Acts of the Buddha Buddhacarita
Bउद्धचरित
1.1 SK X(C श्रियं परार्ध्यां विदधद् विधातृजित् तमो निरस्यन्न् अभिभूतभानुभृत् Xनुदन् निदाघं जितचारुचन्द्रमाः स वन्द्यते ऽर्हन्न् इह यस्य नोपमा C) //
2 SK X(C श्रियं पर-अर्ध्यां विदधद् विधातृ-जित् तमो निरस्यन्न् अभिभूत-भानु-भृत् Xनुदन् निदाघं जित-चारु-चन्द्र-माः स वन्द्यते ऽर्हन्न् इह यस्य न उपमा C) //
1.2 SK X(Cआसीद् विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वं Xउदग्रधिष्ण्यां गगने ऽवगाढं पुरं महर्२षेः कपिलस्य वस्तु C) //
4 SK X(Cआसीद् विशाल-उन्नत-सानु-लक्ष्म्या पयो-द-पङ्क्त्य ईव परीत-पार्श्वं Xउद्-अग्र-धिष्ण्यां गगने ऽवगाढं पुरं महर्२षेः कपिलस्य वस्तु C) //
1.3 SK X(Cसितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यद् अभ्रशोभाम् Xभ्रमाद् उपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार C) //
6 SK X(Cसित-उन्नतेन इव नयेन हृत्वा कैलास-शैलस्य यद् अभ्र-शोभाम् Xभ्रमाद् उपेतान् वहद्-अम्बु-वाहान् संभावनां वा स-फली-चकार C) //
1.4 SK X(Cरत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यम् इवावकाशम् Xपरार्ध्यपौरैः सहवासतोषात् कृतस्मितेवातिरराज लक्ष्मीः C) //
8 SK X(Cरत्न-प्रभा-उद्भासिनि यत्र लेभे तमो न दारिद्र्यम् इव अवकाशम् Xपर-अर्ध्य-पौरैः सह-वास-तोषात् कृत-स्मित ईव अतिरराज लक्ष्मीः C) //
1.8 SK तस्मिन् वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा शय्यां वितानोपहितां प्रपेदे नारीसहस्रैर् अभिनन्द्यमाना //
10 SK तस्मिन् वने श्रीमति राज-पत्नी प्रसूति-कालं समवेक्षमाणा शय्यां वितान-उपहितां प्रपेदे नारी-सहस्रैर् अभिनन्द्यमाना //
1.9 SK ततः प्रसन्नश् च बभूव पुष्यस् तस्याश् च देव्या व्रतसंस्कृतायाः पार्श्वात् सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च //
12 SK ततः प्रसन्नश् च बभूव पुष्यस् तस्याश् च देव्या व्रत-संस्कृतायाः पार्श्वात् सुतो लोक-हिताय जज्ञे निर्-वेदनं च एव निर्-आमयं च //
1.10 SK ऊरोर् यथौर्वस्य पृथोश् च हस्तान् मान्धातुर् इन्द्रप्रतिमस्य मूर्ध्नः कक्षीवतश् चैव भुजांसदेशात् तथाविधं तस्य बभूव जन्म //
14 SK ऊरोर् यथा और्वस्य पृथोश् च हस्तान् मान्धातुर् इन्द्र-प्रतिमस्य मूर्ध्नः कक्षीवतश् च एव भुज-अंस-देशात् तथा-विधं तस्य बभूव जन्म //
1.26 SK X(Cप्रातः पयोदाद् इव तिग्मभानुः समुद्भवन् सो ऽपि च मतृकुक्षेः Xस्फुरन् मयूखैर् विहतान्धकारैश् चकार लोकं कनकावदातम् C) //
16 SK X(Cप्रातः पयो-दाद् इव तिग्म-भानुः समुद्भवन् सो ऽपि च म-तृ-कुक्षेः Xस्फुरन् मयूखैर् विहत-अन्ध-कारैश् चकार लोकं कनक-अवदातम् C) //
1.27 SK X(Cतं जातमात्रम् अथ काञ्चनयूपगौरं प्रीतः सहस्रनयणः शनकैर् गृह्णात् Xमन्दारपुष्पनिकरैः सह तस्य मूर्ध्नि खान् निर्मले च विनिपेततुर् अम्बुधारे C) //
18 SK X(Cतं जात-मात्रम् अथ काञ्चन-यूप-गौरं प्रीतः सहस्र-नयणः शनकैर् गृह्णात् Xमन्दार-पुष्प-निकरैः सह तस्य मूर्ध्नि खान् निर्-मले च विनिपेततुर् अम्बु-धारे C) //
1.28 SK X(Cसुरप्रधानैः परिधार्यमाणो देहांशुजालैर् अनुरञ्जयंस् तान् Xसंध्याभ्रजालोपरिसंनिविष्टं नवोडुराजं विजिगाय लक्ष्म्या C) //
20 SK X(Cसुर-प्रधानैः परिधार्यमाणो देह-अंशु-जालैर् अनुरञ्जयंस् तान् Xसंध्या-अभ्र-जाल-उपरि-संनिविष्टं नव-उडु-राजं विजिगाय लक्ष्म्या C) //
1.11 SK क्रमेण गर्भाद् अभिनिःसृतः सन् बभौ (च्युतः Cगतः )खाद् इव योन्यजातः कल्पेष्व् अन्(एकेषु च Cएकेष्व् इव )भावितात्मा यः संप्रजानन् सुषुवे न मूढः //
22 SK क्रमेण गर्भाद् अभिनिःसृतः सन् बभौ (च्युतः Cगतः )खाद् इव योन्य्-अ-जातः कल्पेष्व् अन्-(एकेषु च Cएकेष्व् इव )भावित-आत्मा यः संप्रजानन् सुषुवे न मूढः //
1.12 SK दीप्त्या च धैर्येण (च यो Cश्रिया )रराज बालो रविर् भूमिम् इवावतीर्णः तथातिदीप्तो ऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः //
24 SK दीप्त्या च धैर्येण (च यो Cश्रिया )रराज बालो रविर् भूमिम् इव अवतीर्णः तथ आति-दीप्तो ऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शश-अङ्कः //
1.13 SK स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन् मुमोष महार्हजाम्बूनदचारुवर्णो विद्योतयाम् आस दिशश् च सर्वाः //
26 SK स हि स्व-गात्र-प्रभय ऊज्ज्वलन्त्या दीप-प्रभां भास्-करवन् मुमोष महा-अर्ह-जाम्बूनद-चारु-वर्णो विद्योतयाम् आस दिशश् च सर्वाः //
1.14 SK (अनाकुलान्युब्जCअनाकुलान्य् अब्ज)समुद्गतानि (निष्पेषवद्व्यायतCनिष्पेषवन्त्य् आयत)विक्रमाणि तथैव धीराणि पदानि सप्त सप्तर्१षितारासदृशो जगाम //
28 SK (अन्-आकुल-अ-न्युब्ज-Cअन्-आकुलान्य् अब्-ज-)समुद्गतानि (निष्पेषवद्-व्यायत-Cनिष्पेषवन्त्य् आयत-)विक्रमाणि तथ ऐव धीराणि पदानि सप्त सप्तर्१षि-तारा-स-दृशो जगाम //
1.15 SK बोधाय जातो ऽस्मि जगद्धितार्थम् अन्त्या (भवोत्पत्तिर् Cतथोत्पत्तिर् )इयं ममेति चतुर्दिशं सिंहगतिर् विलोक्य वाणीं च भव्यार्थकरीम् उवाच //
30 SK बोधाय जातो ऽस्मि जगद्-धित-अर्थम् अन्त्या (भव-उत्पत्तिर् Cतथ ऊत्पत्तिर् )इयं मम इति चतुर्-दिशं सिंह-गतिर् विलोक्य वाणीं च भव्य-अर्थ-करीम् उवाच //
1.16 SK खात् प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये (शरीरसंस्पर्शसुखान्तराय Cशरीरसौख्यार्थम् अनुत्तरस्य निपेततुर् मूर्धनि तस्य सौम्ये //
32 SK खात् प्रस्रुते चन्द्र-मरीचि-शुभ्रे द्वे वारि-धारे शिशिर-उष्ण-वीर्ये (शरीर-संस्पर्श-सुख-अन्तराय Cशरीर-सौख्य-अर्थम् अन्-उत्तरस्य निपेततुर् मूर्धनि तस्य सौम्ये //
1.17 SK श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् यद्गौरवात् काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः //
34 SK श्रीमद्-विताने कनक-उज्ज्वल-अङ्गे वैडूर्य-पादे शयने शयानम् यद्-गौरवात् काञ्चन-पद्म-हस्ता यक्ष-अधिपाः संपरिवार्य तस्थुः //
1.18 SK (च Cमायातनूजस्य )दिवौकसः खे यस्य प्रभावात् प्रणतैः शिरोभिः आधारयन् पाण्दरम् आतपत्रं बोधाय जेपुः परमाशिषश् च //
36 SK (च Cमाया-तनू-जस्य )दिव-ओकसः खे यस्य प्रभावात् प्रणतैः शिरोभिः आधारयन् पाण्दरम् आतप-त्रं बोधाय जेपुः परम-आशिषश् च //
1.19 SK महोरगा धर्मविशेषतर्षाद् बुद्धेष्व् अतीतेषु कृताधिकाराः यम् अव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश् च //
38 SK महा-उर-गा धर्म-विशेष-तर्षाद् बुद्धेष्व् अतीतेषु कृत-अधिकाराः यम् अव्यजन् भक्ति-विशिष्ट-नेत्रा मन्दार-पुष्पैः समवाकिरंश् च //
1.20 SK तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश् च विशुद्धसत्त्वाः देवा ननन्दुर् विगते ऽपि रागे मग्नस्य दुःखे जगतो हिताय //
40 SK तथा-गत-उत्पाद-गुणेन तुष्टाः शुद्ध-अधिवासाश् च विशुद्ध-सत्त्वाः देवा ननन्दुर् विगते ऽपि रागे मग्नस्य दुःखे जगतो हिताय //
1.21 SK (यस्य प्रसूतौ Cयस्मिन् प्रसूते )गिरिराजकीला वाताहता नौर् इव भूश् चचाल सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर् (गगनाद् Cगगणाद् )अनभ्रात् //
42 SK (यस्य प्रसूतौ Cयस्मिन् प्रसूते )गिरि-राज-कीला वात-आहता नौर् इव भूश् चचाल स-चन्दना च उत्पल-पद्म-गर्भा पपात वृष्टिर् (गगनाद् Cगगणाद् )अन्-अभ्रात् //
1.22 SK वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्य् अवपातयन्तः सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिर् अनीरितो ऽग्निः //
44 SK वाता ववुः स्पर्श-सुखा मनो-ज्ञा दिव्यानि वासांस्य् अवपातयन्तः सूर्यः स एव अभ्य्-अधिकं चकाशे जज्वाल सौम्य-अर्चिर् अन्-ईरितो ऽग्निः //
1.23 SK प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुर् अभूत् सिताम्बुः अन्तःपुराण्य् आगतविस्मयानि यस्मिन् क्रियास् तीर्थए इव प्रचक्रुः //
46 SK प्राग्-उत्तरे च अवसथ-प्रदेशे कूपः स्वयं प्रादुर् अभूत् सित-अम्बुः अन्तः-पुराण्य् आगत-विस्मयानि यस्मिन् क्रियास् तीर्थए इव प्रचक्रुः //
1.24 SK धर्मार्थिभिर् भूतगणैश् च दिव्यैस् तद्दर्शनार्थं (वनम् आपुपूरे Cबलम् आप पूरः ) कौतूहलेनैव च पाद(पेभ्यः Cपैश् च ) (पुष्पाण्य् अकाले ऽपि <xxxxx> Cप्रपूजयाम् आस सगन्धपुष्.पैः ) //
48 SK धर्म-अर्थिभिर् भूत-गणैश् च दिव्यैस् तद्-दर्शन-अर्थं (वनम् आपुपूरे Cबलम् आप पूरः ) कौतूहलेन एव च पाद-(पेभ्यः Cपैश् च ) (पुष्पाण्य् अ-काले ऽपि xxxxx Cप्रपूजयाम् आस स-गन्ध-पुष्.पैः ) //
1.40 SK <xxxx> निदर्शनान्य् अत्र च नो निबोध //
50 SK xxxx निदर्शनान्य् अत्र च नो निबोध //
1.41 SK यद् राजशास्त्रं भृगुर् अङ्गिरा वा न चक्रतुर् वंशकराव् ऋषी तौ तयोः सुतौ सौम्य ससर्जतुस् तत् कालेन शुक्रश् च बृहस्पतिश् च //
52 SK यद् राज-शास्त्रं भृगुर् अङ्गिरा वा न चक्रतुर् वंश-कराव् ऋषी तौ तयोः सुतौ सौम्य ससर्जतुस् तत् कालेन शुक्रश् च बृहस्-पतिश् च //
1.42 SK सारस्वतश् चापि जगाद नष्टं वेदं पुनर् यं ददृशुर् न पूर्वे व्यासस् तथैनं बहुधा चकार न यं वसिष्ठः कृतवान् अशक्तिः //
54 SK सारस्वतश् च अपि जगाद नष्टं वेदं पुनर् यं ददृशुर् न पूर्वे व्यासस् तथ ऐनं बहुधा चकार न यं वसिष्ठः कृतवान् अ-शक्तिः //
1.43 SK वाल्मीकिर् आदौ च ससर्ज पद्यं जग्रन्थ यन् न च्यवनो महर्२षिः चिकित्सितं यच् च चकार नात्रिः पश्चात् तद् आत्रेय ऋषिर् जगाद //
56 SK वाल्मीकिर् आदौ च ससर्ज पद्यं जग्रन्थ यन् न च्यवनो महर्२षिः चिकित्सितं यच् च चकार न अत्रिः पश्चात् तद् आत्रेय ऋषिर् जगाद //
1.44 SK यच् च द्विजत्वं कुशिको न लेभे तद् गाधिनः सूनुर् अवाप राजन् वेलां समुद्रे सगरश् च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः //
58 SK यच् च द्वि-जत्वं कुशिको न लेभे तद् गाधिनः सूनुर् अवाप राजन् वेलां समुद्रे सगरश् च दध्रे न इक्ष्वाकवो यां प्रथमं बबन्धुः //
1.45 SK आचार्यकं योगविधौ द्विजानाम् अप्राप्तम् अन्यैर् जनको जगाम ख्यातानि कर्माणि च यानि शौरेः शूरादयस् तेष्व् अबला बभूवुः //
60 SK आचार्यकं योग-विधौ द्वि-जानाम् अ-प्राप्तम् अन्यैर् जनको जगाम ख्यातानि कर्माणि च यानि शौरेः शूर-आदयस् तेष्व् अ-बला बभूवुः //
1.46 SK तस्मात् प्रमाणं न वयो न (वंशः Cकालः कश्चित् क्वचिच् छ्रैष्ठ्यम् उपैति लोके राज्ञाम् ऋषीणां च (हि तानि Cहितानि )तानि कृतानि पुत्रैर् अकृतानि पूर्वैः //
62 SK तस्मात् प्रमाणं न वयो न (वंशः Cकालः कश्-चित् क्व-चिच् छ्रैष्ठ्यम् उपैति लोके राज्ञाम् ऋषीणां च (हि तानि Cहितानि )तानि कृतानि पुत्रैर् अ-कृतानि पूर्वैः //
1.47 SK एवं नृपः प्रत्ययितैर् द्विजैस् तैर् आश्वासितश् चाप्य् अभिनन्दितश् च शङ्काम् अनिष्टां विजहौ मनस्तः प्रहर्षम् एवाधिकम् आरुरोह //
64 SK एवं नृ-पः प्रत्ययितैर् द्वि-जैस् तैर् आश्वासितश् च अप्य् अभिनन्दितश् च शङ्काम् अन्-इष्टां विजहौ मनस्तः प्रहर्षम् एव अधिकम् आरुरोह //
1.48 SK प्रीतश् च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि भूयाद् अयं भूमिपतिर् यथोक्तो यायाज् जराम् एत्य वनानि चेति //
66 SK प्रीतश् च तेभ्यो द्वि-ज-सत्तमेभ्यः सत्-कार-पूर्वं प्रददौ धनानि भूयाद् अयं भूमि-पतिर् यथा-उक्तो यायाज् जराम् एत्य वनानि च इति //
1.49 SK अथो निमित्तैश् च तपोबलाच् च तज् जन्म जन्मान्तकरस्य बुद्ध्वा शाक्येश्वरस्यालयम् आजगाम सद्धर्मतर्षाद् असितो महर्२षिः //
68 SK अथ उ निमित्तैश् च तपो-बलाच् च तज् जन्म जन्म-अन्त-करस्य बुद्ध्वा शाक्य-ईश्वरस्या अलयम् आजगाम सद्-धर्म-तर्षाद् असितो महर्२षिः //
1.50 SK तं ब्रह्मविद्ब्रह्म(विदं Cविदां )ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च राज्ञो गुरुर् गौरवसत्क्रियाभ्यां प्रवेशयाम् आस नरेन्द्रसद्म //
70 SK तं ब्रह्म-विद्-ब्रह्म-(विदं Cविदां )ज्वलन्तं ब्राह्म्या श्रिया च एव तपः-श्रिया च राज्ञो गुरुर् गौरव-सत्-क्रियाभ्यां प्रवेशयाम् आस नर-इन्द्र-सद्म //
1.51 SK स पार्थिवान्तःपुरसंनिकर्षं कुमारजन्मागतहर्ष(वेगः Cवेगं ) विवेश धीरो (वनसंज्ञयेव Cबलसंज्ञयैव तपःप्रकर्षाच् च जराश्रयाच् च //
72 SK स पार्थिव-अन्तः-पुर-संनिकर्षं कुमार-जन्म-आगत-हर्ष-(वेगः Cवेगं ) विवेश धीरो (वन-संज्ञय ईव Cबल-संज्ञय ऐव तपः-प्रकर्षाच् च जरा-आश्रयाच् च //
1.52 SK ततो नृपस् तं मुनिम् आसनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक् निमन्त्रयाम् आस यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः //
74 SK ततो नृ-पस् तं मुनिम् आसन-स्थं पाद्य-अर्घ्य-पूर्वं प्रतिपूज्य सम्यक् निमन्त्रयाम् आस यथा-उपचारं पुरा वसिष्ठं स इव अन्ति-देवः //
1.53 SK धन्यो ऽस्म्य् अनुग्राह्यम् इदं कुलं मे यन् मां दिदृक्षुर् भगवान् उपेतः आज्ञाप्यतां किं करवाणि सौम्य शिष्यो ऽस्मि विश्रम्भितुम् अर्हसीति //
76 SK धन्यो ऽस्म्य् अनुग्राह्यम् इदं कुलं मे यन् मां दिदृक्षुर् भगवान् उपेतः आज्ञाप्यतां किं करवाणि सौम्य शिष्यो ऽस्मि विश्रम्भितुम् अर्हसि इति //
1.54 SK एवं नृपेणोपमन्त्रितः सन् सर्वेण भावेन मुनिर् यथावत् (स विस्मयोत्फुल्लCसविस्मयोत्फुल्ल)विशालदृष्टिर् गम्भीरधीराणि वचांस्य् उवाच //
78 SK एवं नृ-पेण उपमन्त्रितः सन् सर्वेण भावेन मुनिर् यथावत् (स विस्मय-उत्फुल्ल-Cस-विस्मय-उत्फुल्ल-)विशाल-दृष्टिर् गम्भीर-धीराणि वचांस्य् उवाच //
1.55 SK महात्मनि त्वय्य् उपपन्नम् एतत् प्रियातिथौ त्यागिनि धर्मकामे सत्त्वान्वयज्ञानवयोअनुरूपा स्निग्धा यद् एवं मयि ते मतिः स्यात् //
80 SK महा-आत्मनि त्वय्य् उपपन्नम् एतत् प्रिय-अतिथौ त्यागिनि धर्म-कामे सत्त्व-अन्वय-ज्ञान-वयो-अनु-रूपा स्निग्धा यद् एवं मयि ते मतिः स्यात् //
1.56 SK एतच् च तद् येन नृपर्१षयस् ते धर्मेण (सूक्ष्मेण धनान्य् अवाप्य Cसूक्ष्माणि धनान्य् अपास्य ) नित्यं त्यजन्तो विधिवद् बभूवुस् तपोभिर् आढ्या विभवैर् दरिद्राः //
82 SK एतच् च तद् येन नृ-पर्१षयस् ते धर्मेण (सूक्ष्मेण धनान्य् अवाप्य Cसूक्ष्माणि धनान्य् अपास्य ) नित्यं त्यजन्तो विधिवद् बभूवुस् तपोभिर् आढ्या विभवैर् दरिद्राः //
1.57 SK प्रयोजनं यत् तु ममोपयाने तन् मे शृणु प्रीतिम् उपेहि च त्वम् दिव्या (मयादित्यCमयादिव्य)पथे श्रुता वाग् बोधाय जातस् तनयस् तवेति //
84 SK प्रयोजनं यत् तु मम उपयाने तन् मे शृणु प्रीतिम् उपेहि च त्वम् दिव्या (मया आदित्य-Cमयादिव्य-)पथे श्रुता वाग् बोधाय जातस् तनयस् तव इति //
1.58 SK श्रुत्वा वचस् तच् च मनश् च युक्त्वा ज्ञात्वा निमित्तैश् च ततो ऽस्म्य् उपेतः दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य //
86 SK श्रुत्वा वचस् तच् च मनश् च युक्त्वा ज्ञात्वा निमित्तैश् च ततो ऽस्म्य् उपेतः दिदृक्षया शाक्य-कुल-ध्वजस्य शक्र-ध्वजस्य इव समुच्छ्रितस्य //
1.59 SK इत्य् एतद् एवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिर् नरेन्द्रः आदाय धात्र्यङ्कगतं कुमारं संदर्शयाम् आस तपोधनाय //
88 SK इत्य् एतद् एवं वचनं निशम्य प्रहर्ष-संभ्रान्त-गतिर् नर-इन्द्रः आदाय धात्र्य्--अङ्क-गतं कुमारं संदर्शयाम् आस तपो-धनाय //
1.60 SK चक्राङ्कपादं स (ततो Cतथा )महर्२षिर् जालावनद्धाङ्गुलिपाणिपादम् सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श //
90 SK चक्र-अङ्क-पादं स (ततो Cतथा )महर्२षिर् जाल-अवनद्ध-अङ्गुलि-पाणि-पादम् स-ऊर्ण-भ्रुवं वारण-वस्ति-कोशं स-विस्मयं राज-सुतं ददर्श //
1.61 SK धात्र्यङ्कसंविष्टम् अवेक्ष्य चैनं देव्यङ्कसंविष्टम् इवाग्निसूनुम् बभूव (पक्ष्मान्तविचञ्चिताश्रुर् Cपक्ष्मान्तर् इव अञ्चिताश्रुर् निश्वस्य चैव त्रिदिवोन्मुखो ऽभूत् //
92 SK धात्र्य्--अङ्क-संविष्टम् अवेक्ष्य च एनं देव्य्--अङ्क-संविष्टम् इव अग्नि-सूनुम् बभूव (पक्ष्म-अन्त-विचञ्चित-अश्रुर् Cपक्ष्म-अन्तर् इव अञ्चित-अश्रुर् निश्वस्य च एव त्रि-दिव-उन्-मुखो ऽभूत् //
1.62 SK दृष्ट्वासितं त्व् अश्रुपरिप्लुताक्षं स्नेहात् (तनूजस्य Cतु पुत्रस्य )नृपश् चकम्पे सगद्गदं बाष्पकषायकण्ठः पप्रच्छ (स Cच )प्राञ्जलिर् आनताङ्गः //
94 SK दृष्ट्व आसितं त्व् अश्रु-परिप्लुत-अक्षं स्नेहात् (तनू-जस्य Cतु पुत्रस्य )नृ-पश् चकम्पे स-गद्गदं बाष्प-कषाय-कण्ठः पप्रच्छ (स Cच )प्र-अञ्जलिर् आनत-अङ्गः //
1.63 SK अल्पान्तरं यस्य वपुः (सुरेभ्यो Cमुनेः स्याद् बह्वद्भुतं यस्य च जन्म दीप्तम् यस्योत्तमं भाविनम् आत्थ चार्थं तं प्रेक्ष्य कस्मात् तव धीर बाष्पः //
96 SK अल्प-अन्तरं यस्य वपुः (सुरेभ्यो Cमुनेः स्याद् बह्व्-अद्भुतं यस्य च जन्म दीप्तम् यस्य उत्तमं भाविनम् आत्थ च अर्थं तं प्रेक्ष्य कस्मात् तव धीर बाष्पः //
1.64 SK अपि स्थिरायुर् भगवन् कुमारः कच्चिन् न शोकाय मम प्रसूतः (लब्धा Cलब्धः )कथंचित् सलिलाञ्जलिर् मे न खल्व् इमं पातुम् उपैति कालः //
98 SK अपि स्थिर-आयुर् भगवन् कुमारः कच्-चिन् न शोकाय मम प्रसूतः (लब्धा Cलब्धः )कथं-चित् सलिल-अञ्जलिर् मे न खल्व् इमं पातुम् उपैति कालः //
1.65 SK अप्य् अक्षयं मे यशसो निधानं कच्चिद् ध्रुवो मे कुलहस्तसारः अपि प्रयास्यामि सुखं परत्र (सुप्तो ऽपि Cसुप्ते ऽपि )पुत्रे ऽनिमिषैकचक्षुः //
100 SK अप्य् अ-क्षयं मे यशसो निधानं कच्-चिद् ध्रुवो मे कुल-हस्त-सारः अपि प्रयास्यामि सुखं परत्र (सुप्तो ऽपि Cसुप्ते ऽपि )पुत्रे ऽनिमिष-एक-चक्षुः //
1.66 SK कच्चिन् न मे जातम् अफुल्लम् एव कुल(प्रवालं Cप्रबालं )परिशोषभागि क्षिप्रं विभो ब्रूहि न मे ऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् //
102 SK कच्-चिन् न मे जातम् अ-फुल्लम् एव कुल-(प्रवालं Cप्रबालं )परिशोष-भागि क्षिप्रं विभो ब्रूहि न मे ऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् //
1.67 SK इत्य् आगतावेगम् अनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर् बभाषे मा भून् मतिस् ते नृप काचिद् अन्या निःसंशयं तद् यद् अवोचम् अस्मि //
104 SK इत्य् आगत-आवेगम् अन्-इष्ट-बुद्ध्या बुद्ध्वा नर-इन्द्रं स मुनिर् बभाषे मा भून् मतिस् ते नृ-प का-चिद् अन्या निः-संशयं तद् यद् अवोचम् अस्मि //
1.68 SK नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवो ऽस्मि कालो हि मे यातुम् अयं च जातो जातिक्षयस्यासुलभस्य बोद्धा //
106 SK न अस्य अन्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवो ऽस्मि कालो हि मे यातुम् अयं च जातो जाति-क्षयस्य अ-सु-लभस्य बोद्धा //
1.69 SK विहाय राज्यं विषयेष्व् अनास्थस् तीव्रैः प्रयत्नैर् अधिगम्य तत्त्वम् जगत्य् अयं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः //
108 SK विहाय राज्यं विषयेष्व् अन्-आस्थस् तीव्रैः प्रयत्नैर् अधिगम्य तत्त्वम् जगत्य् अयं मोह-तमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः //
1.70 SK दुःखार्णवाद् व्याधिविकीर्णफेनाज् जरातरङ्गान् मरणोग्रवेगात् उत्तारयिष्यत्य् अयम् उह्यमानम् (आर्तं Cआर्त्तं )जगज् ज्ञानमहाप्लवेन //
110 SK दुःख-अर्णवाद् व्याधि-विकीर्ण-फेनाज् जरा-तरङ्गान् मरण-उग्र-वेगात् उत्तारयिष्यत्य् अयम् उह्यमानम् (आर्तं Cआर्त्तं )जगज् ज्ञान-महा-प्लवेन //
1.71 SK प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः //
112 SK प्रज्ञा-अम्बु-वेगां स्थिर-शील-वप्रां समाधि-शीतां व्रत-चक्र-वाकाम् अस्य उत्तमां धर्म-नदीं प्रवृत्तां तृष्णा-आर्दितः पास्यति जीव-लोकः //
1.72 SK दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः आख्यास्यति ह्य् एष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः //
114 SK दुःख-आर्दितेभ्यो विषय-आवृतेभ्यः संसार-कान्तार-पथ-स्थितेभ्यः आख्यास्यति ह्य् एष विमोक्ष-मार्गं मार्ग-प्रनष्टेभ्य इव अध्व-गेभ्यः //
1.73 SK विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन प्रह्लादम् आधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते //
116 SK विदह्यमानाय जनाय लोके राग-अग्निन आयं विषय-इन्धनेन प्रह्लादम् आधास्यति धर्म-वृष्ट्या वृष्ट्या महा-मेघ इवा अतप-अन्ते //
1.74 SK तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानाम् अपयानहेतोः विपाटयिष्यत्य् अयम् उत्तमेन सद्धर्मताडेन दुरासदेन //
118 SK तृष्णा-अर्गलं मोह-तमः-कपाटं द्वारं- प्रजानाम् अपयान-हेतोः विपाटयिष्यत्य् अयम् उत्तमेन सद्-धर्म-ताडेन दुर्-आसदेन //
1.75 SK स्वैर् मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षम् एषः //
120 SK स्वैर् मोह-पाशैः परिवेष्टितस्य दुःख-अभिभूतस्य निर्-आश्रयस्य लोकस्य संबुध्य च धर्म-राजः करिष्यते बन्धन-मोक्षम् एषः //
1.76 SK तन् मा कृथाः शोकम् इमं प्रति त्वम् (अस्मिन् स शोच्यो ऽस्ति Cतत् सौम्य शोच्ये हि )मनुष्यलोके मोहेन वा कामसुखैर् मदाद् वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् //
122 SK तन् मा कृथाः शोकम् इमं प्रति त्वम् (अस्मिन् स शोच्यो ऽस्ति Cतत् सौम्य शोच्ये हि )मनुष्य-लोके मोहेन वा काम-सुखैर् मदाद् वा यो नैष्ठिकं श्रोष्यति न अस्य धर्मम् //
1.77 SK भ्रष्टस्य तस्माच् च गुणाद् अतो मे ध्यानानि लब्ध्वाप्य् अकृतार्थतैव धर्मस्य तस्या श्रवणाद् अहं हि मन्ये विपत्तिं त्रिदिवे ऽपि वासम् //
124 SK भ्रष्टस्य तस्माच् च गुणाद् अतो मे ध्यानानि लब्ध्व आप्य् अ-कृत-अर्थत ऐव धर्मस्य तस्या अ श्रवणाद् अहं हि मन्ये विपत्तिं त्रि-दिवे ऽपि वासम् //
1.78 SK इति श्रुतार्थः ससुहृत् सदारस् त्यक्त्वा विषादं मुमुदे नरेन्द्रः एवंविधो ऽयं तनयो ममेति मेने स हि स्वाम् अपि (सारवत्ताम् Cसारमत्ताम् ) //
126 SK इति श्रुत-अर्थः स-सु-हृत् स-दारस् त्यक्त्वा विषादं मुमुदे नर-इन्द्रः एवं-विधो ऽयं तनयो मम इति मेने स हि स्वाम् अपि (सारवत्ताम् Cसारमत्ताम् ) //
1.79 SK (आर्षेण Cआर्येण )मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार न खल्व् असौ न प्रियधर्मपक्षः संताननाशात् तु भयं ददर्श //
128 SK (आर्षेण Cआर्येण )मार्गेण तु यास्यति इति चिन्ता-विधेयं हृदयं चकार न खल्व् असौ न प्रिय-धर्म-पक्षः संतान-नाशात् तु भयं ददर्श //
1.80 SK अथ मुनिर् असितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे सबहुमतम् उदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम //
130 SK अथ मुनिर् असितो निवेद्य तत्त्वं सुत-नियतं सुत-विक्लवाय राज्ञे स-बहु-मतम् उदीक्ष्यमाण-रूपः पवन-पथेन यथा-आगतं जगाम //
1.81 SK कृत(मितिर् Cमतिर् )अनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च बहुविधम् अनुकम्पया स साधुः प्रियसुतवद् विनियोजयां चकार //
132 SK कृत-(मितिर् Cमतिर् )अनुजा-सुतं च दृष्ट्वा मुनि-वचन-श्रवणे च तन्-मतौ च बहु-विधम् अनुकम्पया स साधुः प्रिय-सुतवद् विनियोजयां चकार //
1.82 SK नरपतिर् अपि पुत्रजन्मतुष्टो विषय(गतानि Cमतानि )विमुच्य बन्धनानि कुलसदृशम् अचीकरद् यथावत् प्रिय(तनयस् Cतनयं )तनयस्य जातकर्म //
134 SK नर-पतिर् अपि पुत्र-जन्म-तुष्टो विषय-(गतानि Cमतानि )विमुच्य बन्धनानि कुल-स-दृशम् अचीकरद् यथावत् प्रिय-(तनयस् Cतनयं )तनयस्य जात-कर्म //
1.83 SK दशसु परिणतेष्व् अहःसु (चैव Cचैवं प्रयतमनाः परया मुदा परीतः अकुरुत जपहोममङ्गलाद्याः (परमभवाय Cपरमतमाः स )सुतस्य देवतेज्याः //
136 SK दशसु परिणतेष्व् अहःसु (च एव Cच एवं प्रयत-मनाः परया मुदा परीतः अकुरुत जप-होम-मङ्गल-आद्याः (परम-भवाय Cपरमतमाः स )सुतस्य देवता-इज्याः //
1.84 SK अपि च शतसहस्रपूऋनसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः अनुपगतजराः पयस्विनीर् गाः स्वयम् अददात् सुतवृद्धये द्विजेभ्यः //
138 SK अपि च शत-सहस्र-पूऋन-संख्याः स्थिर-बलवत्-तनयाः स-हेम-शृङ्गीः अन्-उपगत-जराः पयस्विनीर् गाः स्वयम् अददात् सुत-वृद्धये द्वि-जेभ्यः //
1.85 SK बहुविधविषयास् ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय गुणवति (नियते Cदिवसे )शिवे मुहूर्ते मतिम् अकरोन् मुदितः पुरप्रवेशे //
140 SK बहु-विध-विषयास् ततो यत-आत्मा स्व-हृदय-तोष-करीः क्रिया विधाय गुणवति (नियते Cदिवसे )शिवे मुहूर्ते मतिम् अकरोन् मुदितः पुर-प्रवेशे //
1.86 SK द्विरदरदमयीम् अथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम् अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः //
142 SK द्वि-रद-रदमयीम् अथ उ महा-अर्हां सित-सित-पुष्प-भृतां मणि-प्रदीपाम् अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः //
1.87 SK पुरम् अथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगताम् अपत्यनाथाम् नृपतिर् अपि जगाम पौरसंघैर् दिवम् अमरैर् मघवान् इवार्च्यमानः //
144 SK पुरम् अथ पुरतः प्रवेश्य पत्नीं स्थविर-जन-अनुगताम् अपत्य-नाथाम् नृ-पतिर् अपि जगाम पौर-संघैर् दिवम् अ-मरैर् मघवान् इव अर्च्यमानः //
1.88 SK भवनम् अथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः इदम् इदम् इति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त //
146 SK भवनम् अथ विगाह्य शाक्य-राजो भव इव षण्-मुख-जन्मना प्रतीतः इदम् इदम् इति हर्ष-पूर्ण-वक्त्रो बहु-विध-पुष्टि-यशस्-करं व्यधत्त //
1.89 SK इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् धनदपुरम् इवाप्सरसो ऽवकीर्णं मुदितम् अभून् नल(कूबरCकूवर)प्रसूतौ //
148 SK इति नर-पति-पुत्र-जन्म-वृद्ध्या स-जन-पदं कपिल-आह्वयं पुरं तत् धन-द-पुरम् इव अप्सरसो ऽवकीर्णं मुदितम् अभून् नल-(कूबर-Cकूवर-)प्रसूतौ //
149 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये भगवत्-प्रसूतिर् नाम प्रथमः सर्गः -- १ --]]
2.1 SK आ जन्मनो जन्म(जरान्तगस्य Cजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा अहन्य् अहन्य् अर्थगजाश्वमित्रैर् वृद्धिं ययौ सिन्धुर् इवाम्बुवेगैः //
151 SK आ जन्मनो जन्म-(जरा-अन्त-गस्य Cजरा-अन्तकस्य तस्य अत्म-जस्या अत्म-जितः स राजा अहन्य् अहन्य् अर्थ-गज-अश्व-मित्रैर् वृद्धिं ययौ सिन्धुर् इव अम्बु-वेगैः //
2.2 SK धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य तदा हि (नैकान् स निधीन् अवाप Cनैकात्मनिधीन् अवापि मनोरथस्याप्य् अतिभारभूतान् //
153 SK धनस्य रत्नस्य च तस्य तस्य कृत-अ-कृतस्य एव च काञ्चनस्य तदा हि (न एकान् स निधीन् अवाप Cन एक-आत्म-निधीन् अवापि मनो-रथस्य अप्य् अति-भार-भूतान् //
2.3 SK ये पद्मकल्पैर् अपि च द्विपेन्द्रैर् न मण्डलं शक्यम् इहाभिनेतुम् मदोत्कटा हैमवता गजास् ते विनापि यत्नाद् उपतस्थुर् एनम् //
155 SK ये पद्म-कल्पैर् अपि च द्वि-प-इन्द्रैर् न मण्डलं शक्यम् इह अभिनेतुम् मद-उत्कटा हैमवता गजास् ते विन आपि यत्नाद् उपतस्थुर् एनम् //
2.4 SK नानाङ्कचिह्नैर् नवहेमभाण्डैर् (विभूषितैर् Cअभूषितैर् )लम्बसटैस् तथान्यैः संचुक्षुभे चास्य पुरं तुरंगैर् बलेन मैत्र्या च धनेन चाप्तैः //
157 SK नाना-अङ्क-चिह्नैर् नव-हेम-भाण्डैर् (विभूषितैर् Cअ-भूषितैर् )लम्ब-सटैस् तथ आन्यैः संचुक्षुभे च अस्य पुरं तुरं-गैर् बलेन मैत्र्या च धनेन चा अप्तैः //
2.5 SK पुष्टाश् च तुष्टाश् च (तथास्य Cतदास्य )राज्ये साध्व्यो ऽरजस्का गुणवत्पयस्काः उदग्रवत्सैः सहिता बभूवुर् बह्व्यो बहुक्षीरदुहश् च गावः //
159 SK पुष्टाश् च तुष्टाश् च (तथ आस्य Cतद आस्य )राज्ये साध्व्यो ऽरजस्का गुणवत्-पयस्काः उद्-अग्र-वत्सैः सहिता बभूवुर् बह्व्यो बहु-क्षीर-दुहश् च गावः //
2.6 SK मध्यस्थतां तस्य रिपुर् जगाम मध्य(स्थCस्व)भावः प्रययौ सुहृत्त्वम् विशेषतो दार्ढ्यम् इयाय मित्रं द्वाव् अस्य पक्षाव् अपरस् तु (नास Cनाशम् ) //
161 SK मध्य-स्थतां तस्य रिपुर् जगाम मध्य-(स्थ-Cस्व-)भावः प्रययौ सु-हृत्त्वम् विशेषतो दार्ढ्यम् इयाय मित्रं द्वाव् अस्य पक्षाव् अ-परस् तु (ना अस Cनाशम् ) //
2.7 SK तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डल(मण्डिताभ्रः Cमण्डिताङ्गः ) विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः //
163 SK तथ आस्य मन्द-अनिल-मेघ-शब्दः सौदामिनी-कुण्डल-(मण्डित-अभ्रः Cमण्डित-अङ्गः ) विन आश्म-वर्ष-अशनि-पात-दोषैः काले च देशे प्रववर्ष देवः //
2.8 SK रुरोह (सस्यं Cसंयक् )फलवद् यथर्२तु तदाकृतेनापि कृषिश्रमेण ता एव (चास्यौषधयो Cचैवौषधयो )रसेन सारेण चैवाभ्यधिका बभूवुः //
165 SK रुरोह (सस्यं Cसंयक् )फलवद् यथर्२तु तद आ-कृतेन अपि कृषि-श्रमेण ता एव (च अस्य ओषधयो Cच एव ओषधयो )रसेन सारेण च एव अभ्य्-अधिका बभूवुः //
2.9 SK शरीरसंदेहकरे ऽपि काले संग्रामसंमर्दए इव प्रवृत्ते स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे (कालवशेन Cगर्भधराश् च )नार्यः //
167 SK शरीर-संदेह-करे ऽपि काले संग्राम-संमर्दए इव प्रवृत्ते स्व-स्थाः सुखं च एव निर्-आमयं च प्रजज्ञिरे (काल-वशेन Cगर्भ-धराश् च )नार्यः //
2.10 SK (पृथग् व्रतिभ्यो Cयच् च प्रतिभ्वो )विभवे ऽपि (गर्ह्ये Cशक्ये न प्रार्थयन्ति स्म नराः परेभ्यः अभ्यर्थितः सूक्ष्मधनो ऽपि (चार्यस् Cचायं तदा न कश्चिद् विमुखो बभूव //
169 SK (पृथग् व्रतिभ्यो Cयच् च प्रतिभ्वो )विभवे ऽपि (गर्ह्ये Cशक्ये न प्रार्थयन्ति स्म नराः परेभ्यः अभ्यर्थितः सूक्ष्म-धनो ऽपि (चा अर्यस् Cच अयं तदा न कश्-चिद् वि-मुखो बभूव //
2.11 SK (नागौरवो Cनाश वधो )बन्धुषु नाप्य् अदाता नैवाव्रतो नानृतिको न हिंस्रः आसीत् तदा कश्चन तस्य राज्ये राज्ञो ययातेर् इव नाहुस्.अस्य //
171 SK (न अ-गौरवो Cनाश वधो )बन्धुषु न अप्य् अ-दाता न एव अ-व्रतो न अन्-ऋतिको न हिंस्रः आसीत् तदा कश्-चन तस्य राज्ये राज्ञो ययातेर् इव नाहुस्.अस्य //
2.12 SK उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् चक्रुः क्रियास् तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गम् इवोपलभ्य //
173 SK उद्यान-देव-आयतन-आश्रमाणां कूप-प्रपा-पुष्करिणी-वनानाम् चक्रुः क्रियास् तत्र च धर्म-कामाः प्रत्य्-अक्षतः स्वर्गम् इव उपलभ्य //
2.13 SK मुक्तश् च दुर्भिक्षभयामयेभ्यो हृष्टो जनः (स्वर्गए Cस्वर्गम् )इवाभिरेमे पत्नीं पतिर् वा महिषी पतिं वा परस्परं न व्यभिचेरतुश् च //
175 SK मुक्तश् च दुर्-भिक्ष-भय-आमयेभ्यो हृष्टो जनः (स्वर्गए Cस्वर्गम् )इव अभिरेमे पत्नीं पतिर् वा महिषी पतिं वा परस्-परं न व्यभिचेरतुश् च //
2.14 SK कश्चित् सिषेवे रतये न कामं कामार्थम् अर्थं न जुगोप कश्चित् कश्चिद् धनार्थं न चचार धर्मं धर्माय कश्चिन् न चकार हिंसाम् //
177 SK कश्-चित् सिषेवे रतये न कामं काम-अर्थम् अर्थं न जुगोप कश्-चित् कश्-चिद् धन-अर्थं न चचार धर्मं धर्माय कश्-चिन् न चकार हिंसाम् //
2.15 SK स्तेयादिभिश् चाप्य् (अरिभिश् Cअभितश् )च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् क्षेमं सुभिक्षं च बभूव तस्य (पुरानरण्यस्य Cपुराण्य् अरण्यानि )यथैव राष्ट्रे //
179 SK स्तेय-आदिभिश् च अप्य् (अरिभिश् Cअभितश् )च नष्टं स्व-स्थं स्व-चक्रं पर-चक्र-मुक्तम् क्षेमं सु-भिक्षं च बभूव तस्य (पुर आन्-अरण्यस्य Cपुराण्य् अरण्यानि )यथ ऐव राष्ट्रे //
2.16 SK तदा हि तज्जन्मनि तस्य राज्ञो मनोर् इवादित्यसुतस्य राज्ये चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम //
181 SK तदा हि तज्-जन्मनि तस्य राज्ञो मनोर् इवा अदित्य-सुतस्य राज्ये चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम //
2.17 SK एवंविधा राज(कुलस्य संपत् Cसुतस्य तस्य सर्वार्थसिद्धिश् च यतो बभूव ततो नृपस् तस्य सुतस्य नाम सर्वार्थसिद्धो ऽयम् इति प्रचक्रे //
183 SK एवं-विधा राज-(कुलस्य संपत् Cसुतस्य तस्य सर्व-अर्थ-सिद्धिश् च यतो बभूव ततो नृ-पस् तस्य सुतस्य नाम सर्व-अर्थ-सिद्धो ऽयम् इति प्रचक्रे //
2.18 SK देवी तु माया विबुधर्१षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् जातं प्रहर्षं न शशाक सोढुं ततो (निवासाय Cअविनाशाय )दिवं जगाम //
185 SK देवी तु माया विबुधर्१षि-कल्पं दृष्ट्वा विशालं तनय-प्रभावम् जातं प्रहर्षं न शशाक सोढुं ततो (निवासाय Cअ-विनाशाय )दिवं जगाम //
2.19 SK ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् मातृष्वसा मातृसमप्रभावा संवर्धयाम् आत्मजवद् बभूव //
187 SK ततः कुमारं सुर-गर्भ-कल्पं स्नेहेन भावेन च निर्-विशेषम् मातृ-ष्वसा मातृ-सम-प्रभावा संवर्धयाम् आत्म-जवद् बभूव //
2.20 SK ततः स बालार्क इवोदयस्थः समीरितो वह्निर् इवानिलेन क्रमेण सम्यग् ववृधे कुमारस् ताराधिपः पक्षए इवातमस्के //
189 SK ततः स बाल-अर्क इव उदय-स्थः समीरितो वह्निर् इव अनिलेन क्रमेण सम्यग् ववृधे कुमारस् तार-अधिपः पक्षए इव अ-तमस्के //
2.21 SK ततो महार्हाणि च चन्दनानि रत्नावलीश् चौषधिभिः सगर्भाः मृगप्रयुक्तान् रथकांश् च हैमान् आचक्रिरे ऽस्मै सुहृदालयेभ्यः //
191 SK ततो महा-अर्हाणि च चन्दनानि रत्न-आवलीश् च ओषधिभिः स-गर्भाः मृग-प्रयुक्तान् रथकांश् च हैमान् आचक्रिरे ऽस्मै सु-हृद्-आलयेभ्यः //
2.22 SK वयोअनुरूपाणि च भूषणानि (हिरण्मयान् Cहिरण्मया )हस्ति(मृगाश्वकांश् Cमृगाश्वकाश् )च (रथांश् Cरथाश् )च (गोपुत्रकसंप्रयुक्तान् Cगावो वसनप्रयुक्ता (पुत्रीश् Cगन्त्रीश् )च चामीकररूप्यचित्राः //
193 SK वयो-अनु-रूपाणि च भूषणानि (हिरण्मयान् Cहिरण्मया )हस्ति-(मृग-अश्वकांश् Cमृग-अश्वकाश् )च (रथांश् Cरथाश् )च (गो-पुत्रक-संप्रयुक्तान् Cगावो वसन-प्रयुक्ता (पुत्रीश् Cगन्त्रीश् )च चामीकर-रूप्य-चित्राः //
2.23 SK एवं स तैस् तैर् विषयोपचारैर् वयोअनुरूपैर् उपचर्यमाणः बालो ऽप्य् अबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च //
195 SK एवं स तैस् तैर् विषय-उपचारैर् वयो-अनु-रूपैर् उपचर्यमाणः बालो ऽप्य् अ-बाल-प्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च //
2.24 SK वयश् च कौमारम् अतीत्य (सम्यक् Cमध्यं संप्राप्य (काले प्रतिपत्तिकर्म Cबालः स हि राजसूनुः ) अल्पैर् अहोभिर् बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः //
197 SK वयश् च कौमारम् अतीत्य (सम्यक् Cमध्यं संप्राप्य (काले प्रतिपत्ति-कर्म Cबालः स हि राज-सूनुः ) अल्पैर् अहोभिर् बहु-वर्ष-गम्या जग्राह विद्याः स्व-कुल-अनु-रूपाः //
2.25 SK नैःश्रेयसं तस्य तु भव्यम् अर्थं श्रुत्वा पुरस्ताद् असितान् महर्२षेः कामेषु सङ्गं जनयां बभूव (वनानि यायाद् इति शाक्यराजः Cवृद्धिर् भवच्छाक्यकुलस्य राज्ञः ) //
199 SK नैःश्रेयसं तस्य तु भव्यम् अर्थं श्रुत्वा पुरस्ताद् असितान् महर्२षेः कामेषु सङ्गं जनयां बभूव (वनानि यायाद् इति शाक्य-राजः Cवृद्धिर् भवच्-छाक्य-कुलस्य राज्ञः ) //
2.26 SK कुलात् ततो ऽस्मै स्थिरशील(युक्तात् Cसंयुतात् साध्वीं वपुर्ह्रीविनयोपपन्नाम् यशोधरां नाम यशोविशालां (वामाभिधानं Cतुल्याभिधानं )श्रियम् आजुहाव //
201 SK कुलात् ततो ऽस्मै स्थिर-शील-(युक्तात् Cसंयुतात् साध्वीं वपुर्-ह्री-विनय-उपपन्नाम् यशो-धरां नाम यशो-विशालां (वाम-अभिधानं Cतुल्य-अभिधानं )श्रियम् आजुहाव //
2.27 SK (विद्योतमानो वपुषा परेण Cअथापरं भूमिपतेः प्रियो ऽयं सनत्कुमारप्रतिमः कुमारः सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे //
203 SK (विद्योतमानो वपुषा परेण Cअथ अ-परं भूमि-पतेः प्रियो ऽयं सनत्-कुमार-प्रतिमः कुमारः स-अर्धं तया शाक्य-नर-इन्द्र-वध्वा शच्या सहस्र-अक्ष इव अभिरेमे //
2.28 SK किंचिन् मनःक्षोभकरं प्रतीपं (कथं न Cकथंच )पश्येद् इति सो ऽनुचिन्त्य वासं नृपो (व्यादिशति Cह्य् आदिशति )स्म तस्मै हर्म्योदरेष्व् एव न भूप्रचारम् //
205 SK किं-चिन् मनः-क्षोभ-करं प्रतीपं (कथं न Cकथं-च )पश्येद् इति सो ऽनुचिन्त्य वासं नृ-पो (व्यादिशति Cह्य् आदिशति )स्म तस्मै हर्म्य-उदरेष्व् एव न भू-प्रचारम् //
2.29 SK ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्व् इव राञ्जितेषु हर्म्येषु सर्वर्१तुसुखाश्रयेषु स्त्रीणाम् उदारैर् विजहार तूर्यैः //
207 SK ततः शरत्-तोय-द-पाण्डरेषु भूमौ विमानेष्व् इव राञ्जितेषु हर्म्येषु सर्वर्१तु-सुख-आश्रयेषु स्त्रीणाम् उदारैर् विजहार तूर्यैः //
2.30 SK कलैर् हि चामीकरबद्धकक्षैर् नारीकराग्राभिहतैर् मृदङ्गैः वराप्सरोनृत्यसमैश् च नृत्यैः कैलासवत् तद् भवनं रराज //
209 SK कलैर् हि चामीकर-बद्ध-कक्षैर् नारी-कर-अग्र-अभिहतैर् मृद्-अङ्गैः वर-अप्सरो-नृत्य-समैश् च नृत्यैः कैलासवत् तद् भवनं रराज //
2.31 SK वाग्भिः कलाभिर् ललितैश् च (हावैर् Cहारैर् मदैः सखेलैर् मधुरैश् च हासैः तं तत्र नार्यो रमयां बभूवुर् भ्रूवञ्चितैर् अर्धनिरीक्षितैश् च //
211 SK वाग्भिः कलाभिर् ललितैश् च (हावैर् Cहारैर् मदैः स-खेलैर् मधुरैश् च हासैः तं तत्र नार्यो रमयां बभूवुर् भ्रू-वञ्चितैर् अर्ध-निरीक्षितैश् च //
2.32 SK (ततः स Cततश् च )कामाश्रयपण्डिताभिः स्त्रीभिर् गृहीतो रतिकर्कशाभिः विमानपृष्ठान् न महीं जगाम विमानपृष्थाद् इव पुण्यकर्मा //
213 SK (ततः स Cततश् च )काम-आश्रय-पण्डिताभिः स्त्रीभिर् गृहीतो रति-कर्कशाभिः विमान-पृष्ठान् न महीं जगाम विमान-पृष्थाद् इव पुण्य-कर्मा //
2.33 SK नृपस् तु तस्यैव विवृद्धिहेतोस् तद्भाविनार्थेन च चोद्यमानः शमे ऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून् //
215 SK नृ-पस् तु तस्य एव विवृद्धि-हेतोस् तद्-भाविन आर्थेन च चोद्यमानः शमे ऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून् //
2.34 SK नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् धृत्येन्द्रियाश्वांश् चपलान् विजिग्ये बन्धूंश् च पौरांश् च गुणैर् जिगाय //
217 SK न अ-धीरवत् काम-सुखे ससञ्जे न संररञ्जे वि-षमं जनन्याम् धृत्य ईन्द्रिय-अश्वांश् चपलान् विजिग्ये बन्धूंश् च पौरांश् च गुणैर् जिगाय //
2.35 SK नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत् तु तद् अध्यगीष्ट स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवम् आशशंसे //
219 SK न अध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत् तु तद् अध्यगीष्ट स्वाभ्यः प्रजाभ्यो हि यथा तथ ऐव सर्व-प्रजाभ्यः शिवम् आशशंसे //
2.36 SK (भं Cतं )भासुरं चाङ्गिरसाधिदेवं यथावद् आनर्च तदायुषे सः जुहाव हव्यान्य् अकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश् च //
221 SK (भं Cतं )भासुरं च अङ्गिरस-अधि-देवं यथावद् आनर्च तद्-आयुषे सः जुहाव हव्यान्य् अ-कृशे कृशानौ ददौ द्वि-जेभ्यः कृशनं च गाश् च //
2.37 SK सस्नौ शरीरं पवितुं मनश् च तीर्थाम्बुभिश् चैव गुणाम्बुभिश् च वेदोपदिष्टं समम् आत्मजं च सोमं पपौ शान्तिसुखं च हार्दम् //
223 SK सस्नौ शरीरं पवितुं मनश् च तीर्थ-अम्बुभिश् च एव गुण-अम्बुभिश् च वेद-उपदिष्टं समम् आत्म-जं च सोमं पपौ शान्ति-सुखं च हार्दम् //
2.38 SK सान्त्वं बभाषे न च नार्थवद् यज् जजल्प तत्त्वं न च विप्रियं यत् सान्त्वं ह्य् अतत्त्वं परुषं च तत्त्वं ह्रियाशकन् नात्मन एव वक्तुम् //
225 SK सान्त्वं बभाषे न च न अर्थवद् यज् जजल्प तत्त्वं न च वि-प्रियं यत् सान्त्वं ह्य् अ-तत्त्वं परुषं च तत्त्वं ह्रिय आशकन् ना अत्मन एव वक्तुम् //
2.39 SK इष्टेष्व् अनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे शिवं सिषेवे (व्यवहारशुद्धं Cअव्यवहारलब्धं यज्ञं हि मेने न तथा (यथा तत् Cयथावत् ) //
227 SK इष्टेष्व् अन्-इष्टेषु च कार्यवत्सु न राग-दोष-आश्रयतां प्रपेदे शिवं सिषेवे (व्यवहार-शुद्धं Cअ-व्यवहार-लब्धं यज्ञं हि मेने न तथा (यथा तत् Cयथावत् ) //
2.40 SK आशावते चाभिगताय सद्यो देयाम्बुभिस् तर्षम् (अचेछिदिष्ट Cअचेच्छिदिष्ट ) युद्धाद् ऋते वृत्तपरश्वधेन द्विड्दर्पम् उद्वृत्तम् अबेभिदिष्ट //
229 SK आशावते च अभिगताय सद्यो देय-अम्बुभिस् तर्षम् (अचेछिदिष्ट Cअचेच्छिदिष्ट ) युद्धाद् ऋते वृत्त-परश्वधेन द्विड्-दर्पम् उद्वृत्तम् अबेभिदिष्ट //
2.41 SK एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् //
231 SK एकं विनिन्ये स जुगोप सप्त सप्त एव तत्याज ररक्ष पञ्च प्राप त्रि-वर्गं बुबुधे त्रि-वर्गं जज्ञे द्वि-वर्गं प्रजहौ द्वि-वर्गम् //
2.42 SK कृतागसो ऽपि प्रतिपाद्य वध्यान् नाजीघनन् नापि रुषा ददर्श बबन्ध सान्त्वेन फलेन चैतांस् त्यागो ऽपि तेषां ह्य् (अनयाय दृष्टः Cअनपायदृष्टः ) //
233 SK कृत-अगसो ऽपि प्रतिपाद्य वध्यान् न अजीघनन् न अपि रुषा ददर्श बबन्ध सान्त्वेन फलेन च एतांस् त्यागो ऽपि तेषां ह्य् (अ-नयाय दृष्टः Cअन्-अपाय-दृष्टः ) //
2.43 SK आर्षाण्य् अचारीत् परमव्रतानि वैराण्य् अहासीच् चिरसंभृतानि यशांसि चापद्गुणगन्धवन्ति रजांस्य् (अहार्षीन् Cअहासीन् )मलिनीकराणि //
235 SK आर्षाण्य् अचारीत् परम-व्रतानि वैराण्य् अहासीच् चिर-संभृतानि यशांसि चा अपद्-गुण-गन्धवन्ति रजांस्य् (अहार्षीन् Cअहासीन् )मलिनी-कराणि //
2.44 SK न चाजिहीर्षीद् बलिम् अप्रवृत्तं न चाचिकीर्षीत् परवस्त्वभिध्याम् न चाविवक्षीद् द्विषताम् अधर्मं न (चाविवक्षीद् Cचादिधक्षीद् )धृदयेन मन्युम् //
237 SK न च अजिहीर्षीद् बलिम् अ-प्रवृत्तं न च अचिकीर्षीत् पर-वस्त्व्-अभिध्याम् न च अविवक्षीद् द्विषताम् अ-धर्मं न (च अविवक्षीद् Cच अदिधक्षीद् )धृदयेन मन्युम् //
2.45 SK तस्मिंस् तथा भूमिपतौ प्रवृत्ते भृत्याश् च पौराश् च तथैव चेरुः शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि //
239 SK तस्मिंस् तथा भूमि-पतौ प्रवृत्ते भृत्याश् च पौराश् च तथ ऐव चेरुः शम-आत्मके चेतसि विप्रसन्ने प्रयुक्त-योगस्य यथा-इन्द्रियाणि //
2.46 SK काले ततश् चारुपयोधरायां यशोधरायां (स्वCसु)यशोधरायाम् शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना //
241 SK काले ततश् चारु-पयो-धरायां यशो-धरायां (स्व-Cसु-)यशो-धरायाम् शौद्धोदने राहु-सपत्न-वक्त्रो जज्ञे सुतो राहुल एव नाम्ना //
2.47 SK अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द //
243 SK अथ इष्ट-पुत्रः परम-प्रतीतः कुलस्य वृद्धिं प्रति भूमि-पालः यथ ऐव पुत्र-प्रसवे ननन्द तथ ऐव पौत्र-प्रसवे ननन्द //
2.48 SK (पुत्रस्य Cपौत्रस्य )मे पुत्रगतो (ममेव Cममैव स्नेहः कथं स्याद् इति जातहर्षः काले स तं तं विधिम् आललम्बे पुत्रप्रियः स्वर्गम् इवारुरुक्षन् //
245 SK (पुत्रस्य Cपौत्रस्य )मे पुत्र-गतो (मम इव Cमम एव स्नेहः कथं स्याद् इति जात-हर्षः काले स तं तं विधिम् आललम्बे पुत्र-प्रियः स्वर्गम् इवा अरुरुक्षन् //
2.49 SK स्थित्वा पथि प्राथमकल्पिकानां राजर्१षभाणां यशसान्वितानाम् शुक्लान्य् अमुक्त्वापि तपांस्य् अतप्त (यज्ञैश् Cयज्ञे )च हिंसारहितैर् अयष्ट //
247 SK स्थित्वा पथि प्राथमकल्पिकानां राजर्१षभाणां यशस आन्वितानाम् शुक्लान्य् अ-मुक्त्व आपि तपांस्य् अतप्त (यज्ञैश् Cयज्ञे )च हिंसा-रहितैर् अयष्ट //
2.50 SK अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च कुलेन वृत्तेन धिया च दीप्तस् तेजः सहस्रांशुर् इवोत्सिसृक्षुः //
249 SK अजाज्वलिष्ट अथ स पुण्य-कर्मा नृ-प-श्रिया च एव तपः-श्रिया च कुलेन वृत्तेन धिया च दीप्तस् तेजः सहस्र-अंशुर् इव उत्सिसृक्षुः //
2.51 SK स्वायंभुवं चार्चिकम् अर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले //
251 SK स्वायंभुवं चा अर्चिकम् अर्चयित्वा जजाप पुत्र-स्थितये स्थित-श्रीः चकार कर्माणि च दुष्-कराणि प्रजाः सिसृक्षुः क इवा अदि-काले //
2.52 SK तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे वशीव कंचिद् विषयं न भेजे पितेव सर्वान् विषयान् ददर्श //
253 SK तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे वशि ईव कं-चिद् विषयं न भेजे पित ईव सर्वान् विषयान् ददर्श //
2.53 SK बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु स्वर्गाय शब्दं दिवम् आत्महेतोर् धर्मार्थम् आत्मस्थितिम् आचकाङ्क्ष //
255 SK बभार राज्यं स हि पुत्र-हेतोः पुत्रं कुल-अर्थं यशसे कुलं तु स्वर्गाय शब्दं दिवम् आत्म-हेतोर् धर्म-अर्थम् आत्म-स्थितिम् आचकाङ्क्ष //
2.54 SK एवं स धर्मं विविधं चकार सद्भिर् निपातं श्रुतितश् च सिद्धम् दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायाद् इति नाथमानः //
257 SK एवं स धर्मं वि-विधं चकार सद्भिर् निपातं श्रुतितश् च सिद्धम् दृष्ट्वा कथं पुत्र-मुखं सुतो मे वनं न यायाद् इति नाथमानः //
2.55 SK रिरक्षिषन्तः श्रियम् आत्म(संस्थां Cसंस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद् (विषयेषु मुञ्चन् Cविषयेष्व् अमुञ्चत् ) //
259 SK रिरक्षिषन्तः श्रियम् आत्म-(संस्थां Cसंस्था रक्षन्ति पुत्रान् भुवि भूमि-पालाः पुत्रं नर-इन्द्रः स तु धर्म-कामो ररक्ष धर्माद् (विषयेषु मुञ्चन् Cविषयेष्व् अमुञ्चत् ) //
2.56 SK वनम् अनुपमसत्त्वा बोधिसत्त्वास् तु सर्वे विषयसुखरसज्ञा जग्मुर् उत्पन्नपुत्राः अत उपचितकर्मा रूढमूले ऽपि हेतौ स रतिम् उपसिषेवे बोधिम् (आपन् न यावत् Cआपन्नयावत् ) //
261 SK वनम् अन्-उपम-सत्त्वा बोधि-सत्त्वास् तु सर्वे विषय-सुख-रस-ज्ञा जग्मुर् उत्पन्न-पुत्राः अत उपचित-कर्मा रूढ-मूले ऽपि हेतौ स रतिम् उपसिषेवे बोधिम् (आपन् न यावत् Cआपन्न-यावत् ) //
262 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये ऽन्तः-पुर-विहारो नाम द्वितीयः सर्गः -- २ --]]
3.1 SK ततः कदाचिन् मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि शुश्राव पद्माकरमण्डितानि (गीतैर् Cशीते )निबद्धानि स काननानि //
264 SK ततः कदा-चिन् मृदु-शाद्वलानि पुंस्-कोकिल-उन्नादित-पाद-पानि शुश्राव पद्म-आकर-मण्डितानि (गीतैर् Cशीते )निबद्धानि स काननानि //
3.2 SK श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् बहिःप्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः //
266 SK श्रुत्वा ततः स्त्री-जन-वल्लभानां मनो-ज्ञ-भावं पुर-काननानाम् बहिः-प्रयाणाय चकार बुद्धिम् अन्तर्-गृहे नाग इव अवरुद्धः //
3.3 SK ततो नृपस् तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य स्नेहस्य लक्ष्म्या वयसश् च योग्याम् आज्ञापयाम् आस विहारयात्राम् //
268 SK ततो नृ-पस् तस्य निशम्य भावं पुत्र-अभिधानस्य मनो-रथस्य स्नेहस्य लक्ष्म्या वयसश् च योग्याम् आज्ञापयाम् आस विहार-यात्राम् //
3.4 SK निवर्तयाम् आस च राजमार्गे संपातम् आर्तस्य पृथग्जनस्य मा भूत् कुमारः सुकुमारचित्तः संविग्नचेता (इति Cइव )मन्यमानः //
270 SK निवर्तयाम् आस च राज-मार्गे संपातम् आर्तस्य पृथग्-जनस्य मा भूत् कुमारः सु-कुमार-चित्तः संविग्न-चेता (इति Cइव )मन्यमानः //
3.5 SK प्रत्यङ्गहीनान् विकलेन्द्रियांश् च जीर्णातुरादीन् कृपणांश् च (दिक्षु Cभिक्षून् ) ततः समुत्सार्य परेण साम्ना शोभां (परां Cपरा )राजपथस्य चक्रुः //
272 SK प्रत्य्-अङ्ग-हीनान् विकल-इन्द्रियांश् च जीर्ण-आतुर-आदीन् कृपणांश् च (दिक्षु Cभिक्षून् ) ततः समुत्सार्य परेण साम्ना शोभां (परां Cपरा )राज-पथस्य चक्रुः //
3.6 SK ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः प्रासादपृष्ठाद् अवतीर्य काले कृताभ्यनुज्ञो नृपम् अभ्यगच्छत् //
274 SK ततः कृते श्रीमति राज-मार्गे श्रीमान् विनीत-अनुचरः कुमारः प्रासाद-पृष्ठाद् अवतीर्य काले कृत-अभ्यनुज्ञो नृ-पम् अभ्यगच्छत् //
3.7 SK अथो नरेन्द्रः सुतम् आगताश्रुः शिरस्य् उपाघ्राय चिरं निरीक्ष्य गच्छेति चाज्ञापयति स्म वाचा स्नेहान् न चैनं मनसा मुमोच //
276 SK अथ उ नर-इन्द्रः सुतम् आगत-अश्रुः शिरस्य् उपाघ्राय चिरं निरीक्ष्य गच्छ इति चा अज्ञापयति स्म वाचा स्नेहान् न च एनं मनसा मुमोच //
3.8 SK ततः स जाम्बूनदभाण्डभृद्भिर् युक्तं चतुर्भिर् निभृतैस् तुरंगैः अक्लीब(विद्वच्Cविद्युच्)छुचिरश्मिधारं हिरण्मयं स्यन्दनम् आरुरोह //
278 SK ततः स जाम्बूनद-भाण्ड-भृद्भिर् युक्तं चतुर्भिर् निभृतैस् तुरं-गैः अ-क्लीब-(विद्वच्-Cविद्युच्-)छुचि-रश्मि-धारं हिरण्मयं स्यन्दनम् आरुरोह //
3.9 SK ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् मार्गं प्रपेदे सदृशानुयात्रश् चन्द्रः सनक्षत्र इवान्तरीक्षम् //
280 SK ततः प्रकीर्ण-उज्ज्वल-पुष्प-जालं विषक्त-माल्यं प्रचलत्-पताकम् मार्गं प्रपेदे स-दृश-अनुयात्रश् चन्द्रः स-नक्षत्र इव अन्तरीक्षम् //
3.10 SK कौतूहलात् स्फीततरैश् च नेत्रैर् (नीलोत्पलार्धैर् Cनीलोत्पलाभैर् )इव (कीर्यमाणम् Cकीर्यमाणः ) शनैः शनै राजपथं जगाहे पौरैः समन्ताद् अभिवीक्ष्यमाणः //
282 SK कौतूहलात् स्फीततरैश् च नेत्रैर् (नील-उत्पल-अर्धैर् Cनील-उत्पल-आभैर् )इव (कीर्यमाणम् Cकीर्यमाणः ) शनैः शनै राज-पथं जगाहे पौरैः सम्-अन्ताद् अभिवीक्ष्यमाणः //
3.11 SK तं तुष्टुवुः सौम्यगुणेन केचिद् ववन्दिरे दीप्ततया तथान्ये सौमुख्यतस् तु श्रियम् अस्य केचिद् वैपुल्यम् आशंसिषुर् आयुषश् च //
284 SK तं तुष्टुवुः सौम्य-गुणेन के-चिद् ववन्दिरे दीप्ततया तथ आन्ये सौमुख्यतस् तु श्रियम् अस्य के-चिद् वैपुल्यम् आशंसिषुर् आयुषश् च //
3.12 SK निःसृत्य कुब्जाश् च महाकुलेभ्यो व्यूहाश् च कैरातकवामनानाम् नार्यः कृशेभ्यश् च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः //
286 SK निःसृत्य कुब्जाश् च महा-कुलेभ्यो व्यूहाश् च कैरातक-वामनानाम् नार्यः कृशेभ्यश् च निवेशनेभ्यो देव-अनुयान-ध्वजवत् प्रणेमुः //
3.13 SK ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात् प्रवृत्तिम् दिदृक्षया हर्म्यतलानि जग्मुर् जनेन मान्येन कृताभ्यनुज्ञाः //
288 SK ततः कुमारः खलु गच्छति इति श्रुत्वा स्त्रियः प्रेष्य-जनात् प्रवृत्तिम् दिदृक्षया हर्म्य-तलानि जग्मुर् जनेन मान्येन कृत-अभ्यनुज्ञाः //
3.14 SK ताः स्रस्तकाञ्चीगुणविघ्निताश् च सुप्तप्रबुद्धाकुललोचनाश् च वृत्तान्तविन्यस्तविभूषणाश् च (कौतूहलेनानिभृताः Cकौतूहलेनापि भृताः )परीयुः //
290 SK ताः स्रस्त-काञ्ची-गुण-विघ्निताश् च सुप्त-प्रबुद्ध-आकुल-लोचनाश् च वृत्त-अन्त-विन्यस्त-विभूषणाश् च (कौतूहलेन अ-निभृताः Cकौतूहलेन अपि भृताः )परीयुः //
3.15 SK प्रासादसोपानतलप्रणादैः काञ्चीरवैर् नूपुरनिस्वनैश् च (वित्रासयन्त्यो Cविभ्रामयन्त्यो )गृहपक्षिसंघान् अन्योअन्यवेगांश् च समाक्षिपन्त्यः //
292 SK प्रासाद-सोपान-तल-प्रणादैः काञ्ची-रवैर् नूपुर-निस्वनैश् च (वित्रासयन्त्यो Cविभ्रामयन्त्यो )गृह-पक्षि-संघान् अन्यो-अन्य-वेगांश् च समाक्षिपन्त्यः //
3.16 SK कासांचिद् आसां तु वराङ्गनानां जातत्वराणाम् अपि सोत्सुकानाम् गतिं गुरुत्वाज् जगृहुर् विशालाः श्रोणीरथाः पीनपयोधराश् च //
294 SK कासां-चिद् आसां तु वर-अङ्गनानां जात-त्वराणाम् अपि स-उत्सुकानाम् गतिं गुरुत्वाज् जगृहुर् विशालाः श्रोणी-रथाः पीन-पयो-धराश् च //
3.17 SK शीघ्रं समर्थापि तु गन्तुम् अन्या गतिं निजग्राह ययौ न तूर्णम् (ह्रियाप्रगल्भा विनिगूहमाना Cह्रिया प्रगल्भानि निगूहमाना (रहःप्रयुक्तानि Cरहः प्रयुक्तानि )विभूषणानि //
296 SK शीघ्रं सम्-अर्थ आपि तु गन्तुम् अन्या गतिं निजग्राह ययौ न तूर्णम् (ह्रिय आ-प्रगल्भा विनिगूहमाना Cह्रिया प्रगल्भानि निगूहमाना (रहः-प्रयुक्तानि Cरहः प्रयुक्तानि )विभूषणानि //
3.18 SK परस्परोत्पीडनपिण्डितानां संमर्द(संक्षोभितCसंशोभित)कुण्डलानाम् तासां तदा सस्वनभूषणानां वातायनेष्व् अप्रशमो बभूव //
298 SK परस्-पर-उत्पीडन-पिण्डितानां संमर्द-(संक्षोभित-Cसंशोभित-)कुण्डलानाम् तासां तदा स-स्वन-भूषणानां वात-अयनेष्व् अ-प्रशमो बभूव //
3.19 SK वातायनेभ्यस् तु विनिःसृतानि परस्(परायासितCपरोपासित)कुण्डलानि स्त्रीणां विरेजुर् मुखपङ्कजानि सक्तानि हर्म्येष्व् इव पङ्कजानि //
300 SK वात-अयनेभ्यस् तु विनिःसृतानि परस्-(पर-आयासित-Cपर-उपासित-)कुण्डलानि स्त्रीणां विरेजुर् मुख-पङ्क-जानि सक्तानि हर्म्येष्व् इव पङ्क-जानि //
3.20 SK ततो विमानैर् युवती(करालैः Cकलापैः कौतूहलोद्घाटितवातयानैः श्रीमत् समन्तान् नगरं बभासे वियद्विमानैर् इव साप्सरोभिः //
302 SK ततो विमानैर् युवती-(करालैः Cकलापैः कौतूहल-उद्घाटित-वात-यानैः श्रीमत् सम्-अन्तान् नगरं बभासे वियद्-विमानैर् इव स-अप्सरोभिः //
3.21 SK वातायनानाम् अविशालभावाद् अन्योअन्यगण्डार्पितकुण्डलानाम् मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलापा इव पङ्कजानाम् //
304 SK वात-अयनानाम् अ-विशाल-भावाद् अन्यो-अन्य-गण्ड-अर्पित-कुण्डलानाम् मुखानि रेजुः प्रमद-उत्तमानां बद्धाः कलापा इव पङ्क-जानाम् //
3.22 SK (तं ताः Cतस्मिन् )कुमारं पथि वीक्षमाणाः स्त्रियो बभुर् गाम् इव गन्तुकामाः ऊर्ध्वोन्मुखाश् चैनम् उदीक्षमाणा नरा बभुर् द्याम् इव गन्तुकामाः //
306 SK (तं ताः Cतस्मिन् )कुमारं पथि वीक्षमाणाः स्त्रियो बभुर् गाम् इव गन्तु-कामाः ऊर्ध्व-उन्-मुखाश् च एनम् उदीक्षमाणा नरा बभुर् द्याम् इव गन्तु-कामाः //
3.23 SK दृष्ट्वा च तं राजसुतं स्त्रियस् ता जाज्वल्यमानं वपुषा श्रिया च धन्यास्य भार्येति शनैर् अवोचञ् शुद्धैर् मनोभिः खलु नान्यभावात् //
308 SK दृष्ट्वा च तं राज-सुतं स्त्रियस् ता जाज्वल्यमानं वपुषा श्रिया च धन्य आस्य भार्य ईति शनैर् अवोचञ् शुद्धैर् मनोभिः खलु न अन्य-भावात् //
3.24 SK अयं किल व्यायतपीनबाहू रूपेण साक्षाद् इव पुष्पकेतुः त्यक्त्वा श्रियं धर्मम् उपैष्यतीति तस्मिन् (हि ता Cहिता )गौरवम् एव चक्रुः //
310 SK अयं किल व्यायत-पीन-बाहू रूपेण स-अक्षाद् इव पुष्प-केतुः त्यक्त्वा श्रियं धर्मम् उपैष्यति इति तस्मिन् (हि ता Cहिता )गौरवम् एव चक्रुः //
3.25 SK कीर्णं तथा राजपथं कुमारः पौरैर् विनीतैः शुचिधीरवेषैः तत् पूर्वम् आलोक्य जहर्ष किंचिन् मेने पुनर्भावम् इवात्मनश् च //
312 SK कीर्णं तथा राज-पथं कुमारः पौरैर् विनीतैः शुचि-धीर-वेषैः तत् पूर्वम् आलोक्य जहर्ष किं-चिन् मेने पुनर्-भावम् इवा अत्मनश् च //
3.26 SK पुरं तु तत् स्वर्गम् इव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य //
314 SK पुरं तु तत् स्वर्गम् इव प्रहृष्टं शुद्ध-अधिवासाः समवेक्ष्य देवाः जीर्णं नरं निर्ममिरे प्रयातुं संचोदन-अर्थं क्षिति-प-आत्म-जस्य //
3.27 SK ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् उवाच संग्राहकम् आगतास्थस् तत्रैव निष्कम्पनिविष्टदृष्टिः //
316 SK ततः कुमारो जरय आभिभूतं दृष्ट्वा नरेभ्यः पृथग्-आकृतिं तम् उवाच संग्राहकम् आगत-आस्थस् तत्र एव निष्कम्प-निविष्ट-दृष्टिः //
3.28 SK क एष भोः सूत नरो ऽभ्युपेतः केशैः सितैर् यष्टिविषक्तहस्तः भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर् यदृच्छा //
318 SK क एष भोः सूत नरो ऽभ्युपेतः केशैः सितैर् यष्टि-विषक्त-हस्तः भ्रू-संवृत-अक्षः शिथिल-आनत-अङ्गः किं विक्रिय ऐषा प्रकृतिर् यद्-ऋच्छा //
3.29 SK इत्य् एवम् उक्तः स रथप्रणेता निवेदयाम् आस नृपात्मजाय संरक्ष्यम् अप्य् अर्थम् अदोषदर्शी तैर् एव देवैः कृतबुद्धिमोहः //
320 SK इत्य् एवम् उक्तः स रथ-प्रणेता निवेदयाम् आस नृ-प-आत्म-जाय संरक्ष्यम् अप्य् अर्थम् अ-दोष-दर्शी तैर् एव देवैः कृत-बुद्धि-मोहः //
3.30 SK रूपस्य (हन्त्री Cहर्त्री )व्यसनं बलस्य शोकस्य योनिर् निधनं रतीनाम् नाशः स्मृतीनां रिपुर् इन्द्रियाणाम् एषा जरा नाम ययैष भग्नः //
322 SK रूपस्य (हन्त्री Cहर्त्री )व्यसनं बलस्य शोकस्य योनिर् निधनं रतीनाम् नाशः स्मृतीनां रिपुर् इन्द्रियाणाम् एषा जरा नाम यय ऐष भग्नः //
3.31 SK पीतं ह्य् अनेनापि पयः शिशुत्वे कालेन भूयः (परिसृप्तम् Cपरिमृष्टम् )उर्व्याम् क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जराम् उपेतः //
324 SK पीतं ह्य् अनेन अपि पयः शिशुत्वे कालेन भूयः (परिसृप्तम् Cपरिमृष्टम् )उर्व्याम् क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेन एव जराम् उपेतः //
3.32 SK इत्य् एवम् उक्ते चलितः स किंचिद् राजात्मजः सूतम् इदं बभाषे किम् एष दोषो भविता ममापीत्य् अस्मै ततः सारथिर् अभ्युवाच //
326 SK इत्य् एवम् उक्ते चलितः स किं-चिद् राज-आत्म-जः सूतम् इदं बभाषे किम् एष दोषो भविता मम अपि इत्य् अस्मै ततः सारथिर् अभ्युवाच //
3.33 SK आयुष्मतो ऽप्य् एष वयः(प्रकर्षो Cप्रकर्षान् निःसंशयं कालवशेन भावी एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति (चैव Cचैष )लोकः //
328 SK आयुष्मतो ऽप्य् एष वयः-(प्रकर्षो Cप्रकर्षान् निः-संशयं काल-वशेन भावी एवं जरां रूप-विनाशयित्रीं जानाति च एव इच्छति (च एव Cच एष )लोकः //
3.34 SK ततः स पूर्वाशयशुद्धबुद्धिर् विस्तीर्णकल्पाचितपुण्यकर्मा श्रुत्वा जरां संविविजे महात्मा महाशनेर् घोषम् इवान्तिके गौः //
330 SK ततः स पूर्व-आशय-शुद्ध-बुद्धिर् विस्तीर्ण-कल्प-आचित-पुण्य-कर्मा श्रुत्वा जरां संविविजे महा-आत्मा महा-अशनेर् घोषम् इव अन्तिके गौः //
3.35 SK निःश्वस्य दीर्घं (स्वशिरः Cस शिरः )प्रकम्प्य तमिंश् च जीर्णे विनिवेश्य चक्षुः तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स (संविग्न Cसंविग्नम् )इदं जगाद //
332 SK निःश्वस्य दीर्घं (स्व-शिरः Cस शिरः )प्रकम्प्य तमिंश् च जीर्णे विनिवेश्य चक्षुः तां च एव दृष्ट्वा जनतां स-हर्षां वाक्यं स (संविग्न Cसंविग्नम् )इदं जगाद //
3.36 SK एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च न चैव संवेगम् उपैति लोकः प्रत्यक्षतो ऽपीदृशम् ईक्षमाणः //
334 SK एवं जरा हन्ति च निर्-विशेषं स्मृतिं च रूपं च पराक्रमं च न च एव संवेगम् उपैति लोकः प्रत्य्-अक्षतो ऽपी इ-दृशम् ईक्षमाणः //
3.37 SK एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्य् एव भवान् प्रयातु उद्यानभूमौ हि कुतो रतिर् मे जरा(भये Cभवे )चेतसि वर्तमाने //
336 SK एवं गते सूत निवर्तय अश्वान् शीघ्रं गृहाण्य् एव भवान् प्रयातु उद्यान-भूमौ हि कुतो रतिर् मे जरा-(भये Cभवे )चेतसि वर्तमाने //
3.38 SK अथाज्ञया भर्तृसुतस्य तस्य निवर्तयाम् आस रथं नियन्ता ततः कुमारो भवनं तद् एव चिन्तावशः शून्यम् इव प्रपेदे //
338 SK अथा अज्ञया भर्तृ-सुतस्य तस्य निवर्तयाम् आस रथं नियन्ता ततः कुमारो भवनं तद् एव चिन्ता-वशः शून्यम् इव प्रपेदे //
3.39 SK यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर् जगाम //
340 SK यदा तु तत्र एव न शर्म लेभे जरा जर ईति प्रपरीक्षमाणः ततो नर-इन्द्र-अनुमतः स भूयः क्रमेण तेन एव बहिर् जगाम //
3.40 SK अथापरं व्याधिपरीतदेहं तए एव देवाः ससृजुर् मनुष्यम् दृष्ट्वा च तं सारथिम् आबभाषे शौद्धोदनिस् तद्गतदृष्टिर् एव //
342 SK अथ अ-परं व्याधि-परीत-देहं तए एव देवाः ससृजुर् मनुष्यम् दृष्ट्वा च तं सारथिम् आबभाषे शौद्धोदनिस् तद्-गत-दृष्टिर् एव //
3.41 SK स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्दुगात्रः अम्बेति वाचं करुणं ब्रुवाणः परं (समाश्रित्य Cसमाश्लिष्य )नरः क एषः //
344 SK स्थूल-उदरः श्वास-चलच्-छरीरः स्रस्त-अंस-बाहुः कृश-पाण्दु-गात्रः अम्ब ईति वाचं करुणं ब्रुवाणः परं (समाश्रित्य Cसमाश्लिष्य )नरः क एषः //
3.42 SK ततो ऽब्रवीत् सारथिर् अस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः रोगाभिधानः सुमहान् अनर्थः (शक्तो Cशक्रो )अपि येनैष कृतो ऽस्वतन्त्रः //
346 SK ततो ऽब्रवीत् सारथिर् अस्य सौम्य धातु-प्रकोप-प्रभवः प्रवृद्धः रोग-अभिधानः सु-महान् अन्-अर्थः (शक्तो Cशक्रो )अपि येन एष कृतो ऽस्व-तन्त्रः //
3.43 SK इत्य् ऊचिवान् राजसुतः स भूयस् तं सानुकम्पो नरम् ईक्षमाणः अस्यैव (जातो Cजातः [सिच्; wरोन्ग् सन्धि इन् EHJ])पृथग् एष दोषः सामान्यतो रोगभयं प्रजानाम् //
348 SK इत्य् ऊचिवान् राज-सुतः स भूयस् तं स-अनुकम्पो नरम् ईक्षमाणः अस्य एव (जातो Cजातः [सिच्; wरोन्ग् सन्धि इन् EHJ])पृथग् एष दोषः सामान्यतो रोग-भयं प्रजानाम् //
3.44 SK ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः एवं हि रोगैह् परिपीड्यमानो रुजातुरो हर्षम् उपैति लोकः //
350 SK ततो बभाषे स रथ-प्रणेता कुमार साधारण एष दोषः एवं हि रोगैह् परिपीड्यमानो रुजा-आतुरो हर्षम् उपैति लोकः //
3.45 SK इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण //
352 SK इति श्रुत-अर्थः स विषण्ण-चेताः प्रावेपत-अम्बु-ऊर्मि-गतः शशि ईव इदं च वाक्यं करुणायमानः प्रोवाच किं-चिन्-मृदुना स्वरेण //
3.46 SK इदं च रोगव्यसनं प्रजानां पश्यंश् च विश्रम्भम् उपैति लोकः (विस्तीर्णम् अज्ञानम् Cविस्तीर्णविज्ञानम् )अहो नराणां हसन्ति ये रोगभयैर् अमुक्ताः //
354 SK इदं च रोग-व्यसनं प्रजानां पश्यंश् च विश्रम्भम् उपैति लोकः (विस्तीर्णम् अ-ज्ञानम् Cविस्तीर्ण-विज्ञानम् )अहो नराणां हसन्ति ये रोग-भयैर् अ-मुक्ताः //
3.47 SK निवर्त्यतां सूत (बहिःCवहिः)प्रयाणान् नरेन्द्रसद्मैव रथः प्रयातु श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः //
356 SK निवर्त्यतां सूत (बहिः-Cवहिः-)प्रयाणान् नर-इन्द्र-सद्म एव रथः प्रयातु श्रुत्वा च मे रोग-भयं रतिभ्यः प्रत्याहतं संकुचति इव चेतः //
3.48 SK ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश (वेश्म Cसद्म ) तं द्विस् तथा प्रेक्ष्य च संनिवृत्तं (पर्येषणं Cपुर्य् आगमं )भूमिपतिश् चकार //
358 SK ततो निवृत्तः स निवृत्त-हर्षः प्रध्यान-युक्तः प्रविवेश (वेश्म Cसद्म ) तं द्विस् तथा प्रेक्ष्य च संनिवृत्तं (पर्येषणं Cपुर्य् आगमं )भूमि-पतिश् चकार //
3.49 SK श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तम् आत्मानम् अनेन मेने मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टो ऽपि च नोग्रदण्डः //
360 SK श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तम् आत्मानम् अनेन मेने मार्गस्य शौच-अधिकृताय च एव चुक्रोश रुष्टो ऽपि च न उग्र-दण्डः //
3.50 SK भूयश् च तस्मै विदधे सुताय विशेषयुक्तं विषय(प्रचारम् Cप्रकारम् ) चलेन्द्रियत्वाद् अपि (नाम सक्तो Cनापि शक्तो नास्मान् विजह्याद् इति नाथमानः //
362 SK भूयश् च तस्मै विदधे सुताय विशेष-युक्तं विषय-(प्रचारम् Cप्रकारम् ) चल-इन्द्रियत्वाद् अपि (नाम सक्तो Cन अपि शक्तो न अस्मान् विजह्याद् इति नाथमानः //
3.51 SK यदा च शब्दादिभिर् इन्द्रियार्थैर् अन्तःपुरे नैव सुतो ऽस्य रेमे ततो (बहिर् Cवहिर् )व्यादिशति स्म यात्रां रसान्तरं स्याद् इति मन्यमानः //
364 SK यदा च शब्द-आदिभिर् इन्द्रिय-अर्थैर् अन्तः-पुरे न एव सुतो ऽस्य रेमे ततो (बहिर् Cवहिर् )व्यादिशति स्म यात्रां रस-अन्तरं स्याद् इति मन्यमानः //
3.52 SK स्नेहाच् च भावं तनयस्य बुद्ध्वा (स रागCसंवेग)दोषान् अविचिन्त्य कांश्चित् योग्याः समाज्ञापयति स्म तत्र कलास्व् अभिज्ञा इति वारमुख्याः //
366 SK स्नेहाच् च भावं तनयस्य बुद्ध्वा (स राग-Cसंवेग-)दोषान् अ-विचिन्त्य कांश्-चित् योग्याः समाज्ञापयति स्म तत्र कलास्व् अभिज्ञा इति वार-मुख्याः //
3.53 SK ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च (व्यत्यस्य Cव्यत्यास्य )सूतं च रथं च राजा प्रस्थापयाम् आस बहिः कुमारम् //
368 SK ततो विशेषेण नर-इन्द्र-मार्गे स्व्-अलंकृते च एव परीक्षिते च (व्यत्यस्य Cव्यत्यास्य )सूतं च रथं च राजा प्रस्थापयाम् आस बहिः कुमारम् //
3.54 SK ततस् तथा गच्छति राजपुत्रे तैर् एव देवैर् विहितो गतासुः तं चैव मार्गे मृतम् उह्यमानं सूतः कुमारश् च ददर्श नान्यः //
370 SK ततस् तथा गच्छति राज-पुत्रे तैर् एव देवैर् विहितो गत-असुः तं च एव मार्गे मृतम् उह्यमानं सूतः कुमारश् च ददर्श न अन्यः //
3.55 SK अथाब्रवीद् राजसुतः स सूतं नरैश् चतुर्भिर् ह्रियते क एषः दीनैर् मनुष्यैर् अनुगम्यमानो (<x> भूषितश् चाप्य् Cयो भूषितो ऽश्वास्य् )अवरुद्यते च //
372 SK अथ अब्रवीद् राज-सुतः स सूतं नरैश् चतुर्भिर् ह्रियते क एषः दीनैर् मनुष्यैर् अनुगम्यमानो (x भूषितश् च अप्य् Cयो भूषितो ऽश्वास्य्- )अवरुद्यते च //
3.56 SK ततः स शुद्धात्मभिर् एव देवैः शुद्धाधिवासैर् अभिभूतचेताः अवाच्यम् अप्य् अर्थम् इमं नियन्ता (प्रव्याजहारार्थवदीश्वराय Cप्रव्याजहारार्थविद् ईश्वराय ) //
374 SK ततः स शुद्ध-आत्मभिर् एव देवैः शुद्ध-अधिवासैर् अभिभूत-चेताः अ-वाच्यम् अप्य् अर्थम् इमं नियन्ता (प्रव्याजहार अर्थवद्-ईश्वराय Cप्रव्याजहार अर्थ-विद् ईश्वराय ) //
3.57 SK बुद्धीन्द्रियप्राणगुणैर् वियुक्तः सुप्तो विसंज्ञस् तृणकाष्ठभूतः (संवर्ध्य Cसंबध्य )संरक्ष्य च यत्नवद्भिः (प्रियप्रियैस् Cप्रियाप्रियैस् )त्यज्यतए एष को ऽपि //
376 SK बुद्धि-इन्द्रिय-प्राण-गुणैर् वियुक्तः सुप्तो वि-संज्ञस् तृण-काष्ठ-भूतः (संवर्ध्य Cसंबध्य )संरक्ष्य च यत्नवद्भिः (प्रिय-प्रियैस् Cप्रिय-अ-प्रियैस् )त्यज्यतए एष को ऽपि //
3.58 SK इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिद् उवाच चैनम् किं (केवलो ऽस्यैव Cकेवलस्यैव )जनस्य धर्मः सर्वप्रजानाम् अयम् ईदृशो ऽन्तः //
378 SK इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किं-चिद् उवाच च एनम् किं (केवलो ऽस्य एव Cकेवलस्य एव )जनस्य धर्मः सर्व-प्रजानाम् अयम् ई-दृशो ऽन्तः //
3.59 SK ततः प्रणेता वदति स्म तस्मै सर्वप्रजानाम् (इदम् Cअयम् )अन्त(कर्म Cकर्मा ) हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः //
380 SK ततः प्रणेता वदति स्म तस्मै सर्व-प्रजानाम् (इदम् Cअयम् )अन्त-(कर्म Cकर्मा ) हीनस्य मध्यस्य महा-आत्मनो वा सर्वस्य लोके नियतो विनाशः //
3.60 SK ततः स धीरो ऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण //
382 SK ततः स धीरो ऽपि नर-इन्द्र-सूनुः श्रुत्व ऐव मृत्युं विषसाद सद्यः अंसेन संश्लिष्य च कूबर-अग्रं प्रोवाच निह्रादवता स्वरेण //
3.61 SK इयं च निष्ठा (नियता Cनियतं )प्रजानां प्रमाद्यति त्यक्तभयश् च लोकः मनांसि शङ्के कठिनानि नॄणां स्वस्थास् तथा ह्य् अध्वनि वर्तमानाः //
384 SK इयं च निष्ठा (नियता Cनियतं )प्रजानां प्रमाद्यति त्यक्त-भयश् च लोकः मनांसि शङ्के कठिनानि नॄणां स्व-स्थास् तथा ह्य् अध्वनि वर्तमानाः //
3.62 SK तस्माद् (रथः Cरथं )सूत निवर्त्यतां नो विहार(भूमेर् Cभूमौ )न हि देशकालः जानन् विनाशं कथम् (आर्तिCआर्त्ति)काले सचेतनः स्याद् इह हि प्रमत्तः //
386 SK तस्माद् (रथः Cरथं )सूत निवर्त्यतां नो विहार-(भूमेर् Cभूमौ )न हि देश-कालः जानन् विनाशं कथम् (आर्ति-Cआर्त्ति-)काले स-चेतनः स्याद् इह हि प्रमत्तः //
3.63 SK इति ब्रुवाणे ऽपि नराधिपात्मजे निवर्तयाम् आस स नैव तं रथम् विशेषयुक्तं तु नरेन्द्रशासनात् स पद्मषण्डं वनम् एव निर्ययौ //
388 SK इति ब्रुवाणे ऽपि नर-अधिप-आत्म-जे निवर्तयाम् आस स न एव तं रथम् विशेष-युक्तं तु नर-इन्द्र-शासनात् स पद्म-षण्डं वनम् एव निर्ययौ //
3.64 SK ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् विमानवत् (स कमलCसकमल)चारुदीर्घिकं ददर्श तद् वनम् इव नन्दनं वनम् //
390 SK ततः शिवं कुसुमित-बाल-पाद-पं परिभ्रमत्-प्रमुदित-मत्त-कोकिलम् विमानवत् (स कमल-Cस-कमल-)चारु-दीर्घिकं ददर्श तद् वनम् इव नन्दनं वनम् //
3.65 SK वराङ्गनागणकलिलं नृपात्मजस् ततो बलाद् वनम् (अतिनीयते Cअभिनीयते )स्म तत् वराप्सरो(वृतम् Cनृत्यम् )अलकाधिपालयं नवव्रतो मुनिर् इव विघ्नकातरः //
392 SK वर-अङ्गना-गण-कलिलं नृ-प-आत्म-जस् ततो बलाद् वनम् (अतिनीयते Cअभिनीयते )स्म तत् वर-अप्सरो-(वृतम् Cनृत्यम् )अलका-अधिप-आलयं नव-व्रतो मुनिर् इव विघ्न-कातरः //
393 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये संवेगो१त्पत्तिर् नाम तृतीयः सर्गः -- ३ --]]
4.1 SK ततस् तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः $ प्रत्युज्जग्मुर् नृपसुतं प्राप्तं वरम् इव स्त्रियः //
395 SK ततस् तस्मात् पुर-उद्यानात् कौतूहल-चल-ईक्षणाः $ प्रत्युज्जग्मुर् नृ-प-सुतं प्राप्तं वरम् इव स्त्रियः //
4.2 SK अभिगम्य च तास् तस्मै विस्मयोत्फुल्ललोचनाः चक्रिरे समुदाचारं पद्मकोशनिभैः करैः //
397 SK अभिगम्य च तास् तस्मै विस्मय-उत्फुल्ल-लोचनाः चक्रिरे समुदाचारं पद्म-कोश-निभैः करैः //
4.3 SK तस्थुश् च परिवार्यैनं मन्मथाक्षिप्तचेतसः निश्चलैः प्रितिविकचैः पिबन्त्य इव लोचनैः //
399 SK तस्थुश् च परिवार्य एनं मन्मथ-आक्षिप्त-चेतसः निश्-चलैः प्रिति-विकचैः पिबन्त्य इव लोचनैः //
4.4 SK तं हि ता मेनिरे नार्यः कामो विग्रहवान् इति शोभितं लक्षणैर् दीप्तैः सहजैर् भूषणैर् इव //
401 SK तं हि ता मेनिरे नार्यः कामो विग्रहवान् इति शोभितं लक्षणैर् दीप्तैः सह-जैर् भूषणैर् इव //
4.5 SK सौम्यत्वाच् चैव धैर्याच् च काश्चिद् एनं प्रजज्ञिरे अवतीर्णो महीं साक्षाद् (गूढांशुश् Cसुधांशुश् )चन्द्रमा (इति Cइव ) //
403 SK सौम्यत्वाच् च एव धैर्याच् च काश्-चिद् एनं प्रजज्ञिरे अवतीर्णो महीं स-अक्षाद् (गूढ-अंशुश् Cसुधा-अंशुश् )चन्द्र-मा (इति Cइव ) //
4.6 SK तस्य ता वपुषाक्षिप्ता (निगृहीतं Cनिर्ग्रहीतुं )जजृम्भिरे अन्योअन्यं दृष्टिभिर् (हत्वा Cगत्वा शनैश् च विनिशश्वसुः //
405 SK तस्य ता वपुषा आक्षिप्ता (निगृहीतं Cनिर्ग्रहीतुं )जजृम्भिरे अन्यो-अन्यं दृष्टिभिर् (हत्वा Cगत्वा शनैश् च विनिशश्वसुः //
4.7 SK एवं ता दृष्टिमात्रेण नार्यो ददृशुर् एव तम् न व्याजह्रुर् न जहसुः प्रभावेणास्य यन्त्रिताः //
407 SK एवं ता दृष्टि-मात्रेण नार्यो ददृशुर् एव तम् न व्याजह्रुर् न जहसुः प्रभावेण अस्य यन्त्रिताः //
4.8 SK तास् तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः पुरोहितसुतो धीमान् उदायी वाक्यम् अब्रवीत् //
409 SK तास् तथा तु निर्-आरम्भा दृष्ट्वा प्रणय-विक्लवाः पुरो-हित-सुतो धीमान् उदायी वाक्यम् अब्रवीत् //
4.9 SK सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः रूपचातुर्यसंपन्नाः स्वगुणैर् मुख्यतां गताः //
411 SK सर्वाः सर्व-कला-ज्ञाः स्थ भाव-ग्रहण-पण्डिताः रूप-चातुर्य-संपन्नाः स्व-गुणैर् मुख्यतां गताः //
4.10 SK (शोभयेत Cशोभयेत )गुणैर् एभिर् अपि तान् उत्तरान् कुरून् कुवेरस्यापि (चाक्रीडं Cच क्रीडं प्राग् एव वसुधाम् इमाम् //
413 SK (शोभयेत Cशोभयेत )गुणैर् एभिर् अपि तान् उत्तरान् कुरून् कुवेरस्य अपि (चा अक्रीडं Cच क्रीडं प्राग् एव वसु-धाम् इमाम् //
4.11 SK शक्ताश् चालयितुं यूयं वीतरागान् ऋषीन् अपि अप्सरोभिश् च कलितान् ग्रहीतुं विबुधान् अपि //
415 SK शक्ताश् चालयितुं यूयं वीत-रागान् ऋषीन् अपि अप्सरोभिश् च कलितान् ग्रहीतुं विबुधान् अपि //
4.12 SK भावज्ञानेन हावेन (रूपचातुर्यCचातुर्या रूप)संपदा स्त्रीणाम् एव च शक्ताः स्थ संरागे किं पुनर् नृणाम् //
417 SK भाव-ज्ञानेन हावेन (रूप-चातुर्य-Cचातुर्या रूप-)संपदा स्त्रीणाम् एव च शक्ताः स्थ संरागे किं पुनर् नृणाम् //
4.13 SK तासाम् एवंविधानां वो (वियुक्तानां Cनियुक्तानां )स्वगोचरे इयम् एवंविधा चेष्टा न तुष्टो ऽस्म्य् आर्जवेन वः //
419 SK तासाम् एवं-विधानां वो (वियुक्तानां Cनियुक्तानां )स्व-गो-चरे इयम् एवं-विधा चेष्टा न तुष्टो ऽस्म्य् आर्जवेन वः //
4.14 SK इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम् सदृशं चेष्टितं हि स्याद् अपि वा गोपयोषिताम् //
421 SK इदं नव-वधूनां वो ह्री-निकुञ्चित-चक्षुषाम् स-दृशं चेष्टितं हि स्याद् अपि वा गो-प-योषिताम् //
4.15 SK (यद् Cयद्य् )अपि स्याद् अयं (धीरः Cवीरः श्रीप्रभावान् महान् इति स्त्रीणाम् अपि महत् तेज इतः कार्यो ऽत्र निश्चयः //
423 SK (यद् Cयद्य् )अपि स्याद् अयं (धीरः Cवीरः श्री-प्रभावान् महान् इति स्त्रीणाम् अपि महत् तेज इतः कार्यो ऽत्र निश्चयः //
4.16 SK पुरा हि काशिसुन्दर्या वेशवध्वा महान् ऋषिः ताडितो ऽभूत् (पदा व्यासो Cपदन्यासाद् दुर्धर्षो (देवतैर् Cदैवतैर् )अपि //
425 SK पुरा हि काशि-सुन्दर्या वेश-वध्वा महान् ऋषिः ताडितो ऽभूत् (पदा व्यासो Cपद-न्यासाद् दुर्-धर्षो (देवतैर् Cदैवतैर् )अपि //
4.17 SK मन्थालगौतमो भिक्षुर् जङ्घया (वारCबाल)मुख्यया पिप्रीषुश् च तदर्थार्थं व्यसून् निरहरत् पुरा //
427 SK मन्थाल-गौतमो भिक्षुर् जङ्घया (वार-Cबाल-)मुख्यया पिप्रीषुश् च तद्-अर्थ-अर्थं व्य्-असून् निरहरत् पुरा //
4.18 SK गौतमं दीर्घतपसं महर्२षिं दीर्घजीविनम् योषित् संतोषयाम् आस वर्णस्थानावरा सती //
429 SK गौतमं दीर्घ-तपसं महर्२षिं दीर्घ-जीविनम् योषित् संतोषयाम् आस वर्ण-स्थान-अवरा सती //
4.19 SK ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्व् अपण्डितम् उपायैर् विविधैः शान्ता जग्राह च जहार च //
431 SK ऋष्यशृङ्गं मुनि-सुतं तथ ऐव स्त्रीष्व् अ-पण्डितम् उपायैर् वि-विधैः शान्ता जग्राह च जहार च //
4.20 SK विश्वामित्रो महर्२षिश् च विगाढो ऽपि (महत् तपः Cमहत्तपाः ) (दश वर्षाण्य् अहर् मेने Cदशवर्षाण्य् अरण्यस्थो घृताच्याप्सरसा हृतः //
433 SK विश्वा-मित्रो महर्२षिश् च विगाढो ऽपि (महत् तपः Cमहत्-तपाः ) (दश वर्षाण्य् अहर् मेने Cदश-वर्षाण्य् अरण्य-स्थो घृताच्य आप्सरसा हृतः //
4.21 SK एवमादीन् ऋषींस् तांस् तान् अनयन् विक्रियां स्त्रियः ललितं पूर्ववयसं किं पुनर् नृपतेः सुतम् //
435 SK एवम्-आदीन् ऋषींस् तांस् तान् अनयन् विक्रियां स्त्रियः ललितं पूर्व-वयसं किं पुनर् नृ-पतेः सुतम् //
4.22 SK तद् एवं सति विश्रब्धं प्रयतध्वं तथा यथा इयं नृपस्य वंशश्रीर् इतो न स्यात् पराङ्मुखी //
437 SK तद् एवं सति विश्रब्धं प्रयतध्वं तथा यथा इयं नृ-पस्य वंश-श्रीर् इतो न स्यात् पराङ्-मुखी //
4.23 SK या हि काश्चिद् युवतयो हरन्ति सदृशं जनम् निकृष्टोत्कृष्टयोर् भावं या गृह्णन्ति (ता तु [Wरोन्ग् सन्धि इन् EHJ??] Cतु ताः )स्त्रियः //
439 SK या हि काश्-चिद् युवतयो हरन्ति स-दृशं जनम् निकृष्ट-उत्कृष्टयोर् भावं या गृह्णन्ति (ता तु [Wरोन्ग् सन्धि इन् EHJ??] Cतु ताः )स्त्रियः //
4.24 SK इत्य् उदायिवचः श्रुत्वा ता विद्धा इव योषितः समारुरुहुर् आत्मानं कुमारग्रहणं प्रति //
441 SK इत्य् उदायि-वचः श्रुत्वा ता विद्धा इव योषितः समारुरुहुर् आत्मानं कुमार-ग्रहणं प्रति //
4.25 SK ता भ्रूभिः प्रेक्षितैर् (हावैर् Cभावैर् हसितैर् (लडितैर् Cललितैर् )गतैः चक्रुर् आक्षेपिकाश् चेष्टा भीतभीता इवाङ्गनाः //
443 SK ता भ्रूभिः प्रेक्षितैर् (हावैर् Cभावैर् हसितैर् (लडितैर् Cललितैर् )गतैः चक्रुर् आक्षेपिकाश् चेष्टा भीत-भीता इव अङ्गनाः //
4.26 SK राज्ञस् तु विनियोगेन कुमारस्य च मार्दवात् (जहुः Cजह्रुः )क्षिप्रम् अविश्रम्भं मदेन मदनेन च //
445 SK राज्ञस् तु विनियोगेन कुमारस्य च मार्दवात् (जहुः Cजह्रुः )क्षिप्रम् अ-विश्रम्भं मदेन मदनेन च //
4.27 SK अथ नारीजनवृतः कुमारो व्यचरद् वनम् वासितायूथसहितह् करीव हिमवद् वनम् //
447 SK अथ नारी-जन-वृतः कुमारो व्यचरद् वनम् वासिता-यूथ-सहितह् करि ईव हिमवद् वनम् //
4.28 SK स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः आक्रीडए इव (विभ्राजे Cबभ्राजे विवस्वान् अप्सरोवृतः //
449 SK स तस्मिन् कानने रम्ये जज्वाल स्त्री-पुरः-सरः आक्रीडए इव (विभ्राजे Cबभ्राजे विवस्वान् अप्सरो-वृतः //
4.29 SK मदेनावर्जिता नाम तं काश्चित् तत्र योषितः कठिनैः पस्पृशुः पीनैः (संहतैर् Cसंघट्टैर् )वल्गुभिः स्तनैः //
451 SK मदेन अ-वर्जिता नाम तं काश्-चित् तत्र योषितः कठिनैः पस्पृशुः पीनैः (संहतैर् Cसंघट्टैर् )वल्गुभिः स्तनैः //
4.30 SK स्रस्तांसकोमलालम्बमृदुबाहुलताबला अनृतं स्खलितं काचित् कृत्वैनं सस्वजे बलात् //
453 SK स्रस्त-अंस-कोमल-आलम्बमृदु-बाहु-लत आ-बला अन्-ऋतं स्खलितं का-चित् कृत्व ऐनं सस्वजे बलात् //
4.31 SK काचित् ताम्राधरौष्ठेन मुखेनासवगन्धिना विनिशश्वास कर्णे ऽस्य रहस्यं श्रूयताम् इति //
455 SK का-चित् ताम्र-अधर-ओष्ठेन मुखेना असव-गन्धिना विनिशश्वास कर्णे ऽस्य रहस्यं श्रूयताम् इति //
4.32 SK काचिद् आज्ञापयन्तीव प्रोवाचार्द्रानुलेपना इह भक्तिं कुरुष्वेति (हस्तसंश्लेषलिप्सया Cहस्तं संश्लिष्य लिप्सया ) //
457 SK का-चिद् आज्ञापयन्ति ईव प्रोवाचा अर्द्र-अनुलेपना इह भक्तिं कुरुष्व इति (हस्त-संश्लेष-लिप्सया Cहस्तं संश्लिष्य लिप्सया ) //
4.33 SK मुहुर् मुहुर् मदव्याजस्रस्तनीलांशुकापरा आलक्ष्यरशना रेजे स्फुरद्विद्युद् इव क्षपा //
459 SK मुहुर् मुहुर् मद-व्याजस्रस्त-नील-अंशुक आ-परा आलक्ष्य-रशना रेजे स्फुरद्-विद्युद् इव क्षपा //
4.34 SK काश्चित् कनककाञ्चीभिर् मुखराभिर् इतस् ततः बभ्रमुर् दर्शयन्त्यो ऽस्य श्रोणीस् तन्वंशुकावृताः //
461 SK काश्-चित् कनक-काञ्चीभिर् मुखराभिर् इतस् ततः बभ्रमुर् दर्शयन्त्यो ऽस्य श्रोणीस् तन्व्-अंशुक-आवृताः //
4.35 SK चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् //
463 SK चूत-शाखां कुसुमितां प्रगृह्य अन्या ललम्बिरे सु-वर्ण-कलश-प्रख्यान् दर्शयन्त्यः पयो-धरान् //
4.36 SK काचित् पद्मवनाद् एत्य सपद्मा पद्मलोचना पद्मवक्त्रस्य पार्श्वे ऽस्य पद्मश्रीर् इव तस्थुषी //
465 SK का-चित् पद्म-वनाद् एत्य स-पद्मा पद्म-लोचना पद्म-वक्त्रस्य पार्श्वे ऽस्य पद्म-श्रीर् इव तस्थुषी //
4.37 SK मधुरं गीतम् अन्वर्थं काचित् साभिनयं जगौ तं स्वस्थं चोदयन्तीव वञ्चितो ऽसीत्य् अवेक्षितैः //
467 SK मधुरं गीतम् अन्व्-अर्थं का-चित् स-अभिनयं जगौ तं स्व-स्थं चोदयन्ति ईव वञ्चितो ऽसि इत्य् अवेक्षितैः //
4.38 SK शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा प्रावृत्यानुचकारास्य चेष्टितं (धीरCवीर)लीलया //
469 SK शुभेन वदनेन अन्या भ्रू-कार्मुक-विकर्षिणा प्रावृत्य अनुचकार अस्य चेष्टितं (धीर-Cवीर-)लीलया //
4.39 SK पीनवल्गुस्तनी काचिद् (धासाघूर्णितCवाताघूर्णित)कुण्डला उच्चैर् अवजहासैनं समाप्नोतु भवान् इति //
471 SK पीन-वल्गु-स्तनी का-चिद् (धास-आघूर्णित-Cवात-आघूर्णित-)कुण्डला उच्चैर् अवजहास एनं समाप्नोतु भवान् इति //
4.40 SK अपयान्तं तथैवान्या बबन्धुर् माल्यदामभिः काश्चित् साक्षेपमधुरैर् जगृहुर् वचनाङ्कुशैः //
473 SK अपयान्तं तथ ऐव अन्या बबन्धुर् माल्य-दामभिः काश्-चित् स-आक्षेप-मधुरैर् जगृहुर् वचन-अङ्कुशैः //
4.41 SK प्रतियोगार्थिनी काचिद् गृहीत्वा चूतवल्लरीम् इदं पुष्पं तु कस्येति पप्रच्छ मदविक्लवा //
475 SK प्रतियोग-अर्थिनी का-चिद् गृहीत्वा चूत-वल्लरीम् इदं पुष्पं तु कस्य इति पप्रच्छ मद-विक्लवा //
4.42 SK काचित् पुरुषवत् कृत्वा गतिं संस्थानम् एव च उवाचैनं जितः स्त्रीभिर् जय भो पृथिवीम् इमाम् //
477 SK का-चित् पुरुषवत् कृत्वा गतिं संस्थानम् एव च उवाच एनं जितः स्त्रीभिर् जय भो पृथिवीम् इमाम् //
4.43 SK अथ लोलेक्सणा काचिज् जिघ्रन्ती नीलम् उत्पलम् किंचिन्मदकलैर् वाक्यैर् नृपात्मजम् अभाषत //
479 SK अथ लोल-ईक्सणा का-चिज् जिघ्रन्ती नीलम् उत्पलम् किं-चिन्-मद-कलैर् वाक्यैर् नृ-प-आत्म-जम् अभाषत //
4.44 SK पश्य भर्तश् चितं चूतं कुसुमैर् मधुगन्धिभिः हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति //
481 SK पश्य भर्तश् चितं चूतं कुसुमैर् मधु-गन्धिभिः हेम-पञ्जर-रुद्धो वा कोकिलो यत्र कूजति //
4.45 SK अशोको दृश्यताम् एष कामिशोकविवर्धनः रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना //
483 SK अ-शोको दृश्यताम् एष कामि-शोक-विवर्धनः रुवन्ति भ्रमरा यत्र दह्यमाना इव अग्निना //
4.46 SK चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया //
485 SK चूत-यष्ट्या समाश्लिष्टो दृश्यतां तिलक-द्रुमः शुक्ल-वासा इव नरः स्त्रिया पीत-अङ्ग-रागया //
4.47 SK फुल्लं (कुरुबकं Cकुरुवकं )पश्य (निर्भुक्तालक्तकCनिर्मुक्तालक्तक)प्रभम् यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः //
487 SK फुल्लं (कुरुबकं Cकुरुवकं )पश्य (निर्भुक्त-अलक्तक-Cनिर्मुक्त-अलक्तक-)प्रभम् यो नख-प्रभया स्त्रीणां निर्भर्त्सित इवा अनतः //
4.48 SK बालाशोकश् च निचितो दृश्यताम् एष पल्लवैः यो ऽस्माकं हस्तशोभाभिर् लज्जमान इव स्थितः //
489 SK बाल-अ-शोकश् च निचितो दृश्यताम् एष पल्लवैः यो ऽस्माकं हस्त-शोभाभिर् लज्जमान इव स्थितः //
4.49 SK दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः पाण्डुरांशुकसंवीतां शयानां प्रमदाम् इव //
491 SK दीर्घिकां प्रावृतां पश्य तीर-जैः सिन्दु-वारकैः पाण्डुर-अंशुक-संवीतां शयानां प्रमदाम् इव //
4.50 SK दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्य् असौ जले पृष्ठतः प्रेष्यवद् भार्याम् अनुवर्त्य् अनुगच्छति //
493 SK दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्य् असौ जले पृष्ठतः प्रेष्यवद् भार्याम् अनुवर्त्य्- अनुगच्छति //
4.51 SK मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः अपरः कोकिलो (अन्वक्षं प्रतिश्रुत्केव Cअनुत्कः प्रतिश्रुत्येव )कूजति //
495 SK मत्तस्य पर-पुष्टस्य रुवतः श्रूयतां ध्वनिः अ-परः कोकिलो (अन्व्-अक्षं प्रतिश्रुत्क ईव Cअन्-उत्कः प्रतिश्रुत्य इव )कूजति //
4.52 SK अपि नाम विहंगानां (वसन्तेनाहृतो Cवसन्तेनाहितो )मदः न तु (चिन्तयतो ऽचिन्त्यं Cचिन्तयतश् चित्तं जनस्य प्राज्ञमानिनः //
497 SK अपि नाम विहं-गानां (वसन्तेना अहृतो Cवसन्तेना अहितो )मदः न तु (चिन्तयतो ऽचिन्त्यं Cचिन्तयतश् चित्तं जनस्य प्राज्ञ-मानिनः //
4.53 SK इत्य् एवं ता युवतयो मन्मथोद्दामचेतसः कुमारं विविधैस् तैस् तैर् उपचक्रमिरे नयैः //
499 SK इत्य् एवं ता युवतयो मन्मथ-उद्दाम-चेतसः कुमारं वि-विधैस् तैस् तैर् उपचक्रमिरे नयैः //
4.54 SK एवम् आक्षिप्यमाणो ऽपि स तु धैर्यावृतेन्द्रियः मर्तव्यम् इति सोद्वेगो न जहर्ष न (विव्यथे Cसिस्मिये ) //
501 SK एवम् आक्षिप्यमाणो ऽपि स तु धैर्य-आवृत-इन्द्रियः मर्तव्यम् इति स-उद्वेगो न जहर्ष न (विव्यथे Cसिस्मिये ) //
4.55 SK तासां (तत्त्वे ऽनवस्थानं Cतत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः (समं विग्नेन Cससंविग्नेन )धीरेण चिन्तयाम् आस चेतसा //
503 SK तासां (तत्त्वे ऽन्-अवस्थानं Cतत्त्वेन वस्थानं दृष्ट्वा स पुरुष-उत्तमः (समं विग्नेन Cस-संविग्नेन )धीरेण चिन्तयाम् आस चेतसा //
4.56 SK किं (व् इमा Cविना )नावगच्छन्ति चपलं यौवनं स्त्रियः यतो रूपेण (संमत्तं जरा यन् Cसंपन्नं जरेयं )नाशयिष्यति //
505 SK किं (व् इमा Cविना )न अवगच्छन्ति चपलं यौवनं स्त्रियः यतो रूपेण (संमत्तं जरा यन् Cसंपन्नं जर ईयं )नाशयिष्यति //
4.57 SK नूनम् एता न पश्यन्ति कस्यचिद् रोगसंप्लवम् तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि //
507 SK नूनम् एता न पश्यन्ति कस्य-चिद् रोग-संप्लवम् तथा हृष्टा भयं त्यक्त्वा जगति व्याधि-धर्मिणि //
4.58 SK अनभिज्ञाश् च सुव्यक्तं मृत्योः सर्वापहारिणः (ततः Cतथा )स्वस्था निर्(उद्विग्नाः Cउद्वेगाः क्रीडन्ति च हसन्ति च //
509 SK अन्-अभिज्ञाश् च सु-व्यक्तं मृत्योः सर्व-अपहारिणः (ततः Cतथा )स्व-स्था निर्-(उद्विग्नाः Cउद्वेगाः क्रीडन्ति च हसन्ति च //
4.59 SK जरां (व्याधिं च मृत्युं Cमृत्युं च व्याधिं )च को हि जानन् सचेतनः स्वस्थस् तिष्ठेन् निषीदेद् वा (शयेद् Cसुपेद् )वा किं पुनर् हसेत् //
511 SK जरां (व्याधिं च मृत्युं Cमृत्युं च व्याधिं )च को हि जानन् स-चेतनः स्व-स्थस् तिष्ठेन् निषीदेद् वा (शयेद् Cसुपेद् )वा किं पुनर् हसेत् //
4.60 SK यस् तु दृष्ट्वा परं जीर्णं व्याधितं मृतम् एव च स्वस्थो भवति नोद्विग्नो यथाचेतास् तथैव सः //
513 SK यस् तु दृष्ट्वा परं जीर्णं व्याधितं मृतम् एव च स्व-स्थो भवति न उद्विग्नो यथ आ-चेतास् तथ ऐव सः //
