Determination of Vibration
Spandanirṇaya
SKॐ काश्मीरसंस्कृतग्रन्थावलिः | ग्रन्थाङ्कः ४२ स्पन्दकारिकाः क्षेमराजकृतनिर्णयोपेताः | श्रीभारतधर्ममार्तण्ड कश्मीरमहाराजश्रीप्रतापसिंहवरप्रतिष्ठापिता प्रत्नविद्याप्रकाश (रिसर्च) कार्यालये तदध्यक्षपण्डितमधुसूदन कौलशास्त्रिणा उद्दिष्टकार्यालयस्थपण्डितसहायेन संगृह्य संशोधनाङ्लभाषानुवादादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरात्युपत्याससंस्कारैः परिष्कृत्य श्रीनगरे कश्मीर प्रताप स्तीम प्रेस मुद्रणालये मुद्रापयित्वा प्रकाश्यं नीताः | खैस्ताब्द १९२५ काश्मीर श्रीनगर अस्य ग्रन्थस्य सर्वे प्रकाशन मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः | कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान् देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्द्यत्वमाप || १ || तरत तरसा संसाराब्धिं विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे | विमृशत शिवादिष्टाद्वैतावबोधसुधारसं प्रसभविलसत्सद्युक्त्यान्तः समुत्प्लवदायिनम् || २ || १) अथ स्पन्दनिर्णयः श्रीक्षेमराजविरचितः | सर्वं स्वात्मस्वरूपं मकुरनगरवत्स्वस्वरूपात्स्वतन्त्रस्वच्छस्वात्मस्वभित्तौ कलयति धरणीतः शिवान्तं सदा या | दृग्देवी मन्त्रवीर्यं सततसमुदिता शब्दराश्यात्मपूर्णा हन्तानन्तस्फुरत्ता [ग्: नन्देति पाठः |] जयति जगति सा शाङ्करी स्पन्दशक्तिः || १ || स्पन्दामृते चर्वितेऽपि स्पन्दसंदोहतो मनाक् | पूर्णस्तच्चर्वणाभोगोद्योग एष मयाश्रितः || २ || सम्यक्सूत्रसमन्वयं परिगतिं तत्त्वे परस्मिन्परां तीक्ष्णां युक्तिकथामुपायघटनां स्पष्टार्थसद्व्याकृतिम् | ज्ञातुं वाञ्छथ चेच्छिवोपनिषदं [क्, ख्, ग्: चिदिति पाठः | ] श्रीस्पन्दशास्त्रस्य तद्वृत्तावत्र धियं निधत्त सुधियः स्पन्दश्रियं माप्नुत || ३ ||
SKइह हि विश्वानुजिघृक्षापरपरमशिवावेशोन्मीलितमहिमा स्वप्नोपलब्धोपदेशः श्रीमान्वसुगुप्ताचार्यो महादेवपर्वताद्भगवदिच्छयैव २) महाशिलातलोल्लिखितान्यतिरहस्यानि शिवसूत्राण्यासाद्य प्रसन्नगम्भीरैरेकपञ्चाशता श्लोकैरागमानुभवोपपत्त्यैकीकारं प्रदर्शयन्संगृहीतवान् | तत्र १ पञ्चविंशत्या स्वरूपस्पन्दः २ सप्तभिः सहजविद्योदयस्पन्दः ३ एकोनविंशत्या विभूतिस्पन्द उक्तः इति त्रिनिःष्यन्दमिदं स्पन्दशास्त्रम् | तत्र प्रथमनिःष्यन्देऽस्मिन् स्तुतिपूर्वं प्रकरणार्थः श्लोकेनोपक्षिप्तः | ततश्चतुर्भिः श्लोकैः सोपपत्तिकं स्पन्दतत्त्वं व्यवस्थापितम् | ततः श्लोकाभ्यां साभिज्ञानं तत्प्राप्तावुपाय उक्तः | श्लोकेनोपायविप्रतिपत्तिर्निरस्ता | श्लोकेनोपाय एवोपेयप्राप्त्यानुरूप्यकथनेनोपोद्वलितः | तत एकेन तदुपायलभ्यं यादृगुपेयस्य स्वरूपं तदुपदर्शितम् | ततस्तदवष्टम्भात्संसाराभावः श्लोकेनोक्तः | द्वयेनाभाववादिमतं व्युदस्यता तद्वैलक्षण्यं स्पन्दतत्त्वस्योक्तम् | श्लोकेन तदुल्लासितस्य कार्यस्य क्षयित्वेऽपि तदक्षयमित्याख्यातम् | एतदेव श्लोकाभ्यामुपपाद्याभाववाद एवोन्मूलितः | तत एकेन सुप्रबुद्धस्य सदैवैतत्प्राप्तिः प्रबुद्धस्य तु पूर्वापरकोट्योरित्यावेदितम् | एकेन सुप्रबुद्धस्य प्रतीतेर्विषयविभाग उक्तः | ततोऽन्येन सुप्रबुद्धस्यावरणाभावे युक्तिरुपक्षिप्ता | श्लोकेनाप्रबुद्धस्य स्थगितस्वरूपतोक्ता | तत एकेन सुप्रबुद्धतालाभाय सततमुद्यन्तव्यमित्युक्तम् | श्लोकेन व्यवहारावस्था एव काश्चित्तदितरसकलवृत्तिक्षयरूपा उद्योगस्य विषय इत्यावेदितम् | ततोऽपि प्राप्तप्रबोधेन सुप्रबुद्धतायै योग्युचितसौषुप्ततमोवरणविदलने प्रजागरितव्यमित्युक्तं श्लोकत्रयेण इति यस्योन्मेष इत्यादेः प्रबुद्धः स्यादनावृत इत्यन्तस्य तात्पर्यम् | अथ ग्रन्थार्थो व्याख्यायते ३) यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः || १ ||
SKशम् उपशान्ताशेषोपतापपरमानन्दाद्वयमयस्वचैतन्य- śaṃkaraṃ stumastaṃ viśvotkarṣitvena parāmṛśantastatkḷptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ | bahuvacanamanugrahadṛṣṭikaṭākṣitāśeṣānugrāhyābhedaprathanāya | tamityanena yadasya niḥsāmānyatvamapi dhvanitaṃ tatprathayati yasyetyardhena | iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmaka- स्वातन्त्र्यशक्तिरविभक्ताप्यशेषसर्गसंहारादिपरम्परां दर्पणनगरवत्स्वभित्तावेव भावियुक्त्यानधिकामप्यधिकामिव दर्शयन्ती किंचिच्चलत्तात्मकधात्वर्थानुगमात्स्पन्द इत्यभिहिता तेन भगवान्सदा स्पन्दतत्त्वसतत्त्वो न त्वस्पन्दः यदाहुः केचित् अस्पन्दं परं तत्त्वम् इति | एवं हि शान्तस्वरूपत्वादनीश्वरमेवैतद्भवेत् | स्फुरत्तासारस्पन्दशक्तिमयशंकरात्मकस्वस्वभावप्रतिपादनायैव चेदं शास्त्रं समुचितस्पन्दाभिधानं महागुरुभिर्निबद्धम् | एतच्च व्यक्तीभविष्यति | सा चैषा स्पन्दशक्तिर्गर्भीकृतामन्तसर्गसंहारैकषनाहन्ताचमत्कारानन्दरूपा ४) निःशेषशुद्धाशुद्धरूपामातृमेयसंकोचविकासाभासनसतत्त्वा सर्वोपनिषदुपास्या युगपदेवोन्मेषनिमेषमयी | तथा हि शिवादेः क्षित्यन्तस्याशेषस्य तत्त्वग्रामस्य प्राक्सृष्टस्य संहर्तृरूपा या निमेषभूरसावेवोद्भविष्यद्दशापेक्षया स्रष्टृरूपोन्मेषभूमिस्तथा विश्वनिमेषभूश्चिद्धनतोन्मेषसारा चिद्धनतानिमज्जनभूमिरपि विश्वोन्मेषरूपा यदागमः लेलिहाना सदा देवी सदा पूर्णा च भासते | ऊर्मिरेषा विवोधाब्धेः शक्तिरिच्छात्मिका प्रभोः ||
SKइति | श्रीमान्महेश्वरो हि स्वातन्त्र्यशक्त्या शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलान्तां प्रमातृभूमिकां तद्वेद्यभूमिकां च गृह्णानः पूर्वपूर्वरूपतां भित्तिभूततया स्थितामप्यन्तः स्वरूपावच्छादनक्रीडया निमेषयन्नेवोन्मेषयति उत्तरोत्तररूपतामवरोहक्रमेण आरोहक्रमेण तूत्तरोत्तररूपतां निमेषयन्नेव ज्ञानयोगिनामुन्मेषयति पूर्वपूर्वरूपतामत एवोत्तरमुत्तरं पूर्वत्र पूर्वत्र संकोचात्मतां जहद्विकसितत्वेनासावाभासयति पूर्वं पूर्वं तु रूपं यथोत्तरं विकसिततां निमज्जयन् सङ्कुचितत्वेन दर्शयति | एवं च सर्वं सर्वमयमेव प्रथयति केवलं तदवभासितसंकोचमात्रत इयं भेदप्रतिपत्तिरिव यदुद्दलनायेहत्य उपदेश इत्यास्तां तावदेतत् | नीलसुखाद्याभासोन्मेषमय्यपि च संवित् प्रमात्रेकात्मकतत्स्वरूपनिमेषरूपावभातचरपीताद्याभासोपसंहार- pratibhāṃ bhagavatīṃ vicinvantu mahādhiyaḥ saṃsāravicchedāya | ata evonmeṣanimeṣābhyāmityejñatpadaṃ 5) nijavṛttau bhaṭṭaśrīkallaṭena saṃkalpamātreṇa ityavibhaktamevecchāśaktirūpatayā vyākhyāyi | saṃgrahakṛtāpi [g: pratyakṛteti pāṭhaḥ |] ekacintāprasaktasya yataḥ syādaparodayaḥ | unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet || (3|9) ityatra prārabdhacintāsaṃharaṇameva parasvarūpodayaheturunmeṣa ityabhidhāsyate pravṛttacintāsaṃhāraṃ vinā parasvarūpodayāmāvāt | etacca tatraiva vitaniṣyāmaḥ | parāmṛtarasāpāyastasya yaḥ pratyayodbhavaḥ | tenāsvatantratāmeti sa ca tanmātragocaraḥ || (3|14) ityatrāpyudayaḥ pralayaparamārtha iti spaṣṭameva vakṣyate | yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam | (1|9)
SKइत्यत्रापि क्षोभप्रलयात्मा निमेषः परपदोन्मेषरूप इत्यपि निरूपयिष्यते | तदेवमेकैवोभयरूपापि शक्तिः कदाचिदुन्मेषप्रधानतया व्यवह्रियते कदाचिन्निमेषप्रधानतया | ततश्च यस्य संबन्धिन्याः स्वरूपनिमेषात्ममः कार्योन्मेषप्रधानायाः शक्तेर्हेतोर्जगतो विश्वस्य शिवादेर्धरण्यन्तस्योदयोऽभेदसारतानिमज्जनसतत्त्वो नानावैचित्र्यशाली भेदरूपः सर्गः स्वरूपोन्मेषात्मनश्च बाह्यतानिमेषप्रधानायाः शक्तेर्जगतः प्रलयोऽभेदमयतोदयात्मा विचित्रभेदरूपतासंहार इति प्रलयोऽप्युदयरूप उदयोऽपि च प्रलयरूप इति व्याख्येयम् | वस्तुतस्तु न किंचिदुदेति व्ययते वा केवलं स्पन्दशक्तिरेव भगवत्यक्रमापि तथातथाभासरूपतया स्फुरन्त्युदेतीव व्ययत इव चेति दर्शयिष्यामः | स्थितिविलयानुग्रहाणां विशिष्टप्रलयोदयरूपत्वान्नाधिक्यमिति प्रलयोदयाभ्यामेव ६) पञ्चविधं पारमेश्वर्यं कृत्यं संगृहीतम् | निर्णीतं चैवंप्रायं [ग्: एवं प्रागिति पाठः |] मयैव प्रथमसूत्रमात्रविवरणे स्पन्दसंदोहे | ननु श्रीमन्महार्थदृष्ट्या सृष्ट्यादिदेवताभिरेव विचित्रा जगतः प्रलयोदयाः संपाद्यन्ते तत्कथमेतदुक्तं यस्येत्यादि इत्याशङ्क्याह तं शक्तिचक्रविभवप्रभवमिति | शक्तीनां सृष्टिरक्तादिमरीचिदेवीनां चक्रं द्वादशात्मा समूहस्तस्य यो विभव उद्योगावभासनचर्वणविलापनात्मा क्रीडाडम्बरस्तस्य प्रभवं हेतुम् | एता हि देव्यः श्रीमन्मन्थानभैरवं चक्रेश्वरमालिङ्ग्य सर्वदैव जगत्सर्गादिक्रीडां संपादयन्तीत्याम्नायः | अथ च कस्मात्परमेश्वरस्य जगत्सर्गसंहारादिहेतुत्वमित्याशङ्कायामेतदेवोत्तरं [ग्: इदमिति पाठः |] शक्तिचक्रेति | यावद्धि किंचिद्विश्वं संभवति तत्प्रकाशमानत्वेन प्रकाशमयत्वात् स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || (ई० प्र० १|५|१०)
SKइति विपश्चिन्निश्चितनीत्या परमेश्वरस्यान्तः प्रकाशैकात्म्येन प्रकाशमानं स्थितं सच्छक्तिचक्रमित्युच्यते यतः परमेश्वरस्यागमेष्वनन्तशक्तित्वमुद्धोष्यते तस्य शक्तिचक्रस्याभासपरमार्थस्य विश्वस्य यो विभवः परस्परसंयोजनावियोजनावैचित्र्यमनन्तप्रकारं तस्य प्रभवं कारणम् | स एव हि भगवान्विज्ञानदेहात्मकान्स्वात्मैकात्म्येन स्थितान्विश्वानाभासानन्योन्यं नानावैचित्र्येण संयोजयन्वियोजयंश्च विश्वोदयप्रलयहेतुः | तदुक्तं [ग्: तदेतदिति पाठः |] श्रीभट्टकल्लटेन विज्ञानदेहात्मकस्य शक्तिचक्रैश्वर्यस्योत्पत्तिहेतुत्वम् | इत्येतद्वृत्त्यक्षराणामत्र व्याख्याद्वयेऽप्यानुरूप्यम् | अपि च ७) शक्तयोऽस्य जगत्कृत्स्नम् | इत्यागमदृष्ट्या तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः | (२|४) इतीहत्यस्थित्या च जगदात्मनः तत्खेचर्यूर्ध्वमार्गस्थं व्योम वामेशिगोचरम् | इति रहस्यनीत्या च वामेश्वरीखेचरीगोचरीदिक्चरीभूचरीरूपस्य मयैव स्पन्दसन्दोहे सम्यङ्निर्णीतस्य अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | (१|२०) इत्यत्रापि निर्णेष्यमाणस्यैतद्व्याख्याद्वयव्याख्यातशक्तिचक्रप्रपञ्चभूतस्य च यतः करणवर्गोऽयं * * * * * * * * | (१| ६) इति स्थित्येन्द्रियग्रामात्मनः तदाक्रम्य बलं मन्त्राः * * * * * * * * | (२|१) इति नित्यमन्त्रात्मनः शब्दराशिसमुत्थस्य शक्तिवर्गस्य * * * ? (३|१३)
SKइति नीत्या [ग्: दृष्ट्येति पाठः |] ब्राह्म्यादिदेवतास्वभावस्यैवमादेरनन्तप्रकारस्यापि [ग्: अन्येति पाठः | ] मयैव स्पन्दसन्दोहे वितत्य निर्णीतस्य शक्तिचक्रस्य यो विभवो माहात्म्यं तत्र प्रभवतीति प्रभवं स्वतन्त्रं न तु पशुवत्परतन्त्रम् | शक्तिचक्रस्य रश्मिपुञ्जस्य [ग्: स्वरश्मिचक्रस्येति पाठः |] यो विभवोऽन्तर्मुखो विकासस्ततः प्रभव उदयोऽभिव्यक्तिर्यस्येति बहुव्रीहिणाऽन्तर्मुखतत्स्वरूपनिभालनादयत्नेन परमेश्वरस्वरूपप्रत्यभिज्ञानं भवतीत्यर्थः | किं च यस्य चिदानन्दघनस्यात्मन उन्मेषनिमेषाभ्यां स्वरूपोन्मीलननिमीलनाभ्यां यदन्तस्तद्बहिः इति युक्त्या जगतः शरीररूपस्य तदनुपङ्गेण ८) बाह्यस्यापि विश्वस्य प्रलयोदयौ यथासंख्यं मज्जनोन्मज्जने भवतस्तं शक्तिचक्रविभवस्य परसंविद्देवतास्फारस्य प्रभवं भक्तिभाजामेतत्स्वरूपप्रकाशकं शंकरं स्तुमः | तथा यस्य स्वात्मनः संबन्धिनो बहिर्मुखताप्रसररूपादुन्मेषाज्जगत उदयोऽन्तर्मुखतारूपाच्च निमेषात्प्रलयस्तं विश्वसर्गादिकार्युन्मेषादिस्वरूपसंविद्देवीमाहात्म्यस्य हेतुं शंकरं स्तुम इति यथासंभवमपि योज्यम् | देहाद्याविष्टोऽपि परमेश्वरः करणोन्मीलननिमीलनाभ्यां रूपादिपञ्चकमयस्य जगतः सर्गसंहारौ करोति | यदुक्तं रहस्यतत्त्वविदा तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् | भान्तमेवान्तरर्थौघमिच्छया भासयेद्वहिः || (ई० प्र० १|६|७) इति | एवंविधार्थपरिग्रहायापि यस्य स्वातन्त्र्यशक्त्या इति त्यक्त्वा यस्योन्मेषनिमेषाभ्याम् इति न्यरूपि गुरुणा | अत्र च शंकरस्तुतिः समावेशरूपा प्राप्यत्वेनाभिधेया शक्ति चक्रविभवात्प्रभवो यस्येति बहुव्रीहिणा शक्तिचक्रविकासस्तत्प्राप्तावुपाय उक्तः शक्तिचक्रविभवस्य परसंविद्देवतास्फारस्य भक्तिभाजां प्रभवं प्रकाशकमिति तत्पुरुषेण फलमुक्तम् | यद्वक्ष्यति ततश्चक्रेश्वरो भवेत् | (३|१९)
