Vक्न् २.३ अवदातवस्त्रधारी श्रमणेर्यापथसंपन्नः / गृहवासस्थितः कामधातुरूपधात्वारूप्यधात्वसंसृष्टः / भार्यापुत्रदारांश् च संदर्शयति, सदा च ब्रह्मचारी / परिवारपरिवृतश् च भवति, सदा च विवेकचारी / आभरणविभूषितश् च संदृश्यते, सदा च लक्षणपरिच्छिन्नः / अन्नपानभोजनजीवः संदृश्यते, सदा च ध्यानाहारः / सर्वद्यूतकरशालासु च संदृश्यते, द्यूतक्रीडासक्तचित्तांश् च सत्वान् परिपाचयति, सदा चाप्रमादचारी / सर्वपाषण्डप्रत्येषकश् च / बुद्धे चाभेद्याशयः / सर्वलौकिकलोकोत्तरशास्त्रविधिज्ञश् च / सदा च धर्मारामरतिरतः / सर्वसंगणिकासु च संदृश्यते, सर्वत्र चाग्रपूजितः /
SK
Vक्न् २.४ धर्मवादी च वृद्धमध्यदह्रसहायकश् च लोकानुवर्तनाय /
SK
सर्वव्यवहारोद्युक्तश् च न च लाभभोगाभिलाषी /
SK
सर्वचत्वरश्र्ङ्गाटकेषु च संदृश्यते सर्वसत्ववैनयिकतायै /
SK
राजकार्यानुप्रविष्टश् च सत्वारक्षायै /
SK
सर्वधर्मश्रवणसांकथ्येषु च संदृश्यते हीनयानविच्छन्दनाय महायाने समादापनतया /
SK
सर्वलिपिशालासु चोपसंक्रामति दारकपरिपाचनाय /
SK
सर्वगणिकाकुलानि च प्रविशति कामदोषसंदर्शनाय /
SK
सर्वकल्लवालगृहाणि च प्रविशति स्मृतिसंप्रजन्योपस्थापनाय /
SK
Vक्न् २.५ श्रेष्ठिषु च श्रेष्ठिसंमतः श्रेष्ठधर्मारोचनतायै /
SK
गृहपतिषु च गृहपतिसंमतः सर्वग्राहोद्ग्रहपरिच्छेदाय /
SK
क्षत्रियेषु च क्षत्रियसंमतः क्षान्तिसौरत्यबलप्रतिष्ठापनाय /
Vक्न् २.१३ एवं विमलकीर्तिर् लिच्छविस् तथा संनिपतितानां तेषां ग्लानपरिपृच्छकानां तथा तथा धर्मं देशयति यद् बहूनि सत्वशतसहस्राण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयन्ति // //
SK
अचिन्त्योपायकौशल्यपरिवर्तो नाम द्वितीयः //
SK
Vक्न् ३.१ अथ विमलकीर्तेर् लिच्छवेर् एतद् अभवत्: अहं च ग्लान आबाधिको मञ्चसमारूढः, न च मां तथागतो ऽर्हन् सम्यक्संबुद्धः समन्वाहरति, न च मे ग्लानपरिपृच्छकं कंचित् प्रेषयत्य् अनुकंपाम् उपादाय /
एवम् उक्त आयुष्माञ् शारिपुत्रो भगवन्तम् एतद् अवोचत्: नाहं भगवन् उत्सहे विमलकीर्तेर् लिच्छवेर् ग्लानपरिपृच्छको गन्तुम् / तत् कस्य हेतोः / अभिजानाम्य् अहं भगवन्: एकस्मिन् समये ऽन्यतमस्मिन् वृक्षमूले प्रतिसंलीनो ऽभूवम् / विमलकीर्तिश् च लिच्छविर् येन तद् वृक्षमूलं तेनोपसंक्रम्य माम् एतद् अवोचत्: Vक्न् ३.३ न भदन्तशारिपुत्र एवं प्रतिसंलयनं संलातव्यं यथा त्वं प्रतिसंलीनः / अपि तु तथा प्रतिसंलीयश् च यथा त्रैधातुके न कायश् चित्तं वा संदृश्यते / तथा प्रतिसंलीयश् च यथा निरोधाच् च न व्युत्तिष्ठसि सर्वेर्यापथेषु च संदृश्यसे / तथा प्रतिसंलीयश् च यथा प्राप्तिलक्षणं च न विजहासि पृथग्जनलक्षणेषु च संदृश्यसे / तथा प्रतिसंलीयश् च यथा ते न चाध्यात्मं चित्तम् अवस्थितं भवेन् न बहिर्धोपविचरेत् / तथा प्रतिसंलीयश् च यथा सर्वदृष्टिगतेभ्यश् च न चलसि सप्तत्रिंशत्सु च बोधिपक्ष्येषु धर्मेषु संदृश्यसे / तथा प्रतिसंलीयश् च यथा संसारावचरांश् च क्लेशान् न प्रजहासि निर्वाणसमवसरणश् च भवसि / ये भदन्तशारिपुत्र एवं प्रतिसंलयनं प्रतिसंलीयन्ते तेषां भगवान् प्रतिसंलयनम् अनुजानाति /
Vक्न् ३.७ ईदृशस्य भदन्तमहामौद्गल्यायन धर्मस्य कीदृशी देशना / धर्मदेशनेति भदन्तमहामौद्गल्यायन समारोपपदम् एतत् / ये ऽपि शृण्वन्ति ते ऽपि समारोपेनैव शृण्वन्ति / यत्र भदन्तमौद्गल्यायन असमारोपपदं न तत्र देश्यते न श्रूयते न विज्ञायते / तद्यथा मायापुरुषो मायापुरुषेभ्यो धर्मं देशयति /
SK
Vक्न् ३.८ एवं हि चित्तावस्थानेन धर्मो देशयितव्यः / सत्वेन्द्रियकुशलेन च ते भवितव्यम्, सुदृष्टप्रज्ञादर्शनेन महाकरुणामुखीभूतेन महायानसंवर्णकेन बुद्धेकृतज्ञेन शुद्धाशयेन धर्मनिरुक्तिविधिज्ञेन, त्रिरत्नवंशानुपच्छेदाय च ते धर्मो देशयितव्यः /