4.61 SK वियुज्यमाने (हि Cअपि )तरौ पुष्पैर् अपि फलैर् अपि पतति च्छिद्यमाने वा तरुर् अन्यो न शोचते //
515 SK वियुज्यमाने (हि Cअपि )तरौ पुष्पैर् अपि फलैर् अपि पतति च्छिद्यमाने वा तरुर् अन्यो न शोचते //
4.62 SK इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् उदायी नीतिशास्त्रज्ञस् तम् उवाच सुहृत्तया //
517 SK इति ध्यान-परं दृष्ट्वा विषयेभ्यो गत-स्पृहम् उदायी नीति-शास्त्र-ज्ञस् तम् उवाच सु-हृत्तया //
4.63 SK अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल यस्मात् त्वयि विवक्षा मे तया प्रणयवत्तया //
519 SK अहं नृ-पतिना दत्तः सखा तुभ्यं क्षमः किल यस्मात् त्वयि विवक्षा मे तया प्रणयवत्तया //
4.64 SK अहितात् प्रतिषेधश् च हिते चानुप्रवर्तनम् व्यसने चापरित्यागस् त्रिविधं मित्रलक्षणम् //
521 SK अ-हितात् प्रतिषेधश् च हिते च अनुप्रवर्तनम् व्यसने च अ-परित्यागस् त्रि-विधं मित्र-लक्षणम् //
4.65 SK सो ऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात् पराङ्(मुखः Cमुखम् ) यदि (त्वा समुपेक्षेय Cत्वां समुपेक्षेयं न भवेन् मित्रता मयि //
523 SK सो ऽहं मैत्रीं प्रतिज्ञाय पुरुष-अर्थात् पराङ्-(मुखः Cमुखम् ) यदि (त्वा समुपेक्षेय Cत्वां समुपेक्षेयं न भवेन् मित्रता मयि //
4.66 SK तद् ब्रवीमि सुहृद् भूत्वा तरुणस्य वपुष्मतः इदं न प्रतिरूपं ते स्त्रीष्व् अदाक्षिण्यम् ईदृशम् //
525 SK तद् ब्रवीमि सु-हृद् भूत्वा तरुणस्य वपुष्मतः इदं न प्रति-रूपं ते स्त्रीष्व् अ-दाक्षिण्यम् ई-दृशम् //
4.67 SK अनृतेनापि नारीणां युक्तं समनुवर्तनम् तद्व्रीडापरिहारार्थम् आत्मरत्यर्थम् एव च //
527 SK अन्-ऋतेन अपि नारीणां युक्तं समनुवर्तनम् तद्-व्रीडा-परिहार-अर्थम् आत्म-रत्य्-अर्थम् एव च //
4.68 SK संनतिस् चानुवृत्तिश् च स्त्रीणां हृदयबन्धनम् स्नेहस्य हि गुणा योनिर् मानकामाश् च योषितः //
529 SK संनतिस् च अनुवृत्तिश् च स्त्रीणां हृदय-बन्धनम् स्नेहस्य हि गुणा योनिर् मान-कामाश् च योषितः //
4.69 SK तद् अर्हसि विशालाक्ष हृदये ऽपि पराङ्मुखे रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् //
531 SK तद् अर्हसि विशाल-अक्ष हृदये ऽपि पराङ्-मुखे रूपस्य अस्य अनु-रूपेण दाक्षिण्येन अनुवर्तितुम् //
4.70 SK दाक्षिण्यम् औषधं स्त्रीणां दाक्षिण्यं भूषणं परम् दाक्षिण्यरहितं रूपं निष्पुष्पम् इव काननम् //
533 SK दाक्षिण्यम् औषधं स्त्रीणां दाक्षिण्यं भूषणं परम् दाक्षिण्य-रहितं रूपं निष्-पुष्पम् इव काननम् //
4.71 SK किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः विषयान् दुर्लभांल् लब्ध्वा न ह्य् अवज्ञातुम् अर्हसि //
535 SK किं वा दाक्षिण्य-मात्रेण भावेन अस्तु परिग्रहः विषयान् दुर्-लभांल् लब्ध्वा न ह्य् अवज्ञातुम् अर्हसि //
4.72 SK कामं परम् इति ज्ञात्वा देवो ऽपि हि पुरंदरः गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा //
537 SK कामं परम् इति ज्ञात्वा देवो ऽपि हि पुरं-दरः गौतमस्य मुनेः पत्नीम् अहल्यां चकमे पुरा //
4.73 SK अगस्त्यः प्रार्थयाम् आस सोमभार्यां च रोहिणीम् तस्मात् तत्स(दृशीं Cदृशं )लेभे लोपामुद्राम् इति श्रुतिः //
539 SK अगस्त्यः प्रार्थयाम् आस सोम-भार्यां च रोहिणीम् तस्मात् तत्-स-(दृशीं Cदृशं )लेभे लोपा-मुद्राम् इति श्रुतिः //
4.74 SK (उतथ्यस्य Cऔतथ्यस्य )च भार्यायां ममतायां महा(तपः Cतपाः ) मारुत्यां जनयाम् आस भरद्वाजं (बृहस्Cवृहस्)पतिः //
541 SK (उतथ्यस्य Cऔतथ्यस्य )च भार्यायां ममतायां महा-(तपः Cतपाः ) मारुत्यां जनयाम् आस भरद्-वाजं (बृहस्-Cवृहस्-)पतिः //
4.75 SK (बृहस्Cवृहस्)पतेर् महिष्यां च जुह्वत्यां जुह्वतां वरः बुधं विबुध(कर्माणं Cधर्माणं जनयाम् आस चन्द्रमाः //
543 SK (बृहस्-Cवृहस्-)पतेर् महिष्यां च जुह्वत्यां जुह्वतां वरः बुधं विबुध-(कर्माणं Cधर्माणं जनयाम् आस चन्द्र-माः //
4.76 SK कालीम् चैव पुरा कन्यां जलप्रभवसंभवाम् जगाम यमुनातीरे जातरागः पराशरः //
545 SK कालीम् च एव पुरा कन्यां जल-प्रभव-संभवाम् जगाम यमुना-तीरे जात-रागः पराशरः //
4.77 SK मातङ्ग्याम् अक्षमालायां गर्हितायां रिरंसया कपिञ्जलादं तनय्.अम् वसिष्ठो ऽजनयन् मुनिः //
547 SK मातङ्ग्याम् अक्ष-मालायां गर्हितायां रिरंसया कपिञ्जल-अदं तनय्.अम् वसिष्ठो ऽजनयन् मुनिः //
4.78 SK ययातिश् चैव राजर्१षिर् वयस्य् अपि विनिर्गते विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने //
549 SK ययातिश् च एव राजर्१षिर् वयस्य् अपि विनिर्गते विश्वाच्य आप्सरसा स-अर्धं रेमे चैत्ररथे वने //
4.79 SK स्त्रीसंसर्गं विनाशान्तं पाण्डुर् ज्ञात्वापि कौरवः माद्रीरूपगुणाक्षिप्तः सिषेवे कामजम् सुखम् //
551 SK स्त्री-संसर्गं विनाश-अन्तं पाण्डुर् ज्ञात्व आपि कौरवः माद्री-रूप-गुण-आक्षिप्तः सिषेवे काम-जम् सुखम् //
4.80 SK करालजनकश् चैव हृत्वा ब्राह्मणकन्यकाम् अवाप भ्रंशम् अप्य् (एवं Cएव न तु (सेजे न Cत्यजेच् च )मन्मथम् //
553 SK कराल-जनकश् च एव हृत्वा ब्राह्मण-कन्यकाम् अवाप भ्रंशम् अप्य् (एवं Cएव न तु (सेजे न Cत्यजेच् च )मन्मथम् //
4.81 SK एवमाद्या महात्मानो विषयान् गर्हितान् अपि रतिहेतोर् बुभुजिरे प्राग् एव गुणसंहितान् //
555 SK एवम्-आद्या महा-आत्मानो विषयान् गर्हितान् अपि रति-हेतोर् बुभुजिरे प्राग् एव गुण-संहितान् //
4.82 SK त्वं पुनर् न्यायतः प्राप्तान् बलवान् रूपवान् युवा विषयान् अवजानासि यत्र सक्तम् इदं जगत् //
557 SK त्वं पुनर् न्यायतः प्राप्तान् बलवान् रूपवान् युवा विषयान् अवजानासि यत्र सक्तम् इदं जगत् //
4.83 SK इति श्रुत्वा वचस् तस्य श्लक्ष्णम् आगमसंहितम् मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत //
559 SK इति श्रुत्वा वचस् तस्य श्लक्ष्णम् आगम-संहितम् मेघ-स्तनित-निर्घोषः कुमारः प्रत्यभाषत //
4.84 SK उपपन्नम् इदं वाक्यं सौहार्दव्यञ्जकं त्वयि अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे //
561 SK उपपन्नम् इदं वाक्यं सौहार्द-व्यञ्जकं त्वयि अत्र च त्व आनुनेष्यामि यत्र मा दुष्ठु मन्यसे //
4.85 SK नावजानामि (विषयान् Cविषयाञ् जाने लोकं तदात्मकम् अनित्यं तु जगन् मत्वा नात्र मे रमते मनः //
563 SK न अवजानामि (विषयान् Cविषयाञ् जाने लोकं तद्-आत्मकम् अ-नित्यं तु जगन् मत्वा न अत्र मे रमते मनः //
4.86 SK जरा व्याधिश् च मृत्युश् च यदि न स्याद् इदं त्रयम् ममापि हि मनोज्ञेषु विषयेषु रतिर् भवेत् //
565 SK जरा व्याधिश् च मृत्युश् च यदि न स्याद् इदं त्रयम् मम अपि हि मनो-ज्ञेषु विषयेषु रतिर् भवेत् //
4.87 SK नित्यं यद्य् अपि हि स्त्रीणाम् एतद् एव वपुर् भवेत् (दोषवत्स्व् अपि Cससंवित्कस्य )कामेषु (कामं रज्येत मे मनः Cतथापि न रतिः क्षमा ) //
567 SK नित्यं यद्य् अपि हि स्त्रीणाम् एतद् एव वपुर् भवेत् (दोषवत्स्व् अपि Cस-संवित्कस्य )कामेषु (कामं रज्येत मे मनः Cतथ आपि न रतिः क्षमा ) //
4.88 SK यदा तु (जरयापीतं Cजरया पीतं रूपम् आसां भविष्यति आत्मनो ऽप्य् अनभिप्रेतं मोहात् तत्र रतिर् भवेत् //
569 SK यदा तु (जरया आपीतं Cजरया पीतं रूपम् आसां भविष्यति आत्मनो ऽप्य् अन्-अभिप्रेतं मोहात् तत्र रतिर् भवेत् //
4.89 SK मृत्युव्याधिजरा(धर्मा Cधर्मो मृत्युव्याधिजरात्मभिः रममाणो (ह्य् Cअप्य् )असंविग्नः समानो मृगपक्षिभिः //
571 SK मृत्यु-व्याधि-जरा-(धर्मा Cधर्मो मृत्यु-व्याधि-जरा-आत्मभिः रममाणो (ह्य् Cअप्य् )अ-संविग्नः समानो मृग-पक्षिभिः //
4.90 SK यद् अप्य् आत्थ महात्मानस् ते ऽपि कामात्मका इति संवेगो (अत्रैव Cअत्र न )कर्तव्यो यदा तेषाम् अपि क्षयः //
573 SK यद् अप्य् आत्थ महा-आत्मानस् ते ऽपि काम-आत्मका इति संवेगो (अत्र एव Cअत्र न )कर्तव्यो यदा तेषाम् अपि क्षयः //
4.91 SK माहात्म्यं न च तन् मन्ये यत्र सामान्यतः क्षयः विषयेषु प्रसक्तिर् वा युक्तिर् वा नात्मवत्तया //
575 SK माहात्म्यं न च तन् मन्ये यत्र सामान्यतः क्षयः विषयेषु प्रसक्तिर् वा युक्तिर् वा ना अत्मवत्तया //
4.92 SK यद् अप्य् आत्थानृतेनापि स्त्रीजने वर्त्यताम् इति अनृतं नावगच्छामि दाक्षिण्येनापि किंचन //
577 SK यद् अप्य् आत्थ अन्-ऋतेन अपि स्त्री-जने वर्त्यताम् इति अन्-ऋतं न अवगच्छामि दाक्षिण्येन अपि किं-चन //
4.93 SK न चानुवर्तनं तन् मे रुचितं यत्र नार्जवम् सर्वभावेन संपर्को यदि नास्ति धिग् अस्तु तत् //
579 SK न च अनुवर्तनं तन् मे रुचितं यत्र ना अर्जवम् सर्व-भावेन संपर्को यदि न अस्ति धिग् अस्तु तत् //
4.94 SK (अध्र्टेः Cअनृते )श्रद्दधानस्य सक्तस्यादोषदर्शिनः किं हि वञ्चयितव्यं स्याज् जातरागस्य चेतसः //
581 SK (अ-ध्र्टेः Cअन्-ऋते )श्रद्दधानस्य सक्तस्य अ-दोष-दर्शिनः किं हि वञ्चयितव्यं स्याज् जात-रागस्य चेतसः //
4.95 SK वञ्चयन्ति च यद्य् (एवं Cएव जातरागाः परस्परम् ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः //
583 SK वञ्चयन्ति च यद्य् (एवं Cएव जात-रागाः परस्-परम् ननु न एव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः //
4.96 SK तद् एवं सति दुःखार्तं जरामरण(भागिनम् Cभोगिनम् ) न मां कामेष्व् अनार्येषु प्रतारयितुम् अर्हसि //
585 SK तद् एवं सति दुःख-आर्तं जरा-मरण-(भागिनम् Cभोगिनम् ) न मां कामेष्व् अन्-आर्येषु प्रतारयितुम् अर्हसि //
4.97 SK अहो ऽतिधीरं बलवच् च ते मनश् चलेषु कामेषु च सारदर्शिनः भये (अतितीव्रे Cअपि तीव्रे )विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः //
587 SK अहो ऽति-धीरं बलवच् च ते मनश् चलेषु कामेषु च सार-दर्शिनः भये (अति-तीव्रे Cअपि तीव्रे )विषयेषु सज्जसे निरीक्षमाणो मरण-अध्वनि प्रजाः //
4.98 SK अहं पुनर् भीरुर् अतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तम् इवाग्निना जगत् //
589 SK अहं पुनर् भीरुर् अति-इव-विक्लवो जरा-विपद्-व्याधि-भयं विचिन्तयन् लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तम् इव अग्निना जगत् //
4.99 SK असंशयं मृत्युर् इति प्रजानतो नरस्य रागो हृदि यस्य जायते अयोमयीं तस्य परैमि चेतनां महाभये (रज्यति Cरक्षति )यो न रोदिति //
591 SK अ-संशयं मृत्युर् इति प्रजानतो नरस्य रागो हृदि यस्य जायते अयोमयीं तस्य परैमि चेतनां महा-भये (रज्यति Cरक्षति )यो न रोदिति //
4.100 SK अथो कुमारश् च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तम् इयाय भास्करः //
593 SK अथ उ कुमारश् च विनिश्चय-आत्मिकां चकार काम-आश्रय-घातिनीं कथाम् जनस्य चक्षुर्-गमनीय-मण्डलो मही-धरं च अस्तम् इयाय भास्-करः //
4.101 SK ततो वृथाधारितभूषणस्रजः कलागुणैश् च प्रणयैश् च निष्फलैः स्वए एव भावे विनिगृह्य मन्मथं पुरं ययुर् भग्नमनोरथाः स्त्रियः //
595 SK ततो वृथा-धारित-भूषण-स्रजः कला-गुणैश् च प्रणयैश् च निष्-फलैः स्वए एव भावे विनिगृह्य मन्मथं पुरं ययुर् भग्न-मनो-रथाः स्त्रियः //
4.102 SK ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः //
597 SK ततः पुर-उद्यान-गतां जन-श्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः अ-नित्यतां सर्व-गतां विचिन्तयन् विवेश धिष्ण्यं क्षिति-पालक-आत्म-जः //
4.103 SK ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदयगतशल्यो गज इव अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवो न सो ऽन्यत् कामेभ्यो नियमनम् अपश्यत् सुतमतेः //
599 SK ततः श्रुत्वा राजा विषय-वि-मुखं तस्य तु मनो न शिश्ये तां रात्रिं हृदय-गत-शल्यो गज इव अथ श्रान्तो मन्त्रे बहु-वि-विध-मार्गे स-सचिवो न सो ऽन्यत् कामेभ्यो नियमनम् अपश्यत् सुत-मतेः //
600 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये स्त्री-विघातनो नाम चतुर्थः सर्गः -- ४ --]]
5.1 SK स तथा विषयैर् विलोभ्यमानः (परमार्हैर् Cपरमोहैर् )अपि शाक्यराजसूनुः न जगाम (धृतिं Cरतिं )न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः //
602 SK स तथा विषयैर् विलोभ्यमानः (परम-अर्हैर् Cपर-मोहैर् )अपि शाक्य-राज-सूनुः न जगाम (धृतिं Cरतिं )न शर्म लेभे हृदये सिंह इव अति-दिग्ध-विद्धः //
5.2 SK अथ मन्त्रिसुतैः क्षमैः कदाचित् सखिभिश् चित्रकथैः कृतानुयात्रः वनभूमिदिदृक्षया शमेप्सुर् नरदेवानुमतो (बहिः Cवहिः )प्रतस्थे //
604 SK अथ मन्त्रि-सुतैः क्षमैः कदा-चित् सखिभिश् चित्र-कथैः कृत-अनुयात्रः वन-भूमि-दिदृक्षया शम-ईप्सुर् नर-देव-अनुमतो (बहिः Cवहिः )प्रतस्थे //
5.3 SK नवरुक्मखलीनकिङ्किणीकं प्रचलच्चामरचारुहेमभाण्डम् अभिरुह्य स (कन्थकं Cकण्ठकं )सदश्वं प्रययौ केतुम् इव द्रुमाब्जकेतुः //
606 SK नव-रुक्म-खलीन-किङ्किणीकं प्रचलच्-चामर-चारु-हेम-भाण्डम् अभिरुह्य स (कन्थकं Cकण्ठकं )सद्-अश्वं प्रययौ केतुम् इव द्रुम-अब्-ज-केतुः //
5.4 SK स (विकृष्टतरां Cनिकृष्टतरां )वनान्तभूमिं वनलोभाच् च ययौ मही(गुणाच् च Cगुणेच्छुः ) सलिलोउर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् //
608 SK स (विकृष्टतरां Cनिकृष्टतरां )वन-अन्त-भूमिं वन-लोभाच् च ययौ मही-(गुणाच् च Cगुण-इच्छुः ) सलिलो-उर्मि-विकार-सीर-मार्गां वसु-धां च एव ददर्श कृष्यमाणाम् //
5.5 SK हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमि(कीटCकाण्ड)जन्तुकीर्णाम् समवेक्ष्य रसां तथाविधां तां स्वजनस्येव (वधे Cबधे )भृशं शुशोच //
610 SK हल-भिन्न-विकीर्ण-शष्प-दर्भां हत-सूक्ष्म-क्रिमि-(कीट-Cकाण्ड-)जन्तु-कीर्णाम् समवेक्ष्य रसां तथा-विधां तां स्व-जनस्य इव (वधे Cबधे )भृशं शुशोच //
5.6 SK कृषतः पुरुषांश् च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान् वहनक्लमविक्लवांश् च धुर्यान् परमार्यः परमां कृपां चकार //
612 SK कृषतः पुरुषांश् च वीक्षमाणः पवन-अर्क-अंशु-रजो-विभिन्न-वर्णान् वहन-क्लम-विक्लवांश् च धुर्यान् परम-आर्यः परमां कृपां चकार //
5.7 SK अवतीर्य ततस् तुरंगपृष्ठाच् छनकैर् गां (व्यचरच् छुचा Cव्यचरत् शुचा )परीतः जगतो जननव्ययं विचिन्वन् कृपणं खल्व् इदम् इत्य् उवाच (चार्तः Cचार्त्तः ) //
614 SK अवतीर्य ततस् तुरं-ग-पृष्ठाच् छनकैर् गां (व्यचरच् छुचा Cव्यचरत् शुचा )परीतः जगतो जनन-व्ययं विचिन्वन् कृपणं खल्व् इदम् इत्य् उवाच (चा अर्तः Cचा अर्त्तः ) //
5.8 SK मनसा च विविक्तताम् अभीप्सुः सुहृदस् तान् अनुयायिनो निवार्य (अभितश् चलCअभितारल)चारुपर्णवत्या विजने मूलम् उपेयिवान् स जम्ब्वाः //
616 SK मनसा च विविक्तताम् अभीप्सुः सु-हृदस् तान् अनुयायिनो निवार्य (अभितश् चल-Cअभितारल-)चारु-पर्णवत्या वि-जने मूलम् उपेयिवान् स जम्ब्वाः //
5.9 SK निषसाद (स यत्र शौचवत्यां Cच पत्रखोरवत्यां भुवि (वैडूर्यCवैदूर्य)निकाशशाद्वलायाम् जगतः प्रभवव्ययौ (विचिन्वन् Cविचिन्त्य मनसश् च स्थितिमार्गम् आललम्बे //
618 SK निषसाद (स यत्र शौचवत्यां Cच पत्र-खोरवत्यां भुवि (वैडूर्य-Cवैदूर्य-)निकाश-शाद्वलायाम् जगतः प्रभव-व्ययौ (विचिन्वन् Cविचिन्त्य मनसश् च स्थिति-मार्गम् आललम्बे //
5.10 SK समवाप्तमनःस्थितिश् च सद्यो विषयेच्छादिभिर् आधिभिश् च मुक्तः सवितर्कविचारम् आप शान्तं प्रथमं ध्यानम् अन्(आस्रवCआश्रव)प्रकारम् //
620 SK समवाप्त-मनः-स्थितिश् च सद्यो विषय-इच्छा-आदिभिर् आधिभिश् च मुक्तः स-वितर्क-विचारम् आप शान्तं प्रथमं ध्यानम् अन्-(आस्रव-Cआश्रव-)प्रकारम् //
5.11 SK अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं ((CमनःC))समाधिम् इदम् एव ततः परं प्रदध्यौ मनसा लोकगतिं (निशाम्य Cनिशम्य )सम्यक् //
622 SK अधिगम्य ततो विवेक-जं तु परम-प्रीति-सुखं ((Cमनः-C))समाधिम् इदम् एव ततः परं प्रदध्यौ मनसा लोक-गतिं (निशाम्य Cनिशम्य )सम्यक् //
5.12 SK कृपणं (बत Cवत )यज् जनः स्वयं सन्न् अ(वशो Cरसो )व्याधिजराविनाश(धर्मा Cधर्मः ) जरयार्दितम् आतुरं मृतं वा परम् अज्ञो विजुगुप्सते मदान्धः //
624 SK कृपणं (बत Cवत )यज् जनः स्वयं सन्न् अ-(वशो Cरसो )व्याधि-जरा-विनाश-(धर्मा Cधर्मः ) जरया आर्दितम् आतुरं मृतं वा परम् अ-ज्ञो विजुगुप्सते मद-अन्धः //
5.13 SK इह चेद् अहम् ईदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम् न भवेत् सदृशं हि तत् क्षमं वा परमं धर्मम् इमं विजानतो मे //
626 SK इह चेद् अहम् ई-दृशः स्वयं सन् विजुगुप्सेय परं तथा-स्व-भावम् न भवेत् स-दृशं हि तत् क्षमं वा परमं धर्मम् इमं विजानतो मे //
5.14 SK इति तस्य विपश्यतो यथावज् जगतो व्याधिजराविपत्तिदोषान् बलयौवनजीवित(प्रवृत्तो Cप्रवृत्तौ विजगामात्मगतो मदः क्षणेन //
628 SK इति तस्य विपश्यतो यथावज् जगतो व्याधि-जरा-विपत्ति-दोषान् बल-यौवन-जीवित-(प्रवृत्तो Cप्रवृत्तौ विजगामा अत्म-गतो मदः क्षणेन //
5.15 SK न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे न च कामगुणेषु संररञ्जे न (विदिद्वेष Cच दिद्वेष )परं न चावमेने //
630 SK न जहर्ष न च अपि च अनुतेपे विचिकित्सां न ययौ न तन्द्रि-निद्रे न च काम-गुणेषु संररञ्जे न (विदिद्वेष Cच दिद्वेष )परं न च अवमेने //
5.16 SK इति बुद्धिर् इयं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा पुरुषैर् अपरैर् अदृश्यमानः पुरुषश् चोपससर्प भिक्षु(वेषः Cवेशः ) //
632 SK इति बुद्धिर् इयं च नीरजस्का ववृधे तस्य महा-आत्मनो विशुद्धा पुरुषैर् अ-परैर् अ-दृश्यमानः पुरुषश् च उपससर्प भिक्षु-(वेषः Cवेशः ) //
5.17 SK नरदेवसुतस् तम् अभ्यपृच्छद् वद को ऽसीति शशंस सो ऽथ तस्मै (नरपुंCस च पुं)गव जन्ममृत्युभीतः श्रमणः प्रव्रजितो ऽस्मि मोक्षहेतोः //
634 SK नर-देव-सुतस् तम् अभ्यपृच्छद् वद को ऽसि इति शशंस सो ऽथ तस्मै (नर-पुं-Cस च पुं-)गव जन्म-मृत्यु-भीतः श्रमणः प्रव्रजितो ऽस्मि मोक्ष-हेतोः //
5.18 SK जगति क्षयधर्मके मुमुक्षुर् मृगये ऽहं शिवम् अक्षयं पदं तत् स्व(जने ऽन्यजने च तुल्यCजनो ऽन्यजनैर् अतुल्य)बुद्धिर् विषयेभ्यो विनि.व्र्त्तरागदोषः //
636 SK जगति क्षय-धर्मके मुमुक्षुर् मृगये ऽहं शिवम् अ-क्षयं पदं तत् स्व-(जने ऽन्य-जने च तुल्य-Cजनो ऽन्य-जनैर् अ-तुल्य-)बुद्धिर् विषयेभ्यो विनि.व्र्त्त-राग-दोषः //
5.19 SK निवसन् क्वचिद् एव वृक्षमूले विजने वायतने गिरौ वने वा विचराम्य् अपरिग्रहो निराशः परमार्थाय यथोपपन्न(भैक्षः Cभिक्षुः ) //
638 SK निवसन् क्व-चिद् एव वृक्ष-मूले वि-जने वा आयतने गिरौ वने वा विचराम्य् अ-परिग्रहो निर्-आशः परम-अर्थाय यथा-उपपन्न-(भैक्षः Cभिक्षुः ) //
5.20 SK इति पश्यत एव राजसूनोर् इदम् उक्त्वा स नभः समुत्पपात स हि तद्वपुर् अन्य(बुद्धCबुद्धि)दर्शी स्मृतये तस्य समेयिवान् दिवौकाः //
640 SK इति पश्यत एव राज-सूनोर् इदम् उक्त्वा स नभः समुत्पपात स हि तद्-वपुर् अन्य-(बुद्ध-Cबुद्धि-)दर्शी स्मृतये तस्य समेयिवान् दिव-ओकाः //
5.21 SK गगनं खगवद् गते च तस्मिन् नृवरः संजहृषे विसिस्मिये च उपलभ्य ततश् च धर्मसंज्ञाम् अभिनिर्याणविधौ मतिं चकार //
642 SK गगनं ख-गवद् गते च तस्मिन् नृ-वरः संजहृषे विसिस्मिये च उपलभ्य ततश् च धर्म-संज्ञाम् अभिनिर्याण-विधौ मतिं चकार //
5.22 SK तत इन्द्रसमो (जितेन्द्रियाश्वः Cजितेन्द्रियश् च प्रविविक्षुः (पुरम् अश्वम् Cपरमाश्वम् )आरुरोह (परिवारजनं Cपरिवर्त्य जनं )त्व् अवेक्षमाणस् तत एवाभिमतं वनं न भेजे //
644 SK तत इन्द्र-समो (जित-इन्द्रिय-अश्वः Cजित-इन्द्रियश् च प्रविविक्षुः (पुरम् अश्वम् Cपरम-अश्वम् )आरुरोह (परिवार-जनं Cपरिवर्त्य जनं )त्व् अवेक्षमाणस् तत एव अभिमतं वनं न भेजे //
5.23 SK स जरामरणक्षयं चिकीर्षुर् वनवासाय मतिं स्मृतौ निधाय प्रविवेश पुनः पुरं न कामाद् वनभूमेर् इव मण्डलं द्विपेन्द्रः //
646 SK स जरा-मरण-क्षयं चिकीर्षुर् वन-वासाय मतिं स्मृतौ निधाय प्रविवेश पुनः पुरं न कामाद् वन-भूमेर् इव मण्डलं द्वि-प-इन्द्रः //
5.24 SK सुखिता (बत Cवत )निर्वृता च सा स्त्री पतिर् ई(दृक्ष इहायताक्ष Cदृक् त्वम् इवायताक्ष )यस्याः इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर् जगाद //
648 SK सुखिता (बत Cवत )निर्वृता च सा स्त्री पतिर् ई-(दृक्ष इहा अयत-अक्ष Cदृक् त्वम् इवा अयत-अक्ष )यस्याः इति तं समुदीक्ष्य राज-कन्या प्रविशन्तं पथि स-अञ्जलिर् जगाद //
5.25 SK अथ घोषम् इमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे (श्रुतवान् स Cश्रुतवांश् च )हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार //
650 SK अथ घोषम् इमं महा-अभ्र-घोषः परिशुश्राव शमं परं च लेभे (श्रुतवान् स Cश्रुतवांश् च )हि निर्वृत ईति शब्दं परिनिर्वाण-विधौ मतिं चकार //
5.26 SK अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्१षभबाहुनिस्वनाक्षः क्षयम् अक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे //
652 SK अथ काञ्चन-शैल-शृङ्ग-वर्ष्मा गज-मेघर्१षभ-बाहु-निस्वन-अक्षः क्षयम् अ-क्षय-धर्म-जात-रागः शशि-सिंह-आनन-विक्रमः प्रपेदे //
5.27 SK मृगराजगतिस् ततो ऽभ्यगच्छन् नृपतिं मन्त्रिगणैर् उपास्यमानम् समितौ मरुताम् इव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः //
654 SK मृग-राज-गतिस् ततो ऽभ्यगच्छन् नृ-पतिं मन्त्रि-गणैर् उपास्यमानम् समितौ मरुताम् इव ज्वलन्तं मघवन्तं त्रि-दिवे सनत्-कुमारः //
5.28 SK प्रणिपत्य च साञ्जलिर् बभाषे दिश मह्यं नरदेव साध्व् अनुज्ञाम् परिविव्रजिषामि मोक्षहेतोर् नियतो ह्य् अस्य जनस्य विप्रयोगः //
656 SK प्रणिपत्य च स-अञ्जलिर् बभाषे दिश मह्यं नर-देव साध्व् अनुज्ञाम् परिविव्रजिषामि मोक्ष-हेतोर् नियतो ह्य् अस्य जनस्य विप्रयोगः //
5.29 SK इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश् चचाल कमलप्रतिमे ऽञ्जलौ गृहीत्वा वचनं चेदम् उवाच (बाष्पCवाष्प)कण्ठः //
658 SK इति तस्य वचो निशम्य राजा करिण ईव अभिहतो द्रुमश् चचाल कमल-प्रतिमे ऽञ्जलौ गृहीत्वा वचनं च इदम् उवाच (बाष्प-Cवाष्प-)कण्ठः //
5.30 SK प्रतिसंहर तात बुद्धिम् एतां न हि कालस् तव धर्मसंश्रयस्य वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् //
660 SK प्रतिसंहर तात बुद्धिम् एतां न हि कालस् तव धर्म-संश्रयस्य वयसि प्रथमे मतौ चलायां बहु-दोषां हि वदन्ति धर्म-चर्याम् //
5.31 SK विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्व् असमर्थनिश्चयस्य तरुणस्य मनश् चलत्य् अरण्याद् अनभिज्ञस्य विशेषतो (विवेके Cअविवेकम् ) //
662 SK विषयेषु कुतूहल-इन्द्रियस्य व्रत-खेदेष्व् अ-सम्-अर्थ-निश्चयस्य तरुणस्य मनश् चलत्य् अरण्याद् अन्-अभिज्ञस्य विशेषतो (विवेके Cअ-विवेकम् ) //
5.32 SK मम तु प्रियधर्म धर्मकालस् त्वयि लक्ष्मीम् अवसृज्य (लक्ष्मCलक्ष्य)भूते स्थिरविक्रम विक्रमेण धर्मस् तव हित्वा तु गुरुं भवेद् अधर्मः //
664 SK मम तु प्रिय-धर्म धर्म-कालस् त्वयि लक्ष्मीम् अवसृज्य (लक्ष्म-Cलक्ष्य-)भूते स्थिर-विक्रम विक्रमेण धर्मस् तव हित्वा तु गुरुं भवेद् अ-धर्मः //
5.33 SK तद् इमं व्यवसायम् उत्सृज त्वं भव तावन् निरतो गृहस्थधर्मे पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः //
666 SK तद् इमं व्यवसायम् उत्सृज त्वं भव तावन् निरतो गृह-स्थ-धर्मे पुरुषस्य वयः-सुखानि भुक्त्वा रमणीयो हि तपो-वन-प्रवेशः //
5.34 SK इति वाक्यम् इदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे यदि मे प्रतिभूश् चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये //
668 SK इति वाक्यम् इदं निशम्य राज्ञः कलविङ्क-स्वर उत्तरं बभाषे यदि मे प्रतिभूश् चतुर्षु राजन् भवसि त्वं न तपो-वनं श्रयिष्ये //
5.35 SK न भवेन् मरणाय जीवितं मे विहरेत् स्वास्थ्यम् इदम् च मे न रोगः न च यौवनम् आक्षिपेज् जरा मे न च संपत्तिम् (इमां हरेद् Cअपाहरेद् )विपत्तिः //
670 SK न भवेन् मरणाय जीवितं मे विहरेत् स्वास्थ्यम् इदम् च मे न रोगः न च यौवनम् आक्षिपेज् जरा मे न च संपत्तिम् (इमां हरेद् Cअपाहरेद् )विपत्तिः //
5.36 SK इति दुर्लभम् अर्थम् ऊचिवांसं तनय्.अम् वाक्यम् उवाच शाक्यराजः त्यज बुद्धिम् (इमाम् अतिCइमां गति)प्रवृत्ताम् अवहास्यो ऽतिमनो(रथो ऽCरथ)क्रमश् च //
672 SK इति दुर्-लभम् अर्थम् ऊचिवांसं तनय्.अम् वाक्यम् उवाच शाक्य-राजः त्यज बुद्धिम् (इमाम् अति-Cइमां गति-)प्रवृत्ताम् अवहास्यो ऽति-मनो-(रथो ऽCरथ-)क्रमश् च //
5.37 SK अथ मेरुगुरुर् गुरुं बभाषे यदि नास्ति क्रम एष (नास्मि Cनास्ति )वार्यः शरणाज् ज्वलनेन दह्यमानान् न हि (निश्चिक्रमिषुः Cनिश्चिक्रमिषुं )क्षमं ग्रहीतुम् //
674 SK अथ मेरु-गुरुर् गुरुं बभाषे यदि न अस्ति क्रम एष (न अस्मि Cन अस्ति )वार्यः शरणाज् ज्वलनेन दह्यमानान् न हि (निश्चिक्रमिषुः Cनिश्चिक्रमिषुं )क्षमं ग्रहीतुम् //
5.38 SK जगतश् च (यदा Cयथा )ध्रुवो वियोगो (ननु Cन तु )धर्माय वरं (स्वयंवियोगः Cत्व् अयं वियोगः ) अवशं ननु विप्रयोजयेन् माम् अकृतस्वार्थम् अतृप्तम् एव मृत्युः //
676 SK जगतश् च (यदा Cयथा )ध्रुवो वियोगो (ननु Cन तु )धर्माय वरं (स्वयं-वियोगः Cत्व् अयं वियोगः ) अ-वशं ननु विप्रयोजयेन् माम् अ-कृत-स्व-अर्थम् अ-तृप्तम् एव मृत्युः //
5.39 SK इति भूमिपतिर् निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः अभिधाय न यास्यतीति भूयो विदधे रक्षणम् उत्तमांश् च कामान् //
678 SK इति भूमि-पतिर् निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः अभिधाय न यास्यति इति भूयो विदधे रक्षणम् उत्तमांश् च कामान् //
5.40 SK सचिवैस् तु निदर्शितो यथावद् बहुमानात् प्रणयाच् च शास्त्रपूर्वम् गुरुणा च निवारितो ऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् //
680 SK सचिवैस् तु निदर्शितो यथावद् बहु-मानात् प्रणयाच् च शास्त्र-पूर्वम् गुरुणा च निवारितो ऽश्रु-पातैः प्रविवेश अवसथं ततः स शोचन् //
5.41 SK चलकुण्दलचुम्बिताननाभिर् घननिश्वासविकम्पितस्तनीभिः वनिताभिर् अधीरलोचनाभिर् मृगशावाभिर् इवाभ्युदीक्ष्यमाणः //
682 SK चल-कुण्दल-चुम्बित-आननाभिर् घन-निश्वास-विकम्पित-स्तनीभिः वनिताभिर् अ-धीर-लोचनाभिर् मृग-शावाभिर् इव अभ्युदीक्ष्यमाणः //
5.42 SK स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम् श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर् जहार //
684 SK स हि काञ्चन-पर्वत-अवदातो हृदय-उन्माद-करो वर-अङ्गनानाम् श्रवन-अङ्ग-विलोचन-आत्म-भावान् वचन-स्पर्श-वपुर्-गुणैर् जहार //
5.43 SK विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः तिमिरं विजिघांसुर् आत्मभासा रविर् उद्यन्न् इव मेरुम् आरुरोह //
686 SK विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः तिमिरं विजिघांसुर् आत्म-भासा रविर् उद्यन्न् इव मेरुम् आरुरोह //
5.44 SK कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनम् आसनं सिषेवे //
688 SK कनक-उज्ज्वल-दीप्त-दीप-वृक्षं वर-काल-अगुरु-धूप-पूर्ण-गर्भम् अधिरुह्य स वज्र-भक्ति-चित्रं प्रवरं काञ्चनम् आसनं सिषेवे //
5.45 SK तत उत्तमम् (उत्तमाङ्गनास् तं Cउत्तमाश् च नार्यो निशि तूर्यैर् उपतस्थुर् इन्द्रकल्पम् हिमवच्छिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजम् अप्सरोगणौघाः //
690 SK तत उत्तमम् (उत्तम-अङ्गनास् तं Cउत्तमाश् च नार्यो निशि तूर्यैर् उपतस्थुर् इन्द्र-कल्पम् हिमवच्-छिरसि इव चन्द्र-गौरे द्रविण-इन्द्र-आत्म-जम् अप्सरो-गण-ओघाः //
5.46 SK परमैर् अपि दिव्यतूर्यकल्पैः स तु तैर् नैव रतिं ययौ न हर्षम् परमार्थसुखाय तस्य साधोर् अभिनिश्चिक्रमिषा यतो न रेमे //
692 SK परमैर् अपि दिव्य-तूर्य-कल्पैः स तु तैर् न एव रतिं ययौ न हर्षम् परम-अर्थ-सुखाय तस्य साधोर् अभिनिश्चिक्रमिषा यतो न रेमे //
5.47 SK अथ तत्र सुरैस् तपोवरिष्ठैर् अकनिष्ठैर् व्यवसायम् अस्य बुद्ध्वा युगपत् प्रमदाजनस्य निद्रा विहितासीद् विकृताश् च गात्रचेष्टाः //
694 SK अथ तत्र सुरैस् तपो-वरिष्ठैर् अ-कनिष्ठैर् व्यवसायम् अस्य बुद्ध्वा युगपत् प्रमदा-जनस्य निद्रा विहिता आसीद् विकृताश् च गात्र-चेष्टाः //
5.48 SK अभवच् छयिता हि तत्र काचिद् विनिवेश्य प्रचले करे कपोलम् दयिताम् अपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् //
696 SK अभवच् छयिता हि तत्र का-चिद् विनिवेश्य प्रचले करे कपोलम् दयिताम् अपि रुक्म-पत्त्र-चित्रां कुपित ईव अङ्क-गतां विहाय वीणाम् //
5.49 SK विबभौ करलग्नवेणुर् अन्या स्तनविस्रस्तसितांशुका शयाना ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव //
698 SK विबभौ कर-लग्न-वेणुर् अन्या स्तन-विस्रस्त-सित-अंशुका शयाना ऋजु-षट्-पद-पङ्क्ति-जुष्ट-पद्मा जल-फेन-प्रहसत्-तटा नदि ईव //
5.50 SK नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसंगताङ्गदाभ्याम् स्वपिति स्म (तथापरा Cतथा पुरा )भुजाभ्यां परिरभ्य प्रियवन् मृदङ्गम् एव //
700 SK नव-पुष्कर-गर्भ-कोमलाभ्यां तपनीय-उज्ज्वल-संगत-अङ्ग-दाभ्याम् स्वपिति स्म (तथ आ-परा Cतथा पुरा )भुजाभ्यां परिरभ्य प्रियवन् मृद्-अङ्गम् एव //
5.51 SK नवहाटकभूषणास् तथान्या वसनं पीतम् अनुत्तमं वसानाः अवशा (घननिद्रया Cवत निद्रया )निपेतुर् गजभग्ना इव कर्णिकारशाखाः //
702 SK नव-हाटक-भूषणास् तथ आन्या वसनं पीतम् अन्-उत्तमं वसानाः अ-वशा (घन-निद्रया Cवत निद्रया )निपेतुर् गज-भग्ना इव कर्णिकार-शाखाः //
5.52 SK अवलम्ब्य गवाक्षपार्श्वम् अन्या शयिता चापविभुग्नगात्रयष्टिः विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव //
704 SK अवलम्ब्य गव-अक्ष-पार्श्वम् अन्या शयिता चाप-विभुग्न-गात्र-यष्टिः विरराज विलम्बि-चारु-हारा रचिता तोरण-शाल-भञ्जिक ईव //
5.53 SK मणिकुण्डलदष्टपत्त्रलेखं मुखपद्मं विनतं तथापरस्याः शतपत्त्रम् इवार्ध(वक्रCचक्र)नाडं स्थितकारण्डवघट्टितं चकाशे //
706 SK मणि-कुण्डल-दष्ट-पत्त्र-लेखं मुख-पद्मं विनतं तथ आ-परस्याः शत-पत्त्रम् इव अर्ध-(वक्र-Cचक्र-)नाडं स्थित-कारण्डव-घट्टितं चकाशे //
5.54 SK अपराः शयिता यथोपविष्टाः स्तनभारैर् अवनम्यमानगात्राः उपगुह्य परस्परं विरेजुर् भुजपाशैस् तपनीयपारिहार्यैः //
708 SK अ-पराः शयिता यथा-उपविष्टाः स्तन-भारैर् अवनम्यमान-गात्राः उपगुह्य परस्-परं विरेजुर् भुज-पाशैस् तपनीय-पारिहार्यैः //
5.55 SK महतीं परिवादिनीं च काचिद् वनितालिङ्ग्य सखीम् इव प्रसुप्ता विजुघूर्ण चलत्सुवर्ण(सूत्रा Cसूत्रां वदनेनाकुल(योक्त्रकेण Cकर्णिकोज्ज्वलेन ) //
710 SK महतीं परिवादिनीं च का-चिद् वनिता आलिङ्ग्य सखीम् इव प्रसुप्ता विजुघूर्ण चलत्-सु-वर्ण-(सूत्रा Cसूत्रां वदनेना अकुल-(योक्त्रकेण Cकर्णिक-उज्ज्वलेन ) //
5.56 SK पणवं युवतिर् भुजांसदेशाद् अवविस्रंसितचारुपाशम् अन्या सविलासरतान्ततान्तम् ऊर्वोर् विवरे कान्तम् इवाभिनीय शिश्ये //
712 SK पणवं युवतिर् भुज-अंस-देशाद् अवविस्रंसित-चारु-पाशम् अन्या स-विलास-रत-अन्त-तान्तम् ऊर्वोर् विवरे कान्तम् इव अभिनीय शिश्ये //
5.57 SK अपरा बभुर् निमीलिताक्ष्यो विपुलाक्ष्यो ऽपि शुभभ्रुवो ऽपि सत्यः प्रतिसंकुचितारविन्दकोशाः सवितर्य् अस्तम् इते यथा नलिन्यः //
714 SK अ-परा बभुर् निमीलित-अक्ष्यो विपुल-अक्ष्यो ऽपि शुभ-भ्रुवो ऽपि सत्यः प्रतिसंकुचित-अरविन्द-कोशाः सवितर्य् अस्तम् इते यथा नलिन्यः //
5.58 SK शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना (प्रतियातनाङ्गनेव Cप्रतिपातिताङ्गनेव ) //
716 SK शिथिल-आकुल-मूर्ध-जा तथ आन्या जघन-स्रस्त-विभूषण-अंशुक-अन्ता अशयिष्ट विकीर्ण-कण्ठ-सूत्रा गज-भग्ना (प्रतियातन-अङ्गन ईव Cप्रतिपातित-अङ्गन ईव ) //
5.59 SK अपरास् त्व् अवशा ह्रिया वियुक्ता धृतिमत्यो ऽपि वपुर्गुणैर् उपेताः विनिशश्वसुर् (उल्बणं Cउल्वणं )शयाना (विकृताः क्षिप्तCविकृताक्षिप्त)भुजा जजृम्भिरे च //
718 SK अ-परास् त्व् अ-वशा ह्रिया वियुक्ता धृतिमत्यो ऽपि वपुर्-गुणैर् उपेताः विनिशश्वसुर् (उल्बणं Cउल्वणं )शयाना (विकृताः क्षिप्त-Cविकृत-आक्षिप्त-)भुजा जजृम्भिरे च //
5.60 SK व्यपविद्धविभूषणस्रजो ऽन्या (विसृताग्रन्थनCविसृताग्रन्थन)वाससो विसंज्ञाः अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः //
720 SK व्यपविद्ध-विभूषण-स्रजो ऽन्या (विसृत-आग्रन्थन-Cविसृत-अ-ग्रन्थन-)वाससो वि-संज्ञाः अ-निमीलित-शुक्ल-निश्-चल-अक्ष्यो न विरेजुः शयिता गत-असु-कल्पाः //
5.61 SK विवृतास्यपुटा विवृद्ध(गात्री Cगात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या अपरा मदघूर्णितेव शिश्ये न (बभासे Cबभाषे )विकृतं वपुः पुपोष //
722 SK विवृत-आस्य-पुटा विवृद्ध-(गात्री Cगात्रा प्रपतद्-वक्त्र-जला प्रकाश-गुह्या अ-परा मद-घूर्णित ईव शिश्ये न (बभासे Cबभाषे )विकृतं वपुः पुपोष //
5.62 SK इति सत्त्व(कुलान्वयानुरूपं Cकुलानुरूपरूपं विविधं स प्रमदाजनः शयानः सरसः सदृशं बभार रूपं पवनावर्जित(रुग्नCरुग्ण)पुष्करस्य //
724 SK इति सत्त्व-(कुल-अन्वय-अनु-रूपं Cकुल-अनु-रूप-रूपं वि-विधं स प्रमदा-जनः शयानः सरसः स-दृशं बभार रूपं पवन-आवर्जित-(रुग्न-Cरुग्ण-)पुष्करस्य //
5.63 SK समवेक्ष्य (तथा तथा Cततश् च ताः )शयाना विकृतास् ता युवतीर् अधीरचेष्टाः गुणवद्वपुषो ऽपि वल्गु(भाषा Cभासो नृपसूनुः स विगर्हयां बभूव //
726 SK समवेक्ष्य (तथा तथा Cततश् च ताः )शयाना विकृतास् ता युवतीर् अ-धीर-चेष्टाः गुणवद्-वपुषो ऽपि वल्गु-(भाषा Cभासो नृ-प-सूनुः स विगर्हयां बभूव //
5.64 SK अशुचिर् विकृतश् च जीवलोके वनितानाम् अयम् ईदृशः स्वभावः वसनाभरणैस् तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागम् एति //
728 SK अ-शुचिर् विकृतश् च जीव-लोके वनितानाम् अयम् ई-दृशः स्व-भावः वसन-आभरणैस् तु वञ्च्यमानः पुरुषः स्त्री-विषयेषु रागम् एति //
5.65 SK विमृशेद् यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारम् ईदृशं च ध्रुवम् अत्र न वर्धयेत् प्रमादं गुणसंकल्पहतस् तु रागम् एति //
730 SK विमृशेद् यदि योषितां मनुष्यः प्रकृतिं स्वप्न-विकारम् ई-दृशं च ध्रुवम् अत्र न वर्धयेत् प्रमादं गुण-संकल्प-हतस् तु रागम् एति //
5.66 SK इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव अवगम्य मनस् ततो ऽस्य देवैर् भवनद्वारम् अपावृतं बभूव //
732 SK इति तस्य तद्-अन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव अवगम्य मनस् ततो ऽस्य देवैर् भवन-द्वारम् अपावृतं बभूव //
5.67 SK अथ सो ऽवततार हर्म्यपृष्ठाद् युवतीस् ताः शयिता विगर्हमाणः अवतीर्य ततश् च निर्विशङ्को गृहकक्ष्यां (प्रथमां Cप्रथमं )विनिर्जगाम //
734 SK अथ सो ऽवततार हर्म्य-पृष्ठाद् युवतीस् ताः शयिता विगर्हमाणः अवतीर्य ततश् च निर्-विशङ्को गृह-कक्ष्यां (प्रथमां Cप्रथमं )विनिर्जगाम //
5.68 SK तुरगावचरं स बोधयित्वा जविनं छन्दकम् इत्थम् इत्य् उवाच हयम् आनय कन्थकं त्वरावान् अमृतं प्राप्तुम् इतो ऽद्य म यियासा //
736 SK तुर-ग-अवचरं स बोधयित्वा जविनं छन्दकम् इत्थम् इत्य् उवाच हयम् आनय कन्थकं त्वरावान् अ-मृतं- प्राप्तुम् इतो ऽद्य म यियासा //
5.69 SK हृदि या मम तुष्टिर् अद्य जाता व्यवसायश् च यथा (मतौ Cधृतौ )निविष्टः विजने ऽपि च नाथवान् इवास्मि ध्रुवम् अर्थो ऽभिमुखः (समेत Cस मे य )इष्टः //
738 SK हृदि या मम तुष्टिर् अद्य जाता व्यवसायश् च यथा (मतौ Cधृतौ )निविष्टः वि-जने ऽपि च नाथवान् इव अस्मि ध्रुवम् अर्थो ऽभि-मुखः (समेत Cस मे य )इष्टः //
5.70 SK ह्रियम् एव च संनतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः विवृते च यथा स्वयं कपाटे नियतं यातुम् (अतो ममाद्य Cअनामयाय )कालः //
740 SK ह्रियम् एव च संनतिं च हित्वा शयिता मत्-प्र-मुखे यथा युवत्यः विवृते च यथा स्वयं कपाटे नियतं यातुम् (अतो मम अद्य Cअन्-आमयाय )कालः //
5.71 SK प्रतिगृह्य ततः स भर्तुर् आज्ञां विदितार्थो ऽपि नरेन्द्रशासनस्य मनसीव परेण चोद्यमानस् तुरगस्यानयने मतिं चकार //
742 SK प्रतिगृह्य ततः स भर्तुर् आज्ञां विदित-अर्थो ऽपि नर-इन्द्र-शासनस्य मनसि इव परेण चोद्यमानस् तुर-गस्या अनयने मतिं चकार //
5.72 SK अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् बलसत्त्व(जवान्वयोपपन्नं Cजवत्वरोपपन्नं स वराश्वं तम् उपानिनाय भर्त्रे //
744 SK अथ हेम-खलीन-पूर्ण-वक्त्रं लघु-शय्य-आस्तरण-उपगूढ-पृष्ठम् बल-सत्त्व-(जव-अन्वय-उपपन्नं Cजव-त्वरा-उपपन्नं स वर-अश्वं तम् उपानिनाय भर्त्रे //
5.73 SK प्रततत्रिकपुच्छमूलपार्ष्णिं (निभृतह्रस्वCनिभृतं ह्रस्व)तनूज(पुच्छCपृष्ठ)कर्णम् विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् //
746 SK प्रतत-त्रिक-पुच्छ-मूल-पार्ष्णिं (निभृत-ह्रस्व-Cनिभृतं ह्रस्व-)तनू-ज-(पुच्छ-Cपृष्ठ-)कर्णम् विनत-उन्नत-पृष्ठ-कुक्षि-पार्श्वं विपुल-प्रोथ-ललाट-कठ्य्-उरस्कम् //
5.74 SK उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण मधुराक्षरया गिरा शशास ध्वजिनीमध्यम् इव प्रवेष्टुकामः //
748 SK उपगुह्य स तं विशाल-वक्षाः कमल-आभेन च सान्त्वयन् करेण मधुर-अ-क्षरया गिरा शशास ध्वजिनी-मध्यम् इव प्रवेष्टु-कामः //
5.75 SK बहुशः (किल शत्रवो Cकलिशत्रवो )निरस्ताः समरे त्वाम् अधिरुह्य पार्थिवेन अहम् अप्य् अमृतं (पदं Cपरं )यथावत् तुरगश्रेष्ठ लभेय तत् कुरुष्व //
750 SK बहुशः (किल शत्रवो Cकलि-शत्रवो )निरस्ताः समरे त्वाम् अधिरुह्य पार्थिवेन अहम् अप्य् अ-मृतं (पदं Cपरं )यथावत् तुर-ग-श्रेष्ठ लभेय तत् कुरुष्व //
5.76 SK सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा //
752 SK सु-लभाः खलु सं-युगे सहाया विषय-अवाप्त-सुखे धन-अर्जने वा पुरुषस्य तु दुर्-लभाः सहायाः पतितस्या अपदि धर्म-संश्रये वा //
5.77 SK इह चैव भवन्ति ये सहायाः कलुषे (कर्मणि Cधर्मणि )धर्मसंश्रये वा अवगच्छति मे यथान्तरात्मा नियतं ते ऽपि जनास् तदंशभाजः //
754 SK इह च एव भवन्ति ये सहायाः कलुषे (कर्मणि Cधर्मणि )धर्म-संश्रये वा अवगच्छति मे यथ आन्तर्-आत्मा नियतं ते ऽपि जनास् तद्-अंश-भाजः //
5.78 SK तद् इदं परिगम्य धर्मयुक्तं मम निर्याणम् (इतो Cअतो )जगद्धिताय तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च //
756 SK तद् इदं परिगम्य धर्म-युक्तं मम निर्याणम् (इतो Cअतो )जगद्-धिताय तुर-ग-उत्तम वेग-विक्रमाभ्यां प्रयतस्वा अत्म-हिते जगद्-धिते च //
5.79 SK इति सुहृदम् इवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः सितम् असितगतिद्युतिर् वपुष्मान् रविर् इव शारदम् अभ्रम् आरुरोह //
758 SK इति सु-हृदम् इव अनुशिष्य कृत्ये तुर-ग-वरं नृ-वरो वनं यियासुः सितम् असित-गति-द्युतिर् वपुष्मान् रविर् इव शारदम् अभ्रम् आरुरोह //
5.80 SK अथ स परिहरन् निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः विगतहनुरवः प्रशान्तहेषश् चकितविमुक्तपद(क्रमो Cक्रमा )जगाम //
760 SK अथ स परिहरन् निशीथ-चण्डं परिजन-बोध-करं ध्वनिं सद्-अश्वः विगत-हनु-रवः प्रशान्त-हेषश् चकित-विमुक्त-पद-(क्रमो Cक्रमा )जगाम //
5.81 SK कनकवलयभूषितप्रकोष्ठैः कमलनिभैः (कमलान् इव Cकमलानि च )प्रविध्य अवनततनवस् ततो ऽस्य यक्षाश् चकित(गतैर् Cगतेर् )दधिरे खुरान् कराग्रैः //
762 SK कनक-वलय-भूषित-प्रकोष्ठैः कमल-निभैः (कमलान् इव Cकमलानि च )प्रविध्य अवनत-तनवस् ततो ऽस्य यक्षाश् चकित-(गतैर् Cगतेर् )दधिरे खुरान् कर-अग्रैः //
5.82 SK गुरुपरिघकपाटसंवृता या न सुखम् अपि द्विरदैर् अपाव्रियन्ते व्रजति नृपसुते गतस्वनास् ताः स्वयम् अभवन् विवृताः पुरः प्रतोल्यः //
764 SK गुरु-परिघ-कपाट-संवृता या न सुखम् अपि द्वि-रदैर् अपाव्रियन्ते व्रजति नृ-प-सुते गत-स्वनास् ताः स्वयम् अभवन् विवृताः पुरः प्रतोल्यः //
5.83 SK पितरम् अभिमुखं सुतं च बालं जनम् अनुरक्तम् अनुत्तमां च लक्ष्मीम् कृतमतिर् अपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम //
766 SK पितरम् अभि-मुखं सुतं च बालं जनम् अनुरक्तम् अन्-उत्तमां च लक्ष्मीम् कृत-मतिर् अपहाय निर्-व्यपेक्षः पितृ-नगरात् स ततो विनिर्जगाम //
5.84 SK अथ स (विमलCविकच)पङ्कजायताक्षः पुरम् अवलोक्य ननाद सिंहनादम् जननमरणयोर् अदृष्टपारो न (पुरम् Cपुनर् )अहं कपिलाह्वयं (प्रवेष्टा Cप्रविष्टा ) //
768 SK अथ स (वि-मल-Cविकच-)पङ्क-ज-आयत-अक्षः पुरम् अवलोक्य ननाद सिंह-नादम् जनन-मरणयोर् अ-दृष्ट-पारो न (पुरम् Cपुनर् )अहं कपिल-आह्वयं (प्रवेष्टा Cप्रविष्टा ) //
5.85 SK इति वचनम् इदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः प्रमुदितमनसश् च देवसङ्घा व्यवसितपारणम् आशशंसिरे ऽस्मै //
770 SK इति वचनम् इदं निशम्य तस्य द्रविण-पतेः परिषद्-गणा ननन्दुः प्रमुदित-मनसश् च देव-सङ्घा व्यवसित-पारणम् आशशंसिरे ऽस्मै //
5.86 SK हुतवहवपुषो दिवौकसो ऽन्ये व्यवसितम् अस्य (सुदुष्Cच दुष्)करं विदित्वा (अकृषत Cअकुरुत )तुहिने पथि प्रकाशं घनविवरप्रष्र्ता इवेन्दुपादाः //
772 SK हुत-वह-वपुषो दिव-ओकसो ऽन्ये व्यवसितम् अस्य (सु-दुष्-Cच दुष्-)करं विदित्वा (अकृषत Cअकुरुत )तुहिने पथि प्रकाशं घन-विवर-प्रष्र्ता इव इन्दु-पादाः //
5.87 SK अरुणपरुष(तारम् अन्तरिक्षं Cभारम् अन्तरीक्षं (स च सुबहूनि Cसरसबहूनि )जगाम योजनानि //
774 SK अरुण-परुष-(तारम् अन्तरिक्षं Cभारम् अन्तरीक्षं (स च सु-बहूनि Cसरस-बहूनि )जगाम योजनानि //
775 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये ऽभिनिष्क्रमणो नाम पञ्चमः सर्गः -- ५ --]]
6.1 SK ततो (मुहूर्ताभ्युदिते Cमुहूर्ते ऽभ्युदिते जगच्चक्षुषि भास्करे भार्गवस्याश्रमपदं स ददर्श नृणां वरः //
777 SK ततो (मुहूर्त-अभ्युदिते Cमुहूर्ते ऽभ्युदिते जगच्-चक्षुषि भास्-करे भार्गवस्या अश्रम-पदं स ददर्श नृणां वरः //
