Root Verses on the Middle Way

Mūlamadhyamakakārikā · Mऊलमध्यमककारिका

Root Verses on the Middle Way

Mūlamadhyamakakārikā

Mऊलमध्यमककारिका

SK
न स्वतो नापि परतो न द्वाभ्यां नाप्य् अहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन // MMK_१.१ //
SK
चत्वारः प्रत्यया हेतुर् आरम्बणम् अनन्तरम् / तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः // MMK_१.२ //
SK
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते / अविद्यमाने स्वभावे परभावो न विद्यते // MMK_१.३ //
SK
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया / प्रत्यया नाक्रियावन्तः क्रियावन्तश् च सन्त्य् उत // MMK_१.४ //
SK
उत्पद्यते प्रतीत्येमान् इतीमे प्रत्ययाः किल / यावन् नोत्पद्यत इमे तावन् नाप्रत्ययाः कथम् // MMK_१.५ //
SK
नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते / असतः प्रत्ययः कस्य सतश् च प्रत्ययेन किम् // MMK_१.६ //
SK
न सन् नासन् न सद् असन् धर्मो निर्वर्तते यदा / कथं निर्वर्तको हेतुर् एवं सति हि युज्यते // MMK_१.७ //
SK
अनारम्बण एवायं सन् धर्म उपदिश्यते / अथानारम्बणे धर्मे कुत आरम्बणं पुनः // MMK_१.८ //
SK
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते / नानन्तरम् अतो युक्तं निरुद्धे प्रत्ययश् च कः // MMK_१.९ //
SK
भावानां निःस्वभावानां न सत्ता विद्यते यतः / सतीदम् अस्मिन् भवतीत्य् एतन् नैवोपपद्यते // MMK_१.१० //
SK
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत् फलम् / प्रत्ययेभ्यः कथं तच् च भवेन् न प्रत्ययेषु यत् // MMK_१.११ //
SK
अथासद् अपि तत् तेभ्यः प्रत्ययेभ्यः प्रवर्तते / अप्रत्ययेभ्यो ऽपि कस्मान् नाभिप्रवर्तते फलम् // MMK_१.१२ //
SK
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः / फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् // MMK_१.१३ //
SK
तस्मान् न प्रत्ययमयं नाप्रत्ययमयं फलम् / संविद्यते फलाभावात् प्रत्ययाप्रत्ययाः कुतः // MMK_१.१४ //
SK
गतं न गम्यते तावद् अगतं नैव गम्यते / गतागतविनिर्मुक्तं गम्यमानं न गम्यते // MMK_२.१ //
SK
चेष्टा यत्र गतिस् तत्र गम्यमाने च सा यतः / न गते नागते चेष्टा गम्यमाने गतिस् ततः // MMK_२.२ //
SK
गम्यमानस्य गमनं कथं नामोपपत्स्यते / गम्यमानं विगमनं यदा नैवोपपद्यते // MMK_२.३ //
SK
गम्यमानस्य गमनं यस्य तस्य प्रसज्यते / ऋते गतेर् गम्यमानं गम्यमानं हि गम्यते // MMK_२.४ //
SK
गम्यमानस्य गमने प्रसक्तं गमनद्वयम् / येन तद् गम्यमानं च यच् चात्र गमनं पुनः // MMK_२.५ //
SK
द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये / गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते // MMK_२.६ //
SK
गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते / गमने ऽसति गन्ताथ कुत एव भविष्यति // MMK_२.७ //
SK
गन्ता न गच्छति तावद् अगन्ता नैव गच्छति / अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ गच्छति // MMK_२.८ //
SK
गन्ता तावद् गच्छतीति कथम् एवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // MMK_२.९ //
SK
पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते / गमनेन विना गन्ता गन्तुर् गमनम् इच्छतः // MMK_२.१० //
SK
गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति / गन्तेति चाज्यते येन गन्ता सन् यच् च गच्छति // MMK_२.११ //
SK
गते नारभ्यते गन्तुं गन्तुं नारभ्यते ऽगते / नारभ्यते गम्यमाने गन्तुम् आरभ्यते कुह // MMK_२.१२ //
SK
न पूर्वं गमनारम्भाद् गम्यमानं न वा गतम् / यत्रारभ्येत गमनम् अगते गमनं कुतः // MMK_२.१३ //
SK
गतं किं गम्यमानं किम् अगतं किं विकल्प्यते / अदृश्यमान आरम्भे गमनस्यैव सर्वथा // MMK_२.१४ //
SK
गन्ता न तिष्ठति तावद् अगन्ता नैव तिष्ठति / अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ तिष्ठति // MMK_२.१५ //
SK
गन्ता तावत् तिष्ठतीति कथम् एवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // MMK_२.१६ //
SK
न तिष्ठति गम्यमानान् न गतान् नागताद् अपि / गमनं संप्रवृत्तिश् च निवृत्तिश् च गतेः समा // MMK_२.१७ //
SK
यद् एव गमनं गन्ता स एवेति न युज्यते / अन्य एव पुनर् गन्ता गतेर् इति न युज्यते // MMK_२.१८ //
SK
यद् एव गमनं गन्ता स एव हि भवेद् यदि / एकीभावः प्रसज्येत कर्तुः कर्मण एव च // MMK_२.१९ //
SK
अन्य एव पुनर् गन्ता गतेर् यदि विकल्प्यते / गमनं स्याद् ऋते गन्तुर् गन्ता स्याद् गमनाद् ऋते // MMK_२.२० //
SK
एकीभावेन वा सिद्धिर् नानाभावेन वा ययोः / न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते // MMK_२.२१ //
SK
गत्या ययाज्यते गन्ता गतिं तां स न गच्छति / यस्मान् न गतिपूर्वो ऽस्ति कश्चिद् किंचिद् धि गच्छति // MMK_२.२२ //
SK
गत्या ययाज्यते गन्ता ततो ऽन्यां स न गच्छति / गती द्वे नोपपद्येते यस्माद् एके तु गन्तरि // MMK_२.२३ //
SK
सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति / नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति // MMK_२.२४ //
SK
गमनं सदसद्भूतः त्रिप्रकारं न गच्छति / तस्माद् गतिश् च गन्ता च गन्तव्यं च न विद्यते // MMK_२.२५ //
SK
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः / इन्द्रियाणि षड् एतेषां द्रष्टव्यादीनि गोचरः // MMK_३.१ //
SK
स्वम् आत्मानं दर्शनं हि तत् तम् एव न पश्यति / न पश्यति यद् आत्मानं कथं द्रक्ष्यति तत् परान् // MMK_३.२ //
SK
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये / सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः // MMK_३.३ //
SK
नापश्यमानं भवति यदा किं चन दर्शनम् / दर्शनं पश्यतीत्य् एवं कथम् एतत् तु युज्यते // MMK_३.४ //
SK
पश्यति दर्शनं नैव नैव पश्यत्य् अदर्शनम् / व्याख्यातो दर्शनेनैव द्रष्टा चाप्य् अवगम्यताम् // MMK_३.५ //
SK
द्रष्टा नास्त्य् अतिरस्कृत्य तिरस्कृत्य च दर्शनम् / द्रष्टव्यं दर्शनं चैव द्रष्टर्य् असति ते कुतः // MMK_३.६ //
SK
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः / चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः // MMK_३.७ //
SK
द्रष्टव्यदर्शनाभावाद् विज्ञानादिचतुष्टयम् / नास्तीत्य् उपादानादीनि भविष्यन्ति पुनः कथम् // MMK_३.८ //
SK
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः / दर्शनेनैव जानीयाच् छ्रोतृश्रोतव्यकादि च // MMK_३.९ //
SK
रूपकारणनिर्मुक्तं न रूपम् उपलभ्यते / रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् // MMK_४.१ //
SK
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते / आहेतुकं न चास्त्य् अर्थः कश्चिद् आहेतुकः क्व चित् // MMK_४.२ //
SK
रूपेण तु विनिर्मुक्तं यदि स्याद् रूपकारणम् / अकार्यकं कारणं स्याद् नास्त्य् अकार्यं च कारणम् // MMK_४.३ //
SK
रूपे सत्य् एव रूपस्य कारणं नोपपद्यते / रूपे ऽसत्य् एव रूपस्य कारणं नोपपद्यते // MMK_४.४ //
SK
निष्कारणं पुना रूपं नैव नैवोपपद्यते / तस्माद् रूपगतान् कांश्चिन् न विकल्पान् विकल्पयेत् // MMK_४.५ //
SK
न कारणस्य सदृशं कार्यम् इत्य् उपपद्यते / न कारणस्यासदृशं कार्यम् इत्य् उपपद्यते // MMK_४.६ //
SK
वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः / सर्वेषाम् एव भावानां रूपेणैव समः क्रमः // MMK_४.७ //
SK
विग्रहे यः परीहारं कृते शून्यतया वदेत् / सर्वं तस्यापरिहृतं समं साध्येन जायते // MMK_४.८ //
SK
