अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तमेतदवोचत् - अयं भगवन् सुभूतिः स्थविरः प्रज्ञापारमितायाः कृतशो ऽधीष्टो महायानमुपदेष्टव्यं मन्यते / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - नाहं भगवन् प्रज्ञापारमितां व्यतिक्रम्य महायानमवोचम् / भगवानाह - नो हीदं सुभूते / अनुलोमत्वं सुभूते प्रज्ञापारमिताया महायानमुपदिशसि / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - बुद्धानुभावाद्भगवन् / अपि नु खलु पुनर्भगवन् पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति / तत्कस्य हेतोर्नोपैति? रूपापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या, एवं वेदनासंज्ञासंस्काराः / (Vऐद्य १३) विज्ञानापर्यन्ततया हि बोधिसत्त्वापर्यन्तता वेदितव्या / रूपं बोधिसत्त्व इति नोपैति / इदम् अपि न विद्यते नोपलभ्यते / एवं वेदनासंज्ञासंस्काराः / विज्ञानं बोधिसत्त्व इति नोपैति, इदम् अपि न विद्यते नोपलभ्यते / एवं भगवन् सर्वेण सर्वं सर्वथा सर्वं बोधिसत्त्वधर्ममनुपलभमानो नाहं भगवन् तं धर्मं समनुपश्यामि यस्यैतन्नामधेयं यदुत बोधिसत्त्व इति / प्रज्ञापारमिताम् अपि न समनुपश्यामि नोपलभे / सर्वज्ञताम् अपि न समनुपश्यामि नोपलभे / सो ऽहं भगवन् सर्वेण सर्वं सर्वथा सर्वं तं धर्ममनुपलभमानो ऽसमनुपश्यन् कतमं धर्मं कतमेन धर्मेण कतमस्मिन् धर्मे ऽववदिष्यामि अनुशासिष्यामि? बुद्ध इति भगवन् नामधेयमात्रम् एतत् / बोधिसत्त्व इति भगवन् नामधेयमात्रम् एतत् / प्रज्ञापारमितेति भगवन् नामधेयमात्रम् एतत् / तच्च नामधेयमनभिनिर्वृत्तम् / यथा आत्मा आत्मेति च भगवन्नुच्यते, अत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मा / एवमस्वभावानां सर्वधर्माणां कतमत्तद्रूपं यदग्राह्यमनभिनिर्वृत्तम्? कतमे ते वेदनासंज्ञासंस्काराः? कतमत्तद्विज्ञानं यदग्राह्यमनभिनिर्वृत्तम्? एवमेतेषां सर्वधर्माणां या अस्वभावता, सा अनभिनिर्वृत्तिः / या च सर्वधर्माणामनभिनिर्वृत्तिर्न ते धर्माः / तत्किमनभिनिर्वृत्तिमनभिनिर्वृत्त्यां प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि? न चान्यत्र भगवन् अनभिनिर्वृत्तितः सर्वधर्मा वा बुद्धधर्मा वा बोधिसत्त्वधर्मा वा उपलभ्यन्ते, यो वा बोधाय चरेत् / सचेद्भगवन् एवं भाष्यमाणे एवं देश्यमाने एवमुपदिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते न विषीदति न विषादमापद्यते, नास्य विपृष्ठीभवति मानसं न भग्नपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, एवं वेदितव्यम् - चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् / भावयत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् / उपपरीक्षते ऽयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् / उपनिध्यायत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामिति / तत्कस्य हेतोः? यस्मिन् हि समये भगवन् बोधिसत्त्वो महासत्त्वः इमान् धर्मान् प्रज्ञापारमितायां व्युपपरीक्षते, तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति / एवं न वेदनां न संज्ञां न संस्कारान् / न विज्ञानमुपैति, न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति / तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम् / यो रूपस्याव्ययो न तद्रूपम् / इत्यनुत्पादश् च रूपं च अद्वयमेतदद्वैधीकारम् / इत्यव्ययश् च रूपं च अद्वयमेतदद्वैधीकारम् / यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता / एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम् / तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम् / इत्यनुत्पादश् च विज्ञानं च अद्वयमेतदद्वैधीकारम् / इत्यव्ययश् च विज्ञानं च अद्वयमेतदद्वैधीकारम् / यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्तैषा गणना कृता / एवं भगवन् प्रज्ञापारमितायां सर्वाकारं सर्वधर्मान् व्युपपरीक्षमाणः तस्मिन् समये न रूपमुपैति, न रूपमुपगच्छति, न रूपस्योत्पादं समनुपश्यति, न रूपस्य निरोधं समनुपश्यति / एवं न वेदनां न संज्ञां न संस्कारान् / न विज्ञानमुपैति, (Vऐद्य १४) न विज्ञानमुपगच्छति, न विज्ञानस्योत्पादं समनुपश्यति, न विज्ञानस्य निरोधं समनुपश्यति / तत्कस्य हेतोः? तथा हि यो रूपस्यानुत्पादो न तद्रूपम् / यो रूपस्याव्ययो न तद्रूपम् / इत्यनुत्पादश् च रूपं च अद्वयमेतदद्वैधीकारम् / इत्यव्ययश् च रूपं च अद्वयमेतदद्वैधीकारम् / यत्पुनरेतदुच्यते रूपमिति, अद्वयस्यैषा गणना कृता / एवं तथा हि यो वेदनायाः संज्ञायाः संस्काराणाम् / तथा हि यो विज्ञानस्यानुत्पादो न तद्विज्ञानम्, यो विज्ञानस्याव्ययो न तद्विज्ञानम् / इत्यनुत्पादश् च विज्ञानं च अद्वयमेतदद्वैधीकारम् / इत्यव्ययश् च विज्ञानः च अद्वयमेतदद्वैधीकारम् / यत्पुनरेतदुच्यते विज्ञानमिति, अद्वयस्यैषा गणना कृता //
SK
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - तेन हि यथाहमायुष्मतः सुभूतेर्भाषितस्यार्थमाजानामि, तथा बोधिसत्त्वो ऽप्यनुत्पादः / यदि च आयुष्मन् सुभूते बोधिसत्त्वो ऽप्यनुत्पादः किं बोधिसत्त्वो दुष्करचारिकां चरति? यानि वा तानि सत्त्वानां कृतशो दुःखान्युत्सहते प्रत्यनुभवितुम्? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेतदवोचत् - नाहमायुष्मन् शारिपुत्र इच्छामि बोधिसत्त्वं महासत्त्वं दुष्करचारिकां चरन्तम् नापि स बोधिसत्त्वो महासत्त्वो यो दुष्करसंज्ञया चरति / तत्कस्य हेतोः? न हि आयुष्मन् शारिपुत्र दुष्करसंज्ञां जनयित्वा शक्यो ऽप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कर्तुम् / अपि तु सुखसंज्ञामेव कृत्वा / सर्वसत्त्वानामन्तिके मातृसंज्ञां पितृसंज्ञां पुत्रसंज्ञां दुहितृसंज्ञां कृत्वा स्त्रीपुरुषेषु / एवमेताः संज्ञाः कृत्वा बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरति / तस्मान्मातृसंज्ञा पितृसंज्ञा पुत्रसंज्ञा दुहितृसंज्ञा बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके यावदात्मसंज्ञा उत्पादयितव्या / यथा आत्मा सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्यः, एवं सर्वसत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वदुःखेभ्यो मोचयितव्या इति / एवं च सर्वसत्त्वेषु संज्ञा उत्पादयितव्या - मयैते सर्वसत्त्वा न परित्यक्तव्याः / मयैते सर्वसत्त्वाः परिमोचयितव्या अपरिमाणतो दुःखस्कन्धात् / न च मयैतेषु चित्तप्रदोष उत्पादयितव्य अन्तशः शतशो ऽपि छिद्यमानेनेति / एवं हि बोधिसत्त्वेन महासत्त्वेन चित्तमुत्पादयितव्यम् सचेदेवंचित्तो विहरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति / पुनरपरमायुष्मन् शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम् - यथा सर्वेण सर्वं सर्वथा सर्वमात्मा न विद्यते नोपलभ्यते, एवं सर्वेण सर्वं सर्वथा सर्वं सर्वधर्मा न संविद्यन्ते नोपलभ्यन्ते / एवमाध्यात्मिकबाह्येषु सर्वधर्मेषु संज्ञा उत्पादयितव्या / सचेदेवंचित्तश्चरिष्यति, न दुष्करसंज्ञी चरिष्यति, न दुष्करसंज्ञी विहरिष्यति / यदप्यायुष्मन् शारिपुत्र एवमाह - अनुत्पादो बोधिसत्त्वो इति / एवमेतदायुष्मन् शारिपुत्र, एवम् एतत् / अनुत्पादो बोधिसत्त्व इति //
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमामन्त्रयते स्म - तेन हि कौशिक शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ऽहं ते यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् / शून्यतायां कौशिक तिष्ठता बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् / तेन हि कौशिक (Vऐद्य १८) बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन भवितव्यम् / न रूपे स्थातव्यम् / न वेदनायां न संज्ञायां न संस्कारेषु / न विज्ञाने स्थातव्यम् / न चक्षुषि स्थातव्यम् / न रूपे स्थातव्यम् / न चक्षुर्विज्ञाने स्थातव्यम् / न चक्षुःसंस्पर्शे स्थातव्यम् / न चक्षुःसंस्पर्शजायां वेदनायां स्थातव्यम् / एवं न श्रोत्रघ्राणजिह्वाकायमनःसु स्थातव्यम् / न शब्दगन्धरसस्प्रष्टव्यधर्मेषु, न श्रोत्रविज्ञाने, यावन्न मनोविज्ञाने / न मनःसंस्पर्शे, न मनःसंस्पर्शजायां वेदनायां स्थातव्यम् / न पृथिवीधातौ स्थातव्यम् / नाब्धातौ, न तेजोधातौ, न वायुधातौ, नाकाशधातौ, न विज्ञानधातौ स्थातव्यम् / न स्मृत्युपस्थानेषु स्थातव्यम् / न सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु, न मार्गाङ्गेषु स्थातव्यम् / न स्रोतआपत्तिफले स्थातव्यम् / न सकृदागामिफले, न अनागामिफले, नार्हत्त्वे स्थातव्यम् / न प्रत्येकबुद्धत्वे स्थातव्यम् / न बुद्धत्वे स्थातव्यम् / इति हि रूपमिति न स्थातव्यम् / इति हि वेदनेति, संज्ञेति, संस्कारा इति / इति हि विज्ञानमिति न स्थातव्यम् / इति हि चक्षुरिति, यावन्मनःसंस्पर्शजा वेदनेति न स्थातव्यम् / इति हि पृथिवीधातुरिति, यावद्विज्ञानधातुरिति न स्थातव्यम् / इति हि स्मृत्युपस्थानानीति न स्थातव्यम् / इति हि सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानीति, इति हि मार्गाङ्गानीति न स्थातव्यम् / इति हि स्रोतआपत्तिफलमिति न स्थातव्यम्, इति हि सकृदागामिफलमिति, अनागामिफलमिति, अर्हत्त्वमिति न स्थातव्यम् / इति हि प्रत्येकबुद्धत्वमिति न स्थातव्यम् / इति हि बुद्धत्वमिति न स्थातव्यम् / रूपं नित्यमनित्यमिति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं नित्यमनित्यमिति न स्थातव्यम् / रूपं सुखं दुःखमिति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं सुखं दुःखमिति न स्थातव्यम् / रूपं शून्यमशून्यमिति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शून्यमशून्यमिति न स्थातव्यम् / रूपमात्मानात्मेति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानमात्मानात्मेति न स्थातव्यम् / रूपं शुभमशुभमिति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शुभमशुभमिति न स्थातव्यम् / रूपं शून्यमुपलभ्यते वेति न स्थातव्यम् / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शून्यमुपलभ्यते वेति न स्थातव्यम् / स्रोतआपत्तिफलमसंस्कृतप्रभावितमिति न स्थातव्यम् / एवं सकृदागामिफलमनागामिफलमर्हत्त्वमसंस्कृतप्रभावितमिति न स्थातव्यम् / प्रत्येकबुद्धत्वमसंस्कृतप्रभावितमिति न स्थातव्यम् / स्रोतआपन्नो दक्षिणीय इति न स्थातव्यम् / स्रोतआपन्नाः सप्तकृतो भवपरमा इति न स्थातव्यम् / सकृदागामी दक्षिणीय इति न स्थातव्यम् / सकृदागाम्यपरिनिष्ठितत्त्वात्सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यतीति न स्थातव्यम् / अनागामी दक्षिणीय इति न स्थातव्यम् अनागामी अनागम्य इमं लोकं तत्रैव परिनिर्वास्यतीति न स्थातव्यम् / अर्हन् दक्षिणीय इति न स्थातव्यम् / अर्हन्निहैव अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति न स्थातव्यम् / प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम् / प्रत्येकबुद्धो ऽतिक्रम्य श्रावकभूमिमप्राप्य बुद्धभूमिं परिनिर्वास्यतीति न स्थातव्यम् / बुद्धो दक्षिणीय इति न स्थातव्यम् / बुद्धो ऽतिक्रम्य (Vऐद्य १९) पृथग्जनभूमिमतिक्रम्य श्रावकभूमिमतिक्रम्य प्रत्येकबुद्धभूमिमप्रभेयाणामसंख्येयानां सत्त्वानामर्थं कृत्वा अप्रमेयाण्यसंख्येयानि सत्त्वकोटीनियुतशतसहस्राणि परिनिर्वाप्य अप्रमेयानसंख्येयान् सत्त्वान् श्रावकप्रत्येकबुद्धसम्यक्संबुद्धत्वनियतान् कृत्वा बुद्धभूमौ स्थित्वा बुद्धकृत्यं कृत्वा अनुपधिशेषे निर्वाणधातौ बुद्धपरिनिर्वाणेन परिनिर्वास्यति इत्येवमप्यनेन न स्थातव्यम् //
अथ खलु पुनर् अपि तेषां देवपुत्राणामेतदभवत् - किंरूपा अस्य आर्यसुभूतेर्धार्मश्रवणिका एष्टव्याः? अथ खल्वायुष्मान् सुभूतिर्बुद्धानुभावेन तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म - मायानिर्मितसदृशा हि देवपुत्रा मम धार्मश्रवणिका एष्टव्याः / तत्कस्य हेतोः? तथा हि ते नैव श्रोष्यन्ति न च साक्षात्करिष्यन्ति //
SK
अथ खलु ते देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् - किं पुनरार्य सुभूते मायोपमास्ते सत्त्वा न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत् - मायोपमास्ते देवपुत्राः सत्त्वाः / स्वप्नोपमास्ते देवपुत्राः सत्त्वाः / इति हि माया च सत्त्वाश् च अद्वयमेतदद्वैधीकारम्, इति हि स्वप्नश् च सत्त्वाश् च अद्वयमेतदद्वैधीकारम् / सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः / स्रोतआपन्नो ऽपि मायोपमः स्वप्नोपमः / स्रोतआपत्तिफलम् अपि मायोपमं स्वप्नोपमम् / एवं सकृदागाम्य् अपि सकृदागामिफलमपि, अनागाम्य् अपि अनागामिफलमपि, अर्हन्न् अपि अर्हत्त्वम् अपि मायोपमं स्वप्नोपमम् / प्रत्येकबुद्धो ऽपि मायोपमः स्वप्नोपमः / प्रत्येकबुद्धत्वम् अपि मायोपमं स्वप्नोपमम् / सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपमः / सम्यक्संबुद्धत्वम् अपि मायोपमं स्वप्नोपमम् / अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् - सम्यक्संबुद्धो ऽप्यार्य सुभूते मायोपमः स्वप्नोपम इति वदसि? सम्यक्संबुद्धत्व् अपि मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह - निर्वाणम् अपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम् / ते देवपुत्रा आहुः - निर्वाणमप्यार्य सुभूते मायोपमं स्वप्नोपममिति वदसि? आयुष्मान् सुभूतिराह - तद्यदि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् / इति हि देवपुत्रा माया च निर्वाणं च अद्वयमेतदद्वैधीकारम् / इति हि स्वप्नश् च निर्वाणं च अद्वयमेतदद्वैधीकारम् //
SK
अथ खल्वायुष्मान् शारिपुत्रः, आयुष्मांश् च पूर्णो मैत्रायणीपुत्रः, आयुष्मांश् च महाकोष्ठिलः, आयुष्मांश् च महाकात्यायनः, आयुष्मांश् च महाकाशपः, अन्ये च महाश्रावका अनेकैर्बोधिसत्त्वसहस्रैः सार्धमायुष्मन्तं सुभूतिं स्थविरमामन्त्रयन्ते स्म - के ऽस्या आयुष्मन् सुभूते प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति? अथ खल्वायुष्मानानन्दस्तान् स्थविरानेतदवोचत् - ते खल्वायुष्मन्तो वेदितव्या अविनिवर्तनीया बोधिसत्त्वा (Vऐद्य २१) महासत्त्वाः, दृष्टिसंपन्ना वा पुद्गलाः, अर्हन्तो वा क्षीणास्रवाः, ये ऽस्याः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः प्रत्येषका भविष्यन्ति //
SK
अथ खल्वायुष्मान् सुभूतिः स्थविरस्तान् स्थविरानेतदवोचत् - नास्या आयुष्मन्तः प्रज्ञापारमिताया एवं निर्दिश्यमानायाः केचित्प्रत्येषका भविष्यन्ति / तत्कस्य हेतोः? तथा हि - अत्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते / तद्यथैवात्र न कश्चिद्धर्मः सूच्यते, न कश्चिद्धर्मः परिदीप्यते, न कश्चिद्धर्मः प्रज्ञप्यते, तथैवास्याः प्रज्ञापारमिताया एवं निर्दिश्यमानाया न कश्चित्प्रत्येषको भविष्यति //
SK
अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - अस्य धर्मपर्यायस्य आर्येण सुभूतिना भाष्यमाणस्य पूजार्थं यन्न्वहं पुष्पाण्यभिनिर्माय आर्यं सुभूतिमभ्यवकिरेयमिति / अथ खलु शक्रो देवानामिन्द्रस्तस्यां वेलायां पुष्पाण्यभिनिर्माय आयुष्मन्तं सुभूतिमभ्यवाकिरत् / अथ खल्वायुष्मतः सुभूतेः स्थविरस्य शक्रं देवानामिन्द्रमनुव्याहरणायैतदभूत् - न खलु पुनरिमानि पुष्पाणि मया त्रायस्त्रिंशेषु देवेषु प्रचरन्ति दृष्टपूर्वाणि, यानीमानि शक्रेण देवानामिन्द्रेण अभ्यवकीर्णानि / निर्मितान्येतानि पुष्पाणि / नैतानि पुष्पाणि वृक्षगुल्मलतानिर्जातानि, यानि शक्रेण देवानामिन्द्रेणाभ्यवकीर्णानि, मनोमयान्येतानि पुष्पाणीति / अथ खलु शक्रो देवानामिन्द्र आयुष्मतः सुभूतेश्चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं सुभूतिमेतदवोचत् - अनिर्जातान्येतान्यार्य सुभूते पुष्पाणि / तत्कस्य हेतोः? न हि मनोनिर्जातानि कानिचित्पुष्पाणि, नापि वृक्षगुल्मलतानिर्जातानि / अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - यत्त्वं कौशिक एवं वदसि - अनिर्जातान्येतानि पुष्पाणि, नैतानि मनोनिर्जातानि, नापि वृक्षगुल्मलतानिर्जातानीति / यत्कौशिक अनिर्जातं न तत्पुष्पम् / अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत् - गम्भीरप्रज्ञो बतायमार्यः सुभूतिः / तां च नाम पदप्रज्ञप्तिं निर्दिशति, तां च न विरोधयति, तां चोत्तानीकरोति, तामेव चोपदिशति / अथ खलु शक्रो देवानामिन्द्र आयुष्मतं सुभूतिमेतदवोचत् - एवमेतदार्य सुभूते, एवम् एतत् / एवं चात्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं यथा आर्यसुभूतिरुपदिशति / एवमुक्ते आयुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / एवमत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् / एवं शिक्षमाणः कौशिक बोधिसत्त्वो महासत्त्वो न स्रोतआपत्तिफले शिक्षते, न सकृदागामिफले, न अनागामिफले, नाहर्त्वे शिक्षते, न प्रत्येकबुद्धत्वे शिक्षते, न बुद्धत्वे शिक्षते / यो नासु भूमिषु शिक्षते, स बुद्धत्वे सर्वज्ञत्वे वा शिक्षते / यो बुद्धत्वे सर्वज्ञत्वे वा शिक्षते, सो ऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते / यो ऽप्रमेयेष्वसंख्येयेषु बुद्धधर्मेषु शिक्षते, स न रूपस्य विवृद्धये शिक्षते, न परिहाणाय / एवं स न वेदनाया न संज्ञाया न संस्काराणाम् / स न विज्ञानस्य विवृद्धये शिक्षते, न परिहाणाय / यो न रूपस्य विवृद्धये शिक्षते न परिहाणाय / एवं न वेदनाया न संज्ञाया न संस्काराणाम् / यो न विज्ञानस्य विवृद्धये शिक्षते न परिहाणाय, स न रूपस्य परिग्रहाय शिक्षते नोत्सर्गाय / (Vऐद्य २२) एवं स न वेदनाया न संज्ञाया न संस्काराणाम् / स न विज्ञानस्य परिग्रहाय शिक्षते, नोत्सर्गाय, नापि कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते / यो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते / एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति //
SK
अथ खल्वायुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिमेतदवोचत् - य आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानास्य शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते / एवं शिक्षमाण आयुष्मान् सुभूते बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति //
SK
आयुष्मान् सुभूतिराह - एवमेतदायुष्मन् शारिपुत्र, एवम् एतत् / य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्यचिद्धर्मस्य परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते, स न सर्वज्ञताया अपि परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते / सर्वबुद्धधर्माणाम् अपि न परिग्रहाय शिक्षते, नोत्पादाय नान्तर्धानाय शिक्षते / एवं चायुष्मन् शारिपुत्र शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वज्ञतायां शिक्षते, सर्वज्ञतायां निर्यास्यति //
SK
अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - प्रज्ञापारमिता आर्य शारिपुत्र बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्याः? शारिपुत्र आह - प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन आयुष्मतः सुभूतेः परिवर्ताद्गवेषितव्या / एवमुक्ते शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - कस्यैष आर्य शारिपुत्र अनुभावो वेदितव्यः? कस्यैतदधिष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते? आयुष्मान् शारिपुत्र आह - तथागतस्यैष कौशिक अनुभावो वेदितव्यः / तथागतस्यैतदधिष्ठानं वेदितव्यं यदायुष्मान् सुभूतिः प्रज्ञापारमितां भाषते / अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - यत्कौशिक एवं वदसि - कस्यैषो ऽनुभावो वेदितव्यः, कस्यैतदनुष्ठानं वेदितव्यं यदार्यसुभूतिः प्रज्ञापारमितां भाषते इति? तथागतस्यैष कौशिक अनुभावो वेदितव्यः / तथागतस्यैतदधिष्ठानं वेदितव्यं यदहं प्रज्ञापारमितां भाषे / यद् अपि कौशिक एवं वदसि - प्रज्ञापारमिता बोधिसत्त्वेन महासत्त्वेन कुतो गवेषितव्येति? प्रज्ञापारमिता कौशिक बोधिसत्त्वेन महासत्त्वेन न रूपाद्गवेषितव्या नाप्यन्यत्र रूपाद्गवेषितव्या / एवं न वेदनाया न संज्ञाया न संस्कारेभ्यः न विज्ञानाद्गवेषितव्याः, नाप्यन्यत्र विज्ञानाद्गवेषितव्या / तत्कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता, नाप्यन्यत्र रूपात्प्रज्ञापारमिता / एवं न वेदना न संज्ञा न संस्काराः / न विज्ञानं प्रज्ञापारमिता, नाप्यन्यत्र विज्ञानात्प्रज्ञापारमिता //
अथ खलु भगवान् ये तत्र देवपुत्राः पर्षदि संनिपतिताः संनिषण्णाश्चाभूवन्, याश् च भिक्षुभिक्षुण्युपासकोपासिकाः संनिपतिताः संनिषण्णाश्चाभूवन्, तान् देवपुत्रान् संनिपतितान् संनिषण्णांश् च विदित्वा, ताश् च सर्वाश्चतस्रः पर्षदः संनिपतिताः संनिषण्णाश् च विदित्वा, कामावचरान् रूपावचरांश् च देवपुत्रान् ब्रह्मकायिकांश् च देवपुत्रान् आभास्वरांश् च परीत्तशुभांश् च अकनिष्ठांश् च देवपुत्रान् साक्षिणः स्थापयित्वा, शक्रदेवेन्द्रप्रमुखान् कामावचरान् देवपुत्रान् महाब्रह्मप्रमुखांश् च ब्रह्मकायिकान् देवपुत्रानाभास्वरांश् च देवपुत्रानामन्त्रयते स्म - यो हि कश्चिद्देवपुत्राः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति, न तस्य मारो वा मारकायिका वा देवता अवतारप्रेक्षिण्यो ऽवतारगवेषिण्यो ऽवतारं लप्स्यन्ते / नापि तस्य कुलपुत्रस्य वा कुलदुहितुर्वा मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं लप्स्यन्ते / नापि स कुलपुत्रो वा कुलदुहिता वा विषमापरिहारेण कालं करिष्यति //
SK
पुनरपरं देवपुत्राः ये देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, यैश् च देवपुत्रैरियं प्रज्ञापारमिता नोद्गृहीता न धारिता न वाचिता न पर्यवाप्ता न प्रवर्तिता, ते देवपुत्रास्तं कुलपुत्र वा कुलदुहितरं वा उपसंक्रमितव्यं मंस्यन्ते, तस्य च कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्यान्तिकाच्छ्रोष्यन्ति, श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति / न च खलु पुनर्देवपुत्रास्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितामुद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतः प्रवर्तयमानस्य अरण्यगतस्य वा वृक्षमूलगतस्य वा शून्यागारगतस्य वा अभ्यवकाशगतस्य वा पथि गतस्य वा उत्पथगतस्य वा अटवीगतस्य वा महासमुद्रगतस्य वा तत्र तत्रोपसंक्रामतो वा चंक्रम्यमाणस्य वा स्थितस्य वा निषण्णस्य वा विपन्नस्य वा भयं वा भविष्यति, स्तम्भितत्वं वा भविष्यति, उत्पत्स्यते वा //
SK
अथ खलु चत्वारो महाराजानो भगवन्तमेतदवोचन् - आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा यानत्रये सत्त्वान् विनयति, न च सत्त्वसंज्ञामुत्पादयति / वयं भगवंस्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा रक्षावरणगुप्तिं संविधास्यामः, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति //
(Vऐद्य २६) अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यदिमां प्रज्ञापारमितामुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् स कुलपुत्रो वा कुलदुहिता वा इमान् यतो दृष्टधार्मिकान् गुणान् प्रतिलभते परिगृह्णाति, किं पुनर्भगवन् प्रज्ञापारमितायामुद्गृहीतायां सर्वाः षट् पारमिता उद्गृहीता भवन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / प्रज्ञापारमितायां कौशिक उद्गृहीतायां सर्वाः षट् पारमिता उद्गृहीता भवन्ति / पुनरपरं कौशिक प्रज्ञापारमितायामुद्गृहीतायां धारितायां वाचितायां पर्यवाप्तायां प्रवर्तितायां स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति / तान् कौशिक् सर्वान् शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ऽहं ते / साधु भगवन्निति शक्रो देवानामिन्द्रो भगवतः प्रत्यश्रौषीत् / भगवानेतदवोचत् - तत्र कौशिक ये मम धर्मं विग्रहीतव्यं मंस्यन्ते, विवदितव्यं मंस्यन्ते, विरोधयितव्यं मंस्यन्ते, तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानामुत्पन्नोत्पन्ना विग्रहा विवादा विरोधाः, पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति / तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न ते ऽभिप्रायाः परिपूरिं गमिष्यन्ति / तत्कस्य हेतोः? एवं ह्येतत्कौशिक भवति - य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्यैवं तान्युत्पन्नोत्पन्नान्यधिकरणानि पुनरेवान्तर्धास्यन्ति, न स्थास्यन्ति / तेषां विग्रहीतुकामानां विवदितुकामानां विरोधयितुकामानां न ते ऽभिप्रायाः परिपूरिं गमिष्यन्ति / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्गृह्णाति धारयति वाचयति पर्यवाप्नोति प्रवर्तयति देशयति उपदिशति उद्दिशति स्वाध्यायति / तद्यथापि नाम कौशिक मघी नामौषधी सर्वविषप्रशमनी / तत्र आशीविषेण जन्तुना बुभुक्षितेन आहारार्थिना आहारगवेषिणा कश्चिदेव प्राणकजातो जन्तुर्दृष्टो भवेत् / स आशीविषस्तं प्राणकजातं गन्धेनानुबध्नीयादनुगच्छेदाहारहेतोर्भक्षयितुकामः / अथ स प्राणकजातो येन सा मधी नामौषधी तेनोपसंक्रमेत्, तेनोपसंक्रम्य तिष्ठेत् / अथ स आशीविषस्तस्या ओषध्या गन्धेनैव प्रत्युदावर्तेत / तत्कस्य हेतोः? तथा हि तस्या ओषध्या भैषज्यगुणः स तादृशो यस्तस्याशीविषस्य तद्विषमभिभवति / एवं बलवती हि सा ओषधी / एवमेव कौशिक यः कुलपुत्रो वा कुलदुहिता व इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तस्य कौशिक यानि तान्युत्पन्नोत्पन्नान्यधिकरणानि विग्रहा विवादा विरोधा भविष्यन्ति, ते प्रज्ञापारमितायास्तेजसा बलेन स्थामतः प्रज्ञापारमिताबलाधानेन क्षिप्रं तत एवोपरंस्यन्ति उपशमिष्यन्ति अन्तर्धास्यन्ति न विवर्धिष्यन्ते / यतो यत एवोत्पत्स्यन्ते, तत्र तत्रैव निरोत्स्यन्ते अन्तर्धास्यन्ति, न विवर्धिष्यन्ते न स्थास्यन्ति / तत्कस्य हेतोः? प्रज्ञापारमिता हि रागादीनां यावन्निर्वाणग्राहस्योपशमयित्री, न विवर्धिकेति / चत्वारश् च तस्य महाराजानः (Vऐद्य २७) शक्रश् च देवानामिन्द्रो ब्रह्मा च सहापतिः सर्वे च बुद्धा भगवन्तो बोधिसत्त्वाश् च रक्षावरणगुप्तिं संविधास्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यतिः उद्देक्ष्यति स्वाध्यास्यति / अयं तेन कुलपुत्रेण वा कुलदुहिता वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति //
SK
पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, स आदेयवचनश् च भविष्यति, मृदुवचनश् च भविष्यति, मितवचनश् च भविष्यति, अप्रकीर्णवचनश् च भविष्यति, न च क्रोधाभिभूतो भविष्यति, न च मानाभिभूतो भविष्यति / तत्कस्य हेतोः? तथा हि तं प्रज्ञापारमिता परिदमयति, प्रज्ञापारमिता परिणमयति, न क्रोधं वर्धयति, न मानं वर्धयति / स नोपनाहं परिगृह्णाति, न व्यापादं परिगृह्णाति, नानुशयं धारयति / एवं चरतो ऽस्य कुलपुत्रस्य वा कुलदुहितुर्वा स्मृतिर्मैत्री चोत्पद्यते / तस्यैवं भवति - सचेदहं व्यापादमुत्पादयिष्यामि, तेनेन्द्रियाणि मे परिभेत्स्यन्ते, मुखवर्णश् च मे धक्ष्यते / अयुक्तं चैतन्मम यदहमनुत्तरायां सम्यक्संबोधौ संप्रस्थितः, तत्र शिक्षितुकामः, क्रोधस्य वशं गच्छेयम् / इत्येवं स क्षिप्रमेव स्मृतिं प्रतिलभते / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति / एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यथेयं प्रज्ञापारमिता परिदमनाय प्रत्युपस्थिता अनुनामाय बोधिसत्त्वानां महासत्त्वानाम् //
SK
भगवानाह - पुनरपरं कौशिक य इमां प्रज्ञापारमितां कुलपुत्रो वा कुलदुहिता वा उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, सचेत्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामेवमुद्गृह्णन् धारयन् वाचयन् पर्यवाप्नुवन् प्रवर्तयन् देशयन् उपदिशयन् उद्दिशन् स्वाध्यायन् संग्रामे वर्तमाने संग्रामशिरसि समारूढः स्यात् / तस्य संग्राममवतरतो वा अवतीर्णस्य वा अतिक्रामतो वा संग्राममध्यगतस्य वा तिष्ठतो वा निषण्णस्य वा अस्थानमेतत्कौशिक अनवकाशो यत्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा इमां प्रज्ञापारमितां मनसि कुर्वतो वा उद्गृह्णतो वा धारयतो वा वाचयतो वा पर्यवाप्नुवतो वा प्रवर्तयतो वा देशयतो वा उपदिशतो वा उद्दिशतो वा स्वाध्यायतो वा जीवितान्तरायो वा भवेत् / परोपक्रमेण जीवितान्तरायं सो ऽनुप्राप्नुयात्, नैतत्स्थानं विद्यते / सचेत्पुनस्तस्य कश्चित्कौशिक तत्र शस्त्रं वा दण्डं वा लोष्टं वा अन्यद्वा क्षिपेत्, नैतत्तस्य शरीरे निपतेत् / तत्कस्य हेतोः? महाविद्येयं कौशिक यदुत प्रज्ञापारमिता / अप्रमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता / अपरिमाणेयं कौशिक विद्या यदुत प्रज्ञापारमिता / अनुत्तरेयं कौशिक विद्या यदुत प्रज्ञापारमिता / असमेयं कौशिक विद्या यदुत प्रज्ञापारमिता / असमसमेयं कौशिक विद्या यदुत प्रज्ञापारमिता / तत्कस्य हेतोः? अत्र हि कौशिक (Vऐद्य २८) विद्यायां शिक्षमाणः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते, न परव्याबाधाय चेतयते, नोभयव्याबाधाय चेतयते / अत्र हि कौशिक विद्यायां शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सर्वज्ञज्ञानं च प्रतिलप्स्यते / तेन सो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वानां चित्तानि व्यवलोकयिष्यति / तत्कस्य हेतोः? अत्र हि कौशिक विद्यायां शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य न तत्किंचिदस्ति, यन्न प्राप्तं वा न ज्ञातं वा न साक्षात्कृतं वा स्यात् / तस्मात्सर्वज्ञज्ञानमित्युच्यते / अयम् अपि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा दृष्टधार्मिको गुणः परिगृहीतो भविष्यति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति //
SK
पुनरपरं कौशिक यत्रेयं प्रज्ञापारमिता अन्तशो लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयित्वा न सत्करिष्यते, नोद्ग्रहीष्यते, न धारयिष्यते, न वाचयिष्यते, न पर्यवाप्स्यते, न प्रवर्तयिष्यते, न देशयिष्यते, नोपदेक्ष्यते, नोद्देक्ष्यते, न स्वाध्यास्यते, न तत्र कौशिक सत्त्वानां मनुष्यो वा अमनुष्यो वा अवतारार्थिको ऽवतारगवेषी अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकम् / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति //
SK
पुनरपरं कौशिक तद्यथापि नाम ये बोधिमण्डगता वा बोधिमण्डपरिसामन्तगता वा बोधिमण्डाभ्यन्तरगता वा बोधिवृक्षमूलगता वा मनुष्या वा अमनुष्या वा, तिर्यग्योनिगतानप्युपादाय, यावन्न ते शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा स्थापयित्वा पूर्वकर्मविपाकम् / तत्कस्य हेतोः? तत्र हि अतीतानागतप्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धा अभिसंबुद्धा अभिसंभोत्स्यन्ते अभिसंबुध्यन्ते च, ये सर्वसत्त्वानामभयमवैरमनुत्रासं प्रभावयन्ति प्रकाशयन्ति / एवमेव कौशिक यत्र कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यति उपदेक्ष्यति उद्देक्ष्यति स्वाध्यास्यति, तत्र हि कौशिक सत्त्वा न शक्या मनुष्यैर्वा अमनुष्यैर्वा विहेठयितुं वा व्यापादयितुं वा आवेशयितुं वा, स्थापयित्वा पूर्वकर्मविपाकम् / तत्कस्य हेतोः? अनयैव हि कौशिक प्रज्ञापारमितया पृथिवीप्रदेशः सत्त्वानां चैत्यभूतः कृतो वन्दनीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः सत्करणीयो गुरुकरणीयः, त्राणं शरणं लयनं परायणं कृतो भविष्यति तत्रोपगतानां सत्त्वानाम् / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति //
SK
एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - यो भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, यश् च (Vऐद्य २९) तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य शरीराणि स्तूपेषु प्रतिष्ठापयेत् परिगृह्णीयात् धारयेद्धा, तांश् च तथैव दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, कतरस्तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत्? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - तेन हि कौशिक त्वामेवात्र प्रतिप्रक्ष्यामि / यथा ते क्षमते, तथा व्याकुर्याः / तत्किं मन्यसे कौशिक यो ऽयं तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञतात्मभावो ऽभिनिर्वर्तितः, स कतमस्यां प्रतिपदि शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - इहैव भगवन् भगवता प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरा सम्यक्संबोधिः सर्वज्ञता प्रतिलब्धा अभिसंबुद्धा / भगवानाह - तस्मात्तर्हि कौशिक नानेनात्मभावशरीरप्रतिलम्भेन तथागतस्तथागत इति संख्यां गच्छति / सर्वज्ञतायां तु प्रतिलब्धायां तथागतस्तथागत इति संख्यां गच्छति / येयं कौशिक सर्वज्ञता तथागतस्यार्हतः सम्यक्संबुद्धस्य, प्रज्ञापारमितानिर्जातैषा / एष च कौशिक तथागतस्यात्मभावशरीरप्रतिलम्भः प्रज्ञापारमितोपायकौशल्यनिर्जातः सन् सर्वज्ञज्ञानाश्रयभूतो भवति / एनं ह्याश्रयं निश्रित्य सर्वज्ञज्ञानस्य प्रभावना भवति, बुद्धशरीरप्रभावना भवति, धर्मशरीरप्रभावना भवति, संघशरीरप्रभावना भवति / इत्येवं सर्वज्ञज्ञानहेतुको ऽयमात्मभावशरीरप्रतिलम्भः सर्वज्ञज्ञानाश्रयभूतत्वात्सर्वसत्त्वानां चैत्यभूतो वन्दनीयः सत्करणीयो गुरुकरणीयो माननीयः पूजनीयो ऽर्चनीयो ऽपचायनीयः संवृत्तो भवति / एवं च मम परिनिर्वृतस्यापि सतः एषां शरीराणां पूजा भविष्यति / तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां वा कृत्वा स्थापयेत्, एनां च दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, अयमेव कौशिक तयोः कुलपुत्रयोः कुलदुहित्रोर्वा बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा पूजा कृता भविष्यति, यः कुलपुत्रो वा कुलदुहिता वा इह प्रज्ञापारमितायां लिख्यमानायां पुस्तकगतायां वा सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां पूजां च विविधां कुर्यात्, अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? सर्वज्ञज्ञानस्य हि कौशिक तेन पूजा कृता भविष्यति, यः प्रज्ञापारमितायै पूजां करिष्यति //
SK
एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - य इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न लिखिष्यन्ति, नोद्ग्रहीष्यन्ति न धारयिष्यन्ति, न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति, तां चैनां प्रज्ञापारमितां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिर्न सत्करिष्यन्ति, न गुरुकरिष्यन्ति, न (Vऐद्य ३०) मानयिष्यन्ति, न पूजयिष्यन्ति, नार्चयिष्यन्ति, नापचायिष्यन्ति, किं नु ते भगवन् न ज्ञास्यन्ति एवं महार्थिका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? किं नु ते भगवन् न वेत्स्यन्ति - एवं महानुशंसा एवं महाफला एवं महाविपाका भगवतोक्ता प्रज्ञापारमितायाः पूजा कृता भविष्यतीति? न च ते वेदयिष्यन्ति, उत ज्ञास्यन्ति वेत्स्यन्ति, वेदयिष्यन्ति, न च पुनः श्रद्धास्यन्ति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - तत्किं मन्यसे कौशिक कियन्तस्ते जाम्बूद्वीपका मनुष्या ते बुद्धे ऽवेत्य प्रसादेन समन्वागताः, ये धर्मे ऽवेत्य प्रसादेन समन्वागताः, ये संघे ऽवेत्य प्रसादेन समन्वागताः? एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - अल्पकास्ते भगवन् जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्य प्रसादेन समन्वागताः, ये धर्मे ऽवेत्य प्रसादेन समन्वागताः, ये संघे ऽवेत्य प्रसादेन समन्वागताः / एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / अल्पकास्ते जाम्बूद्वीपका मनुष्या ये बुद्धे ऽवेत्य प्रसादेन समन्वागताः, ये धर्मे ऽवेत्य प्रसादेन समन्वागताः, ये संघे ऽवेत्य प्रसादेन समन्वागताः / तेभ्यः कौशिक अल्पेभ्यो ऽल्पतरकास्ते, ये स्रोतआपत्तिफलं प्राप्नुवन्ति, ततः सकृदागामिफलमनागामिफलम् / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्तेये ऽर्हत्त्व प्राप्नुवन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रत्येकबोधिं साक्षात्कुर्वन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य तं चित्तोत्पादं बृंहयन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये ऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य उपबृंहयित्वा च आरब्धवीर्या विहरन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रज्ञापारमितायां योगमापद्यन्ते / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्ति / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अविनिवर्तनीयायां बोधिसत्त्वभूमाववतिष्ठन्ते / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / तेभ्यो ऽप्यल्पेभ्यो ऽल्पतरकास्ते ये प्रज्ञापारमितायां चरन्तो घटमाना अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते / ते ते कौशिक बोधिसत्त्वा महासत्त्वा ये अविनिवर्तनीयायां बोधिसत्त्वभूमौ स्थित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य अन्येषामध्याशयसंपन्नानां कुलपुत्राणां कुलदुहितॄणां च प्रज्ञापारमितायां शिक्षमाणानां घटमानानां प्रज्ञापारमितामुपदिशन्ति च उद्दिशन्ति / ते चोद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति उपदेशयन्ति उपदिशन्ति उद्दिशन्ति स्वाध्यायन्ति / तां चैनां प्रज्ञापारमितां पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः, सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति अर्चयन्ति अपचायन्ति / सन्ति खलु पुनः कौशिक अप्रमेया असंख्येयाः सत्त्वाः, ये बोधिचित्तमुत्पादयन्ति, बोधिचित्तमुत्पाद्य बोधिचित्तमुपबृंहयन्ति, बोधिचित्तमुपबृंहयित्वा बोधाय चरन्ति / तेषां खलु पुनः कौशिक अप्रमेयाणामसंख्येयानां सत्त्वानां बोधाय चरताम् अपि यद्येको वा द्वौ वा अविनिवर्तनीयायां (Vऐद्य ३१) बोधिसत्त्वभूमाववतिष्ठेयाताम् / तत्कस्य हेतोः? दुरभिसंभवा हि कौशिक अनुत्तरा सम्यक्संबोधिर्हीनवीर्यैः कुसीदैर्हीनसत्त्वैर्हीनचित्तैर्हीनसंज्ञैर्हीनाधिमुक्तिकैर्हीनप्रज्ञैः / तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन इयमेव प्रज्ञापारमिता सुखं अभीक्ष्णं श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या परिप्रष्टव्या / तत्कस्य हेतोः? तथा हि स एवं ज्ञास्यति - अत्र प्रज्ञापारमितायां तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वचर्यां चरन् शिक्षितः / अस्माभिरप्यत्र शिक्षितव्यम् / एषो ऽस्माकं शास्तेति / तिष्ठतो वा कौशिक परिनिर्वृतस्य वा तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वैर्महासत्त्वैः प्रज्ञापारमितैव प्रतिसर्तव्या / तस्मात्तर्हि कौशिक यः कश्चित्कुलपुत्रो वा कुलदुहिता वा तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य पूजायै कोटिशः सप्तरत्नमयांस्तथागतधातुगर्भान् स्तूपान् कारयेत् / कारयित्वा च तान् यावज्जीवं दिव्यैः पुष्पैर् दिव्यैर् धूपैर् दिव्यैर् गन्धैर् दिव्यैर् माल्यैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्रैर् दिव्यैर् ध्वजैर् दिव्याभिर् घण्टाभिः, दिव्याभिः पताकाभिः, समन्ताच् च (Vऐद्य ३२) दीपमालाभिः, बहुविधाभिश् च दिव्याभिः पूजाभिः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति / तिष्ठतु खलु पुनः कौशिक अयं जम्बूद्वीपः सप्तरत्नमयानां तथागतधातुगर्भाणां स्तूपानां परिपूर्णः / सचेत्कौशिक यावन्तश्चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छ - त्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश् च दिव्याभि, पूजाभिः, सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् अर्चयेत् अपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहु पुण्यं प्रसवेयुः? शक्र आह - बहु भगवन, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेत् वाचयेत् पर्यवाप्नुयात् प्रवर्तयेत् देशयेत् उपदिशेत् उद्दिशेत् स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश् चूर्णैर् वस्त्रैश् छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तिष्ठन्तु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाः / यावन्तः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं (Vऐद्य ३३) तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो ऽभूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तिष्ठन्तु खलु पुनः कौशिक साहस्रे चूलिकायां लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्यैः पुष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैर्विलेपनैर्दिर्व्यैश्चूर्णैर्दिव्यैश्छत्रैर्दिव्यैर् ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश् च दिव्याभिः, पूजाभिः, सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्धधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तिष्ठन्तु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, तेषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च (Vऐद्य ३४) यावज्जीवं दिव्यैः पूष्पैर्दिव्यैर्धूपैर्दिव्यैर्गन्धैर्दिव्यैर्माल्यैर्दिव्यैश्चूर्णैर्दिव्यैर्वस्त्रैर्दिव्यैश्छत्रैर्दिव्यैर्ध्वजैर्दिव्याभिर्घण्टाभिर्दिव्याभिः पताकाभिः, समन्ताच्च दिव्यदीपमालाभिः, बहुविधाभिश् च दिव्याभिः पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, तत्किं मन्यसे कौशिक अपि नु ते सर्वसत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत् परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत्, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर् विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तिष्ठन्तु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, येषामेकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, तं च यावज्जीवं दिव्याभिः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजघण्टापताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत्, ये ऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, सचेत्पुनस्ते सर्वे अपूर्वाचरमं मानुष्यकमात्मभावं प्रतिलभेरन् परिकल्पमुपादाय, तत एकैकः सत्त्व एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, एकैकश् च सत्त्वस्तान् सर्वान् स्तूपान् कारयेत्, कारयित्वा च तान् प्रतिष्ठाप्य कल्पं वा कल्पावशेषं वा सर्ववाद्यैः सर्वगीतैः सर्वनृत्यैः सर्वतूर्यतालावचरैर्दिव्यैः सर्वपुष्पैः सर्वधूपैः सर्वगन्धै सर्वमाल्यैः सर्वविलेपनैः सर्वचूर्णैः सर्ववस्त्रैर्दिव्याभिः सर्वच्छत्रध्वजघण्टापताकाभिः समन्ताच्च सर्वदीपमालाभिः, बहुविधाभिश् च दिव्यमानुषिकीभिः सर्वपूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्, एते एवंरूपया पुण्यक्रियया ते सर्वे सत्त्वास्तानप्रमेयानसंख्येयान् स्तूपान् प्रतिष्ठाप्य एवंरूपां पूजां कारयेयुः, तत्किं मन्यसे कौशिक अपि नु ते सर्वे सत्त्वास्ततोनिदानं बहुपुण्यं प्रसवेयुः? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत् स्थापयेत् सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो (Vऐद्य ३५) भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पूष्पैर्धूपैर्गन्धैर्माल्यैर् विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति //
SK
एवमुक्तो शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - एवमेतद्भगवन्, एवमेतत्सुगत / प्रज्ञापारमितां हि भगवन् सत्कुर्वता गुरुकुर्वता मानयता पूजयता अर्चयता अपचायता कुलपुत्रेण वा कुलदुहित्रा वा अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बुद्धज्ञानपरिज्ञातेषु सर्वलोकधातुषु अत्यन्ततया सत्कृता गुरुकृता मानिताः पूजिता अर्चिता अपचायिताश् च भवन्ति / तिष्ठन्तु खलु पुनर्भगवन् अनेन पर्यायेण त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाः, ये ऽपि ते भगवन् गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सर्वसत्त्वाः, तत्र एकैकः सत्त्वः एकैकं सप्तरत्नमयं तथागतधातुगर्भं स्तूपं कारयेत्, एकैकश् च सत्त्वस्तान् सर्वान् स्तूपान् कारयेत्, कारयित्वा च तान् प्रतिष्ठाप्य कल्पं वा कल्पावशेषं वा सर्ववाद्यैः सर्वगीतैः सर्वनृत्यैः सर्वतूर्यतालावचरैर्दिव्यैः सर्वपुष्पैः सर्वधूपैः सर्वगन्धैः सर्वमाल्यैः सर्वविलेपनैः सर्वचूर्णैः सर्ववस्त्रैर्दिव्याभिः सर्वच्छत्रध्वजघण्टापताकाभिः समन्ताच्च सर्वदीपमालाभिः, बहुविधाभिश् च दिव्यमानुषिकीभिः सर्वपूजाभिः सत्कुर्याद्गुरुकुर्यान्मानयेत् पूजयेदर्चयेदपचायेत्, अयमेव तेभ्यः स भगवन् सर्वसत्त्वेभ्य कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत् पर्यवाप्नुयात् प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत् स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत् //
SK
अथ खलु भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - एवमेतत्कौशिक, एवम् एतत् / बहुतरं स कौशिक कुलपुत्र वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / अप्रमेयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / असंख्येयं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / अचिन्त्यं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / अतुल्यं स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / अपरिमाणं स कौशिक (Vऐद्य ३६) कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि कौशिक तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता / सर्वज्ञतानिर्जाता च तथागतशरीराणां पूजा / तस्मात्तर्हि कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्, स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां च अनुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत् पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूणैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयेत्, अस्य कौशिक पुण्याभिसंस्कारस्य असौ पूर्वकस्तथागतधातुगर्भः सप्तरत्नमयः स्तूपसंस्कारजपुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति, सहस्रतमीमपि, शतसहस्रतमीमपि, कोटीतमीमपि, कोटीशततमीमपि, कोटीसहस्रतमीमपि, कोटीशतसहस्रतमीमपि, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति / संख्याम् अपि कलाम् अपि गणनाम् अपि उपमाम् अपि औपम्यम् अपि उपनिसाम् अपि उपनिषदम् अपि न क्षमते //
पुनरपरं कौशिक इमां प्रज्ञापारमितामुद्गृह्णंतां धारयतां वाचयतां पर्यवाप्नुवतां प्रवर्तयतां देशयतामुपदिशतामुद्दिशतां स्वाध्यायतां लिखतां मनसि कुर्वतां समन्वाहरतां च कुलपुत्राणां कुलदुहितॄणां वा तन्निदानं बहवो दृष्टधार्मिका गुणाः प्रतिकाङ्क्षितव्याः / एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कतमैः पुनर्भगवन् दृष्टधार्मिकैर्गुणैः समन्वागतास्ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति ? भगवानाह - न ते कौशिक कुलपुत्रा वा कुलदुहितरो वा विषमापरिहारेण कालं करिष्यन्ति, न विषेण कालं करिष्यन्ति, न शस्त्रेण कालं करिष्यन्ति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यन्ति, न दण्डेन कालं करिष्यन्ति, न परिपक्रमेण कालं करिष्यन्ति / उत्पन्नोत्पन्नाश्चैषामुपद्रवा राजतो वा राजपुत्रतो वा राजमन्त्रितो वा राजमहामात्रतो वा इमां प्रज्ञापारमितां समन्वाहरतां वा स्वाध्यायतां वा पुनरेवान्तर्धास्यन्ति / तेषां च एनां प्रज्ञापारमितां पुनः पुनः समन्वाहरतां वा स्वाध्यायतां वा ये तत्रोपसंक्रामेयुरवतारप्रेक्षिणो ऽवतारगवेषिणो राजानो वा राजपुत्रा वा राजमन्त्रिणो वा राजमहामात्रा वा, न ते ऽवतारं लप्स्यन्ते यथापि नाम प्रज्ञापारमितापरिगृहीतत्वात् / उपसंक्रान्तानां च तेषां राज्ञां वा राजपुत्राणां वा राजमन्त्रिणां वा, राजमहामात्राणां वा आलपितुकामता भविष्यति, अभिभाषितुकामता भविष्यति, प्रतिसंमोदितव्यं च ते मंस्यन्ते / तत्कस्य हेतोः? इयं हि कौशिक प्रज्ञापारमिता सर्वसत्त्वानामन्तिके मैत्रोपसंहारेण मैत्रचित्ततया करुणोपसंहारेण करुणचित्ततया प्रत्युपस्थिता / तस्मात्तर्हि कौशिक ये ऽपि ते व्यालसरीसृपकान्तारमध्यगताः, तेषां कुलपुत्राणां कुलदुहितॄणां वा मनुष्या वा अमनुष्या वा अवतारप्रेक्षिणो ऽवतारगवेषिणः, ते ऽपि तेषां कौशिक अवतारं न लप्स्यन्ते स्थापयित्वा पूर्वकर्मविपाकम् //
भगवानाह - साधु साधु कौशिक / तस्य खलु पुनः कौशिक कुलपुत्रस्य कुलदुहितुर्वा इमां प्रज्ञापारमितां स्वाध्यायतो बहूनि देवपुत्रशतान्युपसंक्रमिष्यन्ति / बहूनि देवपुत्रसहस्राणि (Vऐद्य ४२) बहूनि देवपुत्रशतसहस्राणि धर्मश्रवणायोपसंक्रमिष्यन्ति / ते च देवपुत्रा धर्मं शृण्वन्तस्तस्य धर्मभाणकस्य प्रतिभानमुपसंहर्तव्यं मंस्यन्ते / यदापि स धर्मभाणको न जल्पितुकामो भविष्यति, तदापि तस्य ते देवपुत्रास्तेनैव धर्मगौरवेण प्रतिभानमुपसंहर्तव्यं मंस्यन्ते, यथा तस्य कुलपुत्रस्य वा कुलदुहितुर्वा भाषितुमेव छन्दो भविष्यति / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति //
SK
पुनरपरं कौशिक तस्य कुलपुत्रस्य कुलदुहितुर्वा इमां प्रज्ञापारमितां भाषमाणस्य चतसॄणां पर्षदामग्रतो नावलीनचित्तता भविष्यति - मा खलु मां कश्चित्पर्यनुयुञ्जीत उपालम्भाभिप्राय इति / तत्कस्य हेतोः? तथा हि तस्य प्रज्ञापारमिता रक्षावरणगुप्तिं करोति / स उपालम्भान् अपि प्रज्ञापारमिताविहारी न समनुपश्यति, उपालम्भकरान् अपि प्रज्ञापारमिताविहारी न समनुपश्यति, यो ऽप्युपालभ्येत तम् अपि न समनुपश्यति, ताम् अपि प्रज्ञापारमितां न समनुपश्यति / एवं प्रज्ञापारमितापरिगृहीतस्य कुलपुत्रस्य वा कुलदुहितुर्वा अनेन पर्यायेण न कश्चित्पर्यनुयोगो भविष्यति / स च नोत्रसिष्यति, न संत्रसिष्यति, न संत्रासमापत्स्यते / इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति //
SK
पुनरपरं कौशिक स कुलपुत्रो वा कुलदुहिता वा प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितश्रमणब्राह्मणानां हितानां च, प्रतिबलश् च भविष्यति, शक्तश् च भविष्यति उत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहाय, परैश् च प्रत्यनुयुज्यमानः प्रत्यनुयोगव्याकरणसमर्थो भविष्यति / इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामुद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति देशयिष्यत्युपदेक्ष्यत्युद्देक्ष्यति स्वाध्यास्यति //
SK
यत्र खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयिष्यति पूजयिष्यति, तत्र कौशिक ये केचिच्चातुर्महाराजकायिकेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्र आगन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्य धारयित्वा वाचयित्वा पर्यावाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य (Vऐद्य ४३) स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / एवं ये केचित्कौशिक त्रायस्त्रिंशेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्य उद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / ये ऽपि केचित्कौशिक यामेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / ये ऽपि केचित्कौशिक तुषितेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / ये ऽपि केचित्कौशिक निर्माणरतिषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / ये ऽपि केचित्कौशिक परनिर्मितवशवर्तिषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / एवं ये ऽपि केचित्कौशिक रूपावचरेषु देवेषु देवपुत्रा यावन्तो ब्रह्मलोके ब्रह्मकायिका देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्ति उपदेक्ष्यन्ति उद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / मा ते ऽत्र कौशिक एवं भूद्यथा ब्रह्मकायिका एवेति / यथा ब्रह्मकायिकाः, एवं ये ऽपि केचित्कौशिक ब्रह्मपुरोहितेषु देवेषु (Vऐद्य ४४) देवपुत्रा..........पेयालम् / एवं ये ऽपि केचित्कौशिक महाब्रह्मासु परीत्ताभेष्वप्रमाणाभेष्वाभास्वरेषु परीत्तसुभेष्वप्रमाणशुभेषु शुभकृत्स्नेष्वनभ्रकेषु पुण्यप्रसवेषु बृहत्फलेष्वसंज्ञिसत्त्वेष्वबृहेष्वतपेषु सुदृशेषु सुदर्शनेषु / ये ऽपि केचित्कौशिक अकनिष्ठेषु देवेषु देवपुत्रा अनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / एवं च कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा चित्तमुत्पादयितव्यम् - ये केचिद्दशसु दिक्षु अप्रमेयेष्वसंख्येयेषु लोकधातुषु देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्याः, ते इतः पुस्तकात्प्रज्ञापारमितां पश्यन्तु वन्दन्तां नमस्कुर्वन्तु उद्गृह्णन्तु धारयन्तु पर्यवाप्नुवन्तु प्रवर्तयन्तु देशयन्तु उपदिशन्तु उद्दिशन्तु स्वाध्यायन्तु / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वा उपदिश्योद्दिश्य स्वाध्याय्य पुनरेव स्वभवनानि गच्छन्तु - तेषामिदं धर्मदानमेव दत्तं भवत्विति / मा ते ऽत्र कौशिक एवं भूत् - ये अस्मिन्नेव चातुर्महाद्वीपके लोकधातौ कामावचरा रूपावचराश् च देवपुत्रा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, ते एव केवलं तत्रागन्तव्यं मंस्यन्त इति / न ते कौशिक एवं द्रष्टव्यम् / अपि तु खलु पुनः कौशिक यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ कामावचरा रूपावचराश् च देवपुत्रा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः, ते ऽपि तत्रागन्तव्यं मंस्यन्ते / ते ऽपि तत्रागत्य एनां प्रज्ञापारमितां पुस्तकगतां प्रेक्षिष्यन्ते वन्दिष्यन्ते नमस्करिष्यन्त्युद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति / प्रेक्ष्य वन्दित्वा नमस्कृत्योद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य पुनरेव प्रक्रमितव्यं मंस्यन्ते / तस्य खलु पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर्वा गृहं वा लयनं वा प्रासादो वा सुरक्षितो भविष्यति / न च तस्य कश्चिद्विहेठको भविष्यति स्थापयित्वा पूर्वकर्मविपाकेन / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति - यत्र हि नाम एवं महौजस्का देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा आगन्तव्यं मंस्यन्ते //
SK
एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कथं पुनर्भगवन् स कुलपुत्रो वा कुलदुहिता वा एवं जानीयात् - इह देवा वा नागा वा यक्षा वा गन्धर्वा वा असुरा वा गरुडा वा किन्नरा वा महोरगा व मनुष्या वा अमनुष्या वा आगच्छन्ति इमां प्रज्ञापारमितां श्रोतुं द्रष्टुं वन्दितुं नमस्कर्तुमुद्ग्रहीतुं धारयितुं वाचयितुं पर्यवाप्तुं प्रवर्तयितुं देशयितुमुपदेष्टुमुद्देष्टुं स्वाध्यातुमिति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र उदारमवभासं संजानीते, निष्ठा तेन कुलपुत्रेण वा (Vऐद्य ४५) कुलदुहित्रा वा तत्र गन्तव्या - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो वा किन्नरो वा महोरगो वा मनुष्यो वा अमनुष्यो वा आगत इति, उपसंक्रान्त इति / पुनरपरं सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र अमानुषं गन्धं घ्रास्यत्यनाघ्रातपूर्वम्, घ्रात्वा च तद्गन्धं निष्ठा तेन कुलपुत्रेण वा कुलदुहित्रा वा तत्र गन्तव्या - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो वा किन्नरो वा महोरगो वा मनुष्यो वा अमनुष्यो वा आगत इति, उपसंक्रान्त इति //
SK
पुनरपरं सचेत्कौशिक कुलपुत्रो वा कुलदुहिता वा तत्र अमानुषं गन्धं घ्रास्यति अनाघ्रातपूर्वम्, घ्रात्वा च तद्गन्धं निष्ठा तेन कुलपुत्रेण वा कुलदुहित्रा तत्र गन्तव्याः, - इह देवो वा नागो वा यक्षो वा गन्धर्वो वा असुरो वा गरुडो व किन्नरो वा महोरगो वा मनुष्यो वा[अमनुष्यो वा]आगत इति, उपसंक्रान्त इति / पुनरपरं सचेत्कौशिक कुलपुत्रो व कुलदुहिता वा चौक्षसमुदाचारो भविष्यति, शुचिसमुदाचारो भविष्यति, तस्य तया चौक्षसमुदाचारतया शुचिसमुदाचारतया ते देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा आगन्तव्यं मंस्यन्ते / ये च तत्र देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्या अमनुष्या वा आगता भविष्यन्ति, ते तस्य तया चौक्षसमुदाचारतया शुचिसमुदाचारतया आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भविष्यन्ति / याश् च तत्र अल्पौजस्का अल्पौजस्का देवता अध्युषिता भविष्यन्ति, तास्ततो ऽपक्रमितव्यं मंस्यन्ते / तत्कस्य हेतोः? तेषामेव हि महौजस्कानां महौजस्कानां देवानां नागान यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणां ममनुष्याणां वा श्रियं च तेजश् च गौरवं च असहमाना एव ता अल्पौजस्का अल्पौजस्का देवता ततो ऽपक्रमितव्यं मंस्यन्ते / यथा यथा खलु पुनः कौशिक ते महौजस्का महौजस्का देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्या अमनुष्या वा अभीक्ष्णमुपसंक्रमितव्यं मंस्यन्ते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा प्रसादबहुलो भविष्यति / इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति / तेन खलु पुनः कौशिक कुलपुत्रेण वा कुलदुहित्रा वा तस्य धर्मनेत्रीस्थानस्य परिसामन्तके ऽशुचिरचौक्षसमुदाचारो न प्रचारयितव्यः तस्यां गुरुगौरवतापरिपूरिमुपादाय //
SK
पुनरपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा न कायक्लमथो न चित्तक्लमथ उत्पत्स्यते / स सुखमेव शय्यां कल्पयिष्यति, सुखं च प्रक्रमिष्यति, सुप्तश् च सन् न पापकान् स्वप्नान् द्रक्षति, पश्यंश् च पुनस्तथागतानेवार्हतः सम्यक्संबुद्धान् द्रक्ष्यति, स्तूपानेव द्रक्ष्यति, बोधिसत्त्वानेव द्रक्ष्यति, तथागतश्रावकानेव द्रक्ष्यति / शब्दांश् च शृण्वन् पारमिताशब्दानेव श्रोष्यति, बोधिपक्षानेव धर्मान् द्रक्ष्यति, बोधिवृक्षानेव द्रक्ष्यति, तेषु च तथागतानेवार्हतः (Vऐद्य ४६) सम्यक्संबुद्धानभिसंबुध्यमानान् द्रक्ष्यति / तथा अभिसंबुद्धानां च धर्मचक्रप्रवर्तनं द्रक्ष्यति, बहूंश् च बोधिसत्त्वानेव द्रक्ष्यति इमामेव प्रज्ञापारमितां संगायमानान् प्रज्ञापारमितासंगीतिरतान् - एवं सर्वज्ञता परिग्रहीतव्या, एवं बुद्धक्षेत्रं विशोधयितव्यम्, इत्युपायकौशलं च उपदिशतः / उदारं च बुद्धानां भगवतामभिसंबोधिशब्दं श्रोष्यति - अमुष्यां दिशि अमुष्मिन् दिग्भागे अमुष्मिन् लोकधातौ अमुको ऽसौ नाम्ना तथागतो ऽर्हन् सम्यक्संबुद्धो बहुभिर्बोधिसत्त्वश्रावकाणां शतैर्बहुभिर्बोधिसत्त्वश्रावकसहस्रैर् बहुभिर्बोधिसत्त्वश्रावकशतसहस्रैर् बहुभिर्बोधिसत्त्वश्रावककोटीभिर् बहुभिर्बोधिसत्त्वश्रावककोटीशतैर् बहुभिर्बोधिसत्त्वश्रावककोटीसहस्रैः बहुभिर्बोधिसत्त्वश्रावककोटीशतसहस्रैर्बहुभिर्बोधिसत्त्वश्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयतीति / यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमानेवंरूपान् स्वप्नान् द्रक्ष्यति, स सुखमेव स्वप्स्यति, सुखं च प्रतिभोत्स्यते, ओजःप्रक्षिप्तं च कायं सुखं च प्रतिसंवेदयिष्यति, लघु लध्वेव च प्रतिसंवेदयिष्यति / न चास्य अधिमात्रया आहारगृद्ध्या चित्तसंततिरुत्पत्स्यते / मृदुका च अस्य आहारसंज्ञा भवति / तद्यथापि नाम कौशिक भिक्षोर्योगाचारस्य समाधेर्व्युत्थितस्य मनसिकारपरिष्यन्दितेन चित्तेन न बलवत्याहारे गृद्धिर्भवति, मृदुका चास्य आहारसंज्ञा भवति, एवमेव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर्वा न बलवत्याहारे गृद्धिर्भविष्यति / मृदुका चास्य आहारसंज्ञा भविष्यति / तत्कस्य हेतोः? एवं ह्येतत्कौशिक भवति - यथापि नाम प्रज्ञापारमिताभावनायोगानुयुक्तत्वात्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा तथा ह्यस्य अमनुष्याः काये ओज उपसंहर्तव्यं मंस्यन्ते / इमान् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृह्णाति //
SK
पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा पूजापूर्वंगमं स्थापयेत् पूजयेन्नोद्गृह्णीयान्न धारयेन्न वाचयेन्न पर्यवाप्नुयात् न प्रवर्तयेन्न देशयेन्नोपदिशेन्नोद्दिशेन्न स्वाध्यायेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति / यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामभिश्रद्दधदवकल्पयन्नधिमुच्य प्रसन्नचित्तो बोधाय चित्तमुत्पाद्य अध्याशयतः शृणुयादुद्गृह्णीयाद्धारयेद्वाचयेत्पर्यवाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत्, परेभ्यश् च विस्तरेण संप्रकाशयेत्, अर्थमस्या विवृणुयात्, मनसान्ववेक्षेत, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत, अन्तशः पुस्तकगताम् अपि कृत्वा धारयेत्स्थापयेत्सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / तां चैनां प्रज्ञापारमितां सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेदर्चयेदपचायेत्पुष्पैर्धूपैर्गन्धैर्माल्यैर्विले - पनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः बहुविधाभिश् च पूजाभिः पूजयेत्, अयमेव ततः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवति / तस्मात्तर्हि कौशिक इमान् दृष्टधार्मिकान् विशिष्टान् गुणान् परिगृहीतुकामेन कुलपुत्रेण वा कुलदुहित्रा वा इयमेव प्रज्ञापारमिता अभिश्रद्धातव्या (Vऐद्य ४७) अवकल्पयितव्या अधिभोक्तव्या / प्रसन्नचित्तेन बोधाय चित्तमुत्पाद्य सत्कृत्य अध्याशयेन श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या, परेभ्यश् च विस्तरेण संप्रकाशयितव्या, अर्थतो विवरितव्या, मनसान्ववेक्षितव्या, यथाधिकया च प्रज्ञया अत्र परिमीमांसामापद्येत / अन्तशः पुस्तकगताम् अपि कृत्वा स्थापयितव्या पूजयितव्या सद्धर्मचिरस्थितिहेतोः - मा बुद्धनेत्रीसमुच्छेदो भूत्, मा सद्धर्मान्तर्धानम् / बोधिसत्त्वानां महासत्त्वानां चानुग्रहोपसंहारः कृतो भविष्यति नेत्र्यवैकल्येनेति / अर्थिकानां च कुलपुत्राणां कुलदुहितॄणां च संविभागं करिष्यामि, मम च परेषां च कल्याणसत्त्वानां बुद्धनेत्रीमहाचक्षुरवैकल्यता भविष्यतीति / सदा च सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या पुष्पैर्धूपैर्गन्धैर्माल्यैर्विलेपनैश्चूर्णैर्वस्त्रैश्छत्रैर्ध्वजैर्घण्टाभिः पताकाभिः, समन्ताच्च दीपमालाभिः, बहुविधाभिश् च पूजाभिः पूजयितव्येति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामप्रमेयगुणधारणपारमितास्तूपसत्कारपरिवर्तो नाम तृतीयः //
SK
ASP_४: गुणपरिकीर्तनपरिवर्तश्चतुर्थः /
SK
