छत्याशयैव तत्साधनान्यनुतिष्ठति / इमं च लोकमाशेद्ध एव स्मरंल्लोकसंग्रहहेतुभिरिच्छते / अमुं च लोकमाशेद्धः स्मरंस्तत्साधनानुष्ठानेनेच्छते ऽत आशारशानावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि / अत्र आश आयाः स्मरादपि भूयस्त्वमित्यत आशामुपाःस्व
SK
START Cह्Uप् ७,१४.२
SK
स य आशां ब्रह्मेत्य् उपास्ते | आशयास्य सर्वे कामाः समृध्यन्ति | अमोघा हास्याशिषो भवन्ति | यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्य् उपास्ते | अस्ति भगव आशाया भूय इति | आशाया भूयो ऽस्तीति | तन् मे भगवान् ब्रवीत्व् इति || Cह्Uप्_७,१४.२ ||
SK
Cह्Uप्Bह्_७,१४.२ यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् / आशया सदोपासितयास्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति / अमोघा हास्याऽशिषः प्रार्थनाः सर्वा भवन्ति यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः / यावदाशाया गतमित्यादि पूर्ववत्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्दश खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,१५.१
SK
प्राणो वाव आशाया भूयान् | यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् | प्राणः प्राणेन याति | प्राणः प्राणं ददाति | प्राणाय ददाति | प्राणो ह पिता | प्राणो माता | प्राणो भ्राता | प्राणः स्वसा | प्राण आचार्यः | प्राणो ब्राह्मणः || Cह्Uप्_७,१५.१ ||
SK
Cह्Uप्Bह्_७,१५.१ नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन चोत्तरोत्तरभूयस्तयावस्थितं स्मृतिनिमित्तसद्भावमाशारशनापाशैर्विपाशितं सर्वं सर्वतो बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम् / येन च सर्वतो व्यापिनान्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च / स एष प्राणो वा आशाया भूयान् / कथमस्य भूयस्त्वमित्याह दृष्टान्तेन समर्थयंस्तद्भूयस्त्वम् / यथा वै लोके रथचक्रस्यारा रथनाभौ समर्पिताः संप्रोताः संप्रवेशिता इत्येतत् / एवमस्मिंल्लिङ्गसंघातरूपे प्राणे प्रज्ञात्मनि देहिके मुख्ये यस्मिन्परा देवता नामरूपव्याकरणायाऽदर्शादौ प्रतिबिम्बिवज्जीवेनाऽत्मनानुप्रतिष्टा / यश्च महाराजस्येव सर्वाधिकारीश्वरस्य / ᳚कस्मिन्नन्न्वहमुत्क्रान्त उत्क्रान्तो बविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत᳚इति श्रुतेः यस्तु च्छायेवानुगत ईश्वरम् / ᳚तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः / ᳚ ᳚स एष प्राण एव प्रज्ञात्मा᳚इति कौषीतकिनाम् / अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् / अतः स एष प्राणो ऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः / सर्वं क्रियाकारकफलभेदजातं प्राण एव न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः / प्राणः प्राणं ददाति यद्ददाति तत्स्वीत्मभूतमेव / यस्मै ददाति तदपि प्राणायैव / अतः पित्राद्याख्यो ऽपि प्राण एव
SK
START Cह्Uप् ७,१५.२
SK
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशम् इव प्रत्याह | धिक् त्वास्त्व् इत्य् एवैनम् आहुः | पितृहा वै त्वम् असि मातृहा वै त्वम् असि भ्रातृहा वै त्वम् असि स्वसृहा वै त्वम् अस्य् आचार्यहा वै त्वम् असि ब्राह्मणहा वै त्वम् असीति || Cह्Uप्_७,१५.२ ||
SK
Cह्Uप्Bह्_७,१५.२ कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति / उच्यते - सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात्तदुत्क्रान्तौ च प्रयोगाभावात् / कथं तदित्याह / स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह तदैनं पार्श्वस्था आहुर्विवेकिनो धिक्त्वास्तु धिगस्तु त्वामित्येवम् / पितृहा वै त्वं पितुर्हन्तेत्यादि
SK
START Cह्Uप् ७,१५.३
SK
अथ यद्य् अप्य् एनान् उत्क्रान्तप्राणाञ् छूलेन समासं व्यतिषंदहेत् | नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति || Cह्Uप्_७,१५.३ ||
SK
Cह्Uप्Bह्_७,१५.३ अथैनानेवोत्क्रान्तप्राणांस्त्यक्तदेहानथ यद्यपि शूलेन समासं समस्य व्यतिदहेद्व्यत्यस्य संदहेदेवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसंबद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि / तस्मादन्वयव्यतिरेकाभ्यामवगम्यत एतत्पित्राद्याख्यो ऽपि प्राण एवेति
SK
START Cह्Uप् ७,१५.४
SK
प्राणो ह्य् एवैतानि सर्वाणि भवति | स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति | तं चेद् ब्रूयुर् अतिवाद्य् असीति | अतिवाद्य् अस्मीति ब्रूयात् | नापह्नुवीत || Cह्Uप्_७,१५.४ ||
SK
Cह्Uप्Bह्_७,१५.४ तस्मात्प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च / स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन्फलतो ऽनुभवन्नेवं मन्वान उपपत्तिभिश्चिन्तयन्नेवं विजानन्नुपपत्तिभिः संयोज्यैवमेवेति निश्चयं कुर्वन्नित्यर्थः / मननविज्ञानाभ्यां हि संभूतः शास्रार्थो निश्चितो दृष्टो भवेत् / अत एवं पश्यन्नतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः / तं चेद्ब्रूयुस्तं यद्येवमतिवादिनं सर्वदा सर्वैः शब्दैर्नामाद्याशान्तमतीत्य वर्तमानं प्राणमेवं वदन्तमेवं पश्यन्तमतिवदनशीलमतिवादिनं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्माहमिति ब्रुवाणं यदि ब्रूयुरतिवाद्यसीति / बाढमतिवाद्यस्मीति ब्रूयान्नापह्नुवीत / कस्माद्ध्यसावपह्नुवीत / यत्प्राणं सर्वेश्वरमयमहमस्मीत्यात्मत्वेनोपगतः
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चदशः खण्डः
SK
START Cह्Uप् ७,१६.१
SK
एष तु वा अतिवदति यः सत्येनातिवदति | सो ऽहं भगवः सत्येनातिवदानीति | सत्यं त्वेव विजिज्ञासितव्यम् इति | सत्यं भगवो विजिज्ञास इति || Cह्Uप्_७,१६.१ ||
SK
Cह्Uप्Bह्_७,१६.१ स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम / न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ / यतस्तमेवं विकारानृतब्रह्मविज्ञानेन परितुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषाद्विप्रच्यावयन्नाह भगवान्सनत्कुमारः / एष तु वा अतिवदति यमहं वक्ष्यामि न प्राणविदतिवादी परमार्थतः / नामाद्यपेक्षं तु तस्यातिवादित्वम् / यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद सो ऽतिवादीत्यत आह-एष तु वा अतिवदति यः सतेयन परमार्थसत्यविज्ञानवत्तयातिवदति / सो ऽहं त्वां प्रपन्नो भगवन्सत्येनातिवदानि तथामां नियुनक्तु भगवान्यथाहं सत्येनातिवदानीत्यभिप्रायः / यद्येवं सत्येनातिवदितुमिच्छसि सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः / तथास्तु तर्हि सत्य भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तो ऽहमिति
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षोडशः खण्डः
SK
START Cह्Uप् ७,१७.१
SK
यदा वै विजानात्य् अथ सत्यं वदति | नाविजानन् सत्यं वदति | विजानन्न् एव सत्यं वदति | विज्ञानं त्व् एव विजिज्ञासितव्यम् इति | विज्ञानं भगवो विजिज्ञास इति || Cह्Uप्_७,१७.१ ||
SK
Cह्Uप्Bह्_७,१७.१ यदा वै सत्यं परमार्थतो विजानातीदं परमार्थः सत्यमिति, ततो ऽनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेवाथ वदति यद्वदति / ननु विकारो ऽपि सत्यमेव / ᳚नामरूपे सत्यं ताभ्य मयं प्राणश्छन्नः᳚ / ᳚प्राणा वै सत्यं तेषामेष सत्यम्᳚इति श्रुत्यन्तरात् / सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य न तु परमार्थापेक्षमुक्तं किं तर्हीन्द्रियविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति / प्राणा वै सत्यं तेषामेष सत्यमिति चोक्तम् / इहापि तदिष्टमेव / इह तु प्रणविषयात्परमार्थसत्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यं तद्विज्ञापयिष्यामीत्येष विशेषतो विवक्षितोर्ऽथः / नाविजानन्सत्यं वदति यस्त्वविजानन्वदति सो ऽग्न्यादिशब्देनाग्न्यदीन्परमार्थसद्रूपान्मन्यमानो वदति न तु ते रूपत्रयव्यतिरेकेण परमार्थः सन्ति / तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति / विजानन्नेव सत्यं वदति / न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह-विज्ञानं त्वेव विजिज्ञासितव्यमिति / यद्येवं विज्ञानं भगवो विजिज्ञास इति / एवं सत्यादीनां चोत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम्
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तदशः खण्डः
SK
START Cह्Uप् ७,१८.१
SK
यदा वै मनुते ऽथ विजानाति | नामत्वा विजानाति | मत्वैव विजानाति | मतिस् त्व् एव विजिज्ञासितव्येति | मतिं भगवो विजिज्ञास इति || Cह्Uप्_७,१८.१ ||
SK
Cह्Uप्Bह्_७,१८.१ यदा वै मनुत इति / मतिर्मननं तर्को मन्तव्यविषय आदरः
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्याष्टदशः खण्डः
SK
START Cह्Uप् ७,१९.१
SK
यदा वै श्रद्दधात्य् अथ मनुते | नाश्रद्दधन् मनुते | श्रद्दधद् एव मनुते | श्रद्धा त्व् एव विजिज्ञासितव्येति | श्रद्धां भगवो विजिज्ञास इति || Cह्Uप्_७,१९.१ ||
SK
Cह्Uप्Bह्_७,१९.१ आस्तिक्यबुद्धिः श्रद्धा
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकोनविंशः खण्डः
SK
START Cह्Uप् ७,२०.१
SK
यदा वै निस्तिष्ठत्य् अथ श्रद्दधाति | नानिस्तिष्ठञ् छ्रद्दधाति | निस्तिष्ठन्न् एव श्रद्दधाति | निष्ठा त्व् एव विजिज्ञासितव्येति | निष्ठां भगवो विजिज्ञास इति || Cह्Uप्_७,२०.१ ||
SK
Cह्Uप्Bह्_७,२०.१ निष्ठा गुरुशुश्रूषादिस्तत्परत्वं ब्रह्मविज्ञानाय
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य विंशः खण्डः
SK
START Cह्Uप् ७,२१.१
SK
यदा वै करोत्य् अथ निस्तिष्ठति | नाकृत्वा निस्तिष्ठति | कृत्वैव निस्तिष्ठति | कृतिस् त्व् एव विजिज्ञासितव्येति | कृतिं भगवो विजिज्ञास इति || Cह्Uप्_७,२१.१ ||
SK
Cह्Uप्Bह्_७,२१.१ यदा वै करोति / कृतिरिन्द्रियसंयमश्चित्तैकाग्रताकरणं च / सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकविंशः खण्डः
SK
START Cह्Uप् ७,२२.१
SK
यदा वै सुखं लभते ऽथ करोति | नासुखं लब्ध्वा करोति | सुखम् एव लब्ध्वा करोति | सुखं त्व् एव विजिज्ञासितव्यम् इति | सुखं भगवो विजिज्ञास इति || Cह्Uप्_७,२२.१ ||
SK
Cह्Uप्Bह्_७,२२.१ सापि कृतिर्यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः / यथा दृष्टफलसुखा कृतिस्तथेहापि नासुखं लब्ध्वा करोति / भविष्यदपि फलं लब्ध्वेत्युच्यते / तदुद्दिश्य प्रवृत्त्युपपत्तेः / अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तं तत इदमुच्यते / सुखं त्वेव विजिज्ञासितव्यमित्यादि / सुखं भगवो विजिज्ञास इत्यभिमुखीभूतायाऽह
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वाविंशः खण्डः
SK
START Cह्Uप् ७,२३.१
SK
यो वै भूमा तत् सुखम् | नाल्पे सुखम् अस्ति | भूमैव सुखम् | भूमा त्व् एव विजिज्ञासितव्य इति | भूमानं भगवो विजिज्ञास इति || Cह्Uप्_७,२३.१ ||
SK
Cह्Uप्Bह्_७,२३.१ यो वै भूमा महन्निरतिशयं बह्विति पर्यायास्तत्सुखम् / ततोर्ऽवाक्सातिशयत्वादल्पम् / अतस्तस्मिन्नल्पे सुखं नास्ति / अल्पस्याधिकतृष्णाहेतुत्वात् / तृष्णा च दुःखबीजं / न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके / तस्माद्युक्तं नाल्पे सुखमस्तीति / अतो भूमैव सुखम् / तृष्णादिदुःखबीजत्वासंभवाद्भूम्नः
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोविंशः खण्डः
SK
START Cह्Uप् ७,२४.१
SK
यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा | अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् | यो वै भूमा तद् अमृतम् | अथ यद् अल्पं तन् मर्त्यम् | स भगवः कस्मिन् प्रतिष्ठित इति | स्वे महिम्नि यदि वा न महिम्नीति || Cह्Uप्_७,२४.१ ||
SK
Cह्Uप्Bह्_७,२४.१ किंलक्षणो ऽसौ भूमेत्याह-यत्र यस्मिन्भूम्नि तत्त्वे नान्यद्द्रष्टव्यमन्येन करणेन द्रष्टान्यो विभक्तो दृश्यात्पश्यति / तथा नान्यच्छृणोति / नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणमन्येषां चोपलक्षणार्थत्वेन / मननं चात्रोक्तं द्रष्टव्यं नान्यन्मनुत इति / प्रायशो मननपूर्वकत्वाद्विज्ञानस्य / तथा नान्यद्विजानाति / एवंलक्षणो यः स भूमा / किमत्र प्रसिद्रान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथान्यन्न पश्यत्यात्मानं पश्यतीत्येतत् / किञ्चातः / यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति / अथान्यद्रशनविशेषप्रतिषेधेनाऽत्मानं पश्यतीत्युच्यते तदैकस्मिन्नेव क्रियाकारकफलभेदो ऽभ्युपगतो भवेत् / यद्येवं को दोषः स्यात् / नन्वयमेव दोषः संसारानिवृत्तिः / क्रियाकारकफलभेदो हि संसार इति / आत्मैकत्व एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् / न / आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् / अन्यदर्शनाद्यभावोक्तिपक्षे ऽपि यत्रेत्यन्यन्न पश्यतीति च विशेषणे अनर्थके स्यातामिति चेत् / दृश्यते हि लोके यत्र शून्ये गृहे ऽन्यन्न पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते / एवमिहापीति चेत् / न / तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः / तथा सदेकमेवाद्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् / ᳚अदृश्ये ऽनात्म्ये᳚ ᳚न संदृशे तिष्ठति रूपमस्य᳚ ᳚विज्ञातारमरे केन विजानीयात्᳚इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः / यत्रेति विशेषणमनर्थकं प्राप्तमिति चेत् / न / अविद्याकृतभेदापेक्षत्वात् / यथा सत्येकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति संख्याद्यनर्हमप्युच्यते / एवं भूम्न्येकस्मिन्नेव यत्रेति विशेषणम् / अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वान्नान्यत्पश्यतीति विशेषणम् / तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः / अथ यत्राविद्याविषये ऽन्यो ऽन्येनान्यत्पश्यतीति तदल्पमविद्याकालभावीत्यर्थः / यथा स्वप्नदृश्यं वस्तु प्राक् प्रबोधात्तत्कालभावीति तद्वत् / तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव तद्विपरोतो भूमा यस्तदमृतम् / तच्छब्दो ऽमृतत्वपरः / स तर्ह्येवंलक्षणो भूमा हे भगवन्कस्मिन्प्रतिष्ठित इत्युक्तवन्तं नारदं प्रत्याह सनत्किमारः / स्वे महिम्नीति स्व आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा / यदि प्रतिष्ठामिच्छसि क्वचिद्यदि वा परमार्थमेव पृच्छसि न महिम्न्यपि प्रतिष्ठित इति ब्रूमः / अप्रतिष्ठितो ऽनाश्रितो भूमा क्वचिदपीत्यर्थः
