अथापि स्यात्- माध्यमिकानां पक्षहेतुदृष्टान्तानामसिद्धेः स्वतन्त्रानुमानानभिधायित्वात् स्वत उत्पत्तिप्रतिषेधप्रतिज्ञातार्थसाधनं मा भूदुभयसिद्धेन वानुमानेन परप्रतिज्ञानिराकरणम् | परप्रतिज्ञायास्तु स्वत एवानुमानविरोधचोदनया स्वत एव पक्षहेतुदृष्टान्तदोषरहितैः पक्षादिभिर्भवितव्यम् | ततश्च तदनभिधानात् तद्दोषापरिहाराच्च स एव दोष इति | उच्यते | नैतदेवम् | किं कारणम्? यस्माद् यो हि यमर्थं प्रतिजानीते, तेन स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया यया उपपत्त्या असावर्थो ऽधिगतः सैवोपपत्तिः परस्मै उपदेष्टव्या | तस्मादेष तावन्न्यायः- यत्परेणैव स्वाभ्युपगतप्रतिज्ञातार्थसाधनमुपादेयम् | न चायं (चानेन?) परं प्रति | हेतुदृष्टान्तासंभवात् प्रतिज्ञानुसारतयैव केवलं स्वप्रतिज्ञातार्थसाधनमुपादत्त इति निरुपपत्तिकपक्षाभ्युपगमात् स्वात्मानमेवायं केवलं विसंवादयन् न शक्नोति परेषां निश्चयमाधातुमिति | इदमेवास्य स्पष्टतरं दूषणं यदुत स्वप्रतिज्ञातार्थसाधनासामर्थ्यमिति किमत्रानुमानबाधोद्भावनया प्रयोजनम्? अथाप्यवश्यं स्वतो ऽनुमानविरोधदोष उद्भावनीयः, सो ऽप्युद्भावित एवाचार्यबुद्धपालितेन | कथमिति चेत्, न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैयर्थ्यादिति वचनात्, अत्र हि तदित्यनेन स्वात्मना विद्यमानस्य परामर्शः | कस्मादिति चेत्, तथा हि तस्य संग्रहेणोक्तवाक्यस्यैतद्विवरणवाक्यम्, न हि स्वात्मना विद्यमानानां पुनरुत्पादे प्रयोजनमिति | अनेन च वाक्येन साध्यसाधनधर्मानुगतस्य परप्रसिद्धस्य साधर्म्यदृष्टान्तस्योपादानम् | तत्र स्वात्मना विद्यमानस्येत्यनेन हेतुपरामर्शः | उत्पादवयर्थ्यादित्यनेन साध्यधर्मपरामर्शः || तत्र यथा- अनित्यः शब्दः कृतकत्वात् | कृतकत्वमनित्यं (Pप्_७) दृष्टं यथा घटः | तथा च कृतकः शब्दः | तस्मात्कृतकत्वादनित्य इति कृतकत्वमत्र उपनयाभिव्यक्तो हेतुः | एवमिहापि- न स्वत उत्पद्यन्ते भावाः, स्वात्मना विद्यमानानां पुनरुत्पादवैयर्थ्यात् | इह हि स्वात्मना विद्यमानं पुरो ऽवस्थितं घटादिकं पुनरुत्पादानपेक्षं दृष्टम्, तथा च मृत्पिण्डाद्यवस्थायामपि यदि स्वात्मना विद्यमानं घटादिकमिति मन्यसे, तदापि तस्य स्वात्मना विद्यमानस्य नास्त्युत्पाद इति | एवं स्वात्मना विद्यमानत्वेन उपनयाभिव्यक्तेन पुनरुत्पादप्रतिषेधाव्यभिचारिणा हेतुना स्वत एव सांख्यस्यानुमानविरोधोद्भावनमनुष्ठितमेवेति | तत्किमुच्यते तदयुक्तं हेतुदृष्टान्तानभिधानादिति?
SK
न च केवलं हेतुदृष्टान्तानभिधानं न संभवति, परोक्तदोषापरिहारदोषो न संभवति | कथं कृत्वा? सांख्या हि नैव अभिव्यक्तरूपस्य पुरो ऽवस्थितस्य घटस्य पुनरभिव्यक्तिमिच्छन्ति | तस्यैव च इह दृष्टान्तत्वेनोपादानम्, सिद्धरूपत्वात् | अनभिव्यक्तरूपस्य च शक्तिरूपापन्नस्य उत्पत्तिप्रतिषेधविशिष्टसाध्यत्वात् कुतः सिद्धसाधनपक्षदोषाशङ्का, कुतो वा हेतोर्विरुद्धार्थताशङ्केति | तस्मात्स्वतो ऽनुमानविरोधचोदनायामपि यथोपवर्णितदोषाभावात्परोक्तदोषापरिहारासंभव एव | इत्यसंबद्धमेवैतद्दूषणमिति विज्ञेयम् ||
यद्यपि च अभिव्यक्तिवादिन उत्पादप्रतिषेधो न बाधकः, तथापि अभिव्यक्तावुत्पादशब्दं निपात्य पूर्वं पश्चाच्च अनुपलब्ध्युपलब्धिसाधर्म्येण उत्पादशब्देनाभिव्यक्तेरेवाभिधानादयं प्रतिषेधो न अबाधकः ||
तद्यथा मञ्जुश्रीः काण्डं च प्रतीत्य मथनीं च प्रतीत्य पुरुषस्य हस्तव्यायामं च प्रतीत्य धूमः प्रादुर्भवतीति अग्निरभिनिर्वर्तते | स चाग्निसंतापो न काण्डसंनिश्रितो न मथनीसंनिश्रितो न पुरुषहस्तव्यायामसंनिश्रितः | एवमेव मञ्जुश्रीः असद्विपर्यासमोहितस्य पुरुषपुद्गलस्य उत्पद्यते रागपरिदाहो द्वेषपरिदाहो मोहपरिदाहः | स च परिदाहो नाध्यात्मं न बहिर्धा नोभयमन्तरेण स्थितः ||
चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् | तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः
SK
तत्र निर्वर्तको हेतुरिति लक्षणात्, यो हि यस्य निर्वर्तको बीजभावेनावस्थितः, स तस्य हेतु प्रत्ययः | उत्पद्यमानो धर्मो येनालम्बनेनोत्पद्यते, स तस्यालम्बनप्रत्ययः | कारणस्यानन्तरो निरोधः कार्यस्योत्पत्तिप्रत्ययः, तद्यथा बीजस्यानन्तरो निरोधो ऽङ्कुरस्योत्पादप्रत्ययः | यस्मिन् सति यद्भवति तत्तस्याधिपतेयमिति | त एते चत्वारः प्रत्ययाः | ये चान्ये पुरोजातसहजातपश्चाज्जातादयः, ते एतेष्वेव अन्तर्भूताः | ईश्वरादयस्तु प्रत्यया एव न संभवन्तीति, अत एवावधारयति- प्रत्ययो नास्ति पञ्चम इति | तस्मादेभ्यः परभूतेभ्यो भावानामुत्पत्तिरस्ति परत उत्पत्तिरिति
SK
अत्रोच्यते- नैव हि भावानां परभूतेभ्यः प्रत्ययेभ्य उत्पत्तिरिति | यस्मात्-
SK
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते | अविद्यमाने स्वभावे परभावो न विद्यते
SK
इति | यदि हि हेत्वादिषु परभुतेषु प्रत्ययेषु समस्तेषु व्यस्तेषु व्यस्तसमस्तेषु हेतुप्रत्यय सामग्या अन्यत्र वा क्वचिद् भावानां कार्याणामुत्पादात्पूर्वं सत्त्वं स्यात्, स्यात्तेभ्य उत्पादः | न चैवं यदुत्पादात्पूर्वं संभवः स्यात् | यदि स्यात्, गृह्येत च, उत्पादवैयर्थ्यं च स्यात् | तस्मान्नं चास्ति भावानां प्रत्ययादिषु स्वभावः | अविद्यमाने च स्वभावे नास्ति परभावः | भवनं भाव उत्पादः, परेभ्य उत्पादः परभावः, स न विद्यते | तस्मादयुक्तमेतत् परभूतेभ्यो भावाना मुत्पत्तिरिति ||
SK
अथवा भावानां कार्याणामङ्कुरादीनां वीजादिषु प्रत्ययेषु सत्स्वविकृतरूपेषु नास्ति स्वभावो निर्हेतुकत्वप्रसङ्गात् ||
SK
तत्किमपेक्षं परत्वं प्रत्ययादीनाम्? विद्यमानयोरेव हि मैत्रोपग्राहकयोः परस्परापेक्षं परत्वम्? न चैवं बीजाङ्कुरयोर्यौगपद्यम् | तस्मादविद्यमाने स्वभावे कार्याणां परभावः परत्वं बीजादीनां नास्तीति परव्यपदेशाभावादेव न परत उत्पाद इति | तस्मादागमाभिप्रायानभिज्ञतैव परस्य | न हि तथागता युक्तिविरुद्धं वाक्यमुदाहरन्ति | आगमस्य चाभिप्रायः प्रागेवोपवर्णितः
SK
तदेवं प्रत्ययेभ्य उत्पादवादिनि प्रतिषिद्धे क्रियात उत्पादवादी मन्यते- न चक्षूरूपादयः प्रत्ययाः साक्षाद्विज्ञानं जनयन्ति | विज्ञानजनिक्रियानिष्पादकत्वात्तु प्रत्यया उच्यन्ते | सा च क्रिया विज्ञानं जनयति | तस्मात्प्रत्ययवती विज्ञानजनिक्रिया विज्ञानजनिका, न प्रत्ययाः | यथा पचिक्रिया ओदनस्येति | उच्यते-
SK
क्रिया न प्रत्ययवती
SK
यदि क्रिया काचित् स्यात्, सा चक्षुरादिभिः प्रत्ययैः प्रत्ययवती विज्ञानं जनयेत् | न (Pप्_२७) त्वस्ति | कथं कृत्वा? इह क्रियेयमिष्यमाणा जाते वा विज्ञाने इष्यते, अजाते वा जायमाने वा? तत्र जाते न युक्ता | क्रिया हि भावनिष्पादिका | भावश्चेन्निष्पन्नः, किमस्य क्रियया?
SK
जातस्य जन्म पुनरेव च नैव युक्तम् |
SK
इत्यादिना च मध्यमकावतारे प्रतिपादितमेतत् | अजाते ऽपि न युक्ता,
SK
कर्त्रा विना जनिरियं न च युक्तरूपा |
SK
इत्यादिवचनात् | जायमाने ऽपि भावे क्रिया न संभवति, जाताजातव्यतिरेकेण जायमानाभावात् | यथोक्तम्-
SK
जायमानार्थजातत्वाज्जायमानो न जायते | अथ वा जायमानत्वं सर्वस्यैव प्रसज्यते || इति | यतश्चैवं त्रिषु कालेषु जनिक्रियाया असंभवः, तस्मान्नास्ति सा | अत एवाह- क्रिया न प्रत्ययवती इति |
SK
विशेषणं नास्ति विना विशेषम् |
SK
इत्यादिना प्रतिपादितमेतन्मध्यमकावतारे | न हि वन्ध्यापुत्रो गोमानित्युच्यते ||
SK
यद्येवम्, अप्रत्ययवती तर्हि भविष्यतीति, एतदप्ययुक्तमित्याह- नाप्रत्ययवती क्रिया |
SK
यदा प्रत्ययवती नास्ति, तदा कथमप्रत्ययवती निर्हेतुका स्यात्? न हि तन्तुमयः पटो न युक्त इति वीरणमयो ऽभ्युपगम्यते | तस्मात्क्रिया न भावजनिका ||
शून्यविद्य न हि विद्यते क्वचि अन्तरीक्षि शकुनस्य वा पदम् | यो न विद्यति सभावतः क्वचि सो न जातु परहेतु भेष्यति ||
SK
यस्य नैव हि सभावु लभ्यति सो ऽस्वभावु परपच्चयः कथम् | अस्वभावु परु किं जनीष्यति एष हेतु सुगतेन देशितः ||
SK
सर्व धर्म अचला दृढं स्थिता निर्विकार निरुपद्रवाः शिवाः | अन्तरीक्षपथतुल्य ऽजानका तत्र मुह्यति जगं अजानकम् ||
SK
शैलपर्वत यथा अकम्पिया एवं धर्म अविकम्पियाः सदा | नो च्यवति न पि चोपपद्ययु एवं धर्मत जिनेन देशिता || इत्यादि |
SK
तथा-
SK
यो न पि जायति ना चुपपद्यी नो च्यवते न पि जीर्यति धर्मः | तं जिनु देशयती नरसिंहः तत्र निवेशयि सत्त्वशतानि | यस्य सभावु न विद्यति कश्चि नो परभावतु केनचि लब्धः | नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ||
SK
शान्त गती कथिता सुगतेन नो च गति उपलभ्यति काचि | तत्र च वोहरसी गतिमुक्तो मुक्तकु मोचयमी बहुसत्त्वान् || इति विस्तरः
SK
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ||
SK
गतागतपरीक्षा द्वितीयं प्रकरणम् |
SK
अत्राह- यद्यपि उत्पादप्रतिषेधात्प्रतीत्यसमुत्पादस्य अनिरोधादिविशेषणसिद्धिः, तथापि अनागमनिर्गमप्रतीत्यसमुत्पादसिद्धये लोकप्रसिद्धगमनागमनक्रियाप्रतिषेधार्थं किंचिदुपपत्त्यन्तरमुच्यतामिति | उच्यते | यदि गमनं नाम स्यान्नियतं तद्गते वा अध्वजाते परिकल्प्येत अगते गम्यमाने वा | सर्वथा च न युज्यते इत्याह-
SK
गतं न गम्यते तावदगतं नैव गम्यते | गतागतविनिर्मुक्तं गम्यमानं न गम्यते
अगतमपि न गम्यते | अगतं हि अनुपजातगमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम् | अतो ऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते | यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति ||
SK
गम्यमाने ऽपि नास्ति गमनम्, यस्मात्-
SK
गतागतविनिर्मुक्तं गम्यमानं न गम्यते |
SK
इह हि गन्ता यं देशमतिक्रान्तः स तस्य देशो गतः, यं च नातिक्रान्तः सो ऽस्यानागतः | न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम | यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम् | अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमाने ऽपि गमनम् ||
SK
अथ स्यात्- गन्तुर्गच्छतो यश्चरणाक्रान्तो देशः, स गम्यमानः स्यादिति | नैवम्, चरणयोरपि परमाणुसांघातत्वात् | अङ्गुल्यग्रावस्थितस्य परमाणोर्यः पूर्वो देशः, स तस्य गते ऽन्तर्गतः | पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देशः, स तस्य अगते ऽन्तर्गतः | न च परमाणुव्यतिरेकेण चरणमस्ति | तस्मान्नास्ति गतागतव्यतिरेकेण गम्यमानम् | यथा चैवं चरणे विचारः, एवं परमाणूनामपि पूर्वापरदिग्भागसंबन्धेन विचारः कार्य इति | अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण | तस्माद्गम्यमानं न गम्यते इति सिद्धम्
SK
तत्राह- गम्यत एव गम्यमानम् | इह हि-
SK
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः | न गते नागते चेष्टा गम्यमाने गतिस्ततः
अत्राह- विद्यत एव गमनम्, तद्वतस्तेन व्यपदेशात् | इह गन्ता गमनेन युक्तः, तद्योगाच्च गच्छति | यदि गमनं न स्यात्, गमनवतो देवदत्तस्य गच्छतीति व्यपदेशो न स्यात्, दण्डाभावे दण्डिव्यपदेशाभाववत् | उच्यते | स्याद्गमनम्, यदि गच्छतीत्येवं व्यपदेशः स्यात् | यस्मात्-
SK
गन्ता न गच्छति तावदगन्ता नैव गच्छति | अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति
SK
इह गच्छतीति गन्ता, स तावन्न गच्छति, यथा च न गच्छति तथोत्तरेण श्लोकत्रयेण प्रतिपादयिष्यति | अगन्तापि न गच्छति | अगन्ता हि नाम यो गमिक्रियारहितः | गच्छतीति च गमिक्रियायोगप्रवृत्तः शब्दः | यद्यसावगन्ता, कथं गच्छति? अथ गच्छति, नासौ अगन्ता इति | तदुभयव्यतिरिक्तो गच्छतीति चेन्नैवम् | को हि गन्तुरगन्तुर्विनिर्मुक्तस्तृतीयो ऽस्ति यो गच्छतीति कल्प्येत? तस्मान्नास्ति गमनम्
अत्राह- विद्यत एव गमनम्, तदारम्भसद्भावात् | इह देवदत्तः स्थित्युपमर्देन गमनमारभते | न च अविद्यमानकूर्मरोमप्रावारादिकमारभते | उच्यते | स्याद्गमनं यदि तदारम्मे एव स्यात् | यस्मात्- गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते | नारभ्यते गम्यमाने गन्तुमारभ्यते कुह
SK
यदि गमनारम्भो भवेत्, तद् गते वाध्वन्यारम्येत, अगते वा गम्यमाने वा | तत्र गते गमनं नारभ्यते, तद्धि नाम उपरतगमिक्रियम् | यदि तत्र गमनमारभ्येत, तद् गतमित्येवं न स्याद् अतीतवर्तमानयोर्विरोधात् | अगते ऽपि गमनं नारभ्यते, अनागतवर्तमानयोर्विरोधात् | नापि गम्यमाने, तदभावात् क्रियाद्वयप्रसङ्गात् कर्तृद्वयप्रसङ्गाच्च | तदेवं सर्वत्र गमनारम्भमपश्यन्नाह- गन्तुमारभ्यते कुहेति
SK
यथा च गमनं न संभवति तथा प्रतिपादयन्नाह-
SK
न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् | यत्रारभ्येत गमनमगते गमनं कुतः
SK
इह देवदत्तो यदावस्थित आस्ते, स तदा गमनं नारभते | तस्य गमनारम्भात्पूर्वं न गम्यमानमध्वजातमस्ति, न च गतं यत्र गमनमारभ्येत | तस्माद् गतगम्यमानाभावादेनयोर्न गमनारम्भः ||
SK
अथ स्यात्- यद्यपि गमनारम्भात्पूर्वं न गतं न गम्यमानं तथाप्यगतमस्ति, तत्र गमनारम्भः स्यादिति | उच्यते | अगते गमनं कुतः | अनुपजातगमिक्रियमनारब्धगमिक्रियमगतम् | तत्र गमनारम्भ इत्यसंबद्धमेतदित्याह- अगते गमनं कुतः इति
अपि च | यदि गमनं स्यात्, गन्तृव्यतिरेकेण वा स्यादव्यतिरेकेण वा? सर्वथा च विचार्यमाणं न संभवतीत्याह-
SK
यदेव गमनं गन्ता स एवेति न युज्यते | अन्य एव पुनर्गन्ता गतेरिति न युज्यते
SK
कथं पुनर्न युज्यत इत्याह-
SK
यदेव गमनं गन्ता स एव हि भवेद्यदि | एकीभावः प्रसज्येत कर्तुः कर्मण एव च
SK
येयं गमिक्रिया, सा यदि गन्तुरव्यतिरिक्ता नान्या स्यात्, तदा कर्तुः क्रियायाश्चैकत्वं स्यात् | ततश्च इयं क्रिया, अयं कर्ता, इति विशेषो न स्यात् | न च छिदिक्रियायाः छेत्तुश्च एकत्वम् | अतो यदेव गमनं स एव गन्तेति न युज्यते
SK
अन्यत्रमपि गन्तृगमनयोर्यथा नास्ति तथा प्रतिपादयन्नाह-
SK
अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते | गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते
SK
यदि हि गन्तृगमनयोरन्यत्वं स्यात्, तदा गमननिरपेक्षो गन्ता स्यात्, गन्तृनिरपेक्षं च गमनं गृह्येत पृथक् सिद्धं घटादिव पटः | न च गन्तुः पृथक्सिद्धं गमनं गृह्यत इति | अन्य एव पुनर्गन्ता गतेरिति न युज्यते इति प्रसाधितमेतत्
SK
तदेवम्-
SK
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः | न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते
SK
ययोर्गन्तृगमनयोर्यथोदितन्यायेन एकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तयोरिदानीं केनान्येन प्रकारेण सिद्धिरस्तु? अत आह- तयोः सिद्धिः कथं नु खलु विद्यत इति | नास्ति गन्तृगमनयोः सिद्धिरित्यभिप्रायः
तस्मात्सन्ति दर्शनादीनि स्वभावत इति | उच्यते | न सन्ति | इह हि पश्यतीति दर्शनं चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते
SK
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह-
SK
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति | न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान्
SK
तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् | ततश्च स्वात्मादर्शनाच्छ्रोत्रादिवन्नीलादिकं न पश्यति | तस्मान्नास्ति दर्शनम्
SK
यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाष्यग्निवत् परान् द्रक्ष्यति | तथा हि अग्निःपरात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति | एतदत्ययुक्तम् | यस्मात्-
SK
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये |
SK
यो ऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न युज्यत इत्यर्थः | यस्मात्-
SK
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः
SK
सह दर्शनेन वर्तत इति सदर्शनः | यो ऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सो ऽपि सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः | केन पुनरित्याह- गम्यमानगतागतैः | यथा गतं न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं वाच्यम् | यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्-
SK
न दृष्टं दृश्यते तावददृष्टं नैव दृश्यते | दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ||
SK
इत्यादि वाच्यम्
SK
यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं न दग्धा दहति तावदित्यादि वाच्यम् | एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतो ऽग्निवद् (Pप्_४४) दर्शनसिद्धिरिति न युज्यते | ततश्च सिद्धमेतत्- स्वात्मवद् दर्शनं परानपि न पश्यतीति
अत्राह- विद्यत एव द्रष्टा तत्कर्मकरणसद्भावात् | इह यन्नास्ति इति, न तस्य कर्मकरणे विद्येते तद्यथा वन्ध्यासूनोः | अस्ति च द्रष्टुः करणं दर्शनं द्रष्टव्यं च कर्म | तस्माच्छेत्तृवद्विद्यमानकर्मकरणो विद्यत एव द्रष्टेति | उच्यते | नैव हि द्रष्टव्यदर्शने विद्येते, तत्कुतो द्रष्टा स्यात्? द्रष्टुसापेक्षे हि द्रष्टव्यदर्शने | स च निरूत्त्यमाणः-
SK
तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् |
SK
इह द्रष्टा नाम यदि कश्चित्स्यात्, स दर्शनसापेक्षो वा स्यान्निरपेक्षो वा | तत्र यदि दर्शनसापेक्षो ऽतिरस्कृत्य दर्शनमिष्यते, तदा सिद्धस्य वा दर्शनापेक्षा स्यादसिद्धस्य वा | तत्र सिद्धो द्रष्टा न हि दर्शनमपेक्षते | किं सिद्धस्य सतो द्रष्टुः पुनर्दर्शनापेक् षा कुर्यात्? न हि सिद्धं पुनरपि साध्यत इति | अथासिद्धो ऽपेक्षेत, असिद्धत्वाद्वन्ध्यासुतवद्दर्शनं नापेक्षते | एवं तावदतिरस्कृत्य दर्शनमपेक्ष्य द्रष्टा नास्ति | तिरस्कृत्यापि, दर्शननिरपेक्षत्वात् इत्युक्तं प्राक् | तदेवं तिरस्कृत्यातिरस्कृत्य वा दर्शनं यदा द्रष्टा नास्ति, तदा-
SK
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः
SK
द्रष्टर्यसति निर्हेतुके द्रष्टव्यदर्शने न संभवतः इति कुतस्तत्सद्भावाद् द्रष्टा प्रसेत्स्यति?
अथ स्यात्- यद्यपि एवं रूपकारणं न संभवति, तथापि कार्यं रूपं संविद्यते, सद्भावात् कारणमपि भविष्यतीति | स्यादेवम्, यदि कार्यं रूपं स्यात् | न त्वस्ति | य्स्मात्-
काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजातः शक्नुयादपरमजातमुत्पादयितुम् | उत्पद्यमानो हि नाम अनागतः | स च अजातः कथमुत्पादयिष्यतीति न युक्तमेवैतदित्यभिप्रायः एवमुत्पादोत्पादे ऽपि वाच्यम्
यो हि पदार्थो विद्यमानः स सस्वभावः स्वेनात्मना स्वं स्वभावमनपायिनं बिमर्ति | स संविद्यमानत्वान्नैवान्यत्किंचिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा सस्वभावभावाभ्युपगमे सति कुतः प्रतीत्यसमुत्पाद इति भवतेव सस्वभावतां भावानामभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव बाधितो भवति | ततश्च परमधर्मबुद्धदर्शनमपि बाधितं भवति- यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति, यो धर्मं पश्यति स बुद्धं पश्यतीत्यागमात् | मया तु यत्प्रतीत्य बीजाख्यं कारणं यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति | यत एवम्-
SK
तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च
SK
इति स्फुटमवसीयताम्
SK
अत्राह- यदुक्तम्-
SK
उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा | कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ||
SK
इति, तदयुक्तम् | यस्मादिदमुत्पद्यमानमित्येव संभवति | तथा हि घटोत्पत्तिं प्रतीत्य घट उत्पद्यमानो भवति, तं च उत्पद्यमानमुत्पाद उत्पादयतीत्युच्यते | एतदप्ययुक्तम् | यस्मात्-
SK
यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् | उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति
SK
यदि कश्चिदनुत्पन्नः उत्पादात्पूर्वं घटो नाम क्वचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पद्येत न चैवं कश्चिदुत्पादात्पूर्वं क्वचिदस्ति | तस्मिन्नसति घटे किमुत्पद्यते?