व्याख्याने य उपालम्भं कृते शून्यतया वदेत् / सर्वं तस्यानुपालब्धं समं साध्येन जायते // MMK_४.९ //
SK
नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् / अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात् // MMK_५.१ //
SK
अलक्षणो न कश्चिच् च भावः संविद्यते क्व चित् / असत्य् अलक्षणे भावे क्रमतां कुह लक्षणम् // MMK_५.२ //
SK
नालक्षणे लक्षणस्य प्रवृत्तिर् न सलक्षणे / सलक्षणालक्षणाभ्यां नाप्य् अन्यत्र प्रवर्तते // MMK_५.३ //
SK
लक्षणासंप्रवृत्तौ च न लक्ष्यम् उपपद्यते / लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्य् असंभवः // MMK_५.४ //
SK
तस्मान् न विद्यते लक्ष्यं लक्षणं नैव विद्यते / लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते // MMK_५.५ //
SK
अविद्यमाने भावे च कस्याभावो भविष्यति / भावाभावविधर्मा च भावाभावाव् अवैति कः // MMK_५.६ //
SK
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् / आकाशम् आकाशसमा धातवः पञ्च ये ऽपरे // MMK_५.७ //
SK
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः / भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् // MMK_५.८ //
SK
रागाद् यदि भवेत् पूर्वं रक्तो रागतिरस्कृतः / तं प्रतीत्य भवेद् रागो रक्ते रागो भवेत् सति // MMK_६.१ //
SK
रक्ते ऽसति पुना रागः कुत एव भविष्यति / सति वासति वा रागे रक्ते ऽप्य् एष समः क्रमः // MMK_६.२ //
SK
सहैव पुनर् उद्भूतिर् न युक्ता रागरक्तयोः / भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् // MMK_६.३ //
SK
नैकत्वे सहभावो ऽस्ति न तेनैव हि तत् सह / पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति // MMK_६.४ //
SK
एकत्वे सहभावश् चेत् स्यात् सहायं विनापि सः / पृथक्त्वे सहभावश् चेत् स्यात् सहायं विनापि सः // MMK_६.५ //
SK
पृथक्त्वे सहभावश् च यदि किं रागरक्तयोः / सिद्धः पृथक्पृथग्भावः सहभावो यतस् तयोः // MMK_६.६ //
SK
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः / सहभावं किमर्थम् तु परिकल्पयसे तयोः // MMK_६.७ //
SK
पृथग् न सिध्यतीत्य् एवं सहभावं विकाङ्क्षसि / सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि // MMK_६.८ //
SK
पृथग्भावाप्रसिद्धेश् च सहभावो न सिध्यति / कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि // MMK_६.९ //
SK
एवं रक्तेन रागस्य सिद्धिर् न सह नासह / रागवत् सर्वधर्माणां सिद्धिर् न सह नासह // MMK_६.१० //
SK
यदि संस्कृत उत्पादस् तत्र युक्ता त्रिलक्षणी / अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् // MMK_७.१ //
SK
उत्पादाद्यास् त्रयो व्यस्ता नालं लक्षणकर्मणि / संस्कृतस्य समस्ताः स्युर् एकत्र कथम् एकदा // MMK_७.२ //
SK
उत्पादस्थितिभङ्गानाम् अन्यत् संस्कृतलक्षणम् / अस्ति चेद् अनवस्थैवं नास्ति चेत् ते न संस्कृताः // MMK_७.३ //
SK
उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् / उत्पादोत्पादम् उत्पादो मौलो जनयते पुनः // MMK_७.४ //
SK
उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि / मौलेनाजनितस् तं ते स कथं जनयिष्यति // MMK_७.५ //
SK
स ते मौलेन जनितो मौलं जनयते यदि / मौलः स तेनाजनितस् तम् उत्पादयते कथम् // MMK_७.६ //
SK
अयम् उत्पाद्यमानस् ते कामम् उत्पादयेद् इमम् / यदीमम् उत्पादयितुम् अजातः शक्नुयाद् अयम् // MMK_७.७ //
SK
प्रदीपः स्वपरात्मानौ संप्रकाशयते यथा / उत्पादः स्वपरात्मानाव् उभाव् उत्पादयेत् तथा // MMK_७.८ //
SK
प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः / किं प्रकाशयते दीपः प्रकाशो हि तमोवधः // MMK_७.९ //
SK
कथम् उत्पद्यमानेन प्रदीपेन तमो हतम् / नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा // MMK_७.१० //
SK
अप्राप्यैव प्रदीपेन यदि वा निहतं तमः / इहस्थः सर्वलोकस्थं स तमो निहनिष्यति // MMK_७.११ //
SK
प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि / तमो ऽपि स्वपरात्मानौ छादयिष्यत्य् असंशयम् // MMK_७.१२ //
SK
अनुत्पन्नो ऽयम् उत्पादः स्वात्मानं जनयेत् कथम् / अथोत्पन्नो जनयते जाते किं जन्यते पुनः // MMK_७.१३ //
SK
नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथं चन / उत्पद्यते तद् आख्यातं गम्यमानगतागतैः // MMK_७.१४ //
SK
उत्पद्यमानम् उत्पत्ताव् इदं न क्रमते यदा / कथम् उत्पद्यमानं तु प्रतीत्योत्पत्तिम् उच्यते // MMK_७.१५ //
SK
प्रतीत्य यद् यद् भवति तत् तच् छान्तं स्वभावतः / तस्माद् उत्पद्यमानं च शान्तम् उत्पत्तिर् एव च // MMK_७.१६ //
SK
यदि कश्चिद् अनुत्पन्नो भावः संविद्यते क्व चित् / उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति // MMK_७.१७ //
SK
उत्पद्यमानम् उत्पादो यदि चोत्पादयत्य् अयम् / उत्पादयेत् तम् उत्पादम् उत्पादः कतमः पुनः // MMK_७.१८ //
SK
अन्य उत्पादयत्य् एनं यद्य् उत्पादो ऽनवस्थितिः / अथानुत्पाद उत्पन्नः सर्वम् उत्पद्यतां तथा // MMK_७.१९ //
SK
सतश् च तावद् उत्पत्तिर् असतश् च न युज्यते / न सतश् चासतश् चेति पूर्वम् एवोपपादितम् // MMK_७.२० //
SK
निरुध्यमानस्योत्पत्तिर् न भावस्योपपद्यते / यश् चानिरुध्यमानस् तु स भावो नोपपद्यते // MMK_७.२१ //
SK
नास्थितस् तिष्ठते भावः स्थितो भावो न तिष्ठति / न तिष्ठते तिष्ठमानः को ऽनुत्पन्नश् च तिष्ठति // MMK_७.२२ //
SK
स्थितिर् निरुध्यमानस्य न भावस्योपपद्यते / यश् चानिरुध्यमानस् तु स भावो नोपपद्यते // MMK_७.२३ //
SK
जरामरणधर्मेषु सर्वभावेषु सर्वदा / तिष्ठन्ति कतमे भावा ये जरामरणं विना // MMK_७.२४ //
SK
स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते / उत्पादस्य यथोत्पादो नात्मना न परात्मना // MMK_७.२५ //
SK
निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते / तथा निरुध्यमानं च किम् अजातं निरुध्यते // MMK_७.२६ //
SK
स्थितस्य तावद् भावस्य निरोधो नोपपद्यते / नास्थितस्यापि भावस्य निरोध उपपद्यते // MMK_७.२७ //
SK
तयैवावस्थयावस्था न हि सैव निरुध्यते / अन्ययावस्थयावस्था न चान्यैव निरुध्यते // MMK_७.२८ //
SK
यदैव सर्वधर्माणाम् उत्पादो नोपपद्यते / तदैवं सर्वधर्माणां निरोधो नोपपद्यते // MMK_७.२९ //
SK
सतश् च तावद् भावस्य निरोधो नोपपद्यते / एकत्वे न हि भावश् च नाभावश् चोपपद्यते // MMK_७.३० //
SK
असतो ऽपि न भावस्य निरोध उपपद्यते / न द्वितीयस्य शिरसश् छेदनं विद्यते यथा // MMK_७.३१ //
SK
न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना / उत्पादस्य यथोत्पादो नात्मना न परात्मना // MMK_७.३२ //
SK
उत्पादस्थितिभङ्गानाम् असिद्धेर् नास्ति संस्कृतम् / संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्य् असंस्कृतम् // MMK_७.३३ //
SK
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस् तथा स्थानं तथा भङ्ग उदाहृतम् // MMK_७.३४ //
SK
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् / कारको नाप्य् असद्भूतः कर्मासद्भूतम् ईहते // MMK_८.१ //
SK
सद्भूतस्य क्रिया नास्ति कर्म च स्याद् अकर्तृकम् / सद्भूतस्य क्रिया नास्ति कर्ता च स्याद् अकर्मकः // MMK_८.२ //
SK
करोति यद्य् असद्भूतो ऽसद्भूतं कर्म कारकः / अहेतुकं भवेत् कर्म कर्ता चाहेतुको भवेत् // MMK_८.३ //
SK
हेताव् असति कार्यं च कारणं च न विद्यते / तदभावे क्रिया कर्ता कारणं च न विद्यते // MMK_८.४ //
SK
धर्माधर्मौ न विद्येते क्रियादीनाम् असंभवे / धर्मे चासत्य् अधर्मे च फलं तज्जं न विद्यते // MMK_८.५ //
