SK
श्रीः शाक्तप्रमोदः काल्यादिदशमहाविद्यातन्त्रात्मकः कुमार्यादिपंचायतनदेवतानां तन्त्रैश्च समलंकृतः शिवहरराजधानीराजभिः श्रीराजदेवनन्दनसिंहबहादुरनराधिपैः संगृह्य विरचितः मुद्रक एवं प्रकाशकः खेमराज श्रीकृष्णदास अध्यक्ष श्रीवेंकटेश्वर प्रेस खेमराज श्रीकृष्णदास मार्ग ब्ॐब-ई ४०० ००४ संस्करण सन् १८९२, सम्वत् १९४९ श्रीगणेशाय नमः अथ शाक्तप्रमोदः नत्वा कालीङ्कृपार्द्राङ्कलिकलुषहराङ्कोमलाङ्कान्तदेहाम् | कुर्व्वे शाक्तप्रमोदं सुकृतसुमतिदं शोभनं सज्जनानाम् || शक्तीनां सत्सपर्यादिकमिह गदितं तत्समन्त्रन्दशानाम् | पञ्चानान्देवतानामपि तदखिलकङ्खण्डनन्दुर्म्मतीनाम् || अथ श्रीकालीध्यानम् शवारूढाम्महाभीमाङ्घोरदंष्ट्रां हसन्मुखीम् | चतुर्भुजाङ्खड्गमुण्डवराभयकरां शिवाम् || १ || मुण्डमालाधरान्देवीं ललज्जिह्वान्दिगम्बराम् | एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् || २ || प्. ४) अथ यन्त्रोद्धारः आदौ त्रिकोणमालिख्य त्रिकोणन्तद्बहिर्लिखेत् | ततो वै विलिखेन्मन्त्री त्रिकोणत्रयमुत्तमम् || १ || ततस्त्रिवृत्तमालिख्य लिखेदष्टदलं ततः | वृत्तं विलिख्य विधिवल्लिखेद्भूपुरमेककम् || २ || अथ मन्त्रोद्धारः कालीबीजत्रयम्प्रोक्त्वा लज्जाबीजद्वयन्ततः | हू/कारौ द्वौ ततः पश्चाद्दक्षिणे कालिके ततः || १ || कालीबीजत्रयन्तस्माल्लज्जाबीजद्वयं पठेत् | द्वौ च स्वाहान्तहूङ्कारौ कालीमन्त्र उदाहृतः || २ || अथ मन्त्रः क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं ३ ह्रीं २ हू/ २ स्वाहा || अथ श्रीदक्षिणकालीसपर्यापद्धतिः प्रथमम्पञ्चवर्णरजश्चित्रं शुद्धं स्थानं गत्वा पूजावेद्या बहिः स्थित्वा गुरुम्प्रणम्य इष्टदेवताम्प्रणम्य दिक्पालांश्च प्रणम्य आचम्य ततः कुशहस्तो मौनी पापशमनार्थं श्लोकद्वयम्पठेत् | तद्यथा � ओ देवि त्वत्प्रकृतञ्चित्तम्पापाक्रान्तमभून्मम | तन्निस्सरन्तु चित्तान्मे पापं हूं फट् च ते नमः || १ || सूर्यस्सोमो यमःकालो महाभूतानि पञ्च च ||