तद्विशिष्टे च स्थूलदेहाध्यासः, धर्मिपुरस्कारेणैवाहं मनुष्य इत्य् आकारः, न तु स्वरूपतो ऽहं देह इत्य् अध्यासः, तथा प्रतीत्यभावात् / तद्विशिष्टे च स्थौल्यादीनां देहधर्माणाम् अध्यासः /
ननु, सर्वस्य जगतस् तुच्छत्वे तन्निषेधेनात्मतत्त्वप्रतिपत्तिर् न स्यात् / न हि शशविषाणं निषिध्यते, क्वचित् प्रमितं क्वचिन् निषिध्यत इति न्यायात् / तथा च निषेधानुपपत्त्यैव न जगतस् तुच्छत्वम् इति, न, इत्य् आह --
SK
न चैकं तदन्यद् द्वितीयं कुतः स्यात् न वा केवलत्वं न चाकेवलत्वम् / न शून्यं न चाशून्यम् अद्वैतकत्वात् कथं सर्ववेदान्तसिद्धं ब्रवीमि