SK
फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते / मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते // MMK_८.६ //
SK
कारकः सदसद्भूतः सदसत् कुरुते न तत् / परस्परविरुद्धं हि सच् चासच् चैकतः कुतः // MMK_८.७ //
SK
सता च क्रियते नासन् नासता क्रियते च सत् / कर्त्रा सर्वे प्रसज्यन्ते दोषास् तत्र त एव हि // MMK_८.८ //
SK
नासद्भूतं न सद्भूतः सदसद्भूतम् एव वा / करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः // MMK_८.९ //
SK
नासद्भूतो ऽपि सद्भूतं सदसद्भूतम् एव वा / करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः // MMK_८.१० //
SK
करोति सदसद्भूतो न सन् नासच् च कारकः / कर्म तत् तु विजानीयात् पूर्वोक्तैर् एव हेतुभिः // MMK_८.११ //
SK
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् / कर्म प्रवर्तते नान्यत् पश्यामः सिद्धिकारणम् // MMK_८.१२ //
SK
एवं विद्याद् उपादानं व्युत्सर्गाद् इति कर्मणः / कर्तुश् च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् // MMK_८.१३ //
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / भवन्ति यस्य प्राग् एभ्यः सो ऽस्तीत्य् एके वदन्त्युत // MMK_९.१ //
SK
कथं ह्य् अविद्यमानस्य दर्शनादि भविष्यति / भावस्य तस्मात् प्राग् एभ्यः सो ऽस्ति भावो व्यवस्थितः // MMK_९.२ //
SK
दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च / यः प्राग् व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः // MMK_९.३ //
SK
विनापि दर्शनादीनि यदि चासौ व्यवस्थितः / अमून्य् अपि भविष्यन्ति विना तेन न संशयः // MMK_९.४ //
SK
अज्यते केनचित् कश्चित् किंचित् केन चिद् अज्यते / कुतः किंचिद् विना कश्चित् किंचित् किंचिद् विना कुतः // MMK_९.५ //
SK
सर्वेभ्यो दर्शनादिभ्यः कश्चित् पूर्वो न विद्यते / अज्यते दर्शनादिनाम् अन्येन पुनर् अन्यदा // MMK_९.६ //
SK
सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते / एकैकस्मात् कथं पूर्वो दर्शनादेः स विद्यते // MMK_९.७ //
SK
द्रष्टा स एव स श्रोता स एव यदि वेदकः / एकैकस्माद् भवेत् पूर्वम् एवं चैतन् न युज्यते // MMK_९.८ //
SK
द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर् यदि / सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् // MMK_९.९ //
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / भवन्ति येभ्यस् तेष्व् एष भूतेष्व् अपि न विद्यते // MMK_९.१० //
SK
दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / न विद्यते चेद् यस्य स न विद्यन्त इमान्य् अपि // MMK_९.११ //
SK
प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वम् एव च / न विद्यते ऽस्ति नास्तीति निवृत्तास् तत्र कल्पनाः // MMK_९.१२ //
SK
यद् इन्धनं स चेद् अग्निर् एकत्वं कर्तृकर्मणोः / अन्यश् चेद् इन्धनाद् अग्निर् इन्धनाद् अप्य् ऋते भवेत् // MMK_१०.१ //
SK
नित्यप्रदीप्त एव स्याद् अप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यम् एवं चाकर्मकः सति // MMK_१०.२ //
SK
परत्र निरपेक्षत्वाद् अप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते // MMK_१०.३ //
SK
तत्रैतत् स्याद् इध्यमानम् इन्धनं भवतीति चेत् / केनेध्यताम् इन्धनं तत् तावन्मात्रम् इदं यदा // MMK_१०.४ //
SK
अन्यो न प्राप्स्यते ऽप्रप्तो न धक्ष्यत्य् अदहन् पुनः / न निर्वास्यत्य् अनिर्वाणः स्थास्यते वा स्वलिङ्गवान् // MMK_१०.५ //
SK
अन्य एवन्धनाद् अग्निर् इन्धनं प्राप्नुयाद् यदि / स्त्री संप्राप्नोति पुरुषं पुरुषश् च स्त्रियं यथा // MMK_१०.६ //
SK
अन्य एवेन्धनाद् अग्निर् इन्धनं कामम् आप्नुयात् / अग्नीन्धने यदि स्याताम् अन्योन्येन तिरस्कृते // MMK_१०.७ //
SK
यदीन्धनम् अपेक्ष्याग्निर् अपेक्ष्याग्निं यदीन्धनम् / कतरत् पूर्वनिष्पन्नं यद् अपेक्ष्याग्निर् इन्धनम् // MMK_१०.८ //
SK
यदीन्धनम् अपेक्ष्याग्निर् अग्नेः सिद्धस्य साधनम् / एवं सतीन्धनं चापि भविष्यति निरग्निकम् // MMK_१०.९ //
SK
यो ऽपेक्ष्य सिध्यते भावस् तम् एवापेक्ष्य सिध्यति / यदि यो ऽपेक्षितव्यः स सिध्यतां कम् अपेक्ष्य कः // MMK_१०.१० //
SK
यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् / अथाप्य् अपेक्षते सिद्धस् त्व् अपेक्षास्य न युज्यते // MMK_१०.११ //
SK
अपेक्ष्येन्धनम् अग्निर् न नानपेक्ष्याग्निर् इन्धनम् / अपेक्ष्येन्धनम् अग्निं न नानपेक्ष्याग्निम् इन्धनम् // MMK_१०.१२ //
SK
आगच्छत्य् अन्यतो नाग्निर् इन्धने ऽग्निर् न विद्यते / अत्रेन्धने शेषम् उक्तं गम्यमानगतागतैः // MMK_१०.१३ //
SK
इन्धनं पुनर् अग्निर् न नाग्निर् अन्यत्र चेन्धनात् / नाग्निर् इन्धनवान् नाग्नाव् इन्धनानि न तेषु सः // MMK_१०.१४ //
SK
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः / सर्वो निरवशेषेण सार्धं घटपटादिभिः // MMK_१०.१५ //
SK
आत्मनश् च सतत्त्वं ये भावानां च पृथक् पृथक् / निर्दिशन्ति न तान् मन्ये शासनस्यार्थकोविदान् // MMK_१०.१६ //
SK
पूर्वा प्रज्ञायते कोटिर् नेत्य् उवाच महामुनिः / संसारो ऽनवराग्रो हि नास्यादिर् नापि पश्चिमम् // MMK_११.१ //
SK
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् / तस्मान् नात्रोपपद्यन्ते पूर्वापरसहक्रमाः // MMK_११.२ //
SK
पूर्वं जातिर् यदि भवेज् जरामरणम् उत्तरम् / निर्जरा मरणा जातिर् भवेज् जायेत चामृतः // MMK_११.३ //
SK
पश्चाज् जातिर् यदि भवेज् जरामरणम् आदितः / अहेतुकम् अजातस्य स्याज् जरामरणं कथम् // MMK_११.४ //
SK
न जरामरणं चैव जातिश् च सह युज्यते / म्रियेत जायमानश् च स्याच् चाहेतुकतोभयोः // MMK_११.५ //
SK
यत्र न प्रभवन्त्य् एते पूर्वापरसहक्रमाः / प्रपञ्चयन्ति तां जातिं तज् जरामरणं च किम् // MMK_११.६ //
SK
कार्यं च कारणं चैव लक्ष्यं लक्षणम् एव च / वेदना वेदकश् चैव सन्त्य् अर्था ये च के चन // MMK_११.७ //
SK
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् / सर्वेषाम् अपि भावानां पूर्वा कोटी न विद्यते // MMK_११.८ //
SK
स्वयं कृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् / दुःखम् इत्य् एक इच्छन्ति तच् च कार्यं न युज्यते // MMK_१२.१ //
SK
स्वयं कृतं यदि भवेत् प्रतीत्य न ततो भवेत् / स्कन्धान् इमान् अमी स्कन्धाः संभवन्ति प्रतीत्य हि // MMK_१२.२ //
SK
यद्य् अमीभ्य इमे ऽन्ये स्युर् एभ्यो वामी परे यदि / भवेत् परकृतं दुःखं परैर् एभिर् अमी कृताः // MMK_१२.३ //
SK
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर् विना / स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् // MMK_१२.४ //
SK
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते / परेण कृत्वा तद् दुःखं स दुःखेन विना कुतः // MMK_१२.५ //
SK
परपुद्गलजं दुःखं यदि कः परपुद्गलः / विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् // MMK_१२.६ //
SK
स्वयं कृतस्याप्रसिद्धेर् दुःखं परकृतं कुतः / परो हि दुःखं यत् कुर्यात् तत् तस्य स्यात् स्वयं कृतम् // MMK_१२.७ //
SK
न तावत् स्वकृतं दुःखं न हि तेनैव तत् कृतम् / परो नात्मकृतश् चेत् स्याद् दुःखं परकृतं कथम् // MMK_१२.८ //
SK
स्याद् उभाभ्यां कृतं दुःखं स्याद् एकैककृतं यदि / पराकारास्वयंकारं दुःखम् अहेतुकं कुतः // MMK_१२.९ //
SK
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते / बाह्यानाम् अपि भावानां चातुर्विध्यं न विद्यते // MMK_१२.१० //
SK
