अथ खलु तस्यां रात्रौ प्रशान्तायामीश्वरश्च नाम शुद्धावासकायिको देवपुत्रो महेश्वरो नाम नन्दश्च सुनन्दश्च चन्दनश्च महितश्च प्रशान्तश्च प्रशान्तविनीतेश्वरश्चैते चान्ये च संबहुलाः शुद्धावासकायिका देवपुत्रा अतिक्रान्तातिक्रान्तैर्वर्णैः सर्वावन्तं जेतवनं दिव्येनावभासेनावभास्य येन भगवांस्तेनोपसंक्रामन्, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य एकान्ते तस्थुः / एकान्ते स्थिताश्च ते शुद्धावासकायिका देवपुत्रा भगवन्तमेतदवोचन् - अस्ति भगवन् ललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यनिचयो बोधिसत्त्वकुशलमूलसमुद्भावनः तुषितवरभवनविकिरणसंचिन्त्यावक्रमणविक्रीडनगर्भस्थानविशेषसंदर्शनो ऽभिजातजन्मभूमिप्रभावसंदर्शनः सर्वबालचर्यागुणविशेषसमतिक्रमसर्वलौकिकशिल्पस्थानकर्मस्थानलिपिसंख्यामुद्रा - गणनासिधनुकलापयुद्धसालम्भसर्वसत्त्वप्रतिविशिष्टसंदर्शनान्तःपुरविषयोपभोगसंदर्शनः सर्वबोधिसत्त्वचरिनिष्पन्दनिष्पत्तिफलाधिगमपरिकीर्तनो बोधिसत्त्वविक्रीडितः सर्वमारमण्डलविध्वंसनः तथागतबलवैशारद्याष्टादशावेणिकसमुच्चयो (Vऐद्य ४) ऽप्रमाणबुद्धधर्मनिर्देशः पूर्वकैरपि तथागतैर्भाषितपूर्वः / तद्यथा - भगवता पद्मोत्तरेण च धर्मकेतुना च दीपंकरेण च गुणकेतुना च महाकरेण च ऋषिदेवेन च श्रीतेजसा च सत्यकेतुना च वज्रसंहतेन च सर्वाभिभुवा च हेमवर्णेन च अत्युच्चगामिना च प्रवाहसागरेण च पुष्पकेतुना च वररूपेण च सुलोचनेन च ऋषिगुप्तेन च जिनवक्त्रेण च उन्नतेन च पुष्पितेन च ऊर्णतेजसा च पुष्करेण च सुरश्मिना च मङ्गलेन च सुदर्शनेन च महासिंहतेजसा च स्थितबुद्धिदत्तेन च वसन्तगन्धिना च सत्यधर्मविपुलकीर्तिना च तिष्येण च पुष्येण च लोकसुन्दरेण च विस्तीर्णभेदेन च रत्नकीर्तिना च उग्रतेजसा च ब्रह्मतेजसा च सुघोषेण च सुपुष्षेण च सुमनोज्ञघोषेण च सुचेष्टरूपेण च प्रहसितनेत्रेण च गुणराशिना च मेघस्वरेण च सुन्दरवर्णेन च आयुस्तेजसा च सलीलगजगामिना च लोकाभिलाषितेन च जितशत्रुणा च संपूजितेन च विपश्यिना च शिखिना च विश्वभुवा च ककुच्छन्देन च कनकमुनिना च काश्यपेन च तथागतेनार्हता सम्यक्संबुद्धेन भाषितपूर्वः, तं भगवानप्येतर्हि संप्रकाशयेत् बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सुखाय देवानां च मनुष्याणां च / अस्य च महायानोद्भावनार्थं सर्वपरप्रवादिनां च निग्रहार्थं सर्वबोधिसत्त्वानां चोद्भावनार्थं सर्वमाराणां चाभिभवनार्थं सर्वबोधिसत्त्वयानिकानां च पुद्गलानां वीर्यारम्भसंजननार्थं सद्धर्मस्य चानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपरिग्रहार्थं त्रिरत्नवंशस्यानुपच्छेदनार्थं बुद्धकार्यस्य च परिसंदर्शनार्थमिति / अधिवासयति स्म भगवांस्तेषां देवपुत्राणां तूष्णीभावेन सदेवकस्य लोकस्यानुकम्पामुपादाय //
किं कारणं भिक्षवो बोधिसत्त्वः कुलविलोकितं विलोकयति स्म? न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुले वा रथकारकुले वा पुष्कसकुले वा / अथ तर्हि कुलद्वये एवोपपद्यन्ते ब्राह्मणकुले क्षत्रियकुले च / तत्र यदा ब्राह्मणगुरुको लोको भवति, तदा ब्राह्मणकुले उपपद्यन्ते / यदा क्षत्रियगुरुको लोको भवति, तदा क्षत्रियकुले उपपद्यन्ते / एतर्हि भिक्षवः क्षत्रियगुरुको लोकः / तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते / तमर्थं च संप्रतीत्य बोधिसत्त्वस्तुषितवरभवनस्थश्चत्वारि महाविलोकितानि विलोकयति स्म //
SK
एवं चावलोक्य तूष्णीमभूत् / इति हि भिक्षवस्ते देवपुत्राः बोधिसत्त्वस्यान्योन्यं परिपृच्छन्ति स्म - कतमस्मिन् कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठतेति / तत्र केचिदाहुः - इदं वैदेहीकुलं मगधेषु जनपदेषु ऋद्धं च स्फीतं च क्षेमं सुभिक्षं च / इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानम् / अपरे त्वाहुः - न तत्प्रतिरूपम् / तत्कस्मात्? तथा हि - तन्न (Vऐद्य १५) मातृशुद्धं पितृशुद्धं अप्लुतं चञ्चलमनवस्थितं परित्तपुण्याभिष्यन्दितं न विपुलपुण्याभिषिक्तं सत्कुलप्रदेशोपचारं नोद्यानसरस्तडागाकीर्णं कर्वटमिव प्रत्यन्तवासम् / तेन न तत्प्रतिरूपम् //
