तदेव कालः संवत्सरो वै प्रजापतिस्तन्निर्वर्त्यत्वात्संवत्सरस्य / चन्द्रादित्यनिर्वर्त्यत्वात्संवत्सरस्य / चन्द्रादित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वाद्रयिप्राणमिथुनात्मक एवेत्युच्यते / तत्कथम्?तस्य संवत्सरस्य प्रजापतेरयने मार्गौ द्वौ दक्षिणं चोत्तरं च द्वे प्रसिद्धे ह्ययने षण्मासलक्षणे याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान् विदधत् /
SK
कथम्?तत् तत्र च ब्राह्मणादिषु ये ह वै तदुपासत इति, क्रियाविशेषणो द्वितीयस्तच्छब्दः, इष्टं च पूर्तं चेष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजान्द्रमस्य / ते तत्रैव च कृतक्षयात्पुनरावर्तन्ते᳚इमं लोकं हीनतरं वा विशन्ति᳚(मु.उ.१ / २ / १०) इति ह्युक्तम् /
तेषाम् असौ विरजो ब्रह्मलोको न येषु जिह्वम् अनृतं न माया चेति || Pर्Uप्_१.१६ ||
SK
Pर्Uप्Bह्_१.१६
SK
यथा गृहस्थानामेकविरुद्धसंव्यवहारप्रयोजनवत्त्वाज्जिह्रं कौटिल्यं वक्रभावो ऽवश्यंभावि तथा न येषु जिह्रम् /
SK
यथा च गृहस्थानां क्रीडानर्मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् / तथा माया गृहस्थानामिव न येषु विद्यते / माया नाम बहिरन्यथात्मानं प्रकाश्यन्यथैव कार्यं करोति सा माया मिथ्याचाररूपा /
प्रथमजत्वादन्यस्य संस्कर्तुः अभावादसंस्कृतो व्रात्यस्त्वं स्वभावत एव शुद्ध इत्यभिप्रायः / हे प्राणैकर्षिस्त्वमाथर्वणानां प्रसिद्ध एकर्षिनामाग्रिः सन्नत्ता सर्वहविषाम् / त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः / साधुर्वा पतिः सत्पतिः /
SK
वयं पुनराद्यस्य तवादनीयस्य हविषो दातारः / त्वं पिता मातरिश्व हे मातरिश्वन्नो ऽस्माकम् /
SK
अथ वा मातरिश्वनो वायोस्त्वम् / अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम्
SK
किं बहुना -
SK
START Pर्Uप् २.१२
SK
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रं या च चक्षुषि / या च मनसि संतता शिवां तां कुरु मोत्क्रमीः // Pर्Uप्_२.१२ //
SK
Pर्Uप्Bह्_२.१२
SK
या ते त्वदीया सनूर्वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या श्रोत्रे या च चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूस्तां शिवां शान्तां कुरु मोत्क्रमीरुत्क्रमणेन अशिवां मा कार्षीरित्यर्थः
SK
किं बहुना -
SK
START Pर्Uप् २.१३
SK
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् / मातेव पुत्रान् रक्षस्व श्रीश् च प्रज्ञां च विधेहि न इति // Pर्Uप्_२.१३ //
SK
Pर्Uप्Bह्_२.१३
SK
अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत्प्रतिष्ठितं देवाद्युपभोगजातं तस्यापि प्राण एवेशिता रक्षिता / अतो मातेव पुत्रानस्मान् रक्षस्व पालयस्व / त्वन्निमित्ता हि ब्राह्म्यः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नो विधस्व इत्यर्थः /
पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन्, अपानमात्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते / तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे, मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्प्राणः स्वयं सम्राट्स्थानीयः प्रतिष्ठते प्रतितिष्ठति मध्ये तु प्राणापानयोः स्थानयोर्नाभ्यां समाने ऽशितं पीतं च समं नयतीति समानः /
स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते | एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते || Pर्Uप्_४.७ ||
SK
Pर्Uप्Bह्_४.७
SK
स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन वयांसि पक्षिणो वासार्थं वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति / एवं यथा दृष्टान्तो ह वै तद्वक्ष्यमाणं सर्वं पर आत्मन्यक्षरे संप्रतिष्ठते
SK
किं तत्सर्वम् -
SK
START Pर्Uप् ४.८
SK
पृथिवी च पृथिवीमात्रा च | आपश् चापोमात्रा च | तेजश् च तेजोमात्रा च | वायुश् च वायुमात्रा च | आकाशश् चाकाशमात्रा च | चक्षुश् च द्रष्टव्यं च | श्रोत्रं च श्रोतव्यं च | घ्राणं च घ्रातव्यं च | रसश् च रसयितव्यं च | त्वक् च स्पर्शयितव्यं च | वाक् च वक्तव्यं च | हस्तौ चादातव्यं च | उपस्थश् चानन्दयितव्यं च | पायुश् च विसर्जयितव्यं च | पादौ च गन्तव्यं च | मनश् च मन्तव्यं च | बुद्धिश् च बोद्धव्यं च | अहङ्कारश् चाहङ्कर्तव्यं च | चित्तं च चेतयितव्यं च | तेजश् च विद्योतयितव्यं च | प्राणश् च विधारयितव्यं च || Pर्Uप्_४.८ ||
SK
Pर्Uप्Bह्_४.८
SK
पृथिवी च स्थूला पञ्चगुणा तत्कारणा च पृथिवीमात्रा च गन्धतन्मात्रा, तथापश्चापोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाकाशमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः, तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च, श्रौत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ चादातव्यं च, उपस्थश्चानन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तथा चोक्तानि, मनश्च पूर्वोक्तं, मन्तव्यं च तद्विषयः, बुद्धिश्च निश्चयात्मिका, बोद्धव्यं च तद्विषयः, अहङ्कारश्चाभिमानलक्षणमन्तःकरणमहङ्कर्तव्यं च तद्विषयः, चित्तं च चेतनावदन्तःकरणम्, चेतयितव्यं च तद्विषयः, तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयितव्यम्, प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयं सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नामरूपात्मकमेतावदेव
न अभावस्यापि ज्ञेयत्वाभ्युपगमादभावो ऽपि ज्ञेयोभ्युपगम्यते वैनाशिकैर्नित्यश्च तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतो ऽभावत्वमनित्यत्वं च ज्ञानस्य / न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम् /
SK
अथाभावो ज्ञेयो ऽपि सन् ज्ञानव्यतिरिक्त इति चेत् /
SK
न तर्हि ज्ञेयाभावे ज्ञानाभावः /
SK
ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् /
न, एकस्याप्यात्मनो ऽविद्यायां विषयनामरूपोपाध्यनुपाधिकृतविशेषोभ्युपगमादविद्याकृतनामरूपोपाधिकृतो हि विशेषो ऽभ्युपगम्यत आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय परमार्थतो ऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वताकिङ्कबुद्ध्यनवगाह्यमभयं शिवम् इष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं च स्याद् अद्वैतत्वात्सर्वभावानाम्.
न अभावात् / सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् / न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति तदभाव एवं विकल्फनैवानुपपन्ना /
SK
अभ्युपगत आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता, तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम्᳚यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्᳚(बृ.उ.२ / ४ / १४) इत्यादि / शास्त्रप्रणयनाद्युपपत्तिं चाहान्यत्र परमार्थवस्तुस्वरूपादविद्याविषये / ᳚यत्र हि द्वैतमिव भवति᳚(बृ.उ.२ / ४ / १४) इत्यादि विस्तरतो वाजसनेयके /
SK
अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य / अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति /