Waves of Beauty

Saundaryalaharī · Sऔन्दर्यलहरी

Waves of Beauty

Saundaryalaharī

Sऔन्दर्यलहरी

SK
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति //
SK
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेद् एवं देवो न खलु कुशलः स्पन्दितुम् अपि अतस् त्वाम् आराध्यां हरिहरविरञ्च्यादिभिर् अपि प्रणन्तुं स्तोतुं वा कथम् अकृतपुण्यः प्रभवति //
SK
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् //
SK
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरञ्चिः संचिन्वन् विरचयति लोकान् अविकलम् वहत्य् एनं शौरिः कथम् अपि सहस्रेण शिरसां हरः संक्षुभ्यैनं भजति भसितोद्धूलनविधिम् //
SK
अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती //
SK
अविद्यानाम् अन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवती //
SK
त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् त्वम् एका नैवासि प्रकटितवराभीत्यभिनया भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणाव् एव निपुणौ //
SK
त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणस् त्वम् एका नैवासि प्रकटितवराभीत्यभिनया भयात् त्रातुं दातुं फलम् अपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणाव् एव निपुणौ //
SK
हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् //
SK
हरिस् त्वाम् आराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुम् अपि क्षोभम् अनयत् स्मरो ऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनाम् अप्य् अन्तः प्रभवति हि मोहाय महताम् //
SK
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते //
SK
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः तथाप्य् एकः सर्वं हिमगिरिसुते काम् अपि कृपां अपाङ्गात् ते लब्ध्वा जगद् इदम् अनङ्गो विजयते //
SK
क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका //
SK
क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना धनुर् बाणान् पाशं सृणिम् अपि दधाना करतलैः पुरस्ताद् आस्तां नः पुरमथितुर् आहोपुरुषिका //
SK
सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् //
SK
सुधासिन्धोर् मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति चन चिदानन्दलहरीम् //
SK
महीं मूलाधारे कम् अपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि //
SK
महीं मूलाधारे कम् अपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतम् आकाशम् उपरि मनो ऽपि भ्रूमध्ये सकलम् अपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि //
SK
सुधाधारासारैश् चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि //
SK
सुधाधारासारैश् चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनर् अपि रसआम्नायमहसा अवाप्य स्वां भूमिं भुजगनिभम् अध्युष्टवलयं स्वम् आत्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि //
SK
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलयत्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः //
SK
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिर् अपि प्रभिन्नाभिः शंभोर् नवभिर् इति मूलप्रकृतिभिः त्रयश् चत्वारिंशद् वसुदलकलाश्रत्रिवलयत्रिरेखाभिः सार्धं तव चरणकोणाः परिणताः //
SK
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथम् अपि विरिञ्चिप्रभृतयः यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा तपोभिर् दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् //
SK
त्वदीयं सौन्दर्यं तुहिन-गिरि-कन्ये तुलयितुं कवि-इन्द्राः कल्पन्ते कथम् अपि विरिञ्चि-प्रभृतयः यद् आलोक्यौत्सुक्याद् अमरललना यान्ति मनसा तपोभिर् दुष्-प्रापाम् अपि गिरिशसायुज्यपदवीम् //
SK
नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितम् अनुधावन्ति शतशः गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः //
SK
नरं वर्षीयांसं नयन-वि-रसं नर्मसु जडं तवापाङ्ग-आलोके पतितम् अनुधावन्ति शतशः गलद्-वेणी-बन्धाः कुच-कलश-विस्रस्त-सिचया हठात् त्रुट्यत्-काञ्च्यो विगलित-दुकूला युवतयः //
SK
क्षितौ षत्पञ्चाशद् द्विसमधिकपञ्चाशद् उदके हुताशे द्वाषष्टिश् चतुरधिकपञ्चाशद् अनिले दिवि द्विःषत्त्रिंशन् मनसि च चतुःषष्टिर् इति ये मयूखास् तेषाम् अप्य् उपरि तव पादाम्बुजयुगम् //
SK
क्षितौ षत्-पञ्चाशद् द्वि-सम्-अधिक-पञ्चाशद् उदके हुत-आशे द्वा-षष्टिश् चतुर्-अधिक-पञ्चाशद् अनिले दिवि द्विः-षत्-त्रिंशन् मनसि च चतुः-षष्टिर् इति ये मयूखास् तेषाम् अप्य् उपरि तव पादाम्बु-ज-युगम् //
SK
