Questions of the Upanishad with Commentary by Shankara

Praśnopaniṣad with the commentary ascribed to Śaṃkara · प्रश्नोपनिषद् (सटीका)

Questions of the Upanishad with Commentary by Shankara

Praśnopaniṣad with the commentary ascribed to Śaṃkara

प्रश्नोपनिषद् (सटीका)

SK
प्रश्नोपनिषद्
SK
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षिभिर्यजत्राः / स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेम देवहितं यदायुः //
SK
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
SK
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः / स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु //
SK
ॐ शान्तिः!शान्तिः!!शान्तिः!!!
SK
प्रथम प्रश्नः
SK
मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते / ऋषिप्रश्नप्रतिवचनाख्यायिका तु विद्यास्तुतये / एवं संवत्सरब्रह्मचर्यसंवासादियुक्तैर्ग्राह्या पिप्पलादादिवत्सर्वज्ञकल्पैराचार्यैर्वक्तव्या च, न सा येन केनचिदिति विद्यां स्तौति / ब्रह्मचर्यादिसाधनासूचनाच्च तत्कर्तव्यता स्यात् /
SK
SK
START Pर्Uप् १.१
SK
सुकेशा च भारद्वाजः शैब्यश् च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश् चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस् ते हैते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादम् उपसन्नाः || Pर्Uप्_१.१ ||
SK
Pर्Uप्Bह्_१.१
SK
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः, शैब्यश्च शिवेः अपत्यं शैब्यः सत्यकामो नामतः;सौर्यायणी सूर्यस्तस्यापत्यं सौर्यः तस्यापत्यं सौर्यायणिशछान्दसः सौर्यायणीति, गार्ग्यो गर्गगोत्रापत्यं भर्गवो वैदर्भिः विदर्भे भवः;कबन्धी नामतः, कत्यस्यापस्यं कात्यायनः, विद्यमान प्रपितामहो यस्य सः, युवप्रत्ययः / ते हैते ब्रह्मपरा अपरं ब्रह्म परत्वेन गतास्तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः - किं तत्?यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तस्तदधिगमायैष ह वै तत्सर्वं वक्ष्यतीत्याचार्यमुपजग्मुः / कथम् ते ह समित्पाणयः समिद्लारगृहीतहस्ताः सन्तो भगवन्तं पिप्पलादमाचार्यमुपासन्ना उपजग्मुः //
SK
START Pर्Uप् १.२
SK
तान् ह स ऋषिर् उवाच | भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ | यथाकामं प्रश्नान् पृच्छत | यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति || Pर्Uप्_१.२ ||
SK
Pर्Uप्Bह्_१.२
SK
तानेवमुपगतान्ह स किल ऋषिरुवाच भूयः पुनरेव यद्यपि यूयं पूर्वं तपस्मिन एव तपसेन्द्रियसंयमेन तथापीह विशेषतो ब्रह्मचर्येण श्रद्धया चास्तिक्यबुद्ध्यादरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ / ततो यथाकामं यो यस्य कामस्तमनतिक्रम्य यथाकामं यद्विषये यस्य जिज्ञासा तद्विषयान्प्रश्नान्पृच्छत / यदि तद्युष्मत्पृष्टम विज्ञास्यामः - अनुद्धतत्वप्रदर्शनार्थो यदिशब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते - सर्वं ह वो वः पृष्टं वक्ष्याम इति
SK
START Pर्Uप् १.३
SK
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ | भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति || Pर्Uप्_१.३ ||
SK
Pर्Uप्Bह्_१.३
SK
अथ संवत्सरादूध्वं कबन्धी कात्यायन उपेत्योपगम्य पप्रच्छ पृष्टवान् / हे भगवन् कुतः कस्माद्ध वा इमा ब्राह्मणाद्याः प्रजाः प्रजायन्त उत्पद्यन्ते / अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्यं या गतिस्तद्वक्तव्यमिति तदर्थो ऽयं प्रश्नः
SK
START Pर्Uप् १.४
SK
तस्मै स होवाच | प्रजाकामो वै प्रजापतिः | स तपो ऽतप्यत | स तपस् तप्त्वा स मिथुनम् उत्पादयते रयिं च प्राणं चेति | एतौ मे बहुधाः प्रजाः करिष्यत इति || Pर्Uप्_१.४ ||
SK
Pर्Uप्Bह्_१.४
SK
तस्मा एवं पृष्टवते स होवाच तदपाकरणायाह / प्रजाकामः प्रजा आत्मनः सिसृक्षुर्वै प्रजापतिः सर्वात्मा सज्जगत्स्रक्ष्यामि इत्येवं विज्ञानवान्यथोक्तकारी तद्भावभावितः कल्पादौ निवृत्तो हिरण्यगर्भः सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सज्जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपो ऽन्वालोचयदतप्यत /
SK
अत तु स एवं तपस्तप्त्वा श्रौतं ज्ञानमन्वालोच्य सृष्टिसाधनभूतं मिथुनमुत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् / रयिं च सोममन्नं प्रणं चाग्निमत्तारम् एतावग्निषोमावत्त्रन्नभूतौ मे मम बहुधानेकधा प्रजाः करिष्यत इत्येवं संचिन्त्याण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत्
SK
START Pर्Uप् १.५
SK
आदित्यो ह वै प्राणो रयिर् एव चन्द्रमाः | रयिर् वा एतत् सर्वं यन्मूर्तं चामूर्तं च | तस्मान् मूर्तिर् एव रयिः || Pर्Uप्_१.५ ||
SK
Pर्Uप्Bह्_१.५
SK
तत्रादित्यो ह वै प्राणो ऽत्ता अग्निः / रयिरेव चन्द्रमाः, रयिः, एवान्नं सोम एव / तदेतदेकमत्ता चान्नं च, प्रजापतिरेकं तु मिथुनम्, गुणप्रधानकृतो भेदः / कथम्?रयिर्वा अन्नं वा एतन् सर्वम्;किं तद्यन्मूर्तं त स्थूलं चामूर्तं च सूक्ष्मं च मूर्तामूर्ते अत्त्रन्नरूपे रयिरेव / तस्मात्प्रविभक्ताद् अमूर्ताद्यदन्यन्मूर्तारूपं मूर्तिः सैव रयिरमूर्तेनाद्यमानत्वात्
SK
तथामूर्तो ऽपि प्राणोत्ता सर्वमेव यच्चाद्यम् / कथम् -
SK
START Pर्Uप् १.६
SK
अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते | यद् दक्षिणं यत् प्रतीचीं यद् उदीचीं यद् अधो यद् ऊर्ध्वं यद् अन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते || Pर्Uप्_१.६ ||
SK
Pर्Uप्Bह्_१.६
SK
अथादित्य उदयन्नुद्गच्छन् प्राणिनां चक्षुर्गोचरमागच्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति;तेन स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनिधत्ते संनिवेशयति;
SK
आत्मभूतान्करोति इत्यर्थः / तथैव यत्प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीमध ऊर्ध्वं यत्प्रविशति यच्चान्तरा दिशः कोणदिशो ऽवान्तरदिशो यच्चान्यत् सर्वं प्रकाशयति तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु सन्निदत्ते
SK
START Pर्Uप् १.७
SK
स एष वैश्वानरो विश्वरूपः प्राणो ऽग्निरुदयते | तद् एतद् दचाभ्युक्तम् || Pर्Uप्_१.७ ||
SK
Pर्Uप्Bह्_१.७
SK
स एषो ऽत्ता प्रणो वैश्वानरः सर्वात्मा विश्वरूपो विश्वात्मत्वाच्च प्राणो ऽग्निश्च स एवात्तोदयत उद्गच्छति प्रत्यहं सर्वा दिश आत्मसात्कुर्वन् / तदेतदुक्तं वस्तु ऋचा मन्त्रेणाप्यभ्युक्तम्
SK
START Pर्Uप् १.८
SK
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिर् एकं तपन्तम् / सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानाम् उदयत्य् एष सूर्यः // Pर्Uप्_१.८ //
SK
Pर्Uप्Bह्_१.८
SK
विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाशयं ज्योतिरेकं सर्वप्राणिनां चक्षुर्भूतमद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं सूरयो विज्ञातवन्तो ब्रह्मविदः / को ऽसौ यं विज्ञातवन्तः?सहस्ररश्मिरनेकरश्मिः शतधानेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः
SK
यश्चासौ चन्द्रमा मूर्तिरन्नम् अमूर्तिश्च प्राणो ऽत्तादित्यस्तदेकम् एतन्मिथुनं सर्वं कथं प्रजाः करिष्यत इति उच्यते-
SK
START Pर्Uप् १.९
SK
संवत्सरो वै प्रजापतिः | तस्यायने दक्षिणं चोत्तरं च | तद् ये ह वै तदिष्टापूर्ते कृतिम् इत्य् उपासते ते चान्द्रमसम् एव लोकम् अभिजयन्ते | त एव पुनर् आवर्तन्ते | तस्माद् एत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते | एष ह वै रयिर् यः पितृयाणः || Pर्Uप्_१.९ ||
SK
Pर्Uप्Bह्_१.९
SK
तदेव कालः संवत्सरो वै प्रजापतिस्तन्निर्वर्त्यत्वात्संवत्सरस्य / चन्द्रादित्यनिर्वर्त्यत्वात्संवत्सरस्य / चन्द्रादित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वाद्रयिप्राणमिथुनात्मक एवेत्युच्यते / तत्कथम्?तस्य संवत्सरस्य प्रजापतेरयने मार्गौ द्वौ दक्षिणं चोत्तरं च द्वे प्रसिद्धे ह्ययने षण्मासलक्षणे याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान् विदधत् /
SK
कथम्?तत् तत्र च ब्राह्मणादिषु ये ह वै तदुपासत इति, क्रियाविशेषणो द्वितीयस्तच्छब्दः, इष्टं च पूर्तं चेष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यं ते चान्द्रमसं चन्द्रमसि भवं प्रजान्द्रमस्य / ते तत्रैव च कृतक्षयात्पुनरावर्तन्ते᳚इमं लोकं हीनतरं वा विशन्ति᳚(मु.उ.१ / २ / १०) इति ह्युक्तम् /
SK
यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्तयन्ति चन्द्रम् इष्टापूर्तकर्मणैव ऋषयः स्वर्गद्रष्टारः प्रजाकामाः प्रजार्थिनो गृहस्थास्तस्मात्स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते / एष ह वै रयिरन्नं यः पितृयाणः पितृयाणपलक्षितः
SK
START Pर्Uप् १.१०
SK
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम् अन्विष्यादित्यम् अभिजयन्ते | एतद् वै प्राणानाम् आयतनम् एतद् अमृतम् अयम् एतत् परायणम् | एतस्मान् न पुनरावर्तन्त इति | एष निरोधः | तद् एष श्लोकः || Pर्Uप्_१.१० ||
SK
Pर्Uप्Bह्_१.१०
SK
अथोत्तरेणायनेन प्रजापतेः अंशं प्राणमत्तारमादित्यमभिजयन्ते;केन?तपसेन्द्रियजयेन विशेषतो ब्रह्मचर्ये श्रद्धया विद्यया च प्रजापत्यात्मविषया आत्मानं प्राणं सूर्यं जगतस्तस्थुषश्चान्विष्याहमस्मीति विदित्वादित्यमभिजयन्ते ऽभिप्राप्नुवन्ति /
SK
एतद्वा आयतनं सर्वप्राणानां सामान्यमायतनमाश्रयमेतदमृतमविनाशि / अभयमत एव भयवजितं न चन्द्रवत्क्षयवृद्धिभयवत् / एतत्परायणं परा गतिः विद्यावतां कर्मिणां च ज्ञानवताम् / एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिणा इति / यस्मादेषो ऽविदुषां निरोधः / आदित्यादि निरुद्धा अविद्वांसो नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति / स हि संवत्सरः कालात्माविदुषां निरोधः / तत्तत्रास्मिन्नर्थ एष श्लोको मन्त्रः /