6.2 SK सुप्तविश्वस्तहरिणं स्वस्थस्थितविहंगमम् विश्रान्त इव यद् (दृष्ट्वा Cदृष्टा [सिच्] कृतार्थ इव चाभवत् //
779 SK सुप्त-विश्वस्त-हरिणं स्व-स्थ-स्थित-विहं-गमम् विश्रान्त इव यद् (दृष्ट्वा Cदृष्टा [सिच्] कृत-अर्थ इव च अभवत् //
6.3 SK स विस्मयनिवृत्त्यर्थं तपःपूजार्थम् एव च स्वां चानुवर्तितां रक्षण्न् अश्वपृष्ठाद् अवातरत् //
781 SK स विस्मय-निवृत्त्य्-अर्थं तपः-पूजा-अर्थम् एव च स्वां च अनुवर्तितां रक्षण्न् अश्व-पृष्ठाद् अवातरत् //
6.4 SK अवतीर्य च पस्पर्श निस्तीर्णम् इति वाजिनम् छन्दकं चाब्रवीत् प्रीतः स्नापयन्न् इव चक्षुषा //
783 SK अवतीर्य च पस्पर्श निस्तीर्णम् इति वाजिनम् छन्दकं च अब्रवीत् प्रीतः स्नापयन्न् इव चक्षुषा //
6.5 SK इमं तार्क्ष्योपमजवं तुरंगम् अनुगच्छता दर्शिता सौम्य मद्भक्तिर् विक्रमश् चायम् आत्मनः //
785 SK इमं तार्क्ष्य-उपम-जवं तुरं-गम् अनुगच्छता दर्शिता सौम्य मद्-भक्तिर् विक्रमश् च अयम् आत्मनः //
6.6 SK सर्वथास्म्य् अन्यकार्यो ऽपि गृहीतो भवता हृदि भर्तृस्नेहश् च यस्यायम् ईदृशः (शक्तिर् Cशक्त )एव च //
787 SK सर्वथ आस्म्य् अन्य-कार्यो ऽपि गृहीतो भवता हृदि भर्तृ-स्नेहश् च यस्य अयम् ई-दृशः (शक्तिर् Cशक्त )एव च //
6.7 SK अस्निग्धो ऽपि समर्थो ऽस्ति निःसामर्थ्यो ऽपि भक्तिमान् भक्तिमांस् चैव शक्तश् च दुर्लभस् त्वद्विधो भुवि //
789 SK अ-स्निग्धो ऽपि सम्-अर्थो ऽस्ति निः-सामर्थ्यो ऽपि भक्तिमान् भक्तिमांस् च एव शक्तश् च दुर्-लभस् त्वद्-विधो भुवि //
6.8 SK तत् प्रीतो ऽस्मि तवानेन महाभागेन कर्मणा (यस्य ते Cदृश्यते )मयि भावो ऽयं फलेभ्यो ऽपि पराङ्(मुखः Cमुखे ) //
791 SK तत् प्रीतो ऽस्मि तव अनेन महा-भागेन कर्मणा (यस्य ते Cदृश्यते )मयि भावो ऽयं फलेभ्यो ऽपि पराङ्-(मुखः Cमुखे ) //
6.9 SK को जनस्य फलस्थस्य न स्याद् अभिमुखो जनः जनीभवति भूयिष्ठं स्वजनो ऽपि विपर्यये //
793 SK को जनस्य फल-स्थस्य न स्याद् अभि-मुखो जनः जनी-भवति भूयिष्ठं स्व-जनो ऽपि विपर्यये //
6.10 SK कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता (आशयाच् छ्लिष्यति Cआशयाश्लिष्यति )जगन् नास्ति निष्(कारणा स्वता Cकारणास्वता ) //
795 SK कुल-अर्थं धार्यते पुत्रः पोष-अर्थं सेव्यते पिता (आशयाच् छ्लिष्यति Cआशया आश्लिष्यति )जगन् न अस्ति निष्-(कारणा स्वता Cकारण-अ-स्वता ) //
6.11 SK किम् उक्त्वा बहु संक्षेपात् कृतं मे सुमहत् प्रियम् निवर्तस्वाश्वम् आदाय संप्राप्तो ऽस्मीप्सितं (पदम् Cवनम् ) //
797 SK किम् उक्त्वा बहु संक्षेपात् कृतं मे सु-महत् प्रियम् निवर्तस्व अश्वम् आदाय संप्राप्तो ऽस्मी इप्सितं (पदम् Cवनम् ) //
6.12 SK इत्य् उक्त्वा स महाबाहुर् अनुशंसचिकीर्षया भूषणान्य् अवमुच्यास्मै संतप्तमनसे ददौ //
799 SK इत्य् उक्त्वा स महा-बाहुर् अनुशंस-चिकीर्षया भूषणान्य् अवमुच्य अस्मै संतप्त-मनसे ददौ //
6.13 SK (मुकुटाद् दीपCमुकुटोद्दीप्त)कर्माणं मणिम् आदाय भास्वरम् ब्रुवन् वाक्यम् इदं तस्थौ सादित्य इव मन्दरः //
801 SK (मुकुटाद् दीप-Cमुकुट-उद्दीप्त-)कर्माणं मणिम् आदाय भास्वरम् ब्रुवन् वाक्यम् इदं तस्थौ स-आदित्य इव मन्दरः //
6.14 SK अनेन मणिना छन्द प्रणम्य बहुशो नृपः विज्ञाप्यो ऽमुक्तविश्रम्भं संतापविनिवृत्तये //
803 SK अनेन मणिना छन्द प्रणम्य बहुशो नृ-पः विज्ञाप्यो ऽमुक्त-विश्रम्भं संताप-विनिवृत्तये //
6.15 SK (जन्मCजरा)मरणनाशार्थं प्रविष्टो ऽस्मि तपोवनम् न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना //
805 SK (जन्म-Cजरा-)मरण-नाश-अर्थं प्रविष्टो ऽस्मि तपो-वनम् न खलु स्वर्ग-तर्षेण न अ-स्नेहेन न मन्युना //
6.16 SK तद् एवम् अभिनिष्क्रान्तं न मां शोचितुम् अर्हसि भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति //
807 SK तद् एवम् अभिनिष्क्रान्तं न मां शोचितुम् अर्हसि भूत्व आपि हि चिरं श्लेषः कालेन न भविष्यति //
6.17 SK ध्रुवो यस्माच् च विश्लेषस् तस्मान् मोक्षाय मे मतिः विप्रयोगः कथं न स्याद् भूयो ऽपि स्व(जनाद् इति Cजनादिभिः ) //
809 SK ध्रुवो यस्माच् च विश्लेषस् तस्मान् मोक्षाय मे मतिः विप्रयोगः कथं न स्याद् भूयो ऽपि स्व-(जनाद् इति Cजन-आदिभिः ) //
6.18 SK शोकत्यागाय निष्क्रान्तं न मां शोचितुम् अर्हसि शोकहेतुषु कामेषु सक्ताः शोच्यास् तु रागिणः //
811 SK शोक-त्यागाय निष्क्रान्तं न मां शोचितुम् अर्हसि शोक-हेतुषु कामेषु सक्ताः शोच्यास् तु रागिणः //
6.19 SK अयं च किल पूर्वेषाम् अस्माकं निश्चयः स्थिरः इति (दायाद्यCदायाद)भूतेन न शोच्यो ऽस्मि पथा व्रजन् //
813 SK अयं च किल पूर्वेषाम् अस्माकं निश्चयः स्थिरः इति (दायाद्य-Cदाय-आद-)भूतेन न शोच्यो ऽस्मि पथा व्रजन् //
6.20 SK भवन्ति ह्य् अर्थदायादाः पुरुषस्य विपर्यये पृथिव्यां धर्मदायादाः दुर्लभास् तु न सन्ति वा //
815 SK भवन्ति ह्य् अर्थ-दाय-आदाः पुरुषस्य विपर्यये पृथिव्यां धर्म-दाय-आदाः दुर्-लभास् तु न सन्ति वा //
6.21 SK यद् अपि स्याद् असमये यातो वनम् असाव् इति अकालो नास्ति धर्मस्य जीविते चञ्चले सति //
817 SK यद् अपि स्याद् अ-समये यातो वनम् असाव् इति अ-कालो न अस्ति धर्मस्य जीविते चञ्चले सति //
6.22 SK तस्माद् अद्यैव मे श्रेयश् चेतव्यम् इति निश्चयः जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते //
819 SK तस्माद् अद्य एव मे श्रेयश् चेतव्यम् इति निश्चयः जीविते को हि विश्रम्भो मृत्यौ प्रत्य्-अर्थिनि स्थिते //
6.23 SK एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः प्रयतेथास् तथा चैव यथा मां न स्मरेद् अपि //
821 SK एवम्-आदि त्वया सौम्य विज्ञाप्यो वसु-धा-अधिपः प्रयतेथास् तथा च एव यथा मां न स्मरेद् अपि //
6.24 SK अपि नैर्गुण्यम् अस्माकं वाच्यं नरपतौ त्वया नैर्गुण्यात् त्यज्यते स्नेहः स्नेहत्यागान् न शोच्यते //
823 SK अपि नैर्गुण्यम् अस्माकं वाच्यं नर-पतौ त्वया नैर्गुण्यात् त्यज्यते स्नेहः स्नेह-त्यागान् न शोच्यते //
6.25 SK इति वाक्यम् इदं श्रुत्वा छन्दः संतापविक्लवः (बाष्पCवाष्प)ग्रथितया वाचा प्रत्युवाच कृताञ्जलिः //
825 SK इति वाक्यम् इदं श्रुत्वा छन्दः संताप-विक्लवः (बाष्प-Cवाष्प-)ग्रथितया वाचा प्रत्युवाच कृत-अञ्जलिः //
6.26 SK अनेन तव भावेन बान्धवायासदायिना भर्तः सीदति मे चेतो नदीपङ्कए इव द्विपः //
827 SK अनेन तव भावेन बान्धव-आयास-दायिना भर्तः सीदति मे चेतो नदी-पङ्कए इव द्वि-पः //
6.27 SK कस्य नोत्पादयेद् (बाष्पं Cवाष्पं निश्चयस् ते ऽयम् ईदृशः अयोमये ऽपि हृदये किं पुनः स्नेहविक्लवे //
829 SK कस्य न उत्पादयेद् (बाष्पं Cवाष्पं निश्चयस् ते ऽयम् ई-दृशः अयोमये ऽपि हृदये किं पुनः स्नेह-विक्लवे //
6.28 SK विमानशयनार्हं हि सौकुमार्यम् इदं क्व च खरदर्भाङ्कुरवती तपोवनमही क्व च //
831 SK विमान-शयन-अर्हं हि सौकुमार्यम् इदं क्व च खर-दर्भ-अङ्कुरवती तपो-वन-मही क्व च //
6.29 SK श्रुत्वा तु व्यवसायं ते यद् अश्वो ऽयं (मयाहृतः Cमया हृतः ) बलात्कारेण तन् नाथ दैवेनैवास्मि कारितः //
833 SK श्रुत्वा तु व्यवसायं ते यद् अश्वो ऽयं (मया आहृतः Cमया हृतः ) बलात्-कारेण तन् नाथ दैवेन एव अस्मि कारितः //
6.30 SK कथं ह्य् आत्मवशो जानन् व्यवसायम् इमं तव उपानयेयं तुरगं शोकं कपिल(वास्तुनः Cवस्तुनः ) //
835 SK कथं ह्य् आत्म-वशो जानन् व्यवसायम् इमं तव उपानयेयं तुर-गं शोकं कपिल-(वास्तुनः Cवस्तुनः ) //
6.31 SK तन् नार्हसि महाबाहो विहातुं पुत्रलालसम् स्निग्धं वृद्धं च राजानं सद्धर्मम् इव नास्तिकः //
837 SK तन् न अर्हसि महा-बाहो विहातुं पुत्र-लालसम् स्निग्धं वृद्धं च राजानं सद्-धर्मम् इव नास्तिकः //
6.32 SK संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् (देवीं Cदेव )नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् //
839 SK संवर्धन-परिश्रान्तां द्वितीयां तां च मातरम् (देवीं Cदेव )न अर्हसि विस्मर्तुं कृत-घ्न इव सत्-क्रियाम् //
6.33 SK बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम् देवीम् अर्हसि न त्यक्तुं (क्लीबः Cक्लीवः )प्राप्ताम् इव श्रियम् //
841 SK बाल-पुत्रां गुणवतीं कुल-श्लाघ्यां पति-व्रताम् देवीम् अर्हसि न त्यक्तुं (क्लीबः Cक्लीवः )प्राप्ताम् इव श्रियम् //
6.34 SK पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां (वरम् Cवरः ) बालम् अर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः //
843 SK पुत्रं याशोधरं श्लाघ्यं यशो-धर्म-भृतां (वरम् Cवरः ) बालम् अर्हसि न त्यक्तुं व्यसनि ईव उत्तमं यशः //
6.35 SK अथ बन्धुं च राज्यं च त्यक्तुम् एव कृता मतिः मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर् मम //
845 SK अथ बन्धुं च राज्यं च त्यक्तुम् एव कृता मतिः मां न अर्हसि विभो त्यक्तुं त्वत्-पादौ हि गतिर् मम //
6.36 SK नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा त्वाम् अरण्ये परित्यज्य सु(मन्त्र Cमित्र )इव राघवम् //
847 SK न अस्मि यातुं पुरं शक्तो दह्यमानेन चेतसा त्वाम् अरण्ये परित्यज्य सु-(मन्त्र Cमित्र )इव राघवम् //
6.37 SK किं हि वक्ष्यति (मां राजा Cराजा मां त्वदृते नगरं गतम् वक्ष्याम्य् उचितदर्शित्वात् किं तवान्तःपुराणि वा //
849 SK किं हि वक्ष्यति (मां राजा Cराजा मां त्वद्-ऋते नगरं गतम् वक्ष्याम्य् उचित-दर्शित्वात् किं तव अन्तः-पुराणि वा //
6.38 SK यद् अप्य् आत्थापि नैर्गुण्यं वाच्यं नरपताव् इति किं तद् वक्ष्याम्य् अभूतं ते निर्दोषस्य मुनेर् इव //
851 SK यद् अप्य् आत्थ अपि नैर्गुण्यं वाच्यं नर-पताव् इति किं तद् वक्ष्याम्य् अ-भूतं ते निर्-दोषस्य मुनेर् इव //
6.39 SK हृदयेन सलज्जेन जिह्वया सज्जमानया अहं यद्यपि वा ब्रूयां कस् तच् छ्रद्धातुम् अर्हति //
853 SK हृदयेन स-लज्जेन जिह्वया सज्जमानया अहं यद्य्-अपि वा ब्रूयां कस् तच् छ्रद्धातुम् अर्हति //
6.40 SK यो हि चन्द्रमसस् (तैक्ष्ण्यं Cतैक्ष्ण्य [सिच्] कथयेच् छ्रद्दधीत वा स दोषांस् तव दोषज्ञ कथयेच् छ्रद्दधीत वा //
855 SK यो हि चन्द्र-मसस् (तैक्ष्ण्यं Cतैक्ष्ण्य [सिच्] कथयेच् छ्रद्दधीत वा स दोषांस् तव दोष-ज्ञ कथयेच् छ्रद्दधीत वा //
6.41 SK सानुक्रोशस्य सततं नित्यं करुणवेदिनः स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे //
857 SK स-अनुक्रोशस्य सततं नित्यं करुण-वेदिनः स्निग्ध-त्यागो न स-दृशो निवर्तस्व प्रसीद मे //
6.42 SK इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् स्वस्थः परमया धृत्या जगाद वदतां वरः //
859 SK इति शोक-अभिभूतस्य श्रुत्वा छन्दस्य भाषितम् स्व-स्थः परमया धृत्या जगाद वदतां वरः //
6.43 SK मद्वियोगं प्रति च्छन्द संतापस् त्यज्यताम् अयम् नानाभावो हि नियतं पृथग्जातिषु देहिषु //
861 SK मद्-वियोगं प्रति च्छन्द संतापस् त्यज्यताम् अयम् नाना-भावो हि नियतं पृथग्-जातिषु देहिषु //
6.44 SK स्वजनं यद्यपि स्नेहान् न (त्यजेयम् अहं स्वयम् Cत्यजेयं मुमुक्षया ) मृत्युर् अन्योअन्यम् अवशान् अस्मान् संत्याजयिष्यति //
863 SK स्व-जनं यद्य्-अपि स्नेहान् न (त्यजेयम् अहं स्वयम् Cत्यजेयं मुमुक्षया ) मृत्युर् अन्यो-अन्यम् अ-वशान् अस्मान् संत्याजयिष्यति //
6.45 SK महत्या तृष्णया दुःखैर् गर्भेणास्मि यया धृतः तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम //
865 SK महत्या तृष्णया दुःखैर् गर्भेण अस्मि यया धृतः तस्या निष्-फल-यत्नायाः क्व अहं मातुः क्व सा मम //
6.46 SK वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः नियतं विप्रयोगान्तस् तथा भूतसमागमः //
867 SK वास-वृक्षे समागम्य विगच्छन्ति यथ आण्ड-जाः नियतं विप्रयोग-अन्तस् तथा भूत-समागमः //
6.47 SK समेत्य च यथा भूयो व्यपयान्ति (बलाहकाः Cवलाहकाः ) संयोगो विप्रयोगश् च तथा मे प्राणिनां मतः //
869 SK समेत्य च यथा भूयो व्यपयान्ति (बलाहकाः Cवलाहकाः ) संयोगो विप्रयोगश् च तथा मे प्राणिनां मतः //
6.48 SK यस्माद् याति च लोको ऽयं विप्रलभ्य परंपरम् ममत्वं न क्षमं तस्मात् स्वप्नभूते समागमे //
871 SK यस्माद् याति च लोको ऽयं विप्रलभ्य परं-परम् ममत्वं न क्षमं तस्मात् स्वप्न-भूते समागमे //
6.49 SK सहजेन वियुज्यन्ते पर्णरागेण पादपाः अन्येनान्यस्य विश्लेषः किं पुनर् न भविष्यति //
873 SK सह-जेन वियुज्यन्ते पर्ण-रागेण पाद-पाः अन्येन अन्यस्य विश्लेषः किं पुनर् न भविष्यति //
6.50 SK तद् एवं सति संतापं मा कार्षीः सौम्य गम्यताम् लम्बते यदि तु स्नेहो गत्वापि पुनर् आव्रज //
875 SK तद् एवं सति संतापं मा कार्षीः सौम्य गम्यताम् लम्बते यदि तु स्नेहो गत्व आपि पुनर् आव्रज //
6.51 SK ब्रूयाश् (चास्मत्कृतापेक्षं Cचास्मास्व् अनाक्षेपं जनं कपिल(वास्तुनि Cवस्तुनि ) त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः //
877 SK ब्रूयाश् (च अस्मत्-कृत-अपेक्षं Cच अस्मास्व् अन्-आक्षेपं जनं कपिल-(वास्तुनि Cवस्तुनि ) त्यज्यतां तद्-गतः स्नेहः श्रूयतां च अस्य निश्चयः //
6.52 SK क्षिप्रम् एष्यति वा कृत्वा जन्ममृत्युक्षयं किल अकृतार्थो निर्(आरम्भो Cआलम्बो निधनं यास्यतीति वा //
879 SK क्षिप्रम् एष्यति वा कृत्वा जन्म-मृत्यु-क्षयं किल अ-कृत-अर्थो निर्-(आरम्भो Cआलम्बो निधनं यास्यति इति वा //
6.53 SK इति तस्य वचः श्रुत्वा कन्थकस् तुरगोत्तमः जिह्वया लिलिहे पादौ (बाष्पम् Cवाष्पम् )उष्णं मुमोच च //
881 SK इति तस्य वचः श्रुत्वा कन्थकस् तुर-ग-उत्तमः जिह्वया लिलिहे पादौ (बाष्पम् Cवाष्पम् )उष्णं मुमोच च //
6.54 SK जालिना स्वस्तिकाङ्केन (चक्रCवक्र)मध्येन पाणिना आममर्श कुमारस् तं बभाषे च वयस्यवत् //
883 SK जालिना स्वस्तिक-अङ्केन (चक्र-Cवक्र-)मध्येन पाणिना आममर्श कुमारस् तं बभाषे च वयस्यवत् //
6.55 SK मुञ्च कन्थक मा (बाष्पं Cवाष्पं दर्शितेयं सदश्वता मृष्यतां सफलः शीघ्रं श्रमस् ते ऽयं भविष्यति //
885 SK मुञ्च कन्थक मा (बाष्पं Cवाष्पं दर्शित ईयं सद्-अश्वता मृष्यतां स-फलः शीघ्रं श्रमस् ते ऽयं भविष्यति //
6.56 SK मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा कोशाद् असिं काञ्चनभक्तिचित्रं (बिलाद् Cविलाद् )इवाशीविषम् उद्बबर्ह //
887 SK मणित्-सरुं छन्दक-हस्त-संस्थं ततः स धीरो निशितं गृहीत्वा कोशाद् असिं काञ्चन-भक्ति-चित्रं (बिलाद् Cविलाद् )इवा अशी-विषम् उद्बबर्ह //
6.57 SK निष्कास्य तं चदुत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् विकीर्यमाणांशुकम् अन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् //
889 SK निष्कास्य तं चदुत्पल-पत्त्र-नीलं चिच्छेद चित्रं मुकुटं स-केशम् विकीर्यमाण-अंशुकम् अन्तरीक्षे चिक्षेप च एनं सरसि इव हंसम् //
6.58 SK पूजाभिलाषेण च बाहुमान्याद् दिवौकसस् तं जगृहुः प्रविद्धम् यथावद् एनं दिवि देवसङ्घा दिव्यैर् विशेषैर् महयां च चक्रुः //
891 SK पूजा-अभिलाषेण च बाहुमान्याद् दिव-ओकसस् तं जगृहुः प्रविद्धम् यथावद् एनं दिवि देव-सङ्घा दिव्यैर् विशेषैर् महयां च चक्रुः //
6.59 SK मुक्त्वा त्व् अलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश् च कृत्वा दृष्ट्वांशुकं काञ्चनहंस(चिह्नं Cचित्रम् वन्यं स धीरो ऽभिचकाङ्क्ष वासः //
893 SK मुक्त्वा त्व् अलंकार-कलत्रवत्तां श्री-विप्रवासं शिरसश् च कृत्वा दृष्ट्व आंशुकं काञ्चन-हंस-(चिह्नं Cचित्रम् वन्यं स धीरो ऽभिचकाङ्क्ष वासः //
6.60 SK ततो मृगव्याधवपुर् दिवौका भावं विदित्वास्य विशुद्धभावः काषायवस्त्रो ऽभिययौ समीपं तं शाक्यराजप्रभवो ऽभ्युवाच //
895 SK ततो मृग-व्याध-वपुर् दिव-ओका भावं विदित्व आस्य विशुद्ध-भावः काषाय-वस्त्रो ऽभिययौ समीपं तं शाक्य-राज-प्रभवो ऽभ्युवाच //
6.61 SK शिवं च काषायम् ऋषिध्वजस् ते न युज्यते हिंस्रम् इदं धनुश् च तत् सौम्य यद्य् अस्ति न सक्तिर् अत्र मह्यं प्रयच्छेदम् इदं गृहाण //
897 SK शिवं च काषायम् ऋषि-ध्वजस् ते न युज्यते हिंस्रम् इदं धनुश् च तत् सौम्य यद्य् अस्ति न सक्तिर् अत्र मह्यं प्रयच्छ इदम् इदं गृहाण //
6.62 SK व्याधो ऽब्रवीत् कामद कामम् आराद् अनेन विश्वास्य मृगान् (निहन्मि Cनिहत्य ) अर्थस् तु शक्रोपम यद्य् अनेन हन्त प्रतीच्छानय शुक्लम् एतत् //
899 SK व्याधो ऽब्रवीत् काम-द कामम् आराद् अनेन विश्वास्य मृगान् (निहन्मि Cनिहत्य ) अर्थस् तु शक्र-उपम यद्य् अनेन हन्त प्रतीच्छा अनय शुक्लम् एतत् //
6.63 SK परेण हर्षेण ततः स वन्यं जग्राह वासो ऽंशुकम् उत्ससर्ज व्याधस् तु दिव्यं वपुर् एव बिभ्रत् तच् छुक्लम् आदाय दिवं जगाम //
901 SK परेण हर्षेण ततः स वन्यं जग्राह वासो ऽंशुकम् उत्ससर्ज व्याधस् तु दिव्यं वपुर् एव बिभ्रत् तच् छुक्लम् आदाय दिवं जगाम //
6.64 SK ततः कुमारश् च स चाश्वगोपस् तस्मिंस् तथा याति विसिस्मियाते आरण्यके वाससि चैव भूयस् तस्मिन्न् अकार्ष्टां बहुमानम् आशु //
903 SK ततः कुमारश् च स च अश्व-गो-पस् तस्मिंस् तथा याति विसिस्मियाते आरण्यके वाससि च एव भूयस् तस्मिन्न् अकार्ष्टां बहु-मानम् आशु //
6.65 SK छन्दं ततः साश्रुमुखं विसृज्य काषाय(संभृद् धृतिCसंविद् वृत)कीर्तिभृत् सः येनाश्रमस् तेन ययौ महात्मा संध्याभ्रसंवीत (इवोडुCइवाद्रि)राजः //
905 SK छन्दं ततः स-अश्रु-मुखं विसृज्य काषाय-(संभृद् धृति-Cसंविद् वृत-)कीर्ति-भृत् सः येना अश्रमस् तेन ययौ महा-आत्मा संध्या-अभ्र-संवीत (इव उडु-Cइव अद्रि-)राजः //
6.66 SK ततस् तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि भुजौ समुत्क्षिप्य ततः स वाजिभृद् भृशं विचुक्रोश पपात च क्षितौ //
907 SK ततस् तथा भर्तरि राज्य-निः-स्पृहे तपो-वनं याति वि-वर्ण-वाससि भुजौ समुत्क्षिप्य ततः स वाजि-भृद् भृशं विचुक्रोश पपात च क्षितौ //
6.67 SK विलोक्य भूयश् च रुरोद सस्वरं हयं भुजाभ्याम् उपगुह्य कन्थकम् ततो निराशो विलपन् मुहुर् मुहुर् ययौ शरीरेण पुरं न चेतसा //
909 SK विलोक्य भूयश् च रुरोद स-स्वरं हयं भुजाभ्याम् उपगुह्य कन्थकम् ततो निर्-आशो विलपन् मुहुर् मुहुर् ययौ शरीरेण पुरं न चेतसा //
6.68 SK क्वचित् प्रदध्यौ विललाप च क्वचित् क्वचित् प्रचस्खाल पपात च क्वचित् अतो व्रजन् भक्तिवशेन दुःखितश् चचार बह्वीर् (अवसः Cअवशः )पथि क्रियाः //
911 SK क्व-चित् प्रदध्यौ विललाप च क्व-चित् क्व-चित् प्रचस्खाल पपात च क्व-चित् अतो व्रजन् भक्ति-वशेन दुःखितश् चचार बह्वीर् (अवसः Cअ-वशः )पथि क्रियाः //
912 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये छन्दक-(निवर्तनो Cनिवर्तनं )नाम षष्ठः सर्गः -- ६ --]]
7.1 SK ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः सर्वार्थसिद्धो वपुषाभिभूय तम् आश्रमं (सिद्ध Cसिद्धम् )इव प्रपेदे //
914 SK ततो विसृज्य अश्रु-मुखं रुदन्तं छन्दं वन-च्छन्दतया निर्-आस्थः सर्व-अर्थ-सिद्धो वपुष आभिभूय तम् आश्रमं (सिद्ध Cसिद्धम् )इव प्रपेदे //
7.2 SK स राजसूनुर् मृगराजगामी मृगाजिरं तन् मृगवत् प्रविष्टः लक्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार //
916 SK स राज-सूनुर् मृग-राज-गामी मृग-अजिरं तन् मृगवत् प्रविष्टः लक्ष्मी-वियुक्तो ऽपि शरीर-लक्ष्म्या चक्षूंषि सर्व-आश्रमिणां जहार //
7.3 SK स्थिता हि हस्तस्थयुगास् तथैव कौतूहलाच् चक्रधराः सदाराः तम् इन्द्रकल्पं ददृशुर् न जग्मुर् धुर्या इवार्धावनतैः शिरोभिः //
918 SK स्थिता हि हस्त-स्थ-युगास् तथ ऐव कौतूहलाच् चक्र-धराः स-दाराः तम् इन्द्र-कल्पं ददृशुर् न जग्मुर् धुर्या इव अर्ध-अवनतैः शिरोभिः //
7.4 SK विप्राश् च गत्वा बहिर् इध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः तपःप्रधानाः कृतबुद्धयो ऽपि तं द्रष्टुम् ईयुर् न मठान् अभीयुः //
920 SK विप्राश् च गत्वा बहिर् इध्म-हेतोः प्राप्ताः समित्-पुष्प-पवित्र-हस्ताः तपः-प्रधानाः कृत-बुद्धयो ऽपि तं द्रष्टुम् ईयुर् न मठान् अभीयुः //
7.5 SK हृष्टाश् च केका मुमुचुर् मयूरा दृष्ट्वाम्बुदं नीलम् (इवोन्नमन्तः Cइवोन्नमन्तं ) शष्पाणि हित्वाभिमुखाश् च तस्थुर् मृगाश् चलाक्षा मृगचारिणश् च //
922 SK हृष्टाश् च केका मुमुचुर् मयूरा दृष्ट्व आम्बु-दं नीलम् (इव उन्नमन्तः Cइव उन्नमन्तं ) शष्पाणि हित्व आभि-मुखाश् च तस्थुर् मृगाश् चल-अक्षा मृग-चारिणश् च //
7.6 SK दृष्ट्वा तम् इक्ष्वाकुकुलप्रदीपं ज्वलन्तम् उद्यन्तम् इवांशुमन्तम् कृते ऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर् होमदुहश् च गावः //
924 SK दृष्ट्वा तम् इक्ष्वाकु-कुल-प्रदीपं ज्वलन्तम् उद्यन्तम् इव अंशुमन्तम् कृते ऽपि दोहे जनित-प्रमोदाः प्रसुस्रुवुर् होम-दुहश् च गावः //
7.7 SK कश्चिद् वसूनाम् अयम् अष्टमः स्यात् स्याद् अश्विनोर् अन्यतरश् च्युतो (वा Cअत्र ) उच्चेरुर् उच्चैर् इति तत्र वाचस् तद्दर्शनाद् विस्मयजा मुनीनाम् //
926 SK कश्-चिद् वसूनाम् अयम् अष्टमः स्यात् स्याद् अश्विनोर् अन्यतरश् च्युतो (वा Cअत्र ) उच्चेरुर् उच्चैर् इति तत्र वाचस् तद्-दर्शनाद् विस्मय-जा मुनीनाम् //
7.8 SK लेखर्१षभस्येव वपुर् द्वितीयं धामेव लोकस्य चराचरस्य स द्योतयाम् आस वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः //
928 SK लेखर्१षभस्य इव वपुर् द्वितीयं धाम ईव लोकस्य चर-अ-चरस्य स द्योतयाम् आस वनं हि कृत्स्नं यद्-ऋच्छया सूर्य इव अवतीर्णः //
7.9 SK ततः स तैर् आश्रमिभिर् यथावद् अभ्यर्चितश् चोपनिमन्त्रितश् च प्रत्यर्चयां धर्मभृतो बभूव स्वरेण (साम्भोअम्बुCभाद्राम्बु)धरोपमेन //
930 SK ततः स तैर् आश्रमिभिर् यथावद् अभ्यर्चितश् च उपनिमन्त्रितश् च प्रत्यर्चयां धर्म-भृतो बभूव स्वरेण (स-अम्भो-अम्बु-Cभाद्र-अम्बु-)धर-उपमेन //
7.10 SK कीर्णं (तथा Cततः )पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः तम् आश्रमं सो ऽनुचचार धीरस् तपांसि चित्राणि निरीक्षमाणः //
932 SK कीर्णं (तथा Cततः )पुण्य-कृता जनेन स्वर्ग-अभिकामेन विमोक्ष-कामः तम् आश्रमं सो ऽनुचचार धीरस् तपांसि चित्राणि निरीक्षमाणः //
7.11 SK तपोविकारांश् च निरीक्ष्य सौम्यस् तपोवने तत्र तपोधनानाम् तपस्विनं कंचिद् अनुव्रजन्तं तत्त्वं विजिज्ञासुर् इदं बभाषे //
934 SK तपो-विकारांश् च निरीक्ष्य सौम्यस् तपो-वने तत्र तपो-धनानाम् तपस्विनं कं-चिद् अनुव्रजन्तं तत्त्वं विजिज्ञासुर् इदं बभाषे //
7.12 SK तत्पूर्वम् अद्याश्रमदर्शनं मे यस्माद् इमं धर्मविधिं न जाने तस्माद् भवान् अर्हति भाषितुं मे यो निश्चयो (यत् Cयं )प्रति वः प्रवृत्तः //
936 SK तत्-पूर्वम् अद्या अश्रम-दर्शनं मे यस्माद् इमं धर्म-विधिं न जाने तस्माद् भवान् अर्हति भाषितुं मे यो निश्चयो (यत् Cयं )प्रति वः प्रवृत्तः //
7.13 SK ततो द्विजातिः स तपोविहारः शाक्यर्१षभायर्७षभविक्रमाय क्रम्.एन तस्मै कथयां चकार तपो(विशेषांस् Cविशेषं )तपसः फलं च //
938 SK ततो द्वि-जातिः स तपो-विहारः शाक्यर्१षभायर्७षभ-विक्रमाय क्रम्.एन तस्मै कथयां चकार तपो-(विशेषांस् Cविशेषं )तपसः फलं च //
7.14 SK अग्राम्यम् अन्नं सलिले प्ररूढं पर्णानि तोयं फलमूलम् एव यथागमं वृत्तिर् इयं मुनीनां भिन्नास् तु ते ते तपसां विकल्पाः //
940 SK अ-ग्राम्यम् अन्नं सलिले प्ररूढं पर्णानि तोयं फल-मूलम् एव यथा-आगमं वृत्तिर् इयं मुनीनां भिन्नास् तु ते ते तपसां विकल्पाः //
7.15 SK उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन् मृगवच् चरन्ति केचिद् भुजंगैः सह वर्तयन्ति वल्मीकभूता (वनमारुतेन Cइव मारुतेन ) //
942 SK उञ्छेन जीवन्ति ख-गा इव अन्ये तृणानि के-चिन् मृगवच् चरन्ति के-चिद् भुजं-गैः सह वर्तयन्ति वल्मीक-भूता (वन-मारुतेन Cइव मारुतेन ) //
7.16 SK अश्मप्रयत्नार्जितवृत्तयो ऽन्ये केचित् स्वदन्तापहतान्नभक्षाः कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषम् अस्ति //
944 SK अश्म-प्रयत्न-अर्जित-वृत्तयो ऽन्ये के-चित् स्व-दन्त-अपहत-अन्न-भक्षाः कृत्वा पर-अर्थं श्रपणं तथ आन्ये कुर्वन्ति कार्यं यदि शेषम् अस्ति //
7.17 SK केचिज् जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम् मीनैः समं केचिद् अपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः //
946 SK के-चिज् जल-क्लिन्न-जटा-कलापा द्विः पावकं जुह्वति मन्त्र-पूर्वम् मीनैः समं के-चिद् अपो विगाह्य वसन्ति कूर्म-उल्लिखितैः शरीरैः //
7.18 SK एवंविधैः कालचितैस् तपोभिः परैर् दिवं यान्त्य् अपरैर् नृलोकम् दुःखेन मार्गेण सुखं (ह्य् उपैति Cक्षियन्ति (सुखं Cदुःखं )हि धर्मस्य वदन्ति मूलम् //
948 SK एवं-विधैः काल-चितैस् तपोभिः परैर् दिवं यान्त्य् अ-परैर् नृ-लोकम् दुःखेन मार्गेण सुखं (ह्य् उपैति Cक्षियन्ति (सुखं Cदुःखं )हि धर्मस्य वदन्ति मूलम् //
7.19 SK इत्य् एवमादि द्विपेन्द्रवत्सः श्रुत्वा वचस् तस्य तपोधनस्य अदृष्टतत्त्वो ऽपि न संतुतोष शनैर् इदं चात्मगतं (बभाषे Cजगाद ) //
950 SK इत्य् एवम्-आदि द्वि-प-इन्द्र-वत्सः श्रुत्वा वचस् तस्य तपो-धनस्य अ-दृष्ट-तत्त्वो ऽपि न संतुतोष शनैर् इदं चा अत्म-गतं (बभाषे Cजगाद ) //
7.20 SK दुःखात्मकं नैकविधं तपश् च स्वर्गप्रधानं तपसः फलं च लोकाश् च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्व् अयम् आश्रमाणाम् //
952 SK दुःख-आत्मकं न एक-विधं तपश् च स्वर्ग-प्रधानं तपसः फलं च लोकाश् च सर्वे परिणामवन्तः स्व्-अल्पे श्रमः खल्व् अयम् आश्रमाणाम् //
7.21 SK (प्रियांश् Cश्रियं )च बन्धून् विषयांश् च हित्वा ये स्वर्ग(हेतोर् Cहेतौ )नियमं चरन्ति ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं (बन्धनम् Cस्वं वनम् )एव भूयः //
954 SK (प्रियांश् Cश्रियं )च बन्धून् विषयांश् च हित्वा ये स्वर्ग-(हेतोर् Cहेतौ )नियमं चरन्ति ते विप्रयुक्ताः खलु गन्तु-कामा महत्तरं (बन्धनम् Cस्वं वनम् )एव भूयः //
7.22 SK कायक्लमैर् यश् च तपोअभिधानैः प्रवृत्तिम् आकाङ्क्षति कामहेतोः संसारदोषान् अपरीक्षमाणो दुःखेन सो ऽन्विच्छति दुःखम् एव //
956 SK काय-क्लमैर् यश् च तपो-अभिधानैः प्रवृत्तिम् आकाङ्क्षति काम-हेतोः संसार-दोषान् अ-परीक्षमाणो दुःखेन सो ऽन्विच्छति दुःखम् एव //
7.23 SK त्रासश् च नित्यं मरणात् प्रजानां यत्नेन चेच्छन्ति (पुनःप्रसूतिम् Cपुनः प्रसूतिम् ) सत्यां प्रवृत्तौ नियतश् च मृत्युस् तत्रैव (मग्ना Cमग्नो )यत एव (भीताः Cभीतः ) //
958 SK त्रासश् च नित्यं मरणात् प्रजानां यत्नेन च इच्छन्ति (पुनः-प्रसूतिम् Cपुनः प्रसूतिम् ) सत्यां प्रवृत्तौ नियतश् च मृत्युस् तत्र एव (मग्ना Cमग्नो )यत एव (भीताः Cभीतः ) //
7.24 SK इहार्थम् एके प्रविशन्ति खेदं स्वर्गार्थम् अन्ये श्रमम् आप्नुवन्ति सुखार्थम् आशाकृपणो ऽकृतार्थः पतत्य् अनर्थे खलु जीवलोकः //
960 SK इह अर्थम् एके प्रविशन्ति खेदं स्वर्ग-अर्थम् अन्ये श्रमम् आप्नुवन्ति सुख-अर्थम् आशा-कृपणो ऽकृत-अर्थः पतत्य् अन्-अर्थे खलु जीव-लोकः //
7.25 SK न खल्व् अयं गर्हित एव यत्नो यो हीनम् उत्सृज्य विशेषगामी प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद् यत्र पुनर् न कार्यम् //
962 SK न खल्व् अयं गर्हित एव यत्नो यो हीनम् उत्सृज्य विशेष-गामी प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद् यत्र पुनर् न कार्यम् //
7.26 SK शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्य् अधर्मः धर्मेण चाप्नोति सुखं परत्र तस्माद् अधर्मं फलतीह धर्मः //
964 SK शरीर-पीडा तु यदि इह धर्मः सुखं शरीरस्य भवत्य् अ-धर्मः धर्मेण चा अप्नोति सुखं परत्र तस्माद् अ-धर्मं फलति इह धर्मः //
7.27 SK यतः शरीरं मनसो वशेन प्रवर्तते (चापि Cवापि )निवर्तते (च Cवा ) युक्तो दमश् चेतस एव तस्माच् चित्ताद् ऋते काष्ठसमं शरीरम् //
966 SK यतः शरीरं मनसो वशेन प्रवर्तते (च अपि Cव आपि )निवर्तते (च Cवा ) युक्तो दमश् चेतस एव तस्माच् चित्ताद् ऋते काष्ठ-समं शरीरम् //
7.28 SK आहारशुद्ध्या यदि पुण्यम् इष्टं तस्मान् मृगाणाम् अपि पुण्यम् अस्ति ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्(मुखार्थाः Cमुखत्वात् ) //
968 SK आहार-शुद्ध्या यदि पुण्यम् इष्टं तस्मान् मृगाणाम् अपि पुण्यम् अस्ति ये च अपि बाह्याः पुरुषाः फलेभ्यो भाग्य-अपराधेन पराङ्-(मुख-अर्थाः Cमुखत्वात् ) //
7.29 SK दुःखे ऽभिसंधिस् त्व् अथ पुण्यहेतुः सुखे ऽपि कार्यो ननु सो ऽभिसंधिः अथ प्रमाणं न सुखे ऽभिसंधिर् दुःखे प्रमाणं ननु नाभिसंधिः //
970 SK दुःखे ऽभिसंधिस् त्व् अथ पुण्य-हेतुः सुखे ऽपि कार्यो ननु सो ऽभिसंधिः अथ प्रमाणं न सुखे ऽभिसंधिर् दुःखे प्रमाणं ननु न अभिसंधिः //
7.30 SK तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्य् अपस् तीर्थम् इति प्रवृत्ताः तत्रापि तोषो हृदि केवलो ऽयं न पावयिस्.यन्ति हि पापम् आपः //
972 SK तथ ऐव ये कर्म-विशुद्धि-हेतोः स्पृशन्त्य् अपस् तीर्थम् इति प्रवृत्ताः तत्र अपि तोषो हृदि केवलो ऽयं न पावयिस्.यन्ति हि पापम् आपः //
7.31 SK स्पृष्टं हि यद् यद् गुणवद्भिर् अम्भस् तत् तत् पृथिव्यां यदि तीर्थम् इष्टम् तस्माद् गुणान् एव परैमि तीर्थम् आपस् तु निःसंशयम् आप एव //
974 SK स्पृष्टं हि यद् यद् गुणवद्भिर् अम्भस् तत् तत् पृथिव्यां यदि तीर्थम् इष्टम् तस्माद् गुणान् एव परैमि तीर्थम् आपस् तु निः-संशयम् आप एव //
7.32 SK इति स्म तत् तद् बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश //
976 SK इति स्म तत् तद् बहु-युक्ति-युक्तं जगाद च अस्तं च ययौ विवस्वान् ततो हविर्-धूम-वि-वर्ण-वृक्षं तपः-प्रशान्तं स वनं विवेश //
7.33 SK अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्१षिजनावकीर्णम् जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तम् इव प्रवृत्तम् //
978 SK अभ्युद्धृत-प्रज्वलित-अग्नि-होत्रं कृत-अभिषेकर्१षि-जन-अवकीर्णम् जाप्य-स्वन-आकूजित-देव-कोष्ठं धर्मस्य कर्म-अन्तम् इव प्रवृत्तम् //
7.34 SK काश्चिन् निशास् तत्र निशाकराभः परीक्षमाणश् च तपांस्य् उवास सर्वं परिक्षेप्य तपश् च मत्वा तस्मात् तपःक्षेत्रतलाज् जगाम //
980 SK काश्-चिन् निशास् तत्र निशा-कर-आभः परीक्षमाणश् च तपांस्य् उवास सर्वं परिक्षेप्य तपश् च मत्वा तस्मात् तपः-क्षेत्र-तलाज् जगाम //
7.35 SK अन्वव्रजन्न् आश्रमिणस् ततस् तं तद्रूपमाहात्म्यगतैर् मनोभिः देशाद् अनार्यैर् अभिभूयमानान् महर्२षयो धर्मम् इवापयान्तम् //
982 SK अन्वव्रजन्न् आश्रमिणस् ततस् तं तद्-रूप-माहात्म्य-गतैर् मनोभिः देशाद् अन्-आर्यैर् अभिभूयमानान् महर्२षयो धर्मम् इव अपयान्तम् //
7.36 SK ततो जटावल्कलचीरखेलांस् तपोधनांश् चैव स तान् ददर्श तपांसि चैषाम् (अनुरुध्यमानस् Cअनुबुध्यमानस् तस्थौ शिवे श्रीमति (वृक्षमूले Cमार्गवृक्षे ) //
984 SK ततो जटा-वल्कल-चीर-खेलांस् तपो-धनांश् च एव स तान् ददर्श तपांसि च एषाम् (अनुरुध्यमानस् Cअनुबुध्यमानस् तस्थौ शिवे श्रीमति (वृक्ष-मूले Cमार्ग-वृक्षे ) //
7.37 SK अथोपसृत्याश्रमवासिनस् तं मनुष्यवर्यं परिवार्य तस्थुः वृद्धश् च तेषां बहुमानपूर्वं कलेन साम्ना गिरम् इत्य् उवाच //
986 SK अथ उपसृत्या अश्रम-वासिनस् तं मनुष्य-वर्यं परिवार्य तस्थुः वृद्धश् च तेषां बहु-मान-पूर्वं कलेन साम्ना गिरम् इत्य् उवाच //
7.38 SK त्वय्य् आगते पूर्ण इवाश्रमो ऽभूत् संपद्यते शून्य इव प्रयाते तस्माद् इमं नार्हसि तात हातुं जिजीविषोर् देहम् इवेष्टम् आयुः //
988 SK त्वय्य् आगते पूर्ण इवा अश्रमो ऽभूत् संपद्यते शून्य इव प्रयाते तस्माद् इमं न अर्हसि तात हातुं जिजीविषोर् देहम् इव इष्टम् आयुः //
7.39 SK ब्रह्मर्१षिराजर्१षिसुरर्१षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः तपांसि तान्य् एव तपोधनानां यत्संनिकर्षाद् बहुलीभवन्ति //
990 SK ब्रह्मर्१षि-राजर्१षि-सुरर्१षि-जुष्टः पुण्यः समीपे हिमवान् हि शैलः तपांसि तान्य् एव तपो-धनानां यत्-संनिकर्षाद् बहुली-भवन्ति //
7.40 SK तीर्थानि पुण्यान्य् अभितस् तथैव सोपानभूतानि नभस्तलस्य जुष्टानि धर्मात्मभिर् आत्मवद्भिर् देवर्१षिभिश् चैव महर्२षिभिश् च //
992 SK तीर्थानि पुण्यान्य् अभितस् तथ ऐव सोपान-भूतानि नभस्-तलस्य जुष्टानि धर्म-आत्मभिर् आत्मवद्भिर् देवर्१षिभिश् च एव महर्२षिभिश् च //
7.41 SK इतश् च भूयः क्षमम् उत्तरैव दिक् सेवितुं धर्मविशेषहेतोः न (तु Cहि )क्षमं दक्षिणतो बुधेन पदं भवेद् एकम् अपि प्रयातुम् //
994 SK इतश् च भूयः क्षमम् उत्तर ऐव दिक् सेवितुं धर्म-विशेष-हेतोः न (तु Cहि )क्षमं दक्षिणतो बुधेन पदं भवेद् एकम् अपि प्रयातुम् //
7.42 SK तपोवने ऽस्मिन्न् अथ निष्क्रियो वा संकीर्ण(धर्मापतितो Cधर्मा पतितो )अशुचिर् वा दृष्टस् त्वया येन न ते विवत्सा तद् ब्रूहि यावद् रुचितो ऽस्तु वासः //
996 SK तपो-वने ऽस्मिन्न् अथ निष्-क्रियो वा संकीर्ण-(धर्म-आपतितो Cधर्मा पतितो )अ-शुचिर् वा दृष्टस् त्वया येन न ते विवत्सा तद् ब्रूहि यावद् रुचितो ऽस्तु वासः //
7.43 SK इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम् वासस् त्वया हीन्द्रसमेन सार्धं बृहस्पतेर् अभ्युदयावहः स्यात् //
998 SK इमे हि वाञ्छन्ति तपः-सहायं तपो-निधान-प्रतिमं भवन्तम् वासस् त्वया हि इन्द्र-समेन स-अर्धं बृहस्-पतेर् अभ्युदय-आवहः स्यात् //
7.44 SK इत्य् एवम् उक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः भवप्रणाशाय कृतप्रतिज्ञः स्वं भावम् अन्तर्गतम् आचचक्षे //
1000 SK इत्य् एवम् उक्ते स तपस्वि-मध्ये तपस्वि-मुख्येन मनीषि-मुख्यः भव-प्रणाशाय कृत-प्रतिज्ञः स्वं भावम् अन्तर्-गतम् आचचक्षे //
7.45 SK ऋज्वात्मनां धर्मभृतां मुनीनाम् इष्टातिथित्वात् स्वजनोपमानाम् एवंविधैर् मां प्रति भावजातैः प्रीतिः (परा मे Cपरात्मा )जनितश् च (मानः Cमार्गः ) //
1002 SK ऋज्व्-आत्मनां धर्म-भृतां मुनीनाम् इष्ट-अतिथित्वात् स्व-जन-उपमानाम् एवं-विधैर् मां प्रति भाव-जातैः प्रीतिः (परा मे Cपर-आत्मा )जनितश् च (मानः Cमार्गः ) //
7.46 SK स्निग्धाभिर् आभिर् हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः रतिश् च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव //
1004 SK स्निग्धाभिर् आभिर् हृदयं-गमाभिः समासतः स्नात इव अस्मि वाग्भिः रतिश् च मे धर्म-नव-ग्रहस्य विस्पन्दिता सं-प्रति भूय एव //
7.47 SK एवं प्रवृत्तान् भवतः शरण्यान् अतीव संदर्शितपक्षपातान् यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस् त्यजतस् तथैव //
1006 SK एवं प्रवृत्तान् भवतः शरण्यान् अति-इव संदर्शित-पक्ष-पातान् यास्यामि हित्व ईति मम अपि दुःखं यथ ऐव बन्धूंस् त्यजतस् तथ ऐव //
7.48 SK स्वर्गाय युष्माकम् अयं तु धर्मो ममाभिलाषस् त्व् अपुनर्भवाय अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः //
1008 SK स्वर्गाय युष्माकम् अयं तु धर्मो मम अभिलाषस् त्व् अ-पुनर्-भवाय अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्ति-धर्मः //
7.49 SK तन् नारतिर् मे न परापचारो वनाद् इतो येन परिव्रजामि धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्२षिकल्पाः //
1010 SK तन् न अ-रतिर् मे न पर-अपचारो वनाद् इतो येन परिव्रजामि धर्मे स्थिताः पूर्व-युग-अनु-रूपे सर्वे भवन्तो हि महर्२षि-कल्पाः //
7.50 SK ततो वचः सूनृतम् अर्थवच् च सुश्लक्ष्णम् ओजस्वि च गर्वितं च श्रुत्वा कुमारस्य तपस्विनस् ते विशेषयुक्तं बहुमानम् ईयुः //
1012 SK ततो वचः सूनृतम् अर्थवच् च सु-श्लक्ष्णम् ओजस्वि च गर्वितं च श्रुत्वा कुमारस्य तपस्विनस् ते विशेष-युक्तं बहु-मानम् ईयुः //
7.51 SK कश्चिद् द्विजस् तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः आपिङ्गलाक्षस् तनुदीर्घघोणः (कुण्डैकCकुण्डोद)हस्तो गिरम् इत्य् उवाच //
1014 SK कश्-चिद् द्वि-जस् तत्र तु भस्म-शायी प्र-अंशुः शिखी दारव-चीर-वासाः आ-पिङ्गल-अक्षस् तनु-दीर्घ-घोणः (कुण्ड-एक-Cकुण्ड-उद-)हस्तो गिरम् इत्य् उवाच //
7.52 SK धीमन्न् उदारः खलु निश्चयस् ते यस् त्वं युवा जन्मनि दृष्टदोषः स्वर्गापवर्गौ हि विचार्य सम्यग् यस्यापवर्गे मतिर् अस्ति सो ऽस्ति //
1016 SK धीमन्न् उदारः खलु निश्चयस् ते यस् त्वं युवा जन्मनि दृष्ट-दोषः स्वर्ग-अपवर्गौ हि विचार्य सम्यग् यस्य अपवर्गे मतिर् अस्ति सो ऽस्ति //
7.53 SK यज्ञैस् तपोभिर् नियमैश् च तैस् तैः स्वर्गं यियासन्ति हि रागवन्तः रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः //
1018 SK यज्ञैस् तपोभिर् नियमैश् च तैस् तैः स्वर्गं यियासन्ति हि रागवन्तः रागेण स-अर्धं रिपुण ईव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः //
7.54 SK तद्बुद्धिर् एषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्याकोष्ठम् असौ मुनिस् तत्र वसत्य् अराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः //
1020 SK तद्-बुद्धिर् एषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्या-कोष्ठम् असौ मुनिस् तत्र वसत्य् अराडो यो नैष्ठिके श्रेयसि लब्ध-चक्षुः //
7.55 SK तस्माद् भवाञ् छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ संप्रतिपत्स्यते च यथा तु पश्यामि मतिस् (तथैषा Cतवैषा तस्यापि यास्यत्य् अवधूय बुद्धिम् //
1022 SK तस्माद् भवाञ् छ्रोष्यति तत्त्व-मार्गं सत्यां रुचौ संप्रतिपत्स्यते च यथा तु पश्यामि मतिस् (तथ ऐषा Cतव एषा तस्य अपि यास्यत्य् अवधूय बुद्धिम् //
7.56 SK (स्पष्टोच्चCपुष्टाश्व)घोणं विपुलायताक्षं ताम्राधरौष्ठं सिततीक्ष्णदंष्ट्रम् इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नम् एव //
1024 SK (स्पष्ट-उच्च-Cपुष्ट-अश्व-)घोणं विपुल-आयत-अक्षं ताम्र-अधर-ओष्ठं सित-तीक्ष्ण-दंष्ट्रम् इदं हि वक्त्रं तनु-रक्त-जिह्वं ज्ञेय-अर्णवं पास्यति कृत्स्नम् एव //
7.57 SK गम्भीरता या भवतस् त्व् अगाधा या दीप्तता यानि च लक्षणानि आचार्यकं प्राप्स्यसि तत् प्र्ठिव्यां यन् नर्७षिभिः पूर्वयुगे ऽप्य् अवाप्तम् //
1026 SK गम्भीरता या भवतस् त्व् अ-गाधा या दीप्तता यानि च लक्षणानि आचार्यकं प्राप्स्यसि तत् प्र्ठिव्यां यन् नर्७षिभिः पूर्व-युगे ऽप्य् अवाप्तम् //
7.58 SK परमम् इति ततो नृपात्मजस् तम् ऋषिजनं प्रतिनन्द्य निर्ययौ विधिवद् अनुविधाय ते ऽपि तं प्रविविशुर् आश्रमिणस् तपोवनम् //
1028 SK परमम् इति ततो नृ-प-आत्म-जस् तम् ऋषि-जनं प्रतिनन्द्य निर्ययौ विधिवद् अनुविधाय ते ऽपि तं प्रविविशुर् आश्रमिणस् तपो-वनम् //
1029 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये तपो-वन-प्रवेशो नाम सप्तमः सर्गः -- ७ --]]
8.1 SK ततस् तुरंगावचरः स दुर्मनास् तथा वनं भर्तरि निर्ममे गते चकार यत्नं पथि शोक(निग्रहे Cविग्रहे तथापि चैवाश्रु न तस्य (चिक्षिये Cचिक्षिपे ) //
1031 SK ततस् तुरं-ग-अवचरः स दुर्-मनास् तथा वनं भर्तरि निर्-ममे गते चकार यत्नं पथि शोक-(निग्रहे Cविग्रहे तथ आपि च एव अश्रु न तस्य (चिक्षिये Cचिक्षिपे ) //
8.2 SK यम् एकरात्रेण तु भर्तुर् आज्ञया जगाम मार्गं सह तेन वाजिना इयाय भर्तुर् विरहं विचिन्तयंस् तम् एव पन्थानम् अहोभिर् अष्टभिः //
1033 SK यम् एक-रात्रेण तु भर्तुर् आज्ञया जगाम मार्गं सह तेन वाजिना इयाय भर्तुर् विरहं विचिन्तयंस् तम् एव पन्थानम् अहोभिर् अष्टभिः //
8.3 SK हयश् च (सौजा विचचार Cसौजस्वि चचार )कन्थकस् तताम भावेन बभूव निर्मदः अलंकृतश् चापि तथैव भूषणैर् अभूद् गतश्रीर् इव तेन वर्जितः //
1035 SK हयश् च (स-ओजा विचचार Cस-ओजस्वि चचार )कन्थकस् तताम भावेन बभूव निर्-मदः अलंकृतश् च अपि तथ ऐव भूषणैर् अभूद् गत-श्रीर् इव तेन वर्जितः //
8.4 SK निवृत्य चैवाभिमुखस् तपोवनं भृशं जिहेषे करुणं मुहुर् मुहुः क्षुधान्वितो ऽप्य् अध्वनि शष्पम् अम्बु वा यथा पुरा नाभिननन्द नाददे //
1037 SK निवृत्य च एव अभि-मुखस् तपो-वनं भृशं जिहेषे करुणं मुहुर् मुहुः क्षुधा-अन्वितो ऽप्य् अध्वनि शष्पम् अम्बु वा यथा पुरा न अभिननन्द ना अददे //
8.5 SK ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना क्रमेण तौ शून्यम् इवोपजग्मतुर् दिवाकरेणेव विनाकृतं नभः //
1039 SK ततो विहीनं कपिल-आह्वयं पुरं महा-आत्मना तेन जगद्-धित-आत्मना क्रमेण तौ शून्यम् इव उपजग्मतुर् दिवा-करेण इव विना-कृतं नभः //
8.6 SK सपुण्डरीकैर् अपि शोभितं जलैर् अलंकृतं पुष्पधरैर् नगैर् अपि तद् एव तस्योपवनं वनोपमं गतप्रहर्षैर् न रराज नागरैः //
1041 SK स-पुण्डरीकैर् अपि शोभितं जलैर् अलंकृतं पुष्प-धरैर् नगैर् अपि तद् एव तस्य उप-वनं वन-उपमं गत-प्रहर्षैर् न रराज नागरैः //
8.7 SK ततो भ्रमद्भिर् दिशि दीनमानसैर् अनुज्ज्वलैर् (बाष्पCवाष्प)हतेक्षणैर् नरैः निवार्यमाणाव् इव ताव् उभौ पुरं (शनैर् अपस्नातम् Cशनै रजःस्नातम् )इवाभिजग्मतुः //
1043 SK ततो भ्रमद्भिर् दिशि दीन-मानसैर् अन्-उज्ज्वलैर् (बाष्प-Cवाष्प-)हत-ईक्षणैर् नरैः निवार्यमाणाव् इव ताव् उभौ पुरं (शनैर् अपस्नातम् Cशनै रजः-स्नातम् )इव अभिजग्मतुः //
8.8 SK (निशाम्य Cनिशम्य )च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्१षभेण तौ मुमोच (बाष्पं Cवाष्पं )पथि नागरो जनः पुरा रथे दाशरथेर् इवागते //
1045 SK (निशाम्य Cनिशम्य )च स्रस्त-शरीर-गामिनौ विना आगतौ शाक्य-कुलर्१षभेण तौ मुमोच (बाष्पं Cवाष्पं )पथि नागरो जनः पुरा रथे दाशरथेर् इवा अगते //
8.9 SK अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्छन्दकम् आगताश्रवः क्व राजपुत्रः (पुरCकुल)राष्ट्र(नन्दनो Cवर्धनो ) हृतस् त्वयासाव् इति पृष्ठतो ऽन्वयुः //
1047 SK अथ ब्रुवन्तः समुपेत-मन्यवो जनाः पथि च्छन्दकम् आगत-अश्रवः क्व राज-पुत्रः (पुर-Cकुल-)राष्ट्र-(नन्दनो Cवर्धनो ) हृतस् त्वय आसाव् इति पृष्ठतो ऽन्वयुः //
8.10 SK ततः स तान् भक्तिमतो ऽब्रवीज् जनान् नरेन्द्रपुत्रं न परित्यजाम्य् अहम् रुदन्न् अहं तेन तु निर्जने वने गृहस्थवेशश् च विसर्जिताव् इति //
1049 SK ततः स तान् भक्तिमतो ऽब्रवीज् जनान् नर-इन्द्र-पुत्रं न परित्यजाम्य् अहम् रुदन्न् अहं तेन तु निर्-जने वने गृह-स्थ-वेशश् च विसर्जिताव् इति //
8.11 SK इदं वचस् तस्य निशम्य ते जनाः सुदुष्करं खल्व् इति निश्चयं ययुः पतद् (धि जह्रुः Cविजह्रुः )सलिलं न नेत्रजं मनो निनिन्दुश् च (फलोत्थम् Cफलार्थम् )आत्मनः //
1051 SK इदं वचस् तस्य निशम्य ते जनाः सु-दुष्-करं खल्व् इति निश्चयं ययुः पतद् (धि जह्रुः Cविजह्रुः )सलिलं न नेत्र-जं मनो निनिन्दुश् च (फल-उत्थम् Cफल-अर्थम् )आत्मनः //
8.12 SK अथोचुर् अद्यैव विशाम तद् वनं गतः स यत्र द्विपराजविक्रमः जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् //
1053 SK अथा उचुर् अद्य एव विशाम तद् वनं गतः स यत्र द्वि-प-राज-विक्रमः जिजीविषा न अस्ति हि तेन नो विना यथ ईन्द्रियाणां विगमे शरीरिणाम् //
8.13 SK इदं पुरं तेन विवर्जितं वनं वनं च तत् तेन समन्वितं पुरम् न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् //
1055 SK इदं पुरं तेन विवर्जितं वनं वनं च तत् तेन समन्वितं पुरम् न शोभते तेन हि नो विना पुरं मरुत्वता वृत्र-वधे यथा दिवम् //
8.14 SK पुनः कुमारो विनिवृत्त इत्य् अथो गवाक्षमालाः प्रतिपेदिरे ऽङ्गनाः विविक्तपृष्ठं च (निशाम्य Cनिशम्य )वाजिनं पुनर् गवाक्षाणि पिधाय चुक्रुशुः //
1057 SK पुनः कुमारो विनिवृत्त इत्य् अथ उ गव-अक्ष-मालाः प्रतिपेदिरे ऽङ्गनाः विविक्त-पृष्ठं च (निशाम्य Cनिशम्य )वाजिनं पुनर् गव-अक्षाणि पिधाय चुक्रुशुः //
8.15 SK प्रविष्टदीक्षस् तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः जजाप देवायतने नराधिपश् चकार तास् ताश् च (यथाशयाः Cयथाश्रयाः )क्रियाः //
1059 SK प्रविष्ट-दीक्षस् तु सुत-उपलब्धये व्रतेन शोकेन च खिन्न-मानसः जजाप देव-आयतने नर-अधिपश् चकार तास् ताश् च (यथा-आशयाः Cयथा-आश्रयाः )क्रियाः //
8.16 SK ततः स (बाष्पCवाष्प)प्रतिपूर्णलोचनस् तुरंगम् आदाय तुरं(गमानुगः Cगमानसः ) विवेश शोकाभिहतो नृ(पक्षयं Cपालयं (युधापिनीते Cक्षयं विनीते )रिपुणेव भर्तरि //
1061 SK ततः स (बाष्प-Cवाष्प-)प्रतिपूर्ण-लोचनस् तुरं-गम् आदाय तुरं-(गम-अनुगः Cग-मानसः ) विवेश शोक-अभिहतो नृ-(प-क्षयं Cप-आलयं (युध आपिनीते Cक्षयं विनीते )रिपुण ईव भर्तरि //
8.17 SK विगाहमानश् च नरेन्द्रमन्दिरं विलोकयन्न् अश्रुवहेन चक्षुषा स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्न् इव //
1063 SK विगाहमानश् च नर-इन्द्र-मन्दिरं विलोकयन्न् अश्रु-वहेन चक्षुषा स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्न् इव //
8.18 SK ततः खगाश् च क्षयमध्यगोचराः समीपबद्धास् तुरगाश् च सत्कृताः हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोर् उपयान(शङ्किनः Cशङ्किताः ) //
1065 SK ततः ख-गाश् च क्षय-मध्य-गो-चराः समीप-बद्धास् तुर-गाश् च सत्-कृताः हयस्य तस्य प्रतिसस्वनुः स्वनं नर-इन्द्र-सूनोर् उपयान-(शङ्किनः Cशङ्किताः ) //
8.19 SK जनाश् च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसंनिकर्षगाः यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे //
1067 SK जनाश् च हर्ष-अतिशयेन वञ्चिता जन-अधिप-अन्तः-पुर-संनिकर्ष-गाः यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशति इति मेनिरे //
8.20 SK अतिप्रहर्षाद् अथ शोकमूर्छिताः कुमारसंदर्शनलोललोचनाः गृहाद् विनिश्चक्रमुर् आशया स्त्रियः शरत्पयोदाद् इव विद्युतश् चलाः //
1069 SK अति-प्रहर्षाद् अथ शोक-मूर्छिताः कुमार-संदर्शन-लोल-लोचनाः गृहाद् विनिश्चक्रमुर् आशया स्त्रियः शरत्-पयो-दाद् इव विद्युतश् चलाः //
8.21 SK विलम्ब(केश्यो Cवेश्यो )मलिनांशुकाम्बरा निरञ्जनैर् (बाष्पCवाष्प)हतेक्षणैर् मुखैः (स्त्रियो न रेजुर् मृजया Cकृष्णा विवर्णाअञ्जनया )विनाकृता दिवीव तारा रजनीक्षयारुणाः //
1071 SK विलम्ब-(केश्यो Cवेश्यो )मलिन-अंशुक-अम्बरा निर्-अञ्जनैर् (बाष्प-Cवाष्प-)हत-ईक्षणैर् मुखैः (स्त्रियो न रेजुर् मृजया Cकृष्णा वि-वर्णाअञ्जनया )विना-कृता दिवि इव तारा रजनी-क्षय-अरुणाः //
8.22 SK अरक्तताम्रैश् चरणैर् अनूपुरैर् अकुण्डलैर् आर्जव(कन्धरैर् Cकर्णिकैर् )मुखैः स्वभावपीनैर् जघनैर् अमेखलैर् अहारयोक्त्रैर् मुषितैर् इव स्तनैः //
1073 SK अ-रक्त-ताम्रैश् चरणैर् अ-नूपुरैर् अ-कुण्डलैर् आर्जव-(कन्धरैर् Cकर्णिकैर् )मुखैः स्व-भाव-पीनैर् जघनैर् अ-मेखलैर् अ-हार-योक्त्रैर् मुषितैर् इव स्तनैः //
8.23 SK (निरीक्ष्य ता बाष्पCनिरीक्षिता वाष्प)परीत(लोचना Cलोचनं निराश्रयं छन्दकम् अश्वम् एव च (विषण्णCविवर्ण)वक्त्रा रुरुदुर् वराङ्गना वनान्तरे गाव इवर्७षभोज्झिताः //
1075 SK (निरीक्ष्य ता बाष्प-Cनिरीक्षिता वाष्प-)परीत-(लोचना Cलोचनं निर्-आश्रयं छन्दकम् अश्वम् एव च (विषण्ण-Cवि-वर्ण-)वक्त्रा रुरुदुर् वर-अङ्गना वन-अन्तरे गाव इवर्७षभ-उज्झिताः //
8.24 SK ततः स(बाष्पा Cवाष्पा )महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी //
1077 SK ततः स-(बाष्पा Cवाष्पा )महिषी मही-पतेः प्रनष्ट-वत्सा महिषि ईव वत्सला प्रगृह्य बाहू निपपात गौतमी विलोल-पर्णा कदलि ईव काञ्चनी //
8.25 SK हतत्विषो ऽन्या (शिथिलांसCशिथिलात्म)बाहवः स्त्रियो विषादेन विचेतना इव न चुक्रुशुर् नाश्रु जहुर् न शश्वसुर् न (चेलुर् आसुर् लिखिता Cचेतना उल्लिखिता )इव स्थिताः //
1079 SK हत-त्विषो ऽन्या (शिथिल-अंस-Cशिथिल-आत्म-)बाहवः स्त्रियो विषादेन वि-चेतना इव न चुक्रुशुर् न अश्रु जहुर् न शश्वसुर् न (चेलुर् आसुर् लिखिता Cचेतना उल्लिखिता )इव स्थिताः //
8.26 SK अधीरम् अन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर् मुखैः स्त्रियः सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैर् इवोपलान् //
1081 SK अ-धीरम् अन्याः पति-शोक-मूर्छिता विलोचन-प्रस्रवणैर् मुखैः स्त्रियः सिषिञ्चिरे प्रोषित-चन्दनान् स्तनान् धरा-धरः प्रस्रवणैर् इव उपलान् //
8.27 SK मुखैश् च तासां नयनाम्बु(ताडितै Cताडितैः रराज तद् राजनिवेशनं तदा नवाम्बुकाले ऽम्बुदवृष्टिताडितैः स्रवज्जलैस् तामरसैर् यथा सरः //
1083 SK मुखैश् च तासां नयन-अम्बु-(ताडितै Cताडितैः रराज तद् राज-निवेशनं तदा नव-अम्बु-काले ऽम्बु-द-वृष्टि-ताडितैः स्रवज्-जलैस् तामरसैर् यथा सरः //
8.28 SK सुवृत्तपीनाङ्गुलिभिर् निरन्तरैर् अभूषणैर् गूढसिरैर् वराङ्गनाः उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर् वातचला लता इव //
1085 SK सु-वृत्त-पीन-अङ्गुलिभिर् निर्-अन्तरैर् अ-भूषणैर् गूढ-सिरैर् वर-अङ्गनाः उरांसि जघ्नुः कमल-उपमैः करैः स्व-पल्लवैर् वात-चला लता इव //
8.29 SK करप्रहारप्रचलैश् च ता (बभुस् Cबभुर् (तथापि Cयथापि )नार्यः सहितोन्नतैः स्तनैः वनानिलाघूर्णितपद्मकम्पितै रथाङ्गनाम्नां मिथुनैर् इवापगाः //
1087 SK कर-प्रहार-प्रचलैश् च ता (बभुस् Cबभुर् (तथ आपि Cयथ आपि )नार्यः सहित-उन्नतैः स्तनैः वन-अनिल-आघूर्णित-पद्म-कम्पितै रथ-अङ्ग-नाम्नां मिथुनैर् इवा अपगाः //
8.30 SK यथा च वक्षांसि करैर् अपीडयंस् तथैव वक्षोभिर् अपीडयन् करान् अकारयंस् तत्र परस्परं व्यथाः कराग्रवक्षांस्य् अबला दयालसाः //
1089 SK यथा च वक्षांसि करैर् अपीडयंस् तथ ऐव वक्षोभिर् अपीडयन् करान् अकारयंस् तत्र परस्-परं व्यथाः कर-अग्र-वक्षांस्य् अ-बला दया-अ-लसाः //
8.31 SK ततस् तु रोषप्रविरक्तलोचना विषाद(संबन्धिCसंबन्ध)कषायगद्गदम् उवाच (निश्वासCनिःश्वास)चलत्पयोधरा विगाढशोकाश्रुधरा यशोधरा //
1091 SK ततस् तु रोष-प्रविरक्त-लोचना विषाद-(संबन्धि-Cसंबन्ध-)कषाय-गद्गदम् उवाच (निश्वास-Cनिःश्वास-)चलत्-पयो-धरा विगाढ-शोक-अश्रु-धरा यशो-धरा //
8.32 SK निशि प्रसुप्ताम् अवशां विहाय मां गतः क्व स च्छन्दक मन्मनोरथः उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः //
1093 SK निशि प्रसुप्ताम् अ-वशां विहाय मां गतः क्व स च्छन्दक मन्-मनो-रथः उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः //
8.33 SK अनार्यम् अस्निद्घम् अमित्रकर्म मे नृशंस कृत्वा किम् इहाद्य रोदिषि नियच्छ (बाष्पं Cवाष्पं )भव तुष्टमानसो न संवदत्य् अश्रु च तच् च कर्म ते //
1095 SK अन्-आर्यम् अ-स्निद्घम् अ-मित्र-कर्म मे नृ-शंस कृत्वा किम् इह अद्य रोदिषि नियच्छ (बाष्पं Cवाष्पं )भव तुष्ट-मानसो न संवदत्य् अश्रु च तच् च कर्म ते //
8.34 SK प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा गतो ऽर्यपुत्रो ह्य् अपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस् तव //
1097 SK प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथा-अर्थ-कारिणा गतो ऽर्य-पुत्रो ह्य् अ-पुनर्-निवृत्तये रमस्व दिष्ट्या स-फलः श्रमस् तव //
8.35 SK वरं मनुष्यस्य विचक्षणो रिपुर् न मित्रम् अप्राज्ञम् अयोगपेशलम् सुहृद्ब्रुवेण ह्य् अविपश्चिता त्वया कृतः कुलस्यास्य महान् उपप्लवः //
1099 SK वरं मनुष्यस्य विचक्षणो रिपुर् न मित्रम् अ-प्राज्ञम् अ-योग-पेशलम् सु-हृद्-ब्रुवेण ह्य् अ-विपश्चिता त्वया कृतः कुलस्य अस्य महान् उपप्लवः //
8.36 SK इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्त(बाष्पाविलCवाष्पाविल)रक्तलोचनाः स्थिते ऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः //
1101 SK इमा हि शोच्या व्यवमुक्त-भूषणाः प्रसक्त-(बाष्प-आविल-Cवाष्प-आविल-)रक्त-लोचनाः स्थिते ऽपि पत्यौ हिमवन्-मही-समे प्रनष्ट-शोभा विधवा इव स्त्रियः //
8.37 SK इमाश् च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः विनाकृतास् तेन (सहावरोधनैर् Cसहैव रोधनैर् भृशं रुदन्तीव विमानपङ्क्तयः //
1103 SK इमाश् च विक्षिप्त-विटङ्क-बाहवः प्रसक्त-पारावत-दीर्घ-निस्वनाः विना-कृतास् तेन (सह अवरोधनैर् Cसह एव रोधनैर् भृशं रुदन्ति इव विमान-पङ्क्तयः //
8.38 SK अनर्थकामो ऽस्य जनस्य सर्वथा तुरंगमो ऽपि ध्रुवम् एष कन्थकः जहार सर्वस्वम् इतस् तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् //
1105 SK अन्-अर्थ-कामो ऽस्य जनस्य सर्वथा तुरं-गमो ऽपि ध्रुवम् एष कन्थकः जहार सर्व-स्वम् इतस् तथा हि मे जने प्रसुप्ते निशि रत्न-चौरवत् //
8.39 SK यदा समर्थः खलु सोढुम् आगतान् इषुप्रहारान् अपि किं पुनः कशाः गतः कशापातभयात् कथं (न्व् Cत्व् )अयं श्रियं गृहीत्वा हृदयं च मे समम् //
1107 SK यदा सम्-अर्थः खलु सोढुम् आगतान् इषु-प्रहारान् अपि किं पुनः कशाः गतः कशा-पात-भयात् कथं (न्व् Cत्व् )अयं श्रियं गृहीत्वा हृदयं च मे समम् //
8.40 SK अनार्यकर्मा भृशम् अद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्न् इव यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस् तुरगाधमो ऽभवत् //
1109 SK अन्-आर्य-कर्मा भृशम् अद्य हेषते नर-इन्द्र-धिष्ण्यं प्रतिपूरयन्न् इव यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस् तुर-ग-अधमो ऽभवत् //
8.41 SK यदि ह्य् अहेषिष्यत (बोधयन् Cबोधयञ् )जनं खुरैः क्षितौ वाप्य् अकरिष्यत ध्वनिम् हनुस्वनं वाजनिष्यद् उत्तमं न चाभविष्यन् मम दुःखम् ईदृशम् //
1111 SK यदि ह्य् अहेषिष्यत (बोधयन् Cबोधयञ् )जनं खुरैः क्षितौ व आप्य् अकरिष्यत ध्वनिम् हनु-स्वनं व आजनिष्यद् उत्तमं न च अभविष्यन् मम दुःखम् ई-दृशम् //
8.42 SK इतीह देव्याः परिदेविताश्रयं निशम्य (बाष्पCवाष्प)ग्रथिताक्षरं वचः अधोमुखः साश्रुकलः कृताञ्जलिः शनैर् इदं छन्दक उत्तरं जगौ //
1113 SK इति इह देव्याः परिदेवित-आश्रयं निशम्य (बाष्प-Cवाष्प-)ग्रथित-अ-क्षरं वचः अधो-मुखः स-अश्रु-कलः कृत-अञ्जलिः शनैर् इदं छन्दक उत्तरं जगौ //
8.43 SK विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुम् अर्हसि अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् //
1115 SK विगर्हितुं न अर्हसि देवि कन्थकं न च अपि रोषं मयि कर्तुम् अर्हसि अन्-आगसौ स्वः समवेहि सर्वशो गतो नृ-देवः स हि देवि देववत् //
8.44 SK अहं हि जानन्न् अपि राजशासनं बलात् कृतः कैर् अपि दैवतैर् इव उपानयं तूर्णम् इमं तुरंगमं तथान्वगच्छं विगतश्रमो ऽध्वनि //
1117 SK अहं हि जानन्न् अपि राज-शासनं बलात् कृतः कैर् अपि दैवतैर् इव उपानयं तूर्णम् इमं तुरं-गमं तथ आन्वगच्छं विगत-श्रमो ऽध्वनि //
8.45 SK व्रजन्न् अयं वाजिवरो ऽपि नास्पृशन् महीं खुराग्रैर् विधृतैर् इवान्तरा तथैव दैवाद् इव संयताननो हनुस्वनं नाकृत नाप्य् अहेषत //
1119 SK व्रजन्न् अयं वाजि-वरो ऽपि न अस्पृशन् महीं खुर-अग्रैर् विधृतैर् इव अन्तरा तथ ऐव दैवाद् इव संयत-आननो हनु-स्वनं न अकृत न अप्य् अहेषत //
8.46 SK (यतो बहिर् Cयदा वहिर् )गच्छति पार्थिवात्म(जे Cजस् तदाभवद् द्वारम् अपावृतं स्वयम् तमश् च नैशं रविणेव पाटितं ततो ऽपि दैवो विधिर् एष गृह्यताम् //
1121 SK (यतो बहिर् Cयदा वहिर् )गच्छति पार्थिव-आत्म-(जे Cजस् तद आभवद् द्वारम् अपावृतं स्वयम् तमश् च नैशं रविण ईव पाटितं ततो ऽपि दैवो विधिर् एष गृह्यताम् //
8.47 SK (यद् अCयदा)प्रमत्तो ऽपि नरेन्द्रशासनाद् गृहे पुरे चैव सहस्रशो जनः तदा स नाबुध्यत निद्रया हृतस् ततो ऽपि दैवो विधिर् एष गृह्यताम् //
1123 SK (यद् अ-Cयद आ-)प्रमत्तो ऽपि नर-इन्द्र-शासनाद् गृहे पुरे च एव सहस्रशो जनः तदा स न अबुध्यत निद्रया हृतस् ततो ऽपि दैवो विधिर् एष गृह्यताम् //
8.48 SK यतश् च वासो वनवाससंमतं (निसृष्टम् Cविसृष्टम् )अस्मै समये दिवौकसा दिवि प्रविद्धं मुकुटं च तद् धृतं ततो ऽपि दैवो विधिर् एष गृह्यताम् //
1125 SK यतश् च वासो वन-वास-संमतं (निसृष्टम् Cविसृष्टम् )अस्मै समये दिव-ओकसा दिवि प्रविद्धं मुकुटं च तद् धृतं ततो ऽपि दैवो विधिर् एष गृह्यताम् //
8.49 SK तद् एवम् आवां नरदेवि दोषतो न तत् प्रयातं (प्रति गन्तुम् Cप्रतिगन्तुम् )अर्हसि न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर् गतः //
1127 SK तद् एवम् आवां नर-देवि दोषतो न तत् प्रयातं (प्रति गन्तुम् Cप्रतिगन्तुम् )अर्हसि न काम-कारो मम न अस्य वाजिनः कृत-अनुयात्रः स हि दैवतैर् गतः //
8.50 SK इति प्रयाणं (बहुदेवम् Cबहुधैवम् )अद्भुतं निशम्य तास् तस्य महात्मनः स्त्रियः प्रनष्टशोका इव विस्मयं ययुर् मनोज्वरं प्रव्रजनात् तु लेभिरे //
1129 SK इति प्रयाणं (बहु-देवम् Cबहुध ऐवम् )अद्भुतं निशम्य तास् तस्य महा-आत्मनः स्त्रियः प्रनष्ट-शोका इव विस्मयं ययुर् मनो-ज्वरं प्रव्रजनात् तु लेभिरे //
8.51 SK विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च //
1131 SK विषाद-पारिप्लव-लोचना ततः प्रनष्ट-पोता कुररि ईव दुःखिता विहाय धैर्यं विरुराव गौतमी तताम च एव अश्रु-मुखी जगाद च //
8.52 SK महोर्मिमन्तो मृदवो ऽसिताः शुभाः पृथक्(पृथङ्Cपृथग्)मूलरुहाः समुद्गताः (प्रवेरितास् Cप्रचेरितास् )ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः //
1133 SK महा-उर्मिमन्तो मृदवो ऽसिताः शुभाः पृथक्-(पृथङ्-Cपृथग्-)मूल-रुहाः समुद्गताः (प्रवेरितास् Cप्रचेरितास् )ते भुवि तस्य मूर्ध-जा नर-इन्द्र-मौली-परिवेष्टन-क्षमाः //
8.53 SK प्रलम्बबाहुर् मृगराजविक्रमो महर्२षभाक्षः कनकोज्ज्वलद्युतिः विशालवक्षा घनदुन्दुभिस्वनस् तथाविधो ऽप्य् आश्रमवासम् अर्हति //
1135 SK प्रलम्ब-बाहुर् मृग-राज-विक्रमो महर्२षभ-अक्षः कनक-उज्ज्वल-द्युतिः विशाल-वक्षा घन-दुन्दुभि-स्वनस् तथा-विधो ऽप्य् आश्रम-वासम् अर्हति //
8.54 SK अभागिनी नूनम् इयं वसुंधरा तम् आर्यकर्माणम् अनुत्तमं (पतिम् Cप्रति ) गतस् ततो ऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते //
1137 SK अ-भागिनी नूनम् इयं वसुं-धरा तम् आर्य-कर्माणम् अन्-उत्तमं (पतिम् Cप्रति ) गतस् ततो ऽसौ गुणवान् हि ता-दृशो नृ-पः प्रजा-भाग्य-गुणैः प्रसूयते //
8.55 SK सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ (बिसCविष)पुष्पकोमलौ वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः //
1139 SK सु-जात-जाल-अवतत-अङ्गुली मृदू निगूढ-गुल्फौ (बिस-Cविष-)पुष्प-कोमलौ वन-अन्त-भूमिं कठिनां कथं नु तौ स-चक्र-मध्यौ चरणौ गमिष्यतः //
8.56 SK विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् कथं नु शीतोष्णजलागमेषु तच् छरीरम् ओजस्वि वने भविष्यति //
1141 SK विमान-पृष्ठे शयन-आसन-उचितं महा-अर्ह-वस्त्र-अगुरु-चन्दन-अर्चितम् कथं नु शीत-उष्ण-जल-आगमेषु तच् छरीरम् ओजस्वि वने भविष्यति //
8.57 SK कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः प्रदातुम् (एवाभ्युचितो Cएवाभ्युदितो )न याचितुं कथं स भिक्षां परतश् चरिष्यति //
1143 SK कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः प्रदातुम् (एव अभ्युचितो Cएव अभ्युदितो )न याचितुं कथं स भिक्षां परतश् चरिष्यति //
8.58 SK शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः कथं (बत Cवत )स्वप्स्यति सो ऽद्य मे व्रती पटैकदेशान्तरिते महीतले //
1145 SK शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्य-निस्वनैः कथं (बत Cवत )स्वप्स्यति सो ऽद्य मे व्रती पट-एक-देश-अन्तरिते मही-तले //
8.59 SK इमं (प्रलापं Cविलापं )करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः विलोचनेभ्यः सलिलानि तत्यजुर् मधूनि पुष्पेभ्य इवेरिता लताः //
1147 SK इमं (प्रलापं Cविलापं )करुणं निशम्य ता भुजैः परिष्वज्य परस्-परं स्त्रियः विलोचनेभ्यः सलिलानि तत्यजुर् मधूनि पुष्पेभ्य इवा इरिता लताः //
8.60 SK ततो धरायाम् अपतद् यशोधरा विचक्रवाकेव रथाङ्गसाह्वया शनैश् च तत् तद् विललाप विक्लवा मुहुर् मुहुर् गद्गदरुद्धया गिरा //
1149 SK ततो धरायाम् अपतद् यशो-धरा वि-चक्र-वाक ईव रथ-अङ्ग-स-आह्वया शनैश् च तत् तद् विललाप विक्लवा मुहुर् मुहुर् गद्गद-रुद्धया गिरा //
8.61 SK स माम् अनाथां सहधर्मचारिणीम् अपास्य धर्मं यदि कर्तुम् इच्छति कुतो ऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुम् इच्छति //
1151 SK स माम् अ-नाथां सह-धर्म-चारिणीम् अपास्य धर्मं यदि कर्तुम् इच्छति कुतो ऽस्य धर्मः सह-धर्म-चारिणीं विना तपो यः परिभोक्तुम् इच्छति //
8.62 SK शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान् वनानि पत्नीसहितान् उपेयुषस् तथा (हि Cस )धर्मं मदृते चिकीर्षति //
1153 SK शृणोति नूनं स न पूर्व-पार्थिवान् महा-सु-दर्श-प्रभृतीन् पिता-महान् वनानि पत्नी-सहितान् उपेयुषस् तथा (हि Cस )धर्मं मद्-ऋते चिकीर्षति //
8.63 SK मखेषु वा वेदविधानसत्कृतौ न दंपती पश्यति दीक्षिताव् उभौ समं बुभुक्षू परतो ऽपि तत्फलं ततो ऽस्य जातो मयि धर्ममत्सरः //
1155 SK मखेषु वा वेद-विधान-सत्-कृतौ न दं-पती पश्यति दीक्षिताव् उभौ समं बुभुक्षू परतो ऽपि तत्-फलं ततो ऽस्य जातो मयि धर्म-मत्सरः //
8.64 SK ध्रुवं स जानन् मम धर्मवल्लभो मनः (प्रियेर्ष्याकलहं Cप्रिये ऽप्य् आकलहं )मुहुर् मिथः सुखं विभीर् माम् अपहाय रोसणां महेन्द्रलोके ऽप्सरसो जिघृक्षति //
1157 SK ध्रुवं स जानन् मम धर्म-वल्लभो मनः (प्रिय-ईर्ष्या-कलहं Cप्रिये ऽप्य् आ-कलहं )मुहुर् मिथः सुखं वि-भीर् माम् अपहाय रोसणां महा-इन्द्र-लोके ऽप्सरसो जिघृक्षति //
8.65 SK इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिम् एव च //
1159 SK इयं तु चिन्ता मम की-दृशं नु ता वपुर्-गुणं बिभ्रति तत्र योषितः वने यद्-अर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिम् एव च //
8.66 SK न खल्व् इयं स्वर्गसुखाय मे स्पृहा न तज् जनस्यात्मवतो ऽपि दुर्लभम् स तु प्रियो माम् इह वा परत्र वा कथं न जह्याद् इति मे मनोरथः //
1161 SK न खल्व् इयं स्वर्ग-सुखाय मे स्पृहा न तज् जनस्या अत्मवतो ऽपि दुर्-लभम् स तु प्रियो माम् इह वा परत्र वा कथं न जह्याद् इति मे मनो-रथः //
8.67 SK अभागिनी यद्य् अहम् आयतेक्षणं शुचिस्मितं भर्तुर् उदीक्षितुं मुखम् न मन्दभाग्यो ऽर्हति राहुलो ऽप्य् अयं कदाचिद् अङ्के परिवर्तितुं पितुः //
1163 SK अ-भागिनी यद्य् अहम् आयत-ईक्षणं शुचि-स्मितं भर्तुर् उदीक्षितुं मुखम् न मन्द-भाग्यो ऽर्हति राहुलो ऽप्य् अयं कदा-चिद् अङ्के परिवर्तितुं पितुः //
8.68 SK अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः कलप्रलापं द्विषतो ऽपि हर्षणं शिशुं सुतं यस् त्यजतीदृशं (बत Cस्वतः ) //
1165 SK अहो नृ-शंसं सु-कुमार-वर्चसः सु-दारुणं तस्य मनस्विनो मनः कल-प्रलापं द्विषतो ऽपि हर्षणं शिशुं सुतं यस् त्यजती इ-दृशं (बत Cस्वतः ) //
8.69 SK ममापि कामं हृदयं सुदारुणं शिलामयं वाप्य् (अयसो ऽपि Cअयसापि )वा कृतम् अनाथवच् छ्रीरहिते सुखोचिते वनं गते भर्तरि यन् न दीर्यते //
1167 SK मम अपि कामं हृदयं सु-दारुणं शिलामयं व आप्य् (अयसो ऽपि Cअयस आपि )वा कृतम् अ-नाथवच् छ्री-रहिते सुख-उचिते वनं गते भर्तरि यन् न दीर्यते //
8.70 SK इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् //
1169 SK इति इह देवी पति-शोक-मूर्छिता रुरोद दध्यौ विललाप च अ-सकृत् स्व-भाव-धीर आपि हि सा सती शुचा धृतिं न सस्मार चकार न उ ह्रियम् //
8.71 SK ततस् तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुंधरागताम् महारविन्दैर् इव वृष्टिताडितैर् मुखैः स(बाष्पैर् Cवाष्पैर् )वनिता विचुक्रुशुः //
1171 SK ततस् तथा शोक-विलाप-विक्लवां यशो-धरां प्रेक्ष्य वसुं-धरा-गताम् महा-अरविन्दैर् इव वृष्टि-ताडितैर् मुखैः स-(बाष्पैर् Cवाष्पैर् )वनिता विचुक्रुशुः //
8.72 SK समाप्तजाप्यः कृतहोममङ्गलो नृपस् तु देवायतनाद् विनिर्ययौ जनस्य तेनार्तरवेण चाहतश् चचाल वज्रध्वनिनेव वारणः //
1173 SK समाप्त-जाप्यः कृत-होम-मङ्गलो नृ-पस् तु देव-आयतनाद् विनिर्ययौ जनस्य तेना अर्त-रवेण चा अहतश् चचाल वज्र-ध्वनिन ईव वारणः //
8.73 SK निशाम्य च च्छन्दककन्थकाव् उभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् पपात शोकाभिहतो महीपतिः शचीपतेर् वृत्त इवोत्सवे ध्वजः //
1175 SK निशाम्य च च्छन्दक-कन्थकाव् उभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् पपात शोक-अभिहतो मही-पतिः शची-पतेर् वृत्त इव उत्सवे ध्वजः //
8.74 SK ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः //
1177 SK ततो मुहूर्तं सुत-शोक-मोहितो जनेन तुल्य-अभिजनेन धारितः निरीक्ष्य दृष्ट्या जल-पूर्णया हयं मही-तल-स्थो विललाप पार्थिवः //
8.75 SK बहूनि कृत्वा समरे प्रियाणि मे महत् त्वया कन्थक विप्रियं कृतम् गुणप्रियो येन वने स मे प्रियः प्रियो ऽपि सन्न् अप्रियवत् (प्रवेरितः Cप्रचेरितः ) //
1179 SK बहूनि कृत्वा समरे प्रियाणि मे महत् त्वया कन्थक वि-प्रियं कृतम् गुण-प्रियो येन वने स मे प्रियः प्रियो ऽपि सन्न् अ-प्रियवत् (प्रवेरितः Cप्रचेरितः ) //
8.76 SK तद् अद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनर् एनम् आनय ऋते हि तस्मान् मम नास्ति जीवितं विगाढरोगस्य सदौषधाद् इव //
1181 SK तद् अद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनर् एनम् आनय ऋते हि तस्मान् मम न अस्ति जीवितं विगाढ-रोगस्य सद्-औषधाद् इव //
8.77 SK सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन् न ममार (संजयः Cसृञ्जयः ) अहं पुनर् धर्मरतौ सुते गते (मुमुक्षुर् Cअमुमुक्षुर् )आत्मानम् अनात्मवान् इव //
1183 SK सु-वर्ण-निष्ठीविनि मृत्युना हृते सु-दुष्-करं यन् न ममार (संजयः Cसृञ्जयः ) अहं पुनर् धर्म-रतौ सुते गते (मुमुक्षुर् Cअ-मुमुक्षुर् )आत्मानम् अन्-आत्मवान् इव //
8.78 SK विभोर् दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद् धि मनो मनोर् अपि //
1185 SK विभोर् दश-क्षत्र-कृतः प्रजा-पतेः पर-अ-पर-ज्ञस्य विवस्वद्-आत्मनः प्रियेण पुत्रेण सता विना-कृतं कथं न मुह्येद् धि मनो मनोर् अपि //
8.79 SK अजस्य राज्ञस् तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा गते वनं यस् तनये दिवं गतो न मोघ(बाष्पः Cवाष्पः )कृपणं जिजीव ह //
1187 SK अ-जस्य राज्ञस् तनयाय धीमते नर-अधिपाय इन्द्र-सखाय मे स्पृहा गते वनं यस् तनये दिवं गतो न मोघ-(बाष्पः Cवाष्पः )कृपणं जिजीव ह //
8.80 SK प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस् त्वया यत्र स मे जलाञ्जलिः इमे परीप्सन्ति हि (तं Cते )पिपासवो ममासवः प्रेतगतिं यियासवः //
1189 SK प्रचक्ष्व मे भद्र तद्-आश्रम-अजिरं हृतस् त्वया यत्र स मे जल-अञ्जलिः इमे परीप्सन्ति हि (तं Cते )पिपासवो ममा असवः प्रेत-गतिं यियासवः //
8.81 SK इति तनयवियोगजात(दुःखः Cदुःखं क्षितिसदृशं सहजं विहाय धैर्यम् दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसंज्ञकल्पः //
1191 SK इति तनय-वियोग-जात-(दुःखः Cदुःखं क्षिति-स-दृशं सह-जं विहाय धैर्यम् दश-रथ इव राम-शोक-वश्यो बहु विललाप नृ-पो विसंज्ञ-कल्पः //
8.82 SK श्रुतविनयगुणान्वितस् ततस् तं मतिसचिवः प्रवयाः पुरोहितश् च (समधृतम् Cअवधृतम् )इदम् ऊचतुर् यथावन् न च परितप्तमुखौ न चाप्य् अशोकौ //
1193 SK श्रुत-विनय-गुण-अन्वितस् ततस् तं मति-सचिवः प्र-वयाः पुरो-हितश् च (सम-धृतम् Cअवधृतम् )इदम् ऊचतुर् यथावन् न च परितप्त-मुखौ न च अप्य् अ-शोकौ //
8.83 SK त्यज नरवर शोकम् एहि धैर्यं कुधृतिर् इवार्हसि धीर नाश्रु मोक्तुम् स्रजम् इव मृदिताम् अपास्य लक्ष्मीं भुवि बहवो (CहिC) नृपा वनान्य् अतीयुः //
1195 SK त्यज नर-वर शोकम् एहि धैर्यं कु-धृतिर् इव अर्हसि धीर न अश्रु मोक्तुम् स्रजम् इव मृदिताम् अपास्य लक्ष्मीं भुवि बहवो (CहिC) नृ-पा वनान्य् अतीयुः //
8.84 SK अपि च नियत एष तस्य भावः स्मर वचनं तद् ऋषेः पुरासितस्य न हि स दिवि न चक्रवर्तिराज्ये क्षणम् अपि वासयितुं सुखेन शक्यः //
1197 SK अपि च नियत एष तस्य भावः स्मर वचनं तद् ऋषेः पुर आसितस्य न हि स दिवि न चक्र-वर्ति-राज्ये क्षणम् अपि वासयितुं सुखेन शक्यः //
8.85 SK यदि तु नृवर कार्य एव यत्नस् त्वरितम् उदाहर यावद् अत्र यावः बहुविधम् इह युद्धम् अस्तु तावत् तव तनयस्य विधेश् च तस्य तस्य //
1199 SK यदि तु नृ-वर कार्य एव यत्नस् त्वरितम् उदाहर यावद् अत्र यावः बहु-विधम् इह युद्धम् अस्तु तावत् तव तनयस्य विधेश् च तस्य तस्य //
8.86 SK नरपतिर् अथ तौ शशास तस्माद् द्रुतम् इत एव युवाम् अभिप्रयातम् न हि मम हृदयं प्रयाति शान्तिं वनशकुनेर् इव पुत्रलालसस्य //
1201 SK नर-पतिर् अथ तौ शशास तस्माद् द्रुतम् इत एव युवाम् अभिप्रयातम् न हि मम हृदयं प्रयाति शान्तिं वन-शकुनेर् इव पुत्र-लालसस्य //
8.87 SK परमम् इति नरेन्द्रशासनात् तौ ययतुर् अमात्यपुरोहितौ वनं तत् कृतम् इति सवधूजनः सदारो नृपतिर् अपि प्रचकार शेषकार्यम् //
1203 SK परमम् इति नर-इन्द्र-शासनात् तौ ययतुर् अमात्य-पुरो-हितौ वनं तत् कृतम् इति स-वधू-जनः स-दारो नृ-पतिर् अपि प्रचकार शेष-कार्यम् //
1204 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये ऽन्तः-पुर-विलापो नामा७ष्टमः सर्गः -- ८ --]]
9.1 SK ततस् तदा मन्त्रिपुरोहितौ तौ (बाष्पप्रतोदाभिहितौ Cवाष्पप्रतोदाभिहतौ )नृपेण विद्धौ सदश्वाव् इव सर्वयत्नात् सौहार्दशीघ्रं ययतुर् वनं तत् //
1206 SK ततस् तदा मन्त्रि-पुरो-हितौ तौ (बाष्प-प्रतोद-अभिहितौ Cवाष्प-प्रतोद-अभिहतौ )नृ-पेण विद्धौ सद्-अश्वाव् इव सर्व-यत्नात् सौहार्द-शीघ्रं ययतुर् वनं तत् //
9.2 SK तम् आश्रमम् जातपरिश्रमौ ताव् उपेत्य काले सदृशानुयात्रौ राजर्१द्धिम् उत्सृज्य विनीतचेष्टाव् उपेयतुर् भार्गवधिष्ण्यम् एव //
1208 SK तम् आश्रमम् जात-परिश्रमौ ताव् उपेत्य काले स-दृश-अनु-यात्रौ राजर्१द्धिम् उत्सृज्य विनीत-चेष्टाव् उपेयतुर् भार्गव-धिष्ण्यम् एव //
9.3 SK तौ न्यायतस् तं प्रतिपूज्य विप्रं तेनार्चितौ ताव् अपि चानुरूपम् कृतासनौ भार्गवम् आसनस्थं छित्त्वा कथाम् ऊचतुर् आत्मकृत्यम् //
1210 SK तौ न्यायतस् तं प्रतिपूज्य विप्रं तेन-अर्चितौ ताव् अपि च अनु-रूपम् कृत-आसनौ भार्गवम् आसन-स्थं छित्त्वा कथाम् ऊचतुर् आत्म-कृत्यम् //
9.4 SK शुद्धौजसः शुद्धविशालकीर्तेर् इक्ष्वाकुवंशप्रभवस्य राज्ञः इमं जनं वेत्तु भवान् (अधीतं Cअधीरं श्रुतग्रहे मन्त्रपरिग्रहे च //
1212 SK शुद्ध-ओजसः शुद्ध-विशाल-कीर्तेर् इक्ष्वाकु-वंश-प्रभवस्य राज्ञः इमं जनं वेत्तु भवान् (अधीतं Cअ-धीरं श्रुत-ग्रहे मन्त्र-परिग्रहे च //
9.5 SK तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः इहाभ्युपेतः किल तस्य हेतोर् आवाम् उपेतौ भगवान् अवैतु //
1214 SK तस्य इन्द्र-कल्पस्य जयन्त-कल्पः पुत्रो जरा-मृत्यु-भयं तितीर्षुः इह अभ्युपेतः किल तस्य हेतोर् आवाम् उपेतौ भगवान् अवैतु //
9.6 SK तौ सो ऽब्रवीद् अस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः धर्मो ऽयम् आवर्तक इत्य् अवेत्य यातस् त्व् अराडाभिमुखो मुमुक्षुः //
1216 SK तौ सो ऽब्रवीद् अस्ति स दीर्घ-बाहुः प्राप्तः कुमारो न तु न-अवबुद्धः धर्मो ऽयम् आवर्तक इत्य् अवेत्य यातस् त्व् अराड-अभि-मुखो मुमुक्षुः //
9.7 SK तस्मात् ततस् ताव् उपलभ्य तत्त्वं तं विप्रम् (आमन्त्र्य Cआमन्त्त्य )तदैव सद्यः खिन्नाव् अखिन्नाव् इव राज(भक्त्या Cपुत्रः प्रसस्रतुस् तेन यतः स यातः //
1218 SK तस्मात् ततस् ताव् उपलभ्य तत्त्वं तं विप्रम् (आमन्त्र्य Cआमन्त्त्य )तद ऐव सद्यः खिन्नाव् अ-खिन्नाव् इव राज-(भक्त्या Cपुत्रः प्रसस्रतुस् तेन यतः स यातः //
9.8 SK यान्तौ ततस् तौ (मृजया Cसृजया )विहीनम् अपश्यतां तं (वपुषोज्ज्वलन्तम् Cवपुषा ज्वलन्तम् ) (उपोपविष्टं Cनृपोपविष्टं )पथि वृक्षमूले सूर्यं घनाभोगम् इव प्रविष्टम् //
1220 SK यान्तौ ततस् तौ (मृजया Cसृजया )विहीनम् अपश्यतां तं (वपुष ऊज्ज्वलन्तम् Cवपुषा ज्वलन्तम् ) (उपोपविष्टं Cनृ-प-उपविष्टं )पथि वृक्ष-मूले सूर्यं घन-आभोगम् इव प्रविष्टम् //
9.9 SK यानं विहायोपययौ ततस् तं पुरोहितो मन्त्रधरेण सार्धम् यथा वनस्थं सहवामदेवो रामं दिदृक्षुर् मुनिर् और्वशेयः //
1222 SK यानं विहाय उपययौ ततस् तं पुरो-हितो मन्त्र-धरेण स-अर्धम् यथा वन-स्थं सह-वाम-देवो रामं दिदृक्षुर् मुनिर् और्वशेयः //
9.10 SK ताव् अर्चयाम् आसतुर् अर्हतस् तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् प्रत्यर्चयाम् आस स चार्हतस् तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः //
1224 SK ताव् अर्चयाम् आसतुर् अर्हतस् तं दिवि इव शुक्र-आङ्गिरसौ महा-इन्द्रम् प्रत्यर्चयाम् आस स च अर्हतस् तौ दिवि इव शुक्र-आङ्गिरसौ महा-इन्द्रः //
9.11 SK कृताभ्यनुज्ञाव् अभितस् ततस् तौ (निषेदतुः Cनिषीदतुः )शाक्यकुलध्वजस्य विरेजतुस् तस्य च संनिकर्षे पुनर्वसू योगगताव् इवेन्दोः //
1226 SK कृत-अभ्यनुज्ञाव् अभितस् ततस् तौ (निषेदतुः Cनिषीदतुः )शाक्य-कुल-ध्वजस्य विरेजतुस् तस्य च संनिकर्षे पुनर्-वसू योग-गताव् इव इन्दोः //
9.12 SK तं वृक्षमूलस्थम् अभिज्वलन्तं पुरोहितो राजसुतं बभाषे यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् //
1228 SK तं वृक्ष-मूल-स्थम् अभिज्वलन्तं पुरो-हितो राज-सुतं बभाषे यथा-उपविष्टं दिवि पारिजाते बृहस्-पतिः शक्र-सुतं जयन्तम् //
9.13 SK त्वच्छोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् कुमार राजा नयनाम्बुवर्षो यत् त्वाम् अवोचत् तद् इदं निबोध //
1230 SK त्वच्-छोक-शल्ये हृदय-अवगाढे मोहं गतो भूमि-तले मुहूर्तम् कुमार राजा नयन-अम्बु-वर्षो यत् त्वाम् अवोचत् तद् इदं निबोध //
9.14 SK जानामि धर्मं प्रति निश्चयं ते परैमि ते (भाविनम् Cअच्याविनम् )एतम् अर्थम् अहं त्व् अकाले वनसंश्रयात् ते शोकाग्निनाग्निप्रतिमेन दह्ये //
1232 SK जानामि धर्मं प्रति निश्चयं ते परैमि ते (भाविनम् Cअ-च्याविनम् )एतम् अर्थम् अहं त्व् अ-काले वन-संश्रयात् ते शोक-अग्निन आग्नि-प्रतिमेन दह्ये //
9.15 SK तद् एहि धर्मप्रिय मत्प्रियार्थं धर्मार्थम् एव त्यज बुद्धिम् एताम् अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलम् इवाभिहन्ति //
1234 SK तद् एहि धर्म-प्रिय मत्-प्रिय-अर्थं धर्म-अर्थम् एव त्यज बुद्धिम् एताम् अयं हि मा शोक-रयः प्रवृद्धो नदी-रयः कूलम् इव अभिहन्ति //
9.16 SK मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् तां वृत्तिम् अस्मासु करोति शोको विकर्षणोच्छोषणदाहभेदैः //
1236 SK मेघ-अम्बु-कक्ष-अद्रिषु या हि वृत्तिः समीरण-अर्क-अग्नि-महा-अशनीनाम् तां वृत्तिम् अस्मासु करोति शोको विकर्षण-उच्छोषण-दाह-भेदैः //
9.17 SK तद् भुङ्क्ष्व तावद् वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे अनिष्टबन्धौ कुरु (मय्य् अपेक्षां Cमाप्य् उपेक्षां सर्वेषु भूतेषु दया हि धर्मः //
1238 SK तद् भुङ्क्ष्व तावद् वसु-धा-आधिपत्यं काले वनं यास्यसि शास्त्र-दृष्टे अन्-इष्ट-बन्धौ कुरु (मय्य् अपेक्षां Cम आप्य् उपेक्षां सर्वेषु भूतेषु दया हि धर्मः //
9.18 SK न चैष धर्मो वनए एव सिद्धः पुरे ऽपि सिद्धिर् नियता यतीनाम् बुद्धिश् च यत्नश् च निमित्तम् अत्र वनं च लिङ्गं च हि भीरुचिह्नम् //
1240 SK न च एष धर्मो वनए एव सिद्धः पुरे ऽपि सिद्धिर् नियता यतीनाम् बुद्धिश् च यत्नश् च निमित्तम् अत्र वनं च लिङ्गं च हि भीरु-चिह्नम् //
9.19 SK मौलीधरैर् अंसविषक्तहारैः केयूरविष्टब्ध(भुजैर् Cस्रजैर् )नरेन्द्रैः लक्ष्म्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैर् अपि मोक्षधर्मः //
1242 SK मौली-धरैर् अंस-विषक्त-हारैः केयूर-विष्टब्ध-(भुजैर् Cस्रजैर् )नर-इन्द्रैः लक्ष्म्य्--अङ्क-मध्ये परिवर्तमानैः प्राप्तो गृह-स्थैर् अपि मोक्ष-धर्मः //
9.20 SK ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजम् आषाढम् अथान्तिदेवम् विदेहराजं जनकं तथैव (<xx> द्रुमं Cपाकद्रुमं )सेनजितश् च राज्ञः //
1244 SK ध्रुव-अनुजौ यौ बलि-वज्र-बाहू वैभ्राजम् आषाढम् अथ अन्ति-देवम् विदेह-राजं जनकं तथ ऐव (xx द्रुमं Cपाक-द्रुमं )सेन-जितश् च राज्ञः //
9.21 SK एतान् गृहस्थान् नृपतीन् अवेहि नैःश्रेयसे धर्मविधौ विनीतान् (उभौ Cउभे )अपि तस्माद् युगपद् भजस्व (वित्ताधिपत्यं Cचित्ताधिपत्यं )च नृपश्रियं च //
1246 SK एतान् गृह-स्थान् नृ-पतीन् अवेहि नैःश्रेयसे धर्म-विधौ विनीतान् (उभौ Cउभे )अपि तस्माद् युग-पद् भजस्व (वित्त-आधिपत्यं Cचित्त-आधिपत्यं )च नृ-प-श्रियं च //
9.22 SK इच्छामि हि त्वाम् उपगुह्य गाढं कृताभिषेकं सलिलार्द्रम् एव (धृतातपत्त्रं Cधृतातपत्रं. )समुदीक्षमाणस् तेनैव हर्षेण वनं प्रवेष्टुम् //
1248 SK इच्छामि हि त्वाम् उपगुह्य गाढं कृत-अभिषेकं सलिल-आर्द्रम् एव (धृत-आतपत्त्रं Cधृत-आतपत्रं. )समुदीक्षमाणस् तेन एव हर्षेण वनं प्रवेष्टुम् //
9.23 SK इत्य् अब्रवीद् भूमिपतिर् भवन्तं वाक्येन (बाष्पCवाष्प)ग्रथिताक्षरेण श्रुत्वा भवान् अर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहम् अनुप्रयातुम् //
1250 SK इत्य् अब्रवीद् भूमि-पतिर् भवन्तं वाक्येन (बाष्प-Cवाष्प-)ग्रथित-अ-क्षरेण श्रुत्वा भवान् अर्हति तत्-प्रिय-अर्थं स्नेहेन तत्-स्नेहम् अनुप्रयातुम् //
9.24 SK शोकाम्भसि त्वत्प्रभवे ह्य् अगाधे दुःखार्णवे मज्जति शाक्यराजः तस्मात् तम् उत्तारय नाथहीनं निराश्रयं मग्नम् इवार्णवे (नौः Cगाम् ) //
1252 SK शोक-अम्भसि त्वत्-प्रभवे ह्य् अ-गाधे दुःख-अर्णवे मज्जति शाक्य-राजः तस्मात् तम् उत्तारय नाथ-हीनं निर्-आश्रयं मग्नम् इव अर्णवे (नौः Cगाम् ) //
9.25 SK भीष्मेण गङ्गोदरसंभवेन रामेण रामेण च भार्गवेण श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस् त्वम् अप्य् अर्हसि कर्तुम् इष्टम् //
1254 SK भीष्मेण गङ्गा-उदर-संभवेन रामेण रामेण च भार्गवेण श्रुत्वा कृतं कर्म पितुः प्रिय-अर्थं पितुस् त्वम् अप्य् अर्हसि कर्तुम् इष्टम् //
9.26 SK संवर्धयित्रीं (समवेहि Cच समेहि )देवीम् अगस्त्यजुष्टां दिशम् अप्रयाताम् प्रनष्टवत्साम् इव वत्सलां गाम् अजस्रम् आर्तां करुणं रुदन्तीम् //
1256 SK संवर्धयित्रीं (समवेहि Cच समेहि )देवीम् अगस्त्य-जुष्टां दिशम् अ-प्रयाताम् प्रनष्ट-वत्साम् इव वत्सलां गाम् अजस्रम् आर्तां करुणं रुदन्तीम् //
9.27 SK हंसेन हंसीम् इव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् (आर्तां Cआर्त्तां )सनाथाम् अपि नाथहीनां त्रातुं वधूम् अर्हसि दर्शनेन //
1258 SK हंसेन हंसीम् इव विप्रयुक्तां त्यक्तां गजेन इव वने करेणुम् (आर्तां Cआर्त्तां )स-नाथाम् अपि नाथ-हीनां त्रातुं वधूम् अर्हसि दर्शनेन //
9.28 SK एकं सुतं बालम् अनर्हदुःखं (संतापम् अन्तर्गतम् उद्वहन्तम् Cसंतापसंतप्त) तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गाद् इव पूर्णचन्द्रम् //
1260 SK एकं सुतं बालम् अन्-अर्ह-दुःखं (संतापम् अन्तर्-गतम् उद्वहन्तम् Cसंताप-संतप्त) तं राहुलं मोक्षय बन्धु-शोकाद् राहु-उपसर्गाद् इव पूर्ण-चन्द्रम् //
9.29 SK शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन त्वद्(दर्शनाम्ब्व् इच्छति दह्यमानम् Cदर्शनायर्७छति दह्यमानः (अन्तःCसो ऽन्तः)पुरं चैव पुरं च कृत्स्नम् //
1262 SK शोक-अग्निना त्वद्-विरह-इन्धनेन निःश्वास-धूमेन तमः-शिखेन त्वद्-(दर्शन-अम्ब्व् इच्छति दह्यमानम् Cदर्शनायर्७छति दह्यमानः (अन्तः-Cसो ऽन्तः)-पुरं च एव पुरं च कृत्स्नम् //
9.30 SK स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस् तस्य पुरोहितस्य ध्यात्वा मुहूर्तं गुणवद् गुणज्ञः प्रत्युत्तरं प्रश्रितम् इत्य् उवाच //
1264 SK स बोधि-सत्त्वः परिपूर्ण-सत्त्वः श्रुत्वा वचस् तस्य पुरो-हितस्य ध्यात्वा मुहूर्तं गुणवद् गुण-ज्ञः प्रत्य्-उत्तरं प्रश्रितम् इत्य् उवाच //
9.31 SK अवैमि भावं (तनये पितॄणां Cतनयप्रसक्तं विशेषतो यो मयि भूमिपस्य जानन्न् अपि व्याधिजराविपद्भ्यो भीतस् त्व् अगत्या स्वजनं त्यजामि //
1266 SK अवैमि भावं (तनये पितॄणां Cतनय-प्रसक्तं विशेषतो यो मयि भूमि-पस्य जानन्न् अपि व्याधि-जरा-विपद्भ्यो भीतस् त्व् अ-गत्या स्व-जनं त्यजामि //
9.32 SK द्रष्टुं प्रियं कः स्वजनं हि नेच्छेन् (नान्ते Cनासौ )यदि स्यात् प्रियविप्रयोगः यदा तु भूत्वापि (चिरं Cभवेद् )वियोगस् ततो गुरुं स्निग्धम् अपि त्यजामि //
1268 SK द्रष्टुं प्रियं कः स्व-जनं हि न इच्छेन् (न अन्ते Cन असौ )यदि स्यात् प्रिय-विप्रयोगः यदा तु भूत्व आपि (चिरं Cभवेद् )वियोगस् ततो गुरुं स्निग्धम् अपि त्यजामि //
9.33 SK मद्धेतुकं यत् तु नराधिपस्य शोकं भवान् (आह न तत् Cअर्हति न )प्रियं मे यत् स्वप्नभूतेषु समागमेषु संतप्यते भाविनि (विप्रयोगे Cविप्रयोगैः ) //
1270 SK मद्-धेतुकं यत् तु नर-अधिपस्य शोकं भवान् (आह न तत् Cअर्हति न )प्रियं मे यत् स्वप्न-भूतेषु समागमेषु संतप्यते भाविनि (विप्रयोगे Cविप्रयोगैः ) //
9.34 SK एवं च ते निश्चयम् एतु बुद्धिर् दृष्ट्वा विचित्रं (जगतः प्रचारम् Cविविधप्रचारम् ) संतापहेतुर् न सुतो न बन्धुर् अज्ञाननैमित्तिक एष तापः //
1272 SK एवं च ते निश्चयम् एतु बुद्धिर् दृष्ट्वा विचित्रं (जगतः प्रचारम् Cवि-विध-प्रचारम् ) संताप-हेतुर् न सुतो न बन्धुर् अ-ज्ञान-नैमित्तिक एष तापः //
9.35 SK (यथाध्वCयदाध्व)गानाम् (इह Cइव )संगतानां काले वियोगो नियतः प्रजानाम् प्राज्ञो जनः को नु भजेत शोकं बन्धु(प्रतिज्ञातजनैर् विहीनः Cप्रियः सन्न् अपि बन्धुहीनः ) //
1274 SK (यथ आध्व-Cयद आध्व-)गानाम् (इह Cइव )संगतानां काले वियोगो नियतः प्रजानाम् प्राज्ञो जनः को नु भजेत शोकं बन्धु-(प्रतिज्ञात-जनैर् विहीनः Cप्रियः सन्न् अपि बन्धु-हीनः ) //
9.36 SK इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति गत्वापि तत्राप्य् अपरत्र गच्छत्य् एवं (जने त्यागिनि Cजनो योगिनि )को ऽनुरोधः //
1276 SK इह एति हित्वा स्व-जनं परत्र प्रलभ्य च इह अपि पुनः प्रयाति गत्व आपि तत्र अप्य् अ-परत्र गच्छत्य् एवं (जने त्यागिनि Cजनो योगिनि )को ऽनुरोधः //
9.37 SK यदा च गर्भात् प्रभृति (प्रवृत्तः Cप्रजानां (सर्वास्व् अवस्थासु वधाय C<xx> नुबधाय )मृत्युः कस्माद् अकाले वनसंश्रयं मे पुत्रप्रियस् (तत्रभवान् Cतत्र भवान् )अवोचत् //
1278 SK यदा च गर्भात् प्रभृति (प्रवृत्तः Cप्रजानां (सर्वास्व् अवस्थासु वधाय Cxx नुबधाय )मृत्युः कस्माद् अ-काले वन-संश्रयं मे पुत्र-प्रियस् (तत्र-भवान् Cतत्र भवान् )अवोचत् //
9.38 SK भवत्य् अकालो विषयाभिपत्तौ कालस् (तथैवार्थविधौ Cतथैवाभिविधौ )प्रदिष्टः कालो जगत् कर्षति सर्वकालान् (निर्वाहके Cअर्चार्हके )श्रेयसि (नास्ति कालः Cसर्वकालः ) //
1280 SK भवत्य् अ-कालो विषय-अभिपत्तौ कालस् (तथ ऐव अर्थ-विधौ Cतथ ऐव अभिविधौ )प्रदिष्टः कालो जगत् कर्षति सर्व-कालान् (निर्वाहके Cअर्च-अर्हके )श्रेयसि (न अस्ति कालः Cसर्व-कालः ) //
9.39 SK राज्यं मुमुक्षुर् मयि यच् च राजा तद् अप्य् उदारं सदृशं पितुश् च प्रतिग्रहीतुं मम न क्षमं तु लोभाद् अपथ्यान्नम् इवातुरस्य //
1282 SK राज्यं मुमुक्षुर् मयि यच् च राजा तद् अप्य् उदारं स-दृशं पितुश् च प्रतिग्रहीतुं मम न क्षमं तु लोभाद् अ-पथ्य-अन्नम् इवा अतुरस्य //
9.40 SK कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण सोद्वेगता यत्र मदः श्रमश् च (परापचारेण Cपरोपचारेण )च धर्मपीडा //
1284 SK कथं नु मोह-आयतनं नृ-पत्वं क्षमं प्रपत्तुं विदुषा नरेण स-उद्वेगता यत्र मदः श्रमश् च (पर-अपचारेण Cपर-उपचारेण )च धर्म-पीडा //