SKइत्यभिधेयोपाययोरुपायोपेयभावः संबन्ध इत्यभिधेयोपायसंबन्धप्रयोजनान्यनेनैव सूत्रेण सूत्रितानि || १ || नन्वेवंभूतशंकरस्वरूपसत्तायां किं प्रमाणं कुतश्चोपादानादिहेतुं विना जगदसौ जनयति तस्यैवोपादानत्वे मृत्पिण्डस्येव घटेन जगता तिरोधानं क्रियेत तिरोहितातिरोहिततायां च भगवतः स्वभावभेदः स्यात् पुनरुन्मज्जने ९) च हेतुश्चिन्त्यो जगदुदये च द्वैतप्रसङ्ग इत्येताः शङ्का एकप्रहारेणापहर्तुमाह यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् || २ || तस्यास्य शंकरात्मनः प्रकाशानन्दघनस्य स्वस्वभावस्य न कुत्रचिद्देशे काल आकारे वा निरोधः प्रसरव्याघातोऽस्ति अनावृतरूपत्वादस्थगितस्वभावत्वात् | अयं भावः इह यत्किंचित्प्राणपुर्यष्टकसुखनीलादिकं चित्प्रकाशस्यावरकं संभाव्यते तद्यदि न प्रकाशते न किंचित् प्रकाशमानं तु प्रकाशात्मकशंकरस्वरूपमेवेति किं कस्य निरोधकं को वा निरोधार्थः | एतदेव तस्येत्येतद्विशेषणेन यत्रेत्यादिनोपपादयति | यत्र यस्मिंश्चिद्रूपे स्वात्मनि इदं मातृमानमेयात्मकं सर्वं जगत्कार्यं स्थितं यत्प्रकाशेन प्रकाशमानं सत्स्थितिं लभते तस्य कथं तेन निरोधः शक्यस्तन्निरोधे हि निरोधकाभिमतमेव न चकास्यादित्याशयशेषः [क्: किंचित्स्यादिति पाठः |] | यथोक्तम् तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा | (अजड प्र० २३) इत्यजडप्रमातृसिद्धौ | ननूत्पन्नस्य स्थित्यात्मा प्रकाशो भवति उत्पत्तिरेव त्वस्य कुत इत्याह यस्माच्च निर्गतमिति | स्मृतिस्वप्नसंकल्पयोगिनिर्माणदृष्ट्या चितः स्वानुभवसिद्धं जगत्कारणत्वमुज्झित्वा अप्रमाणकमनुपपन्नं च प्रधानपरमाण्वादीनां न तत्कल्पयितुं [ख्: न तत्कल्पनमिति पाठः |] युज्यते | कार्यपदेन १०) चेदमेव ध्वनितं कर्तुः क्रियया निष्पाद्यं हि कार्यमुच्यते न तु जडकारणानन्तरभावि जडस्य करणत्वानुपपत्तेः ईश्वरप्रत्यभिज्ञोक्तनीत्या [ख्: न्यायात् इति पाठः |] | भविष्यति चैतत्
SKअवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | [१|१४] इत्यत्र | सर्वशब्देनोपादानादिनैरपेक्ष्यं कर्तुर्ध्वनितम् | न च कार्यं घटादि कर्तुः कुम्भकारादेः कदाचित्स्वरूपं तिरोदधद्दृष्टम् | ननु निर्गतिरवस्थितस्य भवति तत्किमेतत्क्वचिदादावेव स्थितं नान्यत्र स्थितम् अपि तु तत्रैव चिदात्मनीत्याह यत्र स्थितमिति | आवृत्त्या चैतद्योज्यम् | अयमर्थः यदि चिदात्मनि जगदहंप्रकाशाभेदेन न भवेत्तत्कथमुपादानादिनिरपेक्षं तत उदियात् | यतस्तु यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं जगदेतचराचरम् || (प० त्री ० २४) इत्याम्नायस्थित्या स्वामिनश्चात्मसंस्थस्य | (ई० प्र० १|५|१०) इति पूर्वोक्तयुक्त्या च तत्रैतदभेदेन स्फुरत्स्थितं ततोऽयं चिदात्मा भगवान्निजरसाश्यानतारूपं जगदुन्मज्जयतीति युज्यते | एवं च यत्र स्थितमेव सद्यस्मान्निर्गतमित्यत्र योजना जाता | च एवार्थे भिन्नक्रमः | ननु यदि तस्मात्प्रकाशवपुष इदं जगन्निर्यातं तन्न प्रथेत न हि प्रथावाह्यं च प्रथते चेति युक्तमित्याशङ्क्य यस्मान्निर्गतमपि सद्यत्र स्थितमित्यावृत्त्या संगमनीयम् | चोऽप्यर्थे भिन्नक्रमः | एतदुक्तं भवति न प्रसेवकादिवाक्षोटादि तत्तस्मान्निर्गतमपि तु स एव भगवान्स्वस्वातन्त्र्यादनतिरिक्तामप्यतिरिक्तामिव जगद्रूपतां ११) स्वभित्तौ दर्पणनगरवत्प्रकाशयन्स्थितः | ननु च भवत्वेवं सर्गस्थित्यवस्थयोर्जगतास्यानिरुद्धत्वं संहारावस्थया त्वभावात्मना सुषुप्तदेशीयया जगतः संबन्धिन्या कथं नैतत्तिरोधीयते नहि ग्राह्यं जगद्विना ग्राहकश्चिदात्मा कश्चिदित्यावृत्त्यैतदेवोत्तरं यस्मान्निर्गतमपि सद्यत्रैव स्थितमुत्पन्नमपि जगत्संहारावस्थायां तदैकात्म्येनैवास्ते न त्वस्यान्यः कश्चिदुच्छेदः शून्यरूपस्तस्य वक्ष्यमाणयुक्त्या प्रकाशं भित्तिभूतं विनानुपपत्तेरित्यर्थः | यथोक्तं श्रीस्वच्छन्दशास्त्रे अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते | देव्यभावः स विज्ञेयो यत्र भावाः क्षयं गताः || [४|२९२]
SKइति | एवं सर्वं यस्य कार्यं यत्प्रकाशेनैव प्रकाशते संहृतमपि च सद्यत्प्रकाशैकात्म्येन तिष्ठति न तस्य देशकालाकारादि किंचिन्निरोधकं युज्यते इति व्यापकं नित्यं विश्वशक्तिस्वचितं [ख्: आवृत्त्या इति पाठः | ] स्वप्रकाशमादिसिद्धं चैतत्तत्त्वमिति नास्य सिद्धावज्ञातार्थप्रकाशरूपं प्रमाणवराकमुपपद्यत उपयुज्यते संभवति वा प्रत्युतैतत्तत्त्वसिद्ध्यधीना प्रमाणादिविश्ववस्तुसिद्धिः | तदुक्तमस्मद्गुरुभिस्तत्रालोके प्रमाणान्यपि ? वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || (तं० १ आ० ५५ श्लो०) इति | यस्मान्निर्गतमपीदं जगद्यत्र स्थितं यत्प्रकाशेन प्रकाशमानं तथाभूतमपि यत्र स्थितं यत्प्रकाशैकरूपं यत्प्रकाश एव यस्य सिद्ध्यै त्यक्षेणेक्ष्यमाणं भवति न त्वन्यज्जगन्नाम किंचित् | अत्र यत्र स्थितमित्यावर्त्य द्विर्योज्यम् | एवं च स्वानुभवसिद्धमेवास्य तत्त्वस्य सृष्टिस्थितिसंहारमेलनावभासिनोऽतिदुर्घटकारिणः १२) सर्वदा सर्वत्रानिरुद्धत्वम् | यथोक्तं श्रीमदुत्पलदेवाचार्यैः परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या | अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति || (उ० स्तो० १६| ३०) इति | अत्र हि भासमानमेव जगद्भासनैकशेषीभूतत्वाद्भासनातिरिक्तं न किंचिद्भातीत्यर्थः | किं च यत्र स्थितमित्युक्त्योपशमपदे यस्माच्च निर्गतमिति प्रसरपदे यतोऽस्य न निरोधस्ततो निमीलनोन्मीलनसमाधिद्वयेऽपि योगिना स्वस्वभावसमावेशपरेणैव भवितव्यम् | यद्वक्ष्यते यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् | [१|९] इति | तथा तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः | [२|४]
SKइत्यपि च | कुत्रचिदनात्मवादिनि सौगतादौ प्रमातरि कुत्रचिच्च बाधकाभिमते प्रमाणे सति न तस्य निरोधः प्रतिषेधोऽस्ति यतो यस्तस्य प्रतिषेधको यच्च तस्य प्रतिषेधकं प्रमाणं तद्यदि न सिद्धमभित्तिकमेतच्चित्रं सिद्धिश्चास्य प्रकाशते इति [क्, ख्: अतदिति पाठः |] तत्सिद्ध्यैव भगवानादिसिद्धस्वप्रकाशमूर्तिरस्तीत्येतत्प्रतिषेधायोदितेनाप्यनक्षर- na tu yo'ntarmukho bhāvaḥ | [1|16] ityatrāntare | evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvamityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvānnādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryamābhāsyate | 13) vastutastu etadvīryasāramevāśeṣam | yadvakṣyati tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ | [2|1] ityetadapi bhaṅgyā pratipāditam | evaṃ ca na kaściduktacodyāvakāśaḥ | evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvairvivṛtikṛdbhirvyākhyāyi [kh: vṛttikṛdbhiriti pāṭhaḥ |] yaccāsmābhiḥ kiṃcidvyākriyate tatrāntaramamatsarā anavaliptāśca svayameva vicinvantu sacetaso na tu tadasmābhiruddhāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ || 2 || nanu jāgarādidaśāsvīdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthāsu svayameva nirotsyate iti śaṅkāta uktamapyarthamapratipadyamānaṃ pratibodhayannupadiśati jāgradādivibhede'pi tadabhinne prasarpati | nivartate nijānnaiva svabhāvādupalabdhṛtaḥ || 3 ||
SKजागरापरपर्यायो जाग्रच्छब्दः शिष्टप्रयुक्तत्वात् | लोकप्रसिद्धे जाग्रत्स्वप्नसुषुप्तानां भेदे योगिप्रसिद्धेऽपि वा धारणाध्यानसमाधिरूपे प्रसर्पति अन्यान्यरूपे प्रवहति सति अर्थात् तत्तत्त्वं निजादनपायिनः सर्वस्यात्मभूताच्चानुभवितृरूपात्स्वभावान्नैव निवर्तते | यदि हि स्वयं निवर्तेत तज्जाग्रदाद्यपि तत्प्रकाशविनाकृतं न किंचित्प्रकाशेत् | उपलब्धृता चैतदीया जागरास्वप्नयोः सर्वस्य स्वसंवेदनसिद्धा १४) सौषुप्ते यद्यपि सा तथा न चेत्यते तथाप्यौत्तरकालिकस्मृत्यन्यथानुपपत्त्या सिद्धा उपलब्धृत एव च स्वभावान्न निवर्तते उपलभ्यं त्ववस्थादि तन्माहात्म्यान्निवर्ततां कामं कात्र क्षतिः | एवकारोऽप्यर्थे भिन्नक्रमस्तदभावेऽपि न निवर्तत इत्यर्थः | जागरादिविभेदस्य विशेषणद्वारेण हेतुस्तदभिन्ने इति तस्माच्छिवस्वभावादभेदेन प्रकाशमानत्वात्प्रकाशरूपे इत्यर्थः | यच्च यदेकात्मकं तत्कथं तन्निवृत्ताववतिष्ठते | यद्वा तदिति कर्तृपदम् | अभिन्न इति तु केवलमभिन्नत्वं जागरादेः शिवापेक्षमेव | अर्थात्तत्तत्त्वं जागरादिभेदेऽपि सति प्रसर्पति प्रसरति वैचित्र्यं गृह्णाति तन्नैव स्वभावान्निवर्तत इति योज्यम् | किंचायं जाग्रदादिभेदः परिणामो विवर्तो वेति यत्सांख्यपाञ्चरात्रशाब्दिकादयो मन्यन्ते तद्व्युदासायाप्युक्तं तदभिन्न इति | अवस्थाप्रपञ्चोऽपि यदि चिन्मात्रात्परिणामतया मनागप्यतिरिच्येत चिद्रूपं वा तत्परिणतौ मनागतिरिच्येत [क्, ग्: रिक्तमिति पाठः |] तन्न किंचिच्चकास्यादिति तावन्न परिणामोऽस्ति | यथोक्तम् परिणामोऽचेतनस्य चेतनस्य न युज्यते |
SKइति श्रीकिरणे | न च भासमानोऽसावसत्यो ब्रह्मतत्त्वस्यापि तथात्वापत्तेः इत्यसत्यविभक्तान्यरूपोपग्राहिता विवर्त इत्यपि न सङ्गतम् | अनेन चातिदुर्घटकारित्वमेव भगवतो ध्वनितम् | यस्माज्जागरादिविभेदं च प्रकाशयति तत्रैव च स्वाभेदमिति भेदात्मना तदभेदात्मनोभयात्मना [ग्: उभयमेखनात्मनेति पाठः |] च रूपेणापरापरापरापराशक्तित्रयस्वरूपेण स्फुरतीत्यनुत्तरषडर्धतत्त्वात्मतया १५) भगवानेव स्फुरति | अतश्च जागरादिदशावस्थितोऽपि एवमिमं स्वस्वभावं परिशीलयन् यश्चिनुते स शंकर एवेत्युपदिष्टं भवति || ३ || अथ ये एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं [ख्: विश्रान्तमिति पाठः |] पश्याम इत्युक्त्या ज्ञानसन्तान एव तत्त्वमिति सौगता मन्यन्ते ये चाहंप्रतीतिप्रत्येयः सदैव सुखाद्युपाधितिरस्कृत आत्मेति मीमांसकाः प्रतिपन्नास्तानेकेनैव श्लोकेनापवदति अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः | सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् || ४ || य एवाहं सुखी स एव दुःखी सुखानुशायिना रागेण युक्तत्वाद्रक्तो दुःखानुशायिना द्वेषेण संबन्धाद्द्विष्टश्चेत्यादयः [क्, ख्: द्वेष्ठेति पाठः |] संविदो ज्ञानानि ता अन्यत्रेति अवस्थातर्यात्मतत्त्वे वर्तन्ते तत्रैवान्तर्मुखे विश्राम्यन्ति स्फुटं स्वसाक्षिकं कृत्वा | अन्यथा क्षणिकज्ञानानां स्वात्ममात्रक्षीणत्वात्तत्संस्कारजन्मनामपि विकल्पानामनुभवागोचरे प्रवृत्त्यभावादनुसंधानमिदं न धटेत | चकारास्तुल्ययोगितापरा अनुसंधानं द्योतयन्ति | कीदृशेऽन्यत्र सुखाद्यवस्था उदयप्रलयिन्योऽनुस्यूता दृब्धा यस्मिंस्तस्मिन् सुखाद्यवस्थानुस्यूतेऽन्तः स्रक्सूत्रकल्पतया स्थिते | ता इत्यनेनानुसंधीयमानावस्थानां १६)