SK
START Pर्Uप् १.११
SK
पञ्चपादं पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम् / अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति // Pर्Uप्_१.११ //
SK
Pर्Uप्Bह्_१.११
SK
पञ्चपादं पञ्चर्तवः पादा इवास्य संवत्सरात्मन आदित्यस्य तैरसौ पादैरिवर्तुभिरावर्तते / हेमन्तशिशिरावेकीकृत्येयं कल्पना / पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य / तं द्वादशाकृतिं द्वादशमासा आकृतयो ऽवयवा आकरणं वाक्यविकरणम् अस्य द्वादशमासैस्तं द्वादशाकृतिं दिवो द्युलोकात्पर ऊर्ध्वेर्ऽथे स्थाने तृतीयास्यां दिवीत्यर्थः पुरीषिणं पुरीषवन्तमुदकवन्तमाहुः कालविदः /
SK
अथ तमेवान्य इम उ परे कालविदो तिचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपेण चक्रे सततं गतिमति कालात्मनि षडरे षडृतुमत्याहुः सर्वमिदं जगत्कथयन्ति अर्पितमरा इव रथनाभौ निविष्टमिति / यदि पञ्चपादो द्वादशाकृतिर्यदिवा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिः चन्द्रादित्यलक्षणो ऽपि जगतः कारणम्
SK
START Pर्Uप् १.१२
SK
यस्मिन्न् इदं श्रितं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते /
SK
मासो वै प्रजापतिः | तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः | तस्माद् एत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् || Pर्Uप्_१.१२ ||
SK
Pर्Uप्Bह्_१.१२
SK
मासो वै प्रजापतिर्यथोक्तलक्षण एव मिथुनात्मकः / तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्षो रयिरन्नं चन्द्रमाः / अपरो भागः शुक्लपक्षो रयिरन्नं चन्द्रमाः / अपरो भागः शुक्लपक्षः प्राण आदित्यो ऽत्ताग्निः यस्माच्छुक्लपक्षात्मानं प्राणं सर्वमेव पश्यन्ति तस्मात्प्राणदर्शिन एत ऋषयः कृष्णपक्षस्तैर्न दृश्यते यस्मात् / इतरे तु प्राणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति / इतरस्मिन् कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तो ऽपि
SK
START Pर्Uप् १.१३
SK
अहोरात्रो वै प्रजापतिः | तस्याहरेव प्राणो रात्रिरेव रयिः | प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते | ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते || Pर्Uप्_१.१३ ||
SK
Pर्Uप्Bह्_१.१३
SK
सो ऽपि मासात्मा प्रजापतिः स्वावयवे ऽहोरात्रे परिसमाप्यते / अहोरात्रो वै प्रजापतिः पूर्ववत् / तस्याप्यहरेव प्राणो ऽत्ताग्नी रात्रिरेव रयिः पूर्ववत् / प्राणमहरात्मानं वा एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति के?ये दिवाहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मिथुनं मैथुनमाचरन्ति मूढाः / यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासंङ्गिकः / यद्रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वादृतौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः / प्रकृतं तूच्यते - सो ऽहोरात्रात्मकः प्रजापतिर्वीहियवाद्यन्नात्मना व्यवस्थितः
SK
एवं क्रमेण परिणम्य तत् -
SK
START Pर्Uप् १.१४
SK
अन्नं वै प्रजापतिस् ततो ह वै तद्रेतः | तस्माद् इमाः प्रजाः प्रजायन्त इति || Pर्Uप्_१.१४ ||
SK
Pर्Uप्Bह्_१.१४
SK
अन्नं वै प्रजापतिः / कथम्?ततस्तस्माद्ध वै रेतो नृबीजं तत्प्रजाकरणं तस्माद्योषिति सिक्तादिमा मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते / यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति / तदेवं चन्द्रादित्यमिथुनादिक्रमेणाहोरात्रान्तेनान्नासृग्रेतोद्धारेणेमाः प्रजाः प्रजायन्त इति निर्णीतम्
SK
START Pर्Uप् १.१५
SK
तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति | ते मिथुनम् उत्पादयन्ते | तेषामेवैष ब्रह्मलोकः | येषां तपो ब्रह्मचर्यं | येषु सत्यं प्रतिष्ठितम् || Pर्Uप्_१.१५ ||
SK
Pर्Uप्Bह्_१.१५
SK
तत्तत्रैवं सति ये गृहस्थाः - ह वै इति प्रसिद्धस्मरणार्थौ निपातौ - तत्प्रजापतेर्व्रतं प्रजापतिव्रतमृतौ भार्यागमनं चरन्ति कुर्वन्ति तेषां दृष्टफलमिदम् / किम्?ते मिथुनं पुत्रं दुहितरं चोत्पादयन्ते / अदृष्टं च फलमिष्टापूर्तदत्तकारिणां तेषामेव एष यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणो येषां तपः स्नातकव्रतादीनि, ब्रह्मचर्यम्, येषु च सत्यमनृतवर्जनं प्रतिष्ठितमव्यभिचारितया वर्तते नित्यमेव
SK
यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तो ऽसौ तेषां केषामित्युच्यते -
SK
START Pर्Uप् १.१६
SK
तेषाम् असौ विरजो ब्रह्मलोको न येषु जिह्वम् अनृतं न माया चेति || Pर्Uप्_१.१६ ||
SK
Pर्Uप्Bह्_१.१६
SK
यथा गृहस्थानामेकविरुद्धसंव्यवहारप्रयोजनवत्त्वाज्जिह्रं कौटिल्यं वक्रभावो ऽवश्यंभावि तथा न येषु जिह्रम् /
SK
यथा च गृहस्थानां क्रीडानर्मादिनिमित्तमनृतमवर्जनीयं तथा न येषु तत् / तथा माया गृहस्थानामिव न येषु विद्यते / माया नाम बहिरन्यथात्मानं प्रकाश्यन्यथैव कार्यं करोति सा माया मिथ्याचाररूपा /
SK
मायेत्येवमादयो दोषा येष्वधिकारिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते तत्साधनानुरूपेणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः / पूर्वौक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति
SK
इति प्रथम प्रश्नः
SK
=============================================================================
SK
द्वितीयः प्रश्नः
SK
प्राणो ऽत्ता प्रजापतिरित्युक्तम् / तस्य प्रजापतित्वमत्तृत्वं च अस्मिञ्शरीरे ऽवधारयितव्यमिति अयं प्रश्न आरभ्यते -
SK
START Pर्Uप् २.१
SK
अत हैनं भार्गवो वैदर्भिः पप्रच्छ | भगवन् कत्येव देवाः प्रजां विधारयन्ते | कतर एतत् प्रकाशयन्ते | कः पुनर् एषां वरिष्ठ इति || Pर्Uप्_२.१ ||
SK
Pर्Uप्Bह्_२.१
SK
अथानन्तरं ह किलैनं भार्गवो वैदर्भिः पप्रच्छ / हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते / कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानामेतत्प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते / को ऽसौ पुनरेषां वरिष्ठः प्रधानः कार्यकरणलक्षणानामिति
SK
START Pर्Uप् २.२
SK
तस्मै स होवाच | आकाशो ह वा एष देवो वायुर् अग्निर् आपः पृथिवी वाङ्मनश्चक्षु श्रोत्रं च | ते प्रकाश्याभिवदन्ति | वयम् एतद् बाणम् अवष्टभ्य विधारयामः || Pर्Uप्_२.२ ||
SK
Pर्Uप्Bह्_२.२
SK
एवं पृष्टवते तस्मै स होवाच आकाशो ह वा एष देवो वायुः अग्निः आपः पृथिवीत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुःश्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियबुद्धीन्द्रियाणि च / कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहं श्रेष्ठतायै /
SK
कथं वदन्ति?वयमेतद्बाणं कार्यकरणसंघातमवष्टभ्य पासादम् इव स्तम्भादयो ऽविशिथिलीकृत्य विधारयामो विस्पष्टं धारयामः
SK
START Pर्Uप् २.३
SK
तान् वरिष्टः प्राण उवाच | मा मोहमापद्यथ, अहम् एवैतत् पञ्चधात्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति | ते ऽश्रद्दधाना बभूवुः || Pर्Uप्_२.३ ||
SK
Pर्Uप्Bह्_२.३
SK
तानेवमभिमानवतो वरिष्टो मुख्यः प्राण उवाचोक्तवान् / मा मैवं मोहमापद्यथ अविवेकितया अभिमानं मा कुरुत यस्मादहमेव एतद्बाणमवष्टभ्य विधारयामि पञ्चधात्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामीत्युक्तवति च तस्मिंस्ते ऽक्षद्दधाना अप्रत्ययवन्तो बभूवुः कथमेतदेवमिति
SK
START Pर्Uप् २.४
SK
सो ऽभिमानादूर्ध्वमुत्क्रमत इव | तस्मिन्न् उत्क्रामत्य् अथेतरे सर्व एवोत्क्रामन्ते | तस्मिंश् च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते | तद् यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वा एवोत्क्रामन्ते | तस्मिंश् च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते | एवं वाङ्मनश्चक्षुःश्रोत्रं च | ते प्रीताः प्राणं स्तुन्वन्ति || Pर्Uप्_२.४ ||
SK
Pर्Uप्Bह्_२.४
SK
स च प्राणस्तेषामश्रद्धधानतामालक्ष्याभिमानादूर्ध्वमुत्क्रामत इवेदमुत्क्रान्तवानिव सरोषान्निरपेक्षस्तस्मिन्नुत्क्रामति यद्वृत्तं तद्द्दृष्टान्तेन प्रत्यक्षीकरोति / तस्मिन्नुत्क्रामति सत्यथानन्तरम् एवेतरे सर्व एव प्राणाश्चक्षुरादाय उत्क्रामन्त उच्चक्रमिरे / तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता अभूवन् / तत्तत्र यथा लोके मक्षिका मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते प्रातितिष्ठन्ति / यथायं दृष्टान्त एवं वाङ्मनश्चक्षुःश्रोत्रं चेत्यादयस्त उत्सृज्याश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुवन्ति
SK
कथम् -
SK
START Pर्Uप् २.५
SK
एषो ऽग्निस् तपत्य् एष सूर्य एष पर्जन्यो मघवान् एष वायुः / एष पृथिवी रयिर् देवः सदसच् चामृतं च यत् // Pर्Uप्_२.५ //
SK
Pर्Uप्Bह्_२.५
SK
एष प्राणो ऽग्निः संस्तपति ज्वलति / तथैव सूर्यः सन् प्रकाशते, तथैव पर्जन्यः सन् वर्षति / किं च मघवानिन्द्रः सना प्रजाः पालयति, जिघांसत्यसुररक्षांसि / एष वायुः आवहप्रवहादिभेदः / किं चैष पृथिवी रयिर्देवः सर्वस्य जगतः सन्मूर्तमसदमूर्तं चामृतं च यद्देवानां स्थितिकारणं किं बहुना
SK
START Pर्Uप् २.६
SK
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् / ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च // Pर्Uप्_२.६//
SK
Pर्Uप्Bह्_२.६
SK
अरा इव रथनाभौ श्रद्धादि नामान्तं सर्वं स्थितिकाले प्राण एव प्रतिष्ठितम् / तथर्चो यजूंषि सामानीति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वे ऽधिकृतं चैवैष प्राणः सर्वम्
SK
किं च -
SK
START Pर्Uप् २.७
SK
प्रजापतिश् चरसि गर्भे त्वम् एव प्रतिजायसे | तुभ्यं प्राण प्रजास् त्व् इमा बलिं हरन्ति यः प्राणैः प्रतिष्ठसि || Pर्Uप्_२.७ ||