9.41 SK जाम्बूनदं हर्म्यम् इव प्रदीप्तं विषेण संयुक्तम् इवोत्तमान्नम् ग्राहाकुलं (चाम्ब्व् इव सारविन्दं Cच स्थितं <xx> ((Cराज्यं हि रम्यं व्यसनाश्रयं च C)) //
1286 SK जाम्बूनदं हर्म्यम् इव प्रदीप्तं विषेण संयुक्तम् इव उत्तम-अन्नम् ग्राह-आकुलं (च अम्ब्व् इव सार-विन्दं Cच स्थितं xx ((Cराज्यं हि रम्यं व्यसन-आश्रयं च C)) //
9.42 SK ((Cइत्थं च राज्यं न सुखं न धर्मः C) ((Cपूर्वे यथा जातघृणा नरेन्द्राः ((Cवयःप्रकर्षे ऽपरिहार्यदुःखे C) ((Cराज्यानि मुक्त्वा वनम् एव जग्मुः C)) //
1288 SK ((Cइत्थं च राज्यं न सुखं न धर्मः C) ((Cपूर्वे यथा जात-घृणा नर-इन्द्राः ((Cवयः-प्रकर्षे ऽपरिहार्य-दुःखे C) ((Cराज्यानि मुक्त्वा वनम् एव जग्मुः C)) //
9.43 SK ((Cवरं हि भुक्तानि तृणान्य् अरण्ये C) ((Cतोषं परं रत्नम् इवोपगुह्य C)) ((Cसहोषितं श्रीसुलभैर् न चैव C) ((Cदोषैर् अदृश्यैर् इव कृष्णसर्पैः C)) //
1290 SK ((Cवरं हि भुक्तानि तृणान्य् अरण्ये C) ((Cतोषं परं रत्नम् इव उपगुह्य C)) ((Cसह-उषितं श्री-सु-लभैर् न च एव C) ((Cदोषैर् अ-दृश्यैर् इव कृष्ण-सर्पैः C)) //
9.44 SK ((Cश्लाघ्यं हि राज्यानि विहाय राज्ञां C) ((Cधर्माभिलाषेण वनं प्रवेष्टुम् C)) ((Cभग्नप्रतिज्ञस्य न तूपपन्नं C) ((Cवनं परित्यज्य गृहं प्रवेष्टुम् C)) //
1292 SK ((Cश्लाघ्यं हि राज्यानि विहाय राज्ञां C) ((Cधर्म-अभिलाषेण वनं प्रवेष्टुम् C)) ((Cभग्न-प्रतिज्ञस्य न तु उपपन्नं C) ((Cवनं परित्यज्य गृहं प्रवेष्टुम् C)) //
9.45 SK ((Cजातः कुले को हि नरः ससत्त्वो C) ((Cधर्माभिलाषेण वनं प्रविष्टः C)) ((Cकाषायम् उत्सृज्य विमुक्तलज्जः C) ((Cपुरंदरस्यापि पुरं श्रयेत C)) //
1294 SK ((Cजातः कुले को हि नरः स-सत्त्वो C) ((Cधर्म-अभिलाषेण वनं प्रविष्टः C)) ((Cकाषायम् उत्सृज्य विमुक्त-लज्जः C) ((Cपुरं-दरस्य अपि पुरं श्रयेत C)) //
9.46 SK ((Cलोभाद् धि मोहाद् अथवा भयेन C) ((Cयो वान्तम् अन्नं पुनर् आददीत C)) ((Cलोभात् स मोहाद् अथवा भयेन C) ((Cसंत्यज्य कामान् पुनर् आददीत C)) //
1296 SK ((Cलोभाद् धि मोहाद् अथ-वा भयेन C) ((Cयो वान्तम् अन्नं पुनर् आददीत C)) ((Cलोभात् स मोहाद् अथ-वा भयेन C) ((Cसंत्यज्य कामान् पुनर् आददीत C)) //
9.47 SK ((Cयश् च प्रदीप्ताच् छरणात् कथंचिन् C) ((Cनिष्क्रम्य भूयः प्रविशेत् तद् एव C)) ((Cगार्हस्थ्यम् उत्सृज्य स दृष्टदोषो C) ((Cमोहेन भूयो ऽभिलषेद् ग्रहीतुम् C)) //
1298 SK ((Cयश् च प्रदीप्ताच् छरणात् कथं-चिन् C) ((Cनिष्क्रम्य भूयः प्रविशेत् तद् एव C)) ((Cगार्हस्थ्यम् उत्सृज्य स दृष्ट-दोषो C) ((Cमोहेन भूयो ऽभिलषेद् ग्रहीतुम् C)) //
9.48 SK ((Cया च श्रुतिर् मोक्षम् अवाप्तवन्तो C) ((Cनृपा गृहस्था इति नैतद् अस्ति C)) ((Cशमप्रधानः क्व च मोक्षधर्मो C) ((Cदण्डप्रधानः क्व च राजधर्मः C)) //
1300 SK ((Cया च श्रुतिर् मोक्षम् अवाप्तवन्तो C) ((Cनृ-पा गृह-स्था इति न एतद् अस्ति C)) ((Cशम-प्रधानः क्व च मोक्ष-धर्मो C) ((Cदण्ड-प्रधानः क्व च राज-धर्मः C)) //
9.49 SK ((Cशमे रतिश् चेच् छिथिलं च राज्यं C) ((Cराज्ये मतिश् चेच् छमविप्लवश् च C)) ((Cशमश् च तैक्ष्ण्यं च हि नोपपन्नं C) ((Cशीतोष्णयोर् ऐक्यम् इवोदकाग्न्योः C)) //
1302 SK ((Cशमे रतिश् चेच् छिथिलं च राज्यं C) ((Cराज्ये मतिश् चेच् छम-विप्लवश् च C)) ((Cशमश् च तैक्ष्ण्यं च हि न उपपन्नं C) ((Cशीत-उष्णयोर् ऐक्यम् इव उदक-अग्न्योः C)) //
9.50 SK ((Cतन् निश्चयाद् वा वसुधाधिपास् ते C) ((Cराज्यानि मुक्त्वा शमम् आप्तवन्तः C)) ((Cराज्याङ्गिता वा निभृतेन्द्रियत्वाद् C) ((Cअनैष्ठिके मोक्षकृताभिमानाः C)) //
1304 SK ((Cतन् निश्चयाद् वा वसु-धा-अधिपास् ते C) ((Cराज्यानि मुक्त्वा शमम् आप्तवन्तः C)) ((Cराज्य-अङ्गिता वा निभृत-इन्द्रियत्वाद् C) ((Cअ-नैष्ठिके मोक्ष-कृत-अभिमानाः C)) //
9.51 SK ((Cतेषां च राज्ये ऽस्तु शमो यथावत् C) ((Cप्राप्तो वनं नाहम् अनिश्चयेन C)) ((Cछित्त्वा हि पाशं गृहबन्धुसंज्ञं C) ((Cमुक्तः पुनर् न प्रविविक्षुर् अस्मि C)) //
1306 SK ((Cतेषां च राज्ये ऽस्तु शमो यथावत् C) ((Cप्राप्तो वनं न अहम् अ-निश्चयेन C)) ((Cछित्त्वा हि पाशं गृह-बन्धु-संज्ञं C) ((Cमुक्तः पुनर् न प्रविविक्षुर् अस्मि C)) //
9.52 SK इत्य् आत्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमद् ऊर्जितं च श्रुत्वा नरेन्द्रात्मजम् उक्तवन्तं प्रत्युत्तरं मन्त्रधरो ऽप्य् उवाच //
1308 SK इत्य् आत्म-विज्ञान-गुण-अनु-रूपं मुक्त-स्पृहं हेतुमद् ऊर्जितं च श्रुत्वा नर-इन्द्र-आत्म-जम् उक्तवन्तं प्रत्य्-उत्तरं मन्त्र-धरो ऽप्य् उवाच //
9.53 SK यो निश्चयो (धर्मविधौ Cमन्त्रवरस् )तवायम् नायं न युक्तो न तु कालयुक्तः शोकाय (दत्त्वा Cहित्वा )पितरं वयःस्थं स्याद् धर्मकामस्य हि ते न धर्मः //
1310 SK यो निश्चयो (धर्म-विधौ Cमन्त्र-वरस् )तव अयम् न अयं न युक्तो न तु काल-युक्तः शोकाय (दत्त्वा Cहित्वा )पितरं वयः-स्थं स्याद् धर्म-कामस्य हि ते न धर्मः //
9.54 SK नूनं च बुद्धिस् तव नातिसूक्ष्मा धर्मार्थकामेष्व् अविचक्षणा वा हेतोर् अदृष्टस्य फलस्य यस् त्वं प्रत्यक्षम् अर्थं परिभूय यासि //
1312 SK नूनं च बुद्धिस् तव न अति-सूक्ष्मा धर्म-अर्थ-कामेष्व् अ-विचक्षणा वा हेतोर् अ-दृष्टस्य फलस्य यस् त्वं प्रत्य्-अक्षम् अर्थं परिभूय यासि //
9.55 SK पुनर्भवो ऽस्तीति च केचिद् आहुर् नास्तीति केचिन् नियतप्रतिज्ञाः एवं यदा संशयितो ऽयम् अर्थस् तस्मात् क्षमं भोक्तुम् उपस्थिता श्रीः //
1314 SK पुनर्-भवो ऽस्ति इति च के-चिद् आहुर् न अस्ति इति के-चिन् नियत-प्रतिज्ञाः एवं यदा संशयितो ऽयम् अर्थस् तस्मात् क्षमं भोक्तुम् उपस्थिता श्रीः //
9.56 SK भूयः प्रवृत्तिर् यदि काचिद् अस्ति रंस्यामहे तत्र यथोपपत्तौ अथ प्रवृत्तिः परतो न काचित् सिद्धो ऽप्रयत्नाज् जगतो ऽस्य मोक्षः //
1316 SK भूयः प्रवृत्तिर् यदि का-चिद् अस्ति रंस्यामहे तत्र यथ ऊपपत्तौ अथ प्रवृत्तिः परतो न का-चित् सिद्धो ऽप्रयत्नाज् जगतो ऽस्य मोक्षः //
9.57 SK अस्तीति केचित् परलोकम् आहुर् मोक्षस्य योगं न तु वर्णयन्ति अग्नेर् यथा ह्य् (औष्ण्यम् Cउष्णम् )अपां द्रवत्वं तद्वत् प्रवृत्तौ प्रकृतिं वदन्ति //
1318 SK अस्ति इति के-चित् पर-लोकम् आहुर् मोक्षस्य योगं न तु वर्णयन्ति अग्नेर् यथा ह्य् (औष्ण्यम् Cउष्णम् )अपां द्रवत्वं तद्वत् प्रवृत्तौ प्रकृतिं वदन्ति //
9.58 SK केचित् स्वभावाद् इति वर्णयन्ति शुभाशुभं चैव भवाभवौ च स्वाभाविकं सर्वम् इदं च यस्माद् अतो ऽपि मोघो भवति प्रयत्नः //
1320 SK के-चित् स्व-भावाद् इति वर्णयन्ति शुभ-अ-शुभं च एव भव-अ-भवौ च स्वाभाविकं सर्वम् इदं च यस्माद् अतो ऽपि मोघो भवति प्रयत्नः //
9.59 SK यद् इन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव संयुज्यते यज् (जरयार्तिभिश् Cजरयार्त्तिभिश् )च कस् तत्र यत्नो ननु स स्वभावः //
1322 SK यद् इन्द्रियाणां नियतः प्रचारः प्रिय-अ-प्रियत्वं विषयेषु च एव संयुज्यते यज् (जरया आर्तिभिश् Cजरया आर्त्तिभिश् )च कस् तत्र यत्नो ननु स स्व-भावः //
9.60 SK अद्भिर् हुताशः शमम् अभ्युपैति तेजांसि चापो गमयन्ति शोषम् भिन्नानि भूतानि शरीरसंस्थान्य् ऐक्यं च (गत्वा Cदत्त्वा )जगद् उद्वहन्ति //
1324 SK अद्भिर् हुत-आशः शमम् अभ्युपैति तेजांसि चा अपो गमयन्ति शोषम् भिन्नानि भूतानि शरीर-संस्थान्य् ऐक्यं च (गत्वा Cदत्त्वा )जगद् उद्वहन्ति //
9.61 SK यत् पाणिपादोदरपृष्ठ(मूर्ध्नां Cमूर्ध्ना निर्वर्तते गर्भगतस्य भावः यद् आत्मनस् तस्य च तेन योगः स्वाभाविकं तत् कथयन्ति तज्ज्ञाः //
1326 SK यत् पाणि-पाद-उदर-पृष्ठ-(मूर्ध्नां Cमूर्ध्ना निर्वर्तते गर्भ-गतस्य भावः यद् आत्मनस् तस्य च तेन योगः स्वाभाविकं तत् कथयन्ति तज्-ज्ञाः //
9.62 SK कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा स्वभावतः सर्वम् इदं प्रवृत्तं न कामकारो ऽस्ति कुतः प्रयत्नः //
1328 SK कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्र-भावं मृग-पक्षिणां वा स्व-भावतः सर्वम् इदं प्रवृत्तं न काम-कारो ऽस्ति कुतः प्रयत्नः //
9.63 SK सर्गं वदन्तीश्वरतस् तथान्ये तत्र प्रयत्ने पुरुषष्य को ऽर्थः य एव हेतुर् जगतः प्रवृत्तौ हेतुर् निवृत्तौ नियतः स एव //
1330 SK सर्गं वदन्ती इश्वरतस् तथ आन्ये तत्र प्रयत्ने पुरुषष्य को ऽर्थः य एव हेतुर् जगतः प्रवृत्तौ हेतुर् निवृत्तौ नियतः स एव //
9.64 SK केचिद् वदन्त्य् आत्मनिमित्तम् एव प्रादुर्भवं चैव भवक्षयं च प्रादुर्भवं तु प्रवदन्त्य् अयत्नाद् यत्नेन मोक्षाधिगमं ब्रुवन्ति //
1332 SK के-चिद् वदन्त्य् आत्म-निमित्तम् एव प्रादुर्-भवं च एव भव-क्षयं च प्रादुर्-भवं तु प्रवदन्त्य् अ-यत्नाद् यत्नेन मोक्ष-अधिगमं ब्रुवन्ति //
9.65 SK नरः पितॄणाम् अनृणः प्रजाभिर् वेदैर् ऋषीणां क्रतुभिः सुराणाम् उत्पद्यते सार्धम् ऋणैस् त्रिभिस् तैर् यस्यास्ति मोक्षः किल तस्य मोक्षः //
1334 SK नरः पितॄणाम् अन्-ऋणः प्रजाभिर् वेदैर् ऋषीणां क्रतुभिः सुराणाम् उत्पद्यते स-अर्धम् ऋणैस् त्रिभिस् तैर् यस्य अस्ति मोक्षः किल तस्य मोक्षः //
9.66 SK इत्य् एवम् एतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः प्रयत्नवन्तो ऽपि हि विक्रमेण मुमुक्षवः खेदम् अवाप्नुवन्ति //
1336 SK इत्य् एवम् एतेन विधि-क्रमेण मोक्षं स-यत्नस्य वदन्ति तज्-ज्ञाः प्रयत्नवन्तो ऽपि हि वि-क्रमेण मुमुक्षवः खेदम् अवाप्नुवन्ति //
9.67 SK तत् सौम्य मोक्षे यदि भक्तिर् अस्ति न्यायेन सेवस्व विधिं यथोक्तम् एवं भविष्यत्य् उपपत्तिर् अस्य संतापनाशश् च नराधिपस्य //
1338 SK तत् सौम्य मोक्षे यदि भक्तिर् अस्ति न्यायेन सेवस्व विधिं यथा-उक्तम् एवं भविष्यत्य् उपपत्तिर् अस्य संताप-नाशश् च नर-अधिपस्य //
9.68 SK या च प्रवृत्ता (तव दोषCभवदोष)बुद्धिस् तपोवनेभ्यो भवनं प्रवेष्टुम् तत्रापि चिन्ता तव तात मा भूत् पूर्वे ऽपि जग्मुः स्व(गृहान् Cगृहं )वनेभ्यः //
1340 SK या च प्रवृत्ता (तव दोष-Cभव-दोष-)बुद्धिस् तपो-वनेभ्यो भवनं प्रवेष्टुम् तत्र अपि चिन्ता तव तात मा भूत् पूर्वे ऽपि जग्मुः स्व-(गृहान् Cगृहं )वनेभ्यः //
9.69 SK तपोवनस्थो ऽपि वृतः प्रजाभिर् जगाम राजा पुरम् अम्बरीषः तथा महीं विप्रकृताम् अनार्यैस् तपोवनाद् एत्य ररक्ष रामः //
1342 SK तपो-वन-स्थो ऽपि वृतः प्रजाभिर् जगाम राजा पुरम् अम्बरीषः तथा महीं विप्रकृताम् अन्-आर्यैस् तपो-वनाद् एत्य ररक्ष रामः //
9.70 SK तथैव शाल्वाधिपतिर् (द्रुमाख्यो Cद्रुमाक्षो वनात् ससूनुर् (नगरं विवेश Cस्वपुरं प्रविश्य ) ब्रह्मर्१षिभूतश् च मुनेर् (वसिष्ठाद् Cवशिष्ठाद् दध्रे श्रियं सांकृतिर् अन्तिदेवः //
1344 SK तथ ऐव शाल्व-अधि-पतिर् (द्रुम-आख्यो Cद्रुम-अक्षो वनात् स-सूनुर् (नगरं विवेश Cस्व-पुरं प्रविश्य ) ब्रह्मर्१षि-भूतश् च मुनेर् (वसिष्ठाद् Cवशिष्ठाद् दध्रे श्रियं सांकृतिर् अन्ति-देवः //
9.71 SK एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्य् (अतीयुः Cअभीयुः ) तस्मान् न दोषो ऽस्ति गृहं (प्रयातुं Cप्रवेष्टुं तपोवनाद् धर्मनिमित्तम् एव //
1346 SK एवं-विधा धर्म-यशः-प्रदीप्ता वनानि हित्वा भवनान्य् (अतीयुः Cअभीयुः ) तस्मान् न दोषो ऽस्ति गृहं (प्रयातुं Cप्रवेष्टुं तपो-वनाद् धर्म-निमित्तम् एव //
9.72 SK ततो वचस् तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः अनूनम् अव्यस्तम् असक्तम् अद्रुतं धृतौ स्थितो राजसुतो ऽब्रवीद् वचः //
1348 SK ततो वचस् तस्य निशम्य मन्त्रिणः प्रियं हितं च एव नृ-पस्य चक्षुषः अन्-ऊनम् अ-व्यस्तम् अ-सक्तम् अ-द्रुतं धृतौ स्थितो राज-सुतो ऽब्रवीद् वचः //
9.73 SK इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर् न ममात्र निश्चयः अवेत्य तत्त्वं तपसा शमेन (च Cवा स्वयं ग्रहीष्यामि यद् अत्र निश्चितम् //
1350 SK इह अस्ति न अस्ति इति य एष संशयः परस्य वाक्यैर् न मम अत्र निश्चयः अवेत्य तत्त्वं तपसा शमेन (च Cवा स्वयं ग्रहीष्यामि यद् अत्र निश्चितम् //
9.74 SK न मे क्षमं (संशयजं Cसङ्गशतं )हि दर्शनं ग्रहीतुम् अव्यक्त(परस्पराहतम् Cपरं पराहतम् ) (बुधः Cबुद्धः )परप्रत्ययतो हि को व्रजेज् जनो ऽन्धकारे ऽन्ध इवान्ध(देशिकः Cदेशितः ) //
1352 SK न मे क्षमं (संशय-जं Cसङ्ग-शतं )हि दर्शनं ग्रहीतुम् अ-व्यक्त-(परस्-पर-आहतम् Cपरं पर-आहतम् ) (बुधः Cबुद्धः )पर-प्रत्ययतो हि को व्रजेज् जनो ऽन्ध-कारे ऽन्ध इव अन्ध-(देशिकः Cदेशितः ) //
9.75 SK अदृष्टतत्त्वस्य सतो ऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः वृथापि खेदो (हि Cअपि )वरं शुभात्मनः सुखं न तत्त्वे ऽपि विगर्हितात्मनः //
1354 SK अ-दृष्ट-तत्त्वस्य सतो ऽपि किं तु मे शुभ-अ-शुभे संशयिते शुभे मतिः वृथ आपि खेदो (हि Cअपि )वरं शुभ-आत्मनः सुखं न तत्त्वे ऽपि विगर्हित-आत्मनः //
9.76 SK इमं तु दृष्ट्वागमम् अव्यवस्थितं यद् उक्तम् आप्तैस् तद् अवेहि साध्व् इति प्रहीणदोषत्वम् अवेहि चाप्ततां प्रहीणदोषो ह्य् अनृतं न वक्ष्यति //
1356 SK इमं तु दृष्ट्वा आगमम् अ-व्यवस्थितं यद् उक्तम् आप्तैस् तद् अवेहि साध्व् इति प्रहीण-दोषत्वम् अवेहि चा अप्ततां प्रहीण-दोषो ह्य् अन्-ऋतं न वक्ष्यति //
9.77 SK गृहप्रवेशं प्रति यच् च मे भवान् उवाच रामप्रभृतीन् निदर्शनम् न ते प्रमाणं न हि धर्मनिश्चयेष्व् अलं प्रमाणाय परिक्षतव्रताः //
1358 SK गृह-प्रवेशं प्रति यच् च मे भवान् उवाच राम-प्रभृतीन् निदर्शनम् न ते प्रमाणं न हि धर्म-निश्चयेष्व् अलं प्रमाणाय परिक्षत-व्रताः //
9.78 SK तद् एवम् अप्य् एव रविर् महीं पतेद् अपि स्थिरत्वं हिमवान् गिरिस् त्यजेत् अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्व् एव गृहान् पृथग्जनः //
1360 SK तद् एवम् अप्य् एव रविर् महीं पतेद् अपि स्थिरत्वं हिमवान् गिरिस् त्यजेत् अ-दृष्ट-तत्त्वो विषय-उन्-मुख-इन्द्रियः श्रयेय न त्व् एव गृहान् पृथग्-जनः //
9.79 SK अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयम् आलयम् इति प्रतिज्ञां स चकार गर्वितो यथेष्टम् उत्थाय च निर्ममो ययौ //
1362 SK अहं विशेयं ज्वलितं हुत-अशनं न च अ-कृत-अर्थः प्रविशेयम् आलयम् इति प्रतिज्ञां स चकार गर्वितो यथा-इष्टम् उत्थाय च निर्-ममो ययौ //
9.80 SK ततः स(बाष्पौ Cवाष्पौ )सचिवद्विजाव् उभौ निशम्य तस्य स्थिरम् एव निश्चयम् विषण्णवक्त्राव् अनुगम्य दुःखितौ शनैर् अगत्या पुरम् एव जग्मतुः //
1364 SK ततः स-(बाष्पौ Cवाष्पौ )सचिव-द्वि-जाव् उभौ निशम्य तस्य स्थिरम् एव निश्चयम् विषण्ण-वक्त्राव् अनुगम्य दुःखितौ शनैर् अ-गत्या पुरम् एव जग्मतुः //
9.81 SK तत्स्नेहाद् अथ नृपतेश् च भक्तितस् तौ सापेक्षं प्रतिययतुश् च तस्थतुश् च दुर्धर्षं रविम् इव दीप्तम् आत्मभासा तं द्रष्टुं न हि पथि शेकतुर् न मोक्तुम् //
1366 SK तत्-स्नेहाद् अथ नृ-पतेश् च भक्तितस् तौ स-अपेक्षं प्रतिययतुश् च तस्थतुश् च दुर्-धर्षं रविम् इव दीप्तम् आत्म-भासा तं द्रष्टुं न हि पथि शेकतुर् न मोक्तुम् //
9.82 SK तौ ज्ञातुं परमगतेर् गतिं तु तस्य प्रच्छन्नांश् चरपुरुषाञ् छुचीन् विधाय राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथम् इति जग्मतुः कथंचित् //
1368 SK तौ ज्ञातुं परम-गतेर् गतिं तु तस्य प्रच्छन्नांश् चर-पुरुषाञ् छुचीन् विधाय राजानं प्रिय-सुत-लालसं नु गत्वा द्रक्ष्यावः कथम् इति जग्मतुः कथं-चित् //
1369 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये कुमारा१न्वेषणो नाम नवमः सर्गः -- ९ --]]
10.1 SK स राजवत्सः पृथुपीनवक्षास् तौ हव्यमन्त्राधिकृतौ विहाय उत्तीर्य गङ्गां प्रचलत्तरंगां श्रीमद्गृहं राजगृहं जगाम //
1371 SK स राज-वत्सः पृथु-पीन-वक्षास् तौ हव्य-मन्त्र-अधिकृतौ विहाय उत्तीर्य गङ्गां प्रचलत्-तरं-गां श्रीमद्-गृहं राज-गृहं जगाम //
10.2 SK शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस् तपोदैः पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयंभूर् इव नाकपृष्ठम् //
1373 SK शैलैः सु-गुप्तं च विभूषितं च धृतं च पूतं च शिवैस् तपो-दैः पञ्च-अ-चल-अङ्कं नगरं प्रपेदे शान्तः स्वयं-भूर् इव नाक-पृष्ठम् //
10.3 SK गाम्भीर्यम् ओजश् च निशाम्य तस्य वपुश् च दीप्तं पुरुषान् अतीत्य विसिस्मिये तत्र जनस् तदानीं स्थानुव्रतस्येव वृषध्वजस्य //
1375 SK गाम्भीर्यम् ओजश् च निशाम्य तस्य वपुश् च दीप्तं पुरुषान् अतीत्य विसिस्मिये तत्र जनस् तदानीं स्थानु-व्रतस्य इव वृष-ध्वजस्य //
10.4 SK तं प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ (यस् तत्र Cयश् चात्र )तस्थौ पथि सो ऽन्वगच्छत् द्रुतं ययौ (यः स जगाम धीरं Cसदयं सधीरं यः कश्चिद् आस्ते स्म स चोत्पपात //
1377 SK तं प्रेक्ष्य यो ऽन्येन ययौ स तस्थौ (यस् तत्र Cयश् च अत्र )तस्थौ पथि सो ऽन्वगच्छत् द्रुतं ययौ (यः स जगाम धीरं Cस-दयं स-धीरं यः कश्-चिद् आस्ते स्म स च उत्पपात //
10.5 SK कश्चित् तम् आनर्च जनः कराभ्यां सत्कृत्य कश्चिच् छिरसा ववन्दे स्निग्धेन कश्चिद् वचसाभ्यनन्दन् (नैनं Cनैवं )जगामाप्रतिपूज्य कश्चित् //
1379 SK कश्-चित् तम् आनर्च जनः कराभ्यां सत्-कृत्य कश्-चिच् छिरसा ववन्दे स्निग्धेन कश्-चिद् वचस आभ्यनन्दन् (न एनं Cन एवं )जगाम अ-प्रतिपूज्य कश्-चित् //
10.6 SK तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनम् ईयुः धर्मस्य साक्षाद् इव (संनिकर्षे Cसंनिकर्षान् न कश्चिद् अन्यायमतिर् बभूव //
1381 SK तं जिह्रियुः प्रेक्ष्य विचित्र-वेषाः प्रकीर्ण-वाचः पथि मौनम् ईयुः धर्मस्य स-अक्षाद् इव (संनिकर्षे Cसंनिकर्षान् न कश्-चिद् अ-न्याय-मतिर् बभूव //
10.7 SK अन्यक्रियाणाम् अपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् (तं देवकल्पं Cतद् एव कल्पं )नरदेव(सूनुं Cसूत्रं निरीक्षमाणा न (ततर्प Cतु तस्य )दृष्टिः //
1383 SK अन्य-क्रियाणाम् अपि राज-मार्गे स्त्रीणां नृणां वा बहु-मान-पूर्वम् (तं देव-कल्पं Cतद् एव कल्पं )नर-देव-(सूनुं Cसूत्रं निरीक्षमाणा न (ततर्प Cतु तस्य )दृष्टिः //
10.8 SK भ्रुवौ ललाटं मुखम् (ईक्षणे Cईक्षणं )वा वपुः करौ वा चरणौ गतिं वा यद् एव यस् तस्य ददर्श तत्र तद् एव (तस्याथ बबन्ध Cतस्यानुबबन्ध )चक्षुः //
1385 SK भ्रुवौ ललाटं मुखम् (ईक्षणे Cईक्षणं )वा वपुः करौ वा चरणौ गतिं वा यद् एव यस् तस्य ददर्श तत्र तद् एव (तस्य अथ बबन्ध Cतस्य अनुबबन्ध )चक्षुः //
10.9 SK दृष्ट्वा (च सोर्णCशुभोर्ण)भ्रुवम् आयताक्षं ज्वलच्छरीरं शुभजालहस्तम् तं भिक्षु(वेषं Cवेशं )क्षितिपालनार्हं संचुक्षुभे राजगृहस्य लक्ष्मीः //
1387 SK दृष्ट्वा (च स-ऊर्ण-Cशुभ-ऊर्ण-)भ्रुवम् आयत-अक्षं ज्वलच्-छरीरं शुभ-जाल-हस्तम् तं भिक्षु-(वेषं Cवेशं )क्षिति-पालन-अर्हं संचुक्षुभे राज-गृहस्य लक्ष्मीः //
10.10 SK श्रेण्यो ऽथ भर्ता मगधाजिरस्य (बाह्याद् Cवाह्याद् )विमानाद् विपुलं जनौघम् ददर्श पप्रच्छ च तस्य हेतुं ततस् तम् अस्मै पुरुषः शशंस //
1389 SK श्रेण्यो ऽथ भर्ता मगध-अजिरस्य (बाह्याद् Cवाह्याद् )विमानाद् विपुलं जन-ओघम् ददर्श पप्रच्छ च तस्य हेतुं ततस् तम् अस्मै पुरुषः शशंस //
10.11 SK ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर् य उक्तो ऽधिगमिष्यतीति स (एष Cएव )शाक्याधिपतेस् तनूजो निरीक्ष्यते प्रव्रजितो जनेन //
1391 SK ज्ञानं परं वा पृथिवी-श्रियं वा विप्रैर् य उक्तो ऽधिगमिष्यति इति स (एष Cएव )शाक्य-अधि-पतेस् तनू-जो निरीक्ष्यते प्रव्रजितो जनेन //
10.12 SK ततः श्रुतार्थो (मनसागतास्थो Cमनसा गतार्थो राजा बभाषे पुरुषं तम् एव विज्ञायतां क्व प्रतिगच्छतीति तथेत्य् अथैनं पुरुषो ऽन्वगच्छत् //
1393 SK ततः श्रुत-अर्थो (मनस आ-गत-आस्थो Cमनसा गत-अर्थो राजा बभाषे पुरुषं तम् एव विज्ञायतां क्व प्रतिगच्छति इति तथ ईत्य् अथ एनं पुरुषो ऽन्वगच्छत् //
10.13 SK अलोलचक्षुर् युगमात्रदर्शी निवृत्तवाग् यन्त्रितमन्दगामी चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः //
1395 SK अ-लोल-चक्षुर् युग-मात्र-दर्शी निवृत्त-वाग् यन्त्रित-मन्द-गामी चचार भिक्षां स तु भिक्षु-वर्यो निधाय गात्राणि चलं च चेतः //
10.14 SK आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् न्यायेन तत्राभ्यवहृत्य चैनन् महीधरं पाण्डवम् आरुरोह //
1397 SK आदाय भैक्षं च यथा-उपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् न्यायेन तत्र अभ्यवहृत्य च एनन् मही-धरं पाण्डवम् आरुरोह //
10.15 SK तस्मिन् नवौ लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः //
1399 SK तस्मिन् नवौ लोध्र-वन-उपगूढे मयूर-नाद-प्रतिपूर्ण-कुञ्जे काषाय-वासाः स बभौ नृ-सूर्यो यथा-उदयस्य उपरि बाल-सूर्यः //
10.16 SK (तत्रैनम् Cतत्रैवम् )आलोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार संश्रुत्य राजा स च बाहुमान्यात् तत्र प्रतस्थे निभृतानुयात्रः //
1401 SK (तत्र एनम् Cतत्र एवम् )आलोक्य स राज-भृत्यः श्रेण्याय राज्ञे कथयां चकार संश्रुत्य राजा स च बाहुमान्यात् तत्र प्रतस्थे निभृत-अनु-यात्रः //
10.17 SK स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा मौलीधरः सिंहगतिर् नृसिंहश् चलत्सटः सिंह इवारुरोह //
1403 SK स पाण्डवं पाण्डव-तुल्य-वीर्यः शैल-उत्तमं शैल-समान-वर्ष्मा मौली-धरः सिंह-गतिर् नृ-सिंहश् चलत्-सटः सिंह इवा अरुरोह //
10.18 SK (ततः स्म Cचलस्य )तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् पर्यङ्कम् आस्थाय विरोचमानं शशाङ्कम् उद्यन्तम् इवाभ्र(कुञ्जात् Cकूटात् ) //
1405 SK (ततः स्म Cचलस्य )तस्य उपरि शृङ्ग-भूतं शान्त-इन्द्रियं पश्यति बोधि-सत्त्वम् पर्य्-अङ्कम् आस्थाय विरोचमानं शश-अङ्कम् उद्यन्तम् इव अभ्र-(कुञ्जात् Cकूटात् ) //
10.19 SK तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणम् इवोपविष्टम् सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयंभुवं शक्र इवोपतस्थे //
1407 SK तं रूप-लक्ष्म्या च शमेन च एव धर्मस्य निर्माणम् इव उपविष्टम् स-विस्मयः प्रश्रयवान् नर-इन्द्रः स्वयं-भुवं शक्र इव उपतस्थे //
10.20 SK तं न्यायतो (न्यायविदां वरिष्ठं Cन्यायवतां वरिष्ठः समेत्य पप्रच्छ च धातुसाम्यम् स चाप्य् अवोचत् सदृशेन साम्ना नृपं मनःस्वास्थ्यम् अनामयं च //
1409 SK तं न्यायतो (न्याय-विदां वरिष्ठं Cन्यायवतां वरिष्ठः समेत्य पप्रच्छ च धातु-साम्यम् स च अप्य् अवोचत् स-दृशेन साम्ना नृ-पं मनः-स्वास्थ्यम् अन्-आमयं च //
10.21 SK ततः शुचौ वारणकर्णनीले शिलातले (संनिषसाद Cअसौ निषसाद )राजा (उपोपविश्यानुमतश् Cनृपोपविश्यानुमतश् )च तस्य भावं विजिज्ञासुर् इदं बभाषे //
1411 SK ततः शुचौ वारण-कर्ण-नीले शिला-तले (संनिषसाद Cअसौ निषसाद )राजा (उपोपविश्य अनुमतश् Cनृ-प-उपविश्य अनुमतश् )च तस्य भावं विजिज्ञासुर् इदं बभाषे //
10.22 SK प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च जाता विवक्षा (स्ववयो Cसुत या )यतो मे तस्माद् इदं स्नेहवचो निबोध //
1413 SK प्रीतिः परा मे भवतः कुलेन क्रम-आगता च एव परीक्षिता च जाता विवक्षा (स्व-वयो Cसुत या )यतो मे तस्माद् इदं स्नेह-वचो निबोध //
10.23 SK आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तम् इदं वपुश् च कस्माद् इयं ते मतिर् अक्रमेण भैक्षाकए एवाभिरता न राज्ये //
1415 SK आदित्य-पूर्वं विपुलं कुलं ते नवं वयो दीप्तम् इदं वपुश् च कस्माद् इयं ते मतिर् अ-क्रमेण भैक्षाकए एव अभिरता न राज्ये //
10.24 SK गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषम् अनर्हम् एतत् हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तम् अन्नम् //
1417 SK गात्रं हि ते लोहित-चन्दन-अर्हं काषाय-संश्लेषम् अन्-अर्हम् एतत् हस्तः प्रजा-पालन-योग्य एष भोक्तुं न च अर्हः पर-दत्तम् अन्नम् //
10.25 SK तत् सौम्य राज्यं यदि पैतृकं त्वं स्नेहात् पितुर् नेच्छसि विक्रमेण न च (क्रमं Cक्षमं )मर्षयितुं मतिस् ते (भुङ्क्ष्वार्धम् Cभुक्त्वार्धम् )अस्मद्विषयस्य शीघ्रम् //
1419 SK तत् सौम्य राज्यं यदि पैतृकं त्वं स्नेहात् पितुर् न इच्छसि विक्रमेण न च (क्रमं Cक्षमं )मर्षयितुं मतिस् ते (भुङ्क्ष्व अर्धम् Cभुक्त्व आर्धम् )अस्मद्-विषयस्य शीघ्रम् //
10.26 SK एवं हि न स्यात् स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः तस्मात् कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः //
1421 SK एवं हि न स्यात् स्व-जन-अवमर्दः काल-क्रमेण अपि शम-श्रया श्रीः तस्मात् कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः //
10.27 SK अथ त्व् इदानीं कुलगर्वितत्वाद् अस्मासु विश्रम्भगुणो न ते ऽस्ति (व्यूढान्य् अनीकानि Cव्यूहान्य् अनेकानि )विगाह्य (बाणैर् Cवाणैर् मया सहायेन (परान् Cपराञ् )जिगीष //
1423 SK अथ त्व् इदानीं कुल-गर्वितत्वाद् अस्मासु विश्रम्भ-गुणो न ते ऽस्ति (व्यूढान्य् अनीकानि Cव्यूहान्य् अन्-एकानि )विगाह्य (बाणैर् Cवाणैर् मया सहायेन (परान् Cपराञ् )जिगीष //
10.28 SK तद् बुद्धिम् अत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद् भजस्व व्यत्यस्य (रागाद् इह Cरागादि ह )हि त्रिवर्गं प्रेत्येह च (भ्रंशम् Cविभ्रंशम् )अवाप्नुवन्ति //
1425 SK तद् बुद्धिम् अत्र अन्यतरां वृणीष्व धर्म-अर्थ-कामान् विधिवद् भजस्व व्यत्यस्य (रागाद् इह Cराग-आदि ह )हि त्रि-वर्गं प्रेत्य इह च (भ्रंशम् Cविभ्रंशम् )अवाप्नुवन्ति //
10.29 SK यो ह्य् अर्थधर्मौ परिपीड्य कामः स्याद् धर्म(कामौ Cकाम्ये )परिभूय चार्थः कामार्थयोश् चोपरमेण धर्मस् त्याज्यः स कृत्स्नो यदि (काङ्क्षितो ऽर्थः Cकाङ्क्षितार्थः ) //
1427 SK यो ह्य् अर्थ-धर्मौ परिपीड्य कामः स्याद् धर्म-(कामौ Cकाम्ये )परिभूय च अर्थः काम-अर्थयोश् च उपरमेण धर्मस् त्याज्यः स कृत्स्नो यदि (काङ्क्षितो ऽर्थः Cकाङ्क्षित-अर्थः ) //
10.30 SK तस्मात् त्रिवर्गस्य निषेवणेन त्वं रूपम् एतत् सफलं कुरुष्व धर्मार्थकामाधिगमं ह्य् अनूनं नृणाम् अनूनं पुरुषार्थम् आहुः //
1429 SK तस्मात् त्रि-वर्गस्य निषेवणेन त्वं रूपम् एतत् स-फलं कुरुष्व धर्म-अर्थ-काम-अधिगमं ह्य् अन्-ऊनं नृणाम् अन्-ऊनं पुरुष-अर्थम् आहुः //
10.31 SK तन् निष्फलौ नार्हसि कर्तुम् एतौ पीनौ भुजौ चापविकर्षणार्हौ मान्धातृवज् जेतुम् इमौ हि योग्यौ (लोकान् अपि त्रीन् इह Cलोकानि हि त्रीणि हि )किं पुनर् गाम् //
1431 SK तन् निष्-फलौ न अर्हसि कर्तुम् एतौ पीनौ भुजौ चाप-विकर्षण-अर्हौ मान्धातृवज् जेतुम् इमौ हि योग्यौ (लोकान् अपि त्रीन् इह Cलोकानि हि त्रीणि हि )किं पुनर् गाम् //
10.32 SK स्नेहेन खल्व् एतद् अहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन इमं हि दृष्ट्वा तव भिक्षु(वेषं Cवेशं जातानुकम्पो ऽस्म्य् अपि चागताश्रुः //
1433 SK स्नेहेन खल्व् एतद् अहं ब्रवीमि ना एश्वर्य-रागेण न विस्मयेन इमं हि दृष्ट्वा तव भिक्षु-(वेषं Cवेशं जात-अनुकम्पो ऽस्म्य् अपि चा अगत-अश्रुः //
10.33 SK यावत् स्ववंशप्रति(रूप रूपं Cरूपरूपं न ते जराभ्येत्य् अभिभूय भूयः तद् भुङ्क्ष्व भिक्षाश्रमकाम कामान् काले ऽसि कर्ता प्रियधर्म धर्मम् [Pआदस् अब् अन्द् च्द् अरे एxछन्गेद् इन् C.] //
1435 SK यावत् स्व-वंश-प्रति-(रूप रूपं Cरूप-रूपं न ते जर आभ्येत्य् अभिभूय भूयः तद् भुङ्क्ष्व भिक्षा-आश्रम-काम कामान् काले ऽसि कर्ता प्रिय-धर्म धर्मम् [Pआदस् अब् अन्द् च्द् अरे एxछन्गेद् इन् C.] //
10.34 SK शक्नोति जीर्णः खलु धर्मम् आप्तुं कामोपभोगेष्व् अगतिर् जरायाः अतश् च यूनः कथयन्ति कामान् मध्यस्य वित्तं स्थविरस्य धर्मम् //
1437 SK शक्नोति जीर्णः खलु धर्मम् आप्तुं काम-उपभोगेष्व् अ-गतिर् जरायाः अतश् च यूनः कथयन्ति कामान् मध्यस्य वित्तं स्थविरस्य धर्मम् //
10.35 SK धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि संरक्ष्यमानान्य् अपि दुर्ग्रहाणि कामा यतस् तेन (पथा Cयथा )हरन्ति //
1439 SK धर्मस्य च अर्थस्य च जीव-लोके प्रत्य्-अर्थि-भूतानि हि यौवनानि संरक्ष्यमानान्य् अपि दुर्-ग्रहाणि कामा यतस् तेन (पथा Cयथा )हरन्ति //
10.36 SK वयांसि जीर्णानि (विमर्शवन्ति Cविमर्शयन्ति धीराण्य् अवस्थानपरायणानि अल्पेन यत्नेन शमात्मकानि भवन्त्य् अ(गत्यैव Cगत्येव )च लज्जया च //
1441 SK वयांसि जीर्णानि (विमर्शवन्ति Cविमर्शयन्ति धीराण्य् अवस्थान-पर-अयणानि अल्पेन यत्नेन शम-आत्मकानि भवन्त्य् अ-(गत्य ऐव Cगत्य ईव )च लज्जया च //
10.37 SK अतश् च लोलं विषयप्रधानं प्रमत्तम् अक्षान्तम् अदीर्घदर्शि बहुच्छलं यौवनम् अभ्यतीत्य निस्तीर्य कान्तारम् इवाश्वसन्ति //
1443 SK अतश् च लोलं विषय-प्रधानं प्रमत्तम् अ-क्षान्तम् अ-दीर्घ-दर्शि बहु-च्छलं यौवनम् अभ्यतीत्य निस्तीर्य कान्तारम् इवा अश्वसन्ति //
10.38 SK तस्माद् अधीरं चपलप्रमादि नवं वयस् तावद् इदं व्यपैतु कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुम् इन्द्रियेभ्यः //
1445 SK तस्माद् अ-धीरं चपल-प्रमादि नवं वयस् तावद् इदं व्यपैतु कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुम् इन्द्रियेभ्यः //
10.39 SK अथो चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः यज्ञैर् अधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वान् अपि नाकपृष्ठम् //
1447 SK अथ उ चिकीर्षा तव धर्म एव यजस्व यज्ञं कुल-धर्म एषः यज्ञैर् अधिष्ठाय हि नाक-पृष्ठं ययौ मरुत्वान् अपि नाक-पृष्ठम् //
10.40 SK सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः नृपर्१षयस् तां हि गतिं गता मखैः श्रमेण याम् एव महर्२षयो ययुः //
1449 SK सु-वर्ण-केयूर-विदष्ट-बाहवो मणि-प्रदीप-उज्ज्वल-चित्र-मौलयः नृ-पर्१षयस् तां हि गतिं गता मखैः श्रमेण याम् एव महर्२षयो ययुः //
10.41 SK इत्य् एवं मगधपतिर् ((Cवचो C))बभाषे यः सम्यग् वलभिद् इव (ब्रुवन् बभासे Cध्रुवं बभाषे ) // तच् छ्रुत्वा न स (विचचाल Cविचचार )राजसूनुः कैलासो गिरिर् इव नैकचित्रसानुः //
1451 SK इत्य् एवं मगध-पतिर् ((Cवचो C))बभाषे यः सम्यग् वल-भिद् इव (ब्रुवन् बभासे Cध्रुवं बभाषे ) // तच् छ्रुत्वा न स (विचचाल Cविचचार )राज-सूनुः कैलासो गिरिर् इव न-एक-चित्र-सानुः //
1452 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये ऽश्व-घोष-कृते श्रेण्या१भिगमनो नाम दशमः सर्गः -- १० --]]
11.1 SK अथैवम् उक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलम् अर्थम् स्वस्थो ऽविकारः कुलशौचशुद्धः शौद्धोदनिर् वाक्यम् इदं जगाद //
1454 SK अथ एवम् उक्तो मगध-अधिपेन सु-हृन्-मुखेन प्रति-कूलम् अर्थम् स्व-स्थो ऽविकारः कुल-शौच-शुद्धः शौद्धोदनिर् वाक्यम् इदं जगाद //
11.2 SK नाश्चर्यम् एतद् भवतो (विधानं Cअभिधातुं जातस्य हर्यङ्ककुले विशाले यन् मित्रपक्षे तव मित्रकाम स्याद् वृत्तिर् एषा परिशुद्धवृत्तेः //
1456 SK ना अश्चर्यम् एतद् भवतो (विधानं Cअभिधातुं जातस्य हर्य्-अङ्क-कुले विशाले यन् मित्र-पक्षे तव मित्र-काम स्याद् वृत्तिर् एषा परिशुद्ध-वृत्तेः //
11.3 SK असत्सु मैत्री स्व(कुलानुवृत्ता Cकुलानुरूपा न तिष्ठति श्रिर् इव विक्लवेषु पूर्वैः कृतां प्रीतिपरंपराभिस् ताम् एव सन्तस् तु विवर्धयन्ति //
1458 SK अ-सत्सु मैत्री स्व-(कुल-अनुवृत्ता Cकुल-अनु-रूपा न तिष्ठति श्रिर् इव विक्लवेषु पूर्वैः कृतां प्रीति-परं-पराभिस् ताम् एव सन्तस् तु विवर्धयन्ति //
11.4 SK ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्व् इह को हि न स्यात् //
1460 SK ये च अर्थ-कृच्छ्रेषु भवन्ति लोके समान-कार्याः सु-हृदां मनुष्याः मित्राणि तानि इति परैमि बुद्ध्या स्व-स्थस्य वृद्धिष्व् इह को हि न स्यात् //
11.5 SK एवं च ये द्रव्यम् अवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् //
1462 SK एवं च ये द्रव्यम् अवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति अवाप्त-साराणि धनानि तेषां भ्रष्टानि न अन्ते जनयन्ति तापम् //
11.6 SK सुहृत्तया चार्यतया च राजन् (खल्व् एष यो मां प्रति निश्चयस् Cविभाव्य माम् एव विनिश्चयस् )ते अत्रानुनेष्यामि सुहृत्तयैव ब्रूयाम् अहं नोत्तरम् अन्यद् अत्र //
1464 SK सु-हृत्तया चा अर्यतया च राजन् (खल्व् एष यो मां प्रति निश्चयस् Cविभाव्य माम् एव विनिश्चयस् )ते अत्र अनुनेष्यामि सु-हृत्तय ऐव ब्रूयाम् अहं न उत्तरम् अन्यद् अत्र //
11.7 SK अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्मम् इमं प्रपन्नः बन्धून् प्रियान् अश्रुमुखान् विहाय प्राग् एव कामान् अशुभस्य हेतून् //
1466 SK अहं जरा-मृत्यु-भयं विदित्वा मुमुक्षया धर्मम् इमं प्रपन्नः बन्धून् प्रियान् अश्रु-मुखान् विहाय प्राग् एव कामान् अ-शुभस्य हेतून् //
11.8 SK नाशीविषेभ्यो (हि Cअपि )तथा बिभेमि नैवाशनिभ्यो गगनाच् च्युतेभ्यः न पावकेभ्यो ऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य (एव Cएभ्यः ) //
1468 SK ना अशी-विषेभ्यो (हि Cअपि )तथा बिभेमि न एव अशनिभ्यो गगनाच् च्युतेभ्यः न पावकेभ्यो ऽनिल-संहितेभ्यो यथा भयं मे विषयेभ्य (एव Cएभ्यः ) //
11.9 SK कामा ह्य् अनित्याः कुशलार्थचौरा रिक्ताश् च मायासदृशाश् च लोके आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनर् आत्मसंस्थाः //
1470 SK कामा ह्य् अ-नित्याः कुशल-अर्थ-चौरा रिक्ताश् च माया-स-दृशाश् च लोके आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनर् आत्म-संस्थाः //
11.10 SK कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं (बत Cवत )मर्त्यलोके कामैः सतृष्णस्य हि नास्ति तृप्तिर् यथेन्धनैर् वातसखस्य वह्नेः //
1472 SK काम-अभिभूता हि न यान्ति शर्म त्रि-पिष्टपे किं (बत Cवत )मर्त्य-लोके कामैः स-तृष्णस्य हि न अस्ति तृप्तिर् यथ ईन्धनैर् वात-सखस्य वह्नेः //
11.11 SK जगत्य् अनर्थो न समो ऽस्ति कामैर् मोहाच् च तेष्व् एव जनः प्रसक्तः तत्त्वं विदित्वैवम् अनर्थभीरुः प्राज्ञः स्वयं को ऽभिलषेद् अनर्थम् //
1474 SK जगत्य् अन्-अर्थो न समो ऽस्ति कामैर् मोहाच् च तेष्व् एव जनः प्रसक्तः तत्त्वं विदित्व ऐवम् अन्-अर्थ-भीरुः प्राज्ञः स्वयं को ऽभिलषेद् अन्-अर्थम् //
11.12 SK समुद्रवस्त्राम् अपि गाम् अवाप्य पारं जिगीषन्ति महार्णवस्य लोकस्य कामैर् न वितृप्तिर् अस्ति पतद्भिर् अम्भोभिर् इवार्णवस्य //
1476 SK समुद्र-वस्त्राम् अपि गाम् अवाप्य पारं जिगीषन्ति महा-अर्णवस्य लोकस्य कामैर् न वितृप्तिर् अस्ति पतद्भिर् अम्भोभिर् इव अर्णवस्य //
11.13 SK देवेन वृष्टे ऽपि हिरण्यवर्षे द्वीपान् (समग्रांश् Cसमुद्रांश् )चतुरो ऽपि जित्वा शक्रस्य चार्धासनम् अप्य् अवाप्य मान्धातुर् आसीद् विषयेष्व् अतृप्तिः //
1478 SK देवेन वृष्टे ऽपि हिरण्य-वर्षे द्वीपान् (सम्-अग्रांश् Cसमुद्रांश् )चतुरो ऽपि जित्वा शक्रस्य च अर्ध-आसनम् अप्य् अवाप्य मान्धातुर् आसीद् विषयेष्व् अ-तृप्तिः //
11.14 SK भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात् प्रनष्टे दर्पान् महर्२षीन् अपि वाहयित्वा कामेष्व् अतृप्तो नहुषः पपात //
1480 SK भुक्त्व आपि राज्यं दिवि देवतानां शत-क्रतौ वृत्र-भयात् प्रनष्टे दर्पान् महर्२षीन् अपि वाहयित्वा कामेष्व् अ-तृप्तो नहुषः पपात //
11.15 SK ऐडश् च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशम् उर्वशीं ताम् लोभाद् ऋषिभ्यः कनकं जिहीर्षुर् जगाम नाशं विषयेष्व् अतृप्तः //
1482 SK ऐडश् च राजा त्रि-दिवं विगाह्य नीत्व आपि देवीं वशम् उर्वशीं ताम् लोभाद् ऋषिभ्यः कनकं जिहीर्षुर् जगाम नाशं विषयेष्व् अ-तृप्तः //
11.16 SK बलेर् महेन्द्रं नहुषं महेन्द्राद् इन्द्रं पुनर् ये नहुषाद् उपेयुः स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद् भाग्यकुलाकुलेषु //
1484 SK बलेर् महा-इन्द्रं नहुषं महा-इन्द्राद् इन्द्रं पुनर् ये नहुषाद् उपेयुः स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद् भाग्य-कुल-आकुलेषु //
11.17 SK चीराम्बरा मूलफलाम्बुभक्षा जटा वहन्तो ऽपि भुजंगदीर्घाः यैर् (नान्यCअन्य)कार्या मुनयो ऽपि भग्नाः कः कामसंज्ञान् मृगयेत शत्रून् //
1486 SK चीर-अम्बरा मूल-फल-अम्बु-भक्षा जटा वहन्तो ऽपि भुजं-ग-दीर्घाः यैर् (न अन्य-Cअन्य-)कार्या मुनयो ऽपि भग्नाः कः काम-संज्ञान् मृगयेत शत्रून् //
11.18 SK उग्रायुधश् चोग्रधृतायुधो ऽपि येषां कृते मृत्युम् अवाप भीष्मात् चिन्तापि तेषाम् अशिवा वधाय (सद्Cतद्)वृत्तिनां किं पुनर् अव्रतानाम् //
1488 SK उग्र-आयुधश् च उग्र-धृत-आयुधो ऽपि येषां कृते मृत्युम् अवाप भीष्मात् चिन्त आपि तेषाम् अ-शिवा वधाय (सद्-Cतद्-)वृत्तिनां किं पुनर् अ-व्रतानाम् //
11.19 SK आस्वादम् अल्पं विषयेषु मत्वा संयोजनोत्कर्षम् अतृप्तिम् एव सद्भ्यश् च गर्हां नियतं च पापं कः कामसंज्ञं विषम् (आददीत Cआससाद ) //
1490 SK आस्वादम् अल्पं विषयेषु मत्वा संयोजन-उत्कर्षम् अ-तृप्तिम् एव सद्भ्यश् च गर्हां नियतं च पापं कः काम-संज्ञं विषम् (आददीत Cआससाद ) //
11.20 SK कृष्यादिभिः (कर्मभिर् अर्दितानां Cधर्मभिर् अन्वितानां कामात्मकानां च निशम्य दुःखम् स्वास्थ्यं च कामेष्व् अकुतूहलानां कामान् विहातुं क्षमम् आत्मवद्भिः //
1492 SK कृष्य-आदिभिः (कर्मभिर् अर्दितानां Cधर्मभिर् अन्वितानां काम-आत्मकानां च निशम्य दुःखम् स्वास्थ्यं च कामेष्व् अ-कुतूहलानां कामान् विहातुं क्षमम् आत्मवद्भिः //
11.21 SK ज्ञेया विपत्कामिनि कामसंपत् सिद्धेषु कामेषु मदं ह्य् उपैति मदाद् अकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिम् अभ्युपैति //
1494 SK ज्ञेया विपत्-कामिनि काम-संपत् सिद्धेषु कामेषु मदं ह्य् उपैति मदाद् अ-कार्यं कुरुते न कार्यं येन क्षतो दुर्-गतिम् अभ्युपैति //
11.22 SK यत्नेन लब्धाः परिरक्षिताश् च ये विप्रलभ्य प्रतियान्ति भूयः तेष्व् आत्मवान् याचितकोपम् एषु कामेषु विद्वान् इह को रमेत //
1496 SK यत्नेन लब्धाः परिरक्षिताश् च ये विप्रलभ्य प्रतियान्ति भूयः तेष्व् आत्मवान् याचित-कोपम् एषु कामेषु विद्वान् इह को रमेत //
11.23 SK अन्विष्य चादाय च जाततर्षा यान् अत्यजन्तः परियान्ति दुःखम् लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1498 SK अन्विष्य चा अदाय च जात-तर्षा यान् अ-त्यजन्तः परियान्ति दुःखम् लोके तृण-उल्का-स-दृशेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.24 SK अनात्मवन्तो हृदि यैर् विदष्टा विनाशम् अर्छन्ति न यान्ति शर्म क्रुद्धोग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1500 SK अन्-आत्मवन्तो हृदि यैर् विदष्टा विनाशम् अर्छन्ति न यान्ति शर्म क्रुद्ध-उग्र-सर्प-प्रतिमेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.25 SK अस्थि (क्षुधार्ता Cक्षुधार्त्ता )इव सारमेया भुक्त्वापि यान् नैव भवन्ति तृप्ताः जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1502 SK अस्थि (क्षुधा-आर्ता Cक्षुधा-आर्त्ता )इव सारमेया भुक्त्व आपि यान् न एव भवन्ति तृप्ताः जीर्ण-अस्थि-कङ्काल-समेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.26 SK ये राजचौरोदकपावकेभ्यः साधारणत्वाज् जनयन्ति दुःखम् तेषु प्रविद्धामिषसंनिभेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1504 SK ये राज-चौर-उदक-पावकेभ्यः साधारणत्वाज् जनयन्ति दुःखम् तेषु प्रविद्ध-अमिष-संनिभेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.27 SK यत्र स्थितानाम् अभितो विपत्तिः शत्रोः सकाशाद् अपि बान्धवेभ्यः हिंस्रेषु तेष्व् आयतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1506 SK यत्र स्थितानाम् अभितो विपत्तिः शत्रोः सकाशाद् अपि बान्धवेभ्यः हिंस्रेषु तेष्व् आयतन-उपमेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.28 SK गिरौ वने चाप्सु च सागरे च (यान् Cयद् )भ्रंशम् (अर्छन्ति विलङ्घमानाः Cअर्छन्त्य् अभिलङ्घमानाः ) तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1508 SK गिरौ वने च अप्सु च सागरे च (यान् Cयद् )भ्रंशम् (अर्छन्ति विलङ्घमानाः Cअर्छन्त्य् अभिलङ्घमानाः ) तेषु द्रुम-प्र-अग्र-फल-उपमेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.29 SK (तीव्रैः Cतीर्थैः )प्रयत्नैर् विविधैर् अवाप्ताः क्षणेन ये नाशम् इह प्रयान्ति स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् [Vएर्सेस् ११.२९ अन्द् ११.३० अरे एxछन्गेद् इन् एद्. C.] //
1510 SK (तीव्रैः Cतीर्थैः )प्रयत्नैर् वि-विधैर् अवाप्ताः क्षणेन ये नाशम् इह प्रयान्ति स्वप्न-उपभोग-प्रतिमेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् [Vएर्सेस् ११.२९ अन्द् ११.३० अरे एxछन्गेद् इन् एद्. C.] //
11.30 SK यान् अर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा अङ्गार(कर्षूCकर्ष)प्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1512 SK यान् अर्चयित्व आपि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा अङ्गार-(कर्षू-Cकर्ष-)प्रतिमेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.31 SK विनाशम् ईयुः कुरवो यदर्थं वृष्ण्यन्धका (मेखलCमैथिल)दण्डकाश् च (सूनासिCशूलासि)काष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1514 SK विनाशम् ईयुः कुरवो यद्-अर्थं वृष्ण्य्-अन्धका (मेखल-Cमैथिल-)दण्डकाश् च (सूना-असि-Cशूल-असि-)काष्ठ-प्रतिमेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.32 SK सुन्दोपसुन्दाव् असुरौ यदर्थम् अन्योअन्यवैरप्रसृतौ विनष्टौ सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1516 SK सुन्द-उपसुन्दाव् असुरौ यद्-अर्थम् अन्यो-अन्य-वैर-प्रसृतौ विनष्टौ सौहार्द-विश्लेष-करेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.33 SK (येषां कृते वारिणि पावके Cकामान्धसंज्ञाः कृपया व के [सिच्] )च क्रव्यात्सु (चात्मानम् Cनात्मानम् )इहोत्सृजन्ति सपत्नभूतेष्व् अशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् //
