The Vīṇāśikha Tantra

Vīṇāśikhatantra · वीणाशिखतन्त्रम्

The Vīṇāśikha Tantra

Vīṇāśikhatantra

वीणाशिखतन्त्रम्

SK
ॐ नमो महाभैरवाय
SK
कैलासशिखरे रम्ये नानारत्नोपशोभिते नानाद्रुमलताकीर्णे सिद्धचारणसेविते //
SK
तत्र देवः सुरश्रेष्ठः क्रीडते उमया सह स्तूयमानो महासिद्धैर् महाकालादिभिर् गणैः //
SK
ऋषिभिश् च महाभागैर् भृग्वाद्यैः सुरसत्तमैः तेषां मध्ये समुत्थाय देवी वचनम् अब्रवीत् //
SK
श्रुतं सम्मोहनं तन्त्रं तथा नयोत्तरं महत् शिरश्छेदं च देवेश त्वत्प्रसादात् सुदुर्लभम् //
SK
व्रतसाध्यानि चैतानि यागसाध्यानि वै पुनः अन्यसारा यतो लोके प्रायो द्रविणवर्जिताः //
SK
एभ्यो ऽपि चोत्तरं यस्मात् केवलं ज्ञानसिद्धिदम् सर्वकामप्रदं देव यथावद् बीजपञ्चकं //
SK
उत्तरं हृदयं ह्य् एषां भक्ताय दातुम् अर्हसि //
SK
यन् न कस्यचिद् आख्यातं शुक्रादीनां च योगिनाम् सुभक्तस्य विनीतस्य गोपितं वै गुहस्य च //
SK
चतुःषष्टिः समाख्याताः शिष्यास् तन्त्रेषु ये मया तेषाम् अपि न चाख्यातं ब्रह्मविष्णुपुरःसरैः //
SK
तद् अहं सम्प्रवक्ष्यामि चिन्तारत्नम् इवापरम् तन्त्रं वीणाशिखं नाम निर्व्याजेनाशुसिद्धिदम् //
SK
देवीतुम्बुरुसंयुक्तं वीणाधारसुसंस्थितम् शिखायोगेन इष्यन्ते तेन वीणाशिखा स्मृता //
SK
यागम् आदौ प्रवक्ष्यामि तन्त्रसारं सुदुर्लभम् तेनैव वरदा देव्यो नित्यं देवि भवन्ति हि //
SK
गृहयागम् इदं देवि यो जानातीह साधकः व्रतहोमाद् ऋते चास्मिन् सुसिद्धिं लभते परम् //
SK
शिष्याणाम् आदितः कुर्याद् यागं कृत्वा परिग्रहम् नान्यथा दर्शयेत् तन्त्रं न चासौ सिद्धिम् आप्नुयात् //
SK
चतुर्थ्याम् अथ पञ्चम्यां नवम्याम् एकादशीषु च ग्रहणे वापि कर्तव्या सर्वदा चार्कसोमयोः //
SK
चतुर्थ्यां यजनं श्रेष्ठं सौभाग्यकरणं महत् श्रीकामो यजनं कुर्यात् पञ्चम्यां सुसमाहितः //
SK
संग्रामे विजयार्थी वा परराष्ट्रविमर्दनम् नवम्यां पार्थिवं यागं कुर्वीत भगिनीप्रियम् //
SK
एकादश्यां यजेद् यस् तु शिवलोके महीयते सुगुप्ते निर्जने देशे सरिद्वापीतटे ऽपि वा //
SK
कृत्वादौ भूमिसंशुद्धिं सावित्र्या देशिकोत्तमः कृत्वा पूजां प्रकुर्वीत शिष्याणाम् अधिवासनम् //
SK
चरुकं साधने पश्चात् सावित्र्या दापयेद् बुधः शिष्याणां दन्तकाष्ठं च सक्षीरंद्वादशाङ्गुलम् //
SK
आचम्य शिष्यम् आहूय पञ्चतत्त्वपरिष्कृतम् सावित्र्या प्रोक्षयेद् भूयस् तत्त्वजप्तं यथोदितम् //
SK
प्रमार्जयेत्कुशाग्रेण तस्याङ्गानि समालभेत् आलभ्यैव तु सावित्र्या क्षालयेत् सकलं क्रमात् //
SK
यागभूमौ स्वशिष्यांस् तु स्वपेच् च कुशसंस्तरे रक्षां सदा शतैर् बीजैः कृत्वा ध्यात्वा च ताः क्रमात् //
SK
ततः प्रभाते विमले मुखं प्रक्षाल्य साधकः इष्टानिष्टां गुरौ चेष्टां प्रणिपत्य निवेदयेत् //
SK
इष्टानिष्टान् विदित्वा तु देशिकः साधकस्य तु आदौ देशे समे भूमौ विविक्ते शल्यवर्जिते //
SK
मण्डलं संलिखेत् प्राज्ञो यथावद् विधिपूर्वकम् चतुर्हस्तं चतुर्द्वारम् अथवा चैकहस्तकम् //
SK
मण्डलम् संलिखेद् दिव्यम् शालिचूर्णेन सूज्ज्वलम् तत्र मध्ये लिखेत् पद्मं चतुःपत्त्रं सकर्णिकम् //
SK
श्वेतासृ क्पीतकृ ष्णानि कमलस्य दलानि तु प्राग् आरभ्य यथान्यायं सौम्येशान्तानि लेखयेत् //
SK
कर्णिकां च तथा मध्ये शबलां देशिकोत्तमः चतुर्मूर्तिं चतुर्वर्णं स्वेन बिजेन तुम्बुरुम् //
SK
चतुर्वर्णम् ईश्वरं ध्यायेन् निविष्टम् कर्णिकोदरे ततः सितां स्वबीजेन जयां प्राग्दले विन्यसेत् //
SK
बन्धूककुसुमप्रख्यां विजयां दक्षिणे दले स्वच्छचामीकरप्रख्याम् अजितां पश्चिमे दले //
SK
भिन्नाञ्जनचयप्रख्याम् उत्तरे चापराजिताम् विन्यस्य पूजां कुर्वीत स्वैः स्वैर् बीजैर् यथाक्रमम् //
SK
पुष्पधूपैश् च बलिभिर् यथाकालान्तरैः शुभैः सद्वितानपताकाढ्यं स्रग्मालालंकृतं पुरम् //
SK
प्रदीप्तदीपकैर् दिक्षु समन्ताद् अवभासितम् नानाभक्ष्यान्नपानैश् च स्वादुभिर् व्यञ्जनैस् तथा //
SK
फलैर् नानाविधैश् चैव परितः पर्यवस्थितैः कलशैर् वारिपूर्णैश् च दशदिक्षु व्यवस्थितैः //
SK
चूतपल्लवसंवीतैः स्रग्मालालंकृतैः शुभैः एवं यष्ट्वा यथान्यायं शिष्यान् आप्रोक्ष्य वारिणा //
SK
सावित्र्या मुखम् आसाद्य वाससा सकलीकृतान् स्वैः स्वैर् बीजैर् न्यसेत् पुष्पान् शिष्याणां करयोर् द्वयोः //
SK
जयात् प्रवेशयेन् मायां मण्डलं देशिकोत्तमः प्रवेश्य तत्र शिष्यं तु द्वित्रिचतुःपञ्च एव वा //
SK
ततो ऽग्निकार्यं कुर्वीत मण्डलात् पश्चिमे बहिः उल्लिख्योद्धृत्य सावित्र्या कुशान् संस्तीर्य सर्वतः //
SK
अस्त्रबीजेन चाभ्युक्ष्य गन्धतोयेन देशिकः वह्निम् आदाय तेनैव सावित्र्या पूजयेत् ततः //
SK
ततस् तत्त्वत्रयं न्यस्य वह्नेर् एव यथाक्रमम् निरुद्धमायातस्मात्तम् अङ्कुशेन निरोधयेत् //
SK
माययाच्छादयेत् पश्चाद् अस्त्रेणैव प्रबोधयेत् होमद्रव्यस्य सर्वस्य कुर्यात् तेनैव शोधनम् //
SK
ततश् च सर्पिषो होमं विधिवत् कारयेद् बुधः स्वबीजैर् एव तद् धुत्वा दीक्षां शिष्यस्य कारयेत् //
SK
संयोज्य विधिवद् बीजैर् महाभूतेषु पञ्चसु सकले तत्त्वं संयोज्य परिष्ठाप्य परे ऽध्वनि //
SK
नियोक्तव्यं ततस् तत्र यत्रासवांस्वरपरम्? एषा दीक्षा य थान्यायं भुक्तिमुक्तिफलप्रदा //
SK
तैर् एव पञ्चभिस् तत्त्वं सकले सकलात्मिका निष्कले निष्कला प्रोक्ता साधिकाराध्वनः पुरा //
SK
दीक्षयित्वा ततः शिष्यान् साधिकारपरे स्थितान् अभिषिच्य स्वबीजैस् तु बीजान् तेभ्यः प्रदापयेत् //
SK
निवेद्य समयान् तस्य हृन्मुद्राङ्गुलिदर्शनात् अनुज्ञां साधकेन्द्रस्य तस्य दद्यान् महात्मना //
SK
ततः स्वविद्यानैवेद्यं भक्षयेत् साधकोत्तमः देव्यः प्रीता भवन्त्य् एव अवशिष्टं जले क्षिपेत् //
SK
आचार्यं पूजयेद् भक्त्या सर्वस्वेनापरे विधा? प्रणामैः शक्तिदानैश् च येन वा तुष्यते गुरुः //
SK
स्रग्वी सितोष्णीषी चैव सर्वालंकारभूषितः उच्चासनस्थः प्राग्वक्त्रः कल्पयेत् कोषमण्डले //
SK
गोशकृद्भस्मलिप्तस् तु शुचौ जनविवर्जिते सुसमे भूमिदेशे तु प्रस्तारं प्रस्तरेच् छुचिः //
SK
चतुरस्रम् अतः कृत्वा प्रस्ताररेखम् उज्ज्वलम् कुर्याद् एकोनपञ्चाशत् कोष्ठकान् तु समान् शुभान् //
SK
शतार्धार्धासनासीनं पञ्चवर्गान्तबिन्दुकम् शिखासम्भिन्नमूर्धान्तं कषाख्यं मध्यकोष्ठके //
SK
विदिग्दिक्षंस्थकोष्ठेषु तत्पार्श्वे बहिर् अष्टसु यशवर्गान् न्यसेद् देवि ऐशान्यादिषु तत्क्रमात् //
SK
आग्नेयादिषु कोष्ठेषु नपुंसकचतुष्टयम् ऐशान्यादिक्रमाद् देवि बीजद्वादशकं न्यसेत् //
SK
तृतीयपट्क्तिकोष्ठेषु चतुर्थे पञ्चविंशकम् ऐशान्यादिषु कोष्ठेषु बीजानि क्रमशो न्यसेत् //
SK
प्रस्तारम् एवं प्रस्तार्य स्वरवर्णं च शोभने बीजषोडशकं चैव प्रोद्धरेत् तु यथाक्रमम् //
SK
कादिपट्क्तिं पुराकृत्य क्रमाद् व्यस्तसमस्तकम् कोष्ठैकादशबीजेन संयुक्तं पञ्चविंशकम् //
SK
आत्मतत्त्वम् इति ख्यातं विद्याख्यं चतुस्त्रिंशकम् शिवतत्त्वं तु देवेशि त्रिंशकोष्ठेषु संयुतम् //
SK
तत्त्वत्रितयम् एतद् धि न्यासं च समुदाहृतम् बिन्दुयुक्तान्य् अशेसाणि न्यस्तव्यानि यथाक्रमम् //
SK
अत्र-सिद्धिः स्थिता देवि विज्ञेया साधकोत्तमैः पञ्चविंशतिकोष्ठस्थं प्रथमं बीजम् उच्यते //
SK
द्विसप्तकोष्ठकं बीजं द्वितीयं समुदाहृतम् तृतीयम् अष्टकोष्ठस्थं बिन्दुयोनिः चतुर्थकम् //
SK
चतुर्विंशतिकोष्ठस्थं पञ्चमं बीजम् उच्यते बीजानि देवदेवीनां निर्णीतानि यथाक्रमम् //
SK
कालबद्धानिलैर् बीजैः कलायथेष्ठया युतम् अर्धेन्दु बिन्दुशिखया संनिभानि क्रमेण तु //
SK
बीजपञ्चकम् उद्धृत्य कथितं देवि ते क्रमात् कूटस्थास् तु स्मृता बीजाः पञ्च चैव वरानने //
SK
बीजपञ्चकम् अभ्यस्य सर्वकामफलप्रदम् यजनं सम्प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् //
SK
करसंस्कारम् आदौ तु कृत्वानेन क्रमेण तु वक्ष्यमाणेन चानेन दिग्बन्धशोध्यम् एव हि //
SK
संहारास्त्रेण दिग्बन्धः प्राणायामपुरःसरः प्राणायामैस् त्रिभिर् देवि आत्मानं तु विशोधयेत् //
SK
निष्क्रम्य रेचयेद् वायुं नवं चाकृष्य पूरयेत् निरोधे कुम्भकः प्रोक्तः प्राणायामं प्रकीर्तितम् //
SK
ध्यात्वा कालाग्निबीजं तु युगान्तानलसप्रभम् न्यसेत् पादतले मन्त्री ज्वालामालाकुलं महत् //
SK
निर्दहेच् चात्मदेहं तु वारिणाप्लावयेत् ततः दग्ध्वा तु प्राकृतंदेहं भस्मकूटम् इव स्थितम् //
SK
ततश् चामृतधाराभिर् विद्यादेहं विचिन्तयेत् स्रवन्तं मूर्ध्नि परमं प्रणवं च अधोमुखम् //
SK
वारुणामृतसंयुक्तं शुद्धस्फटिकनिर्मलम् कषाख्यं यत् स्मृतं बीजं रेफद्वयसमायुतम् //
SK
अध ॐकारसंयुक्तं ऊर्ध्वं बिन्दुकभूषितम् अनेनैव तु बीजेन शिखया भिन्नमस्तकम् //
SK
धारणायोगमार्गेण निर्दहेत् साधकोत्तमः देहं संशोधयेन् मन्त्री घोरपापं तु कल्मषम् //
SK
न्यासम् आलभनं कुर्याद् भवेन् मन्त्रात्मविग्रहः दिग्बन्धभूमिं संशोध्य चक्रशुद्ध्यर्थम् एव च //
SK
संहारास्त्रेण कुर्वीत विघ्नोच्चाटनम् एव च हस्तौ संशोधयेत् पश्चाद् विधिर् एष प्रकीर्तितः //
SK
कृत्वा तु विधिवन् मन्त्री ततः कर्म समारभेत् आमणिबन्धनात् पूर्वं भरमाखाश् ? च विन्यसेत् //
SK
अट्गुष्ठादिकनिष्ठान्तं न्यसेद् वै बीजपञ्चकम् अट्गुष्ठाद् ये तु ये पर्वा करयोर् उभयोर् अपि //
SK
आत्मतत्त्वं न्यसेन्मूर्ध्नि विद्यातत्त्वं द्वितीयके शिवं दद्यात् तृतीयेषु सर्वसिद्धिषु भामिनि //
SK
अधस्ताद् आत्मतत्त्वं तु विद्यातत्त्वं तु मध्यतः शिवतत्त्वं न्यसेन् मूर्ध्नि हस्ते देहे पुनः क्रमात् //
SK
एवं तत्त्वत्रयं न्यस्य तथा कूटाक्षराणि तु भूयश् चोत्तरबीजानि विन्यसेत् तु वरानने //
SK
अस्त्रं चैव तु विन्यस्य विस्फुलिट्गसमप्रभम् माययाच्छादयित्वा तु अट्कुशेन निरोधयेत् //
SK
योनिमुद्रां ततो बद्ध्वा कुर्यात् [तु] सकलां तनुम् एतद् आलभनं चैव तव देवि प्रकीर्तितम् //
SK
अट्गुष्ठौ ग्रथितौ कृत्वा करयोर् उभयोर् अपि तर्जनीं वामहस्ते तु प्रसार्याकुञ्चयेद् बुधः //
SK
एषा निरोधनी प्रोक्ता मुद्रेयम् अट्कुशस्य तु वश्याकर्षणकार्येषु प्रयोज्या साधकोत्तमैः //
SK
तर्जनी मध्यमा चैव अनामा दक्षिणस्य तु वामे त्रीणि समाक्रम्य अट्गुष्ठौ च सुसंस्थितौ //
SK
अधस्तात् सर्वतः प्रोक्ता दक्षिणा तु कनिष्ठिका तर्जन्यट्गुष्ठयोर् मध्ये योनिमुद्रा प्रकीर्तिता //
SK
आद्यं मूर्ध्नि ततो बीजं द्वितीयं मुखमण्डले कट्यूर्ध्वे च ततश् चान्यं चतुर्थं जानुतः कटिम् //
SK
आपादजानुनी चान्यं प्रसृतैश् च करैः क्रमात् एवं बीजेन देहस् तु मुच्यते नात्र संशयः //
SK
वज्रोपलमहावर्षं चोरदंष्ट्रीभयावहम् मुच्यते च सदा रोगैर् मृत्युरूपैर् दुरासदैः //
SK
अहिगरविषशस्त्रज्वरकुष्ठक्षयादिभिः मुच्यते नात्र संदेहो यो ऽपि स्यात् पातकी नरः //
SK
उपलिप्य शुभे देशे प्रच्छन्ने जनवर्जिते पूर्ववद् धस्तमात्रं तु लिखित्वा मण्डलं शुभम् //
SK
चतुःपत्त्रं तु तत्राब्जं सर्ववर्णितकर्णिकाम् सितरक्तपीतकृष्णां पूर्वादिदलसंस्थिताम् //
SK
जयाद्यं विन्यसेन् मन्त्री तुम्बुरुं कर्णिकोपरि पद्मासनोपविष्टं तु वरदानोद्यतकरम् //
SK
चतुर्वक्त्रमष्टभुजं चतुष्कायं त्रिलोचनम् नागयज्ञोपवीतंतु शूलपाणिं गदाधरम् //
SK
मुकुटेन विचित्रेण शशाङ्कधृतशेखरम् शक्तीनां तु प्रियं देवं पाशाङ्कुशकरप्रभम् //
SK
दिव्याम्बरातपत्रेण दिव्यस्रग्बन्धलेपनम् देवदेवं सदा ध्यायेत् सूर्यकोटिसमप्रभम् //
SK
क्षीरोदफलसंकाशां व्याघ्रयज्ञोपवीतिनीम् प्रेतारूढां चतुर्वक्त्रां गदाखेटकधारिणीम् //
SK
दिव्याम्बरातपत्रेण हारकेयूरभूषिताम् देवदेवीं जयां ध्यायेद् दीप्यमानां स्वतेजसा //
SK
देवस्याभिमुखो मन्त्री सस्मितोत्फुल्ललोचनाम् दाडिमीकुसुमप्रख्यां सुरगोपकसप्रभाम् //
SK
चापोद्यतकरां घोरां मत्स्यमांससुराप्रियाम् उलूके संस्थितां देवीं हारकेयूरभूषिताम् //
SK
रक्ताम्बरातपत्रेण विजयां सिद्धिदां स्मरेत् धातुचामीकरप्रख्यां पीतमाल्याम्बरप्रियाम् //
SK
घण्टाखट्वाङ्गधरीं देवीम् अश्वारूढां महाबलाम् सूर्यायुतप्रतीकाशीं सर्वाभरणभूषिताम् //
SK
जयन्तीं ध्यायति क्षिप्रं सिद्धिम् आप्नोति पुष्कलाम् भिन्नाञ्जनसमप्रख्यां शर्वरीतिमिरप्रभाम् //
SK
कृष्णकौशेयसंवीतां मुक्तिकामणिभूषिताम् दिव्यं विमानम् आरूढां गदाखेटकधारिणीम् //
SK
महारावादिनिर्घोषैश् चिन्तयेद् अपराजिताम् गायत्रीं वा जपन्तीं च स्फाटिकमणिभूषिताम् //
SK
ऋग्यजुस्सामाथर्वाख्यं गायन्तीं वा तथैव च सावित्रीं दिव्यरूपां तूपनिषद्गायने रताम् //
SK
देवीनाम् अग्रसंस्थं कृतभृकुटिमुखं चिन्तयेद् अङ्कुशाख्यं सम्पृष्ठे चास्त्रराजं प्रकटितसुमहासृक्वणीलेलिहानम् संक्रुद्धं भीषयन्तं नररुधिरवसादिग्धदान्ताकलालं ....... ....... ....... //
SK
एवं ध्यात्वा विशालाक्षि ततः पूजा प्रवर्तते भक्ष्यभोज्यविधानैश् च गन्धपुष्पादिभिः क्रमात् //
SK
पूजयेत् कूटमध्यस्थं तत्र मध्ये विधानतः भूर् एवायं पादपद्मैर् हृदि वामकरे ऽथवा //
SK
मनसा पूजयेन् नित्यं सिद्धिकामः समाहितः महाशङ्खमयं कुर्याद् अथवा कच्छपस्य तु //
SK
सौवर्णं रजतं ताम्रं कुलं भवति सिद्धिदम् गन्धमण्डलके वापि अथवा भस्ममण्डले //
SK
सिद्धार्थमण्डले वापि अथवा हृदि मण्डले कुसुम्भमण्डले वापि पुष्पमण्डलके ऽपि वा //
SK
नागकेशरजोभिर् वा लिखित्वा मण्डलं शुभम् मुक्तिदा सिद्धिदा ह्य् एवं भवन्तीत्य् अविचारणात् //
SK
सम्पूज्य च यथान्यायं गन्धपुष्पादि योजयेत् दर्शयेद् योनिमुद्रां तु काले कर्माणि कारयेत् //
SK
समुत्पन्नेषु कार्येषु प्राणद्रविणहारिषु पूजिताः साधकं देव्यः परिरक्षन्ति पुत्रवत् //
SK
अत्रापि यागम् एवोक्तं विशेषः को ऽपरः प्रभो यथा तु अभ्यासमात्रेण सिद्धिर् भवति कामदा //
SK
केवलं स्मरणाद् एव तथा त्वं वक्तुम् अर्हसि प्रणयस्व प्रसादश् च यदि चास्ति महेश्वर //
SK
शृणुष्वैकमना भद्रे प्राकृतं तपसः फलम् प्रणयाद् अतुलं वापि रहस्यं परमं पदम् //
SK
उत्तरोत्तरयोगेन तन्त्रं ते कथितं मया अत्रान्तरम् इदं ज्ञानं श्रुत्वा भवति निर्वृतिः //
SK
प्रस्तार्य पूर्ववद् वर्णं प्रोद्धरेद् बीजपञ्चकम् पूर्ववत् क्रमयोगेन सर्वकामप्रसिद्धये //
SK
आदौ द्वात्रिंशकं बीजं युक्तम् एकोनविंशति चतुस्त्रिंशं ततो ऽधस्ताद् देवदेवं प्रकल्पयेत् //
SK
जया सप्तदशं बीजं युक्तम् एकादशेन तु तद् एव विजयाख्याता किं तु युक्तं न केन चित् //
SK
पञ्चविंशच् छिखाभाजि युक्तम् एकादशेन तु अजितायाः समुद्दिष्टं चतुर्थ्याः शृणु साम्प्रतम् //
SK
वर्णैकादशसंयुक्तं शम्भुस्थं पञ्चविंशकम् गुह्यम् एतत् समुद्दिष्टं प्रष्टव्यं नान्यतः परम् //
SK
सर्वकामप्रदं देवि एतद् वै बीजपञ्चकम् उत्तरं हृदयं ह्येतत् सर्वतन्त्रेषु चोत्तरम् //
SK
यानि कानि च कर्माणि सर्वाण्य् एतैस् तु कारयेत् पञ्चविंशतिकोषस्थं युक्तं वै षोडशेन तु //
SK
अस्त्रम् एतत् समुद्दिष्टम् अस्मिंस् तन्त्रे च सुव्रते पुनर् एतद्बीजयुक्तं विंशकेन समन्वितम् //
SK
माया ह्य् एषा समुद्दिष्टा शिवस्यानन्तरूपिणी आदिकोष्ठकबीजं तु अधस्ताष्टादशसंयुतम् //
SK
अष्टत्रिंशतिकोषस्थं तस्योपरि नियोजयेत् अङ्कुशोद्धरणं ह्य् एतद् देवीनां संनिरोधने //
SK
बिन्दुपुञ्जसमेता हि न्यस्तव्या तु यथाक्रमम् पञ्चविंशतिकोषस्थं तद् एव परमाक्षरम् //
SK
नवत्रिंशसमायुक्तं बीजं गायत्रिसंज्ञकम् एतद् बीजवरं दिव्यं योज्यम् आलभनादिके //
SK
चतुस्त्रिंशतिकोषस्थं पञ्चविंशतियोजितम् सर्वकर्मसमुद्दिष्टं बीजं सावित्रिसंज्ञितम् //
SK
अर्धेन्दुशिखया देवि लाञ्छितानि तु पूर्ववत् प्रयोगं चास्य वक्ष्यामि सिद्धिर् येनाशु जायते //
SK
प्रयोगं कारणं देवि ग्रन्थशास्त्रम् अकारणम् सर्वत्र सुलभं शास्त्रं प्रयोगं तु सुदुर्लभम् //
SK
प्रयोगरहिता मन्त्रा नैव सिद्धिप्रदाः स्मृताः हृत्पद्मे योगविन्यासं ध्यात्वा वै बीजपञ्चकम् गतिं देवं तु विज्ञाय ततः कर्म समारभेत् //
SK
कीदृशः स भवेद् देवो गतिस् तस्य तु कीदृशी देहस्थं तु कथं विद्याद् वक्तुम् अर्हसि शङ्कर //
SK
मेढ्रनाभ्यन्तरे देवि कन्दमूलाकृतिर् भवेत् द्वासप्ततिसहस्राणि नाडीर् आधारसंस्थिताः //
SK
नाभिदेशे स्थितो ग्रन्थिस् तत्र पद्मं व्यवस्थितम् कर्णिका पद्ममध्यस्य तत्र साध्यं व्यवस्थितम् //
SK
कर्णिकासुषिरान्ते तु या कला चोर्ध्वगामिनी तस्या मध्ये स्थितो देवः स तु दीपशिखोपमः //
SK
शुद्धस्फटिकसंकाशं विस्फुलिङ्गार्कसंनिभम् वारिमारुतसंकीर्णं वालाग्रशतभागकम् //
SK
वायुवाहनम् आरूढं शब्दातीतम् अनामयम् सम्प्रत्ययं तु गम्यो ऽसौ वहते देहमध्यतः //
SK
इडामध्यगतो वापि पिङ्गलान्तर्गतो ऽपि वा सुषुम्नान्तर्गतश् चैव विषुवं समुदाहृतम् //
SK
इडा तु वामजा प्रोक्ता दक्षिणे पिङ्गला स्मृता अनयोर् मध्ये सुषुम्ना तु सृष्टिसंहारकारिका //
SK
इडा शान्तिकपुष्ट्यर्थे मृत्यूच्चाटन पिङ्गला सुषुम्ना मोक्षदा चैव जीवमार्गानुसारिणी //
SK
पिङ्गलान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् मारणोच्चाटनादीनि ततः कर्माणि कारयेत् //
SK
अमृतान्तर्गतं ज्ञात्वा ध्यायेत् तुहिनसंनिभम् शान्तिपुष्टिवशाकर्षं तदा कर्माणि कारयेत् //
SK
व्रतयोगादिसंसिद्धिं मूलमन्त्रेषु कारयेत् तद् अत्र जपमात्रेण मन्त्री साधयते क्षणात् //
SK
अप्रसूता मृता योषित् प्राप्तयौवनम् एव च तस्याः पांशुलिकां गृह्य वामभागे विचक्षणः //
SK
लिखेन् नामाक्षरं तत्र देवीनाम् कूटसंस्थितम् वामाङ्गोज्ज्वलरक्तेन साधकः संयतव्रतः //
SK
स्त्रियं चैव लिखेत् तत्र गवां रोचनया पुनः अनुलोमैर् विहन्यस् तु वामपादेन चाक्रमेत् //
SK
तत्क्षणाद् आनयेच् छीघ्रं या स्त्री द्वादशयोजनात् पुरुषस्य तथा प्रोक्तं दक्षिणाङ्गे तु कारयेत् //
SK
अथाभिचारकं कुर्यात् समिधानां तथास्थिभिः राजिकाविषरक्ताक्तं श्मशाने होमम् आरभेत् //
SK
नग्नो मुक्तशिखो भूत्वा कपालत्रयसंस्थितः समिधाष्टशतं होमं रात्रौ कुर्याद् विचक्षणः //
SK
होमान्ते तु ततः शक्रं कृष्णवर्णम् विचिन्तयेत् त्रिशूलेन विनिर्भिन्नं दण्डेन ताडितं शिरः //
SK
साधको घोररूपेण क्रुद्धः संरक्तलोचनः सप्ताहान् नाशयेद् इन्द्रं किं पुनर् मानुषादिकम् //
SK
त्यक्तेन तु कुसुम्भेन शतेनाष्टोत्तरेण तु त्रिसन्ध्यं धारयेद् रात्रौ अग्निकार्यं तु कारयेत् //
SK
साध्यं तु साधकश् चैव रक्तवर्णं विचिन्तयेत् होमान्ते तु ध्यायेत् साध्यं विह्वलं च सम्मूर्छितम् //
SK
अङ्कुशेन हतो मूर्ध्नि मायापाशेन वेष्टितम् राजानं राजपत्नीं वा सप्ताहाद् वशम् आनयेत् //
SK
गृहीत्वा तु महामांसं दधिमध्वाज्यसंयुतम् आहुत्यष्टसहस्रेण सद्योत्कर्षणम् उत्तमम् //
SK
आत्मनः साध्यबीजं च पञ्चदेव्या चतुष्टयम् नाडीमध्यगतं ध्यात्वा एकीकृत्य विचक्षणः //
SK
नाडीमार्गानुसारेण प्रवेश्य साध्यविग्रहम् अनेनैव प्रयोगेण त्रैलोक्यं वशम् आनयेत् //
SK
अत उच्चाटनं कुर्याच् छत्रूणां बलदर्पिताम् शुष्काणि निम्बपत्त्राणि ध्वजाग्राणि तथैव च //
SK
नृवालं चितिभस्मं च काकपक्षाग्रपिच्छकम् कटुतैलविषं रक्तं तेनालोड्य तु होमयेत् //
SK
चण्डालाग्निं समाहृत्य चितिकाष्ठं समिन्धयेत् उच्चाटयेत् त्रिरात्रेण त्यक्तबन्धुसुहृज्जनान् //
SK
वामहस्ततले चन्द्रं ध्यात्वा सम्पूर्णमण्डलम् बीजपञ्चकसंयुक्तं यस्य तं दर्शयेत् करम् //
SK
दर्शनाद् वशम् आयान्ति ये ऽपि हन्तुं समुद्यताः यं यं स्पृशति हस्तेन दासत्वम् उपगच्छति //
SK
दक्षिणे ऽप्य् एव वै हस्ते विन्यसेद् रविमण्डलम् यं स्पृशेद् दर्शयेद् यं तु विद्विष्टाः सुहृदान्य् अपि //
SK
निम्बस्थवायसं गृह्य श्वपाकेनावतारितम् बीजैर् एतैर् विपर्यस्तैस् तैलाभ्यक्तं चिताहुतम् //
SK
तद् भस्म विषरक्ताक्तं कृष्णान्ते रक्तवाससः परिजप्य सहस्रं तु विलोमैर् बीजपञ्चकैः //
SK
यं स्पृशेद् भस्मना तेन काकवद् भ्रमते महीम् विद्विष्टः सर्वलोकानां यदि शक्रसमो भवेत् //
SK
यथात्मनि तथा साध्ये बीजषोडशकं न्यसेत् जवापुष्पसमप्रख्यौ द्वाव् एतौ परिचिन्तयेत् //
SK
जातीहिङ्गुलकपक्षौ लाक्षारससमप्रभौ पद्मसम्पुटमध्यस्थौ उभौ तौ साध्यसाधकौ //
SK
अङ्कुशं साध्यगुह्ये तु दण्डं चात्मनि गुह्यतः कुसुम्भरक्तसंकाशौ मायातन्त्वभिवेष्टितौ //
SK
पञ्चरात्रं त्रिरात्रं वा निःशब्दो ध्यानपारगः वशम् आनयते क्षिप्रं नृपतिं मानगर्वितम् //
SK
द्विजयोषिन् मृता या तु तस्या गृह्यं तु कर्पटम् कृष्णचतुर्दश्यां गृहीत्वा चित्यङ्गारैस् तदुद्भवैः //
SK
बीजैर् विदर्भितं नाम यस्य यस्य च वेश्मनि निखन्यते स वै क्षिप्रं प्रयाति यमसादनम् //
SK
ततो विद्याव्रतश्लाघी कीर्त्यादिभिर् अलंकृतः साध्यते ऽनेन प्रयोगेण म्रियते चाविकल्पतः //
SK
गवां रोचनया चैव यस्य नाम विदर्भितम् बीजैर् एतैः समायुक्तैर् आलिख्य प्रक्षिपेद् बुधः //
SK
पात्रं मध्वाज्यसम्पूर्णं शतम् आवर्तयेद् द्रुतम् मुमुक्षोर् अपि तस्यास्त्रं शान्तिपुष्टिश् च जायते //
SK
शतजप्तो जलेनापि ततो वा मुच्यते सदा व्याधिघातसमिद्भिस् तु व्याधिनात्यन्तपीडितः //
SK
अष्टोत्तरशतेनैव आहुतीनां न संशयः क्षीराक्तेन तु देवेशि रोगी रोगाद् विमुच्यते //
SK
जुहोति यस् तु सततं द्रव्यं तस्य गृहे तु यत् कुर्वन्तो ऽपि व्ययं नित्यम् अक्षयत्वं च गच्छति //
SK
नित्यं कालजपेनापि सर्वेषां जायते प्रियः तेजस्वी बलसम्पन्नो नाप्य् असौ पीड्यते भयैः //
SK
श्रीकामः श्रीफलं जुह्यात् पद्मं चाज्यमधुप्लुतम् लक्षैकेन महावित्तो मन्त्री लक्षद्वयेन तु //
SK
लक्षत्रयेण पृथ्वीशो निर्जितारिर् भवेद् ध्रुवम् सर्वकामस् तिलं जुह्यात् प्राप्नुयात् तु न संशयः //
SK
लक्षेणैकेन देवेशि साधकः स जितेन्द्रियः त्यक्तेन नरमांसेन छागस्य पिशितेन वा //
SK
लक्षमात्रहुतेनाशु यद् इष्टं तद् अवाप्नुयात् कृष्णागोपयसा सार्धं नृमांसं तण्डुलान्वितम् //
SK
पायसं शववक्त्रे तु जुहुयात् तावतन्द्रितः यावद् उत्तिष्थते प्रेतः किं करोमीति सो ऽब्रवीत् //
SK
मार्गितव्यं यद् इष्तं तु लभनीयं यशस्विनि गुडिकाञ्जनपादुकं खन्यं वा राज्यम् एव च //
SK
विधानं शक्रनाशं च पादलेपरसायनम् एतेषां प्रार्थितं चैकं दत्त्वागच्छति नान्यथा //
SK
उद्धता या मृता योषित् तस्या गृह्याङ्गुलीयकम् अभिमन्त्र्य इमैर् बीजैर् अनुलोमैः शतेन तु //
SK
अष्ताधिकेन मन्त्रज्ञः साध्यनाम विदर्भयेत् यस्या ददाति तद्वद् आस्ते स्त्रियायाः साधकोत्तमः //
SK
आकर्ष्यति तां क्षिप्रं यदि स्याद् उर्वशीसमा योजनानां शतस्यापि दूरेणापि समर्पितम् //
SK
पुरुषस्य भवेद् देवि उद्धतस्य यशस्विनि काकमांसं गृहीत्वा तु निम्बतैलसमायुतम् //
SK
श्मशानाग्निं समाधाय शिग्रुकाष्ठेन साधयेत् जुहुयात् सप्तरात्रं तु यस्य नाम्ना तु साधकः //
SK
विद्विष्तो दृश्यते लोके एष विद्वेषणं परम् अतो ऽन्यत् सम्प्रवक्ष्यामि रहस्यम् इदम् अद्भुतम् //
SK
यद् विदित्वा महेशानि सिद्धिम् आप्नोति पुष्कलाम् स्वकाले सम्प्रयोगेण सिद्धिस् तन्त्रेषु कीर्तिता //
SK
ततः स्वकालं कुर्वीत स्वानि कर्माणि साधकः साध्यहृत्पद्मसंस्थं तु ध्यात्वादौ बीजपञ्चकम् //
SK
कुर्वीत मनसा पूजाम् इतायाप्रवतो ? पदा माययाच्छादयेत् पश्चात् साध्यम् अन्तोबहिर्युतम् //
SK
मायाकमलनालेन साध्यम् आवेष्तम् आनयेत् ततः स्वात्मीकम् आनीय मायातत्त्वश्लथीकृतम् //
SK
पुन् अस् तत् स्थापयित्वा तु सम्मुखः साधकोत्तमः न्यस्तव्यं तु यद् आदौ तु ? साध्ये वै बीजपञ्चकम् //
SK
मायावेष्तितं तन् मन्त्री जपेद् अष्टशतं ततः साध्यनामाक्षरोपेतं तत्प्रबुद्धासने स्थितम् //
SK
एवं देवि ततः शीघ्रं ध्वस्तजानुशिरोरुहः आकृष्तो विधिनानेन साध्यः किंकरितो महान् //
SK
अतः परं प्रवक्ष्यामि बद्धे रुद्धे ऽपि मोक्षणम् यथा संहरते शक्रं तत्प्रयोगम् इदं शृणु //
SK
साध्यहृत्कमलान्तःस्थं ध्यात्वैवं बीजपञ्चकम् कुर्वीत पूर्ववत् पूजां सुषुम्नायागनिर्गदा ? //
SK
संहारास्त्रं ततो मन्त्री तुम्बुरुं मूर्ध्नि विन्यसेत् देवीनां च ततस् तेन साध्यम् आवृत्य योगवित् //
SK
तत्र यो मूर्ध्नि तेनैव ज्वलितानलवर्चसा दृष्त्वा तं मनसा भूयो मूर्च्छितं भुवि विह्वलम् //
SK
हृदि बद्ध्वाङ्कुशेनैव आनयेद् आत्मनो ऽन्तिकम् ततस् त्वधोमुखं स्थाप्य पीडितं छर्दयेद् असृक् //
SK
पश्चात् तु हृदये तस्य न्यस्तव्यं बीजपञ्चकम् प्रोद्धृत्य साध्यनामैवं संहारास्त्रविदर्भितम् //
SK
एवं विगतरक्षं तु स्याप्युद्गतं तु ? ततः जपेद् अष्टसहस्रं तु ज्वालामालाभिर् आवृतम् //
SK
ततस् तु कर्मणानेन तेनैव तु विधानतः साध्यः प्रयाति निधनं मृत्युर् आन्तिम ? कम्पयेत् //
SK
इत्य् एतत् कथितं देवि समासाद्यं तु पूर्वशः यथा संहरते शक्रं बद्धे रुद्धे ऽथ मोक्षणात् //
SK
क्रोधेन महता दीप्तः प्रयोगम् इदम् आरभेत् सुषुम्नायां यदा देवः स्वयंचारेण वर्तते //
SK
सुषुम्नान्तर्गतं ध्यात्वा रक्तवर्णं विचिन्तयेत् विद्वेषोच्चाटनादीनि ततः कर्माणि कारयेत् //
SK
बीजपञ्चकदेवस्य वर्गान्तरयुतस्य च वर्णान्तयागम् एकान्ते सदा गोपितं तन् मया //
SK
तदा तु सर्वकार्याणां सिद्धये शृणु सुव्रते कुसुम्भरजसालोड्यं शालीनां पिष्टकेन च //
SK
भस्मना चन्दनेनापि नागकेशरजेन वा सुगन्धैश् च विचित्रैश् च लिखेच् च सुसमाहितः //
SK
वर्गातीतस्य गर्भे तु न्यसेत् पद्मं चतुर्दलम् तत्र सभ्रातृका देव्यः पूजयेद् बीजपञ्चके //
SK
एवं पूजितमात्रास् तु सर्वदासर्वकामदाः भवन्ति नियतं[नित्यं] धर्मकामार्थमोक्षदाः //
SK
यागम् एवं च कृत्वान्ते ततो लक्षत्रयं जपेत् ततः सिद्धिम् अवाप्नोति ब्रह्मघ्नो ऽपि हि नान्यथा //
SK
मनसा चिन्तितं कामं तदा प्रभृतिम् आप्नुयात् अतः परं प्रवक्ष्यामि जपस्य विधिम् उत्तमम् //
SK
एकासनस्थितो मन्त्री यागं कृत्वा विधानवित् एकचित्तः प्रसन्नात्मा वामहस्ताक्षसूत्रधृक् //
SK
जपकर्म सदाकुर्याद् विशेषम् अपरं शृणु वश्यकामो जपं कुर्याद् अनुलोमैर् विदर्भितम् //
SK
बीजैर् एतैर् यथान्यायं साध्यनामाक्षरान्वितैः कालं तत्र विजानीयात् कालसिद्धिः प्रवर्तते //
SK
मारणे प्रतिलोमैस् तु साध्यनाम तु पूर्वतः विद्वेषे ऽपि विलोमैस् तु फट्कारान्तं प्रयोजयेत् //
SK
मारणे प्रतिलोमैस् तु हूंफत्कारान्त द्यन् ? तकैः ॐ स्वाहा नमो ऽन्तैस् तु वश्याकर्षणकर्मसु //
SK
होमयेद् एवम् एवं तु सर्वं कुर्याद् विचक्षणः नमस्कारो जपस्यान्ते स्वाहा होमे प्रकीर्तितम् //
SK
स्वशोणिताक्तं लशुनं मारणे प्रतिहोमयेत् उच्चातने काकपक्षं वश्ये जातिं तु होमयेत् //
SK
विद्वेषे श्लेष शिग्रुं च होमयेद् अविचारणात् आकर्षणे बकुलपुष्पं होमयेच् च विचक्षणः //
SK
सर्वे यागसमुद्दिष्ताः कालज्ञस्य यशस्विनि येन कालं च वै ज्ञातं तेन ज्ञातः सदाशिवः //
SK
सदाशिवे परिज्ञाते सिद्धिं शाम्यन्ति साधकाः कालतत्त्वं च विज्ञेयं तत्त्वात्सिद्धिः प्रवर्तते //
SK
तत्त्वहीना न सिध्यन्ति प्रयत्नेनापि साधकाः तस्मात् सर्वप्रयत्नेन कालतत्त्वं विदुर् बुधाः //
SK
क्रियाकालं च वै शून्यं न सिध्यन्तीह साधकाः तस्मात् क्रियां च कालं च असंज्ञेयं प्रयत्नतः //
SK
स कालश् च कथं ज्ञेयो यो ऽसाव् उक्तस् त्वया प्रभो कालहीनानृतं मन्ये सर्वम् एव च शङ्कर //
SK
शृणु देवि परं गुह्यं कालतत्त्वात्मविग्रहम् यज् ज्ञात्वा तु सुखेनैव सिद्धिर् भवति मन्त्रिणाम् //
SK
अयुतं द्वे च विज्ञेयाः षोडशैव शतानि च चतुर्विंशतिसंक्रान्त्या द्वादशाङ्गुलगतागते //
SK
शरीरे तु यथा देवि स्थितं सकलनिष्कलम् तथा हंसं प्रवक्ष्यामि साधकानां हिताय वै //
SK
पादौ पायुर् उपस्थम् च हस्तौ वागिन्द्रियस् तथा श्रोत्रत्वक्चक्षुषा जिह्वा नासिका च तथापरा //
SK
पृथ्व्य् आपस् तथा तेजो वायुर् आकाशम् एव च शब्दः स्पर्शश् च रूपं च रसो गन्धस् तथैव च //
SK
मनो बुद्धिर् अहंकारो अव्यक्तम् पुरुषस् तथा पञ्चविंशतितत्त्वानि शरीरे तु विदुर् बुधाः //
SK
एभिर् आधारभूतैस् तु आधेयो ध्यायते सदा आधारं पुरम् इत्य् उक्तं पुरुषश् चाधेय उच्यते //
SK
हृत्पद्मे कर्णिकावस्थ ऊर्ध्वगामी सदात्मकः निष्कलस्य तु देवस्य पुनर् आधारसंस्थितिः //
SK
तत्पुरुषम् आधाराधेयं निष्कलं परमं शिवम् षत्कौशिकशरीरं तु तत्त्वानां पञ्चविंशतिः //
SK
दशवायुसमायुक्तं नाडीभिर् व्यापितं पुरम् शरीरं त्रिगुणं चैव सर्वदैवतसंयुतम् //
SK
अनेनाधिष्थितं देवि चक्रवत् परिवर्तते यथा तारगणं सर्वं ग्रहनक्षत्रमण्डलम् //
SK
ध्रुवाधिष्थितं तत् सर्वम् अचलं परिवर्तते तद्वच् छरीरं देवस्य सर्वबीजगणं हि यत् //
SK
शिवेनाधिष्थितं ज्ञात्वा तन्त्रे सिद्धिम् अवाप्नुयात् त्रिकुब्जिकुतिलाकारा षष्ठस्वरसमन्विता //
SK
शक्तिर् बिन्दुविनिर्भिन्ना देहस्था सकलात्मका अस्यास् तेजःशिखा सूक्ष्मा मृणालतन्तुसंनिभा //
SK
ज्योतिरूपा च सा ज्ञेया तस्यान्ते तु पुनः शिवः अकारादिक्षकारान्तम् आब्रह्मभुवनं जगत् //
SK
अस्मिंश् चोद्पद्यते सर्वं तत्रैव प्रलयं भवेत् एष देवः परः सूक्ष्म आधाराधेयसंस्थितः //
SK
अयने विषुवे चैव आग्नेयामृतकारणम् यदा वारुणमार्गस्थ इडामध्यगतो भवेत् //
SK
हिमकुन्देन्दुसंकाशो विज्ञेयः शुचिकर्मणि द्वादशादित्यसंकाशः पिङ्गलान्तर्गतो यदा //
SK
अरुणानलसंकाशं रौद्रकर्मणि योजयेत् सुषुम्नायां यदा देव उपशान्तो वहत्य् असौ //
SK
मोक्षमार्गम् इदं देवि ज्योतीरूपं परापरम् एष देवो गतिश् चैव कालतत्त्वात्मविग्रहः //
SK
साधकस्य हितार्थाय परमार्थम् उदाहृतम् एतत्सर्वं समाख्यातं कालतत्त्वात्मविग्रहम् //
SK
त्रिसंस्थे तु समासेन सर्वतन्त्रेषु सिद्धिदम् नाडीसंस्थं यथा कर्म कुरुते मन्त्रिणः सदा //
SK
तद् अहं सम्प्रवक्ष्यामि शृणु त्वं च वरानने इडा च पिङ्गला चैव नाड्यौ द्वे समुदाहृते //
SK
यतो नित्यं चरेद् देवः क्रमशश् च निवर्तते तान्य् आत्मवतकर्माणि प्रयुक्तं कुरुते प्रभुः //
SK
स एव कुरुते कर्म बीजनाडीप्रयोगतः अयं कालः समाख्यातस् तृत्वेदय ? समन्वितः //
SK
देहस्थम् कथितं देवि ऋतुयुक्तस् तु साधकः ज्ञात्वा कालं च तत्त्वं तु ततः कर्म समारभेत् //
SK
शान्तिकं पौष्तिकं चापि विद्वेषोच्चाटनं तथा वश्याकर्षणकं कुर्याद् यदि कालं विजानते //
SK
सौम्यानि सौम्यकाले तु रौद्रे रौद्राणि कारयेत् अन्यकालकृतं कर्म वृथा भवति साधके //
SK
तस्मात् सर्वप्रयत्नेन काले कर्माणि कारयेत् स्वरक्तं गोचनं चैव तथा सिन्दूरम् एव च //
SK
कुसुम्भरजःसम्मिश्रं दधिमध्वाज्यसंयुतम् खदिरै रक्तसमिधैर् अथवा रक्तचन्दनैः //
SK
अत्र दिग्ध्वा हुनेन् मन्त्री सप्ताहाद् वशम् आनयेत् प्रतिमां लवणमयीं कृत्वा शताभिमन्त्रितां बुधः //
SK
पादौ प्रभृति होतव्यं यावद् अष्टशतं भवेत् त्रिसन्ध्याम् एकचित्तस् तु अमोघवश्यतां नयेत् //
SK
सैक्थीं तु प्रतिमां कृत्वा त्र्यूषणेन तु लेपयेत् प्रतिमासु सुसम्पूर्णं कण्टकैर् मदनोद्भवैः //
SK
विदर्भ्य पादौ गुह्यं च ललातं च विचक्षणः कुचयुग्मे च देवीनाम् अग्रतो निखनेत तु //
SK
अधोमुखां विलिप्ताङ्गां राजिकालवणेन तु वामनासिकरक्तेन नाममन्त्रैर् विदर्भिताम् //
SK
लिखित्वा हृदये कुर्याद् वह्निं प्रज्वाल्य चोपरि राजिकालवणं चैव होतव्याष्तशतं बुधः //
SK
त्रिसन्ध्याम् एव सप्ताहात् त्रैलोक्यं वशम् आनयेत् कुलालकरनिर्मुक्तमृदा प्रतिमयीकृता //
SK
तेनैव कण्तकैर् विद्ध्वा स्वस्थानस्थैस् तु मन्त्रिणः भगे वा अथवा लिङ्गे सन्मन्त्राण्य् अष्टशतानि तु //
SK
सूत्रयेद् गुह्यदेशे तु गृणन् मन्त्रं तु सर्वदा सप्ताहाद् आनयेद् वश्यं स्त्रियं वा पुरुषम् अपि वा //
SK
मानुषास्थिमयं कीलं कृत्वा तु चतुरङ्गुलम् क्षीरवृक्षं भगे लिख्य लिङ्गं वा कीलयेत् ततः //
SK
षण्डिलस् तु भवेत् साध्य आर्द्रयोगो न संशयः उद्धृतेन भवेन् मोक्षं नात्र कार्या विचारणा //
SK
मधूका श्वेतपद्मं च रोचना नागकेशरम् तगरं चैव सूक्ष्मेलम् अञ्जनं समभागिकम् //
SK
कन्यया पिषितं कृत्वा यागं कृत्वा यथोदितम् सहस्राष्ताधिकं जप्त्वा जपेन यजने ततः //
SK
सर्वलोकेषु दृश्यन्ते कामदेवसमो ऽपि तत् विचरेत महीं कृत्स्नां नात्र कार्या विचारणा //
SK
मञ्जिष्था कुन्दुरुश् चैव हरिद्रे द्वे तु पीषयेत् पिष्त्वा पूर्वविधानेन ततो गुह्यं प्रलेपयेत् //
SK
प्रवृत्ते मैथुने काले पतिर् दासं करिष्यति मेषलोचनमूलं तु कम्बल्या क्षीरसाधितम् //
SK
श्मशाने साधयेन् मन्त्री रात्रौ काष्ठैस् तदुद्भवैः कपालैर् गुण्डयेद् अङ्गं रक्तवासोपरिच्छदम् //
SK
उद्वर्तनो ऽभयो ह्य् एष वज्रवत् स्याङ्कुशोपमः भक्षयेद् देशयेत् कंचित् कामाङ्कुशविनिर्गतः //
SK
पुरुषो वशम् आयाति स्त्री वा मदनगर्विता वाल्मीकमृत्तिकां गृह्य बलीवर्दं तु कारयेत् //
SK
कन्याकर्तितसूत्रेण तस्य नासां प्रवेधयेत् अथवा पद्मसूत्रेण रक्तचन्दनलेपितम् //
SK
रक्तपुष्पैः समभ्यर्च्य सर्वार्णवं समानयेत् साध्यस्य विलिखेन् नाम स्वरक्तेन वृषोदरे //
SK
श्रीवृक्षकोतरे स्थाप्य साध्यम् एवं वशीकुरु अनेनैव मृदा मेषं कारयेन् मन्त्रवित् सदा //
SK
मेषसूत्रेण वै नासां वेधयेत् पूर्ववच् छुचिः देवीनाम् अग्रतः स्थाप्य तस्य नासां प्रचालयेत् //
SK
यं यं विज्ञापयेत् कामं तं तं प्राप्नोति साधकः एते योगवरा देवि मया तव उदाहृताः //
SK
वर्णानाम् उदरे यागं सर्वकामप्रसिद्धिदम् एवम् एव मगर्भस्थं मारणे सम्प्रयोजयेत् //
SK
गवां रोचनया लिख्य एवम् एव प्रयोजयेत् सोदरेमूकतां कुर्याद् वागीशम् अपि मूकयेत् //
SK
नित् यम् आकर्षयेत् प्रोक्तम् आकारोदरे पूजिता महापुरुषवरस्त्रीणां जपमाना तु कीर्तनात् //
SK
ज्ञानाङ्कुशगता पूजा क्षिप्रं प्रायेषु वस्तुषु उन्मनेष्व् अथ घोरेषु साकारेण तु साधयेत् //
SK
एकारोदरयागेन भवत्य् अर्थप्रदायिका वकारमध्यगा चैव वशीकरणकर्मणि //
SK
धर्मार्थमोक्षदा चैव पुष्टितेजोविवर्धनी भवति नियता देवि हंसमध्येषु पूजितम् //
SK
भञ्जने यदि सैन्यानां भकारजथरे स्थितम् भवति नियता क्षिप्रं क्षेमनाभिगरीयसी //
SK
मारणे तु प्रयोक्तव्यं फत्कारान्ते व्यवस्थिता विद्वेषं तु प्रयच्छन्ति जकारजथरेस्थिता //
SK
शत्रुकुलोच्छादं कुर्यात् हूं फत्कारान्ते व्यवस्थिता स्वल्पप्रायेषु कार्येषु यकारजथरोदरे //
SK
देहन्यासं पुनर् वक्ष्ये अभेद्यं परमेश्वरि विन्यस्य करणान् साक्षान् महाभूतेषु पञ्चसु //
SK
देहे तत्त्वत्रयं न्यस्य प्राणायामपुरःसरः शरीरे विन्यसेद् देवि पूर्वम् उक्तक्रमेण तु //
SK
माययाच्छादयित्वा तु अङ्कुशेन निरोधयेत् योनिं बद्ध्वा ततः पश्चात् साधकः सुसमाहितः //
SK
स्वदेहे नमसा मन्त्री कल्पोक्तेन तु कर्मणा कुर्यात् सर्वाणि कार्याणि ततः सिद्धिर् न संशयः //
SK
नयोत्तरादितन्त्रेषु कल्पोक्तं कर्म कारयेत् अथवादशलक्षाणि जपेद् यस् तु विधानतः //
SK
ततः सभ्रातृका देव्यः साधकस्याग्रतः स्थिताः वरम् इष्तं प्रयच्छन्ति त्रयातीतं पदं हि यत् //
SK
बीजपञ्चकम् एतद् धि न देयं यस्य कस्यचित् वर्गान्तनिर्गुणाक्रान्तं सम्यग् वै बीजपञ्चकम् //
SK
एवम् एव पुरा कृत्वा ज्ञात्वैवं हि विधानतः बीजानि बीजयेत् प्राज्ञः ततः कर्म समारभेत् //
SK
एवं विधानविद् यस् तु हीनो वा सर्वलक्षणैः अपि पातकसंयुक्तः स सिद्धिफलभाग् भवेत् //
SK
वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं स्मृतम् हृदयं देवदेवीनाम् एकाक्षरम् अतः परम् //
SK
यत्र सभ्रातृका देव्यः कूटदेहा व्यवस्थिताः नातः परतरो मन्त्रस् त्रिषु लोकेषु विद्यते //
SK
गोपितव्यं प्रयत्नेन तन्त्रसारं सुदुर्लभम् ममापि गोपितं देवि सर्वज्ञेनापि सर्वदा //
SK
निश्चयं मम बद्ध्वान्त ? यच् च देवेन भाषितम् त्वयापि चैवम् एवं हि रक्षणीयं प्रयत्नतः //
SK
चिन्तारत्नम् इदं गुह्यं व्रतसाधनवर्जितम् अनुस्मरणामात्रेण सम्यग्ज्ञाय क्रमेण तु //
SK
वर्णयागक्रमेणैव पूर्वोक्तेन यथाक्रमम् सिध्यते नात्र संदेहः सर्वकामस् तु मन्त्रिणाम् //
SK
शान्तिकं पौष्तिकं चैव विद्वेषोच्चाटनं तथा वश्याकर्षस् तथा नाशं सर्वं सिध्यति साधके //
SK
शुक्रेण सर्वतोभद्रे महासम्मोहने तथा निर्मथ्य कथितो देवि दध्नो घृतम् इवोद्धृतम् //
SK
परीक्ष्य गुरुणा शिष्यं गुरुदेवाग्निपूजकम् तस्य देयम् इदं तन्त्रं न च नास्तिकनिन्दके //
SK
न दीक्षिता न सिध्यन्ति स्थिताः कल्पशतैर् अपि स्वयंगृहीतमन्त्राश् च नास्तिका वेदनिन्दकाः //
SK
समयेभ्यः परिभ्रष्तास् तथा तन्त्रविदूषकाः गुरूणां विहेठनपरास् तन्त्रसारविलोपकाः //
SK
योगिनीभिः सदा भ्रष्टाः कथ्यन्ते धर्मलोपकाः इति तथ्यं महादेवि सुरासुरनमस्कृतम् //
SK
सारम् एतद् धि तन्त्रस्य तस्य तत्स्थं महानये आज्ञा भगवतश् चैव शिवस्य परमात्मनः //
SK
श्रुतं मया महादेव वीणासद्भावम् उत्तमम् तन्त्रं वीणाशिखं नाम दुर्लभं त्रिदशेष्व् अपि //
SK
वर्गान्तनिर्गुणाख्यस्य अस्यापि परमं च यत् एकाक्षरं परं गुह्यं भुक्तिमुक्तिप्रदायकम् //
SK
गोपितं तु त्वया देव सारभूतं महेश्वर तपसा दुर्धराल्लब्धं यच् च ज्ञानं शिवोद्भवम् //
SK
प्रसादं कुरु देवेश यत्र सिद्धिर् ध्रुवं स्थिता प्राप्ते कलियुगे घोरे संकते बहुपातके //
SK
सर्वस्रोतःप्रपन्नानाम् आशु सिद्धिर् यथा नृणाम् प्रसादं कुरु देवेश कः परम्पारते मम //
SK
अल्पप्रज्ञाः कुमतयो बहुव्याकुलचेतसा तन्त्रं नैवाधिगच्छन्ति न चैव बहुधा श्रुतम् //
SK
इति देव त्वया पूर्वं कथितं गुरुणात्मना अस्माकम् अपि संक्षेपात् कथयस्व महेश्वर //
SK
अहो स्वभावप्रकृते किम्प्रश्नासि पुनः ऽपुनः यन् मया कथितं पूर्वं तद् गृहाण सुभाषितम् //
SK
न भूयः परिपृच्छामि प्रश्नम् एका गरीयसी वारम् एकं कुरु व्यक्तं प्रसादं सूक्ष्मगोचरम् //
SK
शृणु देवि प्रयत्नेन सूक्ष्मात् सूक्ष्मतरं महत् प्रयोगं सर्वतन्त्राणाम् उत्तरं सर्वसिद्धये //
SK
येन संस्मृतमात्रेण सिद्धिर् हस्ततले स्थिता नायासो न व्रतश् चैव न तपश् च महेश्वरि //
SK
नाग्निकर्म न चैवार्चा स्मरणात् सिद्धिदः स्मृतः शृणुष्वैकाक्षरं देवि सद्भावपरसंहितम् //
SK
शरीरं तत्त्वराजानं जातवेदसि संस्थितम् शिखायां संस्थितो देवो बिन्दुदेवी जया स्मृता //
SK
यश्चात्रोर्ध्वं भवेद् देवि सौकरः परिकीर्तितः तन्तुदेवं विजानीयान् मकारं बिन्दुदेवताम् //
SK
एवं तु पञ्चधा देवि तत्त्वराजं तु कीर्तितम् चतुर्विंशतिकोष्थे तु यो मन्त्रनायकः स्मृतः //
SK
तत्त्वराज इति ख्यात ऊनविंशत्य् अधः स्मृतः विंशकेन स्वरेणैव बिन्दुमूर्ध्ना तु पीडितम् //
SK
एष एकाक्षरः प्रोक्तस् त्वत्प्रियार्थं वरानने सुषिरं तत्त्वराजानं जातवेदसि संस्थितम् //
SK
विष्णोर् उपरि दीप्तेन जपेल् लक्षत्रयं बुधः आकर्षयेद् द्रुमाण्य् एष मृगपक्षिसरीसृपान् //
SK
मानुषाणां तु का चिन्ता आकर्षणविधिं प्रति एकादशमः संयुक्तस् तत्त्वराजेन शोभने //
SK
शिरसा बिन्दुभिन्नेन हृदि चैष निगद्यते सप्तविंश शिरः प्रोक्तं त्रिंशमस् तु शिखा भवेत् //
SK
ऊनचत्वारिंशतिर् देवि तत्त्वो ऽयं कवचः स्मृतः षोडशस्वरसंयुक्तम् एतद् अस्त्रं प्रकीर्तितम् //
SK
नेत्रं तु कथितं देवि विंशत्यक्षरयोजितम् एष एकाक्षरो देवि षडङ्गः समुदाहृतः //
SK
हंसो मायायुक्तो देवि नाराचास्त्रविदर्भितः सविसर्गनयपदं बीजान्तस्थं(?) ऊ ई सिद्धिकरी नृणाम्(?) //
SK
ह र त्र वृद्धिं करोति .... .... मायाङ्कुशनिरोधास् ते सर्वमन्त्रगणादयः //
SK
क्रमशो योजयेन् मन्त्रि यदीच्छेद् दीर्घम् आत्मनि सर्वम् एतत् परित्यज्य कुर्यान् मन्त्रपरिग्रहम् //
SK
आत्मातीन्द्रियाधाराणां कृत्वा कर्तव्यं मुहुर् मुहुः पदार्थविधिसंयुक्तं यन् मया गदितं पुरा //
SK
तद् अनेन प्रयोगेण कर्तव्यं सिद्धिम् इच्छता ध्यायेत् सिन्दूरसदृशं वश्याकर्षणकर्मणि //
SK
मारणे कृष्णवर्णं तु विद्वेषे वामरूपकम् उच्चाते धूम्रवर्णं तु श्वेतं चैव पुष्ट्यर्थिना //
SK
मयूरग्रीवसदृशं स्तम्भने चिन्तयेत् सदा सर्ववर्णधरं चैव सर्वकामिकम् एव च //
SK
सर्वेन्द्रियाणां कुर्वीत उपहारे महाधिपे हृत्पद्मकर्णिकोर्ध्वं तु सुषिरं तत्र चिन्तयेत् //
SK
स्फुलिङ्गं कर्णिकारूपं निर्धूमतेजरूपिणम् धूमज्वालाविनिर्मुक्तं सूर्यकोटिसमप्रभम् //
SK
तस्योर्ध्वे तु शिखा सूक्ष्मा निर्मला स्फातिकोपमा नित्यं सा सेव्यते युक्तैर् योगिभिर् निष्कला परा //
SK
ऊर्णातन्तुसमाकारा ऊर्ध्वस्रोता निरुपमा तत्र मध्ये गतं पश्येद् देव्या गुह्योत्तरम्भवा //
SK
वालाग्रशतभागाख्यावीणाधारासुसंस्थिता ध्यायेत नित्यं योगीन्द्रः सूक्ष्मगुह्यसमुद्भवाम् //
SK
कृत्वा पूर्वं तु विन्यासं सकलाबाह्यसंस्थितम् एवं वर्णविभागं तु ज्ञात्वा सिद्धिम् अवाप्नुयात् //
SK
वश्याकर्षणकर्माणि वाचया स करिष्यति वीणाशिखायाः सर्वस्वं चिन्तारत्नम् इवापरम् //
SK
एतद् बीजवरं प्राप्य यथेप्ससि तथा कुरु आज्ञा भगवतश् चैषा सर्वदाव्यभिचारिणी //
SK
ध्यातव्या सा प्रयत्नेन यदीच्छेत् सिद्धिम् आत्मनः यजनं याजनं चैव संयोगं च लयं तथा //
SK
समयाक्षरबीजं च अक्षराक्षरयोजितम् रक्षणीयं त्वया भद्रे प्रयत्नेन सुनिश्चलम् //
SK
एतद् गुह्यं समाख्यातं तव स्नेहाद् विचक्षणि एतज् ज्ञात्वा तु मन्त्रज्ञः शिवसायुज्यतां व्रजेत् //
SK
एवं विलयतां याति विधिनानेन योषिताम् अमलीकृतदेहस् तु विधिनानेन साधकः //
SK
अमलीकृतं तन्मन्त्रं हृच्चक्रे विनियोजयेत् सोममण्डलमध्यस्थं ध्यायेत् कुन्देन्दुसप्रभम् //
SK
अमृतेन तु सिञ्चन्ति लान्तीसगतिलितेन ? तु एवम् आप्यायितो मन्त्रः सर्वसिद्धिप्रदो भवेत् //
SK
एवम् आप्यायनं कृत्वा बिन्दुमध्येविचक्षणः अष्टोत्तरसहस्रं तु मन्त्राणां मन्त्रविज् जपेत् //
SK
परमीकरणं ह्य् एतन् मन्त्रस्याप्यायनं स्मृतम् शिवीभूतस् तु मन्त्रो वै साधयेद् अखिलं जगत् //
SK
सूर्यचक्रनिरुद्धं तु शिरसि समवस्थितम् जपेत् हूंकारसहितं बोधनं परिकीर्तितम् //
SK
आदित्यचक्रमध्यस्थं वह्निना संनिरोधितम् निर्दहते मन्त्रं देवि यदा कर्म न कुर्वति //
SK
शिखामध्यगतं ध्यात्वा सहस्रं परिवर्तयेत् मन्त्रम् एवं समुद्दिष्तं गुह्यशक्तिप्रदीपनम् //
SK
दहनं चाग्निना कार्यं हूंकारेण प्रबोधयेत् दीपनं तु शिखामध्ये मन्त्राणां मन्त्रवादिनाम् //
SK
अमलीकुरुतेसूर्यश् चन्द्रेणाप्यायनं स्मृतम् शिवीकुर्वीत बिन्दुस्थं मन्त्री मन्त्रं तु योगवित् //
SK
एवं मन्त्रविशुद्धस् तु चन्द्रसूर्यसमन्वितम् दीपनं शक्तिना नित्यं जपेन् मन्त्री समाहितः //
SK
अमृतोद्भवकाले तु मन्त्री यत्नेन निश्चयात् वशम् आनयते क्षिप्रं विश्वं मनत ? संशयः //
SK
यावती माया मन्त्राणां सर्वेषां कथिता मया विधिर् अत्र क्रमे चायं पश्चाद् वक्ष्ये जपे विधिम् //
SK
यजनकाले सम्प्राप्ते एकचित्तः समाहितः हृत्पद्मे कर्णिकासीनदेवतार्पितमानसः //
SK
शिखाबिन्दुं विनिर्धार्य तन्मन्त्रं हृदि संस्थितम् पुतवर्णविधानं स्याद् अकृतोच्चारनिस्वनम् //
SK
स्वस्थचित्तो ह्य् असम्मूढ अलाकूर्ध्वस्थितात्मनः अविच्छिन्नं द्रुतं चैव अविलम्बितम् एव च //
SK
तावन् मन्त्री जपेन् मन्त्रं यावच् चित्तं न खिद्यते अलभ्य मम मन्त्रं स्याद् द्रुतं कालस्य सिध्यति //
SK
जपं कृत्वा तु मेधावी नान्यम् एतत् समर्पयेत् मन्त्री कुर्वीत यत्नेन यथार्थत्वं निबोधत //
SK
प्रथमे वायवी प्रोक्ता द्वितीया त्व् अनला स्मृता तृतीया चैव माहेन्द्री वारुणी तु तथापरे //
SK
ॐकारपूर्वतो मन्त्रं नमस्कारान्तयोजितम् बीजपिण्डं तु मध्यस्थं मुद्रायुक्तं सदा यजेत् //
SK
क्षिप्रम् अर्थस् तथा कर्म भुक्तिभोगं सुदुर्लभम् साधयेन् मनसा सर्वं बीजमुद्राप्रयोगतः //
SK
हूंकारम् अदितो न्यस्तम् नमस्कारान्तव्यवस्थितम् उच्चातयेत् सर्वदुष्तान् दैत्यभूतग्रहांस् तथा //
SK
ॐकारयोजितस्यादौ स्वाहाकारावसानतः अग्निकार्यप्रयोगो ऽयं क्षिप्रम् अर्थं प्रसाधयेत् //
SK
ॐकारसम्पुतं पिण्डं रकारेण तु दीपकम् साधयेन् मनसा ध्यात्वा कामार्थश् च यथेप्सितम् //
SK
सुप्तं बोधयते मन्त्री शीघ्रं सिद्धिम् अवाप्नुयात् ॐकारश् च रकारश् च फट्कारश् चैव मध्यतः //
SK
मध्ये वर्गान्तपिण्डस् तु कर्म कुर्याद् यथेप्सितम् हूंकारम् आदौ अन्ते च हकारश् चादिमध्यतः //
SK
जपन् तु बोधयेन् मन्त्री अपि सुप्तम् अचेतनम् हूंकारश् च रकारश् च फट्कारम् आदिमध्यतः //
SK
क्रुद्धस् तु जापयेन् मन्त्री यदाकर्म न कुर्वति ॐकारसम्पुतं कृत्वा नमस्कारान्तयोजितम् //
SK
जपेत् पिण्डाक्षरं मन्त्री सर्वसिद्धिकरं परम् शान्तिकपौष्तिकं कर्म शुभेषु अशुभेषु च //
SK
क्षिप्रम् आवाहने सिद्धिर् होमबीजप्रयोगतः होमयेत् फलबीजानि धान्यबीजतृणानि च //
SK
पयसा वापि शुद्धेन होमकर्म ह्य् उदाहृतम् मधुना घृतसंयुक्तं तिलं जुह्याद् विचक्षणि //
SK
साधयेत् सर्वकर्माणि वषत्कृतं जपिष्यति सर्वेषां गुह्यमन्त्राणां बीजमुद्रां प्रयोजयेत् //
SK
अप्रकाश्यम् इदं गुह्यं शिववक्त्राद् विनिःसृतम् यस् त्व् इदं ध्यायते नित्यं पूजयेन् मनसा जपेत् //
SK
स भुङ्क्ते विपुलान् भोगान् ईशानान्तपदं लभेत् //
SK
वीणाशिखा सार्धशतत्रयं यामलतन्त्रं समाप्तम् इति

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Vīṇāśikhatantra: GRETIL corpustei HTML transform of the Vīṇāśikhatantra.

Source