Worship of Durga Durgārcanaṣṛti
1 SK श्री गणेशाय नमः अथ दुर्गा पूजने कलश स्थापन विधिः जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्वलिं वध्नता | स्रष्टुं वादि-भवोद्भवेन भुवनं शेषेण धतुर्धराम || पार्वत्या महिषासुर प्रमथने सिद्धाधिपैः सिद्धये | ध्यातः पञ्चशरेण विश्व जितये पायात्स नागाननः || तत्र प्रतिपदि पूर्वाह्ने पुष्पतैलादिना कृतमङ्गलस्नानः [रुद्रयामले || स्नानं मांगलिकं कृत्वा ततो देवीं प्रपूजयेत् | शुभाभिर्मृत्तिकाभिश्च पूर्वे कृत्वा तु वेदिकाम् || १ ||] नित्यक्रियां कृत्वा नवेवाससी परिधाय चन्दनमृगमदकुṁकुमैः सर्वाङ्गमनुलिप्य त्रिपुण्ड्रं ऊर्ध्वपुण्ड्रं वा कृत्वा [देवतापूजने प्राची मध्ये पूजक पूज्ययोः || आसन उपविशेद्देवि ! वद्ध्वा वीरासनादिकम् | उपविश्यततोमन्त्री द्रव्याणिस्थापयेत्पुरः || गन्धपुष्पाक्षतादींश्च दक्षेदीपांश्च सर्वतः | नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः || घृतं दीपं दक्षिणे तु तैलदीपन्तु वामतः | वामतस्तु तथा धूपमग्रेवा नतु दक्षिणे || निवेदयेत्पुरोभागे गंध पुष्पञ्च भूषणम् | सर्वं स्वदक्षिणे स्थाप्यं वामेचार्घ्यं निवेशयेत् || स्थापेय्च्चर्व्यचोष्यादिनैवेद्यादीनिसंनिध | करयोः क्षालनार्थाय पृष्ठे पात्रं विनिर्दिशेत् || स्वस्य शक्त्यनुरूएप्ऽन् सर्वं संपाद्ययत्नतः | पूजाद्रव्याणि संप्रोक्ष्य मूलमंत्रेण साधकः || दर्शयेद्धेनु मुद्रां च द्रव्य शुद्धिरितीरिता | नैवेद्यादिकं च यत्तु पुष्पगन्धादिकञ्च यत् || सर्वमाच्छादितं कार्यं यावदावाहयेत्पराम् || (इष्टदेवतां) राक्षसाः प्रति गृह्णन्तिनिराच्छादनकंयतः ||
2 SK (१) पूजागृहस्य ईशानदिशि पूजास्थानं कल्पयित्वा गोमयोपलिप्तायां धरायां विन्दु-त्रिकोण-षट्कोण-ष्टदल- vṛttaṃ caturasraṃ likhet || tasyopari tīrthamṛttikayā śubhamṛttikābhirvedī racayitvā yavān godhūmānvā vāpayet || tatsamīpe kāṣṭhapīṭhopari śvetavastraṃ prasārya gaṇeśādīnsthāpayitvā pūjayet || paścāt kalaśaṃ saṃsthāpya durgāṃ pūjayitvā stuvīta || navamīdine sthāpitadevānāṃ uttara pūjanaṃ kṛtvā visarjayet || siddhāntaśekharokta yavāṃkura parīkṣā || yajamānābhivṛddhyarthaṃ maṃkurāṇiparīkṣayet | samyagūrddhvaṃ prarūḍhāni komalāni sitāni ca || dhūmravarṇānyapūrvāṇi tathā tiryggatāni ca | śyāmalāni ca kubjāni varjayedaśubhāni ca || yavāṃkura phalajñānaṃ avṛṣṭikurute kṛṣṇaṃ dhūmrābhaṃ kalahaṃ tathā | apūrṇaṃ jananāśaṃ ca durbhikṣaṃ śyāmalāṃkuraṃ || tiryaggatebhavedvyādhiḥ || kubje śatrubhayaṃ tathā || aśubhecāṃkure jāte śāntihomaṃ samācaret | mūlamantreṇa juhuyādgurumūrti dhariaḥ saha || aghorāstreṇa cāstreṇa śataṃ vātha sahasrakam | sarasvatepi prarūḍhairaṃkuraiḥ karturnirdiśeccaśubhāśubhaṃ | śyāmaiḥ kṛṣṇairaṃkurairarthahānistiryagrūḍhairvyādhirāṃdolitaistaiḥ || kubjairduḥkhaṃduḥṣprarūḍhairmṛtiṃ ca rogaṃbhugnaiḥ sthānadeśeṣṭa hāniḥ || yavāṃkura ropaṇa niyamaḥ dīkṣādivasātprāk saptabhirdinaiḥ | etena dīkṣādinamaṣṭagaṃ yathā bhavati tathā kartavyamityuktaṃ | vidhivadityanenanavabhiḥtribhiḥ sadyovettyuktaṃ || taduktaṃ siddhāntaśekhare || pratiṣṭhāyāṃ ca dīkṣāyāṃ sthāpanecotsave tathā | saṃprokṣaṇe ca śāntyarthaṃ vivāhe mauṃjibaṃdhane || sarvamaṃgalakāryeṣu kārayedaṃkurārpaṇam | pratiṣṭhādivasātpūrvaṃ navamesaptame dine || paṃcame vā tṛtīye vāsadyocāṃkurārpaṇam | puṇyāhaghoṣaṇaṃ kṛtvā brāhmaṇaiḥ sahadeśikaḥ || maṃgalāṃkurayajñe ca kuryāttatrivacā hani || saptamānnavamādvāpi prāgeva yajña karmaṇa iti || tantrāntarepi
3 SK उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च | मंगलांकुर विशेषणपूर्वं मंगलं भवति कर्मकृतं तत् || शस्तयोगदिवसात्तु पुरस्तात् सप्तमेहनि शुभे नवमे वा || पंचमेथ सुदिने सुमुहूर्ते मंगलांकुर विधि विदधीतेति || तत्र पूर्वेद्यु रुपवासं कृत्वा स्वगृह्योक्तविधिना नान्दीश्राद्धं कृत्वा अंकुरार्पणमारभेत् | तदुक्तं || गुरुर्विशुद्धः प्रागेव शुद्धाहात् प्रथमेहनि || संकल्प्योपोष्य कर्तव्यमंकुरारोपणंशुभम् || कुर्यान्नांदी मुखं श्राद्धं पूर्वेद्युः स्वस्तिवाचनं || स्वगृह्योक्तप्रकारेण तदेतद्विदधीतवै || इति || संहितायामपि || सर्वत्राभ्युदयाश्राद्धमंकुरोत्पादनं तथा || आदावेव कर्मणोभ्युदयात्मनः || इति हवन क्रम सूत्र || आदौ गणेश्वरः पूज्यः ॐकारं पंचधा ततः | गणयागो गणेशस्य वास्तु योगिनि पूजनम् || मातरो मातृपूजा च वृद्धिः श्राद्धमतः परम् | ऋत्विजां वरणं रक्षाविधिवच्चकुशंडिका || उत्पत्तिस्थापनंप्रोक्तंकलशस्तदनन्तरम् | प्रधानावाहं पूजा ग्रहादीनां च पूजनम् || होमं च बलिदानं च पूजायान्तदनन्तरम् | वेदपाठोग्रहां स्तुत्वा द्विजातीनांप्रतर्पणम् || पूर्णाहुत्यभिषेकं च ततोयज्ञप्रदक्षिणा | विसर्जनंक्रमःशान्तेर्घनश्यामेनकीर्तिता ||] पूर्वाभिमुखो देवीमुखो वा समुपविश्य सोपग्रहपाणिराचम्य || ॐ मूलम् भूः आत्मतत्त्वाय नमः स्वाहा || १ || ॐ मूलम् भुवः विद्यातत्त्वाय नमः स्वाहा || २ || ॐ मूलम् स्वः शिवतत्त्वाय नमः स्वाहा || ३ || (मूलम् चात्र दुर्गे दुर्गे रक्षिणि स्वाहेति) प्. ३) ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः || ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलंछन्दः कूर्मोदेवता आसनोपवेशने विनियोगः || ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुनाधृता | त्वं च धारय मान्देवि पवित्रंकुरुचासनम् || प्. ४) स्वस्तिवाचन
4 SK ॐ श्रीमन्महागणाधिपतये नमः || हरिः ॐ गणानान्त्वा गणपतिगुं हवामहे प्रियाणान्त्वा प्रियपतिगुं हवामहे निधीनान्त्वा निधिपतिगुं हवामहे वसोमम || आहमजानिगर्भधमात्वमजासि गभधम् || १ || स्वस्तिनऽ-इन्द्रो वृद्धश्रवाः स्वस्तिनः पूपाविश्ववेदाः || स्वस्तिनस्तार्क्ष्योऽ-अरिष्टनेमिःस्वस्तिनोबृहस्पतिर्दधातुः || २ || पयः पृथिव्यां पयऽ-ओषधी पुपयो दिव्यन्तरिक्षे पयोधाः || पयस्वतीः प्रदिशः सन्तुमह्यम् || ३ || प्. ५) विष्णोरराटमसिविष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोसि || वैष्णवमसि विष्णवेत्वा || ४ || अग्निर्देवता वातोदेवता सूर्योदेवता चन्द्रमादेवता वसवोदेवता रुद्रादेवता दित्यादेवता मरुतोदेवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रोदेवता वरुणोदेवता || ५ || द्यौः शान्तिरन्तरिक्षगुं शान्तिः पृथिवी शान्ति रापःशान्ति रोषधयः शान्तिः || वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्वगुं शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि || ६ || प्. ६) विश्वानिदेवसवितुर्दुरितानि परासुव || यद्भद्रन्तन्न-आसुव || ७ || एतन्ते देवसवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे || तेन यज्ञमवतेन यज्ञपतिन्तेन मामव || ८ || मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनो त्वरिष्टं यज्ञगुं समिमन्दधातु || विश्वेदेवासऽ-इहमादयन्ताम्ॐ ३ प्रतिष्ठ || ९ || एषवै प्रतिष्ठानाम यज्ञो यत्रैतेन यज्ञेन यजन्ते सर्वमेवप्रतिष्ठितम्भवति || १० || ॐ शान्तिः सुशान्तिः सर्वारिष्ट शान्तिर्भवतु || ॐ सुमुखश्चैकदन्तश्च कपिलोगजकर्णकः | लम्बोदरश्च विकटो विघ्ननाशो विनायकः || ११ || धूम्रकेतुगणाध्यक्षो भालचन्द्रो गजाननः | द्वादशैतानि नामानि यः पठेच्छृणुयादपि || १२ || विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा | संग्रामे संकटे चैव विघ्नस्तस्य न जायते || १३ || शुक्लाम्बरधरन्देवं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनंध्यायेत्सर्वविघ्नपशान्तये || १४ ||
5 SK अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः | सर्वविघ्नहरस्तस्मै गणाधिपतये नमः || १५ || सर्वमंगलमंगल्ये शिवेसर्वार्थसाधिके | शरण्ये त्र्यंबके गौरि नारायणि नमोस्तु ते || १६ || सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् | येषां हृदिस्थोभगवान्मंगलायतनो हरिः || १७ || लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः | येषामिन्दीवरश्यामो हृदयस्थोजनार्दनः || १८ || विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् | सरस्वतीं प्रणम्यादौ शान्तिकार्यार्थसिद्धये || १९ || सर्वेष्वारंभकार्येषु त्रयस्त्रिभुवनेश्वराः | देवादिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः || २० || वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ | अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा || २१ || ॐ सिद्धि बुद्धि सहिताय श्रीमन्गणाधिपतये नमः || ॐ वाणीहिरण्यगर्भाभ्यां नमः || ॐ लक्ष्मीनारायणाभ्यान्नमः || प्. ७) ॐ उमामहेश्वराभ्यान्नमः || ॐ शचीपुरन्दराभ्यान्नमः || ॐ मातापितृचरणकमलेभ्यो नमः || ॐ कुलदेवताभ्यो नमः | ॐ इष्टदेवताभ्यो नमः || ॐ ग्रामदेवताभ्यो नमः || ॐ स्थानदेवताभ्यो नमः || ॐ वास्तुदेवताभ्यो नमः || ॐ सर्वेभ्योदेवेभ्यो नमः || ॐ सर्वेभ्योब्राह्मणेभ्यो नमः || ॐ सर्वेभ्यो तीर्थेभ्यो नमः || ॐ एतत्कर्मप्रधान श्रीदुर्गादेव्यै नमः || ॐ पुण्यंपुण्याहं दीर्घमायुरस्तु || वामे गुṁ गुरुभ्यो नमः दक्षिणे भṁ भद्रकाल्यै नमः || उपरि गṁ गणपतये नमः || हृदि दुṁ दुर्गायै नमः || पृष्ठे ॐ क्षं क्षेत्रपालाय नमः || ॐ तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनोपम || भैरवाय नमस्तुभ्यमनुज्ञांदातुमर्हसि ||
6 SK ॐ स्वस्तिश्रीमन् मुकुन्दसच्चिदानन्दस्याज्ञयाप्रवर्त मानस्याद्य ब्रह्मणो द्वितीये प्रहरार्द्धे एकपञ्चाशत्तमेवर्षे प्रथममासे प्रथमपक्षे प्रथम दिवसे अह्नो द्वितीयेयामे तृतीयेमुहूर्ते रथन्तरादि द्वात्रिंशत्कल्पानांमध्ये अष्टमे श्रीश्वेतवाराहकल्पे स्वायंभुवादि मन्वन्तराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृतत्रेताद्वापरकलिसंज्ञानांचतुर्युगानांमध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्णभूमंडलान्तर्गतसप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि नवखंडानांमध्ये नवसहस्रयोजनविस्तीर्णे भरतखंडे तत्रापि परमपवित्रे भारतवर्षे आर्यावर्तान्तर्गत ब्रह्मावर्तैकदेशे कुमरिकाक्षेत्रे मथुरामण्डले [समीपवर्ती मण्डल] रेणुका समीप क्षेत्रे [समीपवर्ती क्षेत्रे] श्री गंगायमुनयोः पश्चिमेतटे श्रीनर्मदाया- vikramādityarājyātīta-amukasaṃkhyāparimite p. 8)
7 SK प्रवर्तमानसंवत्सरेप्रभवादिषष्ठिसंवत्सराणांमध्ये अमुकनामसंवत्सरे अमुकायने अमुकगोले अमुक-ऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकयोगे अमुककरणे अमुकराशिस्थे सूर्ये अमुकराशिस्थे चन्द्रे अमुकराशिस्थे देवगुरौ शेषेषु ग्रहेषु यथा यथा राशिस्थानस्थितेषु सत्सु एवंग्रहगणविशेषणविशिष्टायांशुभपुण्यतिथौ अमुकगोत्र- dīrghāyurvipulaghana putrapautrādyanavacchinnasaṃtativṛddhi sthiralakṣmī kīrtilābha śavaparājaya sadabhīṣṭasiddhyarthaṃ yathāsampāditasāmagryā śārada(vāsantika) navarātrirpatipadivihita kalaśasthāpana durgāpūjā kumārīpūjādi kariṣye || tadaṃgatvena nirvighnatāparisamāpyarthaṃ gaṇapati paṃcokāra vāstu divyādi 64 yoginī ajarāḍhi 50 kṣetrapāla saptaciraṃjīva sapta-ṛṣi gauryādiṣoḍaśamātṛkā varuṇakalaśa sūryādi navagraha tadaṃgabhūta adhidevatā pratyadhidevatādi sthāpanapūjanānantara bhittaudurgāsthāpanāvāhanaṃ kalaśasthāpanaṃ tasyopari durgāpūjanaṃ vā pratipadārabhya navamīparya tathā ca trivaṭyupari-akhaṃḍadīpakaṃ tilatailapūritaṃ tūlikāvartiyutaṃ ca kariṣye vā brāhmaṇa dvārākārayiṣye || agnikoṇe gaṇeśa pūjana || oṃ gaṇānāṃtvāgaṇapatiṃhavāmahe kaviṃkavīnāmupaśravastamam || jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata-ānaḥ śṛṇvannūtibhiḥ sīdasādanaṃ || oṃ he heraṃba ! tvamehyehyaṃvikātryambakātmaja || siddhibuddhipatetryakṣa koṭisūryasamaprabha || nāgāsya nāgahāra tvaṃ gaṇarājacaturbhuja || bhūpitaḥ svāyudhairdivyaiḥ pāśāṃkuśaparaśvadhaiḥ || āvāhayāmi pūjārthaṃ rakṣāsrthaṃ ca mama kratoḥ || p. 9)
8 SK इहागत्य गृहाण त्वं पूजां रक्ष च मे क्रतुम् || ॐ भूर्भुवः स्वः गणेश इहागच्छ इहतिष्ठ गणपतये नमः गणपतिमावाहयामि स्थापयामि नमः || पादयोः पाद्यं समर्पयामि नमः || हस्तयोरर्घ्यं समर्पयामि नमः || मुखे आचमनीयं समर्पयामि नमः || सर्वांगे स्नानीयं समर्पयामि नमः || वस्त्रोपवस्त्रार्थे अलंकारार्थे कौसुम्बसूत्रं साक्षतञ्च समर्पयामि नमः || यज्ञोपवीतं समर्पयामि नमः || गंधंविलेपयामि नमः || अक्षतान्समर्पयामि नमः || पुष्पाणि समर्पयामि नमः || दुर्वांकुराणि समर्पयामि नमः || धूपमाघ्रापयामिनमः || प्रत्यक्षदीपं [देवतायाः धूपपात्रं तैलदीपं वामे | घृतदीपं सितवर्तियुतं दक्षिणे रक्तवर्तियुतं घृतदीपमपि वामे | सितवर्तियुतं तैल दीपमपिदक्षे ||] दर्शयामि नमः || धूपदीपपात्रयोरक्षतान्निक्षिपेत् || हस्तौप्रक्षाल्य || नैवेद्यंनिवेदयामि नमः || जलेनाभ्युक्ष्य || गन्धपुष्पाभ्यामाच्छाद्य || धेनुमुद्रया अमृतीकृत्य सत्यंत्वर्तेन परिपिंचामि ( ऋतत्वासत्येन परिपिंचामि इति सायं) ग्रासमुद्रां प्रदर्श्य ॐ प्राणाय स्वाहा - ॐ अपानाय स्वाहा - ॐ उदानाय स्वाहा ॐ व्यानाय स्वाहा - ॐ समानाय स्वाहा - मध्ये २ वाचमनीयं समर्पयामि नमः || उत्तरापोषणार्थे किंचिन्नैवेद्यं निवेदयामि नमः || पुनराचमनीयं समर्पयामि नमः | करोद्वर्तनार्थे गंधं समर्पयामि नमः || हस्तप्रक्षालनार्थे मुखप्रक्षालनार्थे जलंसमर्पयामि नमः || मुखशुद्ध्यर्थे ताम्बूलं पुङ्गीफलं एला लवंग कर्पूरयुतं समर्पयामि नमः || यथाशक्ति दक्षिणाद्रव्यं समर्पयामि नमः || (१) देवतायाः धूपपात्रं तैलदीपं वामे | घृतदीपं सितवर्तियुतं दक्षिणे रक्तवर्तियुतं घृतदीपमपि वामे | सितवर्तियुतं तैल दीपमपिदक्षे || प्रार्थना || ॐ भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय || विद्याधराय | वकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते || १ || प्. १०)
9 SK विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय || नागाननाय सितसर्पविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते || २ || अनया पूजया सिद्धिबुद्धिसहितमहागणपतिः सांगः सपरिवारः प्रीयताम् || ॐ आब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्यः शूरऽ- saptiḥ purandhiryoṣā jiṣṇuratheṣṭhāḥ sabheyoyuvāsya yajamānasya vīro jāyatānnikāme nikāme naḥ parjanyo varṣatu phalavatyona'-oṣadhayaḥ vacyantāṁyogakṣemo naḥ kalpatām || oṃbhūrbhuvaḥ svaḥ pūrve brahman ihāgaccha ihatiṣṭha brahmaṇe namaḥ brahmāṇaṃ āvāhayāmi sthāpayāmi namaḥ || oṃ bhūrbhuvaḥ svaḥ dakṣiṇe gāyatri ihāgaccha ihatiṣṭha gāyatryai namaḥ || gāyatrīmāvāhayāmi sthāpayāmi namaḥ || oṃ bhūrbhuvaḥ svaḥ paścime govarddhana ihāgaccha ihatiṣṭha govarddhanāya namaḥ govarddhanamāvāhayāmi sthāpayāmi namaḥ || oṃ bhūrbhuvaḥ svaḥ uttare pṛthivi ihāgaccha ihatiṣṭha pṛthivyai namaḥ || pṛthivīmāvāhayāmi sthāpayāmi namaḥ || oṃ bhūrbhuvaḥ svaḥ madhye yajñapate ihāgaccha ihatiṣṭha yajapataye namaḥ yajñapatimāvāhayāmi sthāpayāmi namaḥ || iti pratiṣṭhāpya || pūrvavat pādyādi pūjana oṃ brahmā devī ca gāyatrī tathā govarddhaneśvaraḥ | pṛthvī yajñapatiścaitān paṃcoṅkārānnamāmyaham || anayā pūjayā sāṃgāḥ saparivārāḥ brahmādipaṃcapraṇavāḥ prīṇantunamama || tatraiva gaṇeśa samīpe - p. 11) atha agnikoṇe vakrādidvādaśagaṇeśa pūjana oṃ namogaṇebhyogaṇapatibhyaścavonamonamobrātebhyobrātapatibhyaścavona monamogṛtsebhyogṛtsapatibhyaścavonamonamovirūpebhyoviśvarūpebhya ścavonamonamaḥ | oṃ bhūrbhuvaḥ svaḥ vakrādi dvādaśamūrtigaṇapā ihāgacchata ihatiṣṭhata || vakrādidvādaśamūrtigaṇapebhyo namaḥ vakrādi-dvādaśa-mūrti-gaṇapān āvāhayāmi sthāpayāmi namaḥ || pādyādi pūjana
10 SK ॐ नमो देवगणेशाय नमस्ते विघ्ननाशन || नमो मूषकमारूढ शुभकर्त्रे नमोनमः || नमः कात्यायनीपुत्र नमः परशुपाणये || रवेरुदयतेरूपं विद्याबुद्धि विचक्षण || देहि मे रूप सौभाग्यं देहि मे पुत्रसम्पदः || इच्छासिद्धिप्रदो देव यथोक्तभव मे सदा || अनया पूजया सांगाः सपरिवाराः वक्रादि १२ गणपाः प्रीणन्तु नमम || अथ नैर्-ऋत्यकोणे वास्तु पूजनम् ॐ वास्तोष्पतेप्रतिजानीह्यस्मान्स्वावेशोऽ-अनमीवोभवानः यत्वेमहेप्रतितन्नोयुषस्वशन्नोभवद्विपदे शंचतुष्पदे || ॐ भूर्भुवः स्वः वास्तुपुरुष इहागच्छ इहतिष्ठ वास्तु पुरुषाय नमः || वास्तु पुरुषमावाहयामि स्थापयामि नमः || पाद्यादि पूजन प्रार्थना नागपृष्ठसमारूढं शूलहस्तं महाबलम् | पाताल नायकं देवं वास्तुदेवं नमाम्यहम् || अनयापूजया सांगः सपरिवारः वास्तुदेवः प्रीणातु नमम || अथ वायव्यकोणे दिव्यादि ६४ योगिनी पूजन ॐ जातवेदसेसुनवाम सो ममरातीयतोनिदहातिवेदः सनः प्. १२) पर्पदति दुर्गाणिविश्वानावेवसिन्धुन्दुरितात्यग्निः || ॐ भूर्भुवः स्वःदिव्यादि ६४ योगिन्य इहागच्छत इहतिष्ठत || दिव्यादि ६४ योगिनीभ्यो नमः || दिव्यादि ६४ योगिनीः आवाहयामि स्थापयामि नमः || पाद्यादि पूजन प्रार्थना ॐ जयादिसर्वायोगिन्यः दुर्गारूपाश्चताः स्मृताः | पूजयाबलिदानेनसन्तुष्टास्संतु मे सदा || अनया पूजया सांगाः सपरिवाराः दिव्यादिचतुष्षष्ठियोगिन्यः प्रीणन्तु नमम || अथ वायव्यकोणे योगिनी समीपे अजरादि ५० क्षेत्रपालस्य पूजनम् ॐ अजारे पिशंगिलास्वावित्कुरुपिशंगिलाशस- paṃcāśatkṣetrapā-ihāgacchata ihatiṣṭhata ajarādikṣetrapebhyonamaḥ ajarādikṣetrapān āvāhayāmi sthāpayāmi namaḥ || pādyādi pūjana prārthanā oṃ kṣetrapālānnamasyāmisarvāriṣṭaniṣūdanān || asyayāgasyasiddhyarthaṃ pūjayārādhitān mayā || anayā pūjayā sāṃgāḥsaparivārāḥ ajarādipaṃcāśatkṣetrapāḥ prīṇantu namama || uttaradiśe ṣoḍaśamātṛkā pūjanam
11 SK ॐ गौरीर्मिमायसलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुशी सहस्राक्षरापरमेव्योमन् || ॐ भूर्भुवः स्वः गौर्यादिषोडशमातर इहागच्छत इहतिष्ठत || गौर्यादि १६ मातृभ्योनमः || गौर्यादिमातॄ आवाहयामिस्थापयामि नमः || पाद्यादि पूजन प्रार्थना || ॐ गौरी पद्मा शची मेधा सावित्री विजया जया | देवसेना स्वधा स्वाहा मातरोलोकमातरः || हृष्टिःपुष्टिस्तथा तुष्टिरात्मनः कुलदेवता | गणेशेनाधिकाह्येता वृद्धौपूज्याश्चषोडश || प्. १३) अनयापूजया साṁगाः सपरिवाराः गौर्यादि १६ मातरः प्रीणन्तु नमम || वसोद्धारापू० || ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसिसहस्रधारम् || देवस्त्वा सवितापुनातु वसोः पवित्रेणशतधारेण सुष्वा का मधुक्षः || गंधादिभिः संपूज्य || श्रीर्लक्ष्मीर्धृतिर्मेधा श्रद्धा प्रज्ञासरस्वती | घृतेन पूजितास्सर्वा सप्तैता घृत मातरः || वसोद्धारे महामाये चामुण्डे मुण्ड मालिनि | शीघ्रं ममवरंदेहि परांगति नमोस्तुते || सांकल्पिक नान्दी श्राद्धः दक्षिणोत्तर क्रमेअण ||
12 SK देशकालौ संकीर्त्य अद्यदुर्गाहवनाङ्गत्वेन सांकल्पिक विधिना ब्राह्मणयुग्म भोजन पर्याप्तान्ननिष्क्रियी भूत यथाशक्ति हिरण्ययेन नांदी श्राद्धं करिष्ये || ॐ सत्य वसु संज्ञकाः विश्वेदेवाः नान्दीमुखाः ॐ भूर्भुवः स्वः इदं वः पाद्यंपादावनेजनं पादप्रक्षालनं वृद्धिः || ततः अमुक गोत्राः अस्मन्मातृ पितामही प्रपितामह्यः नांदीमुख्यः ॐ भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः || अमुक नोत्रास्मत्पितृ पितामह प्रपितामहाः नान्दी मुखाः ॐ भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः || द्वितीय गोत्रा अस्मन्मातामह प्रमातामह वृद्ध प्रमातामहाः सपत्निकाः नांदीमुखाः ॐ भूर्भुवः स्वः इदं वः पाद्यंपादावनेजनं पादप्रक्षालनं वृद्धिः || अथ आसनदानम् || ॐ सत्यवसु संज्ञकानां विश्वेषां देवानां नान्दीमुखानां ॐ भूर्भुवः स्वः इदमासनं सुखासनं स्वाहा नमः || इति कुशत्रयं सर्वतो दक्षिण गतं पूर्वाग्रमुत्सृजेत् एवं सर्वत्र || ॐ नांदी श्राद्धे क्षणौ क्रियेताम् || ॐ तथाप्राप्नुतां भवन्तौ प्राप्नुवाव || ॐ अमुक गोत्राणां अस्मन्मातृपितामही प्रपिता महीनां नान्दीमुखिनां ॐ भूर्भुवः स्वः इदमासनं सुखासनंस्वाहानमः || प्. १४)
13 SK ॐ नान्दी श्राद्धे क्षणौ क्रियेताम् || तथा प्राप्नुतां भवन्तौ प्राप्नुवाव || ॐ अमुक ग्रोत्राणां अस्मत्पितृ पितामह प्रपितामहानां नान्दीमुखानां ॐ भूर्भुवः स्वः इदमासनं सुखासनं स्वाहा नमः || ॐ नान्दी श्राद्धे क्षणौ क्रियेताम् || ॐ तथा प्राप्नुतां भवन्तौ प्राप्नुवाव || अमुक गोत्राणां अस्मन्मातामह प्रमातामह वृद्धप्रमातामहानां सपत्निकानां नान्दी मुखानां ॐ भूर्भुवः स्वः इदमासनं सुखासनं स्वाहा नमः || नांदी श्राद्धे क्षणौ क्रियेताम् || ॐ तथाप्राप्नुतां भवन्तौ प्राप्नुवाव || ततो गंधादि दानम् | ॐ सत्यवसु संज्ञकेभ्यो विश्वेभ्यो देवेभ्यो नांदीमुखेभ्यो ॐ भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यताम् वृद्धिः || अमुक गोत्राभ्योऽस्मन्मातृ पितामही प्रपितामहीभ्यो नान्दीमुखीभ्यो ॐ भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यतां वृद्धिः || अमुक गोत्रेभ्योऽस्मत्पितृ पितामह प्रपितामहेभ्योनांदीमुखेभ्यो ॐ भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यतां वृद्धिः || द्वितीय गोत्रेभ्योऽस्मन्मातामह प्रमातामह वृद्ध प्रमातामहेभ्यः सपत्नीकेभ्यः नांदीमुखेभ्यः ॐ भूर्भुवः स्वः इदं गंधाद्यर्चनं स्वाहा संपद्यताम्वृद्धिः || ततो भोजन निष्क्रय द्रव्य दानम || ॐ अद्य तत्सन्मात्रादित्रयपित्रादित्रय मातामहादित्रय नांदीश्राद्ध संबंधिनः सत्यवसुसंज्ञकाः विश्वेदेवाः नांदी मुखाः ॐ भूर्भुवः स्वः इदं वः युग्मब्राह्मण भोजन प्रयाप्तंदास्यमानमन्नं वा तन्निष्क्रयी भूतं किंचिद्धिरण्यं अमृतरूपेण दत्तं स्वाहा संपद्यतां वृद्धिः || ॐ अद्यतत्सदमुक गोत्राः मातृ पितामही प्रपितमह्यो नांदी मुख्यः ॐ भूर्भुवः स्वः इदं वो युग्म ब्राह्मण भोजन पर्याप्तं दास्यमानमन्नं वा तन्निष्क्रयी भूतं किचिद्धिरण्यं अमृत रूपेण स्वाहा संपद्यतां वृद्धिः | अमुक गोत्राः पितृ पितामह प्रपितामहाः नांदी मुखाः प्. १५)
14 SK ॐ भूर्भुवः स्वः इदं वो युग्म ब्राह्मण भोजन पर्याप्तं दास्यमान मन्नं वा तन्निष्क्रयी भूतंकिचिद्धिरण्यं अमृत रूपेण स्वाहा संपद्यतां वृद्धिः || अमुक गोत्राः मातामह प्रमाताह वृद्ध प्रमातामहाः सपत्नीकाः नांदी मुखाः ॐ भूर्भुवः स्वः इदं वो युग्म ब्राह्मण भोजनपर्याप्तं दास्यमान मन्नं वा तन्निष्क्रियीभूतंकिंचिद्धिरण्यं अमृतरूपेण स्वाहा संपद्यतां वृद्धिः || सक्षीर मुदकदानम् || ॐ सत्य वसु संज्ञका विश्वेदेवाः नांदीमुखाः प्रीयंताम् || अमुक गोत्राःमातृ पितामही प्रपितामह्यो नांदीमुख्यः गोत्राः पितृ पितामह प्रपितामहाः नांदी मुखाः द्वितीय गोत्राः मातामह प्रमातामह वृद्धप्रमातामहाः नांदीमुखाः सपत्नीकाश्च प्रीयन्ताम् | ततः ॐ स्वस्तिनऽ- satyavasu saṃjñakebhyo viśvebhyo devebhyo nāndī mukhebhyaḥ kṛtasya nāṃdīśrāddhasyaphala pratiṣṭhā siddhyarthaṃ drākṣāmalaka yavamūla niṣkrayī bhūtāṃ dakṣiṇāṃ dātumahamutsṛje || oṃ amuka gotrābhyo mātṛ pitāmahī prapitāmahībhyo nāndī mukhībhyaḥ kṛtasya0 || oṃ amuka gotrebhyaḥ pitṛ pitāmaha prapitāmahebhyo nāndī mukhebhyaḥ kṛtasya0 || oṃ amuka gotrebhyo mātāmaha pramātāmaha vṛddhapramātāmahebhyaḥ sapatnīke0 nā0 kṛtasya0 || āśiṣograhaṇam || gotraṃno varddhatām || varddhatāṃvogotram || dātārono'bhi varddhatām || abhivarddhatāmvodātāraḥ || vedāścano'bhivarddhatām || abhivarddhatāmbovedāḥ || saṃtatirnovarddhatām || varddhatāmvaḥ saṃtati || śraddhā ca nomāvyagamet || māvyagamadvaḥ śraddhā || vahudeyaṃcano'stu || astuvo vahudeyam || yācitāraścanaḥ santu | santu vo yācitāraḥ || etā āśiṣāḥ satyāsantu || santvetāssatyāśiṣāḥ || oṃ mātā pitāmahī caiva tathaiva prapitāmahī | pitā pitāmahaścaiva tathaiva prapitāmahaḥ || 1 || p. 16) mātāmahastatpitā ca pramātāmahakādayaḥ | etebhavantu suprītāḥ prayacchantu ca maṅgalam || 2 ||
15 SK अस्मिन्नांदीश्राद्धे न्यूनातिरिक्तोयोविधिः स उपविष्ट ब्राह्मणानां वचनात् नान्दी मुखप्रसादात् सर्वः परिपूर्णोस्तु अस्तु परिपूर्ण इतिविप्राः || इति सांकल्पिक नान्दी श्राद्ध प्रयोगः || आचार्यादीनां वरणम् || ॐ अद्येत्यादि पूर्ववत् अमुकगोत्र अमुक शर्माहं अस्मिन्दुर्गा हवन कर्मणि अमुक गोत्रं अमुक नाम शर्माणं ब्राह्मणं एभिर्वरण द्रव्यैः आचार्यत्वेन त्वामहं वृणे || वृतोस्मीति आचार्यः || [बृहस्पते.आतियदर्योऽ-अर्हाद्युमद्विभाति क्रतुमज्जनेषु || यद्दिदयच्छ वसऽ-ऋत प्रजातत दस्मासुद्रविणंधेहिचित्रम् ||] बृअहस्पतेऽ-अतीतिमंत्रेण-इति पूजनम् || पादप्रक्षालनं || ॐ यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठ पुष्करे | तत्फलंपांडव श्रेष्ठ विप्राणां पाद शौचने || गंधं || गंध द्वारांदुराधर्षां नित्य पुष्टां करीषिणीम् | ईश्वरीं सर्वभूतानां तामिहो पह्वयेश्रियम् || अक्षतान् || पुष्पमाल्याम् || श्रीश्चतेति || कंकण बंधनम् || व्रतेनदीक्षामाप्नोति || प्रार्थना || आचार्यस्तु यथास्वर्गे शक्रादीनां बृहस्पतिः | तथात्वं ममयज्ञेस्मिन्नाचार्यस्तु भवप्रभो || यथाविहितं कर्मकुरु || यथाज्ञानतः कल्याणीति || एवं ब्रह्मा वरणम् || प्रार्थना || यथा चतुर्मुखो ब्रह्मासर्व वेदधर प्रभो | तथात्वंमययज्ञेस्मिन्ब्रह्मा भवद्विजोत्तम || [ॐ ब्रह्मयज्ञानंप्रथमंपुरस्ताद्विसीमतः सुरुचोवेन आवःसबुध्न्याऽ- maṃtreṇa pūjanam || sarvaṃ pūrvavat || rakṣā vidhānam || yavānkuśāntathā dūrvā dakṣiṇākṣata sarṣapān | gomayaṃ dadhi saṃyuktaṃ kārayettāmrabhājane || 1 || namaste śāradādevī kāśmīra prativāsinī | ahaṃ śaraṇamāpnomi vidyādānaṃ dadāsi me || 2 || p. 17) oṃ gaṇādhipaṃ namaskṛtya namaskṛtyapitāmahaṃ | viṣṇuṃ rudraṃśriyaṃ devīṃ vaṃde bhaktyā sarasvatīm || sthānaṃ kṣetraṃ namaskṛtya dinanāthaṃ niśākaraṃ | dharaṇī garbha saṃbhūtaṃśaśiputraṃbṛhaspatiṃ || daityācāryaṃ namaskṛtya sūryaputraṃmahāgrahaṃ | rāhuṃketuṃ namaskṛtya yajñārambhe viśeṣataḥ ||
16 SK शक्राद्याः देवताः सर्वे मुनीनां कथयाम्यहं | गर्गंमुनिं नमस्कृत्य नारदोपि महामुनिः || वसिष्ठं मुनि शार्दूलं विश्वामित्रो महामुनिः | व्यासं कविं नमस्कृत्य सर्वशास्त्र विशारदाः || विद्याधिकास्तु मुनयः आचार्यास्तु तपोधनाः | सर्वेतेप्रणिपत्येन यज्ञरक्षां करोतु मे || रक्षो हणं वलगहनं वैष्णवीमिद महन्तंवलगमुत्किरामि यम्मेनिष्ट्यो यममात्यो निचखानेद महन्तं वलग मुत्किरामि यम्मे समानोयम समानोनि च खानेद महन्तं वलग मुत्किरामियम्मे सबंदुर्यमसबंधुर्नि च खानेद महन्तंवलगमुत्किरामियम्मे सजातो यम सजातो निचखानोत्कृत्याङ्किरामि || ५ || २३ || रक्षोहणो वोव्वलगहनः प्रोक्षामि वैष्णवान्त्रक्षो हणो वोव्वल गहनोवनयामि वैष्णवान्त्रक्षोहणो वोवल गहनो वस्तृणामि वैष्णवान्न्रक्षोहणौवांवलगहनाऽ-उपदधामि वैष्णवी रक्षोहणौ वांवलगहनौ पर्यूहामि वैष्णवी वैष्णवमसि वैष्णवास्थ || ७ || २५ || रक्षसां भागोसि निरस्तगुं रक्षऽ-इदमहगुं रक्षोभितिष्ठामीदमहगुं रक्षोवबाधऽ-इदमहगुं रक्षोधमन्तमोनयामि || घृतेनद्यावा पृथिवी प्रोर्णु वाथांवायोव्वेस्तोकानामग्नि राज्यस्य वेतु स्वाहा स्वाहाकृतेऽ-ऊर्द्ध नभसम्मारुतंगच्छतम् || ६ || १६ || रक्षोहाविश्व चर्षणिरभियोनि मयोहते || द्रोणेसधस्त्थमासदत् || २६ || २६ || पूर्वेरक्षतुगोविन्द आग्नेयां गरुडध्वजः | याम्यां रक्षतु वाराहो नारसिंहस्तु नैर्-ऋते || केशवो वारुणीं रक्षेद्वायव्यां मधुसूदनः | उत्तरे श्रीधरोरक्षेदीशान्ये च गदाधरः || प्. १८) ऊर्ध्वगोवर्द्धनोरक्षेदधश्चैवजनार्दनः | एवंदशदिशोरक्षोद्वासुदेवो जनार्दनः || यज्ञाग्नेरक्षते शंखः पृष्ठे पद्मं च उत्तमं | वामपार्श्वेगदारक्षेद्दक्षिणे च सुदर्शनः || उपेंद्रो रक्षतेब्रह्मा आचार्यंपातुवामनः | अच्युतः पातु ऋग्वेदं यजुर्वेदमधोक्षजः || कृष्णो रक्षतु सामं च अथर्वाणं च माधवः | उपद्रष्टास्तु ये विप्रास्तेपिरुद्रेण रक्षिताः ||
17 SK यजमानं सपत्नीकं पुंडरीकाक्ष रक्षतु | रक्षाहीनं तु यत्स्थानं तत्सर्वं रक्षतो हरिः || वेद मंत्रैश्च कर्तव्या रक्षा शुभ्रैश्च सर्षपैः | तस्मात्सर्व प्रयत्नेन रक्षां कुर्यात्सदा बुधः || अथ यजमान हस्ते रक्षाबन्धनम् || ॐ त्वंयविष्ठदाशुयोनॄःपाहि शृणुधीगिरः || रक्षातोकमुतत्क्मना || ये न बद्धोवली राजादानवेन्द्रो महाबलः तेनत्वां प्रतिबध्नामि रक्षेमाचलमाचल || इति रक्षा विधानं || अथ पुण्याहवाचनं || कलश स्थापन विधि कलश स्थापनानन्तरं वरुणं साङ्गं पूजयित्वा पुण्याहवाचनं कुर्यात् || संपूज्यगंधमाल्याद्यैर्ब्राह्मणान्स्वस्तिवाचयेत् | धर्म कर्मणिमांगल्येसंग्रामेऽद्भुतदर्शने || १ || पुण्याहवाचनंदैवंब्राह्मणस्यविधीयते | एतदेवनिर्ॐकारंकुर्यात्क्षत्रियवैश्ययोः || २ || अवनिकृतजानुमंडलः कमलमुकुलसदृशमंजलिं शिरस्याधाय दक्षिणेनपाणिना सुवर्णपूर्णकलशं धारयित्वा दीर्घानागानद्योगिरयस्त्रीणिविष्णुपदानिच || तेनायुः प्रमाणेनपुण्याहंदीर्घमायुरस्तु || अपांमध्येस्थितादेवाः सर्वमप्सुप्रतिष्ठितम् || ब्राह्मणानां करेन्यस्ताः शिवा आपो भवंतुताः || १ || शिवा आपः संतु || अस्तु शिवा आपः || लक्ष्मीर्वसतिपुष्पेपुलक्ष्मीर्वसतिपुष्करे || सा मे वसतुवैनित्यंसौमनस्यंतथास्तुनः || १ || सौमनस्यमस्तु || अस्तु सौमनस्यम् || अक्षतंचास्तुमेपुण्यं दीर्घमायुर्यशोबलम् | यद्यच्छ्रेयस्करं लोकेतत्तदस्तुसदामम || १ || प्. १९) अक्षतं चारिष्टं चास्तु || अस्त्वक्षतमरिष्टम् || ब्राह्मणानांहस्तेगंधादिदत्त्वा || गंधः प्रदेयोदेवानामपत्यपुष्टिदश्चनः | गंधद्वारांदुरांधर्षामितिमंत्रेणभक्तितः || १ ||
18 SK गंधाः पांतुसौमंगल्यंचास्तु || अस्तु सौमङ्गल्यम् || पुष्पाणिपान्तु सौश्रेयसमस्तु || अस्तुसौश्रेयम् || अक्षताःपांतु आयुष्यमस्तु || अस्तु आयुष्यम् || तांबूलानिपांतु ऐश्वर्यमस्तु || अस्तु ऐश्वर्यम् || दक्षिणाः पांतु आरोग्यमस्तु || अस्तु आरोग्यम् || दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु अस्तु || श्रीर्यशोविद्याविनयोवित्तंबहुपुत्रंचारोग्यंचायुष्यंचास्तु अस्तु || यं कृत्वासर्ववेद यज्ञक्रियाकरणकर्मारंभाः शुभाः शोभनाः प्रवर्तते तमहम्ॐकारमादिंकृत्वा-ऋग्यजुः सामाथर्वाशीर्वचनं वह्वृपिसंमतं समनुज्ञातंभवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये || वाच्यताम् || यजुः || द्रविणोदाः पिपीवति जुहोतप्रचतिष्ठत || नेष्ट्रादृतुभिरिष्यत || यजुः || सवितात्वासवाना गुं सुवतामग्निर्गृहपतीना गुं सोमोव्वनस्पतीनाम् || वृहस्पतिर्वाचऽ- yajuḥ || oṃ natadrakṣā guṃ sināpiśācāstaraṃtidevānāmojaḥ prathamaja guṃ hyetat || yovibhartidākṣāyaṇa guṃ hiraṇya guṃ sadeveṣukṛṇutedīrghamāyuḥ samanuṣyeṣukṛṇutedīrghamāyuḥ || yajuḥ || uccātejātamandhasodivisadbhūmyādadeḥ || ugra guṃ śarmamahiśravaḥ || ityetā ṛcaḥ puṇyāhebrūyāt || vrataniyama tapaḥ svādhyāya kratudayādamadānaviśiṣṭānāṃ sarveṣāṃ brāhmaṇānāṃ manaḥ samādhīyatām || samāhita manasaḥ smaḥ || prasīdantu bhavantaḥ prasannāḥ smaḥ || atha pūrvasthāpitakalaśātāmrapātre jalamādāya yajamānamūrdhanidūrvayāsecanaṃ kuryāt || śāntirastu puṣṭirastu tuṣṭirastu vṛddhirastu ṛddhirastu avighnamasu āyuṣyamastu ārogyamastu śivamastu p. 20)
19 SK शिवं कर्मास्तु कर्मसमृद्धिरस्तु धर्मसमृद्धिरस्तु वेदसमृद्धिरस्तु धनधान्यसमृद्धिरस्तु इष्टसंपदस्तु अनिष्टनिरसनमस्तु || भूमौ || यत्पापंरोगमशुभमकल्याणंतद्दूरेप्रतिहतमस्तु || पात्रे || यद्यच्छ्रेयस्तत्तदस्तु उत्तरेकर्मणिनिर्विघ्नमस्तु || उत्तरोत्तरमहरहरभिवृद्धिरस्तु || उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यंतां || तिथिकरणमुहूर्तनक्षत्र ग्रहलग्नसंपदस्तु तिथिकरणमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयंताम् | तिथिकरणेसमुहूर्ते सनक्षत्रे सग्रहेसलग्ने सदैवते प्रीयेतां || दुर्गापांचाल्यौ प्रीयेताम् || अग्निपुरोगाविश्वेदेवाः प्रीयन्ताम् || इन्द्रपुरोगामरुद्गणाः प्रीयंताम् || वशिष्ठपुरोगा- arundhatīpurogā ekapatnyaḥ prīyatām || viṣṇupurogāḥ sarvedevāḥ prīyaṃtām | brahmapurogāḥ sarvevedāḥ prīyaṃtām || āditya purogāḥ sarvegrahāḥ prīyaṃtāṃ || brahma ca brāhmaṇāścaprīyaṃtām || aṃvikāsarasvatyauprīyetām || śraddhāmedheprīyetām | bhagavatīkātyāyanīprīyatām | bhagavatīmāheśvarīprīyatām || bhagavatī- भगवतीसिद्धिकरीप्रीयताम् || भगवंतौ विघ्नविनायकौ प्रीयेताम् || सर्वाःकुलदेवताःप्रीयंताम् || सर्वाःग्रामदेवताः प्रीयंताम् || सरा इष्टदेवताः प्रीयंताम् || भूमौ || हताश्चब्रह्मद्विपः || हताश्च परिपंथिनः || हताश्चविघ्नकर्तारः || शत्रवः पराभवंयान्तु || शाम्यंतुघोराणि || शाम्यंतुपापानि || शाम्यंत्वीतयः || पात्रे || शुभानिवर्धतां || शिवा आपः संतु || शिवा-ऋतवः सन्तु || शिवा अग्नयः संतु || शिवा आहुतयः संतु || शिवा ओषधयः संतु || शिवावनस्पतयः संतु || शिवा अतिथयः संतु || अहोरात्रेशिवेस्याताम् | यजुः शाख्नांमंत्रः || ॐ निकामेनिकामेनः पर्जन्योवर्पतु फलवत्योनऽ-ओषधयः पच्यंतां योगक्षेमोनः कल्पताम् || प्. २१)
20 SK पूर्णपात्रे जलं क्षिपेत् || शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतु सोमसहिता आदित्यपुरोगाः सर्वेग्रहाः प्रीयंताम् || भगवान्नारायणःप्रीयताम् || भगवान्स्वामी महासेनः प्रीयताम् || पुरोनुवाक्ययायत्पुण्यंतदस्तु || याज्ययायत्पुण्यं तदस्तु || वष्टकारेणयत्पुण्यंतदस्तु || प्रातःसूर्योदयेयत्पुण्यंतदस्तु || एतत्कल्याणयुक्तं पुण्यमस्तु || पुण्याहकालान्वाचयिष्ये || वाच्यताम् || ब्राह्मंपुण्यमहर्यच्चसृष्ट्युत्पादनकारकम् || वेदवृक्षोद्भवं नित्यंतत्पुण्याहंव्रुवंतुनः || भोब्राह्मणाः ममसकुटुम्बस्य सपरिवारस्यगृहेपुण्याहंभवंतोब्रुवन्तु || ॐ पुण्याहम् ३ || यजुः || ॐ पुनंतुमादेवजनाः पुनंतुमनसाधियः || पुनंतुविश्वाभूतानिजातवेदः पुनीहिमा || पृथिव्यामुद्धृतायांतुयत्कल्याणं पुराकृतम् || ऋइषिभिः सिद्धगंधर्वैस्तत्कल्याणंब्रुवंतु नः || भोब्राह्मणाः ममसकुटुम्बस्यसपरिवारस्यगृहेकल्याणंभवंतोब्रुवंतु || ॐ कल्याणम् || ३ || यजुः || ॐ यथेमांवाचंकल्याणी मावदानिजनेभ्यः || ब्रह्मराजन्याभ्या गुं शूद्रायचार्याय च स्वायचारणा यच || प्रियोदेवानांदक्षिणायैदातुरिहभूया समयम्मेकामः समृद्ध्यतामुपमादोनमतु || सागरस्यतुया ऋड्धिर्महालक्ष्म्यादिभिःकृता || संपूर्णासुप्रभावाचतांतामृद्धिंब्रुवंतुनः || भो ब्राह्मणाः ममसकुटुम्बस्यसपरिवारस्यगृहे-ऋद्धिंभवंतोब्रुवंतु || ॐ ऋद्ध्यताम् || ३ || यजुः || ॐ सत्रस्यऽ- svastistuyā'vināśākhyāpuṇyakalyāṇavṛddhidā || vināyakapriyānityaṃtāṃtāṃsvastiṃbruvaṃtunaḥ || bhobrāhmaṇāḥ mama sakuṭumbasya saparivārasyagṛhesvastiṃbhavaṃtobruvaṃtu || 3 || oṃ svasti || 3 || yajuḥ oṃ svastina'-indro vṛddhaśravāḥ svastinaḥ pūṣāvviśvavedāḥ || p. 22)
21 SK स्वस्तिनस्तार्क्ष्योऽ-अरिष्टनेमिः स्वस्तिनोबृहस्पतिर्दधातु || मृकंडसूनोराहुर्यद्ध्रुबलोमशयोस्तथा || आयुपातेनसंयुक्ताजीवेमशरदः शतम् || जीवंतुभवंतः || ३ || यजुः ॐ शतमिन्नुशरदो.आंतिदेवायत्रानश्चक्राजर सन्तनूनाम् || पुत्रासो यत्र पितरोभवंति मानोमध्यारीरिपतायुर्गंतोः || शिवगौरीविवाहेयायाश्रीरामेनृपात्मजे || धनदस्यगृहेयाश्रीरस्माकंसास्तुसद्मनि || भोब्राह्मणाः मम सकुटुम्बस्यसपरिवास्वगृहेश्रीरस्तु-इतिभवंतोब्रुवंतु || ॐ अस्तु श्रीः || ३ || यजुः || ॐ मनसःकाममाकूतिंवाचः सत्यमशीमहि || पशूना गुं रूपमन्नस्य रसोयशः श्रीःश्रयताम्मयिस्वाहा || प्रजापतिर्लोकपालोधाताब्रह्मासदेवराट् || भगवाञ्च्छाश्वतोनित्यंसनोरक्षतुसर्वतः || भगवान्प्रजापतिः प्रीयताम् || यजुः || ॐ प्रजापतेनत्वदेतान्यन्योविश्वारूपाणिपरितावभूव || यत्कामास्ते जुहुमस्तन्नोऽ-अस्त्वयममुष्य पितासावस्यपितावय गुं स्यामपतयो रयीणा गुं स्वाहा || आयुष्मतेस्वस्तिमतेयजमानायसंततम् || कृताः सर्वाशिपः - संतु-ऋत्विग्भिर्वेदपारगैः || देवेन्द्रस्ययथास्वस्तियथास्वस्ति गुरोर्गृहे || एकलिंगेयथास्वस्तितथास्वस्तिसदामम || ॐ आयुष्मतेस्वस्ति || ३ || यजुः || ॐ प्रतिपन्थामपद्महिस्वस्तिगामनेह सम् || येनविश्वाःपरिद्विषोवृणक्ति विन्दतेवसु || यजुः || ॐ विश्वानिदेवसवितर्दुरितानिपरासुव || यद्भद्रंतन्नऽ-आसुव || मंत्रार्थाः सफलाःसन्तुपूर्णाःसन्तुमनोरथाः || शत्रूणांबुद्धिनाशोऽस्तुमित्राणामुदयोऽस्तु नः | ऋग्वेदोऽथयजुर्वेदःसामवेदोह्यथर्वणः || ब्रह्मवक्त्रेस्थितानित्यंनिघ्नंतुतवशात्रवान् || अक्षतान्विप्रहस्तात्तुनित्यंगृह्णन्ति ये नराः || चत्वारितेषांवर्धते आयुः कीर्तिर्यशोबलम् आयुष्कामो यशस्कामो पुत्र पौत्रस्तथैव च || आरोग्यं धनकामश्च सर्वेकामाः भवन्तु मे (ते) || श्रीर्वर्चस्व मायुष्यमारोग्य माविधाच्छोभमानम्महीयते || प्. २३)
22 SK धान्यं धनं पशुं बहुपुत्र लाभं शत सम्वत्सरं दीर्घमायुः || स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजिवृद्धि धनधान्य समृद्धिरस्तु || ऐश्वरमस्तु कुशलोस्तुरिपुक्षयोस्तु पञ्चभूः संस्कार पूर्वकमग्निस्थापन विधिः ||
23 SK ततो यथा परिमिते तुपकेशशर्करादि रहिते कुण्डे स्थण्डिलेवा चतुरस्रांभूमिं त्रिभिर्दर्भैः परि समुह्य || ३ || तानकुशानीशान्यां परित्यज्य || गोमयोदकेन उपलिप्य ३ || स्फेनश्रुवमूलेन वा प्रागग्रं प्रादेशमात्रमुत्तरोत्तर क्रमेण त्रिः उल्लिख्य ३ || उल्लेखनक्रमेणवा नामिकांगुष्ठाभ्यांमृदं उद्धृत्य ३ || जलेन अभ्युक्ष ३ || ततः कांस्य मृणमय पात्रस्थंवाद्वितीय सजातीय पात्रेणपिहितं कुण्डाद्वहिराग्नेयांदिशिनिधाय || ॐ हु.फट्स्वाहेति क्रव्यादांशंनै- agniṃdūtaṃpurodadhehavyavāhamupavruve || devāṁ 2 || āsādayādiha || iti maṃtreṇa sthaṃḍilekuṇḍe vā svābhimukhaṃsthāpayet || tadrakṣārthaṃ kiṃcinniyujya || ānītāgnipātrayorjalākṣatānprakṣepaṇam || athāgni pūjanam || oṃ catvāriśṛṅgātrayo'-asyapādādve śīrṣesapta hastāso'-asya || tridhāvaddhovṛṣa bhororavītima ho devomartyāṃ 2 || āviveśa || ityagnipratiṣṭhāpya || varada nāmāgnayenamaḥ ( śāṃtike) iti vāyavya koṇe vahiḥ gandhākṣatādibhiḥ pūjayet || oṃ rudrateja samudbhūtaṃdvimūrddhānaṃdvināsikam || paṇnetraṃcacatuḥśrotraṃdvipādaṃ sapta hastakam || 1 || yāmyabhāge caturhastaṃsavya bhāgetri hastakam || struvasru caṃ caśakti ca akṣamālāṃca dakṣiṇe || 2 || to maraṃvyajanaṃcaivaghṛta pātraṃ tu vāmake || vibhraṃtaṃ saptabhirhastairdvimukhaṃ saptajihvakam || 3 || dakṣiṇe ca caturhihvaṃ trijihvamuttare mukhaṃ || dvādaśakoṭi mūrtyākhyaṃ dvipaṃcāśatkalāyutam || 4 || svāhāsvadhāvaṣṭa kārairaṅkitaṃmeṣa vāhanam || raktamālyāmbara dharaṃraktapadmāsanasthitam || 5 || raudraṃtuvahnināmānaṃ vahnimāvāhayāmyaham || tvaṃmukhaṃ sarvadevānāṃ saptārcira mitadyute || 6 || āgaccha bhagavannagne yajñesminsannidhaubhava || p. 24)
24 SK सन्तानवृद्धि सहिता हरिभक्तिरस्तु || १ || आनन्द काले स्थिर राज्य लक्ष्मीः शिवप्रसादाद्वहुवाक्य् सिद्धिः || वाचाकृतं शत्रुविनाशनं च दकारशब्दन्तु दरिद्रनाशः || इति दानखण्डोक्त पुण्याह वाचनम् सम्पूर्णम् || अग्निं प्रवलितं वन्दे जात वेदं हुताशनम् || हिरण्यवर्ण मनलं समृद्धं विश्वतोमुखम् || ॐ इमम्मेवरुणश्रुधीहवमद्या च मृदय || त्वामवस्युराचक्रे || ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ वरुणाय नमः || वरुणमावाहयामि स्थापयामि नमः || प्रार्थना ॐ नागपशधरं देवं वरुणं नक्रवाहनम् || शुद्धस्फटिकसंकाशं प्राणरूपं नमाम्यहम् || पाशहस्तं च वरुणमर्णसाṁ प्रतिमीश्वरम् || आवाहयामियज्ञेस्मिन्पूजेयंप्रति गृह्यताम् || अनयापूजया सांगः सप्रिवारः वरुणदेवः प्रीणातु नमम || अथ ईशानकोणे सूर्यादि नवग्रह पूजनं ॐ आकृष्णेनरजसावर्तमानो निवेशयन्नमृतंभर्त्यंच || हिरण्ययेनसवितारथेन देवो यातिभुवनानिपश्यन् || ॐ भूर्भुवः स्वः सूर्यादिनवग्रहाः इहागच्छत इहतिष्ठत सूर्यादिनवग्रहेभ्यो नमः || सूर्यादिनवग्रहानावाहयामि स्थापयामि नमः || प्रार्थना || ॐ ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशीभूमिसुतोबुधश्च || गुरुश्चशुक्रश्शनिराहु - केतवःसर्वेग्रहाः शान्त्कराभवन्तु || ॐ ईश्वरादि अधिदेवताभ्यो नमः || ॐ शिवोगौरीतथास्कन्दो विष्णु ब्रह्मापुरन्दरः || यमःकालश्चित्रगुप्तश्चाधिदेवा इमेस्मृताः || ॐ अग्न्यादि प्रत्यधिदेवताभ्यो नमः || ॐ अग्निरापोमहीविष्णुरिन्द्ररिन्द्राणिका तथा || प्रजापतिर्भुजङ्गश्च ब्रह्माप्रत्यधिदेवताः || प्. २५) ॐ गणेशादिपंचलोकपालेभ्यो नमः || ॐ विनायकस्तथा दुर्गा वायुराकाशमेव च | अश्विनौचैवपंचैतांल्लोकपालान्नमाम्यहम् || ॐ इन्द्रादिदशदिग्पालेभ्यो नमह् || ॐ इन्द्रोवह्निः पितृपतिर्नैर्-ऋतो वरुणो मरुत् || कुबेर ईशो ब्रह्मा च अनन्तश्च दिगीश्वराः || अनयापूजया सांगाः सपरिवाराः सूर्यादयः प्रीणन्तु नमम || अथ प्रधान कलशस्थापाम् अथ भूमिस्पर्शनम्
25 SK ॐ भूरसिभूमिरस्यदितिरसिविश्वधायाविश्वस्यभुवनस्यधर्त्री || पृथिवींयच्छपृथिवीन्दृ गुं हपृथिवींमाहि गुं सीः || अथवा || महीद्यौः पृथिवि चनऽ-इमंयज्ञंमिमिक्षताम् || पिपृतान्नोभरीमभिः || इतिभृमिंस्पृष्ट्वा || अथ मृत्तिकास्य वेदीं जौ अथवा गेहूं मिलाना [यवान्वै वापयेत्तत्र गोधूमैश्चापि संयुतान् || तत्र संस्थापयेत् कुम्भं विधिना मन्त्रपूर्वकम् ||] ॐ धान्यमसिधिनुहिदेवान्प्राणायत्वोदानायत्वाव्यानायत्वा || दीर्घामनुप्रसिति मायुषेधान्देवोवः सविताहिरण्यपाणिः प्रतिगृब्भ्णात्वच्छिद्रेणपार्णिनाचक्षु पेत्वामहीनां पयोसि || अथवा ॐ ओषधयःसंवदन्तेसोमेनसहराज्ञायस्मैकृणोतिब्राह्मणस्तंराजन्प् आरयामसि || इतियवान्गोधूमान्वा प्रक्षिपेत् || तत्रान्तरे कामनाभेदेन कलशे विशेष वस्तु || धर्मकामः क्षिपेद्भस्म धन कामस्तुमौक्तिकम् || श्री कामः कमलं दद्यात्कामार्थी रोचनं तथा || १ || मोक्षकामो न्यसेद्वस्त्रंजयकामोपराजिताम् || उच्चाटनार्थंव्याघ्री च वश्यार्थंशिखिमूलिकाम् || २ || मारणाय मरीचञ्च कैतवं मोहनायच || आकर्षणाय पारन्तीं प्रक्षिपेत्कलशोदरे || ३ || इति कार्यानुसारेणैतानि कलशे क्षिपेत् || अपराजिता बडी खिरैटी प्रसिद्धा || व्याघ्री छोटी कटेरी || शिखिमूलिका मोरपंखी || कैतवं धत्तूरम् || प्. २६) अथ कलशस्थापन ॐ आजिघ्रकलशंमह्यात्वाविशंत्विन्दवः पुनरूर्जानिवर्तस्वसानः || सहस्रंधुक्ष्वोरुधारापयस्वतीपुनर्माविशताद्रयिः || वा || आकलशेषुधावतिपरिपिच्यते || उक्थैर्यज्ञेषुवर्द्धते || इति कलशंसंस्थाप्य || जलप्रक्षेपः | ॐ वरुणस्योत्तंभनमसिवरुणस्यस्कंभसर्जनीस्थोवरुणस्यऽ- tīrthajalenāpūrya oṃ imammegaṃgeyamunesarasvatiśutudristomesacatāparuṣṇyāmarudvṛdhevitas tayārjīkīyeśṛṇuhyāsupomayā || iti tīrthajalenāpūrya || kalaśe gaṃdhaṃ prakṣepaḥ oṃ gaṃdhadvārāṃdurādharṣāṃ nitya - puṣṭāṃkarīṣiṇīṃ || īśvarīṃsarvabhūtānāṃtāmihopahvayeśriyam || iti kalaśe gaṃdhaṃ prakṣepaḥ ||
26 SK अथ सर्वोषधी प्रक्षेपः [कुष्टं मांसी हरिद्रे द्वे मुरा शैलेयचन्दनम् || वचा चंपकमुस्ते च सर्वोषध्यो दशस्मृताः ||] ॐ याऽ-ओषधीः पूर्वायातादेवेभ्यस्त्रियुगंपुरा || मनैनुवभ्रूणामह गुं शतंधामानिसप्तच || इति सर्वोषधी प्रक्षेपः || अथ दूर्वाप्रक्षेपः ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषःपरुषस्परि || एवानो दीर्वेप्रतनुसहस्रेणशतेच || इति दूर्वाप्रक्षेपः || अथ कुशप्रक्षेपः ॐ पवित्रेस्थोवैष्णव्यौसवितुर्वःप्रसवऽ-उपुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः || तस्यतेपवित्रपतेपवित्रपूतस्ययत्कामः पुनेतच्छकेयम् || इति कुप्रक्षेपः || प्. २७) अथ सप्तमृत्तीप्रक्षेपः [गजाश्वरथ वल्मीक सङ्गमाद्ध्रद गोकुलात् || मृदमानीय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा || गोकुलावधि सप्त चत्वरेणसहाष्ठौभवेयुः ||] ॐ स्योनापृथिवीनोभवान्नृक्षरानिवेशनी || यच्छानः शर्मसप्रथाः || इति सप्तमृदप्रक्षेपः || अथ पुङ्गीफलप्रक्षेपः ॐ याः फलिनीर्याऽ-अफलाऽ-अपुष्पायाश्चपुष्पिणीः || बृहस्पतिप्रसूतास्तानोमुञ्चन्त्व गुं हसः || इति पुङ्गीफलप्रक्षेपः || अथ पञ्चरत्नानिप्रक्षेपः [कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् || एतानि पञ्चरत्नानि रत्नशास्त्र विदो दिदुः |] ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत् || दधद्रत्नानिदाशुपे || वा || सहिरत्नानिदाशुपेसुवातिसविताभगःतंभागंचित्रमीमहे || इति पञ्चरत्नानिप्रक्षेपः || दक्षिणाप्रक्षेपः ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽ-आसीत् || सदाधार पृथिवीन्द्या मुतेमां कस्मैदेवाय हविषा व्विधेम || इति दक्षिणा प्रक्षेपः || अथ पञ्चपल्लवानि प्रक्षेपः [ब्राह्मे | अश्वत्थोदुबर प्लक्ष चूत न्यग्रोध पल्लवाः | पञ्च भङ्गा इति ख्याता सर्व कर्मसु शोभनाः || १ || ] ॐ अश्वत्थेवो निषदनं पर्णेवोवसतिष्कृता || गोभाजऽ-इत्किला सथयत्सनवथ पूरुषम् || इति पञ्च पल्लवानि प्रक्षेपः || अथ कौसुम्बसुत्र बंधनम्
27 SK ॐ युवा सुवासाः परिवीतऽ-आगात्सऽ-उश्रेयान् भवति जायमानः || तन्धीरासः कवयऽ-उन्नयन्ति साध्यो मनसा देवयन्तः || इतिकौसुम्बसूत्र बंधनम् || प्. २८) अथ कलशोपरि तन्दुल पूर्णपात्र निधानम् ॐ पूर्णादर्विपरापत सुपूर्णा पुनरापत || वस्ने वविक्रीणा वहाऽ-इष मूर्जगुं शतक्रतो || इति कलशोपरि तन्दुल पूर्णपात्र निधानम् || अथ श्रीपहलनिधानम् ॐ श्रीश्चते लक्ष्मीश्च पत्न्या वहो रात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् || इष्णन्न्षाण मुम्म ऽ-इषाण सर्वलोकम्मऽ- atha varuṇaṃ saṃpūjya oṃ tatvāyāmi brahmaṇā vandamānastadā śāstre yajamāno havirbhiḥ || aheḍamāno varuṇe havoḍhyuruśaguṃ samāna'-āyuḥ pramoṣīḥ || ityanena pādyādibhiḥ varuṇaṃ saṃpūjya | prārthanā oṃ kalaśasya mukhe viṣṇuḥ kaṃṭhe rudraḥ samāśritaḥ | mūle tatrasthito brahmā madhye mātṛgaṇāḥ smṛtāḥ || 1 || kukṣau tu sāgarāssapta saptadvīpā vasundharā | ṛgvedotha yajurvedo sāmavedohyatharvaṇaḥ || 2 || aṃgaiścasahitāḥ sarve kalaśantu samāśritāḥ | atra gāyatrī sāvitrī śāntiḥ puṣṭi karī sadā || 3 || āyāntu yajamānasya (mama gṛhe ca) durita kṣayakārakāḥ | sarve samudrāḥ saritastīrthāni jaladā nadāḥ || 4 || āyāntu yajamānasya [devapūrārthaṃ ityapipāṭhaḥ] (mama gṛhe ca) durita kṣayakārakāḥ || deva dānava saṃvāde mathyamāne mahodadhau || 5 || utpannosi tadā kuṃbhaḥ vidhṛto viṣṇunā svayam | tvattoye sarva tīrthāni devāḥ sarve tvayisthitāḥ || 6 || tvayitiṣṭhanitibhūtānitvayiprāṇāḥ pratiṣṭhitāḥ | śivaḥsvayaṃtvamevāsi viṣṇustvaṃca prajñāpatiḥ || 7 || p. 29) ādityāvasavorudrāviśvedevāḥ sa paitṛkāḥ | tvayi tiṣṭhanti sarve'pi yataḥ kāma phala pradāḥ || 8 || tvatprasādādimaṃ yajñaṃ kartumīhe jalodbhavaḥ | sānnidhyaṃ kurume deva ! prasannobhava sarvadā || 9 || oṃ pāśapāṇe namastubhyaṃ padminī jīvanāyaka ! | pradhāna pūjanaṃ yāvattavattvaṃ sannidhau bhava || iti kalaśapūjanam || atha tāntrika rakṣā
28 SK ॐ सूर्यः सोमोयमः काल सन्ध्ये भूतान्यहक्षपाः || पवनो दिग्पतिर्भूमिराकाशंखचरामरा || ब्राह्म्यं शासन मास्थाय कल्पध्वमिह संनिधिम् || इत्यनेन भूमिं स्पृष्ट्वा दिग्बंधनं कुर्यात् || सामान्यार्घ कलश स्थापनम् [पंचगव्य प्रमाण - वसिष्ठ संहितायाम् || गोमुत्रं गोययं क्षीरं दधि सर्पि कुशोदकं || पंचगव्यमिदं प्रोक्तम्महापातक नाशनम् | १ || गोशकृद्द्विगुणं मूत्रं दुग्धं दद्याच्चतुर्गुणम् || घृतं चाष्टगुणं चैव पंचगव्येतथादधि || पंचगव्य संमेलन प्रकारः ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् || गोमूत्रं || ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् | ईश्वरीं सर्वभूतानां तामिहोपह्वयेश्रियम् || गोवर || ॐ आप्यायस्वसमेतुतेव्विश्वतः सोमवृष्ण्यम् || भवाव्वाजस्य संगथे || दुध || ॐ दधिक्राव्णोऽ-अकारिषञ्जिष्णो रश्वरय व्वाजिनः || सुरभिनोमुखाकरत्प्रणऽ-आयूषितारिषत् || दही || ॐ तेजोसिशुक्रमस्यमृतमसिधामनामासि || प्रियं देवानामना धृष्टंदेवयजनमसि || घी || ॐ देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् ||] ॐ रṁ इति जलधारया अग्नि प्राकारं विचिन्त्य पूजा मारभेत् || तत्र साधारण कलशं संस्थाप्य वरुणं सम्पूज्य पीठ पूजां कुर्यात् || प्. ३०)
29 SK स्ववामभागे बिन्दु त्रिकोणवृत्तं चतुरस्रमण्डलं निर्माय || ॐ ह्रीं आधार शक्तये नमः || इति सम्पूज्य तत्राधारं संस्थाप्य || षडङ्ग पूजनं कुर्यात् || ॐ क्रः अस्त्राय फट् इत्येनेन पात्रं प्रक्षाल्य || ॐ क्रां हृदयायनम इति जेलनापूर्य || मṁ दशकलात्मने वह्नि मण्डलायनमः || ॐ अṁ द्वादश कलात्मने सूर्य मण्डलायनमः || मूलेन तीर्थोदकैः पूरयेत् || पुनः गंधादिभिः सम्पूज्य || ॐ सं - षोडश कलात्मने सोममण्डलाय नमः || ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति || नर्मदे सिन्धु कावेरि जले स्मिन्संनिधिं कुरु || इत्यंकुशमुद्रया [ऐं ह्रीं क्लीं चामुण्डायै विच्चे वा दुर्गे दुर्गे रक्षिणि स्वाहा || १ ऋज्वीं मध्यमिकां कृत्वा तर्जनीं मध्य पर्वणि | संयोज्याकुंचयेत्किंचिन्मुद्रैषांकुश संज्ञिता ||] तीर्थान्या बाह्य || मूलमष्टवारं जप्त्वा धेनु [योनिमुद्रा || वामांगुलीनां मध्येषु दक्षिणांगुलि संस्थिता || नियोज्य तर्जनी दक्षा वाम मध्यमया तथा || दक्ष मध्यमया वामा तर्जनींच नियोजयेत् || दक्षयानामयावामां कनिष्ठांचनियोजयेत् || पिहिताधोमुखी चैषा धेनु मुद्रा प्रकीर्तिता ||] मत्स्य [वामोपरिष्ठात्संस्थाप्य दक्षं हस्त प्रसारयेत् || अंगुष्ठौ युतयोः पार्श्वेमत्स्य मुद्रेयमीरिता ||] कुम्भ [हस्तद्वयेन सावकाशिक मुष्टिकरणे कुम्भ मुद्रा ||] मुद्राः प्रदर्श्य तज्जलेन आत्मानं पूजा सामग्रीञ्च सम्प्रोक्ष्य || इतिसामान्यार्घकलशस्थापनम् || प्. ३१) ॐ हिरण्य वर्णां हरिणीं सुवर्णं रजतस्रजाम् | चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || १ || शिरसि || ॐ ताम्म आवह जातवेदो लक्ष्मी मनप गामनीम् | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् || २ || नेत्रयोः || ॐ अश्वपूर्णां (र्वां) रथमध्यां हस्तिनाद प्रबोधिनीम् | श्रियंदेवी मुपह्वये श्रीर्मादेवीजुषताम् || ३ || कर्णयोः || ॐ कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तांतर्पयन्तीम् | पद्मे स्थितां पद्म अर्णां तामिहो पह्वये श्रियम् || ४ || घ्राणयोः ||
30 SK ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टामुदारां | तां पद्मनी (ने) मीं शरणमहं प्रपद्ये अऽलक्ष्मीर्मेनश्यतां त्वां वृणे || ५ || मुखे || ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तववृक्षो थबिल्वः | तस्यफलानि तपसानुदन्तु मायान्तरायाश्चवाह्या अलक्ष्मीः || ६ || ग्रीवायां || ॐ उपैतु मां देव सखः कीर्तिश्चमणिना सह | प्रादुर्भूतो स्मि राष्ट्रेस्मिन् कीर्तिमृद्धं ददातु मे || ७ || करयोः || ॐ क्षुत्पिपासामलांज्येष्ठामलक्ष्मीं नाशयाम्यहम् | अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् || ८ || हृदि || ॐ गन्धद्वारांदुराधर्षां नित्यपुष्टां करीषिणीम् | ईश्वरींसर्वभूतानां तामिहोपह्वयेश्रियम् || ९ || नाभौ || ॐ मनसः काममाकूतिंवाचःसत्यमशीमहि | पशूनां रूपमन्नस्यमयि श्रीः श्रयतांयशः || १० || लिङ्गे || ॐ कर्दमेनप्रजाभूता मयि संभव कर्दम | श्रियंवासय मे कुलेमातरं पद्ममालिनीम् || ११ || गुदे || ॐ आपः स्रजन्तुस्निग्धानि चिक्लीत वस मे गृहे | निचदेवीं मातरं श्रियंवासय मे कुले || १२ || ऊर्वोः || ॐ आर्द्रां पुष्करिणी पुष्टिं पिंगलांपद्ममालिनाम् | चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || १३ || जानुनोः || ॐ अर्द्रायः करिणीं यष्टिं सुवर्णां हेममालिनीम् | सूर्यांहिरण्मयी लक्ष्मीं जातवेदो म आवह || १४ || जंघयोः || प्. ३२) ॐ ताम्म आवह जातवेदो लक्ष्मीमनपगामिनीम् | यस्यां हिरण्यं प्रभूतिं गावोदास्योश्वान्विंदेयं पुरुषानहम् || १५ || चरणयोः || ॐ यः शुचिःप्रयतोभूत्वाजुहुयादाज्यमन्वहम् | सूक्तं पंचदशर्चं च श्रीकामः सततंजपेत् || १६ || सर्वाङ्गे || ततः कलशोपरि स्वर्णमयीं श्री दुर्गा प्रतिमां अग्न्युत्तारणपूर्वकं संनिधाय पट्टवस्त्रैराच्छाद्य पुरुष सूक्तेन श्रीसूक्तेनपुराणोक्त मार्गेण वा षोडशोपचारैः यथोपचारैर्वा संपूजयेत् || तद्यथा || अथाग्न्युत्तारण विधिः ||
31 SK तत्र तावत्साचार्यो यजमानः || देशकालौसंकीर्त्य || अस्याः स्वर्णमयी श्री दुर्गा प्रतिमायाः घटनादि दोषपरिहारार्थं अग्न्युत्तारण पूर्वकं प्राणप्रतिष्ठां करिष्ये || मूर्तिं घृतेनाभ्यज्य || तदुपरि दुग्ध मिश्रित जलधारां कुर्यात् पातयेद्वा || अग्न्युत्तारण मन्त्राः || ॐ समुद्रस्यत्वा व्वकयाग्ने परिव्ययामसि | पावकोऽ-अस्मभ्यगुं शिवोभव || १ || ॐ हिमस्य त्वा जरायुणाग्ने परिव्ययामसि | पावकोऽ-अस्मभ्यगुं शिवोभव || २ || ॐ उपज्मन्नुपवेतसे वतरनदीष्वा | अग्ने पित्तमषामसि मण्डुकिताभिरागहि सेमन्नोयज्ञं पावकवर्ण गुं शिवंकृधि || ३ || ॐ अपामिदं न्ययनगुं समुद्रस्य निवेशनम् | अन्याṁस्तेऽ-अस्मत्तपन्तु हेतयः पावको अस्मभ्यगुं शिवोभव || ४ || ॐ अग्ने पावक रोचिषामन्द्रयादेवजिह्वया || आदेवान्वक्षियक्षि च || ५ || ॐ सनः पावकदी दिवोग्ने देवाṁ २ ऽ-इहावह || उपयज्ञ गुं हविश्च नः || ६ || ॐ पावक या यश्चितयन्त्या कृपाक्षामन्रुरुच ऽ उपसोनु भानुना | तूर्वन्नया मन्नेतशस्य नूरणऽ-आयोघृणेनततृषाणोऽ अजरः || ७ || प्. ३३) ॐ नमस्ते हरसेशोचिषे नमस्तेऽ-अस्त्वर्चिषे | अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यगुं शिवोभव || ८ || ॐ नृषदेव्वेडप्सुषदेव्वेड्वर्हिपदेव्वेड्वनसदेव्वेड् स्वर्विदेवेट् || ९ || ॐ ये देवादेवानांयज्ञियायज्ञियानागुं संवत्सरीण मुपभागमासते | अह्रुतादोहविषोयज्ञेऽ-अस्मिन्त्स्वयं पिवन्तुमधुनोघृतस्य || १० || ॐ येदेवा देवेष्वधि देवत्वमा यन्ये ब्रह्मणः पुरऽ-एतारो.आस्य | येभ्योनऽ-ऋते पवतेधाम किञ्चननतेदिवोन पृथिव्याऽ- oṃ prāṇadā'-apānadā vyānadā vvarcodā varivodāḥ | anyāṃste'-asmattapantuhetayaḥ pāvako.āsmabhyaguṃ śivobhava || 12 || tataḥ prāṇapratiṣṭhāṃ kuryāt ||
32 SK ॐ आं ह्रीं क्र्ॐ यं रं लं वं शं षं सं हं लं क्षं हं सः सोहम् अस्याः श्रीदुर्गा प्रतिमायाः प्राणा इह प्राणाः || ॐ आं ह्रीं क्र्ॐ यं रं लं वं शं षं सं हं लं क्षं हं सः सोहं अस्याः श्री दुर्गा र्पतिमायाः जीव इहस्थितः || ॐ आं ह्रीं क्र्ॐ यं रं लं वं शं षं सं हं लं क्षं हं सः सोहं अस्याः श्री दुर्गा प्रतिमायाः सर्वेन्द्रियाणि वाङ् मनस्त्वक्चक्षुः श्रोत्र जिह्वाघ्राणपाणि पाद पायूपस्थानि इहैवागत्य सुखंचिरंतिष्ठन्तुस्वाहा || ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञंमिमन्तनोत्वरिष्टं यज्ञगुं समिमन्दधातु || विश्वे देवासऽ-इहमादयन्ताम्ॐ ३ प्रतिष्ठ || ॐ एषवै प्रतिष्ठा नामयज्ञो यत्रैतेन यज्ञे न यजन्ते सर्वमेव प्रतिष्ठितम्भवति || इति प्रतिष्ठाय || अथ नेत्रोन्मीलनम् || ॐ वृत्रस्यासि कनीन कश्चक्षुर्दाऽ-असिचक्षुर्मेदेहि || गंधादि पंचोपचारान्दत्वा संस्कारसिद्धये षोडषप्रणवावृत्तिं कुर्यात् || अनेन अस्याः श्री दुर्गा प्रतिमायाः गर्भाधानादि षोडश संस्कारान्संपादयामि || इति वेदेत् || ततः श्री दुर्गा प्रतिमां प्रधान कलशोपरिधृत्वा षोडशोपचारैः पञ्चोपचारैर्वा पूजयेत् || प्. ३४) ॐ जटाजूट समायुक्तामर्द्धेन्दु कृतलक्षणाम् | लोचनत्रयसंयुक्ताम्पद्मेन्दु सदृशाननाम् || १ || अतसीपुष्प वर्णाभां सुप्रतिष्ठां सुलोचनाम् | नवयौवन संपन्नां सर्वाभरण भूषिताम् || २ || सुचारुवदनां तद्वत्पीनोन्नतपयोधराम् | त्रिभंगस्थानसंस्थान महिषासुरमर्दिनीम् || ३ || त्रिशूलं दक्षिणेदद्यात्खड्गं चक्रं क्रमादधः | तीक्ष्णवाणं तथाशक्तिं वामतोपि निबोधत || ४ || खेटकं पूर्णचापं च पाशमंकुशमूर्द्ध्वजम् | घंटां वा परशूं वापि वामतः सन्निवेदयेत् || ५ || अधस्तान्महिषं तद्वद्द्विशिरस्कं प्रदर्शयेत् | शिरश्छेदोद्भवंतद्वद्दानवं खड्गपाणिनम् || ६ || हृदि शूलेननिर्भिन्नं निर्दयन्त्र विभूषितम् | रक्तरक्तीकृताङ्गञ्च रक्तविस्फारिते क्षणम् || ७ ||
33 SK वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् | सपाश वामहस्तेन धृतकेशं च दुर्गया || ८ || वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् | देव्यास्तु दक्षिणं पादंसमंसिंहोपरि स्थितम् || ९ || किंचिदूर्ध्वं तथा वाममंगुष्ठो महिषोपरि | स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् || १० || उग्रचण्डाप्रचण्डा च चण्डोग्रा चण्ड नायिका | चण्डा चण्डवती चैव चंडरूपातिचण्डिका || ११ || आभिः शक्तिभिरष्टाभिः सततंपरिवेष्टितम् | चैन्तयेत्सततं देवीं धर्म कर्मार्थ मोक्षदाम् || १२ || प्. ३५ इस् ब्लन्क् प्. ३६) इति देवीं ध्यात्वा मूलाधारत्कुण्डलिनीमुत्थाप्य || तयासह शिवेन संयोज्य वायुबीजेन नासापुटेअ देवीं कुसुमाञ्जलावाईय - एहि दुर्गे! महाभे! रक्षार्थं मम सर्वदा | आवाहयाम्यहं देवि ! सर्व कामार्थ - सिद्धये || इत्यनेन पुष्पाञ्जलिं कलशे यन्त्रे वा निधाय || आत्मानं देवी रूपं विभाव्य पूजयेत् || तत्रमंत्राः || अथ वेदोक्त दुर्गापूजन विधिः अथा आवाहनम् [टि० तत्रैववाचस्पतौ || कुर्यादावाहनंमूर्तौमृण्मय्यां सर्वदैवहि || प्रतिमायां जले वह्नौ नावाहनविसर्जनम् ||] ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजां | चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह || ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् | सभूमिगुं सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम् || १ || ॐ आगच्छेहमहादेवि ! || सर्वसम्पत्प्रदायिनी ! || यावद्व्रतं समाप्येत तावत्त्वं सन्निधो भव || इत्यावाहनम् || ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् | यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् || १ || ॐ पुरुष एवेदगुं सर्वं यद्भूतं यच्च भाव्यम् | उतामृतत्वस्येशानो यदन्नेनातिरोहति || २ || अनेकरत्नसंयुक्तं नानामणिगणान्वितम् | कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् || इत्यासनम् || पाद्यम् || ॐ अश्वपूर्णां (र्वां) रथमध्यां हस्तिनादप्रमोदिनीम् | प्. ३७) श्रियंदेवीमुपह्वये श्रीर्मादेवीजुषताम् ||
34 SK ॐ एतावानस्य महिमातोज्यायांश्चपूरुषः | पादोस्यव्विश्वा भूतानि त्रिपादस्यामृतन्दिवि || ३ || गङ्गादि सर्व तीर्थेभ्यो मया प्रार्थनयाहृतम् | तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् || इतिपाद्यम् || अर्घ्यम् ॐ कांसोस्मितां हिरण्यप्राकारामाद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् || पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् || ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः | ततो विष्वंव्यक्रामत्साशनानशने अभि || निधीनां सर्व रत्नानां त्वमनर्घ्यगुणाह्यसि | सिंहोपरिस्थिते देवि ! गृहाणार्घ्यनमोस्तुते || ४ || इत्यर्घ्यम् || अथ मधुपर्कम् [पाराशरः | सर्पिरेक गुणं प्रोक्तं शोधितं द्विगुणं मधु | मधुपर्कं विधौ प्रोक्तं सर्पिषा च समं दधि ||] ॐ मधुव्वाता ऋतायते मधुक्षरन्तिसिन्धवः | माध्वीर्नः सन्त्वोषधीः || दधिमधुघृतसमायुक्तं पात्रयुग्मसमन्वितम् | मधुपर्कं गृहाण त्वं शुभदा भव शोभने || ५ || अथाचमनम् ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियंलोकेदेव जुष्टामुदारां || तां पद्मनीमिंशरणमहंप्रपद्ये अलक्ष्मीर्मेनश्यतां त्वां वृणे || ॐ ततो विराडजायतव्विराजोऽ-अधिपूरुषः | सजातोऽ-अत्यरिच्यतपश्चाद्भूमिमथोपुरः || कर्पूरेणसुगंधेन सुरभिस्वादुशीतलम् | तोयमाचमनीयार्थं देवि ! त्वं प्रतिगृह्यताम् || ६ || इत्याचमनम् || प्. ३८) अथ स्नानम् ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथबिल्वः | तस्यफलानितपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः || ॐ तस्माद्यज्ञात्सर्वहुतः | संभृतंपृषदाज्यम् || पशूṁ स्ताṁश्चक्रेवायव्या नारण्याग्राम्याश्रये || मन्दाकिन्याः समानीतैर्हेमांभोरुहवासितः || स्नानं कुरुष्वदेवेशि ! सलिलैश्च सुगन्धिभिः || इतिस्नानम् || ७ || पुनराचमनीयम् उच्छिष्टोष्यशुचिर्वापि यस्यस्मरणमात्रतः | शुद्धिमाप्नोतितस्मै ते पुनराचमनीयकम् || स्नानवस्त्रोपवीतान्तेऽपितत्स्मृतम् || ८ || सुगन्धित तैल व इत्र स्नानम्
35 SK ॐ अगुं शुनाते ऽ-अगुंशुः पृच्यतांपरुपापरुः | गन्धस्तेसोममवतु मदायरसोऽ-अच्युतः || ॐ स्नेहंगृहाण स्नेहेन लोकेश्वरि ! महाअघे ! || सर्वलोकेषु शुद्धात्मन ! ददामि स्नेहमुत्तमम् || ९ || पञ्चामृत स्नानम् ॐ पयः पृथिव्यांपयऽ-ओषधीषु पयोदिव्यन्तरिक्षेपयोधः | पयस्वतीः प्रदिशः सन्तुमह्यम् || कामधेनुसमुद्भूतं सर्वेषांजीवनं परम् || पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् || १ || दधिस्नानम् ॐ दधिक्राव्णो-अकारिषं जिष्णोरश्वस्यव्वाजिनः || सुरभिनो मुखाकरत्प्रण आयू गुं पितारिपत् || पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् || दध्यानीतं मया देवि ! स्नानार्थं प्रतिगृह्यताम् || ११ || प्. ३९) घृतस्नानम् ॐ घृतं घृत पावानः पिवतव्वसां वसापावानः पिवतान्तरिक्षस्य हविरसि स्वाहा || दिशः प्रदिशऽ आदिशोव्विदिश उद्दिशोदिग्भ्यः स्वाहा | नवनीतसमुत्पन्नं सर्वसंतोषकारकम् || घृतं गुभ्यं प्रदास्यामि स्नानार्थं र्पतिगृह्यताम् || १२ || शहदस्नानम् ॐ मधुनक्तमुतोषसो मधुमत्पार्थिव गुं रजः || मधु द्यौरस्तुनः पिता || तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु || तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् || १३ || शर्करा स्नानम् ॐ अपा गुं रसमुद्वयस गुं सूर्ये सन्तगुं समाहितम् | अपा गुं रसस्य योरसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोसीन्द्रायत्वा जुष्टं गृह्वाम्येपते योनिरिन्द्रायित्वा जुष्टतमम् || इक्षुसार समुद्भूता शर्करा पुष्टिकारिका || मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् || १४ || पंचामृत स्नानम् [स्कांदे - क्षीद्दशगुणं दध्ना घृतेनैवदशोत्तरम् | मधुनातद्दशगुणंसितयातुततोधिकम् ||] ॐ पंचनद्यः सरस्वतीमपियन्ति सस्रोतसः || सरस्वती तु पंचधा सो देशे भवत्सरित् || पयोदधि घृतं चैव मधु च शर्करान्वितम् || पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् || १५ || चन्दनस्नानम्
36 SK ॐ गन्ध द्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् | ईश्वरीं सर्वभूतानां तामिहोपह्व येश्रियम् || मलयाचलंसंभूतं चन्दनागरु संभवम् || चन्दनं देवि ! देवेशि ! स्नानार्थं प्रतिगृह्यताम् || १६ || प्. ४०) सुगन्धित उबटनस्नानम् ॐ अगुं शुनातेऽ-अगुं शुः पृच्यताम्परुषापरुः || गन्धस्ते सोम मवतु मदाय रसोऽ-अच्युतः || नानासुगन्धि द्रव्यं च चन्दनं रजनीयुतम् | उद्वर्तनं मया दत्तं स्नानार्थं प्रतिगृह्यताम् || १७ || अथ शुद्धजलस्नानम् ॐ शुद्धवालः सर्व शुद्ध वालो मणिवालस्तऽ आश्विनाः श्येतः श्येताक्षोरुणस्ते रुद्राय पशुपतये कर्णायामाऽ-अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः || पुनराचमनीयं समर्पयामि नमः || द्वौ वस्त्रम् ॐ उपैतुमां देवसखः कीर्तिश्च मणिना सह | प्रादुर्भूतो सुराष्ट्रेस्मिन् कीर्तिं वृद्धिं ददातु मे || तस्माद्यज्ञात्सर्वहुतऽ-ऋचः सामानि जज्ञिरे | छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || पट्टकूलयुगं देवे ! कंचुकेन समन्वितम् | परिधेहि कृपां कृत्वा दुर्गे ! दुर्गतिनाशिनि ! || इति युग्मवस्त्रम् || पुनराचमनीयम् || अथोपवीतम् || ॐ क्षुत्पिपासामलां ज्येष्टामलक्ष्मीं नाशयाम्यहं | अभूतिमसमृद्धिं च सर्वान्निर्णुद मे गृहात् || ॐ तस्मादश्वाऽ-अजायन्त येकेचो भयादतः || गावोहजज्ञिरे तस्मात्तस्माज्जाता अजावयः || प्. ४१) स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा | उपवीतं मया दत्तं गृहाण परमेश्वरि || अथ चन्दन स्नानम् ॐ गन्ध द्वारां दुराधर्षांनित्यपुष्टां करीषिणीम् | ईश्वरीं सर्व भूतानां तामिहोपह्वये श्रियम् || ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः | तेन देवा अयजन्त साध्वाऽ-ऋषयश्च ये || श्रीखण्डचन्दनंदिव्यं गन्धाढ्यं सुमनोहरम् | विलेपनं च देवेशि ! चन्दनं प्रतिगृह्यताम् || इति चन्दनम् || सौभाग्य सूत्र दानम् || ॐ सौभाग्यसूत्रं वरदे ! सुवर्ण-मणि-संयुतम् | कंठे वध्नामि देवेशि ! सौभाग्यं देहि से सदा || कंठ सूत्रं समर्पयामि नमः || अक्षतम्
37 SK ॐ अक्षन्नमीमदन्तह्यवप्रियाऽ-अधूपत | अस्तोपतस्वभानवो वप्रानविष्ठयामतीयोजान्विन्द्रते हरी || अक्षतान्निर्मलान् शुद्धान् मुक्तामणिसमन्वितान् || गृहाणेमान्महादेवि ! देहि मे निर्मलां धियम् || इत्यक्षतान् || हरिद्राचूर्णम् हरिद्रारञ्जिते देवि ! सुखसौभाग्यदायिनी | तस्मात्त्वांपूजयाम्यत्र सुखं-शान्तिं प्रयच्छ मे || हरिद्राचूर्णं समर्पयामि नमः || गुलालम् कुङ्कुमं कान्तिदं दिव्यं कामिनीकामसंभवम् | कुङ्कुमेनार्चिते देवि ! प्रसीद परमेश्वरि || प्. ४२) इति कुङ्कुमं समर्पयामि नमः || सिन्दुरम् सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् || अर्पितं ते मया देवि ! प्रसीद परमेश्वरि ! || सिन्दूरं समर्पयामि नमः || कज्जलम् चक्षुर्भ्यां कज्जलंरम्यं सुभगे ! शान्तिकारकम् | करुपूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ! || इति नेत्रे कज्जलं समर्पयामि नमः || दूर्वाङ्कुरम् ॐ दार्द्रां पुष्करिणीं पुष्टिं पिंगलांपद्ममालिनीम् | चन्द्रांहिरण्मयीं लक्ष्मीं जातवेदोम-आवह || ॐ काण्डात्काण्डत्प्ररोहन्तीपरुषः परुषस्परि | एवानोदूर्वे प्रतनु सहस्रेण शतेन च || दूर्वादलेश्यामलेत्वं महीरूपेहरिप्रिये ! | अतोदूर्वाभिर्भवतीं पूजयामि सदा शिवे ! || इति दूर्वाङ्कुरान् समर्पयामि नमः || बिल्वपत्र अर्पणम् ॐ दार्द्रां यः करिणीयष्टिं सुवर्णां हेममालिनीम् | सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह || ॐ नमो बिल्मने च कवचिने च नमो वर्मिणेच वरूथिनेच नमः | श्रुतायच श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमः || अमृतोद्भवः श्री वृक्षोमहादेवप्रियः सदा || बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ! || इति बिल्वपत्राणि समर्पयामि नमः || पल्ल अर्पणम् ॐ तांम आवह जातवेदो लक्ष्मीमनतगामिनीम् | यस्यां हिरण्यं प्रभूतिं गावोदास्योश्वान् विन्देयं पुरुषानहम् || ॐ अश्वत्थेवो निषदनं पर्णेवोव्वसतिष्कृता || प्. ४३) गोभाज-इत्किलासथयत्सनवथ पूरुषम् || गृह द्वारे चोग्रमपिदुष्टासुर निवर्हिणि || पूजां करोमि चार्वंगि ! पल्लवैर्नंदनोद्भवैः ||
38 SK इति पल्लवान्समर्पयामि नमः || फलमाला अर्पणम् ॐ महादेवी च विद्महे विष्णु पत्नी च धीमहि || तन्नो देवीः प्रचोदयात् || ॐ याः फलनीर्याऽ -अफलाऽ अपुष्पायाश्चपुष्पिणीः || बृहस्पति प्रसूतास्तानोमुञ्चन्त्वगुं हसः || शरत्काले समुद्भूतां निशुम्भासुर मर्दिनी ! | फलमालां वरां देवि ! गृहाण सुरपूजिते ! || इति फलमालां समर्पयामि नमः || रत्नमाला धारणम् [मुक्ता मानिक्य वैडूर्य गोमेदान्वज्रविद्रुमौ | पुष्परागं मरकतं गरुडोद्गार (नीलम्) मेवच || एभिस्तुग्रथिता स्वर्णे रत्नमालेति कथ्यते || -शारदायां ||] ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत् || दधद्रत्नानिदाशुपे || ॐ कर्दमेनप्रजाभूता मयि सम्भ्रम कर्दम || श्रियं वासय मे गृहे (कुले) मातरं पद्म मालिनीम् || मुक्ताफलयुतां मालां रत्नवैडूर्य सुप्रभाम् || माणिक्यस्वर्ण ग्रथितां गृह्यतां वरदे ! नमः || इति रत्नमालां समर्पयामि नमः || पुष्पमालां ॐ आपःस्रजन्तुस्निग्धानिचिक्लीत वसमेगृहे | (नी)निचदेवीं मातरं श्रियं वासय मे कुले || ॐ श्रीश्चतेलक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वेनक्षत्राणिरूपमश्विनौव्यात्तम् | इष्णन्निषाणामुम्म-इषाण सर्वलोकम्मऽषाण | पद्म शंखज पुष्पादि शतपत्रैर्विचित्रताम् || पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि ! || प्. ४४) इति पुष्पमालां समर्पयामि नमः || पुष्पम् ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि | पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः || ॐ यत्पुरुषंव्यदधुः कतिधाव्य कल्पयन् | मुखङ्किमस्यासीत्किबाहुकिमूरूपादा - उच्येते || पुष्पैर्नानाविधैर्दिव्यैः कुमुदैरथचम्पकैः | पूजा ते क्रियते देवि पुष्पाणि प्रतिगृह्यताम् || मंदारपारिजातादि पाटली केतकानचि || जाती चंपक पुष्पाणि गृहाणेमानि शोभने ! || इति पुष्पाणि समर्पयामि नमः || दुर्गा प्रदेय पुष्पाणि कुन्दमन्दार पुन्नाग पाटली नाग केशरम् | आरग्वधं कर्णिकारं जयन्ती नवमल्लिका || १ ||
39 SK सौगन्धिकं सकंकोलं पुन्नागाशोकमल्लिका | अन्यान्यपि सुगन्धीनि पुष्पपत्राणिदेशिकैः || २ || इति शक्ति पल्लवे || अलङ्कारम् || हार-कंकण-केयूर-मेखला कुण्डलादिभिः | रत्नाढ्य कुण्डलोपेतं भूषणं प्रतिगृह्यताम् || अलङ्काराभावे अक्षतान् समर्पयामि नमः || सुगन्धित इत्रम् ॐ अहिरिवभोगैः पर्येतिवाहुṁ ज्ययाहेतिंपरिवाधमानः | हस्तघ्नोविश्वाव्वयुनानिद्वान्पुमान्पुमा गुंसम्परिपातुविश्वतः || चन्दनागरु कर्पूर कुङ्कुमं रोचनं तथा | कस्तूर्यादि सुगन्धांश्च सर्वांगेषु विलेपयेत् || इति परिमल (इत्र) द्रव्यं समर्पयामि नमः || अङ्ग पूजां ॐ दुर्गायै नमः पादौ पूजयामि नमः || ॐ महाकाल्यै नमः गुल्फौ पूजयामि नमः || प्. ४५) ॐ मंगलायै नमः जानुद्वयं पूजयामि नमः || कात्यायन्यै नमः ऊरूद्वयं पूजयामि नमः || ॐ भद्रकाल्यै नमः कटिं पूजयामि नमः || ॐ कमलवासिन्यै नमः नाभिं पूजयामि नमः || ॐ शिवायै नमः उदरं पूजयामि नमः || ॐ क्षमायैनमः हृदयं पूजयामि नमः || ॐ कौमार्यै नमः स्तनौ पूजयामि नमः || ॐ उमायैनमः हस्तौ पूजयामि नमः || ॐ महागौर्यै नमः दक्षिणबाहुं पूजयामि नमः || ॐ वैष्णव्यै नमः वामबाहुं पूजयामिनमः || ॐ रमायै नमः स्कन्धौपूजयामि नमः || ॐ स्कन्दमात्रे नमः कंठं पूजयामि नमः || ॐ महिष मर्दिन्यै नमः नेत्रे पूजयामि नमः || ॐ सिंहवाहिन्यै नमः मुखं पूजयामि नमः || ॐ माहेश्वर्यै नमः शिरः पूजयामि नमः || ॐ कात्यायन्यै नमः सर्वाङ्ग पूजयामि नमः || इत्यङ्ग पूजनम् || धूप अर्पणम् ॐ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् | सूक्तंपंच दशर्चञ्च श्रीकामः सततं जपेत् || ॐ धूरसि धूर्व धूर्वतन्धूर्वतं योऽस्मान्धूर्वति तं धूर्वयं वयं धूर्वामः || देवानामसिवह्नितमगुं सस्नितमं पप्रितमञ्जुष्टतमन्देवहूतमम् || दशाङ्गगुग्गुलं धूपं चन्दनागरु संयुतम् || समर्पितं मया भक्त्या महादेवि ! प्रगृह्यताम् ||
40 SK धूप पात्रं देवता वामे इति धूपमाघ्रापयामि नमः || अथ दीपक बलाना व अक्षतम् ॐ सरसिजनिलयेसरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे || भगवति ! हरिवल्लभे ! मनोज्ञे ! त्रिभुवनभूतिकरि ! प्रसीद मह्यम् || ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा || अग्निर्वर्चोज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा || ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा || घृतवर्ति समायुक्तं महातेजोमहोज्वलम् | दीपं दास्यामि देवेशि ! सुप्रीताभवसर्वदा || प्. ४६) इति दीपं दर्शयेत् घृतदीपं सितवर्ति युतं देवतादक्षभागे | तैल दीपं रक्तवर्ति युतं देवता वाम भागे || अथ नैवेद्यम् || नैवेद्यं निवेदयामिनमः | जलेनाभ्युक्ष्य || गन्धपुष्पाभ्यामाच्छाद्य || धेनुमुद्रया अमृतीकृत्य || योनिमुद्रां प्रदर्श्य || सत्यन्त्वर्तेन परिपिञ्चामि इति प्रातः (ऋतंत्वासत्येन परिपिञ्चामि इति सायं) || घण्टांवादयेत् || ग्रासमुद्रां प्रदर्श्य || ॐ प्राणाय स्वाहा अङ्गुष्ठ अनामिका कनिष्ठाभिः || ॐ अपानाय स्वाहा अङ्गुष्ठ तर्जनीमध्यमाभिः || ॐ उदानाय स्वाहा अङ्गुष्ठ मध्यमाऽनामिकाभिः || ॐ व्यानाय स्वाहा अङ्गुष्ठतर्जनीमध्यमाभिः || ॐ समानाय स्वाहा सर्वांगुलीभिः | ॐ आद्रां पुष्करिणी पुष्टिं सुवर्णां हेममालिनीम् || सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || ॐ नाभ्या आसीदन्तरिक्ष गुं शीर्ष्णो द्यौः समवर्तत || पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां ३ अकल्पयन् || अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् || नैवेद्यं गृह्यतां देवि ! भक्तिअं मेह्यचलां कुरु || नैवेद्यं निवेदयामि नमः || मध्ये मध्ये आचमनीयं समर्पयामि नमः || उत्तरापोप्षणार्थे पुनः पुनर्नैवेद्यं निवेदयामि नमः || पुनराचमनीयं समर्पयामि नमः || आचमनम् || ॐ दार्द्रां यः करिणिं यष्टिं पिङ्गलांपद्ममालिनीम् | चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह || ॐ यत्पुरुषेण हविषा देवा यज्ञ मतन्वत || वसन्तोऽस्यासीदाज्यं ग्रीष्म-इध्मःशरद्धविः ||
41 SK प्. ४७) आचम्यतां त्वया देवि ! भक्तिं मे ह्यचलां कुरु || ईप्सितं मे वरं देहि परत्र च परां गतिम् || आचमनं समर्पयामि नमः || करोद्वर्तनम् करोद्वर्तनकं देवि ! सुगन्धैः परिवसितैः | ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् || करोद्वर्तनार्थे गन्धं समर्पयामि नमः || हस्त प्रक्षालनार्थे जलम् | गन्धतोयं समानीतं सुवर्णकलशे स्थितम् | हस्तप्रक्षालनार्थाय पानीयं ते निवेदये || ऋतु फलम् || ॐ याः फलिनीर्या अफला अपुष्पा याश्चपुष्पिणीः || बृहस्पति प्रसूतास्ता नोमुञ्चन्त्वगुं हसः || द्राक्षा खर्जूर कदली पनसाम्रकपित्थकम् || नारिकेलेक्षुजंवादि फलानि प्रतिगृह्यताम् || ऋतुफलानि समर्पयामि नमः || ताम्बूल पुङ्गीफलम् || ॐ तांम-आवह जात वेदो लक्ष्मीमनपगामिनीम् || यस्यां हिरण्यं प्रभूतिं गावो दास्योश्वान्विन्देयं पुरुषानहम् || ॐ सप्तास्या सन्परिधयस्त्रिः सप्त समिधः कृताः || देवा यद्यज्ञं तन्वाना- vīṭikāṃ mukhavāsārthamarpayāmi sureśvari ! || dakṣiṇādravyam || oṃ hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka'-āsīt | sadādhāra pṛthvīṃdyāmutemāṃ kasmai devāya haviṣā vidhema || pūjāphalasamṛddhyarthaṃ tavāgre svarṇamīśvari ! || sthāpitā tena me prītā pūrṇānkuru manorathān || p. 48) dhyānam durge ! smṛtā harasi bhītimaśeṣajantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi || dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā || iti natvā || oṃ devā āyāntu yātudhānā apayāntu || durge ! devi ! yajanaṃ rakṣasveti bhūmau prādeśaṃ kṛtvā praṇamet || nava durgā pūjanam || prathamaṃ śailaputrī pūjanam || oṃ bhūrbhuvaḥ svaḥ śailaputri ! ihāgaccha ihatiṣṭha || śailaputryai namaḥ śailaputrīmāvāhayāmi sthāpayāmi namaḥ || pādyādibhiḥ pūjanaṃ vidhāya || oṃ jagatpūjye jagadvandye sarvaśaktisvarūpiṇi ! || pūjāṃ gṛhāṇa kaumāri ! jaganmātarnamostute || 1 || brahmacāriṇī pūjanam ||
42 SK ॐ भूर्भुवः स्वः ब्रह्मचारिणि ! इहागच्छ इहतिष्ठ ब्रह्मचारिण्यै नमः || ब्रह्मचारिणीमावाहयामि स्थापयामि नमः || पाद्यादिभिः पूजनं विधाय || ॐ त्रिपुरां त्रिगुणाधारां मार्गज्ञानस्वरूपिणीम् || त्रैलोक्यवंदितां देवीं त्रिमूर्तिं पूजयाम्यहम् || १ || चन्द्रघण्टा पूजनम् || ॐ भूर्भुवः स्वः चन्द्रघंटे इहागच्छ इहतिष्ठ चन्द्रघंतायै नमः || चन्द्रघंतामावाहयामि स्थापयामि नमः || पाद्यादिभिः पूजनंविधाय || ॐ कालिकां तु कलातीतां कल्याणहृदयां शिवाम् || कल्याणजननीं नित्यं कल्याणीं पूजयाम्यहम् || ३ || कूष्माण्डा पूजनम् || ॐ भूर्भुवः स्वः कूष्माण्दे इहागच्छ इहतिष्ठ कूष्माण्डायै नमः || कूष्माण्डामावाहयामि स्थापयामिनमः || पाद्यादिभिः पूजनं विधाय || ॐ अणिमादिगुणोदारां मकराकारचक्षुपम् || अनन्त शक्ति भेदां तां कामाक्षीं पूजयाम्यहम् || ४ || प्. ४९) स्कन्दमाता पूजनम् || ॐ भूर्भुवः स्वः स्कन्दमात ! इहागच्छ इहतिष्ठ स्कन्दमात्र नमः | स्कन्द मातरमावाहयामि स्थापयामि नमः || पाद्यादिभिः पूजनंविधाय || चण्डवीरां चण्डमायां चण्डमुण्ड प्रभञ्जिनीम् || तां नमामि च देवेशीं चण्डिकां पूजयाम्यहम् || ५ || कात्यायनी पूजनम् || ॐ भूर्भुवः स्वः कात्यायनि ! इहागच्छ इहतिष्ठ कात्यायन्यै नमः || कात्यायनीमावाहयामि स्थापयामि नमः || पाद्यादिभिः पूजनं विधाय || ॐ सुखानन्द करीं शान्तां सर्व देवैर्नमस्कृताम् || सर्वभूतात्मिकां देवीं शाम्भवीं पूजयाम्यहम् || ६ || कालरात्री पूजनम् || ॐ भूर्भुवः स्वः कालरात्रि ! इहागच्छ इहतिष्ठ कालरात्र्यै नमः || कालरात्रीमावाहयामि स्थापयामिनमः || पाद्यादिभिः पूजनं विधाय || चण्डवीरां चण्डमायां रक्तबीज प्रभञ्जिनीम् || तां नमामि च देवेशीं गायत्रीं पूजयाम्यहम् || ७ || महागौरी पूजनम् ||
43 SK ॐ भूर्भुवः स्वः महागौरि ! इहागच्छ इहतिष्ठ || महागौर्ये नमः || महागौरीमावाहयामि स्थापयामि नमः || पाद्यादिभिः पूजनं विधाय || ॐ सुन्दरीं सर्णवर्णाङ्गीं सुख सौभाग्यदायिनीम् || सन्तोष जननीं देवीं सुभद्रां पूजयाम्यहम् || ८ || सिद्धिदा पूजनम् || ॐ भूर्भुवः स्वः सिद्धिदे ! इहागच्छ इहतिष्ठ सिद्धिदायै नमः || सिद्धिदामावाहयामि स्थापयामिनमः || पाद्यादिभिः पूजनं विधाय || ॐ दुर्गमे दुस्तरेकार्ये भयदुर्ग विनाशिनि ! || पूजयामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् || ९ || प्. ५०) इति नव दुर्गा पूजनम् || ज्योतिः पूजनम् || ॐ भूर्भुवः स्वः आद्यासवसुरौजोद्भव तेजस्वरूप श्री दुर्गायै नमः || ॐ जातवेद से सुनवामसोमरातीयतो निदहाति वेदः || सनः पर्षदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः || पाद्यादिभिः पूजनं विधाय || ध्यानम् || प्रधान साधार विकल्प सत्ता स्वभाव भावाद्भुवन त्रयस्य || सा विद्यया व्यक्तमपीह माया ज्योतिः परा पातु जगन्ति नित्यम् || (योगिनी तंत्रे) देश कालौ संकीर्त्य नव दुर्गा महोत्सवे || श्री दुर्गाप्रसाद सिद्धि द्वारा सर्वापच्छान्ति पूर्वकं ममाभीष्ट सिद्धये निर्विघ्नतापूर्वकं समाप्त्यर्थं वटुक गणेशादि सहितं कुमारी पूजनं करिष्ये ||
44 SK गणेश वटुक सहित नव कुमारी पूजनम् [अथ कुमारी पूजा तत्प्रकारश्च देवीपुराणे || ब्रह्मोवाच || न तथा तुष्यते शक्र ! होम दान जपेन तु || कुमारी भोजनेनात्र यथा देवी प्रसीदति || अत्र नवरात्रे - प्रक्षाल्य पादौ सर्वासां कुमारीणां च वासव | सुलिप्ते भूतले रम्ये तत्र ता आसने स्थिताः || पूजयेद्गन्धपुष्पैश्च स्रग्भिश्चापि मनोरमैः || पूजयित्वा विधानेन भोजनं तासु दापयेत् || खण्डं लड्डु गुडं सर्पि दधिक्षीरं समाक्षिकम् || तासां देयं कुमारीणां सनैस्संभोजयेत्तु ताः || पानीयं याचितं देयमन्नं वा याचितं शुभम् || तास्तृप्तास्तु यदा सर्वास्तदा त्वाचमनंददेत् || आचम्य चाक्षतान्दत्वा त्वया क्षन्तव्य मित्युत || दातुः शिरसि दातव्याः कन्यकाभिरथाक्षताः || तेनापि प्रणिपातस्तु कर्तव्यो भक्ति पूर्वकः || अनेन विधिना शक्र ! देवी क्षिप्रं प्रसीदति || ददाति विविधाकामान्मनोभीष्टान्सुराधिप ! || राज्यं कृत्वा ततः पश्चाद्देवीलोकञ्च गच्छति || स्कान्देऽपि || एकैकां पूजयेत्कन्यामेकवृद्ध्या तथैव च || द्विगुणं त्रिगुणं वापि प्रत्येकं नवकं वरम् || नवभिर्लभते भूमिमैश्वर्यं द्विगुणेन तु || एक वृद्ध्या लभेत्क्षेममेकैकेनश्रियंलभे || एकवर्षा तु या कन्या पूजार्थं तां तु वर्जयेत् || गन्ध पुष्प फलादीनां प्रीतिस्तस्या न विद्यते || यथोक्ताऽलाभेतु विवाहितापि या पुष्पिणी तावत् पूज्या विवाहान्तरमपि कन्यात्वमुपजायते || तावत्संपूज्यते कन्या तावत्पुष्पं न दृष्यते || इति भगवन्त भास्कर कृत देवी पुराणवचनात् || कामना परत्वेन आसां क्रमेण पूजायां विशेष उक्तः || तत्रैव || दुःख दारिद्र्य नाशाय शत्रूणां नाशनाय च || आयुषे बल वृद्ध्यर्थं कुमारीः पूजयेन्नरः || आयुष्कामस्त्रिमूर्तिं तु त्रिवर्गस्य फलाप्तये || अपमृत्यु व्याधि पीडा दुःखानामपनुत्तये || सौख्य धान्यधनारोग्य पुत्र पौत्रादि वृद्धये || कल्याणीं पूजयेद्धीमान्नित्यं कल्याण वृद्धये || आरोग्य सुख कामी तु धन कामस्तथैव च || यशस्कामी नरोनित्यं
45 SK रोहिणीं परिपूजयेत् || विद्यार्थी च जयार्थी च राज्यार्थी च विशेषतः || शत्रूणां च विनाशार्थी कालिकां पूजयेन्नरः || संग्रामे जय कामश्च चंडिकां परिपूजयेत् || दुःख दारिद्र्य नाशाय नृप सम्मोहनाय च || महापाप विनाशाय शाम्भवी च प्रपूजयेत् || सर्व लोकेषु शत्रणामुग्रसाधन कर्मणि || दुर्गां दुर्गार्ति नाशाय पूजयेद्यत्नतो बुधः || सौभाग्य धन धान्यादि वांछितार्थ फलाप्तये || सुभद्रां पूजयेन्मर्त्यो दासी दास विवृद्धये || पूजा प्रकारश्च तत्रैव || प्रातः काले विशेषण कृताभ्यङ्गो विशेषतः || अथ वर्ज्य कन्या आह || हीनाधिकाङ्गी कुष्ठादि विकारां कुकुलां तथा || ग्रन्थि स्फुटत सर्वाङ्गा रक्त पूय व्रणाङ्कितां || जात्यन्धां केकरां काणां कुरूपां तनु रोमशाम् || संत्यजेद्रोगिणीं कन्यां दासी गर्भ समुद्भवाम् || अथ ज्ञाति भेदेन कामना भेदेषु तत्पूज्यातामाह || ब्रह्माणीं सर्व कार्येषु जयार्थे नृप वंशजाम् || लाभार्थे वैश्य वंशोत्थां सुतार्थे शूद्र वंशजाम् || दारुणे चान्त्य जातीयां पूजयेद्विधना नरः || अर्थ वर्ण भेदेन पूजाभेदः || गौरीं सर्वेष्ट संसिद्ध्यै पीताङ्गी जय कीर्तये || लाभार्थेऽरुणवर्गाङ्गीमसितामारणादिष्विति क्वचित् || एक वंश समुद्भूतां कन्यां सम्यक् प्रपूजयेदिति || कौलावली तन्त्रे ||] प्. ५१) गणेश पूजनम् || ॐ गं गणपतये नमः || पाद्यादि पूजनं विधाय || ध्यानम् || ॐ उद्यद्दिनेश्वर रुचिं निज हस्त पद्मैः | पाशांकुशाभय वरान्दधतं गजास्यम् || रक्ताम्बरं सकल दुःख हरं गणेशं | ध्यायेत्प्रसन्नमखिलाभरणाभिरामम् || १ || ॐ खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मद गन्धलुब्ध मधुप व्यालोल गण्डस्थलम् दन्तावात् विदारितारिरुधिरैः सिन्दूर शोभाकरं वन्दे शैलसुता सुतं गणपतिं सिद्धिप्रदं कामदम् || २ || वटुक पूजनम् || ॐ वं वटुकाय नमः || पाद्यादि पूजनं विधाय || प्. ५२) ध्यानम् ||
46 SK ॐ कर कालत कपालः कुण्डली दण्डपाणिस्तरुण तिमिर नील व्याल यज्ञोपवीती || क्रतु समय सपर्या विघ्नविच्छेद हेतुर्जयति वटुकनाथः सिद्धिदः साधकानाम् || तत्रविधिः || यजमानः पूजयेच्च कन्यानां नवकं शुभम् || द्वि वर्षाद्यादशाब्दान्ताः कुमारीः परि पूजयेत् || १ || अर्थादेक हायनाल्पवयस्का वर्ज्याः || ता आसने उपवेश्यावाहयेत् मन्त्रेण || अथ आवाहन मन्त्रः || ॐ मन्त्राक्षर मयीं लक्ष्मीं मातॄणां रूप धारिणीम् || नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् || अनेनैव मन्त्रेण नवापि आवाहयेत् || अशक्तौ यथाशक्ति एकामपि पूजयेत् || पाद्यादि पूजनं विधाय || प्. ५३) द्विवर्षा कुमारी संज्ञा || सर्वस्वरूपे ! सर्वेशे ! सर्वशक्ति स्वरूपिणि ! | पूजां गृहाण कौमारि ! जगन्मातर्नमोस्तु ते || १ || त्रिहायना त्रिमूर्ति संज्ञा || त्रिपुरां त्रिपुराधारां त्रिवर्ग ज्ञान रूपिणीम् | त्रैलोक्य वन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् || २ || चतुरब्दा कल्याणी || कलात्मिकां कलातीतां कारुण्य हृदयां शिवाम् | कल्याण जननीं देवीं कल्याणीं पूजयाम्यहम् || ३ || पंचवर्षा रोहिणी || अणिमादि गुणाधारामकाराद्यक्षरात्मिकाम् | अनन्तां शक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् || ४ || षडब्दा कालिका || कामचारां शुभां कान्तां कालचक्र स्वरूपिणीम् | कामदां करुणोदारां कालिकां पूजयाम्यहम् || ५ || सप्तहायना चण्डिका || चण्डवीरां चण्डमायां चण्ड मुण्ड प्रभंजनीम् | पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् || ६ || अष्टवर्षा शांभवी || सदानन्दकरीं शान्तां सर्व देव नास्कृताम् | सर्व भूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् || ७ || नवहायना दुर्गा || दुर्गमे दुस्तरे कार्ये भवदुःख विनाशिनीम् | पूजयामि सदा भक्त्या दुर्गां दुर्गार्ति नाशिनीम् || ८ || दशवर्षा सुभद्रा || सुन्दरीं स्वर्ण वर्णाभां सुख सौभाग्यदायिनीम् | सुभद्र जननीं देवीं सुभद्रां पूजयाम्यहम् || ९ || प्. ५४) नित्य आरती
47 SK कुमारी पूजनान्ते तद्धस्तादक्षतादिकं स्वशिरसि विधाय भक्त्या अनुव्रजेत् सुवासिनीं - ब्राह्मणान् भोजयेत् पश्चात् इष्टमित्र बांधवादिना सह स्वयमपिभुंजीत शेष कालं गीत वाद्यादिभिर्नयेत् || इति कुमारी पूजनम् || अष्ट रात्रे न दोषोऽयं नवरात्रे तिथिक्षये | सूतके पूजनं प्रोक्तं जपदानं विशेषतः || देवी मुद्दिश्य कर्तव्यं तत्र दोषो न विद्यते रजस्वलां तथाशौचे ब्राह्मऽनिश्च सुपूजयेत् || सभर्तृकाणां स्त्रीणां नवरात्रे गंधादि सेवनं न दोषाय || तदुक्तं हेमाद्रौ || गंधालंकार ताम्बूल पुष्पमाल्यानुलेपनैः || कुमारी पूजने विशेषः कौलावली तन्त्रे एवं प्रणवयोगेन चैतन्यं तत्तुमर्चयेत् | वाणी माया तथा लक्ष्मीर्माया कूर्चद्वयं ततः || एते च प्रणवाः ज्ञेया कुमार्याः परि पूजने | चतुर्दश स्वरेणाढ्यो भृगुविन्द्विन्दु संयुतः || चैतन्य बीजं कथितं साधकानां समृद्धिदम् | एवं द्वाभ्यां त्रिभिश्चैव सप्तधानवधा पुनः || नित्य क्रमेण नियतं पूजयेद्विधि पूर्वकम् | वाग्भवेन जलंदेयं मायया पादशौचकम् || लक्ष्म्याचार्ग्यं प्रदद्यात्तु कूर्चबीजेन चन्दनं | शक्ति बीजेन पुष्पाणि धूपं षष्ठेन दापयेत् || वाग्भवेन पुरक्षोभं मायया च गुणाष्टकम् | श्री बीजेन श्रियोलाभः मायया शत्रु संक्षयः || भैरवेण तु बीजेन षण्डत्वमनुगच्छति | न्यासादिकं प्रकुर्वीत आदौस्वीय क्रमेण तु || कुमार्याङ्गे ततः पश्चाद्विशेषन्यासमुत्तमम् || ततोऽखण्ड दीपदानम् || दीपादि विचारो डामर तन्त्र || सौवर्णं राजतं कांस्यं लोहं च मार्तिकम् | गोधूम माप मुद्गानां चूर्णेन घटितं तथा || प्. ५५) सौवर्णे कार्यसिद्धिः स्याद्रौप्ये वश्यंजगद्भवेत् | ताम्रं तयोरभावेऽपि कांस्ये विदेवेषणं भवेत् || मारणं लौहपात्रे स्यादुच्चाटो मृण्मये तथा | गोधूम-चूर्णं घटिते विवादे विजयो भवेत् || माषजे शत्रुसंस्तंभो मौद्गेस्याच्छान्तिसत्तमा | सन्धिकार्ये नदीकूलद्वयमृत्स्ना समुद्भवम् || अलाभे सर्व पात्राणां कुर्यात्ताम्रं च मार्तिकम् ||
48 SK सुवर्णादिजे दीपे सुवर्णादिमानं तत्रैव || सहस्र पल संख्यायां पात्रं शतपलैः स्मृतम् | शतार्द्धपलमानेतु त्रिंशतापात्रमुत्तमम् || पादोनशत संख्यायां षष्टिकं पात्र मुच्यते | शतमानेतदर्द्धंतदधिकं पल संयुतम् || सहस्र संख्य के प्रोक्तं दिग्पले दिग्पलं स्मृतम् | नित्य दीपे प्रमाणं हि पलैः सप्तभिरम्बिके ! || अथ दीप स्वरूपम् || बुध्नेषडंगुलं प्रोक्तमुच्छ्राये च षडंगुलम् | षोडशांगुल मायामं सुन्दरं पात्रमुत्तमम् || नित्य दीपेतदर्द्धार्द्धं मानं सर्वेषु कर्मसु | (बुध्नंमूलम्) अथ घृत तैलयोर्विशषस्तत्रैवोक्तः || गोघृतेन प्रकर्तव्यो दीपः सर्वार्थ सिद्धये | मारणेमाहिषं प्रोक्तमुष्ट्रं विद्वेषणे भवेत् || आविकं शान्तिके प्रोक्तमाजं चोच्चाटने भवेत् | तिलतैलेन वा दीपः कार्यः सर्वार्थ सिद्धये || घृताभावे महेशानि ! मारणे सार्षपेण चेति || अथ वर्तिः || अयुग्मा वर्तिका ग्राह्या एकोत्तर शतावधि | गुरुकार्येऽधिका प्रोक्ता अल्पे अल्पा मता प्रिये ! || सूत्रं श्वेतं तथा पीतं मांजिष्ठं च कुसुम्भकम् | कृष्णं च कर्वुरं चेति षट्कर्मसु नियोजयेत् || सवाभावे सितेनैव कुर्याद्वर्त्तीः पृथक् पृथक् || प्. ५६) अथ चालनार्थं शलाकापि तत्रैव || षोडशांगुल माना च सौवर्णीतु शलाकिका | राजतौदुम्बरी वापि सुलक्षा बुधन्का तथा || तीक्ष्णोग्रा सरला मध्ये त्रिशूलेनाङ्किता तथेति || अथ दीपमुखं तत्रैव || पूर्वाभिमुखे तु सर्वाप्तिः स्तम्भोच्चाटनयोस्तथा | रक्षा विद्वेषयोः कार्यं पश्चिमास्यं प्रदीपकम् || लक्ष्मी प्राप्तावुत्तरास्यं मारणे दक्षिणामुखमिति || अथ दीप दाने प्रतिज्ञा ||
49 SK तत्र पूर्व कलशाग्रे [घटार्गल यन्त्र प्रकारः || शारदायां ९ पटले ९५ श्लोके ||] घटार्गल यन्त्रं षट्कोण यन्त्रं वा विलिख्य || तिथि वाराद्युच्चार्य || अद्येहैतद्दीप शिखा सम संख्य वर्ष सहस्रावच्छिन्न समयपरिच्छिन्न दुर्गानुचरत्व प्राप्ति पूर्वक भगवती प्रीति कामोऽद्यारभ्य नवम्यन्तमहर्निश वातादि दोष रहितमिमं दीपं श्री दुर्गा देवताकं श्री दुर्गायाः पुरतः प्रज्वालयिष्ये || इति प्रतिज्ञाय || उक्त कामेषु तत्तत्कामनामुच्चर्योक्त विधिना दीपं दत्वा तं गंधाक्षतादिभिः पूजयेत् || दीप स्थापने शकुन विघ्नादयो डामर तन्त्रे || तथाहि || दीपस्य शकुनान्विच्मि शृणि देवि ! यथाक्रमम् | यने विज्ञात मात्रेण जायते च फलाफलम् || दीपारम्भे सुरेशानि ! नवदेदशुभं वचः | तस्मिन्काले यदुक्तं हि तत्तथैव भवेद्ध्रुवम् || वर्जयेदशुभां वाणीं तस्मिन्काले विशेषतः | रक्ताम्बरी द्विजोऽव्यङ्गो रक्तमाल्यानुलेपनः || दीपारम्भे समायाति तस्य सिद्धिर्न संशयः | शुद्र वर्णः समायाति सिद्धः प्रोक्तातु मध्यमा || म्लेच्छस्य दर्शने प्रोक्तं बंधनं दीपदस्य वै | मार्जार मूषकादीनां मध्यमं दर्शनं स्मृतम् || प्. ५७) कृते दीप वरे देवि ! वीक्ष्यते च शुभाशुभम् | दीपज्वाला समाश्लक्ष्णा जायते यदि सुन्दरि ! || अष्टभिर्दिवसैस्तस्य कार्यसिद्धिर्भवेद्ध्रुवम् | दीप ज्वाला तु देवेशि ! यदि वक्रा भवेत्तदा || नाशस्तस्य च बन्धूनां प्रोक्तः सर्वार्थ नाशकः | खरकङ्क प्रभाज्वाला यदि स्याच्चसुरेश्वरि ! || दीपकर्तुः सविघ्नोवै मरणं जायते ध्रुवम् | दीप ज्योत्स्नाम्बिके ! कृष्णा जायते च सुरार्चिते ! || शत्रूणां जायते कार्यं दीपकर्तुर्निरर्थकम् | कृते दीपेयदानाशस्तत्क्षणाज्जायतेऽम्बिके ! || कार्यसिद्धिर्विलम्बेन भविष्यति न संशयः | कृत दीपस्य नाशः स्यात्प्रहरत्रय मध्यत || मासे वर्षे तथा प्रोक्ता कार्य सिद्धिर्हि सुन्दरि ! | दीपवर्यस्य नाशः स्याद्यदि रात्रौ कदाचन ||
50 SK तस्य गेहे धनं वस्तु नष्टं भवति निश्चितम् | दत्ते दीपे यदि पुनश्चट चटेति ध्रुवम्भएत् || तदा तस्य च कार्यं ऐ नष्टंयाति तथादिशेत् | वमतेदीपवर्यश्चेच्चौरतोभयमाददेत् || दीपपात्रं यदि पुनः स्रवते देवि ! सुन्दरि ! | गोनाशो जायते तस्य दीप कर्तुर्न संशयः || दीपवर्यस्य पात्रं वै भग्नं वै दृश्यते यदि | अष्टादश दिनादर्वाग्यजमानः सबांधवः || श्राद्धदेवस्य सदनं गच्छति प्रिय कामिनि ! | दीपेनष्टे पुनर्दीपंज्वालयेन्मूढ चेतनः || दीप दाता कर्ता मन्द चक्षुर्भवेत्सदा | कृते दीपे पुनर्वार्ता कारयेद्यदि मानवः || दीपवर्यमशुचिर्मानवः स्पृशेत् | दीपकर्तुः शरीरे तु व्याधिर्वै जायते नृणाम् | दीपकाष्ठामुमे ! श्वानो मार्जारो मूषकादयः || यदि स्पृशन्ति कल्यानि ! ताडनं राजतो दिशेत् | एवं दीपवरे विघ्नाः बहवः संभवन्ति हि || तस्माद्दीपं सुरेशानि ! विलोक्यं तु पदे पदे || प्. ५८) अथ दीपविघ्ने शान्तिः || तत्र शर्कराज्य तिलतंडुलैस्सघृतः कमलैर्वा जयंती मंत्रेण दशांशतो होमं कुर्यादित्यन्ये || नवार्ण मन्त्रेणेत्यपरे || देवि ! प्रहन्नार्ति हरे प्रसीदेति देवि ! प्रसीदेति करो तु सानः शुभेति मन्त्राणामन्यतमेन पूर्वोक्त द्रव्येण होमः कार्य इति साम्प्रदायिकः || कलश विसर्जन विधिः ||
51 SK स यजमानो स्वस्ति वाचन पूर्वकं संकल्पं विधाय || देश कालौ संकीर्त्य प्रतिपदि गणपत्यादि स्थापितानां देवानांनारिकेल वलिसहित उत्तर पूजन महं करिष्ये || इति प्रतिज्ञां कृत्वा यथोपचार सहितं गणपत्यादि देवान् प्रपूज्य || ततो शुद्ध नारिकेलं कूष्मांडं वा गृहीत्वा तं संपूज्य तत्र जीव न्यासादिकं कृत्वा || ॐ महामाये ! जगन्मातः सर्व काम प्रदायिनि ! ददामि नारिकेल (कूष्मांड) बलिः प्रसीद वरदाभव || अर्द्ध भागं देव्यग्रे संस्थाप्य पुनः ॐ प्राणाय स्वाहा || ॐ अपानाय स्वाहा || ॐ उदानाय स्वाहा || ॐ व्यानाय स्वाहा || ॐ समानाय स्वाहा || एभिः स्वाहा || ॐ व्यानाय स्वाहा || ॐ समानाय स्वाहा || एभिः स्वाहान्त मन्त्रैः पंचाहुतिं ज्योतिरग्नौ जुहुयात् || तत्र यथा कुलाचारमष्टम्यां नवम्यां दृशम्यां वा देवी पूजान्ते तां प्रणम्य पुष्पाण्यादाय कृतांजलिः || ॐ उत्तिष्ठ व्ब्रह्मणस्पते देवयन्तस्त्वेमहे || उपप्रयन्तु मरुतः सुदानवऽ-इन्द्र प्राशूभवासचा || १ || ॐ ब्रह्मणस्पते त्वमस्य यन्तासूक्तस्य बोधितनयंच जिज्व || अथ बलिदानम् || १ || अत्र पक्षत्रयं प्रत्यहञ्च बलिन्दद्यादित्येकः || कन्या संस्थे रवौ शक्रः ! शुक्लाष्टम्यां प्रपूज्य च | द्रोण पुष्पैश्च बिल्वाम्र जाती पुन्नाग चम्पकैः || पञ्चाहं लक्षणोपेतं गन्धपुष्प समन्वितम् | विधिवत्कालि ! कालीतिजप्त्वा खड्गेन घातयेदिति || देवी पुराण वचनादष्टमी नवम्योरिति द्वितीयः || प्. ५९) व्विश्वन्तद्भद्रं यदवन्तिदेवाबृहद्वदेमव्विदथे सुवीराः || यऽ-
52 SK नवम्यां बलिदानञ्च कर्तव्यं वै यथाविधीति || नवम्यां च विधानाच्छिष्ट समाचाराच्च नवम्यामेव कार्यमिति तृतीयः पक्षः || अत्रदेशाचारात्कुलाचाराद्वा पक्षत्रयान्यतमः पक्ष आदरणीयः || अत्रापि पक्षत्रयं पूर्व पक्षे पक्षत्रयं प्रतिपदमारभ्यनवम्यन्त प्रत्यहं [टिप्पणी निरुत्तर तंत्रे पूजया लभते पूजां जपात्सिद्धिर्न संशयः || होमेन सर्वसिद्धि स्यात्तस्मात्त्रितयमर्चयेत् ||] पूजाजप होम [बलिहीने तु दुर्भिक्षं गन्धहीने त्वभग्यताम् | धूपहीने तथोद्वेगं वस्त्रहीने धनक्षयम् || -भविष्ये |] बलिदानाद्यनुष्ठानमित्येकः || प्रतिपत्तः सप्तम्यन्तं केवलं पूजा जप बलिदानाद्यनुष्ठानमष्टम्यान्तु सहोममिति द्वितीयः || प्रतिपतोष्टम्यन्तं प्रत्यहं केवलं जप बलिदानाद्यनुष्ठानं नवम्यां सहोममिति तृतीयः || अत्र पूर्व पक्षमाश्रित्य बलिदानस्य प्राथम्यमङ्गी कृतमुर्वरितपक्षाश्रयणे तु यत्रोचितं तत्रैव कार्यम् शिष्टरिति || अथ बलिदान प्रकारः | तत्र स्वस्तिवाचनं कृत्वा पशुमानीयाञ्जलिम्बध्वा || प्राणिनामुपकारार्थं पशुश्रेष्ठ मयाधुना प्रोक्षितश्चण्डिका प्रीत्या मामात्मानञ्च तारयेदितिपठेत् || ततोमेघाकार स्तम्भमध्ये पशुबन्धेबध्वा || उत्तराभिमुखोः भूत्वा बलि पूर्व मुखं तथेति || कालिका पुराणे || पूर्व मुखं पशुं शंखोदकेन स्नापयेत् | वाराही यमुना गङ्गा करतोया सरस्वती || कावेरी चन्द्र भागा च सिन्धु भरव सागराः | छाग स्नाने महेशानि ! सान्निध्यं कल्पयन्त्विहेतिमन्त्रेण || ततः कुशोदकेन प्रोक्षयेत् || सुरास्त्वां वसवो रुद्रा विमानोत्तम चारिणः || ग्रहा लोकेश्वराः साध्या अश्विनेयौभिषग्वरौ || एतेचान्ये च ऋषयः प्रोक्षन्तु त्वां कुशोदकैः || एवं प्रोक्ष्य || प्. ६०) सर्व रूपमयी देवी सर्वं देवीमयं जगत् | अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् || विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् | पूर्णं भवतु तत्सर्वं त्वत्प्रसादान्महेश्वरि ! ||
53 SK मातः क्षमस्वेत्युक् त्वा ॐ दुर्गायैनमः | इत्यैशान्यामेक पुष्पंनिक्षेपेण विसर्जयेत् || ततोस्थापित कलशोदकेन जयमानाभिषेकः | ततोमृदादिमूर्तिसत्वेस्रोतसि तत्प्रवाहणं कर्तुमुत्थापयेत् || ॐ उत्तिष्ठ देवि ! चण्डेशि ! शुभां पूजां प्रगृह्य च | कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह || ३ || गच्छ गच्छ परं स्थानं स्वस्थानं देवि ! चण्डिके ! | पशोरङ्गेषु न्यासं कुर्याद्यथा || वाचं ते शुन्धामि प्राणन्ते शुन्धामि चक्षुस्ते शुन्धामि श्रोत्रन्ते शुन्धामि नाभिन्ते शुन्धामि मेढ्रन्ते शुन्धामि पायुन्ते शुन्धामि चरित्रांस्ते शुन्धामि योनि ते क्रूराणि तानि तेसह महोभ्यः प्रोक्षन्तु स्वाहा || शिरोललाटं हृदये च कर्णौ नाभिश्चकण्ठं गुरु सेफसीच || क्रोडंच पादांश्च तथान्यदङ्गं मुञ्चन्तु शीघ्रं पशु दैवतानि || पशुयोनि प्रसूतोसि बलियोग्य विवृद्धये || विमुच्य रोम कूटानि शीघ्रं गच्छन्तु देवताः || इति || तत्रस्थान्देवानुद्वास्य || पंचोपचारैश्छाग पूजां कृत्वा शृङ्गयोः सिन्दूरमालिप्य माल्यानिवध्नीयात् || ततोऽग्नि दैवतं पशुं दुर्गा प्रीति जनकं विभाव्य सर्वाङ्गे पिशताशिन्यैनमः || इत्यङ्गानि विशोध्य || पशुरुत्पादितो देवैर्यज्ञार्थेषु विधानतः || धर्मार्थ कामकोक्षार्थ पशो ! त्वां धातयाम्यहम् || इति तं संप्रार्थ्य || तत उत्रराभिमुखस्तत्कर्ता दक्षिण कर्णं धृत्वा पठेत् || पशु ! त्वं बलिरूपेण मम भाग्यादुपस्थितः || प्रणमामि ततः सर्वरूपिणम् || चण्डिका प्रीति दानेन दातुरापद्विनाशनम् || चामुण्डा बलिरूपाय वले ! तुभ्यं नमोस्तुते || यज्ञार्थं पशवः सृष्टा स्वयमेव स्वयम्भुवा || अतस्त्वां घातयिष्यामि तस्माद्यज्ञे वधोवधः || ऐं ह्रीं श्रीं इति मन्त्रेणमत्स्वरूपं विचिन्तयित्वातन्मूर्द्ध्निपुष्पं न्यस्य तत्र भैरवमभिपिंच्य दक्षिण करं धृत्वा || छागल ! त्वं महाबाहो अग्नेर्देवस्य वाहन || पशो ! त्वद्बलिदानेन तुष्टामेस्तु हरेः प्रिया || इदंरूपं परित्यज्य गन्धर्वत्वमवाप्नुहि || सर्व काम प्रदानाय छागलायनमोनमः ||
54 SK प्. ६१) ब्रजस्रोतो जलंवृद्ध्यै स्थीयतां च जलेत्विह || ४ || ॐ दुर्गे ! देवि ! जगन्मातः स्वस्थानं गच्छ पूजिता | सम्वत्सरे व्यतीते तु पुनरागमनाय वै || ५ || इमां पूजां मयादेवि ! यथा शक्त्योपपादिताम् | इति पठेत् || ततो दक्षिण कण गृहीत्वा || ॐ अद्येहामुक गोत्रस्य अस्य यजमानस्य सर्वबाधा प्रशमनं धन धान्य समृद्धिमत्व वपुरारोग्याचल लक्ष्मी प्राप्ति हेतुकं पशु रोममित वर्षानवरत देवी लोक सुखसन्तति प्राप्ति कामः कात्ययनीय गोत्रायै भगवत्यै महामूर्त्यै श्री दुर्गायै इमं छागं (कूष्माण्डं नारिकेलंवा) सुस्नापितमग्नि दैवतंघातयिष्ये || इति संकल्प्य || पशुगायत्रीं पठेत् || ॐ पशुराजाय विद्महे महादेवाय धीमहि तन्नो दुर्गा प्रचोदयात् || छागेतु || ॐ छागलाग्नि दैवताय विद्महे शिरश्छेदाय धीमहि तन्नश्छागः प्रचोदयात् || इत्येवं पठित्वा || इमं छगं (बलिं) गृहाणत्वं शक्ति हेतोर्दिवौकसाम् || शत्रु दर्प विनाशाय सर्वाभीष्ट प्रसिद्धये || इति देव्यै निवेद्य || ततः श्र्.ङ्गःं गृहीत्वा || छागशृङ्ग गृहीतोसि पशुत्वं विप्रहीयतामितिपठेत् || ततः खड्ग पूजा ||
55 SK तत्र प्रतिज्ञां पूरवत्कृत्वा || नन्दकस्य परामूर्ते ममशत्रु निवर्हण || नीलोत्पलदल श्यामकृत्स्न दुःस्वप्न नाशन || असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः || श्री गर्भो विजयश्चैव धर्माधारस्तथैवच || इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा || नक्षत्रं कृतिका तन्तुगुरुर्देवो महेश्वरः || रोहिण्यश्च शरीरं ते दवतं च जनार्दनः || पिता पिता महोदेवस्त्वां मां पालयतात्सदा || इयं येन धृता क्षोणी हतश्च महिषासुरः || तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः || अग्र्यः प्रहरणानां त्वं खड्गो माद्रवतीसुतः || ॐ ह्रीं ह्रीं खड्ग इतिध्यात्वा || ततोर्घ्यादि दत्वा || ॐ कालि ! कालि ! यज्ञेश्वरि ! लोहदण्डाय नमः || मुष्टि देशे सरस्वती ब्रह्मभ्यां नमः || इति पंचोपचारैः सम्पूज्य || ॐ आंह्रीं फट् इति मंत्रेण विमलं खड्गं गृहीत्वा || एक हस्तेन द्वाभ्यां वा एक च्छेदेनघातयेत् || ततः खर्परं गृहीत्वा || देशकालादि स्मृत्वा दुर्गायै इमं छाग खर्परं मांस सहितं नानोपकरणान्वितं तुभ्यमहंसंप्रददे || पयोमध्वाज्य सत्खण्ड भक्ष्य द्रव्य फलर्युतम् || खर्परं गृह्ण चामुण्ड ! सदीपं मांस संयुक्तम् || इति दत्वा || प्. ६२) रक्षार्थं त्वं समादाय व्रजस्थानमनुत्तमम् || ६ || इति स्रोतसि प्रबाह्य तन्मना गृहमेत्य हस्तौ पादौ प्रक्षाल्याचम्य पूजा स्थाने यजमानः सपरिवार उपविश्य विप्रभोजनादि समाप्य बन्धुभिः सहभुंजीत ||
56 SK तदुत्थं रुधिरं गृहीत्वा नैर्-ऋतेभ्यः प्रदातव्यम् || महा कौशिकमंत्रितमिति वचनात् || ॐ ऐं ह्रीं कौशिक्य नमो रुधिरेणाप्यायता मिति सनैर्-ऋतायै तस्यै सदीपं दद्यात् || अत्र ये ह्यु पयुज्यन्ते प्राणिनो महिषादयः || ते सर्वे स्वर्गतिं यान्ति हन्ता पापं न विन्दति || यावन्न चालयेद्गात्रं पशुप्त्वान्न हन्यते || इति चण्डिका बलिदाने तु सर्वत्रैवविधिस्मृतः || इति छेदानिष्टे सुवर्णं देयम् || इदञ्च बलिदानमग्निषोमीय पशु हिंसा न्यायेन धर्ममपि क्षत्रियादि विषयमिवतदेवत्स्पष्टमुक्तं || देवी पुराणातदर्द्धयामिनी शेषे विजयार्थं नृपोत्तमः पञ्चाहं लक्षणोपेतं गन्ध धूप सृगर्चितम् || विधिवत्कालि ! कालीति जप्त्वा खड्गेन घातयेदिति || ब्राह्मणस्यतु सात्वकी जप यज्ञाद्य नैवेद्यैश्च निरामिषैरित्युक्तेर्जपादि रूपा सात्विक्येव पूजा भवति तस्य सात्विक कर्मण्येवाधिकारस्य श्रुति स्मृत्यादिषुप्रतिपादित्वात् || यत्तु-माष कल्माष मांसाद्यैर्देवो दिक्षुबलिर्निशि || कूष्माण्ड भिक्षु दण्डश्च [सुराभावे च गोक्षीरं द्विजो दद्याद्युगे युगे | द्रव्याभावे चानुकल्पैः पूजयेत्परदेवताम् || निरुत्तर तन्त्रे ५ पटले ||] मद्यमासव एव च || एते बलि समाज्ञेयास्तृप्तौ छाग समा स्मृताः || तथा माषान्नेन बलिर्देयो ब्राह्मणेन विजानता इति || कालिका पुराणे || रम्भेक्षु नारिकेलञ्च गुवाकं कण्टकी फलम् || उर्वारुकं करञ्जञ्च छेदयेच्छुरिकादिनेति || तथा - ओदनं मांस माष वदित्यन्नदाकल्प भगवन्त भास्कर धृत वचोभ्यां चाऽशक्त क्षत्रियादेर्ब्राह्मणस्य च बलिदातृत्व मायातं तत्रायं विचारः || ब्राह्मणश्चेद्राजसीं पूजां कर्तुमिच्छेत्तदा पार्श्वतर कूष्माण्डादि छेदयेदेवं सात्विकोऽशक्तश्च क्षत्रियादि रपि || सात्त्विक ब्राह्मणस्यतु बलिदानं न युक्तं || सात्विकीजप यज्ञाद्यैर्नैवेद्यैश्च निरामिषै रिति प्रागुक्तेः || प्. ६३) आरती ||
57 SK ॐ आरात्रि पार्थिव गुं रजः पितुर प्रायि धामभिः || दिवः सदा गुं सिबृहती वितिष्ठऽ-आत्वेषं वर्तते तमः || चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैवच || त्वमेव सर्व ज्योतीषि आर्तिक्यं प्रतिगृह्यताम् || श्री देवी नीराजनम् || ॐ जय जय जगदम्बे ! मा जय जय जगदम्बे ! || नीराजनमवलोचय २ मोचय भयमम्बे ! || १ || जय देवि २ || कैलासोपरि सुन्दर मणिमय मंदिरगां || मा मणिमय० || त्वां ध्यायन्तिमहान्तः मा त्वां० परिशंकर सहिताम् || दिव्यकुसुम शुभगंधैर्मण्डित सुभगांगीं मा मंडित सु० || दिव्याम्बर वरभूषण भूषित सर्वाङ्गीम् || जय देवि० || २ || विधि हरि हर शक्रादिक सेवितमृदुचरणे मा सेवित० || विविध वधू परमादर २ परि रचिताभरणे || धनदादिक सुरवन्दित निरजर वर शरणे || मा निर० || तेषां मुकुटमणीचय नीराजित चरणे || जय देवि २ || ३ || ब्राह्मणेन सदा देयं कूष्मांडं बलि कर्मणि || श्री फलं वा सुराधीश ! छेदं नैवतु कारयेदिति || निर्णयसिन्धूक्तं तच्छेदन निषेदाद्ज्ञापकाच्च || अत एव सुरया स्वगात्र रुधिरेण च पूजा ब्राह्मणस्य न भवति || स्वगात्र रुधिरं दत्वा ब्रह्महत्यामवाप्नुयादिति || तथा मद्यं दत्वा ब्राह्मणस्तु ब्राह्मण्या देव हीयते || इति कालिका पुराणात् || प्. ६४)
58 SK अप्सरसांसुरनिकरैः कृत पूजन समये मा कृत० || ताण्डववेणु विवादन कोमल गानमये को० || धिङ् धिङ्तां धिङ् धिट्तां मूर्च्छध्वनिसहिते मा मूर्च्छध्वनि० || झणणण झननन नूपुर रवमुदते || जय देवि २ || ४ || विविधचतुश्चक्रागत शक्त्यर्चनसुखदे मा शक्त्य० || संशयपापविनाशिनि निन्दकजनदुःखदे नि० || प्रोढोल्ल्हास विलासिनि सेवकमनसुखदे || मा सेवक० || तस्मिन्मुदितसमाजे मधुमुदिताहससे || मधु० || जय० || ५ || सावर्णंवटुकादिक गणपति बलि सहितं || मा गणप० स्वीकारं कुरुपूजनमव मां जह्यहितम् २ || नवनिधिरचितविधानं शृणुत्वं जगदम्बे || मा शृणु० || कुरुमातवचरणानांशरणगतमम्बे ! || माश० || जयदेवि ! जयदेवि ! ६ || भाषा को वार्तिः || जय अम्बेगौरी मैया जय श्यामागौरी | मैया जय मंगलकरणी मैया जय आनन्द करणी || तुमको निशिदिन ध्यावत् हरि ब्रह्मा शिवरी || जय० || १ || माṁग सिन्दूर विराजत टीको मृगमद को || मैया टीको० || उज्ज्वल से दो-ऊ नैना चन्द्र वदन नीको || जय अम्बे० || २ || कनक समान कलेवर रक्ताम्बर राजै || मैया रक्ता० || रक्त पुष्प गल माला कण्ठन पर साजै || जय अम्बे० || ३ || केहरि वाहन राजत खड्ग खप्पर धारी || मैया० खड्गख० || सुर नर मुनि जन सेवत तिनके दुह्खहारी || जय अम्बे० || ४ || कानन कुण्डल शोभित नासाग्रे मोती || मैया नासा० || कोटिक चन्द्र दिवाकर राजत सम ज्योती || जय अ० || ५ || शुम्भ निशुम्भ विदारे महिषासुर घाती || मैया मैष० || धूम्र विलोचन नैना निशिदिन मदमाती || जय अम्बे० || ६ || चण्ड मुण्ड संहारे शोणित बीज हरे || मा-ई शोणित० || प्. ६५) मधु कैटभ दो-ऊमारे सुर भयहीन करे || जय अं० || ७ || ब्रह्माणी रुद्राणी तुम कमला रानी || मा-ई तुम क० || आगम निगम बखानी तुम शिव पटरानी || जय अं० || ८ ||
59 SK चौसठ योगिनि गावत नृत्य करत भैर्ॐ || मैया नृ० || बाजत ताल मृदंगा और बाजे डमरू || जय अं० || ९ || तुम हि जग की माता तुम ही हो भरता || मा-ई तुम० || भक्तन की दुःख हरता || सुख संपति करता || जय अं० || १० || भुजा चार अति शोभित वर अभय धारी || मैया वर० || मन वांछित फल पावत सेवत नरनारी || जय० || ११ || कंचन थाल विराजत अगर कपुर वाती || मा-ई अग० || श्रीमालकेतु मे राजत कोटिरतन ज्योती || जय अंबे० || १२ || ये अम्बेजी की आरति जो को-ई नर गावै || मैयाजो० || कहत शिवानन्द स्वामी सुख सम्पति पावै || जय अम्ब गौरी || १३ || देव्या आरार्तिक स्तोत्रं नीरजन समये पठनीयम् || ॐ जयदेवि ! जयदेवि ! हे शङ्कर ललने ! ॐ मा हे शङ्कर ललने ! || कुरु कुरु चेतः सदयंमयिमातर्मिलिने || १ || मध्ये स्थापित दीपै रालीशत यूथैऽर्मा आलीशतयूथैः || निज करताल ध्वनिभिर्नादित दिग्पटलैः || क्रीडन गायन हासेर्नन्दिनि मृदु हृदयां मा भावयचेतः सततं भुवनेशीं सदयां || जयदेवि० २ || भवभयसागरपारंकर्तुं दृषदुदिता विदितादन्यत्प्रापयितुं मुदिता || सर्वाप्येवंलीलाजनता जनतायै नकथं द्रवसे || हृदये जगतो ममतायै || जयदेवि० २ || ३ || नाना मणिभयभूषामण्डित दोर्युगले मा नूपुर मधुर ध्वनिभिर्नादित दिग्पटले || उद्यद्दिनकर भानु प्रतिभट रुचिरास्येध्यातुः || किं किं दुर्लभ महमिह नहि जाने || जयदेवि० २ || ४ || जगतः सृष्टि स्थितयो हृतयः प्रतिकल्प लोचन मीलन लीलोन्मेषणतः कुरुषे || प्. ६६))
60 SK को वा प्रभवित तस्याः स्मृतये मनसा येमहिमा वेदा यत्र स्मृतिभिः सहचकिता || जयदेवि० २ || ५ || पाशाभय वरहस्ता रजनी पतिमाला || रक्ताम्बरपरिधाना सृणि भूषित हस्ता || रवि शशि लोचन युग्मा हुतवह नयनैनां || मानस भवय जननीं सततं भुवनैनाम् || जयदेवि० २ || ६ || सर्वं खल्विदमखिलं तदहं भुवनाधीशानी || नान्यत्किंचिन्मधुसूदन सततम् || इति या सम्यक् शिशवे हरये वट पत्रे || प्रवदति भुवना तस्यै नम एतत्कुर्मः || जयदेवि० २ || ७ || पद्यैरेतैरमलैर्मनुजो भुवनेश्याः कर्पूरार्त्या यजते परयाकिलभक्त्या || तस्यक्षोणीपतयो वशगा धन धान्यं पुत्राः पौत्रागेहे विमलं पदमन्ते || जयदेवि जयदेवि || ८ || श्रीमच्छङ्कराचार्य विरचितं देव्या आरार्तिक स्तोत्रम् || मन्त्र पुष्पाञ्जलिः || ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् || तेहनाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्तिदेवाः ॐ राजाधिराजायप्रसह्य साहिने नमोवयं वैश्रवणाय कुर्महे || समे कामान्कामकामायमह्यं || कामेश्वरो वैश्रवणो ददातु कुवेरायवैश्रवणाय राजाधिराजाय महाराजायनमः || ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुप आन्तादपरार्धात् || पृथिव्यै समुद्रपर्यान्ताया एकराडिति || तदप्येष श्लोकोभिगीतोमरुतः परिवेष्टारो मरुत्तस्या वसन्गृहे || प्. ६७) आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति || ॐ विश्वतश्चक्षुरुत विश्वतो मुखो वाहुरुत व्विश्व तस्मात् || सम्बाहुभ्यान्धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव-एकः || मन्त्र पुष्पाञ्जलिं समर्पयामि नमः || सेवन्तिका वकुल चम्पक पाटलाब्जैः || पुन्नाग जाति करवीर रसाल पुष्पैः || बिल्व प्रवाल् तुलसीदल मंजरीभिः || त्वां पूजयामि जगदीश्वरि ! मे प्रसीद || पापोहं पाप कर्माहं पापात्मा पाप संभवः || त्राहि मां सर्वदा मातः सर्व पाप हरा भव ||
61 SK दुर्गा गायत्री || ॐ महादेव्यै चविद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् || एवं पुनः पुनः प्रणम्य स्तुवीत || प्रदक्षिणा [एका चण्डयां रवौसप्त तिस्रो दद्याद्विनायके | चतस्रः केशवे देया शिवस्यार्द्ध प्रदक्षिणा ||] ॐ यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् || सूक्तं पञ्चदशर्चञ्च श्री कामः सततं जपेत् || ॐ येतीर्थानि प्रचरन्ति सृका हस्ता निषङ्गिणः || तेषां सहस्र योजने वधन्वानि तन्मसि || नमस्ते देव देवेशि! नमस्ते ईप्सित प्रदे ! || नमस्ते जगतां धात्रि ! नमस्ते शंकर प्रिये || नमः सर्व हितार्थायै जगदाधार हेतवे || साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः || इति प्रदक्षिणा || साष्टाङ्गप्रणाम [उरसा शिरशा दृष्ट्या मनसा वचसा तथा | पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः || बाहुभ्यां च सजानुभ्यां शिरसा मनसाधिया || पञ्चाङ्ग कः प्रणामः स्यात् सर्वत्र प्रवराविमौ || इति तन्त्रान्तरे ||] प्. ६८) पुनः शान्ति स्तवम् पठेत् || ॐ दुर्गां शिवां शान्ति करीं ब्रह्माणीं ब्रह्मणः प्रियाम् || सर्व लोअक प्रणेत्रीं च प्रणमामि सदाम्बिकाम् || १ || मंगलां शोभनां शुद्धां निष्कलां परमां कलाम् | विश्वेश्वरीं विश्वधात्रीं चण्डिकां प्रणमाम्यहम् || २ || सर्व देवमयीं देवीं सर्व लोक भयापहाम् | ब्रह्मेश विष्णु नमिताम् प्रणमामि सदा उमाम् || ३ || विन्ध्यस्थां विन्ध्यनिलयां दिव्यस्थान निवासिनीम् | योगिनीं योगजननीं चण्डिकां प्रणमाम्यहम् || ४ || ईशानमातरं देवीमीश्वरीमीश्वर प्रियाम् | प्रणतोस्मि सदा दुर्गां संसारार्णव तारिणीम् || ५ || य-इदं पठति स्तोत्रंशृणुयाद्वापि योनरः || समुक्तः सर्व पापेभ्यो मोदते दुर्गया सह || ६ || इतिमत्स्यसूक्तोक्त दुर्गास्तोत्रम् || वर प्रार्थना || रूपं देहि यशोदेहि भगं भगवति ! देहि मे | पुत्रान्देहि धनन्देहि सर्वान्काआंश्च देहि मे || १ || ॐ महिषघ्नि ! महामाये चामुण्डे ! मुण्डमालिनि ! | आयुरारोग्य विजयं देहि देवि ! नमोस्तु ते || २ ||
62 SK भूत प्रेत पिशाचेभ्यो रक्षोभ्यः परमेश्वरि ! | भयेभ्यः मानुषेभ्यश्च देवेभ्यो रक्षा मां सदा || ३ || सर्व मङ्गल मङ्गल्ये शिवे ! सर्वार्थ साधिके ! | उमे ! ब्रह्मणि ! कौमारि ! विश्वरूपे ! प्रसीद मे || ४ || कुंकुमेन समा लब्धे चन्दनेन विलेपिते | बिल्व पत्र कृता पीडे दुर्गे ! त्वां शरणं गतः || ५ || गतं पापं गतं दुःखं गतं दारिद्र्यमेवच | आगता सुख सम्पत्तिः पुण्याच्च तव दर्शनात् || ६ || ॐ हर पापं हर क्लेशं हर शोकं हरासुखम् | हर रोगं हर क्षोभं हर मारीं हरप्रिये ! || ७ || ॐ कायेन मनसा वाचा कर्मणायत्कृतं मया | ज्ञानाज्ञान कृतं पापं दुर्गे ! त्वं हर दुर्गतिम् || ८ || प्. ६९) पूजा [पूजाफल सुकायाद्यैः] फलाग्नि कार्याद्यैः सुकृतं यन्मयार्चितम् | तत्सर्वं फलदं मेस्तु भुक्ति मुक्तिंच देहि मे || ९ || लक्ष्मि ! त्वत्प्रज्ञयानित्यं कृतापूजा तवाज्ञया | स्थिरा भव गृहेह्यसिन्मम सन्तान (ऐश्वर्य) कारिणी || १० || विपद्गण ध्वानत सहस्र भानवः || समीहितार्थान्प्रति कामधेनवः || आपर संसार समुद्र सेतवो मां पातु चंडी चरणाब्जरेणवः || इत्युच्चार्य मूल मन्त्रेण पुष्पांजलित्रयं दद्यात् || अथ देव्यपराध क्षमापन स्तोत्रम् || श्री गणेशायनमः || न मंत्रं नो यंत्रं तदपि च न जाने स्तुति महो न चाह्वानं ध्यानं तदपि च न जाने स्तुति कथाः || न जाने मुद्रास्ते तदपि च न जाने विलपनं परंजाने मातस्त्वदनुसरणं क्लेश हरणम् || १ || विधेरज्ञानेन द्रविण विरहेणालसतया विधेयाशक्यत्वात्तवचरणयोर्याच्युतिरभुत् | तदेतत्क्षन्तव्यं जननि ! सकलोद्धारिणि ! शिवे ! कुपुत्रो जायेत क्वचिदपि कुमाता न भवति || २ || पृथिव्यां पुत्रास्ते जननि ! बहवः सन्ति सरलाः परं तेषां मध्ये विरल तरलोऽहं तव सुतः | मदीयोयंत्यागः समुचितमिदं नो तव शिवे ! कुपुत्रोजायेत क्वचिदपि कुमाता न भवति || ३ ||
63 SK जगन्मातर्मातस्तव चरण सेवा न रचिता न वा दत्तं देवि ! द्रविणमपि भूयस्तव मया | तथापि त्वं स्नेहं ययि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति || ४ || परित्यक्त्वा देवान्विविध विधसेवाकुल तया मया पञ्चाशीतेरधिकमुपनीते तु वयसि | इदानीं चेन्मातस्तव यदि कृपानापि भविता निरालम्बो लम्बोदर जननि ! कं यामि शरणम् || ५ || श्वपाको जल्पा को भवति मधुपाकोपमगिरा निरातंको रंको विहरति चिरं कोटि कनकैः || प्. ७०) तवापर्णे कर्णे विशति मनु वर्णे फलमिदं जनःकोजानीते जननि ! जपनीयं जपविधौ || ६ || चिताभस्मा लेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजग पतिहारी पशुपतिः | कपाली भूतेशो भजति जगदीशैकपदवीं भवानि ! त्वत्पाणि ग्रहण परिपाटी फलमिदम् || ७ || न मोक्षस्या कांक्षा न च विभव वांछापि च न मे नविज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः | अतस्त्वांसंयाचे जननि ! जननं यातु मम वै मृडानी रुद्राणी शिव ! शिव ! भवानीति जपतः || ८ || नाराधितसि विधिना विविधोपचारैः किं रुक्ष चिन्तन परैर्नकृतं वचोभिः | श्यामे त्वमेव यदि किंचन मय्यनाथे धत्से कृपामुचितमम्ब ! परं तवैव || ९ || आपत्सु मग्नः स्मरणं त्वदीयं करोओमि दुर्गे ! करुणार्णवेशिवे | नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्था जननीं स्मरन्ति || १० || जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चेन्मयि | अपराध परं परावृतं नहि माता समुपेक्षते सुतम् || ११ || मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि | एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु || १२ || इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं देव्यपराधक्षमापन स्तोत्रं सम्पूर्णम् || प्. ७२) अथ दुर्गा आपदुद्धाराष्टकम् || नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापि के ! विश्वरूपे | नमस्ते जगद्वन्द्य पादारविन्दे नमस्ते जगत्तारिणि ! त्राहि दुर्गे || १ ||
64 SK नमस्ते जगच्चिन्त्यमान स्वरूपे नमस्ते महायोगि विज्ञान रूपे | नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे || २ || अनाथस्य दीनस्यतृष्णातुरस्य भयार्तस्य भीतस्य वद्धस्य जन्तोः | त्वमेकागतिर्देवि निस्तार कर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ! || ३ || अरण्ये रणे दारुणे शत्रुमध्ये जले संकटे राजगेहे प्रवाते | त्वमेकागतिर्देवि ! निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ! || ४ || अपारेमहादुस्तरेत्यन्तघोरे विपत्सागरेमज्जतां देहभाजां | त्वमेकागतिर्देवि निस्तार नौका नमस्ते जगत्तरिणि त्राहि दुर्गे ! || ५ || नमश्चण्डिके ! चण्डदोर्दण्डलीलसमुत्खंडिता खंडलाशेषशत्रोः | त्वमेकागतिर्विघ्न सन्दोह हर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ! || ६ || त्वमेकासदाराधिता सत्यवादिन्यनेकाखिला क्रोधना कोथनिष्ठा | इडा-पिङ्गला त्वं सुषुम्णा च नाडीनमस्ते जगत्तारिण त्राहि दुर्गे || ७ || प्. ७३) अथ सङ्कट नाशन स्तोत्रम् || ॐ परब्रह्म स्वरूपाञ्च वेदगर्भाञ्जगन्मयीम् | शरण्ये त्वामहं वन्दे दुर्गां दुर्गति नाशिनीम् || १ || कामाख्यां कामदां श्यामां कामरूपां मनोरमाम् | ईश्वरीं त्वामहं वन्दे दुर्गां दुर्गति नाशिनीम् || २ || त्रिनेत्रां हास्य संयुक्तां सर्वालंकार भूषिताम् | विजयां त्वामहं वन्दे दुर्गां दुर्गति नाशिनीम् || ३ || ब्रह्मादिभिः स्तूयमानां सिद्धगन्धर्व सेविताम् | भवानीन्त्वामहं वन्दे दुर्गां दुर्गति नाशिनीम् || ४ || निशुम्भ शुम्भ मथिनीं महिषासुर घातिनीम् | दिव्यरूपामहं वन्दे दुर्गां दुर्गति नाशिनीम् || ५ || विंशत्यर्द्ध भुजां देवीं शुद्ध कांचन संनिभाम् | गौरीरूपामहं वन्दे दुर्गां दुर्गति नाशिनीम् || ६ || त्रिशूलं खड्ग चक्रं च वाणं शक्तिं परश्वधम् | दधानां त्वामहं वन्दे दुर्गां दुर्गति नाशिनीम् || ७ || जगन्मयी महा विद्यां सृष्टि संहार कारिणीम् | सरदैव महं वन्दे दुर्गां दुर्गति नाशिनीम् || ८ || इदन्तु कवचं दिव्यं महा मन्त्रं महाफलम् | प्. ७५)
65 SK यः पठेन्मानवो नित्य मस्मद्भक्ति समन्वितः | धनं धान्यं प्रयच्छामि सकृदावर्तनेन तु || मत्स्य सूक्तोक्त दुर्गा संकष्ट नाशनस्तोत्रम् सम्पूर्णम् || मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ! | तत्सर्वं क्षम्यतां देवि ! प्रसीद परमेश्वरि ! || न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम् | सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्महेश्वरि ! || आवाहनं न जानामि न जानामि विसर्जनम् | पूजां चैव न जानामि क्षमस्व परमेश्वरि ! || प्. ७६) ॐ पुनस्त्वा रुद्रादित्यावसवः समिन्धताम्पुनर्ब्रह्माणोव्वसुनीथयज्ञैः | घृतेनत्वं तन्वंवर्द्धयस्वसत्याः सन्तुयजमानस्यकामाः || १ || इषेत्वोर्जेत्वावायवस्थदेवोवः सविता प्रार्पयतुश्रेष्ठतमाय कर्मणऽ- karotusvasti te brahmā svastivāpi dvijātayaḥ | sarīsṛpāścayeśreṣṭhā stebhyaste svasti sarvadā || yayātinahuṣaścaiva dhundhamārobhagīrathaḥ | tubhyaṃrājarṣayaḥ sarvesvastiṃkurvantunityaśaḥ || svastitestu dvipādebhyaścatuṣpādebhya eva ca | svāhāsvadhāśacī caiva svastiṃ kurvantu te sadā || lakṣmīrarundhatī caiva kurutāṃ svastite'nagha | asitodevalaścaivaviśvāmitrastathāṃgirāḥ || svastitedya prayacchantu kārtikeyaścaṣaṇmukhaḥ | vivasvānbhagavānsvastikarotu tava sarvaśaḥ || diggajāścaivacatvāraḥ kṣitijāgaganaṃgrahāḥ | adhastāddharaṇīṃ yosaunāgodhārayatesadā || śeṣaśca pannagāḥ śreṣṭho svasti tubhyaṃprayacchati | maṃtrārthāḥ saphalāḥ santu pūrṇāḥ santu manorathaḥ || śatrūṇāṃ buddhi nāśostu mitrāṇāmudayastathā | aputrāḥ putriṇaḥ santu putriṇaḥ santu pautriṇaḥ || adhanāḥ sadhanāḥ santu santu sarvārtha sādhakāḥ | āyuṣkāmo yaśaskāmo putra pautrastathaiva ca || ārogyaṃ dhana kāmaśca sarve kāmāḥ bhavantu te (me) ||
66 SK इत्यर्गलपुर निवासि गौड जातीय भारद्वाज वंशोद्भव विद्वद्वर गोस्वाम्युपाह्व पं० श्री बुलाखीराम सूनुना भूतपूर्व श्री विद्याधर्मवर्द्धिनी पाटशालायाः कर्मकाण्ड यजुर्वेदाध्यापकेन विद्याभूषण कर्मकाण्डमणीत्युपाधिविभूषितेन श्रीलक्ष्मीनारायण गोस्वामिना संगृहीता दुर्गार्चनसृतौ वेदोक्त कलशस्थापन विधिः सम्पूर्णा || प्. ७७) प्रसङ्गात्स्तोत्र पाठ विधि | न च स्वयं कृतं स्तोत्रं तथान्येन च यत्कृतम् | यतः कलौ प्रशंसंति ऋषिभिर्भाषितं तु यत् || सरस्वती स्तोत्रम् || श्री भैरव उवाच || शृणुदेविप्रवक्ष्यामि स्तोत्रं परम दुर्लभम् | वागीश्या मान्त्र गर्भंतु भुक्तिमुक्ति फलप्रदम् || ॐ अस्य श्री वाग्वादिनी शारदा स्तोत्र मन्त्रस्य मार्कण्डेयाश्वलायन ऋषिः स्रग्धरानुष्टुप छन्दः श्री सरस्वती देवता ह्रीं बीजं ॐ शक्ति ऐं कीलकम् आशु वाग्विवृद्धयेजपे विनियोगः || ध्यानम् || शुक्लां ब्रह्म विचार सार परमामाद्यां जगद्व्यापिनीम् | वीणा पुस्तक धारिणीमभयदां जाड्यान्धकारापहाम् || हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम् | वन्दे तां परमेश्वरीं भगवतीं बुद्धि प्रदां शारदाम् || १ || ब्रह्मोवाच || ह्रीं ह्रीं हृद्यैकबीजे शशि रुचि कमला कल्प विष्पष्ट शोभे | पद्मे पद्मोपविष्टे प्रणतजनमनो मोदसंपादयित्रि || प्रोत्प्लुष्टाज्ञानकूटेहरिनिजदयितेदेविसंसार सारे || २ || ऐं ऐं ऐं इष्ट मन्त्रे कमलभवमुखांभोजरूप स्वरूपे | स्थूलेनैव सूक्ष्मेप्यविदित विषये नापिविज्ञाततत्वे | विश्वे विश्वान्तराले सुरवर नमितेनिष्कले नित्य शुद्धे || ३ || ह्रीं ह्रीं ह्रीं जाप तुष्टे हिमरुचि मुकुटे वल्लकी व्यग्रहस्ते | मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धि प्रशस्तां || विद्ये वेदान्त गीते श्रुति परि पठिते मोक्षदे मुक्ति मार्गे | मार्गातीत प्रभावे भव मम वरदा शारदे शुभ्रहारे || ४ || प्. ७८)
67 SK धीं धीं धीं धारणाख्ये धृतिमतिनुतिभिर्नामभिः कीर्तनीये नित्येऽनित्ये निमित्ते मुनिगण नमिते नूतने वै पुराणे || पुण्येपुण्यप्रभावे हरिहर नमिते नित्य शुद्धे सुवर्णे मन्त्रे मन्त्रार्थ तत्वे मति ! मति ! मतिदे माधव प्रीति नादे || ५ || ह्रां क्ष्रीं ध्रीं ह्रीं स्वरूपे दह दह दुरितं पुस्तक व्यग्रहस्ते || संतुष्टाकारचित्ते स्मितमुखि सुभगे जृंभिणी स्तंभविद्ये || मोहे मुग्ध प्रभावे मम कुरु कुमतिं ध्वांत विध्वंसमीड्ये || गीर्गीर्वाग् भारतीत्वं कविवृषरसना सिद्धिदा सिद्ध विद्या || ६ || स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित्यजेथाः || मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे जातु पापम् || मामे दुःखं कदाचिद्विपदि च समयेऽप्यस्तु मे नाकुलत्वं || शास्त्रेवादे कवित्वे प्रसरतु ममधिर्मास्तु कुंठा कदाचित् || ८ || इत्येतैः श्लोकः मुख्यैः प्रति दिन मुपसि स्तौति यो भक्त नम्रो वाणीं वाचस्पते रप्यभि मत विभवो वाक् पटुर्मृष्टपंकः || सस्यादिष्टार्थलाभः सुत मिव सततं पातितं सा च देवी || सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति || ९ || ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः || सारस्वतो नरः पाठात्सस्यादिष्टार्थ लाभवान् || १७ || पक्षद्वयेऽपियोभक्त्यात्रयोदश्येकविंशतिम् || अविच्छेदंपठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् || ११ || शुक्लांवर धरांदेवी शुक्लाभरणभूषिताम् || वाञ्छितं फलमाप्नोति सलोकेनात्रसंशयः || १२ || इति ब्रह्मास्वयं प्राहसरस्वत्याः स्तव शुभम् प्रयत्नेन पठेन्नित्यंसोमृतत्वं च गच्छति || १३ || यथाशक्ति जप || ॐ श्रीं सौं ह्रीं क्लीं धीं महालक्ष्मी महासरस्वत्यैनमः || इतिमनुः इतिश्रीरुद्रयामलेतन्त्रे दशविद्यारहस्ये सरस्वती स्तोत्रं सम्पूर्णम् || प्. ७९) सूत पूजन विधिःइ || विश्वसारे || महाविद्यां गृहीत्वा च जपेज्जीवावधि प्रिये | महागुरुनिपातादौ न पूजायां विकल्पना ||
68 SK मोहाद्वा यदिवादैवात्पूजयेन्न च साधक | तस्य सर्व विनाशः स्यान्मारयेत्तं सदा शिवः || अशुचौवाशुचौवापिसर्वकालेपिसर्वदा | पूजयेत्परयाभक्त्यानात्रकार्याविचारणा || रुद्रयामले || पूजयेन्मृतकेऽपि स्याज्जनने सरुजोपिवा || सर्वत्रैव विधिः प्रोक्तः सर्व कामफल प्रदः || अथ सूतकिनः पूजां वक्ष्याम्याग मचोदिताम् || वाह्यपूजा क्रमेणैवध्यानयोगेनपूजयेत् || देवी विषये वाह्य पूजा कर्तव्या विशेष विधानात् || तथा चोक्तंवाराही तन्त्रे || तारायाश्चैव काल्याश्च त्रिपुरायाश्चसुव्रते ! || सूतकेमृतकेचैवनत्यजेयुर्जपार्चनम् || यामले || अशुचिर्वाशुचिर्वापिगच्छंस्तिष्ठन्स्वपन्नपि || न दोषोमानसेजाप्येसर्वदेशेषुसर्वदा || विश्वसारे || जाग्रच्छयान-उत्तिष्ठन्भुंजानोगमनेपिवा || सिद्धमन्त्रे न दोषःस्यादशौचनियमेपि च || नकल्पनादिवारात्रौ न च सन्ध्यावसानके || श्रुतौ || तदनन्तरमशौच मपिनप्रतिवन्धकम् || व्रतयज्ञविवाहेषुश्राद्धेहोमेऽर्चनेजपे || आरब्धे सूतकंनस्यादनारब्धेतुसूतकम् || आरम्भोवरणंयज्ञे संकल्पोव्रतजापयोः || प्. ८०) नान्दीश्राद्धंविवाहादौश्राद्धे पाकपरिष्क्रिया || निमंत्रणन्तु वा श्राद्धे आरम्भःस्यादितिश्रुतिः || रुद्रयामले - जात सूतकमासै स्यादस्ते च मृतसूतकम् || सूतक द्वय संयुक्तो न मन्त्रः सिद्धिदायकः || जपादौ जपान्ते च सूतकद्वयमित्यर्थः || ब्रह्म बीजं मनोर्दत्वा चाद्यञ्च परमेश्वरि ! || सप्त वारं जपेन्मन्त्रं सूतक द्वय मुच्यते || इति राघव भट्ट कृत विष्णु वचनात् || दीक्षा शब्दार्थ माह यामले || दीक्षा शब्दार्थः दिव्य ज्ञानं यतो दद्यात्कुर्यात्पापक्षयं यतः | तेन दीक्षेति लोकेस्मिन्कीर्तिता तन्त्रपारगैः || कुलार्णवे १५ उल्लासे || मन्त्रजपे पाठे च भेदः || मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् | उभयं निष्फलं देवि ! भिन्न भाण्डोदके यथा || गुरुशब्दार्थः || गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः || अन्धकार निरोधित्वाद्गुरुरित्यभिधीयते ||
69 SK गकाराद् ज्ञान संपत्ती रेफः पापस्य दाहकः | उकारा च्छिवतादात्म्यं दद्यादिति गुरुं स्मृतः || कुल चूडामणी || उदासीनो ह्युदासीनां वनस्थाः वनवासिनः | यतीनाञ्च यतीप्रोक्तो गृहस्थानां गुरुगृही || वैष्णवे वैष्णवो ग्राह्यः शैवे शैवस्तथा पुनः | शाक्त के त्रितयं विद्याद्दीक्षास्वामी न संशयः || गुरुरपि गृहस्थ एव कुलार्णवे || सर्व शास्त्राथ वेत्ता च गृहस्थो गुरु रुच्यते | प्. ८१) गुरु शब्दार्थः यामले || गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः | उकारः शक्ति इत्युक्तस्त्रितयात्मा गुरुः स्मृतः || मन्त्र शब्द व्युत्पत्ति माह || मननं विश्व विज्ञानं त्राणं संसार बंधनात् | यतः करोति सं सिद्धो मन्त्र इत्युच्यते ततः || पिंगलामते || मननात्त्राणनाच्चैव मद्रूपस्यावबोधनात् | मन्त्र इत्युच्यते सम्यङ् मदधिष्टानतः प्रिये || रूद्रयामले || गुप्तोपदेश तो मन्त्री मननात् त्राणनादपि || तन्त्रान्तरे || तोडल तन्त्रोक्त मन्त्र चैतन्य विधिः || सर्व मंत्रस्य चैतन्यं शृणु पार्वति सादरं | सहस्रारे महापद्मे बिन्दुरूपं परं शिवं || कुण्डलिनीं समुत्थाप्य हंसेन मनुना सुधीः | नासाग्रे या स्थिरा दृष्टिर्जायते परमेश्वरि || तदैव मन्त्र चैतन्यं कुण्डली चक्रगं भवेत् | सहस्रारे महापद्मे कुण्डल्या सहितं गुरुं || भावयेत्सर्व मंत्राणां चैतन्यं जायते प्रिये | तदेव प्रजपेन्मन्त्रं सिद्धिदं नात्रसंशयः || देवी प्रतिमास्थापने विशेषः || याम्यास्या शुभदा दुर्गा पूर्वास्या जय वर्द्धिनी पश्चिमाभि मुखी नित्यं न स्थाप्या सौम्यदिङ् मुखी || देवी भक्ति तरङ्गिण्यां देवी पुराणे च तोडलतन्त्रे || श्रीशिव उवाच || मूलाधारेकाम रूपं हृदिजालंधरं प्रिये ! | पूर्ण गिरिमधोभागे उड्डियानंतदूर्ध्वके || वाराणसी भ्रुवोर्मध्ये ज्वलन्ती लोचनत्रये | प्. ८२)
70 SK मायावती मुखवृत्ते कण्ठेचाष्ट पुरीतथा नाभिमूलेमहेशानि ! अयोध्यापुरी संस्थिता || कांची पीठंकटीदेशे श्रीचक्रं पृष्ठदेशके || मूलधारात् शताश्चैव अतलंपरिकीर्तितम् || सुतलं च वर्षशतं तलातलशतं प्रिये || ऋषिवाणेन्दु वर्षान्तं संस्थितं च महातलम् || शतद्वयान्तं पातालं द्विशतं वै रसातलम् || मूलाधाराच्च देवेशि ! द्वेंगुली चान्तिकेस्थिते || तयोर्मध्य च पाताल स्तिष्ठन्ति परमेश्वरि ! || इति ते कथितंकान्ते ! योगसारंसमासतः || नवक्तव्यंपशोरग्रे प्राणान्तेपि कदाच न || तोडलतन्त्रे १० उल्लासे || तारादेवी नीलरूपा कमला कूर्म चंडिका | धूमावती वराहः स्यात् छिन्नमस्ता नृसिंहिका || भुवनेश्वरीवामनः स्यान्मातंगी राम मूर्तिका | त्रिपुराजामदग्न्यः स्याद्वलभद्रस्तुभैरवी || महालक्ष्मीर्भवेद्बुद्धोदुर्गास्याद् कल्किरूपिणी | स्वयं भगवती काली कृष्ण मूर्तिः समुद्भवाः || इति ते कथितं देव्यवतारं दशमेवहि | एतासां पूजनाद्देवि महादेव समोभवेत् || गन्धर्व तन्त्रे || न दद्याद्भास्करायार्घ्यं शंखतोयैर्महेश्वरि | यावन्नदीयते चार्घो भास्कराय महेश्वरि || तावन्न पूजयेद्विष्णुं शङ्करं वा सुरेश्वरीम् | सूर्यः सोमो यमः कालो महाभूतानि पञ्चवै || एते शुभाशुभस्येह कर्मणो नव साक्षिणः | सर्वे देवा शरीरस्थाः मम मन्त्रस्य साक्षिणः || पूर्व जन्मार्जितां विद्यां मम हस्ते प्रदापय || जप फलं कुलार्णवे || गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् | प्. ८३) कोटिर्देवालये पुण्यममन्तं शिवसन्निधौ || उपचार शब्दर्थो ज्ञान मालायाम् || भक्त्या चैते कृता देवे साधकं देव सान्निधिम् | चारयन्ति यतस्तस्मा दुच्यन्ते ह्युपचारकाः || समीपे चारणाद्वापि फलानान्ते तथोदिताः | अष्टत्रिंशत् षोडशोऽर्क दश पञ्चोपचारकाः || तान्विभज्य प्रवक्ष्यामि के के ते तैः कृतैश्चकिम् || आसनं प्रथमं तेषामावाहनमुपस्थितिः || स्नानं नीराजनं वस्त्र माचामंचोपवीतकम् | पुनराचाम भूपे च दर्पणालोकनं ततः ||
71 SK गन्ध पुष्पे धूप दीपनैवेद्यं च ततः क्रमात् | पानीयं तोय माचामं हस्तवासस्ततः परम् || ताम्बूलमनुलेपञ्च पुष्प दानं पुनः पुनः | गीतं वाद्यं तथा नृत्यं स्तुतिं चैव प्रदक्षिणम् || पुष्पाञ्जलिं नमस्कारावष्ट त्रिंशत्समीरिता | पुष्पाञ्जलि नमस्कारौ विष्णु प्रीत्यैभवन्त्यमी || तन्त्रोक्तोपचाराः || उपचारं प्रवक्ष्यामिशृणु पार्वति ! सादरम् | विनोपचारैर्या पूजा सा पूजा न प्रसीदति || अष्टा दशोपचारास्तु सर्वेषामुत्तमाः प्रिये ! || षोडशीति प्रधाना च दशधातदनुस्मृता | पञ्चधातदनुप्रोक्ता कर्तव्याभूति मिच्छता || फेत्कारिणी तन्त्रे || अष्टादशोपचाराः || आसना वाहनञ्चार्घ्यं पाद्यमाचमनन्तथा | स्नानं वासोपवीतञ्च भूषणानि च सर्वशः || प्. ८४) गन्धं पुष्पं तथा दीपं धूपोन्नंचापि तर्पणम् | माल्यानुलेपनं चैव नमस्कारो विसर्जनम् || अष्टादशोपचारैस्तु मन्त्री पूजांसमाचरेत् || षोडशोपचाराः तन्त्रे || आसनं स्वागतं पाद्यमर्घ्यमाचनीयकम् | मधुपर्काचमनं स्नानं वसनं भरणानि च || गन्धपुष्पे धूपदीपे नैवेद्यं वन्दनस्तथा | प्रयोजयेदर्चनायामुपचारांश्च षोडशः || दशोपचाराः || पाद्यार्घ्याचमनीयञ्च मधुपर्काचमनस्तथा | गन्धादयो नैवेद्यान्ता उपचाराः दशात्मकाः || पञ्चोपचाराः || गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च | प्रदद्यात्परमेशानि ! पूजा पंचोपचारिका || पूजने वर्ज्य पदार्थाः || सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं जलम् | अवर्ज्यं जान्हवी तोयमवर्ज्यं तुलसीदलम् || अवर्ज्यं विल्वपत्रं स्यादवर्ज्यं जलजं तथा | पुष्पैः पर्युषितैर्देवि नार्चयेत्स्वणजैरपि || बिल्वपत्रंचमार्घ्यं च तमालामलकीदलम् | कल्हारं तुलसी पत्रं पद्मंच मणि पुष्पकम् || एतत्पर्युषितं न स्यात् यच्चान्यत्कलिकात्मकम् | तिष्ठेद्दिनत्रयं शुद्धं पद्ममामलकन्तथा || दिनैकं करवीराणि येऽन्यानि च तपोधन | पद्मानि सित रक्तानि कुसुमान्युत्पलानि च || प्. ८५) एषांपर्युषिता शङ्का कार्या पञ्चदिनाद्धतः ||
72 SK गणेश स्तुतिः सद्धर्म चिन्तमणौ || प्रातः स्मरामि गणनाथ मनाथ बन्धुं सिन्दूरपूर्ण परिशोभित गण्ड युग्मम् || उद्दण्ड विघ्न परि खण्डन चण्ड दण्डमाखण्डलादि सुरनायक वृन्द वन्द्यम् || १ || प्रातर्नमामि चतुरानन वन्द्यमानमिच्छानुकूलमखिलं च वरं दधानम् | तन्तुन्दिलं द्विरसनाधिप यज्ञ सूत्रं पुत्रं विलास चतुरं शिवयोः शिवाय || २ || प्रातर्भजाम्यभयदं खलु भक्त शोक दावानलं गण विभुं वर कुंजरास्यम् | अज्ञानकानन विनाशन हव्यवाहमुत्साह वर्धनमहं सुतमीश्वरस्य || ३ || श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् | प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् || देवी स्तुतिः सद्धर्म चिन्तामणौ || प्रातः स्मरामि शरदिन्दु करो ज्वालाभां सद्रत्नवन्मकर कुण्डल हारभूषाम् | दिव्यायुधोर्जित सुनील सहस्रहस्तां रक्तोत्पलाभ चरणां भवतीं परेशाम् || १ || प्रातर्नमामि महिषासुर चण्ड मुण्ड शुम्भासुर प्रमुख दैत्य विनाश दक्षाम् | ब्रह्मेन्द्र रुद्र मुनि मोहन शीललोलां चण्डीं समस्त सुरमूर्तिमनेक रूपाम् || २ || प्रातर्भजामि भजतामभिलाष दात्रीं धात्रीं समस्तजगतां दुरिताप हन्त्रीं | संसार बन्धन विमोचनहेतु भूतां मायां परां समधि गम्य परस्य विष्णोः || ३ || श्लोक त्रय मिदं देव्याश्चण्डिकायाः पठेन्नरः | सर्वान्कामानवाप्नोति देवी लोके महीयते || तथा च शारदायांभुवनेश्वरींप्रति शिववाक्यम् || अद्याप्य शेष जगतां नवयौवनासि शैलाधिराज तनयाप्यति कोमलासि || प्. ८६) समयातन्त्रे || कदाचित्कस्यमुक्तिः स्यात्कदाचिद्भुक्तिरेवच | एतस्याः साधकस्याथ भुक्तिर्मुक्तिः करे स्थिता || रुद्रयामले ||
73 SK यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षः न च तत्र भोगः || शिवापदाम्भोज युगार्चकानां भोगश्च मोक्षश्च करस्थ एव || योऽन्येभ्यो दर्शनेभ्यश्च भुक्तिं मुक्तिं च कांक्षति || स्वप्नलब्धघ्नेनैव धनवान्सभवेद्यदि || शुक्तोरजतविभ्रान्तिर्यथा जायेत पार्वति ! || तथान्य दर्शनेभ्यश्च भुक्तिं मुक्तिं च कांक्षति || शाक्तानन्दतरंगिण्यां षष्ठोलासे || आत्मस्थां देवतां त्यक्त्वा वहिर्देवं विचिन्वते | करस्थं कौस्तुभं त्यक्त्वा भ्रमते काच तृष्णया || प्रत्यक्षं कृत्व हृदये वहिः स्थां पूजयेच्छिवां | यस्य-यस्य च देवस्य तथा भूषण वाहनम् || तदेव पूजनेतस्य चिन्तयेत्परमेश्वरि | अथान्तर्यजनंवक्ष्ये येन देवमयोभवेत् || सुखासने समासीनः प्राङ्मुखो वा उदङ्मुखः | स्वकीय हृदये ध्यायेत् सुधासागर मुत्तमम् || रत्न द्वीपञ्चतन्म्ध्ये सुवर्ण वालुकमयम् | मन्दारपारिजाताद्यैः कल्पवृक्षैः सु पुष्पितैः || सर्वतोलंकृतैर्दिव्यर्नित्य पुष्प फलद्रुमैः | नान सुगन्ध कुसुम गन्धामोतिदिङ्मुखं || उत्फुल्लकुसुमामोदप्रहृष्टभृङ्ग संकुलम् | कूजत्कोकिल संगेन वाचालित दिगन्तरम् || सर्वतोलंकृतं दिव्यं लसत्कांचन पङ्कजम् | मौक्तिकैः कुसुमैः स्रग्भिर्दुकूलैः स्वर्णतोमरैः || तन्मध्ये संस्मरेद्देविकल्पवृक्षं मनोहरम् | चतुःशाखाचतुर्वेदंगुणत्रय समन्वितम् || पीतं कृष्णं तथा श्वेतं रक्तं पुष्पं च सुन्दरि | हरितं च विचित्रं च नाना पुष्प विराजितम् || कोकिलर्भ्रमरर्देवि शोभितं बहु पक्षिभिः | एवं कल्पद्रुमं ध्यात्वातदधोरत्नवेदिकाम् ! || तत्रोपरिमहद्व्याप्तं चिन्तयेद्रक्तमण्डलम् | उद्यदादित्य संकाशं रत्न सोपान मण्डितम् || ध्वजावली समाकीर्णं चतुर्द्वार समन्वितम् | नाना रत्नादि शोभाढ्यं रत्नप्राकर मण्डितम् || स्व स्वस्थान स्थितावस्थिर्लोकपालैरधिष्ठितम् | सिद्ध चारण गंधर्वैर्विद्याधर महोरगैः ||
74 SK किन्नरैरप्सरोभिश्च क्रीडद्भिः परिदिङ् मुखम् | नृत्य वादित्र निरतैरमरस्त्रीगणैर्युतम् || किंकिणीजालसन्नद्धपताकाभिरलंकृतम् | महामाणिक्य वैदूर्यरत्नचामर भूषितम् || स्थूल मुक्ता फलोद्दामलम्बमानैरलंकृतम् | चन्दनागुरु कस्तूरीतथामृगमदविलेपितम् || तन्मध्ये संस्मरेद्देविमहामाणिक्य वेदिकाम् | प्. ८७) उद्यदर्केन्दुकिरणश्चतुष्कोणप्रशोभितम् || ध्यायेत्सिंहासनंतत्र ब्रह्म विष्णु शिवत्मकम् | सिंहासने महेशानिप्रसूनतूलिकांन्यसेन् || पीठ पूजां ततः कृत्वा संकल्पोक्त क्रमेणतु | प्रेतपद्मासने तत्र चिन्तयेत्परमेश्वरीं || आत्मनो भीष्ट देवता ध्यानमिहोच्यते | श्रीरत्नपादुकेदत्वानीत्वा तां स्नान मन्दिरे || सिंहासनोपविष्टायामुद्वर्तनंसमाचरेत् | कर्पूरागुरुकस्तूर्या तथा मृगमदेन च || रोचना कुंकुमैर्मिश्रर्नाना गंध समन्वितैः | देव्या-उद्वर्तनंकृत्वा गंध तैलं विलेपयेत् || देव्या शतसहस्रैस्तु स्वर्ण कुम्भ सहस्रकैः | आनीय वारिणा स्नातां चिन्तयेत्परदेवताम् || दुकूलैर्मार्जितं गात्रं दुकूले परिघे तथा | कंकत्या केशांसंस्कुर्याद्विधिवद्वन्धनं तथा || पट्ट गुच्छं केशपाशेनानारत्नोपशोभितम् | ललाटे तिलकं दद्यात्सिंदूरं केश मध्यगे || नागेन्द्र दन्त रचितं शंखं दद्यान्मनोहरम् | हस्तेकेयूरकं चैव कंकणं कटकं तथा || पादांगुलीयकं दद्यान्नाना रत्नोपशोभितम् | पादयोर्नूपुरं दद्यान्नासाग्रे गजमौक्तिकम् || निवेदयेद्यथा शक्त्या पुष्प मालाञ्च भूषणम् | सर्वाङ्गे लेपनं कुर्याद्गंध चन्दन्दसिह्लकैः || काञ्चनाञ्चित कञ्चूली शोभितं हृदयोपरि | समाधौ चिन्तयेद्देवीं भूत शुद्धादिकंदिशेत् || न्यास जालं विधायाथ समाधौ पूजयेत्सदा | षोडशैरुपचारैस्तु हृदिस्थां पूजयेच्छिवाम् || रत्न सिंहासने दद्यात्स्वागतं कुशलंवदेत् | पाद्यं च पादयोर्देवि शिरस्यार्घ्यं निवेदयेत् || परामृतमाचमनीयं प्रदद्यान्मुख पंकजे | मधुपर्कं मुखेदद्यात्त्रिधा आचमनंमुखे ||
75 SK हेमपत्र गतं दिव्यं परमान्नं परिस्ततम् | कपिला घृत संयुक्तमन्नं व्यञ्जन संयुतम् || सुधाम्बुधिं मांस शैलं मत्स्यराशिं फलानि च | भक्षं भोज्यं तथा लेह्यं चर्व्यं चोष्यं तथैव च || सकर्पूरं च ताम्बूलं मानसं परिकल्पयेत् | आवरणस्ततोदेव्याः पूजनंमनसैवहि || इत्थमन्तः समाराध्य मनसैवजपेन्मनुम् | सहस्रादि जपं कृत्वा देव्यै सोदकमर्पयेत् || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एतदेव महादेव्याः पर्यंकंसमुदाहृतम् || पयः फेन निभांशय्यां नाना पुष्पोपशोभितां | पुष्प शैयां च सं कुर्यात्तत्रदेवीं सुरेश्वरीम् || चिन्तयेत्साधकोयोगीनानासुख विलासिनीम् | नृत्य गीतैः स वाद्यैश्च तोषयेत्परमेश्वरीम् || ततो होमं प्रकुर्वीत पूजा सार्थक्य हेतवे || दुर्गा १६ उपचाराः मानसिक पूजने || उद्यच्चन्दन कुंकुमारुणपयो धाराभिराप्लावितम् || प्. ८८) नानानर्घ मणि प्रवाल घटितां दत्तां गृहाणाम्बिके ! | आमृष्टां सुर सुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितः मातः सुन्दरि ! भक्त कल्प लतिके ! श्रीपादुकामादरात् || १ || देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनम् | चंचत्कांचन संचयाभिरचितं चारु प्रभाभास्वरम् || एतच्चम्पक केतकी परिमलं तैलं महा निर्मलम् | गन्धोद्वर्तनमादरेण तरुणी दत्तंगृहाणाम्बिके ! || २ || पश्चाद्देवि ! गृहाण शम्भु गृहिणि ! श्री सुन्दरि ! प्रायशः | गन्ध द्रव्य समूह निर्भर भवं धात्री फलं निर्मलम् || तत्केशान्परिशोध्य कङ्कतिकया मन्दाकिनी स्रोतसि | स्नात्वाप्रोज्वल गंधकं भवतु ते श्री सुन्दरि ! तन्मुखे || ३ || सुराधिपति कामिनी कर सरोज नाली धराम् | स चन्दन सुकुंकुमागुरुतरेण विभ्राजिताम् || महापरिमलोज्वलां सरस शुद्ध कस्तूरिकाम् | गृहाण वरदायिनि ! त्रिपुर सुन्दरि ! श्रीपदे || ४ ||
76 SK गन्धर्वामर किन्नर प्रियतमा सन्तान हस्ताम्बुजे | प्रस्तारैर्घ्रियमानमुत्तम तरं काश्मीरजापिंजरम् | मातर्भास्वर भानु मण्डल लसत्कान्ती प्रदानोज्वलम् | चैनं निर्मलमातनोतु वसनम् श्री सुन्दरि ! त्वन्मुदे || ५ || स्वर्णाकल्पित कुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका | मध्येसारसना नितम्ब फलदे मंजीरमंघ्रिद्वये || हारो वक्षसि कङ्कणोक्वण रणत्कारौ कर द्वन्द्वके | विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम् || ६ || ग्रीवायां धृत कान्ति कान्त पटलं ग्रैवेयकं सुन्दरम् | सिन्दूरं विलसल्ललाटफलके सौंदर्य मुद्राधरम् || प्. ८९) राजत्कज्जल मुज्वलोत्पलदलश्री लोचने लोचने | तद्दिव्यौषधिनिर्मितं रचयतु श्री शाम्भवि श्रीपदे || ७ || अमन्द तर मन्दरोन्मथित दुग्ध सिन्धूद्भवम् | निशाकर करोपमं त्रिपुर सुन्दरि ! श्रीपदे || गृहाण मुखमीक्षितुं मुकुर बिम्बमाविद्रुमै- र्विनिर्मित मघुच्छदेरति कराम्बुज स्थायिनम् || ८ || कस्तूरी द्रव चन्दनागुरु सुधा धाराभिराप्लावितम् | चंचच्चम्पक पाटलादि सुरभिर्द्रव्यैः सुगन्धी कृतम् || देव श्री गण मस्तक स्थित महा रत्नादि कुम्भ व्रजै- रम्भः साम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके ! || ९ || कल्हारोत्पल नागकेशर सरोजाख्यावली मालती | बल्ली कैरव केतकादि कुसुमैः रक्ताश्वमारादिभिः || पुष्पैर्माल्य भरेण वै सुरभिना नाना रस स्रोतसा || ताम्राम्भोजनिवासिनीं भगवतीं श्री चण्डिकां पूजये || १० || मांसी गुग्गुल चन्दनागुरु रजः कर्पूर शैलेयजैः || माध्वी कैः सह कुंकुमैः सुरचितैः सर्पिर्भिरामिश्रितैः || सौरभ्यस्थिति मन्दिरे मणिमये पात्रे भवेत्प्रीतये || धूपोऽयं सुरकामिनि विरचितः श्रीचण्डिके ! त्वन्मुखे || ११ || घृत द्रव परिस्फुरद्रुचिर रत्न यष्ट्यान्वितो || महा तिमिर नाशनः सुर नितम्बिनी निर्मितः || सुवर्ण चषक स्थितः सघन सार वर्त्यान्वितः || तव त्रिपुर सुन्दरि ! स्फुरति देवि ! दीपोमुदे || १२ ||