तन् मृषा मोषधर्म यद् भगवान् इत्य् अभाषत / सर्वे च मोषधर्माणः संस्कारास् तेन ते मृषा // MMK_१३.१ //
SK
तन् मृषा मोषधर्म यद् यदि किं तत्र मुष्यते / एतत् तूक्तं भगवता शून्यतापरिदीपकम् // MMK_१३.२ //
SK
भावानां निःस्वभावत्वम् अन्यथाभावदर्शनात् / नास्वभावश् च भावो ऽस्ति भावानां शून्यता यतः // MMK_१३.३ //
SK
कस्य स्याद् अन्यथाभावः स्वभावश् चेन् न विद्यते / कस्य स्याद् अन्यथाभावः स्वभावो यदि विद्यते // MMK_१३.४ //
SK
तस्यैव नान्यथाभावो नाप्य् अन्यस्यैव युज्यते / युवा न जीर्यते यस्माद् यस्माज् जीर्णो न जीर्यते // MMK_१३.५ //
SK
तस्य चेद् अन्यथाभावः क्षीरम् एव भवेद् दधि / क्षीराद् अन्यस्य कस्यचिद् दधिभावो भविष्यति // MMK_१३.६ //
SK
यद्य् अशून्यं भवेत् किंचित् स्याच् छून्यम् इति किं चन / न किंचिद् अस्त्य् अशून्यं च कुतः शून्यं भविष्यति // MMK_१३.७ //
SK
शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः / येषां तु शून्यतादृष्टिस् तान् असाध्यान् बभाषिरे // MMK_१३.८ //
SK
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्य् एतानि द्विशो द्विशः / सर्वशश् च न संसर्गम् अन्योन्येन व्रजन्त्य् उत // MMK_१४.१ //
SK
एवं रागश् च रक्तश् च रञ्जनीयं च दृश्यताम् / त्रैधेन शेषाः क्लेशाश् च शेषाण्य् आयतनानि च // MMK_१४.२ //
SK
अन्येनान्यस्य संसर्गस् तच् चान्यत्वं न विद्यते / द्रष्टव्यप्रभृतीनां यन् न संसर्गं व्रजन्त्य् अतः // MMK_१४.३ //
SK
न च केवलम् अन्यत्वं द्रष्टव्यादेर् न विद्यते / कस्यचित् केनचित् सार्धं नान्यत्वम् उपपद्यते // MMK_१४.४ //
SK
अन्यद् अन्यत् प्रतीत्यान्यन् नान्यद् अन्यद् ऋते ऽन्यतः / यत् प्रतीत्य च यत् तस्मात् तद् अन्यन् नोपपद्यते // MMK_१४.५ //
SK
यद्य् अन्यद् अन्यद् अन्यस्माद् अन्यस्माद् अप्य् ऋते भवेत् / तद् अन्यद् अन्यद् अन्यस्माद् ऋते नास्ति च नास्त्य् अतः // MMK_१४.६ //
SK
नान्यस्मिन् विद्यते ऽन्यत्वम् अनन्यस्मिन् न विद्यते / अविद्यमाने चान्यत्वे नास्त्य् अन्यद् वा तद् एव वा // MMK_१४.७ //
SK
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते / संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते // MMK_१४.८ //
SK
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् // MMK_१५.१ //
SK
स्वभावः कृतको नाम भविष्यति पुनः कथम् / अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च // MMK_१५.२ //
SK
कुतः स्वभावस्याभावे परभावो भविष्यति / स्वभावः परभावस्य परभावो हि कथ्यते // MMK_१५.३ //
SK
स्वभावपरभावाभ्याम् ऋते भावः कुतः पुनः / स्वभावे परभावे च सति भावो हि सिध्यति // MMK_१५.४ //
SK
भावस्य चेद् अप्रसिद्धिर् अभावो नैव सिध्यति / भावस्य ह्य् अन्यथाभावम् अभावं ब्रुवते जनाः // MMK_१५.५ //
SK
स्वभावं परभावं च भावं चाभावम् एव च / ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने // MMK_१५.६ //
SK
कात्यायनाववादे चास्तीति नास्तीति चोभयम् / प्रतिषिद्धं भगवता भावाभावविभाविना // MMK_१५.७ //
SK
यद्य् अस्तित्वं प्रकृत्या स्यान् न भवेद् अस्य नास्तिता / प्रकृतेर् अन्यथाभावो न हि जातूपपद्यते // MMK_१५.८ //
SK
प्रकृतौ कस्य वासत्याम् अन्यथात्वं भविष्यति / प्रकृतौ कस्य वा सत्याम् अन्यथात्वं भविष्यति // MMK_१५.९ //
SK
अस्तीति शाश्वतग्राहो नास्तीत्य् उच्छेददर्शनम् / तस्माद् अस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः // MMK_१५.१० //
SK
अस्ति यद् धि स्वभावेन न तन् नास्तीति शाश्वतम् / नास्तीदानीम् अभूत् पूर्वम् इत्य् उच्छेदः प्रसज्यते // MMK_१५.११ //
SK
संस्काराः संसरन्ति चेन् न नित्याः संसरन्ति ते / संसरन्ति च नानित्याः सत्त्वे ऽप्य् एष समः क्रमः // MMK_१६.१ //
SK
पुद्गलः संसरति चेत् स्कन्धायतनधातुषु / पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति // MMK_१६.२ //
SK
उपादानाद् उपादानं संसरन् विभवो भवेत् / विभवश् चानुपादानः कः स किं संसरिष्यति // MMK_१६.३ //
SK
संस्काराणां न निर्वाणं कथं चिद् उपपद्यते / सत्त्वस्यापि न निर्वाणं कथं चिद् उपपद्यते // MMK_१६.४ //
SK
न बध्यन्ते न मुच्यन्त उदयव्ययधर्मिणः / संस्काराः पूर्ववत् सत्त्वो बध्यते न न मुच्यते // MMK_१६.५ //
SK
बन्धनं चेद् उपादानं सोपादानो न बध्यते / बध्यते नानुपादानः किमवस्थो ऽथ बध्यते // MMK_१६.६ //
SK
बध्नीयाद् बन्धनं कामं बन्ध्यात् पूर्वं भवेद् यदि / न चास्ति तच् छेषम् उक्तं गम्यमानगतागतैः // MMK_१६.७ //
SK
बद्धो न मुच्यते तावद् अबद्धो नैव मुच्यते / स्यातां बद्धे मुच्यमाने युगपद् बन्धमोक्षणे // MMK_१६.८ //
SK
निर्वास्याम्य् अनुपादानो निर्वाणं मे भविष्यति / इति येषां ग्रहस् तेषाम् उपादानमहाग्रहः // MMK_१६.९ //
SK
न निर्वाणसमारोपो न संसारापकर्षणम् / यत्र कस् तत्र संसारो निर्वाणं किं विकल्प्यते // MMK_१६.१० //
SK
आत्मसंयमकं चेतः परानुग्राहकं च यत् / मैत्रं स धरमस् तद् बीजं फलस्य प्रेत्य चेह च // MMK_१७.१ //
SK
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा / तस्यानेकविधो भेदः कर्मणः परिकीर्तितः // MMK_१७.२ //
SK
तत्र यच् चेतनेत्य् उक्तं कर्म तन् मानसं स्मृतम् / चेतयित्वा च यत् तूक्तं तत् तु कायिकवाचिकम् // MMK_१७.३ //
SK
वाग्विष्पन्दो ऽविरतयो याश् चाविज्ञप्तिसंज्ञिताः / अविज्ञप्तय एवान्याः स्मृता विरतयस् तथा // MMK_१७.४ //
SK
परिभोगान्वयं पुण्यम् अपुण्यं च तथाविधम् / चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः // MMK_१७.५ //
SK
तिष्ठत्य् आ पाककालाच् चेत् कर्म तन् नित्यताम् इयात् / निरुद्धं चेन् निरुद्धं सत् किं फलं जनयिष्यति // MMK_१७.६ //
SK
यो ऽङ्कुरप्रभृतिर् बीजात् संतानो ऽभिप्रवर्तते / ततः फलम् ऋते बीजात् स च नाभिप्रवर्तते // MMK_१७.७ //
SK
बीजाच् च यस्मात् संतानः संतानाच् च फलोद्भवः / बीजपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् // MMK_१७.८ //
SK
यस् तस्माच् चित्तसंतानश् चेतसो ऽभिप्रवर्तते / ततः फलम् ऋते चित्तात् स च नाभिप्रवर्तते // MMK_१७.९ //
SK
चित्ताच् च यस्मात् संतानः संतानाच् च फलोद्भवः / कर्मपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् // MMK_१७.१० //
SK
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश / फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च // MMK_१७.११ //
SK
बहवश् च महान्तश् च दोषाः स्युर् यदि कल्पना / स्याद् एषा तेन नैवैषा कल्पनात्रोपपद्यते // MMK_१७.१२ //
SK
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते / बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् चानुवर्णिताम् // MMK_१७.१३ //
SK
पत्त्रं यथा ऽविप्रणाशस्तथर्णम् इव कर्म च / चतुर्विधो धातुतः स प्रकृत्याव्याकृतश् च सः // MMK_१७.१४ //
SK
प्रहाणतो न प्रहेयो भावनाहेय एव वा / तस्माद् अविप्रणाशेन जायते कर्मणां फलम् // MMK_१७.१५ //
SK
प्रहाणतः प्रहेयः स्यात् कर्मणः संक्रमेण वा / यदि दोषाः प्रसज्येरंस् तत्र कर्मवधादयः // MMK_१७.१६ //
SK
सर्वेषां विसभागानां सभागानां च कर्मणाम् / प्रतिसंधौ सधातूनाम् एक उत्पद्यते तु सः // MMK_१७.१७ //
SK
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः / द्विप्रकारस्य सर्वस्य विपक्वे ऽपि च तिष्ठति // MMK_१७.१८ //
SK
फलव्यतिक्रमाद् वा स मरणाद् वा निरुध्यते / अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् // MMK_१७.१९ //
SK
शून्यता च न चोच्छेदः संसारश् च न शाश्वतम् / कर्मणो ऽविप्रणाशश् च धर्मो बुद्धेन देशितः // MMK_१७.२० //
