इन्द्रियसम्वरः कतमः || स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति | निपकस्मृतिः | स्मृत्यारक्षितमानसः समावस्थावचारकः [|] स चक्षुषा रूपाणि दृष्ट्वा | न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो [अ]धिकरणम स्य पापका, अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वराय प्रतिपद्यते [|] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (|), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही यतो [अ]धिकरणमस्य पापका (Śभ्_Sह्: १०) अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वरा [य प्रतिपद्यते, रक्षति] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते | अयमुच्यते इन्द्रियसम्वरः |
SK
भोजने मात्रज्ञता कतमा [|] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति | न दर्पार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थं, यावदेवास्य कायस्य स्थितये, [यापनायै, ब्रह्मचर्यानुग्रहाय] इति | पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [|] यात्रा च मे भविष्यति | बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता ||
कथं निपकस्मृतिर्भवति | स तस्यामेव स्मृतौ नित्यकारी च भवति | [निर्याणकारी च भवति] | तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता | तत्र या निर्याणकारिता इयमुच्यते सत्कृत्यकारिता | स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते | स तथारक्षितस्मृतिर्भवति | तथा तां स्मृतिं न संप्रमोषयति | स तथानिपकस्मृतिर्भवति | तथा तस्यामेवाप्रमुषितायां (Śभ्_Sह्: ६६) स्मृतौ बलाधानप्राप्तो भवति | येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां, गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय |
तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं | योयं रागोन्मदः पुद्गलः स रागचरितः [|] यो द्वेषोन्मदः स द्वेषचरितः | यो मोहोन्मदः स मोहचरितः | यो मानोन्मदः स मानचरितः | यो वितर्कोन्मदः स वितर्कचरितः | यः समप्राप्तः समभागचरितः | यो मन्दरजस्कः सो [मन्दचरितो] वेदितव्यः ||
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति | तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति | न च तेनाभिरमन्ते [|] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते | यथा च प्रवर्त्तन्ते, (Śभ्_Sह् २२६) यदा च प्रवर्त्तन्ते | तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [|] अयमेवं रूपस्तेषां प्रयोगः |
SK
तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च | एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति | य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति | ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्वन् रूपस्कन्धमवतरति | या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति | या संजानना[स]संज्ञास्कन्ध इत्यवतरति | या चासौ स्मृतिर्या च चेतना, या च (|) तत्र प्रज्ञा | अयं संस्कार इत्युवतरति | यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति | या तद्बहुलविहारिता | एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः |
स[च्]छिद्रवाहनो मनस्कारः कतमः | यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रतिसंवेदी मनस्कारः | तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते | नैकान्तेन भावनाकारेण प्रवर्त्तते |
ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति | येनोक्तविषयालम्बना[ः], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना[ः |]
SK
तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय | उत्पन्नानां च प्रहाणाय | व्यायच्छते [|] प्रत्यक्षविषयालम्बननानां पुनः | (Śभ्_Sह् ३०९) अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते | तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः | प्रहाणं वा भवति | अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय | उत्पन्नानां प्रहाणाय व्यायच्छते | अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय | उत्पन्नानां च प्रहाणाय वीर्यमारभते | स चेदतीते आलम्बने चरति | तथा चरति | यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते | स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति | प्रजहाति | व्यन्तीकरोति | यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् | एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते | स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति | यथा तेनालम्बनेन क्लेशो नोत्पद्यते | स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते | उत्पन्नं नाधिवासयति | प्रजहाति | विनोदयति | व्यन्तीकरोति | एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय | उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते |
SK
सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते | न विषयबलेन | सन्ति ये संकल्पबलेन च | विषयबलेन च | तत्र संकल्पबलेनोत्पद्यन्ते | तद्यथा विहरतः | अतीतानागतालम्बना ये उत्पद्यन्ते | (Śभ्_Sह् ३१०) तत्र संक्लेशवशे(ले)न च विषयबलेन चोत्पद्यते (न्ते) | तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते | अवश्यं तत्रायोनिशः संकल्पो भवति | तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय | उत्पन्नानां च प्रहाणाय | व्यायच्छते | तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते | तेषामनुत्पन्नानामनुत्पादाय | उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते | तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते | तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति | ये कुशलाधर्मा अप्रतिलब्धा [अ]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [|] चित्तं प्रणिधत्ते [|] तीव्रा प्रतिलब्धुकामता | संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति | अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये |
पुद्गलास्तद्व्यवस्थानं अथो आलम्बनेन च | अववादश्च शिक्षा च तथा शिक्षानुलोमिका[ः] [||] योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः | करणीयं भावना च फलं पुद्गलपर्यायः ||
कथं कालं पर्येषते | तस्यैवं भवति | येयमध्यात्मं [अ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय | अतीतं पुनरध्वानमुपादाय | शुभा बभूव | सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि | वर्तमानमध्वानमुपादाय | एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [अ]शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती | अनागते [अ]ध्वन्यशुभा न भविष्यतीति | नेदं स्थानं विद्यते | तद्यथैषा बाह्या एव[ं] वर्तमानमध्वानमुपादाय | इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते |
SK
कथं युक्तिं समन्वेषते | तस्यैवं भवति | नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा [|] (Śभ्_Sह् ३७६) अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः | शुभमिति वा अशुभमिति वा | अपि च-
स पुनः प्रविचिनोति | यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् | यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् | यो वा पुनरयमेतर्ह्यव्यापादः (Śभ्_Sह् ३८०) एवं मैत्र्या(ः) कृष्णशुक्लशुक्लपक्षं पर्येषते |
SK
स पुनः प्रविचिनोति | ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः | ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय | यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते |
SK
स पुनः प्रविचिनोति | नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् | यस्य वा सुखमुपसंह्रियते | अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः | ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते | प्रसिद्धधर्मता खल्वेषा [अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते |
SK
तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते | तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [|] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते | (Śभ्_Sह् ३८२) पुनः पुनः प्रविचिनोति | द्वादशभवांगानि | अध्यात्मबहिर्धा अधिमुच्यते | एवं वस्तु पर्येषते | पुनः प्रविचिनोति | अविद्या यत्त(त्)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [|] पुनः (||) प्रविचिनोति | एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा (Śभ्_Sह् ३८३) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् | दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च || एषां च सामान्यलक्षणं पर्येषते | स पुनः प्रविचिनोति | यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः | मरण एष धर्मः कृष्णपक्ष्य[ः |] असम्मोहः | पुनः शुक्लपक्ष इति विस्तरेण [|] एम्पक्षं समन्वेषते |
SK
स पुनः प्रविचिनोति | अस्ति कर्मास्ति विपाकः | कारकस्तु नोपलभ्यते | यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् | तेष्वेवाविद्याप्रत्ययेषु (Śभ्_Sह् ३८४) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति |
SK
अपि च द्विविधमेतत्फलं | द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च | आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [|] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [|]
न चैतदीश्वरनिर्माणहेतुकं युज्यते | स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत | स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् | अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति | अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव | तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [|] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते | अथान्यहेतुका (की) तेनेच्छा प्रयत्नः | (Śभ्_Sह् ४८८) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे ऽपि संस्कारा धर्महेतुका एव भविष्यन्ति | किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते |
SK
स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति | तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च |
स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति | (Śभ्_Sह्: ४९०) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे ऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं |
SK
तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति | तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च | अनित्या, निरोधधर्माणः |