77 SK जाती सौरभ निर्भवं रुचिकरं शाल्योदनं तिर्मलम् || युक्तं हिंगुमरीच जीर सुरभिर्द्रव्यान्वितैर्व्यञ्जनैः || पक्वान्नेन सपायसेन मधुना दध्याज्य संमिश्रितः || नैवेद्यं सुरकामिनी विरचितं श्री चण्डिके ! तन्मुखे || १३ || प्. ९०) लवङ्ग कलिकोज्वलं वहुलनाग वल्ली दलं || सजातीफल कोमलं सघनसार पूगी फलम् || सुधा मधुरि माकुलं रुचिर रत्न पात्र स्थितं || गृहाण मुख पङ्कजे स्फुरित गन्ध ताम्बुलकम् || १४ || शरत्युभव चन्द्रमः स्फुरित चन्द्रिका सुन्दरम् || दलत्सुरतरङ्गिणी ललित मौक्तिकाडम्बरम् || गृहाण नव कांचन प्रभव दण्ड खण्डोज्वलम् || महा त्रिपुर सुन्दरि ! प्रकटभातपत्रं महत् || १५ || मातस्त्वन्मुद मातनोतु सुभग स्त्रीभिः सदान्दोलितम् || शुभ्रं चामरमिन्दु कुन्द सदृशं प्रस्वेद दुःखापहम् || स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेद ध्वनिः || १६ || स्वर्गाङ्गणे वेणु मृदङ्ग शंख भेरी निनादैरुपगीयमानः || कोलाहलैराकुलिता तथास्ते विद्याधरी नृत्यकलासुखाय || देवि भक्तिरस भावित वृत्ते प्रीयतां यदि कुतोपि लभेत्तां || तत्र नौन्यमपि सत्फलमेकं जन्म कोटिभि रईहनलभ्यम् || १७ || एतैः षोडशभिः पदैरुपचारोपकल्पितैः | यः परां देवतां स्तौति सतेषां फल माप्नुयात् || मङ्गलाचरणम् || हे रम्बं विधुशेखरं निजगुरोर्हृद्यं च रम्यंपदम् | ध्यात्वा विघ्नभवाब्धि पीत गहनं स्मृत्वामहेशंपरम् || विद्वद्वृन्द मनो विनोद सरणिलक्ष्म्यग्रनारायणः || व्याकुर्वेऽवुधवोधनाय ललितां दुर्गार्चनाय सृतिम् || १ || गुरुभ्यो नमः || मायां भवानीं जगदीश्वरीं त्वाम् || नत्वा सदा हेऽम्ब द्यार्द्रचित्ते || स्वतः प्रकाशार्चनदीपिकां वै || दुर्गासृतिं लोक हिताय कुर्वे || २ || प्. ९१) प्रणम्य चंडिका पदारविन्द युग्म मादरात् || करोति कोपि पूजन प्रयोग संग्रहं बुधः || ३ || अथ पूजा विधिं वक्षे सर्व सौभाग्यदायिनीम् | ब्राह्मे मुहूर्ते चोत्थाय ध्यात्वा स्वे मस्तके गुरुम् || ४ ||
78 SK तत्र साधकः प्रातरुत्थाय शय्यायामेव वद्ध पद्मासनः | कुल [टि० कुलवृक्षाः || अशोकाः केशरो बिल्वः कर्णिकारश्च्युतस्तथा | नमेरुश्च प्रियालश्च सिन्दुवार कदम्बकौ || मरुवकश्चंपकश्चैव बिल्वश्च द्वादशस्मृतः || नमेरु रुद्राक्षः | प्रियालोवृक्ष विशेषः || शाक्तानन्द तरांगण्यां १५ उल्लास] वृक्षं प्रणम्य स्व शिरसि श्वेत सहस्र दल कमल कर्णिका मध्य वर्ति चंद्र मंडलान्तर्गत स्वगुरुंध्यायेत् || श्वेतं श्वेत विलेप माल्य वसनं वामेन रक्तोत्पलं विभ्रत्या प्रिययेतरेण तरसा श्लिष्टं प्रसन्नाननम् || हस्ताभ्यामभयं वरं च दधतं शम्भुः स्वरूपं परम् || हाला हेलति लोचनोत्पलयुगं ध्यायेच्छिरस्थंगुरुम् || इति ध्यात्वा || मानसोपचारैः सम्पूज्य || ॐ लं पृथिव्यात्मकं गुरवे गंधं विलेपयामि नमः || अंगुष्ठकनिष्ठाभ्यां || ॐ हं आकाशात्मकं गुरवे पुष्पाणि समर्पयामि नमः || अंगुष्ठ अनामिकाभ्यां || ॐ यं वाय्वात्मकं गुरवे धूपं आघ्रापयामि नमः || अंगुष्ठ मध्यमाभ्यां || ॐ रं बह्न्यात्मकं गुरवे दीपं दर्शयामि नमः || अंगुष्ठ तर्जनीभ्यां || ॐ वं अमृतात्मकं गुरवे नैवेद्यं निवेदयामि नमः || अंगुष्ठ अनामिकाभ्यां || ॐ सं सोमात्मकं गुरवे तांबूसं स० नमः सर्वाङ्गुलीभिः || अमुकानन्दनाथ श्रीपादुकायै परिपूजयामि नमः || इति संपूज्य || प्. ९२) ॐ ऐं हीं श्रीं हसखफ्रेंह्सौः हसक्षमल वरयूṁ सहसखफ्रें सहौसहक्ष मलवायूं ह्सौः अमुकानंदनाथ अमुकीदेव्यं वा श्रीपादुकां पूजयामि नमः || इति गुरु पादुका मंत्रं दशधा सप्तधा वा प्रजप्य जपं गुरोर्दक्षिण करे || ॐ गुह्याति गुह्य गोप्तात्वं गृहाणास्मत् कृतंजपं || सिद्धिर्भवतु मे देव ! त्वत्प्रसादान्महागुरो ! || १ || इति समर्प्य || ऐं अखण्ड मण्डलाकारं व्याप्तं येनचराचरम् | तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः || २ || नमोस्तु गुरवे तस्मै इष्ट देव स्वरूपिणे || यस्य वागमृतं हन्ति विषं संसार संज्ञकम् || ३ ||
79 SK इति प्रणम्य || स्तुवीत || नमसे नाथ ! भगवन् ! शिवाय गुरु रूपिणे || विद्यावतार संसिद्ध्यै स्वीकृतानेकविग्रहः || ४ || नारायण स्वरूपाय परमार्थैक रूपिणे | सर्वज्ञान तमोभेद भानवे चिद्घनायते || स्वतन्त्राय दयाकॢप्त विग्रहायशिवात्मने | परतन्त्राय भक्तानां भव्यानां भव्य रूपिणे || विवेकिनां विवेकाय विमर्शाय विमर्शिणाम् | प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे || पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः | सदाम्च्चित्तरूपेण विधेहि भवदासनम् || त्वत्प्रसादहं देव ! कृत कृत्योस्मि सर्वतः | मायामृत्यु महापशाद्विमुक्तोस्मि शिवोस्मि च || इति स्तुत्वा || प्रातः प्रभृति सायांतं सायादि प्रातरं ततः | यत्करोमि जगन्नाथ ! तदस्तु तव पूजनम् || इति सर्वं गुरवे निवेद्य || तदाज्ञां गृहीत्वा तत्पाद स्खलितामृतदारयाक्षालितनिर्मलमात्मानं विचिन्तयेत् | अथ मूलाधारस्थ चतुर्दल कमल कर्णिकान्तर्गत त्रिकोण [टि० तंत्रान्तरे || रहस्यं परमाश्चर्यं त्रिकोणानां च संसृणु || वाम रेखा भवेद् ब्रह्मा विष्णुर्दक्षिण रेखिका || अधो रेखा भवेद्रुद्रोमात्रा साक्षात्सरस्वती ||] मध्यस्थिताधोमुख स्वयम्भूलिंग वेष्टिनीं प्रसुप्त भुजगाकारां प्. ९३)
80 SK शंखावर्ताकारेण सार्द्ध त्रिवलयां तडित्कोटि प्रभां विसतन्तुनीयसीं मूल विद्या प्रकृति भूतां कुण्डलीं [अंकुशा कुण्डली यातु कोटि विद्युल्लता कृतिः || कुण्डली अंकुशाकारा मध्यशून्यं सदा शिवः || जवा पावक संकाशा वाम रेखा वरानने || शरच्चन्द्र प्रतीकाशा दक्षरेखा च मूर्तिमान् ||] इष्ट देवता स्वरूपां कूर्च बीजेन त्रिकोणाग्निना सचेतनां कृत्वा सुषुम्णावर्त्मना द्वादशांतं तीत्वा ब्रह्म रंध्रस्थ सहस्र दल कमलस्थेन परम सदा शिवेन संयोज्य तत्र चन्द्र मंडलाद्विगलित अमृत धारया संतर्प्य || तत्रैव तत्प्रभायां कुलगुरुं ध्यायेत् || कुलामृत रसोल्लोल हृदया घूर्ण लोचनान् || कुलालिङ्गन संभिन्न चूर्णिताशेषतापसान् || कुल शिष्यैः परिवृतान् पूर्णान्तः करणोद्यतान् || वराभययुतान्सर्वान् दुर्गा तन्त्रार्थ वेदिनः || इति ध्यात्वा || ह्रीं श्रीं प्रह्लादानन्दनाथाय नमः || ह्रीं श्रीं सकलानन्दनाथाय नमः || ह्रीं श्रीं कुमारानन्द नाथाय नमः || ह्रीं श्रीं वसिष्ठानन्दनाथायनमः || ह्रीं श्रीं क्रोधानन्द नाथाय नमः || ह्रीं श्रीं असुरानन्द नाथाय नमः || ह्रीं श्रीं ध्यानानन्द नाथाय नमः || ह्रीं श्रीं बोधानन्द नाथाय नमः || ह्रीं श्रीं शुकानन्द नाथाय नमः || इति ध्यात्वा || ततः ऋष्यादि कर षडंग न्यास पूर्वकं हृदय कमले द्वादश दले कुण्डलिनी मानीय दुर्गा रूपेण वक्ष्यमाण प्रकारेण ध्यात्वामानसैरुपचारैः संपूज्य || ॐ महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् || इति गायत्रीमष्टोत्तर शता वृत्यष्टाविंशतिधा दशधा वा प्रजप्य || मूल (नवार्ण) मन्त्रं शतवारं प्रजप्य || गुह्याति गुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपं || सिद्धिर्भवतु मे देवि ! त्वत्प्रसादान्महेश्वरि ! || इति देव्याः वामकरे जपंसमर्प्य || स्तुत्वा नत्वा देव्याज्ञांप्रार्थयेत् || त्रैलोक्य चैतन्यमयी त्रिशक्ते हे विश्वमातर्भवदाज्ञयैव || प्रातः समुत्थायतव प्रियार्थं संसार यात्रा मनुवर्तयिष्ये || इति प्रार्थ्य || प्. ९४)
81 SK कुण्डलिनीं पुनस्तेनैव पथा मूलाधारमानीय || अहंदेवि नाचान्यास्मि ब्रह्मैवाहं न शोक भाक् || सच्चिदानन्द रूपोहमात्मानमिति चिंतयेत् || गुरु देवतात्मनामैक्यं [त्रैलोक्य चैतन्य मयादि देवि ! भवानि दुर्गे ! भवदाज्ञयैव || प्रातः समुत्थाय तव प्रियार्थ संसार यात्रा मनुवर्तयिष्ये || १ || जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः || केनापि देवेन हृदिस्थितेन यथा नियुक्तोस्मि तथा करोमि || २ || अंकुश मुद्रा का लक्षण | ऋजुमध्या मध्यपर्वाक्रान्ता तर्जन्यधोमुखी || विज्ञेयांङ्कुश मुद्रेयं कुञ्चितामध्य पर्वतः || दक्ष मुष्टि गृहीतस्य वाम मुष्टेस्तु मध्यमाम् || प्रसार्य तर्जन्या कुञ्चेत्सेयमंकुश मुद्रिका || ] भावयन् || ब्रह्मैवास्मीति मत्वा || भूमिं प्रार्थयेत् || ॐ समुद्र मेखले देवि ! पर्वतस्तन मंडले | विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे || इति श्वासानुसारेण भूमौ पादं दत्वा वहिर्गत्वावश्यकं कर्म कृत्वा शुचि देवि गृहं गत्वा निर्माल्यमपसार्य प्रणम्याज्ञां गृहीत्वा स्नानार्थं तीर्थं गच्छेत् || अथ स्नानम् || नद्यादौ गत्वा नवार्णेन मृत्तिकयांगं विलिप्य मूल मुच्चरन् मलापकर्षणं कृत्वाचम्य जलपूण ताम्र पात्रन्तिल अक्षत जवापुष्पाणि निक्षिपेति || तेन संकल्पयेत् || ॐ अद्येत्यादि एतन्मन्त्र प्रतिबन्धकाशेष दुरितक्षय पूर्वकं श्री चण्डिका प्रीतये मन्त्र स्नानमहं करिष्ये || इति संकल्प्य || जले समूलत्रिकोण चक्रं विलख्य || ॐ गंगे च यमुने चैव गोदावरि सरस्वति | कावेरि नर्मदे सिन्दोजलेऽस्मिन्संनिधिं कुरु || इति मंत्रेण सूर्य मण्डलादंकुश मुद्रया तीर्थान्यावाह्य || अंगुलीभिः सप्त छिद्राणि संरुध्य || मूलविद्ययात्रिर्निमज्य || प्. ९५)
82 SK मूलान्त आत्म तत्वाय स्वाहा || विद्या तत्वाय स्वाहा || शिव तत्वाय स्वाहा || इति त्रिराचम्य || मूलेन कुम्भ मुद्रयात्रिर्मूर्द्ध्नि जलेनाभिषिंचेदिति स्नानम् || अथ सन्ध्या विधिः || ततः श्वेत वाससी परिधाय || ॐ मणि धरणि वज्रिणि महा प्रतिसरे रक्ष रक्ष हूṁ फट् स्वाहा || इति शिखां बध्वा || सिंदूरेण तिलकं कृत्वाचम्य || मूलेन प्राणायामत्रयं विधाय || ऋष्यादि षडंग न्यासं विधाय वाम हस्ते जल मादाय दक्ष हस्तेन पिधाय || लं हं यं रं वं इति पं भौतिक बीजैरभिमन्त्र्य शिरसि मन्त्रेणांगुल्यान्तर्गत तदुदकविंदुभिर्मूलमुच्चरन् सप्तधा तत्व मुद्रयामूर्द्ध्नि प्रोक्षणं कृत्वा जल रेखां दक्षिणे कृत्वा नासा मुपनीय वाम नासयाकृष्य देहान्तर्वर्ति समस्तं पापं तेनप्रक्षाल्य कृष्ण वर्णंतज्जलं वामनासा पुटेनहस्त प्रविष्टं संचिन्त्य पुरः कल्पित वज्र पाषाणे त्रिः अस्त्राय फट् इति क्षिप्त्या आचम्य मूलेन निःश्वसन् सूर्यायांजलित्रयं दत्वा || ॐ महा देव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् || इति गायत्री मष्टोत्तर शतावृत्यष्टा विंशतिधा वाष्टधा वा प्रजपेदिति सन्ध्या विधिः || अथ तर्पणम् || जले यंत्रं विभाव्य तर्पणीय देवता इह याचित्वावाह्य || ॐ ब्रह्मा भैरवस्तृप्यताम् || ॐ विष्णुर्भैरवस्तृप्यताम् || ॐ रुद्र भैरवस्तृप्यताम् || ॐ हसक्ष मलवर यूं स्वधा देव्यै वौषट् आनन्द भैरवीतृप्यताम् || एतद्देव तर्पणम् || अथ ऋषि तर्पणम् || ॐ महादेवी काली तृप्यताम् || ॐ महादेवी लक्ष्मी तृप्यताम् ॐ || महादेवी सरस्वती तृप्यताम् || ॐ महादेवानन्द नाथस्तृप्यताम् || ॐ त्रिपुरांबा तृप्यताम् || ॐ भैरवानन्द नाथस्तृप्यताम् || ॐ ब्रह्मानन्दनाथस्तृप्यताम् || ॐ पूर्णानन्दनाथस्तृप्यताम् || ॐ वन्दिनाथानन्द नाथस्तृप्यताम् || ॐ चलच्चिदानन्द नाथस्तृप्यताम् || प्. ९६)
83 SK ॐ चंचलानन्दनाथस्तृप्यताम् || ॐ कुमारानन्दनाथस्तृप्यताम् || ॐ क्रोधानन्दनाथस्तृप्यताम् || ॐ वरदानन्दनाथस्तृप्यताम् || ॐ स्मरदीपानन्दनाथस्तृप्यताम् || ॐ मायाम्बातृप्यताम् || मायावत्यम्बा तृप्यताम् || ॐ विमलानन्द नाथस्तृप्यताम् || ॐ कुशलानन्दनाथस्तृप्यताम् || ॐ गोरक्षानन्दनाथस्तृप्यताम् || ॐ भोज देवानन्द नाथस्तृप्यताम् || ॐ प्रजापत्यानन्दनाथस्तृप्यताम् || ॐ मूलदेवानन्दनाथस्तृप्यताम् || ॐ विघ्नदेवानन्दनाथस्तृप्यताम् || ॐ हुताशनानन्दनाथस्तृप्यताम् || ॐ समयानन्दनाथस्तृप्यताम् || ॐ संतोषानन्दनाथस्तृप्यताम् || अथ पितृतर्पणम् || ॐ गुरु परमगुरुपरापरगुरु परमेष्ठि गुरुनामनाथ शब्दान्त स्वनाम्ना तर्पयेत् || गंधादिभिरभ्यर्च्य || मूलान्ते सांगां सपरिवारां सायुधां सशक्तिकां ब्रह्मा विष्णु रुद्र सहितां श्रीचण्डिकां तर्पयामि नमः || दशधा त्रिधा वा तर्पयेत् || एवं सन्ध्या तर्पणाशक्तावपि त्रिकालदेवीं ध्यात्वा यथाशक्ति मूलं वा गायत्रीं जपेत् || ततः ॐ ह्रीं हंसः मार्तण्ड भैरवाय प्रकाश शक्तिसहिताय इदमर्घ्यं स्वाहेति त्रिः सूर्यार्घ्यं दत्वा सूर्यमण्डले देवीं विभाव्य मूलमुच्चार्य उद्यदादित्य मण्डल वर्तिन्यै शिअ चैतन्य मय्यै ब्रह्मा विष्णु रुद्र सहितायै चण्डिकायै इदमर्घ्यं स्वाहेति मंत्रेण रक्त चन्दन जवापुष्प कुशजलाक्षत पूरिपूर्णेन ताम्रपात्रेण सूर्यमण्डलस्थायै देव्यै अर्घ्यं दत्वा गायत्रीं यथा शक्तिं प्रजप्य गुह्येति मंत्रेण समर्प्य सूर्यमण्डले देवीं विसर्जयेदिति संध्याविधिः || अथ पूजा विधिः || यथा कामनया वस्त्र युग्मं परिधाय तिलक चंदनादिना कृत्वा पूजागृह समीपमागत्य || सूर्यः सोमोयमः कालोमहा भूतानि पंच च || एते शुभाशुभस्येह कर्मणो नव साक्षिणः || प्. ९७)
84 SK देवि ! त्वं प्राकृतं चित्तं पापाक्रांत मभुन्मम || तन्निः सारयचित्तान्मे पापं फट् फट् ते नमः || इति मन्त्रेण पापोत्सादनं कृत्वा || वज्रोदके हूṁ फट् स्वाहा || इति मंत्रेण जलमानीय आसनमभ्युक्ष्योपविष्य || ॐ विशुद्धे सर्व पापानि शमयाशेष विकल्पानयनापहं इति मंत्रेण हस्तौ पादौ प्रक्षाल्य || ॐ हृ स्वाहेत्याचम्य || शिखाबंधनम् कृतं चैतेनैव मंत्रेण विधासामान्यार्घ्यं स्थापयेत् || यथा स्ववामे त्रिकोण वृत्त चतुरस्र मंडलं कृत्वा || ॐ ह्रीं आधार शक्तये नमः || इति संपूज्याधारं संस्थाप्य || ॐ क्रः अस्त्राय फट् || इतिपात्रं प्रक्षाल्य आधारे निधाय || ॐ क्रां हृदयाय नम इतिजलेन संपूर्य || तीर्थान्यावाह्य || ॐ गंगे च यमुने चैव गोदावति सरस्वति || कावेरि नर्मदे सिंधो जलेस्मिन्संनिधिं कुरु || इति मंत्रेणांकुशमुद्रया सूर्यमंडलात्तर्थान्याबाह्य || ॐ मिति गंधादि निक्षिप्य || वमिति धेनु मुद्रां दर्शयेदिति सामान्यार्घ्यः || ततस्तेन जलेन पूजा गृह द्वारं प्रोक्ष्य द्वार देवताः पूजयेत् || द्वारोर्ध्वे गं गणपतये नमः || वामे क्षं क्षेत्रपालाय नमः || दक्षे वां वटुकाय नमः | अधः यां योगिनीभ्यो नमः || एवं क्रमेण ऊर्द्ध्वे गं गंगायै नमः || वामे यं यमुनायै नमः || दक्षे श्री लक्ष्म्यै नमः अधः ऐं सरसत्यैनमः || एवं पूर्वादि द्वाराणि पूजयेत् || द्वारश्रि इदमर्घ्यं परिकल्पयामि || ततो || द्वारपाचाम्बलोक्स्य द्वारं रक्षतु यत्नतः || निवार्य विघ्न संघातमित्याज्ञा पारमेश्वरी || इति देवताज्ञां श्रावयित्वा वामांगं संकोचयन्देहलीं लंघयन्दक्ष पाद पुरः सरमंतः प्रविश्य || ॐ अपः क्रामन्तु भूतानि पिशाचाः प्रेत गुह्यकाः || ये चानिवसंत्यन्ये देवता भुवि संस्थिताः || अपःसर्पन्तु ते भूता ये भूता भुवि संस्थिताः || ये भूता विघ्न कर्तारस्ते नश्यन्तु शिवाज्ञया || प्. ९८)
85 SK ॐ सर्व विघ्नानुत्सारयोत्सारय हूṁ फट् स्वाहा || एभिरभिमंत्रेण वामपार्ष्णिघातेनोर्द्ध्वोर्द्धतालत्रयेणनिमेषरहित दृष्ट्या च भौमांतरिक्ष दिव्यान्विघ्नानुत्सार्य || अर्घ्य जलेन तं गृहं प्रोक्ष्य || नैर्-ऋतकोणे वास्तुपुरुषाय नमः || ईशानकोणे दीपनाथाय नमः || इति संपूज्य || ॐ तीक्ष्ण दंष्ट्र महाकाय कल्पान्त दहनोपम || भैरवाय नमस्तुभ्यं मनुज्ञां दातुमर्हसि || इति भैरवाज्ञां गृहीत्वा || ॐ रक्ष रक्ष हुं फट् स्वाहेति भूमिं परिषिंच्य || ॐ पवित्र हूṁ हूṁफट स्वाहेति भूमिमभिमंत्र्य || ॐ आसुरेखे वज्ररेखे हुṁफट् स्वाहेति भूमौ त्रिकोणमंडलं कृत्वा ॐ [ॐ कूर्मासनायनमः || ॐ ह्रीं आधार शक्ति कमलासनाय नमः || ॐ पृथिव्यै नमः || ॐ अनन्तासनाय नमः || ॐ विमलासनाय नमः || ॐ पद्मासनाय नमः ||] ह्रीं आधारशक्ति कमलासनाय नमः || इति संपूज्य || तत्र कंवलाद्यासनं संस्थाप्य || आग्नेयादि कोणेषु प्रादक्षिण्येन गणेशाय नमः || सरस्वत्यैनमः || दुर्गायैनमः || क्षेत्रपालाय नमः || इत्यासनं संपूज्य हस्तंधृत्वा || आसनमंत्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनोपवेशने विनियोगः || ॐ पृथ्वित्वया धृतालोका देवि त्वं विष्णुनाधृता || त्वं च धारय मां देवि [टि० स्थान शोधन माह गंधर्व तन्त्रे || वीक्षणं धर्म बीजेन यज्ञ भूमेः समीरितं || प्रोक्षणं चास्त्र मंत्रेण यागभूमेः समाचरेत् || अज्ञातं दूषितं स्थाने मार्जनादौ च यद्भवेत् || एव मादीनि सर्वाणि नस्यात्तल्लोकनात्प्रिये || मधुकैटभयोर्मेदसंघातैः दृढतांगतः || मेदिनी सर्वदा शुधासुर पूजासु सर्वतः || तस्य दोषस्य मोक्षाय कामबीजंक्षितौ लिखेत् ||] पवित्रं कुरु चासनम् || इति पठित्वाऽधोभागे विष्टरं दत्वा वीराद्यासनेनोदङ् मुखं उपविशेत् || प्. ९९)
86 SK ततः पूजा द्रव्यं स्वीकृत्य | दक्षे गुं गुरुभ्यो नमः || वामे गं गणपतयेनमः || मध्ये चंडिका देव्यै नमः || इति नत्वा || वामे अर्घ्यं संस्थाप्य || किंचिज्जलंप्रोक्षणी पात्रे निधाय तेन जलेनात्मानं पूजोपकरणं प्रोक्ष्य || स्व दक्ष भागे पुष्पादिकं || स्व पृष्ठ भागे कर प्रक्षालनार्थंपात्रं || देवी पृष्ठ भागे पूजा द्रव्याणि संस्थाप्य || ॐ पुष्प केतु राजार्हत शताय सम्यक् संवद्धाय || ॐ पुष्पे पुष्पे महा पुष्पे सुपुष्पे पुष्प संभवे || पुष्पं च यावकीर्ण हुṁफट् स्वाहेति मंत्रेण पुष्प शुद्धिं विधाय || ॐ ह्रीं हूṁ फट् इति मंत्रेण [नाराच मुद्रा लक्षण || अṁगुष्ट तर्जन्यग्राभ्यां स्फोटो नाराच मुद्रिकेति ||] नाराच मुद्रया सम दृष्ट्यावलोकनेन च गंधादि सर्व संभार शुद्धिं विधाय || रमिति दीपशिखां स्पृष्ट्वा || ॐ हुṁ फट् स्वाहेति मंत्रेण काय वाक् चितशोधनं विधाय || रक्ष रक्ष हुṁफट् स्वाहेति हृदि हस्तं दत्वा आत्म रक्षां विधाय || चंदनाक्तानि पुष्पाणि कराभ्यां मर्दयित्वा तानि वामहस्ते समादायाघ्राय || ते सर्वे विलयं यान्तु ये मां हिंसति हिंसकाः || मृत्यु रोग भय क्लेशाः पतन्तु रिपु मस्तके || इति मंत्रेण ईशान्यांदिशि दूरतः क्षिप्त्वा || नवार्णेन तालत्रयं दिग्बंधनं च कृत्वा || काली कूर्चं वधूर्माया फडन्ता परमेश्वरि || पंचाक्षरी चण्डिकायाकुल्लुका [रुद्रयामले || अज्ञात्वा कुल्लुकां देवि महामन्त्रं जपेत्तु यः || तस्य नश्यन्ति चत्वारि आयुर्विद्या यशोबलम् || वाराही तन्त्रे || जपं समारभेन्मन्त्री कुल्लुकाद्या यथा विधिः || पृथ्वी ध्यानम् || पंच वर्ण रजश्चित्रा नाना गंध समन्विता || पुष्प प्रकर संकीर्णा घंता चामर भूषिता || बालार्क सदृशीरम्या मनः संतोष कारिणी || एवं भूमिंसमाश्रित्य पूजयेत्परमेश्वरीम् ||] परिकीर्तिता || इति विशुद्धेश्वर तन्त्रे || प्. १००)
87 SK इति कुल्लुकांमूर्द्ध्नि विचिन्त्य आचमनं कुर्यात् मूलं आत्म तत्वाय स्वाहा || १ || मूलं विद्या तत्वाय स्वाहा || २ || मूलं शिव तत्वाय स्वाहा || ३ || इत्याचम्य || मूलेन इतिद्विरोष्टावुन्मृज्य || मूलेन इति करं प्रक्षाल्य जलेन सप्त छिद्राण्युपस्पृशेत् || ॐ महाकाल्यै नमः आस्ये || ॐ महा लक्ष्म्यैनमः || ॐ महासरस्वत्यै नमः नसोः || ॐ नन्दजायै नमः || ॐ रक्त दन्तिकायै नमः नेत्रयोः || ॐ शाकंभर्यै नमः || ॐ दुर्गायैनमः श्रोत्रयोः || ॐ भीमायै नमः नाभौ || ॐ भ्रामर्यै नमः उरसि || ॐ अष्टादश भुजायै नमः शिरसि || ॐ अष्टभुजायै नमः || ॐ दश भुजायै नमः भुजयोः || एवं अङ्गानि स्पृष्ट्वा || हुṁ हं हीं अस्त्राय फट् || अनेन दिग्बन्धनं कृत्वा प्राणायामं कुर्यात् || यथा मूला धारे मनः संयोज्य दक्षिणांगुष्ठेन दक्षिण नासा पुटं धृत्वा प्रणवं मूलाद्यबीजं वा षोडश वारं जपन् वाम नासया वायुमापूर्य कनिष्ठानामिकाभ्यां वाम नासापुटं धृत्वा चतुःषष्ठि (६४) वारं जपन् वायुं स्तंभयित्वा || दक्षिण नासया द्वात्रिंशद्वारं ३२ जपन् रेचयेदित्येकः || पुनस्तेनैव मानने दक्षिण नासापुटं प्रपूर्य कुम्भयित्वा वामेन रेचयेदिति द्वितीयः || पुनराद्यवत्तृतीयः मूलेन चेदेकेन पूरकं चतुर्भिः कुम्भकं द्वाभ्यां रेचकमित्येवं प्राणायामं विधाय || नीलतंत्रे || कुल्लुकांच न जानाति महामंत्रं जपेन्नरः || पंचत्वं जायते तस्य अथवावातुलो भवेत् || कुल्लुकां च शिरेधृत्वा सर्व यज्ञ फलं लभेत् || कुल्लुकां धारयेच्छीर्षे लिखित्वाभूर्जपत्रके || राज द्वारे सभायां च विजयी भवति ध्रुवं || नान्यो विचारः सर्वत्र विरूपाक्षस्य सम्मतः || कुल्लुका वर्जितेपुंसामज्ञानोपस्थितिर्भवेत् || मम पूजा सदा व्यर्थ्य मम यज्ञस्तथैव च || दुर्गा मंत्रस्य तत्वार्णं जानीयान्मंत्रमुत्तमम् || न जानाति च योमूढः कुल्लुकां चंडिकां जपेत् || यावज्जीवं तु जप्तव्यं न सिद्ध्यति कदाचन || प्. १०१)
88 SK [भूतशुद्धौ || सर्वासु वाह्यपूजासु अन्तः पूजा विधीयते | अन्तः पूजा महेशानि ! वाह्य कोटि फलं लभेत् || १ || भूतशुद्धि लिपिन्यासौ विनायस्तु प्रपूजयेत् | विपरीत फलं दद्यादभक्त्या पूजने यथा || २ ||] भूत शुद्धिं कुर्यात् ||
89 SK यथा हूṁकारण मूलाधारात्कुण्डलिनीमुत्थाप्य जीवात्मना संयोज्य हंस इति मन्त्रेण परमात्मनिविलापयेत् || ततः पादादि जानुपर्यन्तं स्थितां पृथ्वीं जान्वादि नाभि पर्यन्तं स्थितामप्सु प्रविलाप्य ताः || नाभ्यादि हृदयान्त स्थिते वह्नौ तं च हृदयादिभ्रूमध्यांतं प्रकृतौ तां च ब्रह्मणि विलापयेत् || ततः पुरुष निभं पापमनादि भवसंचितं || ब्रह्महत्या शिरः स्कन्धं सर्णस्तेय भुजद्वयम् || सुरापान हृदायुक्तं गुरुतल्प क टद्वयम् || तत्संयोगिपद द्वंद्वमंगप्रत्यंग पातकम् || उपपातक रोमाणां रक्तश्मश्रुविलोचनम् || खड्गचर्म धरं पापमंगुष्ठ परिमाणकम् || अधोमुखं कृष्णवर्णं वाम कुक्षौ विचिंतयेत् || इति पाप पुरुषं विचिंत्य यमिति बीजेन षोडशवारमावृतेन वाम नासया वायुमापूर्यनाभौ संयोज्य तत्र यं संचिंत्य सपापं देहं विशोष्य रमिति चतुष्षष्ठि वारमावृतेनबीजेन कुम्भक प्रयोगेन मूलाधारे संयोज्य रं संचित्य सपापं देहं भस्मान्तं संदह्य पुनर्यमिति बीजेन द्वात्रिंशद्वार मावृतेन दक्षिण नासया पापपुरुष भस्म रेचयेत् || ततो वमिति बीजजपात् ललाटे चन्द्रान्मातृका वर्णमयीममृत वृष्टिं निपात्य भस्माप्लाव्य न्यासक्रमेणावयवान् निष्पाद्य || लमिति जपादृढीकृत्य || परमात्मनः प्रकृतिं तस्याः महत्तत्वं ततोऽहंकारं तस्मादाकाशं ततो वायुं तस्मात्तेजस्तस्माज्जलं तस्मात्पृथिवीं निगम्य स्व स्व स्थाने स्थापयित्वा ब्रह्मरंध्रस्थ परमात्मनः सकाशात् सोहमिति मंत्रेण जीवात्मानं प्रदीप कलिकाकारं कुण्डलिनी द्वार हृदय कमल मानीय कुण्डलिनीं मूलाधारे स्थापयित्वा स्वशरीरं निरस्त समस्त किल्वषं देवताराधन योग्यं विभावयेदितिभूतशुद्धिः || एवंभूत शुद्धिं कृत्वा स्वशरीरे चण्डिकायाः प्राणान्प्रतिष्ठापयेत् || [अथ यामलोक्त भूतशुद्धिः प्रारभ्यते || ॐ सूर्यः सोमो यमः कालः संध्या भूतानि पंच | एते शुभाशुभस्येह कर्मणोमम (नव) साक्षिणः || १ ||
90 SK भो देव ! प्राकृतं चित्तं पापाक्रांतमभून्मम | तन्निःसारय चित्तान्मे पापं तेस्तु नमो नमः || २ || इति प्रार्थ्य स्वदक्षिणभागे ॐ गुंगुरुभ्यो नमः || स्ववाम भागे ॐ गं गणपतये नमः || ॐ क्षं क्षेत्रपालायनमः पृष्ठे इति नत्वा भूतशुद्धिं कुर्यात् || तथा च कुम्भक प्राणायामे मूलाधारात् कुण्डलनीं परदेवतां विसतंतुनिभां समुत्थाप्य ब्रह्मरंध्रगतांरमृत्वा हृदयस्थं जीवं प्रदीप कलिकाकारं गृहीत्वा सुषुम्णामार्गेण ब्रह्मरंध्रं गत्वा हंसः सोहṁ इति मंत्रेण जीवं ब्रह्मणि संयोजयेत् || ततः पादादि जानुपर्यन्तं चतुष्कोणं वज्रलांछितं स्वर्णवर्णं पृत्व्हीमंडलं (ॐ लं) इति भूवीजाढ्यं स्मरेत् || १ || जान्वादि नाभिपर्यन्तं अर्द्धचन्द्राकारं पद्मद्वयाङ्कितं श्वेतवर्णं अपांस्थानं सोममंडलं ॐ वं इति वरुणबीजाढ्यं स्मरेत् || २ || नाभ्यादि हृदयपर्यन्तं त्रिकोणं स्वस्तिकांकितं रक्तवर्णमग्निमंडलम् || ॐ रṁ इति वह्नि वीजाढ्यं स्मरेत् || ३ || हृदयादि भ्रमध्यपर्यन्तं वृत्तं षड्विन्दुलांछितं धूम्राभं वायुमंडलं ॐ यṁ इति वायु बीजाढ्यं स्मरेत् || ४ || भ्रूमध्यादारभ्यब्रह्मरंध्रांन्तं वृत्तं स्वच्छमनोहरमाकाशमंडल ॐ हṁ इति आकाश बीजाढ्यं स्मरेत् || ५ || एवं भूतगणं स्मृत्वा ततः पूर्वोक्त मध्ये (मंडले) पादेन्द्रियं १ गगनं २ घ्राणं ३ गंधः ४ ब्रह्मा ५ निवृत्तिः ६ समानः ७ गंतव्यदेशः ८ च एवमष्टौपदाश्चिन्त्याः || १ || जलमध्ये (मंडले) हस्तेन्द्रिय १ ग्रहण २ ग्राह्य ३ रसना ४ रस ५ विष्णुः ६ प्रतिष्ठो ७ दानाः ८ ध्येयाः || २ || तेज (मंडले) मध्ये वायु १ विसर्म २ विसर्जनीय ३ चक्षु ४ प्. १०३) अथ स्व प्राण प्रतिष्ठा प्रकारः || ॐ अस्य स्व प्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा- hrīṃśaktiḥ kroṃ kīlakaṃ svaśarīre caṃḍikā devatā prāṇapratiṣṭhāpane viniyogaḥ || atha ṛṣyādinyāsaḥ ||
91 SK ॐ ब्रह्मविष्णमहेश्वर-ऋषिभ्यो नमः शिरसि || ॐ ऋग्यजुस्सामानि छन्दोभ्यो नमः मुखे || ॐ प्राणशक्त्यैनमो हृदि || ॐ आṁ बीजाय नमो गुह्ये || ॐ ह्रीं शक्तये नमः पादयोः || ॐ क्र कीलकाय नमः सर्वांगे || इति ऋष्यादि न्यासः || वायुमंडले उपस्था १ नन्द २ स्त्री ३ स्पर्शन ४ स्पर्श ५ ईशान ६ शान्त्यु ७ पानाः ८ ध्येयाः || ५ || आकाशमंडले वाक् १ वक्तव्य २ वदन ३ श्रोत्र ४ शब्द ५ सदाशिव ६ शान्त्यतीताः ७ प्राणाः इत्यष्टौ चिन्त्याः || ५ || एवं भूतानि संचिन्त्य पूर्व पूर्व कार्यस्योत्तरं कारणे विलापनं बह्मपर्यन्तंकार्यम् || तथा च - ॐ लṁ फट् इत्यनेन पंचगुणां पृथ्वीमप्सु उपसंहरामि इति जले भुवं विलापयेत् || १ || ॐ अṁ हुṁफट् || इति चतुर्गुणा अपोग्नौ उपसंहरामि इति जलमग्नौ विलापयेत् || रṁ हुṁ फट् इति त्रिगुणां तेजो वायावुपसंहरामि इति वह्नि वायौ विलापयेत् || २ || ॐ यं हुṁ फट् इति द्विगुणं वायुमाकाश उपसंहरामि इति वायुमाकाशे विलापयेत् || ४ || ॐ हṁ हुṁ फट् इत्येकगुणमाकाशमहंकार उपसंहरामि || इत्याकाशमहंकारे विलापयेत् || ५ || ॐ ॐ अहंकारं महत्तत्त्व उपसंहरामि || इत्यहंकारं महत्तत्त्वे विलापयेत् || ६ || ॐ महत्तत्त्वं प्रकृत्तावुपसंहरामि || इति महत्तत्वं प्रकृतौ विलापयेत् || ७ || प्रकृतिमात्मन्युपसंहरामि || इत्यनेन मायामात्मनि विलापयेत् || ८ || एवं शुद्धसच्चिन्मयो भूत्वा पापपुरुषं चिन्तयेत् || तथा च || वासनामयं वामकुक्षिस्थितं कृष्णमंगुष्ठपरिमाणकं || ब्रह्महत्या शिरोयुक्तं कनकस्तेयबाहुकं || मदिरापान हृदयं गुरुतल्प कटीयुतं || तत्संसर्गि पदद्वंद्वमुपपातक मस्तकं खड्गचर्मधरं दुष्टमधोवक्त्रं सुदुःसहमेवं पापपुरुषं चिन्तयित्वा पूरकप्राणायामे ॐ यṁ इति वायु बीजेन द्वात्रिंशद्वारं (३२) षोडश (१६) वारं वा आवर्तितेन पापपुरुषं शोषयेत् || १ ||
92 SK ततः स्वशरीरयुतं पापं कुंभके ॐ रṁ इति वह्निबीजेन चतुष्षठि (६४) द्वात्रिंशद् (३२) वारमावर्तितेन तदुत्थाग्निना दहेत् || २ || प्. १०४) अथ करन्यासः || ॐ ङं कं खं घं गं नमो वाय्वग्निवार्भूम्यात्मने अंगुष्ठाभ्यान्नमः || (हृदयाय अमः) ॐ ञं चं छं झं जं शब्द स्पर्श रूप रस गंधात्मने तर्जनीभ्यान्नमः || (शिरसे स्वाहा) ॐ णं टं ठं ढं डं श्रो त्वङ्नयन जिह्वा घ्राणात्मने मध्यमाभ्यां नमः (शिखायैवषट्) || ॐ नंतंथंधंदं आक्पाणीपादपायूपस्थात्मने अनामिकाभ्यान्नमः || (कवचाय हुṁ) ॐ मंपंफंभंवं वक्तव्यादान गमन विसर्गानन्दात्मने कनिष्ठकाभ्यांनमः || (नेत्र त्रयायवौषट्) ॐ शंयंरंवंलंहं षंक्षंसंलं वक्तव्याद्या बुद्धिमनोहंकारचित्तत्मने करतलकरपृष्ठाभ्यां नमः (अस्त्रायफट) इति षडंग न्यासः एवं हृदयादि कर षडंग न्यासान् कृत्वा || नाभेरारभ्य पादान्तम् (अ *?) इतिपाश बीजं स्मरेत् | हृदयदारभ्य नाभ्यन्तम् (ह्रीं) इतिशक्ति बीजं न्यसेत् || २ || ततो रेचक प्राणायामे ॐ यṁ इति वायुबीजेन षोप्डश वारं अष्टवारं वा जपित्वा दक्षिणनाड्या तद्भस्म स्वशरीराद्वहिः रेचयेत् || ३ || ततो देहोत्थं भस्म ॐ वṁ इत्युच्चारितेन सुधाबीजेन तदुत्थामृतेन संप्लाव्य पश्चात् ॐ लṁ इति भू बीजेन तद्भस्म धनीभूत वडं कृत्वा कनकांडवत् भावयेत् || ४ || ततः ॐ हṁ इति आकाश बीजं जपन् तत्पिंडं मुकुराकारं भावयित्वा तस्यमूर्द्धादि नखान्ता अवयवाः मनसा रचनीयाः || ५ || ततः पुनरपि सृष्टिमार्गेण ब्रह्मणः सकाशात् आकाशादीनि भूतान्युत्पादयेत् | तथा च ब्रह्मणः प्रकृतिः १ प्रकृतेर्महत् २ महतोऽहंकारः ३ अहंकारादाकाशः ४ आकाशाद्वायुः ५ वायोरग्निः ६ अग्नेरापः ७ अद्भ्यः पृथ्वी पृथिव्या ओषध्यः ९ ओषधीभ्योऽन्नम् १० अन्नाद्रेतः ११ रेतसः पुरुषः १२ इत्य्त्पाद्यः || ॐ हṁसः सोहम् इति मंत्रेण ब्रह्मणैकं भूत जीव स्वहृदयांबुजे संस्थाप्य कुण्डलिनीं मूलाधारगतां स्मरेत् || अथ ध्यानम् ||
93 SK ॐ रक्ताम्भौधिस्थपोतौल्लसदरुणसरोजाधिरूढाकराब्जैः पाशं कोदंडमद्क्षुमिवमवाप्यंकुरां पंचवाणान् || विभ्राणा सृक्कपालं त्रिनयनलसितापीनवक्षोरुहाढ्या || देवी वालार्कवर्णा भवतुसुखकरी प्राणशक्तिः परानः || १ || इति भूतशुद्धिः || प्. १०५) मस्तकादारभ्य हृदयान्तम् (क्र्ॐ) इति सृणि बीजं स्मरेत् || ३ || ॐ यṁ त्वगात्मने नमः || ॐ रṁ असृगात्मने नमः || ॐ लṁ मांसात्मने नमः || ॐ वं मेदात्मने नमः || ॐ शं अस्थ्यात्मने नमः || ॐ पं मज्जात्मने नमः || ॐ सं शुक्रात्मने नमः || ॐ ह्ॐ ओजात्मने नमः || ॐ हं प्राणात्मने नमः ॐ सं जीवात्मने नमः || इति दृष्ट्या हृदि विन्यसेत् || ॐ यंरंलंवंशंषंसंहंक्षं इति मूर्द्धादि चरणावधि व्यापकं कुर्यात् || ४ || ततः ॐ मंडूकादि परतत्वांत पीठदेवताभ्यो नमः || १ || ॐ जयादि शक्तिभ्यो नमः || २ || इति नत्वा || ॐ आṁ हीṁ क्र्ॐ पीठाय नमः इति पीठे प्राणशक्तिंदेवीं ध्यायेत् || ध्यानम् || ॐ पाशंचापा सृक्कपाले शृणीषूञ्छूलं हस्तैर्विभ्रतीं रक्तवर्णाम् || रक्तो *दन्वत्पोतरक्तांबुजस्थां देवीं ध्याये प्राणशक्तिं त्रिनेत्रां || इति ध्यात्वा हृदि करं निधाय || ॐ आं ह्रीं क्र्ॐ यंरंलंवंशंषंसं हौं हंसः || ॐ मम शरीरे चण्डिका देवतायाः प्राणा इह स्थितः (प्रा.आः) || २ || ॐ आं ह्रीं क्र्ॐ यं रं लं वं शं षं सं हौं हं सः || ॐ मम शरीरे चण्डिका देवतायाः जीव इह स्थितः (जीवः) || ॐ आं ह्रीं क्र्ॐ यं रं लं वं शं षं सं हौं हं सः || ॐ मम शरीरे चण्डिका देवतायाः सर्वेन्द्रियाणि वाङ् मनश्चक्षुः श्रोत्र जिह्वा घ्राण पाद पायूपस्थानि इहैवागत्यसुखं चिरंतिष्ठन्तु स्वाहा || ३ ||
94 SK इति वारत्रयेण स्वशरीरे चण्डिका देवतायाः प्राणान् प्रतिष्ठाप्य || ततः ॐ इति प्रनवेन १५ पञ्चदशावृत्तिं कृत्वा अनेन मम देहस्था अण्डिकायाः गर्भादानादि पञ्चदश संस्कारान्संपादयामि || एवं प्राणान्प्रतिष्ठाप्य || देवी भूत्वा देवींजयेत् || चण्डिकारूपमात्मानं भावयेदिति प्राणप्रतिष्ठा || प्. १०६) अथ अन्तरमातृका न्यासः || [टि० भविष्ये || ना देवी कीर्तयेद्देवीं तां समर्चयेत् || न्यासात्तदात्मकोभूत्वा देवीभूत्वातु तां यजेत् || १ || आग्नेये || शक्त्यादिः शक्तिः पूजनात् || शक्ति पूजनात् शक्त्यादि पूजनात् ||]
95 SK अथान्तरमातृका न्यास मन्त्रस्य ब्रह्म-ऋषिः गायत्रीछन्दः मातृकासरस्वतीदेवता हलो बीजानि स्वराः शक्तयः क्षं कीलकं अखिलाप्तये न्यासे विनियोगः || इति जलं भूमौ निक्षिप्य प्राणायामं कुर्यात् || तथा च इडया || अ इ उ ऋ ऌ ए ऐ ओ औ अं अः एभिःस्वरैः पूरयेत् || पुनः कुचुटुतुपु इति पंचर्गकेन कुंभयेत् || पुनः यरलवशषसह एभिरष्टवर्णैः रेचयेत् || इति प्राणायामं कृत्वा ऋष्यादि न्यासं कुर्यात् || तथा च || ॐ अं ब्रह्मणे ऋषये नमः आंशिरसि || ॐ इं गायत्रीछन्दसे नमः ईं मुखे || ॐ उं सरस्वती देवतायै नमः ऊं हृदये || ॐ एं हल्भ्यो बीजेभ्यो नमः एं गुह्ये || ॐ ॐ स्वरेभ्यो शक्तिभ्यो नमः औं पादयोः || ॐ अं क्षं कीलकाय नमः अः सर्वाङ्गे || इति ऋष्यादि न्यासः || ॐ अं कंखंगंघंङं आṁ अंगुष्ठाभ्यां (हृदयाय) नमः || ॐ इं चं छंजंझंञं ईं तर्जनीभ्यां नमः (शिरसे स्वाहा) ||ॐ उं टठंडंढंणं ऊं मध्यमाभ्यां नमः (शिखायै वषट्) || ॐ एं तंथंदंधंनं ऐं अनामिकाभ्यां नमः (कवचाय हुṁ) || ॐ अं यंरंलंवंशं षंसंहंलंक्षं अः करतल करपृष्ठाभयं नमः (अस्त्रायफट्) || इति करन्यासः || एवं हृदयादि कर षडंग न्यासान् कृत्वा || ततः कण्ठस्थ षोडष दल पद्मे (ॐ अं नमः एवं क्रमेण सर्वत्र्) ॐ आं इṁ ईं उṁ ऋṁ ऌṁ एṁ ऐं ॐ औं अṁ अः इति षोडशस्वरान्न्यसेत् || पुनः हृदिस्थ द्वादशदले ॐ कṁ नमः एवं खंगं घं ङं चं छं जं झं ञं टं ठं नमः || इति द्वादशवर्णान् विन्यसेत् || प्. १०७)
96 SK ततः नाभौ दशदले - ॐ डं नमः इति एवं ढंणंतंथंदंधंनं पंफं नमः इति दशवर्णान्न्यसेत् || तदधोलिंगे षड्दले - ॐ वं नमः एवं ॐ भं मं यं रं लं इति षड्वर्णान् विन्यसेत् || आधारे (गुदे) चतुर्दले - ॐ वं नमः एवं शंषंसं इति चतुर्वर्णान्न्यसेत् || पुनः ललाटे द्विदले - ॐ हं नमः ॐ क्षं नमः द्वौवर्णौ न्यसेत् || इति न्यासं कृत्वा ध्यायेत् || आधारे लिंगनाभ प्रकटित हृदये तालुमूले - ललाटे द्वेपत्रे षोडशारे द्विदश दशदले द्वादशार्द्धचतुष्के || वासान्तेवालमध्ये डफकठसहिते कंथदेशेस्वराणां हंक्षंतत्वार्थ युक्तं सकल् दलगतं वर्णरूपं नमामि || इत्यंतरमातृकान्यासः || अथ वहिर्मातृका न्यासः || जयार्थं सर्वदेवानां विन्यासे च लिपेर्विना || कृतेतद्विफलं विद्यात्तदादौतु लिपिंन्यसेत् || ॐ अस्यश्री वहिर्मातृकान्यासमंत्रस्य ब्रह्मा-ऋषिः गायत्रीछन्दः मातृका सरस्वती देवीदेवता हलोबीजानि स्वराः शक्तयः क्षं कीलकं अखिलाप्तये न्यासे विनियोगः || प्राणायामं कुर्यात् || तथा च इडया अ इ उ ऋ ऌ ए ऐ ओ औ अं अः एभिः स्वरैः पूरयेत् || पुनः कु चु टु तु पु एभिः पंचर्गकेन कुम्भयेत् || पुन अष्टभिः || य र ल व श ष स ह आदिना रेचयेत् || इति प्राणायामं कृत्वा ऋष्यादिन्यासं कुर्यात् || तथा च ॐ अंब्रह्मणे ऋषये नमः आं शिरसि || ॐ इं गायत्रीछन्दसे नमः ईं मुखे || ॐ सरस्वती देवतायै नमः ऊं हृदि || ॐ एं हल्भ्यो बीजेभ्यो नमः ऐं गुह्ये || ॐ ॐ स्वरेभ्यो शक्तिभ्यो नमः औं पादयोः || ॐ अं क्षं कीलकाय नमः अः सर्वांगे || इति ऋष्यादिन्यासः || ॐ अं कं ५ आं अंगुष्ठाभ्यां नमः हृदयाय० || ॐ इ चं ५ ईं तर्जनीभ्यां० शिरसे स्वाहा || प्. १०८) ॐ उं टं ५ ऊं मध्यमाभ्यां० शिखायैवषट् || ओ एं तं ५ ऐं अनामिका० कवचायहुṁ || ॐ ॐ पं ५ औं कनिष्ठकाभ्यां० नेत्र त्रयाय वौषट् || ॐ अं यंरंलंवंशंषंसंहंलंक्षं अः करतल करपृष्ठाभ्यां अस्त्रायफट् || ध्यानम् ||
97 SK मृगवालं व् रं विद्यामक्ष सूत्रं दधत् करैः || माला विद्या लसद्धस्तां वहन् ध्येयः शिवो गिरः || ततः वहिर्मातृकान्यासं कुर्यात् || ॐ अं नमः शिरसि ॐ आं नमः मुखे || ॐ इं नमः दक्षिण नेत्रे || ॐ ईं नमः वामनेत्रे || ॐ उं नमः दक्षिण कर्णी || ॐ ऊं नमः वामकर्णे || ॐ ऋं नमः दक्षिणनासापुटे || ॐ ॠं नमः वामनासापुटे || ॐ ऌं नमः दक्षिणकपोले || ॐ ॡ नमः वाम कपोले || ॐ एं नमः ऊर्धोष्ठे || ॐ ऐं नमः अधरोष्ठे || ॐ ॐ नमं ऊर्ध्वदन्तपंक्तौ ॐ औं नमः अधोदंतपंक्तौ || ॐ अं नमः मूर्द्ध्नि || ॐ अः नमः मुखवृत्ते || ॐ कं नमः दक्षिण बाहुमूले || ॐ खं नमः द० कूर्परे || गं नमः द० मणिबṁधे || ॐ घं नमः द० हस्तांगुलिमूले || ॐ ङं नमः द० हस्तांगुल्यग्रे || ॐ चं नमः वाम बाहुमूले || ॐ छं नमः वा० कूर्परे || ॐ जं नमः वा० मणिबंधे || ॐ झं नमः वा० हस्तांगुलिमूले || ॐ ञं नमः वामहस्तांगुल्यग्रे || ॐ टं नमः दक्षिण पादमूले || ॐ ठं नमः द० जानुनि || ॐ डं नमः द० गुल्फे || ॐ ढं नमः द० पादांगुलिमूले || ॐ णं नमः द० पादांगुल्यग्रे || ॐ तं नमः वामपादमूले || ॐ थं नमः वामजानुनि || ॐ दं नम वामुगुल्फे || ॐ धं नमः वामपादांगुलिमूले || ॐ नंनमः वा० पादांगुल्यग्रे || ॐ पं नमः दक्षिण पार्श्वे || ॐ फं नमः वाम पार्श्वे || ॐ बं नमः पृष्ठे || ॐ भं नमः नाभौ || ॐ मं नमः उदरे || ॐ यं त्वगात्मने नमः हृदि || ॐ रं असृगात्मने नमः दक्षांसे नमः दक्षांसे ॐ लं मांसात्मनेनमः ककुदि || प्. १०९) ॐ वं मेदात्मनेनमः वामांसे || ॐ शं अस्थ्यात्मने नमः हृदयादि दक्षहस्तांतम् || ॐ पं मज्जात्मनेनमः हृदयादि वामहस्तांतम् || ॐ सं शुक्रात्मने नमः हृदयादि दक्षपादान्तम् || ॐ हं आत्मने नमः हृदयादि वाम पादान्तम् || ॐ लं परमात्मने नमः जठरे || ॐ क्षं प्राणात्मने नमः मुखे || इति विन्यस्य || अथ ध्यानम् ||
98 SK ॐ पंचाशल्लिपिभिर्विभक्तसुखदोः यत्संधिवक्षस्थलां भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुंगस्तनीम् || मुद्रामक्ष गुणंसुदार्ढ्य कलशंविद्यां च हस्तांबुजैर्विभ्राणांविशद प्रभां त्रिनयनांवाग्देवतामाश्रये || १ || इति वहिर्मातृकान्यासः || स्थित्यादौगृहस्थानां सृष्ट्यादौ ब्रह्मचारिणाम् || संहारादौयतीनां च मातृकान्यासमाचरेत् || अथ स्थिति न्यासः || ऋषिश्छन्दस्तुपूर्ववत् || ध्यानम् || सिंदूरकान्ति मसिताभरणां त्रिनेत्रां विद्याक्षसूत्र मृगपोतवरंदधानां || पार्श्वस्थितांभगवतीमपि कांचनांगीं ध्याये कराब्जधृत पुस्तक वणमालाम् || ॐ टं ठं डं नमः ललाटे || ॐ टं ठं डं नमः मुखवृत्ते || ॐ टं ठं डं नमः दक्ष नेत्रे || ॐ टं ठं डं नमः वाम कर्णे || ॐ टं ठं डं नमः दक्ष नासायां || ॐ टं ठं डं नमः वाम नाम नासायां || ॐ टं ठं डं नमः दक्षिण गंडे || ॐ टं ठं डं नमः वाम गण्डे || ॐ टं ठं डं नमः ऊर्ध्वोष्ठे || ॐ टं ठं डं नमः अधरोष्ठे || ॐ टं ठं डं नमः ऊर्ध्व दन्तपंक्तौ || प्. ११०)
99 SK ॐ टं ठं डं नमः अधोदन्त पंक्तौ || ॐ टं ं नमः शिरसि || ॐ टं ठं डं नमः मुखे || ॐ टं ठं डं नमः जिह्वाग्रे || ॐ ठं डं कंठ देशे || ॐ टं ठं डं नमः दक्ष बाहु मूले || ॐ टं ं नमः दक्ष कूर्परे || ॐ टं ठं डं नमः दक्षिण मणि बंधे ||ॐ टं ठं डं नमः द० ह० गु० मूले || ॐ टं ठं ं नमः द० ह० गुल्यग्रे || ॐ टं ठं डं नमः वाम बाहु मूले || ॐ टं ठं डं नमः वाम कूर्परे || ॐ टं ठं डं नमः वाम मणि बन्धे || ॐ टं ठं डं नम वाम हस्तांगुल्यग्रे || ॐ टं ठं डं नमः दक्ष पाद मूले || ॐ टं ठं डं नम दक्ष जानुनि || ॐ टं ं डं नमः दक्ष गुल्फे || ॐ टं ठं डं नम दक्ष पादांगुलि मूले || ॐ टं ठं डं नमः दक्ष पादांगुल्यग्रे || ॐ टं ठं डं नमः वाम पाद मूले || ॐ टं ठं डं नमः वाम जानुनि || ॐ टं ठं डं नमः वाम गुल्फे || ॐ टं ठं डं नमः वाम पदांगुलि मूले || ॐ टं ठं ं नमः वाम पा० गुल्यग्रे || ॐ टं ठं डं नमः दक्ष पार्श्वे || ॐ टं ठं डं नमः वाम पार्श्वे || ॐ टं ठं डं नमः पृष्ठे || ॐ टं ठं डं नमः उदरे || ॐ ं ठं डं नमः हृदये || ॐ टं ं नमः दक्षांसे || ॐ टं ठं डं नमः ककुदि || ॐ टं ठं डं नमः वामांसे || ॐ टं ठं डं नमः हृदयादि दक्ष हस्तान्तम् || ॐ टं ठं डं नमः हृदयादि वाम हस्तान्तम् || ॐ टं ठं डं नमः हृदयादि दक्ष पादान्तम् || ॐ टं ठं डं नमः हृदयादि वाम पादान्तम् || ॐ टं ठं डं नमः हृदयादि मस्तकान्तम् || इति स्थिति क्रमः || [टि० नाभावारभ्यतेयस्तु हृदये च समाप्यते || स्थिति न्यासः स विज्ञेयः दृष्टादृष्ट फलप्रदः || मन्त्र तन्त्र प्रकाशे ||] स्थिति न्यासः || ऐं भं नमः नाभौ || ऐं वं नमः पृष्ठे || ऐं फं नमः वाम पार्श्वे || प्. १११)
100 SK ऐं पं नमः दक्षिण पार्श्वे || ऐं नमः वाम पादाङ्गल्यग्रे || ऐं धं नमः वाम पादांगुलि मूले || ऐं दं नमः गुल्फे || ऐं थं नमः वाम जानुनि || ऐं तं नमः वाम पादमूले || ऐं णं नमः दक्षिण पादांगुल्यग्रे || ऐं ढं नमः दक्षिण पादांगुलि मूले || ऐं डं नमः दक्षिण गुल्फे || ऐं ठं नमः दक्षिण जानुनि || ऐं टं नमः दक्षिण पाद मूले || ऐं ञं नमः वाम हस्तांगुल्यग्रे || ऐं झं नमः वाम हस्तांगुलि मूले || ऐं ं नमः वाम मणि बन्धे || ऐं छं नमः वाम कूर्परे || ऐं चं नमः वाम बाहु मूले || ऐं ङं नमः दक्षिण मणिबंधे || ऐं खं नमः दक्षिण कूर्परे || ऐं के नमः दक्षिण बाहु मूले || ऐं अः नमः मुखे || ऐं अं नमः मूर्द्धनि | ऐं औं नमः अधोदन्त पक्तौ || ऐं ॐ नमः ऊर्ध्व दन्त पंक्तौ || ऐं ऐं नमः अधरोष्ठे || ऐं एं नमः ऊर्ध्वोष्ठे || ऐं ऌं नमः वाम कपोले || ऐं ऌं नमः दक्ष कपोले || ऐं ऋं नमः वाम नासायां || ऐं ऋं नमः दक्ष नासायां || ऐं ऊं नमः वाम कर्णे || ऐं उं नमः दक्ष कर्णे || ऐं ईं नमः वाम नेत्रे || ऐं इं नमः दक्ष नेत्रे || ऐं ओ नमः मुखवृत्ते || ऐं अं नमः ललाटे || ऐं यं नमः उदरे || ऐं क्षं प्राणात्मने नमः मुखे || ऐं लं परमात्मने नमः जठरे || ऐं हं आत्मने नमः हृदयादि वामपादान्तम् || ऐं सं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् || ऐं ं मज्जात्मने नमः हृदयादि वाम हस्तान्तम् || ऐं शं अस्थ्यात्म नमः हृदयादि दक्ष पादान्तम् || ऐं वं मेदात्मने नमः वामांसे || ऐं लं भासात्मने नमः ककुदि ऐं रं असृगात्मने नमः दक्षांसे | ऐं यं त्वगात्मने नमः हृदि || इति स्थिति न्यासः || अथ सृष्टिन्यास क्रमः || तत्र तु विसर्गान्वितः प्रणवपुटितो वा माया लक्ष्मी बीजपुटितो वा वाग्भवाद्योवान्यस्तव्यः || ध्यानम् ||
101 SK पञ्चाशदर्णैरचिताङ्गभागां धृतेन्दु खण्डा कुमुदावदाताम् || वराभये पुस्तकमक्षसूत्रं भजेगिरं संदधतीं त्रिनेत्राम् || १ || तत्र वाग्भवाद्यो यथा १ ऐं अं नमः ललाटे || ऐं आं नमः मुखवृत्ते || ऐं इं नमः दक्ष नेत्रे || ऐं ईं नमः वाम नेत्रे || ऐं उं नमः दक्ष कर्णे || ऐं ऊं नमः वाम कर्णे || ऐं ऋं नमः दक्ष नासायां || ऐं ऋं नमः वाम नासायां || प्. ११२) ऐं ॡं नमः दक्ष गंडे || ऐं ॡं नमः वाम गंडे || ऐं एं नमः ऊर्ध्वोष्ठे || ऐं नमः अधरोष्ठे || ऐं ॐ नमः ऊर्ध्वदन्तपंक्तौ || ऐं औं नमः अधोदन्तपंक्तौ || ऐं अं नमः मूर्द्ध्नि || ऐं अः नमः मुखे || ऐं कं नमः द० वा० मूले || ऐं खं नमः द० कूर्परे || ऐं ं नमः द० मणिबंधे || ऐं घं नमः द० हस्तांगुलि मूले || ऐं ङं नमः द० हस्तांगुल्यग्रे || ऐं चं नमः वाम बाहु मूले || ऐं छं नमः वामः कूर्परे || ऐं जं नमः वाम मणिबंधे || ऐं झं नमः वाम हस्तांगुलि मूले || ऐं ञं नमः वाम हस्तांगुल्यग्रे || ऐं टं नमः दक्षिणपाद मूले || ऐं ठं नमः दक्षिण जानुनि || ऐं ङं नमः दक्षिण गुल्फे || ऐं ढं नमः द० पा० गुलि मूले || ऐं णं नमः द० पा० गुल्यग्रे || ऐं तं नमः वाम पाद मूले || ऐं थं वाम जानुनि || ऐं दं नमः वाम गुल्फे || ऐं धं नमः वा० पा० गु० मूले || ऐं नं वाम पादांगुल्यग्रे || ऐं पं नमः दक्षिण पार्श्वे || ऐं फं नमः वाम पार्श्वे || ऐं वं नमः पृष्ठे || ऐं भं नमः नाभौ ऐं मं नमः उदरे || ऐं यं त्वागात्मने नमः || हृदि || ऐं रं असृगात्मने नमः दक्षांसे || ऐं लं मांसात्मने नमः ककुदि || ऐं वं मेदात्मने नमः वामां से || [मंत्र तंत्र प्रकाशे -
102 SK टो० संहृतेर्दोष संहारः सृष्टेश्च सुत पुत्रदः || स्थितिस्तु शांति विन्यासस्तस्मात्कार्यस्त्रिधा च सः || स्थिति न्यासो ग्रहस्थाना मुद्दिष्टः सर्व सिद्धिदः || प्रथमाश्रमिणां न्यासं उत्पत्तिः समुदाहृतः || यतीनां च वनस्थानां संहारः समुदाहृतः || विरक्तस्य गृहस्थस्य संहारोपिविधीयते || सपत्नीक वनस्थानां स्थिति न्यासो विधीयते || विद्यार्थिना मथै तेषां सृष्ट्यन्तोपि विशिष्यते ||] प्. ११३) ऐं शं अस्थ्यात्मने नमः हृदयादि दक्ष भुजान्तम् || ऐं षं मज्जात्मने नमः हृदयादि वाम भुजान्तम् || ऐं सं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् || ऐं हं आत्मने नमः हृदयादि वाम पादान्तम् || ऐं लं परमात्मने नमः हृदयादि मस्तकान्तम् || इति सृष्टिक्रम न्यासः || अथ संहार क्रम न्यासः || ध्यानम् || अक्षस्रजं हरिणपोतमुदग्रटंकं विद्यांकरै रविरतंदधतींत्रिनेत्रां || अर्द्धेन्दुमौलिभरणामरविन्दवासां वर्णेश्वरीं च प्रणुमः स्तनभारखिन्नाम् || पूर्वोक्त स्थानेषु विलोम मातृकांन्यसेत् ||
103 SK ॐ क्षं नमः ललाटे || ॐ हं नमः मुखवृत्ते || ॐ सं नमः दक्ष नेत्रे || ॐ षं नमः वाम नेत्रे || ॐ शं नमः दक्ष कर्णे || ॐ वं नमः वाम कर्णे || ॐ लं नमः दक्ष नासायां || ॐ रं नमः वाम नासायां || ॐ यं नमः दक्षगंडे || ॐ मं नमः वाम गंडे || ॐ भं नमः ऊर्ध्वोष्ठे || ॐ बं नमः अधरोष्ठे || ॐ फं नमः ऊर्ध्व दन्तपंक्तौ || ॐ पं नमः अधोदन्तपंक्तौ || ॐ नं नमः मूर्द्ध्नि || ॐ धं नमः मुखवृत्ते || ॐ दं नमः दक्ष बाहु मूले || ॐ थं नमः दक्ष कूर्परे || ॐ तं नमः दक्ष मणि बन्धे || ॐ णं नमः दक्ष हस्तांगुलि मूले || ढं नमः दक्ष हस्तांगुल्यग्रे || ॐ डं नमः वाम बाहु मूले || ॐ ठं नमः वाम कूर्परे || ॐ टं नमः वाम मणि बन्धे || ॐ ञं नमः वाम हस्तांगुलि मूले || ॐ झं नमः वाम हस्तांगुल्यग्रे || ॐ चं नमः दक्ष पाद मूले || ॐ छं नमः दक्ष जानुनि || ॐ चं नमः दक्ष गुल्फे || ॐ डं नमः दक्ष पादांगुलि मूले || ॐ घं नमः दक्ष पादांगुल्यग्रे || [वीर चूडामणि तन्त्रानुसारत || विद्याकामे योनि बीजाद्यः श्रीकामेरमाद्यः || वश्ये कामाद्यः || स्तंभने स्थिर मायाद्यः इत्यादि ||] प्. ११४) ॐ गं नमः वाम पाद मूले || ॐ खं नमः वाम जानुनि || ॐ कं नमः वाम गुल्फे || ॐ अः नमः वाम पादांगुलि मूले || ॐ अं नमः वाम पादांगुल्यग्रे || ॐ औं नमः दक्षिण पार्श्वे || ॐ ॐ नमः वाम पार्श्वे || ॐ ऐं नमः पृष्ठे || ॐ एं नमः नाभौ || ॐ ॡं नमः उदरे || ॐ ऌ त्वगात्मने नमः हृदि || ॐ ऋं असृगात्मने नमः दक्षासे || ॐ ऋं मांसात्मने नमः ककुदि || ॐ ऊं मेदात्मने नमः वामांसे || ॐ उं अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम् || ॐ ईं मज्जात्मने नमः हृदयादि वाम हस्तान्तम् || ॐ इं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् || ॐ आं आत्मने नमः हृदयादि वाम पादान्तम् || ॐ अṁ परमात्मने नमः हृदयादि मस्तकान्तम् ||
104 SK इति संहार क्रम न्यासः | अथ शक्तिकला न्यासः || अस्य श्रीशक्तिकला मातृका न्यासस्य प्रजापति ऋषिः गायत्री छन्दः श्री मातृका शारदा देवता हलोबीजानिसराः शक्तयः सप्तशती पाठाङ्गत्वेन मातृकान्यासे विनियोगः || ॐ प्रजापति ऋषये नमः शिरै || ॐ गायत्री छन्दसे नमः मुखे || ॐ श्री मातृका शारदा देवतायै नमः हृदि || ॐ हल्भ्योबीजेभ्यो नमः गुह्ये || ॐ स्वरेभ्योशक्तिभ्यो नमः पादयोः || ॐ विनियोगाय नमः सर्वांगे || कर न्यासः || ॐ अं ॐ आं अंगुष्ठाभ्यां नमः (हृदयाय नमः) ॐ इं उं ईं तर्जनीभ्यां नमः (शिरसे स्वाहा) ॐ उं ॐ ऊं मध्यमाभ्यां नमः (शिखायैवषट्) ॐ एं ॐ ऐं अनामिकाभ्यां नमः (कवचायहुṁ) ॐ ॐ ॐ औं कनिष्ठिकाभ्यां नमः (नेत्र त्रयाय वौषट्) ॐ अं ॐ अः करतल करपृष्ठाभ्यां नमः (अस्त्राय फट्) || प्. ११५) अथ ध्यानम् || ॐ शंख चक्राब्जपरशुकपालेनाक्षमालिकाः || पुस्तकामृतकुम्भौच त्रिशूलंदधतीं करैः || सितपीतासितश्वेत रक्त वर्णैस्त्रिलोचनैः || पंचास्यैः संयुक्तां चन्द्र स कांतिंशारदां भजे || १ ||
105 SK ॐ ह्रीं अं निवृत्यै नमः ललाटे || ॐ ह्रीं आं प्रतिष्ठायै नमः मुखवृत्ते || ॐ ह्रीं इं विद्यायै नमः दक्षनेत्रे || ॐ ह्रीं ईं शान्त्यै नमः वामनेत्रे || ॐ ह्रीं उं इन्धिकायै नमः दक्ष कर्णे || ॐ ह्रीं ऊं दीपिकायै नमः वामकर्णे || ॐ ह्रीं ऋं रेचिकायै नमः दक्षनासापुटे || ॐ ह्रीं ऋं मोचिकायै नमः वामनासापुटे || ॐ ह्रीं ऌं पराभिधायै नमः दक्षगण्डे || ॐ ह्रीं ॡं सूक्ष्मायै नमः वामगण्डे || ॐ ह्रीं एं सूक्ष्मामृतायै नमः ऊर्धोष्ठे || ॐ ह्रीं ऐं ज्ञानामृतायै नमः अधरोष्ठे || ॐ ह्रीं ॐ आप्यायन्यै नमः ऊर्ध्वदंतपक्तौ || ॐ ह्रीं औं व्यापिन्यै नमः अधोदन्तपंक्तौ || ॐ ह्रीं अंव्योमरूपायै नमः शिरसि || ॐ ह्रीं अः अनन्तायै नमः मुखे || ॐ ह्रीं कं सृष्ट्यै नमः जिह्वाग्रे || ॐ ह्रीं खम् ऋद्धिकायै नमः कण्ठदेशे || ॐ ह्रीं गं स्मृत्यै नमः दक्षबाहुमूले || ॐ ह्रीं घं मेघायै नमः दक्षकूर्परे || ॐ ह्रीं ङं कान्त्यै नमः दक्षमणिबन्धे || ॐ ह्रीं चं लक्ष्म्यै नमः दक्षहस्तांगुलिमूले || ॐ ह्रीं छं द्युत्यै नमः दक्षहस्तांगुल्यग्रे || ॐ ह्री जं स्थिरायै नमः वाम बाहुमूले || ॐ ह्रीं झं स्थित्यै नमः वामकूर्परे || ॐ ह्रीं ञं सिद्ध्यै नमः वाम हस्तांगुल्यग्रे || ॐ ह्रीं टं जरायै नमः वामहस्तांगुलिमूले || ॐ ह्रीं ठं पालिन्यै नमः वामहस्तांगुल्यग्रे || ॐ ह्रीं डं क्षान्त्यै नमः दक्षपादमूले || ॐ ह्रीं डं ईश्वरिकायै नमः दक्षजानुनि || ॐ ह्रीं णं रत्यै नमः दक्षपादगुल्फे || ॐ ह्रीं तं कामिकायै नमः दक्षपादांगुलिमूले || प्. ११६)
106 SK ॐ ह्रीं थं वरदायै नमः दक्षपादांगुल्यग्रे || ॐ ह्रीं दं आल्हादिन्यै नमः वामपादमूले || ॐ ह्रीं धं प्रीत्यै नमः वामजानुनि || ॐ ह्रीं नं दीर्घायै नमः वामगुल्फे || ॐ ह्रीं पं तीक्ष्णायै नमः वामपादांगुलिमूले || ॐ ह्रीं फं रौद्र्यै नमः वामपादांगुल्यग्रे || ॐ ह्रीं बं भयायै नमः दक्षपार्श्वे || ॐ ह्रीं भं निद्रायै नमः वामपार्श्वे || ॐ ह्रीं मं तन्द्रिकायै नमः पृष्ठे || ॐ ह्रीं यं क्षुधायै नमः उदरे ॐ ह्रीं रं क्रोधिन्यै नमः हृदि || ॐ ह्रीं लं क्रियायै नमः दक्षांसे || ॐ ह्रीं वं उत्कार्यै नमः ककुदि || ॐ ह्रीं शं समृत्युकायै नमः वामांसे || ॐ ह्रीं षं पीतायै नमः हृदयादि दक्षहस्तान्तम् || ॐ ह्रीं सं श्वतायै नमः हृदयादि वामहस्तान्तम् || ॐ ह्रीं हं अरुणायै नमः हृदयादि दक्ष पादान्तम् || ॐ ह्रीं लं सितायै नमः हृदयादि वामपादान्तम् || ॐ ह्रीं क्षं अनन्तायै नमः हृदयादिमस्तकान्तम् || इति शक्ति कलान्यासः || शिव कला मातृका न्यासः || ॐ अस्य श्रीशिवकला मातृकान्यास मंत्रस्य दक्षिणा मूर्ति ऋषिर्गायत्री छन्दः अर्द्धनारीश्वरो देवता हलो बीजानि स्वराः शक्तयः स्वाभीष्ट सिद्धये जपे विनियोगः || ॐ दक्षिणामूर्ति ऋषये नमः शिरसि || ॐ गायत्री छन्दसे नमः मुखे || ॐ अर्द्धनारीश्वरो देवतायै नमो हृदि || ॐ हल्भ्यो बीजेभ्यो नमो गुह्ये || ॐ स्वरेभ्यो शक्तिभ्यो नमः पादयोः || ॐ विनियोगाय नमः सर्वाङ्गे || इति ऋष्यादि न्यासः || अथ हृदयादि न्यासः || ॐ ह्सां अंगुष्ठाभ्यां नमः (हृदयाय) नमः || ॐ ह्सीं तर्जनीभ्यां नमः (शिरसे स्वाहा) || प्. ११७) ॐ ह्सूं मध्यमाभ्यां नमः (शिखायै वषट्) || ॐ ह्सैं अनामिकाभ्यां नमः (कवचायहुṁ) || ॐ ह्सौं कनिष्ठकाभ्यां नमः (नेत्रत्रयाय वौषट्) || ॐ ह्सः करतल कर पृष्ठाभ्यां नमः अस्त्रायफट्) || अथ ध्यानम् ||
107 SK पाशांकुशवराक्षस्रक्पाणि शीतांशु शेखरम् || त्र्यक्षंरक्त सुवर्णाभमर्द्धनारीश्वरं भजे || ॐ ह्सौं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमो ललाटे || ॐ ह्सौं आं अनन्ताय विरजयाभ्यां नमः मुखवृत्ते || ॐ ह्सौं इं सूक्ष्मेश शाल्मलीभ्यां नमः दक्ष नेत्रे || ॐ ह्सौं ईं त्रिमूर्तीश लोलाक्षीभ्यां नमः वामनेत्रे || ॐ हसौं उं अमरेश वर्तुलाक्षीभ्यां नमः दक्षकर्णे || ॐ ह्सौं ऊṁ अर्घीश घोषणाभ्यां नमः वामकर्णे || ॐ ह्सौं ऋं भारभूतेश दीर्घमुखीभ्यां नमः दक्ष नासा पुटे || ॐ ह्सौं ॠं तिथीय गोमुखीभ्यां नमः वाम नासा पुटे || ॐ ह्सौं ऌं स्थाण्वीश दीर्घ जिह्वाभ्यां नमः दक्ष गंडे || ॐ ह्सौं ॡं हरः कुण्डोदरीभ्यां नमः वाम गंडे || ॐ ह्सौं एं झिंटीश ऊर्ध्वकेशीभ्यां नमः ऊर्ध्वोष्ठे || ॐ ह्सौं ऐं भौतिकेश विकृत मुखीभ्यां नमः अधरोष्ठे || ॐ ह्सौं ॐ सद्योजात ज्वालामुखीभ्यां नमः ऊर्ध्व दन्तपंक्तौ || ॐ ह्सौं औं अनुग्रहेश उल्कामुखीभ्यां नमः अधो दन्त पंक्तौ || ॐ ह्सौं अं अक्रूरेश श्रीमुखीभ्यां नमः शिरसि || ॐ ह्सौं अः महासेनेश विद्यामुखीभ्यां नमः मुखे || ॐ ह्सौं कं क्रोधीश महाकालीभ्यां नमः जिह्वाग्रे || न्यासे मुद्रा विधानम् || ललाटे मध्यमानामिकाभ्यां || मुख वृत्ते प्रादक्षिण्येन || सर्वत्र दक्षिणादि क्रमः || नेत्रयोः तर्जन्यनामिकाभ्यां कर्णयोरंगुष्ठेन || मुद्रया यत्कृतं कर्म || तदक्षय फलप्रदम् || प्. ११८)
108 SK ॐ ह्सौं खं चण्डेश सरस्वतीभ्यां नमः कण्ठदेशे || ॐ ह्सौं गं पञ्चान्तकेश सर्वसिद्धि गौरीभ्यां नमः दक्ष बहु मूले || ॐ ह्सौं घं शिवोत्तमेश विश्वेश त्रैलोक्येश विद्याभ्यां नमः दक्ष कूर्परे || ॐ ह्सौं ङं एकरुद्रेश मन्त्र शक्तिभ्यां नमः दक्ष मणिबंधे || ॐ ह्सौं चं कूर्मेश आत्मशक्तिभ्यां नमः दक्ष हस्तांगुलिमूले || ॐ ह्सौं छं एकनेत्रेश भूतमातृभ्यां नमः दक्ष हस्तांगुल्यग्रे || ॐ ह्सौं जं चतुराननेश लम्बोदरीभ्यां नमः वाम बाहु मूले || ॐ ह्सौं झं अजेश द्राविणीभ्यां नमः वाम कूर्परे || ॐ ह्सौं ञं सर्वेश नागरीभ्यां नमः वाम मणि बंधे || ॐ ह्सौं टं सोमेश खेचरीभ्यां नमः वाम हस्तांगुलि मूले || ॐ ह्सौं ठं ला᳚गलीश मंजरीभ्यां नमः वाम हस्तांगुल्यग्रे || ॐ ह्सौं डं दारकेश रूपिणीभ्यां नमः दक्ष जानुनि || ॐ ह्सौं ढं अर्द्धनारीश वीरिणीभ्यां नमः दक्षपाद मूले || ॐ ह्सौं णं उमाकान्तेश काकोदरीभ्यां नमः दक्षपादगुल्फे || ॐ ह्सौं तं आषाढीश पूतनाभ्यां नमः दक्ष पादांगुलि मूले || ॐ ह्सौं थं चंडीश भद्रकालीभ्यां नमः दक्ष पादांगुल्यग्रे || नसोः कनिष्ठांगुष्ठाभ्यां || गंडयोः मध्यमया || ओष्ठयोः मध्यमया || दंत पंक्तयोः अनामया || शिरसि मध्यमया || मुखे अनामामध्यमाभ्यां || मुद्राव्युत्पत्तिः || रादाने मुदंराति ददातीति मुद्रेतिनिर्वचनम् || इदमेव मोदन्तेसर्वदेवता || इत्यनेनसूचितम् तदुत्तम् || अर्चनेजपकाले तु ध्यानेकाम्ये च कर्मणि || तत्तन्मुद्राः प्रयोक्तव्या देवता सन्निधापिका || इतः सर्वत्रकनिष्ठा नामा- karatalena anādeśe sarvatra anāmāṃguṣṭhābhyāṃ nyaset || śakti ṣaḍaṅga mudrā āgame || aṃguṣṭha varjamaṃgulyaścatasro hṛdimūrddhani || śikhāyāṃ muṣṭhi revasyādaṃguṣṭha kṛta nāsikā || sarvāṃgula ānābheḥ pāṇyoḥ kavaca bandhanam || iti || p. 119)
109 SK ॐ ह्सौं दं अन्त्रीश योगिनीभ्यां नमः वाम पाद मूले || ॐ ह्सौं धं मीनेश शङ्खिनीभ्यां नमः वाम जानौ || ॐ ह्सौं नं मेषेश तर्जनीभ्यां नमः वाम गुल्फे || ॐ ह्सौं पं लोहितेश कालरात्रीभ्यां नमः वाम पादांगुलि मूले || ॐ ह्सौं फं शिखीश कुब्जिनीभ्यां नमः वाम पादांगुल्यग्रे || ॐ ह्सौं वं छगलंडेश कपर्दिनीभ्यां नमः दक्ष पार्श्वे || ॐ ह्सौं भं द्विरंडेश वज्रीभ्यां नमः वाम पार्श्वे || ॐ ह्सौं मं महाकालेश जयाभ्यां नमः उदरे || ॐ ह्सौं रं असृगात्मभ्यां भुजगेश रेवतीभ्य नमः हृदि || ॐ ह्सौं लं मांसात्मभ्यां पिनाकीश माधवीभ्य नमः दक्षं से || ॐ ह्सौं वं मेदाअत्मभ्यां खड्गीश वारुणीभ्यां नमः ककुदि || ॐ ह्सौं शं अस्थ्यात्मभ्यां बकेश वायवीभ्यां नमः वामांसे || ॐ ह्सौं षं मज्जात्मभ्यां श्वेतेश रक्षो विदारिणीभ्यां नमः हृदयादि दक्ष हस्तान्तम् || ॐ ह्सौं सं शुक्रात्मभ्यां भृग्वीश सहजयाभ्यां नमः हृदयादि वाम हस्तान्तम् || ॐ ह्सौं हं प्राणात्मभ्यां नकुलीश लक्ष्मीभ्यां नमः हृदयादि दक्ष पादान्तम् || ॐ ह्सौं लं शिवेश व्यापिनीभ्यां नमः हृदयादि वाम पादान्तम् || ह्सौं क्षं क्रोधात्मभयं संवर्तकेश महामायाभ्यां नमः हृदयादि मस्तकान्तम् || श्रीकण्ठादीञ् * * भक्तः कुर्यान्न्यासादिकन्तथा मन्त्र महोदधौ २१ तरंगे || अथ शक्ति षोढान्यास प्रकारः || तत्र प्रथम शुद्ध मातृका न्यासः || अं आṁ इं ईं उं ऊं ऋं ॠं ऌं ॡं नमो हृदि || एं ऐं ॐ औं अं अः कं खं गं घं नमो दक्ष भुजे || ङं चं छं जं झं ञं टं ठं डं ढं नमो वाम भुजे || णं तं थं दं धं नं पं फं बं भं नमो दक्ष पादे || प्. १२०) मं यं रं लं वं शं षं सं हं लं क्षं नमो वाम पादे || इति शुद्धमातृका न्यासः प्रथमः || अथ द्वितीय न्यासः ||
110 SK श्रीं अं श्रीं अं श्रीं अं नमो ललाटे || श्रीं आं श्रीं आं श्रीं आं नमो मुखवृत्ते || श्रीं इं श्रीं इं श्रीं इं नमो दक्ष नेत्रे || श्रीं ईं श्रीं ईं श्रीं ईं नमो वाम नेत्रे || श्रीं उं श्रीं उं श्रीं उं नमो दक्ष कर्णे || श्रीं ऊं श्रीं ऊं श्रीं ऊं नमो वाम कर्णे || श्रीं ऋं श्रीं ऋं श्रीं ऋं नमो दक्षनासायाṁ || श्रीं ॠं श्रीं ऋं श्रीं ऋं नमो वामनासायां श्रीं ऌं श्रीं ऌं नमो दक्ष कपोले || श्रीं ॡं श्रीं ॡं श्रीं ॡ. नमो वाम कपोले || श्रीं एं श्रां एं श्रीं एं नम ऊर्ध्वोष्ठे || श्रीं ऐं श्री ऐं श्रीं ऐं नम अधरोष्ठे || श्रीं ॐ श्रीं ॐ श्रीं ॐ नम ऊर्ध्व दन्त पंक्तौ || श्रीं औं श्रीं औं श्रीं औं नम अधः दन्त पंक्तौ || श्रीं अं श्रीं अं श्रीं अं नमो मूर्द्ध्नि || श्रीं अः श्रीं अः श्रीं अः नमो मुखे || श्रीं कं श्रीं कं श्रीं कं नमो दक्षिण बाहु मूले || श्रीं खं श्रीं खं श्रीं खं नमो दक्षिण कूर्परे || श्रीं गं श्रीं गं श्रीं गं नमो दक्षिण मणि बन्धे || श्रीं घं श्रीं घं श्रीं घं नमो दक्षिण हस्तांगुलि मूले || श्रीं ङं श्रीं ङं श्रीं ङं नमो दक्षिण हस्तांगुल्यग्रे || श्रीं चं श्रीं चं श्रीं चं नमो वामबाहुमूले || श्रीं छं श्रीं छं श्रीं छं नमो वाम कूर्परे || श्री. जं श्रीं जं श्रीं जं नमो वाम मणि बंधे || श्रीं झं श्रीं झं श्रीं झं नमो वाम हस्तांगुलि मूले || श्रीं ञं श्रीं ञं श्रीं ञं नमो वाम हस्तांगुल्यग्रे || श्रीं टं श्रीं टं श्री टं नमो दक्षिण पाद मूले || श्रीं ठं श्रीं ठं श्रीं ठं नमो दक्ष जानुनि || श्रीं डं श्रीं डं श्रीं डं नमो दक्ष गुल्फे || श्रीं ढं श्रीं ढं श्रीं ढं नमो दक्ष पादांगुलि मूले || श्रीं णं श्रीं णं श्रीं णं नमो दक्ष पादांगुल्यग्रे || प्. १२१)
111 SK श्रीं तं श्रीं तं श्रीं तं नमो वाम पाद मूले || श्रीं थं श्रीं थं श्रीं थं नमो वाम जानुनि || श्रीं दं श्रीं दं श्रीं दं नमो वाम गुल्फे || श्रीं धं श्रिं धं श्रीं धं नमो वाम पादांगुलिमूले || श्रीं नं श्रीं नं श्री नं नमो वाम पादांगुल्यग्रे || श्रीं पं श्रीं पं श्रीं पं नमः दक्ष पार्श्वे || श्रीं फं श्रीं फं श्रीं फं नमो वाम पार्श्वे || श्रीं बं श्रीं बं श्रीं बं नमो पृष्ठे || श्रीं भं श्रीं भं श्रीं भं नमो नाभौ || श्री मं श्रीं मं श्रीं मं नमो दरे || श्रीं यं श्रीं यं श्रीं यं त्वगात्मने नमः हृदि || श्रीं रं श्रीं रं श्रीं रं असृगात्मने नमः दक्षांसे || श्रीं लं श्रीं लं श्रीं लं मांसात्मने नमः ककुदि || श्रीं वं श्रीं वं श्रीं वं मेदात्मने नमः वामांसे || श्रीं शं श्रीं शं श्रीं शं अस्थ्यात्मने नमः हृदयादि दक्ष हस्तान्तम् || श्रीं षं श्रीं षं श्रीं षं मज्जात्मने नमः हृदयादि वाम हस्तान्तम् || श्रीं सं श्रीं सं श्रीं सं शुक्रात्मने नमः दयादि दक्ष पादान्तम् || श्रीं हं श्रीं हं श्रीं हं आत्मने नमः हृदयादि वाम पादान्तम् || श्रीं लं श्रीं लं श्रीं लं परमात्मने नमः जठरे || श्रीं क्षं श्रीं क्षं श्रीं क्षं प्राणात्मने नमः हृदयादि मस्तकान्तम् || इति द्वितीयः न्यासः || अथ तृतीयः न्यासः || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो ललाटे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मुख वृत्ते || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष नेत्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वामनेत्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष कर्णे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कर्णे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष नासायाम् || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम नासायां || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षकपोले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कपोले || प्. १२२)
112 SK क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नम ऊर्ध्वोष्ठे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नम अधरोष्ठे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो ऊर्ध्व दन्त पंक्तौ || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नम अधो दन्त पंक्तौ || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मूर्द्ध्नि || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो मुखे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षिण बाहुमूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष कूर्परे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष मणि बंधे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष हस्तांगुलिमूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष हस्तांगुल्यग्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम बाहुमूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम कूर्परे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम मणिबन्धे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम हस्तांगुलिमूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम हस्तांगुल्यग्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्षिण पाद मूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष जानुनि || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष गुल्फे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पादांगुलि मूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पादांगुल्यग्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पाद मूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम जानुनि || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पादांगुलि मूले || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पादांगुल्यग्रे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो दक्ष पार्श्वे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो वाम पार्श्वे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो पृष्ठे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो नाभौ || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं नमो उदरे || प्. १२३)
113 SK क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं त्वगात्मने नमः हृदि || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं असृगात्मने नमः दक्षांसे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मांसात्मने नमः ककुदि || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मेआत्मने नमः वामांसे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं अस्थ्यात्मने नमः हृदयादि दक्षहस्तान्तम् || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं मज्जात्मने नमः हृदयादि वाम हस्तान्तम् || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं शुक्रात्मने नमः हृदयादि दक्ष पादान्तम् || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं परमात्मने नमः जठरे || क्लीं श्रीं क्लीं श्रीं क्लीं श्रीं हृदयादि || मस्तकान्तम् || इति तृतीय न्यासः || अथ चतुर्थ न्यासः || ह्रीं श्रीं ह्रीं श्रीं ह्रीं श्रीं नमः ललाटे || पंचमः || ऐं ह्रीं क्लीं चामुण्डायै विच्चे ह्रां ह्रां ऋं ऋं क्लूṁ नमः ललाटे || षष्ठ अनुलोमः || ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः ललाटे || विलोम न्यासः || ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः हृदयादि मस्तकान्तम् || तत्त्वन्यासः || ऐं ह्रीं क्लीं आत्म तत्त्वाय नमः पादादि नाभिपर्यन्तम् || प्. १२४) शिव तत्त्वाय नमः हृदयादि शिरः पर्यन्तम् || विच्चे शिव तत्वायनमः हृदयादि शिरः पर्यन्तम् || अक्षर न्यासः || ऐं नमः ब्रह्मरंध्रे || ह्रीं नमः भ्रुवोर्मध्ये || क्लीं नमः ललाटे || चां नमः हृदि || मुं नमोकुक्षयोः || डां नमः नाभौ || यैं नमो लिंगे || विं नमो गुह्ये || च्चें नमोवक्त्रे || इति || ह्रीं क्लीं चामुण्डायै विच्चे ||
114 SK ततो नवधा सप्तधा पञ्चधा वा मूल मुच्चरन् व्यत्य हस्ताभ्यां व्यापक न्यासं विधाया | ततो यथोक्त विधिना विन्दु त्रिकोण षट्कोण अष्ट दल चतुर्विंशति दल भूपरयुत्ऽम्यंत्रंनिर्माय पीठे धृत्वा || पीठन्यासं कुर्यात् || ॐ ह्रीं आधार शक्तये नमः || ॐ प्रकृत्यै नमः || ॐ कूर्माय नमः || ॐ सुधांबुधये नमः || ॐ मणिद्वीपाय नमः || ॐ चिन्तामणि गृहाय नमः || ॐ श्मशानाय नमः || ॐ पारिजाताय नमः || तन्मूले || ॐ रत्नवेदिकायै नमः || ॐ मणिपीठाय नमः || एतावद्धृदि न्यसेत् || चतुर्दिक्ऽ || ॐ नाना मुनिभ्यो नमः ॐ नाना देवेभ्यो नमः || ॐ शवेभ्यो नमः || ॐ शवमुण्डेभ्यो नमः || बहुमांसास्थि मोअमान शवेभ्यो नमः || ॐ धर्माय नमः दक्षांसे || ॐ ज्ञानाय नमः वामांसे || ॐ वैराग्याय नमः वामोरौ || ॐ ऐश्वर्याय नमः दक्षोरौ || ॐ अधर्माय नमो मुखे || ॐ अज्ञानाय नमो वाम पार्श्वे || ॐ अवैराज्ञाय नमः नाभौ || ॐ अनैश्वर्याय नमः दक्षिणपार्श्वे || ततो हृदि || ॐ आनन्द कन्दाय नमः ॐ संविन्नालाय नमः || ॐ सर्व तत्त्वात्मक पद्माय नमः || ॐ प्रकृति मय पत्रेभ्यो नमः || ॐ विकार मय केसरेभ्यो नमः || ॐ पञ्चाशद्बीजाढ्य कर्णिकायै नमः || ॐ अं द्वादश कलात्मने सूर्य मंडलाय नमः || प्. १२५)
115 SK ॐ सं षोडश कलात्मने सोममण्डलाय नमः || ॐ मं दशकलात्मने वह्नि मण्डलाय नमः || ॐ सं सत्वायनमः || ॐ रं रजसे नमः || ॐ तं तमसे नमः || ॐ आं आत्मने नमः || ॐ अं अन्तरात्मने नमः || ॐ पं परमात्मने नमः || ॐ ह्रीं ज्ञानात्मने नमः || अष्टदिक्षु || ॐ इं इच्छायै नमः || ॐ ज्ञां ज्ञानायै नमः || ॐ क्रिं क्रियायै नमः || ॐ कां कामिन्यै नमः || ॐ कां कामदायिन्यै नमः || ॐ रं रत्यै नमः || ॐ रं रति प्रियायै नमः || ॐ आं आनन्दायै नमः मध्ये || ॐ मं मनोन्मन्यै नमः || ॐ पं परायै नमः || ॐ पं परापरायै नमः || ॐ ह्सौः ब्रह्मा विष्णु रुद्रमहाप्रेत पद्मासनाय नमः || इति पीठ न्यासं कृत्वा तत्र दुर्गां ध्यायेत् || ॐ शंखं चक्रं गदां बाणान् चापं परिघ शूलके | भुशुण्डीं च गिरः खड्गं दधतीं दश वक्त्रकाम् || १ || तामसीं श्यामलां नौमि महाकालीं दशांघ्रिकाम् | मालाञ्च परशुं बाणान् गदां कुलिशमेव च || २ || पद्मं धनुः कुण्डिकां च दंडं शक्तिमसिं तथा | खेटकंजलजं घण्टां सुरापात्रं च शूलकम् || ३ || पाशं सुदर्शनं चैव दधतीं लोहित प्रभाम् | पद्मे स्थितां महालक्ष्मीं भजे महिष मर्दिनीम् || ४ || घण्टां शूलं हलं शंखं मुसलारि धनुः शरान् | दधतीमुज्वलां नौमि देवीं गौरी समुद्भवाम् || ५ || इति ध्यात्वा मानसैरुपचारैरभ्यर्च्य प्रणमेत् || [टिप्पणी - अर्घ्य पाद्याचमनीयाधुपर्काचमस्य च | पञ्चपात्राणिपुष्पादीन् स्थापयेत्स्वीय दक्षिणे || मंत्र महोदधौ २१ त० ७५ श्लोक ||] विशेषार्घ्य स्थापन विधिः || आत्म श्री चक्रयोर्मध्ये विन्दु त्रिकोण चतुरस्रं कृत्वा १ | शंखमुद्रया २ स्तंभयेत् || मध्ये || प्. १२६) ॐ जयध्वनि मातः स्वाहेति घण्टां संपूज्य वादयेत् || ॐ आगमार्थंतुदेवानां गमनार्थंतु रक्षसाम् || घण्टारवं प्रकुर्वीत देवता प्रीति कारकम् ||
116 SK मध्ये नवार्ण इतिमंत्रं विलिख्य सामान्यार्घ्योदकेनाभ्युक्ष्यततः चतुरस्रकोणेषु ॐ पूर्ण गिरि पीठाय नमः पूर्वे || ॐ उड्डीयान पीठाय नमः दक्षिणे || ॐ कामरूप पीठाय नमः पश्चिमे || ॐ जालंधर पीठाय नमः उत्तरे || त्रिकोणं मूल खंडत्रयेण संपूज्य || ॐ ह्रीं आधार शक्तये नमः इति संपूज्य षट्कोणेषु षडङ्गानि संपूज्य् || तत्राधारे अर्घ्यपात्रं संस्थाप्य नम इति सामान्यार्घ्योदकेनाभ्युक्ष्य || मं दशकलात्मने वह्निमण्डलाय नमः || ॐ यं धूम्रार्चिषे नमः || ॐ रं ऊष्मायै नमः || ॐ लं ज्वलिन्यै नमः || ॐ वं ज्वालिन्यै नमः || ॐ शं विस्फुलिंगिन्यै नमः || ॐ षं सुश्रियै नमः || सं स्वरूपायै नमः || ॐ हं कपिलायै नमः || ॐ लं हव्यवाहायै नमः इति संपूज्य || ॐ फडिति पात्रं प्रक्षाल्य || श्री दुर्गा विशेषार्घ्यपात्रं संस्थापयामि नमः इति पात्रं संस्थाप्य || ॐ अं अर्कमण्डलाय द्वादशकलात्मने अर्घ्य पात्राय नमः || ॐ कं भं तपिन्यै नमः || ॐ खं बं तापिन्यै नमः || ॐ गं फं धूम्रायै नमः || ॐ घं पं मरीच्यै नमः || ॐ ङ नं ज्वालिन्यै नमः || ॐ चं धं रुच्यै नमः || ॐ छं दं सुषुम्णायै नमः || ॐ जं खं भोगदायै नमः || ॐ झं तं विश्वायै नमः || ॐ ञं णं बोधिन्यै नमः || ॐ टं ढं धारिण्यै नमः || ॐ ठं डं क्षमायै नमः || इति सम्पूज्य || मूलेन विलोम मातृकां पठन् अर्घ्यपात्रं पूरयामीति जलेन (तीर्थोदकेन) कलशं पूरयित्वा || तत्र रक्तचंदन पुष्पादि निक्षिप्य || प्. १२७)
117 SK ॐ सं षोडश कलात्मने सोममण्डलाय नमः || ॐ अं अमृतायै नमः || ॐ आं मानदायै नमः || ॐ इं पूषायै नमः || ॐ ईं तुष्ट्यै नमः || ॐ उं पुष्ट्यै नमः || ॐ ऊं रत्यै नमः || ॐ ऋं धृत्यै नमः || ॐ ऋं शशिन्यै नमः || ॐ ऌं चंडिकायै नमः ॐ ॡं कान्त्यै नमः || ॐ एं ज्योत्स्नायैनमः || ॐ ऐं श्रियै नमः || ॐ ॐ प्रीत्यै नमः || ॐ औं अंगदायै नमः || ॐ अं पूर्णायै नमः || ॐ अः पूर्णामृतायै नमः || इति सम्पूज्य || कुशेन त्रिकोण वृत्त षट्कोणं लिखित्वा तन्मध्ये त्रिकोण रेखायां अं आं इं ईं उं ऊं ऋं ऋं ऌं ॡं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धण् नं पं फं बं भं मं यं रं लं वं शं षं सं इति विलिख्य त्रिकोण रेखायां मध्ये हं लं क्षं इति विलिख्य मूलखण्डत्रयेण त्रिकोणं संपूज्य || षट्कोणेषु षडंगं च पूजयित्वा || ॐ गंगे च यमुनेचैव गोदावरि सरस्वति || कावेरिनर्मदेसिन्धो जलेस्मिन्संनिधिं कुरु || ॐ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टेन ते रवे || तेन सत्येन मे देव तीर्थं देहि दिवाकर ! || इति मन्त्रेण १ अंकुश मुद्रया सूर्यमण्डलात्तीर्थान्यावाह्य वौषट् इति पुष्पं वषट् इति गालिनी [टिप्पणी १ गालनी मुद्रा यथा - कनिष्ठांगुष्ठकौयुक्तौ करयोरितरेतरम् | तर्जनी मध्यामा नामासंहतोभुग्न वर्जिताः ||] मुद्रां प्रदर्श्य || धर्मसारे || क शंख घटे च पाद्यार्घ्याचमनीयकम् | संपूज्यप्रोक्ष्यचात्मानं पूजासंभार मेवच || पूजासागरे || सुवासित जलैःपूर्णं सव्येकुम्भं प्रपूजयेतु | कलशस्येतिमन्त्रेण तीर्थान्यावाहयेत्ततः || वामेऽम्बुपात्रं छत्रमादर्शचामरे | कृताञ्जलिर्वामदक्षं गुरून्गणपतिं नमेत् || १ शंखमुद्रा लक्षणम् || वामाङ्गुष्ठन्तुसंगृह्य दक्षिणेन तु मुष्टिना | कृत्वोत्तानं तथा मुष्टिमङ्गुष्ठन्तु प्रसारयेत् || वामाङ्गुल्यस्तथाश्लिष्ठाः संयुक्ताः सुप्रसारिताः | दक्षिणांगुष्ठकेलग्ना मुद्राशङ्खस्यभूतिदा || प्. १२८)
118 SK श्री त्रिगुणात्मक दुर्गा देव्यै नमः || इति ध्यात्वा सम्पूज्य || तत्तन्मंत्रेण पूर्वादिक्रमेण रत्नानि प्रपूजयेत् || ॐ ग्लूं गगन रत्नेभ्यो नमः || ॐ स्लूं स्वग रत्नेभ्यो नमः || ॐ म्लूं मर्त्य रत्नेभ्यो नमः || ॐ न्लूं नागरत्नेभ्यो नमः || ॐ प्लूं पाताल रत्नेभ्यो नमः || इति संपूज्य || ततः आनन्दभैरवानन्द भैरव्यौ ध्यायेत् || सूर्य कोटि प्रतीकाशं चन्द्र कोटि शुशीतलम् | अष्टादशभुजं देवं पञ वक्त्रं त्रिलोचनम् || अमृतार्णव मध्यस्थं ब्रह्म पद्मोपरिस्थितम् | वृषारूढं नीलकंठं सर्वाभरणभूषितम् || कपालखट्वाङ्गधरं घंटाडमरुवादिनम् | पाशांकुशधरं देवं गदामुसलधारिणम् || खड्ग खेटक पद्दीश मुद्गरं शूल दंडकम् | विचित्र खेटकं मुंडं वरदा भयपाणिकम् || लोहितं देव देवेशं भावयेत्साधकोत्तमः | वं इति धेनु २ मुद्रयामृतीकृत्य || तज्जलेन स्वात्मानं पूजा सामग्रीं च प्रोक्षयेत् || इति विशेषार्घ्यविधिः || अथ क्षेत्र कीलनम् || जप स्थाने गत्वा पृथ्वी ग्रहणं कुर्यात् || तद्यथा गृहीतस्यास्य मंत्रस्य पुरश्चरण सिद्धये || मयेयं गृह्यते भूमिमंत्रोऽयंसिद्धिमाप्नुयात् || इति भूमिंसंगृह्य || अश्वत्थोदुंवर प्लक्षाणामन्यतम वितस्तिमात्रान् दशकीलान् || ॐ नमः सुदर्शनाय अस्त्राय फट् इति मंत्रेण अष्टोत्तरशतकृत्वाभिमंत्रितान् || ॐ ये चात्र विघ्नकर्तारो भुविदिव्यंतरिक्षगाः || विघ्नभूताश्च ये चान्ये मम मंत्रस्य सिद्धिषु || १ || मयिअतत्कीलितं क्षेत्रं परित्यज्यविदूरतः | अपसर्पन्तु ते सर्वे निर्विघ्नासिद्धिरस्तु मे || २ || प्. १२९)