SK
START Cह्Uप् ७,२४.२
SK
गो ऽश्वम् इह महिमेत्य् आचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्य् आयतनानीति | नाहम् एवं ब्रवीमि | ब्रवीमीति होवाच | अन्यो ह्य् अन्यस्मिन् प्रतिष्ठित इति || Cह्Uप्_७,२४.२ ||
SK
Cह्Uप्Bह्_७,२४.२ यदि स्वमहिम्नि प्रतिष्ठितो भूमा कथं तर्ह्यप्रतिष्ठ उच्यते / शृणु / गो ऽश्वादीह महिमेत्याचक्षते / गावश्चाश्वाश्च गो ऽश्वं द्वन्द्वैकवद्भावः / सर्वत्र गवाश्वादि महिमेति प्रसिद्धं तदाश्रितस्तत्प्रतिष्ठश्चैत्रो भवति, यथा नाहमेवं स्वतो ऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीम्यत्र हेतुत्वेनान्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन सम्बन्धः / किन्त्वेवं ब्रवीमीति होवाच-स एवेत्यादि
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्विंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,२५.१
SK
स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः | स एवेदं सर्वम् इति | अथातो ऽहंकारादेश एव | अहम् एवाधस्ताद् अहम् उपरिष्टाद् अहं पश्चाद् अहं पुरस्ताद् अहं दक्षिणतो ऽहम् उत्तरतो ऽहम् एवेदं सर्वम् इति || Cह्Uप्_७,२५.१ ||
SK
Cह्Uप्Bह्_७,२५.१ कस्मात्पुनः क्वचिन्न प्रतिष्ठित इत्युच्यते / यस्मात्स एव भूमाधस्तान्न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् / तथोपरिष्टादित्यादि समानम् / सति भूम्नो ऽन्यस्मिन्भूमा हि प्रतिष्ठितः स्यान्न तु तदस्ति / स एव तु सर्वम् / अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः / यत्र नान्यत्पश्यतीत्यधिकरणाधिकर्तव्यतानिर्देशात्स एवाधस्तादिति च परोक्षनिर्देशाद्द्रष्टर्जीवादन्योभूमा स्यादित्याशङ्का कस्यचिन्मा भूदित्यथातो ऽनन्तरमहङ्कारादेशो ऽहङ्कारेणाऽदिश्यत इत्यहङ्कारादेशः / द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यते ऽहङ्कारेणाहमेवाधस्तादित्यादिना
SK
START Cह्Uप् ७,२५.२
SK
अथात आत्मादेश एव | आत्मैवाधस्ताद् आत्मोपरिष्टाद् आत्मा पश्चाद् आत्मा पुरस्ताद् आत्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् इति | स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्मरतिर् आत्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति | तस्य सर्वेषु लोकेषु कामचारो भवति | अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति | तेषां सर्वेषु लोकेष्व् अकामचारो भवति || Cह्Uप्_७,२५.२ ||
SK
Cह्Uप्Bह्_७,२५.२ अहङ्कारेण देहादिसंघातो ऽप्यादिश्यते ऽविवेकिभिरित्यतस्तदाशङ्का मा भूदित्यथानन्तरमात्मादेश आत्मनैव केवलेन सत्स्वरूपेण शुद्धेनाऽदिश्यते / आत्मैव सर्वतः सर्वमित्येवमेकमजं सर्वतो व्योमवत्पूर्णमन्यशून्यं पश्यन्स वा एष विद्वान्मननविज्ञानाभ्यामात्मरतिरात्मन्येव रती रमणं यस्य सो ऽयमात्मरतिः / तथाऽत्मक्रीडः / देहमात्रसाधना रतिर्बाह्यसाधना क्रीडा / लोके स्रीभिः सखिभिश्च क्रीडतीति दर्शनात् न तथा विदुषः किं तर्ह्यात्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः / मिथुनं द्वंन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः / तथाऽत्मानन्दः शब्दादिनिमित्त आनन्दो ऽविदुषां न तथास्य विदुषः किं तर्ह्यात्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः / स एवंलक्षणो विद्वाञ्जीवन्नेव स्वाराज्ये ऽभिषिक्तः पतिते ऽपि देहे स्वराडेव भवति / यत एवं भवति तत एव तस्य सर्वेषु लोकेषु कामचारो भवति / प्राणादिषु पूर्वभूमिषु तत्रास्येति तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तमन्राजत्वं चार्थप्राप्तं सातिशयत्वाद्यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन ततन्निवृत्तिरिहोच्यते स स्वराडित्यादिना / अथ पुनर्ये ऽन्यथात उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यङ्न विदुस्ते ऽन्यराजानो भवन्ति अन्यः परो राजा स्वामी येषां ते ऽन्यराजानस्ते / किञ्च क्षय्यो लोको येषां ते क्षय्य्लोकाः / भेददर्शनस्याल्पविषयत्वादल्पं च तन्मर्त्यमित्यवोचाम / तस्माद्ये द्वैतदर्शिनस्ते क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्त्यत एव तेषां सर्वेषु लोकेष्वकामचारो भवति
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चविंशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ७,२६.१
SK
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भावतिरोभावाव् आत्मतो ऽन्नम् आत्मतो बलम् आत्मतो विज्ञानम् आत्मतो ध्यानम् आत्मतश् चित्तम् आत्मतः संकल्प आत्मतो मन आत्मतो वाग् आत्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्य् आत्मत एवेदं सर्वम् इति || Cह्Uप्_७,२६.१ ||
SK
Cह्Uप्Bह्_७,२६.१ तस्य ह वा एतस्येत्यादि स्वाराज्यं प्राप्तस्य प्रकृतस्य विदुष इत्यर्थः / प्राक्सदात्मविज्ञानात्स्वात्मनो ऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूतां सदात्माविज्ञाने तु सतीदानीं स्वात्मत एव संवृत्तौ तथा सर्वो ऽप्यन्यो व्यवहार आत्मत एव विदुषः
SK
START Cह्Uप् ७,२६.२
SK
तद् एष श्लोकः | न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् | सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः | इति | स एकधा भवति त्रिधा भवति पञ्चधा | सप्तधा नवधा चैव पुनश् चैकादश स्मृतः | शतं च दश चैकश् च सहस्राणि च विंशतिः | आहारशुद्धौ सत्त्वशुद्धिः | सत्त्वशुद्धौ ध्रुवा स्मृतिः | स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः | तस्मै मृदितकषायाय तमसस् पारं दर्शयति भगवान् सनत्कुमारः | तं स्कन्द इत्य् आचक्षते || Cह्Uप्_७,२६.२ ||
SK
Cह्Uप्Bह्_७,२६.२ किञ्च तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽपि भवति / न पश्यः पश्यतीति पश्यो यथोक्तदर्शी विद्वानित्यर्थः / मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति / सर्वं ह सर्वमेव स पश्यः पश्यत्यात्मानमेव सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति / किञ्च स विद्वान्प्राक्सृष्टिप्रभेदादेकधैव भवत्येकधैव च संस्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले / पुनः संहारकाले मूलमेव स्वं पारमार्थकमेकधाभावं प्रतिपद्यते स्वतन्त्र एवेति विद्यां फलेन प्ररोचयन्स्तौति / अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येवाऽदर्शस्य विशुद्धिकारणं साधनमुपदिश्यते-आहारशुद्धौ / आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते विशुद्धिकारणं साधनमुपदिश्यते-आहारशुद्धौ / आह्रियत इत्याहरः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः / तस्यामाहाराशुद्धौ सत्यां तद्वतो ऽन्तःकरणस्य सत्त्वस्य शुद्धिर्नैर्मल्यं भवति / सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवाविच्छिन्ना स्मृतिरविस्मरमं भवति / तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणामनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाक्षयाणां ग्रन्थीनां विप्रमोक्षो विशेषेण प्रमोक्षणं विनाशो भवतीति / यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः / सर्वं शास्रार्थमशेषत उक्त्वाऽख्यायिकामुपसंहरति श्रुतिः-तस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्जनारूपत्वात्स ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विनाशितो यस्य नारदस्य तस्मै योग्याय मृदितकषायाय तमसो ऽविद्यालक्षणात्पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः / को ऽसौ, भगवान्-᳚उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् / वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति //
SK
᳚ एवन्धर्मा सनत्कुमारः / तमेव सनत्कुमारं देवं स्कन्द इत्याचक्षते कथयन्ति तद्विदः / द्विर्वचनमध्यायपरिसमाप्त्यर्थम् //२ // //
SK
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षड्विंशः खण्डः इति च्छान्दोग्योपनिषद्ब्रह्मणे सप्तमोध्यायः समाप्तः
SK
अथ अष्टमो ऽध्यायः ॐ
SK
START Cह्Uप् ८,१.१
SK
अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः | तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति || Cह्Uप्_८,१.१ ||
SK
Cह्Uप्Bह्_८,१.१ यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म सदेकमेवाद्वितीयमात्मैवेदं सर्वमिति षष्ठसप्तमयोरधिगतं तथापीह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्वित्येवं भाविता बुद्धिर्न शक्यते सहसा परमार्थविषया कर्तुमित्यनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः / यद्यपि सत्सम्यक्प्रत्ययैकविषया कर्तुमित्यानधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः / यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं चाऽत्मतत्त्वं तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात्सत्यकामादिगुणवत्त्वं च वक्तव्यम् / तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति तथाप्यनेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः / तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्याविशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुर्दग्धेन्धन इवाग्निः स्वात्मन्येव निवृत्तिस्तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते / दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्ममन्दबुद्धीनामसदिव प्रतिभाति / सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः / अथानन्तरं यदिदं वक्ष्यमाणं दहरमल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म द्वारपालादिमत्त्वात् / अस्मिन्ब्रह्मपुरे ब्रह्मणः परस्य पुरं राज्ञो ऽनेकप्रकृतिमद्यथापुरं तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् / पुरे च वेश्म राज्ञो यथा तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः / यथा विष्णोः शालग्रामः / अस्मिन्हि स्वविकारशिङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रङ्म जीवेनाऽत्मनेत्युक्तम् / तस्मादस्मिन्हृदयपुण्डरीके वेश्मन्युपसंहृतकरणैर्बाह्यविषयविरक्तैर्विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तेर्वक्ष्यमाणगुणवद्ध्यायमानैर्ब्रह्मोपलभ्यत इति प्रकरणार्थः / दहरो ऽल्पतरो ऽस्मिन्दहरे वेश्मनि वेश्मनो ऽल्पत्वात्तदन्तर्वर्तिनो ऽल्पतरत्वं वेश्मनः / अन्तराकाश आकाशाख्यं ब्रह्म / आकाशो वै नामेति हि वक्ष्यति / आकाश इवाशरीरत्वात्सूक्ष्मत्वसर्वगतत्वसामान्याच्च / तस्मिन्नाकाशाख्ये यदन्तर्मध्ये तदन्वेष्टव्यम् / तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः
SK
START Cह्Uप् ८,१.२
SK
तं चेद् ब्रूयुर् यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम् इति | स ब्रूयात् || Cह्Uप्_८,१.२ ||
SK
Cह्Uप्Bह्_८,१.२ तं चेदेवमुक्तवन्तमाचार्यं यदि ब्रूयुरन्तेवासिनश्चोदयेयुः, कथं, यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्ने ऽन्तर्दहरं पुण्डरीकं वेश्म ततो ऽप्यन्तरल्पतर एवाऽकाशः / पुण्डरीक एव वेश्मनि तावत्किं स्यात् / किं ततो ऽल्पतरे खे यद्भवेदित्याहुः / दहरो ऽस्मिन्नन्तराकाशः किं तदत्र विद्यते न किञ्चन विद्यत इत्यभिप्रायः / यदि नाम बदरमात्रं किमपि विद्यते किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् / अतो यत्त्त्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम्
SK
START Cह्Uप् ८,१.३
SK
यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाशः | उभे ऽस्मिन् द्यावापृथिवी अन्तर् एव समाहिते | उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि | यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति || Cह्Uप्_८,१.३ ||
SK
Cह्Uप्Bह्_८,१.३ शृणुत / तत्र यद्ब्रूथ पुण्डरीकान्तःखस्याल्पत्वात्तत्स्थमल्पतरं स्यादिति / तदसत् / न हि खं पुण्डरीकवेशमगतं पुण्डरीकादल्पतरं मत्वावोचं दहरो ऽर्स्मिन्नन्तराकाश इति / किं तर्हि पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिः स्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरो ऽस्मिन्नन्तराकाश इत्यवोचामान्तःकरणोपाधिनिमित्तम् / स्वतस्तु यावान्वै प्रसिद्धः परिमाणतो ऽयमाकाशो भौतिकस्तावानेषो ऽन्तर्हृदय आकाशो यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं चावोचाम / नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते / किं तर्हि ब्रह्मणो ऽनुरूपस्य दृष्टान्तान्तरस्याभावात् / कथं पुनर्नाऽकाशसममेव ब्रह्मेत्यवगम्यते / ᳚येनाऽवृतं खं च दिवं महीं च᳚ / ᳚तस्माद्वा एतस्मादात्मन आकाशः संभूतः᳚ ᳚एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः᳚इत्यादिश्रुतिभ्यः / किञ्चोभे ऽस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे ऽन्तरेव समाहिते सम्यगाहिते स्थिते यथा वा अरा नाभावित्युक्तं हि / तथोभावग्निश्च वायुश्चेत्यादि समानम् / यच्चास्याऽत्मन आत्मीयत्वेन देहवतो ऽस्ति विद्यत इह लोके / तता यच्चाऽत्मीयत्वेन न विद्यते / नष्टं भविष्यच्च नास्तीत्युच्यते / न त्वत्यन्तमेवासत् / तस्य हृद्याकाशे समाधानानुपपत्तेः
SK
START Cह्Uप् ८,१.४
SK
तं चेद् ब्रूयुर् अस्मिंश् चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यद् एनज् जरा वाप्नोति प्रध्वंसते वा किं ततो ऽतिशिष्यत इति || Cह्Uप्_८,१.४ ||
SK
Cह्Uप्Bह्_८,१.४ तं चेदेवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः अस्मिंश्चेद्यथोक्ते चेद्यदि ब्रह्मपुरोपलक्षितान्तराकाश इत्यर्थः / इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः / कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते / नैष दोषः यच्चास्येहास्ति यच्च नास्तीत्युक्ता एव ह्याचार्येण कामाः / अपि च सर्वशब्देन चोक्ता एव कामाः / यदा यस्मिन्काल एतच्छरीरं ब्रह्मपुराख्यं जरावलीपलितादिलक्षणा वयोहानिर्वाऽप्नोति शस्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति किं ततो ऽन्यदतिशिष्यते / घटाश्रितक्षीरदधिस्नेहादिवद्घटनाशे देहनाशे ऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः / एवं प्राप्ते नाशे किं ततो ऽन्यद्यथोक्तादतिशिष्यते ऽवतिष्ठते न किञ्चनावतिष्ठत इत्यभीप्रायः