SK
कर्म नोत्पद्यते कस्मान् निःस्वभावं यतस् ततः / यस्माच् च तद् अनुत्पन्नं न तस्माद् विप्रणश्यति // MMK_१७.२१ //
SK
कर्म स्वभावतश् चेत् स्याच् छाश्वतं स्याद् असंशयम् / अकृतं च भवेत् कर्म क्रियते न हि शाश्वतम् // MMK_१७.२२ //
SK
अकृताभ्यागमभयं स्यात् कर्माकृतकं यदि / अब्रह्मचर्यवासश् च दोषस्तत्र प्रसज्यते // MMK_१७.२३ //
SK
व्यवहारा विरुध्यन्ते सर्व एव न संशयः / पुण्यपापकृतोर् नैव प्रविभागश् च युज्यते // MMK_१७.२४ //
SK
तद् विपक्वविपाकं च पुनर् एव विपक्ष्यति / कर्म व्यवस्थितं यस्मात् तस्मात् स्वाभाविकं यदि // MMK_१७.२५ //
SK
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः / न चेत् ते तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथम् // MMK_१७.२६ //
SK
कर्म क्लेशाश् च देहानां प्रत्ययाः समुदाहृताः / कर्म क्लेशाश् च ते शून्या यदि देहेषु का कथा // MMK_१७.२७ //
SK
अविद्यानिवृतो जन्तुस् तृष्णासंयोजनश् च सः / स भोक्ता स च न कर्तुर् अन्यो न च स एव सः // MMK_१७.२८ //
SK
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् / अस्ति यस्माद् इदं कर्म तस्मात् कर्तापि नास्त्य् अतः // MMK_१७.२९ //
SK
कर्म चेन् नास्ति कर्ता च कुतः स्यात् कर्मजं फलम् / असत्य् अथ फले भोक्ता कुत एव भविष्यति // MMK_१७.३० //
SK
यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा / निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः // MMK_१७.३१ //
SK
तथा निर्मितकाकारः कर्ता यत् कर्म तत् कृतम् / तद्यथा निर्मितेनान्यो निर्मितो निर्मितस् तथा // MMK_१७.३२ //
SK
क्लेशाः कर्माणि देहाश् च कर्तारश् च फलानि च / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // MMK_१७.३३ //
SK
आत्मा स्कन्धा यदि भवेद् उदयव्ययभाग् भवेत् / स्कन्धेभ्यो ऽन्यो यदि भवेद् भवेद् अस्कन्धलक्षणः // MMK_१८.१ //
SK
आत्मन्य् असति चात्मीयं कुत एव भविष्यति / निर्ममो निरहंकारः शमाद् आत्मात्मनीनयोः // MMK_१८.२ //
SK
निर्ममो निरहंकारो यश् च सो ऽपि न विद्यते / निर्ममं निरहंकारं यः पश्यति न पश्यति // MMK_१८.३ //
SK
ममेत्य् अहम् इति क्षीणे बहिर्धाध्यात्मम् एव च / निरुध्यत उपादानं तत्क्षयाज् जन्मनः क्षयः // MMK_१८.४ //
SK
कर्मक्लेशक्षयान् मोक्षः कर्मक्लेशा विकल्पतः / ते प्रपञ्चात् प्रपञ्चस् तु शून्यतायां निरुध्यते // MMK_१८.५ //
SK
आत्मेत्य् अपि प्रज्ञपितम् अनात्मेत्य् अपि देशितम् / बुद्धैर् नात्मा न चानात्मा कश्चिद् इत्य् अपि देशितम् // MMK_१८.६ //
SK
निवृत्तम् अभिधातव्यं निवृत्तश् चित्तगोचरः / अनुत्पन्नानिरुद्धा हि निर्वाणम् इव धर्मता // MMK_१८.७ //
SK
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यम् एव च / नैवातथ्यं नैव तथ्यम् एतद् बुद्धानुशासनम् // MMK_१८.८ //
SK
अपरप्रत्ययं शान्तं प्रपञ्चैर् अप्रपञ्चितम् / निर्विकल्पम् अनानार्थम् एतत् तत्त्वस्य लक्षणम् // MMK_१८.९ //
SK
प्रतीत्य यद् यद् भवति न हि तावत् तद् एव तत् / न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् // MMK_१८.१० //
SK
अनेकार्थम् अनानार्थम् अनुच्छेदम् अशाश्वतम् / एतत् तल् लोकनाथानां बुद्धानां शासनामृतम् // MMK_१८.११ //
SK
संबुद्धानाम् अनुत्पादे श्रावकाणां पुनः क्षये / ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते // MMK_१८.१२ //
SK
प्रत्युत्पन्नो ऽनागतश् च यद्य् अतीतम् अपेक्ष्य हि / प्रत्युत्पन्नो ऽनागतश् च काले ऽतीते भविष्यतः // MMK_१९.१ //
SK
प्रत्युत्पन्नो ऽनागतश् च न स्तस् तत्र पुनर् यदि / प्रत्युत्पन्नो ऽनागतश् च स्यातां कथम् अपेक्ष्य तम् // MMK_१९.२ //
SK
अनपेक्ष्य पुनः सिद्धिर् नातीतं विद्यते तयोः / प्रत्युत्पन्नो ऽनागतश् च तस्मात् कालो न विद्यते // MMK_१९.३ //
SK
एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ / उत्तमाधममध्यादीन् एकत्वादींश् च लक्षयेत् // MMK_१९.४ //
SK
नास्थितो गृह्यते कालः स्थितः कालो न विद्यते / यो गृह्येतागृहीतश् च कालः प्रज्ञप्यते कथम् // MMK_१९.५ //
SK
भावं प्रतीत्य कालश् चेत् कालो भावाद् ऋते कुतः / न च कश् चन भावो ऽस्ति कुतः कालो भविष्यति // MMK_१९.६ //
SK
हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि / फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् // MMK_२०.१ //
SK
हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि / फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् // MMK_२०.२ //
SK
हेतोश् च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् / गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते // MMK_२०.३ //
SK
हेतोश् च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् / हेतवः प्रत्ययाश् च स्युर् अहेतुप्रत्ययैः समाः // MMK_२०.४ //
SK
हेतुं फलस्य दत्त्वा च यदि हेतुर् निरुध्यते / यद् दत्तं यन् निरुधं च हेतोर् आत्मद्वयं भवेत् // MMK_२०.५ //
SK
हेतुं फलस्यादत्त्वा च यदि हेतुर् निरुध्यते / हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत् // MMK_२०.६ //
SK
फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः / एककालौ प्रसज्येते जनको यश् च जन्यते // MMK_२०.७ //
SK
पूर्वम् एव च सामग्र्याः फलं प्रादुर्भवेद् यदि / हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत् // MMK_२०.८ //
SK
निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् / पूर्वजातस्य हेतोश् च पुनर्जन्म प्रसज्यते // MMK_२०.९ //
SK
जनयेत् फलम् उत्पन्नं निरुद्धो ऽस्तंगतः कथम् / हेतुस् तिष्ठन्न् अपि कथं फलेन जनयेद् वृतः // MMK_२०.१० //
SK
अथावृतः फलेनासौ कतमज् जनयेत् फलम् / न ह्य् अदृष्ट्वा न दृष्ट्वापि हेतुर् जनयते फलम् // MMK_२०.११ //
SK
नातीतस्य ह्य् अतीतेन फलस्य सह हेतुना / नाजातेन न जातेन संगतिर् जातु विद्यते // MMK_२०.१२ //
SK
न जातस्य ह्य् अजातेन फलस्य सह हेतुना / नातीतेन न जातेन संगतिर् जातु विद्यते // MMK_२०.१३ //
SK
नाजातस्य हि जातेन फलस्य सह हेतुना / नाजातेन न नष्टेन संगतिर् जातु विद्यते // MMK_२०.१४ //
SK
असत्यां संगतौ हेतुः कथं जनयते फलम् / सत्यां वा संगतौ हेतुः कथं जनयते फलम् // MMK_२०.१५ //
SK
हेतुः फलेन शून्यश् चेत् कथं जनयते फलम् / हेतुः फलेनाशून्यश् चेत् कथं जनयते फलम् // MMK_२०.१६ //
SK
फलं नोत्पत्स्यते ऽशून्यम् अशून्यं न निरोत्स्यते / अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति // MMK_२०.१७ //
SK
कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते / शून्यम् अप्य् अनिरुद्धं तद् अनुत्पन्नं प्रसज्यते // MMK_२०.१८ //
SK
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते / हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते // MMK_२०.१९ //
SK
एकत्वे फलहेत्वोः स्याद् ऐक्यं जनकजन्ययोः / पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुर् अहेतुना // MMK_२०.२० //
SK
फलं स्वभावसद्भूतं किं हेतुर् जनयिष्यति / फलं स्वभावासद्भूतं किं हेतुर् जनयिष्यति // MMK_२०.२१ //
SK
न चाजनयमानस्य हेतुत्वम् उपपद्यते / हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति // MMK_२०.२२ //
SK
न च प्रत्ययहेतूनाम् इयम् आत्मानम् आत्मना / या सामग्री जनयते सा कथं जनयेत् फलम् // MMK_२०.२३ //
SK
न सामग्रीकृतं फलं नासामग्रीकृतं फलम् / अस्ति प्रत्ययसामग्री कुत एव फलं विना // MMK_२०.२४ //