SKस्मर्यमाणतामभिदधत्क्षणिकज्ञानवादिमतेऽनुभवसंस्कारोत्पन्नत्- tvanubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ityalaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhirābhiḥ kathābhiḥ | etadarthibhiḥ pratyabhijñā parīkṣyā | granthakṛtaiva tu yata iha yuktirāsūtritā tato'smābhiḥ kiṃciduddhāṭitamiti [g: etaditi pāṭhaḥ |] sacetobhirnāsmabhyamasūyayitavyam | mīmāṃsakaparihārāya tu etaditthaṃ vyākhyātavyam | ahaṃ sukhītyādisaṃvido yāstā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhiranusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tvasmadabhyupagate'smiṃścidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto'yamātmāpi tu cinmayaḥ | yadā tu nijāśuddhyā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhastaiḥ sukhādibhirasyetyuktameveti na tattiraskṛto'yaṃ kadācidapi | ahaṃ kṛśo'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmimantarmukhe pade nimañjayaṃstadanuṣaṅgeṇa bāhyasyāpi dehaghaṭādergalanātpratyabhijānātyeva svaṃ śivasvabhāvatvamiti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti || 4 || uktopapattisiddhāṃ samastavādānāmanupapannatāmanuvadannupapattisiddhaṃ spandatattvamevāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ 17) na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca | na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ || 5 || iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yaccaitadvrāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavadasaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam | yadāpi tu saṃcetyate tadā saṃcetyamānasyāpyasya caitanyamayatvācaitanyamevāstītyāyātam | yadāhuḥ
SKप्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिध्यति | (ई० प्र० १|५|३) इति रहस्यतत्त्वविदोऽस्मत्परमेष्ठिनः श्रीमदुत्पलदेवपादाः श्रीमदीश्वरप्रत्यभिज्ञायाम् | इहापि वक्ष्यते तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः (२|३) इत्यतो दुःखसुखादि नीलादि तद्व्राहकं च यत्र नास्ति तत्प्रकाशैकघनं तत्त्वमस्ति | नन्वेवं सर्वग्राह्यग्राहकोच्छेदे शून्यात्मैव तत्त्वमित्यायातं नेत्याह न चास्ति मूढभावोऽपि इति | मूढभावो मूढत्वं शून्यरूपतापि यत्र नास्ति सोऽपि हि न प्रथते कथमस्ति प्रथते चेत्तहिं प्रथात्मकत्वान्नासौ कश्चित्प्रथैवास्ति न च प्रथायाः कदाचिदभावो भवति तदभावे प्रथाभावस्याप्यसिद्धेः | भविष्यति चैतत् न तु षोऽन्तर्मुखो भावः | (१|१६) इत्यत्र | अपि च मूढभाव ऐश्वर्यात्मकविमर्शशून्यप्रकाशमात्रतत्त्वो ब्रह्मरूपोऽपि यत्र नास्ति यच्छ्रुत्यन्तविदः १८) प्रतिपन्नाः विज्ञानं ब्रह्म इति तस्यापि स्वातन्त्र्यात्मकस्पन्दशक्तिं विना जडत्वात् | यथोक्तं प्रत्यभिज्ञायाम् स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || (ई० प्र० १|५|११) इति | भट्टनायकस्तोत्रेऽपि नपुंसकमिदं नाथ परं ब्रह्म फलेत्कियत् | त्वत्पौरुषी नियोक्त्री चेन्न स्यात्त्वद्भक्तिसुन्दरी || इति | एवं च यत्र स्थितम् इत्यतः प्रभृति यत्तत्त्वं विचारितं तदेवास्ति तच्चास्त्येव परमार्थतो युक्त्यनुभवागमसिद्धेन रूपेण परमार्थत एव चाकल्पितेन पूर्णेन रूपेणास्ति न तु नीलादिवत्कल्पितेन | यथोक्तं महागुरुभिः एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः || (अजडप्र० १३) इति | तत्रभवद्भर्तृहरिणापि यदादौ च यदन्ते च यन्मध्ये तस्य सत्यता | न यदाभासते तस्य सत्यत्वं तावदेव हि ||
SKइति | सावधारणत्वात्सर्ववाक्यानामेवकारोऽत्र त्रिर्योज्यः | एवमनेन सूत्रेण सुखाद्याकारसंवित्संतानवादिनां सुखादिकलुषितप्रमातृतत्त्वादिनां ग्राह्यग्राहकनानात्ववादिनां सर्वेषामभाववादिनां निष्परामर्शप्रकाशब्रह्मवादिनां [ख्: ब्रह्मतत्त्वपादिनामिति पाठः | ] च मतमनुपपन्नत्वादसत्त्वेनानूद्य पारमार्थिकं स्पन्दशक्तिरूपमेव तत्त्वमस्तीति प्रतिज्ञातम् | अथ च यस्मिन्नस्मिन् सोपदेशसावधानमहानुभावपरिशील्ये स्फुरत्तासारे स्पन्दतत्त्वे स्फुरति दुःखसुखग्राह्यग्राहकतदभावादिकमिदं सदपि न किंचिदेव सर्वस्यैतच्चमत्कारैकसारत्वात्तदेवैतदस्तीत्युपदिष्टम् | यन्महागुरवः १९) दुःखान्यपि सुखायन्ते विषमप्यमृतायते | मोक्षायते च संसारो यत्र मार्गः स शाङ्करः || (उ० स्तो० | २०|१२) इति | शांकरो मार्गः शंकरात्मस्वभावप्राप्तिहेतुः पराशक्तिरूपः प्रसरः || ५ || एवमुपपत्तिपरिघटिततत्त्वप्रत्यभिज्ञानाय साभिज्ञानमुपायं निरूपयति यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् | सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः || ६ || लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् | यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा || ७ || तन्निर्णीतं तत्त्वमादरात् श्रद्धया प्रयत्नेन च उद्यमो भैरवः (१|५) इति शिवसूत्रप्रतिपादितेन सर्वभेदोपसंहारात्मना निजौजोवृत्तिस्फारणरूपेण परिपूर्णान्तर्मुखस्वरूपसेवनात्मना भैरवरूपेणोद्यमेन परीक्ष्यम् | यत इयमिति सर्वस्य स्वसंविदिता तस्य शंकरात्मनः स्वस्वभावस्याकृत्रिमा सहजा स्पन्दतत्त्वरूपा स्वतन्त्रता सर्वत्र जडाजडविषये स्फुरन्ती स्थितेति शेषः | किं तत्तत्त्वमित्याह यत इत्यादि लभत इत्यन्तम् | २०)
SKअयमिति लोकप्रसिद्धो गोलकादिरूपो न तु शास्त्रितस्तस्य नित्यपरोक्षत्वेनायमिति निर्देशाभावात् करणवर्गस्त्रयोदशेन्द्रियाणि विशेषेण मूढो मायावशाज्जडाभासीभूतोऽणोर्मूढादप्यधिकं मूढत्वं प्राप्तोऽमूढवच्चेतनवत्स्वयं प्रवृत्तिस्थितिसंहृतीर्लभते विषयोन्मुखी भवति तत्र रज्यते ततश्च निवर्तत इत्यर्थः | कथं सहान्तरेण चक्रेण इहान्तरं चक्रं करणेश्वर्यो नान्तः करणानि तेषां वर्गशब्देन स्वीकारात् न वक्ष्यमाणं पुर्यष्टकं तत्स्थस्यान्तः करणत्रयस्य वर्गशब्देनैव गृहीतत्वात् तन्मात्राणां च वासनामात्ररूपाणामुपदेश्यमयोगिनं प्रति साक्षात्प्रवृत्त्यादिकर्तृत्वेनासिद्धे योगिनस्तु साक्षात्कृततन्मात्रस्य स्वयमेव परतत्त्वपरिशीलनावहितस्योपदेश्यत्वाभावात् तस्मादेतदेकीयमतमसत् | विमूढोऽमूढवदित्यनेन करणवर्ग एव संबन्ध्यो नत्वान्तरमपि करणेश्वरीचक्रं तस्य चिच्चमत्काररूपत्वात् | एवमभिदधानस्यायमाशयः यदयं शंकरात्मा स्वस्वभावोऽतिदुर्घटकारिणः स्वातन्त्र्याद्युगपदेव संवित्तिसारं च करणेश्वरीचक्रं जडाभासरूपं च करणवर्गमेकतयैव निर्भासयन् प्रवृत्तिस्थितिसंहृतीः कारयति येन भगवत्यः करणेश्वर्यो यथा तत्तद्भावसृष्ट्यादि विदधति तथा करणवर्गो जडोऽपि तत्कारीव लक्ष्यते | यद्यपि रहस्यदृष्टौ न कश्चिज्जडः करणवर्गोऽस्ति अपितु विज्ञानदेहाः करणेश्वर्य एव विजृम्भन्ते तथापीह सुप्रसिद्धप्रतीत्यनुसारेणोपदेश्यः क्रमेण रहस्यार्थोपदेशेऽनुप्रवेश्य इत्येवमुक्तम् | एवं च गोलकादिरूपकरणवर्गप्रवृत्त्यादिक्रमेण तदधिष्ठातृरूपं निजमरीचिचक्रं चिन्वानेनैव तदुभयप्रचोदकं श्रीमच्छङ्करात्मकं २१)
SKस्वस्वरूपं परीक्षणीयं यतस्तत्प्राप्तौ तदीयाकृत्रिमा स्वतन्त्रतास्य [ख्: स्वतन्त्रः सर्वत्रास्येति पाठः |] योगिनः स्यादित्यप्यनेनैवोक्तं भवति | तदेतदेव परीक्षणार्हं परमोपादेयत्वादे तदेव च परीक्षितुं शक्यमुक्तयुक्त्या सुखोपायत्वात् अत एवादरेणाभिलषितविषयोपभोगानिरोधात्मना बहुमानेन | अत्र परीक्षणस्येहत्योपदेशानुसारेण प्राप्तकालता | यथोक्तं रहस्यगुरुभिः निजनिजेषु पदेषु प्रतन्त्विमाः करणवृत्तय उल्लसिता मम | क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षति साहसम् || (उ० स्तो० ८| ७) इति | परीक्ष्यमित्यर्हे शक्ये प्राप्तकालतायां प्रैषादौ च कृत्यः | अथ च जडः करणवर्गो यद्बलादमूढवत्प्रवृत्त्यादि लभते इति सर्वस्यानुभवसाक्षिकमभिदधदिन्द्रियादिचैतन्यवादिचार्वाकपत- atha kathamuktaṃ tatastattvāccetanatāmivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyameva grāhaka icchayā dātrādīnīva karaṇāni prerayati | yadapyuktaṃ tattattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato'smākamicchā vahirevānudhāvati na tu tattvaparīkṣāyāṃ pravartitumutsahata ityāśaṅkyāha na hīcchānodanasyāyaṃ prerakatvena vartate | api tvātmabalasparśātpuruṣastatsamo bhavet || 8 || 22)
SKअयं लौकिकः पुरुष इच्छैव नोदनं प्रतोदस्तस्य प्रेरकत्वेन करणप्रवर्तनार्थव्यापारणाय यस्मान्न प्रवर्तते अपि तु आत्मनश्चिद्रूपस्य यद्बलं स्पन्दतत्त्वात्मकं तत्स्पर्शात्तत्कृतात्कियन्मात्रादावेशात्तत्समो भवेत् अहन्तारसविप्रुडभिषेकादचेतनोऽपि चेतनतामासादयत्येव | ततस्तत्तत्त्वं न केवलं करणानि यावत्तत्प्रेरकत्वेन शङ्कितं कल्पितमपि प्रमातारं चेतनीकृत्य स्वयं प्रवृत्त्यादिपात्रं करोति येनास्यायमभिमानोऽहं करणानि प्रेरयामीति | स्पन्दतत्त्वानुवेधं विनापि तु स एव न किंचिदिति करणानां ग्राहकस्य च स्वरश्मिचक्रप्रसरानुवेधेन चेतनीभावापादकं तत्त्वं परीक्ष्यमिति युक्तमेव | यदि पुनरिच्छाख्येन प्रतोदरूपेण करणान्तरेण करणानि प्रेरयेत् तदपीच्छाख्यं करणं प्रेर्यत्वात्करणान्तरं स्वप्रेरणायापेक्षेत तदप्यन्यदित्यनवस्था स्यात् | यत्तूक्तम् अस्माकमिच्छा न तत्र प्रवर्तितुमुत्सहते इति तत्राप्याद्यं श्लोकार्धमभ्युपगमेन परं तूत्तरतया योज्यम् | सत्यं नायं पुरुषस्तत्त्वपरीक्षार्थमिच्छां प्रवर्तयितुं शक्नोति नेच्छया तत्त्वं विषयीकर्तुं क्षमस्तस्याविकल्प्यत्वादपि तु विषयाननुधावन्तीमिच्छां तदुपभोगपुरःसरं प्रशमय्य यदा त्वन्तर्मुखमात्मबलं स्पन्दतत्त्वं स्वकरणानां च चेतनावहं स्पृशति तदा तत्समो भवेत् तत्समावेशात्तद्वत्सर्वत्र स्वतन्त्रतामासादयत्येव यस्मादेवं तस्मात्तत्त्वं परीक्ष्यमित्यर्थः | शक्तिभूमेः स्पर्शप्रधानत्वादात्मबलस्पर्शादित्युक्तम् || ८ || ननु चायं क्षेत्री परमेश्वरमयोऽपि किं न सदा पारिपूर्ण्येन स्फुरति कस्मादन्तर्मुखात्मबलस्पर्शमपेक्षत इत्याशङ्क्याह २३) निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || ९ ||
SKनिजा स्वात्मीया स्वस्वातन्त्र्योल्लासिता येयं स्वरूपाविमर्शस्वभावा इच्छाशक्तिः संकुचिता सत्यपूर्णम्मन्यतारूपा अशुद्धिराणवं मलं तन्मलोत्थितकञ्चुकपञ्चकाबिलत्वात् ज्ञानशक्तिः क्रमेण भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तः करणबुद्धीन्द्रियतापत्तिपूर्वमत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलमशुद्धिरेव क्रियाशक्तिः क्रमेण भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियरूपसंकोचग्रहणपूर्वमत्यन्त ं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलमप्यशुद्धिः तयासमर्थस्य पूर्णज्ञत्वकर्तृत्वविकलस्य तत एव कर्तव्येषु लौकिकशास्त्रीयानुष्ठानेष्वभिलाषिणोऽभीष्टानवाप्तेर्नित्यमभिलाष- uktavakṣyamāṇopapattyanubhavāvaṣṭambhato'bhilāṣavivaśagrāhakā- अनात्मन्यात्माभिमाननिवृत्तिपुरःसरमात्मन्यनात्माभिमानोपशान्ति- pratyabhijñāviṣayatāṃ yāyādityarthaḥ | na tu tadaiva bhavati tasya nityatvāt | uktaṃ ca vijñānabhairave mānasaṃ cetanā śaktirātmā ceti catuṣṭayam | yadā priye parikṣīṇaṃ tadā tadbhairavaṃ vapuḥ || (ślo0 138) 24) iti | nijāśuddhiśabdena malaṃ nāma dravyaṃ pṛthagbhūtamastīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ || 9 || nanu ca grāhakāhaṃbhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyamaspandameva tattvaṃ prasaktamityāśaṅkāṃ śamayati tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ | yatastadepsitaṃ sarvaṃ jānāti ca karoti ca || 10 ||
SKतदेत्युपदेश्यापेक्षया अकृत्रिमः सहजो धर्मः प्राङ्निर्दिष्टस्वतन्त्रतारूपः परमेश्वरस्वभावो ज्ञत्वकर्तृत्वे सामरस्यावस्थितप्रकाशानन्दात्मनी ज्ञानक्रिये लक्षणमव्यभिचारिस्वरूपं यस्य तादृक् तदा क्षोभोपशमेऽस्य पुरुषस्य स्यादभिव्यज्यत इत्यर्थः | कुत एतदभिव्यज्यत इत्याह यतस्तदा परमपदप्रवेशसमये सर्वमीप्सितमिति यद्यज्जिज्ञासितं चिकीर्षितं वास्य तत्प्रविविक्षायामभूत् तत्तज्जानाति च करोति च | चकारावत्र यौगपद्यमाहतुः न तु यथैके चकाराभ्यां ज्ञानक्रिययोरैकात्म्यं सूचयतीति तद्धि ज्ञत्वकर्तृत्वलक्षण इत्यनेनैवैकधर्मविशेषणेन संबन्धिनिर्देशेन वास्तवस्वरूपाभिधायिनोक्तम् || १० || अथ यतः करणेति निजाशुद्धीति सूत्रप्रतिपादितोन्मेषक्रमसमाधानसाक्षात्कृतस्य स्पन्दतत्त्वस्य दृढावष्टम्भाद्व्युत्थानमपि समाध्येकरसं कुर्वतो भवोच्छेदो भवतीत्याह तमधिष्ठातृभावेन स्वभावमवलोकयन् | २५) स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः || ११ || उक्तोपपत्त्युपलब्ध्यनुशीलनप्रत्यभिज्ञातं तं स्पन्दतत्त्वात्मकं स्वभावमात्मीयमधिष्ठातृभावेन व्युत्थानदशायामपि व्याप्नुवन्तमवलोकयंश्चिन्वानः न व्रजेन्न विशेच्छक्तिर्मरुद्रूपा विकासिते | निर्विकल्पतया मध्ये तया भैरवरूपधृक् || (वि० भै० २६) इति तथा सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् | क्षिप्त्वा मध्ये हाटकस्तम्भभूतस्तिष्ठन्विश्वाकार एकोऽवभासि [ख्: विभातीति पाठः |] || इति श्रीविज्ञानभैरवकक्ष्यास्तोत्रनिर्दिष्टसंप्रदाययुक्त्या निमीलनोन्मीलनसमाधिना युगपद्व्यापकमध्यभूम्यवष्टम्भादध्यासितैतदुभयविसर्गारणि- antarlakṣyo bahirdṛṣṭirnimeṣonmeṣavarjitaḥ | iyaṃ sā bhairavī mudrā sarvatantreṣu gopitā ||