SK
अथ स्यात्- यद्युत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्नः सन् घटसंज्ञां प्रतिलप्स्यते, तद्भाविन्या संज्ञया न दोष इति | एतदप्ययुक्तम् | यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानीभूतो भावो घटाख्यां प्रतिलभेत | यदा तु अनागतभावासंबन्धेन क्रियाया अप्रवृत्तिः, तदा कुतो वर्तमानता? अथ अघटाश्रयेण क्रिया प्रारभ्येत, तद्वक्तव्यम्- यो ऽसौ अघटः, स किं भवितुर्महति पटः, उत नैव किंचित्? यदि पट उत्पद्यमानः स कथमुत्पन्नः सन् घटो भविष्यतीति अथ नैवं किंचित्, कथं तदाश्रया क्रिया क्रिया प्रवर्तते? कथं वा स उत्पन्नः सन् घटो भवेत्? इति सर्वथा भावितत्वकल्पनाप्ययुक्ता | तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतिति सिद्धम्
SK
अपि च | एवं न युज्यमानायामप्युत्पद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते-
SK
उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् | उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः
तद्यथा गोरन्यो ऽश्वः न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्यः श्रोता स्यात्, सद्रष्टर्यपि सति स्याद्यौगपद्येन | न चैवमिष्यते इति नास्त्यन्यत्वम् | अपि च | एवं सति बहव एवात्मानः प्राप्नुवन्ति द्रष्ट्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात् | तस्मादेकैकस्मादपि दर्शनादेः पूर्वं नास्ति पुद्गलो नाम कश्चित्
अपि च | अन्यत्वाभ्युपगमे ऽग्नीन्धनयोरिध्यमानव्यपदेशाभावात्कुत इध्यमानमिन्धनम्, कुतो वा इन्धनमग्निर्धक्ष्यतीति प्रतिपादयन्नाह-
SK
अन्यो न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनः | न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान्
SK
यदि इन्धनादन्यो ऽग्निः स्यात्, सो ऽन्यत्वादन्धकारमिवेन्धनं न प्राप्नुयात् | न च धक्ष्यति अप्राप्तत्वाद्विप्रकृष्टदेशावस्थितमिवेत्यभिप्रायः | एवं च इध्यमानमिन्धनं भवतीति नोपपन्नमेव | ततश्च अग्नेर्निर्वाणं न स्यात् | अनिर्वाणश्च स्वलिङ्गवानेव स्थास्यति, प्रदीप्त इत्यर्थः | वाशब्दो ऽवधारणे द्रष्टव्यो विकल्पार्थो वा | स्वलिङ्गवानेव अग्निः स्थास्यति, यदि वा नास्त्यन्यत्वमग्नेरिन्धनादिति | समुच्चये वा | अन्यो न प्राप्स्यति न धक्ष्यति न च निर्वास्यति स्वलिङ्गवांश्च स्थास्यति | तस्मादयुक्तमिन्धनादन्यत्वमग्नेः
SK
अत्राह- अयुक्तमग्नीन्धनयोरन्यत्वम्, यस्मान्न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनरित्यादि, तदयुक्तम् | दृष्टा हि अन्यत्वे स्त्रीपुरुषयोः प्राप्तिः, एवमग्नीन्धनयोरपि भविष्यतीति | उच्यते-
SK
अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि | स्त्री संप्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा
SK
स्यादेतदेवम्, यदि स्त्रीपुरुषवत्परस्परानपेक्षा अग्नीन्धनयोः सिद्धिः स्यात्
SK
न त्वस्तीत्याह-
SK
अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् | अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते
SK
न त्वेवं संभवति यदिन्धननिरपेक्षो ऽग्निः स्यात्, अग्निनिरपेक्षं चेन्धनमिति | तस्माद् दृष्टान्तवैयर्थ्यम् | अन्योन्यापेक्षाधीनजन्मनां सत्यन्यत्वे येषां प्राप्तिः सिद्धा, तेषामेव दृष्टान्तत्वेनोपादानं न्याय्यं स्यात् | ते च न संभवन्तीति न युक्तमेतदन्यत्वे सति प्राप्तिरस्तीति
SK
अत्राह- यद्यपि अग्नीन्धनयोः स्त्रीपुरुषवत्परस्परनिरपेक्षा सिद्धिर्नास्ति, तथापि परस्परापेक्षा तावदस्ति | ततश्च अस्त्येवाग्नीन्धनयोः स्वरूपसिद्धिः परस्परसापेक्षत्वात् | न हि अविद्यमानयोर्वन्ध्यापुत्रदुहित्रोः परस्परापेक्षता दृष्टेति | उच्यते | एवमपि-
भविष्यति | यदि इन्धनमपेक्ष्याग्निर्भविष्यतीति परिकल्प्यते, एवं तर्हि सिद्धस्य सतो ऽग्नेः पुनरपि साधनं स्यात् | विद्यमानस्यैव पदार्थस्य सिद्धरूपस्यापेक्षा युज्यते | न हि अविद्यमानो देवदत्तो गृहे कंचिदपेक्षते | एवं यदि अग्निर्विद्यमानो न स्यात्, नासाविन्धनमपेक्षते | तस्मादस्तित्वमग्ने रम्भुपेयम् | तदा च किमस्य इन्धनस्यापेक्षया पुनः कर्तव्यम्? न हि सिद्धो ऽग्निः पुनरिन्धनेन (Pप्_८९) कर्तव्यो यदर्थमिन्धनापेक्षासाफल्यं स्यात् | तस्मादिन्धनमपेक्ष्याग्निर्भवतीति न युक्तम् |
SK
अपि च | यदि इन्धनमपेक्ष्याग्निर्भवतीति परिकल्प्यते-
SK
एवं सतीन्धनं चापि भविष्यति निरग्निकम्
SK
यदि इन्धनमसिद्धं स्यात्, नैव तदग्निना अपेक्ष्येत, असिद्धस्यापेक्षायोगात् | तस्मान्निरग्निकस्येन्धनस्य सिद्धिरभ्युपेया, न चैवमेतदिति न युक्तमेतदिति
न जरामरणेनैव जातिश्च सह युज्यते | म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः
SK
यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात् | न चैतद्युक्तम् | न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता | न चैवं लोके दृष्टं यज्जायमान एव म्रियते इति | अपि च | अहेतुकत्वं जात्यादीनां सहभावकल्पनायां स्यात् | न हि सहभूतयोः सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत्
SK
तदेवम्-
SK
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः | प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम्
यं च पभाषति धर्म जिनस्य तं च न पश्यति सो ऽक्षयताय | आदिनिरात्म निसत्त्विमि धर्मास्तांश्च च पभाषति नो च क्षपेति | कल्पित बुच्चति कल्पितमात्रं अन्तु न लभ्यति संसरमाणे | कोटि अलक्षण या पुरि आसीदेति अनागति प्रत्ययताये ||
SK
कर्म क्रिया च प्रवर्तति एवं हीनौत्कृष्टतया समुदेन्ति | जड्डक धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् ||
अत्राह- विद्यत एव आत्मा, तत्संबन्धिदुःखसद्भावात् | इह हि पञ्चोपादानस्कन्धा दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दुःखस्याश्रयः, स चात्मेति | उच्यते | स्यादात्मा यदि दुःखमेव स्यात् | तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा | सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह-
SK
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् | दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते
SK
तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः | अपरे पुनः परकृतम्, अन्ये च उभयकृतम्| केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः | सर्वथा च तद्दुःखमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति
SK
तत्प्रतिपादयन्नाह-
SK
स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् | स्कन्धानिमानमी स्कन्धाः संभवन्ति प्रतीत्य हि
विचार्यमाणानामन्यथात्वं विपरिणामदर्शनात् इत्यर्थः | एतदुक्तं भवति- यदि भावानां स्वभावो न स्यात्, तदानीं नैवैषामन्यथात्वमुपलभ्येत | उपलभ्यते च परिणामः | तस्मात्स्वभावानव स्थायित्वमेव सूत्रार्थ इति विज्ञेयम् ||
SK
इतश्चैतदेवम् | यस्मात्-
SK
अस्वभावो भावो नास्ति भावानां शून्यता यतः
SK
यो ह्यस्वभावो भावः, स नास्ति | भावानां च शून्यता धर्म इष्यते | न च असति धर्मिणि तदाश्रितो धर्म उपपद्यते | न हि असति वन्ध्यातनये तच्छयामतोपपद्यत इति | तस्मादस्त्येव भावानां स्वभाव इति
SK
अपि च-
SK
कस्य स्यादन्यथाभावः स्वभावश्चेन्न विद्यते |
SK
यदि भावानां स्वभावो न स्यात्, यो ऽयं विपरिणामलक्षणः अन्यथाभावः, स कस्य स्यादिति? अत्रोच्यते | एवमपि परिकल्प्यमाने
SK
कस्य स्यादन्यथाभावः स्वभावो यदि विद्यते
SK
इह यो धर्मो यं पदार्थं न व्यभिचरति, स तस्य स्वभाव इति व्यपदिश्यते, अपरप्रतिबद्धत्वात् | अग्नेरौष्ण्यं हि लोके तदव्यभिचारित्वात् स्वभाव इत्युच्यते | तदेव औष्ण्यमप्सूपलभ्यमानं परप्रत्ययसंभूतत्वात्कृत्रिमत्वान्न स्वभाव इति | यदा चैवमव्यभिचारिणा स्वभावेन भवितव्यम्, तदा अस्य अव्यभिचारित्वादन्यथाभावः स्यादभावः | न हि अग्निः शैत्यं प्रतिपद्यते | एवं भावानां सति स्वभावाभ्युपगमे ऽन्यथात्वमेव न संभवेत् | उपलभ्यते चैषामन्यथात्वम् | अतो नास्ति स्वभावः
SK
अपि च | अयमन्यथाभावो भावानां नैव संभवति, यद्दर्शनात्सस्वभावता स्यात् | यथा च न संभवति, तथा प्रतिपादयन्नाह-
SK
तस्यैव नान्यथाभावो नाप्यन्यस्यैव युज्यते | युवा न जीर्यते यस्माद्यस्माज्जीर्णो न जीर्यते
SK
तस्यैव तावत् प्राग्वत् प्रागवस्थायां वर्तमानस्य भावस्यान्यथात्वं नोपपद्यते | तथा हि यूनो युवावस्थायामेव वर्तमानस्य नास्ति अन्यथात्वम् | अथापि अवस्थान्तरप्राप्तस्यैव अन्यथात्वं परिकल्प्यते, तदपि नोपपद्यते | अन्यथात्वं नाम जरायाः पर्यायः | तद्यदि यूनो नेष्यते, अन्यस्यैव जीर्णस्य भवतीति, तदपि न युज्यते | यस्मान्न हि जीर्णस्य पुनर्जरया संबन्धः, निष्प्रयोजनत्वात् | किं हि जीर्णस्य पुनर्जरया संबन्धः कुर्यात्? तदागमनान्तरेण जीर्णताभावाज्जीर्णो जीर्यत इति न युज्यते | अथ यून एवान्यथाभावः, तदयुक्तम्, अप्राप्तजरावस्थस्य युवेति व्यपदेशात्, अवस्थाद्वयस्य च परस्परविरुद्धत्वात्
SK
अपि च |
SK
तस्य चेदन्यथाभावः क्षीरमेव भवेद्दधि |
SK
अथ स्यात्- क्षीरावस्थापरित्यागेन दध्यवस्था भवति, अतः न क्षीरमेव दधि भवतीति | उच्यते | यदि क्षीरं दधि भवतीति नेष्यते परस्परविरोधात्-
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते | यः सर्वभावेषु न जातु सज्जते स आनिमित्तं स्पृशते समाधिम् ||
SK
अत्राह- यद्यपि स्वभावो नास्ति भावानाम्, तथापि परभावस्तावदस्ति, तदप्रतिषेधात् सति च परभावे स्वभावो ऽपि भविष्यति | स्वभावमन्तरेण परभावाप्रसिद्धेरिति | उच्यते-
SK
कुतः स्वभावस्याभावे परभावो भविष्यति | स्वभावः परभावस्य परभावो हि कथ्यते
SK
इह स्वभाव एव हि लोके कश्चित्स्वभावान्तरापेक्षया पर इति व्यपदिश्यते | यदि हि अग्नेरौष्ण्यं स्वभावः स्यात्, द्रवस्वभावसलिलसापेक्षया परभाव इति व्यपदिश्येत | यदा तु मुमुक्षुभिर्विचार्यमाणस्य कस्यचित्स्वभाव एव नास्ति, तदा कुतः परत्वं स्यात्? परभावाच्च स्वभावो ऽपि नास्ति इति सिद्धम्
SK
अत्राह- यद्यपि स्वभावपरभावौ न स्तः, तथापि भावस्तावदस्ति, अप्रतिषेधात् | स च भावो भवन् स्वभावो वा भवेत्, परभावो वा | तस्मात्स्वभावपरभावावपि भविष्यत इति | उच्यते-
SK
स्वभावपरभावाभ्यामृते भावः कुतः पुनः | स्वभावे परभावे वा सति भावो हि सिध्यति
SK
भावो हि परिकल्प्यमानः स्वभावो वा भवेत्, परभावो वा | तौ च पूर्वोक्तविधिना न स्तः, इति तयोरभावाद्भावो ऽपि नास्तीत्यवधार्यताम्
SK
अत्राह- यद्यपि भवता भावः प्रतिषिद्धः, तथाप्यभावो ऽस्ति, प्रतिषेधाभावात् | ततश्च भावो ऽपि भविष्यति प्रतिद्वन्द्विसद्भावात्, अभाववदिति | उच्यते | स्याद्भावः, यदि अभाव एव स्यात् | न त्वस्तीत्याह-
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ स्वभावपरीक्षा नाम पञ्चदशमं प्रकरणम् ||
SK
१६ बन्धमोक्षपरीक्षा षोडशमं प्रकरणम् |
SK
अत्राह- विद्यत एव भावानां स्वभावः, संसारसद्भावात् | इह संसरणं संसृतिः गतेर्गत्यन्तरगमनं संसार इत्युच्यते | यदि भावानां स्वभावो न स्यात्, कस्य गतेर्गत्यन्तरगमनं संसारः स्यात्? न हि अविद्यमानानां वन्ध्यासूनुसंस्काराणां संसरणं दृष्टम् | तस्मात् संसारसद्भावात् विद्यत एव भावानां स्वभाव इति | उच्यते | स्याद्भावानां स्वभावः, यदि संसार एव भवेत् | न त्वस्ति | इह यदि संसारः स्यात्, स नियतं संस्काराणां वा भवेत् सत्त्वस्य वा? किं चातः? उभयथा च दोष इत्याह-
SK
संस्काराः संसरन्ति चेन्न नित्याः संसरन्ति ते | संसरन्ति च नानित्याः सत्त्वे ऽप्येष समः क्रमः
SK
तत्र यदि संस्काराः संसरन्तीति परिकल्प्यते, किं ते नित्याः संसरन्ति उत अनित्याः? तत्र न नित्याः संसरन्ति निष्क्रियत्वात्, अनित्यानां च घटादीनां सक्रियत्वोपलम्भात् | अथ अनित्याः, ये हि अक्रियाः, ते उत्पादसमनन्तरमेव विनष्टाः | ये च विनष्टाः, कुतस्तेषामविद्यमानत्वाद्वन्ध्यासूनुसंस्काराणामिव क्वचिद् गमनम्? इत्येवमनित्यानामपि नास्ति संसारः ||
अत्राह- यद्यपि संस्काराणां सत्त्वस्य वा बन्धो नास्ति, तथापि रागादिकमुपादानाख्यं बन्धनभूतमस्ति, तत्सद्भावाद्बन्धो ऽपि भविष्यतीति | उच्यते | स्यादुपादानम्, बन्धनं यदि कंचित्पदार्थं बध्नीयात्, न तु बध्नाति | यथा च न बध्नाति, तथा प्रतिपादयन्नाह-
तत्र यदि स्कन्धा आत्मेति परिकल्प्यते, तदा उदयव्ययभाग् उत्पादी च विनाशी च आत्मा प्राप्नोति, स्कन्धानामुदयव्ययभाक्त्वात् | न चैवमिष्यते, आत्मानेक[त्व]दोषप्रसङ्गात् वक्ष्यति हि-
काम जानामि ते मूलं संकल्पात्किल जायसे | न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि || इति ||
SK