पुनरपरं भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म - सचेत्कौशिक अयं ते जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणो ऽनयोर्द्वयोर्भागयोः स्थापितयोः कतमं त्वं कौशिक भागं गृह्णीयाः? शक्र आह - सचेन्मे भगवन् अयं जम्बूद्वीपः परिपूर्णश्चूलिकाबद्धस्तथागतशरीराणां दीयेत, इयं च प्रज्ञापारमिता लिखित्वोपनाम्येत, तत एकतरेण भागेन प्रवार्यमाणो ऽनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / तत्कस्य हेतोः? यथापि नाम तथागतनेत्रीचित्रीकारेण / एतद्धि तथागतानां भूतार्थिकं शरीरम् / तत्कस्य हेतोः? उक्तं ह्येतद्भगवता - धर्मकाया बुद्धा भगवन्तः / मा खलु पुनरिमं भिक्षवः सत्कायं कायं मन्यध्वम् / धर्मकायपरिनिष्पत्तितो मां भिक्षवो द्रक्ष्यथ / एष च तथागतकायो भूतकोटिप्रभावितो द्रष्टव्यो यदुत प्रज्ञापारमिता / न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवन् इतः प्रज्ञापारमितातो निर्जातानि तथागतशरीराणि पूजां लभन्ते / तस्मात्तर्हि भगवन् अनयैव प्रज्ञापारमितया पूजितया तेषाम् अपि तथागतशरीराणां परिपूर्णा पूजा कृता भवति / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जातत्त्वात्तथागतशरीराणाम् / तद्यथापि नाम भगवन् सुधर्मायां देवसभायामहं यस्मिन् समये दिव्ये स्वके आसने निषण्णो भवामि, तदा मम देवपुत्रा उपस्थानायागच्छन्ति / यस्मिन् समये न निषण्णो भवामि, अथ तस्मिन् समये यन्ममासनं तत्र देवपुत्रा मम गौरवेण तदासनं नमस्कृत्य प्रदक्षिणीकृत्य पुनरेव प्रक्रामन्ति / तत्कस्य हेतोः? इह हि किल आसने निषद्य शक्रो देवानामिन्द्रो देवानां त्रायस्त्रिंशानां धर्मं देशयतीति / एवमेव भगवन् महेशाख्यहेतुप्रत्ययभूता प्रज्ञापारमिता / तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वज्ञताया आहारिका / सर्वज्ञतायाश् च तथागतशरीराण्याश्रयभूतानि / न तु तानि प्रत्ययभूतानि, न कारणभूतानि ज्ञानस्योत्पादाय / एवमेव भगवन् सर्वज्ञज्ञानहेतुका तथागतशरीरेषु पूजा कृता भवति / तस्मात्तर्हि भगवन् अनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / न खलु पुनर्मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितत्वात्पूजां लभन्ते / तिष्ठतु खलु पुनर्भगवन् अयं जम्बूद्वीपस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः / तिष्ठतु चातुर्महाद्वीपको लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः / तिष्ठतु साहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः / तिष्ठतु भगवन् द्विसाहस्रो मध्यमो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः / अयमेव भगवंस्त्रिसाहस्रमहासाहस्रो लोकधातुस्तथागतशरीराणां परिपूर्णश्चूलिकाबद्धः, एको भागः कृत्वा स्थाप्येत, इयं च प्रज्ञापारमिता लिखित्वा द्वितीयो भागः स्थाप्येत / अनयोर्द्वयोर्भागयोः स्थापितयोरेकतरेण भागेन प्रवार्यमाणो ऽनयोर्द्वयोर्भागयोः स्थापितयोर्यस्ते भागो ऽभिप्रेतस्तमेकं भागं गृहाणेति, तत्र इमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / न खलु (Vऐद्य ४९) पुनर्भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवंस्तानि तथागतशरीराणि प्रज्ञापारमितापरिभावितानि पूजां लभन्ते / तथागतशरीराणि हि सर्वज्ञज्ञानाश्रयभूतानि / तद् अपि सर्वज्ञज्ञानं प्रज्ञापारमितानिर्जातम् / तस्मात्तर्हि भगवन् अनयोर्द्वयोर्भागयोः स्थापितयोरिमामेवाहं भगवन् प्रज्ञापारमितां परिगृह्णीयाम् / न खलु पुनर् मे भगवंस्तेषु तथागतशरीरेष्वगौरवम् / गौरवमेव मे भगवंस्तेषु तथागतशरीरेषु / अपि तु खलु पुनर्भगवन् इतः प्रज्ञापारमितातो निर्जातानि तानि तथागतशरीराणि पूजां लभन्ते यदुत प्रज्ञापारमितापरिभावितत्वात् / तद्यथापि नाम भगवन् अनर्घं मणिरत्नमेभिरेवंरूपैर्गुणैः समन्वागतं स्यात् / तद्यथा - तद्यत्र यत्र स्थाप्येत, तत्र तत्र मनुष्या वा अमनुष्या वा अवतारं न लभेरन् / यत्र यत्र वा अमनुष्यगृहीतः कश्चिद्भवेत् पुरुषो वा स्त्री वा, तत्र तत्र तस्मिन् मणिरत्ने प्रवेशितमात्रे सो ऽमनुष्यस्ततो ऽपक्रामेत् / वातेनापि बाध्यमानस्य धम्यमाने शरीरे तन्मणिरत्नं स्थाप्येत / तस्य तं वातं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / पित्तेनापि दह्यमाने शरीरे स्थाप्येत / तस्य तद् अपि पित्तं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / श्लेष्मणापि परिगृद्धे सर्वतो बाध्यमाने शरीरे स्थाप्येत, तस्य तम् अपि श्लेष्माणं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / सांनिपातिकेनापि व्याधिना दुःखितस्य शरीरे स्थाप्येत, तस्य तम् अपि सांनिपातिकं व्याधिं निगृह्णीयात्, न विवर्धयेत्, उपशमयेत् / अन्धकारतमिस्रायां च रात्रावप्यवभासं कुर्यात् / उष्णे चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेशः शीतलो भवेत् / शीते चापि वर्तमाने यस्मिन् पृथिवीप्रदेशे स्थाप्येत, स पृथिवीप्रदेश उष्णो भवेत् / यस्मिंश् च पृथिवीप्रदेशे आशीविषा अनुविचरेयुः, तथा अन्ये ऽपि क्षुद्रजन्तवः, तत्रापि पृथिवीप्रदेशे धार्येत, स्थापितं वा भवेत्, ते ऽप्याशीविषास्ते च क्षुद्रजन्तवस्ततो ऽपक्रामेयुः / सचेद्भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्टो भवेत्, तस्य तन्मणिरत्नं दश्येत, तस्य सहदंशनेनैव मणिरत्नस्य तद्विषं प्रतिहन्येत विगच्छेत् / एभिश्चान्यैश् च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् / येषाम् अपि केषांचिद्भगवन् अक्षिष्वर्बुदं वा तिमिरं वा अक्षिरोगो वा पटलं वा भवेत्, तेषां च तन्मणिरत्नमक्षिषु स्थाप्येत, तेषां स्थापितमात्रेणैव ते ऽक्षिदोषा निर्घातं प्रशमं गच्छेयुः / एतैश् च अन्यैश् च भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् / यत्र चोदके स्थाप्येत, तदप्युदकमेकवर्णं कुर्यात्स्वकेन वर्णेन / सचेत्पाण्डरेण वस्त्रेण परिवेष्ट्य उदके प्रक्षिप्येत, तदुदकं पाण्डरीकुर्यात् / एवं सचेन्नीलेन पीतेन लोहितेन माञ्जिष्ठेन एतेषामन्येषां वा नानाप्रकाराणां वस्त्राणामन्यतमेन वस्त्रेण तन्मणिरत्नं वेष्टयित्वा वा बद्ध्वा वा उदके प्रक्षिप्येत, तेन तेन वस्त्ररागेण तत्तत्स्वभाववर्णं तदुदकं कुर्यात् / यो ऽपि तस्योदकस्य कलुषभावस्तम् अपि प्रसादयेत् / एभिर् अपि भगवन् एवंरूपैर्गुणैः समन्वागतं तन्मणिरत्नं भवेत् //
(Vऐद्य ५७) पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा स्वयं च वाचयेत्, परेभ्यश् च लिखित्वा पूर्ववद्दद्यात्, अयत्नतः कौशिक पूर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / पुनरपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितामर्थकुशलो वाचयेत्, परेभ्यश् च लिखित्वा पूर्ववद्दद्यात्, सार्थां सव्यञ्जनामुपदिशेत् परिदीपयेत्, अयत्नतः कौशिक स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् //
SK
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - इयम् अपि भगवन् प्रज्ञापारमिता उपदेष्टव्याः? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - इयम् अपि कौशिक प्रज्ञापारमिता उपदेष्टव्या अबुध्यमानस्य कुलपुत्रस्य वा कुलदुहितुर्वा / तत्कस्य हेतोः? उत्पत्स्यते हि कौशिक अनागते ऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका / तत्र अबुध्यमानः कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो मा प्रणंक्षीत्तां प्रज्ञापारमिता प्रतिवर्णिकां श्रुत्वा //
SK
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कथं भगवन् अनागते ऽध्वनि प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या - इयं सा प्रज्ञापारमिताप्रतिवर्णिकोपदिश्यत इति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - भविष्यन्ति कौशिक अनागते ऽध्वनि एके भिक्षवः अभावितकाया अभावितशीला अभावितचित्ता अभावितप्रज्ञा एडमूकजातीया प्रज्ञापरिहीणाः / ते प्रज्ञापारमितामुपदेक्ष्याम इति तस्याः प्रतिवर्णिकामुपदेक्ष्यन्ति / कथं च कौशिक प्रज्ञापारमिताप्रतिवर्णिकामुपदेक्ष्यन्ति? रूपविनाशो रूपानित्यतेत्युपदेक्ष्यन्ति / एवं वेदनासंज्ञासंस्काराः / विज्ञानविनाशो विज्ञानानित्यतेत्युपदेक्ष्यन्ति / एवं चोपदेक्ष्यन्ति - य एवं गवेषयिष्यति, स प्रज्ञापारमितायां चरिष्यतीति / इयं सा कौशिक प्रज्ञापारमिताप्रतिवर्णिका वेदितव्या / न खलु पुनः कौशिक रूपविनाशो रूपानित्यता द्रष्टव्या / एवं वेदनासंज्ञासंस्काराः / न खलु पुनः कौशिक विज्ञानविनाशो विज्ञानानित्यता द्रष्टव्या / सचेदेवं पश्यति, प्रज्ञापारमिताप्रतिवर्णिकायां चरति / तस्मात्तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमिताया अर्थ उपदेष्टव्यः / प्रज्ञापारमिताया अर्थमुपदिशन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् //
SK
पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति (Vऐद्य ५८) समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते //
SK
तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //
SK
तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //
SK
तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //
SK
तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् //
SK
तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् स्रोतआपत्तिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो व कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं (Vऐद्य ५९) चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषाम् अपि त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक स्रोतआपत्तिफलं प्रभाव्यते //
SK
पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वान् सकृदागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्यशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समदापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्यभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ (Vऐद्य ६०) सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठातु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् सकृदागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव कौशिक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक सकृदागामिफलं प्रभाव्यते //
SK
पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यावन्तो जम्बूद्वीपे सत्त्वाः, तान् सर्वाननागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन् बहु सुगत //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां (Vऐद्य ६१) सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेवं त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते / तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चतुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वाननागामिफले प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अनागामिफलं प्रभाव्यते //
SK
(Vऐद्य ६२) पुनरपरं कौशिक यो हि कश्चिदेव कुलपुत्रो वा कुलदुहिता व यावन्तो जम्बूद्वीपे सत्त्वाः, तान् अपि सर्वानर्हत्त्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते / एवं चास्य उत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकान् सर्वसत्त्वानर्हत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानर्हत्त्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु (Vऐद्य ६३) त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिके अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्या अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि उपनिषद् अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव, यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक अर्हत्त्वं प्रभाव्यते / एवं च अस्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसि / इति //
SK
पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगतः / भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत् य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वाय अध्याशयेन दद्यात्, अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, उद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति (Vऐद्य ६४) समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व / अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते / एवं चास्योत्साहं वर्धयिष्यति - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेव स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, प्रत्येकबुद्धत्वं प्रभावयिष्यति, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति / तिष्ठतु खलु पुनः कौशिक जम्बूद्वीपकान् सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोअकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, ये ऽपि केचित्कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वान् प्रत्येकबुद्धत्वे प्रतिष्ठाप्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तान् अपि सर्वान् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबुद्धत्वे प्रतिष्ठापयेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितामन्तशः पुस्तकगताम् अपि कृत्वा अभिश्रद्दधदभिश्रद्दधते, अवकल्पयन्नवकल्पयते, अधिमुञ्चन्नधिमुञ्चते, प्रसन्नचित्तः प्रसन्नचित्ताय, अध्याशयसंपन्नो ऽध्याशयसंपन्नाय बोधाय चित्तमुत्पाद्य समुत्पादितबोधिचित्ताय बोधिसत्त्वायाध्याशयेन दद्यात्, (Vऐद्य ६५) अन्तशो लिखनायापि वाचनायापि अकिलासितया संपादयिष्यति, अद्युक्तो ऽमुं ग्राहयिष्यति, संदर्शयिष्यति समादापयिष्यति समुत्तेजयिष्यति संप्रहर्षयिष्यति, वाचा नेष्यति विनेष्यति अनुनेष्यति, अर्थमस्या अस्मै संप्रकाशयिष्यति, एवं चास्य चित्तं विशोधयिष्यति, निर्विचिकित्सं करिष्यति, एवं चैनं वक्ष्यति - एहि त्वं कुलपुत्र अस्मिन्नेव बोधिसत्त्वमार्गे शिक्षस्व - अत्र हि त्वं शिक्षमाणश्चरन् व्यायच्छमानः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / अभिसंबुध्य च अपरिमितं सत्त्वधातुमनुत्तरे उपधिसंक्षये ऽभिविनेष्यसि यदुत भूतकोटिप्रभावनतायामिति / एवं च वाचं भाषेत - एतेषामेव त्वं कुलपुत्र धर्माणां लाभी भव यदुत प्रज्ञापारमिताप्रतिसंयुक्तानामिति / अयमेव ततो बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? अतो हि कौशिक प्रत्येकबुद्धत्वं प्रभाव्यते / एवं चास्य उत्साहं वर्धयिष्यसि - यथा यथा हि त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तथा तथा त्वमनुपूर्वेण बुद्धधर्माणां लाभी भविष्यसि, आसन्नश् च भविष्यस्यनुत्तरायाः सम्यक्संबोधेः / अत्र हि त्वं शिक्षायां शिक्षमाणश्चरन् व्यायच्छमानः स्रोतआपत्तिफलं प्रभावयिष्यसि, सकृदागामिफलं प्रभावयिष्यसि, अनागामिफलं प्रभावयिष्यसि, अर्हत्त्वं प्रभावयिष्यसि, सम्यक्संबुद्धत्वं प्रभावयिष्यसीति //
SK
पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, तेषां सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तं समुत्पादयेत्, यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् / यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते / अत्रैव प्रज्ञापारमितां भावयन् वृद्धिं विरूढिं विपुलतां गतः परिपूरयिष्यति बुद्धधर्मानिति / अयं तस्मात्पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? नियतमेषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति / तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकानां सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, तेषाम् अपि सर्वेषां (Vऐद्य ६६) कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, तेषाम् अपि सर्वेषां कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेत् / यश्चान्यः कश्चित्कौशिक कुलपुत्रो वा कुलदुहिता वा तेषां सर्वेषामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तेभ्य इमां प्रज्ञापारमितां लिखित्वा दद्यात् / यो वा कौशिक कुलपुत्रो वा कुलदुहिता वा अविनिवर्तनीयाय बोधिसत्त्वाय महासत्त्वाय एनां प्रज्ञापारमितां लिखित्वा दद्यात्, उपनामयेत्, अत्रैव प्रज्ञापारमितायां शिक्षिष्यते, योगमापत्स्यते / एवमस्येयं प्रज्ञापारमिता भूयस्या मात्रया भावनां वृद्धिं विरूढिं विपुलतां परिपूरिं गमिष्यतीति / अयं कौशिअक ततः पौर्वकात्कुलपुत्रतः कुलदुहितृतो वा सकाशाद्बहुतरं पुण्यं प्रसवेत् / तत्कस्य हेतोः? नियतमेषो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां दुःखस्यान्तं करिष्यतीति //
SK
पुनरपरं कौशिक यावन्तो जम्बूद्वीपे सत्त्वाः, ते सर्वे अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत् / यश् च तेभ्यः कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि उपनिषद् अपि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यात्, उपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् तिष्ठतु खलु पुनः कौशिक जाम्बूद्वीपकेभ्यः सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक चातुर्महाद्वीपके लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक साहस्रे चूलिके लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा (Vऐद्य ६७) दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक साहस्रे चूलिके लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तिष्ठतु खलु पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वेभ्यो ऽविनिवर्तनीयेभ्य इमां प्रज्ञापारमितामुपनाम्य पुण्याभिसंस्कारः, यावन्तः कौशिक गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते ऽपि सर्वे ऽविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेः / तेभ्यो ऽपि कश्चिदेव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत् / तत्किं मन्यसे कौशिक अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? शक्र आह - बहु भगवन्, बहु सुगत / संख्यापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् / गणनापि उपमापि औपम्यम् अपि उपनिसापि भगवंस्तस्य पुण्यस्कन्धस्य न सुकरा कर्तुम् //
SK
भगवानाह - अतः खलु पुनः स कौशिक कुलपुत्रो व कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यस्तेषामविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेभ्य इमां प्रज्ञापारमितां पुस्तकलिखितां कृत्वा दद्यादुपनामयेत्, सार्थां सव्यञ्जनामुपदिशेत्, इह च तान् प्रज्ञापारमितायामववदेदनुशिष्यात् / अथापरः कौशिक बोधिसत्त्वो महासत्त्व उत्पद्येत, स एवं वदेत् - अहमेतेषां क्षिप्रतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति / यस्तं कौशिक कुलपुत्रो वा कुलदुहिता वा क्षिप्राभिज्ञतरं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायामववदेदनुशिष्यात्, अयं ततः पौर्वकात्कुलपुत्रात्कुलदुहितुर्वा सकाशाद्बहुतरं पुण्यं प्रसवेत् //
SK
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - यथा यथा भगवन् बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तथा तथा प्रज्ञापारमितायामववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायामवोद्यमानो ऽनुशिष्यमाणस्तथताया आसन्नीभवति / तथताया आसन्नीभवन् येषां परिभुङ्के चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्, तेषां तान् कारान् कृतान् महाफलान् करोति महानुशंसान् / अतः स बहुतरं पुण्यं प्रसवति / (Vऐद्य ६८) तत्कस्य हेतोः? एवं ह्येतद्भगवन् भवति - यद्बोधिसत्त्वो महासत्त्व आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः //
SK
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - साधु साधु कौशिक यस्त्वं बोधिसत्त्वयानिकानां पुद्गलानामुत्साहं ददासि अनुगृह्णीषे अनुपरिवारयसि / एवं च कौशिक त्वया करणीयम् - य आर्यश्रावकः सर्वसत्त्वानामनुग्रहं कर्तुकामः, स बोधिसत्त्वानां महासत्त्वानामनुत्तरायां सम्यक्संबोधावुत्साहं वर्धयति अनुगृह्णीते ऽनुपरिवारयति, एवमेतत्करणीयम् / तत्कस्य हेतोः? अतःप्रसूता हि बोधिसत्त्वानां महासत्त्वानामनुत्तरा सम्यक्संबोधिः / यदि हि बोधिसत्त्वा महासत्त्वा एतद्बोधिचित्तं नोत्पादयेरन्, न चैते बोधिसत्त्वा महासत्त्वा अनुत्तरायां सम्यक्संबोधौ शिक्षेरन्, न षट्पारमितासु शिक्षेरन्, अशिक्षमाणा अनुत्तरां सम्यक्संबोधिं नाभिसंबुध्येरन् / यस्मात्तर्हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वशिक्षायामासु षट्पारमितासु शिक्षन्ते, तस्मादेतद्बोधिचित्तमुत्पादयन्ते, तस्मादनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्त इति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां पुण्यपर्यायपरिवर्तो नाम पञ्चमः //
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - किमियं भगवन् प्रज्ञापारमिता सर्वज्ञताम् अपि नार्पयति? भगवानाह - यत्कौशिक एवं वदसि - किमियं प्रज्ञापारमिता सर्वज्ञताम् अपि नार्पयतीति? न यथोपलम्भस्तथा अर्पयति, न यथा नाम तथार्पयति, न यथाभिसंस्कारस्तथार्पयति / शक्र आह - कथं तर्हि भगवन्नर्पयति? भगवानाह - यथा कौशिक नार्पयति तथार्पयति / शक्र आह - आश्चर्यं भगवन् यावदियं प्रज्ञापारमिता न कंचिद्धर्ममुत्पादयति, न कंचिद्धर्मं निरोधयति / सर्वधर्माणामनुत्पादाय अनिरोधाय प्रत्युपस्थिता अनुपस्थिता प्रज्ञापारमिता //
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - सचेदेवम् अपि भगवन् बोधिसत्त्वो महासत्त्वो संज्ञास्यते, दूरीकरिष्यति इमां प्रज्ञापारमिताम्, रिक्तीकरिष्यति इमां प्रज्ञापारमिताम्, तुच्छीकरिष्यति इमां प्रज्ञापारमिताम्, न करिष्यति इमां प्रज्ञापारमिताम् / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / अस्त्येष सुभूते पर्यायो येन (Vऐद्य ८८) पर्यायेण दूरीकरिष्यतीमां प्रज्ञापारमिताम्, रिक्तीकरिष्यतीमां प्रज्ञापारमिताम्, तुच्छीकरिष्यतीमां प्रज्ञापारमिताम्, न करिष्यतीमां प्रज्ञापारमिताम् / तत्कस्य हेतोः? प्रज्ञापारमितायां हि सुभूते परिदीपितायां न रूपं परिदीपितं भवति / न वेदना न संज्ञा न संस्काराः / न विज्ञानं परिदीपितं भवति / न स्रोतआपत्तिफलं परिदीपितं भवति / न सकृदागामिफलं परिदीपितं भवति / न अनागामिफलं परिदीपितं भवति / नार्हत्त्वं परिदीपितं भवति / न प्रत्येकबुद्धत्वं परिदीपितं भवति / न बुद्धत्वं परिदीपितं भवति //
SK
स्थविरः सुभूतिराह - महापारमितेयं भगवन् यदुत प्रज्ञापारमिता / भगवानाह - तत्किं मन्यसे सुभूते कतमेन पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता? स्थविरः सुभूतिराह - न भगवन् रूपं महत्करोति नाल्पीकरोति, न रूपं संक्षिपति न विक्षिपति / एवं न वेदनां न संज्ञां न संस्कारान् / न भगवन् विज्ञानं महत्करोति नाल्पीकरोति, न विज्ञानं संक्षिपति न विक्षिपति / यान्य् अपि तानि तथागतस्य तथागतबलानि, तान्य् अपि न बलीकरोति न दुर्बलीकरोति, न संक्षिपति न विक्षिपति / यापि सा सर्वज्ञता, ताम् अपि न महत्करोति नाल्पीकरोति, न संक्षिपति न विक्षिपति / तत्कस्य हेतोः? असंक्षिप्ताविक्षिप्ता हि भगवन् सर्वज्ञता / सचेदेवम् अपि भगवन् बोधिसत्त्वो महासत्त्वः संजानीते, चरति प्रज्ञापारमितायाम् [NOTE: ᳚न चरति᳚ अच्चोर्दिन्ग् तो Cओन्zएऽस् त्रन्स्लतिओन्] / किं पुनरेवं संजानानः - एवमहं सर्वज्ञज्ञानसमन्वागत सत्त्वेभ्यो धर्मं देशयिष्यामि, एवमिमान् सत्त्वान् परिनिर्वापयिष्यामीति / तत्कस्य हेतोः? न ह्येष प्रज्ञापारमितानिष्यन्दो य इमान् सत्त्वान् परिनिर्वापयिष्यामीति सत्त्वोपलम्भः / एष एवास्य महानुपलम्भः स्यात् / तत्कस्य हेतोः ? सत्त्वास्वभावजातिका हि प्रज्ञापारमितावेदितव्या / सत्त्वास्वभावतया प्रज्ञापारमितास्वभावता वेदितव्या / सत्त्वविविक्ततया प्रज्ञापारमिताविविक्तता वेदितव्या / सत्त्वाचिन्त्यतया प्रज्ञापारमिताचिन्त्यता वेदितव्या / सत्त्वाविनाशधर्मतया प्रज्ञापारमिताविनाशधर्मता वेदितव्या / सत्त्वानभिसंबोधनतया प्रज्ञापारमितानभिसंबोधनता वेदितव्या / सत्त्वयथाभूतार्थानभिसंबोधनतया प्रज्ञापारमितायथाभूतार्थानभिसंबोधनता वेदितव्या / सत्त्वबलसमुदागमनतया तथागतबलसमुदागमनता वेदितव्या / अनेन भगवन् पर्यायेण महापारमितेयं यदुत प्रज्ञापारमिता //
SK
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - यो भगवन् इह गम्भीरायां प्रज्ञापारमितायां बोधिसत्त्वो महासत्त्वो ऽधिमोक्षयिष्यति न काङ्क्षिष्यति न विचिकित्सिष्यति न धन्धायिष्यति, कुतः स भगवंश्च्युत इहोपपन्नो वेदितव्यः, कियच्चिरचरितावी च स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यः, य इमां प्रज्ञापारमितामर्थतश् च धर्मतश् च अर्थनयतश् च धर्मनयतश् च अनुगमिष्यति अनुभोत्स्यते ऽनुबोधयिष्यति च? एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - स शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छ्य इहोपपन्नो वेदितव्यः / तत्कस्य हेतोः? यः कश्चिच्छारिपुत्र बोधिसत्त्वो महासत्त्वो ऽन्येभ्यो लोकधातुभ्यश्च्युतो बुद्धान् भगवतः पर्युपास्य परिपृच्छय (Vऐद्य ८९) इहोपपन्नो भवति, स इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां शृणुयात्, इमां प्रज्ञापारमितां श्रुत्वा अत्र शास्तृसंज्ञां प्रज्ञापारमितायामुत्पादयेत् - शास्ता मे संमुखीभूत् इति, शास्ता मे दृष्ट इति चित्तमुत्पादयति / प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां श्रोत्रमवदधाति, सत्कृत्य शृणोति, कथां नोपच्छिनत्ति / चिरचरितावी स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः / बहुबुद्धपर्युपासितः स शारिपुत्र तथारूपो बोधिसत्त्वो महासत्त्वो वेदितव्यः //
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - शक्या पुनर्भगवन् प्रज्ञापारमिता श्रोतुं वा उपलक्ष्ययितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा? इयं सा प्रज्ञापारमिता, इह वा सा प्रज्ञापारमिता, अमुत्र वा सा प्रज्ञापारमिता, अनेन वा आकारेण लिङ्गेन निमित्तेनेति शक्या निर्देष्टुं वा श्रोतुं वा? भगवानाह - नो हीदं सुभूते / नेयं सुभूते प्रज्ञापारमिता स्कन्धशो वा धातुशो वा आयतनशो वा शक्या निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा / तत्कस्य हेतोः? सर्वधर्मविविक्तत्वात्सुभूते, अत्यन्तविविक्तत्वात्सुभूते सर्वधर्माणां न शक्या प्रज्ञापारमिता निर्देष्टुं वा श्रोतुं वा उपलक्षयितुं वा समन्वाहर्तुं वा उपपादयितुं वा उपधारयितुं वा / न चान्यत्र स्कन्धधात्वायतनेभ्यः प्रज्ञापारमिता अवबोद्धव्या / तत्कस्य हेतोः? स्कन्धधात्वायतनमेव हि सुभूते शून्यं विविक्तं शान्तम् / इति हि प्रज्ञापारमिता च स्कन्धधात्वायतनं च अद्वयमेतदद्वैधीकारं शून्यत्वाद्विविक्तत्वात् / एवं शान्तत्वान्नोपलभ्यते / यो ऽनुपलम्भः सर्वधर्माणाम्, सा प्रज्ञापारमितेत्युच्यते / यदा न भवति संज्ञा समज्ञा प्रज्ञप्तिर्व्यवहारः, तदा प्रज्ञापारमितेत्युच्यते //
SK
स्थविरः सुभूतिराह - कियच्चिरचरितावी स भगवन् बोधिसत्त्वो महासत्त्वो वेदितव्यो य इह गम्भीरायां प्रज्ञापारमितायां योगमापत्स्यते? भगवानाह - विभज्य व्याकरणीयमेतत्सुभूते बोधिसत्त्वानां महासत्त्वानामिन्द्रियाधिमात्रतया / स्यात्खलु पुनः सुभूते पर्यायो येन पर्यायेण बोधिसत्त्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि दृष्ट्वा तेषामन्तिके ब्रह्मचर्यं चरित्वा इमां प्रज्ञापारमितां न श्रद्दध्युर्नाधिमुञ्चेयुः / तत्कस्य हेतोः? पूर्वम् अपि तेषां बुद्धानां भगवतामन्तिकादस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामगौरवता अभूत् / अगौरवतया अशुश्रूषणता, अशुश्रूषणतया अपर्युपासनता, अपर्युपासनतया अपरिपृच्छनता, अपरिपृच्छनतया अश्रद्दधानता, अश्रद्दधानतया ततः पर्षद्ध्यो ऽपक्रान्ताः, ते ततोनिदानं धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन एतर्ह्य् अपि गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायामुपदिश्यमानायामपक्रामन्ति / अगौरवतया अश्रद्दधाना अनधिमुञ्चन्तो न कायेन न चित्तेन सामग्रीं ददति / ते सामग्रीमददाना इमां प्रज्ञापारमितां न जानन्ति न पश्यन्ति न बुध्यन्ते न वेदयन्ते / एवं ते प्रज्ञापारमितां न श्रद्दधति / अश्रद्दधाना न शृण्वन्ति / (Vऐद्य ९०) अशृण्वन्तो न जानन्ति / अजानन्तो न पश्यन्ति / अपश्यन्तो न बुध्यन्ते / अबुध्यमाना धर्मव्यसनसंवर्तनीयं कर्म कुर्वन्ति, संचिन्वन्ति आचिन्वन्ति उपचिन्वन्ति / ते तेन धर्मव्यसनसंवर्तनीयेन कर्मणा कृतेन संचितेन आचितेन उपचितेन दुष्प्रज्ञसंवर्तनीयं कर्माभिसंस्करिष्यन्ति / तेन ते दुष्प्रज्ञसंवर्तनीयेन कर्मणा अभिसंस्कृतेन संचितेनाचितेनोपचितेन इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रत्याख्यास्यन्ति प्रतिक्षेप्स्यन्ति प्रतिक्रोक्ष्यन्ति, प्रतिक्षिप्य च अपक्रमिष्यन्ति / अस्याः खलु पुनः सुभूते प्रज्ञापारमितायाः प्रत्याख्यानेन प्रतिक्षेपेण प्रतिक्रोशेन अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां सर्वज्ञता प्रत्याख्याता भवति, प्रतिक्षिप्ता भवति, प्रतिक्रुष्टा भवति / ते स्वसंतानानुपहत्य दग्धाः परेषामप्यल्पबुद्धिकानामल्पप्रज्ञानामल्पपुण्यानामल्पकुशलमूलानां पुद्गलानां श्रद्धामात्रकसमन्वागतानां प्रेममात्रकसमन्वागतानां प्रसादमात्रकसमन्वागतानां छन्दमात्रकसमन्वागतानामादिकर्मिकाणामभव्यरूपाणां तद् अपि श्रद्धामात्रकं प्रेममात्रकं प्रसादमात्रकं छन्दमात्रकं विच्छन्दयिष्यन्ति विवेचयिष्यन्ति विवर्तयिष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नैतद्बुद्धवचनमिति वाचं भाषिष्यन्ते / एवं ते आत्मसंतानानुपहत्य विवेच्य परसंतानानप्युपहत्य विवेच्य प्रज्ञापारमितामभ्याख्यास्यन्ति / प्रज्ञापारमितायामभ्याख्यातायां सर्वज्ञता अभ्याख्याता भवति / सर्वज्ञतायामभ्याख्यातायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो ऽभ्याख्याता भवन्ति / ते बुद्धानां भगवतामन्तिकादपक्रान्ता भविष्यन्ति, धर्मात्परिमुक्ता भविष्यन्ति, संघात्परिबाह्या भविष्यन्ति / एवं तेषां सर्वेण सर्वं सर्वथा सर्वं त्रिरत्नात्परिबाह्यभावो भविष्यति / ते सत्त्वानां हितसुखोपच्छेदक्रियया महानिरयविपाकसंवर्तनीयं कर्म उपचेष्यन्ति / ते अनेनैवंरूपेण कर्माभिसंस्कारेणोपस्थापितेन समुत्थापितेन धर्मव्यसनसंवर्तनीयेन दुष्प्रज्ञसंवर्तनीयेन कर्मणा बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि बहूनि वर्षकोटीशतानि बहूनि वर्षकोटीसहस्राणि बहूनि वर्षकोटीशतसहस्राणि बहूनि वर्षकोटीनियुतशतसहस्राणि महानिरयेषूपपत्स्यन्ते / ते महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तथा सुचिरं महानिरयान्महानिरयं संक्रामतां तेजःसंवर्तनी प्रादुर्भविष्यति / तेजःसंवर्तन्यां प्रादुर्भूतायां ये ऽन्येषु लोकधातुषु महानिरयाः, तत्र ते क्षेप्स्यन्ते / ते तेषु महानिरेयषु उपपत्स्यन्ते / ते तत्र विक्षिप्तास्तेषु महानिरयेषूपपन्नाः समानास्तत्रापि महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तत्रापि महानिरयान्महानिरयं संक्रामतां तत्रापि पुनरेव तथैव तेजःसंवर्तनी प्रादुर्भविष्यति / ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां ततश्च्युताः समानाः पुनरेव अन्येषु लोकधातुषु ये महानिरयास्तत्र क्षेप्स्यन्ते / ते तेषु महानिरयेषूपपत्स्यन्ते / ते तत्रापि तथैव महानिरयान्महानिरयं संक्रमिष्यन्ति / तेषां तत्रापि सुचिरं महानिरयान्महानिरयं संक्रामतां तत्रापि तथैव तेजःसंवर्तनी प्रादुर्भविष्यति / ते तस्यां तेजःसंवर्तन्यां प्रादुर्भूतायां पुनरेव ततश्च्युतास्तेनैव अक्षीणेन सावशेषेण कर्मणा इहैव लोकधातौ पुनः क्षेप्स्यन्ते / क्षिप्ताः सन्तो महानिरयेषूपपत्स्यन्ते / ते पुनरेव तानि महानिरयेषु महान्ति महानिरयदुःखानि (Vऐद्य ९१) प्रत्यनुभविष्यन्ति / तावत्प्रत्यनुभविष्यन्ति, यावत्पुनरेव तेजःसंवर्तनी प्रादुर्भविष्यति / एवं ते बहुदुःखवेदनीयं कर्म प्रत्यनुभविष्यन्ति / तत्कस्य हेतोः? यथापि नाम दुर्भाषितत्वाद्वाचः //
SK
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - पञ्च भगवन् आनन्तर्याणि कर्माणि कृतान्युपचितानि अस्य मनोदुश्चरितस्य वाग्दुश्चरितस्य च न प्रतिवर्णिकान्य् अपि न अनुरूपाण्य् अपि न प्रतिरूपाण्य् अपि भवन्ति / भगवानाह - एवमेतच्छारिपुत्र, एवम् एतत् / पञ्चानन्तर्याणि शारिपुत्र कर्माणि कृतान्युपचितान्यस्य मनोदुश्चरितस्य च वाग्दुश्चरितस्य च न प्रतिवर्णिकान्य् अपि न अनुरूपाण्य् अपि न प्रतिरूपाण्य् अपि अस्य कर्मणः कृतस्य संचितस्य आचितस्य उपचितस्य / ये केचिदिमां गम्भीरा प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानामुद्दिश्यमानां प्रतिबाधितव्यां मंस्यन्ते, प्रतिक्षेप्स्यन्ति, प्रतिक्रोक्ष्यन्ति, नात्र शिक्षितव्यमिति वक्ष्यन्ति, नेयं तथागतभाषितेति वाचं भाषिष्यन्ते, ततो ऽन्यान् अपि सत्त्वान् विवेचयिष्यन्ति / ते स्वसंतानानुपहत्य परसंतानानुपहनिष्यन्ति / ते स्वसंतानान् सविषान् कृत्वा परसंतानान् सविषान् करिष्यन्ति / स्वयं नष्टाः परान् अपि नाशयिष्यन्ति / स्वयं गम्भीरां प्रज्ञापारमितामजानाना अनवबुध्यमानाः परान् अपि ग्राहयिष्यन्ति, नात्र शिक्षितव्यमिति वाचं भाषिष्यन्ते / नाहं शारिपुत्र एवंरूपाणां पुद्गलानां दर्शनमप्यभ्यनुजानामि, कुतस्तैः सह संवासं कुतो वा लाभसत्कारं कुतः स्थानम्? तत्कस्य हेतोः? धर्मदूषका हि ते शारिपुत्र तथारूपाः पुद्गला वेदितव्या इति / कसम्बकजातास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः / कृष्णानिर्जातिकाः कृष्णाहिजातिकास्ते शारिपुत्र तथारूपाः पुद्गला वेदितव्याः / तेषां शारिपुत्र तथारूपाणां पुद्गालानां ये श्रोतव्यं मंस्यन्ते, सर्वे ते अनयेन व्यसनमापत्स्यन्ते / ये च शारिपुत्र प्रज्ञापारमितां दूषयन्ति, इमे ते शारिपुत्र धर्मदूषकाः पुद्गला वेदितव्याः / शारिपुत्र आह - न भगवता तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणमाख्यातम् / भगवानाह - तिष्ठतु शारिपुत्र तस्य पुद्गलस्य तत्रोपपन्नस्य महानिरयगतस्यात्मभावस्य प्रमाणम् / तत्कस्य हेतोः? मा तथारूपस्य पुद्गलस्य तदात्मभावस्य प्रमाणं श्रुत्वा उष्णं रूधिरं मुखादागच्छेत्, मरणं वा निगच्छेत्, मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेत्, दह्येत वा, शोकशल्यो वा अस्याविशेत्, महाप्रपातं वा प्रपतेत्, उपशुष्येत वा म्लायेत वा / मैव महाप्रतिभयं तस्यात्मभावस्य प्रमाणमश्रौषीद्यस्येमे दोषाः संविद्यन्ते //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - को ऽत्र भगवन् हेतुः कः प्रत्ययो यत्स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधितव्यां मंस्यते? भगवानाह - माराधिष्ठितो वा सुभूते स कुलपुत्रो वा कुलदुहिता वा भविष्यति / दुष्प्रज्ञसंवर्तनीयेन वा कर्मणा गम्भीरेषु धर्मेषु नास्य श्रद्धा, नास्य प्रसादः / आभ्यां सुभूते द्वाभ्यां पापाभ्यां धर्माभ्यां समन्वागतः स कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां प्रतिबाधिष्यते / पुनरपरं सुभूते स कुलपुत्रो वा कुलदुहिता वा पापमित्रहस्तगतो वा भविष्यति, अनभियुक्तो वा भविष्यति, स्कन्धाभिनिविष्टो वा भविष्यति, आत्मोत्कर्षी परेषां पंसको दोषान्तरप्रेक्षी वा भविष्यति / एभिरपि सुभूते चतुर्भिराकारैः स कुलपुत्रो वा कुलदुहिता वा समन्वागतो भविष्यति, य इमां प्रज्ञापारमितां भाष्यमाणां देश्यमानामुपदिश्यमानां प्रतिबाधितव्यां मंस्यते इति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां निरयपरिवर्तो नाम सप्तमः //
अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत् - कतमेन आर्य सुभूते पर्यायेण सङ्गः? सुभूतिराह - सचेत्कौशिक तद्बोधिचित्तं संजानीते - इदं तत्प्रथमं बोधिचित्तमिति, अनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति / न च चित्तप्रकृतिः शक्या परिणामयितुं तेन कुलपुत्रेण वा कुलदुहित्रा वा महायानसंप्रस्थितेन / तस्मात्तर्हि कौशिक परं संदर्शयता समादापयता समुत्तेजयता संप्रहर्षयता अनुत्तरायां सम्यक्संबोधौ भूतानुगमेन संदर्शयितव्यं समादापयितव्यं समुत्तेजयितव्यं संप्रहर्षयितव्यम् / एवमात्मानं च न क्षिणोति, बुद्धानुज्ञातया च समादापनया परं समादापयति स कुलपुत्रो वा कुलदुहिता वा / इमाश्चास्य सर्वाः सङ्गकोट्यो विवर्जिता भवन्ति //
SK
अथ खलु भगवानायुष्मते सुभूतये साधुकारमदात् - साधु साधु सुभूते, यस्त्वं बोधिसत्त्वान् महासत्त्वानिमाः सङ्गकोटीर्बोधयसि / तेन हि सुभूते अन्यान् अपि सूक्ष्मतरान् सङ्गानाख्यास्यामि, तान् शृणु, साधु च सुष्ठु च मनसि कुरु / भाषिष्ये ऽहं ते / साधु भगवन् इत्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् //
SK
भगवानेतदवोचत् - इह सुभूते श्राद्धः कुलपुत्रो वा कुलदुहिता वा तथागतमर्हन्तं सम्यक्संबुद्धं निमित्ततो मनसि करोति / यावन्ति खलु पुनः सुभूते निमित्तानि, तावन्तः सङ्गाः / तत्कस्य हेतोः? निमित्ततो हि सुभूते सङ्गः / इति हि सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ये अनास्रवा धर्मास्ताननुमोदे इत्यनुमोद्य अनुमोदनासहगतं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामीति परिणामयति / या खलु पुनः सुभूते धर्माणां धर्मता, न सा अतीता वा अनागता वा प्रत्युत्पन्ना वा / या नातीता नानागता न प्रत्युत्पन्ना, सा त्र्यध्वनिर्मुक्ता / या त्र्यध्वनिर्मुक्ता, न सा शक्या परिणामयितुं न निमित्तीकर्तुं नारम्बणीकर्तुम् / नापि सा दृष्टश्रुतमतविज्ञाता //
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - महापारमितेयं भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य, यस्यासङ्गता सर्वधर्मेषु, यो ऽसावनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामो न च कंचिद्धर्ममभिसंबुध्यते, धर्मचक्रं च प्रवर्तयिष्यति, न च कंचिद्धर्मं संदर्शयिष्यति / तत्कस्य हेतोः? न हि कश्चिद्धर्मो य उपलभ्यते, यो वा धर्मः सूच्यते / नापि कश्चिद्धर्मं प्रवर्तयिष्यति / तत्कस्य हेतोः? अत्यन्तानभिनिर्वृत्ता हि भगवन् सर्वधर्माः / नापि कंचिद्धर्मं निवर्तयिष्यति / तत्कस्य हेतोः? आद्यनभिनिर्वृत्ता हि भगवन् सर्वधर्माः, प्रकृतिविविक्तत्वात्सर्वधर्माणाम् //
SK
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / न हि सुभूते शून्यता प्रवर्तते वा निवर्तते वा / नापि सुभूते आनिमित्तं प्रवर्तते वा निवर्तते वा / नापि सुभूते अप्रणिहितं प्रवर्तते वा निवर्तते वा / या सुभूते एवं देशना, इयं सा सर्वधर्माणां देशना / (Vऐद्य १०२) नैव च केनचिद्देशिता, नापि केनचिच्छ्रुता, नापि केनचित्प्रतीच्छिता, नापि केनचित्साक्षात्कृता, नापि केनचित्साक्षात्क्रियते, नापि केनचित्साक्षात्करिष्यते / नाप्यनया धर्मदेशनया कश्चित्परिनिर्वृतो नापि परिनिर्वास्यति नापि परिनिर्वाति / नाप्यनया धर्मदेशनया कश्चिद्दक्षिणीयः कृतः //
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - कथं भगवन् प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति? कथं प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां योगमापद्यते? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत् - साधु साधु कौशिक / साधु खलु पुनस्त्वं कौशिक यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेनमर्थं परिप्रष्टव्यं परिप्रश्नीकर्तव्यं मन्यसे / इदमपि ते कौशिक बुद्धानुभावेन प्रतिभानमुत्पन्नम् / इह कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपे न तिष्ठति, रूपमिति न तिष्ठति / यतः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न तिष्ठति, रूपमिति न तिष्ठति, एवं रूपे योगमापद्यते / एवं वेदनायां संज्ञायां संस्कारेषु / विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति / यतः कौशिक बोधिसत्त्वो महासत्त्वो विज्ञाने न तिष्ठति, विज्ञानमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते / रूपमिति कौशिक न योजयति, यतः कौशिक रूपमिति न योजयति, एवं रूपमिति न तिष्ठति / एवं वेदनासंज्ञासंस्काराः / विज्ञानमिति कौशिक न योजयति, यतः कौशिक विज्ञानमिति न योजयति, एवं विज्ञानमिति न तिष्ठति / एवं प्रज्ञापारमितायां स्थितो भवति / एवं योगमापद्यते //
SK
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / दुरवगाहा भगवन् प्रज्ञापारमिता / दुरुद्ग्रहा भगवन् प्रज्ञापारमिता / अप्रमाणा भगवन् प्रज्ञापारमिता / भगवानाह - एवमेतच्छारिपुत्र, एवमेतत् / रूपं गम्भीरमिति शारिपुत्र न तिष्ठति / यतः शारिपुत्र रूपं गम्भीरमिति न तिष्ठति, एवं रूपे योगमापद्यते / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शारिपुत्र गम्भीरमिति न तिष्ठति / यतः शारिपुत्र विज्ञानं गम्भीरमिति न तिष्ठति, एवं विज्ञाने योगमापद्यते / रूपं शारिपुत्र गम्भीरमिति न योगमापद्यते (Vऐद्य १०६) / यतः शारिपुत्र रूपं गम्भीरमिति न योगमापद्यते, एवं रूपं गम्भीरमिति न तिष्ठति / एवं वेदनासंज्ञासंस्काराः / विज्ञानं शारिपुत्र गम्भीरमिति न योगमापद्यते / यतः शारिपुत्र विज्ञानं गम्भीरमिति न योगमापद्यते, एवं विज्ञानं गम्भीरमिति न तिष्ठति //
SK
एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता अविनिवर्तनीयस्य व्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरतो भाषितव्या / तत्कस्य हेतोः? स हि भगवन् न काङ्क्षिष्यति, न विचिकित्सिष्यति न धंधायिष्यति न विवदिष्यति //
SK
अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं शारिपुत्रमेतदवोचत् - सचेत्पुनरार्य शारिपुत्र अव्याकृतस्य बोधिसत्त्वस्य महासत्त्वस्य पुरत इयं प्रज्ञापारमिता भाष्येत, को दोषो भवेत्? एवमुक्ते आयुष्मान् शारिपुत्रः शक्रं देवानामिन्द्रमेतदवोचत् - दूरतः स कौशिक बोधिसत्त्वो महासत्त्व आगतो वेदितव्यः / चिरयानसंप्रस्थितः परिपक्वकुशलमूलः स कौशिक बोधिसत्त्वो महासत्त्वो वेदितव्यः, योऽव्याकृत इमां प्रज्ञापारमितां लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय श्रवणाय / श्रुत्वा च नोत्रसिष्यति न संत्रसिष्यति न संत्रासमापत्स्यते / न चेदानीमसौ चिरेण व्याकरणं प्रतिलप्स्यतेऽनुत्तरायाः सम्यक्संबोधेः / आसन्नं तस्य व्याकरणं वेदितव्यम् / स बोधिसत्त्वो महासत्त्वो नैकं वा द्वौ वा त्रीन् वा तथागतानर्हतः सम्यक्संबुद्धानतिक्रमिष्यति, ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ / अपि तु तानारागयिष्यति, आरागयित्वा तांस्तथागतानर्हतः सम्यक्संबुद्धान्न विरागयिष्यति / तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यति, तथागतदर्शनाच्च ततो व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ / यावच्च व्याकरणं प्रतिलप्स्यतेऽनुत्तरायां सम्यक्संबोधौ, तावदवन्ध्यं करिष्यति तथागतदर्शनवन्दनपर्युपासनोपस्थानं यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुद्ध इति //
पुनरपरं सुभूते ये ऽपि ते भिक्षवो धर्मभाणकाः, ते एकाकिताभिरता भविष्यन्ति / ये ऽपि धार्मश्रवणिकास्ते ऽपि पर्षद्गुरुका भविष्यन्ति / ते ऽपि धर्मभाणका एवं वक्ष्यन्ति - ये मामनुवर्त्स्यन्ति, तेभ्यो ऽहमिमां प्रज्ञापारमितां दास्यामि / ये मां नानुवर्त्स्यन्ति, तेभ्यो न दास्यामीति / एवं ते कुलपुत्राः कुलदुहितरश् च अर्थिकतया छन्दिकतया धर्मगौरवेण तं धर्मभाणकमनुवर्त्स्यन्ति, न चावकाशं दास्यन्ति, स च धर्मभाणक आमिषकिंचित्काभिलाषी, ते च न दातुकामाः / स च तेन तेन गमिष्यति, येन येन दुर्भिक्षश् च अयोगक्षेमश् च जीवितान्तरायश् च भविष्यति / ते च धार्मश्रवणिकाः परेभ्यः श्रोष्यन्ति - असौ प्रदेशो (Vऐद्य १२२) दुर्भिक्षश् च अयोगक्षेमश् च / तस्मिंश् च प्रदेशे जीवितान्तरायो भवेदिति / स च धर्मभाणकस्तान् कुलपुत्रानेवमभिव्याहरिष्यति - अमुष्मिन् कुलपुत्राः प्रदेशे दुर्भिक्षभयम् / कच्चित्कुलपुत्रा यूयमागमिष्यथ मा पश्चाद्विप्रतिसारिणो भविष्यथ दुर्भिक्षभयं प्रविष्टाः? एवं ते तेन धर्मभाणकेन सूक्ष्मेणोपायेन प्रतिक्षेप्स्यते / ते च निर्विण्णरूपा एवं ज्ञास्यन्ति - प्रत्याख्याननिमित्तान्येतानि, नैतानि दातुकामतानिमित्तानीति / नायं दातुकाम इति विदित्वा नानुवर्त्स्यन्ति / इयम् अपि सुभूते तत्र विसामग्री भविष्यति प्रज्ञापारमितायां लिख्यमानायां शिक्ष्यमाणायां देश्यमानायामुपदिश्यमानायामुद्दिश्यमानायां स्वाध्याय्यमानायाम् / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
इति हि सुभूते मारः पापीयांस्तैस्तैः प्रकारैस्तथा तथा चेष्टिष्यते, यथेमां प्रज्ञापारमितां न कश्चिदुद्ग्रहीष्यति, न धारयिष्यति, न वाचयिष्यति, न पर्यवाप्स्यति, न प्रवर्तयिष्यति, न देशयिष्यति, नोपदेक्ष्यति, नोद्देक्ष्यति, न स्वाध्यास्यति, न लेखयिष्यति, न लिखिष्यति / तस्मात्तर्हि सुभूते यावन्तो ऽन्तराया विसामग्र्यां संवर्तन्ते, तानि सर्वाणि बोधिसत्त्वेन महासत्त्वेन मारकर्माणीति बोद्धव्यानि, बुद्ध्वा च विवर्जयितव्यानीति //
SK
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - किमत्र भगवन् कारणं यदिह मारः पापीयानेवं महान्तमुद्योगमापत्स्यते? तथा तथा चोपायेन चेष्टिष्यते, यथेमां प्रज्ञापारमितां (Vऐद्य १२३) न कश्चिदुद्ग्रहीष्यति न धारयिष्यति न वाचयिष्यति न पर्यवाप्स्यति न प्रवर्तयिष्यति न देशयिष्यति नोपदेक्ष्यति नोद्देक्ष्यति न स्वाध्यास्यति न लेखयिष्यति न लिखिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - प्रज्ञापारमितानिर्जाता हि सुभूते बुद्धानां भगवतां सर्वज्ञता / सर्वज्ञतानिर्जातं च तथागतशासनम् / तथागतशासननिर्जातं च अप्रमेयाणामसंख्येयानां सत्त्वानां क्लेशप्रहाणम् / प्रहीणक्लेशानां च मारः पापीयानवतारं न लभते / अलभमानो दुःखार्तो दुर्मनाः शोकशल्यपरिगतो भवति / अतः स प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायां महता संवेगेन महान्तमुद्योगमापद्यते / स महतोद्योगेन तथा तथोपायेन चेष्टते, यथा न कश्चिदिमां प्रज्ञापारमितां लिखेद्वा पर्यवाप्नुयाद्वेति //
SK
पुनरपरं सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षेप्स्यति / एवं च नवयानसंप्रस्थिताः कुलपुत्रा विवेचयिष्यन्ति नैषा प्रज्ञापारमिता यामायुष्मन्तः शृण्वन्ति / यथा पुनर्मम सूत्रागतं सूत्रपर्यापन्नम्, इयं सा प्रज्ञापारमिता / इत्येवं सुभूते मारः पापीयान् संशयं प्रक्षेप्स्यति / एवं च पुनः सुभूते मारः पापीयान् श्रमणवेषेणागत्य भेदं प्रक्षिप्य नवयानसंप्रस्थितान् बोधिसत्त्वानल्पबुद्धिकान् मन्दबुद्धिकान् परीत्तबुद्धिकानन्धीकृतानव्याकृताननुत्तरायां सम्यक्संबोधौ संशयं पातयिष्यति / ते संशयप्राप्ता इमां प्रज्ञापारमितां नोद्ग्रहीष्यन्ति न धारयिष्यन्ति न वाचयिष्यन्ति न पर्यवाप्स्यन्ति न प्रवर्तयिष्यन्ति न देशयिष्यन्ति नोपदेक्ष्यन्ति नोद्देक्ष्यन्ति न स्वाध्यास्यन्ति न लेखयिष्यन्ति न लिखिष्यन्ति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
SK
पुनरपरं सुभूते मारः पापीयान् भिक्षून्निर्माय बुद्धवेषेणागत्य एवं मारकर्मोपसंहरिष्यति - यो बोधिसत्त्वो गम्भीरेषु धर्मेषु चरति, स भूतकोटिं साक्षात्करोति / स श्रावको भवति, न बोधिसत्त्वो यथायं बोधिसत्त्व इति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम् //
SK
एवं सुभूते मारः पापीयानेवमादिकानि सुबहूनि अन्यान्य् अपि मारकर्माण्युत्पादयिष्यति अस्यां प्रज्ञापारमितायां लिख्यमानायां पर्यवाप्यमाणायाम् / तानि बोधिसत्त्वेन महासत्त्वेन बोद्धव्यानि / बुद्ध्वा च विवर्जयितव्यानि / न भक्तव्यानि / आरब्धवीर्येण स्मृतिमता संप्रजानता च भवितव्यम् //
SK
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - एवमेतद्भगवन्, एवमेतत्सुगत / यानि तानि भगवन् महारत्नानि, तानि बहुप्रत्यर्थिकानि भवन्ति / तत्कस्य हेतोः? यदुत दुर्लभत्वान्महार्घत्वाच्च / अग्राणि हि तानि भगवन् भवन्ति / तस्मात्तानि च बहुप्रत्यर्थिकानि भवन्ति / एवमेव भगवन् अस्याः प्रज्ञापारमितायाः प्रायेण बहवो ऽन्तराया उत्पत्स्यन्ते / तत्र ये ऽन्तरायवशेन कुसीदा भविष्यन्ति, वेदितव्यमिदं भगवन् माराधिष्ठितास्ते बोधिसत्त्वा भविष्यन्ति, नवयानसंप्रस्थिताश् च ते भगवन् भविष्यन्ति, अल्पबुद्धयश् च ते भगवन् भविष्यन्ति, (Vऐद्य १२४) मन्दबुद्धयश् च ते भगवन् भविष्यन्ति, परीत्तबुद्धयश् च ते भगवन् भविष्यन्ति, विपर्यस्तबुद्धयश् च ते भगवन् भविष्यन्ति / नापि तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, ये इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां न देशयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्याम् अपि मंस्यन्ते //
SK
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / माराधिष्ठितास्ते सुभूते बोधिसत्त्वा वेदितव्याः / नवयानसंप्रस्थिताश् च ते सुभूते बोधिसत्त्वा भविष्यन्ति, अल्पबुद्धयश् च ते भविष्यन्ति, मन्दबुद्धयश् च ते भविष्यन्ति, परीत्तबुद्धयश् च ते भविष्यन्ति, विपर्यस्तबुद्धयश् च ते भविष्यन्ति / न च तेषामुदारोदारेषु धर्मेषु चित्तं प्रक्रमिष्यति, य इमां प्रज्ञापारमितां नोद्ग्रहीतव्यां मंस्यन्ते, न धारयितव्यां न वाचयितव्यां न पर्यवाप्तव्यां न प्रवर्तयितव्यां नोपदेष्टव्यां नोद्देष्टव्यां न स्वाध्यातव्यां न लेखयितव्यामन्तशो न लिखितव्याम् अपि मंस्यन्ते //
अथ खलु भगवान् पुनरप्यायुष्मन्तं सुभूतिमामन्त्रयते स्म - तद्यथापि नाम सुभूते स्त्रिया बहवः पुत्रा भवेयुः, पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा / सर्वे ते मातुर्ग्लानाया उद्योगमापद्येरन् - कथमस्माकं मातुर्जीवितान्तरायो न भवेदिति, कथमस्माकं माता चिरं जीवेत्, कथमस्माकं मातुः कायो न विनश्येत्, कथमस्माकं माता चिरस्थितिका भवेत्, कथमस्माकं मातुर्नाम अविनष्टं भवेत्, कथमस्माकं मातुर्न दुःखा वेदनोत्पद्येत, न चास्या अस्पर्शविहारः अमनआपः काये उत्पद्येत / तत्कस्य हेतोः? एतया हि वयं जनिताः / दुष्करकारिकैषा अस्माकं जीवितस्य दात्री लोकस्य च संदर्शयित्री / इति ते पुत्रास्तां मातरं सर्वसुखोपधानैः सुधृतां धारयेयुः, सुगोपायितां गोपायेयुः, सुकेलायितां केलायेयुः - मा खल्वस्याः काचिद्दुःखा वेदना दुःखो वा स्पर्श उत्पद्येत, चक्षुषो वा श्रोत्रतो वा घ्राणतो वा जिह्वातो वा कायतो वा मनस्तो वा वाततो वा पित्ततो वा श्लेष्मतो वा संनिपाततो वा दंशतो वा मशकतो वा सरीसृपतो वा मनुष्यतो वा अमनुष्यतो वा आपाततो वा उत्पाततो वा अनिष्टनिपातः शरीरे निपतेत् / एवं ते पुत्रास्तां मातरं सर्वसुखोपधानैः समन्वाहृत्य केलायेयुर्ममायेयुर्गोपायेयुः - एषास्माकं माता जनयित्री, दुष्करकारिकैषा अस्माकं जीवितस्य दात्री, लोकस्य च संदर्शयित्रीति / एवमेव सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा इमां प्रज्ञापारमितां समन्वाहरन्ति / ये ऽपि ते लिखन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति पर्यवाप्नुवन्ति प्रवर्तयन्ति देशयन्त्युपदिशन्त्युद्दिशन्ति स्वाध्यायन्ति, सर्वे ते तथागतस्यार्हतः सम्यक्संबुद्धस्यानुभावेन अधिष्ठानेन समन्वाहारेण / ये ऽपि ते ऽन्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, सर्वसत्त्वानां चानुकम्पका अनुकम्पामुपादाय, ते ऽपि सर्वे इमां प्रज्ञापारमितां समन्वाहरन्ति, औत्सुक्यमापद्यन्ते - किमितीयं प्रज्ञापारमिता चिरस्थितिका भवेत्, किमित्यस्याः प्रज्ञापारमिताया नाम अविनष्टं भवेत्, किमित्यस्याः प्रज्ञापारमिताया भाष्यमाणाया लिख्यमानायाः शिक्ष्यमाणाया मारः पायीयान् मारकायिका वा देवता अन्तरायं न कुर्युरिति / एवं हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा एनां प्रज्ञापारमितां केलायन्ति ममायन्ति गोपायन्ति / तत्कस्य हेतोः? एषा हि माता जनयित्री तथागतानामर्हतां सम्यक्संबुद्धानाम् / अस्याः सर्वज्ञताया दर्शयित्री लोकस्य च संदर्शयित्री / अतोनिर्जाता हि सुभूते तथागता अर्हन्तः सम्यक्संबुद्धाः / प्रज्ञापारमिता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानामस्य सर्वज्ञज्ञानस्य जनयित्री दर्शयित्री, एवमस्य लोकस्य संदर्शयित्री / अतोनिर्जाता हि सुभूते तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञता / ये ऽपि केचित्सुभूते अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / ये ऽपि ते सुभूते भविष्यन्त्यनागते ऽध्वनि तथागता अर्हन्तः (Vऐद्य १२६) सम्यक्संबुद्धा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / ये ऽपि ते सुभूते एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय, हिताय सुखाय देवानां च मनुष्याणां च, अनुकम्पका अनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / अहम् अपि सुभूते एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्ध एनामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानां जनयित्री, एवमस्य लोकस्य संदर्शयित्री //
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्रीति, कथं भगवन् प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री? कतमश् च भगवन् लोकस्तथागतैरर्हद्भिः सम्यक्संबुद्धैराख्यातः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - पञ्च सुभूते स्कन्धाः तथागतेन लोक इत्याख्याताः / कतमे पञ्च? यदुत रूपं वेदना संज्ञा संस्कारा विज्ञानम् / इमे सुभूते पञ्च स्कन्धास्तथागतेन लोक इत्याख्याताः //
SK
सुभूतिराह - कथं भगवंस्तथागतानां प्रज्ञापारमितया पञ्च स्कन्धा दर्शिताः? किं वा भगवन् प्रज्ञापारमितया दर्शितम्? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - न लुज्यन्ते न प्रलुज्यन्ते इति सुभूते पञ्च स्कन्धा लोक इति तथागतानां प्रज्ञापारमितया दर्शिताः / तत्कस्य हेतोः न लुज्यन्ते न प्रलुज्यन्ते इति दर्शिताः? शून्यतास्वभावा हि सुभूते पञ्च स्कन्धाः, अस्वभावत्वात् / न च सुभूते शून्यता लुज्यते वा प्रलुज्यते वा / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / न च सुभूते आनिमित्तं वा अप्रणिहितं वा अनभिसंस्कारो वा अनुत्पादो वा अभावो वा धर्मधातुर्वा लुज्यते वा प्रलुज्यते वा / एवमियं सुभूते प्रज्ञापारमिता तथागतानामर्हत सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री //
(Vऐद्य १३७) सुभूतिराह - कथं भगवन् रूपस्यादृष्टता भवति? कथं वेदनायाः संज्ञायाः संस्काराणाम्? कथं भगवन् विज्ञानस्यादृष्टता भवति? भगवानाह - यदि सुभूते न रूपारम्बणं विज्ञानमुत्पद्यते, एवं रूपस्यादृष्टता भवति / एवं वेदना संज्ञा संस्काराः / यदि सुभूते न विज्ञानारम्बणं विज्ञानमुत्पद्यते, एवं विज्ञानस्यादृष्टता भवति / या च सुभूते रूपस्यादृष्टता, या च वेदनायाः संज्ञायाः संस्काराणाम्, या च सुभूते विज्ञानस्यादृष्टता, सैव लोकस्य दृष्टता भवति / एवं हि सुभूते लोकस्तथागतेन दृष्टो भवति / एवं हि सुभूते प्रज्ञापारमिता तथागतानामर्हतां सम्यक्संबुद्धानामस्य लोकस्य संदर्शयित्री / कथं च सुभूते प्रज्ञापारमिता लोकं संदर्शयति? इति लोकः शून्य इति लोकं सूचयति, एवं प्रज्ञापयति, एवं लोकं संदर्शयति / इति लोको ऽचिन्त्य इति, लोकः शान्त इति, लोको विविक्त इति लोकविशुद्ध्या लोकं सूचयति / एवं लोकं प्रज्ञापयति, एवं संदर्शयतीति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां लोकसंदर्शनपरिवर्तो नाम द्वादशः //
SK
ASP_१३: अचिन्त्यपरिवर्तस्त्रयोदशः /
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / महाकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता / अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येन बतेयं भगवन् प्रज्ञापारमिता प्रत्युपस्थिता / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / महाकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता / अचिन्त्यकृत्येनातुल्यकृत्येनाप्रमेयकृत्येनासंख्येयकृत्येनासमसमकृत्येनेयं सुभूते प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अचिन्त्यं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते अचिन्त्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / न हीदं शक्यं चित्तेन चिन्तयितुम् / तत्कस्य हेतोः? न हि चित्तं वा चेतना वा चैतसिको वा अत्र धर्मः प्रवर्तते / कथं च सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? न शक्यं सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वं चिन्तयितुं वा तुलयितुं वा / एवं हि सुभूते अतुल्यकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? अप्रमेयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते अप्रमेयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? असंख्येयं हि सुभूते तथागतत्वं बुद्धत्वं स्वयंभूत्वं सर्वज्ञत्वम् / एवं हि सुभूते असंख्येयकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता / कथं च सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता? नास्ति सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य स्वयंभुवः सर्वज्ञस्य समः, कुतः पुनरुत्तरः? एवं हि सुभूते असमसमकृत्येनेयं प्रज्ञापारमिता प्रत्युपस्थिता //
SK
स्थविरः सुभूतिराह - किं पुनर्भगवंस्तथागतत्वमेवाचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं बुद्धत्वमेव स्वयंभूत्वमेव सर्वज्ञत्वमेव अतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो रूपमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्? एवं वेदनापि संज्ञापि संस्कारा अपिः? विज्ञानमप्यचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम्, उताहो सर्वधर्मा अप्यचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / रूपम् अपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानम् अपि सुभूते अचिन्त्यमतुल्यमप्रमेयमसंख्येयमसमसमम् / एवं सर्वधर्मा अपि सुभूते अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः / तत्कस्य हेतोः? रूपस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / सर्वधर्माणां हि सुभूते या धर्मता, न तत्र चित्तं न चेतना न चैतसिका धर्मा न तुलना / एवं हि सुभूते रूपमप्यचिन्त्यमतुल्यम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानमप्यचिन्त्यमतुल्यम् / एवं सर्वधर्मा अप्यचिन्त्या अतुल्याः / रूपम् अपि (Vऐद्य १३९) सुभूते अप्रमेयम् / एवं वेदनापि संज्ञापि संस्कारा अपि / विज्ञानम् अपि सुभूते अप्रमेयम्, सर्वधर्मा अपि सुभूते अप्रमेयाः / तत्कस्य हेतोः? रूपस्य हि सुभूते प्रमाणं न प्रज्ञायते / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य हि सुभूते प्रमाणं न प्रज्ञायते / सर्वधर्माणाम् अपि हि सुभूते प्रमाणं न प्रज्ञायते / केन कारणेन सुभूते रूपस्य प्रमाणं न प्रज्ञायते? केन कारणेन वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न प्रज्ञायते? केन कारणेन सुभूते सर्वधर्माणाम् अपि प्रमाणं न प्रज्ञायते? रूपस्य हि सुभूते प्रमाणं न विद्यते / एवं वेदनायाः संज्ञायाः संस्काराणाम् / विज्ञानस्य हि सुभूते प्रमाणं न विद्यते / सर्वधर्माणाम् अपि हि सुभूते प्रमाणं न विद्यते / केन कारणेन सुभूते रूपस्य प्रमाणं न विद्यते? एवं वेदनायाः संज्ञायाः संस्काराणाम्? केन कारणेन सुभूते विज्ञानस्य प्रमाणं न विद्यते? केन कारेणेन सुभूते सर्वधर्माणाम् अपि प्रमाणं न विद्यते? अप्रमाणत्वात्सुभूते सर्वधर्माणाम् / रूपम् अपि सुभूते असंख्येयम् / एवं वेदना संज्ञा संस्काराः / विज्ञानम् अपि सुभूते असंख्येयम् / सर्वधर्मा अपि सुभूते असंख्येयाः, गणनासमतिक्रान्तत्वात् / रूपमपि सुभूते असमसमम् / एवं वेदना संज्ञा संस्काराः / विज्ञानम् अपि सुभूते असमसमम् / एवं सर्वधर्मा अपि सुभूते असमसमाः, आकाशसमत्वात्सुभूते सर्वधर्माणाम् / तत्किं मन्यसे सुभूते अपि तु अस्त्याकाशस्य समो वा गणना वा प्रमाणं वा तुल्यं वा चित्तं वा चैतसिका वा धर्माः? सुभूतिराह - नो हीदं भगवन् / भगवानाह - एवमेव सुभूते अनेन पर्यायेण सर्वधर्मा अपि अचिन्त्या अतुल्या अप्रमेया असंख्येया असमसमाः / एते च सुभूते तथागतधर्मा अचिन्त्याश्चित्तोपरमत्वात्, अतुल्यास्तुलनासमतिक्रान्तत्वात् / अचिन्त्या अतुल्या इति सुभूते विज्ञानगतस्यैतद्धर्मस्याधिवचनम् / एवमप्रमेया असंख्येया असमसमा इति सुभूते समसंख्याप्रमाणोपरमत्वादप्रमेया असंख्येया असमसमास्तथागतधर्माः / आकाशसमासंख्येयाप्रमेयतया असमसमा असंख्येया अप्रमेया एते धर्माः / आकाशतुल्यतया अतुल्या असमवहिता बतेमे धर्माः / तस्मात्सुभूते अतुल्या एते धर्मा उच्यन्ते / आकाशाचिन्त्यतया अचिन्त्या एते धर्माः / आकाशातुल्यतया अतुल्या एते धर्माः / आकाशाप्रमेयतया अप्रमेया एते धर्माः / आकाशासंख्येयतया असंख्येया एते धर्माः / आकाशासमसमतया असमसमा एते धर्माः / अस्यां खलु पुनरचिन्त्यतायामतुल्यतायामप्रमेयतायामसंख्येयतायामसमसमतायां भाष्यमाणायां पञ्चानां भिक्षुशतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि, विंशतेश् च भिक्षुणीशतानाम् अनुपादाय आस्रवेभ्यश् चित्तानि विमुक्तानि, षष्टेश्चोपासकशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, त्रिंशतेश्चोपासिकानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, विंशत्या च बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत् / ते च भगवता इहैव भद्रकल्पे व्याकृता अनुत्तरायां सम्यक्संबोधौ / ये ऽपि ते उपासका उपासिकाश् च येषां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्, ते ऽपि भगवता व्याकृताः / तेषामप्यनुपादायास्रवेभ्यश्चित्तं विमोक्ष्यते //
सुभूतिराह - गम्भीरा भगवन् प्रज्ञापारमिता / सा न केनचिद्भावयितव्या / तां हि न कश्चिद्भावितवान्, नापि कश्चिद्भावयति, नापि कश्चिद्भावयिष्यति, नापिं किंचिद्भावयितव्यम्, न क्वचिद्भावयितव्यम् / तत्कस्य हेतोः? न हि भगवन् प्रज्ञापारमितायां न कश्चिद्धर्मः परिनिष्पन्नः / आकाशभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / सर्वधर्मभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / असङ्गभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / अनन्तभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / असद्भावनैषा भगवन् यदुत प्रज्ञापारमिताभावना / अपरिग्रहभावनैषा भगवन् यदुत प्रज्ञापारमिताभावना //
SK
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / अतो हि सुभूते गम्भीरायाः प्रज्ञापारमिताया विहारेण विहरन् बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय उपपरीक्षितव्यो ऽनुत्तरायाः सम्यक्संबोधेः - कच्चित्सुभूते बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां नाभिनिवेशं करोति / कच्चित्परभणितानि परमन्त्रितानि नाभिनिविशते / कच्चिद्बोधिसत्त्वो महासत्त्वो न परस्य श्रद्धया गच्छति / कच्चित्सुभूते बोधिसत्त्वो महासत्त्वो ऽस्यां गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नावलीयते न संलीयते न विपृष्ठीभवति नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, न काङ्क्षति न विचिकित्सति न धन्धायते अवगाहते ऽधिमुच्यते ऽभिनन्दति प्रज्ञापारमिताया दर्शनं श्रवणं च / वेदितव्यमिदं सुभूते पूर्वान्ते ऽप्यनेन प्रज्ञापारमिता परिपृष्टा / तत्कस्य हेतोः? तथा हि सुभूते गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते //
SK
(Vऐद्य १५१) सुभूतिराह - यो भगवन् बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां भाष्यमाणायां नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, कतमेन भगवन् आकारेण तेन प्रज्ञापारमिता व्यवचारिता भवति? भगवानाह - सर्वज्ञतानिम्नया सुभूते संतत्या तेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता व्यवचारिता भवति / सुभूतिराह - कथं भगवन् सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति? भगवानाह - आकाशनिम्नया सुभूते संतत्या आकाशप्रवणया आकाशप्राग्भारया सुभूते संतत्या सर्वज्ञतानिम्ना संततिर्व्यवचारिता भवति / या खलु पुनः सुभूते सर्वज्ञतानिम्नया संतत्या व्यवचारणा, इयं सा सुभूते व्यवचारणा / तत्कस्य हेतोः? अप्रमेया हि सुभूते सर्वज्ञता, अप्रमाणा हि सुभूते सर्वज्ञता / यत्सुभूते अप्रमेयमप्रमाणम्, न तद्रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं न प्राप्तिर्नाभिसमयो नाधिगमो न मार्गो न मार्गफलं न ज्ञानं न विज्ञानं नोत्पत्तिर्न विनाशो नोत्पादो न व्ययो न निरोधो न भावना न विभावना, नापि केनचित्कृतं नापि कुतश्चिदागतं नापि क्वचिद् गच्छति नापि क्वचिद्देशे नापि क्वचित्प्रदेशे स्थितम्, अपि तु अप्रमेयप्रमाणमित्येवं संख्यां गच्छति / आकाशाप्रमेयतया सर्वज्ञताप्रमेयता / या च अप्रमेयता, न सा शक्या केनचिदभिसंबोद्धुम् / न रूपेण न वेदनया न संज्ञया न संस्कारैर्न विज्ञानेन न दानपारमितया न शीलपारमितया न क्षान्तिपारमितया न वीर्यपारमितया न ध्यानपारमितया न प्रज्ञापारमितया शक्या अभिसंबोद्धुम् / तत्कस्य हेतोः? रूपमेव हि सुभूते सर्वज्ञता / एवं वेदनैव संज्ञैव संस्कारा एव / विज्ञानमेव हि सुभूते सर्वज्ञता / दानपारमितैव हि सुभूते सर्वज्ञता / शीलपारमितैव क्षान्तिपारमितैव वीर्यपारमितैव ध्यानपारमितैव प्रज्ञापारमितैव हि सुभूते सर्वज्ञता //
अथ खलु देवानामिन्द्रो ब्रह्मा सहापतिस्ते च कामावचरा रूपावचराश् च देवपुत्रा भगवन्तमेतदवोचन् - अनुजातो बतायं भगवन् भगवतः श्रावक आर्यसुभूतिः स्थविरः / तत्कस्य हेतोः? तथा हि भगवन् यं यमेव अयमार्यसुभूतिः स्थविरो धर्मं देशयति, तं तमेव धर्मं शून्यतामारभ्य देशयति //
SK