119 SK इति मंत्रद्वयेन १० दिक्षु १० कीलान्निखनेत् || ततस्तेषु || ॐ नमः सुदर्शनाय अस्त्राय फट् || इति मन्त्रेण प्रत्येकं कीलं संपूज्य दिक्पालेभ्यः क्षेत्रपाल गणपतिभ्यश्च माष भक्तबलिं दत्वा || तद्बाह्येभूत ([आचम्य प्राणानायम्य || अद्येहेत्यादि मम (यजमानस्य) कल्पोक्त फलावाप्तये श्री दुर्गा देव्याःपुरश्चरण सिद्धये चतुर्दिक्षुवटुकादि देवताभ्यो दधि माषान्नद्रव्यैः पंच महाभूत बलिदानं करिष्ये || चक्रस्य पूर्वे भूमौ सिन्दूरेण विन्दुत्रिकोणवृत्तचतुरस्रात्मक यन्त्रं विलिख्य || वटुक बलिपात्राधार मंडलाय नमः इति गंधपुष्पाभ्यां संपूज्य || अन्नव्यंजनयुतमाधारं बलिं च निधाय || ॐ वं वटुक बलिद्रव्याय नमः इति गंधपुष्पाभ्यां संपूज्य || पूर्वे वं वटुकाय नमः इति संपूज्य || बलिमुपनीय || ॐ ऐं ह्रीं श्रीं एह्येहि देवीपुत्र वटुकनाथ कपिल जटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय २ सर्वोपचारसहितं बलिंगृह्ण २ स्वाहा || इतिवांआंगुष्ठानामिकाभ्यांबलि मुत्सृजेत् || दक्षहस्तेन जलंत्यजेत् || प्रार्थना || ॐ करकलितकपालः कुण्डली दण्डपाणिस्तरुण तिमिरनीलव्यालयज्ञोपवीती || क्रतुसमयसपर्या विघ्नविच्छेद हेतुर्जयति वटुकनाथः सिद्धिदः साधकानाम् || बलिदानेनन् संतुष्टोवटुकः सर्वसिद्धिदः शान्तिंकरोति मे नित्यं भूत वेताल सेवितः || इति पुष्पाञ्जलिं दद्यात् || चक्रस्य दक्षिणे पूर्ववत्यन्त्रं विलिख्य योगिनी बलिपात्राधार मंडलाय नमः || इति गंधपुष्पाभ्यां संपूज्य || तदुपरि अन्नव्यंजनयुतमाधारं बलिं च निधाय || ॐ यां योगिनी बलिद्रव्याय नमः इति गंधपुष्पाभ्यां संपूज्य || दक्षिणे यां सर्व योगिनीभ्यो नमः इति संपूज्य बलिमुपनीय || ॐ सर्ववर्णं योगिनीभ्य इमं बलिं गृह्ण २ हुṁ फट् स्वाहा इति वामांगुष्ठ मध्यमानामिकाभिः बलिमुत्सृजेत् || दक्षहस्तेनजलं त्यजेत् || प्रार्थना ||
120 SK ॐ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा || पाताले वा (स्थले) ऽनले वा सलिलपवनयोर्यत्र कुत्रिस्थिता वा || क्षेत्रेपीठोपपीठा दिशि च कृतपदा धूपदीपादिकेभ्य प्रीता देव्या सदा नः शुभविधिवलिनः पांतु वीरेन्द्रवन्द्याः || या काविद्योगिनी रौद्रा सौम्याघोर परात्पराः खेचरी भूचरी व्योमवती प्रीतास्तु मे सदा || यां योगिनीभ्यः स्वाहा सर्वाभ्यो योगिनीभ्यो फट् || पुष्पाञ्जलिं दद्यात् || चक्रस्य पश्चिमे पूर्ववत् यंत्रंविलिख्य || क्षेत्रपालबलि पात्राधार मण्डलाय नमः इति गंधपुष्पाभ्यां संपूज्य || अन्नव्यंजनयुतमाधारं बलिं च निधाय || ॐ क्षं क्षेत्रपाल बलिद्रव्याय नमः इति गंधपुष्पाभ्यां संपूज्य || पश्चिमे क्षं क्षेत्रपालाय नम इति संपूज्य || बलिमुपनीय || क्षां क्षीं क्षूं क्षैं क्षौं क्षः || भो स्थान क्षेत्रपालाय इमं बलिं गृह्ण २ सर्वकामान् पूरय २ स्वाहा || वामांगुष्ठ तर्जनीभ्यां बलिमुत्सृजेत् || दक्षहस्तेन जलं त्यजेत् || प्रार्थना || योस्मिन् क्षेत्रेनिवासी च क्षेत्रपालः सकिंकरः || प्रीतोयं बलिदानेन सर्वरक्षां करोतु मे || पुष्पांजलिं दद्यात् || चक्रस्य उत्तरे पूर्ववत् यन्त्रं विलिख्य गं गणेशबलि पात्राधार मंडलाय नमः इति गंधपुष्पाभ्यां संपूज्य द्रव्याय नमः इति गन्धपुष्पाभ्यां संपूज्य || उत्तरे गं गणेशाय नमः इति संपूज्य बलिमुपनीय || गां गीं गूं गैं गौं गः गणपतये वरवरद सर्वजनं मे वशमानय सर्वोपचारसहितं बलिं गृह्ण २ स्वाहा || इति वामांगुष्ठ मध्यमाभ्यांबलिमुत्सृजेत् || दक्ष हस्तेन जलन्त्यजेत् || प्रार्थना || सर्वदा सर्वकार्याणि निर्विघ्नं साधयेन्मम || शान्तिं करोतु सततं विघ्नराजः सशक्तिकः || पुष्पांजलिं दद्यात् ||
121 SK स्ववामे चतुष्कोणयंत्रं विलिख्य ह्रीं सर्वभूतविघ्नकृतबलिपात्राधार मंडलाय नम इति गंध पुष्पाभ्यां संपूज्य तदुपरि अन्न व्यञ्जनयुतमाधारं बलिंचनिधाय || सर्वभूतविघ्नकृत्बलिद्रव्याय नमः || इतिगंधपुष्पाभ्यांसंपूज्य || बलिमुपनीय ॐ ह्रीं सर्वविघ्नकृद्भ्यं सर्व भूतेभ्य इमं बलिं गृह्ण २ हुṁ फट् स्वाहा || इति सर्वाङ्गुलिभिः बलिमुत्सृजेत् || दक्षेन जलं त्यजेत् || प्रार्थना || भूता ये विघ्न कर्ताराः दिविभूम्यन्तरिक्षगाः || पातालस्थलसंस्थाश्च शिवयोगेन भाविताः || क्रूराद्याः शत संख्याकाः पाखंडाद्या व्यवस्थिताः || ध्रुवाद्याः सत्यसख्याश्च इन्द्राद्याशा व्यवस्थिताः || तृप्यन्तु प्रीतिमनसो भूता गृह्णन्त्विमंबलिं || नगरेवाथसंग्रामे अटव्यांवैसरित्तटे || वापी कूपेषु वृक्षेषु श्मशाने च चतुष्पथे || नानारूपधरा ये च बहुरूपधराश्च ये || ते सर्वे चैव सन्तुष्टा बलिं गृह्णन्तु मे सदा || इति पुष्पाञ्जलिं दद्यात् || प्रधान बलिः || देवताग्रे मध्ये भूमौ सिन्दूरेण विन्दु-त्रिकोण-वृत्त- annavyañjanayutamādhāraṃ baliṃ ca nidhāya || oṃ mūlaṃ durgābalidravyāya namaḥ iti gandha puṣpābhyāṃ sampūjya || mūlaṃ sāṃgāyai sāyudhāyai savāhanāyai saparivārāyai saśaktikāyai brahmā viṣṇu rudra sahitāyai triguṇātmikācaṇḍikādevyainamaḥ iti saṃpūjya || balimupanīya || mūlam ehyehi jagatāṃ janani ! imamāmiṣānnabaliṃ gṛhṇa 2 siddhiṃ dehi 2 śatrukṣayaṃ kuru 2 hrīṃ hrīṃ huṁ phaṭ svāhā eṣa baliḥ sāṅgāyai sāyudhāyai savāhanāyai saparivārāyai saśaktikāyai brahmā-viṣṇu-rudra sahitāyai triguṇātmikā śrī durgā devyai namaḥ || iti vāmāṅguṣṭhānāmikābhiḥ balimutsṛjet dakṣa hastena jalantyajet || prārthanā || oṃ śaraṇāgatadīnārtaparitrāṇa parāyaṇe ! || sarvasyārti hare devi nārāyaṇi ! namostu te ||
122 SK १. सिंह बलिमंत्रोयम् शारदातंत्रे ॐ वज्रनखदंष्ट्रायुधायसिंहाय हुṁफट् नमः || २. ॐ सौं वनस्प्ति पुत्रायसिंहाय इमं बलिं गृह्ण २ स्वाहा || महिषबलि मंत्रः || ॐ भूं महिषशृंगेभ्यो महिषेभ्यः इमं बलिं गृह्ण २ स्वाहा || महिष बलि मंत्रः || ॐ सर्वेभ्यो बलिदेवताभ्यो नमः || इति सर्वमभ्यर्च्य || (ध्यायेत्कुण्डलिनी शक्तिं विसतन्तु-स्वरूपिणीम् || प्रसुप्तभुजगाकारां सार्द्धत्रिवल्यान्विताम् || मुखेमुखं तु संयोज्य स्वयम्भूलिङ्ग वेष्टिनीम् || वह्निन्द्वर्कतडित्पुञ्जप्रभां चैतन्यरूपिणीम् || इति तन्त्रान्तरे ||) नाराच सुद्रां वद्ध्वा || बलिदानेन संतुष्टाः क्षमध्वं बलिदेवताः || यथासुखंवितरन्तु यथेष्टमुदितावराः || वटुकाद्याः सुराः सर्वे सर्वसिद्धिंविधायिनः || शान्तिं पुष्टिं प्रयच्छन्तु त्वत्प्रसादान्महेश्वरि || स्तुत्वा मुद्रांविसृज्य प्रोक्षणी जलेनात्मानं प्रोक्षणेदिति ||] पंचमहाभू) बलिंदद्यात् || तत्र मन्त्राः || प्. १३०) ये रौद्राःरौद्रकर्माणो रौद्रस्थाननिवासिनः | मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये || १ || भूचराः खेचराश्चैव तथा चैवांतरिक्षगाः | ते सर्वेप्रीतिमनसाः प्रतिगृह्णन्त्विमंबलिम् || २ || इति मन्त्रद्वयेनदशदिक्षुबाह्येमाषभक्तबलिं दद्यात् || ततो वामकरांगुलिभिरर्घ्यजलेनोत्सृज्य पुष्पाञ्जलिं गृहीत्वा || ॐ भूतानि यानीहवसन्तिभूतले बलिं गृहीत्वा विधिवत्प्रयुक्तम् || संतोषमासाद्ये व्रजन्तु सर्वे क्षमन्तुतान्यत्रनमोस्तु तेभ्यः || इति पुष्पाञ्जलिंदत्वा प्रणम्य हस्तौपादौ प्रक्षाल्याचामेत् || इति क्षेत्रकीलनम् || प्. १३१) अथ यन्त्र पूजन प्रकारः || मध्ये (प्रधानयंत्रे) चक्रस्थ प्रेतासनोपरि मूलेन मूर्तिं विचिन्त्य || आत्मानं कामकलारूपं विभाव्य करकच्छपिकया पुष्पादिकं गृहीत्वा || यन्त्र पूजनविधिः || पद्मपत्रे ततश्चक्रे देव्या अग्रदलादितः || वामावर्तेन देवेशि क्रमेण परिपूजयेत् || स्वकल्पोक्त क्रमेणैव पूजयेदङ्गदेवताः || प्. १३२)
123 SK मूलाधारात्कुण्डलिनीं [ध्यायेत्कुण्डलिनी शक्तिं विसतन्तु- saṃyojya svayambhūliṅga veṣṭinīm || vahnindvarkataḍitpuñjaprabhāṃ caitanyarūpiṇīm || iti tantrāntare ||] brahmarandhrapathāśirasthāṃ vibhāvya tatratyāmṛta lolībhūtāṃ hṛdayasthāṣṭadalarakta paṃkajemānīya devīṃ dhyāyet || khaḍgaṃ cakragadeṣu cāpaparighāmiti [khaḍgaṃ cakra gadeṣu cāpa parighāñchūlaṃ bhuśuṇḍīṃ śiraḥ | śaṃkhaṃ saṃdadhatīṃkaraistrinayanāṃsarvāṅgabhūṣāvṛtām || nīlāśmadyutimāsyapāda daśakāṃ sevemahākālikāṃ yāmastautsvapite harau kamalajohantu madhuṃ kaṭabham || 1 ||] || akṣasragiti [akṣasrak paraśuṃ gadeṣu kuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ daṃḍaṃśaktimasiṃ ca carma jalajaṃ ghaṃṭāṃ surābhājanaṃ || śūlaṃ pāśa sudarśane ca dadhatīṃ hastaiḥ prasannānana sivesairrbhamardinīmiha mahālakṣmīṃ sarojasthitām || 2 ||] || ghaṃṭāśūlamityādi 3 krameṇadhyātvā || yamiti (yaṃ) bījena vāmanāsayā kara puṣpe samāropya || mūlaṃ || deveśi ! p. 133) bhaktasulabhe ! parivāra samanvite || yāvatvāṃpūjayiṣyāmi tāvaddevi ! ihāvaha || iti mantraṃ paṭhanpuṣpaṃ klaptamūrtau yantrevā nidhāya || āvāhanam || [nārāca mudrā lakṣaṇam || aṃguṣṭhamagraṃ yadi madhyamāgraṃspṛśetsyuranyāṅgulayastvalagnāḥ | tadābhavedbhūtaniṣūdanasya nārācanāmno'stravarasya mudrā ||] [pratimāyāṃjale vahnaunāvāhanavisarjane ||] mūlaṃ || oṃ ātmasaṃsthāmajāṃśuddhāṃ tvāmahaṃ parameśvari ! || āraṇyāmiva havyāṃśaṃ mūrtāvāvāhayāmyaham || oṃ āvāhaye mahādevi ! śvetaparvatamastakāt || sūrya maṃḍala tovāpi hṛdayāmbujagahvarāt || āvāhana mudrā lakṣaṇam || 1 || samyak saṃpūjitaiḥ puṣpaiḥ karābhyāṃ kalpitāṃjaliḥ || āvāhanī samākhyātā mudrādeśika - sattamaiḥ || anāmāmūla - saṃlagnāṃguṣṭhāgrāñjalirīritā || devyāhvānakarī caiṣā mudrāvāhana - saṃjñakā || rāma pūrva tāpanīye ||
124 SK [नवार्णमंत्रेण ऐं ह्रीं क्लीं चामुण्डायै विच्चे ||] सोभयस्यास्य देवस्य विग्रहो यन्त्र कल्पना | बिना यन्त्रेण चेत्पूजा देवता न प्रसीदति || संहितायां || यन्त्रं मन्त्रमयं प्राहुर्देवता मन्त्ररूपिणी | यन्त्रेणपूजितो देवः सहसा न प्रसीदति || सर्वेषामपि मन्त्राणां यन्त्रे पूजा प्रशस्यते | प्. १३४) स्थापनम् || (मू०) ॐ तवेयं महिमामूर्तिस्तस्यां त्वं सर्वगः शुभे | भक्तिस्नेहं समाकृष्ट दीपवत्स्थापयाम्यहम् || २ || इति संस्थाप्य || स्थापन मुद्रा लक्षणम् || अधोमुखीकृतासव स्थापनाति निगद्यते | अनया स्थापन्या मुद्रया संस्थाप्य || आसनम् || (मू०) ॐ सर्वान्तर्यामिनादेवि ! सवबीजमयं शुभम् | स्वात्मस्थायपरं शुद्धमासनं कल्पयाम्यहम् || ३ || आसनं गृहाण नमः || अस्मिन्वरासने देवि ! सुखासीनाऽक्षरात्मिके ! || प्रतिष्ठिताभवशिवे ! त्वं प्रसीद परमेश्वरि ! || उपविष्टाभव नमः || सन्निधाय || (मू०) ॐ अनन्यातव देवेशि ! मूर्तिशक्तिरियंवरे ! || सान्निध्यं कुरु तस्यां त्वं भक्तानुग्रह - तत्परे ! || ४ || आश्लिष्ठ - मुष्टियुगला प्रोन्नतांगुष्ठयुग्मका | सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः || सन्निरोधनम् || (मू०) ॐ आज्ञया तव देवेशि ! कृपाम्भोधे गुणाम्बुधे | आत्मानन्दैकतृप्तां त्वां निरुणध्मि पितगुरो || ५ || इति | संनिरुध्य || सन्निरोधन मुद्रा लक्षणम् || अंगुष्ठगर्भिणी सैव सन्निरोधे समीरिता || सम्मुखीकरणम् || (मू०) ॐ अज्ञानाद्दुर्मनस्ताद्वा वैकल्पात्साधनस्य च | यदपूर्णं भवेत्कृत्यं तदप्यभिमुखी भव || ६ || प्. १३५) इति सम्मुखी कृत्य || सम्मुखी मुद्रा || हृदि अञ्जली बंधनं प्रार्थनी मुद्रा || सकलीकरणम् || (मू०) दृशापीयुषवर्षिण्या पूरयन् यज्ञविष्टरम् | मूर्तौ वा यज्ञसम्पूर्त्यै स्थिताभव महेश्वरि ! || ७ || सकलीकरण मुद्रा || देवांगेषु षडङ्गानां न्यासः स्यात्सकली कृतिः || अथवान्या सकलीकरण मुद्रा || हृदयादिशरीरान्ते कनिष्ठाद्यङ्गुलीषु च | हृदादि मन्त्रः विन्यासः सकलीकरणं मतम् ||
125 SK अवगुण्ठनम् || (मू०) ॐ अव्यक्त वाङ्मनश्चक्षुःश्रोत्रप्रज्वलितद्युते ! | स्वतेजः पुञ्जकेनाशु वेष्टिताभव सर्वतः || ८ || अवगुण्ठन मुद्रा || सव्यहस्तकृतामुष्टिः दीर्घाधोमुखतर्जनी | अवगुंठनमुद्रेयमभितो भ्रामिता भवेत् || भगवति हुं इत्यवगुण्ठ्य || छोटिकयादिग्बंधनं कुर्यात् | अमृतीकरणम् || अमृतीकरणं कुर्यात्तयादेशिक - सत्तमः || धेनुमुद्रा अमृतीमुद्रा || अन्योन्याभिमुखोश्लिष्टो कनिष्ठानामिका पुनः | तथा तु तर्जनीमध्या धेनुमुद्रा प्रकीर्तिता || ततो धेनुमुद्रया अमृतीकृत्य || परमीकरण - मुद्रया परमीकृत्य || महामुद्रांविरचयन् || प्. १३६) महामुद्रा लक्षणम् || अन्योन्यग्रथिताङ्गुष्ठो प्रसारित कराङ्गुलिः | महामुद्रेयमुदिता परमीकरणां बुधैः || स्वागतमाचरेत् || (मू०) ॐ यस्याः दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये | तस्यै ते परमेशायै स्वागतं स्वागतं च ते || ११ || तयाकुर्यादिति प्रोक्तं मन्त्रशास्त्रविशारदैः || स्वागतं कुशलम् || (मू०) ॐ कृतार्थोनुग्रहीतोस्मि सकलं जीवितं मम | आगता देवि ! देवेशि ! सुस्वागतमिदं पुनः || १२ || सुस्वागतमासनमास्यताम् || पाद्यम् || श्यामाकविष्णुक्रान्ता कमलदूर्वायुतं पाद्यार्थ जलम् || (मू०) ॐ यद्भक्तिलेशसंपर्कात्परमानन्दविग्रहम् | तस्यै ते चरणाब्जायै पाद्यं शुद्धाय कल्पये || १३ || इति पाद्यम् || आचमनम् || लवंगजातिकंकोलं प्रक्षिप्याचमनीय के || (मू०) ॐ वेदानामपि वेद्यायै देवानां देवतात्मने | आचमनं कल्पयामीशि ! शुद्धानां शुद्धिहेतवे || १४ || आचमनं स्वधा अर्घेवस्तूनि | अर्घ्यपात्रे क्षिपेद्दूर्वाः तिलदर्घाग्रसर्षपान् | यवपुष्पाक्षतान् गन्धं तेनार्घ्यंमूर्ध्नि चाचरेत् || अर्घ्यम् || (मू०) ॐ तापत्रयहरं दिव्यं परमानन्दलक्षणम् | तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् स्वाहा || १५ || इत्यर्घम् शिरसि || मधूपर्कम् || पात्रेतु मधुपर्कस्य दध्याज्यं मधु च क्षिपेत् || प्. १३७)
126 SK (मू०) ॐ सर्वकालुष्यहीनायै परिपूर्णसुखदायिनि ! मधुपर्कमिदं देवि ! कल्पयामि प्रसिदीद मे || १६ || इति मुखे दत्वा || इति मधुपर्कम् || आचमनम् || (मू०) ॐ उच्छिष्ठोप्यशुचिर्वापि यस्य स्मरणमात्रतः | शुद्धिमाप्नोति तस्यै ते पुनराचमनीयकम् || १७ || सुगन्धित (इत्र) तैलं (मू०) ॐ स्नेहं गृहाण स्नेहेन लोकेश्वरि ! दयानिधे ! || सर्वलोकेषु शुद्धात्मन् ! ददामि स्नेहमुत्तमम् || १८ || उद्वर्तनम् || (मू०) ॐ हरिद्राद्यैस्तमुद्वर्त्य स्नापयेदुभयं पठन् | नाना सुगन्धि द्रव्यं च चन्दनं रजनीयुतम् || उद्वर्तनं मयादत्तं स्नानार्थं प्रतिगृह्यताम् || १९ || भगवति चंडिके उद्वर्तनं समर्पयामि नमः देवमंगुष्ठघर्षणे दोषः || तन्त्रान्तरे नांगुष्ठैर्मर्दयेद्देवंनाधः पुष्पैस्समर्चयेत् | कुशाग्रैर्न क्षिपेत्तोयं वज्रपातसमं भवेत् || २० || [घृतं क्षीरं तथा नीरं शर्करामधु संयुतम् | पञ्चामृतमिति ख्यातं प्रत्येकन्तु पलम्पलम् ||] पञ्चामृत स्नानम् || पञ्चामृत प्रमाण यामले || दुग्धस्नानम् || (मू०) ॐ कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् | पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् || २१ || पुनः शुद्धोदकेन संस्नाप्य || दधि स्नानम् || (मू०) ॐ पयसस्तु समुत्पन्नं मधुराम्लं शशिप्रभम् | दध्यानीतं मयादेवि ! स्नानार्थं प्रतिगृह्यताम् || २२ || प्. १३८) पुनः शुद्धोदकेन संस्नाप्य || घृत स्नानम् || (मू०) ॐ नवनीत समुत्पन्नं सर्वसंतोषकारम् | घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् || २३ || पुनः शुद्धोदकेन संस्नाप्य || मधु स्नानम् || (मू०) ॐ तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु | तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् || २४ || पुनः शुद्धोदकेन संस्नाप्य || शर्करास्नानम् || (मू०) ॐ इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका | मलापहारिकादिव्या स्नानार्थं प्रतिगृह्यताम् || २५ || पुनः शुद्धोदकेन संस्नाप्य | एकीकृत्य पंचामृतेन स्नानम् ||
127 SK (मू०) ॐ पयोदधिघृतं चैव मधु च शर्करायुतम् | पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् || २६ || पुनः शुद्धोदकेन संस्नाप्य || चन्दन (गन्ध) स्नानम् || (मू०) ॐ मलयाचल् संभूतं चन्दनागरु सम्भवम् | चन्दनं देवि ! देवेशि ! स्नानार्थं प्रतिगृह्यताम् || २७ || पुनः शुद्धोदकेन संस्नाप्य || सांगस्नानम् || (मू०) ॐ परमानन्दबोधाब्धे निमग्ननिजमूर्तये | सांगोपांगमिदं स्नानं कल्पयाम्यहमीशि ! ते || २८ || सर्वाङ्ग स्नानं समर्पयामि नमः || अभिषेकम् || [टि० - शिवसूर्यौविहाय महाभिषेकं सर्वत्र शंखेनैव प्रकल्पयेत् |] (मू०) ॐ ततः सहस्रशंखेन शतेन शक्तितोपिवा | गन्धयुक्तोदकैर्देवीमभिषिंचेन् मनुं स्मरन् || २९ || पुनराचमनीयम् || स्नान वस्त्रोपवीतान्ते नैवेद्यान्तेपि तत्स्मृतम् || प्. १३९) वस्त्रम् || [पीतं विष्णौ सितं शम्भौ रक्तं विघ्नार्क शक्तिषु | सच्छिद्रंमलिनं जीर्णं त्यजेत्तैलादि दूषितम् || तैलादिदूषिताद्रोगः सछिद्राद्वाच्यता भवेत् || जीर्णाद्दरिद्रताकर्तुः मलिनात्कान्तिहीनता ||] (मू०) ॐ माया चित्रपटच्छन्ननिजगुह्योरुतेजसे | निरावरणविज्ञान वासस्ते कल्पयाम्यहम् || ३० || उत्तरीय वस्त्रम् || (मू०) ॐ यमाश्रित्य महामाया जगत्संमोहिनी सदा | तस्यै ते परमेशयै कल्पयाम्युत्तरीयकम् || ३१ || यज्ञोपवीतम् || (मू०) ॐ यस्याः शक्ति त्रयेणेदं संप्रोतमखिलं जगत् | यज्ञसूत्राय तस्यै ते यज्ञसूत्रं प्रकल्पये || ३२ || आचमनम् || आभूषणम् || (मू०) ॐ स्वभाव - सुन्दराङ्गायैनानादेवाश्रयेतव | भूषणानिविचित्राणिकल्पयाम्यमरार्चिते || ३३ || लोकमोहनम् || मूलमंत्रेण पुटितमेकैकं मातृकाक्षरम् | विन्यसेद्देवतांगेषु योगोयं लोकमोहनम् || गन्धम् || (मू०) ॐ परमानन्दसौभाग्यपरिपूर्णदिगन्तरम् | गृहाणपरमंगन्धंकृपयापरमेश्वरि ! || ३४ || गन्ध मुद्रा || कनिष्ठांगुष्ठयोगेनगंधमुद्रांप्रदर्शयेत् || नाना-परिमल-सौभाग्य-द्रव्याणि च समर्पयामि नमः || ३६ || प्. १४०) अक्षतान् ||
128 SK अक्षताश्च सुरश्रेष्ठे ! कुंकुमाक्ताः शुशोभिताः | मया निवेदिता भक्त्या गृहाण परमेश्वरि || ३७ || पुष्पाणि || तुरीय वन संभूतं नानागुणमनोहरम् | अमन्दसौरभंपुष्पं गृह्यतामिदमुत्तमम् || ३८ || तर्जन्यंगुष्ठयोगेन पुष्पमुद्रं प्रदर्शयेत् | ऋतुकालोद्भवानि पुष्पाणि || सेवन्तिका वकुल चम्पक पाटलाब्जैः | पुन्नाग जाति करवीर रसालपुष्पैः || ३९ || बिल्व प्रवाल तुलसीदल मालतीभिः | त्वां पूजयामि जगदीश्वरि ! मे प्रसीद || ४० || अन्येषां कुसुमानांच यावद्गन्ध विपर्यम् | पुष्पञ्च पञ्चगव्यञ्च उपचारांश्तथापरान् || घ्रात्वा निवेद्य देवेशि ! नरो नरकमाप्नुयात् | अङ्गसंस्पृष्टमाघ्रातं त्याज्यं पर्युषितं बुधैः || केशकीटोपविद्धानि शीर्ण पर्युषितानि च | स्वयं पतित पुष्पाणि त्यजेदुपहतानि च || देवी पूजने वर्ज्य पुष्पाणि || शक्तौ दूर्वार्कमन्दारोमालूरंतगरं रवौ | निर्गन्धं केश कीटादि दूषितं चोग्रगंधकम् || ४१ || मलिनंतुच्छ संस्पृष्टमाघ्रातं स्वविकासितम् | अशुद्धभाजनानीतं स्नातानीतं च याचितम् || ४२ || शुष्कं पर्युषितं कृष्णं भूमिगं नार्पयेत्सुमम् | पुष्पं पत्रं फलं देवे न प्रदद्यादधोमुखम् || ४३ || प्. १४१) पुष्पाञ्जलौ न तद्दोषस्तथा पर्युपितस्य च | पुष्प पूजाविधायेत्थं कुर्यादावरणाचनम् || अङ्गादि दिक्प हेत्यन्तं ततो धूपादिकंचरेत् || ४४ ||
129 SK ततः पुष्पाञ्जलिमादाय संविन्मयपरेदेवि ! परामृत रस प्रिये ! अनुज्ञां चंडिके ! देहि परिवारार्चनाय मे || अनेन प्रार्थयित्वा पुष्पाञ्जलिं निवेद्याज्ञां गृहीत्वा देवी मे परिवार रूपेण पुरतां ध्यात्वा परिवार देवताः पूजयेत् | अत्रसर्वत्रपूज्यपूजकयोरंतराले प्राच || तदनुसारेण प्राच्यादिदिशश्च प्रकल्प्य || आदौ वायव्यादीश पर्यन्तं गुरुपंक्तिं प्रपूजयेत् || तत्र || ते रक्त माल्याम्बर गंधभूषिताः सालंकृताः पंकजविष्टरस्थाः || इति ध्यात्वा || ॐ महादेव्यंवा श्री पादुकां पूजयामिनमस्तर्पयामि नमः || ॐ महादेवानन्दनाथ श्री पादुकां पूजयामिनमस्तर्पयामि नमः || ॐ त्रिपुराम्बा श्री पादुकां पूजयामि नमस्तर्पयामि नमः || ॐ भैरवानन्द नाथ श्री पादुकां पूजयामि नमस्तर्पयामि नमः || एतेदिव्यौघाः || ॐ ब्रह्मानन्दनाथ श्री पादुकां पूजयामि नमस्तर्पयामि नमः || ॐ पूर्णदेवानन्दनाथश्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ चलचित्तानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ स्मरदीपानन्द नाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ मायाम्बानन्द श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ मायावत्यम्बानाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || एते सिद्धौघाः || ॐ विमलानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ कुशलानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ भीमसेनानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ सुधाकरानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || प्. १४२)
130 SK ॐ मीनानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ गोरक्षकानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ भोजदेवानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ प्रजापत्यानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ मूलदेवानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ रति देवानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ विघ्नदेवानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ हुताशनानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ समयानन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ संतोषानन्द नाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || एते मानवौघाः || एतान्पुष्पादिभिः संतोष्य गुरुपात्रामृतेन तन्त्रमुद्रयात्रिः सकृद्वा संतर्प्य || मानवौघसमीपे || ॐ ऐं ह्रीं श्रीं हसखफ्रें हसक्षमलवरयूं हसखप्रें श्री अमुकानन्दनाथ श्री अमुकी देव्यंवा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || इति संकेत नाम्ना || स्वगुरुनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ परापर गुरुनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ परमेष्ठिगुरुनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || इति गुरु चतुष्टय पूर्ववत्पूजयेत्तर्पयेच्च || ततः || पुष्पांजलिमादाय गुरुस्तुतिं कुर्यात् || गुरुस्तत्व || शरच्चन्द्र समाभासं शरत्पंकज लोचनम् | ईषद्धास्यं शारदीयं पूर्णेन्द सदृशाननम् || दिव्यस्त्रगम्बरधरं दिव्यं गंधानुलेपनम् || सुरक्तशक्ति संयुक्तं वामभाग मनोहरम् || वराभयकराम्भोजं सर्वलक्षण लक्षितम् || सहस्रारे महापद्मे गुरुं शिरसि चिन्तये || प्. १४३) गुप्तसाधन तन्त्रे १ पटले || ॐ ब्रह्म स्थान सरोज मध्य विल सच्छीतांशु पीठ स्थितम् || स्फूर्यत्सूर्य रुचिं वराभयकरंकर्पूर कुन्दो ज्वलम् || श्वेतः सृग्वसनानुलेपन युतं विद्युद्रुचाकान्तया || संश्लिष्टार्द्ध तनुं प्रसन्नवदनं वन्दे गुरुं सादरं || १ ||
131 SK मोहध्वान्त महावृतां ग्रहवतां चक्षूंषि चोन्मीलयन् || यश्चक्रे रुचिराणि तानिदयया ज्ञानांजनाभ्यंजनैः || व्याप्तं यन्महसा जगत्रयमिदं तत्व प्रबोधोदयं || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम् || २ || मातंगी भुवनेश्वरी च बगला धूमावती भैरवी || तारा छिन्नशिरोधरा भगवती श्यामा रमा सुन्दरी || दातुं नः प्रभवन्ति वांछित फलं यस्य प्रसादं विना || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम् || ३ || काशी द्वारवती प्रयाग मथुरायोध्या गयावंतिका || माया (हरिद्वार) पुष्कर कांचिकोत्कलगिरी श्री शैलविंध्यादयः || नैते तारयितुं भवन्ति कुशलाः यस्य प्रसादं विना || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थसिद्धि प्रदम् || ४ || रेवा सिन्धु सरस्वती त्रिपथगा सूर्यात्मजा कौशिकी || गंगासागर संगमाद्रितनया लोहित्य शोणादयः || नालं प्रोक्तफल प्रदान समये यस्य प्रसादं विना || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम् || ५ || सत्कीर्तिर्विमला यशः सुकविता पाण्डित्यमारोग्यता || वादे वाक् पटुता कुले चतुरता गांभीर्यमक्षोभिता || प्रागल्भ्यं प्रभुता गुणे निपुणता यस्य प्रसादाद्भवेत् || तं वन्देशिव रूपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम् || ६ || लोकेशो हरिरंबिकास्मर हरो माता पिताभ्यागता || आचार्यः कुल पूजितो यतिवरो वृद्धस्तथाभिक्षुकः || नैते यस्यतुलां व्रजन्तिकलया कारुण्य वारां निधेः || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थ सिद्धि प्रदम् || ७ || प्. १४४) ध्यानंदैवत पूजनं गुरु तपोदानाग्निहोत्रादयः || पाठोहोम निषेवनं पितृ मखाह्यभ्यागतार्चा बलिम् || एते व्यर्थफला भवन्ति नियतं यस्य प्रसादं विना || तं वन्दे शिवरूपिणं निज गुरुं सर्वार्थसिद्धि प्रदम् || ८ ||
132 SK पूर्वाशाभि मुखी कृताञ्जलि पुटः श्लोकाष्टकं यः पठेत् || पौरश्चर्यविधिं विनापि लभते मंत्रस्यसिद्धिं पराम् || नो विघ्नैः परिभूयते प्रतिदिनं प्राप्नोति पूजा फलम् || देहान्ते परमंपदं हि विशते यद्योगिनां दुर्लभम् || ९ || वामकेश्वर तन्त्रे पार्वतीश्वर संवादे गुरूस्तवराज सम्पूर्णः || भगवति ! दुर्गे ! देवि ! || मूलं अभीष्ट सिद्धिं मे देहि शरणागत वत्सले ! || भक्त्या समर्पये तुभ्यं गुरु पंक्ति प्रपूजनम् || अनेन पुष्पाञ्जलिं क्षिपेत् || ततो अग्रेपि || प्. १४५) यन्त्र पूजनम् || त्रिकोणाद्वहिः अग्नीशासुर वायव्य मध्यदिक्ष्वंग पूजनम् || ॐ ऐं हृदयाय नमो हृछक्ति श्री पादुकां पूजयामि नमस्तर्पयामि नमः आग्नेये || ॐ ह्रीं शिरसे स्वाहा शिरः शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ईशान्ये || प्. १४६)
133 SK ॐ क्लीं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्-ऋत्याम् || ॐ चामुण्डायै कवचायहुṁ कवचशक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः वायव्याम् || ॐ विच्चे नेत्रत्रयाय वौषट् नेत्रशक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् अस्त्र शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः सर्वदिक्षु || इत्यादि क्रमेण अंगदेवताः पूजयेत्तर्पयेच्च || ततो श्री पात्रामृतेन तत्वमुद्रया त्रिःसकृद्वा तर्पयेत् || ततः पुष्पाञ्जलिमादाय भगवति ! चण्डिके ! देवि ! मू० अभिष्ट सिद्धिं मे देहि शरणागत वत्सले ! | भक्त्या समर्पयेतुभ्यं प्रथमावरणार्चनम् || इति समर्प्य || ततस्त्रिकोणयन्त्रे || ॐ सरस्वती ब्रह्मभ्यां नमः सरस्वती ब्रह्म श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || ॐ लक्ष्मी हृषीकेशाभ्यान्नमो लक्ष्मी हृषीकेश श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्-ऋते || ॐ गौरी रुद्राभ्यान्नमः गौरीरुद्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः वायव्ये || ॐ सिं सिंहाय नमः सिंह श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || देव्याः दक्षिणे || ॐ मं महिषाय नमः महिष श्रीपादुकां पूजयामि नमस्तर्पयामि नमः देव्या उत्तरे || ॐ कां कालायनमः काल श्रीपादुकां पूजयामि नमस्तर्पयामि नमः दक्षिणे || ॐ मृं मृत्यवेनमः मृत्यु श्रीपादुकां पूजयामि नमस्तर्पयामि नमः उत्तरे || ततो श्री पात्रामृतेन तत्वमुद्रया त्रिसकृद्वा तर्पयेत् || पुष्पाञ्जलिमादाय || भगवति ! चण्डिके ! देवि मू० अभीष्ट सिद्धिं मे देहि शरणागतवत्सले ! || भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् || ततः षट्कोणेषु नन्दजादिशक्तीः पूजयेत् || ॐ नं नन्दजायै नमः नन्दजा शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || प्. १४७)
134 SK ॐ रं रक्तदन्तिकायै नमः रक्तदन्तिका शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः आग्नेयाम् || ॐ शां शाकम्भर्यै नमः शाकम्भरी शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्- namastarpayāmi namaḥ paścime || oṃ bhīṃ bhīmāyai namaḥ bhīmā śakti śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ vāyavyām || oṃ bhrāṃ bhrāmaryai namaḥ bhrāmarīśakti śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ īśānye || karayoḥ puṣpāṃjalimādāya || bhagavati ! caṇḍike ! mū0 abhīṣṭa siddhiṃ me dehi śaraṇāgata vatsale ! || bhaktyā samapayetubhyaṃ tṛtīyāvaraṇārcanam || iti yantre kṣipet || tatoṣṭapatreṣu || brāhmyādi śakti dhyānam || oṃ brāhmī haṃsa samārūḍhāṃ svarṇavarṇāṃ caturbhujām || caturvaktrāṃ trinetrāñca brahma kūrcaṃ ca paṅkajam || daṇḍapadmākṣa sūtrañca dadhatīṃ cāruhāsinīm || jaṭājūṭa dharāndevīṃ bhāvayetsādhakottamaḥ || 1 || oṃ āṃ brāhmī śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ pūrve || oṃ nārāyaṇīṃ mahādīptāṃ śyāmāṃ garuḍavāhinīm || nānālaṃkāra saṃyuktāṃ cārukeśīṃ caturbhujām || ghaṇṭāṃ śaṃkhaṃ kapālaṃ ca cakraṃ saṃdadhatīṃparām || madhumattāṃmadollola dṛṣṭi sarvāṅga sundarīm || 2 || oṃ īṃ nārāyaṇī śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ īśānyāṃ || oṃ māheśvarīṃ vṛṣārūḍhāṃ śuklāṃtrinayanānvitām || kapālaṃ ḍamaruṃ caiva varadābhaya śūlakam || ṭaṅkaṃ ca dadhatīṃ devīṃ nānā bharaṇabhūṣitām || 3 || oṃ ūṃ māheśvarī śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ uttare || p. 148) oṃ cāmuṇḍāṃ caṇḍāṭṭahāsāṃ prakaṭita daśanāṃ bhīmavaktrāṃ trinetrām || nīlāmbhoja prabhābhāṃ pramudita vapuṣāṃ nāramuṇḍālimālām || khaḍgaṃ śūlaṃ kapālaṃ naraśira ghaṭitaṃ kheṭakaṃ dhārayantīm || pretārūḍhāṃ pramattāṃmadhumadamuditāṃ bhāvayeccaṇḍa rūpām || 4 || oṃ ṛṃcāmuṇḍā śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ vāyavye ||
135 SK ॐ कौमारीं कुङ्कुमाभां च त्रिनेत्रां शिखिसंस्थिताम् || चतुर्भुजां शक्तिपाशमंकुशाभय धारिणीम् || नानालङ्कारसंयुक्तां प्रमत्तां परिचिन्तये || ५ || ॐ ॡं कौमारी श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पश्चिमे || ॐ अपराजितां च पीताभामक्षसूत्र वरप्रदाम् || कमलंमातुलुङ्गं च दधतीं परिचिन्तये || ६ || ॐ ऐं अपराजिता श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्- oṃ vārāhīṃ dhūmravarṇābhāṃ varāha vadanāṃśubhām || kheṭakaṃ khaḍga musalaṃ halaṃ vedabhujairdhṛtām || 7 || oṃ auṃ vārāhī śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ dakṣiṇe || oṃ nārasiṃhī nṛsiṃhasya vibhratī sadṛśaṃvapuḥ || 8 || oṃ aḥ nārasiṃhī śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ || āgneye || iti saṃpūjya || pūrvavadyoginī pātrāmṛtena (viśeṣārghya jalena) triḥsakṛdvātarpayet || tataḥ puṣpāñjalimādāya bhagavati caṇḍike ! devi ! mū0 abhīṣṭa siddhiṃ me dehi śaraṇāgatavatsale ! || bhaktyā samarpayetubhyaṃ caturthāvaraṇārcanam || iti samarpya || tato'ṣṭa bhairavān dhyāyet || dadhatāñjana puñja nīlavarṇān ruruvetāla śūla daṇḍān || p. 149) laghu dundubhiḥ saṃyuktāṃ trinetrāṃ kari hasto pari hasta daṇḍa khaṃḍairgajākṛti nivartito garīyān || bhṛkuṭī saṃghaṭṭitairlalāṭa paṭṭaiḥ lalitāli kulābha kuṇḍalagnānmuditāntaḥ karaṇānsuyauvanāḍhyān || iti dhyātvā ||
136 SK ॐ ह्रीं असितांग भैरवाय नम असिताङ्ग भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || ॐ ह्रीं रुरु भैरवाय नमः रुरु भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ईशान्ये || ॐ ह्रीं चण्ड भैरवाय नमः चण्ड भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः उत्तरे || ॐ ह्रीं क्रोध भैरवाय नमः क्रोध भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः वायव्ये || ॐ ह्रीं उन्मत्त भैरवाय नम उन्मत्त भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पश्चिमे || ॐ ह्रीं कपाल भैरवाय नमः कपाल भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्-ऋत्ये || ॐ ह्रीं भीषण भैरवाय नमः भीषण भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः दक्षिणे || ॐ ह्रीं संहार भैरवाय नमः संहार भैरव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः आग्नेये || इति संपूज्य || पूर्ववद्योगिनी पात्रामृतेन त्रिःसकृद्वातर्पयेत् || ततः पुष्पाञ्जलिमादाय || भगवति चण्डिके ! देवि ! मू० अभीष्ट सिद्धिं मे देहि शरणागतवत्सले ! || भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् || इति समर्प्य || ततो चतुर्विंशति दले पूर्वादि आग्नेयान्त दलेषु || ॐ विं विष्णुमायायै नमः विष्णु माया श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ चें चेतनायै नमः चेतना श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ चें चेतनायै नमः चेतना श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ बुं बुद्ध्यै नमः बुद्धि श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ निं निद्रायै नमः निद्रा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ क्षुं क्षुधायै नमः क्षुधा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || प्. १५०)
137 SK ॐ छां छायायै नमः छाया श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ शं शक्त्यै नमः शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ तृं तृष्णायै नमः तृष्णा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ क्षां क्षान्त्यै नमः क्षान्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ जां जात्यै नमः जाति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ लं लज्जायै नमः लज्जा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ शां शन्त्यै नमः शान्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ श्रं श्रद्धायै नमः श्रद्धा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ कां कान्त्यै नमः कान्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ लं लक्ष्म्यै नमः लक्ष्मी श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ धृं धृत्यै नमः धृति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ वृं वृत्त्यै नमः वृत्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ श्रुं श्रुत्यै नमः श्रुति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ स्मृं स्मृत्यै नमः स्मृति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ तुं तुष्टय नमः तुष्टि श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ पुं पुष्ट्यै नमः पुष्टि श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ दं दयायै नमः दया श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ मां मात्रेनमः || मातृ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ||ॐ भ्रांभ्रान्त्यै नमः भ्रान्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || इति सम्पूज्य || पूर्ववद्योगिनी पात्रामृतेन त्रिः सकृद्वा तर्पयेत् || ततः पुष्पांजलि मादाय || भगवति चण्डिके ! देवि ! मू० अभीष्ट सिद्धिं मे देहि शरणागतवत्सले ! || भक्त्या समर्पयेतुभ्यं षष्ठ आवरणार्चनम् || प्. १५१)
138 SK इति समर्प्य || ततः भूपुरमध्ये प्रसिद्ध पूर्वादिदिक्षुत आरभ्य ॐ [ॐ लं इन्द्राय सुराधिपतये सांगाय सायुधाय सवाहनाय सपरिवाराय सशक्तिकाय देवीपार्षदाय अमः || १ || ॐ रं अग्नयेतेजोधिपतये० || २ || ॐ मं यमाय प्रेताधिपतये० || ३ || ॐ क्षं निर्-ऋतये रक्षोधिपतये० || ४ || ॐ वं वरुणाय जलाधिपतये० || ५ || ॐ सं सोमाय नक्षत्राधिपतये० || ६ || ॐ यं वायवे प्राणाधिपतये० || ७ || ॐ हं ईशानाय भूताधिपतये० || ८ || ॐ ह्रीं अनन्ताय नागाधिपतये० || ९ || ॐ अं ब्रह्मणेलोकाधिपतये० || १० || लोकपाल मुद्रा लोकपालऊजयामि || पाणि मूले सुलग्नंलग्ने शाखाः सर्वाः प्रसारिताः || लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् ||] लं इन्द्राय नमः इन्द्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || ॐ रं अग्नये नमः अग्नि श्रीपादुकां पूजयामि नमस्तर्पयामि नमः आग्नेये || ॐ मं यमाय नमः यम श्रीपादुकां पूजयामि नमस्तर्पयामि नमः दक्षिणे || ॐ क्षं निर्-ऋतये नमः निर्-ऋति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः निर्-ऋतौ || ॐ वं वरुणाय नमः वरुण श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पश्चिमे || ॐ यं वायवे नमः वायु श्रीपादुकां पूजयामि नमस्तर्पयामि नमः वायव्ये || ॐ सं सोमाय नमः सोम श्रीपादुकां पूजयामि नमस्तर्पयामि नमः उत्तरे || ॐ हं ईशानाय नमः ईशान श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ईशान्ये || ॐ ह्रीं अनन्ताय नमः अनन्त श्रीपादुकां पूजयामि नमस्तर्पयामि नमः निर्-ऋति वरूणयोर्मध्ये || ॐ अं ब्रह्मणे नमः ब्रह्म श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्व ईशानयोर्मध्ये || इति सम्पूज्य || पूर्ववद्योगिनी पात्रामृतेन तर्पयेत् || ततः पुष्पांजलिमादाय || भगवति चण्डिके ! देवि ! मू० अभीष्ट सिद्धिं मे देहि शरणागत वत्सले ! || भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् || इति समर्प्य || प्. १५२)
139 SK पीत शुक्ल सिताकाशविद्युद्रक्त सितासिताः || कोकनद पाटलाभावज्राद्याः परिकीर्तिताः || इति ध्यात्वा भूपुर बाह्ये || [ॐ वं वज्राय वज्रलाञ्छित मौलये सांगाय सायुधाय सवाहनाय सपरिवाराय शशक्तिकाय देवीपार्षदायनमः || ॐ शं शक्तये शक्तिलाञ्छित मौ० || ॐ दं दण्डाय दण्डलाञ्छित० || ॐ खड्गाय खड्गलाञ्छित मौ० || पां पाशाय पाशलाञ्छित० || ॐ अं अङ्कुशाय अंकुश लां० || ॐ गं गदायै गदालां० || ॐ शूं शूलाय शूललां० || ॐ चं चक्राय चक्रलां || ॐ पं० पदमाय पदमलां० ||] ॐ वं वज्राय नमः वज्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पूर्वे || ॐ शं शक्तये नमः शक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः आग्नेये || ॐ दं दण्डाय नमः दण्ड श्रीपादुकां पूजयामि नमस्तर्पयामि नमः दक्षिणे || ॐ खं खड्गाय नमः खड्ग श्रीपादुकां पूजयामि नमस्तर्पयामि नमः नैर्-ऋत्यां || ॐ पां पाशाय नमः पाश श्रीपादुकां पूजयामि नमस्तर्पयामि नमः पश्चिमे || ॐ अं अंकुशाय नमः अंकुश (ध्वजा) श्रीपादुकां पूजयामि नमस्तर्पयामि नमः वायवे || ॐ गं गदायै नमः गदा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ईशान्ये || ॐ चं चक्राय नमः चक्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः अधः (निर्-ऋति वरुणयोर्मध्ये) || ॐ पं पद्मायनमः पद्म श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ऊर्ध्वे (पूर्व ईशानयोर्मध्ये) || इति सम्पूज्य || पूर्ववद्योगिनी पात्रामृतेनतर्पयेत् || ततः पुष्पाञ्जलिमादाय भगवति चण्डिके ! देवि ! मू० अभीष्ट सिद्धिं मे देहि शरणागतवत्सले ! || भक्त्यासमर्पयेतुभ्यं अष्टमावरणार्चनम् || इति समर्प्य || ततो देव्याः दक्षिण भागे || ॐ ब्रं ब्रह्मणेनमः ब्रह्मा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ॐ विं विष्णवेनमः विष्णु श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || प्. १५३)
140 SK ॐ रुं रुद्राय नमः रुद्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ततो महालक्ष्मी देव्यस्त्राणि पूजयेत् || तद्यथा || ॐ अं अक्षमालायै नम अक्षामाला श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १ || ॐ पं पद्माय नमः पद्म श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || २ || ॐ सां सायका नमः सायक श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ३ || ॐ खं खड्गाय नमः खड्ग श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ४ || ॐ वं वज्राय नमः वज्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ५ || ॐ गं गदायै नमः गदा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ६ || ॐ चं चक्राय नमः चक्र श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ७ || ॐ सुं सुराभाजनाय नमः सुरा भाजन श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ८ || ॐ शं शंखाय नमः शंख श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ९ || ॐ शं शक्तये नमःशक्ति श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १० || ॐ पं परशवे नमः परशु श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ११ || ॐ धं धनुषे नमः धनुः श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १२ || ॐ चं चर्माय नमः चर्म श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १३ || ॐ दं दण्डाय दण्ड श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १४ || ॐ कुं कुण्डिकायै नमः कुण्डिका श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १५ || ॐ घं घण्टाय नमः घण्टा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १६ || ॐ पां पाशाय नमः पाश श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १७ || ॐ शूं शूलाय नमः शूल श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || १८ || चक्रस्य वहिः कोणेषु वायव्यां ॐ वं वटुकाय नमः वटुक श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || प्. १५४)
141 SK ईशान्ये ॐ यां योगिनीभ्यो नमः योगिनी श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || निर्-ऋतौ ॐ क्षं क्षेत्रपालाय नमः क्षेत्रपाल श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || आग्नेये ॐ गं गणेशाय नमः गणेश श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || मध्ये ॐ दुं दुर्गायै नम दुर्गा श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || ईशान्यां विं विष्णवे विष्णु श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || आग्नेयां ॐ शिं शिवाय नमः शिव श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || वायव्यां ॐ सूं सूर्याय नमः सूर्य श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || नैर्-ऋत्यां ॐ गं गणेशाय नमः गणेश श्रीपादुकां पूजयामि नमस्तर्पयामि नमः || इति सम्पूज्य पूर्ववद्योगिनी पात्रामृतेन तर्पयेत् || ततः पुष्पाञ्जलिमादाय भगवति चण्डिके ! देवि ! मू० अभीष्ट सिद्धिं मे देहि शरणागतवत्सले ! || भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् || इति समर्प्य || अनन्तर अक्षमाला परशु गदा इषु (वाण) कुलिश (वज्र) पद्म धनुष कुण्डिका दंड शक्ति असि चर्म घंता सुराभाजन त्रिशूल पाश सुदर्शन हल शंख मुसल चक्र परिघ भुशुण्डी शिरः || मुद्रापद व्युत्पत्तिमाह तन्त्रे || मोदनात्सर्व देवानां द्रावणात्पाप सन्तते || तस्मान्मुद्रेति विख्याता मुनिभिस्तन्त्रवेदिभिः || अथ मुद्राः प्रवक्ष्यामि सर्व तन्त्रेषु कल्पिताः || याभिर्विरचिताभिश्च मोदन्ते मन्त्र देवताः || प्. १५५) अक्षमाला मुद्रा || १ || अंगुष्ठ तर्जन्यग्रेषु ग्रथयित्वांगुलित्रयम् | प्रसारयेदक्षमाला मुद्रेयं परिकीर्तिता || १ || परशु मुद्रा || २ || करे करं तु करयोस्तिर्यक्संयोज्य चांगुलीः | संहताः प्रसृताः कुर्यान्मुद्रेयं परशोर्मता || २ || गदा मुद्रा || ३ ||
142 SK वाममुष्ठ्यन्तरेंऽगुष्ठे दक्षिणे सरलांगुलीः | वामांगुष्ठः स्पृशेदग्रे योजितः सरलोदरः || अन्योन्याभिमुखौ हस्तौ कृत्वातु ग्रथिताङ्गुलीः || अङ्गुल्यौ मध्यमे भूयः सुलग्ने सुप्रसारिते || गदामुद्रेय मुदिता देव्याः सन्तोष वर्द्धिनी || ३ || (भुक्ति मुक्ति प्रदायिनी) इषु (वाण) मुद्रा || ४ || ज्ञानार्णवे यथाहस्तगता वाणास्तथा हस्तंकुरुप्रिये ! || वाणमुद्रेयमाख्यातारिपुवर्गनिकृन्तनी || ४ || वामकेश्वरे || दक्षमुष्टिस्तु तर्जन्या दीर्घया वाणमुद्रिका || ४ || कुलिश (वज्र) मुद्रा || ५ || दक्षिण हस्तं मुष्टं बध्वा क्षेपणाकारं कुर्यात् || (प्रक्षिपेत्) || पद्म मुद्रा || ६ || करौ तु संमुखीकृत्य संहतावुन्नताङ्गुलीः | तलान्तमिलितांगुष्ठौ कुर्यादेषाब्ज मुद्रिका || ६ || धनुर्मुद्रा || ७ || वामस्यमध्यमाग्रन्तु तर्जन्यग्रेणयोजयेत् | अनामिकां कनिष्ठाञ्च तस्यांगुष्ठेन पीडयेत् || दर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता || ७ || प्. १५६) अथवा बाहुमूलंस्पृशेत्तेन वाह्वग्रेणैव साधकः | धनुर्मुद्रा यशः कीर्तिं बल वीर्य विवर्द्धिनी || ७ || कुण्डिका मुद्रा || ८ || करद्वयं यदा शुभ्रु कुण्डाकारंभवेत्तदा | कुण्डिकेति महामुद्रा कथिता पूर्वसूरिभिः || ८ || दण्ड मुद्रा || ९ || मुष्टिं कुर्याद्दक्ष हस्तस्य दर्शयेद्दंड मुद्रिका || ९ || शक्त् मुद्रा || १० || मुष्टिंकृत्वा कराभ्यां च वामस्योपरिदक्षिणम् | कृत्वा शिरसिसंयोज्या शक्ति (दुर्गा) मुद्रेयमीरिता || १० || मुद्रा विधान वामकेश्वर तन्त्रतः || असि खड्ग मुद्रा || ११ || कनिष्ठा नामिके बद्ध्वा स्वांगुष्ठे नैव दक्षतः | श्लिष्ठांगुली तु प्रसृत्ये संदृष्टे खड्गमुद्रिका || ११ || चर्म (ढाल) मुद्रा || १२ || वामहस्तं यथा तिर्यक् कृत्वा चैव प्रसार्य च | आकुंचितांगुलीः कुर्याच्चर्म मुद्रेयमीरिता || १२ || जलज शंख मुद्रा || १३ || वामांगुल्यस्तथा श्लिष्टा संयुक्तास्युः प्रसारिताः | दक्षिणांगुष्ठ संस्पृष्टाज्ञेयैषा शंख मुद्रिका || १३ || हल मुद्रा || १४ ||
143 SK अधोमुखा वाम मुष्ठि कशा वै दक्षिणे करे | हलमुद्रेति विख्याता कामदा सर्व कर्मसु || १४ || घंटा मुद्रा || ५ || वाममुष्टिं भ्रामयेदिति घंटा मुद्रा || १५ || प्. १५७) सुराभाजन (कुम्भ मुद्रा) || १६ || मुष्ठ्यो रूर्ध्वी कृताङ्गुष्ठे तर्जन्यग्रेषु विन्यसेत् | सर्वरक्षाकरीह्येषा कुम्भमुद्राप्रकीर्तिता || १६ || शूल मुद्रा || १७ || अंगुष्ठेन कनिष्ठान्तु बद्ध्वा श्लिष्ठांगुलित्रयम् | प्रसारयेत्त्रिशूलाख्या मुद्रैषा परिकीर्तिता || १७ || पाश मुद्रा || १८ || वाम मुष्टिस्थ तर्जन्यादक्षमुष्टिस्थतर्जनीम् || संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रेस्वकेक्षिपेत् || एषा वा पाशमुद्रेतिविद्विद्भिः परिकीर्तिता || १८ || चक्र मुद्रा || १८ || हस्तौतु संमुखौ कृत्वा सुलग्नौ सुप्रसारितौ | कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रषा चक्र संज्ञिता || १८ || मुसल मुद्रा || १९ || मुष्टिअंकृत्वातुहस्ताभ्यां वामस्योपरिदक्षिणम् | कुर्यान्मुसलमुद्रेयं सर्व विघ्न विनाशिनी || १९ || शिरः मुद्रा || २० || अन्तराङ्गुष्ठ मुष्टिन्तु कृत्वा वाम करस्य च || मध्यमाग्रे दक्षिणस्य तथा लम्ब्य प्रयत्नतः || मध्यमेनाथ तर्जन्यामङ्गुष्ठाग्रेण योजयेत् || दक्षिणं योजयेत्पाणिं वाममुष्टौ तु साधकः || दर्शयेद्दक्षिणे भागे मुण्ड मुद्रेयमुच्यते || २० || भुशुण्डी मुद्रा (गोफन गिलोल इति लोके) भुशुण्डी अस्त्र विशेषः महाभारते अस्य प्रयोगो बभूव इदंहि चर्म निर्मित भवति मध्ये गोलाकारी भवति उभयतः चर्म निर्मित रज्जुर्भवति मध्ये प्रस्तरादिकं निधाय हस्तेन भ्रामयित्वा शत्रूपरि निक्षिप्यते || प्. १५८) परिघा = सं० पु० परिहन्यतेऽनेति परिहन् अप् ततोद्यादेशश्च परौघ || ३ || ३ || ३ ४ || गन्धम् ||
144 SK पुनःकलशस्थ जलं नैवेद्यादि देव्यै निवेद्य पुनः संपूज्य || ऐं ह्रीं क्लीं चामुण्डायै विच्चे ब्रह्मा विष्णु रुद्रान्त्रिः संपूज्य || मूलं परमानन्द सौरभ्य परिपूर्ण दिगन्तर || गृहाण परमंगंधं कृपया परमेश्वरि ! साङ्गायै सायुधायै सवाहनायै सपरिवारायै सशक्तिकायै ब्रह्म विष्णु रुद्रसहितायै चण्डिकायै गन्धं विलेपयामि नमः || कनिष्ठिकया गंधं दत्वा || कनिष्ठांगुष्ठयोगेन गन्धमुद्रां प्रदर्शयेत् || ततः पुष्पाण्यादाय || मू० ॐ तुरीय वन संभूतं नाना गुण मनोहरम् || अमन्द सौरभं पुष्पं गृहाण इदमुत्तमम् || ॐ सांगायै० ब्रह्मा विष्णु रुद्र सहितायै चण्डिकायै पुष्पाणि वौषट् || इति तर्जन्यंगुष्ठाभ्यां वारत्रयं पुष्पादि दत्वा || अधोमुख तर्जन्यंगुष्ठ योगेन पुष्पमुद्रां प्रदर्शयेत् || धूमप् || धूपपात्रं फडिति प्रोक्ष्य नमः इति पुष्पं दत्वा वाम तर्जन्यास्पृशन् मूल मुच्चार्य अभिमन्त्र्य || ॐ जयध्वनि मंत्र मातः स्वाहा इति मन्त्रेण घण्टां संपूज्य वामतर्जन्या संस्पृश्य || मू० ॐ वनस्पति रसोपेतो गन्धाढ्यः सुमनोहरः || आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् || मूलं सांगायै सायुधायै सवाहनायै सपरिवारायै सशक्तिकायै ब्रह्मा विष्णु रुद्र सहितायै भगवति चण्डिके ! [देव्याः प्रीतिकरी धूपम् || चन्दना गुरु कस्तूरी श्वेत सर्षप चन्द्रकैः || मध्वाज्य गुग्गुलाग्न्यग्र यष्टी मधुसितायुतैः || सदेवदारु निर्यासैः धूपो देव्या सुतोषदम् || चन्द्रकम् - कर्पूरम् || मधु - क्षौद्रम् (शहत) आज्यं - गव्यं अग्न्यग्रं - काश्मीरजं केशरम् || यष्टी - मधु सितामिश्री || देवदारु निर्यासः - लोहवान || वा यथा रुचि न्यूनाधिक ||] धूपमाघ्रापयामि नमः || वाम हस्तेन घंटांवादयन् प्. १५९) दक्षतर्जन्यंगुष्ठ योगेन धूप मुद्रां प्रदर्शयन् देवतागुणान्कीर्तयन् नाभि देशतो धूपयेत् || शंखोदकं त्यजेत् || दीपम् ||
145 SK पुष्पांजलिं दद्यात् || एवं दीपदानम् || वाम मध्यमयास्पर्शो मूलश्लोकस्य कीर्तनम् || मू० ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः || सवाह्याभ्यन्तरं ज्योतिर्दीपोयं प्रति गृह्यताम् || ॐ सांगायै० सायुधायै सवा० सश० सपरि० ब्र० वि० रु० सं० दुर्गायै दीपं दर्शयामि नमः || मध्यमांगुष्ठयोगेन दीपमुद्रां प्रदर्श्यदीपं नेत्र देशतः दर्शयेत् || भूयः पक्षेत् वर्तीनां विषमा वर्तिका मताः || सितवर्ति युतो दक्षे वामांग रक्त वर्तिका || सितवर्ति युतो तैल दीपोऽपिदक्षे रक्तवर्ति योतो घृत दीपोपिवामे अन्यत्सर्वं धूपवत् नैवेद्यं समर्पयेत् || नैवेद्यम् || [आह्वानाद्युपचारेषु प्रत्येकं पुष्पपाथसी || दत्वा प्रक्षाल्य च करमुपचारान्तररञ्चयेत् || स्नाने धूपे च नैवेद्ये दीपे वस्त्रे च भूषणे || घण्टानादं प्रकुर्वीत तथा नीराजनेपि च || १ || विधानपारिजात धृतवाक्यम् ||] स्वर्णादि पात्रे नैवेद्यं धृत्वार्पणं कुर्यात् | नैवेद्यं फट् मन्त्र जलेन संप्रोक्षयेत् || ऐं ह्रीं क्लीं चामुण्डायै विच्चे इति मंत्र जलेन सदर्भ शंख प्. १६०)
146 SK (विशेषार्घ) स्थ जलेन सप्तधा प्रोक्ष्य ततश्चक्र [चक्र मुद्रा - हस्तौ तु सम्मुखौ कृत्वा संलगनु सुप्रसारितौ || कनिष्ठांगुष्ठकौ लग्नौ मुद्रैषा चक्र संज्ञिता ||] मुद्रयाभिरक्ष्य वायु (यं) बीजेन द्वादश वाराभि मंत्रित जलेन हविः प्रोक्ष्य || तदुत्थ वायुना तद्दोषं संशोष्य || दक्षिण करतलेऽग्नि (रं) बीजं विचिन्त्य तत्पृष्ठे वाम करतलं कृत्वा नैवेद्यं प्रदर्श्य तदुत्थाग्निना तद्दोषं दग्ध्वा वाम करतलेऽमृत (वं) बीजं विचिन्त्य तत्पृष्ट लग्नं दक्षिण करतलं कृत्वा नैवेद्यं प्रदर्श्य तदुत्थामृत धारया प्लावितं विभाव्य मूल मन्त्रित जलेन संप्रोक्ष्य तदखिलममृतात्मकंध्यात्वा तत्स्पृष्ट्वा मूल मन्त्रमष्टधा जप्त्वा धेनु मुद्रांप्रदर्श्य जल गन्ध [सत्यन्त्वर्तेन परिषिञ्चमीति प्रातः ऋतंत्त्वा सत्येन परिषिञ्चामीति सायम् ||] पुष्पैरभ्यर्च्य देवतायै पुष्पांजलि समर्प्य तन्मुखात्तेजो गतमिति ध्यात्वा वामांगुष्ठेन मुख्य नैवेद्य पात्रं स्पृष्ट्वा दक्षिण करेण जलं गृहीत्वा || मूल मन्त्र स्वाहान्तम् द्वादशधा पठित्वा ॐ सत्पात्र सिद्धं सुहविर्विविधानेकभक्षणम् निवेदयाइमि देवेशि ! सानुगायै गृहाणतत् || जवनि कां कृत्वा पद्यद्वयं पठेतु || ॐ ब्रह्मेशाद्यैः परित उरुभिः सूपविष्टैः समेतैर्लक्ष्यासिंजद्वलय करया सादरं वीज्यमानः || नर्मक्षेली प्रहसन् मुखैर्व्याप्नु वन्पंक्ति मध्यम् मुक्ता पात्रे कनक घटिते षड्गसं चण्डिके च || १ || शाली भक्तं सुभक्तं शिशिर करशितं पायसापूप सूपं लेहंपेयं च चोष्यंसितममृतफलंद्वारिकाद्यं सुखाद्यम् || आज्यं प्राज्यं सभोज्यं नयनरुचिकरंराजिकैला मरीच स्वादी यः शाकराजी परिकरममृताहार जोपं जुषस्व || २ || मू० सां० सा० सवा० सष० सश० ब्र० वि० रु० सहितायै दुर्गायै नैवेद्यं प्. १६१)
147 SK समर्पयामि नमः इति सपुष्पाभ्यां || हस्ताभ्यामंगुष्ठानामिकाभ्यां नैवेद्यं पात्रं त्रिःप्रोद्धरन् || निवेदयामि भवतीदं जुषाणेदं हविः शिवे || ॐ अमृतोपस्तरण मसि स्वाहेति देविकरे जलं समर्पयेत् || वामकरेण विकचोत्पल सदृशीं ग्रासमुद्रां प्रदर्श्य दक्षिणकरेणसमन्त्राः ॐ प्राणायस्वाहा अङ्गुष्ठानामिका कनिष्ठाभिः || ॐ अपानायस्वाहा अङ्गुष्ठ तर्जनी मध्यमाभिः || ॐ उदानायस्वाहा अंगुष्ठ मध्यमानामिकाभिः || ॐ व्यानायस्वाहा अंगुष्ठतर्जनी मध्यमानामिकाभिः || ॐ समानायस्वाहा अङ्गुष्ठादिसर्वांगुलिभिः || ततो आपोशानं दद्यात् || अमृतोपिधानमसिस्वाहा || मूलं - ॐ समस्त देव देवेशि ! सर्व तृप्तिकरं परम् | अखण्डानन्द सम्पूर्ण गृहाणजल मुत्तमम् || इत्यापोशानं (आचमनम्) दत्वा गतसारं नैवेद्यं नैर्- samarpya || karpūrādi nānā sugaṃdhamiśrita tāmbūlamānīya || phaṭ mantreṇa saṃprokṣya || oṃ vanaspati devatāya tāmbūlāya nama iti saṃpūjya || mūlaṃ - oṃ nārikeraṃsakarpūraṃ pūgabhāgairalaṃ kṛtam | nāgavallī dalopetaṃ tāmbūlaṃ pratigṛhyatām || sāṃgāyai sāyudhāyai savāhanāyai saparivārāyai saśaktikāyai brahmā vi0 ru0 sahitāyai durgāyai etattetāmbūlaṃ samarpayāmi namaḥ || mūlena darpaṇaṃ chatraṃ cāmaraṃ nṛtyaṃ gītādikaṃ samarpya suprasannāṃ caṇḍikādevīṃ vibhāvya || yathā || buddhiḥ savāsanākḷptadarpaṇaṃmaṃgalānica || manovṛttirvicitrātre nṛtya rūpeṇa kalpitā || 1 || dhvanayogītarūpeṇaśabdavādyaprabhedataḥ || chatrāṇi navapadmāni kalpitāni mayā śive ! || 2 || p. 162) suṣumṇā dhvajarūpeṇa prāṇādyācāmarā matā | ahaṅkārī gajatvena vegaḥ kḷptorathātmanā || 3 || indriyāṇyaśarūpāṇi śabdādī rathavartmanā || manaḥ pragraharūpeṇa buddhiḥ sārathi rūpataḥ || 4 || sarvamanyattathā kḷptaṃ tavopakaraṇātmanā || mūlena puṣpāñjaliṃdatvā triḥsantarpya saṃpūjya nīrājanam kuryāt || nīrājanam ||
148 SK रं इति प्रज्वाल्य श्रीं ह्रीं ग्लूं स्लूं म्लूं प्लूं न्लूं ह्रीं श्रीं इति गंध पुष्पाभ्यामारार्त्रिकं सम्पूज्य चक्रमुद्रां प्रदर्श्यास्त्रेण प्रोक्ष्य घटा वादन पूर्वकं मूलेन आरार्त्रिक मंत्रेण वा नीराजयेत् || नीराजन स्तोत्रं ६३ ६४ ६५ पृष्ठे लिखितम् || प्रदक्षिणा संख्या ६७ पृष्ठे उक्तम् || नीराजन विधिः || देवी पुराण उक्तो यथा || तिथितत्वेपि यवपिष्ट प्रदीपाद्यश्चूताश्वत्थादि पल्लवैः || औषधीभिश्च मेध्याभिः सर्व वीजैर्यवादिभिः || १ || नवम्यां पर्व कालेतु यात्रा कालेविशेषतः || यः कुर्याच्छ्रद्धया वीर ! देव्या नीराजनं नरः || २ || शंखभेर्यादि निनदैर्जयशब्दश्चपुष्कलैः || यावतोदिवसान्वीर देव्या नीराजनंकृतम् || ३ || तावत्कल्पसहस्राणि दुर्गालोके महीयते || यस्तु कुर्यात्प्रदीपेन सूर्यलोक महीयते || ४ || कालोत्तर तन्त्रे पञ्चनीराजनानि यथा || यश्च नीराजनंकुर्यात्प्रथमंदीपमालया | द्वितीयं सोदकाब्जेन तृतीयं धौतवाससा || ५ || चूताश्वत्थादि पत्रैश्च चतुर्थं परिकीर्तितम् || पञ्चमं प्रणिपातेन साष्टाङ्गेन यथा विधिः || ६ || पद्मोत्तर खंडे || तस्य वर्तिअकदि प्रमाणं यथा || कुंकुमागुरु कर्पूर घृत चन्दन निर्मिताः || प्. १६३) वर्तिकाः सप्त वा पञ्च कृत्वावन्दापनीयकम् || यः कुर्यात्सप्तदीपेन शङ्ख घण्टादिवाद्यकैः || २ || देव्याः पञ्चप्रदीपेन बहुशोभक्ति तत्परः || हरिभक्ति विलासे || ततश्च मूलमन्त्रेण दत्वा पुष्पाञ्जलित्रयम् || महानीराजनं कुर्यान्महावाद्य जयस्वनैः || १ || प्रज्वालयेत्तदर्थं च कर्पूरेण घृतेन वा || आरार्त्रिकं शुभे पात्रे विषमानेक वर्तिकाम् || २ || नीराजने नियमाः || आदौ चतुष्पादतले च देव्याः || द्वौ नाभिदेशेमुखमंडलैकम् || सर्वेषु चांगेषु च सप्तवारारारार्त्रिकं भक्त जनस्तु कुर्यात् || १ || बहुवर्ति समायुक्तं ज्वलन्तं चण्डिकोपरि || कुर्यादारार्त्रिकं यस्तु कल्पकोटि वसेद्दिवि || १ ||
149 SK मन्त्रहीनं क्रियाहीनं यत्कृतं चण्डिकास्तवम् || सर्वे सम्पूर्णतामेति कृते नीराजने शिवे ! || २ || विष्णु धर्मोत्तरे || धूपं चारार्त्रिकं पश्येत्कराभ्यां च प्रवन्दते || कुलकोटि समुद्धृत्य यातिदेव्याः परस्पदम् || ३ || अथ काम्यप्रयोगेषु शुभाशुभ ज्ञानार्थ शिवाबलि विधानमाह || ततः सायंसमये देवतां संपूय आमिषान्न यथोपपन्न द्रव्य जल सहित पक्वान्नं पूजा सामग्रीञ्च श्मशानादि निर्जने नीत्वा उदङ्मुखोभूत्वा प्राणानायम्य षडङ्ग न्यासं कृत्वार्घं संस्थाप्य अर्घोदकं गृहीत्वा || अद्येहेत्यादि अमुक गोत्रोमुकराशि अमुक प्. १६४) शर्माहं श्रीमच्चण्डिकाप्रीतये शिवायाः पूजनं बलिदानं च करिष्ये || इति संकल्पः || मुक्त चिकुर उत्थाय कालि कालि शिवा आहूय इष्ट देवतात्वेन भावयेत् || ॐ शिवायै नम इति गंधाक्षतैः सम्पूज्य || विन्दु त्रिकोण वृत्त चतुरस्र मण्डले बलि पात्रं निधाय अंगुष्ठानामिकाभ्यां धृत्वा || ॐ गृह्ण देवि ! महाभागे शिवे ! कालाग्निरूपिणि ! || शुभाशुभ फलं व्यक्तंब्रूहि गृह्ण बलिं त्विदम् || इत्युत्सृजेत् || तद्देशात्किंचिदुपसृत्य तासु भोक्त्रीषु तिष्ठन्तीषु पुष्प चन्दनसहित पुष्पाञ्जलिमादायोत्थाय स्वेष्टदेवताधिया प्रणम्य स्तोत्रं पठेत् || ॐ शिवारूप धरे देवि ! कालि ! कालि ! नमोऽस्तुते || उल्कामुखि ! ज्वलज्जिह्वे घोर दंष्ट्रे करालिनि ! श्मशानवासिनि प्रेतेशवमांसप्रियेऽनघे ! || श्मशान चारिणि शिवे फेरोजंबुक रूपिणि || २ || नमोस्तुते महामाये ! जगत्तारिणि ! कालिके ! मातंगी कुक्कुटे रौद्रि कालि ! कालि ! नमोस्तुते || ३ || सर्वसिद्धिप्रदे भीमे भयंकरि ! भयापहे ! || प्रसन्ना भवदेवेशि ! मम भक्तस्यकालिके ! || ४ || संसारतारिणि ! जये ! जय सर्वशुभंकरि || विस्रस्तचिकुरे चंडे चामुंडे ! मुण्डमालिनि ! || ५ || संसारकारिणि ! शिवे सर्व सिद्धिं प्रयच्छमे || दुर्गे ! किराति शवरि प्रेतासनगतेऽनघे || ६ || अनुग्रहं कुरुसदा कृपया मां विलोकय || राज्यं प्रयच्छविकटे वित्तमायुः स्त्रियंशिवम् || ७ ||
150 SK शिवाबलि विधानेन प्रसन्नाभव फेरवे || नमस्तेस्तु नमस्तेस्तु नमस्तेस्तु नमोनमः || ८ || इति || ततस्तुत्वा तदुच्छिष्टं यथा काक खराश्च प्रभृतयो दुष्ट जनाभुंजीरन् तथारात्रावेवभूमौ निखन्य गृहमागत्य पुनर्देवतायै चंदन पुष्पादीनि निवेद्य विहितान्नजलं च द्वात्रिंशद्वारमभिमंत्र्य देवतायै निवेद्य भोजनपानादिकंसुखेनकुर्यादिति शिवाबलि समाप्तं || प्. १६५) जप योगिनी मालामाह यामले || विधि यज्ञाज्जपो यज्ञो विशिष्टोदशभिर्गुणैः || उपांशुः स्याच्छत गुणः सहस्रो मानसः स्मृतः || मुक्ताफलामलमणिस्फीतवैदूर्य सम्भवाम् || पुत्रजीवक पद्माक्ष रुद्राक्ष स्फटिकोद्भवाम् || प्रबाल पद्मरागादि रक्तचन्दन निर्मिताम् || कुंकुमागुरु कर्पूर मृगनाभि विभाविताम् || अक्षमालां समाहृत्य चण्डिकाकृत विग्रहः || अथमुक्ताफलमयी साम्राज्य फलदायिनी || यथा मुक्ताफलमयी तथा स्फटिक निर्मिता || रुद्राक्ष मालिका मोक्षे भएत्सर्व समृद्धिदा || प्रबाल मालिकावश्ये सर्वकार्यार्थ साधिका | माणिक्यमाला विमला साम्राज्य फलदायिनी || पुत्रजीवक मालातु लक्ष्मी विद्या प्रदायिनी || पद्माक्ष मालया लक्ष्मीर्जायते च महद्यशः || रक्तचन्दन माला तु भोगदा वश्यदा भवेत् || अक्षमालापदेनाकारादिक्षकारान्त मातृकामालोच्यते || अक्षमालां समाश्रित्य मातृका वर्णरूपिणीमिति || इदानीं नवलक्ष जपात्मकं पुरश्चरण माह ज्ञानार्णवे || लक्षमेकं जपेद्देवि महापापैः प्रमुच्यते | लक्षद्वयेन पापानि सप्त जन्म कृतान्यपि || १ || नाशयेच्चण्डिकादेवी साधकस्य न संशयः | जप्त्वा लक्षत्रयं मन्त्री यन्त्रितो मन्त्र विग्रहः || २ || पातकं नाशयेदाशु यदि जन्म सहस्रकम् | जप्त्वा विद्यां चतुर्लक्षं महावागीश्वरो भवेत् || ३ || पञ्च लक्षाद्दरिद्रोऽपि साक्षाद्वैश्रवणो भवेत् | जप्त्वा षड् लक्षमेतस्या महाविद्या धनेश्वरः || ४ || जप्त्वैव सप्त लक्षाणि खेचरी मेलको भवेत् | अष्ट लक्ष प्रमाणञ्च जप्त्वा विद्यां महेश्वरि || ५ ||
151 SK अणिमाद्यष्ट सिद्धीशो जायते देव पूजितः | नव लक्ष प्रमाणं तु जप्त्वा वै नव चण्डिकाम् || ६ || प्. १६६) कर्ता हर्ता स्वयं गौरि लोकेऽप्रतिहत प्रभः || ७ || प्रसन्नो मुदितो धीरः स्वच्छन्दगतिरीरितः || दुर्गा शब्दार्थः || दुर्गेत्वं भववारिणि प्रणमतां सर्वार्ति संहारिणि || दुर्गेहं भववारिणि प्रपतितः सीदामि सर्वात्मना || मातरत्वं भववारिणि प्रतिरुधो नेत्राणि कालोस्ति के || मातर्मे भववारिणि प्रकुरुते शार्दूल विक्रीडितम् || दुर्गा दैत्ये महाविघ्ने भवबन्धे कुकर्मणि || शोके दुःखे च नरके यमदण्डे च जन्मनि || १ || महाभये च रोगे च शब्दोऽयं हन्तृवाचकः || २ || एतान्हन्त्येव या देवी सादुर्गा परिकीर्तिता | अपिच || दैत्य नाशाथ वचनो दकारः परिकीर्तितः | उकारो विघ्ननाशस्य वाचको वेदसम्मतः || २ || रेफो रोगघ्न वचनो गश्च पापघ्नवाचकः | भयशत्रुघ्नवचनश्चाकारः परिकीर्तितः || ३ || स्मृत्युक्तिश्च श्रवणाद्यस्या अंतेनश्यन्ति निश्चितम् | ततो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता || ४ || दुर्गेति दैत्यशमनो प्याकारो नाश वाचकः || दुर्गं नाशयति या नित्यं सा दुर्गा प्रकीर्तिता || ५ || विपत्ति वाचको दुर्गश्चाकारो नाशवाचकः || तंननाश पुरा तेन बुधैर्दुर्गा प्रकीर्तिता || ६ || अस्याः स्वरूपं नन्दं प्रति श्रीकृष्य वाक्यम् || आद्यानारायणी शक्तिः सृष्टिस्थित्यन्त कारणी || करोमि च यया सृष्टिंयया ब्रह्मादि देवताः || ७ || यया जयति विश्वं च यया सृष्टिः प्रजायते | यया विना जगन्नास्ति मयादत्ताशिवाय सा || ८ || दया निद्रा च क्षुत्तृप्तिस्तृष्णा श्रद्धा क्षमा धृतिः | तुष्टिः पुष्टिस्तथाशान्तिलज्जाधि देवता हि सा || ९ || प्. १६७) वैकुण्ठे सा महासाध्वी गोलोके राधिका सती || मर्त्येलक्ष्मीश्च क्षीरोदे दक्षकन्या सती च या || १० || सा दुर्गामेनका कन्या दैन्यदुर्गति नाशिनी || स्वर्गेलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे || ११ || सा वाणी सा च सावित्री विप्राधिष्ठातृ देवता || वह्नौ सा दाहिका शक्तिः प्रभाशक्तिश्च भास्करे || १२ ||
152 SK शोभा शक्तिः पूर्णचन्द्रे जले शक्तिश्चशीतला || शस्यप्रभृति शक्तिश्चधारणा च धरासु सा || १३ || ब्राह्मण्य शक्तिर्विप्रेषु देव शक्तिः सुरेषु सा || तपस्विनां तपस्या सा गृहिणां गृह वेदिता || १४ || मुक्ति शक्तिश्च मुक्तानां माया सांसारिकस्य सा || मद्भक्तानां भक्तिशक्तिर्मयि भक्ति प्रदा सदा || १५ || नृपाणां राजलक्ष्मीश्च वणिजां लभ्यरूपिणी || पारे संसार सिन्धूनां त्रयी दुस्तरतारिणी || १६ || सत्सुसद्बुद्धिरूपाच मेधाशक्तिः स्वरूपिणी || व्याखय शक्तिः श्रुतौ शास्त्रेदातृशक्तिश्चदातृषु || १७ || क्षत्रादीनां विप्रभक्तिः पतिभक्तिः सतीषु च || एवं रूपा च याशक्तिर्माया दत्ता शिवाय सा || १८ || अपिच शङ्करं प्रति पार्वती वाक्यम् || वैकुण्ठेहं महालक्ष्मीर्गोलोकेराधिका स्वयम् || शिवाहं शिव लोकेऽपि ब्रह्मलोके सरस्वती || १९ || अहंनिहत्यदैत्यांश्च दक्ष कन्या सती पुरा || त्वन्निन्दया तनुंत्यक्त्वा सा चाहं शैलकन्यका || २० || रक्तबीजस्ययुद्धे च काली च मूर्तिभेदतः || सावित्री देवमाता हं सीता जनक कन्यका || २१ || रुक्मिणी द्वारवत्यां च भारते भीष्मकन्यका || सुदाम्नोशापतो दैवात् वृषभानु सुताधुना || २२ || तंत्रोक्त अंचपल्लव - पनसारं तथाश्वस्थं वटंवकुलमेवच | पञ्चपल्लवमुक्तंच मुनिभिस्तन्त्रवेदिभिः || तन्त्रसारे || प्. १६८) धर्मपत्नी च कृष्णस्य पुण्ये वृन्दावने वने | कृष्णं प्रति पार्वती वाक्यम् || परिपूर्णतमाहं च तव वक्षस्थले स्थिता || तवाज्ञया महालक्ष्मीरहं वैकुण्ठ वासिनी || २३ || सरस्वती च तत्रैव वामपार्श्वे हरेरपि || तवाहं मनसाजाता सिन्धुकन्या तवाज्ञया || २४ || सावित्री वेदमाताहं कलया विधि सन्निधौ || तेजःसु सर्व देवानां पुरासत्ये तवाज्ञया || २५ || अधिष्ठानं कृतं तत्र धृतं दिव्यं शरीरकम् || शुम्भादयश्च दैत्याश्च निहताश्चैवलीलया || २६ || दुर्गं निहत्य दुर्गाहं त्रिपुरा त्रिपुरे वधे | निहत्य रक्त बीजं च रक्त बीज विनाशिनी || २७ ||
153 SK तवाज्ञया दक्ष कन्या सती सत्यस्वरूपिणि || योगेनत्यक्त्त्वादेहं च शैलजाहं तवाज्ञया || २८ || त्वयादत्ताशंकराय गोलोके रासमण्डले || विष्णुभक्ति रहं तेन विष्णुमाया च वैष्णवी || २९ || नारायणस्य मायाहं तेन नारायणी स्मृता || तवाज्ञया पञ्चधाहं पञ्च प्रकृतिरूपिणी || ३० || कला कलांशयाहं च देवपत्न्योर्गृहे गृहे || प्रथमं पूजिता सा च कृष्णेन परमात्मना || मधुकैटभ भीतेन ब्रह्मणा सा द्वितीयतः || ३१ || त्रिपुर प्रेषितेनैव तृतीये त्रिपुरारिणा || भ्रष्ट श्रिया महेन्द्रेण शापाद्दुर्वाससः पुरा || ३८ || चतुर्थे पूजिता देवी भक्त्या भगवती सती || ततोमुनीन्द्रैः सिद्धेन्द्रैर्द्रेवैश्च मनु मनुमानवैः || ३९ || पूजिता सर्व विश्वेषु बभूव सर्वतः सदा || तेजःसु सर्व देवानामाविर्भूता पुरा मुने || ४० || सर्व देवाददुस्तस्यै शस्त्राणि भूषणानि च | दुर्गादयश्च दैत्याश्च निहता दुर्गया मया || ४१ || दत्तं स्वराज्यं देवेभ्यो वरञ्च यदभीप्सितम् | कालान्तरे पूजिता सा सुरथेन महात्मना || ४२ || राज्ञांमेधस शिष्येण मृण्मय्यां च सरित्तटे || मेषादिभिश्च महिषैः कृष्ण सारैश्च गण्डकैः || ४३ || छागैर्मीनैश्च कूष्माण्डैर्भक्तिभिः पूजिता मुने || वेदोक्तानि च दत्वैवमुपचाराणि षोडश || ४४ || प्. १६९) धृत्वा च कवचं ध्यात्वासंपूज्यैवं विधानतः || राजाकृत्वापरीहारं वरं प्राप यथेप्सितम् || ४५ || मुक्तिं संप्राप्य वैश्यश्च संपूज्य च सरित्तटे || पुष्करे दुस्तरं तप्त्वातपो दुर्गाप्रसादतः || ४६ || वैश्योजगाम गोलोकं श्रीकृणेनानुमोदितः || राजापिस्वराज्यं गत्वा विविधान्भोगान् षष्ठिवर्ष सहस्रकं निष्कण्टकं बुभुजे ततः परं भार्या पुत्रे सन्नयस्य पुष्करे तपस्तप्त्वा सावर्णिर्नाम मनुर्बभूव || इति ब्रह्मवैवर्ते ||
154 SK शरत्काले वार्षिकी दुर्गापूजा क्रियते सात्रिधा || सात्विकी राजसी तामसी चेतिविश्रुतिः || सात्विकी निरामिषैर्निवेद्यैर्जपयज्ञाद्यैश्च || माहात्म्यं भगवत्यास्तु पुराणादिषुकीर्तितम् || पाठस्तस्यजपः प्रोक्तः पठेद्देवीमनास्तथा || देवी सूक्त जपश्चैव यज्ञोवह्निषु तर्पणम् || राजसी बलिदानैश्च नैवेद्यैः सामिषैस्तथा || सुरामांसाद्युपाहारैजपयज्ञैर्विना तु या || विना मंत्रैस्तामसी स्यात्किरातानां तु सम्मता || पाठक्रमो यथा अर्गलं कीलकं चादौ पठित्वा कवचं पठेत् || जपेत्सप्तशतींपश्चात्क्रम एषः शिवोदितः || १ || अर्गलंदुरितं हन्ति कीलकं फलदं तथा || कवचं रक्षयेन्नित्यं चण्डिका त्रितयं तथा || २ || आदौ च प्रणवं जप्त्वा स्तोत्रं वा संहितां पठेत् || अन्ते च प्रणवं दद्यादित्युवाचादिपूरुषः || ३ || अकृतिना ब्राह्मणातिरिक्त जनेन स्वहस्त लिखितमल्पफलदायकमतो न पठत् || कर्मासक्तवना न पठेत् प्रयतः पठेत् आधारेधृत्वा पठेन्नकरतल ग्रहणेन पठेत् फलाभावात् || भविष्ये || अग्नि होत्रादि कर्माणि वेदयज्ञाः सदक्षिणाः | चण्डिकार्चार्चनस्यैते लक्षांशेनापि नो समाः || १ || प्. १७०) स दता समुनिर्यष्टा स तपस्वी स तीर्थगः || यः सदा पूजयेद्दुर्गां नाना पुष्पोपलेपनैः || २ || यः सदा पूजयेद्देवीं प्रणमेद्वापिभक्तितः || सयोगी सर्द्धिमांश्चैव तस्यमुक्तिः करे स्थिता || ३ || अग्निहोत्रपरे विप्रे वेद वेदाङ्ग पारगे || सुवर्णानां सुवर्णस्यशते दत्ते तु यत्फलम् || ४ || तत्फलम् लभते राजन् पूजयित्वातु चण्डिकाम् || मालयाबिल्व पत्राणां नवम्यां गुग्गुलेन च || ५ || मालाद्वयेन सम्पूज्य दुर्गां देवीं नराधिप ! || बिल्ववृक्षस्य पत्राणां राजसूय फलं लभेत् || ६ || योगरत्नावल्यां पाठक्रमः || कवचं बीजमादिष्टमर्गला शक्तिरुच्यते || कीलकं कीलकं प्राहुः सप्तशत्या महामनोः || १ || यामल वचनाद्यथा ||
155 SK सर्व मन्त्रेषु बीजशक्ति कीलकानां प्रथममन्त्रमुच्चारणम् || तथा सप्तशती पाठेऽपि कवचार्गलाकीलकानां प्रथमं पाठः कर्तव्यस्ततो रात्रिसूक्तपाठः || तदुक्तं मरीचकल्पे || रात्रिसूक्तं पठेदादौमध्ये सप्तशतीस्त्ववम् || प्रान्तेतु पठनीयम्बै देवी सूक्त मितिक्रमः || इतिरात्रिसूक्त पाठोत्तरमृष्यादि न्यास पूर्वकमष्टोत्तरशतं सहस्रं वा नवार्ण मंत्रजपः कर्तव्यस्तदुक्तम् || नवार्ण मंत्रपुटितं ततश्चण्डीस्तवं पठेदिति नवार्णमंत्रजपोत्तरं रात्रिसूक्त पाठमाह कश्चित्तदसत् पुटितं मूलमंत्रेणेतिवचनात्पुटितमध्येन्यमन्त्र प्रवेशस्य विरुद्धत्त्वात् शतमादौ शतंचान्ते जपेन्मंत्रं नवार्णकम् || चण्डीसप्तशतीं मध्येसंपुटोयमुदाहृतः || इति डामरतंत्रविरोधाच्च ततः सप्तशती पाठः पुनर्नवार्ण मंत्र जपः ततो देवी सूक्तपाठस्ततो रहस्यत्रयपाठ इति क्रमेणपाठः कर्तव्यः || प्. १७१)
156 SK सप्तशती पाठारम्भे शापोद्धारादिकं कर्तव्यं तत्प्रकार उक्तः केरलैस्तथा च || अन्त्या १३ द्या १ र्क १२ द्वि २ रुद्र ११ त्रि ३ दिग १० ब्ध्यं ४ के ९ ष्वि ५ भ ८ र्तवः ६ अश्वो ७ श्व ७ इति सर्गाणां शापोद्धारे मनोः क्रम इत्युक्ते स्त्रयोदश प्रथमौ द्वादश द्वितीयौ एकादश तृतीयौ दशमचतुर्थौ नवम पञ्चमौ अष्टम षष्ठावध्यायौ पठित्वा सप्तममध्यायं द्विः पठेदिति शापोद्धार प्रकारः || अङ्गहीनो यथा देही सर्व कर्मसु न क्षमः || अङ्गषट्क विहीनातु तथा सप्तशतीस्तुतिः || तस्मादेतत्पठित्वैव जपेत्सप्तशतीं पराम् || अन्यथा शापमाप्नोत हानिश्चैव पदेपदे || इतिकात्यायनीतन्त्रोक्तेः || कवचादि षडङ्ग रहित केवल सप्तशती पाठ करणमेव शापः || कवचादि साहित्येन तत्करणं मोक्षदमित्याहुः || रहस्य तन्त्रस्थ गुरु कीलकपटले तु सप्तशत्याख्यमन्त्रस्य यावज्जीव महं जपं कुर्वंस्ततो न प्रमादं प्राप्नुयामिति निश्चयम् || कृत्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यतीत्युक्तेर्यावज्जीवमहं सप्तशती पाठं प्रमादेन सदसदपि न त्यक्षे || इति दृढ संकल्पेन तदारम्भ उद्धारस्तदभावेन तदारम्भः शाप इति स्थितम् || उत्कीलनम् || उत्कीलने चरित्राणां मध्याद्यन्तमिति क्रमः इति दुर्गाप्रदीपस्थ केरलोक्तेः || आदौ मध्यम चरित्रं पठित्वा ततः प्रथम चरित्रं ततस्तृतीयचरित्रं पठेदितिगुरुकीलकपटलेतु || शिव उवाच || पुरा सनत्कुमाराय दत्तमेतन्मयानघ ? || संवर्ताय ददौ तच्च सचान्यस्मै ददौ च तत् || सर्वत्र चण्डीपाठस्य प्राचुर्येण महीतले ब्रह्मकाण्डः कर्मकाण्डस्तंत्रकाण्डश्च सर्वथा || अभूत्प्रतिहतोनेन शीघ्रसिद्धि प्रदायिनी || प्. १७२)