एवं तावत् कर्मक्लेशा विकल्पतः प्रवर्तन्ते | ते च विकल्पाः अनादिमत्संसाराभ्यस्ताद् ज्ञानज्ञेयवाच्यवाचककर्तृकर्मकरणक्रियाघटपटमुकुटरथरूपवेदनास्त्रीपुरुषलाभालाभसुखदुःखयशो ऽयशोनिन्दाप्रशंसादिलक्षणाद्विचित्रात्प्रपञ्चादुपजायते | स चायं लौकिकः प्रपञ्चो निरवशेष शून्यतायां सर्वस्वभावशून्यतादर्शने सति निरुध्यते | कथं कृत्वा? यस्मात्सति हि वस्तुनं उपलम्भे स्याद् यथोदितप्रपञ्चजालम् | न हि अनुपलभ्य वन्ध्यादुहितरं रूपलावण्ययौवनवतीं तद्विषयं प्रपञ्चमवतारयन्ति रागिणः | न च अनवतार्य प्रपञ्चं तद्विषयमयोनिशो विकल्पमवतारयन्ति | न च अनवतार्य कल्पनाजालम् अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकान् क्लेशगणानुत्पादयन्ति | न च अनुत्पाद्य सत्कायदृष्टयात्मकान् क्लेशगणान् कर्माणि शुभाशुभानिञ्ज्यानि कुर्वन्ति | न च अकुर्वाणाः कर्माणि जातिजरामरणशोकपरिदेवदुःखदौर्मनस्य[उपायासादिरूपं] एकजालीभूतं संसारकान्तारमनुभवन्ति | एवं योगिनो ऽपि शून्यतादर्शनावस्था निरवशेषस्कन्धधात्वायतनानि स्वरूपतो नोपलभन्ते | न च अनुपलभमाना वस्तुस्वरूपं तद्विषयं प्रपञ्चमवतारयन्ति | न च अनवतार्य तद्विषयं प्रपञ्चं विकल्पमवतारयन्ति | न च अनवतार्य विकल्पम् अहंममेत्यभिनिवेशात् सत्कायदृष्टिमूलकं क्लेशगणमुत्पादयन्ति | न च अनुत्पाद्य सत्कायदृष्टयादिकं क्लेशगणं कर्माणि कुर्वन्ति | न च अकुर्वाणाः जातिजरामरणाख्यं संसारमनुभवन्ति | तदेवम् अशेषप्रपञ्चोपशमशिवलक्षणां शून्यतामागम्य यस्मादशेषकल्पनाजालप्रपञ्चविगमो भवति, प्रपञ्चविगमाच्च विकल्पनिवृतिः, विकल्पनिवृत्त्या च अशेषकर्मक्लेशनिवृत्ति, कर्मक्लेशनिवृत्त्या च जन्मनिवृत्तिः, तस्मात् शून्यतैव सर्वप्रपञ्चनिवृत्तिलक्षणत्वान्निर्वाणमित्युच्यते यथोक्तं शतके-
ये तु पूर्वाभ्यासविशेषानुगतगम्भीरधर्माधिमोक्षलब्धबीजपरिपाकाः प्रत्यासन्नवर्तिनि निर्वाणे तेषामुत्कृष्टानां विनेयानां विगतात्मस्नेहानां परमगम्भीरमौनीन्द्रप्रवचनार्थतत्त्वावगाहनसमर्थानामधिमुक्तिविशेषमवधार्य-
SK
बुद्धैरात्मा न चानात्मा कश्चिदित्यपि देशितम् ||
SK
यथैव हि आत्मदर्शनमतत्त्वम्, एवं तत्प्रतिपक्षभूतमपि अनात्मदर्शनं नैव तत्त्वमिति | एवं नास्त्यात्मा कश्चित्, न चाप्यनात्मा कश्चिदस्तीति देशितम् | यथोक्तमार्यरत्नकूटे-
यां च शान्तमते रात्रिं तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अस्मिन्नन्तरे तथागतेन एकाक्षरमपि नोदाहृतं न प्रव्याहृतं न प्रव्याहरिष्यति | कथं तर्हि भगवता सकलसुरासुरनरकिंनरसिद्धविद्याधरोरगप्रभृतिविनेयजनेभ्यो विविधप्रकारेभ्यो धर्मदेशना देशिता? एकक्षणवागुदाहारेणैव तत्तज्जनमनस्तमोहरणी बहुविधबुद्धिनलिनीवनविबोधिनी जरामरणसरित्सागरोच्छोषिणी कल्पकालानलसप्तार्करश्मिविसरह्रेपिणी शरदरुणमहाप्रभेति ||
SK
तदेवं सूत्रे-
SK
यथा यन्त्रकृतं तूर्यं वाद्यते पवनेरितम् | न चात्र वादकः कश्चिन्निश्चरन्त्यथ च स्वराः ||
SK
एवं पूर्वसुशुद्धत्वात्सर्वसत्त्वाशयेरिता | वाग्निश्चरति बुद्धस्य न चास्यास्तीह कल्पना | प्रतिश्रुत्कादयः शब्दा नाध्यात्मं न बहिः स्थिताः | वागप्येवं नरेन्द्रस्य नाध्यात्मं न बहिः स्थिताः || इति |
कथं च भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन इयं प्रज्ञापारमिता पर्येषिता? एवमुक्तो भगवानायुष्मन्तं सुभूतिं स्थविरमेतदवोचत्- सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन काये ऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता | तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतो ऽभूत्- गच्छ कुलपुत्र पूर्वस्यां दिशि | तत्र प्रज्ञापारमितां श्रोष्यसि | तथा च गच्छ यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, यावत् मा क्वचिच्चित्तं प्रणिधा अध्यात्मं वा बहिर्धा वा | मा च कुलपुत्र वामेनावलोकयन् (Pप्_१६२) गाः, मा दक्षिणेन, [मा पूर्वेण], मा पश्चिमेन, मा उत्तरेण, मा उर्ध्वं मा अधः, मा च अनुविदिशमवलोकयन् गाः | तथा च कुलपुत्र गच्छ यथा [नात्मतो] न सत्कायतश्चलसि न रूपतो न वेदनातो न संज्ञातो न संस्कारेभ्यो न विज्ञानतश्चलसि | यो हि अतश्चलति स वितिष्ठते | [कुतो वितिष्ठते?] बुद्धधर्मेभ्यो वितिष्ठते | यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति | यः संसारे चरति, स प्रज्ञापारमितायां न चरति, न च तामनुप्राप्नोतीति ||
यदा चैवम् अतीतमपेक्ष्य वा अनपेक्ष्य वा प्रत्युत्पन्नानागतयोर्नास्ति सिद्धिः, एवं प्रत्युत्पन्नापेक्षया वा अनपेक्षया वा अतीतानागतयोः अनागतापेक्षया वा अनपेक्षया वा प्रत्युत्पन्नातीतयोः असिद्धौ इष्यमाणायां तेनैव प्रत्युत्पन्नागतयोः अतीतापेक्षया वा अनपेक्षया असिद्धिक्रमेण दूषणसाम्यमतिदिशन्नाह-
अत्राह- विद्यत एव कालः परिमाणवत्त्वात् | इह यन्नास्ति, न तस्य परिमाणवत्त्वं विद्यते तद्यथा खरविषाणस्य | अस्ति च कालस्य परिमाणवत्त्वं क्षणलवमुहूर्तदिवसरात्र्यहोरात्रपक्षमाससंवत्सरादिभेदेन | तस्मात्, परिमाणवत्त्वाद् विद्यत एव कालः इति | उच्यते | यदि कालो नाम कश्चित् स्यात्, स्यात्तस्य परिमाणवत्त्वम् | न त्वस्ति | यस्मात्-
SK
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते | यो गृह्येतागृहीतश्च कालः प्रज्ञप्यते कथम्
SK
इह यदि कालो नाम कश्चिदवस्थितः क्षणादिव्यतिरिक्तः स्यात्, स क्षणादिभिः परिमाणवत्त्वाद् गृह्येत | न तु अवस्थितः कूटस्थः कश्चित् कालो नाम अस्ति, यः क्षणादिभिर्गृह्येत | तदेवं नास्थितो गृह्यते कालः, अस्थितत्वान्न गृह्यते इत्यर्थः ||
SK
अथापि स्यात्- नित्य एव अवस्थितस्वभावः कालो नाम अस्ति, क्षणादिभिरभिव्यज्यते | तथाहि-
SK
कालः पचति भूतानि कालः संहरते प्रजाः | कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः || इति |
SK
यश्चैवंलक्षणः सो ऽवस्थितस्वभावो ऽस्तीति | उच्यते | एवमपि स्थितः कालो न विद्यते यः क्षणादिभिरभिव्यज्यमानो गृह्येत | कस्मात् पुनः स्थितः कालो नास्तीति चेत्, क्षणादिव्यतिरेकेणागृह्यमाणत्वात् ||
SK
अपि च | अयं कालः संस्कृतस्वभावः सन् अस्तीति, असंस्कृतस्वभावो वा? उभयं च संस्कृतपरीक्षायां प्रतिषिद्धम्-
SK
उत्पादस्थितिभङ्गानामसिद्धौ नास्ति संस्कृतम् | संस्कृतस्याप्यसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ||
SK
इत्यनेन | तदेवं नास्ति व्यवस्थितः कालः, यो गृह्येत | यश्च इदानीं कालो न गृह्यते अस्थितत्वादविद्यमानस्वरूपत्वात्, सो ऽगृह्यमाणः सन् कथं क्षणादिभिः प्रज्ञपयितुं भावतः पार्यत इत्याह- अगृहीतश्च कालः प्रज्ञप्यते कथमिति | तस्मान्नास्त्येव कालः
SK
अत्राह- सत्यं नास्ति नित्यः कालो नाम कश्चिद् रूपादिव्यतिरिक्तः स्वभावसिद्धः, किं तर्हि रूपादीनेव स संस्कारानुपादाय प्रज्ञप्तः कालः क्षणादिवाच्यो भवति, तस्माददोष इति | उच्यते | एवमपि-
SK
भावं प्रतीत्य कालश्चेत्कालो भावादृते कुतः |
SK
यद्येवं भावं प्रतीत्य कालो भवतीति भवता व्यवस्थाप्यते, यदा खलु भावो नास्ति, तदा नियतं तद्धेतुको ऽपि कालो नास्तीति प्रतिपादयन्नाह-
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि | सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् || इति ||
SK
यस्माच्च एवमस्ति कालापेक्षा, तस्मादस्त्यसौ कालो नाम, यः अङ्कुरादिप्रवृत्तौ सहकारिकारणं भवतीति | उच्यते | स्यात् सहकारिकारणता कालस्य, यदि अङ्कुरादिफलस्य प्रवृत्तिरेव स्यात् | न त्वस्ति | कथं कृत्वा? इह बीजादिहेतुप्रत्ययसामग्रीतो ऽङ्कुरादिफलोदये परिकल्प्यमाने व्यवस्थितस्य वा फलस्य सामग्र्यां सत्यांतत उत्पादः परिकल्प्येत अव्यवस्थितस्य वा? किं चातः? यदि तावद् व्यवस्थितस्य परिकल्प्यते, तन्न युज्यते इति प्रतिपादयन्नाह-
SK
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि | फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्
SK
यदि हेतुप्रत्ययसामग्र्यां त्वन्मतेन फलमस्ति, ननु एवं सति यस्मात् सामग्र्यामस्ति, कथं तया तज्जन्यते? न हि कुण्डे दधि विद्यमानं कुण्डेन जन्यते | अपि च | यद्विद्यते तन्निष्पन्नत्वात् निष्पन्नपुरोवस्थितघटवत् न पुनर्जन्मापेक्षते | अभिव्यक्तिः स्थौल्यं वा सूक्ष्मात्मना विद्यमानस्य क्रियत इति चेत्, तस्यापि पक्षस्य पूर्वमेव-
हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते | हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत्
SK
यदि फलस्य किंचिदप्यदत्वा सर्वात्मना हेतुर्निरुध्यते, ननु तस्मिन् हेतौ निरुद्धे यत्फलमुत्पद्यते तत् आहेतुकं स्यात् | न च आहेतुकमस्ति | इत्ययुक्तैषा कल्पना
SK
अत्राह- यदि एवं फलस्य हेतोरुत्पत्तौ दोषः, एवं सति सहोत्पन्नैव सामग्री फलस्य जनिका अस्तु, तद्यथा प्रदीपप्रभाया इति | एषापि कल्पना नोपपद्यते इति प्रतिपादयन्नाह-
पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि | हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत्
SK
यदि भवतामभीप्सितं सामग्रीतः पूर्वमेव फलं स्वरूपतः स्यादिति, तद् हेतुप्रत्ययनिरपेक्षं स्यात्, ततश्च आहेतुकं स्यात् | न च आहेतुकानां पदार्थानामस्तित्वं युक्तम्, खरतुरगोरगविषाणादीनामप्यस्तित्वप्रसङ्गात्, पूर्वसिद्धस्य च पुनः हेतुप्रत्ययापेक्षया निष्प्रयोजनत्वादित्ययुक्तमेतत्
SK
अन्ये पुनर्वर्णयन्ति- हेतुरेव फलं जनयति न सामग्री | न च उक्तदोषप्रसङ्गः | यस्मात् न हि अन्योहेतुः अन्यत् फलम् | यतः, किं हेतुं दत्वा फलस्य हेतुर्निरुध्यते उत अदत्वैवेति विचारः स्यात् | अपि तु हेतुरेव निरुद्धः फलात्मना व्यवस्थितः इति | उच्यते | एवमपि-
किं चान्यत्- यदि हेतुः फलं जनयेत्, निरुद्धो वा जनयेदनिरुद्धो वा? फलमपि उत्पन्नं वा जनयेदनुत्पन्नं वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
SK
जनयेत्फलमुत्पन्नं निरुद्धो ऽस्तंगतः कथम् | तिष्ठन्नपि कथं हेतुः फलेन जनयेद्धृतः
SK
[यदि तावत निरुद्धः अस्तंगतः हेतुः उत्पन्नं सत् विद्यमानं फलं जनयतीति परिकल्प्यते, तन्नोपपद्यते | कस्मादिति चेत्, कथं निरुद्धः असंविद्यमानः हेतुः फलं जनयेत्? यदि जनयति, वन्ध्यापुत्रो ऽपि पुत्रं जनयिष्यति | फलं च सद् विद्यमानमपि जन्मनिरपेक्षमपि कथं हेतुर्जनयि ष्यति? अथ मन्यसे- शक्त्यभावान्निरुद्धो न जनयति, किं तु तिष्ठन्नेव हेतुः फलं जनयिष्यतीति | उच्यते |] तिष्ठन्नपि हेतुरविकृतरूपो विद्यमानेन फलेन वृतः संबद्धः कथं जनयेत्? इह हि-
SK
कारणं विकृतिं गच्छज्जायते ऽन्यस्य कारणम् |
SK
इति कारणाभावं प्रतिपद्यमानस्य हेतोरवश्यं विकारेण भवितव्यम् | यस्तु न विक्रियते, स हेतुलक्षणयुक्त एव न भवतीति | फलेन च संबद्धः कथं जनयेत्? फलस्य विद्यमानत्वात्
यो ऽयं फलस्य हेतुः फलस्य जनक इष्यते, स तेन शून्यो वा भवन् फलमुत्पादयेत्, अशून्यो वा? तत्र हेतुः शून्यः फलेन रहितः फलं न जनयति, अहेतुवत् फलशून्यत्वात् | फलेन अशून्यो ऽपि हेतुः फलं न जनयति, विद्यमानत्वात् फलस्य, विद्यमानपुत्रं देवदत्त इव | एवं तावत् फलशून्यो वा फलाशून्यो वा हेतुः फलं न जनयति
SK
यच्चापि फलमुत्पद्यते, तच्चाप्यशून्यं वा समुत्पद्यते, शून्यं वा? तत्र तावत्-
SK
फलं नोत्पत्स्यते ऽशून्यमशून्यं न निरोत्स्यते | अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति
SK
अशून्यं हि फलमप्रतीत्यसमुत्पन्नं स्वभावव्यवस्थितम्, तदेवंविधं फलं नैवोत्पत्स्यते स्वभावस्यानपायित्वाच्च न निरोत्स्यते | ततश्च अशून्यं तदिष्यमाणमनिरुद्धमनुत्पन्नं च स्यात् | न चैतदिष्टम्, इत्यतः अशून्यं तत्फलं न भवति, उत्पादनिरोधाभ्युपगमात्
SK
इदानीं शून्यमपि तत्फलं न संभवति, अनुदयाव्ययवत्त्वप्रसङ्गात् इति प्रतिपादयन्नाह-
SK
कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते | शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते
SK
तत्र शून्यमुच्यते यत्स्वभावेन नास्ति | यच्च वस्तु स्वभावेन नास्ति, तत् कथमुत्पत्स्यते, कथं वा निरोत्स्यते? न हि स्वभावेन अविद्यमानस्य आकाशादेः उदयव्ययौ दृष्टौ | तस्माच्छून्यमपि तत्फलमिष्यमाणमनिरुद्धमनुत्पन्नं च प्रसज्यते
SK
किं चान्यत्- यदि हेतुः फलं जनयेत्, स फलादव्यतिरिक्तो वा जनयेत्, व्यतिरिक्तो वा? उभयथा च नोपपद्यते इत्याह-
SK
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते | हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते
यदि हेतोः फलस्य च एकत्वं स्यात्, तदा जन्यजनकयोरेकत्वमभ्युपेतं स्यात् | न चानयोरेकत्वम्, पितापुत्रयोश्चक्षुश्चक्षुर्विज्ञानयोर्बीजाङ्कुरयोश्चैक्यप्रसङ्गात् | एवं तावद् हेतोः फलस्य च एकत्वं नास्ति ||
SK
इदानीमन्यत्वमपि नास्ति | किं कारणम्? यदि हेतोः फलस्य च भवन्मतेनाभिमतमन्यत्वं स्यात्, तदा परत्र निरपेक्षत्वाद् हेतुनिरपेक्षमेव फलं स्यात् | न चैतदेवम्, इत्यतः अन्यत्वमपि हेतोः फलस्य च न संभवति | ययोश्च एवं विचार्यमाणयोस्तत्त्वान्यत्वे न स्तः, तयोर्न कदाचिज्जन्यजनकभावः इष्यते | अतो नैव हेतुः फलं जनयति
SK
किं चान्यत्- यदि हेतुः फलं जनयेत्, स तत्फलं स्वभावेन सद्भूतं वा जनयेत्, असद्भूतं वा? उभयथा च न युज्यते इत्याह-