SK
START Cह्Uप् ८,१.५ स ब्रूयात् | नास्य जरयैतज् जीर्यति न वधेनास्य हन्यते | एतत् सत्यं ब्रह्मपुरम् अस्मिन् कामाः समाहिताः | एष आत्मापहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः | यथा ह्य् एवेह प्रजा अन्वाविशन्ति यथानुशासनम् | यं यम् अन्तम् अभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तम् एवोपजीवन्ति || Cह्Uप्_८,१.५ ||
SK
Cह्Uप्Bह्_८,१.५ एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात्तन्मतिमपनयन् / कथम् / अस्य देहस्य जरयैतद्यथोक्तमन्तराकाशाख्यं ब्रङ्म यस्मिन्सर्व समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः / न चास्य वधेन शस्रादिघातेनैतद्धन्यते यथाऽकाशं किमु ततो ऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्येतस्मिन्नवसरे वक्तव्यं प्राप्तं तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते / इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः / एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरं शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् / तत्त्वनृतमेव / ᳚वाचाऽरम्भणं विकारो नामधेयम्᳚इति श्रुतेः / तद्विकारे ऽनृते ऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् / सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म / सर्वव्यवहारास्पदत्वात् / अतो ऽस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामा ये बहिर्भवद्भिः प्रार्थ्यन्ते ते ऽस्मिन्नेव स्वात्मनि समाहिताः / अतस्तत्प्राप्त्युपायमेवानुतिष्ठत बाह्यविषयतृष्मां त्यजतेत्यभिप्रायः / एष आत्मा भवतां स्वरूपम् / शृणुत तस्य लक्षणम् / अपहतपाप्मा / अपहतः पाप्मा धर्माधर्माख्यो यस्य सो ऽयमपहतपाप्मा / तथा विजरो विगतजरो विमृत्युश्च / तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति / किमर्थ पुनरुच्यते / यद्यपि देहसंबन्धिभ्यां जरामृत्युभ्यां न संबध्यते ऽन्यथापि संबन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम् / विशोको विगतशोकः / शोको नामेष्टादिवियोगनिमित्तो मानसः संतापः / विजिघत्सो विगताशनेच्छः / अपिपासो ऽपानेच्छः / नन्वपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति / कारणप्रतिषेधात् / धर्माधर्मकार्या हि त इति / जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधो ऽनर्थकः स्यात् / सत्यमेवं तथापि धर्मकार्या नन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे विज्ञानमानन्दं ब्रह्मेति श्रुतेः / तथाधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत / अतो युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः / जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् / पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्याशक्यत्वात्सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् / सत्या अवितथाः कामा यस्य सो ऽयं सत्यकामः / वितथा हि संसारिणां कामाः / ईश्वरस्य तद्विपरीताः / तथा कामहेतवः संकल्पा अपि सत्या यस्य स सत्यसंकल्पः / संकल्पाः कामाश्च शुद्धसत्त्वोपाधिनिमित्ता ईश्वरस्य चित्रगुवत् / न स्वतो नेति नेतीत्युक्तत्वात् / यथोक्तलक्षण एवाऽत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्चाऽत्मसंवेद्यतया च स्वाराज्यकामैः / न चेद्विज्ञायते को दोषः स्यादिति / शृणुतात्र दोषं दृष्टान्तेन / यथा ह्येवेह लोके प्रजा अन्वाविशन्त्यनुवर्तन्ते / यथानुशासनं यथेह प्रजा अन्यं स्वामिनं मन्यमानाः स्वस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति / किम् / यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं चाभिकामा अर्थिन्यो भवन्त्यात्मबुद्ध्यनुरूपं तं तमेव च प्रत्यन्तादिमुपजीवन्तीति / एष दृष्टान्तो ऽस्वातन्त्र्यदेषं प्रति पुण्यफलोपभोगे
SK
START Cह्Uप् ८,१.६
SK
तद् यथेह कर्मजितो लोकः क्षीयत एवम् एवामुत्र पुण्यजितो लोकः क्षीयते | तद् य इहात्मानम् अननुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकामचारो भवति | अथ य इहात्मानम् अनिवुद्य व्रजन्त्य् एतंश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति || Cह्Uप्_८,१.६ ||
SK
Cह्Uप्Bह्_८,१.६ अथान्यो दृष्टान्तस्तत्क्षयं प्रति तद्यथेहेत्यादिः / तत्तत्र यथेह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयते ऽन्तवान्भवति / अथेदानीं दार्ष्टान्तिकमुपसंहरति-एवमेवामुत्राग्निहोत्रादिपुण्यज् इतो लोकः पराधीनोपभोगः क्षीयत एवेत्युक्तो दोष एषामिति विषयं दर्शयति-तद्य इत्यादिना / तत्तत्रेहास्मिंल्लोके ज्ञानकर्मणोरधिकृता योग्याः सन्त आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात् प्रयन्ति य एतांश्च यथोक्तान् सत्यान् सत्यसंकल्पकार्यांश्च स्वात्मस्थान् कामानननुविद्य व्रजन्ति तेषां सर्वेषु लोकेष्वकामचारो ऽस्वतन्त्रता भवति / यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः / अथ ये ऽन्य इह लोक आत्मानं शास्राचार्योरदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति राज्ञ इव सार्वभौमस्येह लोके
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य प्रथमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,२.१
SK
स यदि पितृलोककामो भवति | संकल्पाद् एवास्य पितरः समुत्तिष्ठन्ति | तेन पितृलोकेन संपन्नो महीयते || Cह्Uप्_८,२.१ ||
SK
Cह्Uप्Bह्_८,२.१ कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यते-य आत्मानं यतोक्तलक्षणं हृदि साक्षात्कृतवान्वक्ष्यमाणब्रह्मचर्यादिसाधनसंपन्नः संस्तत्स्थांश्च सत्यान्कामान्स त्यक्तदेहो यदि पितृलोककामः पितरो जनयितारस्त एव सुखहेतुत्वेन भोग्यत्वाल्लोका उच्यन्ते तेषु कामो यस्य तैः पितृभिः संबन्धेच्छा यस्य भवति तस्य संकल्पमात्रादेव पितरः समुत्तिष्ठिन्त्यात्मसंबन्धितामापद्यन्ते / विशुद्धसत्त्वतया सत्यसंकल्पत्वादीश्वरस्येव तेन पितृलोकेन भोगेन संपन्नः संपत्तिरिष्टप्राप्तिस्तया समृद्धो महीयते पूज्यते वर्धते वा महिमानमनुभवति
SK
START Cह्Uप् ८,२.२-९
SK
अथ यदि मातृलोककामो भवति | संकल्पाद् एवास्य मातरः समुत्तिष्ठन्ति | तेन मातृलोकेन संपन्नो महीयते || Cह्Uप्_८,२.२ ||
SK
अथ यदि भ्रातृलोककामो भवति | संकल्पाद् एवास्य भ्रातरः समुत्तिष्ठन्ति | तेन भ्रातृलोकेन संपन्नो महीयते || Cह्Uप्_८,२.३ ||
SK
अथ यदि स्वसृलोककामो भवति | संकल्पाद् एवास्य स्वसारः समुत्तिष्ठन्ति | तेन स्वसृलोकेन संपन्नो महीयते || Cह्Uप्_८,२.४ ||
SK
अथ यदि सखिलोककामो भवति | संकल्पाद् एवास्य सखायः समुत्तिष्ठन्ति | तेन सखिलोकेन संपन्नो महीयते || Cह्Uप्_८,२.५ ||
SK
अथ यदि गन्धमाल्यलोककामो भवति | संकल्पाद् एवास्य गन्धमाल्ये समुत्तिष्ठतः | तेन गन्धमाल्यलोकेन संपन्नो महीयते || Cह्Uप्_८,२.६ ||
SK
अथ यद्य् अन्नपानलोककामो भवति | संकल्पाद् एवास्यान्नपाने समुत्तिष्ठतः | तेनान्नपानलोकेन संपन्नो महीयते || Cह्Uप्_८,२.७ ||
SK
अथ यदि गीतवादितलोककामो भवति | संकल्पाद् एवास्य गीतवादिते समुत्तिष्ठतः | तेन गीतवादितलोकेन संपन्नो महीयते || Cह्Uप्_८,२.८ ||
SK
अथ यदि स्त्रीलोककामो भवति | संकल्पाद् एवास्य स्त्रियः समुत्तिष्ठन्ति | तेन स्त्रीलोकेन संपन्नो महीयते || Cह्Uप्_८,२.९ ||
SK
Cह्Uप्Bह्_८,२.२,३,४,५,६,७,८,९ समानमन्यत् / मातरो जनयित्र्यो ऽतीताः सुखहेतुभूताः सामर्ध्यात् / न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिन इच्छा तत्संबन्धो वा युक्तः //२-९ //
SK
START Cह्Uप् ८,२.१०
SK
यं यम् अन्तम् अभिकामो भवति | यं कामं कामयते | सो ऽस्य संकल्पाद् एव समुत्तिष्ठति | तेन संपन्नो महीयते || Cह्Uप्_८,२.१० ||
SK
Cह्Uप्Bह्_८,२.१० यं यनम्तं प्रदेशमभिकामो भवति / यं च कामं कामयते यथोक्तव्यतिरेकेणापि सो ऽस्यान्तः प्राप्तुमिष्टः कामश्च संकल्पादेव समुत्तिष्ठत्यस्य / तेनेच्छाविघाततयाभिप्रेतार्थप्राप्त्या च संपन्नो महीयत इत्युक्तार्थम्
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वितीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,३.१
SK
त इमे सत्याः कामा अनृतापिधानाः | तेषां सत्यानां सताम् अनृतम् अपिधानम् | यो यो ह्य् अस्येतः प्रैति न तम् इह दर्शनाय लभते || Cह्Uप्_८,३.१ ||
SK
Cह्Uप्Bह्_८,३.१ यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याह-कष्टमिदं खलु वर्तते यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामा अनृतापिधानास्तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं ब३ह्यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते / तन्निमित्तं सत्यानां कामानामप्राप्तिरित्यपिधानमिवापिधानम् / कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यते-यो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वेष्ट इतो ऽस्माल्लोकात्प्रैति प्रगच्छति म्रियते तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपीह पुनर्दर्शनायेच्छन्नपि न लभते
SK
START Cह्Uप् ८,३.२
SK
अथ ये चास्येह जीवा ये च प्रेता यच् चान्यद् इच्छन् न लभते सर्वं तद् अत्र गत्वा विन्दते | अत्र ह्य् अस्यैते सत्याः कामा अनृतापिधानाः | तद् यथापि हिरण्यनिधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुः | एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः || Cह्Uप्_८,३.२ ||
SK
Cह्Uप्Bह्_८,३.२ अथ पुनर्ये चास्य विदुषो जन्तोर्जीवा जीवन्तीह पुत्रा भ्रात्रादयो वा ये च प्रेता मृता इष्टाः संबन्धिनो यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नादि वा वस्त्विच्छन्न लभते तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते / अत्रास्मिन्हार्दाकाशे हि यस्मादस्यैते यथोक्ताः सत्याः कामा वर्तन्ते ऽनतापिधानाः / कथमिव तदन्याय्यमित्युच्यते-तत्तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिर्निधीयत इति निधिस्तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तमक्षेत्रज्ञा निधिशास्रैर्निधिक्षेत्रमजानन्तस्ते निधेरुपर्युपरि संचरन्तो ऽपि निधिं न विन्देयुः शक्यवेदनमपि / एवमेवेमा अविद्यवत्यः सर्वा इमाः प्रजा यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोको ब्रह्मलोकस्तमहरहः प्रत्यहं गच्छन्त्यो ऽपि सुषुप्तकाले न विदन्दन्ति न लभन्त एषो ऽहं ब्रह्मलोकभावमापन्नो ऽस्म्यद्येति /
SK
अनृतेन हि यथोक्तेन हि यस्मात्प्रत्यूढा हृताः स्वरूपादविद्यादिदोषैर्बहिपकृष्टा इत्यर्थः / अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यत इत्यभिप्रायः
SK
START Cह्Uप् ८,३.३
SK
स वा एष आत्मा हृदि | तस्यैतद् एव निरुक्तं हृद्य् अयम् इति तस्माद् धृद् अयम् | अहर् अहर् वा एवंवित् स्वर्गं लोकम् एति || Cह्Uप्_८,३.३ ||
SK
Cह्Uप्Bह्_८,३.३ स वै य आत्मापहतपाप्मेति प्रकृतो वैशब्देन तं स्मारयत्येष विवक्षित आत्मा हृदि हृदयपुण्डरीक आकाशशब्देनाभिहितः / तस्यैतस्य हृदयस्यैतदेव निरुक्तं निर्वचनं नान्यत / हृद्ययमात्मा वर्तत इति यस्मात् तस्माद्धृदयं हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदय आत्मेत्यवगन्तव्यमित्यभिप्रायः / अहरहर्वै प्रत्यहमेवंविद्धृद्ययमात्मेति जानन्स्वर्गं लोकं हार्दं ब्रह्मैति प्रतिपद्यते / नन्वनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यत एव सुषुप्तकाले सता सोम्य तदा संपन्न इत्युक्तत्वात् / बाढमेवं तथाप्यस्ति विशेषः / यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव तथापि तत्त्वमसीति प्रतिबोधितो विद्वान्सदेव नान्यो ऽस्मीति जानन्सदेव भवति / एवमेव विद्वानविद्वांश्चसुषुप्ते यद्यपि सत्संपद्यते तथाप्येवंविदेव स्वर्गं लोकमेतीत्युच्यते / देहपाते ऽपि विद्याफलस्यावश्यंभावित्वादित्येष विशेषः
SK
START Cह्Uप् ८,३.४
SK
अथ य एष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | तस्य ह वा एतस्य ब्रह्मणो नाम सत्यम् इति || Cह्Uप्_८,३.४ ||
SK
Cह्Uप्Bह्_८,३.४ सुषुप्तकाले स्वेनाऽमना सता संपन्नः सन्सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणस्तथाप्येवंवित्स्वर्गं लोकमेतीति प्रकृतत्वादेष संप्रसाद इति संनिहितवद्यत्नविशेषात्सो ऽथेदं शरीरं हित्वास्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः / न त्वासनादिव समुत्थायेतीह युक्तम् / स्वेन रूपेणेति विशेषणात् / न ह्यन्यत उत्थाय स्वरूपं संपत्तव्यम् / स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् / परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्येतत् / स्वेन आत्मीयेन रूपेणाभिनिष्पद्यते प्रागेतस्याः स्वरूपसंपत्तेरविद्यया देहमेवापरं रूपमात्मत्वेनोपगत इति तदपेक्षयेदमुच्यते स्वेन रूपेणेति / अशरीरता ह्यात्मनः स्वरूपं यत्स्वं परं ज्योतिःस्वरूपमापद्ये संप्रसाद एष आत्मेति होवाच / स ब्रूयादिति यः श्रुत्या नियुक्तो ऽन्तेवासिभ्यः / किञ्चैतदमृतमविनाशि भूमा यो वै भूमा तदमृतमित्युक्तम् / अत एवाभयं भूम्नो द्वितीयाभावादत एतद्ब्रह्मेति / तस्य ह वा एतस्य ब्रह्मणो नामाभिधानम् / किं तत्सत्यमिति / सत्यं ह्यवितथं ब्रह्म / तत्सत्यं स आत्मेति ह्युक्तम् / अथ किमर्थमिदं नाम पुनरुच्यते / तदुपासनविधिस्तुत्यर्थम्
SK
८.३.५ तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्त्दमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति
SK
Cह्Uप्Bह्_८,३.५ तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयामति सकारस्तकारो यमिति च / तकार ईकारः उच्चारणार्थो ऽनुबन्धः / ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात्तेषाम् / तत्तत्र यत्सत्सकारस्तदमृतं सद्ब्रह्मामृतवाचकत्वादमृत एव सकारस्तकारन्तो निर्दिष्टः / अथ यत्तितकारस्तन्मर्त्यम् / अथ यद्यमक्षरं तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभे ऽक्षरे यच्छति यमयति नियमयति वशीकरोत्यात्मन इत्यर्थः / यद्यस्मादनेन यमित्येतेनोभे यच्छति तस्माद्याम् / संयते इव ह्येतेन यमा लक्ष्येते / ब्रङ्मनामाक्षरस्यापीदममृतत्वादिधर्मवत्त्वं महाभाग्यं किमुत नामवत इत्युपास्यत्वाय स्तूयते / ब्रह्मनामनिर्वचनेनैव नामवतो वेत्तैवंवित् / अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम्
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य तृतीयः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,४.१
SK
अथ य आत्मा स सेतुर् धृतिर् एषां लोकानाम् असंभेदाय | नैतं सेतुम् अहोरात्रे तरतो न जरा न मृत्युर् न शोको न सुकृतम् | सर्वे पाप्मानो ऽतो निवर्तन्ते | अपहतपाप्मा ह्य् एष ब्रह्मलोकः || Cह्Uप्_८,४.१ ||
SK
Cह्Uप्Bह्_८,४.१ अथ य आत्मेति / उक्तलक्षणो यः संप्रसादस्तस्य स्वरूपं वक्ष्यमाणैरुक्तैश्च गुणैः पुनः स्तूयते ब्रह्मचर्यसाधनसंबन्धार्थम् / य एष यथोक्तलक्षण आत्मा स सेतुरिव सेतुः / विधृतिर्विधरणः / अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् / अध्रियमाणं हीश्वरेणेदं विश्वं विनश्येद्यतस्तस्मात्स सेतुर्विधृतिः / किमर्थं स सेतुरित्याह-एषां भूरादीनां कर्तृकर्मलाश्रयाणामसंभेदायाविदारणायाविनाशायेत्येतत् / किंविश्ष्टश्चासौ सेतुरित्याह-नैतम् सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः / यथान्ये संसारिणः कालेनाहोरात्रादिलक्षणेन परिच्छेद्या न तथायं कालपरिच्छेद्य इत्यभिप्रायः / ᳚यस्मादर्वाक्संवत्सरो ऽहोभिः परिवर्तत᳚इति श्रुत्यन्तरात् / अत एवैनं न जरा तरति न प्राप्नोति / तथा न मृत्युर्न शोको न सुकृतं न दृष्कृतं सुकृतदुष्कृते धर्माधर्मै / प्राप्तिरत्र तरणशब्देनाभिप्रेता नातिक्रमणम् / कारणं ह्यात्मा / न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण / अहोरात्रादि च सर्वं सतः कार्यम् / अन्येन ह्यन्यस्य प्राप्तिरतिक्रमणं वा क्रियेत / न तु तेनैव तस्य / न हि घटेन मृत्प्राप्यते ऽतिक्रम्यते वा / यद्यपि पूर्वं य आत्मापहतपाप्मेत्यादिना पाप्मादिप्रतिषेध उक्त एव तथापीहायं विशेषो न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते / तत्रा विशेषेण जराद्यभावमात्रमुक्तम् / अहोरात्राद्या उक्ता अनुक्ताश्चान्ये सर्वे पाप्मान उच्यन्ते ऽतो ऽस्मादात्मनः सेतोर्निवर्तन्ते ऽप्राप्यैवेत्यर्थः / अपहतपाप्मा ह्येष ब्रह्मैव लोको ब्रह्मलोक उक्तः
SK
START Cह्Uप् ८,४.२
SK
तस्माद् वा एतं सेतुं तीर्त्वा अन्धः सन्न् अनन्धो भवति | विद्धः सन्न् अविद्धो भवति | उपतापी सन्न् अनुपतापी भवति | तस्माद् वा एतं सेतुं तीर्त्वा अपि नक्तम् अहर् एवाभिनिष्पद्यते | सकृद् विभातो ह्य् एवैष ब्रह्मलोकः || Cह्Uप्_८,४.२ ||
SK
Cह्Uप्Bह्_८,४.२ यस्माच्च पाप्मकार्य मान्ध्यादि शरीरवतः स्यान्न त्वशरीरस्य तस्माद्वा एतमात्मानं सेतुं तीर्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धो ऽपि सन् / तता विद्धः सन्देहवत्त्वे स देहवियोगे सेतुं तीर्त्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धो ऽपि सन् / तथा विद्धः सन्देहवत्त्वे स देहवियोगो सेतुं प्राप्याविद्धो भवति / तथोपतापी रोगाद्युपतापवान्सन्ननुपतापी भवति / किञ्च यस्मादहोरात्रे न स्तः सेतौ तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते / विज्ञप्त्यात्मज्योतिः स्वरूपमहरिवाहः सदैकरूपं विदुषः संपद्यत इत्यर्थः / सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेणैष ब्रह्मलोकः
SK
START Cह्Uप् ८,४.३
SK
तद् य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः | तेषां सर्वेषु लोकेषु कामचारो भवति || Cह्Uप्_८,४.३ ||
SK
Cह्Uप्Bह्_८,४.३ तत्तत्रैवं सत्येतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्रीविषयतृष्णात्यागेन शास्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदामेष ब्रह्मलोकः नान्येषां स्रीविषयसंपर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः / तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् / तस्मात्परममेतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्थः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,५.१
SK
अथ यद् यज्ञ इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | ब्रह्मचर्येण ह्य् एव यो ज्ञाता तं विन्दते | अथ यद् इष्टम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | ब्रह्मचर्येण ह्य् एवेष्ट्वात्मानम् अनुविन्दते || Cह्Uप्_८,५.१ ||
SK
Cह्Uप्Bह्_८,५.१ य आत्मा सेतुत्वादिगुणैः स्तुतस्तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विदातव्यमित्याह / यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थम्- अथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टास्तद्ब्रह्मचर्यमेव / यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवाल्लंभते ऽतो यज्ञो ऽपि ब्रह्मचर्यं भवति प्रतिपत्तव्यम् / कथं ब्रह्मचर्यं यज्ञ इत्याह-ब्रह्मचर्येणैव हि यस्माद्यो ज्ञातास तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते ततो यज्ञो ऽपि ब्रह्मचर्यमेवेति / यो ज्ञातेत्यक्षरानुवृत्तेर्यज्ञो ब्रह्मचर्यमेव / अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् / कथम् / ब्रह्मचर्येणैव साधनेन तमीश्वरमिष्ट्वा पूजयित्वाथवैषणामात्मविषयां कृत्वा तमात्मानमनुविन्दते / एषणादिष्टमपि ब्रह्मचर्यमेव
SK
START Cह्Uप् ८,५.२
SK
अथ यत् सत्त्रायणम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | ब्रह्मचर्येण ह्य् एव सत आत्मनस् त्राणं विन्दते | अथ यन् मौनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | ब्रह्मचर्येण ह्य् एवात्मानम् अनुविद्य मनुते || Cह्Uप्_८,५.२ ||
SK
Cह्Uप्Bह्_८,५.२ अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत्तथा सतः परस्मादात्मन आत्मनस्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते / अतः सत्त्रायणशब्दमपि ब्रह्मचर्यमेव सत् / अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येणैव साधनेन युक्तः सन्नात्मानं शास्राचार्याभ्यामनुविद्य पश्चान्मनुते ध्यायति / अतो मौनशब्दमपि ब्रह्मचर्यमेव
SK
START Cह्Uप् ८,५.३
SK
अथ यद् अनाशकायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | एष ह्य् आत्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते | अथ यद् अरण्यायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् | तत् अरश् च ह वै ण्यश् चार्णवौ ब्रह्मलोके तृतीयस्याम् इतो दिवि | तद् ऐरंमदीयं सरः | तद् अश्वत्थः सोमसवनः | तद् अपराजिता पूर् ब्रह्मणः प्रभुविमितं हिरण्मयम् || Cह्Uप्_८,५.३ ||
SK
Cह्Uप्Bह्_८,५.३ अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् / यमात्मानं ब्रह्मचर्येणानुविन्दते स एष ह्यात्मा ब्रह्मचर्यसाधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव / अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् / अरण्यशब्दयोरर्णवयोर्ब्रह्मचर्यवतो ऽयनादरण्यायनं ब्रह्मचर्यम् / यो ज्ञानाद्यज्ञ एषणादिष्टं सतस्राणात्सत्त्रायणं मननान्मौनमनशनादनाशकायनमरण्ययोर्गमनादरण्यायनमित्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वाद्ब्रह्मचर्यं परमं ज्ञानस्य सहकारिकारणं साधनमित्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः / तत्तत्र हि ब्रह्मलोके ऽरश्च ह वै प्रसिद्धो ण्यश्चार्णवौ समुद्रोपमे वा सरसी तृतीयस्यां भुवमन्तरिक्षं चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितो ऽस्माल्लोकादारभ्य गण्यमानायां दिवि / तत्तत्रैव चैरमिरान्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः / तत्रैव चाश्वत्थो वृक्षः सोमसवनो नामतः सोमो ऽमृतं तन्निःस्रवो ऽमृतस्रव इति वा / तत्रैव च ब्रह्मलोके ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भ्यो ऽन्यैर्न जीयत इत्यपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य / ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः
SK
START Cह्Uप् ८,५.४
SK
तद् य एवैताव् अरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः | तेषां सर्वेषु लोकेषु कामचारो भवति || Cह्Uप्_८,५.४ ||
SK
Cह्Uप्Bह्_८,५.४ तत्तत्र हि ब्रह्मलोक एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेनानुविन्दन्ति ये तेषामेवैष यो व्याख्यातो ब्रह्मलोकस्तेषां च ब्रह्मचर्यसाधवनतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति / नान्येषामब्रह्मचर्यपराणां बाह्यविषयासक्तबुद्धीनां कदाचिदपीत्यर्थः / नन्वत्र त्वमिन्द्रस्त्वं यमस्त्वं वरुण इत्यादिभिर्यथा कश्चित्स्तूयते महार्ह एवमिष्टादिभिः शब्दैर्न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हं किं तर्हि ज्ञानस्य मोक्षसाधनत्वात्तदेवेष्टादिभिः स्तूयत इति केचित् / न / स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः / ᳚पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्᳚इत्यादिश्रुतिस्मृतिशतेभ्यः / ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः / ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते / सत्यं गम्यते / न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते किं तर्हि तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य / यथेन्द्रादिभी राजा न तु यत्रेन्द्रादीनां व्यापारस्तत्रैव राज्ञ इति तद्वत् / य इमेर्ऽणवादयो ब्राह्मलौकिकाः संकल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्धदर्णववृक्षपूःस्वर्णमण्डपान्याहोस्विन्मानसप्रत्ययमात्राणीति / किञ्चातः, यदि पार्थिवा आप्याश्च स्थूलाः स्युर्हृद्याकाशे समाधानानुपपत्तिः / पुराणे च᳚मनोमयानि ब्रह्मलोके शरीरादीनी᳚ति वाक्यं विरुध्येत / ᳚अशोकमहिमम्᳚इत्याद्याश्च श्रुतयः / ननु᳚समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तो ब्रह्माणमुपतिष्ठन्त᳚इति मानसत्वै विरुध्येत पुराणस्मृतिः / न / मूर्तिमत्त्वे प्रसिद्धरूपाणामेव तत्र गमनानुपपत्तेः / तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनायां यथाप्रसिद्धा एव मानस्य आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुं मानसदेहानुरूप्यसंबन्धोपपत्तेः / दृष्टा हि मानस्य एवाऽकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने / ननु ता अनृता एव / त इमे सत्याः कामा इति श्रुतिस्तथा सति विरुध्येत / न / मानसप्रत्ययस्य सत्त्वोपपत्तेः / मानसा हि प्रत्ययाः स्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते / ननु जाग्रद्वासनारूपाः स्वप्नदृश्या न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते / अत्यल्पमिदमुच्यते / जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता एव सदीक्षाभिनिर्वृत्ततेजो ऽबन्नमयत्वाज्जाग्रद्विषयाणाम् / संकल्पमूला हि लोका इति चोक्तम्᳚समकॢपतां द्यावापृथिवी᳚इत्यत्र / सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च᳚यथा वा अरा नाभौ᳚इत्यादिनोच्यते / तस्मान्मानसानां बाह्यानां च विषयाणामितरेतरकार्यकारणमिष्यत एव बीजाङ्कुरवत् / यद्यपि बाह्या एव मानसा मानसा एव च बाह्या नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति / ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः / सत्यमेव / जाग्रद्बोधापेक्षं तु तदनृतत्वं न स्वतः / तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः / विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचाऽरम्भणं विकारो नामधेयमनृतं त्रीणि रूपाणीत्येव सत्यम् / तान्यप्याकारविशेषतो ऽनृतं स्वतः सन्मात्ररूपतया सत्यम् प्राक्सदात्मप्रतिबोधात्स्वविषये ऽपि सर्वं स्त्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः / तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः पित्रादयः कामाः / बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्वसंकल्पजन्या इति निरतिशयसुखाः सत्याश्चेश्वराणां भवन्तीत्यर्थः / सत्सत्यात्मप्रतिबोधे ऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य पञ्चमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,६.१
SK
अथ या एता हृदयस्य नाड्यस् ताः पिङ्गलस्याणिम्नस् तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति | असौ वादित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः || Cह्Uप्_८,६.१ ||
SK
Cह्Uप्Bह्_८,६.१ यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसंपन्नस्त्यक्तबाह्यविषयानृततृष्णः सन्नुपास्ते तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते- अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो विनिःसृता आदित्यमण्डलादिव रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः / तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्यम् / सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन संपर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्याम् तदेव च वातभूयस्त्वान्नीलं भवति / तदेव च कफभूयस्त्वाच्छुक्लम् / कफेन समतायां पीतम् / शोणित बाहुल्येन लोहितम् / वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति / श्रुतिस्त्वाहाऽदित्यसंबन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति / कथम् / असौ वा आदित्यः पिङ्गलो वर्णत एष आदित्यः शुक्लो ऽप्येष नील एष पीत एष लोहित आदित्य एव
SK
START Cह्Uप् ८,६.२
SK
तद् यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवम् एवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च | अमुष्माद् आदित्यात् प्रतायन्ते ता आसु नाडीषु सृप्ताः | आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्न् आदित्ये सृप्ताः || Cह्Uप्_८,६.२ ||
SK
Cह्Uप्Bह्_८,६.२ तस्याध्यात्मं नाडीभिः कथं संबन्ध इत्यत्र दृष्टान्तमाह-तत्तत्र यथा लोके महान्विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ गच्छतीमं च संनिहितममुं च विप्रकृष्टं दूरस्थमेवं यथा दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्ट एवमेवैता आदित्यस्य रश्मय उभौ लोकावमुं चाऽदित्यमण्डलमिमं च पुरुषं गच्छन्त्युभयत्र प्रविष्टाः / यथा महापथः / कथम् / अमुष्मादादित्यमण्डलात्प्रतायन्ते संतता भवन्ति / ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ता गताः प्रविष्टा इत्यर्थः / आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यस्ते ऽमुष्मिन् / रश्मीनामुभयलिङ्गत्वात्त इत्युच्यन्ते
SK
START Cह्Uप् ८,६.३
SK
तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति | आसु तदा नाडीषु सृप्तो भवति | तं न कश्चन पाप्मा स्पृशति | तेजसा हि तदा संपन्नो भवति || Cह्Uप्_८,६.३ ||
SK
Cह्Uप्Bह्_८,६.३ तत्तत्रैवं सति यत्र यस्मिन्काल एतत्स्वपनमयं जीवः सुप्तो भवति / स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति / उपसंहृतसर्वकरणवृत्तिरित्येतत् / अतो बाह्यविषयसंपर्कजनितकालुष्याभावात्सम्यक् / प्रसन्नः संप्रसन्नो भवति / अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः / यदैवं सुप्तो भवत्यासु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टो नाडीभिर्द्वारभूताभिर्हृदयाकाशं गतो भवतीत्यर्थः / न ह्यन्यत्र सत्संपत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यान्नाडीष्विति सप्तमी तृतीयया परिणम्यते / तं सता संपन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति स्वरूपावस्थितत्वात्तदाऽत्मनः / देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति न तु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते / अविषयत्वात् / अन्यो ह्यन्यस्य विषयो भवति न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य / स्वरूपप्रच्यवनं त्वात्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधो ऽविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठ एव तदिहापि प्रत्येतव्यम् / यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः संपन्नो व्याप्तो भवति / अतो विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगायाप्रसृतानि करणान्यस्य तदा भवन्ति / तस्मादयं करणानां निरोधात्स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम्
SK
START Cह्Uप् ८,६.४
SK
अथ यत्रैतद् अबलिमानं नीतो भवति | तम् अभित आसीना आहुर् जानासि मां जानासि माम् इति | स यावद् अस्माच् छरीराद् अनुत्क्रान्तो भवति | तावज् जानाति || Cह्Uप्_८,६.४ ||
SK
Cह्Uप्Bह्_८,६.४ तत्रैवं सत्यथ यत्र यस्मिन्काले ऽबलिमानमबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावमेतन्नयनं नीतः प्रापितो देवदत्तो भवति मुमूर्षर्यदा भवतीत्यर्थः / तमभितः सर्वतो वेष्टयित्वाऽसीना ज्ञातय आहुर्जानासि मां तव पुत्रं जानासि मां पितरं चेत्यादि / स मुमूर्षुर्यावदस्माच्छरीरादनुत्क्रान्तो ऽनिर्गतो भवति तावत्पुत्रादीञ्जानाति
SK
START Cह्Uप् ८,६.५
SK
अथ यत्रैतद् अस्माच् छरीराद् उत्क्रामति | अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते | स ओम् इति वा होद् वा मीयते | स यावत् क्षिप्येन् मनस् तावद् आदित्यं गच्छति | एतद् वै खलु लोकद्वारं विदुषां प्रपदनं निरोधो ऽविदुषाम् || Cह्Uप्_८,६.५ ||
SK
Cह्Uप्Bह्_८,६.५ अथ यत्र यदैतत्क्रियाविशेषणमित्यस्माच्छरीरादुत्क्रामति / अथ तदैतैरेव यथोक्ताभी रश्मिभिरूर्ध्वमाक्रमते यथाकर्मार्जितं लोकं प्रत्यविद्वान् / इतरस्तु विद्वान्यथोक्तसाधनसंपन्नः स ओमित्योङ्कारेणाऽत्मानं ध्यायन्यथापूर्वं वा हैव, उद्वोर्ध्वं वा विद्वांश्चेदितरस्तिर्यङ्वेत्यभिप्रायः / मीयते प्रमीयते गच्छतीत्यर्थः / स विद्वानुत्क्रमिष्यन्यावत्क्षिप्येन्मनो यावता कालेन मनसः क्षेपः स्यात्तावता कालेनाऽदित्यं गच्छति प्रप्नोति क्षिप्रं गच्छतीत्यर्थो न तु तावतैव कालेनेति विवक्षितम् / किमर्थमादित्यं गच्छतीत्युच्यते-एतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यस्तेन द्वारभूतेन ब्रह्मलोक गच्छति विद्वान् / अतो विदुषां प्रपदनं प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् / निरोधनं निरोधो ऽस्मादादित्यादविदुषां भवतीति निरोधः / सौरेण तेजसा देह एव निरुद्धाः सन्तो मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः / विष्वङ्ङन्या इति श्लोकात्
SK
START Cह्Uप् ८,६.६
SK
तद् एष श्लोकः | शतं चैका च हृदयस्य नाड्यस् तासां मूर्धानम् अभिनिःसृतैका | तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्त्य् उत्क्रमणे भवन्ति || Cह्Uप्_८,६.६ ||
SK
Cह्Uप्Bह्_८,६.६ तदेतस्मिन्यथोक्तेर्ऽथ एष श्लोको मन्त्रो भवति / शतं चैका चैकोत्तरशतं नाड्यो हृदयस्य मांसपिण्डभूतस्य संबन्धिन्यः प्रधानतो भवन्ति / आनन्त्याद्देहनाडीनाम् / तासामेका मूर्धानमभिनिःसृता विनिर्गता तयोर्ध्वमायन्गच्छन्नमृतत्वममृतभावमेति विष्वङ्नानागतयस्तिर्यग्विसर्पिण्य ऊर्ध्वगाश्चान्या नाड्यो भवन्ति संसारगमनद्वारभूता न त्वमृतत्वाय किं तर्ह्यत्कमण एवोत्क्रान्त्यर्थमेव भवन्तीत्यर्थः / द्विरभ्यासः प्रकरणसमाप्त्यर्थः
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य षष्ठः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,७.१
SK
य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः | स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच || Cह्Uप्_८,७.१ ||
SK
Cह्Uप्Bह्_८,७.१ ᳚अथ य एष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म᳚इत्युक्तम् / तत्र को ऽसौ संप्रसादः, कथं वा तस्याधिगमो यथा सो ऽस्माच्छरीरात्सविजिज्ञासितव्य इति चैष नियमविधिरेव नापूर्वविधिः / एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः / दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः / दृष्टार्थत्वं च दर्शयिष्यति नाहमात्र भोग्यं पश्यामीत्यनेनासकृत् / पररूपेण च देहादिधर्भैरवगन्यमानस्याऽत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैवास्य विधेर्युक्ता न त्वाग्निहोत्रादीनामिबापूर्वविधित्वमिह संभवति
SK
START Cह्Uप् ८,७.२
SK
तद् धोभये देवासुरा अनुबुबुधिरे | ते होचुर् हन्त तम् आत्मआनम् अन्वेच्छामो यम् आत्मानम् अन्विष्य सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् इति | इन्द्रो हैव देवानाम् अभिप्रवव्राज विरोचनो ऽसुराणाम् | तौ हासंविदानाव् एव समित्पाणी प्रजापतिसकाशम् आजग्मतुः || Cह्Uप्_८,७.२ ||
SK
Cह्Uप्Bह्_८,७.२ तद्धोभय इत्याद्याख्यायिकाप्रयोजनमुक्तम् / तद्ध किल प्रजापतेर्वचनमुभये देवासुरा देवाश्चासुराश्च देवासुरा अनु परम्परागतं स्वकर्णगोचरापन्नमनुबुबुधिरे ऽनुबुद्धवन्तः / ते चैतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्नित्युच्यते-ते होचुरुक्तवन्तो ऽन्योन्यं देवाः स्वपरिषद्यसुराश्च हन्त यद्यनुमतिर्भवतां प्रजापतिनोक्तं तमात्मानमन्विच्छामो ऽन्वेषणं कुर्मो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वाश्च कामानित्युक्त्वेन्द्रो हैव राजैव स्वयं देवानामितरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रत्यभिप्रवव्राज प्रगतवांस्तथा विरोचनो ऽसुराणाम् / विनयेन गुरवो ऽभिगन्तव्या इत्येतद्दर्शयति / त्रैलोक्यराज्याच्च गुरुतरा विद्यते / यतो देवासुरराजौ महार्हभोगार्है सन्तौ तथा गुरुमभ्युपगतवन्तौ / तौ ह किलासंविदानावेवान्योन्यं संविदमकुर्वाणौ विद्याफलं प्रत्यन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुरागतवन्तौ
SK
START Cह्Uप् ८,७.३
SK
तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् ऊषतुः | तौ ह प्रजापतिर् उवाच | किम् इच्छन्ताव् अवास्तम् इति | तौ होचतुर् य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः | स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति भगवतो वचो वेदयन्ते | तम् इच्छन्ताव् अवास्तम् इति || Cह्Uप्_८,७.३ ||
SK
Cह्Uप्Bह्_८,७.३ तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यमूषतुरुषितवन्तौ / अभिप्रायज्ञः प्रजापतिस्तावुवाच किमिच्छन्तौ किं प्रयोजनमभिप्रेत्येच्छन्ताववास्तमुषितवन्तौ युवामितीत्युक्तौ तौ होचतुः / य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टा अतस्तमात्मानं ज्ञातुमिच्छन्ताववास्तमिति / यद्यपि प्राक्प्रजापतेः समीपागमनादन्योन्यमीर्ष्यायुक्तावबूतां तथापि विद्याप्राप्तिप्रयोजनगौरवात्त्यक्तरागद्वेषमोहेर्ष्यादि दोषावेव भूत्वोषतुर्ब्रह्मचर्यं प्रजापतौ / तेनेदं प्रख्यापितमात्मविद्यागौरवम्
SK
START Cह्Uप् ८,७.४
SK
तौ ह प्रजापतिर् उवाच य एषो ऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | अथ यो ऽयं भगवो ऽप्सु परिख्यायते यश् चायम् आदर्शे कतम एष इति | एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच || Cह्Uप्_८,७.४ ||
SK
Cह्Uप्Bह्_८,७.४ तावेवं तपस्विनौ शुद्धकल्मषौ योग्यावुपलभ्य प्रजापतिरुवाचह-य एषो ऽक्षिणि पुरुषो निवृत्तचक्षुर्भिर्मृदितकषायैर्दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणो यमवोचं पुराहं यद्विज्ञानात्सर्वलोककामावाप्तिरेतदमृतं भमाख्यमत एवाभयमत एव ब्रह्म वृद्धतममिति / अथैतत्प्रजापतिनोक्तमक्षिणि पुरुषो दृश्यत इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः / गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ / अथ यो ऽयं हे भगवो ऽप्सु परिख्यायते परिसमन्ताज्ज्ञायते यश्चायमादर्श आत्मनः प्रतिबिम्बाकारः परिख्यायते खड्गादौ च कतम एष एषां भगवद्भिरुक्तः किंवैक एव सर्वेष्विति / एवं पृष्टः प्रजापतिरुवाच-एष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति / एतन्मनसि कृत्वैषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति होवाच / ननु कथं युक्तं शिष्योर्विपरीतग्रहणमनुज्ञातुं प्रजापतेर्विगतदोषस्याऽचार्यस्य सतः / सत्यमेव, नानुज्ञातम् / कथम् / आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हीन्द्रविरोचनौ तथैव च प्रथितौ लोके / तौ यदि प्रजापतिना मूढौ युवां विपरीतग्राहिणावित्युक्तौ स्यातां ततस्तस्तयोश्चित्ते दुःखं स्यात्तज्जनिताच्च चित्तावसादात्पुनः प्रश्नश्रवणग्रहणावधारणं प्रत्युत्साहविधातः स्यादतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः / गृह्णीतां तावत्तदुदशरावदृष्टान्तेनापनेष्यामीति च / ननु न युक्तमेष उ एवेत्यनृतं वक्तुम् / न चानृतमुक्तम् / कथम् / आत्मनोक्तो ऽक्षिपुरुषो मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः सर्वेषां चाभ्यन्तरः᳚सर्वान्तरः᳚इति श्रुतेः / तमेवावोचदेष उ एवेत्यतो नानृतमुक्तं प्रजापतिना / तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थं ह्याह
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य सप्तमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,८.१
SK
उदशराव आत्मानम् अवेक्ष्य यद् आत्मनो न विजानीथस् तन् मे प्रब्रूतम् इति | तौ होदशरावे ऽवेक्षां चक्राते | तौ ह प्रजापतिर् उवाच किं पश्यथ इति | तौ होचतुः सर्वम् एवेदम् आवां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपम् इति || Cह्Uप्_८,८.१ ||
SK
Cह्Uप्Bह्_८,८.१ उदशराव उदकपूर्णे शरावादावात्मानमवेक्ष्यानन्तरं यत्तत्राऽत्मानं पश्यन्तौ न विजानीथस्तन्मे मम प्रब्रूतमाचक्षीयाथामित्युक्तौ तौ ह तथैवोदशरावे ऽवेक्षाञ्चक्राते ऽवेक्षणं चक्रतुः / तथा कृतवन्तौ तौ ह प्रजापतिरुवाच किं पश्यथ इति / ननु तन्मे प्रब्रूतमित्युक्ताभ्यामुदशरावे ऽवेक्षणं कृत्वा प्रजापतये न निवेदितमिदमावाभ्यां न विदितमित्यनिवेदिते चाज्ञानहेतौ ह प्रजापतिरुवाच किं पश्यथ इति तत्र को ऽभिप्राय इति / उच्यते-नैव तयोरिदमावयोरविदितमित्याशङ्काभूच्छायात्मन्यात्मप्रत्ययो निश्चित एवाऽसीत् / येन वक्ष्यति तौ ह शान्तहृदयौ प्रवव्रजतुरिति / न ह्यनिश्चिते ऽभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते / तेन नोचतुरिदमावाभ्यामविदितमिति / विपरीतग्राहिणौ च शिष्यावनुपेक्षणीयाविति स्वयमेष पप्रच्छ किं पश्यथ इति, विपरीतनिश्चयापनयाय च वक्ष्यति साध्वलकृतावित्येवमादि / तौ होचतुः-सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैवाऽवां हे भगवो लोमनखादिमन्तौ स्व एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति
SK
START Cह्Uप् ८,८.२
SK
तौ ह प्रजापतिर् उवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षेथाम् इति | तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षां चक्राते | तौ ह प्रजापतिर् उवाच किं पश्यथ इति || Cह्Uप्_८,८.२ ||
SK
Cह्Uप्Bह्_८,८.२ तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय, साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ छिन्नलोमनखौ च भूत्वोदशरावे तयोश्छायात्मग्रहो ऽपनीतः स्यात् / साध्वलङ्कारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसंबद्धानामेवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते / शरीरैकदेशानां च लोमनखादीनां नित्यत्वेनाभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् / छिन्नेषु च तेषु नैव लोमनखादिच्छाया दृश्यते ऽतो लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमित्युदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्यानात्मत्वं सिद्धम् उदशारावादौ छायाकरत्वाद्देहसंबद्धालङ्कारादिवत् / न केवलमेतावदेतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वान्नखलोमादिवदनात्मेति प्रत्येतव्यम् / एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात्तस्मात्स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानाविन्द्रविरोचनावभूतामित् इ गम्यते / तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ किं पश्यथ इति
SK
START Cह्Uप् ८,८.३
SK
तौ होचतुर् यथैवेदम् आवां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवम् एवेमौ भगवः साध्वल्लंकृतौ सुवसनौ परिष्कृताव् इति | एष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | तौ ह शान्तहृदयौ प्रवव्रजतुः || Cह्Uप्_८,८.३ ||
SK
Cह्Uप्Bह्_८,८.३ तौ तथैव प्रतिपन्नो यथैवेदमिति पूर्ववद्यथा साध्वलङ्कारादिविशिष्टावावां स्व एवमेवेमौ छायात्मानाविति सुतरां विपरीतनिश्चयौ बभूवतुः / यस्याऽत्मनो लक्षणं य आत्मापहतपाप्मेत्युक्तवा पुनस्तद्विशेषमन्विष्यमाणयोर्य एषो ऽक्षिणि पुरुषो दृश्यत इति साक्षादात्मनि निर्दिष्टे तद्विपरीतग्रहापनयायोदशरावसाध्वलङ्कारदृष्टान्ते ऽप्यभिहित आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः / अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेवाऽत्मानं मनसि निधायैष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् / न तु तदभिप्रेतमात्मानम् / य आत्मेत्याद्यात्मलक्षणश्रवणेनाक्षिपुरुषश्रुत्या चोदशरावाद्युपपत्त्या च संस्कृतौ तावत् / मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेवाऽत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुखोत्पत्तिं परिजिहीर्षन्कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः / तौ हेन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः / न तु शम एव, शमश्चेत्तयोर्जातो विपरीतग्रहो विगतो ऽभविष्यत्प्रवव्रजतुर्गतवन्तौ
SK
START Cह्Uप् ८,८.४
SK
तौ हान्वीक्ष्य प्रजापतिर् उवाच | अनुपलभ्यात्मानम् अननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्तीति | स ह शान्तहृदय एव विरोचनो ऽसुराञ् जगाम | तेभ्यो हैताम् उपनिषदं प्रोवाच आत्मैवेह महय्य आत्मा परिचर्यः | आत्मानम् एवेह महयन्न् आत्मानं परिचरन्न् उभौ लोकाव् आप्नोतीमं चामुं चेति || Cह्Uप्_८,८.४ ||
SK
Cह्Uप्Bह्_८,८.४ एवं तयोर्गतयोरिन्द्रविरोचनयो राज्ञोर्भोगासक्तयोर्यथोक्तविस्मरणं स्यादित्याशङ्क्याप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुस्तौ दूरं गच्छन्तावन्वीक्ष्य य आत्मापहतपाप्मेत्यादिवचनवदेतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वोवाच प्रजापतिः / अनुपलभ्य यथोक्तलक्षणमात्मानमननुविद्य स्वात्मप्रत्यक्षं चाकृत्वा विपरीतनिश्चयौ च भूत्वेन्द्रविरोचनावेतौ व्रजतो गच्छेयाताम् / अतो यतरे देवा वासुरा वा किं विशेषितेनैतदुपनिषद आभ्यां या गृहीताऽत्मविद्या सेयमुपनिषद्येषां देवानामसुराणां वा त एतदुपनिषद एवंविज्ञाना एतन्निश्चया भविष्यन्तीत्यर्थः / ते किं, पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः / स्वगृहं गच्छतोः सुरासुरराजयोर्यो ऽसुरराजः स ह शान्तहृदय एव सन्विरोचनो ऽसुराञ्जगाम / गत्वा च तेभ्यो ऽसुरेभ्यः शरीरात्मबुद्धिर्योपनिषत्तामेतामुपनिषदं प्रोवाचोक्तवान् / देहमात्रमेवाऽत्मा पित्रोक्त इति / तस्मादात्मैव देह इह लोक महय्यः पूजनीयस्तथा परिचर्यः परिचरणीयस्तथाऽत्मानमेवेह लोके देहं महयन्परिचरंश्चोभौ लोकाववाप्नोतीमं चामुं च / इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्चान्तर्भवन्तीति राज्ञो ऽभिप्रायः
SK
START Cह्Uप् ८,८.५
SK
तस्माद् अप्यद्द्येहाददानम् अश्रद्दधानम् अयजमानम् आहुर् आसुरो बतेति | असुराणां ह्य् एषोपनिषत् | प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्ति | एतेन ह्य् अम्मुं लोकं जेष्यन्तो मन्यन्ते || Cह्Uप्_८,८.५ ||
SK
Cह्Uप्Bह्_८,८.५ तस्मात्तत्संप्रदायो ऽद्याप्यनुवर्तत इतीह लोके ऽददानं दानमकुर्वाणमविभागशीलमश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानमयजनस्वभावमाहुरासुरः खल्वयं यत एवंस्वभावो बतेति खिद्यमाना आहुः शिष्टाः / असुराणां हि यस्मादश्रद्दधानतादिलक्षणैषोपनिषत् / तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्रादिनाऽच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्त्येतेन कुणपसंस्कारेणामुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्याष्टमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,९.१
SK
अथ हेन्द्रो ऽप्राप्यैव देवान् एतद् भयं ददर्श | यथैव खल्व् अयम् अस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः | अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति | नाहम् अत्र भोग्यं पश्यामीति || Cह्Uप्_८,९.१ ||
SK
Cह्Uप्Bह्_८,९.१ अथ ह किलेन्द्रो ऽप्राप्यैव देवान्दैव्याक्रौर्यादिसंपदा युक्तत्वाद्गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन्नेतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् / उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तस्तदेकदेशो मघवतः प्रत्यभाद्बुद्धौ / येन च्छायात्मग्रहणे दोषं ददर्श / कथम् / यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति सुवसने च सुवसनः परिष्कृते परिष्कृतो यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति / एवमेवायं छायात्माप्यस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वादन्धे चक्षुषो ऽपगमे ऽन्धो बवति स्रामे स्रामः / स्रामः किलेकनेत्रस्तस्यान्धत्वेन गतत्वात् / चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः / परिवृक्णश्छिन्नहस्तश्छिन्नपादो वा / स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति / तथास्य देहस्य नाशमन्वेष नश्यति
SK
START Cह्Uप् ८,९.२
SK
स समित्पाणिः पुनर् एयाय | तं ह प्रजापतिर् उवाच | मघवन् यच् छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किम् इच्छन् पुनर् आगम इति | स होवाच यथा एव खल्वय्यं भगवो ऽस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः | अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति | नाहम् अत्र भोग्यं पश्यामीति || Cह्Uप्_८,९.२ ||
SK
Cह्Uप्Bह्_८,९.२ अतो नाहमत्रास्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीत्येवं दोषं देहच्छायात्मदर्शने ऽध्यवस्य स समित्पाणिर्ब्रह्मचर्यं वस्तुं पुनरेयाय / तं ह प्रजापतिरुवाच-मघवन्यच्छान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति / विजानन्नपि पुनः पप्रच्छेन्द्राभिप्रयाभिव्यक्तये यद्वेत्थ तेन मोपसीदेति यद्वत् / तथा च स्वाभिप्रयां प्रकटमकरोद्यथैव खल्वयमित्यदि, एवमेवेति चान्वमोदत प्रजापतिः / ननु तुल्ये ऽक्षिपुरुषश्रवमे देहच्छायामिन्द्रो ऽग्रहीदात्मेति देहमेव व विरोचनस्तत्किंनिमित्तम् / तत्र मन्यते / यथेन्द्रस्योदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैवाऽचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं चाभूत् / न तथा विरोचनस्य किं तर्हि देह एवाऽत्मदर्शनं नापि तत्र दोषदर्शनं बभूव / तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षमिन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम् /
SK
इन्द्रो ऽल्पदोषत्वाद्दृश्यत इतिश्रुत्यर्थमेव श्रद्दधानतया जग्राहेतरश्छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह प्रजापतिनोक्तो ऽयमिति दोषभूयस्त्वात् / यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छाया तद्वदिति विरोचनाभिप्रायः / स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्ये ऽपि श्रवणे ख्यापितं दाम्यत दत्त दयध्वमिति दकारमात्रश्रवणाच्छुत्यन्तरे / निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति
SK
START Cह्Uप् ८,९.३ एवम् एवैष मघवन्न् इति होवाच | एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि | वसापराणि द्वात्रिंशतं वर्षाणीति | स हापराणि द्वात्रिंशतं वर्षाण्युवास | तस्मै होवाच || Cह्Uप्_८,९.३ ||
SK
Cह्Uप्Bह्_८,९.३ एवमेवैष मघवन्सम्यक्त्वयावगतं न च्छायात्मेत्युवाच प्रजापतिर्यो मयोक्त आत्मा प्रकृत एतमेवाऽत्मानं तु ते भूयः पूर्वं व्याख्यातमप्यनुव्याख्यास्यामि / यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीरतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थस्त्वमतस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणीत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै होवाच
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य नवमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,१०.१
SK
य एष स्वप्ने महीयमानश् चरत्य् एष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | स ह शान्तहृदयः प्रवव्राज | स हाप्राप्यैव देवान् एतद् भयं ददर्श | तद् यद्य् अपीदं शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः | नैवैषो ऽस्य दोषेण दुष्यति || Cह्Uप्_८,१०.१ ||
SK
Cह्Uप्Bह्_८,१०.१ य आत्मापहतपाप्मादिलक्षणो य एषो ऽक्षिणीत्यादिना व्याख्यात एष सः / को ऽसौ / यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरत्यनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः / एष आत्मेति होवाचेत्यादि समानम् / स हैवमुक्त इन्द्रः शान्तहृदयः प्रवव्राज / स हाप्राप्यैव देवान्पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श / कथम् / तदिदं शरीरं यद्यप्यन्धं धवति स्वप्नात्मा यो ऽनन्धः स भवति / यदि स्राममिदं शरीरमस्रामश्च स भवति नैवैष स्वप्नात्मास्य देहस्य दोषेण दुष्यति
SK
START Cह्Uप् ८,१०.२-४
SK
न वधेनास्य हन्यते | नास्य स्राम्येण स्रामः | घ्नन्ति त्व् एवैनम् | विच्छादयन्तीव | अप्रियवेत्तेव भवति | अपि रोदितीव नाहम् अत्र भोग्यं पश्यामीति || Cह्Uप्_८,१०.२ ||
SK
स समित्पाणिः पुनर् एयाय | तं ह प्रजापतिर् उवाच | मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति | स होवाच | तद् यद्य् अपीदं भगवः शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः | नैवैषो ऽस्य दोषेण दुष्यति || Cह्Uप्_८,१०.३ ||
SK
न वधेनास्य हन्यते | नास्य स्राम्येण स्रामः | घ्नन्ति त्व् इवैनम् | विच्छादयन्तीव | अप्रियवेत्तेव भवति | अपि रोदितीव | नाहम् अत्र भोग्यं पश्यामीति | एवम् एवैष मघवन्न् इति होवाच | एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि | वसापराणि द्वात्रिंशतं वर्षाणीति | स हापराणि द्वात्रिंशतं वर्षाण्युवास | तस्मै होवाच || Cह्Uप्_८,१०.४ ||
SK
Cह्Uप्Bह्_८,१०.२-३-४ नाप्यस्य वधेन स हन्यते छायात्मवन्न चास्य स्राम्येण स्रामः स्वप्नात्मा भवति / यदध्यायादावागममात्रेणोपन्यस्तं नास्य जरयैतज्जीर्यतीत्यादि तदिह न्यायेनोपपादयितुमुपन्यस्तम् / न तावदयं छायात्मवद्देहदोषयुक्तः किन्तु ध्नन्ति त्वेवैनम् / एवशब्द इवार्थे / घ्नन्तीवैनं केचनेति द्रष्टव्यम् / प्रजापतिं प्रमाणीकुर्वतो ऽनृतवादित्वापादनानुपपत्तेः / एतदमृतमित्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रस्तं प्रमाणीकुर्वन् / ननु च्छायापुरुषे प्रजापतिनोक्ते ऽस्य शरीरस्य नाशमन्वेष नश्यतीति दोषमभ्यधात्तथेहापि स्यात् / नैवम् / कस्मात् / य एषो ऽक्षिणि पुरुषो दृश्यत इति मन्यते तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् / जगाम च / तस्मान्न च्छायात्मा प्रजापतिनोक्त इति मन्यते / तथा च व्याख्यातं द्रष्टाक्षिणि दृश्यत इति / तथा विच्छादयन्तीव विद्रावयन्तीव तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति / अपि च स्वयमपि रोदितीव / नन्वप्रियं वेत्त्येव कथं वेत्तेवेति / उच्यते-न अमृताभयत्ववचनानुपपत्तेः / ध्यायतीवेति च श्रुत्यन्तरात् / ननु प्रत्यक्षविरोध इति चेत् / न / शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात् / तिष्ठतु तावदप्रियवेत्तेव न वेति / नाहमत्र भोग्यं पश्यामि / स्वप्नात्मज्ञाने ऽपीष्टं फलं नोपलभ इत्यभिप्रायः. एवमेवैष तवाभिप्रायेणेति वाक्यसेषः / आत्मनो ऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात् / द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति / तस्मात्पूर्ववदस्याद्यापि प्रतिबन्धकारणमस्तीति मन्वानस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमित्यादिदेश प्रजापतिः / तथोषितवते क्षपितकल्मषायाऽह //२-३-४ //
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य दशमः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,११.१-२
SK
तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच | एतद् अमृतम् अभयम् एतद् ब्रह्मेति | स ह शान्तहृदयः प्रवव्राज | स हाप्राप्यैव देवान् एतद् भयं ददर्श | नाह खल्व् अयम् एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति | नो एवेमानि भूतानि | विनाशम् एवापीतो भवति | नाहम् अत्र भोग्यं पश्यामीति || Cह्Uप्_८,११.१ ||
SK
स समित्पाणिः पुनर् एयाय | तं ह प्रजापतिर् उवाच - मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति | स होवाच नाह खल्व् अयं भगव एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति | नो एवेमानि भूतानि | विनाशम् एवापीतो भवति | नाहम् अत्र भोग्यं पश्यामीति || Cह्Uप्_८,११.२ ||
SK
Cह्Uप्Bह्_८,११.१-२ पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यदि व्याख्यातं वाक्यम् / अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एष सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव / मघवांस्तत्रापि दोषं ददर्श / कथम् / नाह नैव सुषुप्तस्थो ऽप्यात्मा खल्वयं संप्रति सम्यगिदानीं चाऽत्मानं जानाति नैवं जानाति / कथम् / अयमहमस्मीति नो एवेमानि भूतानि चेति / यथा जाग्रति स्वप्ने वा / अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् / अपीतो ऽपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः / ज्ञाने हि सति ज्ञातुः सद्भावो ऽवगम्यते नासति ज्ञाने / न च सुषुप्तस्य ज्ञानं दृश्यते ऽतो विनष्ट इवेत्यभिप्रायः न तु विनाशमेवाऽत्मनो मन्यते ऽमृताभयवचनस्य प्रामाण्यमिच्छन् //१-२ //
SK
START Cह्Uप् ८,११.३
SK