157 SK तदा तेषां च सार्थक्यं कर्तुकामेन भूतले || दानप्रतिग्रहत्वेन मंत्रोयं कीलितोमया || दानप्रति ग्रहाख्यं यत्कीलकं समुदाहृतम् || तदारभ्य च मंत्रीयंकीलकेनाभिकीलितः || नसर्वेषांभवेत्सिद्ध्यै ये कीलकपराङ्मुखाः || ये नराः कीलनेनेदं जपन्ति परया मुदा || तेषां देवी प्रसन्नास्यात्ततः सर्वाः समृद्धयः || त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः || त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः || ममार्जितमिदं सर्व तच्च स्वं परमेश्वरि ! || राष्ट्रं बलं कोषगृहं सैन्यमन्यच्च साधनम् || त्वदधीनं करिष्यामि यत्रार्थे त्वं नियाक्ष्यसि || तत्रदेवि ! सदा वत त्वदाज्ञामेव पालयन् || इति संचिन्त्य मनसा स्वार्जितानि धनानि च || कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः || समर्पयेन्महादेव्यै स्वार्जितं सकलं धनम् || राष्ट्रं गृहं कोषवलं नवं च यदुपार्जितम् || अस्मिन्मासि मयादेवि ! तुभ्यमेतत्समर्पितम् || इति ध्यात्वा ततो देव्याः प्रसादात्प्रतिगृह्य च || विभज्य पञ्चधा सर्वं त्र्यंशान् स्वार्थं प्रकल्पयेत् || देवपित्रतिथीनां च क्रियार्थं त्वेकमादिशेत् || एकांशं गुरुवेदद्यात्तेन देवी प्रसीदति || तस्य राज्यं स्वकं सैन्यं कोपः साधु विवर्द्धत || इति दानप्रतिग्रह नामक महोत्कीलनं विहितम् || केचित्तु कीलने एव शापोद्धारावित्याहुः || डामर तन्त्रोक्त नवार्ण मन्त्रार्थः || एतन्मन्त्रमहिमातिशयोर्थश्च || डामर तन्त्रोक्तो निरूप्यते || निर्धूतनिखिलध्वान्ते नित्यमुक्तेपरात्परे || अखण्डब्रह्मविद्यायै चित्सदानन्दरूपिणीं || अनुसंदध्महे नित्यं वयं त्वां हृदयाम्बुजे || इत्थं विशदयत्येषा याकल्याणी नवाक्षरी || अस्या महिमलेशोपि गदितुं केन शक्यते || बहूनां जन्मनामन्ते प्राप्यते भाग्यगौरवात् || प्. १७३)
158 SK इत्यादि || अत्र प्रथम श्लोके सम्बुद्ध्यन्तत्त्रयन्तश्चतुर्थ्यतं ततः पुनः संबुद्ध्यन्तत्रयमिति सप्तभिः पदैः क्रमेण मंत्रे सप्तधा पदच्छेदः || पदानांतत्तद्विभक्त्यन्ततातत्तदार्थाश्चेति कथितम् || तदुत्तर मर्द्धेनाकांक्षित पदानामध्याहर उक्तः || इतरत्स्पष्टम् || सच्चिदानन्दात्मक ब्रह्मरूपित्वादेवशक्तेरपि त्रिरूपत्वं तत्रचिद्रूपा महासरस्वती वाग्भवबीजेनसंबोध्यते || ज्ञानेनैवाज्ञाननाशान्निर्घूत निखिलध्वान्त पदेन तद्विवरणं युक्तमेव नित्यत्वं त्रिकालावाध्यत्वम् || अत एव मुक्तत्वं कल्पित वियदादि प्रपञ्चनिरासाधिष्टानत्वम् || एतेन सद्रूपात्मकमहालक्ष्मीरूपस्य भुवनेश्वरी मंत्रेण संबोधनमिति व्याख्यानम् पर उत्कृष्टः || सर्वानुभव संवेद्य आनन्द एव तस्यैव पुरुषार्थत्वात् || आत्मनः कामाय सर्वं प्रियं भवतीति श्रुत्या तदितरेषामपि तदथत्वेनानन्दस्यैव सर्वशेषतया परत्वात् || स च मानुषानन्दमारभ्योत्तरोत्तरं शतगुणाधिक्येन श्रुतौ बहुविधोवर्णितः तेषु परमातिशायी स एको ब्रह्मण आनन्द इति परमावधित्वेनाम्नात एव परात्परः तेनानन्द प्रधान महाकाली स्वरूपस्य काम बीजेन सम्बोधनंयुक्तम् || चामुण्डाशब्दो हि मोक्षकारिणीभूत निर्विकल्पवृत्ति विशेषपरः || तादर्थ्येचतुर्थी चमूं सेनां वियदादिसमूहरूपां डाति लडयोरक्याल्लाति आदत्ते आत्मसात्करणेनापूरयतीति व्युत्पत्तेः || वृषोदरादित्वात्सर्वं सुस्थमित्याहुर्बहवः परन्तु अखण्ड ब्रह्मविद्येत्येव चामुण्डा पदस्यार्थमाहुः || विच्चे इति तु वित् च इ इति पद त्रयात्मकं बीजत्रयेणोक्तानां चित्सदानन्दादीनां वाचकं संबुद्ध्यन्तंबीजत्रयस्य क्रमेण विशेषणम् || अस्य स्त्री ईतस्य ह्रस्वे कृते सति हे आनन्द ब्रह्म महिषि इत्यर्थः || वित्पदं ज्ञान परम्प्रसिद्धेमेवचकारोपि नपुंसकः - प्. १७४)
159 SK सन्सत्पर इति योज्यम् || अनुसन्दामहे इतिशेषः || तथाच महासरस्वत्यादिरूपे चिदादिरूपे चंडिके त्वां ब्रह्मविद्या प्राप्त्यर्थं वयं सर्वदा ध्यायामः || इति मंत्रार्थः फलितः तस्यायं संग्रहः महासरस्वति चिते महालक्ष्मि सदात्मिके मकाकाल्यानन्दरूपं त्वं तत्वज्ञान सिद्ध्ये अनुसंदध्महे देवि ! वयं त्वां हृदयाम्बुजे इति अयंचार्थः प्राचीनैर्वर्णित एवात्र सम्यक् परिष्कृत्योक्तः || इति नवार्णमंत्रस्यार्थः || मेरु तन्त्रोक्त अथास्य विधानमुच्यते || अथातः संप्रवक्ष्यामि चामुण्डायाः महामनुम् || नव वर्णात्मकं यस्य सेवनाद्भुक्तिमुक्तयः || १ || सुरथो यत्प्रसादेन राज्यं प्राप्याभवन्मनुः | संसार बन्धनिर्नाशि ज्ञानप्राप्तं समाधिना || २ || मार्कण्डेयपुराणोक्तं चरित्रत्रितयं तव | जपाद्यस्यफलं दद्यात्तं मनुं वच्मिसांप्रतम् || ३ || वाक्लज्जाकामबीजान्ते चामुण्डायै पदं वदेत् | विच्चे नवार्ण मंत्रोयं शक्तिमन्त्रोत्तमोत्तमः || ४ || अस्मिन्नवाक्स्ऽरे मन्त्रे महालक्ष्मिर्व्यवस्थिता | तस्मात्सुसिद्धः सर्वेषां सर्वदिक्षु प्रदीपकः इति एतावतात्र सिद्धादि विचाराभावोज्ञापितः || अथ पल्लवादि नियमः || मन्त्राणां पल्लवो वासो मन्त्राणां प्रणवः शिरः | शिरः पल्लवः शंयुक्तो मन्त्रः काम दुघो भवेदित्युक्तेरस्य पल्लवादि विधिरुच्यते || तत्र प्रणवः प्रसिद्धः || पल्लवश्च || नमोन्तः शान्तिके पुष्टौ प्रणिपाते च कीर्तितः वश्याकर्षणमोहेषु स्वाहान्तः सिद्धिदायकः || वौषट् पल्लव संयुक्तो मन्त्रः पुष्यादिसाधकः || हुṁकारपल्लवोपेतोमारणे ब्राह्मणं विना || यन्त्र भञ्जन कार्येषु सुघोरभयनाशने || वषडन्तः प्रकल्पप्यस्तु ग्रहबाधा विनाशकः || प्. १७५)
160 SK उच्चाटने तु संप्रोक्तो मन्त्रः फट्पल्लवान्वितः || एतेपल्लवास्तत्तत्कर्मणि चण्डीपाठेपि श्लोकान्तादौ स्तोत्रान्तादौ वा योज्याः || नन्वत्र केवल मंत्रेणैवेष्टसिद्धिरस्तु किमृष्यादिपल्लवान्त संयोग विशेषजृम्भितविस्तरेणेतिचेन्मैवम् || देवर्षिछन्दोहीनो यः सतु सप्तो भुजङ्गमः || अशक्तः शक्तिरहितो निष्फलो बीजवर्तितः || अतत्वस्तत्व वियुतो विनियोगोऽप्रभुर्मनुः || न्यासहीनो भवेन्मूकोमृतःस्याच्छिरसा विना || अपल्लवस्तु नग्नः स्यात्सुप्तः स्यादासनं विना || गुरुम्बिना वृथा मन्त्रः श्रव्यजापेतु शून्यकः || निर्वीर्यो दुष्टदत्तः स्यात्सान्यबीजस्तु कीर्तितः || (दुष्टाय दत्तो दुष्टदत्त इत्यर्थः) इति वचनैरस्य देवर्ष्यादि पल्लवान्ताद्यङ्ग वैधुर्योद्घाटितानिष्टफलानुवन्धि भुजङ्गमादि दोषदूषितत्वाववोधाद् || परेतु || आर्षं छन्दश्च दैवत्यं विनियोगस्तस्तथैव च || वेदितव्यः प्रयत्नेन ब्राह्मणेन विपश्चितेति || याज्ञवल्क्योक्तेर्वैदिकेमंत्रे यथा ऋष्यादिविनियोगान्त चतुष्केतरपल्लवादि विचारोनास्ति तथास्मिन्नवार्णेपीत्याहुः || इति पल्लवादि विचारः || गन्धर्व तन्त्रे || स्वस्थान माश्रिता देवाः सर्वाभीष्ट फलप्रदाः || स्वस्थान वर्जिता देवाः शोकदुःख फल (भय) प्रदा || इत्यर्गलपुर निवासि गौड जातीय भारद्वाज वंशोद्भव विद्वद्वर गोस्वाम्युपाह्व पं० बुलाखीराम सूनुना भू० पू० श्री विद्या धर्म वर्द्धिनी पाठशालायाः कर्मकाण्ड यजुर्वेदाध्यापकेन विद्याभूषण कर्मकाण्ड मणीत्युपाधिविभूषितेन श्रीलक्ष्मीनारायणेगोस्वामिना संगृहीता दुर्गार्चनसृतौ तन्त्रोक्तयन्त्र पूजनादि विधिः सम्पूर्णा || ॐ नमश्चण्डिकायै || तपस्यन्तं महात्मानं मार्कण्डेयं महामुनिम् || प्. १७६) व्यास शिष्यो महातेजा जैमिनिः परिपृच्छत || जैमिनिरुवाच || महर्षे ! कथयोत्पत्तिं चण्डिकायाः सुविस्तरम् || ययासर्वमिदं व्याप्तं त्रैलोक्यं स चराचरम् || अथ दुर्गा पाठारम्भः ||
161 SK आदावाचामेत् || ॐ ऐं आत्मतत्वं शोधयामि नमः स्वाहा || ॐ ह्रीं विद्यातत्वं शोधयामि नमः स्वाहा || ॐ क्लीं शिवतत्वं शोधयामि नमः स्वाहा || ततः मूल मंत्रेण प्राणायामं कुर्यात् || ततः श्रीगणेश गुर्वादीन्नत्त्वा [ॐ तत्सदद्य ब्रह्मणो द्वितीय प्रहरार्द्धे श्री श्वेतवाराहकल्पे जम्बूद्वीपे भरतखण्डे ह्यार्यावर्तैक देशान्तरगते कलियुगे कलिप्रथमचरणे पुण्यक्षेत्रेऽमुक अंगिरा सम्बत्सरे अमुक ऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुक करणे अमुकामुकराशिस्थ रव्यादिग्रहस्थित बेलायाममुक गोत्रोत्पन्नामुकशर्मा (यजमानस्य) जन्मलग्नात् वर्षलग्नाद्गोचरादमुकामुक ४|८|१२ स्थान स्थितसूर्यादिक्रूरग्रहा तज्जनितारिष्ठ निवृत्ति पूर्वकं दशान्तरदशा चोपदशा दिनदशाजनितारिष्ट ज्वर पीडा दाहपीडा नेत्रकर्णोदरादिपीडा निवृत्तिपूर्वकं अल्पायुनिवृत्ति पूर्वकश्चाधिदैविकाधिभौतिकाध्यात्मिकजनित क्लेश कायिक वाचिक मानसिक त्रिविधाघौघ निवृत्ति पूर्वकं शरीरारोग्यार्थंपरमैशर्यादिप्राप्त्यर्थंच || मार्कण्डेय उवाच || ॐ सावर्णिः सूर्यतनयो योमनुःकथ्यतेष्टमः || निशामय तदुत्पत्ति विस्तराद्गदतोममेत्यारभ्य सावर्णिर्भवितामनुरित्यन्तपरकस्य मार्कण्डेय पुराणान्तगतस्य देवी महात्म्य प्रकाशकस्य महाकाली महालक्ष्मी महासरस्वती देवताकस्य दशांगयुक्तस्यापमृत्युवारणायाष्टोत्तरशतादावन्ते त्र्यम्बकमन्त्र युक्तस्य शापोत्कीलनमन्त्र युक्तस्य चादौ रात्रिसूक्तस्यान्ते देवी सूक्तस्यामुक मन्त्रेण प्रतिमन्त्र सम्पुटितस्य यथा संख्यकावृत्ति पाठमहंकरिष्ये || यजमानपक्षे ब्राह्मण द्वारा कारयिष्ये ||] संकल्पं कुर्यात् || देशकाल संकीर्तनान्ते || कुलार्णवे ६ पटले - आत्मस्थानेमनु द्रव्य देवशुद्धिस्तौपंचमी | यावन्न कुरुते मंत्री तावद्देवार्चनंकुतः || प्. १७७)
162 SK अस्माकंसर्वेषांसकुटुंबानां क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थंसमस्तमंगलावाप्त्यर्त् हं अमुक गोत्रस्य अमुकना (मोहं) (म्नोमम यजमानस्य) श्रीजगदम्बा प्रसादसिद्धिद्वारा सर्वापन्निवृत्तिपूर्वक सर्वाभीष्टफलावाप्ति धर्मार्थ काम मोक्ष चतुर्विध पुरुषार्थ सिद्ध्यर्थं राजद्वारतः व्यापारतश्च लाभार्थं विजयार्थं श्रीमहाकाली महालक्ष्मी महासरस्वती देवता प्रीत्यर्थं कवचार्गला कीलक पठन एकादशन्यास पूर्वक नवार्ण मन्त्राष्टोत्तरशत जप रात्रिसूक्त पठन पूर्वकं देवीसूक्त पठन नवार्ण मन्त्राष्टोत्तर शत जप रहस्य त्रय पठनान्तं मध्ये मार्कण्डेय उवाच इत्यारभ्य सावर्णिर्भवितामनुरित्यन्तं (अमुक मंत्रसंपुटितं) श्रीचण्डी सप्तशत्याः शत पाठं (नवपाठं) करिष्ये || (ब्राह्मण द्वारा कारयिष्ये) || नित्य संकल्पः || पूर्व संकल्पित कामना सिद्धये शत चण्डी (नवचण्डी) संखा पूर्तये प्. १७८) पूर्व संकल्पित रीताद्य पाठाख्यं कर्म करिष्ये || यजमानपक्षे || करिष्यामि || इति || पुस्तक पूजनम् || ॐ नमः पिशाचिनि करंकिनि त्रिशूल खड्ग हस्ते सिंहारूढे एह्येहि आगच्छ आगच्छ इमां पूजां गृह्ण २ स्वाहा श्री सप्तशता स्वरूपिण्यै ह्रीं चंडिकायै नमः || यथोपचारैः पुस्तकपूजनं विधाय || अथ शापोद्धारः || ॐ ह्रीं क्लीं क्रीं क्रीं चण्डिकादेव्यै शापनाशानुग्रहं कुरु २ स्वाहा || उत्कीलनम् || ॐ श्रीं क्लीं ह्रीं सप्तशती चण्डिका उत्कीलनं कुरु २ स्वाहा || मृतसंजीवनी विद्या || ॐ ह्रीं ह्रां वं वं ऐं ऐं मृत संजीवनी विद्यामृतमुत्थपयोत्थापय क्रीं ह्रीं ह्रीं वं स्वाहा || अथवा मरीच कल्पोक्त सप्तशती शापविमोचनम् | प्रणवं पूर्वमुद्धृत्य रमा बीजं ततः परम् || रमा कामं ततः क्रोधं तारं वाग्भव संयुतम् || १ || क्षोभं मोहं ततः पश्चात्कीलयेति त्रिधा द्विठम् || शापमोचनं कृत्वा चण्डी पाठेनियोजयेत् || २ || ॐ श्रीं श्रीं क्लीं हूṁ ॐ ऐं क्षोभय मोहय उत्कीलय ३ ठं ठं || प्. १७९)
163 SK पूर्वमष्टोत्तरशतं जप्त्वा पश्चान्न्यास पूर्वकं सप्तशती पाठाद्यथायोग्यकामनासिद्धिभविष्यतातिनान्यथा || अन्य प्रकारः || अथ चण्डिका शाप विमोचनम् || ॐ अस्य श्रीचण्डिकायाः ब्रह्मवशिष्ठ विश्वामित्र शाप विमोचन मंत्रस्य वशिष्ठ नारद संवाद साम वेदाधिपति ब्रह्मा ऋषिः सर्वैश्वर्य कारिणी श्रीदुर्गा देवताचरितत्रयं बीजं ह्रीं शक्तिः त्रिगुणात्म स्वरूपिणी चण्डिकाशापविमुक्तौ मम संकल्पित कार्य सिद्ध्यर्थे जपे विनियोगः || ॐ (ह्रीं) रीं रेतः स्वरूपिण्यै मधुकैटभमर्दिन्यै ब्रह्मवशिष्ठ विश्वामित्र शापाद् विमुक्ता भव || १ || ॐ श्री बुद्धि स्वरूपिण्यै महिषासुर सैन्यनाशिन्यै ब्रह्मवशिष्ठ विश्वामित्र शापाद् विमुक्ता भव || २ || अथ सर्व मन्त्रोत्कीलनविधिः || तन्त्रान्तरे || मूलं नवार्णं वा || ॐ ह्रीं ह्यौं क्ष्म्र्ॐ क्ष्मलवर पीडंमलवर फ्रीं ॐ क्षां क्षीं क्षूं क्षैं क्षौं क्षः उत्कीलय २ स्वाहा || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे मूलम् ७ बार जयन्ती मंगला कालीभद्रकाली कपालिनी || दुर्गाक्षमा शिवा धात्री स्वाहा स्वधा नमोस्तु ते || १ || ॐ ह्रीं ह्यौं ह्रीं ह्योः ऐं क्ष्मलवर फ्रीं क्षमलवर फ्रीं ॐ ह्यौं उत्कीलय २ स्वाहा मूलम् १ स्वाहा || इत्युत्कीलनम् || ॐ विशुद्ध ज्ञान देहाय त्रिवेदी दिव्यचक्षुषे || श्रेयः प्राप्तिनिमित्ताय नमः सोमार्ध धारिणे त्रैलोक्यं वशी कुरु २ क्ष्ममलवर फ्रीं ॐ मूलम् १ इति प्रथम श्लोकं समापयेत् || इत्यर्गलामोक्षः || अथ मूलेन षडंग कवच पाठः ११ न्यासः इत्युत्कीलनम् || अथ शापमोचन मन्त्रः || ॐ श्रीं ह्रीं क्लीं क्रां क्रीं चण्डिकादेव्यै शापनाशानुग्रहं कुरु २ स्वाहा || आदावन्त ७ वारं पठेत् || ॐ श्री क्लीं ह्रीं सप्तशती चण्डिका उत्कीलनं कुरुकुरु स्वाहा || आदावन्ते २१ वारं पठेत् || प्. १८०)
164 SK ॐ रṁ रक्त स्वरूपिण्यै महिषासुर मर्दिन्यै ब्रह्मवशिष्ठ विश्वामित्र शापाद् विमुक्ता भव || ३ || ॐ क्षुṁ क्षुधा स्वरूपिण्यै देव वन्दितायै ब्रह्म वशिष्ठ विश्वामित्र शापाद्विमुक्ता भव || ४ || ॐ छां छाया स्वरूपिण्यै दूत संवादिन्यै ब्रह्मवशिष्ठविश्वामित्र शा० || ५ || ॐ शं शक्ति स्वरूपिण्यै धूम्रलोचन घातिन्यै ब्रह्मवशिष्ठ विश्वामित्र शा० || ६ || ॐ तृं तृषा स्वरूपिण्यै चंडमुंडवध कारिण्यै ब्रह्मवशिष्ठ वि० शा० || ७ || ॐ क्षां क्षांति स्वरूपिण्यै रक्तबीज वध कारिण्यै ब्रह्मवशिष्ठ विश्वामित्र शा० || ८ || ॐ जां जातिस्वरूपिण्यैनिशुंभवधकारिण्यैब्रह्मवशिष्ठविश्वामित्रशा० || ९ || ॐ लं लजास्वरूपिण्यैशुंभवधकारिण्यै ब्रह्मवशिष्ठविश्वामित्र शा० || १० || ॐ शां शान्तिस्वरूपिण्यै देवस्तुतन्यै ब्रह्मवशिष्ठ विश्वामित्र शा० || ११ || ॐ श्रं श्रद्धा स्वरूपिण्यै सकल फलदात्र्यै ब्रह्मवशिष्ठ विश्वामित्र शा० || १२ || ॐ कां कान्ति स्वरूपिण्यै राज वरप्रदानायै ब्रह्मवशिष्ठ विश्वामित्र शा० || १३ || ॐ मां मातृ स्वरूपिण्यै अनर्गमहिम्न सहिताय ब्रह्मवशिष्ठ विश्वामि० || १४ || ॐ ह्रीं श्रीं ह्रं दुं दुर्गायै सं सर्वैश्वर्य कारिण्यै ब्रह्मशष्ठ विश्वामित्र शापा० || १५ || ॐ ऐं ह्रीं क्लीं नमः शिवायै अभेद्य कवच स्वरूपिण्यै ब्रह्मवशिष्ठ० || १६ || ॐ क्रीं काल्यै कालि ह्रीं फट्स्वाहायै ऋग्वेद स्वरूपिण्यै ब्रह्मवशिष्ठ० || १० || ॐ ऐं ह्रीं क्लीं महाकाली महालक्ष्मी महासरस्वती स्वरूपिणी त्रिगुणात्मिकायै दुर्गा देव्यै नमः || १८ || पुरश्चरणे दश प्रकाराः शारदायां ११ पटले || जपो होमस्तर्पणञ्च स्वाभिषेकोऽघमर्षणम् || सूर्यार्घ्यं जल (पानं) दानंस्यात्प्रणामं देवपूजनम् | ब्राह्मणानां भोजनञ पूर्व पूर्व दशांशतः || इदं सर्व मन्त्रपुरश्चरणे ज्ञेयम् || वाल्मीकीय रामायणे बालकाण्ड || १२ सर्गे विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति || तद्यथा विधि पूर्वन्तु क्रतुरेषः समापयेत् || १८|१९ कुलार्णवे पंचदशोल्लासे ||
165 SK संसार दुःख भूमेश्च यदीच्छेत् सिद्धिमात्मनः || पंचाङ्गोपासनेनव मन्त्र जापी व्रजेत्सुखम् || पूजा त्रैकालिकी नित्यंजपस्तर्पणमेव च || होमो ब्राह्मण भुक्तिश्च पुरश्चरण मुच्यते || यद् यदङ्गं विहीयेत तत्संख्या द्विगुणोजपः || ज्ञानाज्ञान कृतं सर्वं प्रणश्यति जपात् प्रिये ! || परान्न भक्षणात्सिद्धि हानिः तत्रैव || यस्यान्न पानमश्नाति कुरुते धर्म संचयम् || अन्नदातुः फलंचार्द्धं कर्तुश्चार्द्धं न संशयः || तस्मात्सर्व प्रयत्नेन परान्नं वजयेत्सुधीः || पुरश्चरण काले च काम्य कर्मस्वपीश्वरि ! || जिह्वादग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् || मनोदग्धं परस्त्रीभिः कार्य सिद्धिः कथंभवेत् || नीलतंत्रे || भक्षणे दूषिता जिह्वा मिथ्याया भाषणेनव || कलहैर्दूषिता जिह्वानानादोषेणदूषिता || तत्कथंपामरोलोकाजिह्वया प्रजपेन्मनुं || संशोधनमनाचम्यनजपेत्पामरः क्वचित् || आदौमायां ततः कूर्चंपुनर्मायां च सुन्दरि || मुखं संशोधयेद्देवियदीच्छेत्सिद्धिमुत्तमाम् || न्यासो ध्यानावाहनेच नामसूक्तानि चाप्यनु || दलंच हृदयं चैव कवचार्गल - कीलकम् || प्. १८२) इत्येवंहि महामंत्रान्पठित्वा परमेश्वर || चण्डी पाठं दिवारात्रौ कुर्यादेव न संशयः || १९ || एवं मन्त्रं न जानाति चण्डी पाठं करोति यः || आत्मानं चैव दातारं क्षयं कुर्यान्न संशयः || २० || इतिश्री रुद्रयामले महातंत्रे दुर्गा कल्पे चण्डिकाशाप विमोचनम सम्पूर्णम् || श्री गणेशाय नमः अथ कवच प्रारम्भः || ॐ अस्य श्री चण्डी कवचस्य ब्रह्मा [ऋषि कि व्युत्पत्तिः || ऋषन्ति जानन्ति सर्वमिति ऋषयः मन्त्रद्रष्टारः || सत्य वचना वा || ऋषिगतौ ||] ऋषिः अनुष्टुप् छन्दः चामुण्डा देवता अङ्ग न्यासोक्त मातरोबीजं दिग्बन्ध देवतास्तत्वं श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठङ्गत्वे जपे विनियोगः || ॐ नमश्चण्डिकायै || मार्कण्डेय उवाच || ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् | यन्नकस्यचिदाख्यातं तन्मे ब्रूहि पतामह ! || १ || ब्रह्मोवाच ||
166 SK अस्ति गुह्यतमं विप्र ! सर्वभूतोपकारकम् | देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ! || २ || प्. १८३) प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी | तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || ३ || पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च | सप्तमं कालरात्रीति महागौरीति चाष्टमम् || ४ || नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः | प्. १८४) उक्तान्येतानि नामानि ब्रह्मणैव महात्मना || ५ || अग्निना दह्यमानस्तु शत्रु मध्ये गतो रणे | विषमे दुर्गमे चैव भयार्ताः शरणं गताः || ६ || न तेषां जायते किञ्चिदशुभं रणसंकटे | नापदं तस्य पश्यामि शोकदुःखभ्यं न हि || ७ || यस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते | ये त्वां स्मरन्ति देवेशि ! रक्षसे तान्न संशयः || ८ || प्रेतसंस्था तु चामुण्डा वाराही महिषासना | प्. १८५) ऐन्द्री गजसमारूढा वैष्णवी गरुडासना || ९ || माहेश्वरी वृषारूढा कौमारी शिखिवाहना | लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया || १० || श्वेतरूपधरादेवी ईश्वरी वृषवाहना | ब्राह्मी हंससमारूढा सर्वाभरण भूषिता || ११ || इत्येता मातरः सर्वाः सर्वयोगसमन्विताः | नानाभरणशोभाढ्या नानारत्नोपशोभिताः || १२ || दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः | शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् || १३ || खेटकं तोमरं चैव परशुं पाशमेव च | प्. १८६) कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् || १४ || दैत्यानांदेहनाशाय भक्तानामभयाय च | धारयन्त्यायुधानीथं देवानां च हिताय वै || १५ || नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे | महावले महोत्साहे महाभय विनाशिनि || १६ || त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्द्धिनि | प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता || १७ || दक्षिणेऽवतु वाराही नै-ऋत्यां खड्गधारिणी | प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी || १८ ||
167 SK उदीच्यां पातु कौमारी ईशान्यां शूलधारिणी | ऊर्द्व्हं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा || १९ || एवं दशदिशोरक्षेच्चामुण्डा शववाहना || प्. १८७) जया मे चाग्रतः पातु विजया पातु पृष्ठतः || २० || अजिताआमपार्श्वे तु दक्षिणे चापराजिता | शिखामुद्योतिनी रक्षेदुमामूर्ध्नि व्यवस्थिता || २१ || मालाधरि ललाटे च भ्रुवौ रक्षेद्यशस्विन | त्रिनेत्रा च भ्रुवोर्मध्ये यमघंता च नासिके || २२ || शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी | प्. १८८) कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी || २३ || नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका | अधरेचामृतकला जिह्वायां च सरस्वती || २४ || दन्तान्रक्षतु कौमारी कण्ठदेशे तु चण्डिका | घण्टिकां चित्रघण्टा च महामाया च तालुके || २५ || कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला | ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी || २६ || नीलग्रीवा वहिःकण्ठे नलिकां नलकूबरी | स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी || २७ || हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च | नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी || २८ || स्तनौ रक्षेन्महादेवी मनःशोक विनाशिनी | प्. १८९) हृदये ललिता देवी उदरे शूलधारिणी || २९ || नाभौ च कामिना रक्षेद्गुह्यं गुह्येश्वरा तथा | पूतना कामिका मेढ्रं गुदे महिषवाहिनी || ३० || कट्यां भगवतीं रक्षज्जानुनां विन्ध्यवासिना | जङ्घे महावला रक्षेत्सर्वकामप्रदायिनि || ३१ || गुल्फयोर्नारसिंहा च पादपृष्ठे तु तेजसी | पादा᳚गुलीषु श्रीरक्षेत्पादाधः स्तलवासिनी || ३२ || नखान्दंष्ट्रा कराली च केषांश्चओवोर्ध्वकेशिनी | रोमकूपेषू कौबेरी त्वचं वागीश्वरी तथा || ३३ || रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती | प्. १९०) अन्त्राणि कालरात्रिश्च पित्तं च मुकटेश्वरी || ३४ || पद्मावती पद्मकोशेकफे चूडामणिस्तथा | ज्वालामुखी जसाजालमभेद्या सर्वसन्धिषु || ३५ || शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा | अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी || ३६ ||
168 SK प्राणापानौ तथा व्यानमुदानञ्च समानकम् | वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना || ३७ || रसेरूपे च गन्धे च शब्देस्पर्शे च योगिनी | सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा || ३८ || आयू रक्षतु वाराही धर्म रक्षतु वैष्णवी | यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी || ३९ || प्. १९१) गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके | पुत्रान्रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी || ४० || पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ! | राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता || ४१ || रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु | तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी || ४२ || पदमेकं नगच्छेत्तु यदीच्छेच्छुभमात्मनः | कवचेनावृतो नित्यं यत्र यत्रैव गच्छति || ४३ || तत्र तत्रार्थलाभश्च विजयः सर्वकामिकः | यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् | परमैश्वर्यमतुलं प्राप्स्यतेभूतले पुमान् || ४४ || निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः | प्. १९२) त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् || ४५ || इदं तु देव्याः कवचं देवानामपि दुर्लभम् | यः पठेत्प्रयतो नित्यंत्रिसन्ध्यं श्रद्धयान्वितः || ४६ || दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः | जीवेद्वर्षशतसाग्रमपमृत्युविवर्जितः || ४७ || नश्यन्तिव्याधयः सर्वे लूताविस्फोटकादयः | स्थावरंजंगमंचैव कृत्रिमं चापियद्विषम् || ४८ || अभिचाराणि सर्वाणि मन्त्रयन्त्राणिभूतले | प्. १९३) भूचराः खेचराश्चैव कुलजाश्चोपदेशिकाः || ४९ || सहजाः कुलजामाला डाकिनी शाकनी तथा | अन्तरिक्ष चराघोरा डाकिन्यश्चमहाबलाः || ५० || ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः | ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः || ५१ || नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते | मानोन्नतिर्भवेद्रज्यन्तेजोवृद्धिकरं परम् || ५२ || यशसा वर्द्धते सोऽपिकीर्तिमण्डित भूतले | जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचंपुरा || ५३ ||
169 SK यावद्भूमण्डलं धत्ते सशैलवनकाननम् | तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रकी || ५४ || देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् | प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः || ५५ || प्. १९४) लभते परमं रूपं शिवेन सह मोदते ॐ || ५६ || इति श्री वाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचं समाप्तम् || १ || प्. १९५) अथ अर्गला स्तोत्रम् || ॐ अस्य श्री अर्गला स्तोत्र मन्त्रस्य विष्णुर्-ऋषि अनुष्टुप् छन्दः श्री महालक्ष्मीर्देवता श्री जगदम्बाप्रीतये सप्तशती पाठांगे जपेविनियोगः || ॐ नमश्चण्डिकायै || मार्कण्डेय उवाच || ॐ जयन्तीमङ्गला काली भद्रकाली कपालिनी | दुर्गा क्षमा शिवा धात्री स्वहा स्वधा नमोस्तुते || १ || जय त्वं देवि चामुण्डे जयभूतार्थारिणि | जय सर्वगते देवि कालरात्रि नमोस्तुते || २ || मधुकैटभविद्राविविधातृवरदे नमः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ३ || महिषासुरनिर्नाश भक्तानां सुखदे नमः | प्. १९६) रूपं देहि जयं देहि यशो देहि द्विषो जहि || ४ || रक्तबीजवधे देवि चण्डमुण्डविनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ५ || वंदितांघ्रियुगेदेवि सर्वसौभाग्यदायिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ६ || अचिन्त्यरूपचरिते सर्वशत्रु विनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ७ || प्. १९७) नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ८ || स्तुवद्भ्योभक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ९ || चण्डिकेसततं ये त्वामर्चयन्तीह भक्तितः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १० || देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ११ || विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १२ || विधेहिदेवि कल्याणंविधेहिपरमांश्रियम् | प्. १९८)
170 SK रूपं देहि जयं देहि यशो देहि द्विषो जहि || १३ || सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १४ || विद्यावन्तंयशस्वन्तं लक्ष्मीवन्तंजनं कुरु | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १५ || प्रचण्डदैत्यदर्पघ्नि चण्डिके प्रणताय मे | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १६ || चतुर्भुजेचतुर्वक्त्रसंस्तुते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १७ || कृष्णेनसंस्तुतेदेविशश्वद्भक्त्या सदाम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १८ || प्. १९९) हिमाचलसुतानाथसंस्तुते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १९ || इन्द्राणी पतिसद्भावपूजिते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २० || देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २१ || देविभक्तजनोद्दामदत्तानन्दोदयेऽम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २२ || पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् | तारिणीं दुर्गसंसारसागरस्यकुलोद्भवाम् || २४ || इदंस्तोत्रं पठित्वातु महास्तोत्रं पठेन्नरः | स तु सप्तशतीसंख्यावरमाप्नोति सम्पदां ॐ || २५ || इति श्री मार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् || प्. २००) अस्य श्री कीलक मन्त्रस्य शिव ऋषिः अनुष्टुप् छन्दः श्री महासरस्वती देवता श्री जगदम्बा प्रीयर्त्थं सप्तशती पाठांग जपे विनियोगः || ॐ नमश्चण्डिकायै || मार्कण्डेय उवाच || ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे | श्रेयः प्राप्ति निमित्ताय नमः सोमार्द्धधारिणे || १ || सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् | सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः || २ || सिध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि | प्. २०१) एतेन स्तुवतां देवी स्तोत्रमात्रेणसिध्यति || ३ || न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते | विना जाप्येन सिध्येत सर्वमुच्चाटनादिकम् || ४ ||
171 SK समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः | कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् || ५ || स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तञ्चकार सः | समाप्नोति सुपुण्येन तां यथावन्नियन्त्रणाम् || ६ || सोऽपिक्षेम मवाप्नोति सर्वमेव न संशयः | कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः || ७ || ददातिप्रतिगृह्णाति नान्यथैषाप्रसिध्यति | प्. २०२) इत्थंरूपेण कीलेन महादेवेन कीलितम् || ८ || यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् | ससिद्धः सगणः सोऽपि गन्धर्वो जायते नरः || ९ || न चैवाप्यटतस्तस्य भयं क्वापीह जायते | नापमृत्युवशं यातिमृतो मोक्षमवाप्नुयात् || १० || ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति | ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः || ११ || सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने | प्. २०३) तत्सर्वं त्वत्प्रसादेन तेन जाप्यमिदं शुभम् || १२ || शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः | भवत्येव समग्रापि ततः प्रारभ्यमेव तत् || १३ || ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः | शत्रुहानिः परोमोक्षः स्तूयते सा न किं जनैः ॐ || १४ || इति भगवत्याः कीलक स्तोत्रं समाप्तं शुभम्भूयात् || ३ || अथ नवार्ण विधिः श्री गणपतिर्जयति || ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा- śrīmahākālīmahālakṣmīmahāsarasvatyo devatāḥ nandā śākambharī bhīmāḥ śaktayaḥ raktadantikā durgā bhrāmaryo bījāni agnivāyusūryāstatvāni ṛgyajuḥsāmavedāḥ dhyānāni śrīmahākālīmahālakṣmī mahāsarasvatīprītyarthaṃ japeviniyogaḥ | p. 204) atha ṛṣyādinyāsaḥ ||
172 SK ॐ ब्रह्मविष्ण्वुरुद्र ऋषिभ्यो नमः शिरसि || ॐ गायत्र्युष्णिगनुष्टुप्छन्दोभ्यो नमो मुखे || ॐ महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमो हृदि || ॐ नन्दाशाकम्भरी भीमाः शक्तिभ्यो नमो दक्षिणस्तने || ॐ रक्तदन्तिका दुर्गाभ्रामरी बीजेभ्योनमोवामस्तने | ॐ अग्निवायुसूर्यतत्वेभ्यो नमो नाभौ || इति ऋष्यादि न्यासः || अथवा तन्त्रान्तरे || (ऐं बीजम् ह्रींशक्तिः क्लीं कीलकम् || ॐ ऐं बीजाय नमो गुह्ये || ॐ ह्रीं शक्तये नमः पादयोः || ॐ क्लीं कीलकाय नमो नाभौ || इति पाठान्तरम्) || मूलेन करौ संशोध्य || मन्त्र महोदधौ १८ तरंगे १११ श्लोकतः || नवार्ण एकादश न्यास प्रकारः तत्रादौ शुद्धमातृका न्यासः प्रथमः || कृतेनयेन देवस्य सारूप्यं याति मानवः || सारस्वत न्यासः || २ || अस्मिन्सारस्वते न्यासेकृते जाड्यं विनश्यति || ॐ ऐं ह्रीं क्लीं नमः कनिष्ठयोः || ॐ ऐं ह्रीं क्लीं नमः अनामिकयोः || प्. २०५) ॐ ऐं ह्रीं क्लीं नमः मध्यमयोः || ॐ ऐं ह्रीं क्लीं नमः तर्जन्योः || ॐ ऐं ह्रीं क्लीं नमः अंगुष्ठयोः || ॐ ऐं ह्रीं क्लीं नमः करतलयोः || ॐ ऐं ह्रीं क्लीं नमः करपृष्ठयोः || ॐ ऐṁ ह्रीं क्लीं नमः मणिबन्धयोः || ॐ ऐं ह्रीं क्लीं नमः कूर्परयोः || ॐ ए ह्रीं क्लीं नमः हृदयायनमः || ॐ ऐं ह्रीं क्लीं नमः शिरसे स्वाहा || ॐ ऐं ह्रीं क्लीं नमः शिखायै वषट् || ॐ ऐं ह्रीं क्लीं नमः कवचायहुं || ॐ ऐं ह्रीं क्लीं नमः नेत्रत्रयाय वौषट् || ॐ ऐं ह्रीं क्लीं नमः अस्त्रायफ्यट् || इति द्वितीयः सारस्वत न्यासः || अथ तृतीय मातृका गण न्यासः || तृतीयेऽस्मिन्कृते न्यासे त्रैलोक्यविजयी भवेत् ||
173 SK ॐ ह्रीं ब्राह्मी पूर्वस्यां मां पातु || ॐ ह्रीं माहेश्वरी आग्नेय्यां मां पातु || ॐ ह्रीं कौमारी दक्षिणस्यां मां पातु || ॐ ह्रीं वैष्णवी नैर्-ऋत्याम् मां पातु || ॐ ह्रीं वाराही पश्चिमायाम् मां पातु || ॐ ह्रीं इन्द्राणी वायव्याम् मां पातु || ॐ ह्रीं चामुण्डा उत्तरस्यां मां पातु || ॐ ह्रीं महालक्ष्मी ईशान्याम् मां पातु || ॐ ह्रीं व्योमेश्वरी ऊर्ध्वे मां पातु || ॐ ह्रीं सप्तद्वीपेश्वरी भूमौ मां पातु || ॐ ह्रीं कामेश्वरी पाताले मां पातु || इति तृतीय न्यासः || प्. २०६) अथ चतुर्थः षड्देवी न्यासः || तुर्यं न्यासं नरः कुर्याज्जरा मृत्युं व्यपोहति | ॐ कमलाङ्कुशमण्डिता तन्दजा पूर्वाङ्गं मे पातु || ॐ खड्गपात्र धरा रक्तदन्तिका दक्षिणाङ्गं मे पातु || ॐ पुष्पपल्लव संयुताशाकम्भरी पृष्ठांगं मे पातु || ॐ धनुर्बाणकरा दुर्गार्तिहारिणी दुर्गा वामांगं मे पातु || ॐ शिरः पात्रकरा भीमा मस्तकाच्चरणान्तं मे पातु || चित्रकान्ति भृद्भ्रामरी चरणाभ्यां शिरः पर्यन्तं मे पातु || इति चतुर्थ न्यासः || अथ ब्रह्माख्य नामक पञ्चम न्यासः || कृतेस्मिन्पञ्चमे न्यासे सर्वान्कामानवाप्नुयात् || ॐ ब्रह्मा सनातनः पादादि नाभि पर्यन्तं मां पातु || ॐ जनार्दनः नाभेर्विशुद्धि पर्यन्तं नित्यं मां पातु || ॐ रुद्रस्त्रिलोचनः विशुद्धेब्रह्मरंध्रान्तं मां पातु || ॐ हं सः पादद्वयं मे पातु || ॐ वैनतेयः कर द्वयं मे पातु || ॐ वृषभश्चक्षुषा मे पातु || ॐ गजाननः सर्वाङ्गानि मे पातु || ॐ सर्वानन्दमयो हरिः परापरौ देह भागौ मे पातु || इति पञ्चमो ब्रह्मादि न्यासः || प्. २०७) अथ महालक्ष्म्यादि षष्ठन्यासः || ॐ अष्टादशभुजायुक्तमहालक्ष्मीर्मध्ये मे पातु || ॐ अष्टभुजायुक्त महासरस्वती ऊर्ध्वं मे पातु || ॐ दशभुजा मण्डिता महाकाली अधः मे पातु || ॐ सिंहाहस्तद्वयंमेपातु || ॐ परहंसोक्षियुग्मम् मे पातु || ॐ दिव्यमहिषारूढोयमः पदद्वयंमेपातु || ॐ महेशश्चण्डिकासहितः सर्वाङ्गानिमेपातु || इतिषष्ठन्यासः || अथ सप्तम बीजमन्त्र न्यासः ||
174 SK विन्यसेत् सप्तमेन्यासे कृते रोगक्षयो भवेत् || ॐ ऐं नमः शिखायाम् || ॐ ह्रीं नमो दक्षनेत्रे || ॐ क्लीं नमो वामनेत्रे || ॐ चां नमो दक्षकर्णे || ॐ मुं नमो वामकर्णे || ॐ डां नमो दक्षनासापुटे || ॐ यैं नमो वाम नासापुटे || ॐ विं नमो मुखे || ॐ च्चें नमो गुदे || इति बीजन्यासः सप्तमः || अथाष्टम विलोम बीजन्यासः || कृतेस्मिन्नष्टमे न्यासे सर्व दुःखं विनश्यति || ॐच्चें नमो गुदे || ॐ विं नमो मुखे || ॐ यैं नमो वाम नासापुटे || ॐ डां नमो दक्षनासापुटे || प्. २०८) ॐ मुं नमो वाम कर्णे || ॐ चां नमो दक्ष कर्णे || ॐ क्लीं नमो वाम नेत्रे || ॐ ह्रीं नमो दक्ष नेत्रे || ॐ ऐं नमः शिखायाम् || इति अष्टमः न्यासः || कुर्वीत नवमं न्यासं मन्त्र व्याप्ति स्वरूपकम् || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः मस्तकाच्चरणपर्यन्तं पूर्वाङ्गे || ॐ मूलं ९ नमः मस्तकाच्चरणावधि दक्षिणाङ्गे || ॐ मूलं ९ नमः मस्तकाच्चरणावधि पृष्ठे || ॐ मूलं ९ नमः मस्तकाच्चरणावधि वामाङ्गे || ॐ मूलं ९ नमः मस्तकात्पादान्तम् || ॐ मूलं ९ नमः पादादि शिरोन्तम् इति नवमोन्यासः || अथ दशम षडङ्ग न्यासः कृतेस्मिन्दशमे न्यासे त्रैलोक्यं वशगं भवेत् || ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे नमः हृदयाय नमः || ॐ मूलं ९ नमः शिरसे स्वाहा || ॐ मूलं ९ नमः शिखायैवषट् || ॐ मूलं ९ नमः कवचाय हुम् || ॐ मूलं ९ नमः नेत्रत्रयाय वौषट् || ॐ मूलं ९ नमः अस्त्राय फट् || दशमषडंग न्यासः || प्. २०९) अथ एकादशन्यासः || ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा | शंखिनी चापिनी बाण भुशुण्डी परिघायुधा || १ || सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी | परापराणां परमात्वमेव परमेश्वरी || २ || यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके | तस्य सर्वस्य या शक्तिः सात्वं किं स्तूयसे मया || ३ || यया त्वयाजगत्स्रष्टा जगत्पातात्तियो जगत् | सोपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः || ४ ||
175 SK विष्णुः शरीर ग्रहणमहमीशान एव च | कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् || ५ || आद्यं ऐं बीजं कृष्णतरंध्यात्वा सर्वांगे विन्यसामि || ॐ शूलेनपाहिनोदेवि पाहि खड्गेन चाम्बिके | घंटा स्वनेन नः पाहि चापज्यानिः स्वनेन च || १ || प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे | भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ! || २ || सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्तिते | यानिचात्यर्थ घोराणितैरक्षास्मांस्तथा भुवम् || ३ || खड्ग शूल गदादीनि यानि चास्त्राणि तेम्बिके | करपल्लव संगीनि तैरस्मान्रक्षसर्वतः || ४ || प्. २१०) द्वितीयं ह्रीं बीजं सूर्य सदृशं ध्यात्वा सर्व (पृष्ठ) तोन्यसेत् || ॐ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते | भयेभ्यस्त्राहिनो देवि दुर्गे ! देवि नमोस्तुते || १ || एतत्ते वदनं सौम्यं लोचनत्रय भूषितम् | पातुनः सर्व भूतेभ्यः कात्यायनि ! नमोस्तुते || २ || ज्वालाकरालमत्युग्रमशेषासुरसूदनम् | त्रिशूलंपातुतोभीतेर्भद्रकाली नमोस्तुते || ३ || हिनस्तिदैत्यतेजांसि स्वनेनापूर्ययाजगत् | सा घण्टा पातुनो देवि ! पापेभ्यो नःसुतानिव || ४ || असुरासृग्वसा पंकचर्चितस्ते करोज्वलः | शुभाय खड्गो भवतु चण्डिके ! त्वां नतावयम् || ५ || तृतीयं क्लीं बीजं स्फटिकाभं ध्यातासर्वांगे विन्यसेत् || मूलषडंगन्यासः ॐ ऐं अंगुष्ठाभ्यां (हृदयाय) नमः || ॐ ह्रीं तर्जनीभ्यां नमः (शिरसे स्वाहा) || ॐ क्लीं मध्यमाभ्यां नमः (शिखायैवषट्) || ॐ चामुण्डायै अनामिकाभ्यां नमः (कवचायभुं) || ॐ विच्चे कनिष्ठकाभ्यां नमः (नेत्राभ्यांवौषट्) || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे करतलपृष्ठाभ्यां नमः (अस्त्रायफट्) || एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् || प्. २११) अथाक्षर न्यासः तन्त्रान्तरे
176 SK ॐ ऐं नमः शिरसि || ॐ ह्रीं नमः नेत्रयोः || ॐ क्लीं नमः ललाटे || चां नमः भ्रुवोः || ॐ मुं नमः कर्णयोः || ॐ डां नमः गण्डयोः || ॐ यैं नमः मुखे (वदने) || ॐ विं नमः दन्तपंक्त्योः || ॐ च्चें नमः जिह्वायां || ॐ ऐं नमः स्कन्धयोः || ॐ ह्रीं नमः कण्ठे || ॐ क्लीं नमः भुजयोः || ॐ चां नमः हृदि || ॐ मुं नमः पार्श्वयोः || ॐ डां नमः पृष्ठे || ॐ यैं नमः नाभौ || ॐ विं नमः लिंगे || ॐ च्चें नमः कट्योः || मू० ॐ ९ नमः गुह्ये || मू० ॐ ९ नमः करयोः || मू० ॐ ९ नमः पादयोः || मू० ॐ नमः सर्वांगे || अथ दिङ्न्यासः ॐ ऐं प्राच्यै नमः || ॐ ऐं आग्नेय्यै नमः || ॐ ह्रीं दक्षिणायै नमः || ॐ ह्रीं नैर्-ऋत्यै नमः || ॐ क्लीं प्रतीच्यै नमः || ॐ क्लीं वायव्यै नमः || ॐ चामुण्डायै उदीच्यै नमः || ॐ विच्चे ईशान्ये नमः || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नमः || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे भूम्यै नमः || मानसोपचारैः संपूज्य || प्. २१२) अथ ध्यानम् || शंखं चक्रं गदां वाणान्पाशं परिघ शूलके | भुशुण्डीं च शिरः खड्गं दधतीं दशवक्त्रकाम् || १ || तामसीं सिद्धिदांनौमि महाकालीं दशांघ्रिकाम् | मालां च परशुं वाणान् गदां कुलिश मेवच || २ || पद्मं धनुः कुण्डिकां च दंडं शक्तिमसिं तथा | खेटकं जलजं घंटां सुरापात्रं च शूलकम् || ३ || पाशं सुदर्शनं चैव दधतीं लोहित प्रभाम् | पद्मस्थितांमहालक्ष्मीं भजे महिषमर्दिनीम् || ४ || घण्टां शूलं हलं शंखं मुसलासि धनुः शरान् | दधतीमुज्वलां नौमिदेवीं गौरी समुद्भवाम् || ५ || इति ध्यात्वा मालां संपूज्य प्रार्थयेत् || ॐ मां माले महामाये सर्वशक्ति स्वरूपिणि ! चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मां सिद्धिदा भव || इति आलां प्रार्थ्य ||
177 SK ह्रीं सिद्ध्यै नम इति मालांनत्वा [गतेतु प्रथमेययामे तृतीयप्रहरावधि || निशायांचप्रजप्तव्यं रात्रिशेषे जपेन्नहि || प्रकटे शक्ति मंत्रे च हानिः स्यादुत्तरोत्तरम् ||] ऐं ह्रीं क्लीं चामुण्डायै विच्चे || १०८ || नवार्णमन्त्रं जप्त्वाषडंगन्यासंकृत्वा रात्रि सूक्तं पठेत् || तन्त्रान्तरोक्त अक्षमाला करण प्रकारः || समानेनाक्षसूत्रस्य विधानम्भिधीयते | यथा लाभं यथा बुद्धि अक्षाण्यानीय यत्नतः || प्. २१३) अन्योन्य समरूपाणि नाति स्थूलकृशानि च | जन्तुभिर्न विशीर्णानि न जीर्णानि नवानि च || गव्यैस्तु पञ्चभिस्तानि सम्प्रक्षाल्य पृथक् २ | अश्वत्थपत्रनवकैः पद्माकारेणकल्पयेत् || सूत्रंमणींश्च गन्धाद्भिः क्षालितांस्तत्र निक्षिपेत् | तारंशक्तिं मातृकां च सूत्रे चैवमणिष्वथ || विन्यस्य पूजयेदाज्यैर्जुहुयाच्चैव शक्तितः | मणिमेककमादाय सूत्रे तत्र तु योजयेत् || एवं कृताक्षमालायां जपेन्मातृकया ततः | गुरुं सम्पूज्य तद्धस्तात् गृह्णीयात्सर्व सिद्धये || शिवागमेतु || गोपुच्छ सदृशी कार्या एकास्त्रा वा समेरुका | प्रोतव्या सितवर्णाद्यस्तत्तत्कर्मप्रसिद्धये ||
178 SK जपमालांविधायिवंततःसंस्कारमारभेत् | क्षालयेत्पञ्चगव्यैस्तां सद्यो [ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः | भवे भवेनाति भवे भवस्व मांभवोद्भवाय नमः ||] जातेन तज्जलैः || चन्दनागरुगन्धाद्यैर्वाम [ॐ वामदेवाय नमः ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कल विकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूत दमनाय नमो मनोन्मनाय नमः ||] देवेनघर्षयेत् || धूपयेत्तामघोरेण [ॐ अघोरेभ्योथघोरेभ्यो घोर घोरतरेभ्यः सर्वेभ्यः सर्व शर्वेभ्यो नमस्तेऽ अस्तु रुद्रेभ्यः ||] लिंपेत्तत्पुरुषेण ॐ तत्पुरुषायविद्महे महादेवाय धीमहि || तन्नो रुद्रः प्रचोदयात् ||] तु || मन्त्रयेत्पञ्चमे [ॐ ईशानः सर्व विद्यानामीश्वरः सर्वभूतानाम् || ] नैव प्रत्येकं तु शतंशतम् || मेरुञ्च पञ्चमेनैव तथा मन्त्रेण मन्त्रयेत् || ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवो मे अस्तु सदा शिवोम् || ॐ ह्रीं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ॐ औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं लं क्षं नव अश्वत्थपत्रस्थापित मालां संविन्यस्य देवता प्राणप्रतिष्ठाकुर्यात् || माला प्रार्थना || ॐ मां माले महामाये सर्वशक्ति स्वरूपिणी | चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदा भव || प्. २१४) ॐ अविघ्नं कुरु माले त्वं गृह्णामिदक्षिणे करे | जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये || ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थ साधिनि साधय २ सर्वसिद्धिं परिकल्पय २ मे स्वाहा || इतिप्रार्थ्य || ऐं ह्रीं अक्षमालिकायै नमः || इति मंत्रेणमालांपूजयेत् || विसर्जनम् || ॐ त्वं माले सर्व देवानां प्रीतिदा शुभदा भव | शिवं कुरुष्व मे भद्रे यशोवीर्यं च सर्वदा || इति मालां शिरसि निधाय प्राणानायम्य न्यासं कृत्वा विसर्जयेत् || मालायां जप प्रकारः शैवागमे ||
179 SK मध्यमायां न्यसेन्मालां ज्येष्ठेनावर्तयेत्क्रमात् | भुक्ति मुक्ति प्रदासेयं मातृकागणनक्रमः || अंगुष्ठानामिकाभ्यान्तु कुर्यादुत्तम कर्मणि | तर्जन्यंगुष्ठ योगाद्धि विद्वेषोच्चाटने जपः || कनिष्ठाङ्गुष्ठकाभ्यांतु जपेन्मारण कर्मणि | जपान्यकाले तां मालां पूजयित्वा च गोपयेत् || जीर्णे सूत्रेपुनः सूत्रं ग्रंथयित्वा शतंजपेत् | जपेन्निषिद्धसंस्पर्शे क्षालयित्वा यथोचितम् || कासे क्षते च जृम्भायामेकमावर्तकं त्यजेत् | प्रमादात्तर्जनी स्पर्शो भवेदावर्तकं त्यजेत् || यदासंत्रुट्यते मालाग्रन्थयित्वाथ पूर्ववत् | प्रतिष्ठितायां तस्यां तु मन्त्रं जप्यादनन्यधीः || एवं प्रतिष्ठितायां तु अन्येनैवजपेन्मनुम् | अन्यत्रापि || येन प्रतिष्ठिता माला तमेवतु मौञ्जपेत् | अन्य मन्त्रज वा विद्धानकार्याकर्हिचिद्बुधैः || तर्जन्या न स्पृसेत्सूत्रं कम्पयेन्नो विधुनयेत् | नस्पृशेद्वामहस्तेन करभ्रष्टांनकारयेत् || अक्षाणां चालनेङ्गुष्ठ नान्यमक्षं न संस्पृशेत् | जपकाले सदा विद्वान् मेरुंनैव विलंघयेत् || परिवर्तन काले च शङ्घट्टं नैवकारयेत् | एवं सर्व परिज्ञाय मालायां जपमारभेत् || नित्यं जप करे कुर्यान्नतु काम्यं कदाचन | काम्यमपि करे कुर्यान्मालाभावे च सुन्दरि ! || अथ शक्ति करमाला यामले || अनामायास्त्रयं पर्व कनिष्ठायास्त्रिपर्विका | मध्यमायास्त्रर्यं पर्व तर्जनी मूलपर्वणि || प्रादक्षिण्य क्रमेणैव जपेद्दशसुपर्वसु | शक्तिमाला समाख्याता सर्वमन्त्र प्रदीपिका || पर्वद्वयं तु तर्जन्या मेरुं तद्विद्धि पार्वति ! | तर्जन्यग्रे तथा मध्ये यो जपेत्तत्र मानवः || चत्वारितस्य नश्यन्ति आयुर्विद्यायशोबलम् || प्. २१५) नाक्षतर्हस्तपर्वैर्वा न धान्यैर्न च पुष्पकैः | न चन्दनैर्मृत्तिकया जपसंख्यां न कारयेत् || लाक्षां कुसीदं (लालचन्दन) सिन्दूरं गोमयञ्च करीषकम् | विलोड्य तुटिकां कृत्वा जप संख्यान्तु कारयेत् || शाक्तानन्द तरंगिण्या ९ उल्लासे ||
180 SK मणिमध्ये नागपाशं ब्रह्मग्रन्थि मथार्पयेत् | हुṁ मन्त्रेण ततोमेरुं प्रणवेन च बन्धयेत् || अन्यत्रापि जप प्रकारः || अंगुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलंघने | अक्षमालां गुरोर्लब्धां तद्भावे स्वनिर्मितान् || गोपयेत्सर्वकर्मान्तं यदीच्छेत्सिद्धिं मुत्तमाम् | स्वमन्त्रमक्षसूत्रं च सुरोरपिनदर्शयेत् || जपकालेचगोप्तव्यमक्षसूत्रं च षण्मुख ! | परदृष्टिगतं सूत्रं सर्वथानिष्फलं भवेत् || तस्मात्सर्व प्रयत्नेन गोपनीयं सदा बुधैः | असंख्यातेन (तं च) यज्जप्तं यज्जप्तं निष्फलं भवेत् || अन्यत्र विशेषः || मन्त्रतन्त्रप्रकाशे || अंगुलिभिरंगुलिपर्वभिरपि जप उक्तः || अंगुलि जप संख्याप्तं फलमेकगुणं स्मृतम् | रेखास्वष्टगुणं विद्यादक्षैश्चशतसंगुणम् || गणनाविधिमुल्लंघ्य यो जपेत्तं जपंयतः || गृह्णन्ति राक्षसानूनं गणयेत्सर्वथा बुधः || मुण्डमाला तन्त्रे || मुखे मुखन्तु संयोज्य पुच्छे पुच्छं तु योजयेत् | तत्स्वजातीयमेकाक्षं मेरुत्वेनाग्रतोन्यसेत् || सार्द्धद्वया वर्तनेन ग्रन्थिं कुर्यादधो दृढं | ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा || गो पुच्छ सदृशी कुर्यादथ सर्पाकृतिर्भवेत् | ग्रन्थिहीनं न कर्तव्यं मेरुपृष्ठेन दूष्यति || अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः | सर्वतद्विफलं विद्यात्क्रुद्धा भवति चंडिका || न धारयेत्करे कण्ठे मूर्ध्नि च जपमालिकाम् | भूत शुद्धौ || अथ जप विधिः || यस्य यस्य च मन्त्रस्य उद्दिष्टो याच देवता | चिन्तयित्वा तदाकारं मनसा जपमाचरेत् || शनैः शनैरविस्पष्टं न द्रुतं न विलम्बितम् | क्रमेणोच्चारयेद्वर्णानाद्यन्त क्रम योगतः || अति ह्रस्वो व्याधि हेतुरति दीर्घो वसु क्षयः | अक्षराक्षर संयुक्तं जपेन्मौक्तिक हारवत् || कुलार्णवे || तन्निष्ठस्तद् गत प्राणस्तच्चिन्तस्तत्परायणः | तपदार्थानुसन्धानं कुर्वन्मन्त्र जपेत्प्रिये ! || प्. २१६) अथ रात्रिसूक्तम् ||
181 SK ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् | निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १ || ब्रह्मोवाच || त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका | सुद्धात्वमक्षरे नित्ये त्रिधामत्रात्मिका स्थिता || २ || अर्ध मात्रास्थितानित्यायानुच्चार्या विशेषतः | त्वमेव सा त्वं सावित्री त्वं देविजननी परा || ३ || त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् | त्वयैतत्पाल्यते देवि त्वमत्स्यन्तेचसर्वदा || ४ || विसृष्टौ सृष्टिरूपात्वं स्थितिरूपाचपालने | तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये || ५ || महाविद्या महामाया महामेधा महास्मृतिः | आसनानि तन्त्रे || कौशेयं वाथ चैलं वा चार्म तौलमथापि वा | वेत्रजं तालपत्रं वा काम्बलं दार्भमासनम् || वंशाश्म दारु धरणी तृण पल्लवनिर्मितम् | वर्जयेदासनं मन्त्री दारिद्र्य व्याधिदुःखदम् || धर्मार्थ काम मोक्षाप्तेश्चैलाजिन कुशोत्तरम् | यतीनामासनं श्लक्ष्णं कूर्माकारं तु कारयेत् || अन्येषां तु चतुः पादं चतुरस्रंतु कारयेत् | गोशकृन्मृण्मयंभिन्नं तथा पालाश पिप्पलम् || लौहविद्धं सदैवार्कं वर्जयेदासनं बुधः | स्वस्तिक पद्म वीरादिष्वेकासन समास्थितः || जपार्चनादिकं कुर्यादन्यथानिष्पहलं भवेत् | दानमाचमनं होमं भोजनं देवतार्चनम् || प्रौढपादो नकुर्वीत स्वाध्यायं चैव तर्पणम् | प्रौढपाद लक्षणम् || आसनारूढ पादस्तु जानुनोर्वाथजंघयोः कृतावसिक्थ को यस्तु प्रौढ पादःऽस उच्यते || प्. २१७) महामोहा च भवती महादेवी महासुरी || ६ || प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी | कालरात्रिर्महारात्रिर्मोहरात्रिश्चदारुणा || ७ || श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वंबुद्धिर्बोधलक्षणा | लज्जापुष्टिस्तथा तुष्टिस्त्वंशान्तिः क्षान्तिरेव च || ८ || खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा | शंखिनी चापिनी बाण भुशुण्डीपरिघायुधा || ९ || सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी | परापराणां परमात्वमेव परमेश्वरी || १० ||
182 SK यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके | तस्य सर्वस्व या शक्तिः सा त्वं किं स्तूयसे तदा || ११ || यया त्वया जगत्स्रष्टा जगत्पात्य (ता) त्ति यो जगत् | सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः || १२ || विष्णुः शरीर ग्रहण्महमीशान एव च | कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् || १३ || सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता | मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ || १४ || प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु | बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ || १५ || इति रात्रिसूक्तम् || ॐ अस्य श्री (एतेषां) प्रथममध्यमोत्तमच्रित्राणां प्. २१८) ब्रह्मविष्णुमहेश्वरा ऋषयः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः गायत्र्युष्णिगनुष्टुप्छन्दांसि नन्दाशाकम्भरीभीमाः शक्तयः रक्तदन्तिकादुर्गाभ्रामर्यो बीजानि अग्निर्वायुस्सूर्यास्तत्वानि ऋग्यजु सामवेदाः ध्यानानि मम (यजमानस्य) सकल कामनासिद्धये श्रीमहाकालीमहालक्ष्मीमहासरस्वती देवीनाम्प्रीत्यर्थे पाठे (हवने) विनियोगः || तत्रादौ न्यासः || ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शंखिनी चापिनी बाण भुशुण्डी परिघायुधा || अंगुष्ठाभ्यां नमः || (हृदयाय नमः) || ॐ शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके || घण्टास्वनेन नः पाहि चापज्या निःस्वनेन च || तर्जनीभ्यां नमः || (शिरसे स्वाहा) || ॐ प्राच्या रक्षप्रतीच्यां च चण्डिके रक्षदक्षिणे || भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि || मध्यमाभ्यां नमः || (शिखायैवषट्) || ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते || यानि चात्यन्त घोराणि तै रक्षास्मांस्तथाभुवम् || अनामिकाभ्यां नमः || (कवचायहुम्) || ॐ खड्गशूल गदादीनि यानि चास्त्राणि तेम्बिके || करपल्लव संगीनि तैरस्मान्रक्षसर्वतः || कनिष्ठकाभ्यां नमः || (नेत्रत्रयायवौषट्) || प्. २१९) ॐ सर्वस्वरूपे सर्वेशेसर्वशक्ति समन्विते || भयेभ्यस्त्राहिनो देवि दुर्गेदेवि नमोस्तु ते || करतल करपृष्ठाभ्यां नमः || (अस्त्रायफट्)
183 SK चण्डी पंचाक्षर न्यासः ॐ ह्रीं हृदयायनमः || ॐ चं शिरसे स्वाहा || ॐ ड्ॐ शिखायै वषट् || ॐ कां कवचायहुम् || ॐ यैं नेत्र त्रयाय वौषट् || ॐ ह्रीं चण्डिकायै अस्त्रायफट् || अथ चक्रन्यासः || ॐ शम्भुतेजो ज्वल ज्वाला मालिनि पावके ह्रां नन्दायै अंगुष्ठाभ्यां नमः (हृदयायनमः) || ॐ शम्भुतेजो ज्वल ज्वालामालिनी पावके ह्रीं रक्तदन्तिकायै तर्जनीभ्यां नमः (शिरसेस्वाहा) || ॐ शम्भुतेजो ज्वल ज्वाला मालिनि पावके ह्रूṁ शाकम्भर्यै मध्यमाभ्यां नमः (शिखायैवषट्) || ॐ शम्भुतेजो ज्वल ज्वालामालिनी पावके ह्रैं दुर्गायै अनामिकाभ्यां नमः (कवचायहुम्) || ॐ शम्भुतेजो ज्वल ज्वाला मालिनि पावके ह्रौ भीमायै कनिष्ठकाभ्यां नमः (नेत्रत्रयायवौषट्) || ॐ शम्भुतेजो ज्वलज्वाला मालिनी पावके ह्रः भ्रामर्यै करतल कर पृष्ठाभ्यां नमः || (अस्त्रायफट्) एवं हृदयादि || प्. २२०) अथ ध्यानम् ||
184 SK [पाठान्तरम् शारदायां २१ पटले ४१ || हेमाचल तटे रम्ये कल्पवृक्षोपशोभिते || दिव्योद्यानं चिन्तयेच्च विंशालं हेमभूतलम् || कृशानुरूपवप्रेण करालेन समावृतम् || तन्मध्ये चिन्तयेद्दिव्यं विचित्रमणि मण्डपम् || तस्मिन्सिंहासनेम्भोज कर्णिकायां विचिन्तयेत् || दंष्ट्राकरालादृह्रासं कृष्ण वर्णं भयानकम् || अतितीव्रमुखं सिंहं ज्वलदग्निशिखोपमम् || तस्यो परिष्टात्तां देवीं कोटिवालार्क सन्निभाम् || चक्रासिवाणशूलाख्यान् दधतीन्दक्षिणैर्भुजैः || शंखचक्रधनुर्वाण तर्जनीर्वाम बाहुभिः || चन्द्रखण्डसमायुक्तामतिभीमत्रिलोचनाम् || ऊर्ध्वं ज्वलत्केशपाशामशेषाहरणोन्मुखीम् || अङ्गाद्यावृत्ति संयुक्तामस्त्रशस्त्रपरीवृताम् || इन्द्रादि लोक पालैश्च सेवितां विन्ध्यवासिनीम् || ग्रीवायां मधुसूदनोस्य शिरसि श्री नीलकंठः स्थितः || श्री देवी गिरिजा ललाट फलके वक्षःस्थले शारदा || षड्वक्त्रो मणिबन्ध सन्धिषु तथा नागास्तु पार्श्वस्थिताः || कर्णोयस्य तु चाश्चिनौ स भगवान्सिंहो ममास्त्विष्टदः || १ || यन्नेत्रे शशि भास्करौ वसु कुलं दन्तेषु यस्यस्थितं | जिह्वायां वरुणस्य हुṁकृतिरिमं श्री चर्चिका चण्डिका || गण्डौ यक्ष यमौ तथोष्ठ युगुलं संध्याद्वयं पृष्ठके || वज्रोयस्य विराजते सभगवासिंहोममास्त्विष्टदः || २ || ग्रीवा संधिषु सप्तविंशति भितान्यृक्षाणि साध्या हृदि || प्रौढानिर्घृणता तमोस्य तु महा क्रौर्येः समापूतनाः || प्राणेयस्य तु मातरः पितृ कुलं यस्यारत्य पानात्मकं || रूपे श्रीकमला कचेषु विमलास्तेस्यूरवे रश्मयः || ३ || मेरुः स्याद्वृषणेब्धयस्तु जनने स्वेदस्थिता निम्नगा || लाङ्गुले सहदैवतैर्विलसिता वेदावलं वीर्यकम् || श्री विष्णोःसकला सुरा अपि यथास्थानं स्थिता यस्यतु || श्री सिंहोऽखिल देवता मयवपुर्देवी प्रियः पातुमाम् || ४ || यो वालग्रह पूतनादिमयहृद्यः पुत्र लक्ष्मी प्रदो यः स्वप्नज्वर रोग राजभयहृद्योऽमंगलेमंगलः || सर्वत्रोत्तम वर्णनेषु कविभिर्यस्योपमादीयते || देव्यावाहनमेषरोगभय
185 SK हृत्सिंहोममास्त्विष्टदः || ५ || इति देवी पुराणोक्त देवी वाहन सिंह ध्यानम् ||] विद्युद्दामंसमप्रभांमृगपति स्कन्धस्थितांभीषणाम् || कन्याभिः करवाल खेट विलसद्धस्ताभिरासेविताम् || हस्तैश्चक्रगदासिखेट विशिखांश्चापं गुणं तर्जनीम् || बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे || १ || इतिध्यात्वामानसोपचारैः सम्पूज्य गुरुदेवतात्मैक्यं विभाव्य पाठं (जपं) कुर्यात् || १. अथ वक्ष्यमाण काम्यप्रयोगोपयोगी संपुट व्यवस्था | यथा पार्वति प्रश्नः || देव्युवाच || संपुटं कतिधा स्वामिन् वेत्तुमिच्छामि तत्वतः | कथयस्वसुरेशान ! यद्यहं तव वल्लभा || १ || ईश्वरोवाच || संपुटं द्विविधं ज्ञेयमुदयास्तकरं प्रिये ! | श्र्णूदयं त्वमत्रादौपश्चादस्तं वदामिते || २ || मंत्रमादौपुनः श्लोकमंतेमंत्रं पुनः पठेत् | पुनर्मंत्रंपुनः श्लोकं क्रमोऽयमुदये शुभः || ३ || उदयोत्कर्ष लाभाय संपुटोयमुदाहृतः | अत्र सर्वत्र श्लोकमंत्रोपलक्षकमिति || अस्तं चिकित्सा शास्त्रेषु शरावाभ्यां कृतं भवेत् || तत्तेहं प्रवदाम्यत्र एकाग्रकृतमानसः || ४ || मंत्रमादौ पुनः श्लोकमंते मंत्र विपर्ययं | मारणोच्चाटनेबंधेसंपुटोयमुदाहृतः || प्रकारोयमनादृत्य कुर्वन्त्यात्म प्रकल्पितं | रौरवादिषु पच्यन्ते यावदाभूतसंप्लवः || इति मरीचिकल्पे || प्. २२१) प्रथम अध्यायः ॐ अत्राद्य वर्तमान काले चंडीशप्तशती आद्य चरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्रीछन्दः चण्डी पाठः षष्ठ संवादः मेधाश्च कथयामास सुरथाय समाधये | सा कथा कथिता पश्चान्मार्कणेयेन भागुरोः || भामेरकथयामासुः पक्षिणो जमिनिं प्रति | अनेनैव विधानेन कथाः षड् विधिका मताः || प्. २२२) नन्दजा शक्तिः रक्तदन्तिकाबीजं अग्निस्तत्त्वं ऋग्वेद स्वरूपं श्रीमहाकालीप्रसादात् आत्मनोऽभीष्टफल प्राप्ति हेतवे धर्मार्थ काम मोक्षार्थ्रे प्रथम चरित्र पाठे (हवने) विनियोगः || प्. २२३) अथा माहात्म्य न्यासः ||
186 SK ॐ मधुकैटभ बध माहात्म्याय नमः ब्रह्मरन्ध्रे || ॐ महिषासुर सैन्य बध माहात्म्याय नमः सीमन्ते || ॐ महिषासुर बध माहात्म्याय नमः भ्रुवोर्मध्ये || ॐ शक्रादि माहात्म्याय नमः नेत्रयोः || ॐ देव्या दूत संवाद माहात्म्याय नमः मुखे || ॐ धूम्रलोचन बध माहात्म्याय नमः कर्णयोः || ॐ चण्ड मुण्ड बध माहात्म्याय नमः हृदि || ॐ रक्त बीज बध माहात्म्याय नमः नाभौ || ॐ निशुम्भ बध माहात्म्याय नमः लिङ्गे || ॐ शुम्भ बध माहात्म्याय नमः मूलाधारे || ॐ स्तुति माहात्म्याय नमः जान्वोः || ॐ फल माहात्म्याय नमः गुल्फयोः || ॐ वरदान माहात्म्याय नमः पादयोः || प्. २२४) अनन्तर ह्रीं माया बीजेन सप्त बारं व्यापकं न्यासः || अथ महाकाली ध्यानम् || ॐ भीमां भीमोग्रदंष्ट्राञ्जनगिरि विलसत्तुल्यकान्तिं दशास्यां त्रिंशल्लोलाक्षिमालां दश लुलितभुजां पंक्ति पादांस्तथैव || शूलं वाणं गदां वै धनुरथदधतीं शंख चक्रे भुशुंडीं वन्दे कालीं कराग्रैः परिघमसि युतंतामसीं शीर्षकञ्च || इति ध्यात्वा || प्. २२५) अथ प्रथमाध्याय प्रारम्भः || ॐ नमश्चण्डिकायै || ॐ ऐं मार्कण्डेय उवाच [उदय संपुटस्य लक्षणं || ॐ ऐं ह्रीं क्लीं चामुण्डाय विच्चे ॐ ऐं मार्कण्डेय उवाच ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे सावर्णिः सूर्य तनयो योमनुः कथ्यतेऽष्टमः || निशामय तदुत्पत्तिं विस्ताराद्गदतोमम ऐं ह्रीं क्लीं चामुण्डायै विच्चे अमः || अस्त सम्पुट || हुṁ फट् ॐ ऐं मार्कण्डेय उवाच फट् हुṁ || हुṁ फट् सावर्णिः सूर्यतनयो योमनुः कथ्यतेष्टमः || निशामय तदुत्पत्तिं विस्तराद्गदतो ममफठुम् || ] || १ || सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः | निशामय तदुत्पत्तिं विस्तराद्गदतोमम || २ || महामायानुभावेन यथा मन्वन्तराधिपः | प्. २२६) स भभूव महाभागः सावर्णिस्तनयो रवेः || ३ ||
187 SK स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः | सुरथो नाम राजा भूत्समस्ते क्षितिमण्डले || ४ || तस्य पालयतः सम्य्क् प्रजाः पुत्रानिवौरसान् | बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा || ५ || तस्य तैरभवद्युद्धमंतिप्रबलदण्डिनः | प्. २२७) न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः || ६ || ततः स्वपुरमायातो निजदेशाधिपोऽभवत् | आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः || ७ || अमात्यैर्वलिभिदुष्टैर्दुर्बलस्य दुरात्मभिः | कोशा बलं चापहृतं तत्रापि स्वपुरे ततः || ८ || ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः | एकाकी हयमारुह्य जगाम गहनं वनम् || ९ || स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः | प्. २२८) प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् || १० || तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः | इतश्चतश्च विचरṁस्तस्मिन्मुनिराश्रमे || ११ || सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः | मत्पूर्वैः पालितं पूर्वंमयाहीनं पुरं हि तत् || १२ || मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा | न जाने सप्रधानो मे शूरहस्ती सदामदः || १३ || मम वैरिवशं यातः कान्भोगानुपलप्स्यते | सप्तश्लोकी दुर्गा प्रारंभ्यते || शिव उवाच || देवि त्वं भक्तसुलभे सवकार्यविधायिनि | कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहियत्नतः || देव्युवाच || शृणुदेव ! प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् | प्. २२९) य ममानुगतता नित्यं प्रसादधनभोजनैः || १४ || अनुवृत्तिं ध्रुवंतेऽद्य कुर्वंत्यन्यमहीभृताम् | असम्यग्व्ययशीलैस्तैः कुर्वद्भिःसततं व्ययम् || १५ || सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति | एतच्चान्यच्च सततं चिन्तयामास पार्थिवः || १६ || तत्र विप्राश्रमोभ्यासे वैश्यमेकं ददर्शसः | स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः || १७ || सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे | इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् [प्रणतो पा] || १८ || मयातवैवस्नेहेनाप्यम्बास्तुतिप्रकाश्यते |
188 SK ॐ अस्य श्रीदुर्गा सप्तश्लोकी स्तोत्रमंत्रस्य नारायण ऋषिः अनुष्टुप्छन्दः श्री महाकाली महालक्ष्मी महासरस्वत्यो देवताः दुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गा पाठे विनियोगः || ॐ ज्ञानिनामापि चेतांसि देवि भगवती हि सा | बलादाकृष्यमोहाय महामायाप्रयच्छति || १ || दुर्गेस्मृताहरसि भीतिमशेषजन्तोः स्वस्थः स्मृतामतिमतीव शुभां ददासि | दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणायसदार्द्रचित्ता || २ || प्. २३०) प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् || १९ || वैश्य उवाच || २० || समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले || २१ || पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः | विहीनश्च धनैर्दारैः ;विहीनःस्वजनैर्दारैः पा०] पुत्रैरादाय मे धनम् || २२ || वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः | सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् || २३ || प्रवृत्तिं स्वजनानांच दाराणां चात्र संस्थितः | सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके | शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते || ३ || शरणागतदीनार्त परित्राणपरायणे | सर्वस्यार्तिहरे देवि नारायणि नमोस्तुते || ४ || सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते | भयेभ्यस्त्राहिनो देवि दुर्गेदेवि नमोस्तु ते || ५ || रोगानशेषानपहंसितुष्टा रुष्टा तु कामान्सकलानभीष्टान् | प्. २३१) किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् || २४ || कथं ते किं नु सद्वृत्तः दुर्वृत्ताः किं नु मे सुताः || २५ || राजोवाच || २६ || यैर्निरस्तो भवाṁल्लुब्धैः पुत्रदारादिभिर्धनैः || २७ || तेषु किं भवतः स्नेह मनुबध्नाति मानसम् || २८ || वैश्य उवाच || २९ || एवमेतद्यथा प्राह भवानस्मद्गतं वचः || ३० || किं करोमि न बध्नाति मम निष्ठुरतां मनः | यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः || ३१ || त्वामाश्रितानां न विपन्नराणां त्वामाश्रिताह्याश्रयतां प्रयान्ति || ६ || सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ! | एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् || ७ ||
189 SK एतत्परम गुह्यं सर्व रक्षा विशारदम् | देव्या संभाषितं स्तोत्रं सदासाम्राज्यदायकम् || ८ || शृणुया द्वापठे द्वापिपाठयेद्वापियत्नतः परिवार योतोभूत्वा त्रैलोक्य विजयी भवेत् || इति श्री सप्तश्लोकी दुर्गा समाप्ता || अथ चण्डिका दल प्रारम्भः || ॐ नमश्चण्डिकायै || अथातः सम्प्रवक्ष्यामि चण्डिका दल मुत्तमम् | प्. २३२) पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः | किमेतन्नाभिजानामि जाननपि महामते || ३२ || यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु | तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते || ३३ || करोमि किं यन्न मनस्तेष्वप्रीतिषुनिष्ठुरम् || ३४ || मार्कण्डेय उवाच || ३५ || ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ || ३६ || मन्त्रं विना तु जप्त्वा वैतत्सर्वं निष्फलं भवेत् || १ || ॐ नमो भगवति जय जय चामुण्डे चण्डि चण्डेश्वरि चण्डायुधे || चण्डरूपधारिणि ताण्डव प्रिये || कुण्डलीभूतदिङ् नागमण्डली कृतगण्डस्थले समस्तजगदण्डसंहार कारिणि परे अनन्तानन्तरूपे | शिवे नरशिरोमालालंकृत वक्षस्थले महाकपाल भालोज्वलन्मणि मुकुट चूडावतंस चन्द्र खण्डे महाभीषणे देवि || महामायेषोडशकलापरिवृतोल्लासितेमहादेवासुरसमरनिहतरुधिरार्द्रीकृत् आलम्बिततनुकमलोद्भासित करे || सम्पूरणरुधिरशोभितमहाकपोलवक्त्रहासिनि दृढतरनिवद्ध्यमान | रोमराजी सहित हेमकाञ्ची दामोज्वलित वसनारुणीभूतनूपुर प्रज्वलित महीमण्डले || महा शम्भुरूपे महाव्याघ्र चर्माम्बरधरे || महासर्प यज्ञोपवीतिनि || महाश्मशान भस्मोद्धूलित सर्वगात्रे || कालि || कंकालि महाकालि कालाग्निरुद्रकालि || प्. २३३) समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः | कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् || ३७ || उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ || ३८ || राजोवाच || ३९ || भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् || ४० || दुःखाय यन्मे मनसः स्वचित्तायत्तत्तां विना |
190 SK काल संकर्षिणि || कालनाशिनि कालरात्रिनमोदुष्टभक्षिणि || नानाभूतप्रेत पिशाचगण सहस्र संचारिणि नाना व्याधि प्रशमनि || सर्व दुष्ट प्रमथिनि सर्व दारिद्र्य नाशिनि धग धगेत्य स्वादित मांसखण्डे | गात्र विक्षेप कल कलायमानकंकालधारिणि मधु मांस रुधिरावसिक्त विलासिनि सकल सुरासुर गन्धर्वं यक्ष विद्याधर किन्नर किम्पुरुषादिभिः स्तूयमान चरिते सर्वमन्त्राधिकारिणि सर्वशक्ति प्रधाने || सकललोक पावनि || सकल दुरित प्रक्षालिनि || सकललोकैजननि || ब्राह्मि || माहेश्वरि || कौमारि ! वैष्णवि | शंखिनि | वाराहि | नारसिंहीन्द्राणि || चामुण्डे महालक्ष्मी स्वरूपे || महाविद्ये || योगेश्वरि योगिनि || चण्डिके || महामाये || विश्वरूपिणि || सर्वाभरणभूषिते || अतल वितल सुतल रसातल तलातल महातल पातालादि भूर्भुवः स्वर्महर्जनस्तपः सत्याख्य चतुर्दशभुवनैकनाथे महाक्रूरे प्रसन्नरूपधारिणि || प्. २३४) ममत्वं गतराज्यस्य [सप्ताङ्ग कामन्दकीये || स्वाम्यमात्यश्च राष्ट्रं च दुर्गंकोषोबलं सुहृत् || परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ||] राज्याङ्गेष्वखिलेष्वपि || ४१ || जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम || अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः || ४२ || स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति | एवमेष तथाहं च द्वावप्यन्तदुःखितौ || ४३ || दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ | तत्केनैतन्महाभाग [तत्किमेतन् दा० पा०] यन्मोहो ज्ञानिनोरपि || ४४ || ममास्य च भवत्येषा विवेकान्धस्य मूढता || ४५ ||
191 SK ॐ नमः पितामहाय || ॐ नमोनारायणाय || ॐ नमः शिवाय || इतिसकललोकैकजायमान || ब्रह्मा विष्णु महेश्वर रूपिणि दण्ड कमंडलु धारिणि || सावित्रि | सर्वमङ्गला सरस्वति पद्मालये | पार्वति सकल जगत्स्वरूपिणि | शंखचक्रगदापद्मधारिणि | परशु शूल पिनाक टंक धारिणि || शर चाप शूल करवाल खड्ग डमरुकांकुश गदा परशु तोमर भिन्दिपाल भुशुण्डी मुद्गर मुसल परिघायुध दोर्दण्ड सहस्रे चन्द्रार्क वह्नि नयने || इन्द्राग्नि यम नैर्-ऋति वरुण वायु सोमेशान प्. २३५) ऋषिरुवाच [आहार निद्राभय मैथुनञ्च सामान्य मेतत्पशुभिर्नराणां || ज्ञानं नराणामधिको विशेष ज्ञानेन हीनापशुभिः समाना ||] || ४६ || ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे || ४७ || विषयश्च महाभाग याति चैवं पृथक् पृथक् | दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे || ४८ || केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः | ज्ञानिनो मनुजाः सत्यं किंनु (तु)ते नहि केवलम् || ४९ || यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः | ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् || ५० || प्रधान शक्ति हेतु भूते सप्तद्वीप समुद्रो पर्युपरि व्याप्ते ईश्वरि महा प्रपक्ष मालालंकृत मेदिनीनाथे महाप्रधाने महाकैलासपर्वतोद्यान वन विहारिणि क्षेत्र नदी तीर्थ देवतायतनालंकृते | वसिष्ठ वामदेवादि महामुनिगण वन्द्यमान चरणारविन्दे || द्विचत्वारिंशद्वर्ण माहात्म्ये || पर्याप्त वेदवेदाङ्गाद्यनेकशास्त्राधारभूते | शब्द ब्रह्ममयि | लिपि देवते | मातृकादेवि चिरं मां रक्ष रक्ष || प्. २३६) मनुष्याणां च यत्तेषां तुल्यमन्यत्तथीभयोः | ज्ञानेऽपि सति पश्यैतान्पतङ्गाञ्छावचञ्चुषु || ५१ || कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा | मानुषा मनुजव्याघ्र साभिलाषाः सुतान्प्रति || ५२ ||
192 SK मम शत्रून्हुṁकारेणनाशाय नाशय | भूत प्रेत पिशाचानुच्चाटयोच्चाटय | समस्त ग्रहान् वशीकुरु वशीकुरु || मोहय मोहय स्तंभय स्तंभय मोदय मोदय उन्मादयोन्मादय विध्वंसय विध्वंसय द्रावय द्रावय श्रावय श्रावय स्तोभय स्तोभय संक्रामय संक्रामय सकलारातीन् मूर्ध्नि स्फोटय स्फोटय ममशत्रून् शीघ्रं मारय मारय जाग्रत्स्वप्नसुषुप्त्यवस्थास्वस्मान् राज चोराग्नि जलवात विषभूत शत्रु मृत्यु ज्वरादि नाना रोगेभ्यो नानाभिचारेभ्यो नानापवादेभ्यः परकर्म मन्त्र तन्त्र यन्तौषध शल्य शून्यक्षुद्रेभ्यः सम्यङ् मां रक्ष रक्ष || ॐ श्र्ॐ ह्रीं क्ष्मौं ममशत्रु सर्व प्राणसंहारकारिणि हुंफट् स्वाहा || इति रुद्रयामलेतंत्रे चण्डिकादलम् || चण्डिका हृदयम् || ॐ अस्य श्री चण्डिका हृदय स्तोत्र मंत्रस्य मार्कण्डेय ऋषिः अनुष्टुप् छन्दः | श्रीचण्डिकादेवता ह्रां बीजं ह्रीं शक्तिः | ह्रूṁ कीलकम् श्रीचंडिका प्रीतयेजपे विनियोगः || ह्रां इत्यादिभिः षडङ्गम् || ध्यानम् || सर्व मंगल मां० || अथातः सम्प्रवक्ष्यामि विस्तरेण यथातथम् | चण्डिका हृदयं गुह्यं शृणुष्वैकाग्र मानसः || ऐं ह्रीं क्लीं ह्रां ह्रीं ह्रूं | जय २ चामुण्डे चण्डि के त्रिदशमणि प्. २३७) लोभात्प्रत्युपकाराय नन्वेते किंनपश्यसि | तथापि ममतावर्ते मोहगर्ते निपातिताः || ५३ || महामायाप्रभावेण संसारस्थिति कारिणः [कारिणा पा०] | तन्नात्रविस्मयः कार्यो योगनिद्राजगत्पतेः || ५४ ||
193 SK मुकुट कोटीर संघट्टित चरणारविन्दे गायत्रि सावित्र सरस्वति महाहिकृताभरणे भैरव रूप धारिणि प्रकटित दṁष्ट्रोग्र वदने घोरे घोरानने ज्वलज्वल ज्वाला सहस्र परिवृते महादृहास बधिरी कृत दिगन्तरे सर्वायुधपरिपूर्णें कपालहस्ते गजाजिनोत्तरीये भूत वेताल वृन्द परिवृते प्रकम्पित चराचरे मधुकैटभ महिषासुर धूम्रलोचन चण्ड मुण्ड रक्तबीज शुम्भनिशुम्भादि दैत्य निष्कण्टके कालरात्रि महामाये शिवेनित्ये इन्द्राग्नि यम निर्-ऋति वरुण वायु सोमेशान प्रधान शक्तिभूते ब्रह्म विष्णु शिवस्तुते त्रिभुवनाधाराधारे वामे ज्येष्ठे वरदे रौद्रि अम्बिके ब्राह्मी महिश्वरी कौमारि वैष्णवी शंखिनी वाराहीन्द्राणी चामुण्डा शिवदूती महाकाली महालक्ष्मी महासरस्वतीस्वरूपे नादमध्यस्थिते महोग्रविषोरग फणाफणि घटित मुकुट कटकादि रत्न महाज्वालामय पाद बाहु कण्ठोत्तमांगे मालाकुले महामहिषोपरिगन्धर्व विद्याधराराधिते नवरत्ननिधि कोशे तत्वस्वरूपे वाक्पाणि पादपायूपस्थात्मिके शब्दस्पर्शरूप रस गन्धादि स्वरूपे त्वक्चक्षु श्रोत्र जिह्वाघ्राणमहाबुद्धिस्थिते ॐ ऐंकार ह्रीं कार क्लीं कार हस्ते आंक्र्ॐ आग्नेयनयन पात्रे प्रवेशय २ द्रांशोषय २ द्रीं सुकुमारय २ प्. २३८) महामाया हरेश्चैतत्तया [श्चैषा पा०] संमोह्यते जगत् | ज्ञानिनामपि चेतांसि देवी भगवती हि सा || ५५ || बलादाकृष्य मोहाय महामाया प्रयच्छति | तया विसृज्यते विश्वं जगदेतच्चराचरम् [त्रैलोक्यं सचराचरम् पा०] || ५६ || सैषा प्रसन्ना वरदा नृणांभवति मुक्तये | स विद्या परम मुक्तेर्हेतुभूता सनातनी || ५७ || संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी || ५८ ||