Vक्न् ३.११ प्रादेशिकी भदन्तमहाकाश्यपस्य करुणामैत्री, यन् महाकुलान्य् उत्सृज्य दरिद्रकुलान्य् उपसंक्रामसि / अपि तु भदन्तमहाकाश्यप धर्मसमताप्रतिष्ठितेन ते भवितव्यम् / सर्वदा सर्वसत्वसमन्वाहारेण पिण्डपातः पर्येष्टव्यः / अनाहारेण चाहारः पर्येष्टव्यः / परपिण्डग्राहापनयाय च ते पिण्डाय चरितव्यम् / शून्यग्रामाधिष्ठितेन च ग्रामः प्रवेष्टव्यः / नरनारीपरिपाकाय च ते नगरं प्रवेष्टव्यम् / बुद्धकुलकुलीनेन च ते कुलान्य् उपसंक्रमितव्यानि /
SK
Vक्न् ३.१२ अप्रतिग्रहणतया च पिण्डपातः प्रतिग्राह्यः / जात्यन्धसमतया च रूपाणि द्रष्टव्यानि / प्रतिश्रुतकोपमतया च शब्दाः श्रोतव्याः / वातसमतया च गन्धा घ्रातव्याः / अविज्ञप्तितो रसा आस्वादयितव्याः / ज्ञानास्पर्शनतया च स्पर्शाः स्प्रष्टव्याः / मायापुरुषविज्ञाप्त्या च धर्मा विज्ञातव्याः / यो ऽस्वभावो ऽपरभावश् च तद् अनुज्ज्वलितम् / यद् अनुज्ज्वलितं तन् न शाम्यति /
SK
Vक्न् ३.१३ यदि स्थविरो महाकाश्यपो ऽष्टौ च मिथ्यात्वानि समतिक्रामेत्, अष्टौ च विमोक्षान् समापद्येत, मिथ्यासमतया च सम्यक्त्वसमताम् अवतरेत्, एकेन च पिण्डपातेन सर्वसत्वान् प्रतिपादयेत्, सर्वबुद्धान् सर्वार्यांश् च प्रतिपाद्य पश्चाद् आत्मना परिभुञ्जीत, तथा च परिभुञ्जीत यथा न संक्लेशो न विगतक्लेशः, परिभुञ्जीत न समाहितो न व्युत्थितः, न संसारस्थितो न निर्वाणस्थितः परिभुञ्जीत / ये च भदन्ताय पिण्डपातं ददति ते तेषां नाल्पफलं न महाफलैः भवेत् / न च हानाय न विशेषाय गच्छेत्, बुद्धगतिसमवसरणाय च भवेत न श्रावकगतिसमवसरणाय / एवं स्थविरो महाकाश्यपो ऽमोघं राष्ट्रपिण्डं परिभुञ्जीत /
SK
Vक्न् ३.१४ सो ऽहं भगवन् इमं धर्मनिर्देशं श्रुत्वाश्चर्यप्राप्तः सर्वबोधिसत्वान् नमस्यामि / गृहिणो ऽपि नामैवंरूपं प्रतिभानम्, को ऽनुत्तरायां सम्यक्संबोधौ चित्तं नोत्पादयेत् / ततः प्रभृति मे न कश्चित् सत्वः श्रावकयाने प्रत्येकबुद्धयाने वा समादापितपूर्वो ऽन्यत्र महायानात् / तन् नाहं भगवन् उत्सहे तस्य कुलपुत्रस्य ग्लानपरिपृच्छको गन्तुम् /
Vक्न् ३.१६ सचेत् त्वं भदन्तसुभूते आमिषसमतया सर्वधर्मसमताम् अनुगतः सर्वधर्मसमतया च बुद्धधर्मसमताम् अनुगत एव, त्वम् इमं पिण्डपातं प्रतिगृह्नीष्व / सचेत् त्वं भदन्तसुभूते न रागदोषमोहप्रहीणो न च तैः सार्धं संवससि / सचेद् एवम् अस्य् अविकोप्य सत्कायम् एकायनं मार्गम् अनुगतः / न च ते ऽविद्या भवतृष्णा च समुद्घातिता न च विद्याविमुक्ती उत्पादिते / आनन्तर्यसमतया च ते समाधिविमुक्तिः / न चासि मुक्तो न बद्धः / न च ते चत्वार्य् आर्यसत्यानि दृष्टानि न च न दृष्टसत्यः / न प्राप्तफलो न पृथग्जनसमवसरणः / न चास्य् आर्यो नानार्यः / न सर्वधर्मसमन्वागतश् च सर्वधर्मसमधिगतश् च /
SK
Vक्न् ३.१७ न च ते शास्ता दृष्टो न धर्मः श्रुतो न संघः पर्युपासितः / ये च ते षट् शास्तारस् तद्यथा पूरणः काश्यपः, मस्करी गोशालीपुत्रः, संजयो वैराष्ट्रिकपुत्रः, ककुदः कात्यायनः, अजितः केशकम्बलः, निर्ग्रन्थो ज्ञातिपुत्रः, ते च भदन्तस्य शास्तारस् तांश् च निश्रित्य प्रव्रजितो यद्गामिनस् ते षट् शास्तारस् तद्गाम्य् एवार्यसुभूतिः,
SK
Vक्न् ३.१८ सर्वदृष्टिगतेषु चार्यमन् अन्तर्गतो न चान्तमध्यप्राप्तः, अष्टाक्षणसमवसरणश् चासि न चासि लक्षणम् अनुप्राप्तः, संक्लेशेन चासि समो ऽव्यवदानम् अधिगतः, या च सर्वसत्वानाम् अरणा सा भदन्तस्याप्य् अरणा, न च त्वया दक्षिणा विशोध्यते, ये च भदन्ताय पिण्डपातं ददति तांश् च विनिपातयसि, सर्वमारैश् च ते सार्धम् एकहस्तः कृतः / सर्वक्लेशाश् च ते सहायाः, यत्स्वभावाश् च क्लेशास् तत्स्वभावो भदन्तः, सर्वसत्वेषु ते वधकचित्तं प्रत्युपस्थितम्, सर्वबुद्धाश् च ते ऽभ्याख्याताः, सर्वबुद्धधर्मांश् च प्रतिक्रोशसि, न चासि संघप्रतिसरणः, न च जातु परिनिर्वास्यसि / एवं त्वम् इमं पिण्डपातं प्रतिगृहीण /
SK
Vक्न् ३.१९ तस्य मे भगवन् इमं धर्मनिर्देशं श्रुत्वान्धकारप्राप्ता दिशो ऽभूवन् ः तत् किम् अस्मै निर्दिशामि, कथम् वा प्रतिपद्य इति / सो ऽहं तत् पात्रम् उत्सृज्य ततो गृहान् निष्क्रमिष्यामीति /
SK
विमलकीर्तिर् Iइच्छविर् माम् एवम् आह: मा भदन्तसुभूते अक्षरेभ्य उत्त्रसीः, प्रतिगृहाणेदं पात्रम् / तत् किं मन्यसे भदन्तसुभूते, यदि तथागतनिर्मित एवम् उच्येत कच्चित् स उत्त्रसेत् /
SK
सो ऽहम् अवोचम्: नो हीदं कुलपुत्र /
SK
स माम् एवम् आह: निर्मितमायास्वभावेभ्यो भदन्तसुभूते सर्वधर्मेभ्यो नोत्त्रसितव्यम् / तत् कस्माद् धेतोः / सर्वाणि हि तानि वचनानि तत्स्वभावानि, एवं पण्डिता अक्षरेषु न सज्जन्ति न तेभ्य उत्त्रस्यन्ति / तत् कस्माद् धेतोः / सर्वाणि तान्य् अक्षराण्य् अनक्षराणि स्थापयित्वा विमुक्तिं विमुक्तिलक्षणांश् च सर्वधर्मान् /
मञ्जुश्रिर् आह: एवम् एतद् गृहपते यथा वदसि / य आगतो न स भूय आगमिष्यति / यश् च गतो न स भूयो गमिष्यति / तत् कस्माद् धेतोः / न चागतस्यागमनं प्रज्ञायते, न च गतस्य गमनम्, यश् च दृष्टो न भूयो द्रष्टव्यः /
SK
Vक्न् ४.५ अपि तु कच्चित् ते सत्पुरुष क्षपणीयम्, कच्चिद् यापनीयम्, कच्चिद् वातेन प्रतिकुप्यन्ति धातवः, कच्चिद् अपगच्छति व्याधिर् न विवर्धते / भगवांस् ते ऽल्पाबाधतां परिपृच्छति, अल्पातङ्कतां चाल्पग्लान्यतां च लघूत्थानतां च यत्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /
SK
Vक्न् ४.६ कुत्र ते गृहपते इदं व्याधिसमुत्थानम् / कियच्चिरम् उपादाय ते व्याधिः / कदा चोपशमिष्यति /
मञ्जुश्रीर् आह: कायानित्यतया न च निर्विद्विरागतया, कायदुःखतया न च निर्वाणाभिनन्दनतया, कायानात्मतया सत्वपरिपाचनतया च, कायशान्ततया न चात्यन्तशमतया, सर्वदुश्चरितदेशनतया न च संक्रान्तितः, स्वग्लान्येन परसत्वग्लानकरुणतया, पूर्वान्तकोटीदुःखानुस्मरणतया, सत्वार्थक्रियानुस्मरणतया, कुशलमूलाभिमुखीकरणतया, आदिविशुद्धतया, अपरितर्षणतया, सदावीर्यारंभाच् च, वैद्यराजो भविष्यसि सर्वव्याधीनां शमयितेति / एवं बोधिसत्वेन बोधिसत्वो ग्लानः प्रतिसंमोदितव्यः /
Vक्न् ५.२ आह: तेन हि भदन्तशारिपुत्र यो धर्मर्थिको भवति, नासौ स्वकायार्थिको भवति / किं पुनर् आसनार्थिको भविष्यति / यो भदन्तशारिपुत्र धर्मार्थिको भवति, न स रूपवेदनासंज्ञासंस्कारविज्ञानार्थिको भवति, न स्कन्धधात्वायतनार्थिकः / यो धर्मार्थिकः, न स कामधातुरुपधात्वारूप्यधात्वर्थिको भवति, नासौ बुद्धाभिनिवेशार्थिको भवति, न धर्मसंघाभिनिवेशार्थिकः /
SK
Vक्न् ५.३ पुनर् अपरं भदन्तशारिपुत्र यो धर्मार्थिकः, नासौ दुःखपरिज्ञानार्थिको न समुदयप्रहाणार्थिको न निरोधसाक्षात्क्रियार्थिको न मार्गभावनार्थिको भवति / तत् कस्माद् धेतोः / अप्रपञ्चो हि धर्मो निरक्षरः / तत्र यः प्रपञ्चयति ः दुःखं परिज्ञास्यामि समुदयं प्रहास्यामि निरोधं साक्षात्करिष्यामि मार्गं भावयिष्यामीति, नसौ धर्मार्थिकः, प्रपञ्चार्थिको ऽसौ / धर्मो हि भदन्तशारिपुत्र उपशान्तः / तत्र य उत्पादव्यये चरन्ति, न ते धर्मार्थिका न विवेकार्थिकाः, उत्पादव्ययार्थिकास् ते / धर्मो ह्य् अरजो रजोऽपगतः / तत्र ये क्वचिद् धर्मे रक्षन्ते ऽन्तशो निर्वाणे ऽपि, न ते धर्मार्थिकाः, रजोऽर्थिकास् ते / धर्मो ह्य् अविषयः / ये विषयसंख्याताः, न ते धर्मार्थिकाः, विषयार्थिकास् ते / धर्मो नायूहो निर्यूहः / ये केचिद् धर्मं गृह्णन्ति वा मुञ्चन्ति वा, न ते धर्मार्थिकाः, उद्ग्रहनिःसर्गार्थिकास् ते /
SK
Vक्न् ५.४ धर्मो ऽनालयः / य आलयारामाः, न ते धर्मार्थिकाः, आलयार्थिकास् ते / धर्मो निर्निमित्तः / येषां निमित्तानुसारिविज्ञानम्, न ते धर्मार्थिकाः, निमित्तार्थिकास् ते / धर्मो ऽसंवासः / ये केचिद् धर्मेण सार्धं संवसन्ति, न ते धर्मार्थिकाः, संवासार्थिकास् ते / धर्मो ऽदृष्टश्रुतमतविज्ञातः / ये दृष्टश्रुतमतविज्ञातेषु चरन्ति, न ते धर्मार्थिकाः, दृष्टश्रुतमतविज्ञातार्थिकास् ते /
SK
Vक्न् ५.५ धर्मो भदन्तशारिपुत्र असंस्कृतः संस्कृतापगतः / ये संस्कृतगोचराः, न ते धर्मार्थिकाः, संस्कृतोद्ग्रहणार्थिकास् ते / तस्माद् इह भदन्तशारिपुत्र धर्मार्थिकेन ते भवितुकामेन सर्वधर्मानर्थिकेन भवितव्यम् / इह धर्मनिर्देशे निर्दिश्यमाने पञ्चानां देवपुत्रशतानां धर्मेषु धर्मचक्षुर् विशुद्धम् /
अथ ये ऽभिज्ञाप्रतिलब्धा बोधिसत्वास् ते द्वाचत्वारिंशद्योजनशतसहस्रम् आत्मभावम् अधिष्ठाय तेषु सिंहासनेषु निसीदन्ति स्म / ये चादिकर्मिका बोधिसत्वास् ते न शक्नुवन्ति स्म तेषु सिंहासनेषु निषत्तुम् /
अथ ते महाश्रावकास् तस्य भगवतो मेरुप्रदीपराजस्य तथागतस्य नमस्कारं कुर्वन्ति स्म / ते तत्र पश्चात् तेषु सिंहासनेषु न्यषीदन् /
SK
Vक्न् ५.९ अथायुष्माञ् शारिपुत्रो विमलकिर्तिं लिच्छविम् एवम् आह: आश्चर्यं कुलपुत्र यद् इहैवं परीत्ते गृह इमानीयन्ति सिंहासनसहस्राण्य् एवम् उच्चान्य् एवं प्रगृहीतानि विचित्राणि / न च वैशाल्या महानगर्या आवरणं कृतम्, न जम्बूद्वीपस्य, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीनाम्, न चातुर्महाद्वीपिकस्य किंचिद् आवरणम्, न देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणाम् आवरणं कृतम् / तथैव संदृश्यन्ते यथा पूर्वं तथा पश्चात् /
SK
Vक्न् ५.१० विमलकीर्तिर् आह: अस्ति भदन्तशारिपुत्र तथागतानां बोधिसत्वानां चाचिन्त्यो नाम विमोक्षः, यत्राचिन्त्यविमोक्षे प्रतिष्ठितो बोधिसत्वः सुमेरुं पर्वतराजं तावद् उच्चं तावत् प्रगृहीतं तावद् उद्विद्धं तावद् विस्तीर्णं सर्षपफलकोशे प्रवेशयेत् / न च सर्षपफलकोशं विवर्धयेत् / न च सुमेरुं हापयेत् / तां च क्रियाम् आदर्शयेत् / न चातुर्महाराजकायिका देवास् त्रयस्त्रिंशतो वा जानीरन् ः कस्मिन् वयं प्रक्षिप्ताः / अन्ये च सत्वा ऋद्धिविनेया जानीयुः पश्येयुस् तं सुमेरुं पर्वतराजं सर्शपफलकोशप्रविष्टम् / अयं भदन्तशारिपुत्र बोधिसत्वानाम् अचिन्त्यस्य विमोक्षस्य विषयप्रवेशः /
SK
Vक्न् ५.११ पुनर् अपरं भदन्तशारिपुत्र अचिन्त्यविमोक्षप्रतिष्ठितो बोधिसत्वो यश् चतुर्षु महासमुद्रेष्व् अप्स्कन्धस् तम् एकस्मिन् रोमकूपे प्रक्षिपेत् / न च मत्स्यकच्छपशिशुमारमण्डूकानाम् अन्येषां वौदकानां प्राणिनां पीडा भवेत् / न च नागयक्षगन्धर्वासुराणाम् एवं भवेत् ः कस्मिन् वयं प्रक्षिप्ताः / सा च क्रिया प्रज्ञायेत / न च कश्चित् सत्वो विहिंसितो विहेठितो वा भवेत् /
SK
Vक्न् ५.१२ इमं च त्रिसाहस्रमहासाहस्रं लोकधातुं भार्गवचक्रम् इव परिगृह्य दक्षिणे पाणाव् अवभ्राम्य गङ्गानदीवालिकासमान् लोकधातून् क्षिपेत् / न च सत्वा जानीरन् ः कस्मिन् वयं नीताः, कुतो वागता इति / पुनर् अपि चानाय्य यथास्थानं स्थापयेत् / न च गमनागमनं संजानीरन् / सा च क्रिया संदृश्येत /
आह: न मया भदन्तशारिपुत्र किंचित् प्राप्तं साक्षात्कृतं वा / तेन म ईदृशं प्रतिभानम् / येषाम् एवं भवत्य् अस्माभिः प्राप्तं वा साक्षात्कृतं चेति, ते स्वाख्याते धर्मविनय आभिमानिका इत्य् उच्यन्ते /
Vक्न् ६.१४ आह: किं त्वं देवते स्त्रीभावं न निवर्तयसि /
SK
आह: परिपूर्णानि मे द्वादशवर्षाण्य् उपादाय स्त्रीभावं पर्येषमाणाया न चैनं लभे / अपि च भदन्तशारिपुत्र या मायाकारेण स्त्रीनिर्मिता यस् ताम् एवं वदेत्: किं त्वं स्त्रीभावं न निवर्तयसीति, स किं वदेत् /
Vक्न् ६.१५ अथ सा देवता तादृशम् अधिष्ठानम् अधितिष्ठति स्म / यथा स्थविरः शारिपुत्रो यादृशी सा देवता तादृशः संदृश्यते, सा देवता यादृशः स्थविरस् तादृशी संदृश्यते / अथ सा देवता शारिपुत्ररूपा शारिपुत्रं देवतारूपधारिणम् अपृच्छत्: किं भदन्तशारिपुत्र स्त्रीभावं न निवर्तयसि /
SK
शारिपुत्रो देवतारूप्य् आह: न जाने किं विनिवर्तयामीति / पुरुषरूपम् अन्तर्हितं स्त्रीरूपं मे निर्वृत्तम् /
SK
आह: यदि स्थविरः शक्ष्यति स्त्रीभावं विनिवर्तयितुम्, ततः सर्वाः स्त्रियो ऽपि स्त्रीभावं विनिवर्तयिष्यन्ति / यथा स्थविरो न स्त्री स्त्रीव संदृश्यते, एवं सर्वस्त्रीणाम् अपि स्त्रीरूपं न च स्त्रियः स्त्रीरूपाश् च संदृश्यन्ते / इदं संधाय भगवान् आह: ःसर्वधर्मा न स्त्री न पुरुषः इति /
आह: यदा पञ्चानन्तर्यगतिं च गच्छति, न च व्यापादविहिंसाप्रदुष्टो भवति / निरयगतिं च गच्छति, सर्वरजःक्लेशविगतश् च भवति / तिर्यग्योनिगतिं च गच्छति, विगततमोऽन्धकारश् च भवति / असुरगतिं च गच्छति, मानमददर्पविगतश् च भवति / यमलोकगतिं च गच्छति, सर्वपुण्यज्ञानसंभारोपात्तश् च भवति / अनेञ्ज्यरूपगतिं च गच्छति, न च तद्गतिसमवसरणो भवति / रागगतिं च गच्छति, विगतरागश् च भवति सर्वकामभोगेषु / दोषगतिं च गच्छति, अप्रतिहतश् च भवति सर्वसत्वेषु / मोहगतिं च गच्छति, प्रज्ञानिध्यप्तिचित्तश् च भवति सर्वधर्मेषु / मात्सर्यगतिं च गच्छति, सर्वाध्यात्मबाह्यवस्तुपरित्यागी च भवति कायजीवितानपेक्षः / दुःशीलगतिं च गच्छति, सर्वशीलशिक्षाधुतगुणसंलेखप्रतिष्ठितश् च भवत्य् अनुमात्रेष्व् अवद्येषु भयदर्शी / व्यापादखिलक्रोधगतिं च गच्छति, मैत्रीविहारि च भवत्य् अत्यन्ताव्यापन्नचित्तः / कौसीद्यगतिं च गच्छति, सर्वकुशलमूलपर्येष्ट्यभियुक्तश् च भवत्य् अप्रतिप्रस्रब्धवीर्यारम्भः / विभ्रान्तेन्द्रियगतिं च गच्छति, अरिक्तध्यानश् च भवति प्रकृतिसमापन्नः / दौःप्रज्ञगतिं च गच्छति, सर्वलोकिकलोकोत्तरशास्त्रकुशलश् च भवति प्रज्ञापारमितागतिंगतः / कुहनलपनचर्यागतिं गच्छति, उपायकौशलचर्यानिर्यातश् च भवति संधाभाष्यकुशलः / मानगतिं च दर्शयति, सेतुसंक्रामभृतश् च भवति सर्वलोकस्य / क्लेशगतिं च गच्छति, प्रकृतिपरिशुद्धश् च भवत्य् अत्यन्तासंक्लिष्टः / मारगतिं च गच्छति, अपरप्रत्ययश् च भवति सर्वबुद्धधर्मेषु / श्रावकगतिं च गच्छति, अश्रुतधर्मश्रावयिता च भवति सत्वानाम् / प्रत्येकबुद्धगतिं च गच्छति, महाकरुणानिर्यातश् च भवति सत्वपरिपाकाय / दरिद्रगतिं च गच्छति, रत्नपाणिताप्रतिलब्धश् च भवत्य् अक्षयभोगः / विकलेन्द्रियगतिं च गच्छति, लक्षणसमलंकृतश् च भवत्य् अभिरूपः / हीनकुलोपपत्तिगतिं च गच्छति, तथागतकुलगोत्रसंभृतश् च भवति पुण्यज्ञानोपचितसंभारः / दुर्बलदुर्वर्णावहोटिमकगतिं च गच्छति, नारायणात्मभावप्रतिलब्धश् च भवति प्रियदर्शनः सर्वसत्वानाम् / जीर्णव्याधितोग्लानचर्यां च दर्शयति, अत्यन्तव्याधिसमुद्घातितश् च भवति मरणभयसमतिक्रान्तः / भोगगतिं च दर्शयति, अनित्यसंज्ञाप्रत्यवेक्षणाबहुलश् च भवति सर्वैषणाप्रतिप्रस्रब्धः / अन्तःपुरनाटकव्यूहाश् च बोधिसत्वो दर्शयति, उत्तीर्णकामपङ्कश् च भवत्य् अनिकेतचारी / धन्धायतनगतिं च गच्छति, विचित्रप्रतिभानालंकारश् च भवति धारणीप्रतिलब्धः / तीर्थिकगतिं च गच्छति, तीर्थभूतश् च भवति / सर्वलोकगतिं च गच्छति, सर्वगतिनिवृत्तश् च भवति / निर्वाणगतिं च गच्छति, संसारप्रबन्धं च न जहाति / एवं मञ्जुश्रीः बोधिसत्वो ऽगतिगमनं गच्छति, गतिंगतश् च भवति सर्वबुद्धधर्मेषु /
Vक्न् ८.१९ सुमतिर् बोधिसत्व आह: चक्षू रूपं च द्वयम् एतत् / यत् पुनश् चक्षुःपरिज्ञातावी रूपेषु न रज्यति न दुष्यति न मुह्यति, स उच्यते शान्त इति / श्रोत्रं शब्दाश् च घ्राणं गन्धाश् च जिह्वा रसाश् च कायः स्प्रष्टव्यानि च मनो धर्माश् च द्वयम् एतत् / यत् पुनर् मनःपरिज्ञातावी धर्मेषु न रज्यते न दुष्यति न मुह्यति, स उच्यते शान्त इति / एवं शान्तस्थितस्याद्वयप्रवेशः /
Vक्न् ८.२२ शान्तेन्द्रियो बोधिसत्व आह: बुद्धो धर्मः संघ इति द्वयम् एतत् / बुद्धस्य हि धर्मः, धर्मप्रकृतिकश् च संघः / सर्वाण्य् एतानि रत्नान्य् असंस्कृतानि, असंस्कृतं चाकाशम्, आकाशसमश् च सर्वधर्मनयः / य एवम् अनुगमो ऽयम् अद्वयप्रवेशः /
SK
Vक्न् ८.२३ अप्रतिहतचक्षुर् बोधिसत्व आह: सत्कायः सत्कायनिरोध इति द्वयम् एतत् / सत्काय एव हि निरोधः / तत् कस्माद् धेतोः / तथा हि स सत्काय इति दृष्टिं नोपस्थापयति, यया दृष्ट्या सत्काय इति वा सत्कायनिरोध इति वा कल्पयति / सो ऽकल्पो ऽविकल्पो ऽत्यन्ताविकल्पो निरोधस्वभावप्राप्तः, न संभवति न विभवत्य् अयम् अद्वयप्रवेशः /
Vक्न् ८.२७ श्रीगर्भो बोधिसत्व आह: उपलम्भप्रभावितं द्वयम् / यन् न लभते तन् नोपलभते, तन् नायूहति न निर्यूहति / तत्र नायूहो न निर्यूहो ऽयम् अद्वयप्रवेशः /
SK
Vक्न् ८.२८ चन्द्रोत्तरो बोधिसत्व आह: तमः प्रकाश इति द्वयम् एतत् / अतमो ऽप्रकाश इत्य् अद्वयम् / तत् कस्माद् धेतोः / तथा हि निरोधसमापन्नस्य न तमो न प्रकाशः / एवंलक्षणाश् च सर्वधर्माः / यो ऽत्र समताप्रवेशो ऽयम् अद्वयप्रवेशः /
SK
Vक्न् ८.२९ रत्नमुद्राहस्तो बोधिसत्व आह: निर्वाणे ऽभिरतिः संसारे ऽनभिरतिर् इति द्वयम् एतत् / यस्य न निर्वाणे ऽभिरतिर् न संसारे ऽनभिरतिर् इदम् अद्वयम् / तत् कस्माद् धेतोः / बद्धस्य हि सतो मोक्षः प्रभाव्यते / यो ऽत्यन्तम् एवाबद्धः स किं मोक्षं पर्येषिष्यते / अबद्धो ऽमुक्तो भिक्षुर् न रतिम् उत्पादयति नारतिम् अयम् अद्वयप्रवेशः /
SK
Vक्न् ८.३० मणिकूटराजो बोधिसत्व आह: मार्गः कुमार्ग इति द्वयम् एतत् / मार्गप्रतिपन्नस्य न कुमार्गः समुदाचरति / असमुदाचारस्थितस्य न मार्गसंज्ञा भवति न कुमार्गसंज्ञा / संज्ञापरिज्ञाताविनो हि द्वये बुद्धिर् नाक्रामत्य् अयम् अस्याद्वयप्रवेशः /
SK
Vक्न् ८.३१ सत्यनन्दी बोधिसत्व आह: सत्यं मृषेति द्वयम् एतत् / सत्यदर्शी सत्यम् एव न समनुपश्यति, कुतो मृषा द्रक्ष्यति / तत् कस्माद् धेतोः / न हि स मांसचक्षुषा पश्यति, प्रज्ञाचक्षुषा पश्यति / तथा च पश्यति, न विपश्यति / यत्र च न पश्यना न विपश्यनायम् अद्वयप्रवेशः /
SK
Vक्न् ८.३२ इत्य् एवं ते बोधिसत्वाः स्वकस्वकान् निर्देशान् निर्दिश्य मञ्जुश्रियम् कुमारभूतम् एतद् अवोचत्: कतमो मञ्जुश्रिः बोधिसत्वस्याद्वयप्रवेशः /
अथ विमलकीर्तिर् लिच्छविस् तं निर्मितं बोधिसत्वम् एवम् आह: गच्छ कुलपुत्र ऊर्धंदिग्भागे द्वाचत्वारिंशद् गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्य् अतिक्रम्य सर्वगन्धसुगन्धो नाम लोकधातुः / तत्र गन्धोत्तमकूटो नाम तथागतः, स एतर्हि भक्ताय निषण्णः / तत्र गत्वा मद्वचनात् तस्य तथागतस्य पादौ शिरसा वन्दित्वैवं वद ः विमलकीर्तिर् लिच्छविर् भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽल्पाबाधतां च परिपृच्छत्य् अल्पातङ्कतां च लघुत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च / एवं च वदति ः देहि मे भगवन् भुक्तावशेषं यत् सहे लोकधातौ बुद्धकृत्यं करिष्यति / एषां च हीनाधिमुक्तिकनां सत्वानम् उदारां मतिं रोचयिष्यति / तथागतस्य नामधेयं वैस्तारिकं कृतं भविष्यति /
SK
Vक्न् ९.५ अथ स निर्मितो बोधिसत्वो विमलकीर्तेर् लिच्छवेः साध्व् इति प्रतिश्रुत्य तेषां बोधिसत्वानां पुरत ऊर्धमुखः संदृश्यते / न चैनं ते बोधिसत्वाः पश्यन्ति गच्छन्तम् /
SK
अथ स निर्मितो बोधिसत्वस् तं सर्वगन्धसुगन्धं लोकधातुम् अनुप्राप्तः / स तत्र भगवतो गन्धोत्तमकूटस्य तथागतस्य पादौ शिरसा वन्दित्वैवम् आह: विमलकीर्तिर् भगवन् बोधिसत्वो भगवतः पादौ शिरसा वन्दते / अल्पाबाधतां च परिपृच्छत्य् अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च /
SK
स च भगवतः पादौ शिरसा वन्दित्वैवम् आह: देहि मे भगवन् भुक्तावशेषं भोजनं यद् इदं सहे लोकधातौ बुद्धकृत्यं करिष्यति / तेषां हीनाधिमुक्तानां सत्वानाम् उदारेषु बुद्धधर्मेषु मतिं रोचयिष्यति / भगवतश् च नामधेयं वैस्तारिकं कृतं भविष्यति /
SK
Vक्न् ९.६ अथ खलु ये तस्य भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रे बोधिसत्वास् ते विस्मितास् तं भगवन्तं गन्धोत्तमकूटं तथागतम् एवम् आहुः: कुतो ऽयं भगवन् ईदृशो महासत्व आगच्छति, क्व वा स सहो लोकधातुः, कैषा हीनाधिमुक्तिकता नाम / एवं ते बोधिसत्वास् तं तथागतं परिपृच्छन्ति /
अथ ये ते बोधिसत्वा गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्राद् आगताः, ते चान्ये च तेभ्यः सिंहासनेभ्यो ऽवतीर्य भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् / एवं शक्रब्रह्मलोकपाला देवपुत्राश् च भगवतः पादौ शिरोभिर् वन्दित्वैकान्ते प्रत्यतिष्ठन् /
भगवान् आह: मा त्वम् आनन्द अवलीनचित्तम् उत्पादय / तत् कस्माद् धेतोः / श्रावकान् संधाय त्वं मया आनन्द अग्रो बहुश्रुतानां निर्दिष्टः, न बोधिसत्वान् / तिष्ठन्त्व् आनन्द बोधिसत्वाः / न ते पण्डितेनावगाहयितव्याः / शक्यो ह्य् आनन्द सर्वसागराणां गाधः प्रमातुम्, न त्व् एव शक्यो बोधिसत्वानां प्रज्ञाज्ञानस्मृतिधारणीप्रतिभानस्य गाधः प्रमातुम् / उपेक्षका यूयम् आनन्द बोधिसत्वचर्यायां भवथ / तत् कस्माद् धेतोः / य इम आनन्द विमलकीर्तिना लिच्छविनैकपूर्वभक्ते व्यूहाः संदर्शिताः, ते सर्वश्रावकप्रत्येकबुद्धैर् ऋद्धिप्राप्तैः सर्वर्द्धिविकुर्वितप्रातिहार्यैः कल्पकोटीशतसहस्राणि न शक्याः संदर्शयितुम् /
SK
Vक्न् १०.१५ अथ ये ते बोधिसत्वा भगवतो गन्धोत्तमकूटस्य तथागतस्य बुद्धक्षेत्रात् सर्वगन्धसुगन्धाल् लोकधातोर् अगतः, ते सर्वे प्राञ्जलीभूत्वा तथागतस्य नमस्यन्तः, एवं च वाचम् अभासन्त: प्रतिनिःसृजामो वयं भगवन् तान् मनसिकारान् यैर् अस्माभिर् इह बुद्धक्षेत्रे हीनसंज्ञोत्पादिता / तत् कस्माद् धेतोः / अचिन्त्यो हि भगवन् बुद्धानां भगवतां बुद्धविषयः / उपायकौशल्येन सत्वपरिपाकाय यथा यथेच्छन्ति तथा तथा क्षेत्रव्यूहान् आदर्शयन्ति / देहि भगवन् अस्मभ्यं धर्मप्राभृतं यथा वयं तत्र सर्वगन्धसुगन्धे लोकधातौ गता भगवन्तम् अनुस्मरेम /
SK
Vक्न् १०.१६ भगवान् आह: अस्ति कुलपुत्राः क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युष्माभिः शिक्षितव्यम् / स पुनः कतमः / क्षयम् उच्यते संस्कृतम्, अक्षयम् असंस्कृतम् / तद् बोधिसत्वेन संस्कृतं च न क्षपयितव्यम्, असंस्कृते च न प्रतिष्ठातव्यम् /
Vक्न् १०.१८ कथं पुनर् असंस्कृते न प्रतितिष्ठते / यदा शून्यतापरिजयं च करोति / न च शून्यतां साक्षात्करोति / आनिमित्तपरिजयं च करोति / न चानिमित्तं साक्षात्करोति / अप्रणिहितपरिजयं च करोति, न चाप्रणिहितं साक्षात्करोति / अनभिसंस्कारपरिजयं च करोति, न चानभिसंस्कारं साक्षात्करोति / अनित्यम् इति च प्रत्यवेक्षते, न च कुशलमूलैस् तृप्यते / दुःखम् इति च प्रत्यवेक्षते, संचिन्त्य चोपपद्यते / अनात्मेति च प्रत्यवेक्षते, न चत्मतां परित्यजति / शान्तम् इति च प्रत्यवेक्षते, न चात्यन्तशान्तिम् उत्पादयति / विविक्तम् इति च प्रत्यवेक्षते, कायचित्तेन चोद्युज्यते / अनालयम् इति च प्रत्यवेक्षते, शुक्लधर्मालयं च न विजहाति / अनुपादानम् इति च प्रत्यवेक्षते, उपात्तं च सत्वानां भारं वहति / अनास्रवम् इति च प्रत्यवेक्षते, संसारप्रवृत्तिं चोपयाति / अप्रचारम् इति च प्रत्यवेक्षते, प्रचरति सत्वपरिपाकाय / नैरात्म्यम् इति च प्रत्यवेक्षते, सत्वमहाकरुणां च नोत्सृजति / अजातिं च प्रत्यवेक्षते, श्रावकनियामे च न पतति / रिक्तम् इति च तुच्छम् इति चासारकम् इति चास्वामिकम् इति चानिकेतम् इति च प्रत्यवेक्षते, अरिक्तपुण्यश् चातुच्छज्ञानश् च परिपूर्णसंकल्पश् च स्वयम्भूज्ञानाभिषिक्तश् च स्वयम्भूज्ञाने चाभियुक्तो नीतार्थो बुद्धवंशे प्रतिष्ठितो भवति / एवं हि कुलपुत्राः एवं धर्माधिमुक्तो बोधिसत्वो ऽसंस्कृते न प्रतितिष्ठते संस्कृतं न क्षपयति /
SK
Vक्न् १०.१९ पुण्यसंभाराभियुक्तत्वद् असंस्कृते न प्रतितिष्ठति, ज्ञनसंभाराभियुक्तत्वात् संस्कृतं न क्षपयति / महामैत्रीसमन्वागतत्वाद् असंस्कृते न प्रतितिष्ठति, महाकरुणासमन्वागतत्वात् संस्कृतं न क्षपयति / सत्वपरिपाचनत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धधर्माभिलाषित्वात् संस्कृतं न क्षपयति / बुद्धलक्षणपरिपूरणत्वाद् असंस्कृते न प्रतितिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थं संस्कृतं न क्षपयति / उपायकुशलत्वाद् असंस्कृते न प्रतितिष्ठति, प्रज्ञासुनिरीक्षितत्वात् संस्कृतं न क्षपयति / बुद्धक्षेत्रपरिशुद्ध्यर्थम् असंस्कृते न प्रतितिष्ठति, बुद्धाधिष्ठानत्वात् संस्कृतं न क्षपयति / सत्वार्थानुभवनाद् असंस्कृते न प्रतितिष्ठति, धर्मार्थसंदर्शनात् संस्कृतं न क्षपयति / कुशलमूलसंभारत्वाद् असंस्कृते न प्रतितिष्ठति, कुशलमूलवासनत्वात् संस्कृतं न क्षपयति / प्रणिधानपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अप्रणिहितत्वात् संस्कृतं न क्षपयति / आशयपरिशुद्धत्वाद् असंस्कृते न प्रतितिष्ठति, अध्याशयपरिशुद्धत्वात् संस्कृतं न क्षपयति / पञ्चाभिज्ञाविक्रीडितत्वाद् असंस्कृते न प्रतितिष्ठति, बुद्धज्ञानषडभिज्ञत्वात् संस्कृतं न क्षपयति / पारमितासंभारपरिपूरणार्थम् असंस्कृते न प्रतितिष्ठति, अपरिपूर्णकालत्वात् संस्कृतं न क्षपयति / धर्मधनसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, प्रादेशिकधर्मानर्थिकत्वात् संस्कृतं न क्षपयति / सर्वभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथार्हभैषज्यप्रयोजनात् संस्कृतं न क्षपयति / दृढप्रतिज्ञया असंस्कृते न प्रतितिष्ठति, प्रतिज्ञोत्तारणत्वात् संस्कृतं न क्षपयति / धर्मभैषज्यसमुदानयनत्वाद् असंस्कृते न प्रतितिष्ठति, यथापीत्वरधर्मभैषज्यप्रयोजनात् संस्कृतं न क्षपयति / सर्वसत्वक्लेशव्याधिपरिज्ञानाम् असंस्कृते न प्रतितिष्ठति, सर्वव्याधिशमनात् संस्कृतं न क्षपयति / एवं हि कुलपुत्राः बोधिसत्वः संस्कृतं न क्षपयति, असंस्कृते न प्रतितिष्ठति / अयम् उच्यते क्षयाक्षयो नाम बोधिसत्वानां विमोक्षः / तत्र युष्माभिः सत्पुरुषाः योगः करणीयः /
न लक्ष्यते न संलक्ष्यते न विलक्ष्यते, नार्वाङ् न पारे न मध्ये, नेह न तत्र, नेतो नान्यतः, न ज्ञानविज्ञेयो न विज्ञानप्रतिष्ठितः, अतमो ऽप्रकाशः, अनामानिमित्तम्, न दुर्बलो न बलवान्, न देशस्थो न प्रदेशस्थः, न शुभो नाशुभः, न संस्कृतो नासंस्कृतः /
SK
नापि केनचिद् अर्थेन वचनीयः, न दानतो न मात्सर्यतः, न शीलतो न दौःशील्यतः, न क्षान्तितो न व्यापादतः, न वीर्यतो न कौशीद्यतः, न ध्यानतो न विक्षेपतः, न प्रज्ञातो न दौःप्रज्ञ्यतः, न वचनीयो नावचनीयः, न सत्यतो न मृषातः, न नैर्याणिकतो नानैर्याणिकतः /
SK
न गमानीयो नागमनीयः, सर्वरुतव्याहारसमुच्छिन्नः, न क्षेत्रभूतो नाक्षेत्रभूतः, न दक्षिणार्हो न दक्षिणाशोधयिता, अग्राह्यः, अपरामृष्टः, अनिकेतः, असंस्कृतः, संख्यापगतः, समतया समः, धर्मतया तुल्यः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, न क्रान्तो न चाक्रान्तः, न समतिक्रान्तः, न दृष्टश्रुतपरिज्ञातः, सर्वग्रन्थिविगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वसत्वसमः, सर्वधर्मनिर्विशेषप्राप्तः, सर्वतो ऽनवद्यः, निष्किंचनः, निष्कषायः, निष्कलः, निर्विकल्पः, अकृतः, अजातः, अनुत्पन्नः, अभूतः, असंभूतः, न भविष्यति, निर्भयः, निष्क्लेशः, निःशोकः, निष्प्रीतिकः, नीरूर्मिकः, सर्वव्यवहारनिर्देशैर् अवचनीयः /
SK
ईदृशो भगवन् तथागतस्य कायः / स तथैव द्रष्टव्यः / य एवं पश्यन्ति, ते सम्यक् पश्यन्ति / ये त्व् अन्यथा पश्यन्ति, ते मिथ्या पश्यन्ति /
इदम् अवोचद् भगवान् / आत्तमना विमलकीर्तिर् लिच्छविर् मञ्जुश्रीश् च कुमारभूत आयुष्मांश् चानन्दस् ते च महाश्रावकाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति // //
SK
निगमनपरीन्दनापरिवर्तो नाम द्वादशः //
SK
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्य् अवदत् / तेषां च यो निरोधो एवंवादी महाश्रमणः //