SK
विना वा सह वा नास्ति विभवः संभवेन वै / विना वा सह वा नास्ति संभवो विभवेन वै // MMK_२१.१ //
SK
भविष्यति कथं नाम विभवः संभवं विना / विनैव जन्म मरणं विभवो नोद्भवं विना // MMK_२१.२ //
SK
संभवेनैव विभवः कथं सह भविष्यति / न जन्म मरणं चैवं तुल्यकालं हि विद्यते // MMK_२१.३ //
SK
भविष्यति कथं नाम संभवो विभवं विना / अनित्यता हि भावेषु न कदाचिन् न विद्यते // MMK_२१.४ //
SK
संभवो विभवेनैव कथं सह भविष्यति / न जन्म मरणं चैव तुल्यकालं हि विद्यते // MMK_२१.५ //
SK
सहान्योन्येन वा सिद्धिर् विनान्योन्येन वा ययोः / न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते // MMK_२१.६ //
SK
क्षयस्य संभवो नास्ति नाक्षयस्यास्ति संभवः / क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च // MMK_२१.७ //
SK
संभवो विभवश् चैव विना भावं न विद्यते / संभवं विभवं चैव विना भावो न विद्यते // MMK_२१.८ //
SK
संभवो विभवश् चैव न शून्यस्योपपद्यते / संभवो विभवश् चैव नाशून्यस्योपपद्यते // MMK_२१.९ //
SK
संभवो विभवश् चैव नैक इत्य् उपपद्यते / संभवो विभवश् चैव न नानेत्य् उपपद्यते // MMK_२१.१० //
SK
दृश्यते संभवश्चैव विभवश् चैव ते भवेत् / दृश्यते संभवश्चैव मोहाद् विभव एव च // MMK_२१.११ //
SK
न भावाज् जायते भावो भावो ऽभावान् न जायते / नाभावाज् जायते ऽभावो ऽभावो भावान् न जायते // MMK_२१.१२ //
SK
न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश् चैव जायते जायते कुतः // MMK_२१.१३ //
SK
भावम् अभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् / प्रसज्यते स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत् // MMK_२१.१४ //
SK
भावम् अभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् / उदयव्ययसंतानः फलहेत्वोर् भवः स हि // MMK_२१.१५ //
SK
उदयव्ययसंतानः फलहेत्वोर् भवः स चेत् / व्ययस्यापुनरुत्पत्तेर् हेतूच्छेदः प्रसज्यते // MMK_२१.१६ //
SK
सद्भावस्य स्वभावेन नासद्भावश् च युज्यते / निर्वाणकाले चोच्छेदः प्रशमाद् भवसंततेः // MMK_२१.१७ //
SK
चरमे न निरुद्धे च प्रथमो युज्यते भवः / चरमे नानिरुद्धे च प्रथमो युज्यते भवः // MMK_२१.१८ //
SK
निरुध्यमाने चरमे प्रथमो यदि जायते / निरुध्यमान एकः स्याज् जायमानो ऽपरो भवेत् // MMK_२१.१९ //
SK
न चेन् निरुध्यमानश् च जायमानश् च युज्यते / सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते // MMK_२१.२० //
SK
एवं त्रिष्व् अपि कालेषु न युक्ता भवसंततिः / त्रिषु कालेषु या नास्ति सा कथं भवसंततिः // MMK_२१.२१ //
SK
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः / तथागतः स्कन्धवान् न कतमो ऽत्र तथागतः // MMK_२२.१ //
SK
बुद्धः स्कन्धान् उपादाय यदि नास्ति स्वभावतः / स्वभावतश् च यो नास्ति कुतः स परभावतः // MMK_२२.२ //
SK
प्रतीत्य परभावं यः सो ऽनात्मेत्य् उपपद्यते / यश् चानात्मा स च कथं भविष्यति तथागतः // MMK_२२.३ //
SK
यदि नास्ति स्वभावश् च परभावः कथं भवेत् / स्वभावपरभावाभ्याम् ऋते कः स तथागतः // MMK_२२.४ //
SK
स्कन्धान् यद्य् अनुपादाय भवेत् कश्चित् तथागतः / स इदानीम् उपादद्याद् उपादाय ततो भवेत् // MMK_२२.५ //
SK
स्कन्धांश् चाप्य् अनुपादाय नास्ति कश्चित् तथागतः / यश् च नास्त्य् अनुपादाय स उपादास्यते कथम् // MMK_२२.६ //
SK
न भवत्य् अनुपादत्तम् उपादानं च किं चन / न चास्ति निरुपादानः कथं चन तथागतः // MMK_२२.७ //
SK
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश् च पञ्चधा / उपादानेन स कथं प्रज्ञप्यते तथागतः // MMK_२२.८ //
SK
यद् अपीदम् उपादानं तत् स्वभावान् न विद्यते / स्वभावतश् च यन् नास्ति कुतस् तत् परभावतः // MMK_२२.९ //
SK
एवं शून्यम् उपादानम् उपादाता च सर्वशः / प्रज्ञप्यते च शून्येन कथं शून्यस् तथागतः // MMK_२२.१० //
SK
शून्यम् इति न वक्तव्यम् अशून्यम् इति वा भवेत् / उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते // MMK_२२.११ //
SK
शाश्वताशाश्वताद्य् अत्र कुतः शान्ते चतुष्टयम् / अन्तानन्तादि चाप्य् अत्र कुतः शान्ते चतुष्टयम् // MMK_२२.१२ //
SK
घनग्राहो गृहीतस् तु येनास्तीति तथागतः / नास्तीति स विकल्पयन् निर्वृतस्यापि कल्पयेत् // MMK_२२.१३ //
SK
स्वभावतश् च शून्ये ऽस्मिंश् चिन्ता नैवोपपद्यते / परं निरोधाद् भवति बुद्धो न भवतीति वा // MMK_२२.१४ //
SK
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतम् अव्ययम् / ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् // MMK_२२.१५ //
SK
तथागतो यत्स्वभावस् तत्स्वभावम् इदं जगत् / तथागतो निःस्वभावो निःस्वभावम् इदं जगत् // MMK_२२.१६ //
SK
संकल्पप्रभवो रागो द्वेषो मोहश् च कथ्यते / शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि // MMK_२३.१ //
SK
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये / ते स्वभावान् न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः // MMK_२३.२ //
SK
आत्मनो ऽस्तित्वनास्तित्वे न कथं चिच् च सिध्यतः / तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् // MMK_२३.३ //
SK
कस्य चिद् धि भवन्तीमे क्लेशाः स च न सिध्यति / कश्चिद् आहो विना कंचित् सन्ति क्लेशा न कस्यचित् // MMK_२३.४ //
SK
स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा / स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्व् अपि न पञ्चधा // MMK_२३.५ //
SK
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः / प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् // MMK_२३.६ //
SK
रूपशब्दरसस्पर्शा गन्धा धर्माश् च षड्विधम् / वस्तु रागस्य दोषस्य मोहस्य च विकल्प्यते // MMK_२३.७ //
SK
रूपशब्दरसस्पर्शा गन्धा धर्माश् च केवलाः / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // MMK_२३.८ //
SK
अशुभं वा शुभं वापि कुतस् तेषु भविष्यति / मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च // MMK_२३.९ //
SK
अनपेक्ष्य शुभं नास्त्य् अशुभं प्रज्ञपयेमहि / यत् प्रतीत्य शुभं तस्माच् छुभं नैवोपपद्यते // MMK_२३.१० //
SK
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि / यत् प्रतीत्याशुभं तस्माद् अशुभं नैव विद्यते // MMK_२३.११ //
SK
अविद्यमाने च शुभे कुतो रागो भविष्यति / अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति // MMK_२३.१२ //
SK
अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः / नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः // MMK_२३.१३ //
SK
अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः / अनित्यम् इत्य् अपि ग्राहः शून्ये किं न विपर्ययः // MMK_२३.१४ //
SK
येन गृह्णाति यो ग्राहो ग्रहीता यच् च गृह्यते / उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते // MMK_२३.१५ //
SK
अविद्यमाने ग्राहे च मिथ्या वा सम्यग् एव वा / भवेद् विपर्ययः कस्य भवेत् कस्याविपर्ययः // MMK_२३.१६ //
SK
न चापि विपरीतस्य संभवन्ति विपर्ययाः / न चाप्य् अविपरीतस्य संभवन्ति विपर्ययाः // MMK_२३.१७ //
SK
न विपर्यस्यमानस्य संभवन्ति विपर्ययाः / विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः // MMK_२३.१८ //
SK
अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः / विपर्ययेष्व् अजातेषु विपर्ययगतः कुतः // MMK_२३.१९ //
SK
न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश् चेति विपर्ययगतः कुतः // MMK_२३.२० //
SK
आत्मा च शुचि नित्यं च सुखं च यदि विद्यते / आत्मा च शुचि नित्यं च सुखं च न विपर्ययः // MMK_२३.२१ //
SK
नात्मा च शुचि नित्यं च सुखं च यदि विद्यते / अनात्मा ऽशुच्य् अनित्यं च नैव दुःखं च विद्यते // MMK_२३.२२ //
SK
एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् / अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते // MMK_२३.२३ //
SK
यदि भूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् / कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति // MMK_२३.२४ //
SK
यद्य् अभूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् / कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति // MMK_२३.२५ //
SK
यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते // MMK_२४.१ //
SK
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च / चतुर्णाम् आर्यसत्यानाम् अभावान् नोपपद्यते // MMK_२४.२ //
SK
तदभावान् न विद्यन्ते चत्वार्य् आर्यफलानि च / फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः // MMK_२४.३ //
SK
संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः / अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते // MMK_२४.४ //
SK
धर्मे चासति संघे च कथं बुद्धो भविष्यति / एवं त्रीण्य् अपि रत्नानि ब्रुवाणः प्रतिबाधसे // MMK_२४.५ //
SK
शून्यतां फलसद्भावम् अधर्मं धर्मम् एव च / सर्वसंव्यवहारांश् च लौकिकान् प्रतिबाधसे // MMK_२४.६ //
SK
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् / शून्यतां शून्यतार्थं च तत एवं विहन्यसे // MMK_२४.७ //
SK
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना / लोकसंवृतिसत्यं च सत्यं च परमार्थतः // MMK_२४.८ //
SK
ये ऽनयोर् न विजानन्ति विभागं सत्ययोर् द्वयोः / ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने // MMK_२४.९ //
SK
व्यवहारम् अनाश्रित्य परमार्थो न देश्यते / परमार्थम् अनागम्य निर्वाणं नाधिगम्यते // MMK_२४.१० //
SK
विनाशयति दुर्दृष्ता शून्यता मन्दमेधसम् / सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता // MMK_२४.११ //
SK
अतश् च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः / धर्मं मत्वास्य धर्मस्य मन्दैर् दुरवगाहताम् // MMK_२४.१२ //
SK
शून्यतायाम् अधिलयं यं पुनः कुरुते भवान् / दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते // MMK_२४.१३ //
SK
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते / सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते // MMK_२४.१४ //
SK
स त्वं दोषान् आत्मनीयान् अस्मासु परिपातयन् / अश्वम् एवाभिरूढः सन्न् अश्वम् एवासि विस्मृतः // MMK_२४.१५ //
SK
स्वभावाद् यदि भावानां सद्भावम् अनुपश्यसि / अहेतुप्रत्ययान् भावांस् त्वम् एवं सति पश्यसि // MMK_२४.१६ //
SK
कार्यं च कारणं चैव कर्तारं करणं क्रियाम् / उत्पादं च निरोधं च फलं च प्रतिबाधसे // MMK_२४.१७ //
SK
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे / सा प्रज्ञप्तिर् उपादाय प्रतिपत् सैव मध्यमा // MMK_२४.१८ //
SK
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन् न विद्यते / यस्मात् तस्माद् अशून्यो हि धर्मः कश्चिन् न विद्यते // MMK_२४.१९ //
SK
यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते // MMK_२४.२० //
SK
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति / अनित्यम् उक्तं दुःखं हि तत् स्वाभाव्ये न विद्यते // MMK_२४.२१ //
SK
स्वभावतो विद्यमानं किं पुनः समुदेष्यते / तस्मात् समुदयो नास्ति शून्यतां प्रतिबाधतः // MMK_२४.२२ //
SK
न निरोधः स्वभावेन सतो दुःखस्य विद्यते / स्वभावपर्यवस्थानान् निरोधं प्रतिबाधसे // MMK_२४.२३ //
SK
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते / अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते // MMK_२४.२४ //
SK
यदा दुःखं समुदयो निरोधश् च न विद्यते / मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति // MMK_२४.२५ //
SK
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् / परिज्ञानं ननु किल स्वभावः समवस्थितः // MMK_२४.२६ //
SK
प्रहाणसाक्षात्करणे भावना चैवम् एव ते / परिज्ञावन् न युज्यन्ते चत्वार्य् अपि फलानि च // MMK_२४.२७ //
SK
स्वभावेनानधिगतं यत् फलं तत् पुनः कथम् / शक्यं समधिगन्तुं स्यात् स्वभावं परिगृह्णतः // MMK_२४.२८ //
SK
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः / संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः // MMK_२४.२९ //
SK
अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते / धर्मे चासति संघे च कथं बुद्धो भविष्यति // MMK_२४.३० //
SK
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते / अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते // MMK_२४.३१ //
SK
यश् चाबुद्धः स्वभावेन स बोधाय घटन्न् अपि / न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति // MMK_२४.३२ //
SK
न च धर्मम् अधर्मं वा कश्चिज् जातु करिष्यति / किम् अषून्यस्य कर्तव्यं स्वभावः क्रियते न हि // MMK_२४.३३ //
SK
विना धर्मम् अधर्मं च फलं हि तव विद्यते / धर्माधर्मनिमित्तं च फलं तव न विद्यते // MMK_२४.३४ //
SK
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् / धर्माधर्मसमुत्पन्नम् अशून्यं ते कथं फलम् // MMK_२४.३५ //
SK
सर्वसंव्य्वहारांश् च लौकिकान् प्रतिबाधसे / यत् प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे // MMK_२४.३६ //
SK
न कर्तव्यं भवेत् किंचिद् अनारब्धा भवेत् क्रिया / कारकः स्याद् अकुर्वाणः शून्यतां प्रतिबाधतः // MMK_२४.३७ //
SK
अजातम् अनिरुद्धं च कूटश्थं च भविष्यति / विचित्राभिर् अवस्थाभिः स्वभावे रहितं जगत् // MMK_२४.३८ //
SK
असंप्राप्तस्य च प्राप्तिर् दुःखपर्यन्तकर्म च / सर्वक्लेशप्रहाणं च यद्य् अशून्यं न विद्यते // MMK_२४.३९ //
SK
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति / दुःखं समुदयं चैव निरोधं मार्गम् एव च // MMK_२४.४० //
SK
यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते // MMK_२५.१ //
SK
यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते // MMK_२५.२ //
SK
अप्रहीणम् असंप्राप्तम् अनुच्छिन्नम् अशाश्वतम् / अनिरुद्धम् अनुत्पन्नम् एतन् निर्वाणम् उच्यते // MMK_२५.३ //
SK
भावस् तावन् न निर्वाणं जरामरणलक्षणम् / प्रसज्येतास्ति भावो हि न जरामरणं विना // MMK_२५.४ //
SK
भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् / नासंस्कृतो हि विद्यते भावः क्व चन कश् चन // MMK_२५.५ //
SK
भावश् च यदि निर्वाणम् अनुपादाय तत् कथम् / निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते // MMK_२५.६ //
SK
भावो यदि न निर्वाणम् अभावः किं भविष्यति / निर्वाणं यत्र भावो न नाभावस् तत्र विद्यते // MMK_२५.७ //
SK
यद्य् अभावश् च निर्वाणम् अनुपादाय तत् कथम् / निर्वाणं न ह्य् अभावो ऽस्ति यो ऽनुपादाय विद्यते // MMK_२५.८ //
SK
य आजवंजवीभाव उपादाय प्रतीत्य वा / सो ऽप्रतीत्यानुपादाय निर्वाणम् उपदिश्यते // MMK_२५.९ //
SK
प्रहाणं चाब्रवीच् छास्ता भवस्य विभवस्य च / तस्मान् न भावो नाभावो निर्वाणम् इति युज्यते // MMK_२५.१० //
SK
भवेद् अभावो भावश् च निर्वाणम् उभयं यदि / भवेद् अभावो भावश् च मोक्षस् तच् च न युज्यते // MMK_२५.११ //