शरज्ज्योत्स्नाशुभ्रां शशियुतजटाजूटमुकुटां वरत्रासत्राणस्फटिकगुटिकापुस्तककराम् सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा भणितयः //
SK
शरज्-ज्योत्स्ना-शुभ्रां शशि-युत-जटा-जूट-मुकुटां वर-त्रास-त्राण-स्फटिक-गुटिका-पुस्तक-कराम् सकृन् न त्वा नत्वा कथम् इव स्तां संनिदधते मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणा भणितयः //
SK
कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् विरञ्चिप्रेयस्यास् तरुणतरशृङ्गारलहरीगभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी //
SK
कवि-इन्द्राणां चेतः-कमल-वन-बाल-आतप-रुचिं भजन्ते ये सन्तः कति चिद् अरुणाम् एव भवतीम् विरञ्चि-प्रेयस्यास् तरुणतर-शृङ्गार-लहरी-गभीराभिर् वाग्भिर् विदधति सतां रञ्जनम् अमी //
SK
सवित्रीभिर् वाचां शशिमणिशिलाभङ्गरुचिभिर् वशिन्याद्याभिस् त्वां सह जननि संचिन्तयति यः स कर्ता काव्यानां भवति महतां भङ्गिसुभगैर् वचोभिर् वाग्देवीवदनकमलामोदमधुरैः //
SK
सवित्रीभिर् वाचां शशि-मणि-शिला-भङ्ग-रुचिभिर् वशिन्य्-आद्याभिस् त्वां सह जननि संचिन्तयति यः स कर्ता काव्यानां भवति महतां भङ्गि-सु-भगैर् वचोभिर् वाग्-देवी-वदन-कमल-आमोद-मधुरैः //
SK
तनुच्छायाभिस् ते तरुणतरणिश्रीसरणिभिर् दिवं सर्वाम् उर्वीम् अरुणिमनिग्मग्नां स्मरति यः भवन्त्य् अस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कतिकति न गीर्वाणगणिका //
SK
तनु-च्छायाभिस् ते तरुण-तरणि-श्री-सरणिभिर् दिवं सर्वाम् उर्वीम् अरुणिम-निग्मग्नां स्मरति यः भवन्त्य् अस्य त्रस्यद्-वन-हरिण-शालीन-नयनाः सह उर्वश्या वश्याः कति-कति न गीर्वाण-गणिका //
SK
मुखं बिन्दुं कृत्वा कुचयुगम् अधस् तस्य तदधो हरार्धं ध्यायेद् यो हरमहिषि ते मन्मथकलाम् स सद्यः संक्षोभं नयति वनिता इत्य् अतिलघु त्रिलोकीम् अप्य् आशु भ्रमयति रवीन्दुस्तनयुगाम् //
SK
मुखं बिन्दुं कृत्वा कुच-युगम् अधस् तस्य तद्-अधो ह-रार्धं ध्यायेद् यो हर-महिषि ते मन्मथ-कलाम् स सद्यः संक्षोभं नयति वनिता इत्य् अति-लघु त्रि-लोकीम् अप्य् आशु भ्रमयति रवि-इन्दु-स्तन-युगाम् //
SK
किरन्तीम् अङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वाम् आधत्ते हिमकरशिलामूर्तिम् इव यः स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया //
SK
किरन्तीम् अङ्गेभ्यः किरण-निकुरम्बा-मृत-रसं हृदि त्वाम् आधत्ते हिम-कर-शिला-मूर्तिम् इव यः स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वर-प्लुष्टान् दृष्ट्या सुखयति सुधा-धार-सिरया //
SK
तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् //
SK
तडिल्-लेखा-तन्वीं तपन-शशि-वैश्वानरमयीं निषण्णां षण्णाम् अप्य् उपरि कमलानां तव कलाम् महा-पद्माटव्यां मृदित-मल-मायेन मनसा महान्तः पश्यन्तो दधति परम-आह्लाद-लहरीम् //
SK
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् //
SK
भवानि त्वं दासे मयि वितर दृष्टिं स-करुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वम् इति यः तद ऐव त्वं तस्मै दिशसि निज-सायुज्य-पदवीं मुकुन्द-ब्रह्म-इन्द्र-स्फुट-मुकुट-नीराजित-पदाम् //
SK
त्वया हृत्वा वामं वपुर् अपरितृप्तेन मनसा शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् तथा हि त्वद्रूपं सकलम् अरुणाभं त्रिनयनं कुचाभ्याम् आनम्रं कुटिलशशिचूडालमुकुटम् //
SK
त्वया हृत्वा वामं वपुर् अ-परितृप्तेन मनसा शरीरार्धं शंभोर् अपरम् अपि शङ्के हृतम् अभूत् तथा हि त्वद्-रूपं स-कलम् अरुण-आभं त्रि-नयनं कुचाभ्याम् आनम्रं कुटिल-शशि-चूडाल-मुकुटम् //
SK
जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति सदापूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् तवाज्ञाम् आलम्ब्य क्षनचलितयोर् भ्रूलतिकयोः //
SK
जगत् सूते धाता हरिर् अवति रुद्रः क्षपयते तिरस् कुर्वन्न् एतत् स्वम् अपि वपुर् ईशस् तिरयति सदा-पूर्वः सर्वं तद् इदम् अनुगृह्णाति च शिवस् तवा अज्ञाम् आलम्ब्य क्षन-चलितयोर् भ्रू-लतिकयोः //
SK
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलितकरोत्तंसमुकुटाः //
SK
त्रयाणां देवानां त्रि-गुण-जनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर् या विरचिता तथा हि त्वत्-पादोद्वहन-मणि-पीठस्य निकटे स्थिता ह्य् एते शश्वन् मुकुलित-करोत्तंस-मुकुटाः //
SK
विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् वितन्द्री माहेन्द्री विततिर् अपि संमीलितदृशा महासंहारे +अस्मिन् विहरति सति त्वत्पतिर् असौ //
SK
विरञ्चिः पञ्चत्वं व्रजति हरिर् आप्नोति विरतिं विनाशं कीनाशो भजति धन-दो याति निधनम् वि-तन्द्री माहेन्द्री विततिर् अपि संमीलित-दृशा महा-संहारे +अस्मिन् विहरति सति त्वत्-पतिर् असौ //
SK
जपो जल्पः शिल्पं सकलम् अपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणम् अशनाद्य् आहुतिविधिः प्रणामः संवेशः सुखम् अखिलम् आत्मार्पणदृशा सपर्यापर्यायस् तव भवतु यन् मे विलसितम् //
SK
जपो जल्पः शिल्पं स-कलम् अपि मुद्रा-विरचना गतिः प्रादक्षिण्य-क्रमणम् अशन-आद्य् आहुति-विधिः प्रणामः संवेशः सुखम् अ-खिलम् आत्मार्पण-दृशा सपर्या-पर्यायस् तव भवतु यन् मे विलसितम् //
SK
ददाने दीनेभ्यः श्रियम् अनिशम् आशानुसदृशीं अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन् मज्जीवः करणचरणैः ष.च्चरणताम् //
SK
ददाने दीनेभ्यः श्रियम् अनिशम् आशा-अनु-स-दृशीं अ-मन्दं सौन्दर्य-प्रकर-मकरन्दं विकिरति तव अस्मिन् मन्दार-स्तबक-सु-भगे यातु चरणे निमज्जन् मज्-जीवः करण-चरणैः ष.च्-चरणताम् //
SK
सुधाम् अप्य् आस्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः करालं यत् क्ष्वेडं कवलितवतः कालकलना न शंभोस् तन्मूलं तव जननि ताटङ्कमहिमा //
SK
सुधाम् अप्य् आस्वाद्य प्रतिभय-जरा-मृत्यु-हरिणीं विपद्यन्ते विश्वे विधि-शत-मख-आद्या दिवि-षदः करालं यत् क्ष्वेडं कवलितवतः काल-कलना न शंभोस् तन्-मूलं तव जननि ताटङ्क-महिमा //
SK
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर् विजयते //
SK
किरीटं वैरिञ्चं परिहर पुरः कैटभ-भिदः कठोरे कोटीरे स्खलसि जहि जम्भारि-मुकुटम् प्रणम्रेष्व् एतेषु प्रसभम् अभियातस्य भवनं भवस्य अभ्युत्थाने तव परि-जनोक्तिर् विजयते //
SK
चतुःषष्ट्या तन्त्रैः सकलम् अभिसंधाय भुवनं स्थितस् तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः पुनस् त्वन्निर्बन्धाद् अखिलपुरुषार्थैकघटनास्वतन्त्रं ते तन्त्रं क्षितितलम् अवातीतरद् इदम् //
SK
चतुः-षष्ट्या तन्त्रैः स-कलम् अभिसंधाय भुवनं स्थितस् तत्-तत्-सिद्धि-प्रसव-पर-तन्त्रैः पशु-पतिः पुनस् त्वन्-निर्बन्धाद् अ-खिल-पुरुषार्थ-एक-घटनास्व-तन्त्रं ते तन्त्रं क्षिति-तलम् अवातीतरद् इदम् //
SK
शिवः शक्तिः कामः क्षितिर् अथ रविः शीतकिरणः स्मरो हंसः शक्रस् तद् अनु च परामारहरयः अमी हृल्लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् //
SK
शिवः शक्तिः कामः क्षितिर् अथ रविः शीत-किरणः स्मरो हंसः शक्रस् तद् अनु च परा-मार-हरयः अमी हृल्-लेखाभिस् तिसृभिर् अवसानेषु घटिता भजन्ते वर्णास् ते तव जननि नामावयवताम् //
SK
स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निरवधिमहाभोगरसिकाः जपन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः //
SK
स्मरं योनिं लक्ष्मीं त्रितयम् इदम् आदौ तव मनोर् निधायैके नित्ये निर्-अवधि-महा-भोग-रसिकाः जपन्ति त्वां चिन्ता-मणि-गुन-निबद्धाक्ष-वलयाः शिवाग्नौ जुह्वन्तः सुरभि-घृत-धार-आहुति-शतैः //
SK
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानम् अनघम् अतः शेषः शेषीत्य् अयम् उभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः //
SK
शरीरं त्वं शंभोः शशि-मिहिर-वक्षो-रुह-युगं तवा अत्मानं मन्ये भगवति भव-आत्मानम् अन्-अघम् अतः शेषः शेषि ईत्य् अयम् उभय-साधारणतया स्थितः संबन्धो वां सम-रस-पर-आनन्द-परयोः //
SK
मनस् त्वं व्योम त्वं मरुद् असि मरुत्सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् त्वम् एव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे //
SK
मनस् त्वं व्योम त्वं मरुद् असि मरुत्-सारथिर् असि त्वम् आपस् त्वं भूमिस् त्वयि परिणतायां न हि परम् त्वम् एव स्व-आत्मानं परिणमयितुं विश्व-वपुषा चिद्-आनन्द-आकारं शिव-युवति भावेन बिभृषे //
SK
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरम् परं शंभुं वन्दे परिमिलितपार्श्वं परचिता यम् आराध्यन् भक्त्या रविशशिशुचीनाम् अविषये निरालोके लोको निवसति हि भालोकभवने //
SK
तवा अज्ञा-चक्र-स्थं तपन-शशि-कोटि-द्युति-धरम् परं शंभुं वन्दे परिमिलित-पार्श्वं पर-चिता यम् आराध्यन् भक्त्या रवि-शशि-शुचीनाम् अ-विषये निर्-आलोके लोको निवसति हि भा-लोक-भवने //
SK
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीम् अपि शिवसमानव्यसनिनीम् ययोः कान्त्या यान्त्या शशिकिरणसारूप्यसरणिं विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती //
SK
विशुद्धौ ते शुद्ध-स्फटिक-विशदं व्योम-जनकं शिवं सेवे देवीम् अपि शिव-समान-व्यसनिनीम् ययोः कान्त्या यान्त्या शशि-किरण-सारूप्य-सरणिं विधूतान्तर्-ध्वान्ता विलसति चकोरि ईव जगती //
SK
समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वंद्वं किम् अपि महतां मानसचरम् यदालापाद् अष्टादशगुणितविद्यापरिणतिर् यद् आदत्ते दोषाद् गुणम् अखिलम् अद्भ्यः पय इव //
SK
समुन्मीलत्-संवित्-कमल-मकरन्द-एक-रसिकं भजे हंस-द्वंद्वं किम् अपि महतां मानस-चरम् यद्-आलापाद् अष्टा-दश-गुणित-विद्या-परिणतिर् यद् आदत्ते दोषाद् गुणम् अ-खिलम् अद्भ्यः पय इव //