अत्राह- यद्यपि हेतोः फलोत्पत्तिक्रियाप्रयोजकत्वं निषिद्धम्, तथापि हेतुस्तावत् स्वभावतो ऽस्ति, न च असति फले हेतोर्हेतुत्वं सिध्यति, तस्मात् फलमपि भविष्यतीति | उच्यते- स्याद्धेतुः, यदि अजनयतो ऽस्य हेतुत्वं स्यात् |
SK
न चाजनयमानस्य हेतुत्वमुपपद्यते |
SK
अथ स्यात्- यद्यपि एवं हेतोर्हेतुत्वं नास्ति, तथापि फलं तावदस्ति | न च हेतुमन्तरेण फलं युक्तमिति फलसद्भावाद् हेतुरपि भविष्यतीति | उच्यते | यदा अजनयमानस्य हेतोर्हेतुत्वं नास्तीत्युक्तम्, तदा-
SK
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति
SK
इति | तस्मात् फलमपि नास्तीति
SK
अत्राह- नैव हि केवलस्य हेतोः फलोत्पत्तिक्रियायाः प्रयोजकत्वम्, किं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते इति | उच्यते | उक्तदोषत्वात् न युक्तमेतत् | अपि च, इयं हेतुप्रत्ययसामग्री यदि फलस्य जनिकेति कल्प्यते, किं सास्वयमेव तावदात्मानं जनयति, उताहो न? यदि जनयतीति कल्प्यते, तन्न युज्यते | न हि अलब्धात्मभावस्य प्रयोजकत्वं दृष्टमित्यतः सामग्र्या अवश्यं लब्धात्मभावया भवितव्यम् | न च लब्धात्मभावायाः पुनः स्वात्मोत्पादे प्रयोजकत्वं युक्तम्, इत्यतः न सामग्री स्वात्मानमुत्पादयति | या च आत्मानं नोत्पादयति, सा कथं फलमुत्पादयितुं शक्नोतीति प्रतिपादयन्नाह-
SK
न च प्रत्ययहेतूनामियमात्मानमात्मना | या सामग्री जनयते सा कथं जनयेत्फलम् |२३ ||
SK
प्रत्ययानां हेतूनां च येयं सामग्री सा तावदात्मनैव आत्मानं नोत्पादयति, स्वात्मनि वृत्तिविरोधात्, सत्याः पुनरुत्पादवैयर्थ्याच्च | या च एवमात्मानमेव तावन्न जनयति, सा कथं फलं जनयिष्यति? न हि बन्ध्यादुहिता आत्मानं जनयितुमशक्ता सती पुत्रं जनयिष्यतीति युज्यते | एवं सामग्र्यपि स्वात्माजनिका फलं जनयतीति न युज्यते
SK
तस्मात्-
SK
न सामग्रीकृतं फलं
SK
अथापि स्यात्- यदि सामग्रीकृतं फलं न संभवति, एवं तर्हि असामग्रीकृतं भविष्यतीति चेत्, उच्यते-
SK
नासामग्रीकृतं फलम् | यदा सामग्रीकृतं फलं न संभवति, तदा कथमत्यन्तविरुद्धमसामग्रीकृतं भविष्यति? असामग्रीकृतं फलं न संभवति ||
SK
अथ स्यात्- यद्यपि नास्ति फलं स्वभावतः, तथापि हेतुप्रत्ययसामग्री तावदस्ति | न च फलमन्तरेण हेतुप्रत्ययसामग्री संभवतीति फलमपि संभविष्यतीति | उच्यते | स्याद्धेतुप्रत्ययसामग्री, यदि फलमेव भवेत् | यदा तु यथोदितेन न्यायेन फलमेव नास्ति, तदा-
SK
अस्ति प्रत्ययसामग्री कुत एव फलं विना
SK
फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्रायः | उक्तं हि आर्यललितविस्तरसूत्रे-
SK
कण्ठोष्ठ प्रतीत्य तालुकं जिह्वपरिवर्ति रवन्ति अक्षराः | न च कण्ठगता न तालुके अक्षरैकैकश नोपलभ्यते ||
तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम् | न स्रोतआपत्तिफले न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम् || इति ||
SK
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम् ||
SK
२१ संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् |
SK
अत्राह- विद्यत एव स्वभावतः कालः, संभवविभवनिमित्तत्वात् | इह कंचित् कालविशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम्- इत्यतो विद्यत एव कालः, संभवविभव निमित्तत्त्वात् | उच्यते | स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम् | न तु स्तः | यथा च न स्तः, तथा प्रतिपादयन्नाह-
SK
विना वा सह वा नास्ति विभवः संभवेन वै | विना वा सह वा नास्ति संभवो विभवेन वै
SK
इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा | उभयथा च विचार्यमाणौ न संभवतः | कथं कृत्वा? तत्र तावद् यथा विना संभवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह-
SK
भविष्यति कथं नाम विभवः संभवं विना | विनैव जन्म मरणं विभवो नोद्भवं विना
SK
संभवं विना कथं नाम विभवो विनाशो भविष्यति? कथं नामेत्यनेन प्रसिद्धमत्यन्तासंभवं दर्शयति | कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्रायः | यदि पुनर्विनैव संभवं विभवः स्यात्, को दोषः स्यात्? उच्यते | विनैव जन्म मरणं स्यात्, अजातस्य मरणं स्यात् | न च अजातस्य मरणं दृष्टमिति | तस्माद्विभवो नोद्भवं विना भवितुमर्हति | आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम्
SK
एवं तावद्विना संभवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह संभवेनापि विभवो न संभवति तथा प्रतिपादयन्नाह-
SK
संभवेनैव विभवः कथं सह भविष्यति | न जन्ममरणं चैवं तुल्यकालं हि विद्यते
SK
यदि हि संभवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत् स्याताम् | न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति | तस्मात् सहापि संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम्
SK
यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं संभवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह-
SK
भविष्यति कथं नाम संभवो विभवं विना अनित्यता हि भावेषु न कदाचिन्न विद्यते
SK
नैव हि संभवो विभवेन विना युज्यते | यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद धर्मकेषु न कदाचिन्न विद्यते, किं तर्हि सर्वदैव विद्यते | उक्तं हि-
भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ | यदा च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं संभवं विभवं च विना कुतो भावलक्षणविलक्षणो भावो भविष्यति? भावं च विना न स्तः संभवविभवौ ||
SK
अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते | स्तः एव संभवविभवौ, भावधर्मत्वात् | इह यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणेः | भावधर्मौ च संभवविभवौ, (Pप्_१८१) तस्मात् स्तः एव तौ इति | यदि कस्यचित् परमार्थतः संभवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम् | तौ च न स्तः, इति
किं चान्यत्- इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा च नोपपद्यते इत्याह-
SK
संभवो विभवश्चैव नैक इत्युपपद्यते |
SK
परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः |
SK
संभवो विभवश्चैव न नानेत्युपपद्यते
SK
उभयोः परस्परमव्यभिचारित्वात् | न हि संभवरहितस्य विनाशः, न विभवरहितस्य संभवो दृष्ट इति | एवमुभयोः परस्परमव्यभिचारित्वात्
SK
संभवो विभवश्चैव न नानेत्युपपद्यते ||
SK
अथ स्यात्- किमनया सूक्ष्मेक्षिकया? आगोपालाङ्गनादिको हि जनः यस्मात् संभवं विभवं च पश्यति, तस्मात् स्तः संभवविभवौ | न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति | एवमपि-
SK
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् |
SK
उच्यते | अनैकान्तिकमेतत् | न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् | तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमानमपि पश्यति इन्द्रियोपघातात्, एवमिमावपि संभवविभवौ असन्तौ मोहादेव पश्यतीत्याह-
SK
दृश्यते संभवश्चैव मोहाद्विभव एव च
SK
अथ कस्मात् पुनरेतदेवं निश्चीयते- अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव वारलोकेन दृश्येते इति | युक्त्या ह्येतदेवं निश्चीयते | का पुनरत्र युक्तिः? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा | तथा यदि अभावो नाम कश्चित्, सो ऽपि भावाद्वा जायेत अभावाद्वा | उभयथा च उभयोरप्यसंभवः इत्याह-
भावात् तावत् संभवाख्याद् भावस्य संभवाख्यस्य उत्पादो न विद्यते, कार्यकारणयोर्यौगपद्याभावात्, उत्पादस्य च लब्धजन्मनः पुनरुत्पादवैयर्थ्यात् | अभावादपि भावो न जायते | किं कारणम्? अभावो हि नाम विभवो विनाशः | स च भावविरुद्धः | तस्माद्भावविरुद्धात् कथं भावः स्यात्? यदि स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् | न चैतदेवमिति | तस्मादभावादपि भावो न भवति | इदानीमभावो ऽप्यभावान्न भवति | भावनिवृत्तिरूपो हि अभावः, तत कुतो ऽस्य कार्यकरणसामर्थ्यम्? यदि स्यात्, निर्वाणस्यापि कार्यकरणसामर्थ्यं स्यात् | यदि च अभावादभावः स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् | न चैतदेवमिति | तस्मादभावादप्यभावो न भवति | इदानीं भावादप्यभावो न भवति | भावविरुद्धो ह्यभावः | स कथं भावाद्भवेत् | यदि भवेत्, प्रदीपादन्धकारः स्यात् | यतश्चैवं विचार्यमाणौ संभवविभवौ न स्तः, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम् ||
SK
अथवा | अयमन्यः पूर्वपक्षः- इह हि यदि संभवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा | तौ च भावाभावौ सर्वथा विचार्यमाणौ न संभवतः | ततश्च कुतो निराश्रयौ संभवविभवाविति? अतः-
SK
दृश्यते संभवश्चैव मोहाद्विभव एव च |
SK
इति विज्ञेयम् | यथा च भावाभावौ न संभवतः, तथा प्रतिपादयन्नाह-
भावसद्भावताभ्युपगमे च भवतः शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्येत्याह- भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् | प्रसज्यते
SK
यस्मात्,
SK
स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत्
SK
यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचनात्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते | किं कारणम्? यस्मात् स भावः परिकल्प्यमानः नित्यो वा भवेदनित्यो वा | यदि नित्यः, तदा नियतं शाश्वतवादः | अथ अनित्यः, तदा नियतमुच्छेद इति
SK
अत्राह-
SK
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् |
SK
किं कारणम्? यस्मात्-
SK
उदयव्ययसंतानः फलहेत्वोर्भवः स हि
SK
यो हि हेतुफलयोरुदयव्ययानुप्रबन्धः, स हि अस्माकं भवः संसारः | तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोषः | यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा स्याच्छाश्वतवाददर्शनदोषः | न चैतदेवमिति | तस्माद् भावाभ्युपगमे ऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्गः | स एव संसारः यो ऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्धः संस्काराणामिति | अतो नास्ति अस्माकमयं दोष इति
SK
उच्यते-
SK
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् |
SK
ननु एवमपि-
SK
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते
SK
यो हि हेतुक्षणः फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते, ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते | तवायं कथं न दोष इति चेत्, भावमभ्युपपन्नस्य अयं दोषः | न च मया भावो ऽभ्युपगतः, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम् | यत्रापि मया-
SK
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् | न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम् ||
यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बालः | अक्षर कीर्तित शून्यक धर्मास्ते च अनक्षर अक्षर उक्ताः ||
SK
शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चित्तु न जातु न भूतः | चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ||
SK
इति
SK
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ||
SK
२२ तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् |
SK
अत्राह- विद्यत एव भवसंततिः, तथागतसद्भावात् | इह हि भगवता महाकरुणोपायप्रज्ञाद्वयधारिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासंख्येयैः सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोदयैकक्रियालक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहतत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात उपभोग्यतामात्मानमुपगमयता महाकालेन सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम् | स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते | यदि भवसंततिर्न स्यात्, तदा तथागतो ऽपि न स्यात् | न हि एकेन जन्मना शक्यं तथागतत्वमनुप्राप्तुम् | तस्माद्विद्यत एव भवसंततिः, तथागतसद्भावादिति | उच्यते | भवदीयमेव हि इदमतिमहदज्ञानं भवसंतानस्य अविच्छेदवर्तितां च अतिदीर्घकालं च गमयति, यस्य नाम भवतः अतिमहदज्ञानधनान्धकारमेव विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्वस्यमानमपि अतिचिरतरकालाभ्यासवासनाविस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते | यदि हि तथागतो नाम कश्चित् स्यात् स्वभावतः, तदा तस्य महता कालेनाभिनिष्पत्तेर्भवसंततिः स्यात् | न च तथागतो नाम कश्चिद् भावस्वभावत उपलभ्यते | केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशमशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते | यथा च तथागतो नास्ति स्वभावतः, तथा प्रतिपादयन्नाह-
SK
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः | तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः
SK
