The Upanishad of Liberation

Kaivalyopaniṣad · Kऐवल्योपनिषद्

The Upanishad of Liberation

Kaivalyopaniṣad

Kऐवल्योपनिषद्

SK
[Oं भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर् यजत्राः | स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यदायुः | स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस् तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु | Oं शान्तिः शान्तिः शान्तिः |]
SK
SK
अथाश्वलायनो भगवन्तं परमेष्ठिनम् उपसमेत्योवाच | अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् | यथाचिरात् [ययाचिरात्] सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान्
SK
तस्मै स होवाच पितामहश् च श्रद्धा-भक्ति-ध्यान-योगाद् अवैहि | न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः
SK
परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति | वेदान्त-विज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः
SK
ते ब्रह्मलोकेषु परान्तकाले परामृताः [परामृतात्] परिमुच्यन्ति सर्वे | विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः
SK
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य | हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विषदम् [विशदं] विशोकम्
SK
अचिन्त्यम् अव्यक्तम् अनन्तरूपं शिवं प्रशान्तम् अमृतं ब्रह्मयोनिम् | तम् आदिमध्यान्तविहीनम् एकं विभुं चिदानन्दम् अरूपम् अद्भुतम्
SK
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्
SK
स ब्रह्मा स शिवः सेन्द्रः सो ऽक्षरः परमः स्वराट् | स एव विष्णुः स प्राणः स कालो ऽग्निः स चन्द्रमाः
SK
स एव सर्वं यद् भूतं यच् च भव्यं सनातनम् | ज्ञात्वा तं मृत्युम् अत्येति नान्यः पन्था विमुक्तये
SK
सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि | संपश्यन् ब्रह्म परमं याति नान्येन हेतुना
SK
आत्मानम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् | ज्ञाननिर्मथनाभ्यासात् पापं [पाशं] दहति पण्डितः
SK
स एव मायापरिमोहितात्मा शरीरम् आस्थाय करोति सर्वम् | स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत् परितृप्तिम् एति
SK
स्वप्न [स्वप्ने] स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके | सुषुप्तिकाले सकले विलीने तमो ऽभिभूतः सुखरूपम् एति
SK
पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः | पुरत्रये क्रीडति यश्च जीवस् ततस् तु जातं सकलं विचित्रम्
SK
धारमानन्दम् अखण्डबोधं यस्मिंल् लयं याति पुरत्रयं च ||१४*||
SK
एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च | खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी
SK
यत् परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् | सूक्ष्मात् सूक्ष्मतरं नित्यं तत् त्वम् एव त्वम् एव तत्
SK
जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते | तद् ब्रह्माहम् इति ज्ञात्वा सर्वबन्धैः प्रमुच्यते
SK
त्रिषु धामसु यद् भोग्यं भोक्ता भोगश् च यद् भवेत् | तेभ्यो विलक्षणः साक्षी चिन्मात्रो ऽहं सदा शिवः
SK
मय्य् एव सकलं जातं मयि सर्वं प्रतिष्ठितम् | मयि सर्वंल् लयं याति तद् ब्रह्माद्वयम् अस्म्य् अहम्
SK
[इति] प्रथमः खण्डः ||
SK
अणोर् अणियान् अहम् एव तद्वन् महान् अहं विश्वम् अहं विचित्रम् | पुरातनो ऽहं पुरुषो ऽहम् ईशो हिरण्मयो ऽहं शिवरूपम् अस्मि
SK
अपाणिपादो ऽहम् अचिन्त्यशक्तिः पश्याम्य् अचक्षुः स शृणोम्य् अकर्णः | अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित् सदाहम्
SK
वेदैर् अनेकैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् | न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिर् अस्ति
SK
न भूमिर् आपो न च वह्निर् अस्ति न चानिलो मे ऽस्ति न चाम्बरं च | एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलम् अद्वितीयम्
SK
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ||२३*||
SK
यः शतरूद्रीयम् अधीते सो ऽग्निपूतो भवति स वायुपूतो भवति, स आत्मपूतो भवति स सुरापानात् पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात् पूतो भवति स कृत्याकृत्यात् पूतो भवति तस्माद् अविमुक्तम् आश्रितो भवत्य् आश्रमी सर्वदा सकृद् वा जपेत् |
SK
अनेन ज्ञानम् आप्नोति संसारार्णवनाशनम् | तस्माद् एवं विदित्वैनं कैवल्यं पदम् [फलम्] अश्नुते | कैवल्यं पदम् [फलम्] अश्नुते
SK
इत्य् अथर्ववेदे कैवल्योपनिषत् समाप्ता ||
SK
ॐ तत् सत्

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kaivalyopaniṣad (sa_kaivalyopaniSad.htm).

Source