SK
अपरे त्वाहुः - इदं पुनः कौशलकुलं महावाहनं च महापरिवारं च महाधनं च / तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति / अपरे ऽप्याहुः - तदप्यप्रतिरूपम् / तत्कस्माद्धेतोः? तथा हि - कौशलकुलं मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धम् / हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितम् / तेन न तत्प्रतिरूपम् //
SK
अपरे त्वाहुः - इदं वंशराजकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च / इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानमिति / अपर एवमाहुः - इदमप्यप्रतिरूपम् / किं कारणम्? तथाहि - वंशराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजसं परपुरुषजन्मावृतं च न मातृपितृस्वतेजः कर्माभिनिर्वृत्तं च / उच्छेदवादी च तत्र राजा / तेन तदप्यप्रतिरूपम् //
SK
अपरे ऽप्याहुः - इयं वैशाली महानगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिकावनराजिसंकुसुमिता च अमरभवनपुरप्राकाश्या / सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति / अपर आहुः - साप्यप्रतिरूपा / किं कारणम्? तथा हि - तेषां नास्ति परस्परन्यायवादिता, नास्ति धर्माचरणम्, नोच्चमध्यवृद्धज्येष्ठानुपालिता / एकैक एव मन्यते - अहं राजा, अहं राजेति / न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वम् / तेन साप्यप्रतिरूपा //
SK
अपरे त्वेवमाहुः - इदं प्रद्योतकुलं महाबलं च महावाहनं च परचमूशिरसि विजयलब्धं च / तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति / अपरे त्वेवमाहुः - तदप्यप्रतिरूपम् / किं कारणम्? तथा हि - ते चण्डाश्च चपलाश्च रौद्राश्च परुषाश्च साहसिकाश्च, न च कर्मदर्शिनः / तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति //
SK
अपर एवमाहुः - इयं मथुरा नगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च / राज्ञः सुबाहोः कंसकुलस्य शूरसेनेश्वरस्य राजधानिः / सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति / अपरे त्वाहुः - साप्यप्रतिरूपा / किं कारणम्? तथाहि - स राजा मिथ्यादृष्टिकुलवंशप्रसूतो दस्युराजा / न युज्यते चरमभविकस्य बोधिसत्त्वस्य मिथ्यादृष्टिकुले उपपत्तुम् / तेन साप्यप्रतिरूपा //
मा त्वं नरेन्द्र मयि कामतृषां कुरुष्व शीलव्रतेष्वभिरताय सुसंवृताय / मा ते अपुण्य नृपते भवि दीर्घरात्रमनुमोदया हि मम शीलव्रतोपवासम् // Lअल्_५.५ //
SK
छन्दो ममेष नृपते प्रविशाद्य शीघ्रं प्रासादहर्म्यशिखरे स्थित धार्तराष्ट्रे / सखिभिः सदा परिवृता सुख मोदयेयं पुष्पाभिकीर्णशयने मृदुके सुगन्धे // Lअल्_५.६ //
SK
न च काञ्चुकीय पुरुषा न पि दारकाश्च न च इस्त्रि प्राकृत ममा पुरतः स्थिहेया / नो चामनाप मम रूप न शब्दगन्धान् नान्यत्र इष्टमधुरा शृणुया सुशब्दान् // Lअल्_५.७ //
इति हि भिक्षवो बोधिसत्त्वो मातुः कुक्षिगतः सन् सत्त्वान् प्रतिसंमोदनकुशलो भवति स्मेति / न च कश्चिद्देवो वा नागो वा यक्षो वा मनुष्यो वा अमनुष्यो वा यः शक्नोति स्म बोधिसत्त्वं पूर्वतरं प्रतिसंमोदितुम् / अथ तर्हि बोधिसत्त्व एव तावत् पूर्वतरं प्रतिसंमोदते स्म, पश्चाद्बोधिसत्त्वमाता //