1518 SK (येषां कृते वारिणि पावके Cकाम-अन्ध-संज्ञाः कृपया व के [सिच्] )च क्रव्य-अत्सु (चा अत्मानम् Cना अत्मानम् )इह उत्सृजन्ति स-पत्न-भूतेष्व् अ-शिवेषु तेषु कामेषु कस्या अत्मवतो रतिः स्यात् //
11.34 SK (कामार्थम् अज्ञः Cकामान्धसंज्ञः )कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि कामार्थम् आशाकृपणस् तपस्वी (मृत्युं श्रमं चार्छति Cमृत्युश्रमं चार्हति )जीव(लोकः Cलोके ) //
1520 SK (काम-अर्थम् अ-ज्ञः Cकाम-अन्ध-संज्ञः )कृपणं करोति प्राप्नोति दुःखं वध-बन्धन-आदि काम-अर्थम् आशा-कृपणस् तपस्वी (मृत्युं श्रमं च अर्छति Cमृत्यु-श्रमं च अर्हति )जीव-(लोकः Cलोके ) //
11.35 SK गीतैर् ह्रियन्ते हि मृगा वधाय रूपार्थम् अग्नौ शलभाः पतन्ति मत्स्यो गिरत्य् आयसम् आमिषार्थी तस्माद् अनर्थं विषयाः फलन्ति //
1522 SK गीतैर् ह्रियन्ते हि मृगा वधाय रूप-अर्थम् अग्नौ शलभाः पतन्ति मत्स्यो गिरत्य् आयसम् आमिष-अर्थी तस्माद् अन्-अर्थं विषयाः फलन्ति //
11.36 SK कामास् तु भोगा इति (यन् मतिः Cयन् मतं )स्याद् (भोगा Cभोग्या )न केचित् परिगण्यमानाः वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः //
1524 SK कामास् तु भोगा इति (यन् मतिः Cयन् मतं )स्याद् (भोगा Cभोग्या )न के-चित् परिगण्यमानाः वस्त्र-आदयो द्रव्य-गुणा हि लोके दुःख-प्रतीकार इति प्रधार्याः //
11.37 SK इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोर् अशनं तथैव वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः //
1526 SK इष्टं हि तर्ष-प्रशमाय तोयं क्षुन्-नाश-हेतोर् अशनं तथ ऐव वात-आतप-अम्ब्व्-आवरणाय वेश्म कौपीन-शीत-आवरणाय वासः //
11.38 SK निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय //
1528 SK निद्रा-विघाताय तथ ऐव शय्या यानं तथ आध्व-श्रम-नाशनाय तथा आसनं स्थान-विनोदनाय स्नानं मृजा-आरोग्य-बल-आश्रयाय //
11.39 SK दुःखप्रतीकारनिमित्तभूतास् तस्मात् प्रजानां विषया न (भोगाः Cभोग्याः ) अश्नामि भोगान् इति को ऽभ्युपेयात् प्राज्ञः प्रतीकारविधौ (प्रवृत्तः Cप्रवृत्तान् ) //
1530 SK दुःख-प्रतीकार-निमित्त-भूतास् तस्मात् प्रजानां विषया न (भोगाः Cभोग्याः ) अश्नामि भोगान् इति को ऽभ्युपेयात् प्राज्ञः प्रतीकार-विधौ (प्रवृत्तः Cप्रवृत्तान् ) //
11.40 SK यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात् स हि भोगसंज्ञाम् //
1532 SK यः पित्त-दाहेन विदह्यमानः शीत-क्रियां भोग इति व्यवस्येत् दुःख-प्रतीकार-विधौ प्रवृत्तः कामेषु कुर्यात् स हि भोग-संज्ञाम् //
11.41 SK कामेष्व् अनैकान्तिकता च यस्माद् अतो ऽपि मे तेषु न भोगसंज्ञा यए एव भावा हि सुखं दिशन्ति तए एव दुःखं पुनर् आवहन्ति //
1534 SK कामेष्व् अन्-ऐकान्तिकता च यस्माद् अतो ऽपि मे तेषु न भोग-संज्ञा यए एव भावा हि सुखं दिशन्ति तए एव दुःखं पुनर् आवहन्ति //
11.42 SK गुरूणि वासांस्य् अगुरूणि चैव सुखाय (शीते Cगीते )ह्य् असुखाय (घर्मे Cधर्मे ) चन्द्रांशवश् चन्दनम् एव चोष्णे सुखाय दुखाय भवन्ति शीते //
1536 SK गुरूणि वासांस्य् अगुरूणि च एव सुखाय (शीते Cगीते )ह्य् अ-सुखाय (घर्मे Cधर्मे ) चन्द्र-अंशवश् चन्दनम् एव च उष्णे सुखाय दुखाय भवन्ति शीते //
11.43 SK द्वंद्वानि सर्वस्य यतः प्रसक्तान्य् अलाभलाभप्रभृतीनि लोके अतो ऽपि नैकान्तसुखो ऽस्ति कश्चिन् नैकान्तदुःखः पुरुषः प्र्ठिव्याम् //
1538 SK द्वंद्वानि सर्वस्य यतः प्रसक्तान्य् अ-लाभ-लाभ-प्रभृतीनि लोके अतो ऽपि न एक-अन्त-सुखो ऽस्ति कश्-चिन् न एक-अन्त-दुःखः पुरुषः प्र्ठिव्याम् //
11.44 SK दृष्ट्वा (विमिश्रां C च मिश्रां )सुखदुःकतां मे राज्यं च दास्यं च मतं समानम् नित्यं हसत्य् एव हि नैव राजा न चापि संतप्यतए एव दासः //
1540 SK दृष्ट्वा (विमिश्रां C च मिश्रां )सुख-दुःकतां मे राज्यं च दास्यं च मतं समानम् नित्यं हसत्य् एव हि न एव राजा न च अपि संतप्यतए एव दासः //
11.45 SK आज्ञा नृपत्वे ऽभ्यधिकेति (यत् स्यान् Cयस्मात् महान्ति दुःखान्य् अत एव राज्ञः आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदम् एति //
1542 SK आज्ञा नृ-पत्वे ऽभ्य्-अधिक ईति (यत् स्यान् Cयस्मात् महान्ति दुःखान्य् अत एव राज्ञः आसङ्ग-काष्ठ-प्रतिमो हि राजा लोकस्य हेतोः परिखेदम् एति //
11.46 SK राज्ये नृपस् त्यागिनि (बह्वCवङ्क)मित्रे विश्वासम् आगच्छति चेद् विपन्नः अथापि विश्रम्भम् उपैति नेह किं नाम सौख्यं चकितस्य राज्ञः //
1544 SK राज्ये नृ-पस् त्यागिनि (बह्व्-अ-Cवङ्क-)मित्रे विश्वासम् आगच्छति चेद् विपन्नः अथ अपि विश्रम्भम् उपैति न इह किं नाम सौख्यं चकितस्य राज्ञः //
11.47 SK यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरम् एकम् एव तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः //
1546 SK यदा च जित्व आपि महीं सम्-अग्रां वासाय दृष्टं पुरम् एकम् एव तत्र अपि च एकं भवनं निषेव्यं श्रमः पर-अर्थे ननु राज-भावः //
11.48 SK राज्ञो ऽपि (वासोयुगम् Cवासे युगम् )एकम् एव क्षुत्संनिरोधाय तथान्नमात्रा शय्या तथैकासनम् एकम् एव शेषा विशेषा नृपतेर् मदाय //
1548 SK राज्ञो ऽपि (वासो-युगम् Cवासे युगम् )एकम् एव क्षुत्-संनिरोधाय तथ आन्न-मात्रा शय्या तथ ऐका आसनम् एकम् एव शेषा विशेषा नृ-पतेर् मदाय //
11.49 SK तुष्ट्यर्थम् एतच् च फलं यदीष्टम् ऋते ऽपि राज्यान् मम तुष्टिर् अस्ति तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः //
1550 SK तुष्ट्य्-अर्थम् एतच् च फलं यदि इष्टम् ऋते ऽपि राज्यान् मम तुष्टिर् अस्ति तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्-विशेषाः //
11.50 SK तन् नास्मि कामान् प्रति संप्रतार्यः (क्षेमं Cक्षेमे )शिवं मार्गम् अनुप्रपन्नः स्मृत्वा सुहृत्त्वं तु पुनः पुनर् मां ब्रूहि प्रतिज्ञां खलु (पालयेति Cपालयन्ति ) //
1552 SK तन् न अस्मि कामान् प्रति संप्रतार्यः (क्षेमं Cक्षेमे )शिवं मार्गम् अनुप्रपन्नः स्मृत्वा सु-हृत्त्वं तु पुनः पुनर् मां ब्रूहि प्रतिज्ञां खलु (पालय इति Cपालयन्ति ) //
11.51 SK न ह्य् अस्म्य् अमर्षेण वनं प्रविष्टो न शत्रुबाणैर् अवधूतमौलिः कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद् वचनं यतस् ते //
1554 SK न ह्य् अस्म्य् अमर्षेण वनं प्रविष्टो न शत्रु-बाणैर् अवधूत-मौलिः कृत-स्पृहो न अपि फल-अधिकेभ्यो गृह्णामि न एतद् वचनं यतस् ते //
11.52 SK यो दन्दशूकं कुपितं भुजंगं मुक्त्वा व्यवस्येद् धि पुनर् ग्रहीतुम् दाहात्मिकां वा ज्वलितां तृणोल्कां संत्यज्य कामान् स पुनर् भजेत //
1556 SK यो दन्द-शूकं कुपितं भुजं-गं मुक्त्वा व्यवस्येद् धि पुनर् ग्रहीतुम् दाह-आत्मिकां वा ज्वलितां तृण-उल्कां संत्यज्य कामान् स पुनर् भजेत //
11.53 SK अन्धाय यश् च स्पृहयेद् अनन्धो बद्धाय मुक्तो विधनाय (चाढ्यः Cवाढ्यः ) उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद् विषयात्मकाय //
1558 SK अन्धाय यश् च स्पृहयेद् अन्-अन्धो बद्धाय मुक्तो विधनाय (चा अढ्यः Cवा आढ्यः ) उन्मत्त-चित्ताय च कल्य-चित्तः स्पृहां स कुर्याद् विषय-आत्मकाय //
11.54 SK (भैक्षोपभोगीति च Cभिक्षोपभोगी वर )नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि //
1560 SK (भैक्ष-उपभोगि ईति च Cभिक्षा-उपभोगी वर )न अनुकम्प्यः कृती जरा-मृत्यु-भयं तितीर्षुः इह उत्तमं शान्ति-सुखं च यस्य परत्र दुःखानि च संवृतानि //
11.55 SK लक्ष्म्यां महत्याम् अपि वर्तमानस् तृष्णाभिभूतस् त्व् अनुकम्पितव्यः प्राप्नोति यः शान्तिसुखं न चेह परत्र (दुःखैः Cदुःखं )प्रतिगृह्यते च //
1562 SK लक्ष्म्यां महत्याम् अपि वर्तमानस् तृष्णा-अभिभूतस् त्व् अनुकम्पितव्यः प्राप्नोति यः शान्ति-सुखं न च इह परत्र (दुःखैः Cदुःखं )प्रतिगृह्यते च //
11.56 SK एवं तु वक्तुं भवतो ऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव //
1564 SK एवं तु वक्तुं भवतो ऽनु-रूपं सत्त्वस्य वृत्तस्य कुलस्य च एव मम अपि वोढुं स-दृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य च एव //
11.57 SK अहं हि संसार(शरेण Cरसेन )विद्धो विनिःसृतः (शान्तिम् Cशान्तम् )अवाप्तुकामः नेच्छेयम् आप्तुं त्रिदिवे ऽपि राज्यं निरामयं किं (बत Cवत )मानुषेषु //
1566 SK अहं हि संसार-(शरेण Cरसेन )विद्धो विनिःसृतः (शान्तिम् Cशान्तम् )अवाप्तु-कामः न इच्छेयम् आप्तुं त्रि-दिवे ऽपि राज्यं निर्-आमयं किं (बत Cवत )मानुषेषु //
11.58 SK त्रिवर्गसेवां नृप यत् तु कृत्स्नतः परो मनुष्यार्थ इति त्वम् आत्थ माम् अनर्थ इत्य् (एव ममात्र दर्शनं Cआत्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः //
1568 SK त्रि-वर्ग-सेवां नृप यत् तु कृत्स्नतः परो मनुष्य-अर्थ इति त्वम् आत्थ माम् अन्-अर्थ इत्य् (एव मम अत्र दर्शनं Cआत्थ मम अर्थ-दर्शनं क्षयी त्रि-वर्गो हि न च अपि तर्पकः //
11.59 SK पदे तु यस्मिन् न जरा न (भीर् न रुङ् Cभीरुता न जन्म नैवोपरमो न (चाधयः Cवाधयः ) तम् एव मन्ये पुरुषार्थम् उत्तमं न विद्यते यत्र पुनः पुनः क्रिया //
1570 SK पदे तु यस्मिन् न जरा न (भीर् न रुङ् Cभीरुता न जन्म न एव उपरमो न (चा अधयः Cवा आधयः ) तम् एव मन्ये पुरुष-अर्थम् उत्तमं न विद्यते यत्र पुनः पुनः क्रिया //
11.60 SK यद् अप्य् अवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियाम् इति अनिश्चयो ऽयं चपलं हि दृश्यते जराप्य् अधीरा धृतिमच् च यौवनम् //
1572 SK यद् अप्य् अवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियाम् इति अ-निश्चयो ऽयं चपलं हि दृश्यते जर आप्य् अ-धीरा धृतिमच् च यौवनम् //
11.61 SK स्वकर्मदक्षश् च (यदान्तको Cयदा तु को )जगद् वयःसु (सर्वेष्व् अवशं विकर्षति Cसर्वेषु च संविकर्षति ) विनाशकाले कथम् अव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना //
1574 SK स्व-कर्म-दक्षश् च (यद आन्तको Cयदा तु को )जगद् वयःसु (सर्वेष्व् अ-वशं विकर्षति Cसर्वेषु च संविकर्षति ) विनाश-काले कथम् अ-व्यवस्थिते जरा प्रतीक्ष्या विदुषा शम-ईप्सुना //
11.62 SK जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध (इवाशिवः Cइवाश्रितः )स्थितः प्रजामृगान् भाग्यवनाश्रितांस् तुदन् वयःप्रकर्षं प्रति को मनोरथः //
1576 SK जरा-आयुधो व्याधि-विकीर्ण-सायको यद आन्तको व्याध (इव अ-शिवः Cइवा अश्रितः )स्थितः प्रजा-मृगान् भाग्य-वन-आश्रितांस् तुदन् वयः-प्रकर्षं प्रति को मनो-रथः //
11.63 SK (अतो Cसुतो )युवा वा स्थविरो ऽथवा शिशुस् तथा त्वरावान् इह कर्तुम् अर्हति यथा भवेद् धर्मवतः (कृतात्मनः Cकृपात्मनः प्रवृत्तिर् इष्टा विनिवृत्तिर् एव वा //
1578 SK (अतो Cसुतो )युवा वा स्थविरो ऽथ-वा शिशुस् तथा त्वरावान् इह कर्तुम् अर्हति यथा भवेद् धर्मवतः (कृत-आत्मनः Cकृपा-आत्मनः प्रवृत्तिर् इष्टा विनिवृत्तिर् एव वा //
11.64 SK यद् आत्थ (चापीष्टCवा दीप्त)फलां कुलोचितां कुरुष्व धर्माय मखक्रियाम् इति नमो मखेभ्यो न हि कामये सुखं परस्य दुःख(क्रियया यद् इष्यते Cक्रिययापदिश्यते ) //
1580 SK यद् आत्थ (च अपि इष्ट-Cवा दीप्त-)फलां कुल-उचितां कुरुष्व धर्माय मख-क्रियाम् इति नमो मखेभ्यो न हि कामये सुखं परस्य दुःख-(क्रियया यद् इष्यते Cक्रियया आपदिश्यते ) //
11.65 SK परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः क्रतोः फलं यद्य् अपि शाश्वतं भवेत् तथापि कृत्वा किम् (उ यत् क्षयात्मकम् Cउपक्षयात्मकम् ) //
1582 SK परं हि हन्तुं वि-वशं फल-ईप्सया न युक्त-रूपं करुणा-आत्मनः सतः क्रतोः फलं यद्य् अपि शाश्वतं भवेत् तथ आपि कृत्वा किम् (उ यत् क्षय-आत्मकम् Cउपक्षय-आत्मकम् ) //
11.66 SK भवेच् च धर्मो यदि नापरो विधिर् व्रतेन शीलेन मनःशमेन वा तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परम् उच्यते फलम् //
1584 SK भवेच् च धर्मो यदि न अ-परो विधिर् व्रतेन शीलेन मनः-शमेन वा तथ आपि न एव अर्हति सेवितुं क्रतुं विशस्य यस्मिन् परम् उच्यते फलम् //
11.67 SK इहापि तावत् पुरुषस्य तिष्ठतः प्रवर्तते यत् परहिंसया सुखम् तद् अप्य् अनिष्टं सघृणस्य धीमतो भवान्तरे किं (बत Cवत )यन् न दृश्यते //
1586 SK इह अपि तावत् पुरुषस्य तिष्ठतः प्रवर्तते यत् पर-हिंसया सुखम् तद् अप्य् अन्-इष्टं स-घृणस्य धीमतो भव-अन्तरे किं (बत Cवत )यन् न दृश्यते //
11.68 SK न च प्रतार्यो ऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चलाः //
1588 SK न च प्रतार्यो ऽस्मि फल-प्रवृत्तये भवेषु राजन् रमते न मे मनः लता इव अम्भो-धर-वृष्टि-ताडिताः प्रवृत्तयः सर्व-गता हि चञ्चलाः //
11.69 SK इहागतश् चाहम् इतो दिदृक्षया मुनेर् अराडस्य विमोक्षवादिनः प्रयामि चाद्यैव नृपास्तु ते शिवं वचः (क्षमेथा मम तत्त्वCक्षमेथाः शमतत्त्व)निष्ठुरम् //
1590 SK इहा अगतश् च अहम् इतो दिदृक्षया मुनेर् अराडस्य विमोक्ष-वादिनः प्रयामि च अद्य एव नृ-प अस्तु ते शिवं वचः (क्षमेथा मम तत्त्व-Cक्षमेथाः शम-तत्त्व-)निष्ठुरम् //
11.70 SK (अवेन्द्रवद् Cअथेन्द्रवद् )दिव्य् अव शश्वद् अर्कवद् गुणैर् अव श्रेय इहाव गाम् अव अवायुर् आर्यैर् अव सत्सुतान् अव श्रियश् च राजन्न् अव धर्मम् आत्मनः //
1592 SK (अव इन्द्रवद् Cअथ इन्द्रवद् )दिव्य् अव शश्वद् अर्कवद् गुणैर् अव श्रेय इह अव गाम् अव अवा अयुर् आर्यैर् अव सत्-सुतान् अव श्रियश् च राजन्न् अव धर्मम् आत्मनः //
11.71 SK हिमारिकेतूद्भव(संभवान्तरे Cसंप्लवान्तरे यथा द्विजो याति विमोक्षयंस् तनुम् हिमारि(शत्रुक्षयCशत्रुं क्षय)शत्रु(घातने Cघातिनस् तथान्तरे याहि (विमोक्षयन् Cविमोचयन् )मनः //
1594 SK हिम-अरि-केतु-उद्भव-(संभव-अन्तरे Cसंप्लव अन्तरे यथा द्वि-जो याति विमोक्षयंस् तनुम् हिम-अरि-(शत्रु-क्षय-Cशत्रुं क्षय-)शत्रु-(घातने Cघातिनस् तथ आन्तरे याहि (विमोक्षयन् Cविमोचयन् )मनः //
11.72 SK नृपो ऽब्रवीत् साञ्जलिर् आगतस्पृहो यथेष्टम् (आप्नोतु Cआप्नोति )भवान् अविघ्नतः अवाप्य काले कृतकृत्यताम् इमां ममापि कार्यो भवता त्व् अनुग्रहः //
1596 SK नृ-पो ऽब्रवीत् स-अञ्जलिर् आगत-स्पृहो यथा-इष्टम् (आप्नोतु Cआप्नोति )भवान् अ-विघ्नतः अवाप्य काले कृत-कृत्यताम् इमां मम अपि कार्यो भवता त्व् अनुग्रहः //
11.73 SK स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वंतरम् आश्रमं ययौ परिव्रजन्तं (तम् उदीक्ष्य Cसमुदीक्ष्य )विस्मितो नृपो ऽपि (वव्राज पुरिं गिरिव्रजम् Cच प्रापुर् इमं गिरिं व्रजन् ) //
1598 SK स्थिरं प्रतिज्ञाय तथ ईति पार्थिवे ततः स वैश्वंतरम् आश्रमं ययौ परिव्रजन्तं (तम् उदीक्ष्य Cसमुदीक्ष्य )विस्मितो नृ-पो ऽपि (वव्राज पुरिं गिरि-व्रजम् Cच प्रापुर् इमं गिरिं व्रजन् ) //
1599 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये (Cअश्व-घोष-कृते C)काम-विगर्हणो नामै७का-दशः सर्गः -- ११ --]]
12.1 SK ततः शमविहारस्य मुनेर् इक्ष्वाकुचन्द्रमाः अराडस्याश्रमं भेजे वपुषा पूरयन्न् इव //
1601 SK ततः शम-विहारस्य मुनेर् इक्ष्वाकु-चन्द्र-माः अराडस्या अश्रमं भेजे वपुषा पूरयन्न् इव //
12.2 SK स कालामसगोत्रेण तेनालोक्यैव दूरतः उच्चैः स्वागतम् इत्य् उक्तः समीपम् उपजग्मिवान् //
1603 SK स कालाम-स-गोत्रेण तेना अलोक्य एव दूरतः उच्चैः स्व्-आगतम् इत्य् उक्तः समीपम् उपजग्मिवान् //
12.3 SK ताव् उभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् दारव्योर् मेध्ययोर् वृष्योः शुचौ देशे (निषेदतुः Cनिषीदतुः ) //
1605 SK ताव् उभौ न्यायतः पृष्ट्वा धातु-साम्यं परस्-परम् दारव्योर् मेध्ययोर् वृष्योः शुचौ देशे (निषेदतुः Cनिषीदतुः ) //
12.4 SK तम् आसीनं नृपसुतं सो ऽब्रवीन् मुनिसत्तमः बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्न् इव //
1607 SK तम् आसीनं नृ-प-सुतं सो ऽब्रवीन् मुनि-सत्तमः बहु-मान-विशालाभ्यां दर्शनाभ्यां पिबन्न् इव //
12.5 SK विदितं मे यथा सौम्य निष्क्रान्तो भवनाद् असि छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः //
1609 SK विदितं मे यथा सौम्य निष्क्रान्तो भवनाद् असि छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्वि-पः //
12.6 SK सर्वथा धृतिमच् चैव प्राज्ञं चैव मनस् तव यस् त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलाम् इव //
1611 SK सर्वथा धृतिमच् च एव प्राज्ञं च एव मनस् तव यस् त्वं प्राप्तः श्रियं त्यक्त्वा लतां विष-फलाम् इव //
12.7 SK नाश्चर्यं जीर्णवयसो यज् जग्मुः पार्थिवा वनम् अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्छिष्टाम् इव स्रजम् //
1613 SK ना अश्चर्यं जीर्ण-वयसो यज् जग्मुः पार्थिवा वनम् अपत्येभ्यः श्रियं दत्त्वा भुक्त-उच्छिष्टाम् इव स्रजम् //
12.8 SK इदं मे मतम् आश्चर्यं नवे वयसि यद् भवान् अभुक्त्वैव श्रियं प्राप्तः स्थितो विषयगोचरे //
1615 SK इदं मे मतम् आश्चर्यं नवे वयसि यद् भवान् अ-भुक्त्व ऐव श्रियं प्राप्तः स्थितो विषय-गो-चरे //
12.9 SK तद् विज्ञातुम् इमं धर्मं परमं भाजनं भवान् ज्ञान(प्लवम् Cपूर्वम् )अधिष्ठाय शीघ्रं दुःखार्णवं तर //
1617 SK तद् विज्ञातुम् इमं धर्मं परमं भाजनं भवान् ज्ञान-(प्लवम् Cपूर्वम् )अधिष्ठाय शीघ्रं दुःख-अर्णवं तर //
12.10 SK शिष्ये यद्य् अपि विज्ञाते शास्त्रं कालेन (वर्ण्यते Cवर्तते ) गाम्भीर्याद् व्यवसायाच् च (न परीक्ष्यो Cसुपरीक्ष्यो )भवान् मम //
1619 SK शिष्ये यद्य् अपि विज्ञाते शास्त्रं कालेन (वर्ण्यते Cवर्तते ) गाम्भीर्याद् व्यवसायाच् च (न परीक्ष्यो Cसु-परीक्ष्यो )भवान् मम //
12.11 SK इति वाक्यम् अराडस्य विज्ञाय स (नरर्१षभः Cनराधिपः ) बभूव परमप्रीतः प्रोवाचोत्तरम् एव च //
1621 SK इति वाक्यम् अराडस्य विज्ञाय स (नरर्१षभः Cनर-अधिपः ) बभूव परम-प्रीतः प्रोवाच उत्तरम् एव च //
12.12 SK विरक्तस्यापि यद् इदं सौमुख्यं भवतः परम् अकृतार्थो ऽप्य् अनेनास्मि कृतार्थ इव संप्रति //
1623 SK विरक्तस्य अपि यद् इदं सौमुख्यं भवतः परम् अ-कृत-अर्थो ऽप्य् अनेन अस्मि कृत-अर्थ इव सं-प्रति //
12.13 SK दिदृक्षुर् इव हि ज्योतिर् यियासुर् इव दैशिकम् त्वद्(दर्शनम् Cदर्शनाद् )अहं मन्ये तितीर्षुर् इव च प्लवम् //
1625 SK दिदृक्षुर् इव हि ज्योतिर् यियासुर् इव दैशिकम् त्वद्-(दर्शनम् Cदर्शनाद् )अहं मन्ये तितीर्षुर् इव च प्लवम् //
12.14 SK तस्माद् अर्हसि तद् वक्तुं वक्तव्यं यदि मन्यसे जरामरणरोगेभ्यो यथायं परिमुच्यते //
1627 SK तस्माद् अर्हसि तद् वक्तुं वक्तव्यं यदि मन्यसे जरा-मरण-रोगेभ्यो यथ आयं परिमुच्यते //
12.15 SK इत्य् अराडः कुमारस्य माहात्म्याद् एव चोदितः संक्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् //
1629 SK इत्य् अराडः कुमारस्य माहात्म्याद् एव चोदितः संक्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् //
12.16 SK श्रूयताम् अयम् अस्माकं सिद्धान्तः शृण्वतां वर यथा भवति संसारो यथा (चैव निवर्तते Cवै परिवर्तते ) //
1631 SK श्रूयताम् अयम् अस्माकं सिद्ध-अन्तः शृण्वतां वर यथा भवति संसारो यथा (च एव निवर्तते Cवै परिवर्तते ) //
12.17 SK प्रकृतिश् च विकारश् च जन्म मृत्युर् जरैव च तत् तावत् सत्त्वम् इत्य् उक्तं स्थिरसत्त्व परेहि (तत् Cनः ) //
1633 SK प्रकृतिश् च विकारश् च जन्म मृत्युर् जर ऐव च तत् तावत् सत्त्वम् इत्य् उक्तं स्थिर-सत्त्व परेहि (तत् Cनः ) //
12.18 SK तत्र तु (प्रकृतिं Cप्रकृतिर् )नाम विद्धि प्रकृतिकोविद पञ्च भूतान्य् अहंकारं बुद्धिम् अव्यक्तम् एव च //
1635 SK तत्र तु (प्रकृतिं Cप्रकृतिर् )नाम विद्धि प्रकृति-कोविद पञ्च भूतान्य् अहं-कारं बुद्धिम् अ-व्यक्तम् एव च //
12.19 SK विकार इति (बुध्यस्व Cबुद्धिं तु विषयान् इन्द्रियाणि च पाणिपादं च वादं च पायूपस्थं तथा मनः //
1637 SK विकार इति (बुध्यस्व Cबुद्धिं तु विषयान् इन्द्रियाणि च पाणि-पादं च वादं च पायु-उपस्थं तथा मनः //
12.20 SK अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति संज्ञि च क्षेत्रज्ञ इति चात्मानं कथयन्त्य् आत्मचिन्तकाः //
1639 SK अस्य क्षेत्रस्य विज्ञानात् क्षेत्र-ज्ञ इति संज्ञि च क्षेत्र-ज्ञ इति चा अत्मानं कथयन्त्य् आत्म-चिन्तकाः //
12.21 SK सशिष्यः कपिलश् चेह (प्रतिबुद्धिर् Cप्रतिबुद्ध )इति स्मृतिः स(पुत्रो ऽप्रतिबुद्धस् तु Cपुत्रः प्रतिबुद्धश् च प्रजापतिर् इहोच्यते //
1641 SK स-शिष्यः कपिलश् च इह (प्रतिबुद्धिर् Cप्रतिबुद्ध )इति स्मृतिः स-(पुत्रो ऽप्रतिबुद्धस् तु Cपुत्रः प्रतिबुद्धश् च प्रजा-पतिर् इह उच्यते //
12.22 SK जायते जीर्यते चैव (बाध्यते Cबुध्यते )म्रियते च यत् तद् व्यक्तम् इति विज्ञेयम् अव्यक्तं तु विपर्ययात् //
1643 SK जायते जीर्यते च एव (बाध्यते Cबुध्यते )म्रियते च यत् तद् व्यक्तम् इति विज्ञेयम् अ-व्यक्तं तु विपर्ययात् //
12.23 SK अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः स्थितो ऽस्मिंस् त्रितये (जन्तुस् Cयस् तु तत् सत्त्वं (नातिवर्तते Cनाभिवर्तते ) //
1645 SK अ-ज्ञानं कर्म तृष्णा च ज्ञेयाः संसार-हेतवः स्थितो ऽस्मिंस् त्रितये (जन्तुस् Cयस् तु तत् सत्त्वं (न अतिवर्तते Cन अभिवर्तते ) //
12.24 SK विप्रत्ययाद् अहंकारात् संदेहाद् अभिसंप्लवात् अविशेषानुपायाभ्यां सङ्गाद् अभ्यवपाततः //
1647 SK वि-प्रत्ययाद् अहं-कारात् संदेहाद् अभिसंप्लवात् अ-विशेष-अन्-उपायाभ्यां सङ्गाद् अभ्यवपाततः //
12.25 SK तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते अन्यथा कुरुते कार्यं मन्तव्यं मन्यते ऽन्यथा //
1649 SK तत्र वि-प्रत्ययो नाम विपरीतं प्रवर्तते अन्यथा कुरुते कार्यं मन्तव्यं मन्यते ऽन्यथा //
12.26 SK ब्रवीम्य् अहम् अहं वेद्मि गच्छाम्य् अहम् अहं स्थितः इतीहैवम् अहंकारस् त्व् अनहंकार वर्तते //
1651 SK ब्रवीम्य् अहम् अहं वेद्मि गच्छाम्य् अहम् अहं स्थितः इति इह एवम् अहं-कारस् त्व् अन्-अहं-कार वर्तते //
12.27 SK यस् तु (भावान् असंदिग्धान् Cभावेन संदिग्धान् एकीभावेन पश्यति मृत्पिण्डवद् असंदेह संदेहः स इहोच्यते //
1653 SK यस् तु (भावान् अ-संदिग्धान् Cभावेन संदिग्धान् एकी-भावेन पश्यति मृत्-पिण्ड-वद् अ-संदेह संदेहः स इह उच्यते //
12.28 SK य एवाहं स एवेदं मनो बुद्धिश् च कर्म च यश् (चैवैष Cचैवं स )गणः सो ऽहम् इति यः सो ऽभिसंप्लवः //
1655 SK य एव अहं स एव इदं मनो बुद्धिश् च कर्म च यश् (च एव एष Cच एवं स )गणः सो ऽहम् इति यः सो ऽभिसंप्लवः //
12.29 SK अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः प्रकृतीनां च यो वेद सो ऽविशेष इति स्मृतः //
1657 SK अ-विशेषं विशेष-ज्ञ प्रतिबुद्ध-अ-प्रबुद्धयोः प्रकृतीनां च यो वेद सो ऽविशेष इति स्मृतः //
12.30 SK नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः अनुपाय इति प्राज्ञैर् उपायज्ञ प्रवेदितः //
1659 SK नमस्-कार-वषट्-कारौ प्रोक्षण-अभ्युक्षण-आदयः अन्-उपाय इति प्राज्ञैर् उपाय-ज्ञ प्रवेदितः //
12.31 SK सज्जते येन दुर्मेधा मनो(वाग्बुद्धिकर्मभिः Cवाक्कर्मबुद्धिभिः ) विषयेष्व् अनभिष्वङ्ग सो ऽभिष्वङ्ग इति स्मृतः //
1661 SK सज्जते येन दुर्-मेधा मनो-(वाग्-बुद्धि-कर्मभिः Cवाक्-कर्म-बुद्धिभिः ) विषयेष्व् अन्-अभिष्वङ्ग सो ऽभिष्वङ्ग इति स्मृतः //
12.32 SK ममेदम् अहम् अस्येति यद् दुःखम् अभिमन्यते विज्ञेयो ऽभ्यवपातः स संसारे येन पात्यते //
1663 SK मम इदम् अहम् अस्य इति यद् दुःखम् अभिमन्यते विज्ञेयो ऽभ्यवपातः स संसारे येन पात्यते //
12.33 SK इत्य् अ(विद्यां Cविद्या )हि (विद्वान् स Cविद्वांसः [??] पञ्च(पर्वां Cपर्वा )समीहते तमो मोहं महामोहं तामिस्रद्वयम् एव च //
1665 SK इत्य् अ-(विद्यां Cविद्या )हि (विद्वान् स Cविद्वांसः [??] पञ्च-(पर्वां Cपर्वा )समीहते तमो मोहं महा-मोहं तामिस्र-द्वयम् एव च //
12.34 SK तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च महामोहस् त्व् असंमोह काम इत्य् (एव गम्यताम् Cअवगम्यताम् ) //
1667 SK तत्रा अलस्यं तमो विद्धि मोहं मृत्युं च जन्म च महा-मोहस् त्व् अ-संमोह काम इत्य् (एव गम्यताम् Cअवगम्यताम् ) //
12.35 SK यस्माद् अत्र च भूतानि प्रमुह्यन्ति महान्त्य् अपि तस्माद् एष महाबाहो महामोह इति स्मृतः //
1669 SK यस्माद् अत्र च भूतानि प्रमुह्यन्ति महान्त्य् अपि तस्माद् एष महा-बाहो महा-मोह इति स्मृतः //
12.36 SK तामिस्रम् इति चाक्रोध क्रोधम् एवाधिकुर्वते विषादं चान्धतामिस्रम् अविषाद प्रचक्षते //
1671 SK तामिस्रम् इति च अ-क्रोध क्रोधम् एव अधिकुर्वते विषादं च अन्ध-तामिस्रम् अ-विषाद प्रचक्षते //
12.37 SK अनयाविद्यया बालः संयुक्तः पञ्चपर्वया संसारे दुःखभूयिष्ठे जन्मस्व् अभिनिषिच्यते //
1673 SK अनय आ-विद्यया बालः संयुक्तः पञ्च-पर्वया संसारे दुःख-भूयिष्ठे जन्मस्व् अभिनिषिच्यते //
12.38 SK द्रष्टा श्रोता च मन्ता च (कार्यकरणम् Cकार्यं करणम् )एव च अहम् इत्य् एवम् आगम्य संसारे परिवर्तते //
1675 SK द्रष्टा श्रोता च मन्ता च (कार्य-करणम् Cकार्यं करणम् )एव च अहम् इत्य् एवम् आगम्य संसारे परिवर्तते //
12.39 SK (इहैभिर् Cइत्य् एभिर् )हेतुभिर् धीमन् (जन्मCतमः)स्रोतः प्रवर्तते हेत्व(भावात् Cभावे )फलाभाव इति विज्ञातुम् अर्हसि //
1677 SK (इह एभिर् Cइत्य् एभिर् )हेतुभिर् धीमन् (जन्म-Cतमः-)स्रोतः प्रवर्तते हेत्व्-अ-(भावात् Cभावे )फल-अ-भाव इति विज्ञातुम् अर्हसि //
12.40 SK तत्र (सम्यङ्Cसम्यग्)मतिर् विद्यान् मोक्षकाम चतुष्टयम् प्रतिबुद्धाप्रबुद्धौ च व्यक्तम् अव्यक्तम् एव च //
1679 SK तत्र (सम्यङ्-Cसम्यग्-)मतिर् विद्यान् मोक्ष-काम चतुष्टयम् प्रतिबुद्ध-अ-प्रबुद्धौ च व्यक्तम् अ-व्यक्तम् एव च //
12.41 SK यथावद् एतद् विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् (आजवंजवतां Cआर्जवं जवतां )हित्वा प्राप्नोति पदम् अक्षरम् //
1681 SK यथावद् एतद् विज्ञाय क्षेत्र-ज्ञो हि चतुष्टयम् (आजवंजवतां Cआर्जवं जवतां )हित्वा प्राप्नोति पदम् अ-क्षरम् //
12.42 SK इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च //
1683 SK इत्य्-अर्थं ब्राह्मणा लोके परम-ब्रह्म-वादिनः ब्रह्म-चर्यं चरन्ति इह ब्राह्मणान् वासयन्ति च //
12.43 SK इति वाक्यम् इदं श्रुत्वा मुनेस् तस्य नृपात्मजः अभ्युपायं च पप्रच्छ पदम् एव च नैष्ठिकम् //
1685 SK इति वाक्यम् इदं श्रुत्वा मुनेस् तस्य नृ-प-आत्म-जः अभ्युपायं च पप्रच्छ पदम् एव च नैष्ठिकम् //
12.44 SK ब्रह्मचर्यम् इदं चर्यं यथा यावच् च यत्र च धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुम् अर्हति //
1687 SK ब्रह्म-चर्यम् इदं चर्यं यथा यावच् च यत्र च धर्मस्य अस्य च पर्य्-अन्तं भवान् व्याख्यातुम् अर्हति //
12.45 SK इत्य् अराडो यथाशास्त्रं विस्पष्टार्थं समासतः तम् एवान्येन कल्पेन धर्मम् अस्मै व्यभाषत //
1689 SK इत्य् अराडो यथा-शास्त्रं विस्पष्ट-अर्थं समासतः तम् एव अन्येन कल्पेन धर्मम् अस्मै व्यभाषत //
12.46 SK अयम् आदौ गृहान् मुक्त्वा भैक्षाकं लिङ्गम् आश्रितः समुदाचारविस्तीर्णं शीलम् आदाय वर्तते //
1691 SK अयम् आदौ गृहान् मुक्त्वा भैक्षाकं लिङ्गम् आश्रितः समुदाचार-विस्तीर्णं शीलम् आदाय वर्तते //
12.47 SK संतोषं परम् आस्थाय येन तेन यतस् ततः विविक्तं सेवते वासं निर्द्वंद्वः शास्त्रवित्कृती //
1693 SK संतोषं परम् आस्थाय येन तेन यतस् ततः विविक्तं सेवते वासं निर्-द्वंद्वः शास्त्र-वित्-कृती //
12.48 SK ततो रागाद् भयं दृष्ट्वा वैराग्याच् च परं शिवम् निगृह्णन्न् इन्द्रियग्रामं यतते मनसः (शमे Cश्रमे ) //
1695 SK ततो रागाद् भयं दृष्ट्वा वैराग्याच् च परं शिवम् निगृह्णन्न् इन्द्रिय-ग्रामं यतते मनसः (शमे Cश्रमे ) //
12.49 SK अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च विवेकजम् अवाप्नोति पूर्वध्यानं वितर्कवत् //
1697 SK अथ उ विविक्तं कामेभ्यो व्यापाद-आदिभ्य एव च विवेक-जम् अवाप्नोति पूर्व-ध्यानं वितर्कवत् //
12.50 SK तच् च (ध्यानसुखं Cध्यानं सुखं )प्राप्य तत् तद् एव वितर्कयन् अपूर्वसुखलाभेन ह्रियते बालिशो जनः //
1699 SK तच् च (ध्यान-सुखं Cध्यानं सुखं )प्राप्य तत् तद् एव वितर्कयन् अ-पूर्व-सुख-लाभेन ह्रियते बालिशो जनः //
12.51 SK शमेनैवंविधेनायं कामद्वेषविगर्हिणा ब्रह्मलोकम् अवाप्नोति परितोषेण वञ्चितः //
1701 SK शमेन एवं-विधेन अयं काम-द्वेष-विगर्हिणा ब्रह्म-लोकम् अवाप्नोति परितोषेण वञ्चितः //
12.52 SK ज्ञात्वा विद्वान् वितर्कांस् तु मनःसंक्षोभकारकान् तद्वियुक्तम् अवाप्नोति ध्यानं प्रीतिसुखान्वितम् //
1703 SK ज्ञात्वा विद्वान् वितर्कांस् तु मनः-संक्षोभ-कारकान् तद्-वियुक्तम् अवाप्नोति ध्यानं प्रीति-सुख-अन्वितम् //
12.53 SK ह्रियमाणस् तया प्रीत्या यो विशेषं न पश्यति स्थानं भास्वरम् आप्नोति देवेष्व् (आभास्वरेषु सः Cआभासुरेष्व् अपि ) //
1705 SK ह्रियमाणस् तया प्रीत्या यो विशेषं न पश्यति स्थानं भास्वरम् आप्नोति देवेष्व् (आभास्वरेषु सः Cआभा-सुरेष्व् अपि ) //
12.54 SK यस् तु प्रीतिसुखात् तस्माद् विवेचयति मानसम् तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् [Eद्. C रेअद्स् १२.५७ अfतेर् १२.५४.] //
1707 SK यस् तु प्रीति-सुखात् तस्माद् विवेचयति मानसम् तृतीयं लभते ध्यानं सुखं प्रीति-विवर्जितम् [Eद्. C रेअद्स् १२.५७ अfतेर् १२.५४.] //
12.55 SK यस् तु तस्मिन् सुखे मग्नो न विशेषाय यत्नवान् शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः //
1709 SK यस् तु तस्मिन् सुखे मग्नो न विशेषाय यत्नवान् शुभ-कृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः //
12.56 SK तादृशं सुखम् आसाद्य यो न (रज्यत्य् उपेक्षकः Cरज्यन्न् उपेक्षते ) चतुर्थं ध्यानम् आप्नोति सुखदुःखविवर्जितम् //
1711 SK ता-दृशं सुखम् आसाद्य यो न (रज्यत्य् उपेक्षकः Cरज्यन्न् उपेक्षते ) चतुर्थं ध्यानम् आप्नोति सुख-दुःख-विवर्जितम् //
12.57 SK तत्र केचिद् व्यवस्यन्ति मोक्ष इत्य् (अभिमानिनः Cअपि मानिनः ) सुखदुःखपरित्यागाद् अव्यापाराच् च चेतसः //
1713 SK तत्र के-चिद् व्यवस्यन्ति मोक्ष इत्य् (अभिमानिनः Cअपि मानिनः ) सुख-दुःख-परित्यागाद् अ-व्यापाराच् च चेतसः //
12.58 SK अस्य ध्यानस्य तु फलं समं देवैर् बृहत्फलैः कथयन्ति (बृहत्कालं $ बृहत्Cवृहत्फलं वृहत्)प्रज्ञापरीक्षकाः //
1715 SK अस्य ध्यानस्य तु फलं समं देवैर् बृहत्-फलैः कथयन्ति (बृहत्-कालं $ बृहत्-Cवृहत्-फलं वृहत्-)प्रज्ञा-परीक्षकाः //
12.59 SK समाधेर् व्युत्थितस् तस्माद् दृष्ट्वा दोषांश् छरीरिणाम् ज्ञानम् आरोहति प्राज्ञः शरीरविनिवृत्तये //
1717 SK समाधेर् व्युत्थितस् तस्माद् दृष्ट्वा दोषांश् छरीरिणाम् ज्ञानम् आरोहति प्राज्ञः शरीर-विनिवृत्तये //
12.60 SK ततस् तद् ध्यानम् उत्सृज्य विशेषे कृतनिश्चयः कामेभ्य इव (स प्राज्ञो Cसत्प्राज्ञो रूपाद् अपि विरज्यते //
1719 SK ततस् तद् ध्यानम् उत्सृज्य विशेषे कृत-निश्चयः कामेभ्य इव (स प्राज्ञो Cसत्-प्राज्ञो रूपाद् अपि विरज्यते //
12.61 SK शरीरे खानि यान्य् अस्मिन् तान्य् आदौ परिकल्पयन् घनेष्व् अपि ततो द्रव्येष्व् आकाशम् अधिमुच्यते //
1721 SK शरीरे खानि यान्य् अस्मिन् तान्य् आदौ परिकल्पयन् घनेष्व् अपि ततो द्रव्येष्व् आकाशम् अधिमुच्यते //
12.62 SK आकाश(गतम् Cसमम् )आत्मानं संक्षिप्य त्व् अपरो बुधः (तद् एवान्Cतदैवान्)अन्ततः पश्यन् विशेषम् अधिगच्छति //
1723 SK आकाश-(गतम् Cसमम् )आत्मानं संक्षिप्य त्व् अ-परो बुधः (तद् एव अन्-Cतद ऐव अन्-)अन्ततः पश्यन् विशेषम् अधिगच्छति //
12.63 SK अध्यात्म(कुशलस् त्व् Cकुशलेष्व् )अन्यो निवर्त्यात्मानम् आत्मना किंचिन् नास्तीति संपश्यन्न् आकिंचन्य इति स्मृतः //
1725 SK अध्य्-आत्म-(कुशलस् त्व् Cकुशलेष्व् )अन्यो निवर्त्या अत्मानम् आत्मना किं-चिन् न अस्ति इति संपश्यन्न् आकिंचन्य इति स्मृतः //
12.64 SK ततो मुञ्जाद् इषीकेव शकुनिः पञ्जराद् इव क्षेत्रज्ञो निःसृतो देहान् मुक्त इत्य् अभिधीयते //
1727 SK ततो मुञ्जाद् इषीक ईव शकुनिः पञ्जराद् इव क्षेत्र-ज्ञो निःसृतो देहान् मुक्त इत्य् अभिधीयते //
12.65 SK एतत् तत् परमं ब्रह्म निर्लिङ्गं ध्रुवम् अक्षरम् यन् मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः //
1729 SK एतत् तत् परमं ब्रह्म निर्-लिङ्गं ध्रुवम् अ-क्षरम् यन् मोक्ष इति तत्त्व-ज्ञाः कथयन्ति मनीषिणः //
12.66 SK इत्य् उपायश् च मोक्षश् च मया संदर्शितस् तव यदि ज्ञातं यदि (रुचिर् Cरुचि यथावत् प्रतिपद्यताम् //
1731 SK इत्य् उपायश् च मोक्षश् च मया संदर्शितस् तव यदि ज्ञातं यदि (रुचिर् Cरुचि यथावत् प्रतिपद्यताम् //
12.67 SK जैगीषव्यो ऽथ जनको वृद्धश् चैव पराशरः इमं पन्थानम् आसाद्य मुक्ता ह्य् अन्ये च मोक्षिणः //
1733 SK जैगीषव्यो ऽथ जनको वृद्धश् च एव पराशरः इमं पन्थानम् आसाद्य मुक्ता ह्य् अन्ये च मोक्षिणः //
12.68 SK इति तस्य स तद् वाक्यं गृहीत्वा (तु Cन )विचार्य च पूर्वहेतुबलप्राप्तः प्रत्युत्तरम् उवाच (ह Cसः ) //
1735 SK इति तस्य स तद् वाक्यं गृहीत्वा (तु Cन )विचार्य च पूर्व-हेतु-बल-प्राप्तः प्रत्य्-उत्तरम् उवाच (ह Cसः ) //
12.69 SK श्रुतं ज्ञानम् इदं सूक्ष्मं परतः परतः शिवम् (क्षेत्रज्ञस्याCक्षेत्रेष्व् अस्या)परित्यागाद् अवैम्य् एतद् अनैष्ठिकम् //
1737 SK श्रुतं ज्ञानम् इदं सूक्ष्मं परतः परतः शिवम् (क्षेत्र-ज्ञस्य अ-Cक्षेत्रेष्व् अस्य अ-)परित्यागाद् अवैम्य् एतद् अ-नैष्ठिकम् //
12.70 SK विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तम् अप्य् अहम् मन्ये प्रसवधर्माणं (बीजCवीज)धर्माणम् एव च //
1739 SK विकार-प्रकृतिभ्यो हि क्षेत्र-ज्ञं मुक्तम् अप्य् अहम् मन्ये प्रसव-धर्माणं (बीज-Cवीज-)धर्माणम् एव च //
12.71 SK विशुद्धो यद्य् अपि ह्य् आत्मा निर्मुक्त इति कल्प्यते ((Cभूयः प्रत्ययसद्भावाद् अमुक्तः स भविष्यति C)) //
1741 SK विशुद्धो यद्य् अपि ह्य् आत्मा निर्मुक्त इति कल्प्यते ((Cभूयः प्रत्यय-सद्-भावाद् अ-मुक्तः स भविष्यति C)) //
12.72 SK ((Cऋतुभूम्यम्बुविरहाद् यथा बीजं न रोहतिC)) ((Cरोहति प्रत्ययैस् तैस् तैस् तद्वत् सो ऽपि मतो मम C)) //
1743 SK ((Cऋतु-भूम्य्-अम्बु-विरहाद् यथा बीजं न रोहतिC)) ((Cरोहति प्रत्ययैस् तैस् तैस् तद्वत् सो ऽपि मतो मम C)) //
12.73 SK ((Cयत् कर्माज्ञानतृष्णानां त्यागान् मोक्षश् च कल्प्यतेC)) अत्यन्तस् तत्परित्यागः सत्य् आत्मनि न विद्यते //
1745 SK ((Cयत् कर्म-अ-ज्ञान-तृष्णानां त्यागान् मोक्षश् च कल्प्यतेC)) अत्य्-अन्तस् तत्-परित्यागः सत्य् आत्मनि न विद्यते //
12.74 SK हित्वा हित्वा त्रयम् इदं विशेषस् तूपलभ्यते आत्मनस् तु स्थितिर् यत्र तत्र सूक्ष्मम् इदं त्रयम् //
1747 SK हित्वा हित्वा त्रयम् इदं विशेषस् तु उपलभ्यते आत्मनस् तु स्थितिर् यत्र तत्र सूक्ष्मम् इदं त्रयम् //
12.75 SK सूक्ष्मत्वाच् चैव दोषाणाम् अव्यापाराच् च चेतसः दीर्घत्वाद् आयुषश् चैव मोक्षस् तु परिकल्प्यते //
1749 SK सूक्ष्मत्वाच् च एव दोषाणाम् अ-व्यापाराच् च चेतसः दीर्घत्वाद् आयुषश् च एव मोक्षस् तु परिकल्प्यते //
12.76 SK अहंकारपरित्यागो यश् चैष परिकल्प्यते सत्य् आत्मनि परित्यागो नाहंकारस्य विद्यते //
1751 SK अहं-कार-परित्यागो यश् च एष परिकल्प्यते सत्य् आत्मनि परित्यागो न अहं-कारस्य विद्यते //
12.77 SK संख्यादिभिर् अमुक्तश् च निर्गुणो न भवत्य् अयम् तस्माद् असति नैर्गुण्ये नास्य मोक्षो ऽभिधीयते //
1753 SK संख्या-आदिभिर् अ-मुक्तश् च निर्-गुणो न भवत्य् अयम् तस्माद् अ-सति नैर्गुण्ये न अस्य मोक्षो ऽभिधीयते //
12.78 SK गुणिनो हि गुणानां च व्यतिरेको न विद्यते रूपोष्णाभ्यां विरहितो न ह्य् अग्निर् उपलभ्यते //
1755 SK गुणिनो हि गुणानां च व्यतिरेको न विद्यते रूप-उष्णाभ्यां विरहितो न ह्य् अग्निर् उपलभ्यते //
12.79 SK प्राग् देहान् न भवेद् देही प्राग् गुणेभ्यस् तथा गुणी (तस्माद् Cकस्माद् )आदौ विमुक्तः (सन् Cसञ् शरीरी बध्यते पुनः //
1757 SK प्राग् देहान् न भवेद् देही प्राग् गुणेभ्यस् तथा गुणी (तस्माद् Cकस्माद् )आदौ विमुक्तः (सन् Cसञ् शरीरी बध्यते पुनः //
12.80 SK क्षेत्रज्ञो विशरीरश् च ज्ञो वा स्याद् अज्ञ एव वा यदि ज्ञो ज्ञेयम् अस्यास्ति ज्ञेये सति न मुच्यते //
1759 SK क्षेत्र-ज्ञो वि-शरीरश् च ज्ञो वा स्याद् अ-ज्ञ एव वा यदि ज्ञो ज्ञेयम् अस्य अस्ति ज्ञेये सति न मुच्यते //
12.81 SK अथाज्ञ इति सिद्धो वः कल्पितेन किम् आत्मना विनापि ह्य् आत्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् //
1761 SK अथ अ-ज्ञ इति सिद्धो वः कल्पितेन किम् आत्मना विन आपि ह्य् आत्मन आ-ज्ञानं प्रसिद्धं काष्ठ-कुड्यवत् //
12.82 SK परतः परतस् त्यागो यस्मात् तु गुणवान् स्मृतः तस्मात् सर्वपरित्यागान् मन्ये कृत्स्नां कृतार्थताम् //
1763 SK परतः परतस् त्यागो यस्मात् तु गुणवान् स्मृतः तस्मात् सर्व-परित्यागान् मन्ये कृत्स्नां कृत-अर्थताम् //
12.83 SK इति धर्मम् अराडस्य विदित्वा न तुतोष सः अकृत्स्नम् इति विज्ञाय ततः प्रतिजगाम ह //
1765 SK इति धर्मम् अराडस्य विदित्वा न तुतोष सः अ-कृत्स्नम् इति विज्ञाय ततः प्रतिजगाम ह //
12.84 SK विशेषम् अथ शुश्रूषुर् उद्रकस्याश्रमं ययौ आत्मग्राहाच् च तस्यापि जगृहे न स दर्शनम् //
1767 SK विशेषम् अथ शुश्रूषुर् उद्रकस्या अश्रमं ययौ आत्म-ग्राहाच् च तस्य अपि जगृहे न स दर्शनम् //
12.85 SK संज्ञासंज्ञित्वयोर् दोषं ज्ञात्वा हि मुनिर् उद्रकः आकिंचिन्यात् परं लेभे (असंज्ञासंज्ञात्मिकां Cसंज्ञासंज्ञात्मिकां )गतिम् //
1769 SK संज्ञा-संज्ञित्वयोर् दोषं ज्ञात्वा हि मुनिर् उद्रकः आकिंचिन्यात् परं लेभे (अ-संज्ञा-अ-संज्ञा-आत्मिकां Cसंज्ञा-अ-संज्ञा-आत्मिकां )गतिम् //
12.86 SK यस्माच् चालम्बने सूक्ष्मे संज्ञासंज्ञे ततः परम् नासंज्ञी नैव संज्ञीति तस्मात् (तत्रगतCतत्र गत)स्पृहः //
1771 SK यस्माच् चा अलम्बने सूक्ष्मे संज्ञा-अ-संज्ञे ततः परम् न-अ-संज्ञी न एव संज्ञि ईति तस्मात् (तत्र-गत-Cतत्र गत-)स्पृहः //
12.87 SK यतश् च बुद्धिस् तत्रैव स्थितान्यत्राप्रचारिणी (सूक्ष्मापट्वी Cसूक्ष्मापादि )ततस् तत्र नासंज्ञित्वं न संज्ञिता //
1773 SK यतश् च बुद्धिस् तत्र एव स्थित आन्यत्र अ-प्रचारिणी (सूक्ष्म आ-पट्वी Cसूक्ष्म आपादि )ततस् तत्र न अ-संज्ञित्वं न संज्ञिता //
12.88 SK यस्माच् च (तद् Cतम् )अपि प्राप्य पुनर् आवर्तते जगत् बोधिसत्त्वः परं प्रेप्सुस् तस्माद् उद्रकम् अत्यजत् //
1775 SK यस्माच् च (तद् Cतम् )अपि प्राप्य पुनर् आवर्तते जगत् बोधि-सत्त्वः परं प्रेप्सुस् तस्माद् उद्रकम् अत्यजत् //
12.89 SK ततो हित्वाश्रमं तस्य श्रेयोअर्थी कृतनिश्चयः भेजे गयस्य राजर्१षेर् नगरीसंज्ञम् आश्रमम् //
1777 SK ततो हित्वा आश्रमं तस्य श्रेयो-अर्थी कृत-निश्चयः भेजे गयस्य राजर्१षेर् नगरी-संज्ञम् आश्रमम् //
12.90 SK अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः चकार वासम् एकान्त(विहाराभिरतिर् C(विहाराभिव्रती )मुनिः //
1779 SK अथ नैरञ्जना-तीरे शुचौ शुचि-पराक्रमः चकार वासम् एक-अन्त(विहार-अभिरतिर् C(विहार-अभिव्रती )मुनिः //
12.91 SK ((C<xxx> तत्पूर्वं पञ्चेन्द्रियवशोद्धतान्C)) ((Cतपः <xx> व्रतिनो भिक्षून् ... पञ्च निरैक्षत C)) //
1781 SK ((Cxxx तत्-पूर्वं पञ्च-इन्द्रिय-वश-उद्धतान्C)) ((Cतपः xx व्रतिनो भिक्षून् ... पञ्च निरैक्षत C)) //
12.92 SK (ते चोपतस्थुर् Cपञ्चोपतस्थुर् )दृष्ट्वात्र भिक्षवस् तं मुमुक्षवः पुण्यार्जितधनारोग्यम् इन्द्रियार्था इवेश्वरम् //
1783 SK (ते च उपतस्थुर् Cपञ्च उपतस्थुर् )दृष्ट्व आत्र भिक्षवस् तं मुमुक्षवः पुण्य-अर्जित-धन-आरोग्यम् इन्द्रिय-अर्था इवा इश्वरम् //
12.93 SK संपूज्यमानस् तैः प्रह्वैर् (विनयाद् अनुवर्तिभिः Cविनयानतमूर्तिभिः ) तद्वशस्थायिभिः शिष्यैर् लोलैर् मन इवेन्द्रियैः //
1785 SK संपूज्यमानस् तैः प्रह्वैर् (विनयाद् अनुवर्तिभिः Cविनय-आनत-मूर्तिभिः ) तद्-वश-स्थायिभिः शिष्यैर् लोलैर् मन इव इन्द्रियैः //
12.94 SK मृत्युजन्मान्तकरणे स्याद् उपायो ऽयम् इत्य् अथ दुष्कराणि समारेभे तपांस्य् अनशनेन सः //
1787 SK मृत्यु-जन्म-अन्त-करणे स्याद् उपायो ऽयम् इत्य् अथ दुष्-कराणि समारेभे तपांस्य् अन्-अशनेन सः //
12.95 SK उपवासविधीन् नैकान् कुर्वन् नरदुराचरान् वर्षाणि षट् (शमCकर्म)प्रेप्सुर् अकरोत् कार्श्यम् आत्मनः //
1789 SK उपवास-विधीन् न-एकान् कुर्वन् नर-दुर्-आचरान् वर्षाणि षट् (शम-Cकर्म-)प्रेप्सुर् अकरोत् कार्श्यम् आत्मनः //
12.96 SK अन्नकालेषु चैकैकैः (स कोलCसकोल)तिलतण्डुलैः अपारपारसंसारपारं प्रेप्सुर् अपारयत् //
1791 SK अन्न-कालेषु च एक-एकैः (स कोल-Cस-कोल-)तिल-तण्डुलैः अ-पार-पार-संसारपारं प्रेप्सुर् अपारयत् //
12.97 SK देहाद् अपचयस् तेन तपसा तस्य यः कृतः स एवोपचयो भूयस् तेजसास्य कृतो ऽभवत् //
1793 SK देहाद् अपचयस् तेन तपसा तस्य यः कृतः स एव उपचयो भूयस् तेजस आस्य कृतो ऽभवत् //
12.98 SK कृशो ऽप्य् अकृशकीर्तिश्रीर् ह्लादं चक्रे ऽन्य(चक्षुषाम् Cचक्षुषम् ) कुमुदानाम् इव शरच्छुक्लपक्षादिचन्द्रमाः //
1795 SK कृशो ऽप्य् अ-कृश-कीर्ति-श्रीर् ह्लादं चक्रे ऽन्य-(चक्षुषाम् Cचक्षुषम् ) कुमुदानाम् इव शरच्छुक्ल-पक्ष-आदि-चन्द्र-माः //
12.99 SK त्वगस्थिशेषो निःशेषैर् मेदःपिशितशोणितैः क्षीणो ऽप्य् अक्षीणगाम्भीर्यः समुद्र इव स व्यभात् //
1797 SK त्वग्-अस्थि-शेषो निः-शेषैर् मेदः-पिशित-शोणितैः क्षीणो ऽप्य् अ-क्षीण-गाम्भीर्यः समुद्र इव स व्यभात् //
12.100 SK अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर् मुनिः भवभीरुर् इमां चक्रे बुद्धिम् बुद्धत्वकाङ्क्षया //
1799 SK अथ कष्ट-तपः-स्पष्टव्य्-अर्थ-क्लिष्ट-तनुर् मुनिः भव-भीरुर् इमां चक्रे बुद्धिम् बुद्धत्व-काङ्क्षया //
12.101 SK नायं धर्मो विरागाय न बोधाय न मुक्तये जम्बुमूले मया प्राप्तो यस् तदा स विधिर् ध्रुवः //
1801 SK न अयं धर्मो विरागाय न बोधाय न मुक्तये जम्बु-मूले मया प्राप्तो यस् तदा स विधिर् ध्रुवः //
12.102 SK न चासौ दुर्बलेनाप्तुं शक्यम् इत्य् आगतादरः शरीरबलवृद्ध्यर्थम् इदं भूयो ऽन्वचिन्तयत् //
1803 SK न च असौ दुर्-बलेना अप्तुं शक्यम् इत्य् आगत-आदरः शरीर-बल-वृद्ध्य्-अर्थम् इदं भूयो ऽन्वचिन्तयत् //
12.103 SK क्षुत्पिपासाश्रमक्लान्तः श्रमाद् अस्वस्थमानसः प्राप्नुयान् मनसावाप्यं फलं कथम् अनिर्वृतः //
1805 SK क्षुत्-पिपासा-श्रम-क्लान्तः श्रमाद् अ-स्व-स्थ-मानसः प्राप्नुयान् मनस आवाप्यं फलं कथम् अ-निर्वृतः //
12.104 SK निर्वृतिः प्राप्यते सम्यक् सततेन्द्रियतर्पणात् संतर्पितेन्द्रियतया मनःस्वास्थ्यम् अवाप्यते //
1807 SK निर्वृतिः प्राप्यते सम्यक् सतत-इन्द्रिय-तर्पणात् संतर्पित-इन्द्रियतया मनः-स्वास्थ्यम् अवाप्यते //
12.105 SK स्वस्थप्रसन्नमनसः समाधिर् उपपद्यते समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते //
1809 SK स्व-स्थ-प्रसन्न-मनसः समाधिर् उपपद्यते समाधि-युक्त-चित्तस्य ध्यान-योगः प्रवर्तते //
12.106 SK ध्यानप्रवर्तनाद् धर्माः प्राप्यन्ते यैर् अवाप्यते दुर्लभं शान्तम् अजरं परं तद् अमृतं पदम् //
1811 SK ध्यान-प्रवर्तनाद् धर्माः प्राप्यन्ते यैर् अवाप्यते दुर्-लभं शान्तम् अ-जरं परं तद् अ-मृतं पदम् //
12.107 SK तस्माद् आहारमूलो ऽयम् उपाय इतिनिश्चयः (आहारCअसूरि)करणे धीरः कृत्वामितमतिर् मतिम् //
1813 SK तस्माद् आहार-मूलो ऽयम् उपाय इति-निश्चयः (आहार-Cअसूरि-)करणे धीरः कृत्व आ-मित-मतिर् मतिम् //
12.108 SK स्नातो नैरञ्जनातीराद् उत्ततार शनैः कृशः भक्त्यावनतशाखाग्रैर् दत्तहस्तस् तटद्रुमैः //
1815 SK स्नातो नैरञ्जना-तीराद् उत्ततार शनैः कृशः भक्त्य आवनत-शाख-अग्रैर् दत्त-हस्तस् तट-द्रुमैः //
12.109 SK अथ गोपाधिपसुता दैवतैर् अभिचोदिता उद्भूतहृदयानन्दा तत्र नन्दबलागमत् //
1817 SK अथ गो-प-अधिप-सुता दैवतैर् अभिचोदिता उद्भूत-हृदय-आनन्दा तत्र नन्द-बला आगमत् //
12.110 SK सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी सफेनमालानीलाम्बुर् यमुनेव सरिद्वरा //
1819 SK सित-शङ्ख-उज्ज्वल-भुजा नील-कम्बल-वासिनी स-फेन-माला-नील-अम्बुर् यमुन ईव सरिद्-वरा //
12.111 SK सा (श्राद्धावर्धितCश्रद्धावर्धित)प्रीतिर् विकसल्लोचनोत्पला शिरसा प्रणिपत्यैनं ग्राहयाम् आस पायसम् //
1821 SK सा (श्राद्ध-आवर्धित-Cश्रद्धा-वर्धित-)प्रीतिर् विकसल्-लोचन-उत्पला शिरसा प्रणिपत्य एनं ग्राहयाम् आस पायसम् //
12.112 SK कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् बोधिप्राप्तौ समर्थो ऽभूत् संतर्पितषडिन्द्रियः //
1823 SK कृत्वा तद्-उपभोगेन प्राप्त-जन्म-फलां स ताम् बोधि-प्राप्तौ सम्-अर्थो ऽभूत् संतर्पित-षड्-इन्द्रियः //
12.113 SK पर्याप्ताप्यान(मूर्तिश् Cमूर्तश् )च (सार्थं स्वCसार्धं सु)यशसा मुनिः कान्ति(धैर्ये बभारैकः $ शशाङ्कार्णवयोर् द्वयोः Cधैर्यैकभारैकः शशाङ्कार्णववल् बभौ ) //
1825 SK पर्याप्त-आप्यान-(मूर्तिश् Cमूर्तश् )च (स-अर्थं स्व-Cस-अर्धं सु-)यशसा मुनिः कान्ति-(धैर्ये बभार एकः $ शश-अङ्क-अर्णवयोर् द्वयोः Cधैर्य-एक-भार-एकः शश-अङ्क-अर्णववल् बभौ ) //
12.114 SK आवृत्त इति विज्ञाय तं जहुः (पञ्च भिक्षवः Cपञ्चभिक्षवः ) मनीषिणम् इवात्मानं निर्मुक्तं (पञ्च धातवः Cपञ्चधातवः ) //
1827 SK आवृत्त इति विज्ञाय तं जहुः (पञ्च भिक्षवः Cपञ्च-भिक्षवः ) मनीषिणम् इवा अत्मानं निर्मुक्तं (पञ्च धातवः Cपञ्च-धातवः ) //
12.115 SK व्यवसायद्वितीयो ऽथ शाद्वलास् तीर्णभूतलम् सो ऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः //
1829 SK व्यवसाय-द्वितीयो ऽथ शाद्वलास् तीर्ण-भू-तलम् सो ऽश्वत्थ-मूलं प्रययौ बोधाय कृत-निश्चयः //
12.116 SK ततस् तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः महामुनेर् आगतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् //
1831 SK ततस् तदानीं गज-राज-विक्रमः पद-स्वनेन अन्-उपमेन बोधितः महा-मुनेर् आगत-बोधि-निश्चयो जगाद कालो भुज-ग-उत्तमः स्तुतिम् //
12.117 SK यथा मुने त्वच्चरणावपीडिता मुहुर् मुहुर् निष्टनतीव मेदिनी यथा च ते राजति सूर्यवत् प्रभा ध्रुवं त्वम् इष्टं फलम् अद्य भोक्ष्यसे //
1833 SK यथा मुने त्वच्-चरण-अवपीडिता मुहुर् मुहुर् निष्टनति इव मेदिनी यथा च ते राजति सूर्यवत् प्रभा ध्रुवं त्वम् इष्टं फलम् अद्य भोक्ष्यसे //
12.118 SK यथा भ्रमन्त्यो दिवि (चाषCवाय)पङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते यथा च सौम्या दिवि वान्ति वायवस् त्वम् अद्य बुद्धो नियतं भविष्यसि //
1835 SK यथा भ्रमन्त्यो दिवि (चाष-Cवाय-)पङ्क्तयः प्र-दक्षिणं त्वां कमल-अक्ष कुर्वते यथा च सौम्या दिवि वान्ति वायवस् त्वम् अद्य बुद्धो नियतं भविष्यसि //
12.119 SK ततो भुजंगप्रवरेण संस्तुतस् तृणान्य् उपादाय शुचीनि लावकात् कृतप्रतिज्ञो निषसाद बोधये महातरोर् मूलम् उपाश्रितः शुचेः //
1837 SK ततो भुजं-ग-प्रवरेण संस्तुतस् तृणान्य् उपादाय शुचीनि लावकात् कृत-प्रतिज्ञो निषसाद बोधये महा-तरोर् मूलम् उपाश्रितः शुचेः //
12.120 SK ततः स पर्यङ्कम् अकम्प्यम् उत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् भिनद्मि तावद् भुवि नैतद् आसनं न यामि यावत् कृतकृत्यताम् इति //
1839 SK ततः स पर्य्-अङ्कम् अ-कम्प्यम् उत्तमं बबन्ध सुप्त-उर-ग-भोग-पिण्डितम् भिनद्मि तावद् भुवि न एतद् आसनं न यामि यावत् कृत-कृत्यताम् इति //
12.121 SK ततो ययुर् मुदम् अतुलां दिवौकसो (ववाशिरे Cववासिरे )न मृग(गणाः Cगणा [Wरोन्ग् सन्धि इन् एद्. EJH.])न पक्षिणः न सस्वनुर् वनतरवो ऽनिलाहताः कृतासने भगवति (निश्चितात्मनि Cनिश्चलात्मनि ) //
1841 SK ततो ययुर् मुदम् अ-तुलां दिव-ओकसो (ववाशिरे Cववासिरे )न मृग-(गणाः Cगणा [Wरोन्ग् सन्धि इन् एद्. EJH.])न पक्षिणः न सस्वनुर् वन-तरवो ऽनिल-आहताः कृत-आसने भगवति (निश्चित-आत्मनि Cनिश्-चल-आत्मनि ) //
1842 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये (Cअश्व-घोष-कृते C)अराड-दर्शनो नाम द्वा-दशः सर्गः -- १२ --]]
13.1 SK तस्मिन् विमोक्षाय कृतप्रतिज्ञे राजर्१षिवंशप्रभवे महर्२षौ तत्रोपविष्टे प्रजहर्ष लोकस् तत्रास सद्धर्मरिपुस् तु मारः //
1844 SK तस्मिन् विमोक्षाय कृत-प्रतिज्ञे राजर्१षि-वंश-प्रभवे महर्२षौ तत्र उपविष्टे प्रजहर्ष लोकस् तत्रास सद्-धर्म-रिपुस् तु मारः //
13.2 SK यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव कामप्रचाराधिपतिं तम् एव मोक्षद्विषं मारम् उदाहरन्ति //
1846 SK यं काम-देवं प्रवदन्ति लोके चित्र-आयुधं पुष्प-शरं तथ ऐव काम-प्रचार-अधि-पतिं तम् एव मोक्ष-द्विषं मारम् उदाहरन्ति //
13.3 SK तस्यात्मजा विभ्रमहर्षदर्पास् तिस्रो (अरतिCरति)प्रीतितृषश् च कन्याः पप्रच्छुर् एनं मनसो विकारं स तांश् च ताश् चैव वचो (अभ्युवाच Cबभाषे ) //
1848 SK तस्य-आत्म-जा विभ्रम-हर्ष-दर्पास् तिस्रो (अ-रति-Cरति-)प्रीति-तृषश् च कन्याः पप्रच्छुर् एनं मनसो विकारं स तांश् च ताश् च एव वचो (अभ्युवाच Cबभाषे ) //
13.4 SK असौ मुनिर् निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य जिगीषुर् आस्ते विषयान् मदीयान् तस्माद् अयं मे मनसो विषादः //
1850 SK असौ मुनिर् निश्चय-वर्म बिभ्रत् सत्त्व-आयुधं बुद्धि-शरं विकृष्य जिगीषुर् आस्ते विषयान् मदीयान् तस्माद् अयं मे मनसो विषादः //
13.5 SK यदि ह्य् असौ माम् अभिभूय याति लोकाय चाख्यात्य् अपवर्गमार्गम् शून्यस् ततो ऽयं विषयो ममाद्य वृत्ताच् च्युतस्येव विदेहभर्तुः //
1852 SK यदि ह्य् असौ माम् अभिभूय याति लोकाय चा अख्यात्य् अपवर्ग-मार्गम् शून्यस् ततो ऽयं विषयो मम अद्य वृत्ताच् च्युतस्य इव विदेह-भर्तुः //
13.6 SK तद् यावद् एवैष न लब्धचक्षुर् मद्गोचरे तिष्ठति यावद् एव यास्यामि तावद् व्रतम् अस्य भेत्तुं सेतुं नदीवेग (इवातिवृद्धः Cइवाभिवृद्धः ) //
1854 SK तद् यावद् एव एष न लब्ध-चक्षुर् मद्-गो-चरे तिष्ठति यावद् एव यास्यामि तावद् व्रतम् अस्य भेत्तुं सेतुं नदी-वेग (इव अति-वृद्धः Cइव अभिवृद्धः ) //
13.7 SK ततो धनुः पुष्पमयं गृहीत्वा (शरान् जगन्मोहCशरांस् तथा मोह)करांश् च पञ्च सो ऽश्वत्थमूलं ससुतो ऽभ्यगच्छद् अस्वास्थ्यकारी मनसः प्रजानाम् //
1856 SK ततो धनुः पुष्पमयं गृहीत्वा (शरान् जगन्-मोह-Cशरांस् तथा मोह-)करांश् च पञ्च सो ऽश्व-त्थ-मूलं स-सुतो ऽभ्यगच्छद् अ-स्वास्थ्य-कारी मनसः प्रजानाम् //
13.8 SK अथ प्रशान्तं मुनिम् आसनस्थं पारं तितीर्षुं भवसागरस्य विषज्य सव्यं करम् आयुधाग्रे (क्रीडन् Cक्रीडञ् )शरेणेदम् उवाच मारः //
1858 SK अथ प्रशान्तं मुनिम् आसन-स्थं पारं तितीर्षुं भव-सागरस्य विषज्य सव्यं करम् आयुध-अग्रे (क्रीडन् Cक्रीडञ् )शरेण इदम् उवाच मारः //
13.9 SK उत्तिष्ठ भोः क्षत्रिय मृत्युभीत (चर स्वधर्मं Cवरस्व धर्मं )त्यज मोक्षधर्मम् (बाणैश् Cवाणैश् )च (यज्ञैश् च C<xxx> )विनीय (लोकं Cलोकान् (लोकात् पदं Cलोकान् परान् )प्राप्नुहि वासवस्य //
1860 SK उत्तिष्ठ भोः क्षत्रिय मृत्यु-भीत (चर स्व-धर्मं Cवरस्व धर्मं )त्यज मोक्ष-धर्मम् (बाणैश् Cवाणैश् )च (यज्ञैश् च Cxxx )विनीय (लोकं Cलोकान् (लोकात् पदं Cलोकान् परान् )प्राप्नुहि वासवस्य //
13.10 SK पन्था हि निर्यातुम् अयं यशस्यो यो वाहितः पूर्वतमैर् नरेन्द्रैः जातस्य राजर्१षिकुले विशाले भैक्षाकम् अश्लाघ्यम् इदं प्रपत्तुम् //
1862 SK पन्था हि निर्यातुम् अयं यशस्यो यो वाहितः पूर्वतमैर् नर-इन्द्रैः जातस्य राजर्१षि-कुले विशाले भैक्षाकम् अ-श्लाघ्यम् इदं प्रपत्तुम् //
13.11 SK अथाद्य नोत्तिष्ठसि (निश्चितात्मन् Cनिश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् मयोद्यतो ह्य् एष शरः स एव यः (शूर्पके Cसूर्यके )मीनरिपौ विमुक्तः //
1864 SK अथ अद्य न उत्तिष्ठसि (निश्चित-आत्मन् Cनिश्चित-आत्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् मय ऊद्यतो ह्य् एष शरः स एव यः (शूर्पके Cसूर्यके )मीन-रिपौ विमुक्तः //
13.12 SK (स्पृष्टः Cपृष्टः )स चानेन कथंचिद् ऐडः सोमस्य नप्ताप्य् अभवद् विचित्तः स चाभवच् (छंतनुर् Cछांतनुर् )अस्वतन्त्रः क्षीणे युगे किं (बत Cवत )दुर्बलो ऽन्यः //
1866 SK (स्पृष्टः Cपृष्टः )स च अनेन कथं-चिद् ऐडः सोमस्य नप्त आप्य् अभवद् वि-चित्तः स च अभवच् (छं-तनुर् Cछांतनुर् )अ-स्व-तन्त्रः क्षीणे युगे किं (बत Cवत )दुर्-बलो ऽन्यः //
13.13 SK तत् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञां (बाणो Cवाणो )ह्य् अयं तिष्ठति लेलिहानः प्रियाविधेयेषु रतिप्रियेषु यं चक्रवाकेष्व् (इव Cअपि )नोत्सृजामि //
1868 SK तत् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञां (बाणो Cवाणो )ह्य् अयं तिष्ठति लेलिहानः प्रिया-विधेयेषु रति-प्रियेषु यं चक्र-वाकेष्व् (इव Cअपि )न उत्सृजामि //
13.14 SK इत्य् एवम् उक्तो ऽपि यदा निरास्थो नैवासनं शाक्यमुनिर् बिभेद शरं ततो ऽस्मै विससर्ज मारः कन्याश् च कृत्वा पुरतः सुतांश् च //
1870 SK इत्य् एवम् उक्तो ऽपि यदा निर्-आस्थो न एवा असनं शाक्य-मुनिर् बिभेद शरं ततो ऽस्मै विससर्ज मारः कन्याश् च कृत्वा पुरतः सुतांश् च //
13.15 SK तस्मिंस् तु (बाणे Cवाणे )अपि स विप्रमुक्ते चकार नास्थां न धृतेश् चचाल दृष्ट्वा तथैनं विषसाद मारश् चिन्तापरीतश् च शनैर् जगाद //
1872 SK तस्मिंस् तु (बाणे Cवाणे )अपि स विप्रमुक्ते चकार ना अस्थां न धृतेश् चचाल दृष्ट्वा तथ ऐनं विषसाद मारश् चिन्ता-परीतश् च शनैर् जगाद //
13.16 SK शैलेन्द्रपुत्रीं प्रति येन विद्धो देवो ऽपि शंभुश् चलितो बभूव न चिन्तयत्य् एष तम् एव (बाणं Cवाणं किं स्याद् अचित्तो न शरः स एषः //
1874 SK शैल-इन्द्र-पुत्रीं प्रति येन विद्धो देवो ऽपि शं-भुश् चलितो बभूव न चिन्तयत्य् एष तम् एव (बाणं Cवाणं किं स्याद् अ-चित्तो न शरः स एषः //
13.17 SK तस्माद् अयं नार्हति पुष्प(बाणं Cवाणं न हर्षणं नापि रतेर् नियोगम् अर्हत्य् अयं भूतगणैर् अ(सौम्यैः Cशेषैः संत्रासनातर्जनताडनानि //
1876 SK तस्माद् अयं न अर्हति पुष्प-(बाणं Cवाणं न हर्षणं न अपि रतेर् नियोगम् अर्हत्य् अयं भूत-गणैर् अ-(सौम्यैः Cशेषैः संत्रासन-आतर्जन-ताडनानि //
13.18 SK सस्मार मारश् च ततः स्वसैन्यं (विघ्नं शमे Cविध्वंसनं )शाक्यमुनेश् चिकीर्षन् नानाश्रयाश् चानुचराः परीयुः (शलCशर)द्रुमप्रासगदासिहस्ताः //
1878 SK सस्मार मारश् च ततः स्व-सैन्यं (विघ्नं शमे Cविध्वंसनं )शाक्य-मुनेश् चिकीर्षन् नाना-आश्रयाश् च अनुचराः परीयुः (शल-Cशर-)द्रुम-प्रास-गदा-असि-हस्ताः //
13.19 SK वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्१क्षसिंहद्विरदाननाश् च एकेक्षणा नैकमुखास् त्रिशीर्षा लम्बोदराश् चैव पृषोदराश् च //
1880 SK वराह-मीन-अश्व-खर-उष्ट्र-वक्त्रा व्याघ्रर्१क्ष-सिंह-द्वि-रद-आननाश् च एक-ईक्षणा न-एक-मुखास् त्रि-शीर्षा लम्ब-उदराश् च एव पृष-उदराश् च //
13.20 SK (अजानुसक्था Cअजासु सक्ता )घटजानवश् च दंष्ट्रायुधाश् चैव नखायुधाश् च (करङ्कवक्त्रा Cकबन्धुहस्ता )बहुमूर्तयश् च भग्नार्धवक्त्राश् च महामुखाश् च //
1882 SK (अ-जानु-सक्था Cअजासु सक्ता )घट-जानवश् च दंष्ट्र-आयुधाश् च एव नख-आयुधाश् च (करङ्क-वक्त्रा Cकबन्धु-हस्ता )बहु-मूर्तयश् च भग्न-अर्ध-वक्त्राश् च महा-मुखाश् च //
13.21 SK (भस्मारुणा Cताम्रारुणा )लोहित(बिन्दुCविन्दु)चित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः लम्बस्रजो वारणलम्बकर्णाश् चर्माम्बराश् चैव निरम्बराश् च //
1884 SK (भस्म-अरुणा Cताम्र-अरुणा )लोहित-(बिन्दु-Cविन्दु-)चित्राः खट्वा-अङ्ग-हस्ता हरि-धूम्र-केशाः लम्ब-स्रजो वारण-लम्ब-कर्णाश् चर्म-अम्बराश् च एव निर्-अम्बराश् च //
13.22 SK श्वेतार्धवक्त्रा हरितार्धकायास् ताम्राश् च धूम्रा हरयो ऽसिताश् च (व्यालोत्तरासङ्गCव्याडोत्तरासङ्ग)भुजास् तथैव प्रघुष्टघण्टाकुलमेखलाश् च //
1886 SK श्वेत-अर्ध-वक्त्रा हरित-अर्ध-कायास् ताम्राश् च धूम्रा हरयो ऽसिताश् च (व्याल-उत्तर-आसङ्ग-Cव्याड-उत्तर-आसङ्ग-)भुजास् तथ ऐव प्रघुष्ट-घण्ट-आकुल-मेखलाश् च //
13.23 SK तालप्रमाणाश् च गृहीतशूला दंष्ट्राकरालाश् च शिशुप्रमाणाः उरभ्रवक्त्राश् च विहं(गमाक्षा Cगमाश् च मार्जारवक्त्राश् च मनुष्यकायाः //
1888 SK ताल-प्रमाणाश् च गृहीत-शूला दंष्ट्र-आकरालाश् च शिशु-प्रमाणाः उरभ्र-वक्त्राश् च विहं-(गम-आक्षा Cगमाश् च मार्जार-वक्त्राश् च मनुष्य-कायाः //
13.24 SK प्रकीर्णकेशाः शिखिनो ऽर्धमुण्डा (रक्ताम्बरा Cरज्ज्वम्बरा )व्याकुलवेष्टनाश् च प्रहृष्टवक्त्रा भृकुटीमुखाश् च तेजोहराश् चैव मनोहराश् च //
1890 SK प्रकीर्ण-केशाः शिखिनो ऽर्ध-मुण्डा (रक्त-अम्बरा Cरज्ज्व्-अम्बरा )व्याकुल-वेष्टनाश् च प्रहृष्ट-वक्त्रा भृ-कुटी-मुखाश् च तेजो-हराश् च एव मनो-हराश् च //
13.25 SK केचिद् व्रजन्तो भृशम् आववल्गुर् अन्योअन्यम् आपुप्लुविरे तथान्ये चिक्रीडुर् आकाशगताश् च केचित् केचिच् च चेरुस् तरुमस्तकेषु //
1892 SK के-चिद् व्रजन्तो भृशम् आववल्गुर् अन्यो-अन्यम् आपुप्लुविरे तथ आन्ये चिक्रीडुर् आकाश-गताश् च के-चित् के-चिच् च चेरुस् तरु-मस्तकेषु //
13.26 SK ननर्त कश्चिद् भ्रमयंस् त्रिशूलं कश्(चिद् विपुस्फूर्ज Cचिद् ध पुस्फूर्ज )गदां विकर्षन् हर्षेण कश्चिद् वृषवन् (ननर्द Cननर्त कश्चित् प्रजज्वाल तनूरुहेभ्यः //
1894 SK ननर्त कश्-चिद् भ्रमयंस् त्रि-शूलं कश्-(चिद् विपुस्फूर्ज Cचिद् ध पुस्फूर्ज )गदां विकर्षन् हर्षेण कश्-चिद् वृषवन् (ननर्द Cननर्त कश्-चित् प्रजज्वाल तनू-रुहेभ्यः //
13.27 SK एवंविधा भूतगणाः समन्तात् तद् बोधिमूलं परिवार्य तस्थुः जिघृक्षवश् चैव जिघांसवश् च भर्तुर् नियोगं परिपालयन्तः //
1896 SK एवं-विधा भूत-गणाः सम्-अन्तात् तद् बोधि-मूलं परिवार्य तस्थुः जिघृक्षवश् च एव जिघांसवश् च भर्तुर् नियोगं परिपालयन्तः //
13.28 SK तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्१षभस्यैव च युद्धकालम् न द्यौश् चकाशे पृथिवी चकम्पे प्रजज्वलुश् चैव दिशः सशब्दाः //
1898 SK तं प्रेक्ष्य मारस्य च पूर्व-रात्रे शाक्यर्१षभस्य एव च युद्ध-कालम् न द्यौश् चकाशे पृथिवी चकम्पे प्रजज्वलुश् च एव दिशः स-शब्दाः //
13.29 SK (विष्वग् Cविश्वग् )ववौ वायुर् उदीर्णवेगस् तारा न रेजुर् न बभौ शशाङ्कः तमश् च भूयो (विततान रात्रिः Cविततार रात्रेः सर्वे च संचुक्षुभिरे समुद्राः //
1900 SK (विष्वग् Cविश्वग् )ववौ वायुर् उदीर्ण-वेगस् तारा न रेजुर् न बभौ शश-अङ्कः तमश् च भूयो (विततान रात्रिः Cविततार रात्रेः सर्वे च संचुक्षुभिरे समुद्राः //
13.30 SK महीभृतो धर्मपराश् च नागा महामुनेर् विघ्नम् अमृष्यमाणाः मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश् चैव जजृम्भिरे च //
1902 SK मही-भृतो धर्म-पराश् च नागा महा-मुनेर् विघ्नम् अ-मृष्यमाणाः मारं प्रति क्रोध-विवृत्त-नेत्रा निःशश्वसुश् च एव जजृम्भिरे च //
13.31 SK शुद्धाधिवासा विबुधर्१षयस् तु सद्धर्मसिद्ध्यर्थम् (अभिप्रवृत्ताः Cइव प्रवृत्ताः ) मारे ऽनुकम्पां मनसा प्रचक्रुर् विरागभावात् तु न रोषम् ईयुः //
1904 SK शुद्ध-अधिवासा विबुधर्१षयस् तु सद्-धर्म-सिद्ध्य्-अर्थम् (अभिप्रवृत्ताः Cइव प्रवृत्ताः ) मारे ऽनुकम्पां मनसा प्रचक्रुर् वि-राग-भावात् तु न रोषम् ईयुः //
13.32 SK तद् बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन धर्मात्मभिर् लोकविमोक्षकामैर् बभूव हाहाकृतम् (अन्तरीक्षे Cअन्तरीक्षम् ) //
1906 SK तद् बोधि-मूलं समवेक्ष्य कीर्णं हिंसा-आत्मना मार-बलेन तेन धर्म-आत्मभिर् लोक-विमोक्ष-कामैर् बभूव हाहा-कृतम् (अन्तरीक्षे Cअन्तरीक्षम् ) //
13.33 SK (उपप्लवं Cउपप्लुतं )धर्म(विधेस् Cविदस् )तु तस्य दृष्ट्वा स्थितं मारबलं महर्२षिः न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः //
1908 SK (उपप्लवं Cउपप्लुतं )धर्म-(विधेस् Cविदस् )तु तस्य दृष्ट्वा स्थितं मार-बलं महर्२षिः न चुक्षुभे न अपि ययौ विकारं मध्ये गवां सिंह इव उपविष्टः //
13.34 SK मारस् ततो भूतचमूम् उदीर्णाम् आज्ञापयाम् आस भयाय तस्य स्वैः स्वैः प्रभावैर् अथ सास्य सेना तद्धैर्यभेदाय मतिं चकार //
1910 SK मारस् ततो भूत-चमूम् उदीर्णाम् आज्ञापयाम् आस भयाय तस्य स्वैः स्वैः प्रभावैर् अथ स आस्य सेना तद्-धैर्य-भेदाय मतिं चकार //
13.35 SK केचिच् चलन् नैकविलम्बिजिह्वास् (तीक्ष्णाग्रCतीक्ष्णोग्र)दंष्ट्रा हरिमण्डलाक्षाः विदारितास्याः स्थिरशङ्कुकर्णाः संत्रासयन्तः किल नाम तस्थुः //
1912 SK के-चिच् चलन् न-एक-विलम्बि-जिह्वास् (तीक्ष्ण-अग्र-Cतीक्ष्ण-उग्र-)दंष्ट्रा हरि-मण्डल-अक्षाः विदारित-आस्याः स्थिर-शङ्कु-कर्णाः संत्रासयन्तः किल नाम तस्थुः //
13.36 SK तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः न विव्यथे नोद्विविजे महर्२षिः (क्रीडत्सुCक्रीडन् सु)बालेभ्य इवोद्धतेभ्यः //
1914 SK तेभ्यः स्थितेभ्यः स तथा-विधेभ्यः रूपेण भावेन च दारुणेभ्यः न विव्यथे न उद्विविजे महर्२षिः (क्रीडत्-सु-Cक्रीडन् सु-)बालेभ्य इव उद्धतेभ्यः //
13.37 SK कश्चित् ततो (रोषCरौद्र)विवृत्तदृष्टिस् तस्मै गदाम् उद्यमयां चकार तस्तम्भ बाहुः सगदस् ततो ऽस्य पुरंदरस्येव पुरा सवज्रः //
1916 SK कश्-चित् ततो (रोष-Cरौद्र-)विवृत्त-दृष्टिस् तस्मै गदाम् उद्यमयां चकार तस्तम्भ बाहुः स-गदस् ततो ऽस्य पुरं-दरस्य इव पुरा स-वज्रः //
13.38 SK केचित् समुद्यम्य शिलास् तरूंश् च विषेहिरे नैव मुनौ विमोक्तुम् पेतुः सवृक्षाः सशिलास् तथैव वज्रावभग्ना इव विन्ध्यपादाः //
1918 SK के-चित् समुद्यम्य शिलास् तरूंश् च विषेहिरे न एव मुनौ विमोक्तुम् पेतुः स-वृक्षाः स-शिलास् तथ ऐव वज्र-अवभग्ना इव विन्ध्य-पादाः //
13.39 SK कैश्चित् समुत्पत्य नभो विमुक्ताः शिलाश् च वृक्षाश् च परश्वधाश् च तस्थुर् नभस्य् एव न चावपेतुः संध्याभ्रपादा इव नैकवर्णाः //
1920 SK कैश्-चित् समुत्पत्य नभो विमुक्ताः शिलाश् च वृक्षाश् च परश्वधाश् च तस्थुर् नभस्य् एव न च अवपेतुः संध्या-अभ्र-पादा इव न-एक-वर्णाः //
13.40 SK चिक्षेप तस्योपरि दीप्तम् अन्यः कडङ्गरं पर्वतशृङ्गमात्रम् यन् मुक्तमात्रं गगनस्थम् एव तस्यानुभावाच् छतधा (पफाल Cबभूव ) //
1922 SK चिक्षेप तस्य उपरि दीप्तम् अन्यः कडङ्गरं पर्वत-शृङ्ग-मात्रम् यन् मुक्त-मात्रं गगन-स्थम् एव तस्य अनुभावाच् छतधा (पफाल Cबभूव ) //
13.41 SK कश्चिज् जलन्न् अर्क इवोदितः खाद् अङ्गारवर्षं महद् उत्ससर्ज चूऋनानि चामीकरकन्दराणां कल्पात्यये मेरुर् इव प्रदीप्तः //
1924 SK कश्-चिज् जलन्न् अर्क इव उदितः खाद् अङ्गार-वर्षं महद् उत्ससर्ज चूऋनानि चामीकर-कन्दराणां कल्प-अत्यये मेरुर् इव प्रदीप्तः //
13.42 SK तद् बोधिमूले प्रविकीर्यमाणम् अङ्गारवर्षं तु सविस्फुलिङ्गम् मैत्रीविहाराद् ऋषिसत्तमस्य बभूव रक्तोत्पल(पत्त्रCपत्र)वर्षः //
1926 SK तद् बोधि-मूले प्रविकीर्यमाणम् अङ्गार-वर्षं तु स-विस्फुलिङ्गम् मैत्री-विहाराद् ऋषि-सत्तमस्य बभूव रक्त-उत्पल-(पत्त्र-Cपत्र-)वर्षः //
13.43 SK शरीरचित्तव्यसनातपैस् तैर् एवंविधैस् तैश् च निपात्यमानैः नैवासनाच् छआक्यमुनिश् चचाल (स्वनिश्चयं Cस्वं निश्चयं )बन्धुम् इवोपगुह्य //
1928 SK शरीर-चित्त-व्यसन-आतपैस् तैर् एवं-विधैस् तैश् च निपात्यमानैः न एवा असनाच् छआक्य-मुनिश् चचाल (स्व-निश्चयं Cस्वं निश्चयं )बन्धुम् इव उपगुह्य //
13.44 SK अथापरे (निर्जिगिलुर् Cनिर्जगलुर् )मुखेभ्यः सर्पान् विजीर्णेभ्य इव द्रुमेभ्यः ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर् (नोत्ससृपुर् Cनलुत्ससृजुर् )न चेलुः //
1930 SK अथ अ-परे (निर्जिगिलुर् Cनिर्जगलुर् )मुखेभ्यः सर्पान् विजीर्णेभ्य इव द्रुमेभ्यः ते मन्त्र-बद्धा इव तत्-समीपे न शश्वसुर् (न उत्ससृपुर् Cनलुत्ससृजुर् )न चेलुः //
13.45 SK भूत्वापरे वारिधरा (बृहन्तः Cवृहन्तः सविद्युतः साशनिचण्डघोषाः तस्मिन् द्रुमे तत्यजुर् अश्मवर्षं तत् पुष्.पवर्षं रुचिरं बभूव //
1932 SK भूत्व आ-परे वारि-धरा (बृहन्तः Cवृहन्तः स-विद्युतः स-अशनि-चण्ड-घोषाः तस्मिन् द्रुमे तत्यजुर् अश्म-वर्षं तत् पुष्.प-वर्षं रुचिरं बभूव //
13.46 SK चापे ऽथ (बाणो Cवाणो )निहितो ऽपरेण जज्वाल तत्रैव न निष्पपात अनीश्वरस्यात्मनि (धूयमानो Cधूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः //
1934 SK चापे ऽथ (बाणो Cवाणो )निहितो ऽपरेण जज्वाल तत्र एव न निष्पपात अन्-ईश्वरस्या अत्मनि (धूयमानो Cधूर्यमाणो दुर्-मर्षणस्य इव नरस्य मन्युः //
13.47 SK पञ्चेषवो ऽन्येन तु विप्रमुक्तास् तस्थुर् (नभस्य् Cनयत्य् )एव मुनौ न पेतुः संसारभीरोर् विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य //
1936 SK पञ्च इषवो ऽन्येन तु विप्रमुक्तास् तस्थुर् (नभस्य् Cनयत्य् )एव मुनौ न पेतुः संसार-भीरोर् विषय-प्रवृत्तौ पञ्च इन्द्रियाणि इव परीक्षकस्य //
13.48 SK जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महर्२षेः सो ऽप्राप्त(कामो Cकालो )विवशः पपात दोषेष्व् इवानर्थकरेषु लोकः //
1938 SK जिघांसय आन्यः प्रससार रुष्टो गदां गृहीत्व आभि-मुखो महर्२षेः सो ऽप्राप्त-(कामो Cकालो )वि-वशः पपात दोषेष्व् इव अन्-अर्थ-करेषु लोकः //
13.49 SK स्त्री मेघकाली तु कपालहस्ता कर्तुं महर्२षेः किल (चित्तमोहम् Cमोहचित्तम् ) बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिर् इवागमेषु //
1940 SK स्त्री मेघ-काली तु कपाल-हस्ता कर्तुं महर्२षेः किल (चित्त-मोहम् Cमोह-चित्तम् ) बभ्राम तत्र अ-नियतं न तस्थौ चल-आत्मनो बुद्धिर् इवा अगमेषु //
13.50 SK कश्चित् प्रदीप्तं प्रणिधाय चक्षुर् नेत्राग्निनाशीविषवद् दिधक्षुः तत्रैव (नासीनम् Cनासीत् तं )ऋषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् //
1942 SK कश्-चित् प्रदीप्तं प्रणिधाय चक्षुर् नेत्र-अग्निना आशी-विषवद् दिधक्षुः तत्र एव (ना असीनम् Cन असीत् तं )ऋषिं ददर्श काम-आत्मकः श्रेय इव उपदिष्टम् //
13.51 SK गुर्वीं शिलाम् उद्यमयंस् तथान्यः शश्राम मोघं विहतप्रयत्नः निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर् धर्मम् इवाप्तुकामः //
1944 SK गुर्वीं शिलाम् उद्यमयंस् तथ आन्यः शश्राम मोघं विहत-प्रयत्नः निः-श्रेयसं ज्ञान-समाधि-गम्यं काय-क्लमैर् धर्मम् इवा अप्तु-कामः //
13.52 SK तरक्षुसिंहाकृतयस् तथान्ये प्रणेदुर् उच्चैर् महतः प्रणादान् सत्त्वानि यैः संचुकुचुः समन्ताद् वज्राहता द्यौः फलतीति मत्वा //
1946 SK तरक्षु-सिंह-आकृतयस् तथ आन्ये प्रणेदुर् उच्चैर् महतः प्रणादान् सत्त्वानि यैः संचुकुचुः सम्-अन्ताद् वज्र-आहता द्यौः फलति इति मत्वा //
13.53 SK मृगा गजाश् (चार्तCचार्त्त)रवान् सृजन्तो विदुद्रुवुश् चैव निलिल्यिरे च रात्रौ च तस्याम् अहनीव दिग्भ्यः खगा रुवन्तः परिपेतुर् (आर्ताः Cआर्त्ताः ) //
1948 SK मृगा गजाश् (चा अर्त-Cचा अर्त्त-)रवान् सृजन्तो विदुद्रुवुश् च एव निलिल्यिरे च रात्रौ च तस्याम् अहनि इव दिग्भ्यः ख-गा रुवन्तः परिपेतुर् (आर्ताः Cआर्त्ताः ) //
13.54 SK तेषां प्रणादैस् तु तथाविधैस् तैः सर्वेषु भूतेष्व् अपि कम्पितेषु मुनिर् न तत्रास न संचुकोच रवैर् गरुत्मान् इव वायसानाम् //
1950 SK तेषां प्रणादैस् तु तथा-विधैस् तैः सर्वेषु भूतेष्व् अपि कम्पितेषु मुनिर् न तत्रास न संचुकोच रवैर् गरुत्मान् इव वायसानाम् //
13.55 SK भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर् बिभाय तथा तथा धर्मभृतां सपत्नः शोकाच् च रोषाच् च (ससाद Cससार )मारः //
1952 SK भय-आवहेभ्यः परिषद्-गणेभ्यो यथा यथा न एव मुनिर् बिभाय तथा तथा धर्म-भृतां स-पत्नः शोकाच् च रोषाच् च (ससाद Cससार )मारः //
13.56 SK भूतं ततः किंचिद् अदृश्यरूपं विशिष्ट(भूतं Cरूपं )गगनस्थम् एव दृष्ट्वर्९षये द्रुग्धम् अवैररुष्टं मारं बभाषे महता स्वरेण //
1954 SK भूतं ततः किं-चिद् अ-दृश्य-रूपं विशिष्ट-(भूतं Cरूपं )गगन-स्थम् एव दृष्ट्वर्९षये द्रुग्धम् अ-वैर-रुष्टं मारं बभाषे महता स्वरेण //
13.57 SK मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मताम् उत्सृज गच्छ शर्म नैष त्वया कम्पयितुं हि शक्यो महागिरिर् मेरुर् इवानिलेन //
1956 SK मोघं श्रमं न अर्हसि मार कर्तुं हिंस्रा-आत्मताम् उत्सृज गच्छ शर्म न एष त्वया कम्पयितुं हि शक्यो महा-गिरिर् मेरुर् इव अनिलेन //
13.58 SK अप्य् उष्णभावं ज्वलनः प्रजह्याद् आपो द्रवत्वं पृथिवी स्थिरत्वम् अनेककल्पाचितपुण्यकर्मा न त्व् एव जह्याद् व्यवसायम् एषः //
1958 SK अप्य् उष्ण-भावं ज्वलनः प्रजह्याद् आपो द्रवत्वं पृथिवी स्थिरत्वम् अन्-एक-कल्प-आचित-पुण्य-कर्मा न त्व् एव जह्याद् व्यवसायम् एषः //
13.59 SK यो निश्चयो ह्य् अस्य पराक्रमश् च तेजश् च यद् या च दया प्रजासु अप्राप्य नोत्थास्यति तत्त्वम् एष तमांस्य् अहत्वेव सहस्ररश्मिः //
1960 SK यो निश्चयो ह्य् अस्य पराक्रमश् च तेजश् च यद् या च दया प्रजासु अ-प्राप्य न उत्थास्यति तत्त्वम् एष तमांस्य् अ-हत्व ईव सहस्र-रश्मिः //
13.60 SK काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम् निर्बन्धिनः किं(चन नास्त्य् असाध्यं Cच न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् //
1962 SK काष्ठं हि मथ्नन् लभते हुत-आशं भूमिं खनन् विन्दति च अपि तोयम् निर्बन्धिनः किं-(चन न अस्त्य् अ-साध्यं Cच न न अस्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् //
13.61 SK तल् लोकम् (आर्तं Cआर्त्तं )करुणायमानो रोगेषु रागादिषु वर्तमानम् महा(भिषङ् Cभिषग् )नार्हति विघ्नम् एष ज्ञानौषधार्थं परिखिद्यमानः //
1964 SK तल् लोकम् (आर्तं Cआर्त्तं )करुणायमानो रोगेषु राग-आदिषु वर्तमानम् महा-(भिषङ् Cभिषग् )न अर्हति विघ्नम् एष ज्ञान-औषध-अर्थं परिखिद्यमानः //
13.62 SK हृते च लोके बहुभिः कुमार्गैः सन्मार्गम् अन्विच्छति यः श्रमेण स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थए इव प्रनष्टे //
1966 SK हृते च लोके बहुभिः कु-मार्गैः सन्-मार्गम् अन्विच्छति यः श्रमेण स दैशिकः क्षोभयितुं न युक्तं सु-देशिकः सार्थए इव प्रनष्टे //
13.63 SK सत्त्वेषु नष्टेषु महान्ध(कारे Cकारैर् ज्ञानप्रदीपः क्रियमाण एषः आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस् तमसीव दीपः //
1968 SK सत्त्वेषु नष्टेषु महा-अन्ध-(कारे Cकारैर् ज्ञान-प्रदीपः क्रियमाण एषः आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस् तमसि इव दीपः //
13.64 SK दृष्ट्वा च संसारमये महौघे मग्नं जगत् पारम् अविन्दमानम् यश् चेदम् उत्तारयितुं प्रवृत्तः (कश् चिन्तयेत् Cकश्चिन् नयेत् )तस्य तु पापम् आर्यः //
1970 SK दृष्ट्वा च संसारमये महा-ओघे मग्नं जगत् पारम् अ-विन्दमानम् यश् च इदम् उत्तारयितुं प्रवृत्तः (कश् चिन्तयेत् Cकश्-चिन् नयेत् )तस्य तु पापम् आर्यः //
13.65 SK क्षमाशिफो धैर्यविगाढमूलश् चारित्रपुष्पः स्मृतिबुद्धिशाखः ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्य् अर्हति वर्धमानः //
1972 SK क्षमा-शिफो धैर्य-विगाढ-मूलश् चारित्र-पुष्पः स्मृति-बुद्धि-शाखः ज्ञान-द्रुमो धर्म-फल-प्रदाता न उत्पाटनं ह्य् अर्हति वर्धमानः //
13.66 SK बद्धां दृढैश् चेतसि मोहपाशैर् यस्य प्रजां मोक्षयितुं मनीषा तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः //
1974 SK बद्धां दृढैश् चेतसि मोह-पाशैर् यस्य प्रजां मोक्षयितुं मनीषा तस्मिन् जिघांसा तव न उपपन्ना श्रान्ते जगद्-बन्धन-मोक्ष-हेतोः //
13.67 SK बोधाय कर्माणि हि यान्य् अनेन कृतानि तेषां नियतो ऽद्य कालः स्थाने तथास्मिन्न् उपविष्ट एष यथैव पूर्वे मुनयस् तथैव //
1976 SK बोधाय कर्माणि हि यान्य् अनेन कृतानि तेषां नियतो ऽद्य कालः स्थाने तथ आस्मिन्न् उपविष्ट एष यथ ऐव पूर्वे मुनयस् तथ ऐव //
13.68 SK एषा हि नाभिर् वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना भूमेर् अतो ऽन्यो ऽस्ति हि न प्रदेशो (वेगं Cवेशं )समाधेर् (विषहेत यो ऽस्य Cविषयो हितस्य ) //
1978 SK एषा हि नाभिर् वसु-धा-तलस्य कृत्स्नेन युक्ता परमेण धाम्ना भूमेर् अतो ऽन्यो ऽस्ति हि न प्रदेशो (वेगं Cवेशं )समाधेर् (विषहेत यो ऽस्य Cविषयो हितस्य ) //
13.69 SK तन् मा कृथाः शोकम् उपेहि शान्तिं मा भून् महिम्ना तव मार मानः विश्रम्भितुं न क्षमम् अध्रुवा श्रीश् चले पदे (विस्मयम् Cकिं पदम् )अभ्युपैषि //
1980 SK तन् मा कृथाः शोकम् उपेहि शान्तिं मा भून् महिम्ना तव मार मानः विश्रम्भितुं न क्षमम् अ-ध्रुवा श्रीश् चले पदे (विस्मयम् Cकिं पदम् )अभ्युपैषि //
13.70 SK ततः स संश्रुत्य च तस्य तद् वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् जगाम मारो वि(मनो Cमना )हतोद्यमः शरैर् जगच्चेतसि यैर् (विहन्यते Cविहन्यसे ) //
1982 SK ततः स संश्रुत्य च तस्य तद् वचो महा-मुनेः प्रेक्ष्य च निष्-प्रकम्पताम् जगाम मारो वि-(मनो Cमना )हत-उद्यमः शरैर् जगच्-चेतसि यैर् (विहन्यते Cविहन्यसे ) //
13.71 SK गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा दिशः प्रदुद्राव ततो ऽस्य सा चमूर् हताश्रयेव द्विषता द्विषच्चमूः //
1984 SK गत-प्रहर्षा वि-फली-कृत-श्रमा प्रविद्ध-पाषाण-कडङ्गर-द्रुमा दिशः प्रदुद्राव ततो ऽस्य सा चमूर् हत-आश्रय ईव द्विषता द्विषच्-चमूः //
13.72 SK द्रवति स(परिपक्षे Cपरपक्षे )निर्जिते पुष्पकेतौ जयति जिततमस्के नीरजस्के महर्२षौ युवतिर् इव सहासा द्यौश् चकाशे सचन्द्रा सुरभि च जलगर्भं पुष्पवर्षं पपात //
1986 SK द्रवति स-(परिपक्षे Cपर-पक्षे )निर्जिते पुष्प-केतौ जयति जित-तमस्के नीरजस्के महर्२षौ युवतिर् इव स-हासा द्यौश् चकाशे स-चन्द्रा सु-रभि च जल-गर्भं पुष्प-वर्षं पपात //
13.73 SK X(Cतथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः Xदिवो निपेतुर् भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशाC) //
1988 SK X(Cतथ आपि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशा-करः Xदिवो निपेतुर् भुवि पुष्प-वृष्टयो रराज योष ईव वि-कल्मषा निशाC) //
1989 SK [[इति (Cश्री-C)बुद्ध-चरिते महा-काव्ये ऽश्व-घोष-कृते मार-विजयो नाम त्रयो-दशः सर्गः -- १३ --]]
14.1 SK ततो मारबलं जित्वा धैर्येण च शमेन च परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः //
1991 SK ततो मार-बलं जित्वा धैर्येण च शमेन च परम-अर्थं विजिज्ञासुः स दध्यौ ध्यान-कोविदः //
14.2 SK सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यम् उत्तमम् सस्मार प्रथमे यामे पूर्वजन्मपरंपराम् //
1993 SK सर्वेषु ध्यान-विधिषु प्राप्य चा एश्वर्यम् उत्तमम् सस्मार प्रथमे यामे पूर्व-जन्म-परंपराम् //
14.3 SK अमुत्राहम् अयं नाम च्युतस् तस्माद् इहागतः इति जन्मसहस्राणि सस्मारानुभवन्न् इव //
1995 SK अमुत्र अहम् अयं नाम च्युतस् तस्माद् इहा अगतः इति जन्म-सहस्राणि सस्मार अनुभवन्न् इव //
14.4 SK स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः //
1997 SK स्मृत्वा जन्म च मृत्युं च तासु तासु उपपत्तिषु ततः सत्त्वेषु कारुण्यं चकार करुण-आत्मकः //
14.5 SK कृत्वेह स्वजनोत्सर्गं पुनर् अन्यत्र च क्रियाः अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् //
1999 SK कृत्व ईह स्व-जन-उत्सर्गं पुनर् अन्यत्र च क्रियाः अ-त्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् //
14.6 SK इत्य् एवं स्मरतस् तस्य बभूव नियतात्मनः कदलीगर्भनिःसारः संसार इति निश्चयः //
2001 SK इत्य् एवं स्मरतस् तस्य बभूव नियत-आत्मनः कदली-गर्भ-निः-सारः संसार इति निश्चयः //
14.7 SK द्वितीये त्व् आगते यामे सो ऽद्वितीयपराक्रमः दिव्यं (लेभे Cचक्षुः )परं (चक्षुः Cलेभे सर्वचक्षुष्मतां वरः //
2003 SK द्वितीये त्व् आगते यामे सो ऽद्वितीय-पराक्रमः दिव्यं (लेभे Cचक्षुः )परं (चक्षुः Cलेभे सर्व-चक्षुष्मतां वरः //
14.8 SK ततस् तेन स दिव्येन परिशुद्धेन चक्षुषा ददर्श निखिलं लोकम् आदर्शए इव निर्मले //
2005 SK ततस् तेन स दिव्येन परिशुद्धेन चक्षुषा ददर्श निखिलं लोकम् आदर्शए इव निर्-मले //
14.9 SK सत्त्वानां पश्यतस् तस्य निकृष्टोत्कृष्टकर्मणाम् प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता //
2007 SK सत्त्वानां पश्यतस् तस्य निकृष्ट-उत्कृष्ट-कर्मणाम् प्रच्युतिं च उपपत्तिं च ववृधे करुण-आत्मता //
14.10 SK इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे //
2009 SK इमे दुष्-कृत-कर्माणः प्राणिनो यान्ति दुर्-गतिम् इमे ऽन्ये शुभ-कर्माणः प्रतिष्ठन्ते त्रि-पिष्टपे //
14.11 SK उपपन्नाः प्रतिभये नरके भृशदारुणे अमी दुःखैर् बहुविधैः पीड्यन्ते कृपणं (बत Cवत ) //
2011 SK उपपन्नाः प्रतिभये नरके भृश-दारुणे अमी दुःखैर् बहु-विधैः पीड्यन्ते कृपणं (बत Cवत ) //
14.12 SK पाय्यन्ते क्वथितं केचिद् अग्निवर्णम् अयोरसम् आरोप्यन्ते रुवन्तो ऽन्ये निष्टप्तस्तम्भम् आयसम् //
2013 SK पाय्यन्ते क्वथितं के-चिद् अग्नि-वर्णम् अयो-रसम् आरोप्यन्ते रुवन्तो ऽन्ये निष्टप्त-स्तम्भम् आयसम् //
14.13 SK पच्यन्ते पिष्टवत् केचिद् अयस्कुम्भीष्व् अवाङ्मुखाः दह्यन्ते करुणं केचिद् दीप्तेष्व् अङ्गारराशिषु //
2015 SK पच्यन्ते पिष्टवत् के-चिद् अयस्-कुम्भीष्व् अवाङ्-मुखाः दह्यन्ते करुणं के-चिद् दीप्तेष्व् अङ्गार-राशिषु //
14.14 SK केचित् तीक्ष्णैर् अयोदंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः केचिद् धृष्टैर् अयस्तुण्डैर् वायसैर् आयसैर् इव //
2017 SK के-चित् तीक्ष्णैर् अयो-दंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः के-चिद् धृष्टैर् अयस्-तुण्डैर् वायसैर् आयसैर् इव //
14.15 SK केचिद् दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः असि(पत्त्रवनं Cपत्रं वनं )नीलं बद्धा इव विशन्त्य् अमी //
2019 SK के-चिद् दाह-परिश्रान्ताः शीत-च्छाया-अभिकाङ्क्षिणः असि-(पत्त्र-वनं Cपत्रं वनं )नीलं बद्धा इव विशन्त्य् अमी //
14.16 SK पाट्यन्ते दारुवत् केचित् कुठारैर् (बद्धCबहु)बाहवः दुःखे ऽपि न (विपच्यन्ते Cविपद्यन्ते कर्मभिर् धारितासवः //
2021 SK पाट्यन्ते दारुवत् के-चित् कुठारैर् (बद्ध-Cबहु-)बाहवः दुःखे ऽपि न (विपच्यन्ते Cविपद्यन्ते कर्मभिर् धारित-असवः //
14.17 SK सुखं स्याद् इति यत् कर्म कृतं दुःखनिवृत्तये फलं तस्येदम् अवशैर् दुःखम् एवोपभुज्यते //
2023 SK सुखं स्याद् इति यत् कर्म कृतं दुःख-निवृत्तये फलं तस्य इदम् अ-वशैर् दुःखम् एव उपभुज्यते //
14.18 SK सुखार्थम् अशुभं कृत्वा यए एते भृशदुःखिताः आस्वादः स किम् एतेषां करोति सुखम् अण्व् अपि //
2025 SK सुख-अर्थम् अ-शुभं कृत्वा यए एते भृश-दुःखिताः आस्वादः स किम् एतेषां करोति सुखम् अण्व् अपि //
14.19 SK हसद्भिर् यत् कृतं कर्म कलुषं कलुषात्मभिः एतत् परिणते काले क्रोशद्भिर् अनुभूयते //
2027 SK हसद्भिर् यत् कृतं कर्म कलुषं कलुष-आत्मभिः एतत् परिणते काले क्रोशद्भिर् अनुभूयते //
14.20 SK यद्य् (एवं Cएव )पापकर्माणः पश्येयुः कर्मणां फलम् वमेयुर् (उष्णं रुधिरं Cउष्णरुधिरं मर्मस्व् अभिहता इव //
2029 SK यद्य् (एवं Cएव )पाप-कर्माणः पश्येयुः कर्मणां फलम् वमेयुर् (उष्णं रुधिरं Cउष्ण-रुधिरं मर्मस्व् अभिहता इव //
BC_14.x20 SK X(Cशारीरेभ्यो ऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः Xअनार्यैः सह संवासो मम कृच्छ्रमतमो मतः //
14.21 SK इमे ऽन्ये कर्मभिश् चित्रैश् चित्तविस्पन्दसंभवैः तिर्यग्योनौ विचित्रायाम् उपपन्नास् तपस्विनः //
2032 SK इमे ऽन्ये कर्मभिश् चित्रैश् चित्त-विस्पन्द-संभवैः तिर्यग्-योनौ विचित्रायाम् उपपन्नास् तपस्विनः //
14.22 SK मांसत्वग्बालदन्तार्थं वैराद् अपि मदाद् अपि हन्यन्ते (कृपणं Cकृपणा )यत्र बन्धूनां पश्यताम् अपि //
2034 SK मांस-त्वग्-बाल-दन्त-अर्थं वैराद् अपि मदाद् अपि हन्यन्ते (कृपणं Cकृपणा )यत्र बन्धूनां पश्यताम् अपि //
14.23 SK अशक्नुवन्तो ऽप्य् अवशाः क्षुत्तर्षश्रमपीडिताः गोअश्वभूताश् च वाह्यन्ते प्रतोदक्षतमूर्तयः //
2036 SK अ-शक्नुवन्तो ऽप्य् अ-वशाः क्षुत्-तर्ष-श्रम-पीडिताः गो-अश्व-भूताश् च वाह्यन्ते प्रतोद-क्षत-मूर्तयः //
14.24 SK वाह्यन्ते गजभूताश् च बलीयांसो ऽपि दुर्बलैः अङ्कुशक्लिष्टमूर्धानस् ताडिताः पादपार्ष्णिभिः //
2038 SK वाह्यन्ते गज-भूताश् च बलीयांसो ऽपि दुर्-बलैः अङ्कुश-क्लिष्ट-मूर्धानस् ताडिताः पाद-पार्ष्णिभिः //
14.25 SK सत्स्व् अप्य् अन्येषु दुःखेषु दुःखं यत्र विशेषतः परस्परविरोधाच् च पराधीनतयैव च //
2040 SK सत्स्व् अप्य् अन्येषु दुःखेषु दुःखं यत्र विशेषतः परस्-पर-विरोधाच् च पराधीनतय ऐव च //
14.26 SK खस्थाः खस्थैर् हि बाध्यन्ते जलस्था जलचारिभिः स्थलस्थाः स्थलसंस्थैश् (च $ प्राप्य चैवेतरेतरैः Cतु प्राप्यन्ते चेतरेतरैः ) //
2042 SK ख-स्थाः ख-स्थैर् हि बाध्यन्ते जल-स्था जल-चारिभिः स्थल-स्थाः स्थल-संस्थैश् (च $ प्राप्य च एव इतर-इतरैः Cतु प्राप्यन्ते च इतर-इतरैः ) //
14.27 SK उपपन्नास् तथा चेमे मात्सर्याक्रान्तचेतसः पितृलोके निरालोके कृपणं भुञ्जते फलम् //
2044 SK उपपन्नास् तथा च इमे मात्सर्य-आक्रान्त-चेतसः पितृ-लोके निर्-आलोके कृपणं भुञ्जते फलम् //
14.28 SK सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः क्षुत्तर्षजनितैर् दुःखैः पीड्यन्ते दुःखभागिनः //
2046 SK सूची-छिद्र-उपम-मुखाः पर्वत-उपम-कुक्षयः क्षुत्-तर्ष-जनितैर् दुःखैः पीड्यन्ते दुःख-भागिनः //
14.29 SK आशया (समतिक्रान्ता Cसमभिक्रान्ता धार्यमाणाः स्वकर्मभिः लभन्ते न ह्य् अमी भोक्तुं प्रविद्धान्य् अशुचीन्य् अपि [Tहिस् वेर्से इस् प्लचेद् अfतेर् १४.३० इन् एद्. C.] //
2048 SK आशया (समतिक्रान्ता Cसमभिक्रान्ता धार्यमाणाः स्व-कर्मभिः लभन्ते न ह्य् अमी भोक्तुं प्रविद्धान्य् अ-शुचीन्य् अपि [Tहिस् वेर्से इस् प्लचेद् अfतेर् १४.३० इन् एद्. C.] //
14.30 SK पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् सर्वथा (शिबिवद् Cशिविवद् )दद्याच् छरीरावयवान् अपि //
2050 SK पुरुषो यदि जानीत मात्सर्यस्या इ-दृशं फलम् सर्वथा (शिबिवद् Cशिविवद् )दद्याच् छरीर-अवयवान् अपि //
14.31 SK इमे ऽन्ये (नरकप्रख्ये Cनरकं प्राप्य गर्भसंज्ञे ऽशुचिह्रदे उपपन्ना मनुष्येषु दुःखम् अर्छन्ति जन्तवः //
2052 SK इमे ऽन्ये (नरक-प्रख्ये Cनरकं प्राप्य गर्भ-संज्ञे ऽशुचि-ह्रदे उपपन्ना मनुष्येषु दुःखम् अर्छन्ति जन्तवः //
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Aśvaghoṣa: Buddhacarita (sa_azvaghoSa-buddhacarita.htm).
Source