एवम् एवैष मघवन्न् इति होवाच | एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि | नो एवान्यत्रैतस्मात् | वसापराणि पञ्च वर्षाणीति | स हापराणि पञ्च वर्षाण्युवास | तान्य् एकशतं संपेदुः | एतत् तद् यद् आहुः | एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यम् उवास | तस्मै होवाच || Cह्Uप्_८,११.३ ||
SK
Cह्Uप्Bह्_८,११.३ पूर्ववदेवमेवेत्युक्त्वा यो मयोक्तस्रिभिः पर्यायैस्तमेवैतं नो एवान्यत्रैतस्मादात्मनो ऽन्यं कञ्चन किं तर्ह्येतमेव व्याख्यास्यामि / स्वल्पस्तु दोषस्तवावशिष्टस्तत्क्षपणाय वसापराण्यन्यानि पञ्च वर्षाणीत्युक्तः स तथा चकार / तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसंबन्धरहितमात्मनःस्वरूपमपहतपाप्मत्वादिलक्षणं मघवते तस्मै होवाच / तान्येकशतं वर्षाणि संपेदुः संपन्नानि बभूवुः / यदाहुर्लोके शिष्टा एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवासेति तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातो ऽपसृत्य श्रुत्योच्यते / एवं किलैतदिन्द्रत्वादपि गुरुतरमिन्द्रेणापि महता यत्नेनैकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानमतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्यैकादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,१२.१
SK
मघवन् मर्त्यं वा इदं शरीरम् आत्तं मृत्युना | तद् अस्यामृतस्याशरीरस्यात्मनो ऽधिष्ठानम् | आत्तो वै सशरीरः प्रियाप्रियाभ्याम् | न वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति | अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः || Cह्Uप्_८,१२.१ ||
SK
Cह्Uप्Bह्_८,१२.१ मघवन्मर्त्यं वै मरणधर्मीदं शरीरम् / यन्मन्यसे ऽक्ष्याधारादिलक्षणः संप्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति / शृणु तत्र कारणम् / यदिदं शरीरं वै तदेतन्मर्त्यं विनाशि / तच्चाऽत्तं मृत्युना ग्रस्तं सततमेव / कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा संत्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्त इति वैराग्यार्थं विशेष इत्युच्यत आत्तं मृत्युनेति / कथं नाम देहाभिमानतो विरक्तः सन्निवर्तत इति / शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते / तच्छरीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य मरणादिदेहन्द्रियमनोधर्मवर्जितस्येत्येतत् / अमृतस्येत्यनेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्तिमत्त्वे मा भूतामित्यात्मनः / आत्मनो वा सत ईक्षितुस्तेजोबन्नादिक्रमेणोत्पन्नमधिष्ठानम् / जीवरूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वाधिष्ठानम् / यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्वान्सशरीरो भवति / अशरीरस्वभावस्याऽत्मनस्तदेवाहं शरीरं शरीरमेव चाहमित्यविवेकादात्मभावः सशरीरत्वं अत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम् / प्रसिद्धमेतत् / तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयोगवियोगनिमित्तयोर्बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्यापहतिर्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति / तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन विनर्तिताविवेकज्ञानशरीरं सन्तं प्रियाप्रिये न स्पृशतः / स्पृशिः प्रत्येकं संबध्यत इति प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वयं भवति / ᳚न म्लेच्छाशुच्यधार्मिकैः सह संभाषेते᳚ति यद्वत् / धर्माधर्मकार्ये हि ते / अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसंभवात्तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः / ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम् / नैष दोषः धर्माधर्मकार्ययोः शरीरसंबन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वात् अशरीरं न प्रियाप्रिये स्पृशत इति / आगमापायिनोर्हि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्याऽनन्दस्य प्रियस्यापि नेह प्रतिषेधः᳚विज्ञानमानन्दं ब्रह्म᳚ ᳚आनन्दो ब्रह्म᳚इत्यादिश्रुतिभ्यः / इहापि भूमैव सुखमित्युक्तत्वात् / ननु भूम्नः प्रियस्यैकत्वे ऽसंवेद्यत्वात्स्वरूपेण वा नित्यसंवेद्यत्वान्निर्विशेषतेति नेन्द्रस्य तदिष्टम् / ᳚नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवोमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि᳚इत्युक्तत्वात् / तद्धोन्द्रस्येष्टं यद्भतानि चाऽत्मानं च जानाति न चाप्रियं किञ्चिद्वेत्ति स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्येन ज्ञानेन सत्यमेतदिष्टमिन्द्रस्येमानि भूतानि मत्तो ऽन्यानि लोकाः कामाश्च सर्वे मत्तो ऽन्ये ऽहमेषां स्वामीति / न त्वेतदिन्द्रस्य हितम् / हितं चेन्द्रस्य प्रजापतिना वक्तव्यम् / व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिस्तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिनाभिप्रेतम् / न तु राज्ञो राज्याप्तिवदन्यत्वेन / तत्रैवं सति कं केन विजानीयादात्मैकत्व इमानि भूतान्ययमहमस्मीति / नन्वस्मिन्पक्षे᳚स्त्रीभिर्वा यानैर्वा᳚ ᳚स यदि पितृलोककामः᳚ ᳚स एकधा भवति᳚इत्याद्यैश्वर्यश्रुतयो ऽनुपपन्नाः / न / सर्वात्मनः सर्वफलसंबन्धोपपत्तेरविरोधात् / मृद इव सर्वघचकरककुण्डाद्याप्तिः / ननु सर्वात्मत्वे दुःखसंबन्धो ऽपि स्यादिति चेन्न, दुःखस्याप्यात्मत्वोपगमादविरोधः / आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि रज्ज्वामिव सर्पादिकल्पनानिमित्तानि / साचाविद्याशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्तोच्छिन्नेनि दुःखसंबन्धाशङ्का न संभवति / शुद्धसत्त्वसंकल्पनिमित्तानां तु कामानामीश्वरदेहसंबन्धः सर्वभूतेषु मानसानां पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एवाऽत्माऽस्पदं नान्यो ऽस्तीति वेदान्तसिद्धान्तः / य एषो ऽक्षिणि पुरुषो दृश्यति इति च्छायापुरुष एव प्रजापतिनोक्तः / स्वप्नसुषुप्तयोश्चान्य एव / न परो ऽपहतपाप्मत्वादिलक्षणो विरोधादिति केचिन्मन्यन्ते / छायाद्यात्मनां चोपदेशे प्रयोजनमाचक्षते / आदावेवोच्यमाने किल दुर्विज्ञेयत्वात्परस्याऽत्मनो ऽत्यन्तबाह्यविषयासक्तचेतसो ऽत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति / यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुर्वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति पश्यामुमेष चन्द्र इति, ततो ऽन्यं ततो ऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थं एष चन्द्र इति ततो ऽसौ चन्द्रं पश्यति, एवमेतद्य एषो ऽक्षिणीत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैर्न पर इति / चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थायाशरीरतामापन्नो ज्योतिःस्वरूपम् / यस्मिन्नुत्तमपुरुषे स्त्र्यादिभिर्जक्षत्क्रीडन्रममाणो भवति स उत्त्मः पुरुषः पर उक्त इति चाऽहुः / सत्यं, रमणीया तावदियं व्याख्या श्रोतुम् / न त्वर्थो ऽस्य ग्रन्थस्यैवं संभवति / कथम् / अक्षिणि पुरुषो दृश्यत इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयायोदशरावोपन्यासः किं पश्यथ इति च प्रश्नः साध्वलङ्कारोपदेशश्चानर्थकः स्यात् यदि च्छायात्मैव प्रजापतिनाक्षिणि दृश्यत इत्युपदिष्टः / किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयकारणं वक्तव्यं स्यात् / स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् न चोक्तं[तेनटतेन मन्यामहे नाक्षिणि च्छायात्मा प्रजापतिनोपदिष्टः /
SK
किं चान्यदक्षिणि द्रष्टा चेद्दृश्यत इत्युपदिष्टः स्यात्तत इदं युक्तम् / एतं त्वेव त इत्युक्त्वा स्वप्ने ऽपि द्रष्टुरेवोपदेशः / स्वप्ने न द्रष्टोपदिष्ट इति चेन्न / अपि रोदितीवाप्रियवेत्तेवेत्युपदेशात् / न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति / अत्रायं पुरुषः स्वयञ्ज्योतिरिति न्यायतः श्रुत्यन्तरे सिद्धत्वात् / यद्यपि स्वप्ने सधीर्भवति तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते / किं तर्हि पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् / किञ्चान्यत् / जाग्रत्स्वप्न्योर्भूतानि चाऽत्मानं च जानातीमानि भूतान्ययमहमस्मीति / प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यान्नाह खल्वयमित्यादि / तथा चेतनस्यैवाविद्यानिमित्तयोः शरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तो ऽशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति / एकश्चाऽत्मा स्वप्नबुद्धान्तयोर्महामत्स्यवदसङ्गः संचरतीति श्रुत्यन्तरे सिद्धम् / यच्चोक्तं संप्रसादः शरीरात्समुत्थाय यस्मिन्स्त्र्यादिभी रममाणो भवति सो ऽन्यः संप्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति / तदप्यसत् / चतुर्थे ऽपि पर्याय एत त्वेव त इति वचनात् / यदि ततो ऽन्यो ऽभिप्रेतः स्यात्पूर्ववदेतं त्वेव त इति न ब्रूयान्मृषा प्रजापतिः / किञ्चान्यत्तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुवस्तत्त्वमसीत्युपदेशो मृषा प्रसज्येत / तस्मिंस्त्वं स्त्र्यादिभी रन्ता भविष्यसीति युक्त उपदेशो ऽभविष्यद्यदि संप्रसादादन्य उत्तमः पुरुषो भवेत् / तथा भूम्न्यहमेवेत्यादिश्याऽत्मैवेदं सर्वमिति नोपसमहरिष्यद्यदि भूमा जीवादन्यो ऽभविष्यत् / ᳚नान्यो ऽतो ऽस्ति द्रष्टा᳚इत्यादिश्रुत्यन्तराच्च / सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत्प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत्तस्मादेक एवाऽत्मा प्रकरणी सिद्धः / न चाऽत्मनः संसारित्वम् / अविद्याध्यस्तत्वादात्मनि संसारस्य / न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति / एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् / यच्चस्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् / एवं च सति सर्वपर्यायेष्वेतदमृतभयमेतद्ब्रह्मेति प्रजापतेर्वचनम् / यदि वा प्रजापतिच्छद्भरूपायाः श्रुतेर्वचनं सत्यमेव भवेत् / न चतत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् / ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः / ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेन्न / जरादिरहितो जीर्णो ऽहं जातो ऽहमायुष्मान्गौरः कृष्णो मृत इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः / सर्वमप्येतत्सत्यमिति चेदस्त्येवैतदेवं दुरवगमं येन देवराजो ऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र विनाशमेवापीतो भवतीति / तथा विरोचनो महाप्राज्ञः प्राजापत्यो ऽपि देहमात्रात्मदर्शनो बभूव / तथेन्द्रस्याऽत्मविनाशभयसागर एव वैनाशिका न्यमज्जन् / तथा सांख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वान्मृत्युविषय एवान्यत्वदर्शने तस्थुः / तथान्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः / तथान्ये कर्मिणो बाह्यविषयापहृतचेतसो वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं विनाशमिवेन्द्रवन्मन्यमाना घटीयन्त्रवदारोहावरोहप्रकारैरनिशं बम्भ्रमति / किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः / तस्मादिदं त्यक्तसर्वबाह्यैषणैरनन्यशरणैः परमहंसपरिव्राजकैरत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं चेमं संप्रदायमनुसरद्भिरुपनिबद्धं प्रकरणचतुष्टयेन / तथानुशासत्यद्यापि त एव नान्य इति
SK
START Cह्Uप् ८,१२.२
SK
अशरीरो वायुः | अभ्रं विद्युत् स्तनयित्नुर् अशरीराण्य् एतानि | तद् यथैतान्य् अमुष्माद् आकाशात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते || Cह्Uप्_८,१२.२ ||
SK
Cह्Uप्Bह्_८,१२.२ तत्राशरीरस्य संप्रसादस्याविद्यया शरीरेणाविशेषतां ससरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथाभिनिष्पत्तिस्तथा वक्तव्येति दृष्टान्त उच्यते-अशरीरो वायुरविद्यमानं शिरःपाण्यादिमच्छरीरमस्येत्यशरीरः / किं चाभ्रं विद्युत्स्तनयित्नुरित्येतानि चाशरीराणि / तत्तत्रैवं सति वर्षादिप्रयोजनावसाने यथा / अमुष्मादिति भूमिष्ठा श्रुतिर्द्युलोकसंबन्धिनमाकाशदेशं व्यपदिशति / एतानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपेणागृह्यमाणान्याकाशाख्यतां गतानि यथा संप्रसादो ऽविद्यावस्थायां शरीरात्मभावमेवापन्नः, तानि च तथाभूतान्यमुष्माद्द्युलोकसम्बन्धिन आकाशदेशात्समुत्तिष्ठन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये / कथम् / शिशिरापाये सावित्र परं ज्योतिः प्रकृष्टं ग्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्येत्यर्थः / आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वाभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते
SK
START Cह्Uप् ८,१२.३
SK
एवम् एवैष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते | स उत्तमपुरुषः | स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा नोपजनं स्मरन्न् इदं शरीरम् | स यथा प्रयोग्य आचरणे युक्त एवम् एवायम् अस्मिञ् छरीरे प्राणो युक्तः || Cह्Uप्_८,१२.३ ||
SK
Cह्Uप्Bह्_८,१२.३ यथायं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नो ऽहममुष्य पुत्रो जातो जीर्णो मरिष्य इत्येवंप्रकारं प्रजापतिनेव मघवान्यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन्स एष संप्रसादो जीवो ऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिवैलक्षण्यमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् / स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् / स येन स्वेन रूपेण संप्रसादो ऽभिनिष्पद्यते प्राक्प्रतिबोधात्तद्भ्रान्तिनिमित्तात्सर्पो भवति यता रज्जुः पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते / एवं च स उत्तमपुरुष उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एवोत्तमपुरुषो ऽक्षिस्वप्नपुरुषौ व्यक्तावव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नो ऽशरीरश्च स्वेन रूपेणेति / एषामेष स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्योत्तमपुरुषः कृतनिर्वचनो ह्ययं गीतासु / स संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षद्धसन्भक्षयन्वा भक्ष्यानुच्चावचानीप्सितान्क्वचिन्मनोमात्रैः संकल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन्स्त्र्यादिभी रममाणश्च मनसैव नोपजनं स्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनमात्मभावेन वाऽत्मसामीप्येन जायत इत्युपजनमिदं शरीरं तन्न स्मरन् / तत्स्मरणे हि दुःखमेव स्यात् / दुःखात्मकत्वात्तस्य / नन्वनुभूतं चेन्न स्मरेदसर्वज्ञत्वं मुक्तस्य / नैष दोषः / येन मिथ्याज्ञानादिना जनितं तच्च मिथ्याज्ञानादि विद्ययोच्छेदितमतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः / न ह्यु न्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपदमे ऽपि स्मर्तव्यं स्यात्तथेहापि संसारिभिरविद्यादोषवद्भिर्यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति / अविद्यानिमित्ताभावात् / ये तूच्छिन्नदोषैर्मृदितकषायैर्मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात्त एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इत्यात्मज्ञानस्तुतये निर्दिश्यन्ते ऽतः साध्वेतद्विशिनष्टि-य एते ब्रह्मलोक इति / यत्र क्वचन भवन्तो ऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते / ननु कथमेकःऽसन्नान्यत्पश्यति नान्यद्विजानाति स भूमाऽकामांश्च ब्राह्मलौकिकान्ऽपश्यन् रमतऽइति च विरुद्धम् / यथैको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति चेति / नैष दोषः / श्रुत्यन्तरे परिहृतत्वात् / द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति / द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति चेति / यद्यपि सुषुप्ते तदुक्तं मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः / केन कं पश्येदिति चोक्तमेव / अशरीरस्वरूपो ऽपहतपाप्मादिलक्षणः सन्कथमेष पुरुषो ऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना / तत्र यथासावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते / तत्र को हेतुरक्षिणि दर्शन इत्याह-स दृष्टान्तो यथा प्रयोग्यः प्रयोग्यपरो वा सशब्दः / प्रयुज्यत इति प्रयोग्यो ऽश्वो बलीवर्दे वा / यथा लोक आचरत्यनेनेत्याचरणो रथो ऽनो वा तस्मिन्नाचरणे युक्तस्तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः / कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविसष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति / ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारे ऽधिकृतः / तस्यैव तु मात्रैकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम्
SK
START Cह्Uप् ८,१२.४
SK
अथ यत्रैतद् आकाशम् अनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः | अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् | अथ यो वेदेदम् अभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् | अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् || Cह्Uप्_८,१२.४ ||
SK
Cह्Uप्Bह्_८,१२.४ अथ यत्र कृष्णतारोपलक्षितमाकाशं देहच्छिद्रमनुविषण्णमनुषक्तमनुगतं तत्र स प्रकृतो ऽशरीर आत्मा चाक्षुषश्चक्षुषि भव इति चाक्षुषस्तस्य दर्शनाय रूपोपलब्धये चक्षुः करणं यस्य तद्देहादिभिः संहतत्वात्परस्य द्रष्टुरर्थे सो ऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परो ऽशरीरो ऽसंहतः / अक्षिणि दृश्यत इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् / सर्वविषयोपलब्धा हि स एवेति / स्फुटोपलब्धिहेतुत्वात्त्वक्षिणीति विशेषवचनं सर्वश्रुतिषु / ᳚अहमदर्शमिति तत्सत्यं भवती᳚ति च श्रुतेः / अथापि यो ऽस्मिन्देहे वेद कथमिदं सुगन्धि दुर्गन्धि वा जिघ्राणीत्यस्य गन्धं विजानीयामिति स आत्मा तस्य गन्धाय गन्धविज्ञानाय घ्राणम् / अथ यो वेदेदं वचनमभिव्याहराणीति वदिष्यामीति स आत्माभिव्यवहरणक्रियासिद्धये करणं वागिन्द्रियम् / अथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम्
SK
START Cह्Uप् ८,१२.५
SK
अथ यो वेदेदं मन्वानीति स आत्मा | मनो ऽस्य दैवं चक्षुः | स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके || Cह्Uप्_८,१२.५ ||
SK
Cह्Uप्Bह्_८,१२.५ अथ यो वेददं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद स आत्मा मननाय मनः /
SK
यो वेद स आत्मेत्येवं सर्वत्र प्रयोगाद्वेदनमस्य स्वरूपमित्यवगम्यते / यथा यः पुरस्तात्प्रकाशयति स आदित्यो यो दक्षिणतो यः पश्चाद्य उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्य इत्युक्ते प्रकाशस्वरूपः स इति गम्यते / दर्शनादि क्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि / इदं चास्याऽत्मनः सामर्थ्यादवगम्यते / आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वं न तु व्यापृततया / यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वं न तु व्यापृततयेति तद्वत् / मनो ऽस्याऽत्मनो दैवमप्राकृतमितरेन्द्रियैरसाधारणं चक्षुश्चष्टे पश्यत्यनेनेति चक्षुः / वर्तमानकालविषयाणि चेन्द्रियाण्यतो ऽदैवानि तानि / मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं चेति दैवं चक्षुरुच्यते / स वै मुक्तः स्वरूपापन्नो ऽविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन्नेष व्योमवद्विशुद्धः सर्वेश्वरो मनौपाधिः सन्नेतेनैवेश्वरेण मनसैतान्कामान्सवितृप्रकाशवन्नित्यप्रततेन दर्शनेन पश्यन् रमते / कान्कामानिति विशिनष्टि-य एते ब्रह्मणि लोके हिरण्यनिधिवद्बाह्यविषयासङ्गानृतेनापिहिताः संकल्पमात्रलभ्यास्तानित्यर्थः
SK
START Cह्Uप् ८,१२.६
SK
तं वा एतं देवा आत्मानम् उपासते | तस्मात् तेषां सर्वे च लोका आत्ताः सर्वे च कामाः | स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानाति | इति ह प्रजापतिर् उवाच प्रजापतिर् उवाच || Cह्Uप्_८,१२.६ ||
SK
Cह्Uप्Bह्_८,१२.६ यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा तस्मात्ततः श्रुत्वा तमात्मानमद्यत्वे ऽपि देवा उपासते / तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः / यदर्थं हीन्द्र एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास तत्फलं प्राप्तं देवैरित्यभिप्रायः / तद्युक्तं देवानां महाभाग्यत्वान्न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च संभवतीति प्राप्त इदमुच्यते-स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिदानीन्तनो ऽपि / को ऽसौ / इन्द्रादिवद्यस्तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच / अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः / द्विर्वचनं प्रकरणसमाप्त्यर्थम्
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वादशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,१३.१
SK
श्यामाच् छबलं प्रपद्ये | शबलाच् छ्यामं प्रपद्ये | अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर् मुखात् प्रमुच्य धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्मलोकम् अभिसंभवामीत्य् अभिसंभवामीति || Cह्Uप्_८,१३.१ ||
SK
Cह्Uप्Bह्_८,१३.१ श्यामाच्छबलं प्रपद्य इत्यादिमन्त्राम्नाय पावनो जपार्थश्च ध्यानार्थो वा / श्यामो गम्भीरो वर्णः श्याम इव श्यामो हार्दं ब्रह्मात्यन्तदुरवगाह्यत्वात्तद्धार्द ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामाच्छबलं शबल इव शबलो ऽरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्य तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वोर्ध्वं गच्छेयम् / यस्मादहं शबलाद्ब्रह्मलोकान्नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नो ऽस्मीत्यभिप्रायः / अतस्तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः / कथं शबलं ब्रह्मलोकं प्रपद्य इत्युच्यते-अश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतो ऽपनीय यथा निर्मलो भवत्येवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माक्यं चन्द्र इव च राहुग्रस्तस्तस्माद्रहोर्मुखात्मप्रमुच्य भास्वरो भवति यथैवं धूत्वा प्रहार शरीरं सर्वानर्थाश्रयमिहैव ध्यानेन कृतात्मा कृतकृत्यः सन्नकृतं नित्यं ब्रह्मलोकमभिसंभवामीति / द्विर्वचनं मन्त्रसमाप्त्यर्थम्
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य त्रयोदशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,१४.१
SK
आकाशो वै नाम नामरूपयोर् निर्वहिता | ते यदन्तरा तद् ब्रह्म तद् अमृतं स आत्मा | प्रजापतेः सभां वेश्म प्रपद्ये यशो ऽहं भवामि ब्राह्मणानां यशो राज्ञाम् यशो विशाम् | यशो ऽहम् अनुप्रापत्सि | स हाहं यशसां यशः | श्येतम् अदत्कम् अदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम् || Cह्Uप्_८,१४.१ ||
SK
Cह्Uप्Bह्_८,१४.१ आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थमाध्यानाय / आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा / आकाश इवाशरीरत्वासूक्ष्मत्वाच्च / स चाऽकाशो नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोर्निर्वहिता निर्वोढा व्याकर्ता / ते नामरूपे यदन्तरा यस्य ब्रह्मणो ऽन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत्तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढुत्वं लक्षणं ब्रह्मेत्यर्थः / इदमेव मैत्रेयीब्राह्मणेनोक्तं चिन्मात्रानुगमात्मसर्वत्र चित्स्वरूपतैवेति गम्यत एकवाक्यता / कर्थ तदवगम्यत इत्याह-स आत्मा / आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धस्तेनैव स्वरूपेणोन्नीयाशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम् / तच्चाऽत्मा ब्रह्मामृतममरणधर्मा / अत ऊर्ध्व मन्त्रः / प्रजापतिश्चतुर्मुखस्तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् / किञ्च यशो ऽहं यशो नामाऽत्माहं भवामि ब्राह्मणानाम् / ब्राह्मणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि / तथा राज्ञां विशां च / ते ऽप्यधिकृता एवेति तेषामप्यात्मा भवामि / तद्यशो ऽहमनुप्रापत्स्यनुप्राप्तुमिच्छामि स हाहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा / किमर्थमहमेवं प्रपद्य इति, उच्यते-श्येतं वर्णतः पक्वबदरसमं रोहितम् / तथादत्कं दन्तरहितमप्यदत्कं भक्षयितृ स्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणामपहन्तृ विनाशयित्रित्येतत् / यदेवंलक्षणं श्येतं लिन्दु पिच्छिलं तन्माभिगां माभिगच्छेयम् / द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम्
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्दशः खण्डः
SK
=======================================================================
SK
START Cह्Uप् ८,१५.१
SK
तद् धैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर् मनवे मनुः प्रजाभ्यः | आचार्यकुलाद् वेदम् अधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायम् अधीयानो धर्मिकान् विदधद् आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन् सर्वभूतान्य् अन्यत्र तीर्थेभ्यः | स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्मलोकम् अभिसंपद्यते | न च पुनर् आवर्तते न च पुनर् आवर्तते || Cह्Uप्_८,१५.१ ||
SK
Cह्Uप्Bह्_८,१५.१ तद्धैतदात्मज्ञानं सोपकरणमोमित्येतदक्षरमित्याद्यैः सहोपासनैस्तद्वाचकेन ग्रन्थेनाष्टाध्यायीलक्षणेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्द्वारेण प्रजापतये कश्यपायोवाच / असावपि मनवे स्वपुत्राय / मनुः प्रजाभ्य इत्येवं श्रुत्यर्थसंप्रदायपरम्परयाऽगतमुपनिषद्विज्ञानमद्यापि विद्वत्स्ववगम्यते / यथेह षष्ठाद्यध्यायत्रये प्रकाशितात्मविद्या सफलावगम्यते तथा कर्मणां न कश्चनार्थ इति प्राप्ते तदानर्थक्यप्राप्तिपरिजिहीर्षयेदं कर्मणो विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेनार्थवत्त्वमुच्यते-आचार्यकुलाद्वेदमधीत्य सहार्थतो ऽध्ययनं कृत्वा यथाविधानं यथास्मृत्युक्तैर्नियमैर्युक्तः सन्नित्यर्थः / सर्वस्यापि विधेः स्मृत्युक्तस्योपकपर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्यप्रदर्शनार्थमाह-गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो यो ऽतिशिष्टः कालस्तेन कालेन वेदमधीत्येत्यर्थः / एवं हि नियमवताधीतो वेदः कर्मज्ञानफलप्राप्तये भवति नान्यथेत्यभिप्रायः / अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरुकुलन्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हत्थ्वे विहिते कर्मणि तिष्ठन्नित्यर्थः / तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते-शुचौ विविक्ते ऽमेध्यादिरहिते देशे यतावदासीनः स्वाध्यायमधीयानो नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन्धार्मिकान्पुत्राञ्शिष्यांश्च धर्मयुक्तान्विदधद्धार्मिकत्वेन तान्नियमयन्नात्मनि स्वहृदये हार्दे ब्रह्मणि सर्वेन्द्रियाणि संप्रतिष्ठाप्योपसंहृत्येन्द्रियग्रहणात्कर्माणि च संन्यस्याहिंसहिंन्सां परपीडामकुर्वन्सर्वभूतानि स्थावरजङ्गमानि भूतान्यपीडयन्नित्यर्थः / भिक्षानिमित्तमटनादिनापि परपीडा स्यादित्यत आह-अन्यत्र तीर्थेभ्यः / तीर्थं नाम शास्रानुज्ञाविषयस्ततो ऽन्यत्रेत्यर्थः / सर्वाश्रमिणां चैतत्समानम् तीर्थेभ्यो ऽन्यत्रहिंसैवेति / अन्ये वर्णयन्ति कुटुम्ब एवैतत्सर्वं कुर्वन्स खल्वधिकृतो यावदायुषं यावज्जीवमेवंयथोक्तेन प्रकारेणैव वर्तयन्ब्रह्मलोकमभिसंपद्यतेदेहान्ते / न च पुनरावर्तते शरीरग्रहणाय / पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् / अर्चिरादिना मार्गेण कार्यब्रह्मलोकभिसंपद्य यावद्ब्रह्मलोकस्थितिस्तावत्तत्रैव तिष्ठति प्राक्ततो नाऽवर्तत इत्यर्थः / द्विरभ्यास उपनिषद्विद्यापरिसमाप्त्यर्थः //१ // //
SK
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य पञ्चदशः खण्डः इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपर् इव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ च्छान्दोग्योपनिषद्विवरणे अष्टमो ऽध्यायः

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Chāndogya Upaniṣad with commentary: corpustei HTML transform of the Chāndogya with commentary.

Source