194 SK श्रींसर्वं प्रवेशय २ | त्रैलोक्यवर वर्णिनि समस्त चित्तं वशीकुरु २ ममशत्रुन् शीघ्रं मारय २ जाग्रत्स्वप्न सुषुप्त्यवस्थास्वस्मान् राजचोराग्नि जल वात विष भूत शत्रु मृत्यु ज्वरादि स्फोटकादिनानारोगेभ्यो नानाभिचारेभ्यो नानापवादेभ्यः परकर्ममन्त्रतन्त्रयन्त्रौषधशल्य शून्य क्षुद्रेभ्यः सम्यङमां रक्ष २ || ॐ ऐं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्फ्रां स्फ्रीं स्फ्रूं स्फ्रें स्फ्रौं स्फ्रः मम सर्व कार्याणि साधय २ हुंफट् स्वाहा || २१ वारं जपेत् || राजद्वारे श्मशाने वा विवादे शत्रु संकटे | भूताग्नि चोर मध्यस्ये मयि कार्याणि साधय स्वाहा || प्. २३९) भगवन् का हि सा देवी महामायेति यां भवाम् || ६० || ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज | यत्स्वभावा [यत्प्रभावा पा० दा०] च सा देवी यत्स्वरूपा यदुद्भवा || ६१ || तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर || ६२ || ऋषिरुवाच || ६३ || नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् || ६४ || तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम | देवानां कार्य सिद्ध्यर्थमाविभवति सा यदा || ६५ || उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते | योगनिद्रां यदा विष्णुर्जगत्ये कार्णवीकृते || ६६ || चण्डिका हृदयं गुह्यं त्रिसंध्यंयः पठेन्नरः | सर्व कामप्रदं पुंसांभुक्तिं मुक्तिं प्रयच्छति || इति हृदयम् || प्. २४०) आस्तीर्यशेषमभजत्कल्पान्तेभगवान्प्रभुः | तदाद्वावसुरौघोरो विख्यातौमधुकैटभौ || ६७ || विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ | स नाभिकमले विष्णोः स्थितो ब्रह्माप्रजापतिः || ६८ || दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् | तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः || ६९ || विबोधनार्थायहरेहरिनेत्रकृतालयाम् | विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् || ७० || निद्रां भगवतीं विष्णोरतुलां तजसः प्रभुः || ७१ || प्. २४१) ब्रह्मोवाच || ७२ || त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका || ७३ ||
195 SK सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता | अर्धमात्रास्थिता [अर्ध मात्रात्मिका पा०] नित्या यानुच्चार्या विशेषतः || ७४ || त्वमेव सात्वं [संध्या दा० पा०] सावित्री त्वं देवि [वेदजननी दा० पा०] जननी परा | त्वयैतर्द्धार्यते विश्वं त्वयैतत्सृज्यते जगत् || ७५ || त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा | विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने || ७६ || तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये | प्. २४२) महाविद्या महामाया महामेधा महास्मृतिः || ७७ || महामोहा च [भगवती पा०] भवती महादेवी महासुरी [महेश्वरी पा०] | प्रकृतिस्त्वं च सर्वस्य गुण त्रय विभाविनी || ७८ || कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा | त्वं श्रीस्त्वमाश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा || ७९ || लज्जापुष्टिस्तथातुष्टिस्त्वं शान्तिः क्षान्तिरेव च | खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा || ८० || शंखिनी चापिनी बाण भुशुण्डीपरिघायुधा | प्. २४३) सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी || ८१ || परापराणां परमा त्वमेव परमेश्वरी | यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके || ८२ || तस्यसर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा | यया त्वया जगत्स्रष्टा जगत्पात्य (ता) त्ति यो जगत् || ८३ || सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः | विष्णुः शरीरग्रहणमहमीशान एवच || ८४ || कारितास्ते यतोऽतस्त्वां कःस्त्रोतुं शक्तिमान् भवेत् | सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता || ८५ || प्. २४४) मोहयैतौ [मोहयन्तौ पा०] दुराधर्षावसुरौ मधुकैटभौ | प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु || ८६ || बोधश्च [भावश्च पा०] क्रियतामस्य हन्तुमेतौ महासुरौ || ८७ || ऋषिरुवाच || ८८ || एवं स्तुता तदा देवी तामसी तत्रवेधसा || ८९ || विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ | नेत्रास्य नासिकाबाहुहृदयेभ्यस्तथोरसः || ९० || निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः | उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः || ९१ ||
196 SK एकार्णवेऽहिशयनात्ततः स ददृशे च तौ | मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ || ९२ || क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ | प्. २४५) समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः || ९३ || पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः | तावप्यतिबलोन्मत्तौ महामायाविमोहितौ || ९४ || उक्तवन्तौ वरोऽस्मतौ व्रियतामिति केशवम् || ९५ || भगवानुवाच || ९६ || भवेतामद्य मे तुष्टौ मम वध्यावुभावपि || ९७ || किमन्येन वरेणात्र एतावद्धि वृतं [व्रतं पा०] मम || ९८ || ऋषिरुवाच || ९९ || वञ्चिताभ्यामिति तदा सर्वमाषोमयं जगत् || १०० || विलोक्य ताभ्यां गदितो भगवान्कमलेक्षणः | आवां जहि न यत्रोर्वी सलिलेन परिपुलुता || १०१ || प्. २४६) ऋषिरुवाच || १०२ || तथेत्युक्त्वा भगवता शंखचक्रगदाभृता | कृत्वा चक्रेण वैच्छिन्ने जघने शिरसि तयोः || १०३ || एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् | प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ऐं ॐ || १०४ || इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधः प्रथमोध्यायः || १ || उवाच १४ अर्ध २४ श्लोक ६६ || एवं १०४ || इति शब्दो हरेल्लक्ष्मीं वधः कुल विनाशकः || अध्यायो हरते प्राणान्मार्कण्डेयादिकं वदेत् || ॐ जय जय मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये सत्याः सन्तु (यजमानस्यकामः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति ॐ साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै ऐं बीजाधिष्ठात्र्यैमहाकालिकायै महाहुतिं समर्पयामि नमः || प्. २४७) अथ द्वितीय अध्यायः || ॐ मध्यमचरित्रस्य विष्णुर्-ऋषिः महालक्ष्मीर्देवता उष्णिक्छन्दः शाकम्भरी शक्तिः दुर्गाबीजं वायुस्तत्त्वं यजुर्वेदमूर्तिः आत्मनोभीष्ट फल प्राप्ति हेतवे धर्मार्थ काम मोक्षार्थे पाठे (हवने) विनियोगः || २ || महालक्ष्मी ध्यानम् ||
197 SK ॐ अक्षस्रक्परशुं गदेशुकुलिशं पद्मं धौष्कुण्डिकां दण्डं शक्तिमसिञ्चचर्मजलजं घण्टां सुराभाजनम् || शूलं पाश सुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सुरौजोद्भवाम् || २ || ॐ ह्रीं ऋषिरुवाच || १ || देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा | महिषेऽसुराणामधिपे देवानां च पुरन्दरे || २ || तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् | जित्वा च सकलान्देवानिन्द्रोऽभून्महिषासुरः || ३ || प्. २४९) ततः पराजिता देवाः पद्मयोनिंप्रजापतिम् | पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ || ४ || यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् | त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् || ५ || सूयेन्द्राग्न्यनिलेन्दूनांयमस्यवरुणस्यच | अन्येषां चाधिकारान्सः स्वयमेवाधितिष्ठति || ६ || स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि | विचरन्ति यथा मर्त्या महिषेण दुरात्मना || ७ || एतद्वः कथितं सर्वममरारिविचेष्टितम् | शरणं वः प्रपन्नाः स्मो बधस्तस्य विचिन्त्यताम् || ८ || प्. २५०) इत्थं निशम्य देवानां वचांसि मधुसूदनः | चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ || ९ || ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः | निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च || १० || अन्येषां चैव देवानांशक्रादीनां शरीरतः | निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत || ११ || अतीव तेजसः कूटं ज्वलन्तिमिव पर्वतम् | ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् || १२ || अतुल तत्र तत्तेजः सर्वदेवशरीरजम् | एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा || १३ || यदभूच्छाम्भवतेजस्तेनाजायत तन्मुखम् | याम्येनचाभवन्केशा बाहवो विष्णुतेजसा || १४ || प्. २५१) सौम्येन स्तनयोर्युग्मं मध्यंचैन्द्रेण चाभवत् | वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः || १५ || ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा | वसूनां च कराङ्गुल्यः कौबेरेण च नासिका || १६ ||
198 SK तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा | नयनत्रितयं यज्ञे तथा पावकतेजसा || १७ || भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च | अन्येषां चैव देवानां सम्भवस्तेजसां शिवा || १८ || ततः समस्तदेवानां तेजोराशिसमुद्भवाम् | तां विलोक्यमुदं प्रापुरमंरा महिषार्दिताः [ततो देवाददुस्तस्यै स्वानिस्वान्या युयुधानि चः | ऊचुजय जयेत्युच्चैर्जयन्तीं ते जयैषिणः || इति शा० || ] || १९ || शूलं शूलाद्विनिष्कृष्य तस्यै पिनाकधृक् | प्. २५२) चक्रं च दत्तवान्कृष्णः समुत्पाद्य(ट्य)स्वचक्रतः || २० || शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः | मारुतो दत्तवांश्चापं वाणपूर्णे [बाणपूर्णौ पा०] तथेषुधी || २१ || वज्रमिन्द्रः समुत्पाद्य(ट्य कुलिशादमराधिपः | ददौ तस्यैसहस्राक्षो घण्टामैरावताद्गजात् || २२ || कालदण्डाद्यमो दण्डं पाशंचाम्बुपतिर्ददौ | प्रजापतिश्चाक्षमालांददौ ब्रह्मा कमण्डलुम् || २३ || समस्तरोमकूपेषु निजरश्मीन् दिवाकरः | कालश्च दत्तवान् खड्गं तस्यैचर्म च निर्मलम् || २४ || क्षीरोदश्चामलं हारमजरे च तथाम्बरे | प्. २५३) चूडामणिं तथा दिव्यं कुण्डले कटकानि च || २५ || अर्धचंद्रं तथा शुभ्रं [दिव्यम् पा०] केयूरान्सर्वबाहुषु | नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् || २६ || अंगुलीयकरत्नानि समस्ता स्वंगुलीषु च | विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् || २७ || अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् | अम्लानपङ्कजां मालां शिरस्युरसि चापराम् || २८ || अददज्जलधिस्तस्यै पंकजं चातिशोभनम् | हिमवान्वाहनं सिंहं रत्नानि विविधानि च || २९ || ददावशून्यं सुरया पानपात्रं धनाधिपः | प्. २५४) शेषश्च सर्वनागेशो महामणिविभूषितम् || ३० || नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् | अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा || ३१ || संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः | तस्या नादेन घोरेण कृत्स्नमापूरितं नभः || ३२ ||
199 SK अमायतातिमहता र्पतिशब्दो महानभूत् | चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे || ३३ || चचाल वसुधा चेलुः सकलाश्चमहाधराः | जयेति देवाश्च मुदा तामूचुः सिंहावाहिनीम् || ३४ || तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः | दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरायः || ३५ || प्. २५५) सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः | आः किमेतदिति क्रोधादाभाष्यमहिषासुरः || ३६ || अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः | सददर्श ततो देवीं व्याप्तलोकत्रयांत्विषा || ३७ || पादाक्रान्त्या नतभुवं किरोटोल्लिखिताम्बराम् | क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् || ३८ || दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम् | ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् || ३९ || शस्त्रास्त्रैर्बहुधामुक्तैरादीपितदिगन्तरम् | महिषासुरसेनानीश्चिद्क्षुराख्यो महासुरः || ४० || युयुधे चामरश्चान्यैश्चतुरङ्गवलान्वितः | प्. २५६) रथानामयुतः षड्भिरुदग्राख्यो महासुरः || ४१ || अयुध्यतायुतानां च सहस्रेण महाहनुः | पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः || ४२ || अयुतानां शतैः षड्भिर्वाष्कलो युयुधेरणे | गजवाजिसहस्रौघैरनेकैः परिवारितः || ४३ || वृतो रथानां कोट्या च युद्धेतस्मिन्नयुध्यत | बिडालाख्योऽयुतानां [महादैत्यः पा०] च पञ्चाशद्भिरथायुतैः || ४४ || युयुधे संयुगे तत्र रथानां परिवारितः | प्. २५७) अन्ये च तत्रायुतशो रथनागहयैर्वृताः || ४५ || युयुधुः संयुगे देव्या सह तत्र महासुराः | कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा || ४६ || हयानां च वृतो यद्धे तत्राभून्महिषासुरः | तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा || ४७ || युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः | केचिच्च चिक्षुपुः शक्तीः केचित्पाशांस्तथापरे || ४८ || श्री सूर्यनारायण नमः || नेत्रोपनिषद्
200 SK श्री गणेशाय नमः || अथातश्चाक्षुष्मतींविद्यां पठित सिद्धां चक्षुरोगहरां व्याख्यास्यामः || ययाचक्षुरोगाःसर्वतोनश्यंति चक्षुषो दीप्तिर्भवति तस्याह चाक्षुषी विद्यायाः अहिर्बुध्न्य ऋषिर्गायत्री छंदः श्रीसूर्योदेवता चक्षुरोग निवृत्तयेजपे विनियोगः ॐचक्षुष् २ चक्षुषतेजः स्थिरोभव मायाहि २ त्वरितं चक्षुरोगान् शमय २ ममजातरूपं तेजोदर्शय २ यथाह मन्धोनस्याम् तथा कल्याणं कुरु २ यानि २ मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि तानि २ सर्वाणि निर्मूलय २ ॐ नमश्चक्षुष्ते जोदात्रे दिव्यभास्कराय || ॐनमः करुणा करायामृताय ॐनमः श्री सूर्याय ॐ नमो भगवतेसूर्यायाक्षितेज से नमः ॐ केछराय नमः ॐमहते नमः ॐतपसे नमः रजसे नमः असतोमां सद्गमय तमसोमां ज्योतिर्गमय मृत्योर्माममृतंगमय उष्णोभगवान् शुचिरूपः हंसो प्. २५८) देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः | सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका || ४९ || लीलयैव प्रचिच्छेदनिजशस्त्रास्त्रवर्षिणी | अनायस्तानना देवी स्तूयमानासुरर्षिभिः || ५० || मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी | भगवान् शुचिररतिरूपः य इ मांचाक्षुष्मतीं विद्यांब्राह्मणोनित्यमधीते न तस्याक्षिरोगोभवति न तस्य कुलेन्धो भवति अष्टौब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति ॐ विश्वरूपं घृणितं जात वेदसं हिरण्मयं पुरुषं ज्योतिरूपं तं सहस्ररश्मि शतधा वर्तमानः प्राणः प्रजानामुदयत्येषः सूर्यः ॐ नमो भगवते आदित्याय अहोवाहिन्यहोवाहिनीस्वाहा || इति श्री अथर्वण वेदोक्त नेत्रोपनिषत्पूर्णम् || श्रीगणेशायनमः || कैलास शिखरासीनं शंकरं वरदं शिवं | देवी पप्रच्छ सर्वज्ञ देवदेवं महेश्वरम् || १ || देव्युवाच || भगवन्देव देवेश देवनां मोक्षद प्रभो | प्रब्रूहिमे महाभाग गोप्यं यद्यपि च प्रभो || २ || शत्रूणां येन नाशः स्यादात्मनो रक्षणं भवेत् | परमैश्वर्य मतुलं लभेद्येन हितं वद || ३ || भैरव उवाच ||
201 SK वक्ष्यामिते महादेवि सर्वधर्महितायच | अद्भुतं कवच देव्यास्सर्व रक्षाकरं नृणाम् || ४ || सर्वारिष्ट प्रशमन सर्वोपद्रवनाशनम् | सुखदं भोगदं चैव वश्याकर्षणमद्भुतम् || ५ || शत्रूणां संक्षयकरं सर्व व्याधिनिवारणम् | दुःखिनोज्वरिणश्चैवस्वाभीष्टप्रहतास्तथा || ६ || भोगमोक्ष प्रदं चैव कालिका कवच पठेत् | शत्रव स्तस्य नश्यन्ति ......... ॐ अस्यश्रीकालिका कवचस्य श्रीभैरव- || oṃ dhyāyetkālīṃ mahāmāyāṃ trinetrāṃ bahurūpiṇīm || p. 259) so'pi kruddho dhutasaṭo devyā vāhanakesarī || 51 || cacārāsurasainyeṣu vaneṣviva hutāśanaḥ | niśvāsānmumuceyāṃśca yudhyamānā raṇe'mbikā || 52 || ta eva sadyaḥ sambhūtāgaṇāḥ śatasahasraśaḥ | yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ || 53 || caturbhujāṃ lalajjihvāṃ pūrṇacaṃdranibhānanāṃ | nīlotpaladalaprakhyāṃ śatrusaṃghavidāriṇīm || 8 || naramuṇḍaṃ tathā khaḍgaṃkamala ca varaṃtathā | bibhrāṇāṃ raktavasanāṃdaṃṣṭyālīṃghorarūpiṇīm || 9 || aṭṭāṭṭahāsa niratāṃsarvadā ca digambarām | śavāsanasthitāṃ devī muṇḍamālā vibhūṣitām || 10 || iti dhyātvā mahādevīṃ punastu kavacaṃpaṭhet || oṃ kālikā ghorarūpāḍhyā sarvakāmapradāśubhā || 11 || sarvadevastutādevī śatrunāśaṃ karotu me | hrīṃ hrīṃ svarūpiṇīcaiva hrīṃ hrīṃ hūṁ rūpiṇī tathā || 12 || hrīṃ hrīṃ kṣeṃ 2 svarūpā sā sadāśatrūnvidārayet | śrīṃ hrīṃ aiṃ rūpiṇīdevī bhavabaṃdhavimocanī || 13 || hasakla hrīṃ hrīṃ ripūnsāharatudevī sarvadā | yayāśumbho hato daityo niśumbhaśca mahāsuraḥ || 14 || vairināśāya vaṃde tāṃ kālikāṃ śaṃkarapriyām | brāhmī śaivī vaiṣṇavī ca vārāhī nārasiṃhikā || 15 || kaumāryaindrī ca cāmuṇḍā khādyantu mamadviṣaḥ | sureśvarī ghorarūpāḥ caṇḍamuṇḍa vināśinī || 16 || muṇḍamālāvṛtāṃgī ca sarvataḥ pātumām sadā | hrīṃ hrīṃ kālike ghoradaṃṣṭre rudhira priye rudhira pūrṇa vaktre p. 260)
202 SK नाशयन्तोऽसुरगणान्देवीशक्त्युपबृंहिताः | अवादयन्त पटहान्गणाःशंखांस्तथापरे || ५४ || मृदङ्गांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे | ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः || ५५ || खड्गादिभिश्चशतशो निजघान महासुरान् | पातयामास चैवान्यान् घण्टास्वनविमोहितान् || ५६ || असुरान्भुवि पाशेन वद्ध्वा चान्यानकर्षयत् | केचिद्द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे || ५७ || विपोथितानिपातेन गदया भुवि शेरते | रुधिरावृत्तस्तनि मम शत्रून्खादय २ हिंसय २ मारय २ भिंदि २ छिंदि २ उच्चाटय २ द्रावय २ शोपय २ स्वाहा ह्रीं ह्रीं कालिकायैमदीय शत्रूं समर्पयामि स्वाहा ॐ जय २ किरि २ किटि २ कुट २ कट्ट २ मर्दय २ मोहय २ हर २ ममरिपून्ध्वंसय २ भक्षय २ त्रोटय २ यातुधानि चामुण्डे सर्व जनान्राज्ञो राजपुरुषां (स्त्रि) योषाः रिपून्ममवश्यान्कुरु २ तनु २ धान्यंधनमश्वान्गनान् रत्नानिदिव्यकामिनीः पुत्रपौत्रान्राजश्रियं देहि २ प्. २६१) वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः || ५८ || केचिन्नपतिता भूमौ भिन्नाः शूलेन वक्षसि | निरन्तराः शरौघेण कृताः केचिद्रणाजिरे || ५९ || श्येनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः | केषांचिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे || ६० || भक्ष २ क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्वाहा || इत्येतत्कवचं दिव्यं कथितं शम्भुनापुरा || १७ || ये पठन्ति सदा तेषां ध्रुवं नश्यन्तिशत्रवः | अलयः सर्व व्याधीनां भवतीह न संशयः || १८ || धनहीनाः पुत्रहीनाः शत्रवस्तस्य सर्वदा | सहस्र पठनात्सिद्धिः कवचस्य भवेत्तथा || १९ || ततः कार्याणि सिद्ध्यन्ति यथा शङ्कर भाषितम् | श्मशानांगारमादाय चूर्णीकृत्वा प्रयत्नतः || २० || पादोदकेन पिष्ट्वाच लिखेल्लौह शलाकया | भूमौ शत्रून् हीन रूपान् उत्तराशिरसस्तथा || २१ || हस्तं दत्वातद् हृदये कवचं तु स्वयं पठेत् | शत्रोः प्राणप्रतिष्ठान्तु कुर्यान्मंत्रेण मंत्रवित् || २२ ||
203 SK हन्यादस्त्र प्रहारेण शत्रुगच्छेद्यमालयम् | ज्वलदंगार तापेन भवन्तिज्वरिणोऽरयः || २३ || प्रोक्षणैर्वामपादेन दरिद्रो भवति ध्रुवम् | वैरिनाशकरं प्रोक्तं कवचं वश्यकारकम् || २४ || परमैश्वर्यदं चैवपुत्रपौत्रादिवृद्धिदम् | प्रभात समये चैव पूजाकाले प्रयत्नतः || २५ || सायंकाले तथा पाठात्सर्वसिद्धिर्भवेद्ध्रुवम् | शत्रुरुच्चाटनं याति देशाच्चविच्युतोभवेत् || २६ || पश्चात्किंकर माप्नोति सत्यं २ न संशयः | शत्रुनाशकरं देवि सर्वसंपत्प्रदे शुभे || २७ || सर्वदेवस्तुते देवि कालिकेत्वं नमाम्यहम् || इति रुद्रयामले कालीकवचं सम्पूर्णम् || प्. २६२) शिरांसिपेतुरन्येषामन्ये मध्ये विदारिताः | विच्छिन्नजंघास्त्वपरे पेतुरुर्व्यां महासुराः || ६१ || एकवाह्वक्षिचरणाः केचिद्देव्याद्विधा कृताः | छिन्ने पिचान्येशिरसिपतिताः पुनरुत्थिताः || ६२ || [कबन्धायुयुधुर्देव्या गृहीतपरमायुधाः | इत्यर्धं गुर्जर सांप्रदायिके पुस्तके नदृश्यते ||] (कबन्धायुयुधुर्देव्या गृहीतपरमायुधाः) || ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः || ६३ || कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः | तिष्ठतिष्ठेति भाषन्तो देवीमन्ये महासुराः || ६४ || पातितैरथनागाश्वैरसुरैश्च वसुन्धरा | अगम्यासाभवत्तत्र यत्राभूत्समहारणः || ६५ || प्. २६३) शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः [विसुस्रुवुः०] | मध्ये चासुरसैन्यस्य वारणा सुरवाजिनाम् || ६६ || क्षणेन तन्महासैन्यमसुराणां तथाम्बिका | निन्ये क्षयं यथा वह्निस्तृणदारु महाचयम् || ६७ || स च सिंहो महानादमुत्सृजन्धुतकेसरः | शरीरेभ्योऽमरारीऽनमसूनिव विचिन्वति || ६८ || देव्या गणैश्च तैस्तत्र कृतं युद्धं महासुरैः | यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि ॐ || ६९ || इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये (महिषासुरसैन्यबधो नाम) द्वितीयोऽध्यायः || २ || उवाच १ श्लोक ६८ एवं ६९ एवमादितः || १७३ ||
204 SK ॐ जय जय मार्कण्डेयपुराणे सावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु | तान्त्रिक आहुति || ह्रीं सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै अष्टाविंशति वर्णात्मिकायै लक्ष्मी बीजाधिष्ठात्र्यै महाहुतिं समर्पयामि नमः स्वाहा || अथ तृतीयोध्यायः अथ ध्यानम् || ॐ उश्रद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वराम् || हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियंदेवीं बद्धहिमांशुरत्नमुकुटां वन्दे सुमन्द स्थिताम् || ६ || ऋइरुवाच || १ || ॐ निहन्यमानं तत्सैन्यमवलोक्य महासुरः | सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् || २ || प्. २६५) स देवीं शरवर्षेण ववर्ष समरेऽसुरः | यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः || ३ || तस्यच्छित्वा ततो देवी लीलयैव शरोत्करान् | जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् || ४ || चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् | विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः || ५ || सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः | अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः || ६ || प्. २६६) सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि | आजघान भुजे सव्ये देवीमप्यतिवेगवान् || ७ || तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन | ततो जग्राह शूलं स कोपादरुणलोचनः || ८ || चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः | जाज्वल्यमानं तेजोभीरविबिम्बमिवाम्बरात् || ९ || दृष्टवातदापतच्छूलंदेवीशूलममुञ्चत | तच्छूलं शतधा तेन नीतं स च महासुरः || १० || हते तस्मिन्महावीर्ये महिषस्य चमूपतौ | प्. २६७) आजगाम गजारूढश्चामरस्त्रिदशार्दनः || ११ || सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् | हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् || १२ || भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः | चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् || १३ ||
205 SK ततः सिंहः समुत्पत्य गजकुम्भान्तरेस्थितः | बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा || १४ || युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ | युयुधातेतिसंरब्धौ प्रहारैरतिदारुणैः || १५ || ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा | करप्रहारेण शिरश्चामरस्य पृथक्कृतम् || १६ || प्. २६८) उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः | दन्तमुष्टितलैश्चैव करालश्च निपातितः || १७ || देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् | वाष्कलं भिन्दिपालेन वाणैस्ताम्रं तथांधकम् || १८ || उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् | त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी || १९ || बिडालस्यासिना कायात्पातयामास वै शिरः | दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् || २० || एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः | माहिषेण स्वरूपेण त्रासयामास तान्गणान् || २१ || प्. २६९) काṁश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् | लाङ्गूलताडितांश्चान्याञ्छृङ्गाभ्याञ्च विदारितान् || २२ || वेगेन कांश्चिदपरान्नादेन भ्रमणेन च | निःश्वासपवनेनान्यान्पातयामास भूतले || २३ || निपात्य प्रमथानीकमभ्यधावत सोऽसुरः | सिंहंहन्तं महादेव्याः कोपं चक्रे ततोऽम्बिका || २४ || सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः | शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च || २५ || वेगभ्रमण विक्षुण्णा मही तस्य व्यशीर्यत | लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः || २६ || धुतशृङ्गविभिन्नाश्चखण्ड खण्डं ययुर्घनाः | श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः || २७ || प्. २७०) इति क्रोध समाघ्मातमापतन्तं महासुरम् | दृष्ट्वा सा चण्डिका कोपं तद्बधाय तदाकरोत् || २८ || सा क्षिप्त्वा तस्य वै पाशं तं बबंध महासुरम् | तत्याज माहिषं रूपं सोऽपिवद्धो महामृधे || २९ || ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः | छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत || ३० ||
206 SK तत एवाशु पुरुषं देवी चिच्छेद सायकैः | तं खड्गचर्मणा सार्द्धं ततः सोऽभून्महागजः || ३१ || करेण च महासिंहं तं चकर्ष जगर्ज च | कर्षतस्तु करं देवी खड्गेन निरकृन्तत || ३२ || प्. २७१) ततो महासुरो भूयो माहिषं वपुरास्थितः [राश्रितः शा०] || तथैव क्षोभयामास त्रैलोक्यं सचराचरम् || ३३ || ततः क्रुद्धा जगन्माता चंडिका पानमुत्तमम् | पपौ पुनः पुनश्चैव जहासारुण लोचना || ३४ || ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः | विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् || ३५ || सा च तान् प्रहिताṁस्तेन चूर्णयन्ती शरोत्करैः | उवाच तं मदोद्धूत [मदोद्भूत पा०] मुखरागाकुलाक्षरम् || ३६ || देव्युवाच || ३७ || गर्जगर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् | मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः || ३८ || ऋषिरुवाच || ३९ || एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् | पादेनाक्रम्य कंठेचशूलेनैनमताडयत् || ४० || ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः | अर्धनिष्क्रान्त [एवासीन् शा०] एवातिदेव्या वीर्येण संवृतः || ४१ || अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः | तया महासिना देव्या शिरश्छित्वा निपातितः || ४२ || ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् | प्रहर्षं च परं जग्मुः सकला देवतागणः || ४३ || प्. २७३) तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः | जगुर्गन्धर्वपतयो ननृतुश्चाप्सरो गणाः ॐ || ४४ || इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येमहिषासुरवधो नामतृतीयोऽध्यायः || ३ || उवाच ३ श्लोक ४१ एवं ४४ एवमादितः || २१७ || तन्त्रोक्त आहुति || ॐ जयन्ती सांगायै सायुधायि स शक्तिकायै सपरिवारायै सवाहनायै लक्ष्मी बीजाधिष्ठात्र्यै महाहुतिं समर्पयामि नमः स्वाहा || चतुर्थोऽध्यायः || अथ ध्यानम् || ॐ कालाभ्राभां कटाक्षैररिकुलभयदांमौलिबद्धेन्दुरेखां शंखं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् || प्. २७४)
207 SK सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्याये दुर्गां जयाख्यां त्रिदशपतिनुतां सेवितां सिद्धिकामैः || ४ || ऋषिरुवाच || १ || ॐ शक्रादयः सुरगणा निहतेऽति वीर्ये तस्मिन्दुरात्मनि सुरारिवले च देव्या | तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः || २ || प्. २७५) देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या | तामम्बिकामखिलदेवमहिर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः || ३ || यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च | सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु || ४ || या श्रीं स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः | श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् || ५ || प्. २७६) किं वर्णयामतव रूपमचिन्त्यमेतत्किञ्चातिवीर्यममुरक्षयकारिभूरि | अथ दुर्गाशतनाम स्तोत्रम् || दुर्गायाः शतनामानि शृणु तम्भवगेहिनि | दुर्गाभवानी देवेशी विश्वनाथप्रिया शिवा || १ || घोरदंष्ट्राकरालास्या मुण्डमाला विभूषणा | रुद्राणी तारिणी तारा माहेशी भववल्लभा || २ || नारायणी जगद्धात्री महादेवप्रिया जया | विजया च जयाऽराध्या शर्वाणी हरवल्लभा || ३ || असिता चाणिमा देवी लघिमा गरिमा तथा | महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी || ४ || नित्या च निष्कलंका च निरीहा नित्यनूतना | रक्ता रक्तमुखीवाणी वसुयुक्ता वसुप्रदा || ५ || रामप्रिया रामरता रघुनाथवरप्रदा | राज्येश्वरी राज्यरता कृष्णा कृष्णवरप्रदा || ६ || यशोदा राधिका चण्डी द्रौपदी रुक्मिणी तथा | गुहप्रिया गुहरता गुहवंश विलासिनी || ७ || गणेश जननी माता विश्वरूपा च जाह्नवी | गङ्गा काली च काशी च भैरवी भुवनेश्वरी || ८ || निर्मला च सुगन्धा च देवकी देवपूजिता | दक्षजा दक्षिणा दक्षा दक्षयज्ञविनाशिनी || ९ ||
208 SK सुशीला सुन्दरी सौम्यामातंगी कमला कला | निशुम्भनाशिनी शुम्भनाशिनी चण्डनाशिनी || १० || धूम्रलोचनसंहर्त्री महिषासुरमर्दिनी | उमा गौरी कराला च कामिनी विश्वमोहिनी || ११ || इत्येवं शतनामानि कथितानि वरानने | नामस्मरणामात्रेण जीवन्मुक्तोभवेन्नरः || १२ || यः पठेत् प्रातरुत्थाय स्मृत्वा दुर्गापदद्वयम् | मुच्यते जन्मबन्धेभ्यो नात्र कार्या विचारणा || १३ || सन्ध्याकाले दिवाभागे निशायां वा निशामुखे | पठित्वाशतनामानि मंत्रसिद्धिर्लभेद्ध्रुवम् || १४ || अज्ञात्वा स्तवराजञ्च दशविद्यां भजेद्यदि | तथाऽपि नैव सिद्धिः स्यात् सत्यं सत्यम्महेश्वरि || इति मुण्डमालातन्त्रे द्वितीयपटले श्री दुर्गादेव्याः शतनामस्तोत्रं समाप्तम् || प्. २७७) किंचाहवेषुचरितानि तवाद्भुतानि [तवातियानि पा०] सर्वेषु देव्यसुरदेवगणादिकेषु || ६ || हेतुः समस्तजगतां त्रिगुणापिदोषैर्नज्ञायसे हरि हरादिभिरप्यपारा | सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृताहि परमा प्रकृतिस्त्वमाद्या || ७ || यस्याः समस्तसुरतासमुदीरणेन तृप्तिंप्रयातिसकलेषु मखेषु देवि | स्वाहासिवै पतृगणस्य च तृप्तिहेतुरुच्चार्यसेत्वमत एवजनैः स्वधा च || ८ || या मुक्तिहेतुरविचिन्त्यमहाव्रता च अभ्यस्यसे [अभ्यस्यते पा०] सुनियतेन्द्रिय तत्त्वसारैः | मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्यासि सा भगवती परमाहि देवि || ९ || प्. २७८) शब्दात्मिका सुविमलर्ग्यजुषां निधान मुद्गीथरम्यपदपाठवतां च साम्नाम् | देवी त्रयी भगवती [ऐश्चर्यस्य समग्रस्य धर्मस्य यशसः श्रियः | ज्ञान वैराग्ययोश्चापि षण्णां भग इतीर्यते || नित्यं षड्गुणैश्चर्य शालिनीत्यर्थः |] भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री || १० || मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा | श्रीः कैटभारिहृदयैककृताधिवासा गौरीत्वमेव शशिमौलिकृतप्रतिष्ठा || ११ || प्. २७९)
209 SK ईषत्सहासममलं परिपूर्णचन्द्रबिम्बानुकारि कनकोत्तमकान्तिकान्तम् | अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रंविलोक्य सहसामहिषा सुरेण || १२ || दृष्ट्वा तु देवि कुपित भ्रुकुटीकरालमुद्यच्छशांकसदृशच्छवि यन्न सद्यः | प्रणान्मुमोच महिषस्तदतीवचित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन || १३ || देविप्रसीदपरमा भवती भवाय सद्यो विनाशयसि कोपवत कुलानि | विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य || १४ || ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः | प्. २८०) धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवता प्रसन्ना || १५ || धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति | स्वर्गं प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन || १६ || दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि | दारिद्र्यदुःख भयहारिणि का त्वदन्या सर्वोपकारकरणाय दाअर्द्रचित्ता || १७ || एभिर्हतैर्जगदुपैतिसुखंतथैते कुर्वन्तु नाम नरकाय चिराय पापम् | प्. २८१) संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि || १८ || दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् | लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी || १९ || खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् | यन्नागता विलयमंशुमदिन्दुखण्डयोग्याननं तव विलोकयतां तदेतत् || २० || दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः | प्. २८२) वीर्यं च हन्तृहृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् || २१ || केनोपमा भवतु तेऽस्य पराक्रमस्य रूपंचशत्रुभयकार्यतिहारि कुत्र | चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येवदेविवरदे भुवनत्रयेऽपि || २२ ||
210 SK त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा | नीता दिवं रिपुगणाभयमप्यपास्तमस्माकमुन्मदसुरारिभवंनमस्ते || २३ || [अत्र के चित्कवचादि त्रयस्य रहस्य त्रयस्य च प्रति श्लोकं होममनुतिष्ठन्ति || तत्र कवचांशे होमोनयुक्तरतन्त्रान्तरे निषेधात् || चण्डी स्तवे प्रतिश्लोकमेकाहुतिरिहेष्यते || रक्षा कवचगैर्मन्त्रैर्होमं तत्र न कारयेत् || मौर्ख्यात्कवचगर्मंत्रैः प्रति श्लोकं जुहोति यः || स्याद्देह पतनं तस्य नरकं च प्रपद्यते || अंधकाख्यो महादैत्यो दुर्गा भक्ति परायणः || कवचाहुतिजात्पापान्महेशेन निपाठितः || इतिकात्यायनी तंत्रे ||] शूलेन पाहि नो देवि पाहि खड्गेनचाम्बिके | प्. २८३) घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च || २४ || प्राच्यांरक्षप्रतीच्यां च चण्डिके रक्ष दक्षिणे | भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि || २५ || सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते | यानि चात्यर्थघोराणि [चात्यन्तघोराणि पा०] तैरक्षास्म्ॐस्तथ भुवम् || २६ || खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके | करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः [सर्वशः] || २७ || प्. २८४) ऋषिरुवाच || २८ || एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः | अर्चिता जगतां धात्री तथा गन्धानुलेपनैः || २९ || भक्त्यासमस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता | प्राह प्रसादसुमुखी समस्तान्प्रणतान् सुरान् || ३० || देव्युवाच || ३१ || व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् || ३२ || देवा ऊचुः || ३३ || भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते || ३४ || प्. २८५) यदयं निहतः शत्रुरस्माकं महिषासुरः | यदि चापिवरोदेयस्त्वयास्माकंमहेश्वरि || ३५ || संस्मृतासंस्मृता त्वं नो हिंसेथाः परमापदः | यश्चमर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने || ३६ || तस्य वितर्द्धिविभवैर्धनदारादिसम्पदाम् | वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके || ३७ || ऋषिरुवाच || ३८ ||
211 SK इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः | तथेत्युक्ता भद्रकाली बभूवांन्तर्हिता नृप || ३९ || इत्येतत्कथितं भूप सम्भूता सा यथा पुरा | प्. २८६) देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी || ४० || पुनश्च गौरी देहासा [देहात्सा दा० पा०] समुद्भूता यथाभवत् | बधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः || ४१ || रक्षणाय च लोकानां देवानामुपकारिणी | तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ह्रीं ॐ || ४२ || इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः || ४ || उवाच ५ अर्ध २ श्लोक ३५ एवं ४२ एवमादितः || २५९ || ॐ प्राणाय स्वाहा पानाय स्वाहा व्यानाय स्वाहा || अम्बेऽ-अम्बिकेम्बालिके नमानयति कश्चन || ससस्त्यश्वकः सुभद्रिकां कांपीलवासिनी गुं स्वाहा || तान्त्रिक आहुति || ह्रीं जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्रीमहालक्ष्म्यै अष्टाविंशति वर्णात्मिकायै लक्ष्मी बीजाधिष्ठात्र्यै महाहुतिं समर्पयामि नमः स्वाहा || प्. २८७) अथ पंचमोऽध्यायः ॐ अस्य श्री उत्तमचरित्रस्य रुद्र ऋषिः | महासरस्वती देवता | अनुष्टुप्छन्दः | भीमाशक्तिः | भ्रामरी बीजं | सूयस्तत्त्वं | सामवेदस्वरूपं | महासरस्वतीप्रीत्यर्थे उत्तमचरित्र पाठे (हवने) विनियोगः || ३ || अथ ध्यानम् || ॐ घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् || गौरीदेहसमुद्भवां त्रिजगतामारभूतां महापूर्वामत्रसरस्वतीमनुभजेशुम्भादिदैत्यार्दिनीम् || ५ || ॐ क्लीं ऋषिरुवाच || १ || पुरा शुम्भनि᳚उस्म्भाभ्यामसुराभ्यांशचीपतेः | प्. २८८) त्रैलोक्यं यज्ञभागाश्चहृता मदबलाश्रयात् || २ || तावेव सूर्यतां तद्वदधिकारं तथैदंवम् | कौबेरमथ याम्यं च चक्राते वरुणस्य च || ३ || तावेव पवनर्द्धिञ्च चक्रतुर्वह्निकर्म च | ततोदेवाविनिर्धूता भ्रष्टराज्याः पराजिताः || ४ ||
212 SK हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः | महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् || ५ || तयास्माकंवरो दत्तो यथापत्सु स्मृताखिलाः | भवतां नाशयिष्यामि तत्क्षणात्परमापदः || ६ || प्. २८९) इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् | जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः || ७ || देवा ऊचुः || ८ || नमो देव्यै महादेव्यै शिवायै सततं नमः | नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् || ९ || रौद्रायै नमो नित्यायै गौ यधात्र्यै नमोनमः | ज्योत्स्नायैचेन्दुरूपिण्यैसुखायै सततं नमः || १० || कल्याण्यै प्रणता [प्रणतां वृद्ध्यै०] वृद्ध्यै सिद्ध्यै कुर्मो नमोनमः | नैर्-ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमोनमः || ११ || दुर्गायै दुर्गपारायै सारायै सवकारिण्यै | प्. २९०) ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः || १२ || अतिसौम्यातिरौद्रायै नतास्तस्यै नमोनमः | नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमोनमः || १३ || [विंशत्यक्षर पर्यन्तं प्रथमः खण्ड ईरितः | वेदाक्षरो द्वितीयस्तु तृतीयाष्टाक्षरः स्मृतः || १ || कुब्जिका तन्त्रे ||] या देवी सर्वभूतेषु [विष्णु मायाहि सात्विक राजस तामस भेदेन त्रिधाभिद्यत इति || तत्परामर्शकं तस्यै इति पदं त्रिरभ्यस्यते | नमः पदन्तु प्रसादने संभ्रमे वा || तदुक्तम् || विषादे विस्मये हर्षे खेदे दैन्येवऽधारणे || प्रसादने भ्रमे च द्विस्त्रिरुक्तं न दुष्यतीति || अन्यत्रापि || प्रकर्ष हर्ष कोपेषु स्वप्ने दैन्यभयेषु च | स्तुत्यभ्यासानुवादेषु पौनरुक्त्यं नदुष्यतीति || अत्रकेचित्रिः प्रणमने न महत्फलं || एकस्या स्त्रिर्नमस्करास्त्रिस्त्रिःप्रदक्षिणमित्याहुः || येति विष्णु माया मूल शाब्द- vācika mānasika namaskāratrayaṃ pradarśitamiti nāgeśarāmāśrama vaṃśoddhārā || athavā || pañcatatva racita kāyena paṃcadhā namaskārā uktāḥ || ] viṣṇumāyeti śabditā namastasyai || 14 || namastasyai || 15 || namastasyai namonamaḥ || 16 || p. 291)
213 SK या देवीसर्वभूतेषुचेतनेत्यभिधीयते नमस्तस्यै || १७ || नमसतस्यै || १८ || नमस्तस्यै नमोनमः || १९ || या देवीसर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै || २० || नमसतस्यै || २१ || नमस्तस्यै नमोनमः || २२ || या देवीसर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै || २३ || नमसतस्यै || २४ || नमस्तस्यै नमोनमः || २५ || या देवीसर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै || २६ || नमसतस्यै || २७ || नमस्तस्यै नमोनमः || २८ || या देवीसर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै || २९ || नमसतस्यै || ३० || नमस्तस्यै नमोनमः || ३१ || प्. २९२) या देवीसर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै || ३२ || नमसतस्यै || ३३ || नमस्तस्यै नमोनमः || ३४ || या देवीसर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै || ३५ || नमसतस्यै || ३६ || नमस्तस्यै नमोनमः || ३७ || या देवीसर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै || ३८ || नमसतस्यै || ३९ || नमस्तस्यै नमोनमः || ४० || या देवीसर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै || ४१ || नमसतस्यै || ४२ || नमस्तस्यै नमोनमः || ४३ || या देवीसर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै || ४४ || नमसतस्यै || ४५ || नमस्तस्यै नमोनमः || ४६ || प्. २९३) या देवीसर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै || ४७ || नमसतस्यै || ४८ || नमस्तस्यै नमोनमः || ४९ || या देवीसर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै || ५० || नमसतस्यै || ५१ || नमस्तस्यै नमोनमः || ५२ || या देवीसर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै || ५३ || नमसतस्यै || ५४ || नमस्तस्यै नमोनमः || ५५ || या देवीसर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै || ५६ || नमसतस्यै || ५७ || नमस्तस्यै नमोनमः || ५८ || प्. २९४) या देवीसर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै || ५९ || नमसतस्यै || ६० || नमस्तस्यै नमोनमः || ६१ ||
214 SK या देवीसर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै || ६२ || नमसतस्यै || ६३ || नमस्तस्यै नमोनमः || ६४ || या देवीसर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै || ६५ || नमसतस्यै || ६६ || नमस्तस्यै नमोनमः || ६७ || या देवीसर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै || ६८ || नमसतस्यै || ६९ || नमस्तस्यै नमोनमः || ७० || या देवीसर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै || ७१ || नमसतस्यै || ७२ || नमस्तस्यै नमोनमः || ७३ || प्. २९५) या देवीसर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै || ७४ || नमसतस्यै || ७५ || नमस्तस्यै नमोनमः || ७६ || इन्द्रियाणामधिष्ठात्री भूतानांचाखिलेषु या | भूतेषु सततं तस्यै व्याप्तिदेव्यै नमोनमः || ७७ || चितिरूएण या कृत्स्नमेतद्व्याप्यस्थिताजगत् नमस्तस्यै || ७८ || नमस्तस्यै || ७९ || नमस्तस्यै नमोनमः || ८० || स्तुतासुरैः पुर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता | करोतु सा नः शुभहेतुरीश्वरीशुभानि भद्राण्यभिहन्तुचापदः || ८१ || या साम्प्रतं चोद्धत दैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते || प्. २९६) या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः || ८२ || ऋषिरुवाच || ८३ || एवं [स्तताभि० शा०] स्तवादियुक्तानां देवानां तत्र पार्वती | स्नातुमभ्याययौ तौये जाह्नव्या नृपनन्दन || ८४ || साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का | शरीरकोशतश्चास्याः समुद्भुताब्रवीच्छिवा || ८५ || स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः | देवैः समस्तैः समरे निशुम्भेन पराजितैः || ८६ || प्. २९७) शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका | कौशिकोति [कौशिकी स्वरूपं कालिका पुराणे || साकौशिकीतिविख्याता चारुरूपा मनोहरा | शूलं वज्रं च बाणं च खड्गशक्तिं तथैव च || दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता | गदां घण्टां च चापं च चर्म शंखं तथैव च ||
215 SK ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः | वज्रेणेत्यस्य स्थाने चक्रेणेत्यपिपाठः || ३ || कौशिक्याश्चक्रस्याभावात् || २ || सिंहस्योपरितिष्ठन्ती व्याघ्र चर्मणि कौशिकी || विभ्रती रूपमतुलं स सरोसुर मोहनम् ||] समस्तेषु ततोलोकेषु गीयते || ८७ || तस्यां [तस्या विनिर्गता यातु० गु०] विनिर्गतायां तु कृष्णाभूत्सापि पार्वती | कालिकेति समाख्याता हिमाचलकृताश्रया || ८८ || ततोम्बिकां परं रूपं विभ्राणां सुमनोहरम् | ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः || ८९ || ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा | काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् || ९० || नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमत् | प्. २९८) ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर || ९१ || स्त्रीरत्नमतिचार्वंगी द्योतयन्ती दिशस्त्विषा | सा तु तिष्ठति दैत्येन्द्र तां भवान्द्रष्टुमर्हति || ९२ || यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो | त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे || ९३ || ऐरावतः समानीतो गजरत्नं पुरन्दरात् | पारिजाततरुश्चायं तथैवोच्चैः श्रवाहयः || ९४ || विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे (ने) | रत्नभूतमिहानीतंयदासीद्वेधसोऽद्भुतम् || ९५ || निधिरेष महापद्मः समानीतो धनेश्वरात् | किञ्जल्किनीं ददौचाब्धिर्मालामम्लानपङ्कजाम् || ९६ || प्. २९९) छत्रं ते वारुणं गेहे काञ्चनस्रावितिष्ठति | तथायं स्यन्दन वरो यः पुरासीत्प्रजापतेः || ९७ || मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता | पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे || ९८ || निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः | वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी || ९९ || एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते | स्त्रारत्नमेषा कल्याणीत्वया कस्मान्न गृह्यते || १०० || ऋषिरुवाच || १०१ || निशम्ये ति वचः शुम्भः स तदा चण्डमुण्डयः | प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् [महासुरः० शां०] || १०२ || प्. ३००)
216 SK इतिचेति च वक्तव्या सा गत्वा वचनान्मम | यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु || १०३ || स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने | सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा || १०४ || दूत उवाच || १०५ || देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः | दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः || १०६ || अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु | निर्जिताखिलदैत्यारिः सयदाह शृणुष्व तत् || १०७ || प्. ३०१) मम त्रैलोक्यमखिलं मम देवा वशानुगाः | यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् || १०८ || त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः | तथैव गज रत्नं च हृत्वा देवेन्द्र वाहनम् || १०९ || क्षीरोदमथनोद्भूतमश्वरत्नं ममामरेः | उच्चैः श्रवससंज्ञं तत्प्रणिपत्य सतर्पितम् || ११० || यानि चान्यानि देवेषुगन्धर्वेषूरगेषुच | रत्नभूतानिभूतानितानि मय्येव शोभने || १११ || स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् | सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् || ११२ || मां वा ममनुजं वापि निशुम्भ मुरुविक्रमम् | भज त्वं चंचलापाङ्गि रत्नभूतासि वै यतः || ११३) प्. ३०२) परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् | एतद्बुद्ध्या समोलोच्य मत्परिग्रहतांव्रज || ११४ || ऋषिरुवाच || ११५ || इत्युक्त्वा सा तदा देवी गम्भीरा न्तः स्मिता जगौ | दुर्गा भगवती भद्रा ययेदं धार्यते जगत् || ११६ || देव्युवाच || ११७ || सत्यमुक्तं त्वया नात्रमिथ्या किञ्चित्वयोदितम् | त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः || ११८ || किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् | श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा || ११९ || यो मां जयति संग्रामे यो मे दर्पं व्यपोहति | यो मे प्रतिबलो लोके स मे भर्ता भविष्यति || १२० || प्. ३०३) तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः | मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु || १२१ || दूत उवाच || १२२ ||
217 SK अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः | त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः || १२३ || अन्येषामपि दैत्यानां सर्वे देवा न वै युघि | तिष्ठन्ति-सम्मुखे देवि किं पुनः स्त्री त्वमेकिका || १२४ || इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे | शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् || १२५ || सा त्वं गच्छ मयैवोक्ता पार्श्वंशुम्भनिशुम्भयोः | प्. ३०४) केशाकर्षणनिर्द्धूतगौरवामा गमिष्यसि || १२६ || देव्युवाच || १२७ || एवमेतद् बली शुम्भो निशम्भश्चातिवीर्यवान् | किं करोमि प्रतिज्ञा मे यदनालोचितापुरा || १२८ || स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः | तदाचक्ष्वाऽसुरेन्द्राय स च युक्तं करोतु यत् ॐ || १२९ || इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्यादूत संवादो नाम पञ्चमोऽध्यायः || ५ || उवाच ९ त्रिपान्मंत्राः ६६ श्लोक ५४ एवम् १२९ एवमादितः || ३८८ || ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी महात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति || क्लीं जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै धूम्राक्ष्यै विष्णुमायादि चतुर्विंशद्देवताभ्यो महाहुतिं समर्पयामि नमः स्वाहा || अथ षष्ठोऽध्यायः अथ ध्यानम् || ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावलींभास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् | मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां सर्वज्ञेश्वर भैरवाङ्कनिलयां पद्मावतीं चिन्तये || ५ || प्. ३०६) ऋषिरुवाच || १ || ॐ इत्याकर्ण्य वचोदेव्याः स दूतोऽमर्षपूरितः | समाचष्ट समागम्य दैत्यराजाय विस्तरात् || २ || तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः | सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् || ३ || हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः | तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् || ४ || तत्परित्राणदः कश्चिद्यदिवोत्तिष्ठतेऽपरः | स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा || ५ ||
218 SK ऋषिरुवाच || ६ || तेनाज्ञस्ततः शीघ्रं स दैत्यो धूम्रलोचनः | वृतः षष्ठ्यासहस्राणामसुराणां द्रुतं ययौ || ७ || स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् | प्. ३०७) जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः || ८ || न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति | ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् || ९ || देव्युवाच || १० || दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः | बलान्नयसि मा मेवं ततः किं ते करोम्यहम् || ११ || ऋषिरुवाच || १२ || इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः | हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः || १३ || अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका | ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः || १४ || ततो धुतसटः कोपात्कृत्वा नादं सुभैवरम् | पपातासुरसेनायां सिंहो देव्याः स्ववाहनः || १५ || प्. ३०८) कांश्चित् करप्रहारेणदैत्यानास्येन चापरान् | [आक्रान्त्या० च] आक्रम्य चाधरेणान्यान् सजघान महासुरान् || १६ || केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी | तथा तलप्रहारेण शिरांसि कृतवान् पृथक् || १७ || विच्छिन्नबाहुशिरसः कृतास्तेन तथापर | पपौच रुधिरं कोष्ठादन्येषां धुतकेसरः || १८ || क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना | तेन केसरिणा देव्या वाहनेनातिकोपिना || १९ || श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् | बलञ्च [क्षपितं० शा०] क्षयितं कृत्स्नं देवी केसरिणा ततः || २० || चुकोप दैत्याधिपतिः शुम्भः - प्रस्फुरिताधरः | प्. ३०९) आज्ञापयामास च तौ चण्ड मुण्डौ महासुरौ || २१ || हे चण्ड हे मुण्ड बलैर्बहुलैः परिवारितौ | तत्र गच्छत गत्वा च सा समानीयतां लघु || २२ || केशेष्वाकृष्य बद्ध्वा वा यदिवः संशयो युधि | तदा शेषायुधैःसर्वैरसुरैर्विनिहन्यताम् || २३ || तस्यां हतायां दुष्टायां सिंहे च विनिपातिते | शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् || ॐ || २४ ||
219 SK इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्येशुम्भनिशुम्भ सेनानीधूम्रलोचनबधो नाम षष्ठोऽध्यायः || ६ || उवाच ४ अर्ध० श्लोक २० एवम् २४ || एवमादितः || ४१२ || प्. ३१०) ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति || क्लीं जयन्ती सांगाय सायुधाय सशक्तिकायै सपरिवारायै सवाहनायै महाहुतिं समर्पयामि नमः स्वाहा || अथ सप्तमोऽध्यायः अथ ध्यानम् || ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलांगीं न्यस्तैकाङ्घ्रिं सरोजै शशिशकलधरां वल्लकीं वादयन्तीम् | कह्लाराबद्धमालां नियमितविलसच्चूडिकां रक्तवस्त्रां मातङ्गीं शंखपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् || ७ || प्. ३११) ऋषिरुवाच || १ || ॐ आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः | चतुरंगबलोपेता ययुरभ्युद्यतायुधाः || २ || ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् | सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने || ३ || ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः | आकृष्टचापासिधरास्तथान्ये तत्समीपगाः || ४ || ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति | कोपेन चास्या वदनं मसीवर्णमभूत्तदा || ५ || भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्द्रुतम् | काली करालवदना विनिष्क्रान्तासिपाशिनी || ६ || विचित्रखट्वाङ्गधरा नरमालाविभूषणा | प्. ३१२) द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा || ७ || अति विस्तारवदना जिह्वाललन भीषणा | निमग्ना रक्तनयना नादापूरितदिङ्मुखा || ८ || सा वेगेनाभिपतिता घातयन्ती महासुरान् | सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् || ९ || पार्षिणग्राहाङ्कुशग्राहि योधघण्टासमन्वितान् | समादायैकहस्तेन मुखे चिक्षेप वारणान् || १० || तथैव योधं तुरगै रथं सारथिना सह | निक्षिप्य वक्त्रे दशनैश्चर्वयंत्यतिभैरवम् || ११ || एकं जग्राह केशेषु ग्रीवायामथ चापरम् | पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् || १२ || प्. ३१३)
220 SK तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः | मुखेन जग्राह रुषा दशनैर्मथितान्यपि || १३ || बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् | ममर्दाभक्षयच्चान्यानन्याṁश्चाताडयत्तथा || १४ || असिना निहताः केचित्केचित्खट्वाङ्गताडिताः | जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा || १५ || क्षणेन तद्बलं सर्वमसुराणां निपातितम् | दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् || १६ || शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः | छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः || १७ || तानि चक्राण्यनेकानि विशमानानि तन्मुखम् | प्. ३१४) बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् || १८ || ततो जहासाति रुषा भीमं भैरवनादिनी | काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला || १९ || उत्थाय च महासिंहं देवी चण्डमधावत | [छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभौरवम् | येन नादेन महत्ता त्रासितं भुवनत्रयम् || इति गु० शओ०] गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् || २० || अथ मुण्डोऽभ्यधावत्तांदृष्ट्वा चण्डं निपातितम् | तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा || २१ || हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् | मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् || २२ || शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च | प्राह प्रचण्डाट्टहासभिश्रमभ्येत्य चण्डिकाम् || २३ || प्. ३१५) मया तवात्रोपहृतौ चण्डमुण्डौ महापशू | युद्धयज्ञे स्वयं शुम्भं निशुम्भञ्च हनिष्यसि || २४ || ऋषिरुवाच || २५ || तावानातौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ | उवाच कालीं कल्याणीं ललितं चण्डिका वचः || २६ || यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता | चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॐ || २७ || इति श्रीमार्कण्डेयपुराणे सावर्णिकेमन्वन्तरे देवीमाहात्म्ये चण्डमुण्डबधो नाम सप्तमोऽध्यायः || ७ || उवाच २ श्लोक २५ एवम् २७ एवमादितः || ४३९ || ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु ||
221 SK तान्त्रिक आहुति || ॐ जयन्ती संगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुण्डादेव्यै कर्पूरबीजाधिष्ठात्र्यै महाहुतिं समर्पयामि नमः स्वाहा || अथाष्टमोध्यायः अथ ध्यानम् || ॐ अरुणा करुणातरङ्गिताक्षीं धृतपाशाङ्कुशमुख्यचापहस्ताम् | अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् || ८ || ऋषिरुवाच || १ || ॐ चण्डे च निहते दैत्ये मुण्डे च विनिपातिते | बहुलेषु च सैन्येषु [क्षपितेष्व०]क्षयितेष्वसुरेश्वरः || २ || ततः कोपपराधीनचेताः शुम्भः प्रतापवान् | उद्योगं सर्वसैन्यानां दैत्यानामादिदेशह || ३ || प्. ३१७) अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः | कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः || ४ || कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै | शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया || ५ || कालका दौहृदा मौर्याः कालकेयास्तथासुराः | युधाय सज्जा निर्यान्तु आज्ञया त्वरिता मम || ६ || इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः | निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः || ७ || आयांतं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् | ज्यास्वनैः पूरयामास धरणीगगनान्तरम् || ८ || ततः सिंहो महानादमतीव कृतवान् नृप | प्. ३१८) घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् || ९ || धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा | निनादैर्भीषणैः काली जिग्ये विस्तारितानना || १० || तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् | देवी सिंहस्तथा काली सरोषैः परिवारिताः || ११ || एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् | भवायामरसिंहानामतिवीर्यबलान्विताः || १२ || [वामन पुराणे || निनदन्त्यास्ततोदेवा ब्रह्माणी मुखतोऽभवत् | हंसयुक्त विमानस्था साक्षसूत्रकमण्डलुः || १ || माहेश्वरी त्रिनेत्रा च वृषारूढा त्रिशूलिनी | महाहिवलया रौद्रा जटामण्डलिनीक्षणात् || २ || कण्ठादथ च कौमारी वर्हिपत्राथ शक्तिनी | समुद्भूता च देवर्षे मयूर वरवाहना || ३ ||
222 SK बाहुभ्यां गरुडारूढा शंखचक्रगदासिनी | शार्ङ्गवाणधरा जाता वैष्णवी रूपशालिनी || ४ || महोग्रमुसला रौद्रा दंष्ट्रोल्लिखितभूतला | वाराही पृष्ठतो जाता शेषनागोपरिस्थिता || ५ || वज्राङ्कुशोद्यतकरा नानालंकारभूषिता | जातागजेन्द्रपृष्ठस्था माहेन्द्री स्तनमंडलात् || ६ || विक्षिपन्ती सटाक्षेपैर्ग्रहनक्षत्रतारकाः | नखिनी हृदयाज्जाता नारसिंही सुदारुणा ||] प्. ३१९) ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः | शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चंडिकां ययुः || १३ || यस्य देवस्य यद्रूपं यथाभूषणवाहनम् | तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ || १४ || हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः | अयाता ब्रह्मणः [विष्णु धर्मोत्तरे || तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंसवाहना || पिङ्गाभाभूषणोपेता मृगचर्मोत्तरीयका | वरं सूत्रं स्रुचं धत्ते दक्षवाहुत्रयेक्रमात् || वामे तु पुस्तकं मुंडीबिभ्रती चाभयप्रदा || १ ||] शक्तिर्ब्रह्माणी साभिधीयते || १५ || माहेश्वरी [माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना | वालेन्दुभृज्जटाजूटा शुक्ला सर्ववरप्रदा || षड्भुजावरदा दक्षे सूत्रं डमरुकं तथा || २ ||] वृषारूढा त्रिशूलवरधारिणी | महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा || १६ || प्. ३२०) कौमारी [शूलं घण्टाभये वामे सैव धत्ते महाभुजा || ३ ||] शक्तिहस्ता च मयूरवरवाहना | योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी || १७ || तथैव वैष्णवी [कौमारी रक्त वर्णा स्यात् षड्वक्त्रा सोर्क लोचना | रविबाहुर्मयूरस्था वरदा शक्तिधारिणी || पताकां बिभ्रती दण्डं पाणंवाणंच दक्षिणे | वामेचापमधो घंटां कमलं कुक्कुटं त्वधः || परशुं विभ्रती तीक्ष्णं तदधस्त्वभयान्विता || ४ ||] शक्तिर्गरुडोपरिसंस्थिता | शंख चक्र गदा शार्ङ्गखड्गहस्ताभ्युपाययौ || १८ ||
223 SK यज्ञवाराहमतुलं रूपं या विभ्रतो हरेः | शक्तिः साप्याययौ तत्र वाराहीं [बाहुभिर्गरुडारूढा शंख चक्र गदासिनी | शार्ङ्गवाणधरा जाता वैष्णवीरूपशालिनी || ५ ||] बिभ्रतीतनुम् || १९ || नारसिंही [कृष्णवर्णातु वाराही शूकरास्यामहोदरी | वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा || खेटपाशाभया वामे सैव चाथ लसद्भुजा || ६ ||] नृसिंहस्य बिभ्रती सदृशं वपुः | प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्र संहतिः || २० || वज्रहस्ता तथेवैन्द्री [नारसिंहस्येयं नारसिंही || ७ || ऐन्द्री सहस्र दृक्सौम्या हेमाभा गजसंस्थिता | वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वे तु दक्षिणे || वामेतु कलशं पात्र त्वभयं दक्षिणे करे ||] गजराजोपरिस्थिता | प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा || २१ || प्. ३२१) ततः परिवृतस्ताभिरीशानो देवशक्तिभिः | हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् || २२ || ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा | चंडिका शक्तिरत्युग्रा शिवा शतनिनादिनी || २३ || सा चाह धूम्रजटिलमीशानमपराजिता | दूत त्वं गच्छ भगवन्पार्श्वं शुम्भ निशुम्भयोः || २४ || ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ | ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः || २५ || त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः | यूयं प्रयात पातालं यदि जीवितुमिच्छथ || २६ || प्. ३२२) बलावलेपादथ चेद्भवन्तो युद्धकांक्षिणः | तदागच्छत तृप्यन्तु मच्छिवाः पिशितेनवः || २७ || यतो नियुक्तोदौत्येन तया देव्या शिवः स्वयम् | [शिवदूती ध्यानम् || शिवदूतीति साख्याता चण्डी फेरुशतैर्वृता | चतुर्भुजां महाकायां सिन्दूर सदृश द्युतिम् || रक्तदन्तां मुण्डमालां जटाजूटार्ध चन्द्रधृक् | नागकुण्डल हाराभ्यां शोभितं नखरोज्वलम् || व्याघ्रचर्मपरीधानं दक्षिणे चैवशूलधृक् | वामे पाशं तथा चर्म बिभ्रदूर्ध्वाधरक्रमात् || स्थूलवक्त्रं च पीमौष्ठं भृंगमूर्तिभयंकरम् | निक्षिप्य दक्षिणं पादं संतिष्ठत्कुणपोपरि ||
224 SK वामपादं शृगालस्य पृष्ठे फेरु शतैर्वृतम् | तादृशं शिवदूत्यास्तु मूर्द्ध्नि ध्यायेद्विभूतये ||] शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता || २८ || तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः | अमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता || २९ || ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः | [व वृषुः शा०]ववर्षुरुद्धतामर्षास्तान्देवीममरारयः || ३० || प्. ३२३) सा च तान्प्रहितान्बाणञ्छूलशक्तिपरश्वधान् | चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः || ३१ || [तस्यास्तथाग्रतः इति वा पाठः] तस्याग्रतस्तथा कालीशूल पातविदारितान् | खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा || ३२ || कमण्डलुजलाक्षेपहतवीर्यान्हतौजसः | ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति || ३३ || माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी | दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना || ३४ || प्. ३२४) ऐन्द्री कुलिशपातेन शतशोदैत्यदानवाः | पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः || ३५ || तुण्डप्रहारविध्वस्ता दंष्टाग्रक्षतवक्षसः | वाराहमूर्त्यान्यपतंश्चक्रेण च विदारिताः || ३६ || नखैर्विदारितांश्चान्यान्भक्षयन्ती महासुरान् | नारसिंही चचाराजौ नादापूर्णदिगम्बरा || ३७ || चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः | पेतुः पृथिव्यांपतितांस्तांश्चखादाथ सा तदा || ३८ || इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् | प्. ३२५) दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः || ३९ || पलायनपरान् दृष्ट्वादैत्यान्मातृगणार्दितान् | योद्धुमभ्याययौक्रुद्धौ रक्तबीजो महासुरः || ४० || रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः | समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः || ४१ || युयुधे स गदापणिरिन्द्रशक्त्या महासुरः | ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् || ४२ || कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् | समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः || ४३ || यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः | तावन्तः पुरुषा जातास्तद्वीर्यब्लविक्रमाः || ४४ ||
225 SK ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः | प्. ३२६) समं मातृभिरत्युग्र शस्त्रपाताति भीषणम् || ४५ || पुनश्च वज्रपातेन क्षतमस्य शिरोयदा | ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः || ४६ || वैष्णवी समरे चैनं चक्रेणाभिजघान ह | गदया ताडयामास ऐन्द्रीतमसुरेश्वरम् || ४७ || वैष्णवी चक्रभिन्नस्य रुधिरस्रावसम्भवैः | सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः || ४८ || शक्त्या जघान कौमारी वाराही च तथासिना | माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् || ४९ || स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् | मातृः कोपसमाविष्टो रक्तबीजो महासुरः || ५० || तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि | पपातयो वै रक्तौघस्तेनासञ्छतशोऽसुराः || ५१ || प्. ३२७) तैश्चासुरासृक्ससम्भूतैरसुरैः सकलं जगत् | व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् || ५२ || तान्विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा | उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु || ५३ || मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् | रक्तबिन्दोः प्रतीच्छत्वं वक्त्रेणानेन [वेगिता० शा०]वेगिना ||५४ || भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् | एवमेषक्षयं दैत्यः क्षीणरक्तोगमिष्यति || ५५ || भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे | इत्त्युक्त्वा तां ततो देवीशूलेनाभिजघान तम् || ५६ || प्. ३२८) मुखेन काली जगृहे रक्तबीजस्य शोणितम् | ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् || ५७ || न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि | तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् || ५८ || यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति | मुखे समुद्गता येऽस्या रक्तपातान्महासुराः || ५९ || तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् | देवीशूलेन वज्रेण बाणैरसिभिर्-ऋष्टिभिः || ६० || जघानरक्तबीजं तं चामुण्डापातशोणितम् | स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः || ६१ || नीरक्तश्चमहीपाल रक्तबीजो महासुरः | ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप || ६२ || प्. ३२९)
226 SK तेषां मातृगणोजातो ननर्तासृङ्मदोद्धतः ॐ || ६३ || इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरेदेवीमाहात्म्ये रक्तबीजवधो नामाष्टमोऽध्यायः || ८ || उवाच १ अर्ध १ श्लोद ६१ एवं ६३ एवमादितिः || ५०२ || ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति || ॐ जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै रक्ताक्ष्यै अष्टमातृ सहितायै महाहुतिं समर्पयामि नमः स्वाहा || अथ नवमोऽध्यायारम्भः अथ ध्यानम् || ॐ बन्धूककाञ्चननिभां रुचिराक्षमालां पांशां कुशौ च वरदां निजबाहुदण्डैः || प्. ३३०) विभ्राणमिन्दुशकलाभरणां त्रिनेत्रामर्धाम्बिकेशमनिशं वपुराश्रयामि || ९ || राजोवाच || १ || ॐ विचित्रमिदमाख्यातं भगवन् भवता मम | देव्याश्चरितमाहात्म्यंरक्तबीजवधाश्रितम् || २ || भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते | चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः || ३ || ऋषिरुवाच || ४ || चकार कोपमतुलं रक्तबीजे निपातिते | शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे || ५ || हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् | अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया || ६ || प्. ३३१) तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः | संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः || ७ || आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः | निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः || ८ || ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः | शरवर्षमतीवोग्रं मेघयारिव वर्षतोः || ९ || चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिकाशु (स्व)शरोत्करैः | ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ || १० || निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् | अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् || ११ || ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् | प्. ३३२) निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् || १२ ||