SK
Pर्Uप्Bह्_२.७
SK
यः प्रजापतिरपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन्प्रतिजायसे;प्रजापतित्वादेव प्रागेय सिद्धं तव मातृपितृत्वम् / सर्वदेहदेह्याकृतिच्छङ्मनैकः प्राणः सर्वात्मासीत्यर्थः / तुभ्यं त्वदर्थं या इसा मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैर्बलि हरन्ति / यस्त्वं प्राणैश्चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेष्वतस्तुभ्यं बलिं हरन्तीति युक्तम्;भोक्ता हि यतस्त्वं तवैवान्यत्सर्वं भोज्यम्
SK
किं च -
SK
START Pर्Uप् २.८ देवानाम् असि वह्नितमः पितॄणां प्रथमा स्वधा / ऋषीणां चरितं सत्यम् अथर्वाङ्गिरसाम् असि // Pर्Uप्_२.८ //
SK
Pर्Uप्Bह्_२.८
SK
देवानामिन्द्रादीनामसि भवसि त्वं वह्नितमो हविषां प्रापयितृतमः / पितृणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधान्नं सा देवप्रधानमपेक्ष्य प्रथमा भवति / तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः किं चर्षीणां चक्षुरादीनां प्राणानामङ्गिरसामङ्गिरसभूतानामथर्वणां तेषामेव᳚प्राणो वाथर्वा᳚इति श्रुतेः, चरितं चेष्टितं सत्यमवितथं देहधारणाद्युपकारलक्षणं त्वमेवासि
SK
START Pर्Uप् २.९
SK
इन्द्रस् त्वं प्राण तेजसा रुद्रो ऽसि संहरञ् जगत् | स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता | त्वम् एव जगतः सौम्येन रूपेण | त्वम् अन्तरिक्षे ऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस् त्वम् एव च सर्वेषां ज्योतिषां पतिः || Pर्Uप्_२.९ ||
SK
Pर्Uप्Bह्_२.९
SK
इन्द्रः परमेश्वरस्त्वं हे प्राण तेजसा वीर्येण रुद्रो ऽसि संहरज्जगत् / स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता त्वमेव जगतः सौम्येन रूपेण / त्वमन्तरिक्षे ऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस्त्वमेव च सर्वेषां ज्योतिषां पतिः
SK
START Pर्Uप् २.१० यदा त्वम् अभिवर्षस्य् अथेमाः प्राण ते प्रजाः / आनन्दरूपास् तिष्ठन्ति कामायान्नं भविष्यतीति // Pर्Uप्_२.१०//
SK
Pर्Uप्Bह्_२.१०
SK
यदा पर्जन्यो भूत्वाभिवर्षसि त्वमथ तदान्नं प्राप्येमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः / अथवा प्राण ते तवेमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण चानन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति कामायेच्छातो ऽन्न भविष्यतीत्येवमभिप्रायः
SK
किं च -
SK
START Pर्Uप् २.११
SK
व्रात्यस् त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः / वयम् आद्यस्य दातारः पिता त्वं मातरिश्व नः // Pर्Uप्_२.११//
SK
Pर्Uप्Bह्_२.११
SK
प्रथमजत्वादन्यस्य संस्कर्तुः अभावादसंस्कृतो व्रात्यस्त्वं स्वभावत एव शुद्ध इत्यभिप्रायः / हे प्राणैकर्षिस्त्वमाथर्वणानां प्रसिद्ध एकर्षिनामाग्रिः सन्नत्ता सर्वहविषाम् / त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः / साधुर्वा पतिः सत्पतिः /
SK
वयं पुनराद्यस्य तवादनीयस्य हविषो दातारः / त्वं पिता मातरिश्व हे मातरिश्वन्नो ऽस्माकम् /
SK
अथ वा मातरिश्वनो वायोस्त्वम् / अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम्
SK
किं बहुना -
SK
START Pर्Uप् २.१२
SK
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रं या च चक्षुषि / या च मनसि संतता शिवां तां कुरु मोत्क्रमीः // Pर्Uप्_२.१२ //
SK
Pर्Uप्Bह्_२.१२
SK
या ते त्वदीया सनूर्वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या श्रोत्रे या च चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूस्तां शिवां शान्तां कुरु मोत्क्रमीरुत्क्रमणेन अशिवां मा कार्षीरित्यर्थः
SK
किं बहुना -
SK
START Pर्Uप् २.१३
SK
प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् / मातेव पुत्रान् रक्षस्व श्रीश् च प्रज्ञां च विधेहि न इति // Pर्Uप्_२.१३ //
SK
Pर्Uप्Bह्_२.१३
SK
अस्मिंल्लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत्प्रतिष्ठितं देवाद्युपभोगजातं तस्यापि प्राण एवेशिता रक्षिता / अतो मातेव पुत्रानस्मान् रक्षस्व पालयस्व / त्वन्निमित्ता हि ब्राह्म्यः क्षात्रियाश्च श्रियस्तास्त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नो विधस्व इत्यर्थः /
SK
इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरत्तेत्यवधृतम्
SK
इति द्वितीयः प्रश्नः
SK
=============================================================================
SK
तृतीय प्रश्नः
SK
START Pर्Uप् ३.१
SK
अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ | भगवन् कुत एष प्राणो जायते | कथम् आयात्य् अस्मिन् शरीरे | आत्मानं वा प्रविभज्य कथं प्रातिष्ठते | केनोत्क्रमते | कथं बाह्यम् अभिधत्ते | कथम् अध्यात्मम् इति || Pर्Uप्_३.१ ||
SK
Pर्Uप्Bह्_३.१
SK
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ / प्राणो ह्येवं प्राणैर्निर्धारिततत्त्वैरुपलब्धमहिमापि संहतत्वात्स्यादस्यः कार्यत्वमतः पृच्छामि भगवन्कृतः कस्मात्कारणादेष आयात्यस्मिञ्शरीरे / किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः / प्रविष्टश्च शरीर आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति केन वा वृत्तिविशेषेणास्माच्छरीरादुत्क्रामत उत्क्रामति / कथं बाह्यमधिभूतमधिदैवतं चाभिधत्ते धारयति कथमध्यात्मम् इति, धारयतीति शेषः
SK
एवं पृष्टः -
SK
START Pर्Uप् ३.२
SK
तस्मै स होवाच | अतिप्रश्नान् पृच्छसि | ब्रह्मिष्ठो ऽसीति | तस्मात् ते ऽहं ब्रवीमि || Pर्Uप्_३.२ ||
SK
Pर्Uप्Bह्_३.२
SK
तस्मै स होवाचाचार्यः, प्राण एव तावद्दुर्विज्ञेयत्वाद्विषमप्रश्नार्हस्तस्यापि जन्मादि त्वं पृच्छस्यतो ऽतिप्रश्नान्पृच्छसि / ब्रह्मिष्ठो ऽसीत्यतिशयेन त्वं ब्रह्मविदतस्तुष्टो ऽहं तस्मात्ते तुभ्यं ब्रवीमि यत्पृष्टं श्रुणु
SK
START Pर्Uप् ३.३
SK
आत्मन एष प्राणो जायते | यथैषा पुरुषे छायैतस्मिन्न् एतदाततम् | मनोकृतेनायात्य् अस्मिञ् शरीरे || Pर्Uप्_३.३ ||
SK
Pर्Uप्Bह्_३.३
SK
आत्मनः परस्मात्पुरुषादक्षरात्सत्यादेष उक्तः प्राणो जायते / कथमित्यत्र दृष्टान्तः / यथा लोक एषा पुरुषे शिरः पाण्यादिलक्षणे निमित्ते छाया नैमित्तिकी जायते तद्वदेतस्मिन्ब्रह्मण्येतत् प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुष आततं समर्पितम् इत्येतत् / छायेव देहे मनोकृतेन मनः सङ्कल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् - वक्ष्यति हि᳚पुण्येन पुण्यम्᳚(प्र.उ.३ / ७) इत्यादिः;तदेव᳚सक्ताः सह कर्मणा᳚(बृ.उ.४ / ४ / ६) इति च श्रुत्यन्तरात् - आयाति आगच्छत्यस्मिञ्शरीरे
SK
START Pर्Uप् ३.४
SK
यथा सम्राड् एवाधिकृतान् विनियुङ्क्ते | एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेति | एवम् एवैष प्राण इतरान् प्राणान् पृथक् पृथग् एव संनिधत्ते || Pर्Uप्_३.४ ||
SK
Pर्Uप्Bह्_३.४
SK
यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृतान्विनियुङ्क्ते / कथम्?एतान्ग्रामानेतान्ग्रामानधितिष्ठस्व इति / एवमेव यथा दृष्टान्तः एष मुख्यः प्राणः इतरान्प्राणान् चक्षुरादीनात्मभेदांश्च पृथक् पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते
SK
तत्र विभागः -
SK
START Pर्Uप् ३.५
SK
पायूपस्थे ऽपानम् | चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते | मध्ये तु समानः | एष ह्य् एतद् धुतम् अन्नं समं नयति | तस्माद् एताः सप्तार्चिषो भवन्ति || Pर्Uप्_३.५ ||
SK
Pर्Uप्Bह्_३.५
SK
पायूपस्थे पायुश्चोपस्थश्च पायूपस्थं तस्मिन्, अपानमात्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वस्तिष्ठति संनिधत्ते / तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिंश्चक्षुःश्रोत्रे, मुखनासिकाभ्यां च मुखं च नासिका च ताभ्यां मुखनासिकाभ्यां च निर्गच्छन्प्राणः स्वयं सम्राट्स्थानीयः प्रतिष्ठते प्रतितिष्ठति मध्ये तु प्राणापानयोः स्थानयोर्नाभ्यां समाने ऽशितं पीतं च समं नयतीति समानः /
SK
एष हि यस्माद्यदेतद्धृतं भुक्तं पीतं चात्माग्रे प्रक्षिप्तमन्नं समं नयति तस्मादशितपीतेन्धनाद् अग्रेरौदर्याद्धृदयदेशं प्राप्तादेताः सप्तसंख्याका अर्चिषो दीप्तयो निर्गच्छन्त्यो भवन्ति शीर्षण्यः / प्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्रकाश इत्यभिप्रायः
SK
START Pर्Uप् ३.६
SK
हृदि ह्य् एष आत्मा | अत्रैतद् एकशतं नाडीनाम् | तासां शतं शतम् एकैकस्याः | द्वासप्ततिर् द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति | आसु व्यानश्चरति || Pर्Uप्_३.६ ||
SK
Pर्Uप्Bह्_३.६
SK
इति ह्येष पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाश एष आत्मात्मना संयुक्तो लिङ्गात्मा / अत्रास्मिन्हृदय एतदेकशतम् एकोत्तरशतं संख्यया प्रधाननाडीनां भवतीति / तासां शतं शतमेकैकस्याः प्रधाननाड्या भेदाः / पुनरपि द्वासप्ततिर्द्वासप्ततिर्द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि सहस्राणां द्वासप्ततिः प्रतिशाखानाडीसहस्राणि / प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्ति /
SK
आसु नाडीषु व्यानो वायुः चरति व्यानो व्यापनात् / आदित्यादिव रश्मयो हृदयात् सर्वगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते / सन्धिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्य उद्भूतवृत्तिर्वीर्यवत्कर्मकर्ता भवति
SK
START Pर्Uप् ३.७
SK
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति | पापेन पापम् | उभाभ्याम् एव मनुष्यलोकम् || Pर्Uप्_३.७ ||
SK
Pर्Uप्Bह्_३.७
SK
अथ या तु तत्रैकशतानां नाडीनां मध्य ऊर्ध्वगा सुषुम्नाख्या नाडी तथैकयोर्ध्वः सन्नुदानो वायुरापादतलमस्तकवृत्तिः सञ्चरन्पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् / उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते
SK
START Pर्Uप् ३.८
SK
आदित्यो ह वै बाह्यः प्राण उदयति | एष ह्य् एनं चाक्षुषं प्राणम् अनुगृह्णानः | पृथिव्यां या देवता सैषा पुरुषस्यापानम् अवष्टभ्य | अन्तरा यदाकाशः स समानः | वायुर् व्यानः || Pर्Uप्_३.८ ||
SK
Pर्Uप्Bह्_३.८
SK
आदित्यो ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयत्युद्गच्छति / एष ह्यैनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेनानुगृह्णानो रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः / तथा पृथिव्यामभिमानिनी या देवता प्रसिद्धा सैषा पुत्रस्य अपानमपानवृत्तिमवष्टभ्याकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः / अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् /
SK
यदेतदन्तरा मध्ये द्यावापृथिव्योर्य आकाशस्तत्स्थो वायुः आकाश उच्यते;मञ्चश्थवत् / स समानः समानमनुगृह्णानो वर्तत इत्यर्थः / समानस्यान्तराकाशश्थत्वसामान्यात् / सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्याद् व्यानो व्यानमनुगृह्णानो वर्तत इत्यभिप्रायः
SK
START Pर्Uप् ३.९
SK
तेजो ह वा उदानः | तस्माद् उपशान्ततेजाः | पुनर्भवम् इन्द्रियैर् मनसि संपद्यमानैः || Pर्Uप्_३.९ ||
SK
Pर्Uप्Bह्_३.९
SK
यद्वाह्यं ह वै प्रसिद्धं सामान्यं तेजस्तच्छरीर उदान उदानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः / यस्मात्तेजः - स्वभावो बाह्यतेजो ऽनुगृहीत उत्क्रान्तिकर्ता तस्माद्यदा लौकिकः पुरुष उपशान्ततेजा भवति;उपशान्तं स्वाभाविकं तेजो यस्य सः, तदा तं क्षीणायुषं मुमूर्षु विद्यात् /
SK
स पुनर्भवं शरीरान्तरं प्रतिपद्यते / कथम्?सहेन्द्रियैर्मनसि सम्पद्यमानैः प्रविशद्भिर्वागादिभिः
SK
START Pर्Uप् ३.१०
SK
यच्चित्तस् तेनैष प्राणम् आयाति | प्राणस् तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति || Pर्Uप्_३.१० ||
SK
Pर्Uप्Bह्_३.१०
SK
यच्चित्तो भवति तेनैव चित्तेन संकल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिमायाति / मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः / तदाभिवदन्ति ज्ञातय उछ्वसिति जीवतीति /
SK
स च प्राणस्तेजसोदानवृत्त्या युक्तः सन्सहात्मना स्वामिना भोक्ता स एवमुदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशाद्यथासंकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति
SK
START Pर्Uप् ३.११
SK
य एवं विद्वान् प्राणं वेद | न हास्य प्रजा हीयते ऽमृतो भवति | तद् एष श्लोकः || Pर्Uप्_३.११ ||
SK
Pर्Uप्Bह्_३.११
SK
यः कश्चिदेवं विद्वान्यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलम् ऐहिकमामुष्मिकं चोच्यते / न हास्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते छिद्यते / पतिते च शरीरे प्राणसायुज्यतयामृतो ऽमरणधर्मा भवति / तदेतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोको मन्त्रो भवति
SK
START Pर्Uप् ३.१२
SK
उत्पत्तिम् आयातिं स्थानं विभुत्वं चैव पञ्चधा | अध्यात्मं चैव प्राणस्य विज्ञायामृतम् अश्नुते विज्ञायामृतम् अश्नुत इति || Pर्Uप्_३.१२ ||
SK
Pर्Uप्Bह्_३.१२
SK
उत्पत्तिं परमात्मनः प्राणस्यायतिमागमनं मनोकृतेनास्मिन् शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनं बाह्यमादित्यादिरूपेण अध्यात्मं चैव चक्षुराद्याकारेण अवस्थानं विज्ञायैवं प्राणममृतम् अश्नुत इति विज्ञायामृतमश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम्
SK
इति तृतीयः प्रश्नः
SK
=============================================================================
SK
चतुर्थः प्रश्नः
SK
START Pर्Uप् ४.१
SK
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ | भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति | कान्य् अस्मिञ् जाग्रति | कतर एष देवः स्वप्नान् पश्यति | कस्यैतत् सुखं भवति | कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति || Pर्Uप्_४.१ ||
SK
Pर्Uप्Bह्_४.१
SK
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ / प्रश्नत्रयेणापरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम्;अथेदानीमसाध्यसाधनलक्षणमप्राणममनोगोचरमतीन्द्रियविषयं शिवं शान्तमविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते /
SK
तत्र सुदीप्तादिवाग्रेर्यस्मात् परादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्ति इत्युक्तं द्वितीये मुण्डके;के ते सर्वे भावा अक्षराद्विभज्यन्ते?कथं वा विभक्ताः सन्तस्तत्रैव अपियन्ति?किं लक्षणं वा तदक्षरमिति?एतद्विवक्षयाधुना प्रश्नान् उद्भावयति -
SK
भगवन्नेतस्मिन्पुरुषो शिरः पाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते?कानि चास्मिन् जाग्रति जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति कतरः कार्यकरण लक्षणयोरेष देवः स्वप्नान्पश्यति?स्वप्नो नाम जाग्रद्दर्शनान्निवृत्तस्य जाग्रद्वदन्तःशरीरे यद्दर्शनम् / तत्किं कार्यलक्षणेन देवेन निर्वर्त्यन्ते किं वा करणलक्षणेन केनचिदित्यभिप्रायः /
SK
उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमनाबाधं सुखं कस्यैतद्भवति / तस्मिन्काले जाग्रत्स्वप्नव्यापाराद् उपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः / मधुनि रसवत्समुद्रप्रविष्टनद्यादिवच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः /
SK
ननु न्यस्तदात्रादिकरणात् स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तम् / कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्कायाः प्रष्टुः /
SK
युक्तैव त्वाशङ्का / यतः संहतानि करणानि स्वाभ्यर्थानि परतन्त्राणि च जाग्रद्विषये तस्मात् स्वापे ऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित्संतिर्न्याय्येति तस्माद् आशङ्कानुरूप एव प्रश्नो ऽयम् / अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोस्तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति
SK
START Pर्Uप् ४.२
SK
तस्मै स होवाच | यथा गार्ग्य मरीचयोऽर्कस्यास् तं गच्छतः सर्वा एतस्मिंस् तेजोमण्डल एकीभवन्ति | ताः पुनः पुनर् उदयतः प्रचरन्ति | एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति | तेन तर्ह्य् एष पुरुषो न शृणोति | न पश्यति | न जिघ्रति | न रसयते | न स्पृशते | नाभिवदते | नादत्ते | नानन्दयते | न विसृजते | नेयायते | स्वपतीत्य् आचक्षते || Pर्Uप्_४.२ ||
SK
Pर्Uप्Bह्_४.२
SK
तस्मै स होवाचाचार्यः - शृणु हे गार्ग्य यत्त्वया पृष्टम् / यथा मरीचयो रश्मयोर्ऽकस्य आदित्यस्यास्तमदर्शनं गच्छतः सर्वा अशेषत एतस्मिंस्तेजोमण्डले तेजोराशिरूप एकीभवन्ति विवेकानर्हत्वमविशेषतां गच्छन्ति मरीचयस्तस्यैवार्कस्य ताः पुनः पुनरुदयत उद्गच्छतः प्रचरन्ति विकीर्यन्ते / यथायं दृष्टान्तः, एवं ह वै तत्सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनः तस्मिन्स्वप्नकाल एकीभवति / मण्डले मरीचिवदविशेषतां गच्छति / जिजागरिषोश्च रश्मिमवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते /
SK
यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनसि एकीभूतानीव करणव्यापाराद् उपरतानि तेन तस्मात्तर्हि तस्मिन् स्वापकाल एष देवदत्तादिलक्षणः पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीयाचक्षते लौकिकाः
SK
START Pर्Uप् ४.३
SK
प्राणाग्नय एवैतस्मिन् पुरे जाग्रति | गार्हपत्यो ह वा एषो ऽपानः | व्यानो ऽन्वाहार्यपचनः | यद् गार्हपत्यात् प्रणीयते प्रणयनात् | आहवनीयः प्राणः || Pर्Uप्_४.३ ||
SK
Pर्Uप्Bह्_४.३
SK
सुप्तत्सु श्रोत्रादिषु करणेषु एतस्मिन्पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवो ऽग्नय इवाग्नयो जाग्रति / अग्निसामान्यं हि आह - गार्हपत्यो ह वा एषो ऽपानः / कथमित्याह - यस्माद्गार्हपत्यादग्नेरग्निहोत्रकाल इतरो ऽग्निः आहवनीयः प्रणीयते प्रणयनात् प्रणीयते ऽस्मादिति प्रणयनो गार्हपत्यो ऽग्निः / तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां संचरत्यत आहवनीयस्थानीयः प्राणः / व्यानस्तु हृदयाद् दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्सम्बन्धादन्वाहार्यपचनो दक्षिणाग्निः
SK
अत्र च होताग्निहोत्रस्य -
SK
START Pर्Uप् ४.४
SK
यद् उच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः | मनो ह वावन यजमानः | इष्टफलम् एवोदानः | स एनं यजमानम् अहरहर्ब्रह्म गमयति || Pर्Uप्_४.४ ||
SK
Pर्Uप्Bह्_४.४
SK
यद्यस्मादुच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव त्वेतावाहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयो ऽपि होता चाहुत्योर्नेतृत्वात् / को ऽसौ स समानः / अतश्च विदुषः स्वापो ऽप्यग्निहोत्रहवनमेव / तस्माद्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः / सर्वदा सर्वाणि भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके /
SK
अत्र हि जाग्रसु प्राणाग्निषु उपसंहृत्य बाह्यकरणानि विषयांश्च अग्निहोत्रफलमिव स्वर्ग ब्रह्म जिगमिषुर्मनो ह वाव यजमानो जागर्ति यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते /
SK
इष्टफलं यागफलमेवोदानो वायुः / उदाननिमित्तत्वादिष्टफलप्राप्तेः / कथम्?स उदानो मन आख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्याहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्माक्षरं गमयति / अतो यागफलस्थानीय उदानः
SK