यदि हि तथागतो नाम कश्चित् पदार्थो ऽमलो निष्प्रपञ्चः स्यात्, स स्कन्धस्वभावो वा भवेत्, रूपवेदनासंज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत् | यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभावः, तद्वयतिरिक्तो वा भवेत् | पूर्वका एव पञ्च स्कन्धाः सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावित त्वादिति ||
SK
यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धाः स्युः, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्तः? सर्वथा च विचार्यमाणो न संभवति | कथं कृत्वा? तत्र तावत् स्कन्धा एव न तथागतः | किं कारणम्? उक्तं हि-
SK
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः |
SK
भवेदिति, तदिहापि योज्यम्,
SK
स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः |
SK
भवेदिति | तथा-
SK
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् |
SK
इत्युक्तम्, तदिहापि योज्यम्,
SK
बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् | इति |
SK
एवं तावत् स्कन्धा न तथागतः || इदानीं नान्यः स्कन्धेभ्यस्तथागत इति | किं कारणम्? उक्तं हि-
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः | स्वभावतश्च यो नास्ति कुतः स परभावतः
SK
यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न तर्हि स्वभावतः सो ऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात् | यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो भविष्यतीति? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते
SK
अथ स्यात्- यथैव हि प्रतिबिम्बकं स्वभावतो ऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य भवति, एवं च तथागतो ऽपि स्वभावतो ऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि-
SK
प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते | यश्चानात्मा स च कथं भविष्यति तथागतः
SK
यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतो ऽनात्मेत्युपपद्यते | न तु स्वभावत इति युज्यते | आत्मशब्दो ऽयं स्वभावशब्दपर्यायः | यश्च अनात्मा निःस्वभावः प्रतिबिम्बवदेव, स कथं तथागतः स्वभावरूपतो भविष्यति? अविपरीतमार्गगतो न भविष्यतीत्यभिप्रायः
पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा | ताभ्यां तु विना को ऽसौ अपरः पदार्थो ऽस्ति, यस्तथागत इति व्यवस्थाप्यते? तस्मान्नास्ति स्वभावतस्तथागत इति
SK
किं चान्यत्-
SK
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः | स इदानींमुपादद्यादुपादाय ततो भवेत्
SK
यदि मन्यसे- स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति, तत् कदा युज्यते? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स स्कन्धानुपादद्यात् | व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत्
SK
विचार्यमाणस्तु सर्वथा-
SK
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः |
SK
निर्हेतुकत्वप्रसङ्गात् |
SK
यश्च नास्त्यनुपादाय स उपादास्यते कथम्
SK
अविद्यमानत्वादित्यभिप्रायः | यदा चैवं न किंचिदप्युपादत्ते, तदा स्कन्धानुपादाय तथागतो नाम भविष्यतीति नोपपद्यते
SK
यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदुपादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह-
SK
न भवत्यनुपादत्तमुपादानं च किंचन |
SK
यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह-
SK
न चास्ति निरुपादानः कथंचन तथागतः
SK
इति
SK
तदेवं यथोपपादितन्यायेन-
SK
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा | उपादानेन स कथं प्रज्ञप्येत तथागतः
SK
यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेनस्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वासत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो (Pप्_१९१) यो नास्ति, स कथमत्यन्तो ऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम्? इत्यतो ऽपि नास्ति तथागतो नाम स्वभावतः
SK
न केवलमनेन विचारेण तथागत एव नास्ति,
SK
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते |
SK
यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च विस्तरेण प्रतिषिद्धत्वात् ||
न हि बन्ध्यासूनुः स्वभावतो ऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति | अतः उपादानमपि नास्ति ||
SK
अथवा-
SK
यदपीदमुपादानं तत्स्वभावान्न विद्यते |
SK
उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम् | अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति | उच्यते | एवमपि-
कथं भगवन् मोहो धारणीपदम्? भगवानाह- अत्यन्तमुक्तो हि मञ्जुश्रीः मोहः, तेनोच्यते मोहः |
SK
इत्यादिना विपर्यय इति व्यवस्थाप्यते
SK
ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न संभवति इति असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह-
SK
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः | अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः
SK
यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्वयतिरिक्तं तृतीयमपरं नास्ति यन्न विपर्ययः स्यात् | यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यासः स्यादिति | तस्मादमुनापि न्यायेन नास्ति विपर्ययः | तस्याभावाच्च नास्त्यविद्या स्वरूपतः | यथा च अनित्ये नित्यमित्येवं ग्राहो विपर्यासो न संभवति, एवं शेषविपर्यासासंभवे ऽपि योज्यम् | अत एवोक्तं भगवता आर्यदृढाशयपरिपृच्छायाम्-
SK
भगवानाह- किमेतत् कुलपुत्र तस्य भवति यो मार्गेण निःसरणं पर्येषते? न कुलपुत्र तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञप्तम् | तत् कस्माद्धेतोः? न कुलपुत्र तथागताः कस्यचिद्धर्मस्य उत्सर्गाय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न निर्वाणगमनतायै नोत्क्षेपाय न प्रभेदाय | न हि कुलपुत्र द्वयप्रभाविता तथागतधर्मता | तत्र ये द्वये चरन्ति, न ते सम्यक्प्रयुक्ताः | मिथ्याप्रयुक्तास्ते वक्तव्याः | कतमच्च कुलपुत्र द्वयम्? अहं रागं प्रहास्यामीति द्वयमेतत् | अहं द्वेषं प्रहास्यामीति द्वयमेतत् | अहं मोहं प्रहास्यामीति द्वयमेतत् | ये एवंप्रयुक्ताः, न ते सम्यक्प्रयुक्ता | मिथ्याप्रयुक्तास्ते वेदितव्याः ||
इह हि कश्चिद् ग्रहीता येन विशेषेण नित्यत्वादिना करणभूतेन किंचित् कर्मभूतं रूपशब्दादिकं वस्तु गृह्णाति, तद्यथा न संभवति तथा पूर्वं प्रतिपादितम् | कथं कृत्वा?
SK
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः |
SK
इत्यादिना यथा नित्यत्वादिकं करणं न संभवति, तथा प्रतिपादितम् | ग्रहीतापि यथा नास्ति, तथा-
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते | अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते
SK
यदि आत्मा च शुचि नित्यं च न विद्यते इति मन्यसे, विपर्यासासंभवात्, एवं सति आत्मादीनामप्यभावाद् यदि एतदनात्मादिकमविपर्यासत्वेन गृहीतम्, तदपि तर्हि त्यज्यताम्, प्रतिषेध्याभावे प्रतिषेधस्याभावात् | यदा चैवमनात्मादिकं न संभवति, तदा तदपि स्वरूपतो ऽविद्यमानत्वात् आत्मादिवत् कथं न विपर्यासः स्यात्? तस्मात् जातिजरामरणसंसारचारकागारबन्धनान्मुमुक्षुभिरष्टावप्येते विपर्यासास्त्याज्याः
SK
अस्य च यथोपवर्णितविपर्यासविचारस्य अविद्यादिप्रहाणहेतुत्वेन महार्थतां प्रतिपादयन्नाह-
SK
एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् | अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते
अत्राह- यदि विपर्यासनिरोधादविद्या निरुध्यते, अस्ति तर्हि अविद्या यस्या एवं विपर्यासनिरोधान्निरोधो भवति | न तर्हि अविद्यमानाया गगनचूतलतायाः प्रहाणोपायान्वेषमस्ति | तस्माद्विद्यते एव अविद्या, तन्निरोधोपायान्वेषणसद्भावात् | ततश्च सन्ति तद्धेतुका रागादयः क्लेशाः | क्लेशासद्भावाच्च अस्त्येव संसारे भवसंततिः | उच्यते | अत्र हि नाम अतिमहदनर्थपाण्डित्यं परस्य, यो हि नाम सर्वात्मना अत्यन्तदुःखायासक्लेशासमञ्जसे संसारे निरन्तरफुल्लफलप्रदसंक्लेशविषवृक्षे परार्थोदयसंबद्धकक्षैः साधुभिः प्रज्ञोपायमहानिलबलैर्निःशेषं तदुन्मूल्यमानैर्न केवलं न साहाय्येनावतिष्ठन्ते, अपि खलु तदुन्मूलकानामतिमहानिलबलानामिव भावसद्भाववादमहाशैलायमान इवातिविरोधितया अवस्थितो भवान् आहोपुरुषिकया तस्यैव क्लेशविषवृक्षस्य जातिजरामरणशोकायासविसरदुःखैकफलस्य सुतरां भावाभिनिवेशतोयास्रवैरारोपणमाद्रियते ||
SK
अपि च | यदि अविद्यादीनां संक्लेशानां प्रहाणं संभवेत्, स्यात् तत्प्रहाणोपायान्वेषणम् | न च तेषां प्रहाणं संभवति | यदि स्यात्, तदा तत्त्वरूपतो विद्यमानानां वा स्यात्, अविद्यमानानां वा? किं चातः? तत्र यदि स्वरूपतः सद्भतानां क्लेशानां प्रहाणमिष्यते, तन्नोपपद्यते| किं कारणम्? यस्मात्-
SK
यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित् | कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति
SK
स्वभावतो विद्यमानानां भावानां न शक्यः स्वभावो विनिवर्तयितुम् | न हि क्षित्यादीनां कठिनत्वादिस्वभावो निवर्तते | एवं यदि इमे क्लेशाः स्वभावतः सद्भूताः स्युः | केचिदित्यविद्यादयः | कस्यचिदिति पुद्गलस्य | कथं नाम प्रहीयेरन्? नैव ते कस्यचित् कथंचिन्नाम प्रहीयेरन् | कस्मात्पुनः न ते प्रहीयन्ते इत्याह- कः स्वभावं प्रहास्यतीति | स्वभावस्य विनिवर्तयितुमशक्यत्वात् | आकाशानावरणविनिवर्तनासंभववदित्यभिप्रायः
यो रज्येत, यत्र वा रज्येत, येन वा रज्येत | यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत | यो मुह्येत यत्र वा मुह्येत, येन वा मुह्येत | स तं धर्म न समनुपश्यति, तं धर्मं नोपलभते | स तं धर्ममसमनुपश्यन् अनुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते | तीर्णः पारग इत्युच्यते | क्षेमप्राप्त इत्युच्यते || इति विस्तरः |
शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः | समं रूपं च बोधिश्च नानात्वं न स लभ्यते ||
SK
यथा निर्वाणु गम्भीरं शब्देन संप्रकाशितम् | लभ्यते न च निर्वाणं स च शब्दो न लभ्यते | शब्दश्चापि निर्वाणं च उभयं तन्न लभ्यते | एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम् ||
SK
निर्वाणं निवृत्तिरेव निर्वाणं च न लभ्यते | अप्रवृत्तिर्हि धर्माणां यथा पश्चात्तथा पुरा ||
SK
सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः | ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धबोधये ||
SK
तथा-
SK
ज्ञानेन जानाम्यहु स्कन्धशून्यतां ज्ञात्वा च क्लेशेहि न संवसामि | व्याहारमात्रेण हि व्याहरामि परिनिर्वृतो लोकमिमं चरामि ||
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च | चतुर्णामार्यसत्यानामभावान्नोपपद्यते
SK
चतुर्णामार्यसत्यानामभावप्रसङ्गे सति यदेतदनित्यादिभिराकारैर्दुःखसत्यपरिज्ञानं दुःखसमुदयस्य च प्रहाणं दुःखनिरोधगामिन्याश्च प्रतिपदो भावना दुःखनिरोधस्य च साक्षिकर्म साक्षात्करणम्, तन्नोपपद्यते
SK
यदि दुःखादीनामार्यसत्यानामभावे सति परिज्ञानादिकं नास्ति, तदा को दोष इति? उच्यते-
SK
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च | फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः
SK
संघो नास्ति न चेत्सन्ति ते ऽष्टौ पुरुषपुद्गलाः | अभावाच्चार्यसत्यानां सद्धर्मो ऽपि न विद्यते
SK
धर्मे चासति संघे च कथं बुद्धो भविष्यति |
SK
यदा चैवं दुःखपरिज्ञानादिकं नास्ति, तदा, अस्मिन्नसति स्रोतआपत्तिसकृदागाम्यनागाम्यर्हत्फलाख्यं फलचतुष्टयं नोपपद्यते | कथं कृत्वा? इह क्लेशानां प्रहाणं संपिण्डितं फलाख्यं प्रतिलभते | तद्यथा- संयोजनत्रयप्रहाणे सति षोडशे मार्गे अन्वयज्ञानक्षणे यत् क्लेशप्रहाणं तत् स्रोतआपत्तिफलम् | कामावचराणां भावनाप्रहातव्यानां क्लेशानामधिमात्रमध्यमृदूनां प्रकाराणां पुनरधिमात्रमध्यमृदुप्रकारभेदेन प्रत्येकं भिद्यमानानां नव प्रकारा भवन्ति | तत्र कामावचरषष्ठक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तत् सकृदागामिफलम् | तेषामेव कामावचराणां नवमप्रकारक्लेशपरिक्षये विमुक्तिमार्गे यत् क्लेशप्रहाणं तदनागामिफलम् | रूपारूप्यावचराणां क्लेशानां भावनाप्रहातव्यानां भूमौ भूमौ नवप्रकारभेदभिन्नानां यावन्नैवसंज्ञानासंज्ञायतनभूमिकनवमक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तदर्हत्फलम् | इत्येतानि चत्वारि फलानि | तान्येतानि कथं युज्यन्ते? यदि दुःखस्य परिज्ञानं संभवति, समुदयस्य प्रहाणम्, निरोधस्य साक्षात्करणम्, आर्यमार्गस्य च भावना भवति | यदा तु दुःखादीनामार्यसत्यानामभावे सति दुःखपरिज्ञानादिकं नास्ति, तदा न सन्ति तानि चत्वारि फलानि | चतुर्णा च फलानामभावे सति ये तेषु व्यवस्थिताः फलस्थाश्चत्वार आर्यपुद्गलाः, ते न सन्ति | अत एव च प्रतिपन्नका अपि चत्वार आर्यपुद्गला न संविद्यन्ते ||
SK
इह हि षोडशात् मार्गे ऽन्वयज्ञानक्षणात् पूर्वे ये पञ्चदश क्षान्तिज्ञानक्षणाः, तद्यथा- त्रैधातुकदुःखाभिसमये दुःखसत्यालम्बनाश्चत्वारः क्षान्तिज्ञानक्षणाः | तत्र कतमे त्रैधातुकदुःखाभिसमये चत्वारः क्षान्तिज्ञानक्षणाः? तद्यथा- कामावचरदुःखदर्शनप्रहातव्यसत्कायान्तग्राहमिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शविचिकित्सारागप्रतिघमानाविद्याख्यदशानुशयप्रतिपक्षः अनित्यदुःखशून्यानात्माकारोत्पन्नः कामावचरदुःखसत्यालम्बनः आनन्तर्यमार्गलक्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः एकः | तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखे धर्मज्ञानक्षणः द्वितीयः | एवं रूपारूप्यावचरदुःखसत्यालम्बनः प्रतिघवर्जितानन्तरोक्ताष्टादशानुशयप्रतिपक्षः दुःखाद्याकारोत्पन्नः आनन्तर्यमार्गलक्षणः दुःखे अन्वयज्ञानक्षान्तिक्षणस्तृतीयः | तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखे ऽन्वयज्ञानक्षणश्चतुर्थः ||
यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु स्वभावतो ऽस्ति | यः प्रत्ययाधीनु स शून्यु उक्तो यः शून्यतां जानति सो ऽप्रमत्तः ||
SK
इति भगवतो गाथावचनात् | एवं प्रतीत्यसमुत्पादशब्दस्य यो ऽर्थः, स एव शून्यताशब्दस्यार्थः, न पुनरभावशब्दस्य यो ऽर्थः स शून्यताशब्दस्यार्थः | अभावशब्दार्थं च शून्यतार्थमित्यध्यारोप्य भवानस्मानुपालभते | तस्माच्छून्यताशब्दार्थमपि न जानाति | अजानानश्च त्वमेवमुपालम्भं कुर्वन् नियतं विहन्यसे
SK
कश्चास्माकं यथोक्तमुपालम्भं करोति? यो भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयविभागं न जानाति, केवलं ग्रन्थमात्राध्ययनपर एवेति | अत आचार्यः करुणया परस्य मिथ्याप्रवचनार्थावबोधनिरासार्थं भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयव्यवस्थामेव तावदधिकृत्याह-
SK
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना | लोकसंवृतिसत्यं च सत्यं च परमार्थतः
SK
इह हि भगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशना प्रवर्तते | कतमत्सत्यद्वयम्? लोकसंवृतिसत्यं च परमार्थसत्यं च | तत्र
SK
स्कन्धात्मा लोक आख्यातस्तत्र लोको हि निश्रितः |
SK
इति वचनात्पञ्च स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलो लोक इत्युच्यते | समन्ताद्वरणं संवृतिः | अज्ञानं हि समन्तात्सर्वपदार्थतत्त्वावच्छादनात्संवृतिरित्युच्यते | परस्परसंभवनं वा संवृतिरन्योन्यसमाश्रयेणेत्यर्थः | अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः | स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः | लोके संवृतिर्लोकसंवृतिः | किं पुनरलोकसंवृतिरप्यस्ति यत एवं विशिष्यते लोकसंवृतिरिति? यथावस्थितपदार्थानुवाद एषः, नात्रैषा चिन्तावतरति | अथवा | तिमिरकामलाद्युपहतेन्द्रियविपरीतदर्शनावस्थानास्ते ऽलोकाः, तेषां या संवृतिरसावलोकसंवृतिः | अतो विशिष्यते लोकसंवृतिरिति | एतच्च मध्यमकावतारे विस्तरेणोक्तं ततो वेदितव्यम् | लोकसंवृत्या सत्यं लोकसंवृतिसत्यम् | सर्व एवायमभिधानाभिधेयज्ञानज्ञेयादिव्यवहारो ऽशेषो लोकसंवृतिसत्यमित्युच्यते | न हि परमार्थत एते व्यवहाराः संभवन्ति | तत्र हि-
SK
निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे | अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता ||
SK
इति कृत्वा कुतस्तत्र परमार्थे वाचां प्रवृत्तिः कुतो वा ज्ञानस्य? स हि परमार्थो ऽपरप्रत्ययः शान्तः प्रत्यात्मवेद्य आर्याणां सर्वप्रपञ्चातीतः | स नोपदिश्यते न चापि ज्ञायते | उक्तं हि पूर्वम्-
प्रतीत्य धर्मानधिगच्छते विदू न चान्तदृष्टीय करोति निश्रयम् | सहेतु सप्रत्यय धर्म जानति अहेतु अप्रत्यय नास्ति धर्मता ||
SK
एवम्-
SK
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते |
SK
अप्रतीसमुत्पन्नश्च शून्यः | तस्मादशून्यो धर्मो नास्ति | यत एतदेवम्, अतो ऽस्माकं सर्वधर्माश्चशून्याः, न च परोक्तदोषप्रसङ्गः
SK
भवतस्तु सस्वभाववादिनः-
SK
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः |
SK
तदा नियतमुदयव्यययोरभावे सति-
SK
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते
SK
किं कारणम्? यस्मात्-
SK
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति | अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते
SK
यद्धि सस्वभावम्, न तत्प्रतीत्योत्पद्यते | यच्च अप्रतीत्य समुत्पन्नम्, न तदनित्यं भवति | न हि गगनकुसुममविद्यमानमनित्यम् | अनित्यं च दुःखमुक्तं भवगता- यदनित्यं तद्दुःखमिति | तथा च शतकशास्त्रे-
नास्त्येव असौ दुःखनिरोधः, यन्निरोधान्मार्गो भावितः सन् प्रापयिष्यति | तस्मादार्यमार्गो ऽप्येवं नोपपद्यत इति | एवं सस्वभाववादिनः चतुर्णामार्यसत्यानामभावः प्राप्नोति
SK
इदानीं दुःखादिपरिज्ञानादिकमपि यथा परस्य न संभवति, तथा प्रतिपादयन्नाह-
SK
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् | परिज्ञानं ननु किल स्वभावः समवस्थितः
SK
यदि पूर्वं दुःखमपरिज्ञातस्वभावं तत् पश्चात् परिज्ञायत इति कल्प्यते, तदयुक्तम् | किं कारणम्? यस्मान्ननु किल स्वभावः समवस्थितः | यो हि स्वभावः, स किल लोके समवस्थितः, नैवान्यथात्वमापद्यते, वह्नेरौष्ण्यवत् | यदा च स्वभावस्यान्यथात्वं नास्ति, तदा पूर्वमपरिज्ञातस्वभावस्य दुःखस्य पश्चादपि परिज्ञानं नोपपद्यत इति | अतो दुःखपरिज्ञानमपि न संभवति
SK
यदा चैतद्दुःखपरिज्ञानमपि न संभवति, तदा-
SK
प्रहाणसाक्षात्करणे भावना चैवमेव ते | परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च
SK
यदेतत् समुदयस्य प्रहाणं निरोधस्य च साक्षात्करणम्, ते एते द्वे प्रहाणसाक्षात्करणे या च मार्गस्य भावना, एषापि | एवमेव ते दुःखपरिज्ञानासंभवान्न युज्यन्ते | समुदयस्य स्वभावेनाप्रहीणस्य स्वभावस्यानपायित्वात् पश्चादपि प्रहाणं नोपपद्यते | एवं भावनासाक्षात्करणे ऽपि योज्यम् | न च केवलं परिज्ञानादिकमेव न संभवति सस्वभाववादे, अपि च-
SK
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च |
SK
यथा स्वभावेनापरिज्ञातस्य दुःखस्य परिज्ञानं न युक्तम्, एवं स्वभावेनाविद्यमानस्य पूर्वं स्रोतआपत्तिफलस्य पश्चादस्तित्वं न संभवति | यथा स्रोतआपत्तिफलस्य, एवं सकृदागाम्यनागाम्यर्हत्फलानामभावो वेदितव्यः
SK
न च केवलमेतानि फलानि परिज्ञावन्न युज्यन्ते, किं तर्हि अधिगमो ऽप्येषां न युज्यत इति प्रतिपादयन्नाह-
न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया | कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः
SK
यदि हि स्वरूपशून्याः पदार्था न भवेयुः, सस्वभावा एव भवेयुः, तदा स्वभावस्य विद्यमानत्वान्न केनचित् कस्यचित् किंचित् कर्तव्यं स्यात् | न हि नभसो ऽनावरणत्वं केनचित् क्रियते | अक्रियमाणा च क्रिया स्यात् | क्रियां चाकुर्वाणस्य कारकत्वं स्यात् | न चैतदेवमिति | तस्मान्नाशून्याः पदार्थाः
SK
किं चान्यत्-
SK
अजातमनिरुद्धं च कूटस्थं च भविष्यति | विचित्राभिरवस्थाभिः स्वभावे रहितं जगत्
स्याद्यदि किंचिदशून्यं न वदेज्जिनु तस्य व्याकरणम् |
SK
तथाहि स्थितं तत् स्वके स्वके भावे |
SK
कूटस्थमविकारं न तस्य वृद्धिर्न परिहाणिः || इति ||
SK
तथा आर्यहस्तिकक्ष्यसूत्रे-
SK
यदि कोचि धर्माण भवेत्स्वभावः तत्रैव गच्छेय जिनः सश्रावकः | कूटस्थधर्माण सिया न निर्वृती न निष्प्रपञ्चो भवि जातु पण्डितः || इति
SK
न च केवलं सस्वभाववादाभ्युपगमे लौकिका एव व्यवहारा नोपपद्यन्ते, अपि च लोकोत्तरा एव [अपि?] नोपपद्यन्ते इति प्रतिपादयन्नाह-
SK
असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च | सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते
SK
यदि हि अशून्यं सस्वभावं सर्वमेतत् स्यात्, तदा यदसंप्राप्तं तदसंप्राप्तमेव, इति असंप्राप्तस्य च फलस्य प्राप्तिर्न स्यात् | तदा दुःखपर्यन्तकारणं च पूर्वं नाभूदिति सांप्रतमपि न स्यात् | सर्वेषां च क्लेशानां पूर्वं प्रहाणं नाभूदिति पश्चादपि प्रहाणं न स्यात्
न चाभावो ऽपि निर्वाणं कुत एवास्य भावना | भावाभावपरामर्शक्षयो निर्वाणमुच्यते ||
SK
ये तु सर्वकल्पनोपशमरूपं निर्वाणमप्रतिपद्यमानाः भावाभावतदुभयानुभयरूपं निर्वाणं परिकल्पयन्ति, तान् प्रति उच्यते-
SK
भावस्तावन्न निर्वाणं जरामरणलक्षणम् | प्रसज्येतास्ति भावो हि न जरामरणं विना
SK
तत्रैके भावतो निर्वाणमभिनिविष्टा एवमाचक्षते- इह क्लेशकर्मजन्मसंतानप्रवृत्तिनियतरोधभूतो जलप्रवाहरोधभूतसेतुस्थानीयो निरोधात्मकः पदार्थः, तन्निर्वाणम् | न च अविद्यमानस्वभावो धर्मः एवं कार्यकारी दृश्यते | ननु च यो ऽस्या नन्दीरागसहगतायास्तृष्णायाः क्षयो विरागो निरोधो निर्वाणमित्युक्तम्, न च क्षयमात्रं भावो भवितुमर्हति | तथा-
तत्र सूत्र उक्तम्- ये केचिद्भिक्षवो भवेन भवस्य निःसरणं पर्येषन्ते विभवेन वा, अपरिज्ञानं [तं?] तत्तेषामिति | उभयं ह्येतत् परित्याज्यं भवे तृष्णा विभवे तृष्णा च | न चैतन्निर्वाणं प्रहातव्यमुक्तं भगवता, किं तर्हि अप्रहातव्यम् | तद्यदि निर्वाणं भावरूपं स्यादभावरूपं वा, तदपि प्रहातव्यं भवेत् | न च प्रहातव्यम् |
SK
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते ||
SK
येषामपि क्लेशजन्मनोस्तत्राभावादभावरूपं निर्वाणं स्वयं च भावरूपत्वाद्भावरूपमित्युभयरूपम्, तेषामुभयरूपमिति निर्वाणं नोपपद्यते, इति प्रतिपादयन्नाह-
SK
भवेदभावो भावश्च निर्वाणमुभयं यदि | भवेदभावो भावश्च मोक्षस्तच्च न युज्यते
SK
यदि भावाभावोभयरूपं निर्वाणं स्यात्, तदा भावश्च अभावश्च मोक्ष इति स्यात् | ततश्च यः संस्काराणामात्मलाभः तस्य च विगमः, स एव मोक्षः स्यात् | न च संस्कारा एव मोक्ष इति युज्यते | अत एवाह- तच्च न युज्यते इति
SK
किं चान्यत्-
SK
भवेदभावो भावश्च निर्वाणमुभयं यदि | नानुपादाय निर्वाणमुपादायोभयं हि तत्
SK
यदि भावाभावरूपं निर्वाणं स्यात्, तदा हेतुप्रत्ययसामग्रीमुपादाय आश्रित्य भवेत्, न अनुपादाय | किं कारणम्? यस्मादुपादायोभयं हि तत् | भावमुपादाय अभावः, अभावं चोपादाय भावः, इति कृत्वा उभयमेतद् भावं च अभावं च उपादायैव भवति, न अनुपादाय | एवं निर्वाणं भवेद् भावाभावरूपम् | न चैतदेवम्, इति न युक्तमेतत्
SK
किं चान्यत्-
SK
भवेदभावो भावश्च निर्वाणमुभयं कथम् | असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ
अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनातः अविद्या प्रहीयते | यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते | प्रतिबिम्बस्वप्रालातचक्रमुद्गादिवत्तु स्वभावशून्यतां सर्वेषां भावानामवतरति | स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किंचिद्वस्तु उपलभते बाह्यमाध्यात्मिकं वा | सो ऽनुपलभमानो न क्वचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति | एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति |तत्त्वदर्शिनोयोगिनो नियतमेव अविद्या प्रहीयते | प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते
अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति | तत्रतत्रोपपत्त्यांयतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति | स च नामरूपाङ्कुरो न स्वयं कृतोअ न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः | अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेष्वममेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ||
इहापि दृष्टिद्वयोपादानमुपलक्षणार्थम् | चतस्त्रस्त्वेता दृष्टयः | तद्यथा- किं नु भविष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव (Pप्_२५०) भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टयः अपरान्तं समाश्रिताः | किमेता एव चतस्रो दृष्टयः अपरान्तं समाश्रिताः? नेत्याह | किं तर्हि अपरा अपि चतस्रो विद्यन्ते अन्ताद्या अपरान्तं समाश्रिताः | तत्र अन्ताद्याश्चतस्रो दृष्टयः सामान्येन अपरान्तमाअश्रित्य प्रवृत्ताः, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ताः, इत्येवं दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम्
SK
तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभवः, तथा प्रतिपादयन्नाह-
SK
अभूमतीतमध्वानमित्येतन्नोपपद्यते | यो हि जन्मसु पूर्वेषु स एव न भवत्ययम्
SK
तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्, तदा युक्तमस्य ग्रहीतुम्- अभूवमहमतीतमध्वानमिति | न चैतदेवं संभवति नित्यत्वप्रसङ्गात्, नित्यस्य च संसरणानुपपत्तेः, एकगतिस्थस्यापि नानागतिसंगृहीतत्वप्रसङ्गात् | इह हि पूर्वं यदि नरकादिगतिको भूत्वा इदानीं कर्मवैचित्र्यात् मनुष्येषु उपपन्नः एवंकल्पयेत्- अहमेवासौ नारक आसम् इति, तदस्य न युक्तम् | कथं हि नाम मनुष्यः सन् नारकादिकः स्यात्?