न खलु पुनर्भिक्षवो मायादेवी बोधिसत्त्वकुक्षिगते गुरुकायतां संजानीते स्म अन्यत्र लघुतामेव मृदुतामेव सौख्यतामेव / न चोदरगतानि दुःखानि प्रत्यनुभवति स्म / न च रागपरिदाहेन वा द्वेषपरिदाहेन वा मोहपरिदाहेन वा परिदह्यते स्म / न च कामवितर्कं वा व्यापादवितर्कं वा विहिंसावितर्कं वा वितर्कयति स्म / न च शीतं न चोष्णं वा जिघत्सां वा पिपासां वा तमो वा रजो वा क्लेशं वा संजानीते स्म पश्यति वा / न चास्या अमनापा रूपशब्दगन्धरसस्पर्शा वा आभासमागच्छन्ति स्म / न च पापकान् स्वप्नान् पश्यति स्म / न चास्याः स्त्रीमाया न शाठ्यं नेर्ष्या न स्त्रीक्लेशा बाधन्ते स्म / पञ्चशिक्षापदसमादत्ता खलु पुनः शीलवती दशकुशलकर्मपथे प्रतिष्ठिता तस्मिन् समये बोधिसत्त्वमाता भवति स्म / न च बोधिसत्त्वमातुः क्वचित् पुरुषे रागचित्तमुत्पद्यते स्म, नापि कस्यचित्पुरुषस्य बोधिसत्त्वस्य मातुरन्तिके / ये च केचित्कपिलाह्वये महापुरवरे अन्येषु वा जनपदेषु देवनागयक्षगन्धर्वासुरगरुडभूताविष्टाः स्त्रीपुरुषदारकदारिका वा, ते सर्वे बोधिसत्त्वमातुः सहदर्शनादेव स्वस्थाः स्मृतिप्रतिलब्धा भवन्ति स्म / ते चामनुष्याः क्षिप्रमेव प्रक्रामन्ति स्म / ये च केचिन्नानारोगस्पृष्टाः सत्त्वा भवन्ति स्म, वातपित्तश्लेष्मसंनिपातजै रोगैः पीड्यन्ते स्म, चक्षुरोगेण वा श्रोत्ररोगेण वा घ्राणरोगेण वा जिह्वारोगेण वा ओष्ठरोगेण वा दन्तरोगेण कण्ठरोगेण वा गलगण्डरोगेण वा उरगण्डकुष्ठकिलासशोषोन्मादापस्मारज्वरगलगण्डपिटकविसर्पविचर्चिकाद्यै रोगैः संपीड्यन्ते स्म, तेषां बोधिसत्त्वमाता दक्षिणपाणिं मूर्ध्नि प्रतिष्ठापयति स्म / ते सहप्रतिष्ठापिते पाणौ विगतव्याधयो भूत्वा स्वकस्वकानि गृहाणि गच्छन्ति स्म / अन्ततो मायादेवी तृणगुल्मकमपि धरणितलादभ्युत्क्षिप्य ग्लानेभ्यः सत्त्वेभ्यो ऽनुप्रयच्छति स्म / ते सहप्रतिलम्भादरोगनिर्विकारा भवन्ति स्म / यदा च मायादेवी स्वं दक्षिणं पार्श्वं प्रत्यवेक्षते स्म, तदा पश्यति स्म बोधिसत्त्वं कुक्षिगतम्, तद्यथापि नाम सुपरिशुद्ध आदर्शमण्डले मुखमण्डलं दृश्यते / दृष्ट्वा च पुनस्तुष्टा उदग्रा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता भवति स्म //
शक्र ब्रह्म लोकपाल पूजनाय नायकं त्रीणि काल आगमित्व बोधिसत्त्वमन्तिकम् / वन्दयित्व पूजयित्व धर्म शृणुते वरं प्रदक्षिणं करित्व सर्व गच्छिषू यथागता // Lअल्_६.२७ //
SK
बोधिसत्त्व धर्मकाम एन्ति लोकधातुषु प्रभावियूह आसनेषु ते निषण्ण दृश्यिषु / परस्परं च श्रुत्व धर्म यानश्रेष्ठमुत्तमं प्रयान्ति सर्वि हृष्टचित्त वर्णमाल भाषतो // Lअल्_६.२८ //
SK
ये च इष्टिदारकासु दुःखिता तदा अभूत् भूतस्पृष्ट क्षिप्तचित्त नग्न पांशुम्रक्षिता / ते च सर्व दृष्ट्व माय भोन्ति लब्धचेतना स्मृतीमतीगतीउपेत गेहि गेहि गच्छिषु // Lअल्_६.२९ //
SK
वाततो व पित्ततो व श्लेष्मसंनिपातकैः ये च चक्षुरोग श्रोत्ररोग कायचित्तपीडिता / नैकरूप नैकजाति व्याधिभिश्च ये हता स्थापिते स्म माय मूर्ध्नि पाणि भोन्ति निर्जरा // Lअल्_६.३० //
देव शृणु हि मह्यं भाषतो यं मतं मे अचिरचिरचिरेणा जात उद्यानबुद्धिः / यदि च तव न रोषो नैव दोषो न मोहः क्षिप्रमहु व्रजेया क्रीडौद्यानभूमिम् // Lअल्_७.१ //
मणिकनकनिषिक्तां लुम्बिनीं कारयध्वं विविधवसनरत्नैः सर्ववृक्षां प्रवेथा / विविधकुसुमचित्रं नन्दनं वा सुराणां वदथ च मम शीघ्रं सर्वमेतं विधाय // Lअल्_७.८ //
SK
वचनमिमु निशम्या पारिषद्यैः क्षणेन वाहन कृत सज्जा लुम्बिनी मण्डिता सा /
SK
पारिषद्य आह -
SK
जय जय हि नरेन्द्रा आयु पालेहि दीर्घं सर्व कृतु यथोक्तं कारु देव प्रतीक्ष // Lअल्_७.९ //
SK
सो च नरवरेन्द्रो हृष्टचित्तो भवित्वा गृहवरमनुविष्टो इष्टिकानेवमाह / यस्य अहु मनापो या च मे प्रीतिकामा सा मि कुरुत आज्ञां मण्डयित्वात्मभावम् // Lअल्_७.१० //
एकरथवरेस्मिं तिष्ठतां मायदेवी मा च पुरुष इस्त्री अन्य तत्रारुहेया / नारि विविधवर्मा तं रथं वाहयन्तां मा च प्रतिकूलं मा मनापं श्रुणेष्या // Lअल्_७.१३ //
शक्रमपि च ब्रह्मपालापि चान्या च या देवता तुष्टमुदितचित्ता पार्श्वे स्थिता नामयन्तो भुजाम् / सो च पुरुषसिंह शुद्धव्रतो (भित्त्व) कुक्षिनिर्धावितो कनकगिरिनिकाश शुद्धव्रतो निष्क्रमी नायकः // Lअल्_७.२६ //
SK
शक्रमपि च ब्रह्म तौ पाणिभिः संप्रतीच्छा मुनिं क्षेत्र शतसहस्र संकम्पिता आभ मुक्ता शुभा / अपि च त्रिषु अपायि सत्त्वा सुखी नास्ति दुःखं पुन अमरशतसहस्र पुष्पां क्षिपी भ्रामयन्त्यम्बरान् // Lअल्_७.२७ //
जय देव नित्यमनुपालय दीर्घमायुः द्वारे स्थिता विपुलपुण्यविशुद्धभासः / मणिरत्नचूडसुविभूषित इर्यवन्तः परिपूर्णचन्द्रवदना शशिनिर्मलाभाः // Lअल्_७.७९ //
SK
छायां न तेष नृपते क्वचिदप्यपश्यन् शब्दं न चैव चरणोत्क्षिपणे शृणोमि / न च मेदिनीं विचरतो रजमुत्क्षिपन्ति तृप्तिं न यान्ति च जनाः समुदीक्षतां वै // Lअल्_७.८० //
SK
कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथ नास्ति ह मानुषाणाम् / गम्भिरश्लक्ष्णसुशिला च सुआकरा च शङ्का हि मे सुरगणा न हि ते मनुष्याः // Lअल्_७.८१ //
यद्वत् सर्षप गोष्पदे व सलिलं खद्योतका वा भवेत् एवं च त्रिसहस्र देवमनुजा ये केचि मानाश्रिताः / मेरूसागरचन्द्रसूर्यसदृशो लोके स्वयंभूत्तमो यं लोको ह्यभिवन्द्य लाभ लभते स्वर्गं तथा निर्वृतिम् // Lअल्_८.५ //
रूपं वैश्रवणातिरेकवपुषं व्यक्तं कुबेरो ह्ययं आहो वज्रधरस्य चैव प्रतिमा चन्द्रो ऽथ सूर्यो ह्ययम् / कामाग्राधिपतिश्च वा प्रतिकृती रूद्रस्य कृष्णस्य वा श्रीमान् लक्षणचित्रिताङ्गमनघो बुद्धो ऽथ वा स्यादयम् // Lअल्_११.३ //
SK
इति //
SK
ततः सा वनदेवता तानृषीन् गाथया प्रत्यभाषत् -
SK
या श्री च वैश्रवणे च वै निवसते या वा सहस्रेक्षणे लोकानां परिपालकेषु चतुषू या चासुरेन्द्रश्रिया / ब्रह्मे या च सहापतौ निवसते कृष्णे च या च श्रिया सा श्री प्राप्य इमं हि शाक्यतनयं नोपैति कांचित्कलाम् // Lअल्_११.४ //
SK
अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रित्य धरणीतले प्रतिष्ठन्ते / ते पश्यन्ति स्म बोधिसत्त्वं ध्यायन्तमानिञ्ज्यमानेन कायेन तेजोराशिमिव ज्वलन्तम् / ते बोधिसत्त्वमुपनिध्याय गाथाभिरभितुष्टुवुः / तत्रैक आह -
ये चापि पूर्वक अभूद्विदु बोधिसत्त्वाः सर्वेभि भार्य सुत दर्शित इस्त्रिगाराः / न च रागरक्त न च ध्यानसुखेभि भ्रष्टाः हन्तानुशिक्षयि अहं पि गुणेषु तेषाम् // Lअल्_१२.४ //
SK
न च प्राकृता मम वधू अनुकूल या स्याद् यस्या न इष्यतु गुणा सद सत्यवाक्यम् / या चिन्ति मह्यमभिराधयते ऽप्रमत्ता रूपेण जन्मकुलगोत्रतया सुशुद्धा // Lअल्_१२.५ //
SK
सो गाथलेख लिखिते गुणअर्थयुक्ता या कन्य ईदृश भवे मम तां वरेथा / न ममार्थु प्राकृतजनेन असंवृतेन यस्या गुणा कथयमी मम तां वरेथा // Lअल्_१२.६ //
SK
या रूपयौवनवरा न च रूपमत्ता माता स्वसा व यथ वर्तति मैत्रचित्ता / त्यागे रता श्रमणब्राह्मणदानशीला तां तादृशां मम वधूं वरयस्व तात // Lअल्_१२.७ //
SK
यस्या न मानु न खिलो न च दोषमस्ति न च शाठ्य ईर्ष्य न च माय न उज्जुभ्रष्टा / स्वप्नान्तरे ऽपि पुरूषे न परे ऽभिरक्ता तुष्टा स्वकेन पतिना शयते ऽप्रमत्ता // Lअल्_१२.८ //
SK
न च गर्विता न पि च उद्धत न प्रगल्भा निर्मान मानविगतापि च चेटिभूता / न च पानगृद्ध न रसेषु न शब्दगन्धे निर्लोभभिध्यविगता स्वधनेन तुष्टा // Lअल्_१२.९ //
SK
सत्ये स्थिता न पि च चञ्चल नैव भ्रान्ता न च उद्धतोन्नतस्थिता हिरिवस्त्रछन्ना / न च दृष्टिमङ्गलरता सद धर्मयुक्ता कायेन वाच मनसा सद शुद्धभावा // Lअल्_१२.१० //
SK
न च स्त्यानमिद्धबहुला न च मानमूढा मीमांसयुक्त सुकृता सद धर्मचारी / श्वश्रौ च तस्य श्वशुरे यथ शास्तृप्रेमा दासी कलत्र जनि यादृशमात्मप्रेम // Lअल्_१२.११ //
ये कायसंवृत सुसंवृतकायदोषाः ये वाचसंवृत सदानवकीर्णवाचः / गुप्तेन्द्रिया सुनिभृताश्च मनःप्रसन्नाः किं तादृशान वदनं प्रतिछादयित्वा // Lअल्_१२.४२ //
SK
वस्त्रा सहस्र यदि छादयि आत्मभावं चित्तं च येषु विवृतं न हिरी न लज्जा / न च येषु ईदृश गुणा नपि सत्यवाक्यं नग्ने विनग्नतर ते विचरन्ति लोके // Lअल्_१२.४३ //
SK
याश्चित्तगुप्त सततेन्द्रियसंयताश्च न च अन्यसत्त्वमनसा स्वपतीन तुष्टाः / आदित्यचन्द्रसदृशा विवृतप्रकाशा किं तादृशान वदनं प्रतिछादयित्वा // Lअल्_१२.४४ //
SK
अपि च -
SK
जानन्ति आशयु मम ऋषयो महात्मा परचित्तबुद्धिकुशलास्तथ देवसंघाः / यथ मह्य शीलगुणसंवरु अप्रमादो वदनावगुण्ठनमतः प्रकरोमि किं मे // Lअल्_१२.४५ //
SK
अश्रोषीद्भिक्षवो राजा शुद्धोदनो नाम गोपायाः शाक्यकन्याया इमामेवंरूपां सर्वां गाथां प्रतिभाननिर्देशम् / श्रुत्वा च पुनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ऽनेकरत्नप्रत्युप्तेन दूष्ययुगेन कोटीशतसहस्रमूल्येन च मुक्ताहारेणाभिजातलोहितमुक्ताप्रत्युप्तया च सुवर्णमालया गोपां शाक्यकन्यामभिच्छाद्यैनमुदानमुदानयति स्म -
SK
यथा च पुत्रो मम भूषितो गुणैः तथा च कन्या स्वगुणा प्रभासते / विशुद्धसत्त्वौ तदुभौ समागतौ समेति सर्पिर्यथ सर्पिमण्डे // Lअल्_१२.४६ //
दृष्टा ति पूर्विं सत्त्वसार गङ्गवालुकोपमा कृता ति तेष बुद्धपूज अप्रमेयचिन्तिया / वराग्रबोधि एषमाण सत्त्वमोक्षकारणादू अयं स कालु प्राप्तु सूरु निष्क्रमा पुरोत्तमात् // Lअल्_१३.५६ //
SK
प्रथमेन ते अमोघदर्शि शालपुष्पपूजितो विरोचनः प्रसन्नचित्त प्रेक्षितः क्षणान्तरम् / हरीतकी च एक दत्त दुन्दुभिस्वराय ते तृणोत्थ गृह्य धारिता ति दृष्ट चन्दनं गृहम् // Lअल्_१३.५७ //
एति चान्यि सत्त्वसार ये ति पूर्व पूजिता नानारूप विचित्र पूज अन्यजन्यकुर्वता / स्मराहि ते अतीत बुद्ध ता च पूज शास्तुनां अनाथसत्त्व शोकपूर्ण मा उपेक्षि निष्क्रमा // Lअल्_१३.६४ //
क्षीणा ति कल्प अप्रमेय ते च बुद्ध निर्वृता तवापि सर्व आत्मभावि ते च नाम क्व गता / क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते अनित्य काम राज्यभोग निष्क्रमा पुरोत्तमात् // Lअल्_१३.६६ //
SK
जरा च व्याधि मृत्यु एन्ति दारुणा महाभया हुताशनो व उग्रतेज भीम कल्पसंक्षये / क्षयान्तधर्मि सर्वि भावु नास्ति नित्यु संस्कृते सुकृच्छ्र प्राप्त सत्त्व* * निष्क्रमा गुणंधरा // Lअल्_१३.६७ //
किं सारथे पुरुष शान्तप्रशान्तचित्तो नोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी / काषायवस्त्रवसनो सुप्रशान्तचारी पात्रं गृहीत्व न च उद्धतु उन्नतो वा // Lअल्_१४.१३ //
SK
सारथिराह -
SK
एषो हि देव पुरुषो इति भिक्षुनामा अपहाय कामरतयः सुविनीतचारी / प्रवज्यप्राप्तु शममात्मन एषमाणो संरागद्वेषविगतो ऽन्वेति पिण्डचर्या // Lअल्_१४.१४ //
SK
बोधिसत्त्व आह -
SK
साधू सुभाषितमिदं मम रोचते च प्रव्रज्य नाम विदुभिः सततं प्रशस्ता / हितमात्मनश्च परसत्त्वहितं च यत्र सुखजीवितं सुमधुरं अमृतं फलं च // Lअल्_१४.१५ //
आभा इयं तु नरदेव सुखा मनोज्ञा प्रह्लादनी शुभकरी न करोति दाहम् / कुड्या च वृक्ष अभिभूय न चास्ति छाया निःसंशयं गुणधरो इह अद्य प्राप्तः // Lअल्_१५.२ //
SK
सो प्रेक्षते दशदिशो नृपती विषण्णो दृष्टश्च सो कमललोचन शुद्धसत्त्वः / सो ऽभ्युत्थितुं शयनि इच्छति न प्रभोति पितृगौरवं जनयते वरशुद्धबुद्धिः // Lअल्_१५.३ //
SK
सो च स्थिहित्व पुरतो नृपतिं अवोचत् मा भूयु विघ्न प्रकरोहि म चैव खेदम् / नैष्क्रम्यकालसमयो मम देव युक्तो हन्त क्षमस्व नृपते सजनः सराष्ट्रः // Lअल्_१५.४ //
SK
तं अश्रुपूर्णनयनो नृपती बभाषे किंचित्प्रयोजनु भवेद्विनिवर्तने ते / किं याचसे मम वरं वद सर्व दास्ये अनुगृह्ण राजकुलु मां च इदं च राष्ट्रम् // Lअल्_१५.५ //
SK
तद बोधिसत्त्व अवची मधुरप्रलापी इच्छामि देव चतुरो वर तान् मि देहि / यदि शक्यसे ददितु मह्य वसे ति तत्र तद् द्रक्ष्यसे सद गृहे न च निष्क्रमिष्ये // Lअल्_१५.६ //
SK
इच्छामि देव जर मह्य न आक्रमेय्या शुभवर्ण यौवनस्थितो भवि नित्यकालम् / आरोग्यप्राप्तु भवि नो च भवेत व्याधिः अमितायुषश्च भवि नो च भवेत मृत्युः (संपत्तितश्च विपुला नु भवेद्विपत्तिः) // Lअल्_१५.७ //
SK
राजा श्रुणित्व वचनं परमं दुखार्तो अस्थानु याचसि कुमार न मे ऽत्र शक्तिः / जरव्याधिमृत्युभयतश्च विपत्तितश्च कल्पस्थितीय ऋषयो ऽपि न जातु मुक्ताः // Lअल्_१५.८ //
SK
यदिदानि देव चतुरो वर नो ददासि जरव्याधिमृत्युभयतश्च विपत्तितश्च / हन्त शृणुष्व नृपते अपरं वरैकं अस्माच्च्युतस्य प्रतिसंधि न मे भवेया // Lअल्_१५.९ //
न च मम विषयेषु संरज्यते मानसं देहि मे छन्दका कण्ठकालंकृतं अश्वराजोत्तमम् / पूर्ण मे मङ्गला ये पुरा चिन्तिता भेष्यि सर्वाभिभू सर्वधर्मेश्वरो धर्मराजो मुनिः // Lअल्_१५.४६ //
नगरे इस्त्रिक दारकाश्च पुरुषा याश्चाभवन् दारिकाः सर्वे ते शयिता किलान्तमनसो ईर्यापथेभ्यश्च्युताः / हस्ति अश्वगवाश्च सारिकशुकाः क्रोञ्चा मयूरास्तथा सर्वे ते शयिता किलान्तमनसः पश्यन्ति रूपं न ते // Lअल्_१५.७१ //
SK
ये चा ते दृढवज्रतोमरधरा शाक्यैः सुताः स्थापिताः हस्तिअश्वरथेषु तोरणवरे ते चाप्यवस्वापिताः / राजा राजकुमार पार्थिवजनः सर्वे प्रसुप्ता भवन् अपि चा नारिगणा विनग्नवसना सुप्ता न ते बुद्धिषू // Lअल्_१५.७२ //
SK
सो च ब्रह्मरुतो मनोज्ञवसनः कलविङ्कघोषस्वरो रात्रौ निर्गत अर्धरात्रसमये तं छन्दकं अब्रवीत् / साधू छन्दक देहि कण्ठकु मम स्वालंकृतं शोभनं मा विघ्नं कुरु मे ददाहि चपलं यदि मे प्रियं मन्यसे // Lअल्_१५.७३ //
SK
क्व त्वं यास्यसि सत्त्वसारथिवरा किं अश्वकार्यं च ते कालज्ञः समयज्ञ धर्मचरणो कालो न गन्तु क्वचित् / द्वारास्ते पिथिता दृढार्गलकृता को दास्यते तां तव / शक्रेणा मनसाथ चेतनवशात्ते द्वार मुक्ता कृताः दृष्ट्वा छन्दक हर्षितो पुन दुखी अश्रूणि सो ऽवर्तयी / हा धिक्को मि सहायु किं तु कुरुमी धावामि कां वा दिशं उग्रंतेजधरेण वाक्यु भणितं शक्यं न संधारितुम् // Lअल्_१५.७४ //
SK
सा सेना चतुरङ्गिनी बलवती किं भू करोतीह हा राजा राजकुमार पार्थिव जनो नेमं हि बुध्यन्ति ते / स्त्रीसंघः शयितस्तथा यशवती ओस्वापिता देवतैः हा धिग्गच्छति सिध्यते ऽस्य प्रणिधिर्यश्चिन्तितः पूर्वशः // Lअल्_१५.७५ //
इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म / अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात् पर्यङ्केन / न च ईर्यापथाच्च्यवते स्म / नातपाच्छायामगमन्न छायाया आतपम् / न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म / न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म / न च समिञ्जनप्रसारणमकरोत् / न च पार्श्वोदरपृष्ठस्थानेनास्थात् / ये ऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, ते ऽपि बोधिसत्त्वस्य काये निपतन्ति स्म / न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् / न चेन्द्रियाणि पिथयति स्म / न चेन्द्रियार्थान् गृह्णिते स्म / ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म / तेन च क्रीडन्ति स्म / पांशुभिश्चैनं म्रक्षयन्ति स्म //
ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म / प्रणिधानानि च कुर्वन्ति स्म //
तत्र बोधिसत्त्वमादित एव दुष्करचर्यां चरन्तं दश ग्रामिकदुहितरः कुमार्य उपगच्छन् दर्शनाय वन्दनाय पर्युपासनाय च / तैरपि पञ्चकैर्भद्रवर्गीयैरुपस्थितो ऽभूत् / एककोलतिलतण्डुलप्रदानेन (Vऐद्य १९४) च प्रतिपादितो ऽभूत् / बला च नाम दारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमला च सुन्दरी च कुम्भकारी च उलुविल्लिका च जटिलिका च सुजाता च नाम ग्रामिकदुहिताः / आभिः कुमारिकाभिर्बोधिसत्त्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् / ताश्चाभ्यवहृत्य बोधिसत्त्वः क्रमेण गोचरग्रामे पिण्डाय चरन् वर्णरूपबलवानभूत् / तदग्रेण बोधिसत्त्वः सुन्दरः श्रमणो महाश्रमण इत्याचक्षते //
SK
तत्र च भिक्षवः सुजाता ग्रामिकदुहिता बोधिसत्त्वस्य दुष्करचर्यां चरतः आदित एव बोधिसत्त्वस्य व्रततपःसमुत्तारणार्थं शरीरस्याप्यायनहेतोश्च प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म / एवं च प्रणिदधाति स्म - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येतेति //
SK
तस्य मे भिक्षवः षड्वर्षव्यतिवृत्तस्य काषायाणि वस्त्राणि परिजीर्णान्यभूवन् / तस्य मे भिक्षव एतदभूत् - सचेदहं कौपीनप्रच्छादनं लभेयम्, शोभनं स्यात् //
षड्वर्ष व्रत उत्तरित्व भगवान् एवं मतिं चिन्तयन् सो ऽहं ध्यानअभिज्ञज्ञानबलवानेवं कृशाङ्गो ऽपि सन् / गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुद्धितुं नो मे स्यादनुकम्पिता हि जनता एवं भवेत् पश्चिमा // Lअल्_१८.२३ //
रणकालि प्राप्ति यदि नाम जयो न दोषः तत्रैव यस्तु निहतो भवते स दोषः / स्वप्नान्तरे तु यदि ईदृश ते निमित्ता श्रेयो उपेक्ष म रणे परिभावु गच्छेत् // Lअल्_२१.१२ //
SK
मारो ऽब्रवीत् -
SK
व्यवसायबुद्धि पुरुषस्य रणे प्रसिद्धि अवलम्ब्य धैर्य सुकृतं यदि नो जयं स्यात् / का तस्य शक्ति मम दृष्टि सपारिषद्यं नोत्थातु मह्य चरणे शिरसा प्रपत्तुम् // Lअल्_२१.१३ //
SK
सार्थवाह आह -
SK
विस्तीर्णमस्ति हि बलं च सुदुर्बलं च अस्त्येक शूरु बलवांश्च रणंजहश्च / खद्योतकैर्यदि भवेत्त्रिसहस्र पूर्णा एको रविर्ग्रसति निष्प्रभतां करोति // Lअल्_२१.१४ //
SK
अपि च /
SK
यस्य मानश्च मोहश्च मीमांसा च न विद्यते / विलोम यदि विद्वांसो नासौ शक्यश्चिकित्सितुम् // Lअल्_२१.१५ //
भयं हि ते तात भृशं किमर्थं सेनाय मध्ये किमवस्थितस्य / सेना न तस्यास्ति कुतः सहायाः कस्माद्भयं ते भवतीह तस्मात् // Lअल्_२१.४२ //
SK
दक्षिण एकाग्रमतिराह -
SK
यूथं न लोके ऽस्ति शशीरवीनां न चक्रवर्ती न च केसरीणाम् / न बोधिसत्त्वानिह तात यूथं एकः समर्थो नमुचिं निहन्तुम् // Lअल्_२१.४३ //
SK
वामे ऽवतारप्रेक्ष्याह -
SK
न शक्तिशूला न गदा न खङ्गाः न हस्तिनो ऽश्वा न रथा न पत्तिः / तं शौण्डमेकं श्रमणं निषण्णं हन्स्ये ऽद्य मा संभ्रम तात किंचि // Lअल्_२१.४४ //
SK
दक्षिणे पुण्यालंकार आह -
SK
नारायणस्य यथ काय अछेद्यभेद्यो क्षान्तिबलैः कवचितो दृढवीर्यखङ्गः / त्रिविमोक्षवाहनसि प्रज्ञधनुः स तात पुण्याबलेन स हि जेष्यति मारसेनाम् // Lअल्_२१.४५ //
SK
वामे ऽनिवर्त्याह -
SK
न निवर्तते तृणगतः प्रदहन् दवाग्निः क्षिप्तं शरो न च निवर्तति शिक्षितेन / वज्रं नभे निपतितं न निवर्तते च न स्थानमस्ति मम शाक्यसुतं ह्यजित्वा // Lअल्_२१.४६ //
शक्य तात् अन्तरीक्षे लेख्यचित्र चित्रितुं यावन्ति केचि सर्व सत्त्व एकचित्त स्थापितुम् / चन्द्रासूर्य मारुतं च शक्य पाश बन्धितुं न बोधिसत्त्व शक्य तात बोधिमण्डि चालितुम् // Lअल्_२१.४८ //
SK
वामे ऽनुपशान्त आह -
SK
दृष्टीविषेण महता प्रदहामि मेरुं भस्मीकरोमि सलिलं च महोदधीनाम् / बोधिं च पश्य श्रमणं च अहं हि तात दृष्ट्या यथाद्य उभयं हि करोमि भस्मम् // Lअल्_२१.४९ //
कामादासु भवीति यो नर प्रमदानां शीले उत्पथि ध्यायि उत्पथि मतिहीनो / ज्ञाने सो हि सुदूरि तिष्ठते रतिलोलो यो ऽसौ धर्मरतिं जहित्वना रमि कामैः // Lअल्_२१.१०७ //
SK
नो रागेण सही वसाम्यहं न च दोषैः नो नैर्नित्यअशुभअनात्मभिर्वसि सार्धम् / आरातीयरतीयसंवशेन च सार्धं निर्मुक्तं मम चित्तु मारुतो गगने वा // Lअल्_२१.१०८ //
SK
पूर्णं सर्वजगत्त्वमीदृशैर्यदिह स्यात् कल्पं ताभि सहा समोसृतो विहरेयम् / नो वा मह्य खिलं न रज्यना न च मोहो आकाशःसमतुल्यमानसा जिन भोन्ति // Lअल्_२१.१०९ //
याव च यौवनं न गलितं प्रथमवयधरो याव च व्याधि नाक्रमति ते न च जर असिता / याव च रूपयौवनधरो वयमपि च सुखी ताव नु भुङ्क्ष्व कामरतयः प्रहसितवदनः // Lअल्_२१.११७ //
SK
बोधिसत्त्व आह -
SK
याव च दुर्लभो ऽद्य लभितः क्षणवर अमृतो याव च वर्जिता क्षणदुखा असुरसुरपुरे / याव जरा च व्याधिमरणं न कुपितरूपवं तावहु भावयिष्यि सुपथं अभयपुरगमम् // Lअल्_२१.११८ //
SK
ता आहुः -
SK
देवपुरालये ऽप्सरवृतस्त्रिदशपतिरिवा यामसुयामसंतुषितके अमरवरस्तुतो / मारपुरे च कामरतयः प्रमदवशगतः क्रीड्यनुभुङ्क्ष्व अस्मभि सहा विपुलरतिकरः // Lअल्_२१.११९ //
SK
बोधिसत्त्व आह -
SK
काम तृणोसबिन्दुचपला शरदघनसमा पन्नगकन्यरोषसदृशा भृशभयकरणा / शक्रसुयामदेवतुषिता नमुचिवशगताः को ऽत्र रमेत नर्यभिलषिते व्यसनपरिगते // Lअल्_२१.१२० //
श्लक्ष्णा मधुरं च भाषते न च रक्तो गुरु गुह्यं च निरीक्षते न च दुष्टः / ईर्यां चर्यां च प्रेक्षते न च मूढः काया सर्व पनेति आशयो सुगभीरः // Lअल्_२१.१३१ //
SK
निःसंशयेन विदिताः पृथु इस्त्रिदोषाः कामैर्विरक्तमनसो न च रागरक्तः / नैवास्त्यसौ दिवि भुवीह नरः सुरो वा यस्तस्य चित्तचरितं परिजानयेया // Lअल्_२१.१३२ //
ये चेतना अपि च ये च अचेतना च वृक्षाश्च शैल गरूडेन्द्रसुरेन्द्रयक्षाः / अभ्योनता अभिमुखा गुणपर्वतस्य श्रेयो भवे प्रतिनिवर्तितुमद्य तात // Lअल्_२१.१३७ //
SK
अपि च /
SK
न तं तरेद्यस्य न पारमुत्तरे न तं खनेद्यस्य न मूलमुद्धरेत् / न कोपयेत्तं क्षमयेत्पुनोपि तं कुर्यान्न तं येन भवेच्च दुर्मनाः // Lअल्_२१.१३८ //
इयमपि नरसिंहस्यासनस्थस्य क्रीडा शशिरविमणिवह्निविद्युताभा च दिव्या / न तपति अभिभूता भानुवत्योर्णपाशा न च जगदिह कश्चित्प्रेक्षते शास्तु मूर्धम् // Lअल्_२२.२४ //
न च शक्य सर्वि गणनाय अनुप्रवेष्टुं ये आगता दशदिशेभिरिहाग्रसत्त्वाः / अध्येषि शाक्यकुलनन्दन धर्मचक्रे प्रह्वा कृताञ्जलिपुटाश्चरणौ निपत्य // Lअल्_२६.२८ //
SK
या बोधिमण्डि प्रकृता च सुरैर्वियूहा या वा वियूह कृत सर्वजिनात्मजेभिः / सा सर्व संस्थित वियूह ति धर्मचक्रे परिपूर्णकल्प भणमानु क्षयं न गच्छेत् // Lअल्_२६.२९ //
चक्षुरनित्यमध्रुवं तथ श्रोत घ्राणं जिह्वा पि काय मन दुःखा अनात्म शून्या / जडास्वभाव तृणकुड्म इवा निरीहा नैवात्र आत्म न नरो न च जीवमस्ति // Lअल्_२६.३२ //
SK
हेतुं प्रतीत्य इमि संभुत सर्वधर्मा अत्यन्तदृष्टिविगता गगनप्रकाशा / न च कारको ऽस्ति तथ नैव च वेदको ऽस्ति न च कर्म पश्यति कृतं ह्यशुभं शुभं वा // Lअल्_२६.३३ //
संकल्पकल्पजनितेन अयोनिशेन भवते अविद्य न पि संभवको ऽस्य कश्चि / संस्कारहेतु ददते न च संक्रमो ऽस्ति विज्ञानमुद्भवति संक्रमणं प्रतीत्य // Lअल्_२६.३५ //
SK
विज्ञान नाम तथ च रूप समुत्थितास्ति नामे च रूपि समुदेन्ति षडिन्द्रियाणि / षडिन्दियैर्निपतितो इति स्पर्श उक्तः स्पर्शेन तिस्र अनुवर्तति वेदना च // Lअल्_२६.३६ //
SK
यत्किंचि वेदयितु सर्व सतृष्ण उक्ता तृष्णात सर्व उपजायति दुःखस्कन्धः / उपादानतो भवति सर्व भवप्रवृत्तिः भवप्रत्यया च समुदेति हि जातिरस्य // Lअल्_२६.३७ //
SK
जातीनिदान जरव्याधिदुखानि भोन्ति उपपत्ति नैक विविधा भवपञ्जरे ऽस्मिन् / एवमेष सर्व इति प्रत्ययतो जगस्य न च आत्म पुद्गलु न संक्रमको ऽस्ति कश्चि // Lअल्_२६.३८ //
यस्मिंश्च मार्षा ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा चंक्रमे वा विहारे वा अयं ललितविस्तरो धर्मपर्यायः प्रचरिष्यति, तत्राष्टौ भयानि न प्रभविष्यन्ति स्थापयित्वा पूर्वकर्मविपाकम् / कतमान्यष्टौ? तद्यथा - यदुत राजसंक्षोभभयं न भविष्यति / चौरसंक्षोभभयं न भविष्यति / व्यालसंक्षोभभयं न भविष्यति / दुर्भिक्षकान्तारसंक्षोभभयं न भविष्यति / अन्योन्यकलहविवादविग्रहसंक्षोभभयं न भविष्यति / देवसंक्षोभभयं न भविष्यति / नागसंक्षोभभयं न भविष्यति / यक्षसंक्षोभभयं न भविष्यति / सर्वोपद्रवसंक्षोभभयं न भविष्यति / इमानि मार्षास्तत्राष्टौ भयानि न भविष्यन्ति (स्थापयित्वा पूर्वकर्मविपाकम्) //