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वयागफलानुभव एव नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते / न हि विदुष एव श्रोत्रादीनि स्वपन्ते प्राणाग्नयो वा जाग्रति जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते / समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तिगमनमतो विद्वत्तास्तुतिरेव इयमुपपद्यते / यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति तदाह -
SK
START Pर्Uप् ४.५
SK
अत्रैष देवः स्वप्ने महिमानम् अनुभवति | यद् दृष्टं इष्टम् अनुपश्यति | श्रुतं श्रुतम् एवार्थम् अनुशृणोति | देशदिगन्तरैश् च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति | दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति | सर्वः पश्यति || Pर्Uप्_४.५ ||
SK
Pर्Uप्Bह्_४.५ अत्रोपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन् अन्तराल एष देवोर्ऽकरश्मिवत् स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते /
SK
ननु महिमानुभवने करणं मनो ऽनुभवितुस्तत्कथं स्वातन्त्र्येणानुभवति इत्युच्यते स्वतन्त्रो हि क्षेत्रज्ञः /
SK
नैष दोषः क्षेत्रज्ञस्य स्वातन्त्र्य मन उपाधिकृतत्वान्न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा / मन उपाधिकृतमेव तस्य जागरणं स्वप्नश्चेत्युक्तं वाजसनेयके᳚स हि स्वप्नो भूत्वा ध्यायतीव लेलायतीव᳚ (बृ.उ.४ / ३ / ७) इत्यादि / तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव /
SK
मन उपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयं ज्योतिष्ट्वं बाध्येतेति केचित् तन्न, श्रुत्यर्थापरिज्ञानकृता भ्रान्तिः तेषाम् / यस्मात्स्वयञ्ज्योतिष्ट्वादिव्यवहारो ऽप्यामोक्षान्तः सर्वो ऽविद्याविषय एव मन आद्युपाधिजनितः / ᳚यत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्᳚ (बृ.उ.४ / ३ / ३२) ᳚मात्रासंसर्गस्त्वस्य भवति᳚ ᳚यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्᳚ (बृ.उ.२ / ४ / १४) इत्यादिश्रुतिभ्यः / अतो मन्दब्रह्मविदामेवेयमाशङ्का न तु एकात्मविदाम् /
SK
नन्वेवं सति᳚अत्रायं पुरुषः स्वयञ्ज्योतिः᳚ (बृ.उ.३ / ३ / १४) इति विशेषणमनर्थकं भवति /
SK
अत्रोच्यते अत्यल्पमिदमुच्यते᳚य एषऽन्तर्हृदय आकाशस्तस्मिञ्शेते᳚ (बृ.उ.२ / १ / १७) इत्यन्तर्हृदयपरिच्छेदे सुतरां स्वयञ्ज्योतिष्ट्वं बाध्येत /
SK
सत्यमेवमयं दोषो यद्यपि स्यात्स्वप्ने केवलया स्वयञ्ज्योतिष्ट्वेनार्धं तावदपनीतं भारस्येति चेत् /
SK
न;तत्रापि᳚पुरीतति शेते᳚(बृ.उ.२ / १ / १९) इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयञ्ज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव /
SK
कथं तर्हि᳚अत्रायं पुरुषः स्वयञ्ज्योतिः᳚(बृ.उ.४ / ३ / १४) इति /
SK
अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत् /
SK
न अथैकत्वस्येष्टत्वादेको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च / तस्माद्युक्ता स्वप्न आत्मनः स्वयञ्ज्योतिष्ट्वोपपत्तिर्वक्तुम् / श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात् /
SK
एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानं न त्वभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितम्मन्यैः / यथा - हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इत्यात्मनः स्वयञ्ज्योतिष्ट्वं न बाध्यते / एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासनाविद्ययान्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्यो ऽन्यत्वेन स्वयञ्ज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण न वारयितुं शक्यते / तस्मात् साधूक्तं मनसि प्रलीनेषु करणेषु अप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति /
SK
कथं महिमानमनुभवतीत्युच्यते यन्मित्रं पुत्रादपि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा विद्यया पश्यतीत्येवं मन्यते / तथा श्रुतमर्थं तद्वासनयानुशृणोतीव / देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीवाविद्यया तथा दृष्टं चास्मिञ्जन्मन्यदृष्टं च जन्मान्तरदृष्टमित्यर्थः, अत्यन्तादृष्टे वासनानुपपत्तेः, एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरे ऽनुभूतमित्यर्थः / सच्च परमार्थोदकादि, असच्च मरीच्युदकादि / किं बहुनोक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति
SK
START Pर्Uप् ४.६
SK
स यदा तेजसाभिभूतो भवति | अत्रैष देवः स्वप्नान्न पश्यति | अथ तदैतस्मिञ् शरीर एतत् सुखं भवति || Pर्Uप्_४.६ ||
SK
Pर्Uप्Bह्_४.६
SK
स यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतोभिऽभूतो भवति तिरस्कृतवासनाद्वारो भवति तथा सह करणैः मनसो रश्मयो हृद्युपसंहृता भवन्ति / यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृस्नं शरीरं व्याप्यवत्ष्टते तदा सुषुप्तो भवति / अत्रैतस्मिन्काल एष मन आख्यो देवः स्वप्नान्न पश्यति दर्शनद्वारस्य तेजसा / अथ तदैतस्मिञ्शरीर एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः // ६ // एतस्मिन्काले ऽविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति / तेषु शान्तेषु आत्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह -
SK
START Pर्Uप् ४.७
SK
स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते | एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते || Pर्Uप्_४.७ ||
SK
Pर्Uप्Bह्_४.७
SK
स दृष्टान्तो यथा येन प्रकारेण सोम्य प्रियदर्शन वयांसि पक्षिणो वासार्थं वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति / एवं यथा दृष्टान्तो ह वै तद्वक्ष्यमाणं सर्वं पर आत्मन्यक्षरे संप्रतिष्ठते
SK
किं तत्सर्वम् -
SK
START Pर्Uप् ४.८
SK
पृथिवी च पृथिवीमात्रा च | आपश् चापोमात्रा च | तेजश् च तेजोमात्रा च | वायुश् च वायुमात्रा च | आकाशश् चाकाशमात्रा च | चक्षुश् च द्रष्टव्यं च | श्रोत्रं च श्रोतव्यं च | घ्राणं च घ्रातव्यं च | रसश् च रसयितव्यं च | त्वक् च स्पर्शयितव्यं च | वाक् च वक्तव्यं च | हस्तौ चादातव्यं च | उपस्थश् चानन्दयितव्यं च | पायुश् च विसर्जयितव्यं च | पादौ च गन्तव्यं च | मनश् च मन्तव्यं च | बुद्धिश् च बोद्धव्यं च | अहङ्कारश् चाहङ्कर्तव्यं च | चित्तं च चेतयितव्यं च | तेजश् च विद्योतयितव्यं च | प्राणश् च विधारयितव्यं च || Pर्Uप्_४.८ ||
SK
Pर्Uप्Bह्_४.८
SK
पृथिवी च स्थूला पञ्चगुणा तत्कारणा च पृथिवीमात्रा च गन्धतन्मात्रा, तथापश्चापोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाकाशमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः, तथा चक्षुश्चेन्द्रियं रूपं च द्रष्टव्यं च, श्रौत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ चादातव्यं च, उपस्थश्चानन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तथा चोक्तानि, मनश्च पूर्वोक्तं, मन्तव्यं च तद्विषयः, बुद्धिश्च निश्चयात्मिका, बोद्धव्यं च तद्विषयः, अहङ्कारश्चाभिमानलक्षणमन्तःकरणमहङ्कर्तव्यं च तद्विषयः, चित्तं च चेतनावदन्तःकरणम्, चेतयितव्यं च तद्विषयः, तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्तया निर्भास्यो विषयो विद्योतयितव्यम्, प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयं सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नामरूपात्मकमेतावदेव
SK
अथः परं यदात्मरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेन इह अनुप्रविष्टम् -
SK
START Pर्Uप् ४.९
SK
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः | स परे ऽक्षर आत्मनि संप्रतिष्ठते || Pर्Uप्_४.९ ||
SK
Pर्Uप्Bह्_४.९
SK
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा विज्ञानं विज्ञायते ऽनेनेति करणभूतं बुद्ध्यादीदं तु विजानातीति विज्ञानं कर्तृकाररूपं तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः / पुरुषः कार्यकरणसंघातोक्तोपाधिपूर्णत्वात्पुरुषः / स च जलसूर्यकादिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जगदाधारशेषे परे ऽक्षि आत्मनि संप्रतिष्ठते
SK
तदेकत्वविदः फलमाह -
SK
START Pर्Uप् ४.१०
SK
परम् एवाक्षरं प्रतिपद्यते | स यो ह वै तदच्छायम् अशरीरम् अलोहितं शुभ्रम् अक्षरं वेदयते यस् तु सोम्य | स सर्वः सर्वो भवति | तद् एष श्लोकः || Pर्Uप्_४.१० ||
SK
Pर्Uप्Bह्_४.१०
SK
परमेवाक्षरं वक्ष्यमाणविशेषं प्रतिपद्यत इत्येतदुच्यते / स यो ह वै तत्सर्वैषणाविनिर्मुक्तो ऽच्छायं तमोवर्जितम्, अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम्, अलोहितं लोहितादिसर्वगुणवर्जितम्, यत एवमतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वादक्षरम्, सत्यं पुरुषाख्यम्, अप्राणम् अमनोगोचरम्, शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी सोम्य स सर्वज्ञो न तेन विदितं किञ्चित् सम्भवति / पूर्वमविद्यया सर्वज्ञ आसीत्पुनर्विद्ययाविद्यापनये सर्वो भवति तदा / तत्तस्मिन्नर्थ एष श्लोको मन्त्रो भवति उक्तार्थसंग्राहकः
SK
START Pर्Uप् ४.११ विज्ञानात्मा सह देवैश् च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र / तद् अक्षरं वेदयते यस् तु सोम्य स सर्वज्ञः सर्वम् एवाविवेशेति // Pर्Uप्_४.११ //
SK
Pर्Uप्Bह्_४.११
SK
विज्ञानात्मा सह देवैश्चाग्न्यादिभिः प्राणश्चक्षुरादयो भूतानि पृथिव्यादीनि संप्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे तदक्षरं वेदयते यस्तु सोम्य प्रियदर्शन स सर्वज्ञः सर्वमेव आविवेशाविशतीत्यर्थः
SK
इति चतुर्थः प्रश्नः
SK
=============================================================================
SK
पञ्चमः प्रश्नः
SK
START Pर्Uप् ५.१
SK
अथ हैनं शैब्यः सत्यकामः पप्रच्छ | स यो ह वै तद् भगवन् मनुष्येषु प्रायणान्तम् ॐकारम् अभिध्यायीत | कतमं वाव स तेन लोकं जयतीति || Pर्Uप्_५.१ ||
SK
Pर्Uप्Bह्_५.१
SK
अथ हैनं शैब्यः सत्यकामः पप्रच्छ - अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेनोङ्कारस्योपासनविधित्सया प्रश्न आरभ्यते -
SK
स यः कश्चिद् वै भगवन् मनुष्येषु मनुष्याणां मध्ये तद् अद्भुतमिव प्रायणान्तं मरणान्तम्, यावज्जीवमित्येतत्, ओङ्कारमभिध्यायीताभिमुख्येन चिन्तयेत्, बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभाव ओङ्कारे, आत्मप्रत्ययसन्तानाविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निर्वातस्थदीपशिखासमो ऽभिध्यानाशब्दार्थः / सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसन्तोषामायावित्वाद्यनेकयमनियमानुगृहीतः स एवं यावज्जीवव्रतधारणः कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या लोकास्तिष्ठन्ति तेषु तेनोङ्काराभिध्यानेन कतमं स लोकं जयति
SK
START Pर्Uप् ५.२
SK
तस्मै स होवाच | एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ॐकारः | तस्माद् विद्वान् एतेनैवायतनेनैकतरम् अन्वेति || Pर्Uप्_५.२ ||
SK
Pर्Uप्Bह्_५.२
SK
इति पृष्टवते तस्मै स होवाच पिप्पलादः एतस्मै सत्यकाम / एतद्ब्रह्म वै परं चापरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यमपरं च प्राणाख्यं प्रथमजं यत्तदोङ्कार एवोङ्कारात्मकमोङ्कारप्रतीकत्वात् / परं हि ब्रह्म शब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितमतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम् / ओङ्कारे तु विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदति इत्येतदवगम्यते शास्त्रप्रामाण्यात् तथापरं च ब्रह्म / तस्मात्परं चापरं च ब्रह्म यदोङ्कार इत्युपचर्यते / तस्मादेवं विद्वानेतेनैवात्मप्राप्तिसाधनेनैवोङ्काराभिध्यानेन एकतरं परमपरं वान्वेति ब्रह्मानुगच्छति नेदिष्टं ह्यालम्बनमोङ्कारो ब्रह्मणः
SK
START Pर्Uप् ५.३
SK
स यद्य् एकमात्रम् अभिध्यायीत | स तेनैव संवेदितस् तूर्णम् एव जगत्याम् अभिसम्पद्यते | तम् ऋचो मनुष्यलोकम् उपनयन्ते | स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति || Pर्Uप्_५.३ ||
SK
Pर्Uप्Bह्_५.३
SK
स यद्यप्योङ्कारस्य सकलमात्राविभागज्ञो न भवति तथापि ओङ्काराभिध्यानप्रभावाद्विशिष्टमेव गतिं गच्छति;एतदेकदेशज्ञानवैगुण्यतयोङ्कारशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति / किं तर्हि?यद्यप्येवम् ओङ्कारमेवैकमात्राविभागज्ञ एव केवलो ऽभिध्यायीतैकमात्रं सदा ध्यायीत स तेनैवैकमात्र विशिष्टोङ्काराभिध्यानेनैव संवेदितः सम्बोधितस्तूर्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते /
SK
किं मनुष्यलोकम् / अनेकानि हि जन्मानि जगत्यां सम्भवन्ति / तत्र तं साधकं जगत्यां मनुष्यलोकमेवर्च उपनयन्त उपनिगमयन्ति / तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः संस्तपसा ब्रह्मचर्येण श्रद्धया च संपन्नो महिमानं विभूतिमनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति
SK
START Pर्Uप् ५.४
SK
अथ यदि द्विमात्रेण मनसि संपद्यते | सो ऽन्तरीक्षं यजुर्भिर् उन्नीयते सोमलोकम् | स सोमलोके विभूतिम् अनुभूय पुनर् आवर्तते || Pर्Uप्_५.४ ||
SK
Pर्Uप्Bह्_५.४
SK
अथ पुनर्यदि द्विमात्रविभागज्ञो द्विमात्रेण विशिष्टमोङाकारम् अभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सोमदैवत्ये संपद्यत एकाग्रतयात्भावं गच्छति स एवं सम्पन्नो मृतो ऽन्तरीक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्ररूपैरेवयजुर्भिरुन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः स तत्र विभृतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते
SK
START Pर्Uप् ५.५
SK
यः पुनर् एतं त्रिमात्रेणोमित्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत | स तेजसि सूर्ये संपन्नः | यथा पादोदरस् त्वचा विनिर्मुच्यते | एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्मलोकम् | स एतस्माज् जीवधनात् परापरं पुरिशयं पुरुषम् ईक्षते तद् एतौ श्लोकौ भवतः || Pर्Uप्_५.५ ||
SK
Pर्Uप्Bह्_५.५
SK
यः पुनरेतमोङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेन ओमित्येतेनैवाक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकेनाभिध्यायीत तेनाभिध्यानेन, प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतम् ओङ्कारस्य परं चापरं च ब्रह्मेत्यभेदश्रुतेरोङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा / यद्यपि तृतीयाभिध्यानत्वेन करणत्वमुपपद्यते तथापि प्रकृतानुरोधात् त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया᳚त्यजेदेकं कुलस्यार्थे᳚(महा.उ.३७ / १७) इति न्यायेन / स तृतीयमात्रारूपस्तेजसि सूर्ये संपन्ने भवति ध्यायमानो मृतो ऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते किन्तु सूर्ये संपन्नमात्र एव /
SK
यथा पादोदरः सर्पस्त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति / एवं ह वा एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सामभिस्तृतीयमात्रारूपैरूर्ध्वमुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् / स हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः / स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम्, तस्मिन्हि लिङ्गात्मनि संहताः सर्वे जीवाः / तस्मात्म जीवघनः / स विद्वांस्त्रिमात्रोङ्काराभिज्ञ एतस्माज्जीवघनाद्धिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति ध्यायमानः / तदेतस्मिन्यथेक्तार्थप्रकाशकौ मन्त्रौ भवतः
SK
START Pर्Uप् ५.६
SK
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः / क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः // Pर्Uप्_५.६ //
SK
Pर्Uप्Bह्_५.६
SK
तिस्रस्त्रिसंख्यका अकारोकारमकाराख्या ओङ्कारस्य मात्रा मृत्युमत्यो मृत्युर्यासां विद्यते ता मृत्युमत्यो मृत्युगोचरादनतिक्रान्तामृत्युगोचरा एवेत्यर्थः / ता आत्मनो ध्यानक्रियासु प्रयुक्ताः, किं चान्योन्यसक्ता इतरेतरसंबद्धाः, अनविप्रयुक्ता विशेषेणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता नाविप्रयुक्ता अनविप्रयुक्ताः /
SK
किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति यो योगी यथोक्तविभागज्ञ ओङ्कारस्येत्यर्थः, न तस्यैवंविदश्चलनमुपपद्यते / यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेण ओङ्कारात्मरुपेण दृष्टाः / स ह्येवं विद्वान्सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन्वा
SK
सर्वार्थसंग्रहार्थो द्वितीयो मन्त्रः -
SK
START Pर्Uप् ५.७
SK
ऋग्भिर् एतं यजुर्भिर् अन्तरिक्षं सामभिर् यत् तत् कवयो वेदयन्ते / तम् ॐकारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं चेति // Pर्Uप्_५.७ //
SK
Pर्Uप्Bह्_५.७
SK
ऋग्भिरेतं लोकं मनुष्योपलक्षितम् / यजुर्भिरन्तरिक्षं सोमाधिष्ठितम् / सामभिर्यत्तद् ब्रह्मलोकमिति तृतीयं कवयो मेधाविनो विद्यावन्त एव नाविद्वांसो वेदयन्ते / तं त्रिविधं लोकमोङ्कारेण साधनेनापरब्रह्मलक्षणमन्वेत्यनुगच्छति विद्वान् /
SK
तेनैवोङ्कारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तं जाग्रत्स्वप्नसुषुपात्यादि विशेषसर्वप्रपञ्चविवर्जितमत एव अजरं जरावर्जितममृतं मृत्युवर्जितमत एव यस्माज्जराविक्रियारहितमतो ऽभयम्, यस्मादेवाभयं तस्मात्परं निरतिशयम्, तदप्योङ्कारेणायतनेन गमनसाधनेनान्वेतीत्यर्थः / इतिशब्दो वाक्यपरिसमाप्त्यर्थः
SK
इति पञ्चमः प्रश्नः
SK
=============================================================================
SK
षष्ठः प्रश्नः
SK
START Pर्Uप् ६.१
SK
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ | भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत | षोडशकलं भारद्वाज पुरुषं वेत्थ | तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद | यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति | समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति | तस्मान् नार्हाम्य् अनृतं वक्तुं | स तूष्णीं रथम् आरुह्य प्रवव्राज | तं त्वा पृच्छामि कासौ पुरुष इति || Pर्Uप्_६.१ ||
SK
Pर्Uप्Bह्_६.१
SK
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ / समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम् / सामर्थ्यात्प्रलये ऽपि तस्मिन्नेवाक्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति सिद्धं भवति / न ह्यकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते /
SK
उक्तं च आत्मन एष प्राणो जायतेऽइति / जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोर्ऽथः / अनन्तरं चोक्तं ऽस सर्वज्ञः सर्वो भवतिऽइति वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति तदर्थोयं प्रश्न आरभ्यते / वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वख्यापनेन तल्लब्ध्यर्थं मुमुक्षणां यत्नविशेषोपादानार्थम् /
SK
हे भगवन् हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो राजपुत्रो जातितः क्षत्रियो माम् उपेत्योपगम्यैतमुच्यमानं प्रश्नमपृच्छत / षोडशकलं षोडशसंख्याकाः कला अवयवा इव आत्मन्यविद्याध्यारोपितरूपा यस्मिन् पुरुषे सो ऽयं षोडशकलस्तं षोडशकलं हे भारद्वाज पुरुषं वेत्थ विजानासि / तमहं राजपुत्रं कुमारं पृष्टवन्तमब्रुवमुक्तवानस्मि नाहमिमं वेद यं त्वं पृच्छसीति /
SK
एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारणमवादिषम् / यदि कथञ्चिदहमिमं त्वया पृष्टं पुरुषमवेदिषं विदितवानस्मि कथमत्यन्तशिष्यगुणवते ऽर्थिने ते तुभ्यं नावक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः / भूयो ऽप्यप्रत्ययमिवालक्ष्य प्रत्याययितुमब्रवम् / समूलः सह मूलेन वा एषो ऽन्यथा सन्तमात्मानमन्यथा कुर्वन्ननृतमयथाभूतार्थमभिवदति यः स परिशुष्यति शोषमुपैतीहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति / यत एवं जाने तस्मान्नार्हाभ्यहमनृतं वक्तुं मूढवत् /