SK
यत्तर्हि इदं पठयते सूत्रे- अहमेव स तेन कालेन तेन समयेन मान्धाता नाम राजा चक्रवर्ती अभूवम् इति, तत् कथं वेदितव्यमिति? अन्यत्वप्रतिषेधपरं तद्वचनं नैकत्वप्रतिपादकमिति विज्ञेयम् | अत एव हि नान्यः स तेन कालेन तेन समयेनेति पठयते | यदि पुनः स एवायमिति पूर्वकस्य चाधुनातनस्य च एकत्वं स्यात्, को दोषः स्यात्? उक्तस्तावदत्र दोषः- नित्यत्वं स्यादिति
SK
तथापि भूय उच्यते-
SK
स एवात्मेति तु भवेदुपादानं विशिष्यते |
SK
यदि स एव पूर्वक आत्मायमिदानीं स्यात्, तदा उपादानस्य पञ्चस्कन्धलक्षणस्य विशेषो न स्यात् उपादातुरविशेषात्पूर्वावस्थायामिव | न चैवमुपादानाविशेषो ऽस्यात्मनः, किं तर्हि विशिष्यत एव उपादानमुपादातुः कर्मभेदात् कारकभेदाच्च | ततश्च उपादानविशेषात् स एवायमात्मेति न युज्यते ||
यदि हि अन्यदुपादानम्, अन्यश्चात्मा स्यात्, तदा उपादानविशेषे ऽपि आत्मनो ऽविशेषात् स्यादेतदेवम् | न चैतद् भेदेन दर्शयितुं शक्यम्- अयमसावात्मा, इदमस्योपादानमिति, (Pप्_२५१) उपादानविशिष्टस्वभावत्वादात्मनो ऽहेतुकत्वप्रसङ्गात्, पृथग्ग्रहणप्रसङ्गाच्च | यदा चैवमुपादानविनिर्मुक्त आत्मा दर्शयितुं न शक्यते, तदा उपादानविशेषे ऽपि आत्माविशेष इति न शक्यते कल्पयितुम्
SK
अथापि कश्चित् परिकल्पयेत्- सत्यम्, उपादानविनिर्मुक्त इति एवं न संभवति, किमुपादानमेव आत्मत्वेन परिकल्प्यते इति? एतदपि न युक्तमिति प्रतिपादयन्नाह-
SK
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति | स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः
SK
यथा तावदुपादानमेवात्मा न संभवति तथा प्रतिपादयन्नाह-
SK
न चोपादानमेवात्मा व्येति तत्समुदेति च | कथं हि नामोपादानमुपादाता भविष्यति
SK
तत्र यदेतत् पञ्चोपादानस्कन्धाख्यमुपादानम्, तत् प्रतिक्षणमुत्पद्यते च विनश्यति च | न चैवमात्मा प्रतिक्षणमुत्पद्यते च विनश्यति च | आत्मा स्कन्धेभ्यस्तत्त्वान्यत्वादिना च नित्यानित्यत्वेनाप्यशक्य एव वक्तुम्, अनेकदोषप्रसङ्गात् | नित्यत्वे हि आत्मनः शाश्वतवादः स्यात्, अनित्यत्वे च उच्छेदवादप्रसङ्गः | ततश्च तदुभयं शाश्वतोच्छेदाख्यं महानर्थकरमिति नोपगन्तव्यम् | अतः उपादानमेवात्मेति तावन्न युज्यते ||
SK
अपि च-
SK
कथं हि नामोपादानमुपादाता भविष्यति |
SK
इह उपादीयते इत्युपादानं कर्म | तस्य च अवश्यमुपादात्रा उपार्जकेन भवितव्यम् | तस्य चोपादानस्य यदि आत्मत्वमिष्यते, तत्र उपादानमेव उपादाता इत्यपि विद्यते | ततश्च कर्तृकर्मणोरैक्ये सति छेतृच्छेत्तव्यघटकुम्भकाराग्नीन्धनादीनामपि ऐक्यं स्यात् | न चैतद् दृष्टं युक्तं वा इति प्रतिपादयन्नाह-
SK
कथं हि नामोपादानमुपादाता भविष्यति | इति |
SK
अपि तु अत्यन्तासंभव एवास्य पक्षस्येत्यभिप्रायः
SK
अत्राह- सत्यमुपादानमात्रमात्मा न युज्यते, किं तर्हि उपादानव्यतिरिक्त एव आत्मा भविष्यति | एतदपि न युक्तम् | किं कारणम्? यस्मात्-
SK
अन्यः पुनरुपादानादात्मा नैवोपपद्यते | गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते
SK
यदि उपादानादात्मा व्यतिरिक्तः स्यात्, गृह्येत स उपादानव्यतिरिक्तः, घटादिव पटः | न चैवं गृह्यते | तस्मादुपादानव्यतिरिक्तो ऽपि नास्ति | अनुपादानः उपादानव्यतिरेकेण अगृह्यमाणत्वात् खपुष्पवत्, इत्यभिप्रायः
SK
इदानीं यथोपपादितमर्थं निगमयन्नाह-
SK
एवं नान्य उपादानान्न चोपादानमेव सः | आत्मा नास्त्यनुपादानः
SK
अथ स्यात्- यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्वप्रसङ्गात् | उदयव्ययप्रसङ्गाच्च | स हि अन्यो ऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहणप्रसङ्गात् | न चाप्यनुपादानः, उपादाननिरपेक्षस्य ग्रहणप्रसङ्गात् | एवं तर्हि नास्ति आत्मेत्यस्तु | उच्यते-
SK
नापि नास्त्येष निश्चयः
SK
यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात्? न हि अविद्यमानो वन्ध्यातनयः स्कन्धानुपादाय प्रज्ञप्यते | कथं सति उपादाने उपादाता नास्तीति युज्यते | तस्मान्नास्तित्वमप्यस्य न युज्यते | तस्मान्नास्ति आत्मेति निश्चयो ऽप्येष नोपपद्यते | अस्य त्वात्मनो व्यवस्थानं विस्तरेण मध्यमकावतारादवसेयम् | इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न पुनरिह तद्वयवस्थाने यत्न आस्थीयते
SK
एवं तावदभूवमतीतमध्वानमित्येषा कल्पना नोपपद्यते | इदानीं नाभूवमतीतमध्वानमित्येदपि यथा नोपपद्यते तथा प्रतिपादयन्नाह-
SK
नाभूमतीतमध्वानमित्येतन्नोपपद्यते | यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्ययम्
SK
यदि पूर्वकादात्मनः अस्य अधुनातनस्य आत्मनो ऽन्यत्वं स्यात्, तदानीं नाभूमतीतमध्वानमिति स्यात् | न चैतदेवं संभवति | तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते
SK
यदि पुनः पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, को दोष इति? उच्यते-
SK
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् | तथैव च स संतिष्ठेत्तत्र जायेत वामृतः
SK
यदि हि अयमधुनातन आत्मा पूर्वकादात्मनः अन्यः स्यात्, तदा तं पूर्वकमात्मानं प्रत्याख्याय परित्यज्य तन्निरपेक्षः अतद्धेतुक एव स्यात् | किं चान्यत् | तथैव च स संतिष्ठेत्तत्र यदि पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मना उत्तरस्मिन्नपि आत्मनि समुत्पद्यमाने ऽपि अनिरोधः स्यात् | अनिरुद्धत्वाच्च यत्र पूर्वं देवमनुष्यादिजन्मसु उपपन्नः, येन वर्णसंस्थानादिना पूर्वमुपलभ्यमानः, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत तथैवावतिष्ठेतेति | तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ||
SK
अत्राह- तत्र यदुक्तम्-
SK
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् | इति,
SK
यदि पुन पूर्वकमात्मानं प्रत्याख्याय [अयमिह भवेत्, को दोषः स्यात्? तत्र दोषा बहवः स्युः | कथमिति चेत्, यस्मादेवं सति-
यदि हि अन्यो देवो ऽन्यश्च मनुष्यः स्यात्, तदा पूर्वकस्य मनुष्यात्मनस्तत्र नष्टत्वादिह च अन्यस्यैवोत्पादात् स पूर्वको मनुष्यात्मा तत्र विनष्ट इत्यशाश्वतं स्यात् | तत्संतानानुवृत्त्या नाशाश्वतमिति चेत्, उच्यते-
SK
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते |
SK
यदि देवादन्यो मनुष्यो भवेत्, तदा यथा निम्बस्य न आम्रतरुसंतानो भवति, एवं मनुष्यस्य देवः एकसंतानपतितो न स्यात् | ततश्च पूर्वकस्य विनाशादशाश्वतमेव भवेत् | अथवा | (Pप्_२५५) यदि देवादन्यो मनुष्यो भवेत्, तदा संतानानुवृत्तिर्न स्यात् | अस्ति चेयं संतानानुवृत्तिः देवस्य मनुष्यः एकसंतानपतित इति | तस्मात् संतानाभावप्रसङ्गात् देवादन्यो मनुष्यो न भवति | यतश्चैवम्, अतो ऽशाश्वतमपि नास्ति
SK
इदानीं शाश्वताशाश्वतप्रतिषेधार्थमाह-
SK
दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः अशाश्वतं शाश्वतं च भवेत्तच्च न युज्यते
SK
यदि अयं मनुष्यः अंशेन मनुष्यतां विजह्यात्, अंशेन विहाय मनुष्यतां देवात्मभावमुपादद्यात्, तदा एकदेशस्य नाशादशाश्वतं स्यात्, एकदेशस्य च अवस्थानाच्छाश्वतं स्यात् | एतच्च अयुक्तं यदेकस्य दिव्यगतिसंगृहीतः एकदेशः स्यात्, एकदेशश्च मनुष्यः स्यात् | तस्माच्छाश्वतं च अशाश्वतं च एतदुभयं नोपपद्यते
SK
इदानीं नशाश्वतनैवाशाश्वतदृष्टिप्रतिषेधार्थमाह-
SK
अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि | सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि
SK
यदि शाश्वतं किंचिद्वस्तु स्यात्, तदा पश्चादशाश्वतदर्शनान्नैव शाश्वतमिति स्यात् | एवं यदि किंचिदशाश्वतं स्यात्, तदा तस्य पश्चाच्छाश्वतोपपत्तितो नाशाश्वतमिति स्यात् | यदा तु शाश्वताशाश्वतमेवाप्रसिद्धम्, तदा कुतस्तत्प्रतिषेधेन नैवशाश्वतं नाशाश्वतम् स्यादिति? तस्मादेतदप्ययुक्तम्
SK
अथ स्यात्- अनादिजन्ममरणपरंपराप्रवृत्तमविच्छिन्नकमं संसारप्रबन्धमुपलभ्य शाश्वत मात्मानं परिकल्पयामः | अस्त्यसौ शाश्वतः कश्चित् पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति | उच्यते | एतदपि नोपपद्यते | किं कारणम्? यो हि नाम-
SK
कुतश्चिदागतः कश्चित्किंचिद्गच्छेत्पुनः क्वचित् | यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः
SK
यदि हि संस्काराणामात्मनो व कुतश्चिद्गत्यन्तराद् गमनं गत्यन्तरमागमनं स्यात्, ततश्च गन्त्यन्तरात् पुनः क्वचिद् गमनं स्यात्, तदानीमनादिः संसारः स्यात् | न च कुतश्चित् कस्यचिदागमनं संभवति, नित्यस्य वा अनित्यस्य वा आगमनानुपपत्तेः | न चापि इतः पुनः कस्यचित् क्वचिद् गमनं संभवति, नित्यस्य वा अनित्यस्य गमनानुपपत्तेः | यदा चैवं न संभवति, तदा कुतो जन्ममरणपरंपराया अतिदीर्घत्वेन आद्यनुपलम्भादनादिमान् संसारः स्यात्? संसर्तुरभावात् कुतः अनादिमत्त्वमादिमत्वं वा संसारस्य संभवेत्? यदा च न संभवति, तदा यदुक्तम्- अस्त्यसौ शाश्वतः कश्चित्पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति, तन्न युक्तम् ||
SK
अतश्च, एवं यथोदितन्यायेन-
SK
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः | शाश्वतो ऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः
इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह-
SK
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् | अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत्
SK
यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको न स्यात्, तदा परलोको न स्यात् अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते | अथापि अनन्तवांल्लोकः स्यात्, तदानीमपि परलोकः कथं भवेत्? नैव परलोकः स्यादित्यभिप्रायः | न च परलोको नास्ति | अतः परलोकसद्भावादन्तवानपि लोको न भवति
SK
इदानीमन्तवत्त्वमनन्तवत्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रतिपादयन्नाह-
SK
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव | प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते
SK
पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नकमवर्ती यस्मादयं प्रदीपवत् प्रतिक्षणविनाशी स्कन्धसंतानः प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नान्तवत्त्वं नानन्तवत्त्वं च युज्यते
SK
कथं कृत्वा?
SK
पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी | स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोको ऽन्तवान् भवेत्
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् | स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते
SK
यदि हि कस्यचिदेकदेशस्य विनाशः स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्, यात्तदानीमन्तवांश्च लोको ऽनन्तवांश्च | न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न नश्यतीति | अतः अन्तवांश्च अनन्तवांश्च लोक इति न युज्यते
SK
कस्मात् पुनरेकदेशस्य विनाशः एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह-
SK
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते| न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते
SK
इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातुरेकदेशस्य विनाशः अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य? तत्र यदि तावदुपादातुरेकदेशस्य विनाशः एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते | किं कारणम्? यस्मात्-
SK
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते | न नङ्क्ष्यते चैकदेशः
अथवा | उपादाता हि नाम आत्मा | स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति | यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते? अत एवाह- एवं चैतन्न युज्यते इति | अथवा यदि उपादातुरेकदेशो नश्येदेकदेशश्च न नश्येत्, तदा एकस्यैव उपादातुर्देवत्वमंशेनान्येन मनुष्यत्वं स्यात् | न चैतदिष्यते इत्याह- एवं चैतन्न युज्यते इति | एवं तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति
SK
इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह-
SK
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते | न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते
SK
उपादातृवदेतदपि व्याख्येयम्
SK
तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह-
SK
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि | सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि
SK
प्रतिषेध्यस्य वस्तुनो ऽसंभवात् प्रतिषेधस्याप्यसंभव इति | अतः अन्तवत्त्वे च अनन्तवत्त्वे च उभयस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोकः इति दृष्टिसंभवः स्यादिति