Essence of Logic

Nyāyabinduprakaraṇakārikā · Nयायबिन्दुप्रकरणकारिका

Essence of Logic

Nyāyabinduprakaraṇakārikā

Nयायबिन्दुप्रकरणकारिका

SK
Dहर्मकीर्ति: Nयायबिन्दु Pरकरणकारिका Sऊत्रपाठः
SK
१ प्रथमः प्रत्यक्षपरिच्छेदः
SK
१/१ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्वयुत्पादयते / १/२ द्विविधं सम्यग्ज्ञानम् / १/३ प्रत्यक्षम्, अनुमानं चेति / १/४ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् / १/५ अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना १/६ तया रहितं तिमिराशुभ्रमणनौयानसम्भ्रमाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् / १/७ तच्चतुर्विधम् / १/८ इन्द्रियज्ञानम् / (१) १/९ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् / (२) १/१० सर्वचित्तचैत्तानामात्मसंवेदनम् / (३) १/११ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति / (४) १/१२ तस्य विषयः स्वलक्षणम् / १/१३ यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् / १/१४ तदेव परमार्थसत् / १/१५ अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः / १/१६ अन्यत् सामान्यलक्षणम् १/१७ सो ऽनुमानस्य विषयः / १/१८ अत्देव च प्रत्यक्षं ज्ञानं प्रमाणफलम् / १/१९ अर्थप्रतीतिरूपत्वात् / १/२० अर्थसारूप्यमस्य प्रमाणम् / १/२१ तद्वशादर्थप्रतीतिसिद्धरेति /
SK
इति प्रथमः प्रत्यक्षपरिच्छेदः //
SK
द्वितीयः स्वार्थानुमानपरिच्छेदः
SK
२/१ अनुमानं द्विधा / २/२ स्वार्थ परार्थ च / २/३ तत्र स्वार्थ त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् / २/४ प्रमाणलक्षणव्यवस्थात्रापि पूर्ववत् / २/५ त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् / २/६ अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी / २/७ साध्यधर्मसामान्येन समानो ऽर्थः सपक्ष / २/८ न सपक्षो ऽसपक्षः / २/९ ततो ऽन्यस्तद्विरुद्धस्तदभावश्चेति २/१० त्रिरूपाणि च त्रीण्येव लिङ्गानि / २/११ अनुपलब्धिः स्वभावः कार्य चेति / २/१२ तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद् घटः, उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति / २/१३ उपलब्धिलक्षणप्राप्तिरूपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च / २/१४ यः स्वभावः सत्स्वन्येषूषलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति, स स्वभावविशेषः / २/१५ स्वभावः स्वसत्तामात्रप्रभाविनि साध्यधर्मे हेतुः / २/१६ यथा- वृक्षो ऽयं शिशपात्वादिति / २/१७ कार्य यथा- बह्निरत्र धूमादिति / २/१८ अत्र द्वौ वस्तुसाधनौ / एकः प्रतिषेधहेतुः / २/१९ स्वभावप्रतिबन्धे हि सत्यर्थो ऽर्थ गमयेत् / २/२० तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् / २/२१ स च प्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य / २/२२ वस्तुतस्तादात्म्यात् तदुत्पत्तेश्च / २/२३ अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् / २/२४ ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः / २/२५ प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः / २/२६ सति वस्तुनि तस्या असम्भवात् / २/२७ अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभवनिश्चयाभावात् / २/२८ अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारप्रसाधनी / २/२९ तस्या एवाभावनिश्चयात् / २/३० सा च प्रयोगभेदादेकादशप्रकारा / २/३१ स्वभावानुपलब्धिर्यथा- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति / (१) २/३२ कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति / (२) २/३३ व्यापकानुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति / (३) २/३४ स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शो वह्नेरिति / (४) २/३५ विरुद्धकार्योपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति / (५) २/३६ विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति / (६) २/३७ कार्यविरुद्धोपलब्धिर्यथा- नेहाप्रतिल्बद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति / (७) २/३८ व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पशो वह्नेरिति / (८) २/३९ कारणानुपलब्धिर्यथा- नात्र धूमो वह्न्यभावादिति / (९) २/४० कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति / (१०) २/४१ कारणविरुद्धकायपिलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषावानयं प्रदेशः, धूमादिति / (११) २/४२ इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति / २/४३ पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदे ऽपि / २/४४ प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवति स्वार्थे ऽप्यनुमाने ऽस्याः प्रयोगनिर्देशः / २/४५ सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धदीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेविपलब्धिश्च वेदितव्या / २/४६ अन्येषां विरोधकार्यकारणभावासिद्धेः / २/४७ विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः / २/४८ प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति /
SK
इति द्वितीयः स्वार्थानुमानपरिच्छेदः //
SK
तृतीयः परार्थानुमानपरिच्छेदः
SK
३/१ त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् / ३/२ कारणे कार्योपचारात् / ३/३ तद् द्विविधम् / ३/४ प्रयोगभेदात् / ३/५ साधम्यवद्वैधम्यवच्च / ३/६ नानायोरर्थतः कश्चिद् भेदः / ३/७ अन्यत्र प्रयोगभेदात् / ३/८ तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सो ऽसद् व्यवहारविषयः सिद्धः / यथा- अन्यो दृष्टः कश्चिद् शशविषाणादिः / नोपलभ्यते च क्वचित् प्रदेशविशेषे उपलब्धिलक्षणप्रापो घट इत्यनुपलब्धिप्रयोगः / ३/९ तथा स्वभावहेतोः प्रयोगः- यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः / ३/१० यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः / ३/११ यत् कृतकं तदनित्यमित्युपाधिभेदेन / ३/१२ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति / ३/१३ एवं प्रयत्नान्तरीयक- प्रत्ययभेदभेदित्वादयो ऽपि द्रष्टव्याः / ३/१४ सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् / ३/१५ सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मे ऽवगन्तव्याः / ३/१६ तस्यैव तत्स्वभावत्वात् / ३/१७ स्वभावस्य च हेतुत्वात् / ३/१८ वस्तुतस्तयोस्तादात्म्यम् / ३/१९ तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् / ३/२० व्यभिचारसम्भवाच्च / ३/२१ कार्यहेतोः प्रयोगः - यत्र धूमस्तत्राग्निः / यथा महानसादौ / अस्ति चेह धूम इति / ३/२२ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः / ३/२३ वैधर्म्यवतः प्रयोगः- यत् सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव / यथा नीलादिविशेषः / न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः / ३/२४ असत्यनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा / संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः / ३/२५ असत्यग्नौ न भवत्येव धूमः / अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः / ३/२६ साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिरिति / ३/२७ असति तस्मिन् साध्येन हेतोरन्वयाभावात् / ३/२८ तथा वैधर्म्येणाप्यन्वयगतिः / ३/२९ असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः / ३/३० नहि स्वभावप्रतिबन्धे ऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः / ३/३१ स च द्विप्रकारः- सर्वस्य तादात्म्यलक्षणस्तदुत्पतिलक्षणश्चेत्युक्तम् / ३/३२ तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः / तस्मात् निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति / यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावशयं वाक्यद्वयप्रयोगः / ३/३३ अनुपलब्धावपि - यत् सद् उपलब्धिलक्षणप्राप्तंतदुपलभ्यत एवेत्युक्ते, अनुपलभ्यमानं तादृशमसदिति प्रतीरेरन्वयसिद्धिः / ३/३४ द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः / ३/३५ यस्मात् साधर्म्यवत्प्रयोगे ऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सो ऽसद्वयवहारविषयः / नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति / ३/३६ तथा वैधर्म्यवत्प्रयोगे ऽपि- यः सद् व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव / न तथात्र तादृशो घट उपलभ्यते- इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति / ३/३७ कीदृशः पुनः पक्ष इति निर्देश्यः? ३/३८ स्वरूपेणैव स्वयमिष्टो ऽनिराकृतः पक्ष इति / ३/३९ स्वरूपेणेति साध्यत्वेनेष्टः / ३/४० स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि / ३/४१ यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्दे ऽसिद्धत्वात् साध्यं भवतीति न पुनस्तदिह साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् / ३/४२ स्वयमिति वादिना / ३/४३ यस्तदा साधनमाह / ३/४४ एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमे ऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु मिष्टः स एव साध्यो नेतर इत्युक्तं भवति / ३/४५ इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सो ऽनुक्तो ऽपि वचनेन साध्यो भवति / ३/४६ तदधिकरणत्वाद् विवादस्य / ३/४७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति / अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतैव साध्या / तेन नोक्तमात्रमेव साध्यम्- इत्युक्तं भवति / ३/४८ अनिराकृत इति- एतल्लक्षणयोगे ऽपि यः साधयितुमिष्टो ऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् / ३/४९ तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति / (१) ३/५० अनुमाननिराकृतो यथा- नित्यः शब्द इति / (२) ३/५१ प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति / (३) ३/५२ स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति / (४) ३/५३ इति चत्वारः पक्षाभास निराकृता भवन्ति / ३/५४ एवं सिद्धस्य असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्येण साध्य इति / तेनैव स्वरूपेणाभिमतो वादिन इष्टो ऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति / ३/५५ त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् / तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तो साधनाभासः / ३/५६ उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयो / ३/५७ एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धो सन्देहे वासिद्धो हेत्वाभासः / ३/५८ यथा - ऽअनित्यः शब्दःऽ इति साध्ये चाक्षुषत्वमुभयासिद्धम् / ३/५९ ऽचेतनास्तरवःऽ इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् / ३/६० ऽअचेतनाः सुखादयऽ इति साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं व सांख्यस्य स्वयं वादिनो ऽसिद्धम् / ३/६१ तथा स्वयं तदाश्रयणस्य वा सन्देहे ऽसिद्धिः / ३/६२ यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातो ऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः / ३/६३ यथेह निकुञ्जे मयूरः केकायितादिति / ३/६४ तदापातदेशभ्रमे / ३/६५ धर्म्यसिद्धावप्यसिद्धः- यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् / ३/६६ तथैकस्य रूपस्यासपक्षे ऽसत्त्वस्यसिद्धावनैकान्तिको हेत्वाभासः / ३/६७ यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः / ३/६८ तथा- अस्यैव रूपस्य सन्देहे ऽप्यनैकान्तिक एव / ३/६९ यथासर्वज्ञः कश्चिद्विवक्षितः पुरुषो राजादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः / ३/७० ऽसर्वज्ञो वक्ता नोपलभ्यतेऽ इत्येवम्प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् / ततो ऽसर्वज्ञविपर्याद् वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा / ३/७१ वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शने ऽपि व्यतिरेको न सिध्यन्ति, सन्देहात् / ३/७२ द्विविधो हि पदार्थानां विरोध / ३/७३ अविकलकारणस्य भवतो ऽन्यभावे ऽभावाद् विरोधगतिः ३/७४ शीतोष्णस्पर्शवत् / ३/७५ परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् / ३/७६ स च द्विविधो ऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति / ३/७७ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः / ३/७८ रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः / ३/७९ अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः / ३/८० इति सन्दिग्धव्यतिरेको ऽनैकान्तिको वचनादिः / ३/८१ द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः / ३/८२ कयोर्द्वयोः? ३/८३ सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य / यथा कृतत्वं प्रयत्नानन्तरीय कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः / ३/८४ अनयोः सपक्षे ऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः / ३/८५ एतौ च साध्यविपर्ययसाधनाद् विरुद्धौ / ३/८६ ननु च तृतीयो ऽपीष्टविघातकृद् विरुद्धः / ३/८७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्चयनासनाद्यङ्गवदिति / ३/८८ तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद् विरुद्धः / ३/८९ स इह कस्मान्नोक्तः? ३/९० अनयोरेवान्तर्भावात् / ३/९१ नह्ययमाभ्यां साध्याविपर्ययसाधनत्वेन भिद्यते / ३/९२ नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति / ३/९३ द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहे ऽनैकान्तिक / ३/९४ यथा वीतरागः कश्चित् सर्वज्ञो वा, वक्तृत्वादिति / व्यतिरेको ऽत्रासिद्धः / सन्दिग्धो ऽन्वयः / ३/९५ सर्वज्ञवीतरागयोर्विप्रकर्षाद् वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् ३/९६ अनयोरेव द्वयो रूपयोः सन्देहे ऽनैकान्तिकः / ३/९७ यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति / ३/९८ न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत / ३/९९ आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् / ३/१०० नाप्यनयोरेकत्र वृत्तिनिश्चयः / ३/१०१ सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः / ३/१०२ तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद् व्यावृत्तत्वेनासिद्धेस्ताभ्यां न व्यतिरिच्यते / ३/१०३ न तत्रान्वेति / ३/१०४ एकात्मन्यप्यसिद्धेः / ३/१०५ नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः / ३/१०६ एकाभावनिश्चयस्यापरभावनिश्चयनान्तरीयकत्वात् / ३/१०७ अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः / ३/१०८ साध्येतरयोरतो निश्चयाभावात् / ३/१०९ एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः / ३/११० विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः / स इह कस्मान्नोक्तः? ३/१११ अनुमानविषये ऽसम्भवात् / ३/११२ न हि सम्भवो ऽस्ति कार्यस्वस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः / ३/११३ न चान्यो ऽव्यभिचारी / ३/११४ तस्मादवस्तुदर्शनबलप्रवृत्तमागमश्रयमनुमानमाश्रित्व तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः / ३/११५ शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् / ३/११६ न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु / ३/११७ तत्रोदाहरणम्- यत् सर्वदेशस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत् सर्वगतम् / यथाकाशम् / अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत् सामान्यमिति / ३/११८ तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता / ३/११९ न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः / ३/१२० द्वितीयो ऽपि प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत् तत्रास्ति / तद्यथा- क्वचिदविद्यमाना घटः / नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति / अयमनुपलम्भः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः / ३/१२१ त्रिरूपो हेतुरुक्तः / तावता नार्थप्रतीतिरिति नपृथग्दृष्टान्तो नाम साधनावयव कश्चित् / तेन नास्य लक्षणं पृथगुच्यतेः गतार्थत्वात् / ३/१२२ हेतोः सपक्षः एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभदेन / पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रनुबन्धो दशनीयावुक्तौ / तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद् धूमा यथा महानसेतरयोः / यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावे कृतकत्वासम्भवो यथा घटाकाशयोरिति दर्शनीयम् / न ह्यन्यथा सपक्षविपक्षयाः सदसत्त्वे यथोक्तप्रकारे शक्ये दशयितुम् / तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः / अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्ता भवतिः, एतावन्मात्ररूपत्वान् तस्येति / ३/१२३ एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति / ३/१२४ यथा नित्यः शब्दो ऽमूर्तत्वात्, कर्मवत् परमाणुवद् घटवदिति / एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयाविकलाः / ३/१२५ तथा सन्दिग्धसाध्यधर्मादयश्च / यथा- रागादिमानयं वचनाद् रथ्यापुरुषवत् / मरणधर्मायं पुरुषो रागादिमत्त्वाद् रथ्यापुरुषवत् / असर्वज्ञो ऽयं(पुरुषो) रागादिमत्त्वाद् रथ्यापुरुषवदिति / ३/१२६ तथानन्वयो ऽप्रदर्शितान्वयश्च / यथा- यो वक्ता स रागादिमान्, इष्टपुरुषवत् / अनित्यः शब्दः कृतकत्वाद् घटवदिति / ३/१२७ तथा विपरीतान्वयः- यदनित्यं तत् कृतकमिति / ३/१२८ साधर्म्येण दृष्टान्तदोषाः / ३/१२९ वैधर्म्येणापि- परमाणुवत् कर्मवद् आकाशवदिति साध्याद्यव्यतिरेकिणः / ३/१३० तथा सन्दिग्धसाध्यव्यतिरेकादयः / यथा- असर्वज्ञाः कपिलादयो ऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभुतप्रमाणातिशयशासनत्वादिति / अत्र वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमु पदिष्टवान् / यथा- ऋषभवर्धमानादिरिति / तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः / ३/१३१ सन्दिग्धसाधनवतिरेको यथा- न त्रयिविदा ब्राह्मणे ग्राह्यवचन कश्चिद् विविक्षितः पुरुषो रागादिमत्त्वादिति / अत्र वेधर्म्योदाहरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति / गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा / ३/१३२ सन्दिग्धोभयव्यतिरेको यथा- अवितरागाः कपिलादयः, परिग्रहाग्रहयोगादिति / अत्र वैधर्म्यणोदाहरनम्- यो वीतरागो न तस्य परिग्रहाग्रह, यथर्षभादेरिति / ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरैकः / ३/१३३ अव्यतिरेको यथा- अवीतरागो ऽयं वक्तृत्वात् / वैधर्म्येणोदाहरणम् - यत्रावीतरागत्वं नास्ति, न स वक्ता / यथा - उपलखण्ड इति / यद्यप्युपलखण्डादुभयं व्यावृत्त तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरैकासिद्धेरव्यतिरकः / ३/१३४ अप्रदर्शितव्यतिरेको यथा- अनित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण / ३/१३५ विपरीतव्यतिरेको यथा- यदकृतक तन्नित्यं भवतीति ३/१३६ न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षो च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा / तदर्थापत्त्यैषां निरासो द्रष्टव्यः / ३/१३७ दूषणा न्यूनताद्युक्तिः / ३/१३८ ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् / तेन परेष्टार्थसिद्धिप्रतिबन्धात् / ३/१३९ दूषणाभासास्तु जातयः / ३/१४० अभूतदोषोद्भावनानि जात्युत्तरणीति /
SK
इति तृतीयः परार्थानुमानपरिच्छेदः //
SK
न्यायबिन्दुप्रकरणं समाप्तम्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Dharmakīrti: Nyāyabinduprakaraṇakārikā (sa_dharmakIrti-nyAyabinduprakaraNakArikA.htm).

Source