SK
तव स्वाधिष्ठाने हुतवहम् अधिष्ठाय निरतं तम् ईडे संवर्तं जननि महतीं तां च समयाम् यदालोके लोकान् दहति महति क्रोधकलिले दयार्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति //
SK
तव स्वाधिष्ठाने हुत-वहम् अधिष्ठाय निरतं तम् ईडे संवर्तं जननि महतीं तां च समयाम् यद्-आलोके लोकान् दहति महति क्रोध-कलिले दया-आर्द्रा दृष्टिस् ते शिशिरम् उपचारं रचयति //
SK
तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् तव श्यामं मेघं कम् अपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् //
SK
तडित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया स्फुरन्-नाना-रत्न-आभरण-परिणद्ध-इन्द्र-धनुषम् तव श्यामं मेघं कम् अपि मणि-पूर-एक-शरणं निषेवे वर्षन्तं हर-मिहिर-तप्तं त्रि-भुवनम् //
SK
तवाधारे मूले सह समयया लास्यपरया नवात्मानं वन्दे नवरसमहाताण्डवनटम् उभाभ्याम् एताभ्याम् उभयविधिम् उद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमद् जगद् इदम् //
SK
तवा अधारे मूले सह समयया लास्य-परया नव-आत्मानं वन्दे नव-रस-महा-ताण्डव-नटम् उभाभ्याम् एताभ्याम् उभय-विधिम् उद्दिश्य दयया स-नाथाभ्यां जज्ञे जनक-जननीमद् जगद् इदम् //
SK
गतैर् माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् //
SK
गतैर् माणिक्यत्वं गगन-मणिभिः सान्द्र-घटितं किरीटं ते हैमं हिम-गिरि-सुते कीर्तयति यः स नीडेयच्-छाया-च्छुरण-शबलं चन्द्र-शकलं धनुः शौनासीरं किम् इति न निबध्नाति धिषणाम् //
SK
धुनोतु ध्वान्तं नस् तुलितदलितेन्दीवरवनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे यदीयं सौरभ्यं सहजम् उपलब्धुं सुमनसो वसन्त्य् अस्मिन् मन्ये बलमथनवाटीविटपिनाम् //
SK
धुनोतु ध्वान्तं नस् तुलित-दलित-इन्दीवर-वनं घन-स्निग्धं श्लक्ष्णं चिकुर-निकुरम्बं तव शिवे यदीयं सौरभ्यं सह-जम् उपलब्धुं सु-मनसो वसन्त्य् अस्मिन् मन्ये बल-मथन-वाटी-विटपिनाम् //
SK
वहन्ती सुन्दूरं प्रबलकबरीभारतिमिरत्विषां बृन्दैर् बन्दीकृतम् इव नवीनार्ककिरणम् तनोतु क्षेमं नस् तव वदनसौन्दर्यलहरीपरीवाहस्रोतःसरणिर् इव सीमन्तसरणिः //
SK
वहन्ती सुन्दूरं प्र-बल-कबरी-भार-तिमिर-त्विषां बृन्दैर् बन्दी-कृतम् इव नवीनार्क-किरणम् तनोतु क्षेमं नस् तव वदन-सौन्दर्य-लहरी-परीवाह-स्रोतः-सरणिर् इव सीमन्त-सरणिः //
SK
अरालैः स्वाभाव्याद् अलिकलभसश्रीभिर् अलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः //
SK
अरालैः स्वाभाव्याद् अलि-कलभ-स-श्रीभिर् अलकैः परीतं ते वक्त्रं परिहसति पङ्के-रुह-रुचिम् दर-स्मेरे यस्मिन् दशन-रुचि-किञ्जल्क-रुचिरे सु-गन्धौ माद्यन्ति स्मर-मथन-चक्षुर्-मधु-लिहः //
SK
ललाटं लावण्यद्युतिविमलम् आभाति तव यद् द्वितीयं तन् मन्ये मुकुटशशिखण्डस्य शकलम् विपर्यासन्यासाद् उभयम् अपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः //
SK
ललाटं लावण्य-द्युति-वि-मलम् आभाति तव यद् द्वितीयं तन् मन्ये मुकुट-शशि-खण्डस्य शकलम् विपर्यास-न्यासाद् उभयम् अपि संभूय च मिथः सुधा-लेप-स्यूतिः परिणमति राका-हिम-करः //
SK
भ्रुवौ भुग्ने किंचिद् भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणे धनुर् मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे //
SK
भ्रुवौ भुग्ने किं-चिद् भुवन-भय-भङ्ग-व्यसनिनि त्वदीये नेत्राभ्यां मधु-कर-रुचिभ्यां धृत-गुणे धनुर् मन्ये सव्य-इतर-कर-गृहीतं रति-पतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरम् उमे //
SK
अहः सूते सव्यं तव नयनम् अर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकमयम् तृतीया ते दृष्तिर् दरदलितहेमाम्बुजरुचिः समाधत्ते संध्यां दिवसनिशयोर् अन्तरचरीम् //
SK
अहः सूते सव्यं तव नयनम् अर्क-आत्मकतया त्रि-यामां वामं ते सृजति रजनी-नायकमयम् तृतीया ते दृष्तिर् दर-दलित-हेमाम्बु-ज-रुचिः समाधत्ते संध्यां दिवस-निशयोर् अन्तर-चरीम् //
SK
विशाला कल्याणी स्फुटरुचिर् अयोध्या कुवलयैः कृपाधाराधारा किम् अपि मधुरा भोगवतिका अवन्ती दृष्टिस् ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते //
SK
विशाला कल्याणी स्फुट-रुचिर् अ-योध्या कुवलयैः कृपा-धारा-धारा किम् अपि मधुरा भोगवतिका अवन्ती दृष्टिस् ते बहु-नगर-विस्तार-विजया ध्रुवं तत्-तन्-नाम-व्यवहरण-योग्या विजयते //
SK
कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् अमुञ्चन्तौ दृष्ट्वा तव न्वरसास्वादतरलाव् असूयासंसर्गाद् अलिकनयनं किंचिद् अरुणम् //
SK
कवीनां संदर्भ-स्तबक-मकरन्द-एक-रसिकं कटाक्ष-व्याक्षेप-भ्रमर-कलभौ कर्ण-युगलम् अ-मुञ्चन्तौ दृष्ट्वा तव न्व-रस-आस्वाद-तरलाव् असूया-संसर्गाद् अलिक-नयनं किं-चिद् अरुणम् //
SK
शिवे शृङ्गारार्द्रा तदितरमुखे कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा //
SK
शिवे शृङ्गार-आर्द्रा तद्-इतर-मुखे कुत्सन-परा स-रोषा गङ्गायां गिरि-श-चरिते विस्मयवती हराहिभ्यो भीता सरसि-रुह-सौभाग्य-जयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः स-करुणा //
SK
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश् चित्तप्रशमरसविद्रावणफले इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवा-कर्णाकृष्टस्मरशरविलासं कलयतः //
SK
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश् चित्त-प्रशम-रस-विद्रावण-फले इमे नेत्रे गोत्रा-धर-पति-कुलोत्तंस-कलिके तवा अ-कर्ण-आकृष्ट-स्मर-शर-विलासं कलयतः //
SK
विभक्तत्रैवर्ण्यं व्यतिकरितनीलाञ्जनतया विभाति त्वन्नेत्रत्रितयम् इदम् ईशानदयिते पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रान् उपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव //
SK
विभक्त-त्रैवर्ण्यं व्यतिकरित-नीलाञ्जनतया विभाति त्वन्-नेत्र-त्रितयम् इदम् ईशान-दयिते पुनः स्रष्टुं देवान् द्रुहिण-हरि-रुद्रान् उपरतान् रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयम् इव //
SK
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर् नेत्रैर् अरुणधवलश्यामरुचिभिः नदः शोणो गङ्गा तपनतनयेति ध्रुवम् अमुं त्रयाणां तीर्थानाम् उपनयसि संभेदम् अनघे //
SK
पवित्री-कर्तुं नः पशु-पति-पराधीन-हृदये दया-मित्रैर् नेत्रैर् अरुण-धवल-श्याम-रुचिभिः नदः शोणो गङ्गा तपन-तनय ईति ध्रुवम् अमुं त्रयाणां तीर्थानाम् उपनयसि संभेदम् अन्-अघे //
SK
तवा-पर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतम् अनिमेषाः शफरिकाः इयं च श्रीर् बद्धच्छदपुटकपाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति //
SK
तव अ-पर्णे कर्णे-जप-नयन-पैशुन्य-चकिता निलीयन्ते तोये नियतम् अ-निमेषाः शफरिकाः इयं च श्रीर् बद्ध-च्छद-पुट-कपाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति //
SK
निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती तवेत्य् आहुः सन्तो धरणिधरराजन्यतनये त्वदुन्मेषाज् जातं जगद् इदम् अशेषं प्रलयतः परित्रातुं शङ्के परिहृतनिमेषास् तव दृशः //
SK
निमेषोन्मेषाभ्यां प्रलयम् उदयं याति जगती तव इत्य् आहुः सन्तो धरणि-धर-राजन्य-तनये त्वद्-उन्मेषाज् जातं जगद् इदम् अ-शेषं प्रलयतः परित्रातुं शङ्के परिहृत-निमेषास् तव दृशः //
SK
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे अनेनायं धन्यो भवति न च ते हानिर् इयता वने वा हर्म्ये वा समकरनिपातो हिमकरः //
SK
दृशा द्राघीयस्या दर-दलित-नीलोत्पल-रुचा दवीयांसं दीनं स्नपय कृपया माम् अपि शिवे अनेन अयं धन्यो भवति न च ते हानिर् इयता वने वा हर्म्ये वा सम-कर-निपातो हिम-करः //
SK
अरालं ते पालीयुगलम् अगराजन्यतनये न केषाम् आधत्ते कुसुमशरकोदण्डकुतुकम् तिरश्चीनो यत्र श्रवणपथम् उल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् //
SK
अरालं ते पाली-युगलम् अ-ग-राजन्य-तनये न केषाम् आधत्ते कुसुम-शर-को-दण्ड-कुतुकम् तिरश्-चीनो यत्र श्रवण-पथम् उल्लङ्घ्य विलसन् अपाङ्ग-व्यासङ्गो दिशति शर-संधान-धिषणाम् //
SK
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव मुखम् इदं मन्मथरथम् यम् आरुह्य द्रुह्यत्य् अवनिरथम् अर्केन्दुचरणं महावीरो मारः प्रमथपतये स्वं जितवते //
SK
स्फुरद्-गण्ड-आभोग-प्रतिफलित-ताटङ्क-युगलं चतुश्-चक्रं मन्ये तव मुखम् इदं मन्मथ-रथम् यम् आरुह्य द्रुह्यत्य् अवनि-रथम् अर्क-इन्दु-चरणं महा-वीरो मारः प्रमथ-पतये स्वं जितवते //
SK
सरस्वत्याः सूक्तीर् अमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्याम् अविरतम् चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस् तारैः प्रतिवचनम् आचष्टए इव ते //
SK
सरस्वत्याः सु-उक्तीर् अ-मृत-लहरी-कौशल-हरीः पिबन्त्याः शर्वाणि श्रवण-चुलुकाभ्याम् अ-विरतम् चमत्-कार-श्लाघा-चलित-शिरसः कुण्डल-गणो झणत्-कारैस् तारैः प्रतिवचनम् आचष्टए इव ते //
SK
असौ नासावंशस् तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः //
SK
असौ नासा-वंशस् तुहिन-गिरि-वंश-ध्वज-पटि त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम् वहन्न् अन्तर् मुक्ताः शिशिरतर-निश्वास-घटिताः समृद्ध्या यस् तासां बहिर् अपि च मुक्ता-मणि-धरः //
SK
प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया //
SK
प्रकृत्या रक्तायास् तव सु-दति दन्त-च्छद-रुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं वि-द्रुम-लता न बिम्बं तद्-बिम्ब-प्रतिफलन-लाभाद् अरुणितं तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया //
SK
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया //
SK
स्मित-ज्योत्स्ना-जालं तव वदन-चन्द्रस्य पिबतां चकोराणाम् आसीद् अति-रसतया चञ्चु-जडिमा अतस् ते शीतांशोर् अ-मृत-लहरीम् अम्ल-रुचयः पिबन्ति स्व-च्छन्दं निशि-निशि भृशं काञ्चिक-धिया //
SK
अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा //
SK
अ-विश्रान्तं पत्युर् गुण-गण-कथा-आम्रेडन-जपा जपा-पुष्प-च्छाया तव जननि जिह्वा जयति सा यद्-अग्र-आसीनायाः स्फटिक-दृषद्-अच्छ-च्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्य-वपुषा //
SK
रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस् तव वदनताम्बूलकबलाः //
SK
रणे जित्वा दैत्यान् अपहृत-शिरस्-त्रैः कवचिभिर् निवृत्तैश् चण्डांशु-त्रि-पुर-हर-निर्माल्य-वि-मुखैः विशाख-इन्द्रोप-इन्द्रैः शशि-विशद-कर्पूर-शकला विलीयन्ते मातस् तव वदन-ताम्बूल-कबलाः //
SK
विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् त्वयारब्धे वक्तुं चलितशिरसा साधुवचने त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् //
SK
विपञ्च्या गायन्ती विविधम् अवदानं पशु-पतेस् त्वया आरब्धे वक्तुं चलित-शिरसा साधु-वचने त्वदीयैर् माधुर्यैर् अपलपित-तन्त्री-कल-रवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् //
SK
कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् //
SK
कराग्रेण स्पष्टं तुहिन-गिरिणा वत्सलतया गिरि-ईशेन उदस्तं मुहुर् अधर-पान-आकुलतया कर-ग्राह्यं शंभोर् मुख-मुकुर-वृन्तं गिरि-सुते कथं-कारं ब्रूमस् तव चिबुकम् औपम्य-रहितम् //
SK
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम् स्वतः श्वेता कालागरुबहलजम्बालमलिना मृणालीलालित्यम् वहति यदधो हारलतिका //
SK
भुज-आश्लेषान् नित्यं पुर-दमयितुः कण्टकवती तव ग्रीवा धत्ते मुख-कमल-नाल-श्रियम् इयम् स्वतः श्वेता काल आगरु-बहल-जम्बाल-मलिना मृणाली-लालित्यम् वहति यद्-अधो हार-लतिका //
SK
गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते //
SK
गले रेखास् तिस्रो गति-गमक-गीत-एक-निपुणे विवाह-व्यानद्ध-त्रि-गुण-गुण-संख्या-प्रतिभुवः विराजन्ते नाना-विध-मधुर-राग-आकर-भुवां त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते //
SK
मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया //
SK
मृणाली-मृद्वीनां तव भुज-लतानां चतसृणां चतुर्भिः सौन्दर्यं सरसि-ज-भवः स्तौति वदनैः नखेभ्यः संत्रस्यन् प्रथम-मथनाद् अन्धक-रिपोश् चतुर्णां शीर्षाणां समम् अ-भय-हस्तार्पण-धिया //
SK
नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथम् उमे कया चिद् वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् //
SK
नखानाम् उद्द्योतैर् नव-नलिन-रागं विहसतां कराणां ते कान्तिं कथय कथयामः कथम् उमे कया चिद् वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्-लक्ष्मी-चरण-तल-लाक्षा-अरुण-दलम् //
SK
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् यद् आलोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति //
SK
समं देवि स्कन्द-द्वि-प-वदन-पीतं स्तन-युगं तव इदं नः खेदं हरतु सततं प्रस्नुत-मुखम् यद् आलोक्या अशङ्क-आकुलित-हृदयो हास-जनकः स्व-कुम्भौ हेरम्बः परिमृशति हस्तेन झटिति //
SK
अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ //
SK
अमू ते वक्षो-जाव् अ-मृत-रस-माणिक्य-कुतुपौ न संदेह-स्पन्दो नग-पति-पताके मनसि नः पिबन्तौ तौ यस्माद् अ-विदित-वधू-संगम-रसौ कुमाराव् अद्य अपि द्विर्-अद-वदन-क्रौञ्च-दलनौ //
SK
वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम् कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते //
SK
वहत्य् अम्ब स्तम्बे-रम-दनु-ज-कुम्भ-प्रकृतिभिः समारब्धां मुक्ता-मणिभिर् अ-मलां हार-लतिकाम् कुच-आभोगो बिम्बाधर-रुचिभिर् अन्तः शबलितां प्रताप-व्यामिश्रां पुर-विजयिनः कीर्तिम् इव ते //
SK
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनियः कवयिता //
SK
तव स्तन्यं मन्ये धरणि-धर-कन्ये हृदयतः पयः-पारावारः परिवहति सारस्वत इव दयावत्या दत्तं द्रविड-शिशुर् आस्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनियः कवयिता //
SK
हरक्रोधज्वालावलिभिर् अवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः समुत्तस्थौ तस्माद् अचलतनये धूमलतिका जनस् तां जानीते जननि तव रोमावलिर् इति //
SK
हर-क्रोध-ज्वालावलिभिर् अवलीढेन वपुषा गभीरे ते नाभी-सरसि कृत-सङ्गो मनसि-जः समुत्तस्थौ तस्माद् अ-चल-तनये धूम-लतिका जनस् तां जानीते जननि तव रोमावलिर् इति //
SK
यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम् विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् //