SKइत्याम्नातभगवद्भैरवमुद्रानुप्रविष्टो मुकुरान्तर्निमज्जदुन्मज्जन्नानाप्रतिबिम्बकदम्बकल्पमनल्पं भावराशिं चिदाकाश एवोदितमपि तत्रैव विलीयमानं पश्यन् जन्मसहस्रापूर्वपरमानन्दघनलोकोत्तरस्वस्वरूपप्रत्यभिज्ञानात् झटिति त्रुटितसकलवृत्तिः स्मयमानो विस्मयमुद्रानुप्रविष्ट इव महाविकासासादनाच्च सहसैव समुदितसमुचिततात्त्विकस्वभावो २६) यो योगीन्द्र आस्ते तिष्ठति न त्ववष्टम्भाच्छिथिलीभवति तस्येयमिति सकलजगत्कम्पकारिणी कुत्सिता जननमरणादिप्रबन्धरूपा सृतिः प्रवृत्तिः कुतो निजाशुद्धिलक्षणस्य तद्धेतोरभावान्नैव भवतीत्यर्थः | यथोक्तं श्रीपूर्वशास्त्रे तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि | नैव संस्पृश्यते दोषैः पद्मपत्रमिवाम्भसा || विषापहारिमन्त्रादिसन्नद्धो भक्षयन्नपि | विषं न मुह्यते तेन तद्वद्योगी महामतिः || (मा० वि० १८|१२०) इति || ११ || अथ ये श्रुत्यन्तविदक्षपादमाध्यमिकादयः क्षोभप्रलये विश्वोच्छेदरूपमभावात्मकमेव तत्त्वमवशिष्यत इत्युपादिक्षन् तान्प्रतिबोधयितुं तदुपगततत्त्वप्रातिपक्ष्येण लोकोत्तरतां प्रकरणशरीरस्य स्पन्दतत्त्वस्य निरूपयति नाभावो भाव्यतामेति न च तत्रास्त्यमूढता | यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः || १२ || अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा | न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते || १३ || २७) असदेवदमप्र आसीत् | [छा० ३|१९|१]
SKइत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतोऽभावो भाव्यतां नैति भावनाया भाव्यवस्तुविषयत्वादभावस्य न किंचित्त्वाद्भाव्यमानतायां वा किंचित्त्वे सत्यभावत्वाभावात् किंच भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं भावनीयः भावकाभ्युपगमे तु न विश्वोच्छेदो भावकस्यावशिष्यमाणत्वादिति न विश्वाभाव एव तत्त्वम् | अथ कल्पितोऽयं भावको विश्वोच्छेदं विकल्पकल्प्यमानं भावयन् भावनापरिनिष्पत्तौ भाव्यतादात्म्यादभावरूपः संपद्यत इति पक्षः | तत्रोच्यते तत्राभावभावनायां नामूढता न च तत्रास्त्यमूढता अपि तु मोह एवास्ति भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् || इति न्यायाद्विश्वोच्छेदात्मन्यभावे भाव्यमाने न कदाचित्परमार्थाप्तिर्भवति | अथोच्यते सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः || इति नागार्जुनोक्तमीदृशं तच्छून्यमिति | सत्यं यदि चिदानन्दघना स्वतन्त्रा पारमार्थिकी भित्तिभूता भूरभ्युपेयते यथा विज्ञानभैरवादौ पारमेश्वरीं दिक्कालकलनातीता | (वि० भै० १४) इत्यादिना पारमार्थिकीं भित्तिभूतां चिद्भूमिमवस्थाप्य शून्यभावनोक्ता अन्यथा न शून्यमिति शून्यैवेयमुक्तिः यद्य देवातिभाष्यते इति प्रतिपादितत्वात् | यत्तु २८) सावस्था काप्यविज्ञेया मादृशां शून्यतोच्यते | न पुनर्लोकरूढ्येव नास्तिक्यार्थानुपातिनी ||
SKइत्यालोकमालायामुक्तं तत्तु सत्यं त्वादृशामविज्ञेया अविज्ञेयत्वाद्वक्तुमशक्येत्युच्यतां शून्यतेति तु कुतः शून्यतापि च यावद्भाव्यते तावद्विकल्पोल्लिखितत्वादसौ विवेज्ञैय | यदि च त्वादृशां सा ज्ञातुमशक्या तत् तत्पदसाक्षात्काराभिज्ञसद्गुरुसपर्या कार्या न तु शून्यतेति स्वमनीषिकयैव व्यवहृत्यात्मा परश्चागाधे महामोहे निक्षेप्तव्य इत्यलम् | अथ कुतो ज्ञातं तत्र मूढतास्तीत्यत्रानेनोत्तरमाह यत इति | अभियोगः समाधानोत्थितस्य कीदृगहमासमिति तदवस्थाभिमुखविमर्शात्माभिलापस्तत्संस्पर्शात् तद्वशाद्धेतोस्तदासीदिति यतो निश्चयः गाढमूढोऽहमासम् इति यतोऽस्ति प्रतिपत्तिः अतो मोहावस्थैव सा कल्पिता तथा स्मर्यमाणत्वात् सा चानुभूयमानत्वादनुभवितुः प्रमातुरवस्थातृरूपस्य प्रत्युत सत्तामावेदयते न त्वभावमिति विश्वाभावावस्थायां चिद्रूपस्याखण्डितमेव रूपं तिष्ठतीति नामुष्याभावो जातुचिद्वक्तुं शक्यत इत्युक्तं भवति | ननु दृष्टं निश्चितं नीलादि स्मर्यते न च शून्यभूतस्य न्यग्भूतबुद्धिवृत्तेर्निश्चयोऽस्ति तत्कथमुक्तं तदासीदित्यौत्तरकालिकान्निश्चयान्मूढता सेति | उच्यते वेद्यस्यैषा गतिः यस्मात्तदिदन्तासारमिदन्तया यावत्प्रमात्रा स्वात्मोपारोहेण न निश्चितं तावन्न स्मर्यते वेदकस्तु कल्पितशून्याद्यवस्थासु संकुचितोऽप्यसांकेतिकाहन्तापरमार्थ एवेति न तस्य स्वात्मनि पृथक्तास्तीति तन्निश्चायको विकल्पः इत्यहंविमृश्यमेव तदा स्वसंवेदनेनैव सिद्धं शून्यप्रमातृरूपं विश्वप्रतियोगित्वाच्च संकोचसारं २९) सदुत्तरकालं स्मर्यत इति न काचिदनुपपत्तिर्यस्मादेवमतस्तच्छून्यात्मकं पदं कृत्रिमम् तस्माद्भूतमभूतं वा यद्यदेवातिभाष्यते |
SKइति तदुक्तयैव [क्, ख्: एतदिति पाठः |] नीत्या अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै मूढानामुपेयतया तथा भासितमित्यर्थः | ज्ञेयं ज्ञातव्यं ज्ञेयरूपं च सदा सुषुप्तवदिति दृष्टान्तः | अयं भावः सदा सुषुप्तं मोहरूपमप्रयाससिद्धं सर्वस्यास्त्येव तत्किमनेन समाधिप्रयत्नोपार्जितेनान्येन शून्येन कृत्यं द्वयस्याप्यवस्तुत्वाविशेषादिति | प्रायश्चास्मिन् शून्ये दुरुत्तरे महामोहार्णव एव वेदान्तविदक्षपादसांख्यसौगतादिप्राया वहवोऽनुप्रविष्टाः | स्पन्दतत्त्वसमाविविक्षूणामपि च शिथिलीभूतप्रयत्नानां शून्यमेतद्विघ्नभूतम् | यद्वक्ष्यति तदा तस्मिन्महाष्योम्नि | (१|२५) इत्यारभ्य सौषुप्तपद *? मूढ * * * * * * * इति | अत एतदुच्छेदे ग्रन्थकारस्य महान् संरम्भो लक्ष्यते | तथाचेह हेयतयैव तन्निर्णीयापि पुनरपि निर्णेष्यते कार्योन्मुखः प्रयत्नो यः * * * * * * * * ? ityatra | tato'smābhiretaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo'trabhavadbhirupadeśanibhālanadattakarṇaiḥ [kh: liphāḍaneti pāṭhaḥ | ] | saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvāditi nābhyadhikamuktam | tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ 30) tattvamevamiti śūnyavanna smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācidapyanupalabhyatvāyogāt | tathā cāhuḥ vijñātaramere kena vijānīyāt | (bṛ0 ā0 u0 4|5|15) iti | yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśātsmaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpameva tat | yadvakṣyati tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ || 2|4) iti | ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā | yastu tattattvamitīha tacchabdenāsya nirdeśaḥ kṛtaḥ sa svātantryāmuktamātmānaṃ * * * * * * * * ?
SKइति श्रीप्रत्यभिज्ञाकारिकोक्तनीत्या कल्पितस्यैवापारमार्थिकस्वरूपस्य न तु तत्त्वतः पारमार्थिकस्य | न प्रतिपद्यते इत्यनेनेदमाह अस्य तत्त्वस्य स्मर्यमाणत्वेन प्रतीतिरेव नास्तीति || १३ || ननु यत्र स्थितमित्यादौ चिद्रूपस्यैव विश्वकार्यरूपताग्राहित्वमुक्तं तध्यानोत्थापितं कृत्रिममभावात्मकं रूपं तेनैव गृहीतमिति कथमस्यानवच्छिन्नचमत्काररूपममूढत्वमित्याशङ्कायामाह अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | ३१) कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् || १४ || कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते | तस्मिṁल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते [ख्: बुद्ध्यते इति पाठः |] || १५ || न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् | तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् || १६ || अत्र स्पन्दतत्त्वे कार्यत्वं कर्तृत्वमिति च शब्दितं शब्दव्यवहारमात्रेण भेदितमवस्थायुगलमस्ति वस्तुतो हि तदेकमेव स्वतन्त्रप्रकाशवनशंकररूपं तत्त्वं कर्तृसत्त्वाव्यतिरिक्तया प्रकाशात्मना क्रियया व्याप्तं तदभेदेन प्रकाशमानं तत्त्वभुवनशरीरवदभावादिरूपत्वं स्वीकुर्वत्कार्यमित्युच्यते तदन्यस्य कस्यापि कारणत्वायोगात् | यथोक्तं श्रीमत्यभिज्ञायाम् जडस्य तु न सा शक्तिः सत्ता यदसतः सतः | कर्तृकर्मत्वतत्वैव कार्यकारणता ततः || (ई० प्र० २|४|२) इति | तस्य चेदमेव कार्यत्वं यदयं विचित्रदेशकालाद्याभाससंयोजनवियोजनक्रमेणानन्तान् ३२)
SKदेहनीलाद्याभासांश्चिदात्मनः स्वरूपादनतिरिक्तानपि मुकुरप्रतिबिम्बवदतिरिक्तानिवाभासयति यावच्च किंचिदाभासयति तत्सर्वमाभास्यमानत्वादेव बहिर्मुखेन रूपेण क्षयधर्मकं क्षयश्चास्येदन्ताभासनिमज्जनेनाहन्तारूपतयावस्थानम् अत एव देहादेर्ग्राहकस्य यो वेद्यांशः स एव भगवता सृज्यते संह्रियते च न त्वहन्ताप्रकाशात्मकं कर्तृरूपं तस्य देहाद्यावेशेऽपि भगवदेकरूपत्वात् अतस्तत्र तयोः कार्यकर्तृत्वयोर्मध्यात्कार्यता क्षयिणी कर्तृत्वं चित्स्वातन्त्र्यरूपं पुनरक्षयं जगदुदयापाययोरपि तस्य स्वभावादचलनात् | चलने तु जगदुदयापायावपि न कौचिच्चकास्यातामिति मूढाद्यवस्थायामप्यखण्डितचमत्कारसारममूढमेवैतत् | नन्वभावसमाधाननिष्पत्तौ सुषुप्तादौ चास्य कर्तृत्वं नोपलभामहे क्वचिदपि प्रवृत्त्यदर्शनात् | सत्यं कार्योन्मुख इन्द्रियादिप्रेरणात्मकव्यापारप्रवणो यः प्रयत्नः संरम्भः सोऽत्र कार्यक्षयपदे लुप्यते विच्छिद्यते तस्मिṁल्लुप्ते सति अबुधोऽभावसमाध्यपहारितात्मरूपो मूढो विलुप्तोऽस्मीति मन्यते | यः पुनरन्तर्मुखोऽहन्ताप्रकाशरूपः स्वभावोऽत एव सर्वज्ञत्वगुणस्यास्पदम् उपलक्षणं चैतत्सर्वकर्तृत्वादेरपि तस्य लोपो न कदाचित्स्याद्भवतीति न कदाचिदपि सम्भावनीयोऽन्यस्य तल्लोपमुपलब्धुः कस्याप्यनुपलम्भात् यदि स कश्चिदुपलभ्यते स एवासावन्तर्मुखश्चिद्रूपो न चेदुपलभ्यते तर्हि सा लोपदशास्तीति कुतो निश्चयः | अथ चान्यः कश्चित्तल्लोपं नोपलभतेऽपितु स एव प्रकाशात्मा तत्कथं तस्याभावः | एवं चान्यस्यानुपलम्भनादित्यत्रान्यकर्तृकस्योपलम्भस्याभावादित्यर्थः | ३३)
SKअथ च घटाभावो यथा घटविविक्तभूतलाद्युपलम्भनान्निश्चीयते तथैवात्माभावोऽप्यात्मविविक्तस्य कस्यचिदुपलम्भान्निश्चीयेत तदुपलम्भकसत्तावश्यंभाविनीति तदुपलम्भकस्वात्मनास्तिता न सिद्ध्यति | यदि च कार्योन्मुखप्रयत्नलोपे स लुप्येत तदोत्तरकालमन्यस्य कस्याप्युपलम्भो न भवेत् अन्योपलम्भाभावः प्रसज्येतेत्यर्थः | अपि चान्यस्य बहिर्मुखस्य प्रयत्नस्य सौषुप्तादावनुपलम्भात् कथमन्तर्मुखस्य तत्त्वस्य वालिशैर्लोप आशङ्कितो यतोऽन्यस्य लोपेऽन्यस्य किं वृत्तम् | अथ चान्यस्य कार्योन्मुखप्रयत्नस्यानुपलम्भादनुपलम्भप्रकाशनान्न कदाचित्प्रकाशात्मनोऽन्तर्मुखस्य तस्योपलब्धुर्लोपः यतोऽसावन्तर्मुखोभावः सर्वज्ञत्वगुणस्यास्पदं तामप्यभावदशां वेत्त्येव अन्यथा सैव न सिध्येदिति | अन्यस्येति कर्तरि कर्मणि च षष्ठी | अन्तर्मुखे कार्यत्वप्रतियोगितामिव कर्तृत्वस्य संभाव्यावस्थात्वमुक्तं वस्तुतस्तु उक्तयुक्त्या तस्यावस्थातृत्वमेव | अन्तर्मुख इति अन्तः पूर्णाहन्तात्मकं मुखं प्रधानं यस्येति योज्यम् || १६ || एवमप्रबुद्धो बहिर्मुखव्यापारनिरोधे ग्राहकस्याप्यात्मनोऽनुपपन्नमप्यभावं निश्चिनुत इति प्रतिपाद्य सुप्रबुद्धाप्रबुद्धयोर्यादृगात्मोपलम्भस्तं निरूपयति तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु || १७ || ३४) तस्य प्राकरणिकस्वभावस्य योपलब्धिः अनवच्छिन्नः प्रकाशः सा कथितयुक्त्यवष्टम्भात्सुष्ठु प्रबुद्धस्याप्रबुद्धतासंस्कारेणापि शून्यस्य सततं त्रिष्वपि जागरस्वप्नसौषुप्तपदेषु नित्यमिति आदौ मध्येऽन्ते चाव्यभिचारिणी अनपायिनी स्याद्भवत्येव सदासौ शंकरात्मकस्वस्वभावतया स्फुरतीत्यर्थः | परस्याप्रबुद्धस्य पुनस्तासां दशानां स्वोचितसंविद्रूपाणां प्रत्येकमदावुद्बुभूषायामन्ते च विश्रान्त्यात्मकान्तर्मुखत्वे न तु स्वोचितार्थावभासावस्थितिरूपे मध्यपदे | यदुक्तं श्रीशिवदृष्टौ
