Sutraya

Yoga Sūtras

Aphorisms on Yoga · योगसूत्रम्

Yoga Sūtras

Aphorisms on Yoga

योगसूत्रम्

SK
अथ योगानुशासनम् || YS_१.१ ||
SK
योगश् चित्तवृत्तिनिरोधः || YS_१.२ ||
SK
तदा द्रष्टुः स्वरूपे ऽवस्थानम् || YS_१.३ ||
SK
वृत्तिसारूप्यम् इतरत्र || YS_१.४ ||
SK
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः || YS_१.५ ||
SK
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः || YS_१.६ ||
SK
प्रत्यक्षानुमानागमाः प्रमाणानि || YS_१.७ ||
SK
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् || YS_१.८ ||
SK
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः || YS_१.९ ||
SK
अभावप्रत्ययालम्बना वृत्तिर् निद्रा || YS_१.१० ||
SK
अनुभूतविषयासंप्रमोषः स्मृतिः || YS_१.११ ||
SK
अभ्यासवैराग्याभ्यां तन्निरोधः || YS_१.१२ ||
SK
तत्र स्थितौ यत्नो ऽभ्यासः || YS_१.१३ ||
SK
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः || YS_१.१४ ||
SK
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् || YS_१.१५ ||
SK
तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम् || YS_१.१६ ||
SK
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः || YS_१.१७ ||
SK
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः || YS_१.१८ ||
SK
भवप्रत्ययो विदेहप्रकृतिलयानाम् || YS_१.१९ ||
SK
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् || YS_१.२० ||
SK
तीव्रसंवेगानाम् आसन्नः || YS_१.२१ ||
SK
मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः || YS_१.२२ ||
SK
ईश्वरप्रणिधानाद् वा || YS_१.२३ ||
SK
क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः || YS_१.२४ ||
SK
तत्र निरतिशयं सर्वज्ञबीजम् || YS_१.२५ ||
SK
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् || YS_१.२६ ||
SK
तस्य वाचकः प्रणवः || YS_१.२७ ||
SK
तज्जपस् तदर्थभावनम् || YS_१.२८ ||
SK
ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च || YS_१.२९ ||
SK
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः || YS_१.३० ||
SK
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः || YS_१.३१ ||
SK
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः || YS_१.३२ ||
SK
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम् || YS_१.३३ ||
SK
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य || YS_१.३४ ||
SK
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी || YS_१.३५ ||
SK
विशोका वा ज्योतिष्मती || YS_१.३६ ||
SK
वीतरागविषयं वा चित्तम् || YS_१.३७ ||
SK
स्वप्ननिद्राज्ञानालम्बनं वा || YS_१.३८ ||
SK
यथाभिमतध्यानाद् वा || YS_१.३९ ||
SK
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः || YS_१.४० ||
SK
क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः || YS_१.४१ ||
SK
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः || YS_१.४२ ||
SK
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का || YS_१.४३ ||
SK
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता || YS_१.४४ ||
SK
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् || YS_१.४५ ||
SK
ता एव सबीजः समाधिः || YS_१.४६ ||
SK
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः || YS_१.४७ ||
SK
ऋतंभरा तत्र प्रज्ञा || YS_१.४८ ||
SK
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात् || YS_१.४९ ||
SK
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी || YS_१.५० ||
SK
तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः || YS_१.५१ ||
SK
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः || YS_२.१ ||
SK
समाधिभावनार्थः क्लेशतनूकरणार्थश् च || YS_२.२ ||
SK
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः || YS_२.३ ||
SK
अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् || YS_२.४ ||
SK
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या || YS_२.५ ||
SK
दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता || YS_२.६ ||
SK
सुखानुशयी रागः || YS_२.७ ||
SK
दुःखानुशयी द्वेषः || YS_२.८ ||
SK
स्वरसवाही विदुषो ऽपि तथा रूढो ऽभिनिवेशः || YS_२.९ ||
SK
ते प्रतिप्रसवहेयाः सूक्ष्माः || YS_२.१० ||
SK
ध्यानहेयास् तद्वृत्तयः || YS_२.११ ||
SK
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः || YS_२.१२ ||
SK
सति मूले तद्विपाको जात्यायुर्भोगाः || YS_२.१३ ||
SK
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् || YS_२.१४ ||
SK
परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः || YS_२.१५ ||
SK
हेयं दुःखम् अनागतम् || YS_२.१६ ||
SK
द्रष्टृदृश्ययोः संयोगो हेयहेतुः || YS_२.१७ ||
SK
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् || YS_२.१८ ||
SK
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि || YS_२.१९ ||
SK
द्रष्टा दृशिमात्रः शुद्धो ऽपि प्रत्ययानुपश्यः || YS_२.२० ||
SK
तदर्थ एव दृश्यस्यात्मा || YS_२.२१ ||
SK
कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात् || YS_२.२२ ||
SK
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः || YS_२.२३ ||
SK
तस्य हेतुर् अविद्या || YS_२.२४ ||
SK
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् || YS_२.२५ ||
SK
विवेकख्यातिर् अविप्लवा हानोपायः || YS_२.२६ ||
SK
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा || YS_२.२७ ||
SK
योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः || YS_२.२८ ||
SK
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि || YS_२.२९ ||
SK
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः || YS_२.३० ||
SK
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् || YS_२.३१ ||
SK
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || YS_२.३२ ||
SK
वितर्कबाधने प्रतिपक्षभावनम् || YS_२.३३ ||
SK
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् || YS_२.३४ ||
SK
अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः || YS_२.३५ ||
SK
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् || YS_२.३६ ||
SK
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् || YS_२.३७ ||
SK
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः || YS_२.३८ ||
SK
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः || YS_२.३९ ||
SK
शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः || YS_२.४० ||
SK
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च || YS_२.४१ ||
SK
संतोषाद् अनुत्तमः सुखलाभः || YS_२.४२ ||
SK
कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः || YS_२.४३ ||
SK
स्वाध्यायाद् इष्टदेवतासंप्रयोगः || YS_२.४४ ||
SK
समाधिसिद्धिर् ईश्वरप्रणिधानात् || YS_२.४५ ||
SK
स्थिरसुखम् आसनम् || YS_२.४६ ||
SK
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् || YS_२.४७ ||
SK
ततो द्वन्द्वानभिघातः || YS_२.४८ ||
SK
तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः || YS_२.४९ ||
SK
बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः || YS_२.५० ||
SK
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः || YS_२.५१ ||
SK
ततः क्षीयते प्रकाशावरणम् || YS_२.५२ ||
SK
धारणासु च योग्यता मनसः || YS_२.५३ ||
SK
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः || YS_२.५४ ||
SK
ततः परमा वश्यतेन्द्रियाणाम् || YS_२.५५ ||
SK
देशबन्धश् चित्तस्य धारणा || YS_३.१ ||
SK
तत्र प्रत्ययैकतानता ध्यानम् || YS_३.२ ||
SK
तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः || YS_३.३ ||
SK
त्रयम् एकत्र संयमः || YS_३.४ ||
SK
तज्जयात् प्रज्ञालोकः || YS_३.५ ||
SK
तस्य भूमिषु विनियोगः || YS_३.६ ||
SK
त्रयम् अन्तरङ्गं पूर्वेभ्यः || YS_३.७ ||
SK
तद् अपि बहिरङ्गं निर्बीजस्य || YS_३.८ ||
SK
व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः || YS_३.९ ||
SK
तस्य प्रशान्तवाहिता संस्कारात् || YS_३.१० ||
SK
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः || YS_३.११ ||
SK
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः || YS_३.१२ ||
SK
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः || YS_३.१३ ||
SK
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी || YS_३.१४ ||
SK
क्रमान्यत्वं परिणामान्यत्वे हेतुः || YS_३.१५ ||
SK
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् || YS_३.१६ ||
SK
शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् || YS_३.१७ ||
SK
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् || YS_३.१८ ||
SK
प्रत्ययस्य परचित्तज्ञानम् || YS_३.१९ ||
SK
न च तत् सालम्बनं तस्याविषयीभूतत्वात् || YS_३.२० ||
SK
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् || YS_३.२१ ||
SK
सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा || YS_३.२२ ||
SK
मैत्र्यादिषु बलानि || YS_३.२३ ||
SK
बलेषु हस्तिबलादीनि || YS_३.२४ ||
SK
प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् || YS_३.२५ ||
SK
भुवनज्ञानं सूर्ये संयमात् || YS_३.२६ ||
SK
चन्द्रे ताराव्यूहज्ञानम् || YS_३.२७ ||
SK
ध्रुवे तद्गतिज्ञानम् || YS_३.२८ ||
SK
नाभिचक्रे कायव्यूहज्ञानम् || YS_३.२९ ||
SK
कण्ठकूपे क्षुत्पिपासानिवृत्तिः || YS_३.३० ||
SK
कूर्मनाड्यां स्थैर्यम् || YS_३.३१ ||
SK
मूर्धज्योतिषि सिद्धदर्शनम् || YS_३.३२ ||
SK
प्रातिभाद् वा सर्वम् || YS_३.३३ ||
SK
हृदये चित्तसंवित् || YS_३.३४ ||
SK
सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् || YS_३.३५ ||
SK
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते || YS_३.३६ ||
SK
ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः || YS_३.३७ ||
SK
बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः || YS_३.३८ ||
SK
उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च || YS_३.३९ ||
SK
समानजयाज् ज्वलनम् || YS_३.४० ||
SK
श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् || YS_३.४१ ||
SK
कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् || YS_३.४२ ||
SK
बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः || YS_३.४३ ||
SK
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः || YS_३.४४ ||
SK
ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च || YS_३.४५ ||
SK
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् || YS_३.४६ ||
SK
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः || YS_३.४७ ||
SK
ततो मनोजवित्वं विकरणभावः प्रधानजयश् च || YS_३.४८ ||
SK
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च || YS_३.४९ ||
SK
तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् || YS_३.५० ||
SK
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् || YS_३.५१ ||
SK
क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् || YS_३.५२ ||
SK
जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः || YS_३.५३ ||
SK
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् || YS_३.५४ ||
SK
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति || YS_३.५५ ||
SK
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः || YS_४.१ ||
SK
जात्यन्तरपरिणामः प्रकृत्यापूरात् || YS_४.२ ||
SK
निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् || YS_४.३ ||
SK
निर्माणचित्तान्य् अस्मितामात्रात् || YS_४.४ ||
SK
प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् || YS_४.५ ||
SK
तत्र ध्यानजम् अनाशयम् || YS_४.६ ||
SK
कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् || YS_४.७ ||
SK
ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् || YS_४.८ ||
SK
जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् || YS_४.९ ||
SK
तासाम् अनादित्वं चाशिषो नित्यत्वात् || YS_४.१० ||
SK
हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः || YS_४.११ ||
SK
अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् || YS_४.१२ ||
SK
ते व्यक्तसूक्ष्मा गुणात्मानः || YS_४.१३ ||
SK
परिणामैकत्वाद् वस्तुतत्त्वम् || YS_४.१४ ||
SK
वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः || YS_४.१५ ||
SK
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् || YS_४.१६ ||
SK
तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् || YS_४.१७ ||
SK
सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् || YS_४.१८ ||
SK
न तत् स्वाभासं दृश्यत्वात् || YS_४.१९ ||
SK
एकसमये चोभयानवधारणम् || YS_४.२० ||
SK
चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च || YS_४.२१ ||
SK
चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् || YS_४.२२ ||
SK
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् || YS_४.२३ ||
SK
तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् || YS_४.२४ ||
SK
विशेषदर्शिन आत्मभावभावनानिवृत्तिः || YS_४.२५ ||
SK
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् || YS_४.२६ ||
SK
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः || YS_४.२७ ||
SK
हानम् एषां क्लेशवद् उक्तम् || YS_४.२८ ||
SK
प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः || YS_४.२९ ||
SK
ततः क्लेशकर्मनिवृत्तिः || YS_४.३० ||
SK
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् || YS_४.३१ ||
SK
ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् || YS_४.३२ ||
SK
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः || YS_४.३३ ||
SK
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति || YS_४.३४ ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Yoga Sūtras of Patañjali.

Source