SK
भवेद् अभावो भावश् च निर्वाणम् उभयं यदि / नानुपादाय निर्वाणम् उपादायोभयं हि तत् // MMK_२५.१२ //
SK
भवेद् अभावो भावश् च निर्वाणम् उभयं कथम् / असंस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ // MMK_२५.१३ //
SK
भवेद् अभावो भावश् च निर्वाण उभयं कथम् / तयोर् अभावो ह्य् एकत्र प्रकाशतमसोर् इव // MMK_२५.१४ //
SK
नैवाभावो नैव भावो निर्वाणम् इति या ऽञ्जना / अभावे चैव भावे च सा सिद्धे सति सिध्यति // MMK_२५.१५ //
SK
नैवाभावो नैव भावो निर्वाणं यदि विद्यते / नैवाभावो नैव भाव इति केन तद् अज्यते // MMK_२५.१६ //
SK
परं निरोधाद् भगवान् भवतीत्य् एव नाज्यते / न भवत्य् उभयं चेति नोभयं चेति नाज्यते // MMK_२५.१७ //
SK
तिष्ठमानो ऽपि भगवान् भवतीत्य् एव नाज्यते / न भवत्य् उभयं चेति नोभयं चेति नाज्यते // MMK_२५.१८ //
SK
न संसारस्य निर्वाणात् किंचिद् अस्ति विशेषणम् / न निर्वाणस्य संसारात् किंचिद् अस्ति विशेषणम् // MMK_२५.१९ //
SK
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च / न तयोर् अन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते // MMK_२५.२० //
SK
परं निरोधाद् अन्ताद्याः शाश्वताद्याश् च दृष्टयः / निर्वाणम् अपरान्तं च पूर्वान्तं च समाश्रिताः // MMK_२५.२१ //
SK
शून्येषु सर्वधर्मेषु किम् अनन्तं किम् अन्तवत् / किम् अनन्तम् अन्तवच् च नानन्तं नान्तवच् च किम् // MMK_२५.२२ //
SK
किं तद् एव किम् अन्यत् किं शाश्वतं किम् अशाश्वतम् / अशाश्वतं शाश्वतं च किं वा नोभयम् अप्य् अथ // MMK_२५.२३ //
SK
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः / न क्व चित् कस्यचित् कश्चिद् धर्मो बुद्धेन देशितः // MMK_२५.२४ //
SK
पुनर्भवाय संस्कारान् अविद्यानिवृतस् त्रिधा / अभिसंस्कुरुते यांस् तैर् गतिं गच्छति कर्मभिः // MMK_२६.१ //
SK
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ / संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते // MMK_२६.२ //
SK
निषिक्ते नामरूपे तु षडायतनसंभवः / षडायतनम् आगम्य संस्पर्शः संप्रवर्तते // MMK_२६.३ //
SK
चक्षुः प्रतीत्य रूपं च समन्वाहारम् एव च / नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते // MMK_२६.४ //
SK
संनिपातस् त्रयाणां यो रूपविज्ञानचक्षुषाम् / स्पर्शः स तस्मात् स्पर्शाच् च वेदना संप्रवर्तते // MMK_२६.५ //
SK
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते / तृष्यमाण उपादानम् उपादत्ते चतुर्विधम् // MMK_२६.६ //
SK
उपादाने सति भव उपादातुः प्रवर्तते / स्याद् धि यद्य् अनुपादानो मुच्येत न भवेद् भवः // MMK_२६.७ //
SK
पञ्च स्कन्धाः स च भवो भवाज् जातिः प्रवर्तते / जरामरणदुःखादि शोकाः सपरिदेवनाः // MMK_२६.८ //
SK
दौर्मनस्यम् उपायासा जातेर् एतत् प्रवर्तते / केवलस्यैवम् एतस्य दुःखस्कन्धस्य संभवः // MMK_२६.९ //
SK
संसारमूलं संस्कारान् अविद्वान् संस्करोत्य् अतः / अविद्वान् कारकस् तस्मान् न विद्वांस् तत्त्वदर्शनात् // MMK_२६.१० //
SK
अविद्यायां निरुद्धायां संस्काराणाम् असंभवः / अविद्याया निरोधस् तु ज्ञानस्यास्यैव भावनात् // MMK_२६.११ //
SK
तस्य तस्य निरोधेन तत् तन् नाभिप्रवर्तते / दुःखस्कन्धः केवलो ऽयम् एवं सम्यग् निरुध्यते // MMK_२६.१२ //
SK
अभूम् अतीतम् अध्वानं नाभूवम् इति दृष्टयः / यास् ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः // MMK_२७.१ //
SK
दृष्टयो न भविष्यामि किम् अन्यो ऽनागते ऽध्वनि / भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः // MMK_२७.२ //
SK
अभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते / यो हि जन्मसु पूर्वेषु स एव न भवत्य् अयम् // MMK_२७.३ //
SK
स एवात्मेति तु भवेद् उपादानं विशिष्यते / उपादानविनिर्मुक्त आत्मा ते कतमः पुनः // MMK_२७.४ //
SK
उपादानविनिर्मुक्तो नास्त्य् आत्मेति कृते सति / स्याद् उपादानम् एवात्मा नास्ति चात्मेति वः पुनः // MMK_२७.५ //
SK
न चोपादानम् एवात्मा व्येति तत् समुदेति च / कथं हि नामोपादानम् उपादाता भविष्यति // MMK_२७.६ //
SK
अन्यः पुनर् उपादानाद् आत्मा नैवोपपद्यते / गृह्येत ह्य् अनुपादानो यद्य् अन्यो न च गृह्यते // MMK_२७.७ //
SK
एवं नान्य उपादानान् न चोपादानम् एव सः / आत्मा नास्त्य् अनुपादानो नापि नास्त्य् एष निश्चयः // MMK_२७.८ //
SK
नाभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते / यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्य् अयम् // MMK_२७.९ //
SK
यदि ह्य् अयं भवेद् अन्यः प्रत्याख्यायापि तं भवेत् / तथैव च स संतिष्ठेत् तत्र जायेत चामृतः // MMK_२७.१० //
SK
उच्छेदः कर्मणां नाशः कृतम् अन्येन कर्म च / प्रतिसंवेदयेद् अन्य एवम् आदि प्रसज्यते // MMK_२७.११ //
SK
नाप्य् अभूत्वा समुद्भूतो दोषो ह्य् अत्र प्रसज्यते / कृतको वा भवेद् आत्मा संभूतो वाप्य् अहेतुकः // MMK_२७.१२ //
SK
एवं दृष्तिर् अतीते या नाभूम् अहम् अभूम् अहम् / उभयं नोभयं चेति नैषा समुपपद्यते // MMK_२७.१३ //
SK
अध्वन्य् अनागते किं नु भविष्यामीति दर्शनम् / न भविष्यामि चेत्य् एतद् अतीतेनाध्वना समम् // MMK_२७.१४ //
SK
स देवः स मनुष्यश् चेद् एवं भवति शाश्वतम् / अनुत्पन्नश् च देवः स्याज् जायते न हि शाश्वतम् // MMK_२७.१५ //
SK
देवाद् अन्यो मनुष्यश् चेद् अशाश्वतम् अतो भवेत् / देवाद् अन्यो मनुष्यश् चेत् संततिर् नोपपद्यते // MMK_२७.१६ //
SK
दिव्यो यद्य् एकदेशः स्याद् एक्देशश् च मानुषः / अशाश्वतं शाश्वतं च भवेत् तच् च न युज्यते // MMK_२७.१७ //
SK
अशाश्वतं शाश्वतं च प्रसिद्धम् उभयं यदि / सिद्धे न शाश्वतं कामं नैवाशाश्वतम् इत्य् अपि // MMK_२७.१८ //
SK
कुतश्चिद् आगतः कश्चित् किंचिद् गच्छेत् पुनः क्व चित् / यदि तस्माद् अनादिस् तु संसारः स्यान् न चास्ति सः // MMK_२७.१९ //
SK
नास्ति चेच् छाश्वतः कश्चित् को भविष्यत्य् अशाश्वतः / शाश्वतो ऽशाश्वतश् चापि द्वाभ्याम् आभ्यां तिरस्कृतः // MMK_२७.२० //
SK
अन्तवान् यदि लोकः स्यात् परलोकः कथं भवेत् / अथाप्य् अनन्तवाल् लोकः परलोकः कथं भवेत् // MMK_२७.२१ //
SK
स्कन्धानाम् एष संतानो यस्माद् दीपार्चिषाम् इव / तस्मान् नानन्तवत्त्वं च नान्तवत्त्वं च युज्यते // MMK_२७.२२ //
SK
पूर्वे यदि च भज्येरन्न् उत्पद्येरन् न चाप्य् अमी / स्कन्धाः स्कन्धान् प्रतीत्येमान् अथ लोको ऽन्तवान् भवेत् // MMK_२७.२३ //
SK
पूर्वे यदि न भज्येरन्न् उत्पद्येरन् न चाप्यमी / स्कन्धाः स्कन्धान् प्रतीत्येमाल् लोको ऽनन्तो भवेद् अथ // MMK_२७.२४ //
SK
अन्तवान् एकदेशश् चेद् एकदेशस् त्व् अनन्तवान् / स्याद् अन्तवान् अनन्तश् च लोकस् तच् च न युज्यते // MMK_२७.२५ //
SK
कथं तावद् उपादातुर् एकदेशो विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेश एवं चैतन् न युज्यते // MMK_२७.२६ //
SK
उपादानैकदेशश् च कथं नाम विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेशो नैतद् अप्य् उपपद्यते // MMK_२७.२७ //
SK
अन्तवच् चाप्य् अनन्तं च प्रसिद्धम् उभयं यदि / सिद्धे नैवान्तवत् कामं नैवानन्तवद् इत्य् अपि // MMK_२७.२८ //
SK
अथ वा सर्वभावानां शून्यत्वाच् छाश्वतादयः / क्व कस्य कतमाः कस्मात् संभविष्यन्ति दृष्टयः // MMK_२७.२९ //
SK
सर्वदृष्टिप्रहाणाय यः सद्धर्मम् अदेशयत् / अनुकम्पाम् उपादाय तं नमस्यामि गौतमम् // MMK_२७.३० //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Mūlamadhyamakakārikā (sa_nAgArjuna-mUlamadhyamakakArikA.htm).

Source