SKयावत्समग्रज्ञानाप्रज्ञातृस्पर्शदशास्वपि | स्थितैव लक्ष्यते सा तु तद्द्विश्रान्त्याथवा फले || (शि० *? २|५) इति | भट्टलोल्लटेनापि तदाद्यन्त इत्येवमेव व्याख्यायि स्ववृत्तौ | भट्टश्रीकल्लटवृत्त्यक्षराण्यपेक्ष्य वयमपि तद्वृत्त्यक्षरानुरोधेन सौत्रमर्थमतिविमलमपि क्लिष्टकल्पनया व्याकर्तुमशिक्षिताः यत एवासुप्रबुद्धस्य तदाद्यन्तेऽस्ति तदुपलब्धिः अत एवायमिहाधिकारी स्पन्दोपदेशैः सुप्रबुद्धीक्रियते | यद्वक्ष्यति अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रत् * * * * * * * * * * * * इत्यादि सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः | [१|२५] इति तथा स्वप्नेऽपि [३|२] इत्यादि प्रबुद्धः सर्वदा तिष्ठेत् | [३|१२] इत्यादि च | अत्र हि जागरादित्रिषु पदेषु आद्यन्तकोटिवन्मध्यमप्यर्थावसायात्मकं ३५) पदं तुर्याभोगमयं कर्तुं प्रबुद्धस्य सुप्रबुद्धतापादनायोपदेशः प्रवृत्तः एतच्च निर्णेष्यामः | तथा च शिवसूत्रम् जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः | (शि० सू० १|७) इति | तथा त्रिषु चतुर्थं तैलवदासेच्यम् | (शि० सू० ३|२०) इति त्रितयभोक्ता वीरेशः | (शि० सू० १|११) इति || १७ || सुप्रबुद्धस्य त्रिषु पदेषु यादृश्युपलब्धिस्तां विभागेन दर्शयति ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः | पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः || १८ || सुप्रबुद्धस्य भूम्ना ज्ञानज्ञेयस्वरूपया मध्यमे पदे ज्ञानाग्रपर्यन्तयोस्तु स्वस्वरूपयैव स्पन्दतत्त्वात्मना पराशक्त्या युक्तो विभुः शंकरात्मा स्वभावो जागरास्वप्नरूपे पदद्वये भाति | तत्र हि विश्वमसौ सदाशिवेश्वरवत्स्वाङ्गवत्पश्यति तदन्यत्र तु सुषुप्ते न तु यथान्ये सुषुप्ततुर्ययोरिति त्रिपदाव्यभिचारिणी इति प्रकान्ते तुर्यस्याप्रस्तुतत्वात् तदुपलब्धेरेव च तुर्यरूपत्वात् असौ विभुश्चिन्मय एवास्य भाति अशेषवेद्योपशमादित्येतत्सुप्रबुद्धाभिप्रायमेव न तु वस्तुवृत्तानुसारेण तदन्यत्र तु चिन्मयः इत्यस्यानुपपन्नत्वापत्तेः ३६)
SKलोके सौषुप्तस्य मोहमयत्वात् शिवापेक्षया तु जाग्रत्स्वप्नयोरपि चिन्मयत्वात् एवमपि च प्रकृतानुपयुक्तत्वात् | इतः प्रभृति प्रथमनिःष्यन्दान्तो ग्रन्थः प्रबुद्धस्य सुप्रबुद्धतायै स्थितो यथा टीकाकारैर्न चेतितस्तथा परीक्ष्यतां स्वयमेव कियत्प्रतिपदं लिखामः || १८ || यथेयं जागरादिमध्यदशापि प्रबुद्धं न प्रतिबध्नाति तथोपपादयति गुणादिस्पन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः || १९ || गुणाः सत्त्वरजस्तमांसि येषां प्रकृतितत्त्वं विभवभूः ते मायातत्त्वावस्थिता इहाभिप्रेताः | यथोक्तं श्रीस्वच्छन्दे मायामसूरकविन्यासे अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् | मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः || [स्व० तं० २|६५] इति | त आदयो येषां कलादीनां क्षित्यन्तानां स्पन्दानां विशेषप्रसराणां तेषां ये निःष्यन्दास्तनुकरणभुवनप्रसराः नीलसुखादिसंविदश्च तथा योग्यपेक्षया बिन्दुनादादयस्ते सततं ज्ञस्य सुप्रबुद्धस्य कस्यचिदेवापश्चिमजन्मनोऽपरिपन्थिनः स्वस्वभावाच्छादका न भवन्तीति निश्चयः यतस्ते सामान्यस्पन्दमुक्तरूपमाश्रित्य यत्र स्थितमित्यत्र निर्णीतदृशा लब्धात्मलाभास्तत एवोत्पन्नास्तन्मयाश्चेत्यर्थः | ३७) तथाहि स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या | मायातृतीये त एव पशोः सत्त्वं रजस्तमः || [ई० प्र० ३|३|४] इति श्रीप्रत्यभिज्ञोक्तदृशा चितिशक्तिरेव पारमेश्वरी ज्ञानक्रियामायाशक्तित्रितयतया श्रीसदाशिवादिपदे स्फुरित्वा संकोचप्रकर्षात्सत्त्वरजस्तमोरूपं क्रीडाशरीरं श्रयति यतो निजचिच्छक्तिस्फारमयत्वात्तदधिष्ठितमेव सर्वदा सर्वं जानन्सुप्रबुद्धो गुणादिविशेषस्पन्दाननुच्छिन्दन्नपि स्पन्दतत्त्वावेशमय एव || १९ || यथा त्वप्रबुद्धान्बध्नन्त्येते तत्प्रतिपादयति अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २० ||
SKअप्रबुद्धधियः प्रायः सर्वानप्रत्यभिज्ञातपारमेश्वरीशक्त्यात्मकनिजस्पन्दतत्त्वान्देहात्म- guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante'smāddaiśikairjantucakramiti duruttāre laṅghayitumaśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti | yathoktaṃ śrīmālinīvijaye viṣayeṣveva saṃlīnānaṣo'thaḥ pātayantvaṇun ? | rudrāṇūnyāḥ samāliṅghya ghoratarpo'parāḥ smṛtāḥ || [mā0 vi0 3|31] iti | tathā hi pūrva patipāditā yeyaṃ spandatattvātmā parāśaktiḥ 38) saiva viśvasyāntarbahiśca vamanātsaṃsāravāmācāratvācca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi | tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatva- कञ्चुकरूपतया स्थिताः कालकलितत्वकिंचित्कर्तृताकिंचिज्ज्ञताभिष्वङ्गनियमहेतवः | गौर्वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्त्यो गोचर्यः सुप्रबुद्धस्य स्वात्माभेदमयाध्यवसायाभिमानसंकल्पाञ्जनयन्ति मूढानां तु भेदैकसारान् | दिक्षु दशसु बाह्येन्द्रियभूमिषु चरन्त्यो दिक्चर्यः सुप्रबुद्धस्याद्वयप्रथासाराः अन्येषां द्वयप्रथाहेतवः | भूः रूपादिपञ्चकात्मकं मेयपदं तत्र चरन्त्यो भूचर्यस्तदाभोगमय्या आश्यानीभावतया तन्मयत्वमापन्नाः भूचर्यः सुप्रबुद्धस्य चित्प्रकाशशरीरतयात्मानं दर्शयन्त्य इतरेषां सर्वतोऽप्यवच्छिन्नतां प्रथयन्त्यः स्थिताः इत्येवं प्रमात्रन्तः करणवहिष्करणप्रमेयरूपतयैव तानि चत्वारि चक्राणि गुणादिस्पन्दमयान्यप्रबुद्धबुद्धील्लौṁकिकांस्तथा बिन्दुनादादिप्रथामात्रसंतुष्टान् योगिनस्तत्तत्त्वप्रसररूपे संसारे पातयन्ति || २० || यत एवम् अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | ३९)
SKजाग्रदेव निजं भावमचिरेणाधिगच्छति || २१ || उक्तवक्ष्यमाणरूपस्य स्पन्दतत्त्वस्य विविक्तये विमर्शनाय सततमुद्युक्तः मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते | [भ० गी० १२|२] इति गीतोक्तदृशा सततमेवान्तर्मुखस्वरूपनिभालनप्रवणो यः स जाग्रदेव जागरावस्थास्थित एव निजमात्मीयं शंकरात्मकं स्वस्वभावमचिरेणाधिगच्छति तथा अस्य शंकरात्मा आन्तरः स्वभावः स्वयमेवोन्मज्जति येन प्रबुद्धो नित्योदितसमावेशासादनात्सुप्रबुद्धो जीवन्मुक्तो भवतीत्यर्थः || २१ || यथास्योद्युक्तस्य बलवदालम्बनवशोदितानायासतदन्यसकलवृत्तिक्षयमयीषु नियतासु यास्ववस्थासु स्पन्दनिधानमुन्मुद्रितमभिमुखीभूतमास्ते ता एताः प्रथममुद्योगस्य विषया इत्युपदेष्दुमाह अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || २२ || सर्वत्र तावदुपायमार्गे समस्तेतरवृत्तिप्रशमपूर्वमेकाग्रीभवन्ति योगिनः एतास्वतिक्रोधाद्यवस्थासु स्वरसत एव समस्तापरवृत्तिक्षयमयीषु यदि स्पन्दतत्त्वविविक्तये सततमुद्युक्तो ४०)
SKझटित्यन्तर्मुखीभवन्ति योगिनस्तत्समीहितमचिरेणैव लभन्ते | अयोगिनस्त्वत्र मूढा एवेति तात्पर्यम् | तथाहि समनन्तरविहितदारुणोपघातशत्रुदर्शनान्मर्मस्पर्शितत्तद्वचना- prathamamevonmiṣatsaṃjihīrṣādevatāvalādantarmukhībhavadraśmicakro'ti- तत्क्षणमेवोन्मज्जत्पूर्णाभिलाषदेवतावशविकासितानुधावत्समस्तकरण- karomīti mṛśanvikalpayansaṃśayadhārādhirohātmani pade'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanuvadhyamāno dhāvan śarīranirapekṣameva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyana- सिंहाजगराद्यवलोकनजनितमहात्रासाद्यवस्थासु यद्वृत्तिक्षयात्मकं पदं गच्छेदधितिष्ठेत् स्पन्दतत्त्वविविक्तये सततमुद्युक्तो यो योगिजनस्तस्य तत्र वृत्तिक्षयात्मके पदेऽवस्थाविशेषे स्पन्दः प्रतिष्ठितः स्पन्दतत्त्वमभिमुखीभूतमेव तिष्ठति | तस्मादेतद्वृत्तिक्षयपदं संचेत्य झटिति कूर्माङ्गसंकोचयुक्त्या क्रोधसंशयवृत्तीः प्रशमय्य महाविकासव्याप्तियुक्त्या वा प्रहर्षधावनवृत्तीर्विस्फार्याभिमुखीभूतनिजस्पन्दशक्तिविमर्शवता योगिना भाव्यम् | यथोक्तं श्रीविज्ञानभैरवे कामक्रोधलोभमोहमदमात्सर्यगोचरे | बुद्धिं निस्तिमितां कृत्वा तत्तत्वमवशिष्यते || (वि० भै० १०|१) आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् | ४१) आनन्दमुद्गतं ध्यात्वा तद्वयस्तन्मना भवेत् || (वि० भै० ७१) क्षुताद्यस्ते भये शोके गहरे वारणद्रुते | कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || (वि० भै० ११|८) इति || २२ || एवमेतास्ववस्थासूक्तयुक्त्या प्रथमं स्पन्दशक्तिं परिशील्य तदनु तामेवानुसंदधत्सर्वास्ववस्थासु तद्दार्ढ्यानुप्रवेशमयीं जीवन्मुक्ततामाहरेत् [क्, ख्: आरोहयेदिति पाठः |] सततोद्युक्त इत्युपदिशति यामवस्थां समालम्ब्य यदयं सम वक्ष्यति | तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति || २३ ||
SKतामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि | सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् || २४ || तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || २५ || ४२) अयं शंकरात्मा स्वभावो यन्मम वक्ष्यति अभिव्यक्तं सत् यच्चिदानन्दघनमनुभूतपूर्वं [क्, ग्: सम्यगिति पाठः |] स्वरूपं मां विमर्शयिष्यति तदवश्यमहं करिष्ये बहिर्मुखतां हित्वा तत्प्रवण एव भविष्यामि इति संकल्प्य निश्चित्य यामतिक्रोधाद्यवस्थास्वनुभूतचरीं चिदानन्दघनां स्पन्दात्मिकामवस्थामवलम्ब्य [ग्: तमवलम्ब्येति पाठः |] प्राप्यत्वेनाभिसंधाय तिष्ठति शमितविकल्पगतिमविकल्पामवस्थामविचलत्वेन भजते यो योगी तदीयां तामवस्थां समाश्रित्य चन्द्रसूर्यौ अपानः प्राणश्चोभावपि हृदयभूमौ मिलित्वा युगपदेव सौषुम्नेऽध्वनि ब्रह्मनाड्यामूर्ध्वमार्गेणोदानपथेनास्तमितः शाम्यतः कथं ब्रह्माण्डलक्षणं गोचरं हित्वा ब्रह्मबिलाधिष्ठातृब्रह्माधिष्ठितमण्डं मुक्त्वा ऊर्ध्वकवाटान्तां देहव्याप्तिं त्यक्त्वा तदा चोल्लङ्घितदेहव्याप्तिकेऽत एव प्रकर्षेण लीनावुक्तरूपौ शशिभास्करौ यत्र तस्मिन्महाव्योम्नि निःशेषवेद्योपशमरूपे परमाकाशे प्राप्तेऽपि यः शिथिलप्रयत्नतया खेचर्याद्यात्मना गुणादिस्पन्दनिःष्यन्देन व्यामोहितत्वात् सौषुप्तपदवद्भवति सौषुप्तेन च सुप्तमप्युपलक्षितं तेन च स्वप्नसुषुप्तवत् यः शून्यादिभूमिमेवाधितिष्ठति स योगी सम्यगनभिव्यक्तस्वस्वभावो मूढ इत्युच्यते | यथोक्तं श्रीभट्टकल्लटेन यां स्पन्दात्मिकामवस्थामवलम्ब्य | इति योगिनः | इति च यस्य स्वस्वभावाभिव्यक्तिर्न सम्यक् वृत्ता स स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् | ४३) इति | यस्तु तत्रापि प्रयत्नपाटवादुद्यन्तृताबलात् क्षणमपि न शिथिलीभवति स तमसानभिभूतत्वात् चिदाकाशमयत्वेनैवावस्थितः प्रबुद्ध उच्यते अत एव सततोद्योगवतैव योगिना भवितव्यम् इत्यादिष्टं गुरुभिः इति शिवम् || २५ ||
SKइति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये स्वरूपस्पन्दः प्रथमो निःष्यन्दः || १ || ४४) अथ द्वितीयो निष्यन्दः | एवं प्रथमनिःष्यन्देन स्वस्वरूपात्मकं युक्त्युपपन्नं साभिज्ञानं निमीलनसमाधिप्रत्यभिज्ञेयं स्पन्दतत्त्वं प्रतिपाद्य यथा सततं तत्स्वरूपसमासादनेन सुप्रबुद्धता प्राक्सूचिता भवति तथा इदानीं तस्यैव वैश्वात्म्यमुन्मीलनसमाधिप्रत्यभिज्ञेयं युक्तितोऽपि निर्णेतुं सर्वत्र चिदभेदप्रकाशकं सहजविद्योदयाख्यम् इमं द्वितीयं निःष्यन्दं तदाक्रम्य इत्यादिना शिवसद्भावदायिनी इत्यन्तेन श्लोकसप्तकेन निरूपयति | तत्र विश्वं शुद्धाशुद्धभेदेन द्विधा | तत्र शुद्धं मन्त्रादिरूपं तत एवोत्पन्नं तन्मयं तत्रैव विश्राम्यति इति श्लोकद्वयेनोक्तम् | अशुद्धमपि तन्मयमेव इत्यपरेण श्लोकद्वयेनाभिहितम् | तत्संवेदनाधिरूढो जीवन्मुक्तः इति श्लोकेनोक्तम् | एतत्तत्त्वसमासादनेनैव साधकानां स्वेष्टसिद्धिः इति श्लोकद्वयेनाभिहितमिति संक्षेपः | अथ ग्रन्थो व्याख्यायते | यदुक्तम् अत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् | (१|२) इति तत्र शुद्धं तावन्मन्त्रादिरूपं तद्यथा तत एवोत्पन्नं तद्बलेनैव प्रकाशमानं तत्रैव विश्राम्यति तत्प्रथमनिःष्यन्दपरिघटितदृष्टान्तपुरःसरं निरूपयति तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || १ || तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेनैते शिवधर्मिणः || २ ||
