SKरुद्रस्तेजस्तत्त्व, रुद्रो वा एष यदग्निः इति श्रुतेः | तेन पुरुषनियतिकालरागविद्याकलामायानां परिग्रहः, पुरुषादिकमायान्तं तेजस्तत्त्वं महेश्वरि इति स्वच्छन्दसंग्रहोक्ते | शान्तिः प्रकृति शुद्धविद्या च | अर्धचन्द्राद्युन्मनान्तवर्णाष्टकं नादपदेनोच्यते | नादत्रितयमेव बोधनं येषां ते | करणे ल्युट् || ७९ || एवं सप्तत्रिंशत्संख्याकपदैर्महाविद्या | षट्त्रिंशत्तत्त्वानां तत्त्वातीतस्य चाभिधात्रीयम् || ८० || एवमित्यस्यानन्तरोदीरितश्लोकषट्कोक्तरीत्येत्यर्थः | तत्र हि व्योमबीजपञ्चकम्, कामकलाश्चतस्रः, चन्द्रबीजे द्वे, रेफभूबीजक्रोधीशबिन्दुनादास्त्रयस्त्रयः, श्रीकण्ठदशकम्, एकादशः स्वर एकः, इति संहत्य सप्तत्रिशत् पदान्युपपादितानि | तेषां च तत्त्वानि षट्त्रिंशत्तत्त्वातीतं ब्रह्मैकमित्यर्थः | तानि च यथा-शिवः शक्तिः, सदाशिवः, ईश्वरः, शुद्धविद्या, माया कला, विद्या, रागः, कालः, नियतिः, पुरुषः, प्रकृतिः, अहंकारः, बुद्धिः, मनः, श्रोत्रम्, त्वक्, चक्षुः, जिह्वा, घ्राणम्, वाक्, पाणिः, पादः, पायुः, उपस्थः, शब्दः, स्पर्शः, रूपम्, रसः, गन्धः, आकाशः, वायुः, तेजः, आपः, पृथिवी | एतेषां स्वरूपमुत्पत्तिक्रमश्च सौभाग्यसुधोदये द्रष्टव्यः, विस्तरभयान्नेह लिख्यते | तत्र शिवशक्तिशुद्धविद्याप्रकृतयो बिन्द्वर्थाः | सदाशिवादिपुरुषान्ता नव नादार्थाः | शब्दादय आकाशादयः श्रोत्रादयो वागादयश्च पञ्च पञ्च हकारादेरर्थाः | अहंकारादित्रयं तु ककारत्रयस्य श्रीकण्ठानां वार्थःः | एकादशस्वरस्य तत्त्वातीतमर्थ इति विवेकः | यद्यपि हकारादेः शब्दाद्यर्थकत्ववदिन्द्रियाद्यर्थकत्वं नोक्तम्, तथापि स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी | सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी | तत्त्वातीतस्वभावा च विद्यैषा भाव्यते मया ||