227 SK छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेपसोऽसुरः | तामप्यस्यद्विधा चक्रे चक्रेणाभिमुखागताम् || १३ || कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः | आयातं मुष्टिपातेन देवी तच्चात्यचूर्णयत् || १४ || आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति | सापि देव्या त्रिशूलेन भिन्नाभस्मत्वमागता || १५ || ततः परशुहस्तंतमायांतंदैत्यपुङ्गवम् | आहत्य देवीवाणौघैरपातयत भूतले || १६ || तस्मिन्निपतिते भूमौनिशुम्भेभामविक्रमे | प्. ३३३) भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुम्बिकाम् || १७ || स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः | भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः || १८ || तमायान्तं समालोक्य देवी शंखमवादयत् | ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् || १९ || पूरयामास ककुभो निज घण्टास्वनेन च | समस्तदैत्यसैन्यानां तेजोवधविधायिना || २० || ततः सिंहो महानादैस्त्याजितेभमहामदैः | पूरयामास गगनं गां तथोपदिशोदश || २१ || ततः काली समुत्पत्य गगनं क्ष्मामताडयत् | कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः || २२ || प्. ३३४) अट्टट्टहासमशिवं शिवदूती चकार ह | तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं पर ययौ || २३ || दुरात्मṁस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा | तदा जयेत्यभिहितं देवैराकाश संस्थितैः || २४ || शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा | आयान्तीवह्निकूटाभा सा निरस्ता महोल्कया || २५ || सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् | निर्घातनिः स्वनोघोरो जितवानवनीपते || २६ || शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् | चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः || २७ || प्. ३३५) ततः सा चण्डिका क्रुद्धा शूलेनाभिजघानतम् | स तदाभिहतो भूमौ मूर्च्छितोनिपपात ह || २८ || ततोनिशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः | आजघान शरैर्देवीं कालीं केसरिणां तथा || २९ || पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः | चक्रायुधेन दितिजश्छादयामास चण्डिकाम् || ३० ||
228 SK ततो भगवति क्रुद्धा दुर्गा दुर्गार्तिनाशिनी | चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान् || ३१ || ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् | अभ्यधावत वै हन्तुं दैतयसेनासमावृतः || ३२ || प्. ३३६) तस्यापतत एवाशु गदां चिच्छेद चण्डिका | खड्गेन शितधारेण स च शूलं समाददे || ३३ || शूलहस्तं समायान्तं निशुम्भममरार्दनम् | हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका || ३४ || भिन्नस्य तस्य शूलेन हृदयान्निः सृतोऽपरः | महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् || ३५ || तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः | शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि || ३६ || ततः सिंहश्चखादोग्रं दंष्ट्राक्षुण्ण शिरोऽधरान् | असुरांस्तांस्तथा काली शिवदूती तथापरान् || ३७ || प्. ३३७) कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः | ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः || ३८ || माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे | वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि || ३९ || खण्ड खण्डं च चक्रेण वैष्णव्या दानवाः कृताः | वज्रेणचैन्द्रीहस्ताग्रविमुक्तेन तथापरे || ४० || केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् | भक्षिताश्चापरे काली शिवदूतीमृगाधिपैः ॐ || ४१ || इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरेदेवीमाहात्म्येनिशुम्भवधोनामनवमोऽध्यायः || ९ || उवाच २ श्लोक ३९ एवम् ४१ एवमादितः || ५४३ || प्. ३३८) ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति || क्लीं जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै भैरव्यै तारादेव्यै महाहुतिं समर्पयामि नमः स्वाहा || अथ दशमोध्यायः प्रारम्भः अथ ध्यानम् ॐ उत्तप्तहेमरुचिरां रविचन्द्रवह्निनेत्रां धनुश्शरयुतांकुशपाशशूलम् | रम्यैर्भुजैश्च दधतीं शिवशक्तिरूपांकामेश्वरींहृदिभजामिधृतेन्दुलेखाम् || १० || ऋषिरुवाच || १ ||
229 SK ॐ निशुम्भ निहतंदृष्ट्वा भ्रातरं प्राणसम्मितम् | हन्यमानं बलं चैव शुम्भ [शिव पुराणे || दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ सं बभूवतुः | याचितं तपसाताभ्यां ब्रह्मणः परमेष्ठिनः || अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलरपि | अयोनिजातु या कन्यास्त्र्यङ्गकोश समुद्भवा || अजात पुं स्पर्श रति रविलंघ्य पराक्रमा | तस्यास्तु नौ वधः संख्ये तस्यां कामाभि भूतये || इति चाभ्यर्थितोब्रह्मा ताभ्यां प्राहतथास्त्विति ||] क्रुद्धोऽब्रवीद्वचः || २ || प्. ३३९) बलाबलेपाद्दुष्टेत्वं मादुर्गे गर्वमावह | अन्यासां बलमाश्रित्ययुद्ध्यसे याति मानिनी || ३ || देव्युवाच || ४ || एकैवाहं जगत्यत्र द्वितीया का ममापरा | पश्यैता दुष्टमय्येव विशन्त्यो मद्विभूतयः || ५ || ततः समस्तास्ता देव्यो ब्रह्माणी प्रमुखा लयम् | तस्या देव्यास्तनौ जग्मुरेकै वासीत्तदाम्बिका || ६ || देव्युवाच || ७ || अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता | तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव || ८ || ऋषिरुवाच || ९ || ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः | पश्यतां सर्वदेवानामसुराणां च दारुणम् || १० || प्. ३४०) शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः [अस्त्र प्रति घातास्त्राणि यथा - आग्नेयं वारुणेन | वारुणं वायव्येन || वायव्यं सार्पेण || सार्पं गारुडेन || गारुडं वैष्णवेन प्रतिहतं भवति एतानि धनुः शास्त्रे प्रसिद्धानि ||] | तयोर्युद्धमभूद्भूयः सर्वलोकभयंकरम् || ११ || दिव्यान्यस्त्राणि शतशोमुमुचे यान्यथाम्बिका | बभञ्जतानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः || १२ || मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी | बभञ्ज लीलयैवोग्रहूङ्कारोच्चारणादिभिः || १३ || ततः शरशतैर्देवीमाच्छादयत सोऽसुरः | सापितत्कुपिता देवी धनुश्चिच्छेद चेषुभिः || १४ || प्. ३४१) छिन्ने धनुषिदैत्येन्द्रस्तथा शक्तिमथाददे | विच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् || १५ ||
230 SK ततः खड्गमुपादाय शतचन्द्रं च भानुमत् | अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः || १६ || तस्यापतत एवाशु खड्गं चिच्छेद चंडिका | धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् || १७ || हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः | जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः || १८ || चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः | तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् || १९ || प्. ३४२) स मुष्टिं पातायामास हृदये दैत्यपुंगवः | देव्यास्तं चापि सा देवी तलेनोरस्य ताडयत् || २० || तलप्रहाराभिहतो निपपात महीतले | स दैत्यराजः सहसा पुनरेव तथोत्थितः || २१ || उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः | तत्रापि सा निराधारा युयुधे तेन चण्डिका || २२ || नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् | चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् || २३ || ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह | उत्पात्य भ्रामयामास चिक्षेप धरणी तले || २४ || स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः | अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया || २५ || प्. ३४३) तामायान्तं ततो देवी सर्वदैत्यजनेश्वरम् | जगत्यां पातयामास भित्त्वा शूलेन वक्षसि || २६ || स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः | चालयन्सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् || २७ || ततः प्रसन्नमखिलं हते तस्मिन्दुरात्मनि | जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः || २८ || उत्पातमेघाः सोल्का ये प्रागासंस्त शमं ययुः | सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते || २९ || ततो देवगणाः सर्वे हर्षनिर्भरमानसाः | बभूवुर्निहते तस्मिन्गन्धर्वा ललितं जगुः || ३० || अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः | ववुः पुण्यास्तथावाताः सुप्रभोऽभूद्दिवाकरः || ३१ || प्. ३४४)
231 SK जज्वलुश्चाग्नयः शान्ताः [शान्त दिग्लक्षणमाह वराहः || अङ्गारिणी दिग्रविणा विमुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता || प्रधूमितायस्यति यां दिनेशः शेषाश्चशान्ताः शुभदाश्च ताः स्युः ||] शान्तदिग्जनितस्वनाः ॐ || ३२ || इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः || १० || ४ उवाच अर्ध १ श्लोक २७ एवम् ३२ एवमादितः || ५७५ || ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || प्. ३४५) एकादशोध्यायः अथ ध्यानम् || बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् | स्मेरमुखीं वरदांकुशपाशाभीतिकरां प्रभजे भुवनेशीम् || ११ || [क्षीरिका || (खीर) भावप्रकाशे पूर्व खण्डे कृतान्नवर्गे | पायसं परमान्नं स्यात् क्षीरिकापि तदुच्यते || शुद्धेर्द्ध पक्वे दुग्धेतु घृताक्तांस्तण्डुलान् पचेत् | ते सिद्धाक्षीरिकाख्याता सासिताज्ययुतोपमा | क्षीरिकादुर्जराबल्या धातुपुष्टिप्रदा गुरुः || विष्टम्भिनी हरेत्पित्तरक्तपिताग्निमारुतान् ||] ऋषिरुवाच || १ || ॐ देव्याहते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् | कात्यायनीं तुष्टुवुरिष्टलाभाद्विकाशिवक्त्राब्जविकाशिताशाः || २ || देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य | प्. ३४६) प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य || ३ || आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि | अपां स्वरूपस्थितया त्वयैतदाप्यायते कृत्स्नमलङ्घ्यवीर्ये || ४ || त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासिमाया | संमोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः || ५ || विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु | त्वयैकया पूरितमम्बयैतत्का ते स्तुतिः स्तव्यपरापरोक्तिः || ६ || सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी | प्. ३४७) त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः || ७ ||
232 SK सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते | स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते || ८ || कलाकाष्ठादिरूपेण परिणामप्रदायिनि | विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते || ९ || सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके | शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते || १० || सृष्टि स्थितिविनाशानां शक्तिभूते सनातनि | प्. ३४८) गुणाश्रये गुणमये नारायणि नमोऽस्तु ते || ११ || शरणागतदीनार्तपरित्राणपरायणे | सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते || १२ || हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि | प्. ३४९) कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तु ते || १३ || त्रिशूलचन्द्राहिधरे महावृषभवाहिनि | माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते || १४ || मयूरकुक्कुटवृते महाशक्तिधरेऽनघे | कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते || १५ || शंखचक्रगदाशार्ङ्गगृहीतपरमायुधे | प्रसीदवैष्णवीरूपे नारायणि नमोऽस्तु ते || १६ || गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे | वराहरूपिणि शिवे नारायणि नमोऽस्तु ते || १७ || नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे | प्. ३५०) त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते || १८ || किरीटिनि महावज्रे सहस्रनयनोज्ज्वले | वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते || १९ || शिवदूतीस्वरूपेण हतदैत्यमहाबले | घोररूपे महारावे नारायणि नमोस्तुते || २० || दंष्ट्राकरालवदने शिरोमालाविभूषणे | चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते || २१ || लक्ष्मिलज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे | महारात्रि महाविद्ये नारायणि नमोऽस्तु ते || २२ || मेधे सरस्वति वरे भूति वाभ्रवि तामसि | नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते || २३ || प्. ३५१) सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते | भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते || २४ || एतत्ते वदनं सौम्यं लोचनंत्रयभूषितम् | पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते || २५ ||
233 SK ज्वालाकरालमत्युग्रमशेषासुरसूदनम् | त्रिशूलं पातुनोभीतेर्भद्रकालि नमोऽस्तुते || २६ || हिनस्तिदैत्यतेजांसि स्वनेनापूर्य या जगत् | सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव || २७ || असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः | शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् || २८ || प्. ३५२) रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान्सकलानभीष्टान् | त्वामाश्रितानां न विपन्नराणां त्वामाश्रिताह्याश्रयतां प्रयान्ति || २९ || एतत्कृतं यत्कदनं त्वयाद्य धर्म द्विपां देवि महासुराणाम् | रूपैरनेकैर्बहुधात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या || ३० || विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च का त्वदन्या | ममत्वगर्तेऽति महान्धकारे विभामयत्येतदताव विश्वम् || ३१ || प्. ३५३) रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र | दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् || ३२ || विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् | विश्वेशवन्द्या भवति भवन्तिविश्वाश्रया ये त्वयि भक्तिनम्राः || ३३ || देवि प्रसीद पारिपालय नोऽरिभीतेर्नित्यं यथासुरवधादधुनव सद्यः | पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनिताṁश्च महोपसर्गान् || ३४ || प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि | प्. ३५४) त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव || ३५ || देव्युवाच || ३६ || वरदाहं सुरगणा वरंयन्मनसेच्छथ | तं वृणुध्वं प्रयच्छामिजगतामुपकारकम् || ३७ || देवा ऊचुः || ३८ || सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि | एवमेव त्वयाकार्यमस्मद्वैरिविनाशनम् || ३९ || देव्युवाच || ४० || वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे | शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ || ४१ || नन्दगापगृहे जाता यशोदागर्भसम्भवा | ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी || ४२ || पुनरप्यतिरौद्रेण रूपेण पृथिवीतले | प्. ३५५) अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् || ४३ ||
234 SK भक्षयन्त्याश्च तानुग्रान्वैप्रचित्तान्महासुरान् | रक्तादन्ता भविष्यन्ति दाडिमीकुसुमोपमाः || ४४ || ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः | स्तुवन्तो व्याहारष्यनित् सततं रक्तदन्तिकाम् || ४५ || भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि | मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा || ४६ || विरुद्धाप्रचितिः प्रकृष्टं ज्ञानं यस्यासौ विप्रचित्तिर्नाम कश्चिद्दानवः | कश्यप तृतीया पत्न्याः पुत्रः | विप्रचित्ति प्रधानास्ते दानवाः सुमहाबला इति हरिवंशे || विख्यात विप्रचित्तेर्दानवस्यापत्यानि वैप्रचित्ताः | विप्रचित्तेः पुत्राः हरिवंशे प्रसिद्धः || सिंहकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा | दैत्य दानव संयोगाज्जातास्तीव्र पराक्रमाः || सैंहिकेया इति ख्यातास्त्रयो दश महाबलाः || व्यंगः शल्यश्च बलिनो नभश्चैव महाबलः || वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा || आञ्जिकोनरकश्चैव कालनाभस्तथैवच || राहुर्ज्येष्ठश्चतेषांवैचन्द्रसूर्य प्रमर्दनः || तत्रराहुश्चिरस्थायि | वातापिरगस्त्येन भुक्तः | नमुचिरिन्द्रेणहतः | शेषान्वैप्रचित्ताञ् शुम्भ निशुम्भौहत्वापुनर्हनिष्यामि || इतिवामनपुराणे || प्. ३५६) ततः शतेन नेत्राणां निरीक्षिष्यामियन्मुनीन् | कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः || ४७ || ततोऽहमखिलंलोकमात्मदेहसमुद्भवैः | भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः || ४८ || [भूयः सुरास्त्व्ष्य युगे निराशिनी निरीक्ष्य मारीचगृहे शतक्रतोः || संभूयदेव्यामित सप्तवामया सुराभविष्यामि शाकम्भरीति भगवत्यिवानुज्ञानात् वामनपुराणे ||] शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि | तत्रैवचबधिष्यामि [अय दुर्गसोरुरु पुत्रः पुरुषान्नमेमृतिरिति ब्रह्मणोलब्धवरः | अत्रशाकंभरीदेव्यवतारोऽष्टाविंशे कलियुगे इति ज्ञेयम् ||] दुर्गमाख्यंमहासुरम् || ४९ || दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति | पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले || ५० || रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् | प्. ३५७)
235 SK तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः || ५१ || भीमादेवीतिविख्यातं तन्मेनामभविष्यति | यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति || ५२ || तदाह भ्रामरं रूपंकृत्वा संख्येयषट्पदम् | त्रैलोक्यस्य हितार्थाय बधिष्यामि महासुरम् || ५३ || [भ्रामरी नाम्ना स्तोष्यन्ति वाचा पूजयिष्यन्ति || भ्रामर्याः चतुर्युगेऽवतार इति लक्ष्मी तन्त्रे ||] भ्रामरीति च मां लोकास्तदा स्तोष्यन्तिसर्वतः | इत्थंयदायदा बाधा दानवोत्था भविष्यति || ५४ || तदा तदावतीर्याहं करिष्याम्यरि संक्षयम् | ॐ || ५५ || प्. ३५८) इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये देव्याः स्तुतिर्नामैकादशोऽध्यायः || ११ || उवाच ४ अर्ध १ श्लोक ५० एवम् ५५ एवमादितः ६३० || ॐ जय जय मार्कण्डेय पुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || तान्त्रिक आहुति || क्लीं जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मी बीजाधिष्ठात्र्यै गरुड वाहिन्यै नारायणिदेव्यै महाहुतिं समर्पयामि नमः स्वाहा || अथ द्वादशोऽध्यायः प्रारम्भः अथ ध्यानम् ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणांकन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् || हस्तैश्चक्रगदासिखेटविशिखाṁश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकांशशिधरां दुर्गांत्रिनेत्रांभजे || १२ || प्. ३५९) देव्युवाच || १ || ॐ एभिः स्तवैश्चमांनित्यंस्तोष्यते यः समाहितः | तस्याहं सकलांबाधां शमयिष्याम्यसंशयम् || २ || मधुकैटभनाशं च महिषासुरघातनम् | कीर्तयिष्यन्ति ये तद्वद्वधंशुम्भनिशुम्भयोः || ३ || अष्टम्यां च चतुर्दश्यांनवम्यांचैकचेतसः | श्रोस्.यन्ति चैव ये भक्त्यामममाहात्म्यमुत्तमम् || ४ || न तेषांदुष्कृतं किञ्चिद्दुष्कृतोत्थानचापदः | भविष्यतिनदारिद्र्यं न चैवेष्टवियोजनम् || ५ || शत्रुतो न भयं तस्य दस्युतो वा न राजतः | न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति || ६ || प्. ३६०)
236 SK तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितः | श्रोतव्यं च सदाभक्त्या परं स्वस्त्ययनं [महत् इति प्राचीन पुस्तके पाठः || उत्पतत्यकस्मादित्युत्पातोदुःखंतस्य त्रैविध्यं आध्यात्मिकाधिदैविकाधिभौतिक भेदेन | तत्राधयत्मिकं द्विविधं शारीरं मानसं च || शारीरं वातपित्तश्लेष्मणां वैशम्यनिमित्तं || मानसं काम क्रोध लोभ मोहेर्ष्या विषाद दर्शन निबन्धनम् || सर्वं चतदान्तरोपाय साध्यत्वादाध्यात्मिकं च || तत्राधिभौतिकं मानुष पशु पक्षि सरीसृप स्थावर निमित्तं || अधिदैविकं यक्ष राक्षस विनायक ग्रहादिनिबन्धनमिति || ] हि तत् || ७ || उपसर्गानशेषांस्तु महामारीसमुद्भवान् | तथा त्रिविधमुत्पातंमाहात्म्यं शमयेन्मम || ८ || यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम | सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् || ९ || बलिप्रदाने पूजायामग्निकार्ये महोत्सवे | प्. ३६१) सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च || १० || जानताजानता वापि बलिपूजां तथा कृताम् | प्रतीच्छिष्याम्यहं प्रीत्यावह्निहोमं तथा कृतम् || ११ || शरत्काले महापूजा क्रियते या च वार्षिकी | तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः || १२ || सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः | मनुष्या मत्प्रसादेन भविष्यति न संशयः || १३ || श्रुत्वा ममैतन्माहात्म्यं तथा चेओत्पत्तयः शुभाः | पराक्रमं च युद्धेषु जायते निर्भयः पुमान् || १४ || रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते | नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् || १५ || शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने | प्. ३६२) ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम || १६ || उप्रसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः | दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते || १७ || बालग्रहाभिभूतानां बालानां शान्तिकारकम् | संघातभेदे च नृणां मैत्त्रिकरणमुत्तमम् || १८ || दुर्वृत्तानामशेषाणां बलहानिकरं परम् | रक्षोभूतपिशाचानां पठनादेव नाशनम् || १९ ||
237 SK सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् | पशुपुष्पार्घधूपैश्च गन्धदीपैस्तथोत्तमैः || २० || विप्राणां भोजनैर्होमः प्रोक्षणीयैरहर्निशम् | अन्यैश्चविविधैर्भोगैः प्रदानैर्वत्सरेण या || २१ || प्. ३६३) प्रीतिर्मे क्रियते सास्मिन्सकृत्सु [उच्चरिते इति पाठः] चरिते श्रुते | श्रुतंहरति पापानि तथारोग्यं प्रयच्छति || २२ || रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम | युद्धेषु चरितं यन्मे दुष्ट दैत्यनिबर्हणम् || २३ || तस्मिञ्छ्रुते वैर्कृतं भयं पुंसां न जायते | युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः || २४ || ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् | अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः || २५ || दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः | प्. ३६४) सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः || २६ || राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा | आघूर्णितो वा वातेन स्थितः पोते महार्णवे || २७ || पतत्सु चापि शस्त्रेषु संग्रामे भृशदरुणे | सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा || २८ || सरन्ममैतच्चरितं नरो मुच्येत सङ्कटात् | मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा || २९ || दूरादेव पलायन्ते स्मरतश्चरितं मम || ३० || ऋषिरुवाच || ३१ || इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा || ३२ || पश्यतांसर्व देवानां तत्रैवान्तरधीयत | प्. ३६५) तेऽपि देवा निरातङ्काःस्वाधिकारान्यथा पुरा || ३३ || यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः | दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि || ३४ || जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे | निशुम्भे च महावीर्ये शेषाः पातालमाययुः || ३५ || एवं भगवती देवी सा नित्यापि पुनः पुनः | सम्भूय कुरुते भूप जगतः परिपालनम् || ३६ || तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते | सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति || ३७ || व्याप्तं तयैतत्सकलंब्रह्माण्डं मनुजेश्वर | महाकाल्या महाकाले महामारीस्वरूपया || ३८ || प्. ३६६)
238 SK सैवकाले महामारी सैव सृष्टिर्भवत्त्यजा | स्थितिं करोति भूतानां सैव काले सनातनी || ३९ || भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदागृहे | सैवाभावे तथा लक्ष्मीविनाशायोपजायते || ४० || स्तुता संपूजिता पुष्पैर्धूपगन्धादिभिस्तथा | ददाति वित्तं पत्राṁश्च मतिं धर्मे तथा शुभाम् ॐ || ४१ || इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये फलस्तुतिर्नाम द्वादशोऽध्यायः || १२ || उवाच २ अर्ध २ श्लोक ३७ एवम् ४१ एवमादितः || ६७१ || ॐ जय जय मार्कण्डेयपुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु || प्. ३६७) तान्त्रिक आहुति || क्ली जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै [पा० वाला त्रिपुर सुन्दर्यै] वर प्रदायै वैष्णवी देव्यै महाहुतिं समर्पयामि नमः स्वाहा ||] अथ त्रयोदशोऽध्यायारम्भः अथ ध्यानम् || ॐ वालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् | पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे || १३ || ऋषिरुवाच || १ || ॐ एतत्ते कथितं भूप देवी माहात्म्यमुत्तमम् | एवं प्रभावा सा देवी ययेदं धार्यते जगत् || २ || विद्या तथैव क्रियते भगवद्विष्णुमायया | प्. ३६८) तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः || ३ || मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे | तामुपैहि महाराज शरणं परमेश्वरीम् || ४ || आराधिता सैव नृणांभोगस्वर्गापवर्गदा || ५ || मार्कण्डेय उवाच || ६ || इति तस्य वचः श्रुत्वा सुरथः स नराधिपः || ७ || प्रणिपत्य महाभागं तमृषिं शंसितव्रतम् | निर्विण्णोऽतिममत्वेन राज्यापहरणेनच || ८ || जगाम सद्यस्तपसे स च वैश्यो महामुने | संदर्शनार्थमम्बाया नदी [कुमुदानां आमोदो यत्र तेन वायुनोपलक्षितं तयानद्यास्तरलैस्तरंगै रानंदयति लच्छीलं पुलिनम् || ] पुलिनसंस्थितः || ९ ||
239 SK स च वैश्यस्तपस्तेपे देवासूक्तं परं [जिह्वोष्टौ चालयेत्किंचिद्देवतागतमानसः | किंचिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः || १ ||] जपन् | प्. ३६९) तौतस्मिन्पुलिने देव्याः कृत्वा मूर्तिं महामयीम् || १० || अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः | निराहारौ [निराहाराविति विशेषणेन शरीरं पातयामि वा || मन्त्रं साधयामीति हठयोगः सूचितः || पूर्वंयता हारौपश्चान्निराहारावित्यर्थः | विपरीते पाठक्रमादर्थ क्रमस्य बलवत्वम् ||] यताहारौ तन्मनस्कौ समाहितौ || ११ || ददतुस्तौ [तदुक्तं | तुण्डजं बाहुजं वापि रक्तमांसमयं बलिम् || भक्त्या वेशान्महाशूरो महामायार्थमुत्सृजेत् ||] बलिं चैव निजगात्रासृगुक्षितम् || एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः || १२ || परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका || १३ || देव्युवाच || १४ || यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन | मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् || १५ || प्. ३७०) मार्कण्डेय उवाच || १६ || ततो वब्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि | अत्रैवच निजं राज्यं हतशत्रुबलंबलात् || १७ || सोऽपिवैश्य स्ततो ज्ञानं वब्रे निर्विण्णमानसः | ममेत्यहमितिप्राज्ञः संगविच्युतिकारकम् || १८ || देव्युवाच || १९ || स्वल्पेरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् || २० || हत्वा रिपूनस्खलितं तव तत्र भविष्यति || २१ || मृतश्च भूयः संप्राप्य जन्मदेवाद्विवस्वतः || २२ || सावाणको मनुर्नाम भवान् भुवि भविष्यति || २३ || वैश्यवर्यत्वयायश्चवरोऽस्मत्तोऽभिवाञ्छितः || २४ || प्. ३७१) तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति || २५ || मार्कण्डेय उवाच || २६ || इति दत्त्वा तयोर्देवा यथाभिलषितं वरम् | बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता || २७ || एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः | सूर्याज्जन्म समासाद्य सावर्णिभविता मनुः || २८ ||
240 SK [स्तोत्रे च संहितायाञ्च अन्त्यश्लोकं पठेद्विधा || इति रुद्रयामले | ब्रह्मानन्द रसं पीत्वा येतु उन्मत्त योगिनः || इन्द्रोऽपि रङ्कवद्भाति का कथा नृप कीटकः || सप्तशती स्तोत्र प्रशंसा लक्ष्मी तन्त्रे || सम्यघृदि स्थिता सेयं जन्मकर्माबलिस्तुतिः | एतां द्विज मुखाज्ज्ञात्वा अधीयानो नरः सदा || विधूय निखिलां मायां सम्यग्ज्ञान समश्नुते | सर्वसम्पदमाप्नोति धुनोति निखिलापद इति || सर्वेषां द्विजातीनां सप्तसती पाठनिष्ठानां कामधुगेवेति | शिवम् ||] एवं देव्यावरं लब्ध्वा सुरथः क्षत्रियर्षभः | सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः क्लीं ॐ || २९ || प्. ३७२) इति श्री कार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः || १३ || उवाच ६ अध १९ श्लोक १४ एवं २९ एवमादितः || ७०० || समस्त उवाच ५७ अर्ध ४२ श्लोक ५३५ अवदानम् || ६६ || ॐ जय जय मार्कण्डेय पुराणेसावर्णिकेमन्वन्तरे देवी माहात्म्ये सत्याः सन्तु (यजमानस्य कामाः) जगदम्बार्पणमस्तु ||] तान्त्रिक आहुति || क्लीं जयन्ती सांगायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै [श्री महा त्रिपुरसुन्दर्यै |] श्री विद्यायै महाहुतिं समर्पयामि नमः स्वाहा ||] अथोत्तर करषडङ्ग न्यासाः || ॐ ह्रीं हृदयाय नमः || ॐ चं शिरसे स्वाहा || ॐ डिं शिखायैवषट् || ॐ कां कवचायहुम् || ॐ य नेत्रत्रयाय वौषट् || ॐ ह्रीं चंडिकायै अस्त्रायफट् || ॐ खड्गिनी शूलिनी घोरा गादनी चक्रिणी तथा | शंखिनी चापिनी वाणभुशुण्डी परिघायुधा || हृदयाय नमः || प्. ३७३) ॐ शूलेनपाहिनो देवि पाहि खड्गेन चाम्बिके | घण्टा स्वनेन नः पाहि चापज्या निःस्वनेन च || शिरसे स्वाहा || ॐ प्राच्यां रक्ष प्रतीच्यांच चण्डिके रक्स्ऽ दक्षिणे | भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि || शिखायैवषट् || ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते | यानि चात्यर्थ घोराणि तैरक्षास्मांस्तथाभुवम् || कवचाय हुम् ||
241 SK ॐ खड्ग शूल गदादीनि यानि चास्त्राणितेम्बिके | करपल्लवसंगीनि तैरस्मान्रक्षसर्वतः || नेत्रत्रयाय वौषट् || ॐ सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते | भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते || अस्त्राय फट् || अथ ध्यानम् ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवाल खेट विलसद्धस्ताभिरासेविताम् | हस्तैश्चक्रगदासिखेटविशिखांश्चापंगुणं तर्जनींबिभ्राणामनलात्मिकां शशिधरांदुर्गां त्रिनेत्रां भजे || १ || प्. ३७४) अथ ऋग्वेदोक्त देवीसूक्तम् || ॐ अहंरुद्रेभिरित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः सच्चित्सुखात्मकः सर्वगतः श्री आदि शाक्तिर्देवता त्रिटुप् छन्दः द्वितीया जगती शिष्टानांत्रिष्टुप् छन्दः देवीमाहात्म्यान्ते पाठे विनियोगः || अथ ध्यानम् || ॐ सिंहस्था शशि शेखरा मरकत प्रख्यैश्चतुर्भिर्भुजैः शंखं चक्र धनुः शरांश्च दधतीं नेत्रैस्त्रिभिः शोभिता | आमुक्ताङ्गदहार कंकणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गति हारिणी भवतु वो (नो) रत्नोल्लसत्कुण्डला || प्. ३७५) ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः | अहंमित्रावरुणोभाविभर्म्यहमिंद्राग्नी अहमश्विनोभा || १ || अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगम् | अहं दधामिद्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते || २ || अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमायज्ञियानाम् | तां मादेवाव्यदधुः पुरुत्राभूरिस्थात्रां भूर्या वेशयन्तीम् || ३ || मयासो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् | प्. ३७६) अमन्तवो मां त उप क्ष्यन्ति श्रुधि श्रुत श्रद्धिवन्ते वदामि || ४ || अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः | यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् || ५ || अह रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ | अहं जनाय समदंकृणोम्यहं द्यावा पृथिवी आविवेश || ६ ||
242 SK अहं सुवे पितरमस्य मूर्द्धन्मम योनिरप्स्वन् १ तः समुद्रे | ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोपस्पृशामि || ७ || प्. ३७७) अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा परोदिवा पर एना पृथिव्यै तावती महिना संबभूव || ८ || ॐ तत्सत् || ऋग्वेदोक्त देवी सुक्तं सम्पूर्णम् || अथ देवीसूक्तम् || नमो देव्यै महादेव्यै शिवाय सततं नमः | नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् || १ || रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमोनमः | ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततंनमः || २ || कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमोनमः | नैर्-ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमोनमः || ३ || दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै | प्. ३७८) ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः || ४ || अतिसौम्याति रौद्रायै नतास्तस्यै नमोनमः | नमो जगत्प्रतिष्ठायै देव्यैकृत्यै नमोनमः || ५ || या देवी सर्वभूतेषु विष्णुमायेति शब्दिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || ६ || या देवी सर्वभूतेषु चेतनेत्यभिधीयते | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || ७ || या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || ८ || या देवी सर्वभूतेषुनिद्रारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || ९ || या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १० || या देवी सर्वभूतेषु छायारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || ११ || या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १२ || या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १३ || या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १४ ||
243 SK या देवी सर्वभूतेषु जातिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १५ || प्. ३७९) या देवी सर्वभूतेषु लज्जारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १६ || या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १७ || या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १८ || या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || १९ || या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २० || या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २१ || या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २२ || या देवी सर्वभूतेषु दयारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २३ || या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २४ || या देवी सर्वभूतेषु मातृरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २५ || या देवी सर्वभूतेषु भ्रांतिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २६ || इन्द्रियाणामधिष्ठात्री भूतानांचाखिलेषु या | भूतेषु सततं तस्यै व्याप्तिदेव्यै नमोनमः || २७ || प्. ३८०) चितिरूएण या कृत्स्नमेतद्व्याप्य स्थिता जगत् || नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः || २८ || स्तुता सुरैः पुर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता | करोतु सा नः शुभहेतुरीश्वरीशुभानि भद्राण्यभिहन्तुचापदः || २९ || या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते | या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः || ३० || इति देवीसूक्तं पठित्वा || २०४ पृष्ठोक्त न्यासान्विधाय ध्यायेत् || महाकाल्यादि ध्यानम् ||
244 SK दशास्यां दशपादाञ्चदशहस्तां विधिस्तुताम् || इन्द्रनीलद्युतिं खड्गं चक्रं शंखं शिरः शरान् || दशहस्तेषु दधतीं गदां शूलं भुशुंडिकाम् || परिघञ्च धनुर्बाणौ दधतीं ब्रह्मसंस्तुताम् || मधुकैटभनाशाथ सालंकारां त्रिवीक्षणाम् || १ || ततोध्यायेन्महालक्ष्मीं महिषासुरमर्दिनीम् || समस्तदेवतातेजो जाताम्पद्मासनस्थिताम् || अष्टादशभुजामक्षमालां च पञ्चसायकान् || खड्गंवज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् || शंखंचदधतीं वामे शक्तिं च परशुन्धनुः || चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् || २ || प्. ३८१) सरस्वतीं ततोध्यायेच्छरच्चन्द्रसमप्रभाम् || शंखंचमुसलञ्चक्रं बाणान्दक्षेषु विभ्रतीम् || घण्टा शूलं हलं चापं वामहस्तेषु बिभ्रतीम् || गौरादेहसमुद्भूतं नृणामानन्ददायिनीम् || आधारभूतां जगतः शुम्भादिकविमर्दिनीम् || ३ || इति ध्यात्वा मानसोपचारपूजयेत् || नवार्ण मन्त्रं जपेत् || ऐं ह्रीं क्लीं चामुण्डायै विच्चे || १०८ || नवार्ण मंत्रं जप्त्वा २६८ पृष्ठीक्त पुनरुत्तर न्यासान्विधाय गुह्यातिगुह्यगोप्त्रा त्वं गृहाणास्मत्कृतं जपम् || सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि || ३१ || क्षमापनम् || ॐ यदक्षरपदभ्रष्टं मात्राहीनञ्च यद्भवेत् | क्षन्तुमहसितद्देवि कस्य न स्खलितं मनः || १ || अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमाधिकं मृतम् | विपरीतं तु तत्सर्वं क्षमस्व परमेश्वरि || २ || यस्याः स्मृत्याचनामोक्त्या तपोयज्ञक्रियादिषु | न्यूनं सम्पूर्णतां याति त्वत्प्रसादान्महेश्वरि || ३ || मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि | या स्तुतासि मयादेवी तस्मात्त्वं वरदाभव || ४ || प्. ३८२) कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे | गृहाण त्वं स्तुतिमिमां प्रसीद परमेश्वरि || ५ || यदत्रपाठे जगदम्बिके मया विसर्गविंद्वक्षरहीनमीरितम् | तदस्तु सम्पूर्णतमं प्रसादतः संकल्पसिद्धिश्च सदैवजायताम् || ६ ||
245 SK यन्मात्रा बिन्दु बिन्दु द्वितय पद पद द्वन्द्व वर्णाद्विहीनम् || भक्त्या भक्त्यानु पूर्वं प्रसभकृतिवशाद्व्यक्तमव्यक्तमम्ब || मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेस्मिन् || तत्सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात्प्रसीद || ७ || प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले | प्रसादं कुरु मे देवि दुर्गे देवि नमोस्तु ते || ८ || यस्यार्थे पठितं स्तोत्रं तवेदं शङ्कर प्रिये | तस्य देहस्य गेहस्य शान्तिभवतु सर्वदा || ९ || यत्किञ्चित्क्रियते देविमया सुकृत दुष्कृतम् | तत्सर्वं त्वयिसन्यस्तं त्वत्प्रयुक्तः करोम्यहम् || इति सर्वंसमर्पयेत् ॐ शान्तिः || ॐ शान्तिः || ॐ शान्तिः || अथ प्राधानिक रहस्यारंभः || ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नारायण ऋषिरनुष्टुप्छन्दः महाकालीमहालक्ष्मीमहासरस्वती देवता यथोक्तफलावाप्त्यर्थं जपे विनियोगः || प्. ३८३) राजोवाच || भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः | एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि || १ || आराध्यं यन्मया देव्याः स्वरूपं येन तद्द्विज | विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे || २ || ऋषिरुवाच || इदं रहस्यं परममनाख्येयं प्रचक्षते | भक्तोसाति न मे किञ्चित्तवावाच्यं नराधिप || ३ || सर्वस्याद्या महालक्ष्मीस्त्रिगुणापरमेश्वरी | [अस्ति भाति प्रियं रूपं नामचेत्यंश पञ्चकम् | आद्यं त्रयं ब्रह्मरूपं माया रूपं ततो द्वयम् ||] लक्ष्यालक्ष्यस्वरूपासा व्याप्यकृत्स्नंव्यवस्थिता || ४ || [सह्याद्रिखण्डे रेणुका माहात्म्ये | दक्षिणेऽधः करे पात्रमूर्ध्वे कौमोदकीं गदाम् || वामेथ खेटकं धत्ते श्रीफलं तदधः करे | बिभ्रती मस्तके लिङ्गं पूजनीया विभूतये || भुवनेश्वरी संहितायामेतेषामर्थः || मातु लिङ्गं कर्मवृन्दं क्रियाशक्त्यात्मिका गदा | ज्ञान शक्त्यात्मकं खेटं तुर्यवृत्तिस्तु पानकम् || लिङ्गं पुरुष इत्युक्तो योनिस्तु प्रकृतिः स्मृता | नागः कालः समाख्यातः सम्बन्धस्तु तयोर्द्वयोः ||
246 SK तथाचमातुलिङ्ग ग्रहणेन सर्व कर्मणां फलदात्र्यहमस्मीति बोध्यते || गदा धारणेन क्रिया स्वरूपा विक्षेप शक्तिर्मय्यस्तीति बोधितम् || खेट धारणेन ज्ञानशक्ति सद्भावदर्शनेनावरणा भावो बोधितः || पानपात्रेण निरंतरमहं स्वात्मानन्दानुभवरसं पिवामीति बोध्यम् || द्वयोः प्रकृति पुरुषयोः संबन्धात्मकोहि कालः || तथा च तेषां धारणेन तेषां प्रकृतिपुरुषकालानामधिष्ठान ब्रह्म रूपिण्यहमस्मीति देव्या बोधितम् ||] ]मातुलिङ्गं गदांखेटं पानपात्रं च बिभ्रती | प्. ३८४) नागंलिङ्गञ्च योनिं च बिभ्रती नृपमूर्द्धनि || ५ || तप्तकाञ्चनवर्णाभा तप्तकाञ्च्नभूषणा | शून्यंतदखिलं स्वेन पूरयामास तेजसा || ६ || शून्यंतदखिलं लोकं विलोक्य परमेश्वरी | बभार परमंरूपं तमसा केवलेन हि || ७ || सा भिन्नाञ्जनसंकाशादंष्ट्राङ्कितवरानना | विशाललोचनानारा बभूव तनुमध्यमा || ८ || खड्गपात्रशिरः खेटैरलंकृतचतुर्भुजा | प्. ३८५) कबन्धहारंशिरसा बिभ्राणाहि शिरः स्रजम् || ९ || सा प्रोवाच महालक्ष्मींतामसीप्रमदोत्तमा | नाम कर्म च मे मातर्देहि तुभ्यं नमोनमः || १० || तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् | ददामि तव नामानि यानि कर्माणि तानि ते || ११ || महामाया महाकाली महामारी क्षुधा तृषा | निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया || १२ || इमानि तव नामानि प्रतिपाद्यानि कर्मभिः | एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् || १३ || प्. ३८६) तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप | सत्त्वाख्येनातिशुद्धेनगुणेनेन्दुप्रभंदधौ || १४ || अक्षमालांकुशधरा वीणापुस्तकधारिणी | सा बभूव वरा नारी नामान्यस्यै च सा ददौ || १५ || महाविद्यामहावाणा भारती वाक् सरस्वती | आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्वरी || १६ || अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् | युवां जनयतां देव्यौ मिथुनेस्वानुरूपतः || १७ ||
247 SK इत्युक्त्वाते महालक्ष्मीः ससर्ज मिथुनं स्वयम् | हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ || १८ || ब्रह्मन्विधेविरिंचेति धातरित्याह तं नरम् | श्रीः पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम् || १९ || प्. ३८७) महाकाली भारती च मिथुने सृजतः सह | एतयोरपि रूपाणि नामानि च वदामि ते || २० || नीलकण्ठं रक्तवाहुं श्वेताङ्गं चन्द्रशेखरम् | जनयामास पुरुषं महाकाली सितां स्त्रियम् || २१ || स रुद्रः शङ्करः स्थाणुः कपर्दी च त्रिलोचनः | त्रयी विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा || २२ || सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप | नजयामास नामानि तयोरपि वदामि ते || २३ || विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः | उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा || २४ || प्. ३८८) एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे | चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः || २५ || ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृपत्रयीम् | रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् || २६ || स्वरया सह संभूय विरञ्च्योऽण्डमजीजनत् | बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् || २७ || अण्डमध्ये प्रधानादि कार्यजातमभून्नृप | महा भूतात्मकं सर्वंजगत्स्थावरजङ्गमम् || २८ || पुपोष पालयामास तल्लक्ष्म्या सह केशवः | संजहार जगत्सर्वं सह गौर्या महेश्वरः || २९ || प्. ३८९) महालक्ष्मीर्महाराज सर्वसत्वमयीश्वरी | निराकारा च साकारा सैव नानाभिधानभृत् || ३० || नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित् ॐ || ३१ || इतिप्राधानिक रहस्यं सम्पूर्णम् || अथ वैकृतिरहस्यारम्भः || ऋषिरुवाच || ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता | सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते || १ || योगनिद्रा हरेरुक्ता महाकाली तमोगुणा | मधुकैटभ नाशार्थं यां तुष्टावाम्बुजासनः || २ || दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा | विशालया राजमाना त्रिंशल्लोचनमालया || ३ ||
248 SK स्फुरद्दशनदंष्ट्रा सा भीमरूपापिभूमिप | रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः || ४ || खड्गबाणगदाशूलंशंखचक्रभुशुण्डिभृत् | परिघं कार्मुकंशीर्षं निश्च्योतद्रुधिरन्दधौ || ५ || एषा सा वैष्णवी माया महाकाली दुरत्यया | आराधितावशी कुर्यात्पूजाकर्तुश्चराचरम् || ६ || सर्वदेवशरीरेभ्यो याऽविर्भूताऽमितप्रभा | त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी || ७ || श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला | रक्तमध्या रक्तपादा नीलजंघोरुरुन्मदा || ८ || प्. ३९१) सुचित्रजघना चित्रमाल्याम्बरविभूषणा | चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी || ९ || अष्टादशभुजा पूज्या सा सहस्रभुजा सती | आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् || १० || अक्षमाला च कमलं बाणोषिः कुलिशं गदा | चक्रं त्रिशूलंपरशुः शङ्खो घण्टा च पाशकः || ११ || शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः | अलंकृतभुजामेभिरायुधैः कमलासनाम् || १२ || सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप | पूजयेत्सर्वलोकानां स देवानां प्रभुर्भवेत् || १३ || प्. ३९२) गौरादेहात्समुद्भूता या सत्त्वैकगुणाश्रया | साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी || १४ || दधौचाष्टभुजाबाणमुसलंशूलचक्रभृत् | शङ्खं घण्टां लाङ्गलं च कार्मुकं वसुधाधिप || १५ || एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति | निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी || १६ || इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव | उपासनं जगन्मातुः पृथगासां निशामय || १७ || महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती | दक्षिणोत्तरयोः पूज्ये पृष्ठतोमिथुनत्रयम् || १८ || विरिञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे | वामेलक्ष्म्याहृषीकेशः पुरतोदेवतात्रयम् || १९ || प्. ३९३) अष्टादशभुजामध्ये वामे चास्या दशानना | दक्षिणेऽष्टभुजा लक्ष्मीर्महतीतिसमर्चयेत् || २० || पूर्वादिदलतः पूज्या असिताङ्गादिभैरवाः | अष्टादशभुजा चैषा यदा पूज्या नराधिप || २१ ||
249 SK दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा | दशानना यदा पूज्या दक्षिणोत्तरयोस्तदा || २२ || कालमृत्यू च संपूज्यौ सर्वारिष्टप्रशान्तये | यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी || २३ || प्. ३९४) नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ | नमोदेव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् || २४ || अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः | अष्टादशभुजा चैषा पूज्या महिषमर्दिनी || २५ || महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती | ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी || २६ || महिषान्तकरी येन पूजिता स जगत्प्रभुः | पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् || २७ || अर्घ्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतैः | धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः || २८ || रुधिराक्तेन बलिना मांसेन सुरया नृप | प्. ३९५) बलिमांसादिपूजेयं विप्रवर्ज्या मयेरिता || २९ || तेषां किल सुरामांसैर्नोक्ता पूजा नृप क्वचित् | प्रणामाचमनीयैश्च चन्दनेनसुगन्धिना || ३० || सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः | वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् || ३१ || पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया | दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरम् || ३२ || वाहनं पूजयेद्देव्याधृतं येनचराचरम् || अथ कुञ्जिका स्तोत्रम् || ईश्वर उवाच || शृणु देवि प्रवक्ष्यामि कुञ्जिका मंत्र (स्तोत्र) मुत्तमम् | येन मन्त्र प्रभावेण चण्डी जपसुसिद्धिदम् || १ || न कवचं नार्गलास्तोत्रं कीलकं नरहस्यकम् | न सूक्तं नापि ध्यानं च न न्यासं नापिचार्चनं || २ || कुञ्जिका पाठमात्रेण दुर्गा पाठ फलं लभेत् | अति गुह्यतरं देवि देवानामपिदुर्लभं || ३ || गोपनीयं प्रयत्नेन स्व योनिमिवपार्वति | मारणं मोहनं वश्यं स्तम्भनोच्चटनादिकम् || ४ ||
250 SK पाठमात्रेण ससिद्ध्येत्कुंजिकास्तोत्र मुत्तमम् | मन्त्रोयम् || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे || ॐ ग्लौं हुṁ क्लीं जूं सः ज्वालय २ ज्वल २ प्रज्वल २ ऐं ह्रीं क्लीं चामुण्डाय विच्चे ज्वल हं सं लं क्षं फट् स्वाहा || इति मन्त्र || प्. ३९६) ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः || ३३ || एकेन वा मध्यमेन नैकेनतरयोरिह | चरितार्धं तु न जपेञ्जपञ्छिद्रमवाप्नुयात् || ३४ || स्तोत्रमन्त्रैः स्तुवीतेमां यदि वा जगदम्बिकाम् | प्रदक्षिणानमस्कारान्कृत्वा मूर्ध्नि कृताञ्जलिः || ३५ || क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः | प्रतिश्लोकं च जुहुयात्पायसंतिलसर्षिपा || ३६ || जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायैशुभं हविः | नमस्ते रुद्र रूपिण्यै नमस्ते मधु मर्दिनि | नमऌह् कैटभहारिण्यै नमस्ते महिषार्दिनि || १ || नमस्ते शुम्भ हंत्र्यै च निशुम्भासुर विघातिनी || २ || जाग्रतं हि महादेवि जपसिद्धिं कुरुष्व मे | ऐंकारी सृष्टि रूपाय ह्रींकारी प्रतिपालिका || ३ || क्लींकारी कामरूपिण्यै बीज रूपे नमोस्तु ते | चामुण्डा चण्ड घाती च यैकारी वरदायिनी || ४ || विच्चे चा भयदायि च नमस्ते मन्त्र रूपिणी || ५ || धां धीं धूं धूर्जटेः पत्नी वां वीं वूṁ वागीश्वरी तथा || क्रां क्रीं क्रूं क्रैंकालिकादेवि शां शीं शूं मे शुभं कुरु || ६ || प्. ३९७) भूयो नामपदैर्देवी पूजयेत्सुसमाहितः || ३७ || प्रयतः प्राञ्जलिः प्रह्वःप्राणानारोप्यचात्मनि | सुचिरं भावयेद्देवीं चण्डिकां तन्मयो भवेत् || ३८ || एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् | भुक्त्वाभोगान्यथाकामं देवीसायुज्यमाप्नुयात् || ३९ || यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् | भस्मीकृत्यास्य पुण्यान निर्दहेत्परमेश्वरा || ४० || तस्मात्पूजय भूपाल सर्वलोकमहेश्वरीम् | यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॐ || ४१ || इति वैकृति रहस्यं सम्पूर्णम् ||
251 SK हुṁ हुṁ हुṁकार रूपिण्यै जं जं जं जंभनादिनी || भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमोनमः || ७ || अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं २ त्रोटय २ दीप्तं कुरु २ स्वाहा || पां पीं पूं पार्वति पूर्णा खां खीं खूं खेचरी तथा || ८ || सां सीं सूं सप्तशती सिद्धिं कुरु स्वजनमात्रतः | इदं तु कुंजिकास्तोत्रं मंत्रं जागर्ति हेतवे || भक्तेनैव तु दातव्यं गोपिते रक्षपार्वति | यस्तु कुञ्जिकया देवि हीनंसप्तशतीं पठेत् || न तस्य जायतेसिद्धिः अरण्येरोदनं यथा || रुद्रयामले कुञ्जिका स्तोत्रम् || प्. ३९८) अथ मूर्तिरहस्य प्रारम्भः || ऋषिरुवाच || ॐ नन्दा भगवती नाम या भविष्यति नन्दजा | स्तुता सम्पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् || १ || कनकोत्तमक्रान्तिः सा सुकान्तिकनकाम्बरा | देवी कनकवर्णाभा कनकोत्तमभूषणा || २ || कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा | इन्दिराकमला लक्ष्मीः सा श्री रुक्माम्बुजासना || ३ || यारक्तदन्तिका नाम देवी प्रोक्ता मयाऽनघ | प्. ३९९) तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम् || ४ || यच्छ्रुत्वा सर्वपापेभ्योमुच्यतेनात्रसंशयः | रक्ताम्बरारक्तवर्णा रक्तसर्वाङ्गभूषणा || ५ || रक्तायुधारक्तनेत्रारक्तकेशातिभीषणा | रक्ततीक्ष्ण नखारक्त रसना रक्तदन्तिका || ६ || पतिं नारीवानुरक्तादेवीभक्तंभजेज्जनम् | वसुधेवविशाला सा सुमेरु युगलस्तनी || ७ || दीर्घो लम्बावतिस्थूलौ तावतीवमनोहरौ | कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी || ८ || भक्तान्सम्पाययेद्देवी सर्वकामदुघौ स्तनौ | खड्ग पात्रशिरः खेटैरलंकृतचतुर्भुजा || ९ || आख्याता रक्तचामुण्डा देवी योगेश्वरीति च | अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् || १० || इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् | भुक्त्वा भोगान्यथाकामं देवीसायुज्यमप्नुयात् || ११ || अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् | तं सा परिचरेद्देवी पतिं प्रियामवांगना || १२ ||
252 SK शाकम्भरी नीलवर्णा नीलोत्पलविलोचना | गम्भीर नाभिस्त्रिवलीविभूषिततनूदरी || १३ || सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी | मुष्टिं शिलीमुखापूर्णं कमलं कमलालया || १४ || पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् | काम्यानन्तरसैर्युक्तंक्षुत्तृण्मृत्युजरापहम् || १५ || प्. ४०१) कार्मुकं च स्फुरत्कान्तिं बिभर्ति परमेश्वरी | शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता || १६ || उमा गौरी सती चण्डी कालिका सा च पार्वती | शाकम्भरीं स्तुवन्ध्यायञ्जपन्सम्पूजयन्नमन् || १७ || अक्षय्यमश्नुते शीघ्रमन्नापानामृतं जलम् | भीमापिनीलवर्णासादंष्ट्रादशनभासुरा || १८ || विशाललोचना नारी वृत्तपीनपयोधरा | चन्द्रहासं च डमरुं शिरः पात्रं च बिभ्रती || १९ || एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुदा | तेजोमण्डलदुधर्षा भ्रामरीचित्रकान्तिभृत् || २० || चित्रभ्रमरसङ्काशा महामारीति गीयते | इत्येता मूर्तयो देव्या व्यख्याता वसुधाधिप || २१ || प्. ४०२) जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः | इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया || २२ || याख्यानन्दिव्यमूर्तीनामधीष्वावहितः स्वयम् | एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि || २३ || सर्वरूपमया देवा सर्वं देवीमयं जगत् | अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् || २४ || इति मूर्तिरहस्यं सम्पूर्णम् || अनुग्रहेनव श्लोकाः ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीं | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यहंतु चापदः || १ || ॐ स्तुतासुरैः पूर्वमभीष्ट संश्रयात्तहा सुरेन्द्रेण दिनेषु सेविता | करोतु सा नः शुभहेतुरीश्वरी शुभानी भद्राण्यभिहंतु चापदः || २ || ॐ या सांप्रतं चोद्धत दैत्यनापितैरस्माभिरीशा च सुरैर्नमस्यते | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभि हंतु चापदः || ३ || प्. ४०३) ॐ या च स्मृतातत्क्षणमेव हंति नः सर्वापदोभक्तिविनम्र मूर्तिभिः | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ४ ||
253 SK ॐ सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि [अत्र वैरि नाशनमित्यत्ररोगनाशनमित्याद्यूहः | एवं दैत्यतापितैरित्यपि ||] || करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ५ || ॐ सर्वमङ्गलमंगल्ये शिवे सर्वार्थसाधिके | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ६ || ॐ सृष्टि स्थिति विनाशानां शक्ति भूतेसनातनि | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ७ || ॐ शरणागतदीनार्त परित्राणपरायणे | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ८ || ॐ सर्वस्वरूपे सर्वेशेसर्वशक्ति समन्विते | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहंतु चापदः || ९ || एतेऽनुग्रहे नवश्लोकाः वश्ये तु शेषः || ॐ ह्रीं रक्तचामुण्डे तूर्णममुकं मे वशमानय स्वाहा || अनेनप्रत्यध्यायमाद्यंतयोः पूजा सर्वांते अयुतमंत्रश्च (दश साहस्रम्) जपः || होमयेत्कुटुतैलेन रक्त अन्दन राजिकाः सहस्राहुति मात्रेण राजानं वश मानयेत् || मधुना चाशोकपुष्पैः रात्रौहुत्वातु पूर्ववत् चक्रवर्ती भवेद्वश्यश्चण्डी मंत्र प्रभावतः || अथ सरस्वती कवच प्रारम्भः || ब्रह्मोवाच || शृणु वत्स प्रवक्ष्यामि कवचं सर्व कामदम् | श्रुतिसारं श्रुतिमुखंश्रुत्युक्तं श्रुतिपूजितम् || १ || उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने | रासेश्वरेण विभुना रासने रासमण्डले || २ || अतीवगोपनीयं च कल्पवृक्षसमं परम् | अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् || ३ || यद्धृत्वा पठनाद्ब्रह्मन् बुद्धिमाṁश्च बृहस्पति | प्. ४०४) यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः || ४ || पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः || ५ || स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः | कणादो गौतमः कण्वः पाणिनिः शाकटायनः || ६ || ग्रंथं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् | धृत्वा वेदविभागं च पुराणान्यखिलानि च || ७ ||
254 SK चकार लीलामात्रेणकृष्णद्वैपायनः स्वयम् | शातातपश्च संवर्तो वसिष्ठश्च पराशरः || ८ || यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः | ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथ || ९ || जैगीषव्योऽथ जावालिर्यद्धृत्वा सर्वपूजितः | कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः || १० || स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः | सर्वतत्त्व परिज्ञानसर्वार्थसाधनेषु च || ११ || कविताशु च सर्वासु विनियोगः प्रकीर्तितः | ॐ ह्रीं सरस्वत्वयै स्वाहा शिरो मे पातु सर्वतः || १२ || श्रींवाग्देवतायै स्वाहा भालं मे सर्वदावतु | ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् || १३ || ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदावतु | ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु || १४ || ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा ओष्ठं सदावतु | ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तीः सदावतु || १५ || ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु | ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्री सदावतु || १६ || श्रींविद्याधिष्ठातृ देव्यै स्वाहा वक्षः सदावतु | ॐ ह्रींविद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् || १७ || ॐ ह्रीं ह्रींवाण्यै स्वाहेति मम पृष्ठं सदावतु | ॐ सर्ववर्णात्मिकायै पदयुग्मं सदावतु || १८ || ॐ रागाधिष्ठातृदेव्यै सर्वाङ्ग मे सदावतु | ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु || १९ || ॐ ह्रीं जिह्वाग्रवासिन्यै स्वाहाऽग्निदिशि रक्षतु | ॐ ऐं ह्रीं श्रीं सरस्वत्यैबुधजनन्यै स्वाहा || २० || सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॐ ह्रीं श्रींत्र्यक्षरो मन्त्रो नैर्-ऋत्यां मे सदावतु || २१ || कविजिह्वाग्र वासिन्यै स्वाहा मां वारुणेऽवतु | ॐ सदाम्बिकायै स्वाहा वायव्ये मां सदावतु || २२ || ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेवतु ॐ सर्वशास्त्र वासिन्यै स्वाहेशान्यां सदावतु || २३ || प्. ४०५) ॐ ह्रीं सर्वपूजितायै स्वाह चोर्ध्वं सदावतु | ॐ ऐं ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु || २४ ||
255 SK ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु | इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् || २५ || इदं विश्वजयं नाम कवचं ब्रह्मरूपिणम् || २६ || पुराश्रुतं धर्म वक्त्रात् पर्वते गन्धमादने | तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् || २७ || गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचन्दनैः | ग्रणमेद्दण्डवद् भूमौ कवचं धारयेत्सुधीः || २८ || पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् | यदि स्यात् सिद्धकवचो बृहस्पतिसमो भवेत् || २९ || महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् | शक्नोति सर्वं जेतुं स कवचस्य प्रसादतः || ३० || इति ते काण्वशखोक्तं कथितं कवचं मुने | स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं तथा || ३१ || इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारायणनारदसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः || ४ || नवार्ण भेदाः ॐ ऐं ह्रीं क्लीं ऌईं श्रीं ह्रीं क्लीं नमः || १ || ऐं ह्रीं क्लीं चामुण्डायै विच्चे || २ || हूṁ ऐं ऐं ह्रीं चामुण्डायै स्वाहा इति डामरोक्तः || ३ || ॐ ऐं ह्रीं क्लीं ऌं ह्रीं नमः इति दाक्षणात्याः || ५ || हूṁ ऐं ऐं ह्रीं चामुण्डायै स्वाहा इति सारस्वताः || देव्यथर्व शिरोनुयायिनो डामर तंत्रानुयायिनश्चशिष्टाः || ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे इत्येवं प्रमाणयन्ति एवमुक्त प्रमाणेन जीवनादयोपि बोध्याः || महिमातिशयोर्थश्च विधानञ्च विपश्चिताः || मन्त्रं जिज्ञासमानेन वेदितव्यं पदेपदे || इति यजुर्वेद भाष्यस्थिति स्मृतेस्तदपेक्स्.आयामेवतन्मन्त्र महिमातिशयोर्थश्च डामरतन्त्रोक्तो निरूप्यते || अथ सर्वतोभद्र मण्डल विधिः || हेमाद्रौ स्कान्दे || प्रागुदीच्वागता रेखाः कुर्यादेकोन (१९) विंशतिः || खण्डेन्दुस्त्रिपात्कोणे शृङ्खलापञ्चभिः पदैः || १ || एकादश पदावल्लीभद्रन्तु नवभिः पदैः | प्. ४०६) चतुर्व्ंशत्पदा वापी विंशत्या परिधिः पदैः || २ || मध्येषोडशभिः कोष्ठैः पद्ममष्टदलं स्मृतम् | श्वेतेन्दुः शृङ्खलाकृष्णा वल्लिं नीलेन पूरयेत् || ३ ||
256 SK भद्रारुणा सितावापी परिधिः पीत वर्णकः | वाह्यानंतर दलैः श्वेता कर्णिका पीत वर्णका || ४ || परिध्यावेष्टितं पद्मं बाह्ये सत्व रजस्तमः | तन्मध्ये स्थापयेद्देवान्ब्रह्माद्यांश्च सुरासुरान् || ५ || इति सर्वतोभद्रपीठम् || शिव व्रतं विना सर्व व्रतोद्यापनेषु सर्वतोभद्र मंडलं कारयेत् || यजमानान्वित आचार्यः सर्वतोभद्रेमंडलदेवताः स्थापयेद्यथा || तत्र कारिका || द्विबाहुमात्रां बाहुमात्रां वेदीकुर्याच्छुद्धमृदा बुधैः || तद्वेद्यां सर्वतो भद्रं मंडलं विलिखेत्ततः || आचम्य प्राणानायम्य देश कालो स्मृत्वा० || ॐ अद्य हवनाख्ये कर्मणि एतत्सर्वतो भद्र मण्डले वेद (नाम) मंत्रैर्वा ब्रह्मादि षट्पञ्चाशद्देवतावाहनं प्रतिष्ठा पूजनं च करिष्ये || पुष्पाक्षतान्गृहीत्वा || मध्ये कर्णिकायां ब्रह्माणमावाहयेत् || ॐ ब्रह्म यज्ञानं प्रथमम्पुरस्तात्द्विसीमतः सुरुचोवेनऽ आवः || स बुध्न्याऽ-उपमाऽ अस्य विष्ठाः सतश्च योनिमसतश्च विवः || ॐ भूर्भुवः स्वः भोब्रह्मन् इहागच्छेहतिष्ठ || ब्रह्मणे नमः || ब्रह्माणमा वाहयामि स्थापयामि || पूजांगृहाण मम संमुखो | सुप्रसन्नो भव || १ || उदीची मारभ्य वायव्य कोण पर्यन्तं कुवेरादीन् वायु पर्यन्तान् अष्टौ लोक पालान् स्थापयेत् || उत्तरे वाप्याम् || ॐ वयगुं सोमव्रतेतव मनस्तनूषु बिभ्रतः || प्रजावन्तः सचेमहि || २ || भू० सोम इहा० || ईशान्यां खन्डेन्दौ ईशानमावाहयेत् || ॐ तमीशानञ्ज गतस्तस्थुपस्पतिन्धियंजिन्व मवसेहू महेवयम् || पूषानो यथा वेद सामसद्वृद्धेरक्षितापायुर दब्धः स्वस्तये || ईशान० || ३ || प्. ४०७)
257 SK ॐ त्रातारमिन्द्र मविता रमिन्द्र गुं हवे हवे सुहव गुं शूरमिद्रम् || ह्वयामिशक्रम्पुरुहूतमिन्द्र गुं स्वस्तिनोमघवाधात्विन्द्रः || भू० इन्द्र इहा० || ४ || आग्नेय्यांखण्डेन्दौ अग्निम् || ॐ त्वन्नोऽ अग्ने तव देव पायुभिर्मघोनो रक्षतन्वश्च वन्द्य || त्रातातो अक्स्य तनयेगवामस्यनिमे पगुं रक्ष माणस्तवव्रते || ॐ भू० भो अग्ने इहाग० || ५ || दक्षिणे वाप्यां यमम् || ॐ सुगन्नु पन्थां प्रदिशंनऽ-एहि ज्योतिष्मद्येह्य जरं न .आअयुः || अपैतुमृत्युरमृतं सऽ आगात् वैवस्वतोनोऽ अभयं कृष्णो तु नः || भू० भोयम इहा० || ६ || नैर्-ऋत्यांखण्डेन्दौनिर्-ऋतिम् || ॐ असुन्वन्तम यजमानमिच्छस्ते नस्येत्यामन्विहितस्करस्य || अन्यमस्मदिच्छसातऽ इत्यानमोदेवि निर्-ऋते तुभ्यमस्तु || भू० भोनैर्-ऋते इहाग० || ७ || पश्चिमे वाप्यां वरुणम् || ॐ तत्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः || अहेडमानो वरुणे हवोध्यु रु शठ० समानऽ आयुः प्रमोषीः || भू० भो वरुण इहाग० || ८ || वायव्यां खण्डेन्दौ वायुम् || ॐ आनोनियुद्भिः शतिनीभिरध्वरगुं सहस्रिणी भिरुपयाहि यज्ञम् || वायोऽ अस्मिन्सवनेमादय स्वयूयम्पात स्वस्तिभिः सदानः || भू० भोवायो इहाग० || ९ || वायुसोमयोर्मध्ये भद्रे अष्टवसून् || ॐ सुगावोदेवाः सवनाऽ-अकर्माय आजग्मेद गुं सवनञ्जुषाणाः || भरमाणा वहमा नाहवी गुं ष्यस्मेधत्त वसवो वसूनि स्वाहा || भू० भो वसवः इहागच्छन्तु० || १० || सोम ईशानयोर्मध्ये भद्रे एकादश रुदान् || ॐ रुद्राः स गुं सृज्यपृथिवीम्बृहज्ज्योतिः समीधिरे || तेषांभानु रजस्रऽ-इच्छुक्रो देवेषु रोचते || भू० भो रुद्राः इहागच्छन्तु || ११ || ईशानेन्द्रयोर्मध्ये भद्रे द्वादशादित्यान् | ॐ यज्ञ देवानां प्रत्येति सुम्नभादित्यासोभवतामृडयन्तः || प्. ४०८)
258 SK आवोर्वाची सुमतिर्ववृत्या दठ० होश्विद्या वरिवो वित्तरा सदादित्येभ्यस्त्वा || भू० भो द्वादशादित्याः इहागच्छन्तु० || १२ || इन्द्राग्न्योर्मध्ये भद्र अश्विनौ || ॐ यावांकशा मधुमत्यश्विनासूनृतावती || तयायज्ञम्मि मिक्षतम् || उपयामगृहीतो स्यश्विभ्यां त्वैषते योनिर्माद्ध्वी भ्यान्त्वा || भू० भो अश्विनौ इहागच्छतां || १३ || अग्नियमयोर्मध्ये भद्रे विश्वेदेवान् || ॐ ॐ मासश्चर्षणी धृतोविश्वेदेवासऽ आगत || दाश्वागुंसोदाशुपः सुतम् || उपयामगृहीतो सिविश्वेभ्यस्त्वा देवेभ्य ऽएषतेयोनिर्विश्वेभ्यस्त्वा देवेभ्यः || भू० भो विश्वे देवासपैतृक इहागच्छत || १४ || यमनिर्-ऋति मध्ये भद्रे सप्तयक्षान् || ॐ अभित्यं देवगुं सवितार मोण्योः कविक्रतुमर्चामि सत्य सवगुं रत्नधामभिप्रियम्मतिङ्कविम् || ऊर्द्ध्वायस्यामतिर्भाऽ अदिद्युतत्सवी मनि हिरण्य पाणि रमिमीत सुक्रतुः कृपास्वः || प्रजाभ्यस्त्वा प्रजास्त्वानु प्राणन्तु प्रजास्त्व मनु प्राणि हि || भू० भो सप्त यक्षाः इहा गच्छत० || १५ || नैर्-ऋत्य वरुण योर्मध्ये भद्रे भूतनागान् || ॐ नमोस्तु सर्पेभ्योये केच पृथिवी मनु || यऽ अन्तरिक्षे यदिवि तेभ्यः सर्पेभ्यो नमः || भू० भूतनागाः इहागच्छत० || १६ || वरुण वायु मध्ये भद्रे गंधर्वाप्सरसौ || ॐ ऋताषाड् ऋतधामग्निर्गन्धवस्तस्यौ वधयोप्सर सोमुदोनाम || सनऽ-इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट्ताम्यः || भू० भो गन्धर्वाप्सरसः इहागच्छत० || १८ || ब्रह्मसोमयोर्मध्ये वाप्यां स्कन्दम् || ॐ यदक्रन्दः प्रथमं जायमान ऽउद्यन्समुद्रा दुतवापुरीषात् || श्येनस्यपक्षाहरिणस्य बाहू ऽउपस्तुत्यं महिजातन्तेऽ अर्वन् || भू० भो स्कन्द इहाग० || १९ || त्रव नन्दिनम् || ॐ प्रतुव्वाजी कनिक्रदन्ना नद द्रासभः वत्वा || प्. ४०९)
259 SK भरन्नग्निम्पुरीष्यं मापाद्यायुषः पुरा || भू० भो नन्दिन् इहागच्छेह तिष्ठ० || २० || तत्रैव ईश्वरम् || ॐ ईशानः सर्वविद्यानामीश्वरः सर्व देहिनाम् || ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवोमेऽ अस्तु सदा शिवोम् || भू० भो ईश्वर इहागच्छे हतिष्ठ || २२ || तत्रैव महाकालायनमः || भू० भो महाकाल इहागछेहतिष्ठ || २३ || ब्रह्मेशानयोर्मध्ये वल्लिषु दक्षादि ७ यक्षान् || ॐ अदितिर्द्यौरदितिरन्तरिक्ष मदितिर्माता सपिता सपुत्रः || विश्वेदेवाऽ अदितिः पञ्चजनाऽ अदितिर्जातमदितिर्जनित्वम् || भू० भो दक्षादि सप्तयक्षाः इहागछे हतिष्ठ || २४ || ब्रह्मेन्द्र मध्ये वाप्यां दुर्गां || ॐ अम्बेऽ अम्बिकेम्बालिके नमानयति कश्चन || ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् || भु०० भो दुर्गे इहागच्छेहतिष्ठ० || २५ || तत्रैव || ॐ इदं विष्णुर्विचक्रमेत्रेधानि दधेपदम् || समूढमस्यपा गुं सुरे स्वाहा || भू० भो विष्णो इहागच्छेहतिष्ठ || २६ || ब्रह्माग्नि मध्ये वल्लिषु स्वधां || ॐ पितृभ्यः स्वधायिभ्यः स्वधानमः पितामहेभ्यः स्वधायिभ्यः स्वधानमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधानमः || अक्षन्पितरोमी मदन्त पितरोती तृपन्त पितरः पितरःशुन्धध्वम् || भू० भो स्वधे इहागच्छे हतिष्ठ० || २७ || ब्रह्मयमयोर्मध्ये वाप्यां मृत्युरोगौ || ॐ परंमृत्योऽ अनुपरेहि पन्थांयस्तेऽ अन्यऽ इतरो देवयानात् || चक्षुष्मते शृण्वते तेब्रवीमिमानः प्रजा गुं रीरिषोमोतवीरान् || भू० भो मृत्युरोगौ इहागच्छतं० || २८ || ब्रह्मनैर्-ऋत्ययोर्मध्ये वल्लिषु गणेशं || ॐ गणनान्त्वा गणपतिगुं हवामहे प्रियाणान्त्वा प्रियपति गुं हवामहे वसो मम || आहमजानि गर्भदमात्वमजासिगर्भधम् || भू० भो गणेश इहा गच्छे हतिष्ठ० || २९ || प्. ४१०)