SKतत् स्पन्दतत्त्वात्मकं बलं प्राणरूपं वीर्यमाक्रम्य अभेदेन आश्रयतया अवष्टभ्य भगवन्तोऽनन्तव्योमव्याप्यादयो मन्त्राः सर्वज्ञबलेन सर्वज्ञत्वादिसामर्थ्येन श्लाघमाना जृम्भमाणा अधिकाराय देहिनां प्रवर्तन्ते सृष्टिसंहारतिरोधानानुग्रहादि कुर्वन्तीत्यर्थः | सर्वज्ञशब्दो भावप्रधानः सर्वकर्तृत्वाद्युपलक्षयति | यथा देहिनां करणान्युपपादितदृशा तद्बलमाक्रम्य विषयप्रकाशादौ प्रवर्तन्ते इति दृष्टान्तः | तथा निरञ्जनाः कृतकृत्यत्वान्निवृत्ताधिकारमलाः शान्तविशिष्टवाचकात्मस्वरूपास्तत्रैव स्पन्दात्मके बले सम्यगभेदापत्त्या प्रकर्षेणापुनरावृत्त्या लीयन्ते अधिकारमलान्मुच्यन्ते आराधकचित्तेन उपासकलोकसंवेदनेन सह | यथोक्तम् ४६) अनुगृह्याणुसंघातं याताः पदमनामयम् | [मा० वि० १|४१] इति | यतश्च तत एवोदितास्तद्बलेन विसृष्टास्तत्रैव लीयन्ते तेनैते मन्त्रमन्त्रेश्वरादयः शिवस्य परमेश्वरस्य सम्बन्धी धर्मः स्वभावो विद्यते येषां ते तथा सामान्यस्पन्दसारा इत्यर्थः | ननु करणानां मन्त्राणां च तत उदयादौ तुल्ये किमिति करणानि न सर्वज्ञादिरूपाणि ? | उच्यते परमेश्वरो मायाशक्त्या शरीरकरणानि भेदमयानि निर्मिमीते विद्याशक्त्या त्वाकाशीयविचित्रवाचकपरामर्शशरीरान्मन्त्रान् | वाचकस्य मायापदेऽपि घटोऽयमित्यध्यवसा नामरूपातिरेकिणी | परेशशक्तिरात्मेव भासते न त्विदन्तया || (१|५|२०) इति प्रत्यभिज्ञोक्तनीत्या प्रमातृभूम्यनतिक्रान्तेर्न शरीरपुर्यष्टकादिवद्बोधसंकोचकत्वमस्तीति युक्तमेवैषां सर्वज्ञत्वादि | एतच्च भेदे त्वेकरसे भाते * * * * * * * * ? | [३|१|८] इति श्रीप्रत्यभिज्ञाकारिकाटीकायां वितस्य दर्शितम् | एवं विद्यापदावस्थितसृष्ट्यादिकार्यनन्तभट्टारकाद्यपेक्षयैतद्व्याख्येयम् | तथा दीक्षादिप्रवृत्तानामाचार्यादीनां करणरूपाः सर्वे मन्त्रास्तत्स्पन्दतत्त्वरूपं बलमाक्रम्य अनुप्राणकत्वेन अवष्टभ्य आचार्यादीनामेव सम्बन्धिनाराधकचित्तेन ४७)
SKसह मोक्षभोगसाधनाद्यधिकाराय प्रवर्तन्ते तत्रैव शान्तवाचकशब्दात्मकशरीररूपा अत एव च निरञ्जनाः शुद्धाः सम्यक् प्रलीयन्ते विश्राम्यन्ति | अत्र व्याख्याने सहाराधकचित्तेन इति पूर्वश्लोकेन योज्यम् | एवं च मन्त्राणामुदयप्रलयकोटिव्यापि प्रवृत्तावपि भित्तिभूतमिति अभिहितम् | एवं च दशाष्टादशादिभेदेन भिन्ने शैवे मन्त्राणां स्पन्दतत्त्वसारतैवेत्युक्तं भवति || २ || एवं मन्त्रमन्त्रेश्वरादिरूपा शुद्धाभिमता सृष्टिः शिवस्वभावेति प्रतिपाद्याधुना अशुद्धाभिमतापि सा मायादिरूपा शिवस्वरूपैव इति उपपादयन् श्रीमतशास्त्रादिरहस्यदृष्टिमपि उपक्षिपति यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादाम्यप्रतिपत्तितः || ३ || तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || ४ || यतो जीवो ग्राहकः सर्वमयः शिववद्विश्वरूपः तेन ४८) हेतुना शब्देषु वाचकेषु अर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपासु आदिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव शिवस्वरूपमित्यर्थः | यतश्चैवमतो भोक्तैव चिदात्मा ग्राहको भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे सम्यगनूनाधिकतया स्थितः न तु भोग्यं नाम किञ्चिद्भोक्तुर्भिन्नमस्ति | जीव इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न कोऽपि भेदः इति देहाद्यवस्थासु न कासुचिदप्यपूर्णमन्यता मन्तव्या अपि तु चिद्धनशिवस्वभावतैवेति भङ्ग्योपदिशति | यथोक्तम् शरीरमपि ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च ते सिद्ध्यन्ति घटादिकमपि तथाभिनिविश्य पश्यन्ति अर्चयन्ति च तेऽपीति नास्त्यत्र विवादः इति श्रीप्रत्यभिज्ञाटीकायाम् | भट्टश्रीवामनेनाप्युक्तम् आलम्ब्य संविदं यस्मात्संवेद्यं न स्वभावतः | तस्मात्संविदितं सर्वमिति संविन्मयो भवेत् ||
SKइति | कस्मात् जीवः सर्वमयः इत्यत्र हेतुः सर्वभावानां समुद्भवादुत्पत्तिहेतुत्वात् अपादानभावप्रधानश्च निर्देशः | प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात्त्वयि | निवृत्तविवृहृतौ क्वचित्तदपयाति तेनाध्वधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित् || इति श्रीज्ञानगर्भस्तोत्रोक्तनीत्या संविद्येव प्रमृतायां जगतः ४९) सद्भावात्सर्वभावसमुद्भवत्वं जीवस्य यतश्च जीवादेव उदयति विश्वमतोऽयं सर्वमयो विश्वशक्तिरिति यावत् | निर्णीतं चैतद्द्वितीयसूत्रवृत्तौ | सर्वमयत्वे हेत्वन्तरमाह तत्संवेदन इत्यर्धेन | तस्य सर्वस्य नीलसुखादेर्यत्संवेदनं प्रकाशस्तेन रूपेण स्वभावेन तादात्म्यप्रतिपत्तेः सर्वमयत्वस्योपलम्भात् | एवमनेन श्लोकद्वयेन रहस्यचर्याः सर्वभेदपादपोन्मूलनोपपत्तिपरिघटिताश्च ज्ञानोपदेशकथाः प्रथमचरमसूत्राभ्यां महार्थतत्त्वं जाग्रदादिसूत्रेण षडर्धपरमार्थः तदाक्रम्य इत्यनेन सर्वोपासासारतेत्याद्युपक्षिप्तमिति स्पन्दतत्त्वेनैव विश्वोपदेशाः स्वीकृताः || ४ || अथैतत्प्रतिपत्तिसारतैव मोक्ष इत्यादिशति इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || ५ || वाशब्दः | प्रथमनिःष्यन्दोक्तनिमीलनसमाधिप्रकारं विकल्पयन् अस्याः समापत्तेर्दुर्लभतां ध्वनयति | तेनायमर्थः ईदृशी तावत्संवित्तिः दुर्लभा यस्य कस्यचिदेवापश्चिमजन्मनो भवति सोऽखिलं जगत्क्रीडात्वेन पश्यन् निजसंविदुन्मेषनिमेषाभ्यां सृजन् संहरंश्च मड्यावैश्य ? मनो ये मां नित्ययुक्ता उपासते | (भ० गी० १२|२) ५०) इति स्थित्या सततसमाविष्टो महायोगी जीवन्नेव प्राणादिमानपि विज्ञानाग्निनिर्दग्धाशेषबन्धनो देहपाते तु शिवएव जीवंश्चेद्दृङ्मुक्त एव न तु कथञ्चिदपि बद्धः | न संशयः इत्यनेन इदं ध्वनयति दीक्षादिना गुरुप्रत्ययतो मुक्तिः ईदृशात्तु ज्ञानात्समाचाराद्वा स्वप्रत्ययत एवेति || ५ ||
SKइयमेव महासमापत्तिः साधकाचार्यादीनामभीष्टप्राप्तिहेतुः इति श्लोकद्वयेनाह अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || ६ || इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदीक्षा च शिवसद्भावदायिनी || ७ || इह शिवो भूत्वा शिवं यजेत् इति यदुद्धोष्यते तत्र ध्यायिनश्चेतसि संवेदने तस्येति न सावस्था न या शिवः इति प्रतिपादितशिवस्वभावस्य ध्येयस्य अन्यस्य वा कस्यचित्तत्तत्सिद्धिहेतोर्मन्त्रदेवताविशेषस्य अयमेधोदयः ५१) प्रकटीभावः या साधकस्य ध्यातुराचार्यादेः तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः | (२|४) इति प्रतिपादितरूपा तदात्मतासमापत्तिः शिवैक्यावेशो न तु पञ्चवक्त्रादेर्व्यतिरिक्तस्याकारस्य दर्शनं न तु निश्चयमात्रेण तदात्मतासमापत्तिः अपि तु इच्छतोऽविकल्पविश्वाहन्तात्मकशिवैक्यरूपेच्छापरामर्शाधिरूढस्य | एतदुक्तं भवति अहमेव तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितो विश्वशरीरश्चिदानन्दघनः शिव इति सङ्कल्पो यस्याविकल्पशेषीभूतत्वेन फलति तस्य ध्येयमन्त्रदेवतादि किं न नाम अभिमुखीभवति सर्वस्यैतदद्वयप्रथालग्नत्वात् | यथोक्तमस्मत्परमेष्ठिपादैः साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे | किं न भक्तिमतां क्षेत्रं मन्त्रः केषां न सिध्यति || (घ० स्तो० १|४) इति | इयमेव च समापत्तिः परमाद्वयरूपस्यामृतस्य प्राप्तिः अन्यस्मिṁस्त्वमृते कतिपयकालशरीरदार्ढ्यदायिनि प्राप्तेऽपि साधकैर्मरणमवश्यमवाप्यत एवेत्येवकाराशयः | एवं सर्वत्रानेनैवाशयेन श्रीस्वच्छन्दे स्थूलदृष्ट्यामृतप्राप्तिप्रकरणे नैव चामृतयोगेन कालमृत्युजयो भवेत् | इत्युक्त्योपसंहृत्य तात्त्विकस्तत्प्राप्तिप्रकारः अथवा परतत्त्वस्थः सर्वकालेनं बाध्यते || [७|२२६] इत्यादिना ५२) इति मध्येन
SKजीवन्नेव विमुक्तोऽसौ यस्येयं भावना सदा | यः शिवं भावयेन्नित्यं न कालः कलयेत्तु तम् | योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा | स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् | स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा | (७|२५८) इत्यनेन सहजसन्दर्भेण सप्रशंसं पश्चादुपदिष्टः | अयमेवात्मनो ग्रहो ज्ञानं यदुच्यते आत्मा ज्ञातव्य इति तत्रेदमेव सर्वज्ञसर्वकर्तृस्वतन्त्रशिवस्वरूपतया प्रत्यभिज्ञानमात्मनो ज्ञानं न तु पुरुष एवेदं सर्वम् | (श्वेत० उ० ३|१५) इति श्रुत्यन्तविदुक्तं त आत्मोपासकाः सर्वे न गच्छन्ति परं पदम् | (स्व० ४|३८८) इत्याम्नायोक्तेः | तथा दीक्षावसरे योजनिकाद्यर्थमयमेव शिष्यात्मनोऽनुग्रहः इमामेव समापत्तिं विद्वानाचार्यः शिष्यात्मानं शिवे योजयन्नाचार्यो भवतीत्यर्थः | इयं स्वप्रत्ययसिद्धा पुत्रकादेः शिवात्मनः सद्भावस्य पारमार्थिकस्वरूपस्य दायिनी निर्वाणदीक्षा | यथोक्तम् एवं यो वेद तत्त्वेन तस्य निर्वाणदायिनी [गामिनीति मूलपरात्रीशिकापुस्तकस्थः पाठः |] | दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता || (प० त्री० २५) ५३) इति | हौत्री दीक्षापि दीक्षैव तत्र मा भूत्कस्यचिदनाश्वास इत्याशयेनात्रैवकारो न कृतः श्रीमहागुरुप्रवरेणेति शिवम् || इति श्रीमहामाहेश्वराचार्यक्षेमराजानकनिर्मिते स्पन्दनिर्णये सहजविद्योदयस्पन्दो द्वितीयो निष्यन्दः || २ || ५४) अथ तृतीयो निष्यन्दः |
SKएवं निमीलनोन्मीलनसमाधिद्वयसमाधेय उभयविसर्गारणीभूतः सुप्रबुद्धताभिव्यक्तये स्पन्दतत्त्वसमावेशो निःष्यन्दद्वयेन निर्णीतः | अथेदानीमेतदवष्टभ्याम्भाभ्यासेन परापरविभूत्युदयो भवतीत्यभिधाय संक्षेपेण बन्धमोक्षस्वरूपं निरूप्य प्रथमोपक्रान्तं निगमयति यथेच्छेत्यादिभिः चक्रेश्वरो भवेदित्यन्तैरेकोनविंशत्या श्लोकैरनेन विभूतिस्पन्दाख्येन तृतीयनिःष्यन्देन | तत्र श्लोकद्वयेन जाग्रत्सिद्धस्वातन्त्र्यदृष्टान्तपुरःसरं स्वप्नस्वातन्त्र्यम् | एकेन तद्विपर्ययमभिदधता सततोद्युक्ततैवाश्रयणीयेति तात्पर्येणोक्तम् | द्वितयेनाभीष्टवस्तुज्ञानाविर्भावः | एकेन कर्तृशक्त्याविर्भूतिः क्षुधादिजयश्च | एकेन सर्वज्ञताप्राप्तिः | एकेन ग्लानिनाशश्चेत्यष्टके निरूपितम् | ततः स्पन्दात्मन उन्मेषस्यैकेन स्वरूपं लक्षितम् | एकेन परसमाधिविघ्नभूतानां सिद्धीनां हेयतोक्ता | एकेन द्वितीयनिःष्यन्दनिर्णीतविश्वात्मतास्वभावः समावेश उक्तः | ततः समाविष्टतालाभे युक्तिरुक्तैकेन | त्रयेण पशुपाशनिर्णय उक्तः | एकेन स्पन्दतत्त्वस्यैव बन्धमोक्षोभयपदाक्रांतिरुक्ता | ५५) द्वयेनोच्छेद्यत्वेन बन्धस्वरूपमनूदितम् | एकेन तदुच्छित्त्युपायमभिदधतादिसूत्रोक्तार्थो निगमित इति संक्षेपो निःष्यन्दस्य || अथ ग्रन्थो व्याख्यायते | यदुक्तं सुप्रबुद्धस्य सततं स्पन्दतत्त्वोपलब्धिः इति | तत्र अतः सततमुद्युक्त इत्यनेन जागरायां तत्परिशीलनेन शिक्षा प्रबुद्धस्य सुप्रबुद्धताप्राप्त्यर्थमुक्ता | यामवस्थामित्यादिना प्रतिपदोपायपरिशीलनपाटवेन योगिसुषुप्तावरणभङ्ग उक्तः | इदानीं लौकिकस्वप्नसुषुप्तविदलनेन सुप्रबुद्धतामेव साधयितुं स्वप्नोचितां विभूतिमस्य दर्शयितुमाह यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् | सोमसूर्योदयं कृत्वा संपादयति देहिनः || १ || तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् | नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् || २ || धत्ते सर्वमात्मनीति धाता शंकरात्मा स्वभावः स ५६)