SK
स राजपुत्र एवं प्रत्यायित तूष्णीं व्रीडितो रथमारुह्य प्रवव्राज प्रगतवान् यथागतमेव / अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैवानृतं च न वक्तव्यं सर्वास्वप्यवस्थासु इत्येतत्सिद्धं भवति / तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितं क्वासौ वर्तते विज्ञेयः पुरुष इति
SK
START Pर्Uप् ६.२
SK
तस्मै स होवाच | इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्न् एताः षोडश कलाः प्रभवन्तीति || Pर्Uप्_६.२ ||
SK
Pर्Uप्Bह्_६.२
SK
तस्मै स होवाच / इहैवान्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन्नेता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशकलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यते ऽविद्ययेति तदुपाधिकलाध्यारोपापनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते / प्राणादीनामत्यन्तनिर्विशेषे ह्यद्वये शुद्धे तत्त्वे न शक्यो ऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्ते अविद्याविषयाः / चैतन्याव्यतिरेकेणैव हि कला जायमानाः तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते /
SK
अत एव भ्रान्ताः केचिद् अग्निसंयोगाद् घृतमिव घटाद्याकारेण चैतन्यम् एव प्रतिक्षणं जायते नश्यतीति / तन्निरोधे शून्यमिव सर्वमित्यपरे / घटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनो ऽनित्यं जायते विनश्यतीत्यपरे / चैतन्यं भूतधर्म इति लौकयतिकाः / अनपायोपजनधर्मकचैतन्यमात्मा एव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ᳚सत्यं ज्ञानमनन्तं ब्रह्म᳚(तै.उ.२ / १ / १) ᳚प्रज्ञानं ब्रह्म᳚(ऐ.उ.५ / ३) ᳚विज्ञानमानन्दं ब्रह्म᳚(बृ.उ.३ / ९ / २८) ᳚विज्ञानघन एव᳚(बृ.उ.२ / ४ / १२) इत्यादि श्रुतिभ्यः / स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचाराद्यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् /
SK
वस्तुतत्त्वं भवति किञ्चित् न ज्ञायत इति चानुपपन्नम् रूपं च दृश्यते न चास्ति चक्षुरिति यथा / व्यभिचरति तु ज्ञेयम् न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम्, ज्ञेयाभावे ऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य / न हि ज्ञाने ऽसति ज्ञेयं नाम भवति कस्यचित् सुषुप्ते ऽदर्शनात् / ज्ञानस्यापि सुषुप्ते ऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेत् /
SK
न ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात्स्वव्यङ्ग्याभाव आलोकाभावानुपपत्तिवत्सुषुप्ते विज्ञानभावानुपपत्तेः / न ह्यन्धकारे चक्षुषा रूपानुपलब्धौ चक्षुषो ऽभावः शक्यः कल्पयितुं वैनाशिकेन /
SK
वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत् /
SK
येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन, तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः /
SK
ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत् /
SK
न अभावस्यापि ज्ञेयत्वाभ्युपगमादभावो ऽपि ज्ञेयोभ्युपगम्यते वैनाशिकैर्नित्यश्च तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतो ऽभावत्वमनित्यत्वं च ज्ञानस्य / न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम् /
SK
अथाभावो ज्ञेयो ऽपि सन् ज्ञानव्यतिरिक्त इति चेत् /
SK
न तर्हि ज्ञेयाभावे ज्ञानाभावः /
SK
ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत् /
SK
न शब्दमात्रत्वाद्विशेषानुपपत्तेः / ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते ज्ञेयं ज्ञानव्यतिरिक्तं ज्ञानं ज्ञेयव्यतिरिक्तं नेति तु शब्दमात्रमेतद्वह्निरग्निव्यतिरिक्तः अग्निर्न वह्निव्यतिरिक्त इति यद्वदभ्युपगम्यते / ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा /
SK
ज्ञेयाभावे ऽदर्शनादभावो ज्ञानस्येति चेत् /
SK
न, सुषुप्ते ज्ञप्त्यभ्युपगमात् / वैनाशिकैरभ्युपगम्यते हि सुषुप्ते ऽपि ज्ञानास्तित्वम् /
SK
तत्रापि ज्ञेयत्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेत् /
SK
न, भेदस्य सिद्धत्वात् / सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्य अभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोः अन्यत्वम् / न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि /
SK
ज्ञानस्य ज्ञेयत्वमेवेति तदप्यन्येन तदप्यन्येनेति त्वत्पक्षे ऽतिप्रसङ्ग इति चेत् /
SK
न, तद्विभागोपपत्तेः सर्वस्थ / यदा हि सर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यते ऽवैनाशिकेर्न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः /
SK
ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत् /
SK
सो ऽपि दोषस्तस्यैवास्तु किं तन्निबर्हणेनास्माकम् / अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् / अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् / स्वात्मना चाविज्ञेयत्वेनानवस्थानिवार्या.
SK
समान एवायं दोष इति चेत् /
SK
न, ज्ञानस्यैकत्वोपपत्तेः / सर्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवद् अनेकधावभासत इति नासौ दोषः / तथा चेहेदमुच्यते / ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति /
SK
न, प्राणादिकलाकारणत्वात् / न हि शरीरमात्रपरिच्छिन्नस्य प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् / कलाकार्यत्वाच्च शरीरस्य / न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिवाभ्यन्तरीकुर्यात् /
SK
बीजवृक्षादिवत्स्यादिति चेत् / यथा बीजकार्यं वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरीकरोत्याम्रादि तद्वत् पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणकारणमपीति चेत् /
SK
न, अन्यत्वात्सावयवत्वाच्च / दृष्टान्ते कारणबीजात् वृक्षफलसंवृतान्यन्यान्येव बीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरे ऽभ्यन्तरीकृतः श्रूयते / बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरं च / एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताकाशकारणस्य पुरुस्य तस्मादसमानो दृष्टान्तः /
SK
किं दृष्टान्तेन वचनात्स्यादिति चेत् /
SK
न, वचनस्याकारकत्वात् / न हि वचनं वस्तुनो ऽन्यथाकरणे व्याप्रियते / किं तर्हि?यथाभूतार्थावद्योतने / तस्मादन्तःशरीर इत्येतद्वचनमण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम् /
SK
उपलब्धिनिमित्तत्वाच्च, दर्शनश्रवणमननविज्ञानादिलिङ्गैः अन्तः शरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात उच्यते ऽन्तः शरीरे सोम्य स पुरुष इति / न पुनराकाशकारणः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढो ऽपि किमुत प्रमाणभूता श्रुतिः
SK
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणार्थं कलानां प्रभवः स चान्यार्थे ऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते - चेतनपूर्विका च सृष्टिरित्येवमर्थं च /
SK
START Pर्Uप् ६.३
SK
स ईक्षां चक्रे | कस्मिन्न् अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति || Pर्Uप्_६.३ ||
SK
Pर्Uप्Bह्_६.३
SK
स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन ईक्षान्तक्र ईक्ष्यं दर्शनं चक्रे कृतवानित्यर्थः सृष्टिफलक्रमादिविषयम् / कथम्?इत्युच्यते कस्मिनकर्तृविशेषे देहादुत्क्रान्त उत्क्रान्ते भविष्यामि
SK
अहमेवं कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितस्यामित्यर्थः /
SK
START Pर्Uप् ६.४
SK
स प्राणमसृजत | प्राणाच् छद्वां खं वायुर् ज्योतिर् आपः पृथिवीन्द्रियं मनो ऽन्नम् अन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च || Pर्Uप्_६.४ ||
SK
Pर्Uप्Bह्_६.४
SK
नन्वात्माकर्ता प्रधानं कर्तृ, अतः पुरुषार्थप्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण / तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येण ईक्षापूर्वकं कर्तृत्ववचम्, सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सतीश्चरेच्छानुवर्तिषु वा परमाणुषु सत्स्वात्मनो ऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च / न हि चेतनावान्बुद्धिपूर्वकार्यात्मनो ऽनर्थ कुर्यात् / तस्मात्पुरुषार्थेन प्रयोजनेन ईक्षापूर्वकमिव नियतक्रमेण प्रवर्तमाने ऽचेतने प्रधाने चेतनवदुपचारे ऽयं स ईक्षाञ्चक्रे इत्यादिः / यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति तद्वत् /
SK
न, आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः / यथा सांख्यस्य चिन्मात्रस्यापारणामिनो ऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवादिनामीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् /
SK
तत्त्वान्तरपरिणाम आत्मनो ऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तो न चिन्मात्रस्वरूपविक्रिया / अतः पुरुषस्य स्वात्मन्येव भोक्तृत्वं चिन्मात्रस्वरूपविक्रिया न दोषाय भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनो ऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत् /
SK
न, एकस्याप्यात्मनो ऽविद्यायां विषयनामरूपोपाध्यनुपाधिकृतविशेषोभ्युपगमादविद्याकृतनामरूपोपाधिकृतो हि विशेषो ऽभ्युपगम्यत आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय परमार्थतो ऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वताकिङ्कबुद्ध्यनवगाह्यमभयं शिवम् इष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं च स्याद् अद्वैतत्वात्सर्वभावानाम्.