SK
यद् एतत् कालिन्दी-तनुतर-तरङ्ग-आकृति शिवे कृशे मध्ये किं चिज् जननि तव तद् भाति सु-धियाम् विमर्दाद् अन्यो-अन्यं कुच-कलशयोर् अन्तर-गतं तनू-भूतं व्योम प्रविशद् इव नाभी-कुहरिणीम् //
SK
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलताकलावालं कुण्डं कुसुमशरतेजोहुतभुजः रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते //
SK
स्थिरो गङ्गा-आवर्तः स्तन-मुकुल-रोम-आवलि-लताकला-आवालं कुण्डं कुसुम-शर-तेजो-हुत-भुजः रतेर् लीला-अगारं किम् अपि तव नाभि ईति गिरि-जे बिल-द्वारं सिद्धेर् गिरि-श-नयनानां विजयते //
SK
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये //
SK
निसर्ग-क्षीणस्य स्तन-तट-भरेण क्लम-जुषो नमन्-मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव चिरं ते मध्यस्य त्रुटित-तटिनी-तीर-तरुणा समावस्था-स्थेम्नो भवतु कुशलं शैल-तनये //
SK
कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव //
SK
कुचौ सद्यः स्विद्यत्-तट-घटित-कूर्पास-भिदुरौ कषन्तौ दोर्-मूले कनक-कलश-आभौ कलयता तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनु-भुवा त्रिधा नद्धं देवि त्रि-वलि लवली-वल्लिभिर् इव //
SK
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे अतस् ते विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च //
SK
गुरुत्वं विस्तारं क्षिति-धर-पतिः पार्वति निजान् नितम्बाद् आच्छिद्य त्वयि हरण-रूपेण निदधे अतस् ते विस्तीर्णो गुरुर् अयम् अ-शेषां वसुमतीं नितम्ब-प्राग्-भारः स्थगयति लघुत्वं नयति च //
SK
करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि //
SK
करि-इन्द्राणां शुण्डाः कनक-कदली-काण्ड-पटलीम् उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती सु-वृत्ताभ्यां पत्युः प्रणति-कठिनाभ्यां गिरि-सुते विजिग्ये जानुभ्यां विबुध-करि-कुम्भ-द्वयम् अपि //
SK
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढम् अकृत यदग्रे दृश्यन्ते दशशरफलाः पादयुगलीनखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः //
SK
पराजेतुं रुद्रं- द्वि-गुण-शर-गर्भौ गिरि-सुते निषङ्गौ जङ्घे ते वि-षम-विशिखो बाढम् अकृत यद्-अग्रे दृश्यन्ते दश-शर-फलाः पाद-युगली-नखाग्र-च्छद्मानः सुर-मुकुट-शाण-एक-निशिताः //
SK
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर् लाक्षालक्ष्मीर् अरुणहरिचूडामणिरुचिः //
SK
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया मम अप्य् एतौ मातः शिरसि दयया धेहि चरणौ ययोः पाद्यं पाथः पशु-पति-जटा-जूट-तटिनी ययोर् लाक्षा-लक्ष्मीर् अरुण-हरि-चूडा-मणि-रुचिः //
SK
नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते पशूनाम् ईशानः प्रमदवनकङ्केलितरवे //
SK
नमो-वाकं ब्रूमो नयन-रमणीयाय पदयोस् तव अस्मै द्वन्द्वाय स्फुट-रुचि-रस-आलक्तकवते असूयत्य् अत्य्-अन्तं यद् अभिहननाय स्पृहयते पशूनाम् ईशानः प्रमद-वन-कङ्केलि-तरवे //
SK
मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा //
SK
मृषा कृत्वा गोत्र-स्खलनम् अथ वैलक्ष्य-नमितं ललाटे भर्तारं चरण-कमले ताडयति ते चिराद् अन्तः-शल्यं- दहन-कृतम् उन्मूलितवता तुला-कोटि-क्वाणैः किलिकिलितम् ईशान-रिपुणा //
SK
हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ निशायां निद्राणां निशि च परभागे च विशदौ परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् //
SK
हिमानी-हन्तव्यं हिम-गिरि-तट-आक्रान्ति-चतुरौ निशायां निद्राणां निशि च पर-भागे च विशदौ परं लक्ष्मी-पात्रं श्रियम् अतिसृजन्तौ समयिनां सरो-जं त्वत्-पादौ जननि जयतश् चित्रम् इह किम् //
SK
पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यद् आदाय न्यस्तं दृषदि दयमानेन मनसा //
SK
पदं ते कान्तीनां प्र-पदम् अ-पदं देवि विपदां कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् कथं वा बाहुभ्याम् उपयमन-काले पुर-भिदा यद् आदाय न्यस्तं दृषदि दयमानेन मनसा //
SK
नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् तरूणां दिव्यानां हसत इव ते चण्डि चरणौ फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ //
SK
नखैर् नाक-स्त्रीणां कर-कमल-संकोच-शशिभिस् तरूणां दिव्यानां हसत इव ते चण्डि चरणौ फलानि स्व-स्थेभ्यः किसलय-कराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियम् अ-निशम् अह्नाय ददतौ //
SK
कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् प्रकृत्या मूकानाम् अपि च कविताकारणतया यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् //
SK
कदा काले मातः कथय कलितालक्तक-रसं पिबेयं विद्या-अर्थी तव चरण-निर्णेजन-जलम् प्रकृत्या मूकानाम् अपि च कविता-कारणतया यद् आधत्ते वाणी-मुख-कमल-ताम्बूल-रसताम् //
SK
पदन्यासक्रीडापरिचयम् इवारब्धुमनसश् चरन्तस् ते खेलं भवनकलहंसा न जहति सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणितच्छलाद् आचक्षाणं चरणकमलं चारुचरिते //
SK
पद-न्यास-क्रीडा-परिचयम् इवा अरब्धु-मनसश् चरन्तस् ते खेलं भवन-कल-हंसा न जहति सु-विक्षेपे शिक्षां सु-भग-मणि-मञ्जीर-रणित-च्छलाद् आचक्षाणं चरण-कमलं चारु-चरिते //
SK
अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा //
SK
अराला केशेषु प्रकृति-सरला मन्द-हसिते शिरीष-आभा चित्ते दृषद् इव कठोरा कुच-तटे भृशं तन्वी मध्ये पृथुर् उरसि-ज-आरोह-विषये जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा //
SK
पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः सपर्यामर्यादा तरलकरणानाम् असुलभा तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः //
SK
पुरारातेर् अन्तः-पुरम् असि ततस् त्वच्-चरणयोः सपर्या-मर्यादा तरल-करणानाम् अ-सु-लभा तथा ह्य् एते नीताः शत-मख-मुखाः सिद्धिम् अ-तुलां तव द्वारोपान्त-स्थितिभिर् अणिमा-आद्याभिर् अ-मराः //
SK
गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः त्वदीयानां भासां प्रतिफलनलाभारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् //
SK
गतास् ते मञ्चत्वं द्रुहिण-हरि-रुद्र-ईश्वर-भृतः शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छद-पटः त्वदीयानां भासां प्रतिफलन-लाभारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् //
SK
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम् अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं विधिर् भूयोभूयो निबिडयति नूनं तव कृते //
SK
कलङ्कः कस्तूरी रजनि-कर-बिम्बं जलमयं कलाभिः कर्पूरैर् मरकत-करण्डं निबिडितम् अतस् त्वद्-भोगेन प्रति-दिनम् इदं रिक्त-कुहरं विधिर् भूयो-भूयो निबिडयति नूनं तव कृते //
SK
स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो महासंवर्ताग्निर् विरचयति नीराजनविधिम् //
SK
स्व-देहोद्भूताभिर् घृणिभिर् अणिमा-आद्याभिर् अभितो निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः किम् आश्चर्यं तस्य त्रि-नयन्-समृद्धिं तृणयतो महा-संवर्ताग्निर् विरचयति नीराजन-विधिम् //
SK
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः महादेवं हित्वा तव सति सतीनाम् अचरमे कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः //
SK
कलत्रं वैधात्रं कति-कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः महा-देवं हित्वा तव सति सतीनाम् अ-चरमे कुचाभ्याम् आसङ्गः कुरवक-तरोर् अप्य् अ-सु-लभः //
SK
गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम् तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये विश्वं भ्रमयसि परब्रह्ममहिषि //
SK
गिराम् आहुर् देवीं द्रुहिण-गृहिणीम् आगम-विदो हरेः पत्नीं पद्मां हर-सह-चारीम् अद्रि-तनयाम् तुरीया क आपि त्वं दुर्-अधिगम-निः-सीम-महिमा महा-माये विश्वं भ्रमयसि पर-ब्रह्म-महिषि //
SK
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् //
SK
सरस्वत्या लक्ष्म्या विधि-हरि-स-पत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा चिरं जीवन्न् एष क्षपित-पशु-पाश-व्यतिकरः पर-ब्रह्माभिख्यं रसयति रसं त्वद्-भजनवान् //
SK
प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् //
SK
प्रदीप-ज्वालाभिर् दिवस-कर-नीराजन-विधिः सुधा-सूतेश् चन्द्रोपल-जल-लवैर् अर्घ्य-घटना स्वकीयैर् अम्भोभिः सलिल-निधि-सौहित्य-करणं त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् //
SK
समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव //
SK
समानीतः पद्भ्यां मणि-मुकुरताम् अम्बर-मणिर् भयाद् अन्तर्-बद्ध-स्तिमित-किरण-श्रेणि-मसृणः दधाति त्वद्-वक्त्रं प्रतिफलितम् अ-श्रान्ति-विकचं निर्-आतङ्कं चन्द्रान् निज-हृदय-पङ्के-रुहम् इव //
SK
समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे //
SK
समुद्भूत-स्थूल-स्तन-भरम् उरश् चारु हसितं कटाक्षे कन्दर्पः कुसुमित-कदम्ब-द्युति-वपुः हरस्य त्वद्-भ्रान्तिं मनसि जनयाम् आस मदनो भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे //
SK
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् //
SK
निधे नित्य-स्मेरे निर्-अवधि-गुणे नीति-निपुणे निराघात-ज्ञाने नियम-परचित्त-एक-निलये नियत्या निर्मुक्ते निखिल-निगमान्त-स्तुति-पदे निर्-आतङ्के नित्ये निगमय मम अपि स्तुतिम् इमाम् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śaṃkara (attrib.): Saundaryalaharī (sa_zaMkara-saundaryalaharI.htm).

Source