SKयथा जाग्रतः जागरायामभिव्यक्तस्वस्वातन्त्र्यस्य देहिनो देहभूमिकायामेव प्रकटीभूतपिण्डस्थज्ञानस्य योगिनः सम्बन्धिन्येच्छयाभ्यर्थितोऽन्तर्मुखस्वरूपविमर्शबलेन प्रसादितो हृदि चेतसि स्थितानर्थानिति बिन्दुनादादिज्ञानपुरः (सर) क्षोभप्रतिभाचालनबोधस्तोभज्ञानसंचारादिप्रयोजनानि संपादयति | कथं सोमसूर्ययोर्ज्ञानक्रियाशक्त्योरुदयं कृत्वा ज्ञानशक्त्या भास्यमानं हि तत्तत्क्रियाशक्त्योन्मील्यते | समावेशोन्मिषत्प्रतिभात्मकमूलावष्टम्भयुक्तिस्फारितज्ञानक्रिया- saṃpādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ | yathā caivaṃ tathā anāgatāyāṃ nidrāyāṃ vinaṣṭe bāhyagocare | sāvasthā matasā gamyā parā devī prakāśate || [vi0 bhai0 75] iti pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare | praviśyaṃ hṛdaye dhyāyan svapnasvātantryamāpnuyāt || [vi0 bhai0 55] iti saṃpradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayamanatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataramanācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapnai'pyabhīṣṭānevāṇavaśāktaśāmbhavasamāveśādīnanyānapi samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitānarthānnavaśyaṃ prakaṭīkaroti 57) nāsya yoginaḥ svapnasuṣuptayorvyāmoho bhavatītyarthaḥ | svapnena sauṣuptamapyupalakṣitam | atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt | parameśvaro hi cidātmā yadyantarmukhocitasevākrameṇārthyate tattatsaṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam || 2 || yadi punarevaṃ sāvadhāno [na] bhavati tadā nāsya yogitetyāha anyathā tu svatantrā syātsṛṣṭistaddharmakatvataḥ | satataṃ laukikasyeva jāgratsvapnapadadvaye || 3 ||
SKयद्युक्तयुक्त्या नित्यं नाराध्यते धाता तदा स्वस्वरूपस्थित्यभावे सततं प्रत्यहं लौकिकस्येव चास्य योगिनोऽपि जागरायां स्वप्ने च साधारणासाधारणार्थप्रकाशनतन्निश्चयनादिस्वभावा पारमेश्वरी सृष्टिः स्वतन्त्रा स्यात् लौकिकवद्योगिनमपि संसारावट एवासौ पातयेदित्यर्थः | यथोक्तम् ५८) प्रवृत्तिर्भूतानामैश्वरी | इति | तद्धर्मकत्वतः इति स्वप्नजागरादिपदप्रकाशने भगवत्सृष्टेः स्वातन्त्र्यस्वभावादित्यर्थः || ३ || एवं स्वप्नसौषुप्तनिर्दलनोपायं स्वप्रबुद्धतायै संसाध्य स्पन्दतत्त्वसमावेशोपायं सुप्रबुद्धस्य दृष्टान्तयुक्तिपूर्वकं निरूपयति जिज्ञासितार्थज्ञप्तिरपीत्थं भवतीत्यादिशति यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः || ४ || तथा यत्परमार्थेन येन यत्र यथा स्थितम् | तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते || ५ || हिशब्दः किलशब्दार्थे | सावधानेऽपि चेतसि दूरत्वादिदोषैर्यथा किलार्थोऽस्फुटो दृष्टो भूयोऽध्यक्षनिरीक्षणात्मना स्वबलोद्योगेन भावितो भृशमालोकितो न केवलं स्फुटो यावत्स्फुटतरोऽपि भाति तथा यत्स्पन्दतत्त्वात्मकं बलं येनानन्दघनतात्मना परमार्थेन यत्रेति शंकरात्मनि स्वस्वभावे यथेति अभेदव्याप्त्या स्थितं तत्कर्तृ ५९) तथेति स्वबलोद्योगेन अन्तर्मुखतदेकात्मतापरिशीलनप्रयत्नेन संभावितं शीघ्रमेव स्फुटतरत्वेन प्रवर्तते अभिव्यज्यते | कथमाक्रम्याराधकस्य कल्पितदेहादिप्रमातृभूमिं स्वात्मन्येव निमग्नां कृत्वा अथ च स्पन्दात्मकं बलमाक्रम्य स्थितस्य कल्पितदेहबुद्धिप्रमातृभूमिमसकृदुत्तेजयतः साधकस्य योगिनो यज्जिज्ञासितं निधानादि यत्र देशादौ येन हेमादिना परमार्थेन यथा सन्निवेशेन स्थितं तथा तदचिरादेव प्रकाशते || ५ || कर्तृशक्त्यादिरप्यमुत एव बलात्प्रादुर्भवतीत्याह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः || ६ ||
SKयथा क्षीणधातुरृषिप्रायः सोऽपि स्पन्दात्मकं बलमाक्रम्य स्पन्दसमावेशबलेन प्राणप्रमातृभूमिमसकृदुत्तेज्य कार्येऽवश्यकर्तव्ये कर्मणि प्रवर्तते अशक्यमपि वस्तु तद्बलाक्रमणेनैव करोतीत्यर्थः | तथा योऽप्त्यतिषुभुक्षितः सोऽपि तद्बलाक्रान्त्या क्षुत्पिपासादि शमयति | नहि चिद्धनां भूमिमनुप्रविष्टस्य द्वन्द्वाभिभवः कश्चित्प्राणादिभुव एव तदाश्रयत्वात्तस्याश्चेह चिद्भूमौ निमग्नत्वात् || ६ || ६०) यत एवमुक्तसूत्रोपपत्तिक्रमानुसारेणेदृक्सिद्धिसमुदायोऽस्माद्भवतीत्यतः अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः | तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति || ७ || अनेन स्वस्वभावात्मना स्पन्दतत्त्वेनाधिष्ठिते व्याप्ते देहे सति यथा तदवस्थोचितार्थानुभवकरणादिरूपाः सर्वज्ञतासर्वकर्तृतादयो धर्मा आविर्भवन्ति देहिनः तथा यद्ययं कूर्माङ्गसंकोचवत्सर्वोपसंहारेण महाविकासयुक्त्या वा स्वस्मिन्ननपायिन्यात्मनि चिद्रूपे अधिष्ठानं करोति उक्ताभिज्ञानप्रत्यभिज्ञाते तत्रैव समावेशस्थितिं बध्नाति तदा सर्वत्रेति शिवादौ क्षित्यन्ते एवमिति शंकरतदुचितसर्वज्ञतासर्वकर्तृतादिरूपो भविष्यति || ७ || इदमप्येतत्प्रसादेनेत्याह ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः | तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका || ८ || ६१) अर्थाद्देहाभिमानिनः पुंसो यो हर्षक्षयोऽसौ वुलुण्ठिका परसंविद्द्रविणापहारेण पारिमित्यदौर्गत्यप्रदा तस्याश्च ग्लानेरज्ञानतश्चिदानन्दघनस्वस्वरूपाप्रत्यभिज्ञानात्सृतिरुद्भवोऽव- nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhavedityarthaḥ | glānyabhāve ca dehe'vaśyaṃbhāvinyo vyādhyādisantāpāvasthā api yathā yathā yogino'pakṛṣyante tathā tathā hemna ivāti tāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva | evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ | yathoktaṃ paramayoginyā madālasayā bāladārakān prayogīkurvatyā
SKत्वं कञ्चुके शीर्षमाणे निजेऽस्मिन्देहे हेये मूढतां मा व्रजेथाः | शुभाशुभैः कर्मभिर्देहमेतन्मदादिभिः कञ्चुकस्ते निबद्धः || (सा० पु० २५|१४) इति मितसिध्यभिलाषिणो योगिनः समावेशाभ्यासरसेन देहं विध्यतो वलीपलितादिव्याधिजयो भवतीत्यपि भङ्गवानेन प्रतिपादितम् || ८ || अथ योज्यमुन्मेषः स किंस्वरूपः किमुपायलभ्यश्चेत्याकाङ्क्षायामाह ६२) एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || ९ || भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मध्यभावेन विकंसत्यतिभावना || (वि० भै० ६२) इति नीत्या एकस्यां कस्यांचिदालम्बनविशेषनिभृतविकारात्मिकायां चिन्तायां प्रसक्तस्य एकाग्रीभूतस्य योगिनो यत इति तदेकाग्रताप्रकर्षोल्लसत्संवित्स्फारतस्तदालम्बननिमीलनाज्झटिति ग्रस्तसमस्तचिन्तासन्ततेरग्नी षोमाविभेदात्मनः स्पन्दतत्त्वादपर एवोदयश्चिच्चमत्कारात्मान्य एव लोकोत्तर उल्लासः स्यात् स तच्चमत्कारोन्मेषकत्वादेवोन्मेषो विज्ञातव्योऽन्वेषणीयः इत्थमेव योगिना ज्ञातुं शक्यः ततश्च स्वयमिति इदन्ताविषयत्वाभावादकृतकप्रयत्नात्मनावधानेनाहन्तयैवोपेत्यात्मनि लक्षयेत् असाधारणेन चमत्कारात्मना प्रत्यभिजानीयात् | यत एकस्यां विषयविचारादिचिन्तायां प्रसक्तस्य अपरस्याश्चिन्ताया झटित्युदयः स्यात् स चिन्ताद्वयव्यापकं उन्मेषः इत्यन्ये || ९ || इदानीं मितयोगिजनप्रयत्नसाध्यास्वपि तासु तासु ६३) सिद्धिषून्मेषपरिशीलनमात्रोदितासु परयोगिनो हेयत्वमेव मन्तव्यमित्यादिशति अतो विन्दुरतो नादो रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || १० ||
SKअत उन्मेषादुपलक्ष्यमाणादप्रलीयमानस्थूलसूक्ष्मादिदेहाहम्भावस्य योगिनोऽचिरेणैव भ्रूमध्यादौ तारकाप्रकाशरूपो विन्दुरशेषवेद्यसामान्यप्रकाशात्मा नादः सकलवाचकाविभेदिशब्दनरूपोऽनाहतध्वनिरूपो रूपमन्धकारेऽपि प्रकाशनं तेजः रसश्च रसनाग्रे लोकोत्तर आस्वादः क्षोभकत्वेन स्पन्दतत्त्वसमासादनविघ्नभूततावत्सन्तोषप्रदत्वेन वर्तन्ते | यदाहुः ते समाधावुपसर्गा व्युत्थाने सिद्धयः | (पात० सू० ३|३७) इति | एवमुन्मेषनिभालनोद्युक्तस्यापि देहात्ममानिनो योगिनो बिन्दुनादादयः क्षोभका भवन्तीत्युक्तम् || १० || इदानीमत्रोन्मेषात्मनि स्वभावे देहप्रमातृतां निमज्जयति तदाकारामपि परप्रमातृतां लभत इत्याह दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते | ६४) तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || ११ || यथा पश्यन्तीरूपाविकल्पकदिदृक्षावसरे दिदृक्षितोऽर्थोऽन्तरभेदेन स्फुरति तथैव स्वच्छन्दाद्यध्वप्रक्रियोक्तान् धरादिशिवान्तान्तर्भाविनोऽशेषानर्थान् व्याप्येति सर्वमहमिति सदाशिववत् स्वविकल्पानुसन्धानपूर्वकमविकल्पान्तमभेदविमर्शान्तः क्रोडीकारेणाच्छाद्य यदावतिष्ठते अस्याः समापत्तेर्न विचलति तावदशेषवेद्यैकीकारेणोन्मिषत्तावद्वेद्यग्रासीकारिमहाप्रमातृता- svasaṃvidevānubhaviṣyati kimatra bahunā pratipāditena || 11 || tasyopalabdhiḥ satatam iti pratijñāya tadanantaramupapāditamupāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvādupadeśyahṛdaye smārayannanupraveśayuktyupasaṃhārabhaṅgyāha prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram | ekatrāropayetsarvaṃ tato'nyena na pīḍyate || 12 || sarvadā jāgarāsvamasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhastiṣṭhet 65) unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatāmeva bhajeta | kathaṃ jñānena bahirmukhenāvabhāsena sarvaṃ gocaraṃ nīlasukhādirūpaṃ viṣayamālokya tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ (2|4)
SKइत्युपपादितदृशा विमृश्य एकत्र स्रष्टरि शंकरात्मनि स्वभावे सर्वमारोपयेत् निमीलनोन्मीलनदशयोस्तदभेदेन जानीयात् पूर्वापरकोट्यवष्टम्भदार्ढ्यान्मध्यभूमिमपि चिद्रसाश्यानतारूपतयैव पश्येदित्यर्थः | एवं च न केनचिदन्येन व्यतिरिक्तेन वस्तुना बाध्यते सर्वस्मिन् स्वात्मनः स्वीकृतत्वात् | यथोक्तं श्रीप्रत्यभिज्ञाकारेण योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः | स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् || (उ० स्तो० १३| १६) इति || १२ || ततोऽन्येन न पीढ्यते इति यदुक्तं तत्र कोऽसावन्यः पीडकः कश्च पीड्यः यतः शिवात्मकमेव विश्वमुक्तमित्वाशङ्क्य पाशानां पशोश्च स्वरूपं निर्णेतुमाह शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः || १३ || ६६) इह योऽयं प्रकाशात्मा स्वस्वभावः शांकर उक्तः असौ व्यवस्थितः करोत्यैष विश्वकारणमीश्वरः | सृष्टिं स्थितिं च संहारं तिरोधानमनुप्रहम् || (स्व० |)
SKइति श्रीस्वच्छन्दशास्त्रदृष्ट्या निजशक्त्याश्लिष्टः सदा पञ्चविधकृत्यकारी स्वतन्त्रः स्पन्दललितेश्वरादिशब्दैरागमेषूद्धोष्यते | स्वातन्त्र्यशक्तिरेवास्य सनातनी पूर्णाहन्ता रूपा परा मत्स्योदरी महासत्ता स्फुरत्तोर्मिः सारं हृदयं भैरवी देवी शिखा इत्यादिभिरसंख्यैः प्रकारैस्तत्र तत्र निरुच्यते | पूर्णाहन्तैव चास्यानुत्तरानाहतशक्तिसंपुटीकारस्वीकृतादिक्षान्तवर्णभट्टारिका तत एव स्वीकृतानन्तवाच्यवाकरूपषडध्वस्फारमयाशेषशक्तिचक्र- śeṣasargapralayādiparamparāpyakramavimarśarūpaiva nityoditānuccāryamahāmantramayī sarvajīvitabhūtā parā vāk | eṣiva bhagavata ityadviśvavaicitryacalattāmiva svātmani prathayantī spandate ityarthānugamāt spanda iti ihocyate | evaṃ ceyadviśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāvevāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārairaghoraghoraghorataraiḥ | saṃvittidevatātmabhiḥ 67) rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati | yathoktaṃ śrīmālinīvijayottare yā sā śaktirjagaddhātuḥ kathitā samavāyinī | icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate || (3|5) saikāpi satyanekatvaṃ yathā gacchati tacchṛṇu | evametaditi jñeyaṃ nānyatheti suniścitam || jñāpayantī jagatyatra jñānaśaktirnigadyate | evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā || jātā tadaiva tadvastu kurvatyatra kriyocyate | evamevā dvirūpāpi punarbhedairanantatām || arthopādhivaśādyāti cintāmaṇiriveśvarī | tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate || dvidhā ca navadhā caiva pañcāśaddhā ca mālinī | bījayonyātmakādbhedāddvidhā bījaṃ svarā matāḥ ||
SKकादयश्च स्मृता योनिर्नवधा वर्गभेदतः | पृथग्वर्ज्यविभेदेन शतार्धकिरणोज्ज्वला || बीजमन्न शिवः शक्तिर्योनिरित्यभिधीयते | वर्गाष्टकमिति ज्ञेयमघोराद्यमनुक्रमात् || तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् | शतार्धभेदभिन्ना च तत्संख्यानां वरानने || रुद्राणां वाचकत्वेन कल्पिता परमेहिना | तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् || इत्यादि | तथा विषयेष्येव संज्ञीनानधोऽधः पातयन्त्यसून् | ? रुद्राशून्याः समाछिङ्ग्य घोरतर्वोऽपरास्तु ताः || मिश्रकर्मचक्रासक्तिं पूर्ववज्रनवन्ति वाः | ? ६८) मुक्तिमार्गनिरोधिन्यस्ताः स्युर्योराः परापरः || पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः | पराः प्रकथितास्तज्ज्ँऐरघोराः शिवशक्तयः || (३|३३) इति | एवं शब्दराशेः समुत्थितो वर्गनवकरूपो यो ब्राह्म्यादिदेवतावर्गः शिवसहितस्तस्य भोग्यतां पाश्यतां गतः सन् स एव शंकरात्मा स्वभावः पशुः स्मृतः आगमेषु तथोक्तः | ननु कथं भोक्ता महेश्वरः इमामवस्थां प्राप्तः इत्याशङ्काशान्त्यै विशेषणद्वारेण हेतुमाह कलाविलुप्तविभव इति | कलयति वहिः क्षिपति पारिमित्येन परिच्छिनत्तीति कला मायाशक्तिः तया विलुप्तविभवः स्वमायया गूहितैश्वर्यः स्थित इत्यर्थः | अथ च कलया किंचित्कर्तृत्वोपोद्वलनात्मना शक्त्या तदुपलक्षितेन कलाविद्याकालनियतिरागात्मना कञ्चुकेन विलुप्तविभवः स्थगितपूर्णत्वकर्तृत्वादिधर्मः | भवत्वेवं भोग्यतां तु कथमसौ शक्तिवर्गस्य गतः इत्यत्रैतदेवोत्तरम् | कलाभिरकारादिवर्गाधिष्ठायिकाभिर्ब्राङ्म्यादिभिस्तद्वर्ण- kalābhirakārādivarṇairviluptavibhavaḥ saṃkucito'smi apūrṇo'smi karavāṇi kiṃcididamupādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣma- स्वरूपस्थितिं न लभते यतः ६९)
SKअतोऽसावुक्तरूपः शक्तिवर्गेण भुज्यमानः पशुरुक्तः | कलया अख्यात्यात्मनांशेन विलुप्तविभवः संकुचित इव न तु तत्त्वतः शिवात्मा स्वभावोऽस्य क्वापि गतः तदभावे हि स एव न स्फुरेत् | तथावभासमानैरेव कलाभिः संकुचितैः शब्दैर्ज्ञानैश्च विलुप्तविभवस्तथारूपमात्मानं न विम्रष्टुं क्षम इत्यर्थः || १३ || अधुना पशुः संकुचितदृक्छक्तिबाध्यः पाश्यश्चेत्येतद्विभजति परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः || १४ || तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां भिन्नार्थज्ञानानां विकल्पानामप्युद्भवः विनाशाघ्रात उत्पादः स परस्यामृतरसस्य चिद्धनस्यानन्दप्रसरस्यापायो निमज्जनम् | उदितेषु भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्यपरामृश्यमानत्वादस्थितेव लक्ष्यते तत एवमुक्तम् | तेन च प्रत्ययोद्भवेनायमस्वतन्त्रतामेति तद्वशः सम्पद्यते | यदुक्तं श्रीशिवसूत्रेषु ज्ञानं बन्धः (१|२) इति | श्रीमद्व्यासमुनिनापि मातापितृमयो त्राल्ये इति | श्रीमदालसयापि ७०) तातेति किंचित्तनयेति किंचित् अभ्येति किंचिद्दयितेति किंचित् | ममेति किंचिन्न ममेति किंचित् भौतं संघं बहुधा मा लपेथाः || (मा० पु० २५|१५) इति | प्रत्ययस्योद्भवस्तन्मात्राणि तीव्रातीव्रभेदसामान्यवृत्तयो गोचरो यस्य तथाभूतो भिन्नवेद्यविषय इत्यर्थः | अनेनेदमाह यावदियं भिन्नवेद्यप्रथा तावद्बद्ध एव यदा तूक्तोपदेशयुक्त्या सर्वमात्ममयमेवाविचलप्रतिपत्त्या प्रतिपद्यते तदा जीवन्मुक्त इति | यथोक्तं इति वा यस्य संवित्तिः [२|५] इत्यादि | एवं च यत्पूर्वमुक्तं तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः | (२|४) इत्यादि न तेन सह परामृतरसापायस्तस्य यः प्रत्ययोद्भवः (३|१४) इत्यस्य वैषम्यं किंचित् || १४ || ननु यदि प्रत्ययोद्भवोऽप्यस्य परामृतरसापायः तत्कथमुक्तं शक्तिवर्गस्य भोग्यतां गतः इत्याशङ्कां परिहरति
SKस्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः || १५ || चः शङ्कां द्योतयन् तत्परिहाररूपं प्रगेयान्तरं समुच्चिनोति | ७१) अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततमुत्थिताः यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानमस्य न वृत्तं तावदेताः स्वस्वरूपावरणायोद्यच्छन्त्येव | यतोऽस्य यः प्रत्ययोद्भवो विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामि इत्यादिना सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति इति तिरश्चामप्यसांकेतिकः निर्देशप्रख्यः स्वात्मनि च शिरोनिर्देशप्रख्योऽन्तरभ्युपगमरूपः शब्दनविमर्शोऽस्त्येव अन्यथा बालस्य प्रथमसंकेतग्रहणं न घटेत अन्तरूहापोहात्मकविमर्शशून्यत्वात् | स्थूलशब्दानुवेधमयस्तु विकल्पः सर्वस्य स्वानुभवसिद्धः || १५ || श्लोकत्रयोक्तमर्थमुपसंहरन्नियतः प्रमेयस्य सामान्यस्पन्दतत्त्वादभिन्नतां प्रागुक्तामनुबध्नन् तत्प्रत्यभिज्ञानाप्रत्यभिज्ञानमयौ बन्धमोक्षौ इति लक्षयति सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || १६ || सेति श्लोकत्रयनिर्णीतत्वात् इयमिति प्रमेयपर्यन्तेन ७२) रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात् क्रियाशक्तिः प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना प्राणपुर्यष्टकरूपममुं कर्तृतात्मनाहन्ताविप्रुषा प्रोक्षितं कुर्वाणा तथारूपेणाप्रत्यभिज्ञाय स्वरूपावारकत्वाद्धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति | यदा तु स्वस्य शिवात्मनो रूपस्य यो मार्गः शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना | तदासौ शिवरूपी स्याच्चैवी मुखमिहोच्यते || (२०)
SKइति श्रीविज्ञानभट्टारकोक्तनीत्या प्राप्त्युपायः पराशक्तिस्तदात्मतयासौ क्रियाशक्तिर्ज्ञायते योगिना यदा वा विकल्पकाविकल्पकप्रसरेऽपि शिवस्वरूपस्य स्वात्मन्ॐऽशभूतमेवाशेषवेद्यमनेनेक्ष्यते तदास्यासौ परानन्दमयीं परां सिद्धिमुपपादयति || १७ || इत्थंकारं (पशुरत्र बध्यते वक्ष्यमाणोपायपरिशीलनेन च मुच्यते इति प्रतिपादयन् बन्धस्वरूपमुच्छेद्यत्वेनानुवदति) तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना | ७३) पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् [अस्य श्लोकस्य टीका न लब्धा |] || १७ || भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः | संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महै || १८ || पुर्यष्टकोत्थितं भोगं भुङ्क्ते | यत एव प्रत्ययेषु सुखादिप्रत्ययोद्भवः अत एवासौ प्रत्ययोद्भवात् पशुः परवशः शब्दानुवेधक्रमेण पदे पदे ब्राह्म्यादिदेवीभिराक्षिप्यमाणः न तु सुप्रबुद्धवत् स्वतन्त्रः तस्य पुर्यष्टकस्य भावादेव पुनःपुनरुद्बोधितविचित्रवासनः संसरेत् तत्तद्भोगोचितभोगायतनानि शरीराण्यर्जयित्वा गृह्णाति चोत्सृजति च | यतश्चैवमतोऽस्य पुर्यष्टकसंरुद्धस्य या संसृतिस्तस्या यः प्रकृष्टो लयः पुर्यष्टकात्मकमलोच्छेदेन विनाशः तस्य कारणं सम्यक् सुखोपायं प्रचक्ष्महे समनन्तरमेव ब्रूमः तथा संप्रचक्ष्महे प्रकरणेऽस्मिन् स्वयं प्रतिपादितवन्तः | वर्तमानसामीप्ये वर्तमानवद्वा (पा० सू० ३|३|१३१) इति वर्तमानप्रयोगः || १८ || एतत् प्रतिपादयन् आद्यसूत्रोक्तमर्थं निगमयति ७४) यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ | नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || १९ ||
SKयदा पुनरयमुक्ताः परतत्त्वसमावेशोपदेशयुक्तीः परिशीलयन् एकत्र पूर्णाहन्तात्मनि स्पन्दतत्त्वे सम्यगविचलत्वेन रूढः समाविष्टस्तन्मयो भवति तदा तस्येति पूर्वसूत्रनिर्दिष्टस्य पुर्यष्टकस्य तद्द्वारेणैव विश्वस्य निमीलनोन्मीलनसमावेशाभ्यां लयोदयौ नियच्छन् प्रथमसूत्रनिर्णीतदृशा एकस्मादेव शंकरात्मनः स्वभावात् संहारं सर्गं च कुर्वन् भोक्तृतामेति धरादिशिवान्तसमग्रभोग्यकवलनेन परमप्रमातृतां सतीमेव प्रत्यभिज्ञानक्रमेणावलम्बते | ततश्च प्रथमसूत्रनिर्णीतस्य शक्तिचक्रस्य स्वमरीचिनिचयस्येश्वरोऽधिपतिर्भवेत् | अनेनैव च देहेन महेश्वरत्वमवाप्नोत्येवेति यावत् | एवं चोपक्रमोपसंहारयोर्महार्थसंपुटीकारं दर्शयन् तत्सारतया समस्तशांकरोपनिषन्मूर्धन्यतामस्याविष्करोति शास्त्रस्य श्रीमान्वसुगुप्ताचार्यः इति शिवम् || इति श्रीस्पन्दनिर्णये विभूतिस्पन्दस्तृतीयो निःष्यन्दः समाप्तः || ७५) अथ चतुर्थो निष्यन्दः ग्रन्थान्ते परमां स्पन्दभूमिं गुरुगिरं च श्लेषोक्त्या स्तौति अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् | वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् || १ || तामसामान्यां भगवतीं गुरुं शैवी मुखमिहोच्यते (वि० भै० २०) इति स्थित्या शिवधामप्राप्तिहेतुत्वादाचार्यरूपाम् | अथ च गुरुं पश्यन्त्यादिक्रोडीकारात् महतीं भारतीं परां वाचम् तथा गुरोराचार्यस्य सम्बन्धिनीमुपदेष्ट्रीं गिरं चित्रां लोकोत्तरचमत्काररूपां वन्दे सर्वोत्कृष्टत्वेन समाविशामि | अथ च सर्वावस्यासु स्फुरद्रूरूपत्वादमिवदन्तीमुद्यन्तृताप्रयत्नेनाभिवादये स्वरूपविमर्शनिष्ठां तां समावेष्ठुं संमुखीकरोमि | कीदृशीमगाधो दुरुत्तरो यः संशयः पूर्णाहन्तानिश्चयाभावात्मा विचित्रः ७६)
SKशङ्काकलङ्कः स एव विततत्वेनाम्भोधिस्तस्य सम्यगुत्तरणे या तारिणी नौरिव तामित्युभयत्रापि योज्यम् | तथा विचित्रार्थानि नानाचमत्कारप्रयोजनानि पदानि विश्रान्तयो यस्यां परस्यां वाचि तां विचित्राणि रम्यरचनानुप्रविष्टानि अर्थपदानि वाच्यवाचकानि यस्यां गुरुवाचि ताम् || १ || प्रसिद्धप्रभावस्वनामोदीरणात्सम्भावनाप्रत्ययेनार्थिनः प्रवर्तयन् गूहनीयतया महाफलतामस्य शास्त्रस्य निरूपयति शास्त्रकारः लब्ध्वाप्यलभ्यमेतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः | वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य || २ || एतच्छास्त्रोक्तमेतज्ज्ञानमेव पुरुषार्थप्राप्तिहेतुत्वाद्धनमलभ्यमपि दुष्प्रापमपि लब्ध्वा शंकरस्वप्नोपदेशसारं शिलातलादवाप्य प्रकाशविमर्शात्मकं हृदयमेव विश्वान्तः प्रवेशावकाशप्रदत्वाद्गुहा तस्यामन्तेन निश्चयेन कृता निहितिः स्थापना येन अर्थात्तस्यैव ज्ञानधनस्य तस्य स्वामिनः श्रीवसुगुप्ताभिधानस्य गुरोर्यथैव तच्छिवाय जातं तद्वदधिकारिनियमसंकोचाभावात्सर्वलोकस्यापि हृदुहान्तकृतनिहितेर्यत्नादसामयिकात् ७७) गोपयतः हृढप्रतिपत्त्या च स्वात्मीकुर्वतः सदा शिवाय भवति नित्यशंकरात्मकस्वस्वभावसमावेशलाभाय सम्पद्यत इति शिवम् || २ || यद्यप्यस्मिन् विवृतिगणना विद्यते नैव शास्त्रे लोकश्चायं यदपि मतिमान् भूयसोत्तानवृत्तिः | जानन्त्येते तदपि कुशलास्तेऽस्मदुक्तेर्विशेषं केचित्सारग्रहणनिपुणाश्चेतनाराजहंसाः || १ || अनन्तापरटीकाकृन्मध्ये स्थितिममृष्यता | विवृतं स्पन्दशास्त्रं नो गुरुणा नो मयास्य तु || २ || विशेषलेशः सन्दोहे दर्शितः पूर्वमद्य तु | रुद्रशक्तिसमावेशशालिनः शिवरूपिणः || ३ || शूरनाम्नः स्वशिष्यस्य प्रार्थनातिरसेन तत् | निर्णीतं क्षेमराजेन स्फारान्निजगुरोर्गुरोः || ४ || येषां नो धिषणोपदेशविशदा सद्दैशिकैर्दर्शिता श्रीमच्छाम्भवशासनोपनिषदा येषां न भग्नो भ्रमः | ये नास्वादितपूर्विणो मृदुधियः श्रीप्रत्यभिज्ञामृतं ते नात्राधिकृताः परैः पुनरिदं पूर्णाशयैश्चर्व्यताम् || ५ ||
SKशिवादिक्षित्यन्तो विततविततो योऽध्वविभवः स्फुरन्नानासर्गस्थितिलयदशाचित्रिततनुः | इयद्विश्वं यस्य प्रसरकणिकासौ विजयते परः संवित्स्पन्दो लसदसमसौख्यायतनभूः || ६ || ७८) समाप्तोऽयं श्रीस्पन्दनिर्णयः कृतिः श्रीप्रत्यभिज्ञाकारप्रशिष्यस्य महामाहेश्वराचार्य श्रीमदभिनवगुप्तनाथदत्तोपदेशस्य श्रीक्षेमराजस्येति शिवम् || श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्यायं प्रकाशितः ||