260 SK ब्रह्म वरुणयोर्मध्ये वाप्यां || अपः || ॐ शन्नोदेवी रभिष्टयऽ आपो भवन्तु पीतये || शंयोरभिस्रवन्तुनः || भू० भो अप इहा गच्छतेहतिष्ठत || ३० || ब्रह्म वायु मध्येवल्लीषुमरुतं || ॐ मरुतो यस्यहिक्षये पाथादि वोविमहसः || ससु गोपात मोजनः || भू० भो मरुतः इहागच्छते हतिष्ठत० || ३१ || ब्रह्मणो पाद मूले कर्णिकाधः पृथिवीम् || ॐ स्योना पृथिविनो भवानृक्षरा निवेशनि || यच्छानः शर्म सप्रथाः || भू० भो पृथिवि इहा गच्छे हतिष्ठ || ३२ || तत्रैव गंगादि नदीः || ॐ पञ्चनद्यः सरस्वती मपियन्ति सस्रोतसः || सरस्वती तु पञ्च धासो देशे भवत्सरित् || भू० भो गंगादि नद्यः इहा गच्छतेहतिष्ठत || ३३ || तत्रैव सप्त सागरान् || ॐ इमम्मे वरुणश्रुधी हव मद्या च मृडय || त्वाम वस्युराचके || भू० भो सप्तसागराः इहा गच्छते हतिष्ठत० || ३४ || ततो नाम्ना कर्णिको परि || ॐ मेरवे नमः || मेरुं आवा० || ३५ || वाह्य परिघौसोमादि समीपे || ॐ गदायै नमः || गदां आवा० || ३६ || ईशाने || त्रिशूलायनमः त्रिशूलं आवा० || ३७ || पूर्वे || ॐ वज्रायनमः वज्रं आवा० || ३८ || अग्नौ शक्तये नमः शक्तिं आवा० || ३९ || दक्षिणे दंडायनमः || दण्डं आवा० स्थाप० || ४० || नैर्-ऋत्यां || खड्गायनमः || खड्गं आवा० || ४१ || पश्चिमे || पाशायनमः || पाशं आवा० || ४२ || वायौ अंकुशायनमः अंकुशं आवा० || ४३ || तद्वाह्योत्तरे गौतमाय० || गौतमं० || ४४ || ईशान्ये भरद्वाजाय० || भरद्वाजं० || ४५ || पूर्व विश्वाम्त्राय० || विश्वामित्रं आवा० || ४६ || आग्नेयां || कश्येपाय० || कश्यपं० || ४७ || दक्षिणे जमदग्नये० || जमदग्निं० || ४८ || नैर्- p. 411)
261 SK वायव्ये अरुन्धत्यै० अरुन्धतीं० || ५० || तद्बाह्ये पूर्वादि || ऐन्द्र्यै० ऐन्द्रीः || ५२ || कौमार्यै० || कौमारीः || ५३ || ब्राह्मै० ब्राह्मीं० || ५४ || वाराद्यै० वाराहीं० || ५५ || चामुण्डायै० चामुण्डामा० || ५६ || वैष्णव्यै० वैष्णवीं० || ५७ || कोवेर्यै० कौवेरीः० || ५८ || वैनायक्यै० वैनायकीं || ५९ || एवं सर्वतो भद्र मण्डले ब्रह्मादि देवताः आवाह्य गन्धादिभिः संपूज्य || तदुपरि २५ पृष्ठोक्त विधिना कलशं संस्थाप्य वरुणं सांगंपूजयित्वा दुर्गायाः स्वर्णमयीं प्रतिमां अग्न्युत्तारण पूर्वकं प्राण प्रतिष्ठां कृत्वा कलशोपरि सन्निधाय पट्ट वस्त्रैराच्छद्य पुरुष सूक्तेन श्रीसूक्तेन पुराणोक्त मन्त्रेण वा संपूज्य प्रार्थयेत् || खड्गं चक्रं मिति अक्षस्रगिति० घंटाशूलेति || अथ पंचभूः संस्कार पूर्वकमग्नि स्थापनम् || प्. ४१२)
262 SK अथाचार्योस्थण्डिले कुण्डे वा पञ्चभूसंस्कारान्कृत्वा लौकिकाग्निं स्थापयेत् || अथ पञ्चभूसंस्काराः || तत्त्रिकुशैर्हस्त परिमितां चतुरस्रां भूमिं परिसमुह्य ३ (३ बार) तान्कुशानैशान्यां निक्षिप्य || गोमयोद्केनोपलिप्य (३) स्रुवमूलेनप्रादेशमात्रमुत्तरोत्तर क्रमेण प्रागग्रंत्रिरुल्लिख्य || उल्लेखन क्रमेणानामिकांगुष्ठाभ्यां मृदमुद्धृत्य (३) वारिणा तं देशमभ्युक्ष्य (३) कांस्यपात्रस्थं लौकिकाग्निमग्नि कोणादानीय सुवासिनी द्वारा प्रत्यङुमुखमुप समाधाय || क्रव्यादांशंत्यजेदनेनमंत्रेण || ॐ क्रव्या दमग्निंप्रहिणोमि दूरं यमराज्यं गच्छतुरिप्रवाहः || इहै वा यमितरो जात वेदा देवेभ्यो हव्यं वहन्तु प्रजानन् || अथावाहनम् || ॐ अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे || देवांऽ आसादयादिह || अग्न्यानीत पात्रे साक्षतोदकं निषिञ्चेत् || संमुखी करणम् || त्रिधावद्धो वृषभो रोरवीति महादेवो- devaleti tripravarānvita bhūmimātaḥ varuṇapitaḥ meṣadhvaja prāṅmukhamama saṃmukhobhava || varadanāmāgniṃ pratiṣṭhāpya || varadanāmāgnaye namaḥ || iti nāma maṃtreṇa vāyavya koṇesthaṃḍilādvahiragni pūjanaṃ vidhāya || athā dhyānam || oṃ [lakṣmīṃ ṛtu matīṃtatra prabhornārāyaṇasya ca | grāmya dharmeṇa saṃjātamagniṃ tatra vicintayet ||] rudrateja samudbhūtaṃ dvimūrddhānaṃ dvināsikam || ṣaṇnetraṃ ca catuḥśrotraṃ tripādaṃ saptahastakam || yāmyabhāge caturhastaṃ savya bhāge trihastakam || śruvaṃ śruciṃ ca śaktiśca akṣamālāṃ ca dakṣiṇe || tomaraṃ vyañjanaṃ caivaghṛtapātraṃ tu vāma ke || vibhraṃtaṃ saptabhirhastairdvimukhaṃsaptajihvakam || dakṣiṇe ca caturjihvaṃ trijihvaṃ cottaremukhe dvātriṃśatkoṭimūrtyākhyaṃ dvipaṃcāśatkalāyutaṃ || svāhāsvadhā vaṣaṭ kārairakitaṃ meṣavāhanam || raktamālyāmbaraṃrakta raktapadmāsane sthitaṃ || rudraṃtvāṃ śubhanāmāhaṃvahnimāvāhayāmyaham || p. 413)
263 SK त्वंमुखे सर्वदेवानां सप्तार्चिरमित द्युते || आगच्छभवन्नग्ने यज्ञेस्मिन्सन्निधिं कुरु || ॐ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् || हिरण्यवर्ण मनलं समृद्धं विश्वतोमुखम् || अथ कुशुण्डिका विधिः || तत्रादौ कुण्ड (स्थंडिल) पश्चिमे यजमान उपविश्य || देशकालौ संकीर्त्य अमुक गोत्रोमुक शर्माहं दुर्गाहवन कर्मणि इदं हविर्द्रव्यं गणेश पञ्च्ॐकार द्वादशविनायक षोडशमातृका वास्तु पुरुष सपैतृकविश्वेदेवा ६४ योगिनि ५० क्षेत्रपाल सप्तवसोद्धारा सूर्यादिग्रहा ईश्वराद्यधिदेवताग्न्यादि प्रत्यधि देवता पञ्चलोक पाल १० दिग्पाल ब्रह्मादि सर्वतोभद्र मण्डलस्थ पञ्चाषट्शद्देवताभ्यो नमम || तत आचार्योग्नेर्दक्षिणतः परिस्तरण भूमिंत्यक्त्वा ब्राह्मणे आसनं दत्वा तदुपरि प्रागग्रानुदगग्रान्कुशानास्तीर्य ब्रह्माणमग्नि प्रदक्षिण क्रमेणानीय अस्मिन्दुर्गाहवनकर्मणि त्वं मे ब्रह्माभव || इत्यभिधाय || वरण कर्मणा पूर्व संपादितं ब्राह्मणं तदभावे ५० पञ्चाशत्कुशनिर्मितं (ब्रह्माणं) कल्पितासने उदङ्मुखं उपवेशयेत् पूजयेच्च || ततः प्रणीतापात्रं पुरुतः कृत्वा जलेनापूर्य कुशत्रयेणाच्छाद्य ब्रह्मणोमुखमवलोक्य || अग्नेरुत्तरतः कुशोपरिनिदध्यात् || ततः परिस्तरणम् || वर्हिपश्चतुर्थ (१६) भागमादाय चतुर्भिर्दर्भैः पूर्वाग्रैराग्नेया दीशानान्तम् || ४ || प्रागग्रैर्ब्रह्मणोग्निपर्यन्तम् || ४ || प्रागग्रैर्नैर्-ऋत्याद्वायव्यान्तम् || ४ || प्रागग्रैरग्नितः प्रणीतापर्यन्तम् || ४ || परिस्तरणं कृत्वा || ततः अग्नेरुत्तरतः पश्चिमदिशिपदित्र छेदनार्थं कुशत्रयम् || पवित्र करणार्थं साग्रमनन्तर्गर्भे द्वेकुशपत्रे || प्रोक्षणी पात्रम् || आज्यस्थाली || चरुस्थाली संमार्जन कुशाः पञ्च || उपयमन कुशाः सप्त || वेणी रूप कुशात्रयम् समिधस्तिस्रः पालाश्यः प्. ४१४)
264 SK [विशीर्णाद्विदला (दलद्वययुता) ह्रस्वा वक्रा स्थूला कृशाद्विधा (विपाटिता) || कृमिदष्टाश्च दीर्घाश्च वित्वचः परिकीर्तिताः || विशीर्णायुः क्षयं कुर्यात् द्विदला व्याधि संभवम् || ह्रस्वायां मृत्युमाप्नोति वक्रा विघ्नकरी तथा || स्थूलाभिर्हरते लक्ष्मीं कृशायां याजकक्षयः || द्विधायां नेत्ररोगास्युः कीटदष्टार्थनाशिनी || द्वेषं प्रकुरुते दीर्घा प्राणघ्न्योनिस्त्वचः स्मृताः || सक्षीरा नाधिका न्यूनाः समिधः सर्वकामदाः || आर्द्रत्वचं समच्छेदां तर्जन्यंगुल वर्तुलाम् ईदृशीं होमयेत्प्राज्ञः प्राप्नोति विपुलां तन्मुखं तत्र विज्ञेयं चतुरंगुल मानतः || इति || गुरुप्रोक्ते वन दुर्गा कल्पे || सर्वकार्य प्रसिध्यर्थं जिह्वायां तत्र होमयेत् || चक्षुः कर्णादिकं ज्ञात्वा होमयेद्देशिकोत्तमः || अग्नि कर्णें हुतं यत्तु कुर्याच्चेद्व्याधितो भयम् || नासिकायां महद्दुःखं चक्षुषोर्नाशनं भवेत् || केशदारिद्रयदं प्रोक्तं तस्माज्जिह्वासुहोमयेत् || यत्र काष्टं तत्र श्रोत्रं यत्र धूमस्तु नासिके || यत्राल्पज्वलनं नेत्रे यत्र भस्मतु तच्छिरः || यत्र प्रज्वलितो वह्निस्तत जिह्वा प्रकीर्तिता || इति || विपश्चिदिति अनेनैतदुक्तं भवति || शत्रुनाशकहोमे एतदंगेषु हवनात्तदङ्ग क्षयो भवति || यदाहुः वह्नेः शिरसि नासायां श्रोत्रे चक्षुसि वा तथा || जुहुयाच्चेत्तदा क्षिप्रं तदङ्गानि विनाशयेत् ||] प्रादेशमात्राः || स्रुवः खादिरो हस्तमात्रः || आज्यं गव्यम् || शोधितास्तन्दुलाः || [षट् पंचाशदुत्तराचार्य मुष्टि शतद्वयावच्छिन्नं || दशाङ्ग धूपस्तु हेमाद्रौ व्रतखण्डे || षड् भाग कुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः || हरीतकी सर्ज रसः समांशं भागैकमेकं त्रिलवं शिलाजम् || घनस्य चत्वारि पुरस्यचैको धूपोदशाङ्गः कथितो मुनीन्द्रैः ||] पूर्णपात्रम् || दक्षिणा वरोवा || पवित्र छेदन कुशानां पूर्व दिशिक्रमेणासादनीयम् || ततः पवित्रछेदनैः पवित्र करणम् || द्वयोः पवित्रयोरुपरि पवित्र त्रयंनिधाय || अग्रतः प्रादेशमात्रं विहाय त्रिभिः
265 SK कुशर्द्वेकुशतरुणे प्रच्छिद्य || द्वयोर्मूलं त्रीणिचोत्तरतःक्षिपेत् || ततः सपवित्र पवित्रे गृहीत्वा त्रिरुत्पवनम् || प्रोक्षणी पात्रस्य सव्यहस्ते करणम् || अनामिकांगुष्ठाभ्यां पवित्रेगृहीत्वा त्रिरुद्दिङ्गनम् ततः प्रणीतोदकेन प्रोक्षणी प्रोक्षणम् || प्रोक्षणी जलेन आज्यस्थाल्यादीनि पूर्णपात्र पर्यन्तानि क्रमेणैकैशःप्रोच्य || असञ्चरो प्रणीताग्न्योरन्तरालेप्रोक्षणीपात्रंनिधाय || आसादितमाज्यं पश्चादग्नेर्निहितायामाज्यस्थाल्यां प्रक्षिप्य || चरुस्थाल्यां प्रणीतोदकमासिंच्य || आसादितांस्तंडुलान्प्रक्षिप्य || तत्राज्यं ब्रह्माधिश्रयति || तदुत्तरतः स्वयं चरुमेवयुग पदग्नावारोप्य ईषच्छृते चरौ ज्वलदुल्मुकंप्रदक्षिणं आज्य चर्वोःसन्ताद्भ्रामयेत् || दक्षिणपाणिनास्रुवमादाय || अधोमुखमग्नौतापयित्वा सव्यपाणौ कृत्वा || प्. ४१५)
266 SK दक्षिणेनसंमार्जनाग्रेंर्मूलैरग्रमारभ्य अधस्तान्मूल पर्यन्तं || स्रुवं संमृज्यप्रणीतोदकेनाभिषिञ्च्य || पुनः प्रतप्य दक्षिणतोनिदध्यात् || ततः आज्यमुत्थाप्य || चरोः पूर्वेणनीत्वाग्नेरुत्तरतः स्थापयित्वा || चरुमुत्थाप्य || आज्यस्य पश्चिमतो नीत्वाज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय || चरुं चानीय || आज्यस्योत्तरतो निदध्यात् || तत पूर्ववत्पवित्राभ्यामाज्यमुत्पूय || अवलोक्य || तस्मादपद्रव्यनिरसनं पुनः प्रोक्षिण्युत्पवनं || ततः उपयमन कुशानादाय || उत्तिष्ठन् प्रजापतिम्मनसाध्यात्वा || तूष्णीमग्नौघृताक्ताः समिधस्तिस्रः प्रक्षिपेत् || तत उपविश्य || [अग्नेः संमुखी करणम् || आहुती देव मुत्पाद्य पश्चात्कर्म समाचरेत् | अधोवक्त्रोर्द्ध्व पादश्च प्राङ्मुखो हव्य वाहन || तिष्ठत्येवंप्रभावेण आहुती कस्य दीयते || अस्योत्तरम् || सपवित्राम्बु हस्तेन वह्नेः कुर्यात्प्रदक्षिणाम् | दृव्यवाट् सलिल दृष्ट्वा विभीतो संमुखो भवेत् ||] प्रोक्षिण्युदकेन सपवित्रेणाग्निमीशानादि उदक्पर्यन्तं परिषिच्य || दक्षिणजान्वाच्य || ब्रह्मणान्वारब्धः यजमाने नान्वारब्धश्च समिद्धतमेग्नौस्रुवेणाज्याहुतीर्जुहुयात् [अग्नेरास्यादीनांलक्षणमन्यत्र || सधूमोग्निः शिरोज्ञेयो निर्धूमश्चक्षुरेवच | ज्वलत्कृशोभवेत्कर्णः काष्ठ लग्नश्च नासिका || अग्निर्लालायते यत्र शुद्धस्फटिक सन्निभः | तन्मुखं तत्र विज्ञेयं चतुरंगुल मानतः || इति || गुरुप्रोक्ते वन दुर्गा कल्पे || सर्वकार्य प्रसिद्ध्यर्थं जिह्वायां तत्र होमयेत् | चक्षुः कर्णादिकं ज्ञात्वा होमयेद्देशिकोत्तमः || अग्नि कर्णे हुतं यत्तु कुर्याच्चेद्व्याधितो भयम् | नासिकायां महद्दुःखं चक्षुषोर्नाशनं भवेत् || केशदारिद्रयदं प्रोक्तं तस्माज्जिह्वासुहोमयेत् | यत्र काष्टं तत्र श्रोत्र यत्र धूमस्तु नासिके || यत्राल्पज्वलनं नेत्रे यत्र भस्मतु तच्छिरः | यत्र प्रज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तिता || इति || विपश्चिदिति अनेनैतदुक्तं भवति || शत्रुनाशकहोमे एतदंगेषु हवनात्तदङ्ग क्षयो भवति ||
267 SK यदाहुः वह्नेः शिरसि नासायां श्रोत्रे चक्षुसि वा तथा || जुहुयाच्चेत्तदा क्षिप्रं तदङ्गानि विनाशयेत् ||] || तत्राधारावाज्यभागौ च हुत्वा अनन्तरंस्रुवावस्थितहुतशेषंघृतस्यप्रोक्षणी पात्रेप्रक्षेपः || प्. ४१६) अथ होमः || अग्नेरुत्तरभागे || ॐ (नमः) प्रजापतये स्वाहा प्रजापतये इदंनमम || अग्नेर्दक्षिणभागे || ॐ इन्द्राय स्वाहा इन्द्रायेदन्नमम || इत्याघारौ || मध्येसमिद्धतमे || ॐ अग्नये स्वाहा अग्नयेदन्नमम || ॐ सोमाय स्वाहा सोमायेदन्नमम || इत्याज्यभागौ || अथाचार्योऽग्निं सम्पूज्य || ततः गणेशादिमण्डल स्थापितदेवानां हवनं कुर्यात्तथैव सर्वतो भद्रमण्डलस्थ देवानामपि कुर्यात् || पुनः कवचार्गला कीलकं पठित्वा नवार्णन्यासान्विधाय नवार्णेनापि १०८ हुत्वा ततः सप्तशती न्यासान्कृत्वा पुनः मार्कण्डेय उवाच इत्यारम्भ ॐ सावर्णिरर्भवितामनुरित्यन्तं हुत्वा पुनरुत्तरन्यासान्विधाय १०८ नवार्णं च जुहुयात् || ततो हुतशेष हविर्द्रव्यं गृहीत्वा ब्रह्मणान्वारब्धः स्विष्टकृद्धोमंकुर्यात् || ॐ अग्नये स्विष्टकृते स्वाहा इदमग्नये० || ततोभूराद्यानवाहुतयः ॐ भूः स्वाहा इदमग्नये || प्. ४१७)
268 SK ॐ भुवः स्वाहा इदंवायवे || ॐ स्वः स्वाहा इदमग्निवायुसूर्येभ्यः || ॐ त्वन्नो अग्ने वरुणस्य विद्वान्देवस्यहेडोऽ अवयासिसीष्ठः || यजिष्ठोवह्नितमः शोशुचानो विश्वाद्वेषा गुं सिप्रमुमुग्ध्यस्मत्स्वाहा इदमग्नी वरुणाभ्याम् || ॐ सत्वन्नोऽ अग्नेअमो भवोतीनेदिष्ठो अस्याऽ उषसोव्युष्टौ अवयक्ष्वनो वरुण गुं रराणो वीहिमृडीक गुं सुहवोनऽ एधि स्वाहा इदमग्नीवरुणाभ्याम् || ॐ अयाश्चाग्नेस्य नभिशस्तिपाश्चसत्वमित्व मयाऽ असि || अयानो यज्ञं वहस्ययानोधेहि भेषज गुं स्वाहा इदं अयसेऽ अग्नये || ॐ येते शतं वरुण ये सदस्रं यज्ञिया पाशा विततामहान्तः || तेभिर्नोऽ अद्य सवितो तविष्णुर्मुचन्तु मरुतःस्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च || ॐ उदुत्तमं वरुण पाशमस्म दवाधमं विमध्यम गुं श्रथाय || अथावयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा || इदंवरुणाय || ॐ प्रजापतये स्वाहा इदं प्रजापतये || ॐ अस्नयेस्विष्ट कृते स्वाहा इदमग्नये स्विष्टकृते || अथ बलिदानम् || अद्य कृतस्य कर्मणः सांगता सिद्ध्यर्थं दिग्पाल पूर्वकं आदित्यादि ग्रह मंडल स्थापित देवताभ्यो बलिदानंच करिष्ये || पूर्वे || ॐ त्रातारमिन्द्र मविता रयिन्द्र गुं० हवे हवे सुहव गुं शूरमिन्द्रम् || ह्वयामिशक्रं पुरु हूतमिन्द्र गुं० स्वस्तिनोमघवाधात्विन्द्रः || इन्द्रायनमः सर्वोपचारार्थे गन्धाक्षतपुष्पादिना संपूज्य एवं सर्वत्र || ॐ इन्द्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय इ सदीप दथिमाषभक्त बलिं समर्पयामि || भो इन्द्र दिशं रक्ष बलिं भुङ्क्ष्व मम सकुटुम्बस्य अभ्युदयं कुरु आयुःकर्ता क्षेमकर्ता शांतिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदोभव || अनेन बलिदानेन इन्द्रः प्रीयताम् || अग्निकोणे || ॐ त्वन्नोऽ अग्नेतवदेव पायुभिर्मघोनो रक्षतेन्वश्चवन्द्य || त्राता तो कस्यतनये गवा मस्य निमेष गुं रक्षमाणस्तवव्रते || अग्नयेनमः || प्. ४१८)
269 SK अग्नयेसा || भो अग्नेदिशं० || दक्षिणेयमम् || ॐ यमाय त्वांगिरस्वतेपितृमते स्वाहा || स्वाहाघर्माय स्वाहा घर्मः पित्रे || यमाय नमः || भो यम० || नैर्-ऋत्यां || ॐ असुन्वन्तम यजमानमिच्छस्तेन स्येत्यामान्वहितस्करस्य || अन्यमस्मदिच्छ सात - इत्याननमोदेविनिर्-ऋते तुभ्यमस्तु || निर्-ऋतयेनमः || पश्चिमे || ॐ तत्वायामि ब्रह्मणा वन्दमानस्त दाशास्तेयजमानो हविर्भिः || अहेडमानो वरुणेहवोधुरुश गुं समानऽ आयुः प्रमोषीः || वरुणायनमः || वायव्यां || ॐ आनोनियुद्भिःशतिनीभिरध्वरगुं सहस्त्रिणीभिरुपयाहियज्ञम् || वायोऽ अस्मिन्त्सवनेमादयस्वं यूयंपातस्वस्तिभिः सदानः || वायवे० || उत्तरे || ॐ वयगुं सोमव्रते तव मनस्तनूपुविभ्रतः || प्रजावन्तः सचेमहि || सोमाय० || ईशान्यां || ॐ तमीशानं जगतस्तस्थुषस्पतिन्धियं जिन्वमवसेहूमेवयम् || पूषानोयथावेदसामसद्वृधेरक्षितापायुरदब्धः || स्वस्तये || ईश्वराय० || पूर्वेशानयोमध्ये || ऊर्ध्वे || ॐ अस्मेरुद्रामेहनापर्वतासोवृन्न्हत्ये भरहूतौसजोषाः || यः सगुं सतेस्तुवतेधायिपज्र इन्द्रोज्येष्ठाऽ अस्मांऽ प्रवन्तुदेवाः | ब्रह्मणे० निर्-ऋतिपश्चिमयोर्मध्ये अधोभगे || ॐ स्योना पृथिविनोभवान्नृक्षरानिवेशनी || यच्छानः शर्म स प्रथाः || अनन्ताय० ततो ग्रहवेदिसमीपे सूर्यादिग्रहाणां बलिः || ॐ आकृष्णेन रजसा० || सूर्यादिग्रहेभ्यः अधिदेवता प्रत्यधिदेवता सहितेभ्यः सांगेभ्यः सप० सश० इमं सदीपदधिमाषभक्त बलिं समर्पयामि || भो भो सूर्यादि देवताः दिशः रक्षत बलिंभक्षत दीपानि पश्यत || मम (यजमानस्य) सकुटुम्बस्याभ्युदयं कुरुत || आयुः कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्तारः निर्विघ्न कर्तारः वरदाभवत || अनेनबलिदानेन सूर्यादि ग्रहाः प्रीतन्ताम् || ततो १६ मातृणा मेकबलिं दद्यात् || ॐ समख्ये देव्याधियासं दक्षिणयोरुचक्षसा || मामऽ आयुः प्रमोषीम्ॐअऽ अहन्तववीरम्बिदेयतवदेविसंदृशि || गौर्यादि मातृभ्य इमं सदीपमाष भक्त बलिं
270 SK समर्पयामि भो भोगौर्यादि मातर इमं बलिं गृह्णीत मम (वज्रमानस्य) सकुटुम्बस्याभ्युदयं कुरुत आयुः कर्त्र्यः क्षेमकर्त्र्यः शान्तिकर्त्यः तुष्टिकर्त्यः निर्विघ्न कर्त्र्यः वरदा भवन्तु || प्. ४१९) बलिदानेनानेन गौर्यादिषोडशमातरः प्रीयन्ताम् || अथ क्षेत्रपाल बलिदान विधिः || एकसिन्वंश पात्रे कुशानास्तीर्य तदुपरि आहार चतुर्गुणं द्विगुणं वा माषभक्त दध्योदनं जलपात्रं च निधाय हरिद्रा कुंकुम सिन्दूर कज्जल द्रव्य पताका दीपयुतं कृत्वा || ॐ अद्येत्यादि० सकलारिष्ट शान्तिपूर्वकं प्रारीप्सितस्य कर्मणः सांगतासिद्ध्यर्थं क्षेत्रपाल पूजनं बलिदानं च करिष्ये || इति प्रतिज्ञा || अक्षतान्गृहीत्वा || ॐ नहिस्पर्शमविदन्नन्यमस्माद्वैश्वा नरात्पुरऽ एतारमग्नेः || एमेनवृधन्न मृताऽ अमर्त्यं वैश्वानरं क्षत्रजित्याय देवाः || ॐ ह्रीं (क्षं) क्षेत्रपालाय नमः || इति मन्त्रेण यथोपचारैः सम्पूज्य ध्यायेत् || ॐ नीलाञ्जनाद्रि निभमूर्ध्व पिशंगकेशम् | वृत्तोग्रलोचन मुदान्तगदाकपालम् || आशाम्बरं भुजगभूषणमुग्र दंष्ट्रं | क्षेत्रेशमद्भुत तनुं प्रणमामिदेवम् || (शारदायां) प्रार्थना || ॐ नमो क्षेत्रपालस्त्वं भूतप्रेतगणैः सह | पूजाबलिंगृहाणेमं सौम्योभवतु सर्वदा || आयुरारोग्यं मे देहि निर्विघ्नंकुरु सर्वदा | अनेन पूजनेन क्षेत्रपालः प्रीयताम् || ततोबलिदानम् || ॐ क्षेत्रपाल महाबाहो महाबल पराक्रम | क्षेत्राणां रक्षणार्याय बलिंगृह नमोस्तु ते || क्षं क्षेत्रपालाय सांगाय भूतप्रेत पिशाच डाकिनी शाकिनी वेतालादि प्. ४२०)
271 SK परिवारयुताय सायुधाय सशक्तिकाय सवाहनाय इमंसदीप दधिमाषभक्त बलिंसमर्पयामि नमः भो भो क्षेत्रपाल सर्वतोदिशं रक्ष बलिंभक्षं दीपं पश्य मम (यजमानस्य) सकुटुम्बस्य अभ्युदयं कुरु आयुः कर्ता क्षेम कर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता शुभदो वरदो भव || बलिदानेनानेन क्षेत्रपः प्रीयताम् || इदं बलिं अनवेक्ष्यमाणेनदुर्ब्राह्मणेन नीत्वा चतुष्पथे निक्षिपेत् स यजमानोऽपि तस्य पृष्ठतोद्वारपर्यन्तं गत्वाजलं क्षिपेत् || इति क्षेत्रपाल बलिदान विधिः || हस्तौपादौ प्रक्षाल्याचम्य आसन उपविशेत् || बलिदानानन्तरंगणेशादिदेवतानामुत्तरपूजनंकुर्यात् || अथोत्तर पूजनम् || अद्येत्यादि वासन्तिक (शारदीय) नवरात्रौ दुर्गा हवनकर्मणि सांगतासिद्ध्यर्थं गणपत्यादि मण्डल स्थापित देवानामुत्तर पूजनं करिष्ये || ॐ गणानान्त्वा० || ॐ ग्रहाऽ ऊर्जाहुतयोव्यन्त विप्रायमतिम् || तेषां विशिप्रियाणां वाहऽ इषमूर्ज गुं समग्रभम् || ॐ अम्बेऽ अम्बिकेम्बालिके० || गणेशादि मण्डल स्थापितसर्वेभ्योदेवताभ्योनमः || गन्धादिभिः संपूज्य || वेदपाठः || ॐ इषेत्वोर्जेत्वावायवस्थ देवोवः सविताप्रार्पयतुश्रेष्ठतमायकर्मणऽ आप्यायध्वमघ्न्याऽ इन्द्राय भागं प्रजावतीरनमीवाऽ अयक्ष्मा मा वस्तेनऽ ईशतमाघश गुं सो ध्रुवाऽ अस्मिन्गोपतौ स्यात वह्वीर्यजमानस्य पशून्पाहि || ॐ अग्निमीलेपुरोहितं यज्ञस्यदेवमृत्विजम् || होतारं रत्नधातमम् || ॐ अग्नऽ आयाहिवीतये गृणानोहव्यदातये || निहातासत्सि वर्हिषि || ॐ शन्नो देवी रभिष्टयऽ आपो भवन्तु पितये || शंयोरभिस्रवन्तुनः || ॐ ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुश्शशी भूमि सुतो बुधश्च || गुरुश्च शुक्रश्शनिराहुकेतवः सर्वे ग्रहाः शान्ति कराभवन्तु || दुर्गां तर्पयामि नमः || प्. ४२१) एवं होमं समाप्य उत्तराङ्गानि कुर्यात् || अथ पूर्णाहुतिः || पूजास्विष्टं नवाहुत्यो बलिः पूर्णाहुतिस्तथा | आश्रिवादप्रदानं च अभिषेको विसर्जनम् ||
272 SK ततो यजमान पत्नीमाहूय ग्रन्थि बन्धनं कृत्वा तद्दक्षिणेस्थित्वा गणेशादि देवताभ्यो नमः || इत्यनेन गंधाक्षतादिभिः सम्पूज्य || पश्चात् ॐ अग्नेनय सुपथारायेऽ अस्मान्विश्वानि देवव्वयुनानिव्विद्वान् || युयोध्यस्मज्जुहूराणमेनो भूयिष्ठान्तेनमऽ उक्तिंविधेम् || मृडाग्नयेनमः इतिगन्धादिभिः संपूज्य || ॐ अद्येत्यादि० कृतस्य दुर्गाहवन कर्मणः साङ्गतासिद्ध्यर्थंवसोर्द्धारासमन्वितं पूर्णाहुति होमं करिष्ये || ततः पात्रान्तरे स्रुवेण चतुर्गृहीताज्यं द्वादशवारं गृहीतं वा गृहीत्वा पात्रोपरि वस्त्र वेष्टितं श्रीफलं धृत्वा फल ताम्बूल गंध माल्यादिभिरलंकृत्यगृहीत्वा पात्रं श्रुच्युपरिनिधाय धृत्वोभयपाणिभ्यां यजमानस्तिष्ठेत् || ॐ समुद्रादूर्मिर्मधुमा गुं उदारदुपा गुं शुनासममृतत्वमानट् || घृतस्य नाम गुह्यन्त दस्तिजिह्वा देवानाममृतस्यनाभिः || १ || चत्वारि शृङ्गात्रयोऽ अस्यपादांद्वेशीर्षेसप्त हस्तासोऽ अस्य || त्रिधावद्धावृषभोरीरवीति महोदेवोमर्त्यां २ आविवेश || २ || पुनस्त्वादित्या रुद्राव्वसवह् समिन्धताम्पुनर्ब्रह्माणो व्वसुनीथ यज्ञैः || घृतेनत्वन्वंव्वर्धयस्वसत्याः सन्तु यजमानस्यकामाः || ३ || सप्ततेऽ अग्नेसमिधः सप्तजिह्वाः सप्तऽ-ऋषयः सप्तधामप्रियाणि || सप्तहोत्राः सप्तधा त्वा यजन्ति सप्तयोनीरापृणस्वघृतेन स्वाहा || ४ || पूर्णादर्विपरापत सुपूर्णा पुनरापत || व्वस्नेवविक्रीणा वहाऽ इषमूर्जगुं शतक्रतो स्वाहा || ५ || इदमग्नयेवैश्वनराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवते अग्नये अद्भूयश्चनमम || वरुण कलशेत्यागः || ततोवसोर्द्धाराजुहुयात् || सप्ततेऽ अग्ने समिधः० || वसोः पवित्र मसि शतधारं वसोः पवित्र मसि सहस्र धारम् || देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्त्वा का मधुक्षह् स्वाहा || प्. ४२२)
273 SK ततः अग्निप्रार्थना || श्रद्धां मेधां यशः प्रज्ञां विद्यां पुष्टिं श्रियं बलम् || तेज आयुष्यमारोग्यं देहि मे हव्यवाहन || भोभो अग्ने महाशक्ते सर्व कर्म प्रसाधन || कर्मान्तरेपि संप्राप्ते सान्निध्यंकुरु सर्वदा ||
274 SK त्र्यायुषकरणम् || ॐ त्र्यायुषंयमदग्नेरितिललाटे || ॐ कश्यपस्य त्र्यायुषमितिग्रीवायाम् ॐ यद्देवेषुत्र्यायुषमिति दक्षिणांसे || ॐ तन्नो अस्तु त्र्यायुषमितिहृदि || वामस्कन्धे च || ततः संस्रवप्राशनम् || पवित्राभ्यांमार्जनम् || अग्नौ पवित्रप्रतिपत्तिः || ब्रह्मणे पूर्ण पात्रानम् || तद्यथा अद्येत्यादि पठित्वा || अद्यकृतैतद्दुर्गाहवनाख्य कर्मणि हवन कर्मप्रतिष्ठार्थमिदंपूर्णपात्रं सदक्षिणम्प्रजापतिदैवतममुकगोत्राय || अमुकशर्मणे ब्राह्मणाय ब्रह्मणेतुभ्यमहं संप्रददे || ॐ स्वस्तीति प्रतिवचनम् || ततो ब्रह्म ग्रन्थिविमोकः || ततः प्रणीतोदकेन || ॐ सुमित्रियान. आपऽ ओषधयः सन्त्विति || ॐ आपः शिवाः शिवतमाः शान्ताः शान्ततमाः तास्ते कृण्वन्तुभेषजमिति || यजमान मूर्धानमभिषिञ्चति || ततः दुर्मित्रियास्तस्म सन्तुयोस्मान्द्वेष्टियं च वयंद्विष्मः इति ईशान्यां प्रणीतांन्युव्जी कुर्यात् || ततः परिस्तरण क्रमेणवर्हि रुस्थाप्याज्येनाभिधार्य || ॐ देवागातुविदोगातुं वित्वागातुमित || मनसस्पतऽ इमंदेवयज्ञ गुं स्वाहा वातेधाः स्वाहा || इतिमन्त्रेण हस्तेनैवजुहुयात् || ततः कलशजलं एकस्मिन्पात्रेनिधाय दूर्वयायजमानमूर्द्धानमभिसिंचति || आपोहिष्ठेत्यादि मन्त्रैः || आपोऽ अस्मान्मातरः शुन्धयन्तुघृतेननौघृतष्व पुनन्तु || विश्वगुं हिरिप्रम्प्रवहन्तिदेवीरुदिदाभ्यःशुचिरापूतऽ एमि || ४ || इदमापः प्रवहताव्वद्यञ्चमलञ्चयत् || यच्चाभिदुद्रोहानृतन्यच्चशेषेऽ अभीरुणम् || आपोमात स्मादेनसःपवमानञ्चमुञ्चतु || ५ || शिरोमेश्रीर्यशोमुखन्त्विषिः केशाश्चश्मश्रूणि || राजामेप्राणोऽ अमूतगुं सम्राट् चक्षुर्विराट् श्रोत्रम् || ६ || जिह्वामेभद्रं वाङ्महोमनोमन्युः स्वराड्भामः || मोदाः प्रमोदाऽ अंगुली रङ्गानिमित्रम्मे सह || ७ || बाहूमेबलमिद्रियगुं हस्तौमेकर्म वीर्यम् || आत्माक्षत्रमुरोमम || ८ || प्. ४२३)
275 SK पृष्टीर्मेराष्ट्रमुदर मगुं सौग्रीवाश्च श्रोणी || ऊरू अरती जानुनी विशोमेङ्गानि सर्वतः || ९ || नामिर्मेचित्तम्विज्ञानम्पायुर्मेपचितिर्भसत् || आनन्दनन्दावाण्डौमेभगः सौभाग्यम्पसः || जङ्घाभ्यांपद्भ्यांधर्मोस्मिव्विशि राजाप्रतिष्ठितः || १० || यतोयतः समीहसे ततोनोऽ अभयङ्कुरु || शन्नःकुरु प्रजाभ्योभयन्नः पशुभ्यः || ११ || अथपुराॐक्तमन्त्राः || सुरास्त्वामभिषिञ्चतुब्रह्मा विष्णुमहेश्वराः || वासुदेवो जगन्नाथस्तस्थासंकर्षणो विभुः || १ || प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते || आख्ण्लोग्निर्भगवान्यमो वैनिर्-ऋतिस्तथा || २ || वरुणः पवनश्चैवधनाध्यक्षस्तथाशिवः || ब्रह्मणाः सहिताः सर्वेदिग्पालाः पान्तु ते सदा || ३ || कीर्तिर्लक्ष्मीर्धृतिर्मेधापुष्टिः श्रद्धाक्रियामतिः || बुद्धिर्लज्जावपुः शान्तिस्तुष्टिः कान्तिश्चमातरः || ४ || एतास्त्वाममिषिञ्चन्तुदेवपत्न्यःसमागताः || आदित्यश्चंद्रमाभौमबुधजीवसितार्कजाः || ५ || ग्रहास्त्वामभिषिञ्चन्तुराहु केतुश्चतर्पिताः || देवदानव गन्धर्वाःयक्षराक्षपन्नगाः || ६ || ऋषयोमनवोगावोदेवमातर एवच || देवपत्न्योद्रुमानागादैत्याश्चाप्सरसांगणाः || ७ || अस्त्राणि सर्व शास्त्राणिराजानो वाहनानि च || औषधानिचरत्नानिकालस्यावयवाश्च ये || ८ || सरितः सागराः शैलास्तीर्थानि जलदानदाः || एतेत्वामभिषिञ्चन्तुसर्वकामार्थसिद्धये || द्यौः शान्तिरिक्षगुं शान्तिः० || मंडप परिक्रमा || ॐ येतीर्थानिप्रचरन्तिसृकाहस्तानिषङ्गिणः || तेषागुं सहस्रयोजनं वधन्वानितन्मसि || १ || यानिकानि च पापानिजन्मान्तरकृतानि च || तानितानि प्रणश्यन्ति प्रदक्षिण पदेपदे || पापोहंपापकर्महंपापात्मापापसंभव || त्राहिमांचण्डिकेदेवि सर्वपापहराभव || गोचारिणीदक्षिणा || अद्येत्यादिकृतस्य दुर्गाहवनाख्यकर्मणि प्. ४२४)
276 SK अपूर्णपूर्णार्थं न्यूनातिरिक्तदोष पहिरार्थं गौरभावेगोचारिणीं (गोदुग्धपानार्थंवा) दक्षिणां अमुक गोत्राय अमुकशर्मणे सुपूजिताय ब्राह्मणाय तुभ्यमहं संप्रददे || कृतस्य दुर्गाहवन कर्मणि सांगतासिद्ध्यर्थं गोत्रेभ्यः आचार्यादि ऋत्विग्भ्यो दक्षिणां यथायथाइभज्ययुष्मभ्यमहमुत्सृजे || भूयसीदानम् || कृतस्य दुर्गाहवन कर्मणः सांगतासिद्ध्यर्थं अपूर्णपूर्णार्थं भूयसीं दक्षिणां नानानां गोत्रेभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यो अन्धपंगुम्यश्च यथायथाविभज्यदातुमहमुत्सृजे || अथ छायापात्रदान विधिः || कांस्यपात्रेस्थिताज्यं च आत्मरूपं निरीक्ष्य तु | ससुवर्णन्तु यो दद्यात्सर्वविघ्नोपशान्तये || मन्त्रः || ॐ रूपगुं रूपं प्रतिरूपो वभूवतस्य रूपं प्रतिचक्षणाय || इन्द्रोमायाभिः पुरुरूपऽ एते युक्त ह्यस्य हरयः शतादशोत्ययंवै हरयोयं दशच सहस्राणि बहूनि च नन्तातदेतद्ब्रह्मपूर्वमनवाह्य जमनुः सर्वानुशासनम् || इत्याज्ये मुखमवलोक्य || संकल्पः || अद्येत्यादि० ममैतच्छरीरावच्छिन्न समस्तपापक्षय सर्वग्रहपीडाशान्ति शरीरोत्थार्तिनाशाय प्रासाद वांछायुरारोग्यादिसर्व सौभाग्यप्राप्तये सर्वसौख्यप्राप्तये च इदं स्वदेह छायावीक्षिताज्य पूरितकांस्य पात्रं ससुवर्ण (सदक्षिणाकं) विष्णु दैवतं अमुक गोत्राय अमुकशर्मणे ब्राह्मणाय सुपूजिताय तुभ्यमहं संप्रदते नमम || मन्त्रौ || याऽलक्ष्मीर्यच्चमे दौस्थ्यंसर्वाङ्ग समुपस्थितम् | सत्सर्वं नाशयाज्यत्वं प्रियमायुश्च वर्द्धय || १ || आज्यंसुराणामाहारः सर्वमाज्ये प्रतिष्ठितम् | आज्यपात्र प्रदानेन शान्तिरस्तु सदामम || २ || इति छायापात्रदान विधिः || प्. ४२५) आशीर्वादः ||
277 SK पुत्रवती दक्षिणतऽ इन्द्रस्याधिपत्ये प्रजाम्मेदाः पुत्रवती दक्षिणतऽ इतिनात्र तिरोहितामेवास्तीन्द्रस्याधिपत्यऽ इतीन्द्ररेवास्याऽ अधिपतिङ्करोतिनाष्ट्राणाṁ रक्स्ऽसामपहत्यै प्रजाम्मेदाऽ इतिप्रजामेवपशूनात्मन्धत्ते तमोह पुत्रो पशुमान् भवति || शतंभवति शतायुर्वै पुरुषः शतेन्द्रियऽ आयुरेवेंद्रियं वीर्यमात्मन्धत्ते || १ || ध्रुवासि ध्रुवोयं यजमानोस्मिन्नपतने प्रजया पशुभिर्भूयात् || २ || अथनमभिपद्यवाययसि ध्रुवासि ध्रुवोयं यजमानोस्मिन्नायतने प्रजयाभूदिति पशुभिरितिवैवं यंकामंकामये तस्मैकामः समृध्यते शतं भवति शतायुर्वैपुरुषः शतेंद्रियऽ आयुरेवेंद्रियं वीर्यमात्मन्धत्ते || १ || ॐ स्वस्तिनऽ इन्द्रो० || श्रीर्वर्चस्वमा० || पुनस्त्वारुद्रा दित्या० || मंत्रार्थाः सफलाः सन्तु पूर्णाः सन्तुमनोरथाः || शत्रूणांबुद्धिनाशोस्तुमित्राणामुदयस्तथा || आयुष्कामो यशस्कामो पुत्रपौत्रस्तथैव च || आरोग्यंधनकामश्चसर्वेकामाभवन्तु में || आशिशोगृह्णीयात् || ततो देवताग्निविसर्जनम् || यान्तुदेवगणाः सर्वेस्वशक्त्यापूजितामया || इष्टकामप्रसिद्ध्यर्थंपुनरागमनाय च || ॐ उत्तिष्ठब्रह्मणस्पते देवयन्तस्त्वेमहे || उपप्रयन्तु मरुतः सुदानवऽ इन्द्रप्राशूर्भवासचा || गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर || यत्र ब्रह्मादयो देवास्तत्र गच्छहुताशन || ॐ यज्ञ यज्ञं गच्छ यज्ञपतिंगच्छ स्वांयोनिंगच्छ स्वाहा || एषतेयज्ञोयज्ञपतेसहसूक्तवाकः सर्व वीरस्तञ्जुषस्व स्वाहा || मासोत्तमे अमुकमासे ऽमुकपक्षे ऽमुकतिथौमया यत्त्कृतं दुर्गा हवन शांत्याख्यं कर्म कालहीनं भक्तिहीनं श्रद्धाहीनं तद् ब्राह्मणानांवचनात् श्रीसूर्याद्यावाहित देवता प्रसादात्सर्वं परिपूर्णमस्त्वितिभवन्तो ब्रुवन्तु || अस्तु परिपूर्णं इति ब्राह्मणाः प्रतिब्रयुः || प्रमादात्कुर्वतां कर्म प्रच्यवेतादध्वरेषु यत् || स्मरणादेव दुर्गायाः सम्पूर्णं स्यादिति श्रुतिः || यस्यमृत्या च नामोक्त्या तपो यज्ञ क्रियादिषु न्यूनं संपूर्णतां याति सद्योवंदेतचण्डिकाम् || एवं
278 SK यः कुरुतेशांतिं वेद शास्त्र प्रमाणतः || तदनिष्टं तु सकलं सद्य एव विनश्यति || प्. ४२६) चतुर्वर्ग समुद्भूतं चतुर्वर्ग फलप्रदम् | चतुर्वर्ण चतुर्वर्ण शंकरं शांकरि भजे || अथ प्रयोगान्तराणि कात्यायनी तन्त्रोक्तानि ||
279 SK प्रति श्लोक माद्यन्तयोर्मंत्रजपेनमंत्र सिद्धिः मंत्रमित्यत्र प्रणव मित्युक्तिः || नागेशभट्टैः सप्रणव मनुलोम व्याहृत त्र्यमादौ अन्तेतुविलोमं तदित्येवं प्रतिश्लोकं कृत्वा शतावृत्ति पाठे अति शीघ्रं सिद्धिः || प्रति श्लोकमादौ || ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेदः सनः पर्षदति दुर्गाणि विश्वानावेवसिन्धुन्दुरितात्यग्निः इत्यृचं पठेत्सर्व काम सिद्धिः || अपमृत्युवारणायादावन्ते त्र्यम्बक मंत्रजपेत् प्रति श्लोकं तन्मन्त्रजप(संपुट)इति वा || प्रतिश्लोकं शरणागतदीनार्तेति श्लोकं पठेत् सर्वकार्यसिद्धिः || अन्येतु शरणागत रक्षेत्याहुः || सरमङ्गलावाप्त्यै सर्व मङ्गल मंगल्ये इति प्रति मन्त्र पठेदिति कालिका पुराणेस्थितं || प्रतिश्लोकं करोतुसानः शुभेत्यर्द्धंपठेत्सर्व कामावाप्तिः || स्वाभीष्ट वरप्राप्त्यै एवं देव्या वरमिति श्लोकं प्रतिश्लोकं पठेत् || इतिदत्वेत्यर्द्धश्लोकात्मको मन्त्रो जपाद्वाञ्छातार्थद इत्यन्ये || सर्वा पन्निवारणाय दारिद्र दूरीकरणाय च प्रति श्लोकं दुर्गेस्मृतेति पठेत् अस्य केवलस्यापि श्लोकस्य कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः || सर्वाबाधेत्यस्य लक्ष जपे श्लोकोक्तं फलम् || नारायणस्तुसमन्वित इत्यत्र सुतान्वित इत्यपि पाठात्तेन सुत प्रदोप्ययं मन्त्र इति तदाशयोलक्ष्यते || इत्थं यदायदेति श्लोकस्य लक्ष जपे महामारी शान्तिः || ततो बव्रे नृपोराज्यमिति मन्त्रस्य लक्ष्य जपे पुनः स्वराज्यलाभः || स्वल्पै रहोभिरिति मन्त्रस्य लक्ष जपे प्रति मन्त्र पाठे वा स्वराज्य लाभ इति बहवः || हिनस्ति दैत्य तेजांसीत्यनेनसदीप दाने घण्टा वादने च बालग्रह शान्तिः घण्टा वादन इत्यत्रनागेश भट्टादयो घण्टा बन्धन इत्याहुः || घण्टां कांस्य मयीं बध्वा माष भक्त बलिं हरेदिति वचनात् || मन्त्रमुच्चार्य तदघण्टानादं कुर्याद्विचक्षण || तन्नाद श्रवणाद्देविपलायन्ते पिशाचिका इति पूर्वापर वैलक्षण्येपि वादनार्थमेव तद्वन्धनमित्वभयोरेकमेव प्. ४२७)
280 SK प्रयोजनं समर्थंप्रति तद्वादनमिति वा प्रयोजनैक्यं बोध्यम् || आद्यावृत्तिमनुलोमेन त्रयोदशाध्यायं पठित्वा ततोविपरीत क्रमेण द्वितीयां कृत्वा पुनरनुलोमेन तृतीयामित्येवमावृत्तित्रये उक्तेषु प्रकारेषु शीघ्रं कार्य सिद्धिः || सर्वापत्ति निवारणाय दुर्गेस्मृतेत्यर्द्धं ततो यदन्तिं यच्चदूर के भयं विन्दतिमामिह पवमान वितज्जहि इत्यृचंतदन्तेदारिद्रय दुःखेत्यर्द्धमेवं कार्यानुसारेण लक्षमयुतं सहस्रं शतं वा जपः || कांसोस्मितांहिरण्य प्रकारामार्द्रां ज्वलंतींतृप्तां तर्पयन्तीं पद्मेस्थितां पद्मवर्णांतामिहोपह्वये श्रियमित्यृचं प्रतिश्लोकं पठेल्लक्ष्मी प्राप्तिः || प्रतिश्लोकं अनृणा अस्मिन्ननृणाः परस्मिन्तृतीयेलोके अनृणाःस्याम ये देवयानाः पितृयाणाश्च लोकाः सर्वान्पथो अनृणा आक्ष्येमेत्यृचं पठेत् ऋणपरिहारः || मारणार्थमेव मुक्ता समुत्पत्येति श्लोकं पठेन्मारणोक्तावृत्तिभिः फल सिद्धिः || सर्वाबाधा प्रशमन मिति मंत्रोयं शत्रु नाशक आपन्नाशकश्च || ज्ञानिनामापि चेतांसीति श्लोकस्य जपमात्रेण सद्यो मोहन मित्यनुभव सिद्धम् || तच्छ्लोक पाठे त्ववश्यम् || रोगानशेषा नितिश्लोकस्यप्रति श्लोके पाठे सकल रोग नाशः तन्मन्त्र जपेपि सः || इत्युक्ता सातदा देवी गम्भीरेति श्लोकस्य प्रतिश्लोकं पाठे पृथग्जपे वा विद्या प्राप्तिर्वाग्विकार नाशश्च || मेधे सरस्वति वरे इत्ययमपि विद्याप्रद इत्यन्वे || भगवत्या कृतं सर्वमित्यादि द्वादशोत्तर शताक्षरो मन्त्रः सर्वकामदः सर्वा पन्निवारणश्च होमेत् अर्द्धमेवेति पूर्वमुक्तम् || देवि प्रपनार्ति हरे प्रसीदेति श्लोकस्य यथा कार्य लक्षमयुतं शतं वा जपे प्रति श्लोकं पाठे वा सर्वापन्निवृत्तिः सर्वकामाप्तिश्च || इत्युक्ता सा भगवती त्यर्द्ध मन्त्रोयं जपात् सौर्य प्रदायकः || देवि प्रसीदेति मंत्रस्य जपे पाठे वा शत्रु पापोपसर्ग नाशः || वञ्चिताभ्यामित्यर्द्धमन्त्रो जल प्रद इति हरगौरी तंत्रात् || महां || २ || इन्द्रोपऽ ॐजसा पर्जन्यो वृष्टिमा इवस्तो भैर्व्वत्सस्य वावृधेऽ उपया मगृहीतोसि
281 SK महेन्द्रायत्वैषते योनिर्महेन्द्रायत्वेपि जल प्रद इति याजुषाः || अतिवृष्टि शान्तये ॐ समुद्रं गच्छ स्वाहान्तरिक्षङ्गच्छस्वाहादेव गुं० सवितारं गच्छ प्. ४२८) स्वाहा मित्रावरुणौ गच्छ स्वाहा हो रात्रेगच्छ स्वाहा छन्दांसि गच्छ स्वाहाद्यावा पृथिवी गच्छ स्वाहा यज्ञं गच्छ स्वाहा सोमंगच्छ स्वाहा दिव्यंनभोगच्छाग्निं वैश्वानरं गच्छ स्वाहा मनोमेहार्दियच्छदिवन्तेधूमोगच्छतुस्वर्ज्योतिः पृथिवीम्भस्मना पृणस्वाहेतिजपेत् || यत्प्रार्थ्यतेत्वयाभूपेत्येकेनैवश्लोकेनासकृदावर्तितेन देवीतोषकृद्भवति || शंख चक्र गदाशार्ङ्गगृहीतपरमायुधे इत्ययमप्येतत्फलदमित्यन्ये || स्त्रियः सौभाग्यकामनयावियुक्तपतिप्राप्तयेच अम्बेऽ अम्बिकेम्बालिके नमानयति कश्चन ससस्त्यश्वकः सुभद्रिकां कांपीलवासिनीमितिमन्त्रीप्रतिमन्त्रं च पठेत् || सर्वत्रसंपुटी कृत्य पल्लवीकृत्या वा पठेत् || मन्त्रान्काश्चिज्जप्देदेवक्रम एष शिवोदित इति एषु प्रयोगेषु प्रतिश्लोकं दीपाग्रे केवल मेव वा नमस्कार करणेति शीघ्रं सिद्धिः || इति कात्यायनी तन्त्रोक्त प्रयोग विधिः समाप्ता || इत्यर्गलपुर निवासि गौड जातीय भारद्वाज वंशोद्भवविद्वद्वर गोस्वाम्युपाह्व पं० बुलाखीराम सूनुना भू० पू० श्रीविद्याधर्मवर्द्धिनी पाठशालायाः कर्मकाण्ड यजुर्वेदाध्यापकेन विद्याभूषण कर्म काण्डमणीत्युपाधि विभूषितेन श्रीलक्ष्मीनारायण गोस्वामिना संग्रहीता दुर्गार्चन सृतिः समाप्ता || विजया दशम्यां शमी पूजनम् || अथ विजया दशम्यां वर्ष पर्यन्तं यात्रा निर्विघ्न प्राप्तये शमी पूजनम् || शमी पूजने कालः || ज्योतिर्निबंधे || ईषत्संध्यामति क्रान्तः किंचिदुद्भिन्नतारकाः || विजयोनामकालोयं सर्वकामार्थ साधकः || नगराद्ग्रामाद्वावहिरीशकोणे शमी वृक्षसमीपं गत्वा || भूं प्रोक्ष्यतस्योपरि श्वेत वस्त्रं प्रसार्य तदुपरि तन्दुलेनाष्टदलं कृत्वा मध्ये कलशं स्थाप्य ||
282 SK आचम्य प्राणानायम्य् स्वस्तिवाचन पूर्वकं संकल्पं विधाय || गणेश पंच्ॐकार षोडशमातृका नवग्रह कलशादीन्प्रपूजयेत् || ततः शमी मूलाद्भूमिमुत्कृत्य श्वेततन्दुल पूग स्वर्ण तारं वा धृत्वा परिक्रम्य ततः शमीपत्राणि सह गोलकं बध्वा सर्वकार्यसिद्ध्यर्थं पूजांते गृह्णाति || प्. ४२९) संकल्प || तिथि वाराद्युच्चार्य || यात्रायां विजय सिद्ध्यर्थं वास्तु पूजन दिग्पाल पूजन मार्ग देवता पूजन शमी पूजन अपराजिता पूजनञ्च करिष्ये || ॐ अपराजितायै नमः || दक्षिणे ॐ क्रियायैनमः वामे ॐ उमायै नमः || पश्चात् शमीं ध्यायेत् || अमंगलानांशमनीं शमनींदुष्कृतस्य च || दुःस्वप्ननाशिनीं धन्यांप्रपद्येहंशमींशुभाम् || शमी देवतायै नमः || इति मंत्रेण यथोपचारैः शमी वृक्षं पूजयेत् || ततः प्रार्थना || भविष्ये || शमीशय मे पापं शमीं लोहित कंटका || धारिण्यर्जुनवाणानां रामस्य प्रियवादिनी || करिष्यमाणयात्रायां यथा कालं सुखंमया || तत्र निर्विघ्नकर्त्रीत्वं भव श्रीरामपूजिता || शमीशमय मे पापं शमी शत्रु विनाशिनी || अर्जुनस्य धनुर्धारी रामस्य प्रियवादिनी || इति प्रार्थना || धारामंत्रः || आसिंचिता मयादेवि सदा शान्तिं प्रयच्छ मे || इति शमीमूले धारां दद्यात् पूजन कर्मणि || उत्तरे कर्मण्यविघ्नमस्तु || आपेहिष्ठेति अभिषेकः || मांगल्यं || अशिषः || अनया पूजया शमी देवता प्रीयताम् || यात्रा काले चाप दर्शनं शुभम् ||
283 SK नीलकंठे मणिग्रीवः स्वस्तिकश्चापराजितः || अशोकश्चाविशोकश्च नंदनः पुष्टिवर्द्धनः || अष्टौ चाषस्यनामानि चाषं दृट्वातु यो पठेत् || कार्य सिद्धिर्भवेत्तस्य मिष्टमन्नं वरांगना || दिग्देवता पूजनम् || अभिलाषदोग्ध्र्यै शम्यैनमः || पूर्वस्यांदिशि यानि कार्याणि तत्सिद्धये प्रयाणमारंभयामि || ॐ या यात्रा शंकरस्य त्रिपुरविदहने खांडवे चार्जुनस्य यायात्रा राघवस्य जलनिधि तरणे सेतुबंधेसमुद्रे || यायात्रा वायुसूनोरौषधि गमने लक्ष्मणे शक्तिभिन्ने सायात्रा सिद्धिदात्री भवतु ममगृहे सर्व सौख्य प्रदात्री || शत्रु प्रतिमा कार्यास्तंडुलैः सर्वदिक्षु च || पद चतुष्टयं वा दश गत्वा || [ॐ त्रातारमिन्द्रमवितारमिन्द्र गुं हवेहवेसुहवगुं शरमिन्द्रम् || ह्वयामिशक्रं पुरुहूतमिन्द्र गुं स्वस्तिनोमघवाधात्विन्द्रः ||] त्रातरमिन्द्रेति इन्द्रायनमः || दुग्धदारा दीपादिना पूजयेत् || पुनः तन्दुल रचित शत्रु प्रतिमोपरिपादं धृत्वा || प्. ४३०)
284 SK पश्चाच्छमीमूलमागत्य || अभिलाष दोग्ध्र्यै शम्यै नमः || सनाभिलषित कार्यसिद्ध्यर्थंदक्षिणस्यां दिशि प्रयाणमारंभयामि || ॐ यायात्रेत्यादि पठित्वा || पद चतुष्टयं दश वा गत्वा || [ॐ यमायत्वामखायत्वा सूर्यस्यत्वा तपसे || देवस्त्वा सवितामद्ध्वानक्तुपृथिव्याः स गुं स्पृशस्पाहि || अर्चिरसि शोचिरसितपोसि || ] ॐ यमायत्वेति मंत्रेण ॐ यमाय नमः नाम मंत्रेण वा दुग्धाधारा दीपादिना पूजयेत् || ततः चित्तस्थः कार्य सिद्ध्यर्थं प्रतीच्यांदिशि प्रयाणमारंभयामि || दुग्धधारादीपादिना पूजयेत् || पुनः तन्दुल रचित शत्रु प्रतिमो परिपादं धृत्वा शमी मूलमागत्य || पुन अभिलाष दोग्ध्र्यै शम्यै नमः यायात्रेत्यादि पठिता || पदचतुष्टयं दश वा गत्वा || [ॐ वरुणत्योत्तंभनमसिवरुणस्यस्कंमसर्जनीस्थोवरुणस्यऽ ऋत सदन्यसि वरुणस्वऽ ऋतसतृनमसिवरुणस्यऽ ऋतसदनमासीद ||] ॐ वरुणस्योत्तमिति मंत्रेण वरुणायनमः इति मंत्रेण वा वरुणं दुग्धधारा दीपादिना पूजयेत् || पुनः तन्दुल रचित श्त्रु प्रतिमो परिपादं धृत्वा शमी मूलमागत्य || अभिलाष दोग्ध्र्यै शम्यै नमः || ततः उत्तरस्यां दिशि यानि कार्याणि सर्वार्थ साधनार्थं प्रयाणमारंभयामि || ॐ यायात्रेत्यादिपठित्वा || पद चतुष्टयं दश वा गत्वा || [वयगुं सोमव्रतेतवमनःमनूषूबिभ्रतः प्रजायन्तः सचेमहिं ||] ॐ वयगुं० सोमव्रतेति मंत्रेण ॐ सोमाय नमः इति मंत्रेण वा दुग्धधारा दीपादिना पूजयेत् || ततः शमीमूले आगत्य मृत्तिकां शमी पत्राणि च संगृह्य तथा चोक्तं मत्स्य पुराणे || पूजान्तेमृत्तिका ग्राह्या साग्राह्या शमीमूलकात् || तस्माच्छमी प्रसादेत सुवर्णं चोपपद्यतेः || तत्रमंत्रः || ॐ अग्ने अच्छा व्वदेहिनः प्रतिनःसुमनाभव || प्रनोयच्छ सहस्र जितगुं हि धनदाऽ असि स्वाहा || प्. ४३१) खंजरीट प्रार्थना ||
285 SK नील ग्रीव शुभ ग्रीव सर्वकाम फलप्रदः | पृथिव्यामवतीर्णोसि खंजरीट नमोस्तु ते || त्वं योगयुक्तो मुनिपुत्रकस्त्वमदृश्यतामेत्पि शिखोद्गमेन || संदृश्यसे प्रावृषि निर्गतायां त्वं खंजनाश्चर्य नमो नमस्ते || खंजरीट दर्शन फलं प्रतिदिशायां || अब्जेषु गोषु गज वाजि महोरगेषु राज्यप्रदः कुशलदः शुचि शाद्वलेषु || भस्मास्थिकेश नखलोमतुषेषु दृष्टो दुःखं ददाति बहुशः खलु खंजरीट || वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रेहुताशे भयं याम्यामग्नि भयं सुरद्विषि कलिर्लाभः समुद्रालये || वायव्यां वर वस्त्र गन्धसलिलं दिव्यांगना चोत्तरे ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खंजने || कैश्चिदृक्षैस्तत्र भाव्यं कैश्चिद्भाव्यं तु वानरैः | कैश्चिद्रक्तमुखैर्भाव्यं कोसलेन्द्रस्य तुष्टये || निर्जिता राक्षसादैत्या वैरिणो जगती तले | राम राज्यं राम राज्यं राम राज्यमिति व्रुवन् || १ || इति शमी पूजन विधिः समाप्तः || प्. ४३२) रुद्रकल्पे वरणद्रव्याणि || भोजनं भोजनाधारश्छत्रोपानत्कमण्डलुः | आसनं वसनं मुद्राकर्णभूषोपवीतकम् || एतद्दशविधं देयं पदं वरण सिद्धये | पदाभावेत्रयं देयं पात्र वस्त्रांगुलीयकम् || १ || अथ श्री दुर्गा सप्तशती पाठांतर्गत प्राचीन श्लोक उपलब्ध || प्रथमोध्यायः || इति चिंता परो राजा वृक्ष मूलं स्थितोयदा | तदाऽजगाम वैश्यस्तु कश्चितार्ति परस्तथा || १७ || उपविश्य स्थिरो भूत्वा तमुवाच विशोत्तमः | वैश्य उवाच || मित्राहं वैश्य जातीयः समाधिर्नाम विश्रुतः || २० || धनवान् धर्म निपुणः सत्यवागन सूचकः | पुत्रदारै० ..... ..... ..... ..... || २१ || विहीनश्च० ..... ..... ..... ..... || स्वजनेन च संत्यक्तः प्राप्तोस्मि वनमाशु वै || २२ || कोसित्वं भाग्यवान् भासि कथयस्व प्रियाधुना | राजोवाच || सुरथो नाम राजाहं दस्युभिः पीडितोऽभवं || २५ ||
286 SK प्राप्तोसि गत राज्योत्र मंत्रिभिः परिवंचितः | कुटुंबं मे निरालंबं मयाहीनं सुदुःखितं || २६ || भविष्यति च चिन्तार्तं व्याधि शोकोप तापितं | कथं ते किंनु० ..... ..... ..... ..... || २७ || यौर्निरस्तोसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः | तान्दृष्ट्वा किं सुखं तेद्य भविष्यति महामते || २९ || हितकारी वरः शत्रुर्दुःखदाः सुहृदः कृतः | तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह || ३० || वैश्य उवाच || एव मेतद्यथा० ..... ..... ..... ..... | मनो मे न स्थिरं राजन् भवतद्य सु दुःखितं || ३१ || चिंतयात्र कुटुंबस्य दुस्त्यजस्य दुरात्मभिः | किं करोमि० ..... ..... ..... ..... || ३२ || राजोवाच || ममापि राज्य जं दुःखं दुनोति किल मानसं | पृच्छावाद्य मुनिं शांतं शोक नाशनमौषधं || ३६ || प्. ४३८) इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः | मुनिं तौ विनयोपेतौ पृष्टुं शोकस्य कारणं || ३८ || गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमं | आसीनं सम्यगासीनः शांतं शान्तिमुपागतः || तमुवाच परं ज्ञानं शोक मोह विनाशनं || ४० || मोहो नवापसरति किं तत्कारणमद्भुतं | स्वामिस्त्वमसि सर्वज्ञः सर्व संशय नाशकृत् || ४५ || ऋषिरुवाच || शृणु राजन्प्रवक्ष्यामि कारणं बंधमोक्षयोः | महामायेति विख्याता सर्वेषां प्राणिनामिह || ४६ || ब्रह्मा विष्णुस्तथेशानस्तुराषाद् वरुणोऽनिलः | सर्वे देवा मनुष्याश्च गन्धर्वोरग राक्षसाः || ४७ || वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षणः | मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः || ४८ || तया सृष्टमिदं सर्वं जगत्स्थावर जंगमं | तद्वशे वर्तते नूनं मोह जालेन यंत्रितं || ४९ || त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः | ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा || ५० || ब्रह्मेश वासुदेवाद्या ज्ञाने सत्यप्य शेषतः | तेपि रागवशाल्लोके भ्रमन्ति परि मोहिताः || ५१ || राजोवाच || तत् किमे तन्महाभाग यन्मोहो ज्ञानिनोपरि | ममास्यच भवत्येषा० ..... ..... ..... || ५२ ||
287 SK तुष्टाव बोधनार्थ तं शुभैः संबोधनैर्हरिं | नारायणं जगन्नाथं निस्पंदं योग निद्रया || ७१ || ब्रह्मोवाच || दीनानाथ हरे विष्णो वामनोत्तिष्ठ माधव | भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते || ७२ || अंतर्यामिन्नमेयात्मन् वासुदेव जगत्पते | दुष्टारि नाशनकाग्र चित्त चक्रगदाधर || ७३ || सर्वज्ञ सर्वलोकेश सर्वशक्ति समन्वित | उत्तिष्ठोत्तिष्ठ देवेश दुःख नाशन पाहि मां || ७४ || प्. ४३९) विश्वंभर विशालाक्ष पुण्यश्रवण कीर्तन | जगद्योने निराकर सर्गस्थित्यंत कारक || ७५ || इमौ दैत्यौ महाराज हंतुकामौ मदोद्धतौ | न जानास्यखिलाधार कथं मां संकटे गतं || ७६ || उपेक्षसेति दुःखार्तं यदि मां शरणागत | पालक त्वं महाविष्णो निराधारं भवेत्तत्तः || ७७ || एवं स्तुतोपि भगवान्न बुबोध यदा हरिः | योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिंतयेत् || ७८ || न्यूनं शक्ति समाक्रान्तो विष्णुर्निद्रावशं गतः | जजागार न धर्मात्मा किं करोप्यद्य दुःखितः || ७९ || हन्तुकामावुमौ प्राप्तौ दानवौ मदगर्वितौ | किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् || ८० || इति संचिंत्य मनसा निश्चयं प्रतिपद्य च | विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा || ८१ || यया ह्यचेतनो विष्णुः कृतोस्ति स्पंदवर्जितः | इति कृत्वा मतिं ब्रह्मा पद्मनाल स्थित स्तदा || ८२ || देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेद वचोभिरंव ! || यद्विष्णुरप्यखिल लोक विवेक कर्ता निद्रावशंच गमितः पुरुषोत्तमोद्य || ९९ || को वेद ते जननि मोह विलास लीलां मूढोस्म्यहं हरिरयं विवशश्च शेते | ईदृक्तया सकलभूत मनोनिवासे बिद्वत्तमो विबुधकोटिषु निर्गुणायाः || १०० || सांख्या वदन्ति पुरुषं प्रकृतिं अ यां तां चैतन्यभाव रहितां जगताश कर्त्रीं | किं तादृशासि कथमत्र जगन्निवासश्चैतन्यता विरहितो विहितस्त्वयाद्य || १०१ ||
288 SK नाट्यं तनोषि सगुणा विविध प्रकारं नो वेत्ति कोपि तव कृत्यविधानयोगं | ध्यायंति यां मुनिगणा नियतं त्रिकाल संध्येति नाम परिकल्प्य गुणा भवानि || १०२ || बुद्धिर्हि बोधकरणा जगतां सदा त्वं श्रीश्चासि देवि सततं सुखदा सुराणां | कीर्तिस्तथा मतिधृती किल कान्तिरेव श्रद्धा रतिश्च सकलेषु जनेषु मातः || १०३ || नातः परं किल वितर्क शतैः प्रमाणं प्राप्तं मया यदिह दुःख गतिं गतेन | त्वं चात्र सर्व जगतां जननीति सत्यं निद्रालुतां वितरता हरिणात्र दृष्टं || १०४ || त्वं देवि वेद विदुषामपि दुर्विभाव्या वेदोपि नूनमखिलार्थतया न वेद | यस्मात्त्व दुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत् || १०५ || कस्ते चरित्रमखिलं भुवि वेद धीमान्नाहं हरिर्न च भवो न सुरास्तथान्ये | ज्ञातु क्षमाश्च मुनयो न ममात्मजाश्च दुर्वाच्य एव महिमा तव सर्वलोके || १०६ || प्. ४४०) यज्ञेषु देवि यदि नाम न ते वदन्ति स्वाहेति वेद विदुषो हवने कृतेपि | न प्राप्नुवन्ति सततं मखभाग धेयं देवास्त्वमेव विबुधेष्वपि वृत्तिदासि || १०७ || त्राता वयं भगवति प्रथमं त्वया वै देवारि संभवभयादधुना तथैव | भीतोस्मि देवि वरदे शरणं गतोस्मि घोरं निरीक्ष्य मधुना सह कैटभं च || १०८ || नो वेत्ति विष्णु रधुना मम दुःखमेतज्जाने त्वयात्म विवशीकृत देह यष्टिः | मुंचादि देवमथवा जहि दानवेन्द्रौ यद्रोचते तव कुरुष्व महानुभावे || १०९ || जानन्ति ये न तव देवि परं प्रभावं ध्यायन्ति ते हरिहरावपि मन्द चित्तः | ज्ञातं मयाद्य जननि प्रकट प्रमाणं यद्विष्णुरप्य तितरां विवशोथ शेते || ११० || सिन्दूद्भवापि न हरिं प्रतिबोधितुं वै शक्तापतिं तव वशानुगमाद्य शक्त्या | मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न वुवुधे विवशीकृतेव || १११ ||
289 SK अन्यास्त एव भुवि भक्ति परास्तवांघ्रौ त्यक्त्वान्य देव भजनं त्वयि लीन भावाः | कुर्वन्ति देवि भजनं सकलं निकामं ज्ञात्वा समस्त जननीं किल कामधेउं || ११२ || धी कान्ति कीर्तिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य | बंदीकृतो हरिरसो ननु निद्रयात्र शक्त्या तवैव भगवत्यति मानवत्या || ११३ || त्वं शक्तिरेव जगतामखिल प्रभावा त्वंन्निर्मितं च सकलं खलु भाव मात्रं | त्वं क्रीडसे निजविनिर्मित मोहजाले नाट्ये यथा विहरते स्वकृतेन ये वै || ११४ || विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिरमला खलु पालनाय || त्रातं च सर्वमखिलं विवशीकृतोद्य यद्रोचते तव तथांव करोषि नूनं || ११५ || सृष्ट्वात्र मां भगवति प्रविनाशितुं चेन्नेच्छास्ति ते क्रु दयाṁ परिहृत्य मौनं | कस्मादिमौ प्रकटितौ किल कालरूपौ यद्वा भवानि हसितुं नु किमिच्छसे मां || ११६ || ज्ञातं मया तव विचेष्टमद्भुतं वै कृत्वाखिलं जगदिदं रमसे स्वतंत्रा | लीनं करोषि सकलं किल मां तथैव हन्तुं स्वमिच्छसि भवानि किमत्र चित्रं || ११७ || कामं कुरुष्व वधमद्य ममैव मातर्दुःखं न मे मरणजं जगदम्बिकेत्र | कर्ता त्वमेव विहितः प्रथमं स चायं दैत्याहतोथ मृत इत्ययशो गरिष्ठं || ११८ || उत्तिष्ठ देवि कुरु रूपमिवाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललीले | नोचेत्प्रबोधय हरिं निहनेदिमो यस्त्वत्साध्यमेतदखिलं किल कार्य जातं || ११९ || ऋषिरुवाच || निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा | त्यक्त्वांगानि च सर्वाणि विष्णोरतुल तेजसः || १२१ || निर्गता योगनिद्रा सा नाशाय च तयोस्तदा | विस्पंदित शरीरोसौ यदा जातो जनार्दन || १२२ || प्. ४४१) धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः | यदा विनर्गता निद्रा देहात्तस्य जगद्गुरोः || १२३ || उत्तस्थौ च० ..... ..... ..... | तदा पश्यत् स्थितं तत्र भयत्रस्तं प्रजापतिं || १२५ || उवाच च महातेजा मेघ गम्भीरया गिरा |
290 SK विष्नुरुवाच || किमागतोसि भगवंस्तपस्त्यक्त्वात्र पद्मज || १२६ || कस्माच्चितातुरोसि त्वं भयाकुलित मानसः | ब्रह्मोवाच || त्वत्कर्णमलजौ देव दैत्यौ च मधुकैटभौ || १२७ || हन्तुं मां समुपायातौ घोररूपौ महावलौ | विष्णुरुवाच || तिष्ठाद्य निर्भयो जातस्तौहनिष्याम्यहं किल || १२८ || युद्धाताऽजग्मतुरुमूढौ मत्समीपं गतायुषौ | एकार्णवे हि० ..... ..... ..... ..... || १२९ || न श्रांतौ दानवौ घोरौ श्रान्तोहं चैतद्भुतं | हरिणा चिंतितं तत्र कारणं मरणे तयोः || १३२ || प्रार्थयत्वं हृषीकेश मनोभिलषितं वरं | तुष्टौ स्वस्तव युद्धेन वासुदेवाद्भुतेन च || १३४ || तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः | विष्णुरुवाच || भवेतामद्य० ..... ..... ..... ..... | विलोक्य ताभ्यां० ..... ..... ..... ..... | तच्छ्रुत्वा वचनं विष्णोस्तौ दैत्यो चाति विस्मितौ || १३७ || वंचिताविति मन्वानौ तस्थतुः शोक संयुतौ | विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः || १३८ || प्रेक्ष्य सर्वं जलमयं भूमिस्थल विवर्जितं | निर्जले विपुले देशे हनस्व मधुसूदन || १३९ || आवां जहि० ..... ..... ..... ..... | वध्यावावां तु भवतः सत्यवाग्भव माधव || १४० || स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः | हन्म्यद्य वां महाभागौ निर्जलं विपुले स्थले || १४१ || प्. ४४२) इत्युक्त्वा देवदेवेश उरू कृत्वाति विस्तरौ | दर्शयामास तौ तत्र निर्जलं च जलोपरि || १४२ || भगवान् द्विगुणं चक्रे जघनं विस्मितौ तदा | शीर्षे संदधतां तत्र जघने परमाद्भुते || १४३ || रथांगेन तदा भिन्ने विष्णुना प्रभविष्णुना | तथेत्त्युक्त्वा० ..... ..... ..... || १४४ || गतप्राणौ तदा जातौ दानवौ मधुकैटभौ | सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः || १४५ || एव मेषा समुत्पुन्ना० ..... ..... ..... | प्रभवमस्या देव्यास्तु० ..... ..... ..... || १४६ || इति प्रथमोध्यायः || १ || अथ द्वितीयोध्यायः || मध्यम चरितः || देवा ऊचुः ||
291 SK देव देव जगन्नाथ सृष्टिस्थित्यंत कारक | दद्यासिंधो महाराज त्राहि नः शरणागतान् || ४ || महिषेण महाराज पीडिताः पापकर्मणा | असाध्येनाति दुष्टेन वर दृप्तेन पापिना || ५ || यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् | अमरा गिरिदुर्गेषु भ्रमंति च भयातुराः || ६ || ऋषिरुवाच || श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव | युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ || ११ || अद्य सर्व सुराणां वै तेजोभी रूपसम्पदा | उत्पन्ना चेद्वरारोहा साहन्यात्तं रणे बलात् || १२ || हयारिं वर दृप्तंच मायागत विशारदं | हन्तु योग्या भवेन्नारी शक्त्यंशनिर्मिताहि नः || १३ || प्राथयन्तु च तेज्ॐशान् स्त्रियोस्माकं तथा पुनः | उत्पन्नस्तैश्च तेजोऽशैस्तेजो राशिर्भवेद्यथा || १४ || आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः | तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च || १५ || प्. ४४३) सर्वायुध धरा नारी सर्वतेजः समन्विता | हनिष्यति दुरात्मानं तं पापं मद्गर्वितं || १६ || इत्थं निशम्य० ..... ..... ..... | चकारकोपं० ..... ..... ..... || १७ || रक्त वर्णं शुभाकारं पद्मराग मणिप्रभं | किञ्जिच्छीतं तथा चोष्णं मरीचि जाल मण्डितं || २१ || निःसृतं हरिणा दृष्टं हरेण च महात्मना | विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ || २२ || शंकरस्य शरीरात्तु निःसृतंमहदद्भुतं | रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् || २३ || भयंकरं च दैत्यानां देवानां विस्मय प्रदं | घोररूपं गिरिप्रख्यं तमोगुणमिवापरं || २४ || ततो विष्णुशरीरात्तु तेजो राशिमिवापरं | नीलं सत्वगुणोपेतं प्रादुरास महाद्युतिः || २५ || ततश्चेन्द्र शरीरात्तु चित्ररूपं दुरासदं | आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकं || २६ || कुवेरयम वह्नीनां शरीरेभ्यः समंततः | निश्चक्राम महत्तेजो वरुणस्य तथैव च || २७ || अन्येषां चैव देवानां शरीरेभ्योतिभास्वां | निर्गतं तन्महोतेजो राशिरासीन्महोज्ज्वलः || २८ ||
292 SK तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णु पुरोगमाः | तेजोराशिं महादिव्यं हिमाचलमिवापरं || २९ || पश्यतां तत्र देवानां तेजः पुंजसमुद्भवाः | बभूवाति वरा नारी सुन्दरी विस्मयप्रदा || ३० || त्रिगुणा सा महालक्ष्मीः सर्व देव शरीरजा | अष्टादश भुजा रम्या त्रिवर्णा विश्वमोहिनी || ३२ || श्वेताननाकृष्नानेत्रा सरक्ताधरपल्लवा | ताम्रपाणितला कांता दिव्य भूषण भूषिता || ३३ || अष्टादश भुजा देवी सहस्रभुजमण्डिता | यद्भूच्छांभवं ..... ..... ..... || ३४ || तां विलोक्य मुदं० ..... ..... ..... | स्वायुधेभ्यः समुत्पाट्य तेजो युक्तानि सत्त्वराः || ४० || प्. ४४४) ततो देवा ददुन्तस्यै स्वानि सान्यायुधानि च | ऊचुर्जय जयेत्युच्चैर्जयन्तीति जयैषिणः || ४१ || सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः | तुष्टुवुर्मुनयश्चैनां० ..... ..... ..... || ५६ || नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमोनमः | भगवत्यि नमो देव्यै रुद्राण्यै सततं नमः || ५७ || कालरात्र्य तथाम्बाया इन्द्राण्यै ते नमोनमः | सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्नव्यै ते नमोनमः || ५८ || पृथिव्यांया स्थिता पृथ्व्यान ज्ञाता पृथिवीति च | अन्तः स्थिता प्रेरयति वंदे तामीश्वरीं परां || ५९ || कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् | जहि पापं हयारि त्वं तेजसा स्वेन मोहितं || ६० || खलं मायाविन घोर स्त्रीवध्यं वर दर्पितं | दुःखदं सर्व देवानां नाना रूपधरं शठं || ६१ || त्वमेका सर्व देवानां शरणं भक्तवत्सले | पीडितान्दानवेनाद्य त्राहि देवि नमोस्तुते || ६२ || ऋषिरुवाच || एवं स्तुता तदा देवी सुरैः सर्व सुखप्रदा | तानुवाच महादेवी स्मितपूर्वं शुमं वचः || ६३ || देव्युवाच || भयं त्यजंतु गीर्वाणा महिषान्मंद चेतसः | हनिष्यामि रणेऽद्यैव वर दृप्तं विमोहितं || ६४ || इति कृत्वा स्मितं देवी साट्टहासं चकारह | उच्चैः शब्दं महाघोरं दानवानां भयप्रदं || ६५ ||
293 SK चकंपे वसुधा तत्र श्रुत्वा तच्छब्द मद्भुतं | चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् || ६६ || मेरुश्चपाल शब्देन दिशः सर्व प्रपूरिताः | भयं जग्मुस्तदा श्रुत्वा दानवास्तां स्वनं महत् || ६७ || जय पाहीति देवास्तामूचुः परम हर्षितः | महिषोपि स्वनं श्रुत्वा चुकोप मदगर्वितः || ६८ || किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशंकितः | गच्छंतु त्वरिता दूता ज्ञातुं शब्द समुद्भव || ६९ || प्. ४४५) कुतः के नायमत्युग्रः शब्दः कर्ण व्यथाकरः | देवो वा दानवो वापि यो भवेत्स्वन कारकः || ७० || गृहीत्वा तं दुरात्मानं मत्समीपं नयंत्विह | अहंगत्वा हनिष्यामि तं पापं वितथ श्रमं || ७१ || इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीं | अष्टादश भुजां दिव्यां सर्वाभरण भूषितां || ७२ || सर्व लक्षण संपन्नां वरायुधधरां शुभां | दधतीं चषकं हस्ते पिबंतीं च मुहुर्मुहुः || ७३ || संवीक्ष्य भवभीतास्ते जग्मुस्त्रस्ता सुशंकिताः | सकाशे महिषस्याशु तमूचुः स्वनकारणं || ७४ || दूता ऊचुः || देवी दैत्येश्वर प्रौढा दृश्यते काचिदंगना | सर्वाङ्ग भूषणा नारी सर्वरत्नोपशोभिता || ७५ || न मानुषी नासुरी सा दिव्य रूपा मनोहरा | सिंहारूढाऽयुधधरा चाष्टादशकरा वरा || ७६ || सा नादं कुरुते नारी लक्ष्यते मदगर्विता | सुरापानरता कामं जानीमो न सभर्तृका || ७७ || अंतरिक्स्ऽ स्थितां देवास्तां स्तुवंति मदन्विताः | किमर्थमागता चात्र किं चिकीर्षति सुन्दरी || ७८ || द्रष्टुं नैव समर्थाः स्मस्तत्तेजः परिधर्पिताः | महिष उवाच || गच्छ वीर मयादिष्टो मंत्रि श्रेष्ठ बलान्वित || ७९ || सामादिभिरुपायैस्त्वं समानय शुभाननां | ऋषिरुवाच || महिषस्य वचः श्रुत्वा पेशलं मंत्रिसत्तमः || ८० || जगाम तरसा काम गजाश्वरथ संयुतः | गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनी || ८१ || मंत्री उवाच || कासि त्वं मधुरालपे किमत्रागमन कृतं | पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः || ८२ ||
294 SK सजेता सर्वदेवानामवध्यस्तु नरैः किल | द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः || ८३ || प्. ४४६) वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव | करभोरु वदाऽशु त्वं संविधेयं मया यथा || ८४ || ऋषिरुवाच || इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा | तमुवाच महाराज मेघ गंभीरया गिरा || ८५ || देव्युवाच || मंत्रिवर्य सुराणां वै जननी विद्धि मां किल | महालक्ष्मीमिति ख्याता सर्व दैत्य निषूदिनीं || ८६ || प्रार्थिताहंसुरैः सर्वैर्महिषस्य वधायच | तस्मादिहागतास्मद्य तद्वधार्थं कृतोद्यमा || ८७ || गच्छ पाताल मधुना जीवितेच्छा यदस्ति ते | नोचेत्कृतागसं दुष्टं हनिष्यामि रणांगणे || ८८ || मधवा स्वर्गमाप्नोतु देवाः संतु हविर्भुजः | पूयं प्रयात पातालं यदि जीवितु मिच्छथ || ८९ || ऋषिरुवाच || इति देव्या ववः श्रुत्वा चिंतयामास दानवः | यथाद्याभिहितं देव्या यथारुचि करोतु सः || ९० || इति संचित्य मेधावी जगाम नृपसंनिधौ | प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यजः || ९१ || मन्त्री उवाच || राजन्देवी वरारोहा सिंहस्योपरिसंस्थिता | अष्टादश भुजा रम्या वराऽयुधधरा परा || ९२ || सा मयोक्ता महाराज महिषं भज भामिनि | महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया || ९३ || इति मद्वचनं श्रुत्वा सा स्मयावेश मोहिता | मामुवाच विशालाक्षी स्मित पूर्वमिदं वच || ९४ || करिष्येहं मृधे युद्धं हनिष्ये त्वां सुराप्रियं | गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते || ९५ || महिष उवाच || गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः | वामनय वरारोहां जित्वा धर्मेण मानिनीं || ९६ || प्. ४४७) ऋषिरुवाच || इति तद्भाषितं श्रुत्वा ताम्रः कालवशंगतः | निर्गतः सन्य संयुक्तः प्रणम्य महिष नृपं || ९७ || स गत्वा तां समालोक्य देवो सिंहो परिस्थितां | स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषितां || ९८ || तामुवाच विनीतिः सन्वाक्यं मधुरया गिरा | देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः || ९९ ||
295 SK स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय वै | भुṁक्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतं || १०० || देव्युवाच || गच्छ ताम्र पतिं ब्रूहि मुमुर्षुं मदचेतसं | महिषं चातिकामात मूढं ज्ञानविवर्जितं || १०१ || नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः | सर्वकर्ता सर्वसाक्षी ह्यकर्ता निस्पृहः स्थिरः || १०२ || निर्गुणो निर्ममोऽनन्तो निरालंबो निराश्रयः | सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः || १०३ || सर्वावासः क्षमः शान्तः सर्वदृक् सर्वभावनः | तं त्यक्त्वा महिषं मंदं कथं सेवितुमुत्सहे || १०४ || जीवितेच्छास्ति चेत्पाप गच्छ पाताल माशु वै | समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि संगरे || १०५ || ऋषिरुवाच || इत्युक्त्वा सा सदा देवी जगर्ज भृशमद्भुतं | कल्पांत सदृशं नादं चक्रे दैत्यभयावहं || १०६ || ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा | पलायनं ततः कृत्वा जगाम महिषांतिकं || १०७ || अयोध्यायां च ये दैत्यास्तेपि चिंतामवाप्नुवान् | ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः || १०८ || तिष्ठितिष्ठेति० ..... ..... ..... | तिष्ठ तिष्ठेति चैवोक्त्वान्ये दैत्या युयुधुर्मृधे || १३९ || रुधिरौघविलुप्तांगा संग्रामे लोमहर्षणे | पातितै रथनागा० ..... ..... ..... || १४० || प्. ४४८) देव्या गणैश्च० ..... ..... ..... | यथषां तुतुषु० ..... ..... ..... ..... || १४४ || इति द्वितीयोध्यायः || अथ तृतीयोध्यायः || हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः | चुक्रुशूरुरुश्चैव त्राहि त्राहीति भाषणैः || २० || अन्ये ये सैनिका राजन्सिंहेन भक्षिताश्च ते | तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा || २१ || तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः | दारुकं प्राह तरसा रथमानयमेद्भुतं || २२ || सहस्र खर संयुक्तं पताका ध्वज भूषितं | आयुधैः संयुतं शुभ्रं सुचक्रं चारु कूबरं || २३ || आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः | सर्वायुध समायुक्तो वरास्तरण संयुतः || २४ ||
296 SK मानुषं देहमास्थाय संग्रामे गंतुमुद्यतः | त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः || २५ || दिव्याम्बरधरः कांतः पुष्पबाण इवापरः | तमायांतं समालोक्य दैत्यानामधिपं तदा || २६ || बहुभिः संवृतं वीरर्देवी शंखमवादयत् | समीपमेत्य देव्यास्तु तामुवाच हसन्निव || २७ || देवि संसारचक्रेऽस्मिन्वर्तमाने जनः किल | नरो वाथ तथा नारी सुखं वांछति सर्वथा || २८ || नारी पुरुषयोः कांते समान वयसोः सदा | संयोगो यः समाख्यातः स एवत्युत्तमः स्मृतः || २९ || तं चेत्करोषि संयोगं वीरेण च मया सह | अत्युत्तम सुखस्यैव प्राप्तिः स्यात्ते न संशयः || ३० || इंद्रादयः सुरा सर्वे संग्रामे विजिता मया | रत्नानि यानि दिव्यानि भवनेस्मिन्ममाधुना || ३१ || भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा | पट्टराज्ञी भवाद्य त्वं दासोस्मि तव सुन्दरि || ३२ || प्. ४४९) देव्या गणैश्च० ..... ..... ..... | यथषां तुतुषु० ..... ..... ..... || १४४ || इति द्वितीयोध्यायः || अथ तृतीयोध्यायः || हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः | चुक्रुशूरुरुश्चैव त्राहि त्राहीति भाषणैः || २० || अन्ये ये सैनिका राजन्सिंहेन भक्षिताश्च ते | तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा || २१ || तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः | दारुकं प्राह तरसा रथमानयमेद्भुतं || २२ || सहस्र खर संयुक्तं पताका ध्वज भूषितं | आयुधैः संयुतं शुभ्रं सुचक्रं चारु कूबरं || २३ || आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः | सर्वायुध समायुक्तो वरास्तरण संयुतः || २४ || मानुषं देहमास्थाय संग्रामे गंतुमुद्यतः | त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः || २५ || दिव्याम्बरधरः कांतः पुष्पबाण इवापरः | तमायांतं समालोक्य दैत्यानामधिपं तदा || २६ || बहुभिः संवृतं वीरर्देवी शंखमवादयत् | समीपमेत्य देव्यास्तु तामुवाच हसन्निव || २७ ||
297 SK देवि संसारचक्रेऽस्मिन्वर्तमाने जनः किल | नरो वाथ तथा नारी सुखं वांछति सर्वथा || २८ || नारी पुरुषयोः कांते समान वयसोः सदा | संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः || २९ || तं चेत्करोषि संयोगं वीरेण च मया सह | अत्युत्तम सुखस्यैव प्राप्तिः स्यात्ते न संशयः || ३० || इंद्रादयः सुरा सर्वे संग्रामे विजिता मया | रत्नानि यानि दिव्यानि भवनेस्मिन्ममाधुना || ३१ || भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा | पट्टराज्ञी भवाद्य त्वं दासोस्मि तव सुन्दरि || ३२ || प्. ४४९) ऋषिरुवाच || इति बुवाणं तं दैत्यं देवी भगवती हि सा | प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी || ३३ || देव्युवाच || नाहं पुरुषमिच्छामि परमं पुरुषं विना | तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् || ३४ || स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा | मूर्खस्त्वमसि मदात्मन्यत्स्त्रीसंगं चिकीर्षसि || ३५ || नरस्य बंधनाथाय शृङ्खला स्त्री प्रकीर्तिता | नारीसंगे महद्दुःखं जानन्किं त्वं विमुह्यसि || ३६ || त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ | पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते || ३७ || अथवा कुरु संग्रामं बलवत्यस्मि सांप्रतं | प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव || ३८ || हनिष्यामि महाबाहो त्वामहं नात्र संशयः | ऋषिरुवाच || इत्युक्तः सतया देव्या धनुरादाय दानवः || ३९ || मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् | देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः || ४० || तयोः परस्परं युद्धं संबभूव भयप्रदं | सपदातिरथ सैन्यं देव्या सिंहेन नाशितं || ४१ || देव्युवाच || मा गर्वं कुरु मंदात्मंस्तिष्ठ तिष्ठ रणांगणे | करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान् || ५८ || ऋषिरुवाच || इत्युक्त्वा चषकं हैमं गृहीत्वा सुरयायुतं | पपौ पुनः पुनः क्रोधाद्धंतुकामा महासुरं || ६० || एवं स महिषो नाम ससैन्यः ससुहृद्गणः | त्रैलोक्यं मोहयित्वा तु तया देव्या निपातितः || ६५ ||
298 SK प्. ४५०) तुष्टुवुस्तां सुरा० ..... ..... ..... ..... | जगुर्गन्धर्वपतयो० ..... ..... ..... || ६६ || इति तृतीयोध्यायः || ३ || अथ चतुर्थोध्यायः || ऋषिरुवाच || अथ प्रमुदिताः सर्वे देवा इंद्रपुरो गमाः | स्तुतिमारेभिरे कर्तुं निहते महिषासुरे || १ || शक्रादयः सुरगणा० ..... ..... ..... | त्रैलोक्य मे तदखिलं० ..... ..... ..... || नीता दिवं रिपु गणा० ..... ..... ..... || २३ || तां तुष्ट तुः० ..... ..... ..... || २ || शूलेन० ..... ..... ..... || २४ || प्राच्यांरक्ष० ..... ..... ..... || २५ || सौम्यानि० ..... ..... ..... || २६ || खड्गशूल० ..... ..... ..... || २७ || ब्रह्मा सृजत्यवति विष्णुरिदं महेशःशक्त्या तवैव हरते ननु चांतकाले || ईशान तेपि च भवन्ति त्वया विहीनास्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री || २४ || कीर्तिर्मतिः स्मृतिमती करुणा दयात्वं श्रद्धा वृतिश्च वसुधा कमलाऽलया च || पुष्टिःकलाथ विलया गिरिजा लया त्वं तुष्टिः प्रभा त्वमसि बुद्धिरुमा रमा च || २५ || विद्या क्षमा जगति कातिरपीह मेधा सर्वंत्वमेव विदिता भुवनत्रयेस्मिन् | आभिर्विना तव तु शक्तिभिराशु कर्तुं कोवा क्षमः सकललोक निवास भूमे || २६ || त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेतां || पृथ्वी न चेत्वमसि वा गगने कथं स्थास्यत्येतदंव निखिलं बहुभारयुक्तं || २७ || ये वा स्तुवंति मनुजा श्रमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् | शुभ्रांशु वह्नियम वायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवंति कार्ये || २८ || ये जुह्वति प्रवितवेल्पधिर्योव यशे वह्नौ सुरान्समधिकृत्य हविः समृद्धं | स्वाहा न चेत्वमसि ते कथमापुरद्धा त्वामेव कि नहि यजंति हि मूढाः || २९ || प्. ४५१) भोगप दासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यं | स्वीयान्सुराञ्जननि पोषयसीहि यद्वत्तद्वत्परानपि च पालयसीति हेतोः || ३० ||
299 SK चित्रं त्वमीयदसुमी रहिता न सति त्वच्चिंतितेन दनुजाः प्रथित प्रभावाः | येषां कृते जननि देहनिबन्धन ते क्रीडारसस्तव न चान्यतरोत्र हेतुः || ३१ || विद्या त्वमेव सुखदाऽसुखदाऽप्यविद्या मातस्त्वमेव जननार्तिहरा नराणां | मोक्षार्थिभिस्तु कलिता किल मंदधीभिर्नाऽराधिता जननि भोगपरैस्तथाऽत्रैः || रक्षणाय च लोकानां० ..... ..... ..... ..... || तच्छृणुश्व मयाख्यातं० ..... ..... ..... || ४२ || इति चतुर्थोध्यायः || ४ || अथ पञ्चमोध्याय || (७८) ० अथ षष्ठोध्यायः || (२०) ० अथ सप्तमोध्यायः || अथ मुण्डोभ्य० ..... ..... ..... || तमप्यपातयद्० ..... ..... ..... || २० || छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभैरवम् || तेन नादेन महता त्रासितं भुवन त्रयम् || २१ || हतशेषं० ..... ..... ..... || चामुण्डे ति० ..... ..... ..... || २६ || इति सप्तमोध्यायः || ७ || अथ अष्टमोध्यायः || (६१) ० प्. ४५२) अथ नवमोध्यायः || (३४) ० अथ दशमोध्यायः || हन्य मानं बलं० ..... ..... ..... || १ || शुम्भ उवाच || बलालेपाद्० ..... ..... ..... | अन्यासां० ..... ..... ..... || २ || ऋषिरुवाच || ततः समस्ता० ..... ..... ..... || तस्या देव्या० ..... ..... ..... || ४ || धनुर्मुक्तै० ..... ..... ..... || अश्वांश्च पातयामास रथं सारथिनासह || हताश्वः स० ..... ..... ..... || १४ || जज्वलुश्चाग्न० ..... ..... ..... || १८ || (२८) || इति दशमोध्यायः || १० || अथ एकादशोध्यायः || सर्वतः पाणिपादांते सर्वतोक्षिशिरोमुखे | सर्वतः श्राणघ्राणे नारायणि नमोस्तु ते || २३ || तदा तदाऽवतीर्या० ..... ..... ..... || ४७ || इति एकादशोध्यायः || ११ || अथ द्वादशोध्यायः || (२४) || ३८ || ० अथ त्रयोदशोध्यायः || (१३) || २९ || ०
Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. durgārcanaṣṛti [M00340].
Source