SK
सांख्यास्त्वविद्याध्यारोपितम् एव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वागमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरं च प्रधानं पुरुषात्परमार्थवस्तुभूतमेव कल्पयन्तो ऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते /
SK
तथेतरे तार्किकाः सांख्यैः / इत्येवं परस्परविरुद्धार्थकल्पनात् आमिषार्थिन इव प्राणिनो ऽन्योन्यविरुद्धमानार्थदर्शित्वात् परमार्थतत्त्वाद्दूरम् एवापकृष्यन्ते / अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रति आदरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यत अस्माभिर्न तु तार्किकवत्तात्पर्येण /
SK
तदैतदत्रोक्तम् -
SK
ऽविवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् / तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित्ट //
SK
इति /
SK
किं च भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः / का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैव पुरुषः कल्प्यते न कर्ता प्रधानं तु कर्त्रेव न भोक्त्रिति /
SK
ननूक्तं पुरुषश्चिन्मात्र एव स च स्वात्मस्थो विक्रियते भुञ्जानो न तत्त्वान्तरपरिणामेन प्रधानं तु तत्त्वान्तरपरिणामेन प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते ऽतो ऽनेकमशुद्धमचेतनं चेत्यादिधर्मवत्तद्विपरीतः पुरुषः /
SK
नासौ विशेषो वाङ्मात्रत्वात् / प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततो ऽपेत्य पुनः प्रधानं ततो ऽपेत्य पुनः प्रधानं स्वरूपेणावतिष्ठत इत्यस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते /
SK
अथ भोगकाले ऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत् /
SK
न तर्हि परमार्थतो भोगः पुरुषस्य /
SK
भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव तेन भोगः पुरुषस्येति चेत् /
SK
न, प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृत्वप्रसङ्गः / चिन्मात्रस्यैव विक्रिया भोक्तृत्वम् इति चेदौष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः /
SK
प्रधानपुरुषस्योर्द्वयोर्युगपद्भोक्तृत्वमिति चेत् /
SK
न, प्रधानस्य परार्थ्यानुपपत्तेः / न हि भोक्तृर्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने /
SK
भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयो ऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत् /
SK
न, पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात् / भोगरूपश्चेदनर्थः पुरुषस्य नास्ति सदा निर्विशेषत्वात्पुरुषस्य कस्य अपनयार्थं मोक्षसाधनं शास्त्रं प्रणीयते / अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्परमार्थतः पुरुषो भोक्तैव न कर्ता प्रधानं कर्त्रेव न भोक्तृपरमार्थसद्वस्त्वन्तरं पुरुषाच्चेतीयं कल्पनागमबाह्याव्यर्था निर्हेतुका चेति नादर्तव्या मुमुक्षुभिः /
SK
एकत्वे ऽपि शास्त्रप्रणायनाद्यानर्थक्यमिति चेत् /
SK
न अभावात् / सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकं वेति विकल्पना स्यात् / न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति तदभाव एवं विकल्फनैवानुपपन्ना /
SK
अभ्युपगत आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता, तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम्᳚यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्᳚(बृ.उ.२ / ४ / १४) इत्यादि / शास्त्रप्रणयनाद्युपपत्तिं चाहान्यत्र परमार्थवस्तुस्वरूपादविद्याविषये / ᳚यत्र हि द्वैतमिव भवति᳚(बृ.उ.२ / ४ / १४) इत्यादि विस्तरतो वाजसनेयके /
SK
अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य / अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्त इहात्मैकत्वविषय इति /
SK
एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनश्रुतभेदवत्त्वाद्ब्राह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च /
SK
यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तर्युपचाराद्राजा कर्तेति सो ऽत्रानुभपपन्नः᳚स ईक्षाञ्चक्रे᳚इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः / तत्र हि गौणी कल्पना शब्दस्य यत्र मुख्यार्थो न सम्भवति / इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते / यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तूपपन्ना ईश्वरेणेव सर्वाधिकारि प्राणः पुरुषेण सृज्यते / कथम् स पुरुष उक्तप्रकारेणेक्षित्वा सर्वप्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारम् आत्मानम् असृजत सृष्टवान् / अतः प्राणाच्छ्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् / ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतान्यसृजत /
SK
स्वं शब्दगुणम्, वायुं स्वेन स्पर्शेन कारणगुणेन च विशिष्टं त्रिगुणं शब्दस्पर्शाभ्याम् / तथापो रसेन गुणेन साधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः / तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः / तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी / तथा तैरेव भूतैरारब्धमिन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसंख्याकं तस्य चेश्वरमन्तःस्थं संशयसङ्कल्पलक्षणं मनः /
SK
एवं प्राणिनां कार्यं करणं त सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम् / ततश्चान्नादद्यमानाद्वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम् / तद्वीर्यवतां च प्राणिनां तपो विशुद्धिसाधनं सङ्कीर्यमाणानाम् /
SK
मन्त्रस्तपोविशुद्धान्तर्बहिःकरणेभ्यः कर्मसाधनभूताऋग्यजुः सामाथर्वाङ्गिरसः ततः / कर्माग्निहोत्रादिलक्षणम् / तपो लोकाः कर्मणां फलम् / तेषु च सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि /
SK
एवम् एताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टाः तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदार्थः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादि विभागम्
SK
START Pर्Uप् ६.५
SK
कथम् -
SK
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति | भिद्येते तासां नामरूपे | समुद्र इत्य् एवं प्रोच्यते | एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति | भिद्येते चासां नामरूपे | पुरुष इत्य् एवं प्रोच्यते | स एषो ऽकलो ऽमृतो भवति तदेष श्लोकः || Pर्Uप्_६.५ ||
SK
Pर्Uप्Bह्_६.५
SK
स दृष्टान्तो यथा लोक इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः समुद्रो ऽयनं गतिः आत्मभोवो यासां ताः समुद्रायणाः समुद्रं प्राप्योपगम्यास्तं नामरूपतिरस्कारं गच्छन्ति / तासां चास्तं गतानां भिद्येते विनश्यतो नामरूपे गङ्गायमुनेत्यादिलक्षणे / तदभेदे समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् /
SK
एवं यथायं दृष्टान्तः, उक्तलक्षणस्य प्रकृतस्यास्य पुरुषस्य परिद्रष्टुः परिसमन्ताद् द्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य यथार्कः स्वात्मप्रकाशस्य कर्ता सर्वतः तद्वदिमाः षोडश कलाः प्राणाद्या उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषो ऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति / भिद्येते चासां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् / भेदे च नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येवं प्रोच्यते ब्रह्मविद्भिः /
SK
य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलास्वकलः अविद्याकृतकलानिमित्तो हि मृत्युः तदपगमे ऽकलत्वादेवामृतो भवति तदेतस्मिन्नर्थ एष श्लोकः
SK
START Pर्Uप् ६.६
SK
अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः / तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति // Pर्Uप्_६.६ //
SK
Pर्Uप्Bह्_६.६
SK
अरा रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथा प्रवेशितास्तदाश्रया भवन्ति यथा तथेत्यर्थः, कलाः प्राणाद्या यस्मिन्पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात् पुरुषं पुरि शयनाद्वा वेद जानीयात्, यथा हे शिष्या मा वो युष्मान्मृत्युः परिव्यथा मा परिव्यथयतु / न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ / अतस्तन्मा भुद्युष्माकमित्यभिप्रायः
SK
START Pर्Uप् ६.७
SK
तान् होवाच | एतावद् एवाहम् एतत् परं ब्रह्म वेद | नातः परम् अस्तीति || Pर्Uप्_६.७ ||
SK
Pर्Uप्Bह्_६.७
SK
तानेवमनुशिष्य शिष्यांस्तान् होवाच पिप्पलादः किलैतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् / नातो ऽस्मात्परमस्तिप्रकृष्टतरं वेदितव्यमित्येवमुक्तवाञ्शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च
SK
START Pर्Uप् ६.८
SK
ते तम् अर्चयन्तस् त्वं हि नः पिता यो ऽस्माकम् अविद्यायाः परं पारं तारयसीति नमः | परमऋषिभ्यो नमः परमऋषिभ्यः || Pर्Uप्_६.८ ||
SK
Pर्Uप्Bह्_६.८
SK
ततस्ते शिष्या गुरुणानुशिष्टास्तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रयमपश्यन्तः किं कृतवन्त इत्युच्यते - अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा / किमूचिरित्याह - त्वं हि नो ऽस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरस्याभयस्य यस्त्वमेव अस्माकविद्याया विपरीतज्ञानात् जन्मजरामरणरोगदुःखादिग्राहादपारादविद्यामहोदधेर्विद्याप्लवेन परमपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयस्यस्मानित्यतः पितृत्वं तवास्मान् प्रत्यपपन्नमितरस्मात् / इतरो ऽपि हि पिता शरीरमात्रं जनयति / तथापि स प्रपूज्यतमो लोके किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः / नमः परम ऋषिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो नमः परमऋषिभ्य इति द्विर्वचनमादरार्थम्
SK
इति षष्ठः प्रश्नः /
SK
इति प्रश्नोपनिषत्समाप्ता //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Praśna Upaniṣad with commentary: corpustei HTML transform of the Praśna with commentary.

Source