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रं ब्रह्माणं च सहापतिं तांश् च कामावचरान् रूपावचरांश् च देवपुत्रानामन्त्रयते स्म - यद्देवपुत्रा एवं वदथ - अनुजातो ऽयं सुभूतिः स्थविरस्तथागतस्येति / अजातत्वात्सुभूतिः स्थविरो ऽनुजातस्तथागतस्य / अनुजातस्तथतां सुभूतिः स्थविरस्तथागतस्य / यथा तथागततथता अनागता अगता, एवं हि सुभूतितथता अनागता अगता / एवं हि सुभूतिः स्थविरस्तथागततथतामनुजातः / आदित एव सुभूतिः स्थविरस्तथागततथतामनुजातः / तत्कस्य हेतोः? या हि तथागततथता, सा सर्वधर्मतथता / या सर्वधर्मतथता, सा तथागततथता / या च तथागततथता, या च सर्वधर्मतथता, सैव सुभूतेः स्थविरस्य तथता / तां तथतामनुजातः सुभूतिः स्थविरः / अतो ऽनुजातस्तथागतस्य / सापि च तथता अतथता / तां तथतामनुजातः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / तथागतस्य या सा तथतायाः स्थितिता, तया स्थितितया सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा, एवं हि सुभूतितथता अविकारा निर्विकारा, अविकल्पा निर्विकल्पा / एवं हि सुभूतिः स्थविरस्तया तथतया अविकारो निर्विकारो ऽविकल्पो निर्विकल्पस्तथागतस्यानुजातः / यथा च तथागततथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते, एवं सर्वधर्मतथता अविकारा निर्विकारा अविकल्पा निर्विकल्पा, न क्वचित्प्रतिहन्यते / तत्कस्य हेतोः? या च तथागततथता, या च सर्वधर्मतथता, एकैवैषा तथता अद्वयाद्वैधीकारा अद्वयतथता / न क्वचित्तथता, न कुतश्चित्तथता, न कस्यचित्तथता / यतः सा न कस्यचित्तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता / एवं हि सुभूतिः स्थविरो ऽनुजातस्तथागतस्याकृततथतया / या च अकृततथता, न सा कदाचिन्न तथता / यतश् च (Vऐद्य १५४) सा न कदाचिन्न तथता, ततः सा तथता अद्वयाद्वैधीकारा अद्वयतथता / एवं हि सुभूतिः स्थविरो ऽनुजातस्तथागतम् / यथा तथागततथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा, एवं सुभूतितथता सर्वत्र सर्वधर्मेष्वविकल्पा निर्विकल्पा / एवमेव च तथागततथतयाभिनिर्मितः सुभूतिश्चेति द्वयमप्यलुप्तमेतदभिन्नं भेदकानुपलब्धितः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता नान्यत्र सर्वधर्मतथतायाः, एवं हि सुभूतितथता नान्यत्र सर्वधर्मतथतायाः / या नान्यत्र सर्वधर्मतथतायाः, न सा कस्यचिन्न तथता / सैव सा तथता सर्वधर्मतथता / तां तथतां सुभूतिः स्थविरो ऽनन्यतथतानुगमेनोपगतः / न चात्र कश्चिन्न क्वचिदनुगतिमुपगतः / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः / यथा तथागततथता नातीता न अनागता न प्रत्युत्पन्ना, एवं सर्वधर्मतथता नातीता नानागता न प्रत्युत्पन्ना / एवं हि सुभूतिः स्थविरस्तां तथतामनुजातस्तथागतमनुजात इत्युच्यते / तथागततथतयापि ह्यनुगतस्तथतां तथागततथतया अतीततथतामनुगतः / अतीततथतया तथागततथतामनुगतः / तथागततथतया अनागततथतामनुगतः / अनागततथतया तथागततथतामनुगतः / तथागततथतया प्रत्युत्पन्नतथतामनुगतः / प्रत्युत्पन्नतथतया तथागततथतामनुगतः / तथागततथतया अतीतानागतप्रत्युत्पन्नतथतामनुगतः / अतीतानागतप्रत्युत्पन्नतथतया तथागततथतामनुगतः / इति हि सुभूतितथता च अतीतानागतप्रत्युत्पन्नतथता च तथागततथता च अद्वयमेतदद्वैधीकारम् / एवं सर्वधर्मतथता च सुभूतितथता च अद्वयमेतदद्वैधीकारम् / यैव च भगवतो बोधिसत्त्वभूतस्य तथता, सैव भगवतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तथता / इयं सा तथता, यया तथतया बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सन् तथागत इति नामधेयं लभते / अस्यां खलु पुनस्तथातगतथतायां निर्दिश्यमानायामियं महापृथिवी तस्यां वेलायां षड्विकारमष्टादशमहानिमित्तमकम्पत्, प्राकम्पत्, संप्राकम्पत्, अचलत् प्राचलत् संप्राचलत्, अवेधत् प्रावेधत् संप्रावेधत्, अरणत् प्रारणत् संप्रारणत्, अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत् तथागतस्यैवानुत्तरां सम्यक्संबोधिमभिसंबुध्यमानस्येति / पुनरपरं सुभूतिः स्थविरस्तान् देवपुत्रानामन्त्रयते स्म - एवं हि देवपुत्राः सुभूतिः स्थविरस्तथागतमनुजातः //
SK
पुनरपरं सुभूतिः स्थविरो न रूपमनुजातो न वेदनां न संज्ञां न संस्कारान् न विज्ञानमनुजातो न स्रोतआपत्तिफलमनुजातो न सकृदागामिफलं न अनागामिफलं न अर्हत्त्वफलमनुजातो न प्रत्येकबुद्धत्वमनुजातो न बुद्धत्वमनुजातः / तत्कस्य हेतोः? तथा हि ते धर्मा न संविद्यन्ते नोपलभ्यन्ते यैरनुजायेत, ये चानुजायेरन् / एवं हि सुभूतिः स्थविरस्तथागतमनुजातः //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - अविनिवर्तनीयस्य भगवन् बोधिसत्त्वस्य महासत्त्वस्य के आकाराः, कानि लिङ्गानि, कानि निमित्तानि? कथं वा भगवन् वयं जानीयाम अयमविनिवर्तनीयो बोधिसत्त्वो महासत्त्व इति? भगवानाह - या च सुभूते पृथग्जनभूमिः, या च श्रावकभूमिः, या च प्रत्येकबुद्धभूमिः, या च बुद्धभूमिः, इयं तथताभूमिरित्युच्यते / सर्वाश्चैतास्तथताया अद्वया अद्वैधीकारा अविकल्पा निर्विकल्पा इति तां तथतां तां धर्मतामवतरन्ति / तथतायां स्थितस्तथतां न कल्पयति न विकल्पयति, एवमवतरति / एवमवतीर्णो यथातथतां श्रुत्वापि ततो ऽपि चापक्रम्य न काङ्क्षति न विमतिं करोति, न विचिकित्सति, नैवमिति न धन्धायति, अपि तु एवमेतत्तथतैवेत्यधिमुञ्चत्यवगाहते, न च यत्किंचनप्रलापी भवति, अर्थसंहितामेव वाचं भाषते नानर्थसंहिताम्, न च परेषां कृताकृतानि व्यवलोकयति / एभिः सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नान्येषां श्रमणानां ब्राह्मणानां वा मुखमुल्लोकयति - इमे भगवन्तः श्रमणा ब्राह्मणा वा ज्ञेयं जानन्ति, दृश्यं पश्यन्तीति / न चान्यान् देवान्नमस्करोति, न चान्येभ्यो देवेभ्यः पुष्पं वा धूपं वा गन्धं वा माल्यं वा विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा दातव्यं मन्यते, न चान्यं देवं व्यपाश्रयते / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः / स खलु पुनः सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो नापायेषूपपद्यते, न च स्त्रीभावं परिगृह्णाति //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो दशकुशलान् कर्मपथान् समादाय वर्तते / स आत्मना च प्राणातिपातात्प्रतिविरतो भवति, परान् अपि च प्राणातिपातविरमणाय समादापयति / आत्मना च अदत्तादानात्प्रतिविरतो भवति, परान् अपि च अदत्तादानविरमणाय समादापयति / आत्मना च काममिथ्याचारात्प्रतिविरतो भवति, परान् अपि च काममिथ्याचारविरमणाय समादापयति / आत्मना च सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरतो भवति, परान् अपि सुरामैरेयमद्यप्रमादस्थानविरमणाय समादापयति / आत्मना च अनृतवचनात्प्रतिविरतो भवति, परान् अपि च अनृतवचनविरमणाय समादापयति / आत्मना च पिशुनवचनात्प्रतिविरतो भवति, परान् अपि च पिशुनवचनविरमणाय समादापयति / आत्मना च परुषवचनात्प्रतिविरतो भवति, परान् अपि च परुषवचनविरमणाय समादापयति / आत्मना च संभिन्नप्रलापात्प्रतिविरतो भवति, परान् अपि च संभिन्नप्रलापविरमणाय समादापयति / आत्मना च अभिध्यातः प्रतिविरतो भवति, परान् अपि च अभिध्यानविरमणाय समादापयति / (Vऐद्य १६२) आत्मना च व्यापादात्प्रतिविरतो भवति, परान् अपि च व्यापादविरमणाय समादापयति / आत्मना च मिथ्यादर्शनात्प्रतिविरतो भवति, परान् अपि च मिथ्यादर्शनविरमणाय समादापयति / एवं खलु सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वयं च दशकुशलान् कर्मपथान् समादाय वर्तते, परान् अपि च दशकुशलेषु कर्मपथेषु संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति प्रतिष्ठापयति दृढीकरोति / स स्वप्नान्तरगतो ऽपि दशकुशलान् कर्मपथानेकैकतो वा बाहुल्यतो वा सर्वेण सर्वं सर्वथा सर्वं नाध्यापद्यते, चित्तेनापि न समुदाचरति / तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्यापि दशकुशलाः कर्मपथा आमुखीभवन्ति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो गम्भीरेषु धर्मेषु भाष्यमाणेषु न काङ्क्षति, न विमतिं करोति, न विचिकित्सति न धन्धायति, हितवचनश् च भवति, मितवचनश् च भवति, स्निग्धवचनश् च भवति, अल्पस्त्यानमिद्धश् च भवति, निरनुशयश् च भवति / सो ऽभिक्रामन् वा प्रतिक्रामन् वा न भ्रान्तचित्तो ऽभिक्रामति वा, प्रतिक्रामति वा / उपस्थितस्मृतिरभिक्रामति, उपस्थितस्मृतिः प्रतिक्रामति / न विलम्बितं पादं भूमेरुत्क्षिपति, न विलम्बितं पादं भूमौ निक्षिपति / सुखमेवोत्क्षिपति, सुखं निक्षिपति / न च सहसा पादं भूमेरुत्क्षिपति, न च सहसा पादं भूमौ निक्षिपति, पश्यन्नैव भूमिप्रदेशमाक्रामति / तस्य खलु पुनः सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य शरीरे चीवरपरिभोगो न यूकिलो भवति / स चौक्षसमुदाचारश् च भवति / अल्पाबाधश् च भवति / अल्पादीनवश् च भवति / यानि खलु पुनरन्येषां सत्त्वानामशीतिः कृमिकुलसहस्राणि काये संभवन्ति, तानि तस्य काये सर्वेण सर्वं सर्वथा सर्वं न संभवन्ति / तत्कस्य हेतोः? तथा हि तस्य तानि कुशलमूलानि सर्वलोकाभ्युद्गतानि भवन्ति //
SK
यथा यथा च तस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वः कायपरिशुद्धिं च परिगृह्णीते, वाक्परिशुद्धिं च परिगृह्णीते, चित्तपरिशुद्धिं च परिगृह्णीते / सुभूतिराह - का पुनर्भगवंस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या? (Vऐद्य १६३) भगवानाह - यथा यथा सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलानि विवर्धन्ते, तथा तथा स बोधिसत्त्वो महासत्त्वश्चित्ताल्पकृत्यतां च परिगृह्णीते, चित्ताशाठ्यतां च चित्तामायावितां च चित्ताकुटिलतां चित्तावङ्कतां च परिगृह्णीते, यया च सुभूते चित्तपरिशुद्ध्या श्रावकप्रत्येकबुद्धभूमिमतिक्रान्तो भवति / इयं सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य चित्तपरिशुद्धिर्वेदितव्या / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायां सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न लाभसत्कारश्लोकगुरुको भवति, न चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारगुरुको भवति, नेर्ष्यामात्सर्यबहुलो भवति / न च गम्भीरेषु धर्मेषु भाष्यमाणेषु संसीदति / स्थिरबुद्धिश् च भवति, गम्भीरबुद्धिश् च भवति, सत्कृत्य च परतो धर्मं शृणोति / यं च सत्कृत्य परतो धर्मं शृणोति, तं सर्वं प्रज्ञापारमितायां संस्यन्दयति / यानि च लौकिकानि शिल्पस्थानकर्मस्थानानि, तानि सर्वाणि प्रज्ञापारमितामागम्य धर्मतया संस्यन्दयति / न च कंचिद्धर्म समनुपश्यति, यं न धर्मधातुना योजयति / सर्वमेव च तं प्रयुज्यमानं समनुपश्यति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते मारः पापीयानष्टौ महानिरयानभिनिर्माय तत्र एकैकस्मिन् महानिरये बहूनि बोधिसत्त्वशतानि बहूनि बोधिसत्त्वसहस्राणि बहूनि बोधिसत्त्वशतसहस्राण्यभिनिर्माय अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमेवं वदेत् - ये तथागतेन अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा व्याकृताः, ते एतेषु महानिरयेषूपपन्नाः / त्वमप्येवं महानिरयेषु प्रपत्स्यसे, यतस्त्वमविनिवर्तनीयो व्याकृतः / पुनरेव त्वमेतद्बोधिचित्तं प्रतिदेशय, प्रतिनिःसृज / किं ते बुद्धत्वेन? एवं त्वं न निरयेषूपपत्स्यसे / एवं त्वं कुर्वन् स्वर्गोपगो भविष्यसीति / सचेदेवम् अपि बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति, न चलति, एवं जानाति - अस्थानमेतदनवकाशः, यदविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो ऽपायेषूपपद्यते इति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
पुनरपरं सुभूते अविनिवर्तनीयं बोधिसत्त्वं महासत्त्वमुपसंक्रम्य कश्चिदेवं वक्ष्यतिसंसारचारिकैषा, नैषा बोधिसत्त्वचारिका / इहैव त्वं दुःखस्यान्तं कुरु / न भूयस्तानि संसारावचराणि दुःखदौर्मनस्यानि प्रत्यनुभविष्यसीति / अहो बत तवायमिहैव तावदात्मभावो ऽनभिनिर्वृत्तो भविष्यति, कुतः पुनस्त्वमन्यमात्मभावं परिग्रहीतव्यं मन्यसे इति वा / सचेदेवम् अपि न क्षुभ्यति न चलति, तमेनं मारः पापीयान् स्वयमेवं वक्ष्यति - इच्छसि त्वं द्रष्टुं तान् बोधिसत्त्वान् महासत्त्वान् यैर्गङ्गानदीवालुकोपमान् कल्पान् बुद्धा भगवन्तः प्रत्युपस्थिताश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, गङ्गानदीवालुकोपमानां बुद्धानां भगवतामन्तिकेषु ब्रह्मचर्यं चरितम्, गङ्गानदीवालुकोपमा एव बुद्धा भगवन्तः पर्युपासिताः परिपृष्टाः परिप्रश्नीकृताश् च अस्यैव बोधिसत्त्वयानस्यार्थाय कथं बोधिसत्त्वैर्महासत्त्वैः स्थातव्यमिति? यथा च बोधिसत्त्वैर्महासत्त्वैः स्थातव्यम्, तथा च तैस्तथागतैरेवाख्यातम् / तथापि स्थित्वा तथा चरित्वा तथैव योगमापद्य अद्यापि तैरेव तावन्न अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा / तथा अववादानुशासन्यां स्थितैस्तथा शिक्षमाणैः सर्वज्ञता नानुप्राप्ता / कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यसीति? सचेदेवम् अपि न क्षुभ्यति न चलति, तं मारः पापीयांस्तस्मिन्नेव पृथिवीप्रदेशे भिक्षूनभिनिर्मायैवं वक्ष्यति - एते भिक्षवो ऽर्हन्तः क्षीणास्रवाः संवृत्ताः, ये बोधये संप्रस्थिता अभूवन्, तत्र तर्हि अर्हत्त्वमनुप्राप्ता अर्हत्त्वे स्थिताः / कुतः पुनस्त्वमनुत्तरां सम्यक्संबोधिमनुप्राप्स्यतीति? सचेत्खलु पुनरेवम् अपि भाष्यमाणे एवं निर्दिश्यमाने बोधिसत्त्वस्य महासत्त्वस्य चित्तं न क्षुभ्यति न चलति, अयं बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः / सचेद्बोधिसत्त्वस्य महासत्त्वस्य चित्तं परतः श्रुत्वैवं विवेकपदानि धर्मताया न परिहीयते, न प्रत्युदावर्तते ऽस्य मानसम्, न चान्यथाभावश्चित्तस्य भवति, तानि च सर्वाणि मारकर्माणि तथा संजानाति - अस्थानं सुभूते अनवकाशः, यत्स बोधिसत्त्वो महासत्त्वस्तथा चरन् पारमितासु न सर्वज्ञतामनुप्राप्नुयात् -(Vऐद्य १६५) अस्थानमेतदनवकाशो यत्तथा चरतस्तथा शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य यथा तथागतैराख्यातं तया चर्यया अविरहितस्य एभिः पारमिताप्रतिसंयुक्तैर्मनसिकारैर्विहरतो मारः पापीयान्नावतारं लप्स्यते / सचेद्बोधिसत्त्वो महासत्त्वो मारकर्माणि बुध्यते, परतश् च श्रुत्वा विवेकपदानि न परिहीयते, न प्रत्युदावर्तते ऽस्य मानसम्, न चास्य चित्तमन्यथा भवति, तानि च मारकर्माणि तथा संजानाति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न रूपसंज्ञामभिसंस्कारोति, न रूपसंज्ञामुत्पादयति / एवं न वेदनासंज्ञां न संज्ञासंज्ञां न संस्कारसंज्ञाम् / न विज्ञानसंज्ञामभिसंस्करोति, न विज्ञानसंज्ञामुत्पादयति / तत्कस्य हेतोः? तथा हि अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः स्वलक्षणशून्यैर्धर्मैर्बोधिसत्त्वन्यामावक्रान्तः / तम् अपि धर्मं नोपलभते नाभिसंस्कारोति नोत्पादयति / तत उच्यते अनुत्पादज्ञानक्षान्तिको बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीय इति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वमेवं विच्छन्दयिष्यति - आकाशसमैषा यदुत सर्वज्ञता / असन्नेष धर्मो यदुत सर्वज्ञता / असंविद्यमान एष धर्मो यदुत सर्वज्ञता / को ऽत्राज्ञास्यति, को ऽत्राभिसंभोत्स्यते? नैतेन कश्चिन्निर्यास्यति - यश्चाभिसंबुध्येत, यच्चाभिसंबोद्धव्यम्, यश् च आजानीयात्, यच्च आज्ञातव्यम् / सर्वत्र ते धर्मा आकाशसमाः / निरर्थकं त्वं विहन्यसे / मारकर्मैर्वैतत्परिदीपितं यदुत अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति, नैतद्बुद्धभाषितमिति / तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं ज्ञातव्यमेवं समन्वाहर्तव्यमेवं वेदितव्यम् - मारकर्मैवैतत्, येयं विवेचनता / एवं चिन्तयित्वा तत्र दृढचित्तेन भवितव्यम्, अप्रकम्प्यचित्तेनासंहार्यचित्तेन भवितव्यम् / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धभूमिनिर्वृत्तः सर्वज्ञतायां प्रवृत्तो भवति / स आकाङ्क्षन् प्रथमं ध्यानं समापद्यते / तथा द्वितीयं तथा तृतीयं तथा चतुर्थं ध्यानं समापद्यते / स एभिश्चतुर्भिर्ध्यानैर्विहरति, ध्यानपरिजयं च करोति, ध्यानानि च समापद्यते, न च ध्यानवशेनोपपद्यते / स पुनरेव कामावचरान् धर्मानध्यालम्बते / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
SK
पुनरपरं सुभूते अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो न नामगुरुको भवति, न कीर्तिशब्दश्लोकगुरुको भवति, न नाम्नि सज्जते / सो ऽसंक्षुभितचित्तो भवति, सर्वसत्त्वेषु (Vऐद्य १६६) हितचित्तश् च भवति / सो ऽभिक्रामन् वा प्रतिक्रामन् वा अभ्रान्तचित्तो ऽभिक्रामति, अभ्रान्तचित्तः प्रतिक्रामति / स्मृतिमानेवाभिक्रामति, स्मृतिमानेव प्रतिक्रामति / सचेत्सो ऽगारमध्यावसति, नास्य भवत्यधिमात्रः कामेषु कामाभिष्वङ्गो वा अभिप्रायो वा / स निर्वित्संज्ञ्येव कामान् परिभुङ्क्ते / स उत्रस्तसंज्ञ्येव कामान् परिभुङ्क्ते / तद्यथापि सुभूते चौरकान्तारमध्यगतः पुरुषः आहारकृत्यं कुर्वन्नुत्रस्तसंज्ञ्येवाहारं कुर्यात्, गमनसंज्ञ्येवाहारं कुर्यात्, कदा नु खलु नाम अहमितश्चौरकान्तारादतिक्रान्तो भविष्यामीत्येवंसंज्ञी अविश्रब्धमाहारमाहरति / एवमेव सुभूते अविनिवर्तनीया बोधिसत्त्वा महासत्त्वा अगारमध्यावसन्तो यान् यानेव कामान् परिभुञ्जते, तांस्ताननर्थिका एव अगृद्धा एव असक्ता एव कामान् परिभुञ्जते / अनर्थिका एव च ते भवन्ति प्रियरूपसातरूपैः पञ्चभिः कामगुणैः / ते ऽगारमध्यावसन्तो न समविषमेण जीविकां कल्पयन्ति / धर्मेणैव जीविकां कल्पयन्ति नाधर्मेणापि / मरणमुपगच्छन्ति न त्वेव परेषामपमर्दनं कुर्वन्ति / तत्कस्य हेतोः? तथा हि तैः सत्पुरुषैर्महापुरुषैरतिपुरुषैः पुरुषप्रवरैः पुरुषशोभनैः पुरुषर्षभैः पुरुषोदारैः पुरुषशौटीरैः पुरुषपुंगवैः पुरुषधुर्यैः पुरुषपद्मैः पुरुषपुण्डरीकैः पुरुषाजानेयैः पुरुषनागैः पुरुषसिंहैः पुरुषदम्यसारथिभिः सर्वसत्त्वाः परमसुखे नियोजयितव्याः / एवं हि सुभूते अगारमध्यावसन्ति बोधिसत्त्वा महासत्त्वा यथापि नाम प्रज्ञापारमिताबलाधानप्राप्तत्वात् / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागता बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः //
SK
पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य वज्रपाणिर्महायक्षो नित्यानुबद्धो भवति / स दुर्धर्षो भवति, अनतिक्रमणीयश् च भवति मनुष्यैर्वा अमनुष्यैर्वा, दुरासदः सर्वसत्त्वानाम् / स न विक्षिप्तचित्तो भवति, न विकलेन्द्रियो भवति, परिपूर्णैन्द्रियश् च भवति नापरिपूर्णेन्द्रियः / पुरुषवृषभेन्द्रियसमन्वागतश् च भवति नासत्पुरुषः / स यानीमानि स्त्रीणां वशीकरणानि मन्त्रजाप्यौषधिविद्याभैषज्यादीनि, तानि सर्वाणि सर्वेण सर्वं न प्रयोजयति / शुद्धाजीवश् च भवति न मिथ्याजीवः / न विग्रहविवादशीलः / ऋजुदृष्टिकश् च भवति / नात्मोत्कर्षी न परपंसकः / स एभिश्चान्यैश् च गुणैः समन्वागतो भवति / स न स्त्रियं न च पुरुषं व्याकरोति - पुत्रो वा ते भविष्यति, दुहिता वा ते भविष्यतीति / तस्यैवमादिका एवंरूपा आदेयतादोषा न भवन्ति / एभिर् अपि सुभूते आकारैरेभिर्लिङ्गैरेभिर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य ये आकारा यानि लिङ्गानि यानि निमित्तानि यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो वेदितव्यो ऽनुत्तरायाः सम्यक्संबोधेः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि / ते पुनः कतमे? तद्यथा - न ते स्कन्धायतनधातुप्रतीत्यसमुत्पादयोगानुयोगमनुयुक्ता विहरन्ति, न संगणिकारामकथायोगानुयोगमनुयुक्ता विहरन्ति, न राजकथायोगानुयोगमनुयुक्ता विहरन्ति, न चौरकथायोगानुयोगमनुयुक्ता विहरन्ति, न सेनाकथायोगानुयोगमनुयुक्ता (Vऐद्य १६७) विहरन्ति, न युद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति, नात्मकथायोगानुयोगमनुयुक्ता विहरन्ति, नामात्यमहामात्रकथायोगानुयोगमनुयुक्ता विहरन्ति, न स्त्रीपुरुषनपुंसककथायोगानुयोगमनुयुक्ता विहरन्ति, न यानोद्यानविहारप्रासादह्रदसरस्तडागपुष्करिणीवनारामशैलकथायोगानुयोगमनुयुक्ता विहरन्ति, न यक्षराक्षसप्रेतपिशाचकटपूतनकुम्भाण्डकथायोगानुयोगमनुयुक्ता विहरन्ति, नान्नपानवस्त्राभरणगन्धमाल्यविलेपनकथायोगानुयोगमनुयुक्ता विहरन्ति, न वीथीचत्वरशृङ्गाटकविशिखापणशिबिकाकुटुम्बकथायोगानुयोगमनुयुक्ता विहरन्ति, न गीतनृत्याख्यायिकानटनर्तकचारणकथायोगानुयोगमनुयुक्ता विहरन्ति, न सागरनदीद्वीपकथायोगानुयोगमनुयुक्ता विहरन्ति, न धर्मविरुद्धकथायोगानुयोगमनुयुक्ता विहरन्ति, न पृथग्जनरतिकथायोगानुयोगमनुयुक्ता विहरन्ति, अपि तु प्रज्ञापारमिताकथायोगानुयोगमनुयुक्ता विहरन्ति / अविरहिताश् च भवन्ति सर्वज्ञताप्रतिसंयुक्तैर्मनसिकारैः / न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्ति / धर्मकामा एव च ते भवन्ति, नाधर्मकामाः / अभेदवर्णवादिनश् च ते भवन्ति, न भेदवर्णवादिनः / मित्रकामाश् च ते भवन्ति, नामित्रकामाः / धर्मवादिनश् च ते भवन्ति, नाधर्मवादिनः / ते तथागतदर्शनमेवाकाङ्क्षन्त आकाङ्क्षन्ति अन्येषु लोकधातुषु ये तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामन्तिके उपपत्तये चित्तमुत्पादयन्ति / ते आकाङ्क्षन्तस्तत्रोपपद्यन्ते / एवं ते अविरहिता भवन्ति तथागतदर्शनेन तथागतपर्युपासनेन तथागतपर्युपस्थानेन च //
सुभूतिराह - एतेषामेव भगवन् केवलमेतद्धर्माणामधिवचनं न पुनः सर्वधर्माणाम्? भगवानाह - सर्वधर्माणामप्येतत्सुभूते अधिवचनं यदुत गम्भीरमिति / तत्कस्य हेतोः? रूपं हि सुभूते गम्भीरम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं हि सुभूते गम्भीरम् / कथं च सुभूते रूपं गम्भीरम्? कथं वेदना संज्ञा संस्काराः? कथं च सुभूते विज्ञानं गम्भीरम्? यथा सुभूते तथता, तथा गम्भीरं रूपम् / एवं वेदना संज्ञा संस्काराः / यथा सुभूते तथता, तथा गम्भीरं विज्ञानम् / तत्र सुभूते यथा रूपतथता, तथा गम्भीरं रूपम् / यथा वेदनातथता संज्ञातथता संस्कारतथता / तत्र सुभूते यथा विज्ञानतथता, तथा गम्भीरं विज्ञानम् / यत्र सुभूते न रूपम्, इयं रूपस्य गम्भीरता / यत्र सुभूते न वेदना न संज्ञा न संस्कारा न विज्ञानम्, इयं वेदनासंज्ञासंस्काराणाम्, इयं विज्ञानस्य गम्भीरता //
SK
सुभूतिराह - आश्चर्यं भगवन् यावत्सूक्ष्मेणोपायेन रूपतश् च निवारितो निर्वाणं च सुचितम् / एवं वेदना संज्ञा संस्काराः / यावत्सूक्ष्मेणोपायेन विज्ञानतश् च निवारितो निर्वाणं च सूचितम् / भगवानाह - इमानि सुभूते गम्भीराणि गम्भीराणि स्थानानि प्रज्ञापारमिताप्रतिसंयुक्तानि यश्चिन्तयिष्यन्ति तुलयिष्यति उपनिध्यास्यति - एवं मया स्थातव्यं यथा प्रज्ञापारमितायामाज्ञप्तम् / एवं मया शिक्षितव्यं यथा प्रज्ञापारमितायामाख्यातम् / एवं मया प्रतिपत्तव्यं यथा प्रज्ञापारमितायामुपदिष्टम् / तथा संपादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान एकदिवसमप्यत्र योगमापद्यते / अयं बोधिसत्त्वो महासत्त्वस्तेनैकदिवसेन कियत्कर्म करोति? तद्यथापि नाम सुभूते कश्चिदेव पुरुषो रागचरितो वितर्कचरितः / तस्य पुरुषस्य रागचरितस्य वितर्कचरितस्य स्त्रिया अभिरूपया प्रासादिकया दर्शनीयया सह संकेतः कृतो भवेत् / सा खलु पुनः स्त्री (Vऐद्य १७१) परपरिगृहीता भवेत् / न वशयेदात्मानमगारान्निष्क्रमितुम् / तत्किं मन्यसे सुभूते किंप्रतिसंयुक्तास्तस्य पुरुषस्य वितर्काः प्रवर्तेरन्? सुभूतिराह - स्त्रीप्रतिसंयुक्ता एव भगवंस्तस्य पुरुषस्य वितर्काः प्रवर्तेरन् - इयमागच्छति, इयमागता / तया सार्धमेवं करिष्यामि, एवं रमिष्यामि, एवं क्रीडिष्यामि, एवं प्रविचारयिष्यामीति / भगवानाह - तत्किं मन्यसे सुभूते दिवसस्यात्ययेन तस्य पुरुषस्य कियन्तो वितर्का उत्पद्येरन्? सुभूतिराह - बहवो भगवन् दिवसस्यात्ययेन तस्य पुरुषस्य वितर्का उत्पद्येरन् / भगवानाह - यावन्तः सुभूते तस्य पुरुषस्य दिवसस्यात्ययेन वितर्का उत्पद्येरन्, इयतः सुभूते कल्पान् बोधिसत्त्वो महासत्त्वश्छोरयति विपृष्ठीकरोति संसाराद्व्यन्तीकरोति, य इह प्रज्ञापारमितायां यथाज्ञप्तं यथाख्यातं यथोपदिष्टं यथोद्दिष्टं यथानिर्दिष्टं तिष्ठति शिक्षते प्रतिपद्यते उपनिध्यायति योगमापद्यते, तांश् च दोषान् विवर्जयति, यैर्दोषैर्बोधिसत्त्वो महासत्त्वो विवर्तते ऽनुत्तरायाः सम्यक्संबोधेः / एवं हि सुभूते यश् च बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायोगमनुयुक्तः, अनेन विहारेण विहरन् यदुत प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः, एकदिवसेन तावत्कर्म करोति / यश् च प्रज्ञापारमिताविरहितो बोधिसत्त्वो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठन् दानं दद्यात्, अयमेव ततो विशिष्यते यो ऽयं बोधिसत्त्वो महासत्त्व एवमेकदिवसम् अपि प्रज्ञापारमितायां योगमापद्यते //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - का पुनरेषा भगवन् अनुत्तरा सम्यक्संबोधिः? भगवानाह - तथतैषा सुभूते अनुत्तरा सम्यक्संबोधिः / न च सुभूते तथता विवर्धते, वा, परिहीयते वा / सचेद्बोधिसत्त्वो महासत्त्वस्तत्प्रतिसंयुक्तैर्मनसिकारैरभीक्ष्णं बहूलं विहरति, एवं स आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेः, तैश् च मनसिकारैर्न परिहीयते / एवं खलु सुभूते अनभिलप्यस्यार्थस्य न वृद्धिर्न परिहाणिर्भवति / एवं पारमितानां न वृद्धिर्न परिहाणिर्भवति / एवं सर्वधर्माणाम् अपि सुभूते न वृद्धिर्न परिहाणिर्भवति / एवं हि सुभूते बोधिसत्त्वो महासत्त्व एभिरेवंरूपैर्मनसिकारैर्विहरन् आसन्नीभवत्यनुत्तरायाः सम्यक्संबोधेरिति //
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - किं पुनर्भगवन् प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, उताहो पश्चिमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते? पौर्वको भगवंश्चित्तोत्पादः पश्चिमकेन चित्तोत्पादेन असमवहितः, पश्चिमकश्चित्तोत्पादः पौर्वकेण चित्तोत्पादेन असमवहितः / कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलानामुपचयो भवति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - तत्किं मन्यसे सुभूते तैलप्रद्योतस्य ज्वलतो ऽर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा, उताहो पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा? सुभूतिराह - नो हीदं भगवन् / न हि भगवन् अर्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा / न च प्रथमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा / न च भगवन् पश्चिमाभिनिपातेनार्चिषा सा वर्तिर्दग्धा, न च पश्चिमाभिनिपातमनागम्य अर्चिषा सा वर्तिर्दग्धा / भगवानाह - तत्किं मन्यसे सुभूते अपि नु सा वर्तिर्दग्धा? सुभूतिराह - दग्धा भगवन्, दग्धा सुगत / भगवानाह - एवमेव सुभूते न च प्रथमचित्तोत्पादेन बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च पश्चिमचित्तोत्पादेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च तैश्चित्तोपादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्यो ऽभिसंबुध्यते / अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् //
SK
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - गम्भीरो ऽयं भगवन् प्रतीत्यसमुत्पादः / न च नाम भगवन् प्रथमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम प्रथमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / न च नाम पश्चिमचित्तोत्पादेनैव बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम पश्चिमचित्तोत्पादमनागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, न च नाम तैश्चित्तोत्पादैर्न चान्यत्र तेभ्यश्चित्तोत्पादेभ्यो ऽभिसंबुध्यते / अभिसंबुध्यते च बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् //
पुनरपरं शारिपुत्र व्यालकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन सर्वं परित्यक्तव्यं सर्वसत्त्वानामर्थाय / तेनैवं चित्तमुत्पादयितव्यम् - यदि चेन्मां व्याला भक्षयेयुः, तेभ्य एव तद्दानं दत्तं भवतु / मम च दानपारमितापरिपूरिर्भविष्यति / अनुत्तरा च मे सम्यक्संबोधिरासन्नीभविष्यति / तथा च करिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतः तिर्यग्योनिगताः सत्त्वाः सर्वेण सर्वं सर्वथा सर्वं सर्वत्र मे बुद्धक्षेत्रे न भविष्यन्ति, न प्रज्ञास्यन्ते, दिव्योपभोगपरिभोगाश् च भविष्यन्तीति //
SK
पुनरपरं शारिपुत्र चोरकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? सर्वस्वपरित्यागकुशलाभिरता हि (Vऐद्य १७९) बोधिसत्त्वा महासत्त्वा भवन्ति / उत्सृष्टकायेनापि च बोधिसत्त्वेन महासत्त्वेन भवितव्यं परित्यक्तसर्वपरिष्कारोपकरणेन / तेनैवं चित्तमुत्पादयितव्यम् - सचेन्मम सत्त्वाः सर्वपरिष्कारोपकरणानि हरेयुः, तेभ्य एव तद्दानं दत्तं भवतु / यदि चेन्मां केचिज्जीविताद्व्यपरोपयेयुः, तत्र न मया व्यापादक्रोधरोषा उत्पादयितव्याः / तेषाम् अपि च मया न कायेन न वाचा न मनसा अपराद्धव्यम् / एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति / अनुत्तरा च मे सम्यक्संबोधिरभ्यासन्नीभविष्यति / तथा च करिष्यामि, तथा च प्रतिपत्स्ये, यथा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतश्चोरकान्ताराण्य् अपि तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा च बुद्धक्षेत्रपरिशुद्धये व्यापत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते //
SK
पुनरपरं शारिपुत्रं पानीयकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? असंत्रस्तानुत्रस्तधर्माणो हि बोधिसत्त्वा महासत्त्वा भवन्ति / एवं चानेन चित्तमुत्पादयितव्यम् - सर्वसत्त्वानां मया सर्वतृष्णाच्छेदाय शिक्षितव्यम् / न च बोधिसत्त्वेन महासत्त्वेनोत्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम् / सचेदहं तृष्णया कालं करिष्यामि, प्रेतलोके ममोपपत्तिर्भविष्यतीति / अपि तु खलु पुनः सर्वसत्त्वानामन्तिके महाकरुणाचित्तमुत्पादयितव्यम् - अहो बत अल्पपुण्या अमी सत्त्वाः, यदेतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते / तथा पुनरहं करिष्यामि, तथा प्रतिपत्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा च सर्वसत्त्वान् पुण्यैः संनियोक्ष्ये, यथा अष्टाङ्गोपेतपानीयलाभिनो ऽमी भविष्यन्ति / तथा च दृढं वीर्यमारप्स्ये सर्वसत्त्वानां कृतशः, यथा वीर्यपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति //
SK
पुनरपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / एवं चानेन संनाहः संनाह्यः - तथा दृढं वीर्यमारप्स्ये, तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे एवंरूपाणि बुभुक्षाकान्ताराणि सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / सुखिता एव ते सत्त्वा भविष्यन्ति सुखसमङ्गिनः सर्वसुखसमर्पिताः / तथा च करिष्यामि, यथा तेषां सत्त्वानां यो य एवाभिप्रायो भविष्यति, यद्यदेवाकाङ्क्षिष्यन्ति मनसा, तत्तदेव प्रादुर्भविष्यति तद्यथापि नाम देवानां त्रायस्त्रिंशानां मनसैव सर्वमुत्पद्यते, यथा तेषां सत्त्वानां मनसैव सर्वं प्रादुर्भविष्यति, मनसा सर्वमुत्पत्स्यते, तथा दृढं वीर्यमारप्स्ये / यथा तेषां सत्त्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति, अवैकल्यं च जीवितपरिष्कारैः सर्वसत्त्वानां (Vऐद्य १८०) भविष्यति सर्वथा सर्वतः सर्वदा, तथा च स्वचित्तपरिशुद्धये व्यायंस्ये सर्वसत्त्वानां कृतशः, यथा ध्यानपारमिता च मे तस्मिन् समये परिपूरिं गमिष्यतीति //
SK
पुनरपरं शारिपुत्र व्याधिकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / एवं चानेनोपपरीक्षितव्यं चिन्तयितव्यं तुलयितव्यम् - नेह स कश्चिद्धर्मो यो व्याध्या बाध्यते, नापि स कश्चिद्धर्मो यो व्याधिर्नाम / एवं तेन शून्यता प्रत्यवेक्षितव्या / न चोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / न च शारिपुत्र बोधिसत्त्वेन महासत्त्वेनैवं चित्तमुत्पादयितव्यम् - चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / तत्कस्य हेतोः? यो हि चित्तक्षणः, इयती सैषा अपूर्वा कोटिर्यदुत अकोटिः / एवं तेन बोधिसत्त्वेन महासत्त्वेन न दुष्करसंज्ञोत्पादयितव्या - बह्वी दीर्घा चैषा अपूर्वा कोटिरिति, एकचित्तक्षणसमायुक्ता ह्येषा अपूर्वा कोटिर्यदुत अकोटिः / एवं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन चिरेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् / यः खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्व एभ्यश्चान्येभ्यश् च दृष्टश्रुतमतविज्ञातेभ्यो भयभैरवेभ्यो नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, ज्ञातव्यमिदं शारिपुत्र भव्यो ऽयं कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुमिति / एवं च शारिपुत्र बोधिसत्त्वेन महासत्त्वेन महासंनाहः संनद्धव्यः - तथा करिष्यामि, तथा दृढं वीर्यमारप्स्ये, यथा मे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तस्मिन् बुद्धक्षेत्रे सर्वसत्त्वानां सर्वेण सर्वं सर्वथा सर्वं सर्वव्याधयो न भविष्यन्ति, न प्रज्ञास्यन्ते / तथा करिष्यामि, यथा तथागतानामुक्तवादी यथोक्तकारी च भविष्यामि / तथा च प्रज्ञापारमितायां परिजयं करिष्यामि सर्वसत्त्वानां कृतशः, यथा प्रज्ञापारमितापि मे तस्मिन् समये परिपूरिं गमिष्यतीति //
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां गङ्गदेवीभगिनीपरिवर्तो नाम एकोनविंशतितमः //
SK
ASP_२०: उपायकौशल्यमीमांसापरिवर्तो विंशतितमः /
SK
अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - प्रज्ञापारमितायां भगवंश्चरता बोधिसत्त्वेन महासत्त्वेन कथं शून्यतायां परिजयः कर्तव्यः, कथं वा शून्यतासमाधिः समापत्तव्यः? भगवानाह - इह सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपं शून्यमिति प्रत्यवेक्षितव्यम् / एवं वेदना संज्ञा संस्काराः / विज्ञानं शून्यमिति प्रत्यवेक्षितव्यम् / तथा च प्रत्यवेक्षितव्यमविक्षिप्तया चित्तसंतत्या यथा प्रत्यवेक्षमाणो रूपमिति तां धर्मतां धर्मतया न समनुपश्येत् / तां च असमनुपश्यन् धर्मतां न साक्षात्कुर्याद्भूतकोटिम् / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - यद्भगवानेवमाह - न बोधिसत्त्वेन महासत्त्वेन शून्यता साक्षात्कर्तव्येति / कथं भगवन् तस्मिन् समाधौ स्थितो बोधिसत्त्वो महासत्त्वः शून्यतां न साक्षात्करोति? भगवानाह - यतः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारवरोपेतां शून्यतां प्रत्यवेक्षते, न च साक्षात्करिष्यामीति प्रत्यवेक्षते, न च साक्षात्कर्तव्येति प्रत्यवेक्षते, परिजयं करिष्यामीति प्रत्यवेक्षते, परिजयस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते, असमाहित एवारम्बणे चित्तमुपनिबध्नाति - प्रज्ञापारमिता च मे परिगृहीता भविष्यति, न च साक्षात्कृतेति / अत्रान्तरा बोधिसत्त्वो महासत्त्वो न परिहीयते बोधिपक्षैर्धर्मैः, न च आस्रवक्षयं करोति, अत्र च परिजयं करोति / यस्मिन् समये बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, तस्मिन् समये बोधिसत्त्वेन महासत्त्वेन आनिमित्तेन च समाधिना विहर्तव्यम्, न च आनिमित्तं साक्षात्कर्तव्यम् / तत्कस्य हेतोः? एवमारूढकुशलमूलधर्मसमन्वागतो हि बोधिसत्त्वो महासत्त्वः - परिपाकस्यायं कालः, नायं कालः साक्षात्क्रियाया इति प्रत्यवेक्षते / प्रज्ञापारमितया च परिगृहीतो भूतकोटिं न साक्षात्करोति / तद्यथापि नाम सुभूते कश्चिदेव पुरुषः परमशूरश् च भवेत्, परमवीर्यसमन्वागतश् च भवेत्, दृढप्रतिष्ठानश् च भवेत्, अभिरूपश् च भवेत्, प्रासादिकश् च भवेत्, परमदर्शनीयश् च भवेत्, बहुगुणसमन्वागतश् च भवेत्, परमगुणसमन्वागतश् च भवेत्, परमैश्वर्यशीलश्रुतत्यागादिगुणैश् च समन्वागतो भवेत्, मेधावी च भवेत्, वचनसमर्थश् च भवेत्, प्रतिभानसंपन्नश् च भवेत्, प्रतिपत्तिसंपन्नश् च भवेत्, कालज्ञश् च भवेत्, देशज्ञश् च भवेत्, स्थानज्ञश् च भवेत्, इष्वस्त्रे च परमगतिं गतो भवेत्, बहुप्रहरणावरणश् च भवेत्, सर्वासु च कलासु परमकुशलो भवेत्, सुपरिनिष्पन्नतया सर्वेष्वेव च शिल्पस्थानेषु परमगतिको भवेत्, स्मृतिमांश् च भवेत्, मतिमांश् च भवेत्, गतिमांश् च भवेत्, धृतिमांश् च भवेत्, नीतिमांश् च भवेत्, सर्वशास्त्रविशारदश् च भवेत्, मित्रवांश् च भवेत्, अर्थवांश् च भवेत्, बलवांश् च भवेत्, अहीनाङ्गश् च भवेत्, परिपूर्णेन्द्रियश् च भवेत्, सर्वोपकरणसंपन्नश् च भवेत्, बहुजनस्य च प्रियो मनआपश् च भवेत् / स यद्यदेव किंचित्कार्यमारभेत, तत्र तत्र सर्वत्र निस्तरणसमर्थो भवेत्, नयेन च व्यवहरेत्, सर्वत्र चास्य महालाभो भवेत् / तेन महालाभेन समन्वागतः सन् बहुजनं संविभजेत्, सत्कर्तव्यं च सत्कुर्यात्, गुरुकर्तव्यं च गुरुकुर्यात्, मानयितव्यं च मानयेत्, (Vऐद्य १८४) पूजयितव्यं च पूजयेत् / तत्किं मन्यसे सुभूते अपि नु स पुरुषस्ततोनिदानं भूयस्या मात्रया आत्तमनस्को भवेत्, प्रमुदितश् च भवेत्, प्रीतिसौमनस्यजातश् च भवेत्? सुभूतिराह एवमेतद्भगवन्, एवमेतत्सुगत / भगवानाह - स खलु पुनः सुभूते पुरुषस्तया महासंपत्त्या समन्वागतो मातापितृपुत्रदारान् गृहीत्वा केनचिदेव कारणसामग्रीयोगेन महाटवीकान्तारं प्रतिपन्नो भवेत् महाप्रतिभयं बालानां भीषणं रोमहर्षणम् / स तत्र प्रविष्टः संस्तान् मातापितृपुत्रदारानभयेनाभिनिमन्त्रयेत् - मा भैष्ट, मा भैष्ट, अहमितो युष्मान् महाभयभैरवादटवीकान्तारात्क्षेमेण स्वस्तिना शीघ्रमपक्रामयिष्यामि, शीघ्रं परिमोचयिष्यामीति / तत्र खलु पुनः सुभूते अटवीकान्तारे तस्य पुरुषस्य बहवः प्रत्यर्थिकाः बहवः प्रत्यमित्राः प्रत्युपस्थिता भवेयुः / तत्किं मन्यसे सुभूते अपि नु स शूरः पुरुषस्तैः प्रत्यर्थिकैः प्रत्यमित्रैरभ्युत्थितैरविनिवर्त्यो दृढवीर्यबलसमन्वागतः प्रज्ञावानतिस्निग्धः सानुक्रोशो धीरो महासंभारसमन्वागतस्तान् मातापितृपुत्रदारान् परित्यज्य ततो महाभयभैरवादटवीकान्तारादात्मानमेकमपक्रामयितव्यं मन्येत? सुभूतिराह - नो हीदं भगवन् / तत्कस्य हेतोः? तथा हि भगवंस्तस्य पुरुषस्य तन्मातापितृपुत्रदारमपरित्यक्तम्, आध्यात्मिकश् च बाह्यश् च बलवान् संभारः / तस्य तत्र अटवीकान्तारे बहुतरकाश् च शूरतरकराश् च दृढप्रहरणतरकराश् च तेषां प्रत्यर्थिकानां प्रत्यमित्राणामन्ये उदारतरकाः प्रत्यर्थिकाः प्रत्यमित्रास्तिष्ठन्ति रक्षन्ति / ते तस्य प्रत्यर्थिकाः प्रत्यमित्रा अवतारप्रेक्षिणो ऽवतारगवेषिणो ऽवतारं न लप्स्यन्ते / तेन स भगवन् प्रतिबलः पुरुषो ऽक्षतो ऽनुपहतस्तन्मातापितृपुत्रदारमात्मानं च ततो महाभयभैरवादटवीकान्ताराच्छक्तः क्षेमेण स्वस्तिना शीघ्रमपक्रामयितुं यावद्ग्रामं वा नगरं वा निगमं वा अनुप्राप्तः स्यात् //
SK
एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेव सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वहितानुकम्पी मैत्रीविहारी करुणाविहारी मुदिताविहारी उपेक्षाविहारी उपायकौशल्येन प्रज्ञापारमितया च परिगृहीतः कुशलमूलानि सम्यग्बुद्धानुज्ञातया परिणामनया परिणाम्य किंचापि शून्यतामानिमित्तमप्रणिहितं च समाधिविमोक्षमुखान्यवतरति, न त्वेव भूतकोटिं साक्षात्करोति, यदुत श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा / तत्कस्य हेतोः? तथा ह्यस्य बलवत्तमा दृढतमाश् च परिग्राहकाः, यदुत प्रज्ञापारमिता उपायकौशल्यं च / तेन अस्यापरित्यक्ताः सर्वसत्त्वाः, तेनैष प्रतिबलः स्वस्तिना क्षेमेण अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामन्तिके मैत्रीचित्तमारम्बणीकृत्य तान् परमया मैत्र्या परिबध्नाति, अत्रान्तरे बोधिसत्त्वो महासत्त्वः क्लेशपक्षं मारपक्षं चातिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं चातिक्रम्य तत्र समाधाववतिष्ठते / अप्राप्तश् च स सुभूते आस्रवक्षयं परमपारमितायां शून्यतायां परिजयं करोति / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः शून्यतासमाधिविमोक्षमुखेन विहरति, अत्रान्तरे बोधिसत्त्वो महासत्त्वो न चेदानीं नानिमित्तेन समाधिना विहरति / न चानेन आनिमित्तः समाधिः साक्षात्कृतो (Vऐद्य १८५) भवति / तद्यथापि नाम सुभूते पक्षी शकुनिराकाशे ऽन्तरीक्षे चरति, न च भूमौ पतति, न च कंचिन्निश्रयं निश्रित्य तिष्ठति, आकाश एवान्तरीक्षे विहरति, न च तत्रापि निश्रितो न प्रतिष्ठितः / एवमेव सुभूते बोधिसत्त्वो महासत्त्वः शून्यताविहारेण विहरति, शून्यतायां परिजयं करोति, आनिमित्तविहारेण च विहरति, आनिमित्ते च परिजयं करोति, अप्रणिहितविहारेण च विहरति, अप्रणिहिते च परिजयं करोति / न च शून्यतायां वा आनिमित्ते वा अप्रणिहिते वा पतत्यपरिपूर्णैर्बुद्धधर्मैः / तद्यथापि नाम सुभूते बलवानिष्वस्त्राचार्य इष्वस्त्रशिक्षायां सुशिक्षितः सुपरिनिष्ठितः / स ऊर्ध्वं काण्डं क्षिपेत् / ऊर्ध्वं काण्डं क्षिप्त्वा तदन्यैः काण्डैस्तत्काण्डं भूमौ पतत् प्रतिनिवारयेत्, वारयेत्, तस्य पौर्वकस्य काण्डस्य काण्डपरंपरया भूमौ पतनं न दद्यात्, तावत्तत्काण्डं भूमौ न पतत्, यावन्नाकाङ्क्षेत् - अहो बतेदं काण्डं भूमौ पतेदिति / एवमेव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकौशल्यपरिगृहीतः तावत्तां परमां भूतकोटिं न साक्षात्करोति, यावन्न तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि सुपरिपक्वानि / यदा तानि कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिपक्वानि भवन्ति सुपरिपक्वानि, तदा तां परमां भूतकोटिं साक्षात्करोति / तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता प्रज्ञापारमितां भावयता एवमेतेषां धर्माणां गम्भीरधर्मता प्रत्यवेक्षितव्या उपनिध्यातव्या, न च साक्षात्कर्तव्या //
SK
एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - दुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः / परमदुष्करकारको भगवन् बोधिसत्त्वो महासत्त्वः, यः शून्यतायां चरति, शून्यतया च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति / अत्याश्चर्यमिदं भगवन्, परमाश्चर्यमिदं सुगत / एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - एवमेतत्सुभूते, एवम् एतत् / दुष्करकारको बोधिसत्त्वो महासत्त्वः / परमदुष्करकारको बोधिसत्त्वो महासत्त्वः यः शून्यतायां चरति, शून्यतायां च विहरति, शून्यतां च समाधिं समापद्यते, न च भूतकोटिं साक्षात्करोति / तत्कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वसत्त्वा अपरित्यक्ताः / तस्येमे एवंरूपाः प्रणिधानविशेषा भवन्ति - मयैते सर्वसत्त्वाः परिमोचयितव्या इति / यदा बोधिसत्त्वो महासत्त्व एवं चित्तमभिनिर्हरति - सर्वसत्त्वा ममापरित्यक्ताः, मयैते परिमोचयितव्या इति, शून्यतां च समाधिविमोक्षमुखमभिनिर्हरति, आनिमित्तं च समाधिविमोक्षमुखमभिनिर्हरति, अप्रणिहितं च समाधिविमोक्षमुखमभिनिर्हरति, तदा उपायकौशल्यसमन्वागतो बोधिसत्त्वो महासत्त्वो वेदितव्यः - नायमन्तरा भूतकोटिं साक्षात्करिष्यत्यपरिपूर्णैर्बुद्धधर्मैः / तत्कस्य हेतोः? तथा हि अस्योपायकौशल्यं रक्षां करोति / स चैवास्य चित्तोत्पादो यत्तस्य सर्वसत्त्वा अपरित्यक्ताः / स एवमनेन चित्तोत्पादेनोपायकौशल्येन समन्वागतो ऽन्तरा भूतकोटिं न साक्षात्करोति //
SK
पुनरपरं सुभूते यदा बोधिसत्त्वो महासत्त्व इमानि गम्भीराणि स्थानानि प्रत्यवेक्षते, प्रत्यवेक्षितुकामो वा भवति - तद्यथा शून्यतां समाधिविमोक्षमुखम्, आनिमित्तं समाधिविमोक्षमुखम्, (Vऐद्य १८६) अप्रणिहितं समाधिविमोक्षमुखम्, तेनैवं चित्तमभिनिर्हर्तव्यम् - दीर्घरात्रममी सत्त्वाः सत्त्वसंज्ञया उपलम्भे चरन्ति / तेषां सत्त्वानामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामि / इति संचिन्त्य शून्यतां समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / अप्रणिहितं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / एवं बोधिसत्त्वो महासत्त्वो ऽनेन चित्तोत्पादेन अनेन चोपायकौशल्येन समन्वागतो नान्तरा भूतकोटिं साक्षात्करोति, न च परिहीयते मैत्रीसमाधितो न करुणामुदितोपेक्षासमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शुक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति, बलबोध्यमार्गं च प्रतिलभते //
SK
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा धर्मसंज्ञया उपलम्भे चरन्ति / तेषामुपलम्भदृष्टिकानामुपलम्भदृष्टिप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति / सो ऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः शून्यतां समाधिविमोक्षमुखं समापद्यते / न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्रीकरुणामुदितोपेक्षासमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलबोध्यङ्गानि मार्गं च प्रतिलभते //
SK
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा निमित्तसंज्ञया निमित्ते चरन्ति / तेषां निमित्तसंज्ञाप्रहाणाय अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मं देशयिष्यामीति / स आनिमित्तं समाधिविमोक्षमुखं समापद्यते सत्त्वानां कृतशः / सो ऽनेन चित्तोत्पादेन पौर्वकेण चोपायकौशल्येन समन्वागतः आनिमित्तं समाधिविमोक्षमुखं समापद्यते, न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्र्याः करुणाया मुदिताया उपेक्षायाः सर्वसमाधितः / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो हि बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलानि बोध्यङ्गानि मार्गं च प्रतिलभते //
SK
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति - दीर्घरात्रममी सत्त्वा नित्यसंज्ञया सुखसंज्ञया आत्मसंज्ञया शुभसंज्ञया च विपर्यस्ताः / तथा करिष्यामि यथा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य नित्यसंज्ञायाः सुखसंज्ञायाः आत्मसंज्ञायाः शुभसंज्ञाया विपर्यासस्य प्रहाणाय धर्मं देशयिष्यामि - अनित्यमेतत्सर्वं न नित्यमिति / दुःखमेतत्सर्वं न सुखमिति / अनात्मकमेतत्सर्वं नैतत्सात्मकमिति / अशुभमेतत्सर्वं नैतच्छुभमिति / सो ऽनेन चित्तोत्पादेन समन्वागतः पौर्वकेण चोपायकौशल्येन प्रज्ञापारमितया च परिगृहीतो नान्तरा भूतकोटिं साक्षात्करोति (Vऐद्य १८७) अपरिपूर्णेषु बुद्धधर्मेषु / एवमप्रणिहितं समाधिविमोक्षमुखमुपसंपद्य विहरति / न च भूतकोटिं साक्षात्करोति / न च परिहीयते मैत्रीतो वा करुणातो वा मुदितातो वा उपेक्षातो वा / तत्कस्य हेतोः? उपायकौशल्यपरिगृहीतो बोधिसत्त्वो महासत्त्वो भूयस्या मात्रया विवर्धते शूक्लैर्धर्मैः / तीक्ष्णतराणि चास्य श्रद्धादीनीन्द्रियाणि भवन्ति / बलानि बोध्यङ्गानि मार्गं च प्रतिलभते / यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्व इमं चित्तोत्पादमुत्पादयति, इत्यपीमे सत्त्वा दीर्घरात्रमुपलम्भे चरिताविनः एतर्ह्युपलम्भे चरन्ति / निमित्तसंज्ञायां चरिताविनः एतर्ह्य् अपि निमित्तसंज्ञायां चरन्ति / विपर्यासे चरिताविनः एतर्ह्य् अपि विपर्यासे चरन्ति / पिण्डसंज्ञायां चरिताविनः एतर्ह्य् अपि पिण्डसंज्ञायां चरन्ति / अभूतसंज्ञायां चरिताविनः एतर्ह्य् अपि अभूतसंज्ञायां चरन्ति / मिथ्यादृष्टौ चरिताविनः एतर्ह्य् अपि मिथ्यादृष्टौ चरन्ति / तथा करिष्यामि यथैषामेते दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते / इत्येवं सर्वसत्त्वान् समन्वाहरति / एवं च बोधिसत्त्वो महासत्त्वो ऽनेन स्मृतिसमन्वाहारेण अनेन चित्तोत्पादेन समन्वागतः उपायकौशल्येन च समन्वागतः प्रज्ञापारमितया च परिगृहीतः एवमेतेषां गम्भीराणां धर्माणां धर्मतां प्रत्यवेक्षमाणः शून्यतातो वा आनिमित्ततो वा अप्रणिहिततो वा अनभिसंस्कारतो वा अनुत्पादतो वा अजातितो वा अभावतो वा / अस्थानमेतत्सुभूते ऽनवकाशः, यत्स बोधिसत्त्वो महासत्त्व एवं ज्ञानसमन्वागतो ऽनभिसंस्कारे वा पतेत्, त्रैधातुकेन वा सार्धं संवसेत्, नैतत्स्थानं विद्यते //
SK
एवं हि सुभूते बोधिसत्त्वो महासत्त्वः परिप्रष्टव्यो बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन - कतमेषां धर्माणां परिजयः कर्तव्यः? कियद्रूपाणि च चित्तान्यभिनिर्हर्तव्यानि? यानि चित्तान्यभिनिर्हरन् बोधिसत्त्वो महासत्त्वो न शून्यतां साक्षात्करोति, न आनिमित्तं साक्षात्करोति, न अप्रणिहितं साक्षात्करोति, न अनभिसंस्कारं साक्षात्करोति, न अनुत्पादं साक्षात्करोति, न अजातिं साक्षात्करोति, न अभावं साक्षात्करोति, प्रज्ञापारमितां च भावयति / सचेत्सुभूते बोधिसत्त्वो महासत्त्वो बोधिसत्त्वेन महासत्त्वेनैवं पृष्ट एवं व्याकरोति - शून्यतैव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्या / आनिमित्तमेव अप्रणिहितमेव अनभिसंस्कार एव अनुत्पाद एव अजातिरेव अभाव एव बोधिसत्त्वेन महासत्त्वेन मनसि कर्तव्य इति / सचेत्तं सर्वसत्त्वापरित्यागचित्तोत्पादं नोपदर्शयेत्, उपायकौशल्यं वा न व्याकुर्यात्, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः / तत्कस्य हेतोः? यो ह्यसावविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मः, तं धर्मं न सूचयति, न प्रभावयति, नोपदर्शयति, न प्रजानाति, परिपृष्टो न व्याकरोति, न विसर्जयति, न तां भूमिमवक्रामयति, यो ऽविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य भूमिरिति //
SK
सुभूतिराह - स्यात्पुनर्भगवन् पर्यायो येन पर्यायेण बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो (Vऐद्य १८८) भवेत्? भगवानाह - स्यात्सुभूते स पर्यायो येन पर्यायेण स बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो भवेत् / सचेद्बोधिसत्त्वो महासत्त्व इमां प्रज्ञापारमितां श्रुत्वा वा अश्रुत्वा व एवं प्रतिपद्येत, एवं विसर्जयेत् - अविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो वेदितव्यः / सुभूतिराह - तेन हि भगवन् बहवो बोधाय चरन्ति / अल्पकाः पुनर्य एवं विसर्जयन्ति / भगवानाह - तथा हि सुभूते अल्पकास्ते बोधिसत्त्वा महासत्त्वा ये व्याकृता अविनिवर्तनीयायां ज्ञानभूमौ / ये पुनस्ते व्याकृता भविष्यन्ति, ते एवं विसर्जयिष्यन्ति / ते ते बोधिसत्त्वा महासत्त्वा उत्तप्तावरोपितकुशलमूला वेदितव्याः / ते ते बोधिसत्त्वा महासत्त्वा असंहार्याः सदेवमानुषासुरेण लोकेन / सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि स्वप्नोपमाः सर्वधर्मा इति व्यवलोकयति, न च साक्षात्करोति, इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
SK
पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा त्रैधातुकाय च स्पृहामनुशंसाचित्तं नोत्पादयति, इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्रस्यति, न संत्रस्यति, न संत्रासमापद्यते / ग्रामघाते वा नगरघाते वा निगमघाते वा जनपदघाते वा राष्ट्रघाते वा अग्निदाहे वा वर्तमाने व्यालमृगान् वा ततो ऽन्यान् अपि वा क्षुद्रमृगजातीन् दृष्ट्वा शिरश्छेदे वा प्रत्युपस्थिते ततो ऽन्यान्य् अपि वा महाभयभैरवाणि दुःखदौर्मनस्यानि वा प्राप्य ततो ऽन्येषाम् अपि वा सत्त्वानां महाभयभैरवाणि दुःखानि दृष्ट्वा नास्य भयभैरवमुत्पद्यते, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते / ततश् च स्वप्नान्तरात्प्रतिविबुद्धस्य समनन्तरव्युत्थितस्यैवं भवति - स्वप्नोपममिदं सर्वं त्रैधातुकम् / एवं च मया अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सम्यग्देशयता धर्मो देशयितव्य इति / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
SK
(Vऐद्य १८९) पुनरपरं सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य स्वप्नान्तरगतस्य नैरयिकान् सत्त्वान् दृष्ट्वा एवं भवति - तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति / इदम् अपि सुभूते अविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् //
SK
तत्र सुभूते कथं विज्ञायेत अस्याविनिवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति? सचेत्सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि निरयगतांस्तिर्यक्प्रेतगतान् वा सत्त्वान् दृष्ट्वा स्मृतिं प्रतिलभते / स तां स्मृतिं प्रतिलभ्य एवं चिन्तयति - तथा करिष्यामि यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं सर्वे ऽप्यपाया न भविष्यन्तीति / एवं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अपायपरिशुद्धिलक्षणं वेदितव्यम् / इदम् अपि सुभूते अविवर्तनीयस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणं वेदितव्यम् //
SK
पुनरपरं सुभूते स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नगरदाहे वा ग्रामदाहे वा वर्तमाने प्रतिविबुद्धः संस्ततः स्वप्नादेवं समन्वाहरति यथा - मया स्वप्नान्तरगतेन ये आकाराः यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि मम संविद्यन्ते / एतेन सत्येन सत्यवचनेन अयं नगरदाहो वा ग्रामदाहो वा वर्तमान उपशाम्यतु, शीतिभवतु, अस्तं गच्छतु / सचेत्सुभूते ग्रामदाहो वा नगरदाहो वा उपशाम्यति, शीतीभवति, अस्तं गच्छति, वेदितव्यमेतत्सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेरिति / सचेन्नोपशाम्यति, न शीतीभवति, नास्तः गच्छति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधाविति / सचेत्पुनः सुभूते सो ऽग्निदाहो ऽतिक्रम्य गृहाद्गृहं रथ्याया रथ्यामन्यतरान्यतरां रथ्यां वा गृहं वा गच्छति, दहति, नोपशाम्यति, न शीतीभवति, नास्तं गच्छति, वेदितव्यमेतत्सुभूते धर्मप्रत्याख्यानं दुष्प्रज्ञसंवर्तनीयं तेन बोधिसत्त्वेन महासत्त्वेन कर्मोपचितम् / ततो ऽस्यैतद्दृष्टधर्मसंवर्तनीयमेव कर्म विपच्यते / तत एव धर्मप्रत्याख्यानात्सावशेषं कर्मैवं विपच्यते / इत्ययं सुभूते हेतुरयं प्रत्ययो ऽस्य बोधिसत्त्वस्य महासत्त्वस्य अविनिवर्तनीयलक्षणताया इति / अयम् अपि सुभूते बोधिसत्त्वो महासत्त्वो ऽविनिवर्तनीयो ऽनुत्तरायाः सम्यक्संबोधेर्धारयितव्यः //
SK
पुनरपरं सुभूते यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैरविनिवर्तनीयो बोधिसत्त्वो महासत्त्वो धारयितव्यः, तानाकारांस्तानि लिङ्गानि तानि निमित्तानि देशयिष्यामि / तत्साधु च सुष्ठु च शृणु, मनसि कुरु, भाषिष्ये ऽहं ते / साधु भगवन्नित्यायुष्मान् सुभूतिर्भगवतः प्रत्यश्रौषीत् / भगवानेतदवोचत् - सचेत्सुभूते कश्चिदेव पुरुषो वा स्त्री वा दारको वा दारिका वा (Vऐद्य १९०) अमनुष्येण गृहीतो भवेदाविष्टः / तत्र बोधिसत्त्वेन महासत्त्वेन उपसंक्रम्य एवमधिष्ठानं समन्वाहर्तव्यम् / सचेदहं हैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, परिशुद्धो मे ऽध्याशयः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / यथाहमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः, परिशुद्धो मे मनसिकारो ऽनुत्तरायां सम्यक्संबोधौ / अपगतं मे श्रावकचित्तं प्रत्येकबुद्धचित्तं च, तेन मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या / नाहं नानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये / अभिसंभोत्स्य एवाहमनुत्तरां सम्यक्संबोधिम् / ये ऽपि ते अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, न तेषां तथागतानामर्हतां सम्यक्संबुद्धानां किंचिदज्ञातं वा अदृष्टं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा / यथा ते बुद्धा भगवन्तो जानन्तो ममाध्याशयम् - इत्यप्यहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति / अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा दारको वा दारिका वा येन अमनुष्यग्रहेण गृहीतो वा आविष्टो वा, सो ऽपक्रामतु / सचेत्सो ऽमनुष्यः एवं भाषमाणेन बोधिसत्त्वेन महासत्त्वेन नापक्रामति, वेदितव्यमेतत्सुभूते नायं व्याकृतो बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति / सचेत्पुनः सुभूते एवं भाषमाणस्य बोधिसत्त्वस्य महासत्त्वस्य सो ऽमनुष्यो ऽपक्रामति, वेदितव्यमेतत्सुभूते व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायामुपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः //
SK
ASP_२१: मारकर्मपरिवर्त एकविंशतितमः /
SK
तत्र खलु पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं भाषिष्यते - येन सत्येन सत्यवचनेन अहं व्याकृतः तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, तेन सत्येन सत्यवचेन अयममनुष्यो ऽपक्रामत्विति / तत्र सुभूते मारः पापीयानौत्सुक्यमापत्स्यते तस्य अमनुष्यस्यापक्रमणाय / तत्कस्य हेतोः? मारो ह्यत्र पापीयांस्तस्य बोधिसत्त्वस्य महासत्त्वस्य चिरयानसंप्रस्थितस्यान्तिके बलवत्तरं तेजोवत्तरं चोद्योगमापत्स्यते - कथमयममनुष्यो ऽपक्रामेदिति / एवं सो ऽमनुष्यो माराधिष्ठानेनापक्रमिष्यति / एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति - ममैषो ऽनुभावेन अमनुष्यो ऽपक्रान्त इति / न पुनः स एवं ज्ञास्यति - मारस्यैषो ऽनुभावेन अमनुष्यो ऽपक्रान्त इति / स तेन तावन्मात्रकेणौत्सुक्यमापत्स्यते / स तेनौत्सुक्येन ततो ऽन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्धयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति - अहं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधाविति / स तेन तावन्मात्रकेण भूयो मानं जनयिष्यति, मानं संजनयिष्यति, मानं वर्धयिष्यति, मानं संवर्धयिष्यति, मानं स्तम्भयिष्यति, मानमुपस्तम्भयिष्यति, मानं बृंहयिष्यति, मानमुपबृंहयिष्यति, मानमुत्पादयिष्यति / स तेन मानेन अतिमानेन मानातिमानेन मिथ्यामानेन अभिमानेन दूरीकरिष्यति सर्वज्ञताम्, दूरीकरिष्यत्यनुत्तरं बुद्धज्ञानम्, स्वयंभूज्ञानम्, सर्वज्ञज्ञानम् / दूरीकरिष्यत्यनुत्तरां सम्यक्संबोधिम् / स तथारूपाणि कल्याणमित्राणि कल्याणधर्मण उदाराधिमुक्तिकानध्याशयसंपन्नानुपायकुशलानविनिवर्तनीयधर्मसमन्वागतांश् च बोधिसत्त्वान् महासत्त्वान् दृष्ट्वा अभिमानमुत्पाद्य अवमन्यमानस्तथारूपाणि कल्याणमित्राणि न सेविष्यते, न भजिष्यते, न पर्युपासिष्यते, न परिप्रक्ष्यति / तदेव मारबन्धनं गाढीकरिष्यति / तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये - श्रावकभूमिर्वा प्रत्येकबुद्धभूमिर्वा / एवं सुभूते सत्याधिष्ठानेन मारः पापीयानचिरयानसंप्रस्थितस्य बोधिसत्त्वस्य महासत्त्वस्य अल्पश्रद्धस्य अल्पश्रुतस्य कल्याणमित्रविरहितस्य प्रज्ञापारमितया अपरिगृहीतस्य उपायकौशल्यविरहितस्य अन्तरायं करिष्यत्यनुत्तरायाः सम्यक्संबोधेः / इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारकर्म वेदितव्यम् //
SK
पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापदेशेनापि मारकर्म भविष्यति / कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य नामापेदेशेनापि मारकर्म भविष्यति? इह सुभूते बोधिसत्त्वं महासत्त्वं नामापदेशेनापि नामाधिष्ठानेनापि मारः पापीयानुपसंक्रमिष्यति / अन्यतरान्यतरेण वेषेणोपसंक्रम्य एवं वक्ष्यति - तैर्व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? तव हीदं नामधेयम् / इदं ते मातुर्नामधेयम् / इदं ते पितुर्नामधेयम् / इदं ते भ्रातुर्नामधेयम् / इदं ते भगिन्या नामधेयम् / इदं ते मित्रामात्यज्ञातिसालोहितानां नामधेयम् / यावदासप्तमं मातामहपितामहयुगस्य नामधेयमुदीरयिष्यति - अमुष्यां दिशि त्वं जातः, अमुष्मिन् जनपदे अमुष्मिन् ग्रामे वा नगरे वा (Vऐद्य १९२) निगमे वा जात इति / सचेत्प्रकृत्वा मृदुको भविष्यति, तमेनमेवं वक्ष्यति - पूर्वम् अपि त्वमेव मृदुको ऽभूः / सचेत्प्रकृत्या तीक्ष्णेन्द्रियो भविष्यति, ततस्तमेवं वक्ष्यति - पूर्वम् अपि त्वं तीक्ष्णेन्द्रियो ऽभूः / सचेदारण्यको भविष्यति, सचेत्पिण्डपातिको भविष्यति, सचेत्पांसुकूलिको भविष्यति, सचेत्खलुपश्चाद्भक्तिको भविष्यति, सचेदेकासनिको भविष्यति, सचेद्याथासंस्तरिको भविष्यति, सचेत्रैचीवरिको भविष्यति, सचेत् श्मशानिको भविष्यति, सचेद्वृक्षमूलिको भविष्यति, सचेन्नैषद्यिको भविष्यति, सचेदभ्यवकाशिको भविष्यति, सचेन्नामन्तिको भविष्यति, सचेदल्पेच्छः संतुष्टः प्रविविक्तो भविष्यति, सचेदपगतपादम्रक्षणो भविष्यति, सचेन्मृदुभाषी अल्पवाग् भविष्यति, तमेनं मारः पापीयांस्तेन तेन दृष्टधार्मिकेण गुणेनादेक्ष्यति - पूर्वम् अपि त्वमनेन चानेन च गुणेन समन्वागतो ऽभूः / नियतस्तं व्याकृतस्तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ / तत्कस्य हेतोः? तथा हि ते अमी एवंरूपा धुतगुणाः संविद्यन्ते / निश्चयेन त्वं पूर्वमप्येतैरेव धुतगुणैः समन्वागतो ऽभूः / एवं स तेन पौर्वकेण नामापदेशेन नामाधिष्ठानेन प्रत्युत्पन्नधुतगुणसंलेखेन च मन्यनामुत्पादयिष्यति / तस्यैवं भविष्यति - व्याकृतो ऽहं तैः पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ, यथा मे अमी गुणाः संविद्यन्ते / तं च मारः पापीयानेवं वक्ष्यति - अविनिवर्तनीयस्त्वं व्याकृतस्तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? तथा हि तव एते एवंरूपा धुतगुणा संविद्यन्ते / तस्य खलु पुनः सुभूते मारः पायीयान् कदाचिद्भिक्षुवेषेणोपसंक्रमिष्यति, कदाचिद्भिक्षुणीवेषेण, कदाचिदुपासकवेषेण, कदाचिदुपासिकावेषेण, कदाचिद्ब्राह्मणवेषेण, कदाचिद्गृहपतिवेषेण, कदाचिन्मातृवेषेण, कदाचित्पितृवेषेण, कदाचिद्भ्रातृवेषेण, कदाचिद्भगिनीवेषेण, कदाचिन्मित्रामात्यज्ञातिसालोहितवेषेण उपसंक्रमिष्यति / उपसंक्रम्यैवं वक्ष्यति - व्याकृतस्त्वं पौर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरायां सम्यक्संबोधौ अविनिवर्तनीयायां बोधिसत्त्वभूमौ / तत्कस्य हेतोः? तथा हि ते एवंरूपा धुतगुणाः संविद्यन्ते, ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणाः / ये खलु पुनः सुभूते मया अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां गुणा आख्याताः आकारा लिङ्गानि निमित्तानि चाख्यातानि, तानि तस्य न भविष्यन्ति / वेदितव्यमेतत्सुभूते ततो ऽन्यैर्बोधिसत्त्वैर्महासत्त्वैः - माराधिष्ठितो बतायं बोधिसत्त्वो महासत्त्व इति / तत्कस्य हेतोः? ये आकारा यानि लिङ्गानि यानि निमित्तानि अविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानाम्, तानि तस्य न भविष्यन्ति / स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वो ऽनेन नामाधिष्ठानेन अभिमानमुत्पादयिष्यति / अभिमानमुत्पाद्य मानाभिभूतः स्तम्भाभिभूतो माराधिष्ठानेनाभिभूतस्तदन्यान् बोधिसत्त्वान् महासत्त्वानवमंस्यते उच्चग्घयिष्यति उल्लापयिष्यति कुत्सयिष्यति पंसयिष्यति / इदम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन नामाधिष्ठानेन मारकर्म वेदितव्यम् //
पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा धुतगुणपरिकीर्तनं वा भवति, एवं स तावन्मात्रकेण ततो ऽन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् कल्याणधर्मणो ऽवमन्यते / ते च तस्य गुणा न संविद्यन्ते, ये ऽविनिवर्तनीयानां बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितायां चरतां गुणाः, ते आकारास्तानि लिङ्गानि तानि निमित्तानि तस्य न संविद्यन्ते / सो ऽसंविद्यमानेष्वविनिवर्तनीयगुणेषु क्लेशमुत्पादयति, यदुत आत्मानमुत्क्रोशयति, परान् पंसयति - न खल्वेते तेषु धर्मेषु संदृश्यन्ते, यत्राहं संदृश्य इति / तत्र माराणां पापीयसामेवं भवति - न शून्यानि मारभवनानि भविष्यन्ति, उत्सदानि भविष्यन्ति / महानिरयास्तिर्यञ्चः प्रेतविषया आसुराश् च काया उत्सदा भविष्यन्तीति / तथा च मारः पापीयानधिष्ठास्यति, यथा ते बोधिसत्त्वा महासत्त्वा एवं प्रवृत्ता अध्याक्रान्ता लाभसत्कारेण भविष्यन्ति, आदेयवचनाश् च भविष्यन्ति / ते तया आदेयवचनतया बहुजनं ग्राहयिष्यन्ति / तेषां च स महाजनः श्रोतव्यं श्रद्धातव्यं मंस्यते / ते दृष्ट्वा श्रुत्वा च तेषामनुकृतिमापत्स्यन्ते / ते दृष्टश्रुतानुकृतिमापद्यमाना न तथत्वाय शिक्षिष्यन्ते, न तथत्वाय प्रतिपत्स्यन्ते, न तथत्वाय योगमापत्स्यन्ते / एवं ते न तथतायां शिक्षमाणा न तथतायां प्रतिपद्यमाना न तथतायां योगमापद्यमानाः संक्लेशं विवर्धयिष्यन्ति / एवं ते विपर्यस्तया चित्तसंतत्या यद्यदेव कर्म आरप्स्यन्ते कायेन वा वाचा वा मनसा वा, तत्सर्वमनिर्दिष्टत्वाय अकान्तत्वाय अप्रियत्वाय अमनआपत्वाय संवर्त्स्यते / एवं ते महानिरया उत्सदा भविष्यन्ति, तिर्यञ्चः प्रेतविषया आसुराश् च कायाः, मारभवनानि चोत्सदानि भविष्यन्ति / इममप्यानन्द अर्थवशं संपश्यन् मारः पापीयांस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवति //
अथ खलु संबहुलानां कामावचराणां देवपुत्रसहस्राणामेतदभवत् - नमस्कर्तव्यास्ते सत्त्वाः, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि अभिनिर्हृतानि / ये चेह गम्भीरायां प्रज्ञापारमितायां चरन्ति, तथा चरन्तो भूतकोटिं न साक्षात्कुर्वन्ति, यदुत श्रावकभूमौ वा प्रत्यकबुद्धभूमौ वा / अनेनापि पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वा वेदितव्याः, ये धर्माणां धर्मतायां चरन्ति, न च तां धर्मतां साक्षात्कुर्वन्ति / अथ खल्वायुष्मान् सुभूतिस्तेषां संबहुलानां कामावचराणां देवपुत्रसहस्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तानि संबहुलानि कामावचराणां देवपुत्राणां सहस्राण्यामन्त्रयन्ते स्म - नेदं देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करम्, यत्ते तां भूतकोटिं न साक्षात्कुर्वन्ति / इदं तु देवपुत्रास्तेषां बोधिसत्त्वानां महासत्त्वानां दुष्करं चैव परमदुष्करं चैव, यदप्रमेयानसंख्येयानप्रमाणान् सत्त्वान् परिनिर्वापयिष्याम इति संनाहं संनह्यन्ते / ते च सत्त्वा अत्यन्ततया न संविद्यन्ते, असंविद्यमाना नोपलभ्यन्ते, सत्त्वविविक्तत्वात् / एवं वैनयिका अत्यन्ततया न संविद्यन्ते / एवं च बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुं संप्रस्थिताः सत्त्वान् विनेष्याम इति, आकाशं स देवपुत्रा विनेतव्यं मन्येत यः सत्त्वान् विनेतव्यान् मन्येत / तत्कस्य हेतोः? आकाशविविक्ततया हि देवपुत्राः सत्त्वविविक्तता वेदितव्या / अनेन देवपुत्राः पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः, ये ऽसंविद्यमानानामनुपलभ्यमानानां सत्त्वानां कृतशः संनाहं संनह्यन्ते / आकाशेन न स देवपुत्राः सार्धं वेदितव्यं मन्येत, यः सत्त्वानां कृतशः संनाहं संनद्धव्यं मन्येत / अयं च संनाहो बोधिसत्त्वेन महासत्त्वेन सत्त्वानां कृतशः संनद्धः / सर्वात्यन्ततया सत्त्वानुपलब्धिरुक्ता तथागतेनार्हता सम्यक्संबुद्धेन / सा च सत्त्वविविक्ततयैव वेदितव्या, वैनयिकविवक्ततया च सत्त्वविविक्तता वेदितव्या / सचेदत्रैवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, वेदितव्यमेतद्देवपुत्राः - चरत्ययं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् / तत्कस्य हेतोः? सत्त्वविविक्ततया हि रूपविविक्तता वेदितव्या / एवं सत्त्वविविक्ततया वेदनासंज्ञासंस्कारविविक्तता वेदितव्या / सत्त्वविविक्ततया विज्ञानविविक्तता वेदितव्या / एवं यावत्सत्त्वविविक्ततया सर्वधर्मविविक्तता वेदितव्या / एवं देवपुत्राः सर्वधर्मविविक्तता द्रष्टव्या / एवं देवपुत्राः सर्वधर्मविविक्ततायां भाष्यमाणायां बोधिसत्त्वो महासत्त्वो न संसीदति / यतो न संसीदति, ततश्चरति प्रज्ञापारमितायाम् //
SK
अथ खलु भगवान् जानन्नेव आयुष्मन्तं सुभूतिमेतदवोचत् - किं कारणं सुभूते बोधिसत्त्वो महासत्त्व एवं सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति? सुभूतिराह - (Vऐद्य २२१) विविक्तत्वाद्भगवन्न संसीदति / अनेन भगवन् कारनेन बोधिसत्त्वो महासत्त्वः सर्वधर्मविविक्ततायां भाष्यमाणायां न संसीदति / नापि भगवन् कश्चिद्धर्मः संसीदति / तत्कस्य हेतोः? न हि भगवन् कश्चिद्धर्म उपलभ्यते, यः संसीदेत् / सो ऽपि भगवन् धर्मो नोपलभ्येत, येन धर्मेण यो धर्मः संसीदेत् / भगवानाह - एवमेतत्सुभूते, एवम् एतत् / अपि तु खलु पुनः सुभूते सचेदेवं भाष्यमाणे देश्यमाने निर्दिश्यमाने एवमुपदिश्यमाने बोधिसत्त्वो महासत्त्वो न संसीदति न विषीदति न विषादमापद्यते, नावलीयते न संलीयते, न विपृष्ठीकरोति मानसम्, न भग्नपृष्ठीकरोति, नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते, चरति प्रज्ञापारमितायाम् / सुभुतिराह - एवमेतद्भगवन्, एवमेतत्सुगत / सचेद्भगवन् बोधिसत्त्वो महासत्त्व एवं चरति, चरति प्रज्ञापारमितायाम् / एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति / भगवानाह - न केवलं सुभूते एवं चरन्तं बोधिसत्त्वं महासत्त्वं सेन्द्रका देवाः सब्रह्मकाः सप्रजापतिकाः सेशानाः सर्षिनरनारीगणा आरात्प्राञ्जलीभूता नमस्यन्ति, ये ऽपि ते सुभूते ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणः परीत्ताभा अप्रमाणाभा आभास्वराः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना अनभ्रकाः पुण्यप्रसवा बृहत्फला असंज्ञिसत्त्वा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश् च देवाः, ते ऽपि सुभूते तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां एवं चरन्तं नमस्यन्ति / ये ऽपि ते सुभूते अप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि बुद्धा भगवन्तः प्रज्ञापारमितायामेवं चरन्तं बोधिसत्त्वं महासत्त्वं बुद्धचक्षुषा पश्यन्ति / ते च सुभूते बोधिसत्त्वं महासत्त्वां प्रज्ञापारमितायां चरन्तमनुगृह्णन्ति, समन्वाहरन्ति / ये च खलु पुनः सुभूते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते समन्वाह्रियन्ते, ते ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीया अनुत्तरायाः सम्यक्संबोधेर्धारयितव्याः / न च तेषामन्तराया उत्पत्स्यन्ते मारतो वा अन्यतो वा / तत्कस्य हेतोः? ये सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे माराः पापीयांसो भवेयुः / एकैकश् च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते / ते ऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः / तिष्ठन्तु खलु पुनः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्त्वा माराः पापीयांसः, यावन्त सुभूते गङ्गानदीवालुकोपमेषु त्रिसाहस्रमहासाहस्रेषु लोकधातुषु सत्त्वाः, ते ऽपि सर्वे माराः पापीयांसो भवेयुः, एकैकश् च मारः पापीयांस्तावतीरेव मारसेना अभिनिर्मिमीते, ते ऽपि सुभूते माराः पापीयांसस्तस्य बुद्धसमन्वाहृतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न प्रतिबला अन्तरायं कर्तुमनुत्तरायाः सम्यक्संबोधेः / द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वस्तस्मिन् समये दुर्धर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / कतमाभ्यां द्वाभ्याम्? यदुत सर्वसत्त्वाश्चास्य अपरित्यक्ता भवन्ति, सर्वधर्माश् च अनेन शून्यतातो व्यवलोकिता भवन्ति / (Vऐद्य २२२) आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / कतमाभ्यां द्वाभ्याम्? यदुत यथावादी तथाकारी च भवति, बुद्धैश् च भगवद्भिः समन्वाह्रियते / आभ्यां सुभूते द्वाभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्घर्षो भवति मारैः पापीयोभिर्मारकायिकाभिर्वा देवताभिः / एवं चरतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य देवा अप्युपसंक्रमितव्यं मंस्यन्ते / उपसंक्रम्य च परिप्रष्टव्यं मंस्यन्ते, परिप्रश्नीकर्तव्यं मंस्यन्ते, पर्युपासितव्यं मंस्यन्ते, उत्साहं चास्य वर्धयिष्यन्ति - क्षिप्रं त्वं कुलपुत्र अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे / तस्मात्तर्हि कुलपुत्र अनेनैव विहारेण विहर यदुत प्रज्ञापारमिताविहारेण / तत्कस्य हेतोः? एतेनैव हि त्वं कुलपुत्र विहारेण विहरन् अनाथानां सत्त्वानां नाथो भविष्यसि, अत्राणानां सत्त्वानां त्राता भविष्यसि, अशरणानां सत्त्वानां शरणं भविष्यसि, अलयनानां सत्त्वानां लयनं भविष्यसि, अपरायणानां सत्त्वानां परायणं भविष्यसि, अद्वीपानां सत्त्वानां द्वीपो भविष्यसि, अन्धानां सत्त्वानामालोको भविष्यसि, अपरिणायकानां सत्त्वानां परिणायको भविष्यसि, अगतिकानां सत्त्वानां गतिर्भविष्यसि, मार्गप्रनष्टानां सत्त्वानामप्रतिशरणानां मार्गप्रणेता प्रतिशरणं भविष्यसि / एवं ते देवपुत्रास्तस्य बोधिसत्त्वस्य महासत्त्वस्योत्साहं वर्धयिष्यन्ति / तत्कस्य हेतोः? एतेन हि सुभूते प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य ये ते ऽप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि भिक्षुसंघपरिवृता बोधिसत्त्वगणपुरस्कृताः प्रज्ञापारमितायां चरतो विहरतस्तस्य बोधिसत्त्वस्य महासत्त्वस्य एभिरेवंरूपैर्गुणैः समन्वागतस्य यदुत प्रज्ञापारमिताविहरणगुणैः, बुद्धा भगवन्तो नाम च गोत्रं च बलं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्य / तद्यथापि नाम सुभूते अहमेतर्हि रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य, शिखिनो बोधिसत्त्वस्य महासत्त्वस्य नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपो धर्मं देशयामि, उदानं चोदानयामि अपरेषां च बोधिसत्त्वानां महासत्त्वानाम्, य एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरन्ति / एवमेव सुभूते ते ऽपि बुद्धा भगवन्तो ये एतर्हि इह मम बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्ति, अनेन च प्रज्ञापारमिताविहारेण विहरन्ति, तेषां च बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
SK
सुभूतिराह - किं सर्वेषामेव भगवन् बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - नो हीदं सुभूते / न सुभूते सर्वेषां बोधिसत्त्वानां महासत्त्वानां नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपास्ते बुद्धा भगवन्तो धर्मं (Vऐद्य २२३) देशयन्ति, उदानं चोदानयन्ति, किं तर्हि सुभूते ये ते ऽविनिवर्तनीया बोधिसत्त्वा महासत्त्वाः सर्वसङ्गविगताः, तेषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
SK
सुभूतिराह - सन्ति भगवन् अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा ततो ऽन्ये बोधिसत्त्वा महासत्त्वाः, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति? भगवानाह - सन्ति सुभूते प्रतिपक्षबलिनो बोधिसत्त्वयानिकाः पुद्गलाः अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा, येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / ते पुनः कतमे? ये एतर्हि अक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचारिकां चरन्ति, अनुशिक्षमाणरूपा विहरन्ति, इमे ते सुभूते बोधिसत्त्वयानिकाः पुद्गला अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / ये ऽपि ते सुभूते रत्नकेतोर्बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचर्यामनुशिक्षमाणरूपा बोधिसत्त्वचर्यां चरन्ति, अनुशिक्षमाणा विहरन्ति, इमे ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अविनिवर्तनीयान् बोधिसत्त्वान् महासत्त्वान् स्थापयित्वा येषां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति //
SK
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वधर्मा अनुत्पत्तिका इत्यधिमुञ्चन्ति, न च तावदनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धा भवन्ति / सर्वधर्माः शान्ता इत्यधिमुञ्चन्ति, न च सर्वधर्मेष्वविनिवर्तनीयवशिताप्राप्तिमवक्रान्ता भवन्ति / अनेनापि सुभूते विहारेण विहरतां तेषां बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति / येषां खलु पुनः सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं च रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, प्रहीणा तेषां श्रावकभूमिः प्रत्येकबुद्धभूमिश् च / बुद्धभूमिरेव तेषां प्रतिकाङ्क्षितव्या / ते ऽपि व्याकरिष्यन्ते ऽनुत्तरायां सम्यक्संबोधौ / तत्कस्य हेतोः? येषां हि सुभूते बोधिसत्त्वानां महासत्त्वानां एवं प्रज्ञापारमितायां चरतां ते बुद्धा भगवन्तो नाम च गोत्रं च बलं च वर्णं न रूपं च परिकीर्तयमानरूपा धर्मं देशयन्ति, उदानं चोदानयन्ति, ते ऽप्यविनिवर्तनीयतायां स्थास्यन्ति //
SK
पुनरपरं सुभूते ये बोधिसत्त्वा महासत्त्वा इमां गम्भीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा अधिमोक्ष्यन्ति, न धन्धायिष्यन्ति, न काङ्क्षिष्यन्ति, न विचिकित्सिष्यन्ति, एवमेतद्यथा तथागतेनार्हता सम्यक्संबुद्धेन भाषितमित्यधिमुच्य विस्तरेण श्रोष्यन्ति, एवं च चित्तमुत्पादयिष्यन्ति - (Vऐद्य २२४) इमां वयं प्रज्ञापारमितामक्षोभ्यस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकाद्विस्तरेण शृणुयामेति, तेषां च बोधिसत्त्वयानिकानां पुद्गलानां ये चास्य बुद्धक्षेत्रे ब्रह्मचर्यं चरन्ति, तेषां चान्तिकादिमामेव प्रज्ञापारमितां श्रुत्वा अधिमोक्ष्यन्ति, ते ऽप्येनां प्रज्ञापारमितामधिमुच्यमाना यथा तथागतेन भाषिता तथा चाधिमोक्ष्यन्ते, तथा चाधिमुच्यमाना अविनिवर्तनीयतायां स्थास्यन्ति / एवं सुभूते बहुकरं प्रज्ञापारमितायाः श्रवणम् अपि वदामि, कः पुनर्वादो य एनामधिमोक्ष्यन्ति / अधिमुच्य तथत्वाय स्थास्यन्ति / तथत्वाय प्रतिपत्स्यन्ते / तथत्वाय स्थित्वा तथत्वाय प्रतिपद्य तिष्ठन्ति तथतायाम् / तथतायां तिष्ठन्तः सर्वज्ञतायां च धर्मं देशयन्ति //
SK
सुभूतिराह - यदा भगवंस्तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा को ऽयं भगवन् धर्मः स्थास्यति तथतायाम्, को वा अयमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वा अयमिमं धर्मं देशयिष्यति? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - यत्सुभूते एवं वदसि - यदा तथताविनिर्मुक्तो नान्यः कश्चिद्धर्म उपलभ्यते, तदा को ऽयं भगवन् धर्मस्तथतायां स्थास्यति, को वाचमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, को वायमिमं धर्मं देशयिष्यतीति / न सुभूते तथताविनिर्मुक्तो ऽन्यः कश्चिद्धर्म उपलभ्यते, यो धर्मस्तथतायां स्थास्यति / तथतैव तावत्सुभूते नोपलभ्यते, कः पुनर्वादो यस्तथतायां स्थास्यति / न सुभूते तथता अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / सो ऽपि सुभूते धर्मो न कश्चिदुपलभ्यते, यो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो वा, अभिसंभोत्स्यते वा, अभिसंबुध्यते वा / न सुभूते तथता धर्मं देशयति / सो ऽपि सुभूते नोपलभ्यते, यो धर्मो देश्येत //
SK
अथ खलु शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत् - गम्भीरा भगवन् प्रज्ञापारमिता / दुष्करकारका भगवन् बोधिसत्त्वा महासत्त्वाः, ये ऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामाः / तत्कस्य हेतोः? न च नाम भगवन् कश्चिद्धर्मस्तथतायां तिष्ठति, नापि कश्चिद्धर्मो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते, नापि कश्चिद्धर्मं देशयति / अत्र च ते नावलीयन्ते, नापि काङ्क्षन्ति, नापि धन्धायन्ते //
SK
अथ खल्वायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत् - यत्कौशिक एवं वदसि - दुष्करकारका बोधिसत्त्वा महासत्त्वाः, येषामेवं गम्भीरेषु धर्मेषु भाष्यमाणेषु न भवति / काङ्क्षायितत्वं धन्धायितत्वं वेति / सर्वधर्मेषु कौशिक शून्येषु कस्यात्र काङ्क्षायितता वा भवति धन्धायितता वा भवति? शक्र आह - यद्यदेव आर्यसुभूतिर्निर्दिशति, तत्तदेव शून्यतामारभ्य निर्दिशति, न च क्वचित्सज्जति / तद्यथापि नाम अन्तरीक्षे इषुः क्षिप्तो नैव क्वचित्सज्जति, एवमेव आर्यसुभूतेर्धर्मदेशना न क्वचित्सज्जति //
अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदवोचत् - नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति / को भगवन् हेतुः, कः प्रत्ययः स्मितस्य प्रादुष्करणाय? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - इदमानन्द भिक्षूणां षष्ठं शतमनागते ऽध्वनि तारकोपमे कल्पे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अभिसंबुध्य च सत्त्वेभ्यो धर्मं देशयिष्यति / सर्वे चैकनामानो भविष्यन्ति यदुत अवकीर्णकुसुमनामानः / तथागता अर्हन्तः सम्यक्संबुद्धाः शास्तारो लोके भविष्यन्ति / तेषां खलु पुनरानन्द अवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सर्वेषां समः श्रावकसंघो भविष्यति / सर्वेषां च तेषामवकीर्णकुसुमनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां सममेवायुःप्रमाणं भविष्यति विंशतिकल्पसहस्राणि / सर्वेषामेव चैकैकस्य वैस्तारिकं प्रवचनं भविष्यति पृथुवैपुल्यप्राप्तं देवमनुष्येषु / सर्वेषामेव च सद्धर्मः समं स्थास्यति, विंशतिमेव कल्पसहस्राण्येकैकस्य / सर्वे च ते यतो यत एव ग्रामनगरनिगमजनपदराष्ट्रराजधानीतो ऽभिनिष्क्रमिष्यन्ति, अभिनिष्क्रम्य यत्र यत्र धर्मचक्रं प्रवर्तयिष्यन्ति, प्रवर्त्य च यत्र यत्र च विहरिष्यन्ति, यतो यतश् च यत्र यत्रैव च प्रवेक्षन्ति, येन येन च यतो यत एव चाभिनिष्क्रमिष्यन्ति, ततस्ततस्तत्र तत्र तेषां प्रविशतामभिनिष्क्रामतां विहरतां च पञ्चवर्णिकानां पुष्पाणां पुष्पवर्षाः प्रवर्तिष्यन्ते / तस्मात्तर्हि आनन्द बोधिसत्त्वैर्महासत्त्वैरुत्तमेन विहारेण विहर्तुकामैः प्रज्ञापारमिताविहारेण (Vऐद्य २२७) विहर्तव्यम् / तथागतविहारेण आनन्द विहर्तुकामैः प्रज्ञापारमिताविहारेण विहर्तव्यम् / ये हि केचिदानन्द बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरिष्यन्ति, निष्ठा तत्र गन्तव्या - मनुष्येभ्य एवैते च्युता भविष्यन्ति / ते इहोपपन्नास्तुषितेभ्य एव वा देवनिकायेभ्यश्च्युता भविष्यन्ति मनुष्येष्वेवोपपन्नाः / तत्कस्य हेतोः? तथा हि मनुष्येषु तुषितेषु च देवेषु इयं प्रज्ञापारमिता विस्तरेण प्रचरिष्यतीति / तथागतावलोकिताः खलु पुनरानन्द ते बोधिसत्त्वा महासत्त्वा वेदितव्याः, य इह प्रज्ञापारमितायां चरिष्यन्ति, य इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति, धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति, अन्तशो लिखिष्यन्ति, उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य प्रवर्त्य देशयित्वोपदिश्योद्दिश्य स्वाध्याय्य अन्तशो लिखित्वा बोधिसत्त्वान् महासत्त्वानववदिष्यन्ति अनुशासिष्यन्ति संदर्शयिष्यन्ति समादापयिष्यन्ति समुत्तेजयिष्यन्ति संप्रहर्षयिष्यन्ति / अवरोपितकुशलमूलास्ते आनन्द बोधिसत्त्वा महासत्त्वा वेदितव्यास्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु / न केवलं श्रावकप्रत्येकबुद्धानामन्तिके तैः कुशलमूलान्यवरोपितानि इह प्रज्ञापारमितायां शिक्षितुम्, निःसंशयं खलु पुनरानन्द तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु तैः कुशलमूलान्यवरोपितानि बोधिसत्त्वैर्महासत्त्वैः, य इह प्रज्ञापारमितायां शिक्षन्ते, न चोत्रासमापद्यन्ते / ये च आनन्द एनां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति प्रवर्तयिष्यन्ति देशयिष्यन्त्युपदेक्ष्यन्त्युद्देक्ष्यन्ति स्वाध्यास्यन्ति लिखिष्यन्ति च, अर्थतश् च धर्मतश् च नयतश्चानुगमिष्यन्ति, निष्ठा आनन्द तत्र गन्तव्या - संमुखीभूतास्ते अभूवन् बोधिसत्त्वा महासत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानामिति / ये चैनां प्रज्ञापारमितां न प्रतिक्रोशन्ति, न प्रतिवहन्ति, न प्रतिकोपयन्ति, न प्रतिसंहरन्ति, न प्रतिषेधयन्ति, न प्रतिक्षिपन्ति, न प्रतिबाधितव्यां मंस्यन्ते, ते ऽप्यानन्द बोधिसत्त्वा महासत्त्वाः पूर्वजिनकृताधिकारा वेदितव्याः //
SK
किंचाप्यानन्द बोधिसत्त्वेन महासत्त्वेन तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके कुशलमूलमवरोपितम्, एवं हि तन्न श्रावकप्रत्येकबुद्धत्वाय दास्यति विपाकम् / सचेद्बोधिसत्त्वो महासत्त्वो ऽनुत्तरायां सम्यक्संबोधौ न विसंवादयिष्यति प्रणिधानम्, अपि तु खलु पुनरानन्द प्रायेण तेन बोधिसत्त्वेन महासत्त्वेन कृतज्ञेन भवितव्यं प्रज्ञापारमितायां चरितवता / तस्मात्तर्हि ते आनन्द परीन्दामि अनुपरीन्दामि इमां प्रज्ञापारमितां भूयस्या मात्रया अक्षरसंनिपातादुद्ग्रहणाय धारणाय वाचनाय पर्यवाप्तये प्रवर्तनाय चिरस्थितये यथेयं नान्तर्धीयेत / सचेत्त्वमानन्द यो मया ते धर्मो देशितः साक्षात् स्थापयित्वा प्रज्ञापारमिताम्, तां सर्वां धर्मदेशनामुद्गृह्य पुनरेव विप्रणाशयेः, पुनरेवोत्सृजेः विस्मारयेः, न मे त्वमानन्द एतावता अपराद्धः स्याः / यत्खलु पुनस्त्वमानन्द प्रज्ञापारमिताप्रतिसंयुक्तं पदं वा पदसामन्तकं वा नाशयेः, उत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः / सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, न त्वयाहं सत्कृतो गुरुकृतः स्याम्, न मानितो न पूजितो नार्चितो नापचायितः स्याम् / ये ऽपि (Vऐद्य २२८) ते आनन्द अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः, ते ऽपि त्वया आनन्द न सत्कृता न गुरुकृता न मानिता न पूजिता नार्चिता नापचायिता भवन्ति / सचेत्पुनस्त्वमानन्द प्रज्ञापारमितामुद्गृह्य पुनरेव नाशयेः, पुनरेवोत्सृजेः, विस्मारयेः, तावता त्वमानन्द ममापराद्धः स्याः, न च मे त्वं चित्तमाराधयेः / तत्कस्य हेतोः? उक्तमेतदानन्द तथागतेन - प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां माता जननी जनयित्री सर्वज्ञताया आहारिकेति / तस्मात्तर्हि आनन्द परीन्दामि अनुपरीन्दामि ते इमां प्रज्ञापारमिताम्, यथेयं नान्तर्धीयेत / उद्ग्रहीतव्येयमानन्द प्रज्ञापारमिता, धारयितव्येयमानन्द प्रज्ञापारमिता, वाचयितव्येयमानन्द प्रज्ञापारमिता, पर्यवाप्तव्येयमानन्द प्रज्ञापारमिता, प्रवर्तयितव्येयमानन्द प्रज्ञापारमिता, देशयितव्येयमानन्द प्रज्ञापारमिता, उपदेष्टव्येयमानन्द प्रज्ञापारमिता, उद्देष्टव्येयमानन्द प्रज्ञापारमिता, स्वाध्यातव्येयमानन्द प्रज्ञापारमिता, लिखितव्येयमानन्द प्रज्ञापारमिता, भावयितव्येयमानन्द प्रज्ञापारमिता / सुमनसिकृता च सुधृता च सुपर्यवाप्ता च सुप्रवर्तिता च त्वया आनन्द इयं प्रज्ञापारमिता कर्तव्या / सुपरिव्यक्तेनाक्षरपदव्यञ्जनेन सुनिरुक्ता चोद्ग्रहीतव्या / तत्कस्य हेतोः? अतीतानागतप्रत्युत्पन्नानां हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानां धर्मकायतेति तां धर्मतां प्रमाणीकृत्य / यथा तत्त्वमानन्द एतर्हि मे तथागतस्य तिष्ठतो ध्रियमाणस्य यापयतो हितैषितया प्रेमतो वा गौरवतो वा कल्याणतो वा स्पर्शविहारतो वा कर्तव्यं वा दातव्यं वा समन्वाहर्तव्यं वा मन्यसे, तथैव त्वया आनन्द इयं प्रज्ञापारमिता उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्या उपदेष्टव्या उद्देष्टव्या स्वाध्यातव्या लिखितव्या भावयितव्या सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अर्चयितव्या अपचायितव्या, तया हितैषितया तेन प्रेम्णा तेन गौरवेण तया गुणवत्तया / एवं त्वया आनन्द अहं पूजितो भवामि, ते च बोधिसत्त्वा महासत्त्वाः / अतीतानागतप्रत्युत्पन्नानां च बुद्धानां भगवतामन्तिके प्रेम च प्रसादश् च गौरवं चोत्पादितं भवति / यदि ते आनन्द अहं प्रियो मनआपो ऽपरित्यक्तस्तथागतः, ततस्ते आनन्द इयं प्रज्ञापारमिता प्रिया मनआपा अपरित्यजनीया भवतु, यथा ते एकपदम् अपि न प्रणश्येत्, यथा नान्तर्धीयेत / बह्व् अपि ते आनन्द अहं भाषेयं प्रज्ञापारमितायाः परीन्दनामारम्य कल्पं वा कल्पावशेषं वा कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा कल्पकोटीं वा कल्पकोटीशतं वा कल्पकोटीसहस्रं वा कल्पकोटीशतसहस्रं वा ततो वा उपरि / संक्षेपेण आनन्द यादृशस्तवाहं शास्ता, तादृशी ते प्रज्ञापारमिता शास्ता / यादृशास्ते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः सदेवमानुषासुरस्य लोकस्य शास्तारः, तादृशी प्रज्ञापारमिता सदेवमानुषासुरस्य लोकस्य शास्ता / तस्मात्तर्हि आनन्द अपरिमाणा प्रज्ञापारमिता / अपरिमाणया परीन्दनया प्रज्ञापारमितां ते परीन्दाम्यनुपरीन्दामि सदेवमानुषासुरस्य लोकस्य हिताय सुखाय / यस्य आनन्द तथागतो न परित्यक्तः, धर्मो न परित्यक्तः, संघो न परित्यक्तः, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिर्न परित्यक्ता, तस्य प्रज्ञापारमिता अपरित्यक्ता भवतु / इयमस्माकमनुशासनी / (Vऐद्य २२९) यो ऽपि कश्चिदानन्द एनां प्रज्ञापारमितामुद्गृह्णीयाद्धारयेत्पर्यद्वाचयेदाप्नुयात्प्रवर्तयेद्देशयेदुपदिशेदुद्दिशेत्स्वाध्यायेत् लिखेद्भावयेत्, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवेत् / यो हि कश्चिदानन्द एनां प्रज्ञापारमितां प्रलुज्यमानामनुपरिगृह्णीते, अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिरनुपरिगृहीता भवति / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द बुद्धानां भगवतां बोधिः / ये ऽपि ते आनन्द अभूवन्नतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिरभूत् / ते ऽपि ते आनन्द अनागते ऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिर्भविष्यति / ये ऽपि ते आनन्द अप्रमेयेष्वसंख्येषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति, तेषामप्यानन्द बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः / तस्मात्तर्हि आनन्द बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितुकामेन इयमेव प्रज्ञापारमिता श्रोतव्या उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या देशयितव्योपदेष्टव्योद्देष्टव्या स्वाध्यातव्या लिखितव्या / इहैव प्रज्ञापारमितायां शिक्षितव्यं योगमापत्तव्यम् / तत्कस्य हेतोः? एषा हि आनन्द प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां माता जननी जनयित्री / ये ऽपि केचिदानन्द बोधिसत्त्वा महासत्त्वाः षट्सु पारमितासु शिक्षित्वा निर्याताः, निर्यास्यन्ति निर्यान्ति च अनुत्तरायां सम्यक्संबोधौ, सर्वे ते आनन्द प्रज्ञापारमितामागम्य षट्सु पारमितासु शिक्षिताः / ते ऽपि सर्वे एनामेव प्रज्ञापारमितामागम्य षट्सु पारमितासु निर्जाताः / तत्कस्य हेतोः? प्रज्ञापारमितानिर्जाता हि आनन्द सर्वाः पारमिताः आहारिका भवन्त्यनुत्तरायाः सम्यक्संबोधेः / तस्मात्तर्हि आनन्द भूयस्या मात्रया एनां प्रज्ञापारमितां द्वितीयकम् अपि तृतीयकम् अपि परीन्दाम्यनुपरीन्दामि ते, यथेयं नान्तर्धीयेत / एषा हि आनन्द तथागतानामर्हतां सम्यक्संबुद्धानामक्षयो धर्मकोषः, यदुत प्रज्ञापारमिता / तत्कस्य हेतोः? यो हि आनन्द अतीते ऽध्वनि अनवराग्रे संसारे सत्त्वानां बुद्धैर्भगवद्भिर्धर्मो देशितः, सर्वः स इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः / ये ऽपि ते आनन्द अनागते ऽध्वनि बुद्धा भगवन्तो ऽपरिमिते संसारे ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्य सत्त्वानां धर्मं देशयिष्यन्ति, ते ऽपि बुद्धा भगवन्त इत एव धर्मकोषात्, यदुत प्रज्ञापारमितातः / ये ऽपि ते आनन्द एतर्हि अप्रमेयेष्वसंख्येयेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, धर्मं च देशयन्ति, तेषामप्यानन्द बुद्धानां भगवतामित एव धर्मकोषात्प्रभावना भवति, यदुत प्रज्ञापारमितातः / तस्मात्तर्हि आनन्द अक्षय एष धर्मकोषो यदुत प्रज्ञापारमिताकोषः / सचेत्त्वमानन्द श्रावकयानि श्रावकयानिकानां पुद्गलानां श्रावकभूमौ धर्मं देशयेस् तस्यां च धर्मदेशनायां ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वास् ते सर्वे अर्हत्वं साक्षात् कुर्युस् तथापि त्वया मे श्रावकेण धर्मचक्रप्रवर्तनानुप्रवर्तनतो धर्मदेशयता श्रावककृत्यं न कृतं स्यात् सचेत् पुनस् त्वम् आनन्द बोधिसत्वस्य महासत्वस्य एकम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयेः संप्रकाशयेः एवम् अहं त्वया श्रावकेण धर्मचक्रप्रवर्तनानुवर्तनतो धर्मं देशयनतो आराधितः स्यान्. न तु तया पौर्विकया धर्मदेशनया यया ते त्रिसाहस्रमहासाहस्रे लोकधातौ सर्वसत्वा अर्हत्वं प्रापितास्. तेषां चार्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु तत् किं मन्यसे आनन्दापि नु स बहु पुण्यस्कन्धः?᳚ / आनन्दः आह / ᳚बहु भगवन्! बहु सुगत!᳚ भगवान् आह / ᳚तत स आनन्द! श्रावकयानिकः पुद्गलो बहुतरं पुण्यं प्रसवति यो बोधिसत्वानां महासत्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति. अतो ऽपि स आनन्द! बहुतरं पुण्यं प्रसवति यो बोधिसत्वो महासत्वो ऽपरस्य बोधिसत्वस्य महासत्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति / अन्तश एकदिवसम् अपि तिष्ठत्व् आनन्दैकदिवसम् अन्तशः पुरोभक्तम् अपि. तिष्ठत्व् आनन्द! पुरोभक्तम् अपि. तिष्ठत्व् आनन्द! पुरोभक्तं देशितः / अन्तश एकनालिकाम् अपि एकनालिकान्तरम् अपि वा तिष्ठत्व् आनन्द! एकनालिकान्तरम् अन्तशो मुहूर्तम् अपि तिष्ठत्व् आनन्द! मुहूर्तम् अन्तश एकलवम् अपि तिष्ठत्व् आनन्द! एकलवम् अन्तश एकक्षणसंनिपातम् अपि यो ह्य् आनन्द! बोधिसत्वो महासत्वः अपरस्य बोधिसत्वस्य महासत्वस्य एकक्षणलवम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयन्त्य् अयं ततो ऽतिबहुतरं पुण्यं प्रसवति / इदं ह्य् आनन्द! तस्य बोधिसत्वस्य महासत्वस्य धर्मदानं सर्वश्रावकप्रत्येकबुद्धयानिकानां पुद्गलानां कुशलमूलान्य् अभिभवति // एवम् आनन्द! कुशलमूलसमन्वागतो बोधिसत्वो महासत्व एवम् एतत् कुशलमूलं समन्वाहरन्न् अस्थानम् एतद् आनन्दानवकाशो यत् स बोधिसत्वो महासत्वो विवर्तेतानुत्तरायाः सम्यक्संबोधेर् नैतत् स्थानं विद्यते᳚ // अथ खलु भगवांस् तस्यां वेलायां तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेण ऋद्ध्यभिसंस्कृतेन ताश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या वा सर्वे ते बुद्धानुभावेनाक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति स्म भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं (Vऐद्य २३०) धर्मं देशयन्तं सागरोपमायां गम्भीरायामक्षोभ्यायां पर्षदि बोधिसत्त्वैर्महासत्त्वैरचिन्त्यगुणसमन्वागतैः परिवृतं पुरस्कृतं सर्वैश्चार्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचितैः सर्वचेतोवशिपरमपारमिप्राप्तैः //
SK
अथ खलु भगवांस्तमृद्ध्यभिसंस्कारं पुनरेव प्रतिसंहरति स्म / प्रतिसंहृते च भगवता तस्मिन् ऋद्ध्यभिसंस्कारे न भूयः स भगवानक्षोभ्यस्तथागतो ऽर्हन् सम्यक्संबुद्धः संदृश्यते स्म / ते च सर्वे बोधिसत्त्वा महासत्त्वाः, ते च महाश्रावकाः, तच्च बुद्धक्षेत्रं तासां चतसृणां गन्धर्वासुरगरुडकिन्नरमहोरगाणां मनुष्यामनुष्याणां च न चक्षुष आभासं भूय आगच्छन्ति स्म / तत्कस्य हेतोः? प्रतिसंहृतो हि तथागतेनार्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारः / तेन ते सर्वे सर्वेषां तेषां न भूयश्चक्षुष आभासमागच्छन्ति स्म //
SK
अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - एवमानन्द सर्वधर्मा न चक्षुषो ऽप्याभासमागच्छन्ति, न धर्माधर्माणामाभासमागच्छन्ति, न धर्माधर्मान् पश्यन्ति, न धर्माधर्मान् जानन्ति / तत्कस्य हेतोः? सर्वधर्मा हि आनन्द अजानका अपश्यकाः, न कार्यसमर्थाः / तत्कस्य हेतोः? निरीहका हि आनन्द सर्वधर्मा अग्राह्या आकाशनिरीहकतया / अचिन्त्या ह्यानन्द सर्वधर्मा मायापुरुषोपमाः / अवेदका ह्यानन्द सर्वधर्मा असद्भावतामुपादाय / एवं चरन्त आनन्द बोधिसत्त्वा महासत्त्वाश्चरन्ति प्रज्ञापारमितायम् / न कंचिद्धर्ममभिनिविशन्ते / एवं शिक्षमाणा आनन्द बोधिसत्त्वा महासत्त्वाः शिक्षन्ते प्रज्ञापारमितायाम् / सर्वशिक्षापरमपारमितां महाबोधिं प्राप्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यम् / तत्कस्य हेतोः? एषा ह्यानन्द शिक्षा सर्वशिक्षाणामग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते, सर्वलोकहितावहा सर्वलोकसुखावहा अनाथानां नाथकरी बुद्धानुज्ञाता बुद्धप्रशस्ता / अस्यामानन्द प्रज्ञापारमितायां शिक्षित्वा अत्र शिक्षायां स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमं त्रिसाहस्रमहासाहस्रं लोकधातुमेकेन पदाङ्गुष्ठेनोत्क्षिप्य पुनरेव निक्षिपेयुः / न च तेषां बुद्धानां भगवतामेवं स्यात् - उत्क्षिप्तो वायं त्रिसाहस्रमहासाहस्रो लोकधातुः निक्षिप्तो वेति / तत्कस्य हेतोः? अप्रमेयासंख्येयगुणसमन्वागता हि प्रज्ञापारमिता / अस्यामानन्द प्रज्ञापारमिताशिक्षायां शिक्षित्वा बुद्धा भगवन्तो ऽतीतानागतप्रत्युत्पन्नेषु धर्मेष्वसङ्गतामनुप्राप्ताः / यावत्य आनन्द काश्चिच्छिक्षाः अतीतानागतप्रत्युत्पन्ने ऽध्वनि, सर्वासां तासामानन्द शिक्षाणामियमेव प्रज्ञापारमिताशिक्षा अग्रा आख्यायते, श्रेष्ठा आख्यायते, ज्येष्ठा आख्यायते, वरा आख्यायते, प्रवरा आख्यायते, प्रणीता आख्यायते, उत्तमा आख्यायते, अनुत्तमा आख्यायते, निरुत्तरा आख्यायते, असमा आख्यायते, असमसमा आख्यायते / अप्रमाणा ह्यानन्द प्रज्ञापारमिता / अक्षया ह्यानन्द प्रज्ञापारमिता / अपर्यन्ता ह्यानन्द प्रज्ञापारमिता / तत्कस्य हेतोः ? असत्त्वादेव (Vऐद्य २३१) प्रज्ञापारमितायाः / आकाशस्य हि स आनन्द प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येतः, यः प्रज्ञापारमितायाः प्रमाणं वा क्षयं वा पर्यन्तं वा ग्रहीतव्यं मन्येत / तत्कस्य हेतोः? अप्रमाणा ह्यानन्द प्रज्ञापारमिता / अक्षया ह्यानन्द प्रज्ञापारमिता / अपर्यन्ता ह्यानन्द प्रज्ञापारमिता / न मया आनन्द प्रज्ञापारमितायाः प्रमाणं वा क्षयो वा पर्यन्तो वा आख्यातः / नामकायपदकायव्यञ्जनकायाः खलु पुनरानन्द प्रमाणबद्धाः / नेयमानन्द प्रज्ञापारमिता प्रमाणबद्धा / तत्कस्य हेतोः? न ह्यानन्द नामकायपदकायव्यञ्जनकायाः प्रज्ञापारमिता / न हि प्रमाणवतीयमानन्द प्रज्ञापारमिता / अपरिमाणा ह्यानन्द प्रज्ञापारमिता //
