एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्यथा वदसि | अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमेणानुग्रहेण | परीन्दितास्तथागतेन बोधिसत्त्वा महासत्त्वाः परमया परीन्दनया | तेन हि सुभूते शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ऽहं ते - यथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यम् | एवं भगवन् इत्यायुष्यान् सुभूतिर्भगवतः प्रत्यश्रौषीत्
SK
भगवानस्यैतदवोचत् - इह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैव चित्तमुत्पादयितव्यम् - यावन्तः सुभूते सत्त्वाः सत्त्वधातौ सत्त्वसंग्रहेण संगृहीता अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनो वा, यावान् कश्चित्सत्त्वधातुः प्रज्ञप्यमानः प्रज्ञप्यते, ते च मया सर्वे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः | एवमपरिमाणानपि सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति | तत्कस्य हेतोः? सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः | तत्कस्य हेतोः? न स सुभूते बोधिसत्त्वो वक्तव्यो यस्य सत्त्वसंज्ञा प्रवर्तेत, जीवसंज्ञा वा पुद्गलसंज्ञा व प्रवर्तेत
SK
(Vअज्र्, Vऐद्य ७६) अपि तु खलु पुनः सुभुते न बोधिसत्त्वेन वस्तुप्रतिष्ठितेन दानं दातव्यम्, न क्वचित्प्रतिष्ठितेन दानं दातव्यम् | न रूपप्रतिष्ठितेन दानं दातव्यम् | न शब्दगन्धरसस्प्रष्टव्यधर्मेषु प्रतिष्ठितेन दानं दातव्यम् | एवं हि सूभूते बोधिसत्त्वेन महासत्त्वेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत् | तत्कस्य हेतोः? यः सुभूते बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणामुद्ग्रहीतुम् | तत्किं मन्यसे सुभूते सुकरं पूर्वस्यां दिशि आकाशस्य प्रमाणमुद्ग्रहीतुम्? सुभूतिराह - नो हीदं भगवन् | भगवानाह - एवं दक्षिणपश्चिमोत्तरासु अध ऊर्ध्वं दिग्विदिक्षु समन्ताद्दशसु दिक्षु सुकरमाकाशस्य प्रमाणमुद्ग्रहीतुम्? सुभूतिराह - नो हीदं भगवन् | भगवानाह - एवमेव सुभूते यो बोधिसत्त्वो ऽप्रतिष्ठितो दानं ददाति, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं प्रमाणमुद्ग्रहीतुम् | एवं हि सुभूते बोधिसत्त्वयानसंप्रस्थितेन दानं दातव्यं यथा न निमित्तसंज्ञायामपि प्रतितिष्ठेत्
भगवानाह - यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिने गङ्गानदीवालुकासमानात्मभावान् परित्यजेत्, एवं परित्यजन् गङ्गानदीवालुकासमान् कल्पांस्तानात्मभावान् परित्यजेत्, यश्च इतो धर्मपर्यायदन्तशश्चतुष्पादिकामपि गाथामुद्गृह्यपरेभ्यो देशयेत् संप्रकाशयेत्, अयमेव ततोनिदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम्
SK
अथ खल्वायुष्मान् सुभूतिर्धर्मवेगेनाश्रूणि प्रामुञ्चत् | सो ऽश्रूणि प्रमृज्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदयं धर्मपर्यायस्तथागतेन भाषितो ऽग्रयानसंप्रस्थितानां सत्त्वानामर्थाय, श्रेष्ठयानसंप्रस्थितानामर्थाय, यतो मे भगवन् ज्ञानमुत्पन्नम् | न मया भगवन् जात्वेवंरूपो धर्मपर्यायः श्रुतपूर्वः | परमेण ते भगवन् आश्चर्येण समन्वागता बोधिसत्त्वा भविष्यन्ति, ये इह सूत्रे भाष्यमाणे श्रुत्वा भूतसंज्ञामुत्पादयिष्यन्ति | तत्कस्य हेतोः? या चैषा भगवन् भूतसंज्ञा, सैव अभूतसंज्ञा | तस्मात्तथागतो भाषतेभूतसंज्ञा भ्ःतसंज्ञेति ||
SK
न मम भगवन् आश्चर्यं यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि अधिमुच्ये | ये ऽपि ते भगवन् सत्त्वा भविष्यन्त्यनागते ऽध्वनि पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमाने, ये इमं भगवन् धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति | अपि तु खलु पुनर्भगवन् न तेषामात्मसंज्ञा प्रवर्तिष्यते, न सत्त्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा प्रवर्तिष्यते, नापि तेषां काचित्संज्ञा नासंज्ञा प्रवर्तते | तत्कस्य हेतोः? या सा भगवन् आत्मसंज्ञा, सैवासंज्ञा | या सत्त्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा, सैवासंज्ञा | तत्कस्य हेतोः? सर्वसंज्ञापगता हि बुद्ध भगवन्तः ||
सचेत्पुनः सुभूते तेषां कुलपुत्राणां कुलदुहितॄणां वा अहं पुण्यस्कन्धं भाषेयम्, यावत्ते कुलपुत्रा वा कुलदुहितरो वा तस्मिन् समये पुण्यस्कन्धं प्रसविष्यन्ति, प्रतिग्रहीष्यन्ति, उन्मादं सत्त्वा अनुप्राप्नुयुश्चित्तविक्षेपं वा गच्छेयुः | अपि तु खलु पुनः सुभूते अचिन्त्यो ऽतुल्यो ऽयं धर्मपर्यायस्तथागतेन भाषितः | अस्य अचिन्त्य एव विपाकः प्रतिकाङ्क्षितव्यः
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - कथं भगवन् बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम्? भगवानाह - इह सुभूते बोधिसत्त्वयानसंप्रस्थितेन एवं चित्तमुत्पादयितव्यम् - सर्वे सत्त्वा मया अनुपधिशेषे निर्वाणधातौ परिनिर्वापयितव्याः | एवं स सत्त्वान् परिनिर्वाप्य न कश्चित्सत्त्वः परिनिर्वापितो भवति | तत्कस्य हेतोः? सचेत्सुभूते बोधिसत्त्वस्य सत्त्वसंज्ञा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः | जीवसंज्ञा वा यावत्पुद्गलसंज्ञा वा प्रवर्तेत, न स बोधिसत्त्व इति वक्तव्यः | तत्कस्य हेतोः? नास्ति सुभूते स कश्चिद्धर्मो यो बोधिसत्त्वयानसंप्रस्थितो नाम ||
अपि तु खलु पुनः सुभूते यः कश्चिदेवं वदेत् - तथागतो गच्छति वा आगच्छति वा तिष्ठति वा निषीदति वा, शय्यां वा कल्पयति, न मे सुभूते (स) भाषितस्यार्थमाजानाति | तत्कस्य हेतोः? तथागत इति सुभूते उच्यते न क्वचिद्गतो न कुतश्चिदागतः | तेनोच्यते तथागतो ऽर्हन् सम्यक्संबुद्ध इति
SK
यश्च खलु पुनः सुभूते कुलपुत्रो वा कुलदुहिता वा यावन्ति त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरजांसि, तावतां लोकधातूनामेवंरूपं मषिं कुर्यात् यावदेवमसंख्येयेन वीर्येण तद्यथापि नाम परमाणुसंचयः, तत्किं मन्यसे सुभूते - अपि नु बहुः स परमाणुसंचयो भवेत्? सुभूतिराह - एवमेतद्भगवन्, एवमेतत्सुगत | बहुः स परमाणुसंचयो भवेत् | तत्कस्य हेतोः? सचेद्भगवन् बहुः परमाणुसंचयो ऽभविष्यत्, न भगवानवक्ष्यत् - परमाणुसंचय इति | तत्कस्य हेतोः? यो ऽसौ भगवन् परमाणुसंचयस्तथागतेन भाषितः, असंचयः स तथागतेन भाषितः | तेनोच्यते परमाणुसंचय इति | यश्च तथागतेन भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति, अधातुः स तथागतेन भाषितः | तेनोच्यते त्रिसाहस्रमहासाहस्रो लोकधातुरिति | तत्कस्य हेतोः? सचेद्भगवन् लोकधातुरभविष्यत्, स एव पिण्डग्राहो (Vअज्र्, Vऐद्य ८९) ऽभविष्यत् | यश्चैव पिण्डग्राहस्तथागतेन भाषितः, अग्राहः स तथागतेन भाषितः | तेनोच्यते पिण्डग्राह इति | भगवानाह - पिण्डग्राहश्चैव सुभूते अव्यवहारो ऽनभिलाप्यः | न स धर्मो नाधर्मः | स च बालपृथग्जनैरुद्गृहीतः
SK
तत्कस्य हेतोः? यो हि कश्चित्सुभूते एवं वदेत् - आत्मदृष्टिस्तथागतेन भाषिता, सत्त्वदृष्टिर्जीवदृष्टिः पुद्गलदृष्टिस्तथागतेन भाषिता, अपि नु स सुभूते सम्यग्वदमानो वदेत्? सुभूतिराह - नो हीदं भगवन्, नो हीदं सुगत, न सम्यग्वदमानो वदेत् | तत्कस्य हेतोः? या सा भगवन् आत्मदृष्टिस्तथागतेन भाषिता, अदृष्टिः सा तथागतेन भाषिता | तेनोच्यते आत्मदृष्टिरिति ||