SK
आनन्द आह - केन पुनः कारणेन भगवन् भगवता प्रज्ञापारमितायाः प्रमाणं नाख्यातम् ? भगवानाह - अक्षयत्वादानन्द प्रज्ञापारमितायास्तथागतः प्रमाणं न निर्दिशति / विविक्तत्वादानन्द प्रज्ञापारमितायाः प्रमाणं तथागतेन नाख्यातम् / न ह्यानन्द विविक्तस्य धर्मस्य विविक्तताप्युपलभ्यते, कुतः पुनरस्य प्रमाणं भविष्यति? एवमानन्द प्रज्ञापारमिता अप्रमेयत्वादप्रमाणा अपरिमाणा / ये ऽपि ते आनन्द अतीते ऽध्वन्यभूवंस्तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाविताः / न चानन्द इयं प्रज्ञापारमिता क्षीणा वा परिक्षीणा वा / ये ऽपि ते आनन्द अनागते ऽध्वनि भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभावयिष्यन्ते / न चानन्द इयं प्रज्ञापारमिता क्षेष्यते वा परिक्षेष्यते वा / ये ऽपि ते आनन्द एतर्ह्यप्रमेयेष्वसंख्येयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽप्यानन्द इत एव प्रज्ञापारमितातः प्रभाव्यन्ते / न चेयमानन्द प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा / अहमप्यानन्द एतर्हि तथागतो ऽर्हन् सम्यक्संबुद्धः / ममाप्यानन्द इत एव प्रज्ञापारमितातः प्रभावना / न चानन्द इयं प्रज्ञापारमिता क्षीयते वा परिक्षीयते वा / तत्कस्य हेतोः? आकाशं हि स आनन्द क्षययितव्यं मन्येत, यः प्रज्ञापारमितां क्षययितव्यां मन्येत / तस्मात्तर्ह्यानन्द अक्षयेयं प्रज्ञापारमिता //
SK
अथ खल्वायुष्मतः सुभूतेरेतदभवत् - गम्भीरमिदं स्थानं तथागतेन भाषितम् / यन्न्वहं तथागतं पृच्छेयमेतत्स्थानम् / अथ खल्वायुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - अक्षया भगवन् प्रज्ञापारमिता? भगवानाह - अक्षया हि सुभूते प्रज्ञापारमिता यदुत आकाशाक्षयत्वात्सर्वधर्मानुत्पादतः / सुभूतिराह - कथं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवानाह - रूपाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं वेदनासंज्ञासंस्काराः / विज्ञानाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / अविद्याक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं संस्काराक्षयत्वेन विज्ञानाक्षयत्वेन नामरूपाक्षयत्वेन षडायतनाक्षयत्वेन स्पर्शाक्षयत्वेन (Vऐद्य २३२) वेदनाक्षयत्वेन तृष्णाक्षयत्वेन उपादानाक्षयत्वेन भवाक्षयत्वेन जात्यक्षयत्वेन जरामरणाक्षयत्वेन शोकपरिदेवदुःखदौर्मनस्योपायासाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य अन्तद्वयविवर्जिता प्रतीत्यसमुत्पादव्यवलोकना / एवं व्यवलोकयन् सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यनुत्पादमनाद्यन्तमध्यं तं व्यवलोकयति / अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्यावेणिको धर्मो बोधिमण्डे निषण्णस्य, यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति / एवं व्यवलोकयतः सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादः सर्वज्ञज्ञानप्रतिलम्भो भवति / यो हि कश्चित्सुभूते बोधिसत्त्वो महासत्त्वः अनेन अक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरन् प्रतीत्यसमुत्पादं व्यवलोकयति, स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा स्थास्यति, अपि तु स्थास्यति सर्वज्ञतायाम् / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः, सचेत् इमान् मनसिकारानिदं चोपायकौशल्यमनागम्य न जानन्ति - कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या, कथं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्य इति / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा विवृत्ता विवर्तन्ते, विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः, सर्वे ते इदमुपायकौशल्यमनागम्य विवृत्ता विवर्तन्ते विवर्त्स्यन्ते च / ये केचित्सुभूते बोधिसत्त्वा महासत्त्वा न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च, सर्वे ते इमां प्रज्ञापारमितामागम्य न विवृत्ता न विवर्तन्ते न विवर्त्स्यन्ते च अनुत्तरायाः सम्यक्संबोधेः / एवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेन अक्षयाभिनिर्हारेण प्रज्ञापारमिता अभिनिर्हर्तव्या / एवं च अक्षयाभिनिर्हारेण प्रज्ञापारमितायां प्रतीत्यसमुत्पादो व्यवलोकयितव्यः / एवं खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद्धर्ममहेतुकमुत्पद्यमानं समनुपश्यति, न कंचिद्धर्मं नित्यं वा ध्रुवं वा शाश्वतं वा अविपरिणामधर्मकं वा समनुपश्यति / न कंचिद्धर्मं कारकं वा वेदकं वा समनुपश्यति / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य इमां प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरतो ऽस्यां प्रज्ञापारमितायां चरतः प्रतीत्यसमुत्पादव्यवलोकना / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितामक्षयाभिनिर्हारेण अभिनिर्हरन् प्रतीत्यसमुत्पादं व्यवलोकयति, तस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वो न रूपं समनुपश्यति, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानं समनुपश्यति, नाविद्यां समनुपश्यति / एवं न संस्कारान्न विज्ञानं न नामरूपं न षडायतनं न स्पर्शं न वेदनां न तृष्णां नोपादानं न भवं न जातिं न जरामरणं न शोकपरिदेवदुःखदौर्मनस्योपायासान् समनुपश्यति / इदं बुद्धक्षेत्रमिति न समनुपश्यति, अन्यद्बुद्धक्षेत्रमिति न समनुपश्यति / तम् अपि धर्मं न समनुपश्यति, येन धर्मेण इदं वा अन्यद्वा बुद्धक्षेत्रं समनुपश्येत् / इयं सा सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता / यस्मिन् समये सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति / (Vऐद्य २३३) तद्यथापि नाम सुभूते पुरुषो मातापितृषु कालगतेषु परमशोकशल्यसमर्पितो भवति, एवमेव सुभूते यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति, तस्मिन् समये मारः पापीयान् परमशोकशल्यसमर्पितो भवति //
पुनरपरं सुभूते तथेयं प्रज्ञापारमिता पर्येष्टव्या, यथा सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन पर्येषिता, य एतर्हि भीष्मगर्जितनिर्घोषस्वरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिके ब्रह्मचर्यं चरति / एवमुक्ते आयुष्मान् सुभूतिर्भगवन्तमेतदवोचत् - कथं भगवन् सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेनेयं प्रज्ञापारमिता पर्येषिता? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत् - सदाप्ररुदितेन सुभूते बोधिसत्त्वेन महासत्त्वेन पूर्वं प्रज्ञापारमितां पर्येषमाणेन काये ऽनर्थिकेन जीवितनिरपेक्षेण लाभसत्कारश्लोकेष्वनिश्रितेन पर्येषमाणेन पर्येषिता / तेन प्रज्ञापारमितां पर्येषमाणेन अरण्यगतेन अन्तरीक्षान्निर्घोषः श्रुतो ऽभूत् - गच्छ त्वं कुलपुत्र पूर्वस्यां दिशि / ततः प्रज्ञापारमितां श्रोष्यसि / तथा च गच्छ, यथा न कायक्लमथमनसिकारमुत्पादयसि, न स्त्यानमिद्धमनसिकारमुत्पादयसि, न भोजनमनसिकारमुत्पादयसि, न पानीयमनसिकारमुत्पादयसि, न रात्रिमनसिकारमुत्पादयसि, न दिवसमनसिकारमुत्पादयसि, न शीतमनसिकारमुत्पादयसि, नोष्णमनसिकारमुत्पादयसि / मा च क्वचिच्चित्तं प्रणिधाः अध्यात्मं वा बहिर्धा वा / मा च कुलपुत्र वामेनालोकयन् गाः, मा दक्षिणेन, मा पूर्वेण, मा पश्चिमेन, मोत्तरेण, मोर्ध्वम्, माधः, मा च अनुविदिशमवलोकयन् गाः / तथा च कुलपुत्र गच्छ, यथा नात्मतो न सत्कायतश्चलसि / यथा न रूपतश्चलसि, यथा न वेदनातो न संज्ञातो न संस्कारतः, यथा न विज्ञानतश्चलसि / यो ह्यतश्चलति, स वितिष्ठते / कुतो वितिष्ठते? बुद्धधर्मेभ्यो वितिष्ठते / यो बुद्धधर्मेभ्यो वितिष्ठते, स संसारे चरति / यः संसारे चरति, स न चरति प्रज्ञापारमितायाम् / स प्रज्ञापारमितां नानुप्राप्नोतीति //
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तस्मिन्नेव पृथिवीप्रदेशे स्थितः तस्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितां देशयतः शृणोति स्म / शृण्वंश् च सर्वधर्मेष्वनिश्रितसंज्ञामुत्पादयति स्म / तस्यानेकानि समाधिमुखान्यामुखीभूतान्यभूवन् / तद्यथासर्वधर्मस्वभावव्यवलोकनो नाम समाधिः / सर्वधर्मस्वभावानुपलब्धिर्नाम समाधिः / सर्वधर्मस्वभावज्ञाननिर्गमो नाम समाधिः / सर्वधर्मनिर्नानात्वो नाम समाधिः / सर्वधर्मनिर्विकारदर्शी नाम समाधिः / सर्वधर्मावभासकरो नाम समाधिः / सर्वधर्मतमोपगतो नाम समाधिः / सर्वधर्मज्ञानविध्वंसनो नाम समाधिः / सर्वधर्मविधूननो नाम समाधिः / सर्वधर्मानुपलब्धिर्नाम समाधिः / कुसुमाभिकीर्णो नाम समाधिः / सर्वधर्मात्मभावाभिनिर्हारो नाम समाधिः / मायाविवर्जितो नाम समाधिः / आदर्शमण्डलप्रतिभासनिर्हारो नाम समाधिः / सर्वसत्त्वरुतनिर्हारो नाम समाधिः / रजोपगतो नाम समाधिः / सर्वसत्त्वाभिप्रमोदनो नाम समाधिः / सर्वसत्त्वरुतकौशल्यानुगतो नाम समाधिः / नानारुतपदव्यञ्जनाभिनिर्हारो नाम समाधिः / अस्तम्भितो नाम समाधिः / प्रकृत्यव्यवहारो नाम समाधिः / अनावरणविमोक्षप्राप्तो नाम समाधिः / राजोपगतो नाम समाधिः / नामनिरुक्तिपदव्यञ्जनो नाम समाधिः / सर्वधर्मविपश्यनो नाम समाधिः / सर्वधर्मविषयापगतो नाम समाधिः / सर्वधर्मानावरणकोटिर्नाम समाधिः / गगनकल्पो नाम समाधिः / वज्रोपमो नाम समाधिः / आसन्नरूपराजो नाम समाधिः / असपत्नराजो नाम समाधिः / जयलब्धो नाम समाधिः / अविवर्त्यचक्षुर्नाम समाधिः / धर्मधातुनियतो नाम समाधिः / धर्मधातुनिर्गतो नाम समाधिः / आश्वासदाता नाम समाधिः / सिंहाभिगर्जितो (Vऐद्य २४३) नाम समाधिः / सर्वसत्त्वाभिभवनो नाम समाधिः / विगतरजो नाम समाधिः / असंक्लिष्टो नाम समाधिः / पद्मव्यूहो नाम समाधिः / काङ्क्षोच्छेदनो नाम समाधिः / सर्वसारानुगतो नाम समाधिः / सर्वधर्माभ्युद्गतो नाम समाधिः / अभिज्ञाबलवैशारद्यप्राप्तो नाम समाधिः / सर्वधर्मनिर्वेधको नाम समाधिः / सर्वधर्मविभवमुद्रा नाम समाधिः / सर्वधर्मविभवसमुद्रो नाम समाधिः / सर्वधर्मनिर्विशेषदर्शी नाम समाधिः / सर्वदृष्टिकृतगहनविवर्जितो नाम समाधिः / तमोपगतो नाम समाधिः / सर्वधर्मनिमित्तापगतो नाम समाधिः / सर्वसङ्गविमुक्तो नाम समाधिः / सर्वकौसीद्यापगतो नाम समाधिः / गम्भीरधर्मप्रभाकरो नाम समाधिः / मेरुकल्पो नाम समाधिः / असंहार्यो नाम समाधिः / मारमण्डलविध्वंसनकरो नाम समाधिः / त्रैलोक्यानभिनिविष्टो नाम समाधिः / रश्मिनिर्हारो नाम समाधिः / तथागतदर्शनो नाम समाधिः / सर्वतथागतदर्शी नाम समाधिः / स एषु समाधिषु स्थितः सन् दशदिशि लोके बुद्धान् भगवतः पश्यति स्म अप्रमेयानसंख्येयान् इमामेव प्रज्ञापारमितां प्रकाशयतो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः / ते च तथागताः साधुकारं ददति स्म, स्वासनं चास्य कुर्वन्ति स्म / एवं चावोचन् - अस्माभिर् अपि कुलपुत्र पूर्वं बोधिसत्त्वचर्यां चरद्भिरेवमेव प्रज्ञापारमिता परिगवेषिता / परिगवेषमाणैश् च एते एव समाधयः प्रतिलब्धाः, ये त्वयैतर्हि प्रतिलब्धाः / एनांश् च समाधीन् प्रतिलभ्य गतिंगताः संवृत्ताः, प्रज्ञापारमितायामविनिवर्तनीयेषु बुद्धधर्मेषु प्रतिष्ठिताः / ते वयमेतेषामेव समाधीनां प्रकृतिं स्वभावं व्यवलोकयन्तस्तं धर्मं न समनुपश्यामो यः समापद्यते वा व्युत्तिष्ठते वा, यो बोधाय चरेत्, यो वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्येत / इयं सा कुलपुत्र प्रज्ञापारमिता, या न केनचिद्धर्मेण मन्यमानता / अमन्यमानतास्थितैरस्माभिरियमेवंरूपा कायस्य सुवर्णवर्णता प्रतिलब्धा / द्वात्रिंशच्च महापुरुषलक्षणानि / अशीतिश्चानुव्यञ्जनानि / व्यामप्रभता च / अचिन्त्यं च अनुत्तरं बुद्धज्ञानं बुद्धप्रज्ञा, अनुत्तरश् च बुद्धसमाधिः, सर्वबुद्धधर्मगुणपारमिता च अनुप्राप्ता यस्या गुणपारमिताया न शक्यं तथागतैरेव तावत्प्रमाणं ग्रहीतुं पर्यन्तो वा निदर्शयितुम्, किं पुनः श्रावकप्रत्येकबुद्धैः? तस्मात्तर्हि कुलपुत्र एतेष्वेव त्वया धर्मेषु गौरवमुत्पादयितव्यं भूयस्या मात्रया अर्थिकतया छन्दिकतया च / अर्थिकस्य हि कुलपुत्र छन्दिकस्य च न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः / कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवमुत्पादयितव्यम्, प्रेम च करणीयम्, प्रसादश् च करणीयः / कल्याणमित्रपरिगृहीता हि बोधिसत्त्वा महासत्त्वाः क्षिप्रमेव अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते //
SK
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तांस्तथागतानेतदवोचत् - को ऽस्माकं कल्याणमित्रमिति? त एनमेतदवोचन् - दीर्घरात्रं त्वं कुलपुत्र धर्मोद्गतेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरायां सम्यक्संबोधौ परिपाचितः परिगृहीतश् च / प्रज्ञापारमितायामुपायकौशल्ये बुद्धधर्मेषु च शिक्षापितः / स तव कुलपुत्र परिग्राहकः कल्याणमित्रं च / तत्त्वया कृतज्ञतया कृतवेदितया च सत्कृत्य तत्कृतं धारयितव्यम् / सचेत्त्वं कुलपुत्र धर्मोद्गतं बोधिसत्त्वं (Vऐद्य २४४) महासत्त्वमेकं वा कल्पं द्वौ वा कल्पौ त्रीन् वा कल्पान् कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा ततो वा उत्तरे चैलोण्डुकमिव शिरसा परिकर्षेः, सर्वसत्त्वसुखोपस्थानं चास्योपस्थापयेः, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ रूपशब्दगन्धरसस्पर्शाः, तान् सर्वानुपनामयेः / एवम् अपि त्वया कुलपुत्र तस्य कुलपुत्रस्य नैव कृतस्य प्रतिकृतं भवेत् / तत्कस्य हेतोः? तस्य हि कुलपुत्र कुलपुत्रस्य अनुभावेन तवैषामेवंरूपाणां समाधीनां प्रतिलम्भः संवृत्तः / प्रज्ञापारमितोपायकौशल्यश्रवश् च प्रज्ञापारमिताप्रतिलम्भश् च संवृत्तः //
SK
अथ खलु ते तथागताः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वं समाश्वास्य अन्तर्हिता अभूवन् / स च कुलपुत्रस्तेभ्यः समाधिभ्यो व्युदस्थात् / व्युत्थितस्य चास्य एतदभूत् - कुतस्ते तथागताः, क्व वा ते तथागता इति / स तांस्तथागतानपश्यन् महतीमुत्कण्ठां परितसनं चापन्नः / तस्यैतदभूत् - आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनकृताधिकारः मम संपरिग्राहकः कल्याणमित्रं च / दीर्घरात्रं च मम तेनार्थः कृतः / यन्न्वहमेतमर्थं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमभिगम्योपसंक्रम्य परिपृच्छेयम् - कुतस्ते तथागता आगताः, क्व वा ते तथागता गता इति //
SK
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गते बोधिसत्त्वे महासत्त्वे प्रेम च प्रसादं च चित्रीकारं च गौरवं च उपस्थापयति / उपस्थाप्य एवं प्राचिन्तयत् - कियद्रूपया नु खल्वहं सत्क्रियया तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम्? दरिद्रश्चास्मि / न च मे किंचित्तथारूपं वस्त्रं वा रत्नं वा सुवर्णं वा मणयो वा मुक्ता वा वैदूर्यं वा शङ्खशिला वा प्रवालं वा रजतं वा पुष्पं वा धूपो वा गन्धो वा माल्यं वा विलेपनं वा चूर्णं वा चीवरं वा छत्रं वा ध्वजं वा घण्टा वा पताका वा संविद्यते / केनाहं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्कुर्यां गुरुकुर्याम्? न च ममैतत्प्रतिरूपं भवेत्, यदहमेवमेव धर्मोद्गतं बोधिसत्त्वं महासत्त्वमुपसंक्रामेयम् / दरिद्रश्चास्मि / न च मे प्रीतिर्वा प्रामोधं वोत्पद्यते //
अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वतदवोचत् - का पुनस्ते कुलपुत्र ततो गुणजातिर्निष्पत्स्यते गुणविशेषो वा, यत्त्वमात्मनो हृदयं रुधिरं चास्थिमज्जानं च विक्रीय तं कुलपुत्रं सत्कर्तुकामः? स तां दारिकामेतदवोचत् - स दारिके कुलपुत्रो ऽस्माकं प्रज्ञापारमितामुपायकौशल्यं चोपदेक्ष्यति / तत्र च वयं शिक्षिष्यामहे / तत्र वयं शिक्षमाणाः सर्वसत्त्वानां प्रतिशरणं भविष्यामः / अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सुवर्णवर्णं च कायं प्रतिलप्स्यामहे / द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिं चानुव्यञ्जनानि व्यामप्रभतां च अनन्तरश्मितां च महामैत्री च महाकरुणां च महामुदितां च महोपेक्षां च / चत्वारि वैशारद्यानि प्रतिलप्स्यामहे, चतस्रश् च प्रतिसंविदः प्रतिलप्स्यामहे, अष्टादश च आवेणिकबुद्धधर्मान् प्रतिलप्स्यामहे, पञ्च च अभिज्ञाः, अचिन्त्यां च शीलविशुद्धिम्, अचिन्त्यां च समाधिविशुद्धिम्, अचिन्त्यां च प्रज्ञाविशुद्धिम्, दश च तथागतबलानि प्रतिलप्स्यामहे / अनुत्तरं च बुद्धज्ञानमभिसंभोत्स्यामहे / अनुत्तरं च धर्मरत्नं प्रतिलप्स्यामहे, येन च सर्वसत्त्वानां संविभागं करिष्याम इति //
SK
अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - आश्चर्यं कुलपुत्र यावदुदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः / एकैकस्यापि तावत्कुलपुत्र एवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालुकोपमान् अपि कल्पानात्मभावाः परित्यक्तव्या भवेयुः, प्रागेव बहूनामर्थाय एकः / तथोदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः, यथा ममाप्येते रोचन्ते क्षमन्ते च / अपि नु खलु पुनः कुलपुत्र येन येनैवार्थेन ते कृत्यम्, तत्तत्ते दास्यामि सुवर्णं वा मणीन् वा मुक्तां वा रजतं वा वैदूर्यं वा मुसारगल्वं वा लोहितार्कं वा स्फाटिकं वा पुष्पं वा धूपं वा गन्धं वा माल्यं व विलेपनं वा चूर्णं वा वस्त्रं वा छत्रं वा ध्वजं वा घण्टां वा पताकां वा दीपं वा / तेन त्वं तं धर्मोद्गतं बोधिसत्त्वं महासत्त्वं सत्करिष्यसि / मा च आत्मन इमामेवंरूपां कारणां कार्षीः / वयम् अपि त्वयैव सार्धं गमिष्यामः, येनार्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वः / वयम् अपि त्वयैव सार्धं कुशलमूलान्यवरोपयिष्यामः, यदुत एषामेवंरूपाणां धर्माणां प्रतिलम्भायेति //
अथ खलु तानि श्रेष्ठिदारिकापूर्वंगमानि पञ्च दारिकाशतानि धर्मोद्गते बोधिसत्त्वे महासत्त्वे स्पृहामुत्पाद्य सर्वास्ताः समग्रीभूता अध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामासुः, एवं चावोचन् - अनेन वयं कुशलमूलेन अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा भवेम / बोधिसत्त्वचर्यां च वयं चरन्त्य एतेषामेव धर्माणां लाभिन्यो भवेम, येषां धर्माणामयं धर्मोद्गतो बोधिसत्त्वो महासत्त्वो लाभी / एवमेव च प्रज्ञापारमितां सत्कुर्याम गुरुकुर्याम, यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सत्करोति गुरुकरोति / बहुजनस्य च संप्रकाशयेम यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः संप्रकाशयति / एवमेव च प्रज्ञापारमितया उपायकौशल्येन च समन्वागता भवेम / परिनिष्पद्येमहि च यथायं धर्मोद्गतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितया उपायकौशल्येन च समन्वागतः परिनिष्पन्नश् च //
SK
अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तानि च श्रेष्ठिदारिकाप्रमुखानि पञ्च दारिकाशतानि प्रज्ञापारमितां पूजयित्वा धर्मोद्गतं च बोधिसत्त्वं महासत्त्वं सत्कृत्य धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य पादौ शिरसाभिवन्द्य एकान्ते सगौरवाः सप्रतीक्षाः प्राञ्जलीन् कृत्वातिष्ठन् / एकान्ते स्थितश् च सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो धर्मोद्गतं बोधिसत्त्वं महासत्त्वमेतदवोचत् - इहाहं कुलपुत्र प्रज्ञापारमितां गवेषमाणो ऽरण्यगतो निर्घोषमश्रौषम् - गच्छ कुलपुत्र पूर्वां दिशम् / ततः प्रज्ञापारमितां श्रोष्यसीति / सो ऽहं सम्यक् तं निर्घोषं श्रुत्वा येन पूर्वा दिक् तेन संप्रस्थितः / तस्य मे एतदभूत् - सम्यक् च मया निर्घोषः श्रुतः / न च मया स निर्घोषः परिपृष्टः - कियद्दूरं मया गन्तव्यम्, कस्य वा अन्तिकात्प्रज्ञापारमितां श्रोष्यामि लप्स्ये वेति / तस्य मे महद्दौर्मनस्यमभूत् / सो ऽहं तेन दौर्मनस्येन महतीमुत्कण्ठां परितपनं चापन्नो ऽभूवम् / तस्मिन्नेव पृथिवीप्रदेशे सप्तरात्रिंदिवान्यतिनामयामि उत्कण्ठितः / नाहारसमुदाचारमुत्पादयामि / अपि तु प्रज्ञापारमितामेव मनसि करोमि - कियद्दूरं मया गन्तव्यम्, कुतो वा प्रज्ञापारमितां लप्स्ये श्रवणाय? न च मया स निर्घोषः परिपृष्टः इति / ततो मे तथागतविग्रहः पुरतः प्रादुर्भूतः / स मामेवमाह - गच्छ कुलपुत्र इतः पञ्चभिर्योजनशतैरनुपूर्वेण गन्धवती नाम नगरी / तत्र द्रक्ष्यसि धर्मोद्गतं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितां देशयन्तं प्रकाशयन्तमिति / ततो ऽहं महतोदारेण प्रीतिप्रामोद्येन समन्वागतः / सो ऽहं तेनैव महतोदारेण प्रीतिप्रामोद्येन स्फुटस्ततः पृथिवीप्रदेशान्न चलितः, तव च प्रज्ञापारमितां देशयतः शृणोमि / तस्य मे शृण्वतो बहूनि समाधिमुखानि प्रादुर्भूतानि / (Vऐद्य २५२) तत्र स्थितं मां दशदिग्लोकधातुस्थिता बुद्धा भगवन्तः समाश्वासयन्ति, साधुकारं च ददति - साधु साधु कुलपुत्र, एते समाधयः प्रज्ञापारमितानिर्जाताः, यत्र स्थितैरस्माभिः सर्वबुद्धधर्माः परिनिष्पादिता इति / ते मां तथागताः साधु च सुष्ठु च संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य अन्तर्हिताः / अहं च ततः समाधेर्व्युत्थितः / तस्य मे एतदभूत् - कुतो नु ते तथागता आगताः, क्व वा ते तथागता गता इति? तस्य च मे एतदभूत् - आर्यो धर्मोद्गतो बोधिसत्त्वो महासत्त्वो धारणीप्रतिलब्धः पञ्चाभिज्ञः पूर्वजिनाकृताधिकारो ऽवरोपितकुशलमूलः, प्रज्ञापारमितायां उपायकौशल्ये च सुशिक्षितः / स मे एनमर्थं यथावद्विचरिष्यति, यतस्ते तथागता आगता यत्र वा ते तथागता गता इति / सो ऽहं तस्य तथागतविग्रहस्य निर्घोषं श्रुत्वा यथानुशिष्टं येन पूर्वां दिक् तेन संप्रस्थितः / आगच्छंश्चाहं दूरत एवार्यमद्राक्षं धर्मं देशयन्तम् / सहदर्शनाच्च ममेदृशं सुखं प्रादुरभूत्, तद्यथापि नाम प्रथमध्यानसमापन्नस्य भिक्षोरेकाग्रमनसिकारस्य / सो ऽहं त्वां कुलपुत्र पृच्छामि - कुतस्ते तथागता आगताः, कुत्र ते तथागता गता इति? देशय मे कुलपुत्र तेषां तथागतानामागमनं गमनं च / यथा वयं तेषां तथागतानामागमनं गमनं च जानीम, अविरहिताश् च भवेम तथागतदर्शनेनेति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः //
SK
ASP_३१: धर्मोद्गतपरिवर्त एकत्रिंशत्तमः /
SK
एवमुक्ते धर्मोद्गतो बोधिसत्त्वो महासत्त्वः सदाप्ररुदितं बोधिसत्त्व महासत्त्वमेतदवोचत् - न खलु कुलपुत्र तथागताः कुतश्चिदागच्छन्ति वा गच्छन्ति वा / अचलिता हि तथता / या च तथता, स तथागतः / न हि कुलपुत्र अनुत्पाद आगच्छति वा गच्छति वा / यश् च अनुत्पादः, स तथागतः / न हि कुलपुत्र भूतकोट्या आगमनं वा गमनं वा प्रज्ञायते / या च भूतकोटिः, स तथागतः / न हि कुलपुत्र शून्यताया आगमनं वा गमनं वा प्रज्ञायते / या च शून्यता, स तथागतः / न हि कुलपुत्र यथावत्ताया आगमनं वा गमनं वा प्रज्ञायते / या च यथावत्ता, स तथागतः / न हि कुलपुत्र विरागस्यागमनं वा गमनं वा प्रज्ञायते / या च विरागता, स तथागतः / न हि कुलपुत्र निरोधस्यागमनं वा गमनं वा प्रज्ञायते / यश् च निरोधः, स तथागतः / न हि कुलपुत्र आकाशधातोरागमनं वा गमनं वा प्रज्ञायते / यश् च आकाशधातुः, स तथागतः / न हि कुलपुत्र अन्यत्र एभ्यो धर्मेभ्यस्तथागतः / या च कुलपुत्र एषामेव धर्माणां तथता, या च सर्वधर्मतथता, या च तथागततथता, एकैवैषा तथता / नास्ति कुलपुत्र तथताया द्वैधीकारः / एकैवैषा तथता कुलपुत्र / तथता न द्वे न तिस्रः / गणनाव्यतिवृत्ता कुलपुत्रा तथता यदुत असत्त्वात् / तद्यथापि नाम कुलपुत्र पुरुषो ग्रीष्माभितप्तो ग्रीष्माणां पश्चिमे मासे ऽभिगते मध्याह्नकालसमये मरीचिकां पश्येत् स्यन्दमानाम् / स तेन तेन प्रधावेत् - अत्रोदकं पास्यामि, अपानीयं पास्यामीति / तत्किं मन्यसे कुलपुत्र कुत एतदुदकमागतं क्व वा तदुदकं गच्छति, पूर्वं वा महासमुद्रं दक्षिणं वा पश्चिमं वा उत्तरं वा? सदाप्ररुदित आह - न हि कुलपुत्र मरीचिकायामुदकं संविद्यते / किं पुनरस्यागमनं वा गमनं वा प्रज्ञायते? स खलु पुनः कुलपुत्र पुरुषो ग्रीष्माभितप्तो बालजातीयो दुष्प्रज्ञजातीयो मरीचिकां दृष्ट्वा अनुदके उदकसंज्ञामुत्पादयति / न पुनस्तत्रोदकं स्वभावतः संविद्यते / धर्मोद्गत आह - एवमेतत्कुलपुत्र, एवम् एतत् / एवमेव कुलपुत्र ये केचित्तथागतरूपेण वा घोषेण वा अभिनिविष्टाः, ते तथागतस्यागमनं च गमनं च कल्पयन्ति / ये च तथागतस्यागमनं च गमनं च कल्पयन्ति, सर्वे ते बालजातीया दुष्प्रज्ञजातीया इति वक्तव्याः, तद्यथापि नाम स एव पुरुषो यो ऽनुदके उदकसंज्ञामुत्पादयति / तत्कस्य हेतोः? न हि तथागतो रूपकायतो द्रष्टव्यः / धर्मकायास्तथागताः / न च कुलपुत्र धर्मता आगच्छति वा गच्छति वा / एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा / तद्यथापि नाम कुलपुत्र मायाकारनिर्मितस्य हस्तिकायस्य वा अश्वकायस्य वा रथकायस्य वा पत्तिकायस्य वा नास्त्यागमनं वा गमनं वा, एवमेव कुलपुत्र नास्ति तथागतानामागमनं वा गमनं वा / तद्यथापि नाम कुलपुत्र पुरुषः सुप्तः स्वप्नान्तरगत एकं वा तथागतं पश्येत्, द्वौ वा त्रीन् वा चतुरो वा पञ्च वा षड्वा सप्त वा अष्टौ वा नव वा दश वा विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा सहस्रं वा, ततो वा उत्तरे / स प्रतिविबुद्धः सन् एकम् अपि तथागतं न पश्येत् / तत्किं मन्यसे कुलपुत्र कुतस्ते तथागता आगताः क्व वा ते तथागता गता इति? सदाप्ररुदित आह - न खलु पुनः कुलपुत्र स्वप्ने कस्यचिद्धर्मस्य (Vऐद्य २५४) परिनिष्पत्तिः प्रज्ञायते / मृषावादो हि स्वप्नो ऽभूत् / धर्मोद्गत आह - एवमेव कुलपुत्र सर्वधर्माः स्वप्नोपमा उक्ता भगवता / ये केचित्कुलपुत्र स्वप्नोपमान् सर्वधर्मांस्तथागतेन निर्देशितान् यथाभूतं न प्रजानन्ति, ते तथागतान् नामकायेन वा रूपकायेन वा अभिनिविश्य तथागतानामागमनं वा गमनं वा कल्पयन्ति / यथापि नाम धर्मतामप्रजानन्तो ये च तथागतानामागमनं वा गमनं वा कल्पयन्ति, सर्वे ते बालजातीयाः पृथग्जनाः / सर्वे ते षड्गतिकं संसारं गताः, गच्छन्ति गमिष्यन्ति च / सर्वे ते प्रज्ञापारमिताया दूरे / सर्वे ते बुद्धधर्माणां दूरे / ये खलु पुनः कुलपुत्र स्वप्नोपमान् सर्वधर्मान् स्वप्नोपमाः सर्वधर्मा इति तथागतेन देशितान् यथाभूतं प्रजानन्ति, न ते कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा / ये च न कस्यचिद्धर्मस्यागमनं वा गमनं वा कल्पयन्ति, उत्पादं वा निरोधं वा, ते धर्मतया तथागतं प्रजानन्ति / ये च तथागतं धर्मतया प्रजानन्ति, न ते तथागतानामागमनं वा गमनं वा कल्पयन्ति / ये च तथागतस्येदृशीं धर्मतां प्रजानन्ति, ते आसन्ना अनुत्तरायाः सम्यक्संबोधेश्चरन्ति / ते च प्रज्ञापारमितायां चरन्ति / ते च भगवतः श्रावकाः अमोघं राष्ट्रपिण्डं परिभुञ्जते / ते च लोकस्य दक्षिणीयाः / तद्यथापि नाम कुलपुत्र महासमुद्रे रत्नानि न पूर्वस्या दिश आगच्छन्ति, न दक्षिणस्याः, न पश्चिमायाः, नोत्तरस्याः, न विदिग्भ्यो नाधस्तान्नोपरिष्टान्न कुतश्चिद्देशेभ्यो दिग्भ्य आगच्छन्ति, अपि तु खलु पुनः सत्त्वानां कुशलमूलान्युपादाय महासमुद्रे रत्नान्युत्पद्यन्ते / न व तान्यहेतुकान्युत्पद्यन्ते / हेतुप्रत्ययकारणाधीनानि प्रतीत्यसमुत्पन्नानि / निरुध्यमानानि च तानि रत्नानि च क्वचिद्दशदिशि लोके संक्रामन्ति / अपि तु खलु पुनर्येषां प्रत्ययानां सतां तानि रत्नानि प्रभाव्यन्ते, तेषां प्रत्ययानामसतां न तेषां रत्नानां प्रभावना भवति / एवमेव कुलपुत्र तेषां तथागतानां कायपरिनिष्पत्तिर्न कुतश्चिद्दशदिशि लोकादागता, नापि क्वचिद्दशदिशि लोके गच्छति / न च अहेतुको बुद्धानां भगवतां कायः / पूर्वचर्यापरिनिष्पन्नो हेतुप्रत्ययाधीनः कारणसमुत्पन्नः पूर्वकर्मविपाकादुत्पन्नः / स न क्वचिद्दशदिशि लोके ऽस्ति / अपि तु खलु पुनर्येषां प्रत्ययानां सतां कायाभिनिष्पत्तिर्भवति, तेषां प्रत्ययानामसतां कायाभिनिष्पत्तिर्न प्रज्ञायते / तद्यथापि नाम कुलपुत्र वीणायाः शब्द उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो ऽपि न क्वचिद्गच्छति, न क्वचित्संक्रामति, प्रतीत्य च हेतुप्रत्ययसामग्रीमुत्पद्यते हेत्वधीनः प्रत्ययाधीनः / तद्यथापि नाम द्रोणीं च प्रतीत्य चर्म च प्रतीत्य तन्त्रीश् च प्रतीत्य दण्डं च प्रतीत्य उपधानीश् च प्रतीत्य कोणं च प्रतीत्य पुरुषस्य च तज्जव्यायामं प्रतीत्य एवमयं वीणायाः शब्दो निश्चरति हेत्वधीनः प्रत्ययाधीनः / स च शब्दो न द्रोण्या निश्चरति, न चर्मणो न तन्त्रीभ्यो न दण्डान्नोपधानीभ्यो न कोणान्न पुरुषस्य तज्जव्यायामतः शब्दो निश्चरति, अपि तु खलु पुनः सर्वेषां समायोगाच्छब्दः प्रज्ञप्यते / निरुध्यमानो ऽपि शब्दो न क्वचिद्गच्छति / एवमेव कुलपुत्र बुद्धानां भगवतां कायनिष्पत्तिर्हेत्वधीना प्रत्ययाधीना अनेककुशलमूलप्रयोगपरिनिष्पन्ना च / न चैकतो हेतुतो न चैकतः प्रत्ययतो न चैकतः कुशलमूलतो बुद्धकायप्रभावना / न च नैर्हेतुकी / (Vऐद्य २५५) बहुहेतुप्रत्ययसामग्र्यां समुत्पन्ना सा न कुतश्चिदागच्छति / हेतुप्रत्ययसामग्र्यामसत्यां न क्वचिद्गच्छति / एवं त्वया कुलपुत्र तेषां तथागतानामागमनं च गमनं च द्रष्टव्यम् / सर्वधर्माणाम् अपि कुलपुत्र त्वया इयमेव धर्मता अनुगन्तव्या / यतः कुलपुत्र त्वमेवं तथागतांश् च सर्वधर्मांश् च अनुत्पन्नाननिरुद्धांश् च संप्रज्ञास्यसि, ततस्त्वं नियतो भविष्यस्यनुत्तरायां सम्यक्संबोधौ / प्रज्ञापारमितायामुपायकौशल्ये च नियतं चरिष्यसि //
SK
अस्मिन् खलु पुनस्तथागतानामनागत्यगमननिर्देशे भाष्यमाणे महान् भूमिचालो ऽभूत् / सर्वश् च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमहादशमहानिमित्तं कम्पते प्रकम्पते संप्रकम्पते, चलति प्रचलति संप्रचलति, वेधते प्रवेधते संप्रवेधते, रणति प्ररणति संप्ररणति, क्षुभ्यति प्रक्षुभ्यति संप्रक्षुभ्यति, गर्जति प्रगर्जति संप्रगर्जति स्म / सर्वाणि च मारभवनानि संक्षोभितानि जिह्मीभूतानि चाभूवन् / ये केचन त्रिसाहस्रमहासाहस्रे लोकधातौ तृणगुल्मौषधिवनस्पतयः, ते सर्वे येन धर्मोद्गतो बोधिसत्त्वो महासत्त्वस्तेन प्रणता अभूवन् / अकालपुष्पाणि चोत्सृजन्ति स्म / उपरिष्टाच्च अन्तरीक्षान्महापुष्पवर्षः प्रावर्षत् / शक्रश् च देवानामिन्द्रश्चत्वारश् च महाराजानो धर्मोद्गतं बोधिसत्त्वं महासत्त्वं दिव्यैश्चन्दनचूर्णैर्दिव्यैश् च पुष्पैरवाकिरन् अभ्यवाकिरन् अभिप्राकिरन् / एवं च वाचमभाषन्त - साधु साधु कुलपुत्र / तव कुलपुत्र अनुभावेन अद्यास्माभिः परमार्थनिर्जाता कथा देश्यमाना श्रुता सर्वलोकविप्रत्यनीका, यत्राभूमिः सर्वसत्कायदृष्टिप्रतिष्ठितानां सर्वासद्दृष्ट्यभिविनिविष्टानां सत्त्वानाम् //
अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तथानिषण्णस्यैव तस्यां बेलायां सर्वधर्मसमता नाम समाधिराजो जातः / यतः सर्वधर्मविविक्तश् च नाम समाधिः, सर्वधर्माचलनश् च नाम समाधिः, सर्वधर्मामननश् च नाम समाधिः, सर्वधर्मास्तम्भितश् च नाम समाधिः, सर्वधर्मैकरसश् च नाम समाधिः, सर्वधर्मापर्यन्तश् च नाम समाधि, सर्वधर्मानुत्पादश् च नाम समाधिः, सर्वधर्मानिरोधश् च नाम समाधिः, गगनापर्यतश् च नाम समाधिः, समुद्रापर्यन्तश् च नाम समाधिः, मेरुविचित्रश् च नाम समाधिः, गगनाकल्पश् च नाम समाधिः, रूपापर्यन्तश् च नाम समाधिः / एवं वेदना संज्ञा संस्काराः / विज्ञानापर्यन्तश् च नाम समाधिः, पृथिवीधात्वपर्यन्तश्व नाम समाधिः, एवमब्धातुतेजोधातुवायुधात्वाकाशधात्वपर्यन्तश् च नाम समाधिः, विज्ञानधात्वपर्यन्तश् च नाम समाधिः, वज्रोपमश् च नाम समाधिः, सर्वधर्मासंभेदश् च नाम समाधिः, सर्वधर्मानुपलब्धिश् च नाम समाधिः, सर्वधर्माविभावनासमता च नाम समाधिः, सर्वधर्मनिश्चेष्टश् च नाम समाधिः, सर्वधर्माचिन्त्यश् च नाम समाधिः / एवंप्रमुखानि षष्टिः समाधिमुखशतसहस्राणि सदाप्ररुदितेन बोधिसत्त्वेन महासत्त्वेन प्रतिलब्धान्यभूवन्निति //
इदमवोचद्भगवान् आत्तमनाः / ते च मैत्रेयप्रमुखा बोधिसत्त्वा महासत्त्वाः आयुष्मांश् च सुभूतिरायुष्मांश् च शारिपुत्रः आयुष्मांश्चानन्दः शक्रश् च देवानामिन्द्रः सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितमभ्यनन्दन्निति //
SK
आर्याष्टसाहस्रिकायां प्रज्ञापारमितायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः //