Levels of the Disciple

Śrāvakabhūmi · Śरावकभूमि

Levels of the Disciple

Śrāvakabhūmi

Śरावकभूमि

SK
Śरावकभूमिः
SK
I. गोत्रभूमिः
SK
// [|] इन्द्रियैरविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता [|]
SK
तत्र मनुष्यत्वं कतमत् | यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति | पुरुषश्च पुरुषेन्द्रियेण [समन्वागतो भवति | इदमुच्यते मनुष्यत्वं [|]
SK
आर्या[य]तने प्रत्याजातिः कतमा [|] यथापीहै] कत्यो मध्येषु [ज]नपदेषु प्रत्याजातो भवति पूर्ववद्यावद्यत्र गतिः सत्पुरुषाणामियमुच्यते आर्यायतने प्रत्याजातिः [|]
SK
इन्द्रियैरविकलता कतमा [|] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [|] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [|] इदमुच्यते इन्द्रिया वैकल्यं [|]
SK
आयतनगतः प्रसादः कतमः [|] यथापीहैकत्येन तथागतप्रवेदिते धर्मविनये श्रद्धा प्रतिलब्धा भवति | चेतसः प्रसादः [|] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [|] या पुनरत्र श्रद्धा, तेन पूर्वगमेनाधिपत्येन स आयतनगतः प्रसादः [|]
SK
सर्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्मणां, तद्यथा मातृवधात् पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके दुष्टचित्तरुचिरोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमियमुच्यते | अपरिवृत्तकर्मान्तता | इतीमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि [|] दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्ततेत्युच्यते | स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गैः सम्पादितो भवति | तस्मादात्मसम्पदित्युच्यते |
SK
परसम्पत् कतमा [|] तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशनादेशितानां धर्माणां अवस्थानमवस्थितानां चानुप्रवर्त्तनं | परतश्च प्रत्यनुकम्पा [|]
SK
तत्रः बुद्धानामुत्पादः कतमः [|] यथापीहैकत्यः सर्वसर्वसत्वे(त्त्वे)षु कल्याणं हिताध्याशयमुत्पाद्य प्रभूतैर्दुष्करसहस्रैर्महता च पुण्यज्ञानसम्भारेण [] आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्चनिवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् भावयित्वा [अ]नुत्तरां सम्यक्संबोधिमभिसंबुध्यते | अयमुच्यते बुद्धाना[मु]त्पादः | अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेवा [क्लेश आ या] त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावकलोकानुकम्पामुपादाय चत्वार्यार्यसत्यान्यारभ्य दुःख सद्भिरयञ्च धर्मो निर्यातो, देशितः, प्रशस्तो बुद्धैश्च बुद्धश्रावकैश्चा[यमुच्यते बुद्धानामुत्पादः] |
SK
देशितानां धर्माणां अवस्थानं कतमत् | देशिते सद्धर्मे, प्रवर्तिते धर्मचक्रे, यावच्च बुद्धो भगवां(वान्) (Śभ्_Sह्: ८) जीवति, तिष्ठति च, परिनिर्वृते च बुद्धे भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्धर्मश्च नान्तर्धीयते [|] इदमुच्यते सद्धर्मस्यावस्थानं याव[वस्थानं वेदितव्यं] [|]
SK
अवस्थितानां धर्माणामनुप्रवर्त्तनं कतमत् | यत्त एवाधिगन्तार[ः] सद्धर्मस्य, सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्त्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्त्तनं ||
SK
परतः प्रत्यनुकम्पा कतमा | परत उच्यन्ते दा यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितो पधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा ||
SK
कुशलो धर्मच्छन्दः कतमः [|] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्धर्मं श्रुत्वा श्रद्धां प्रतिलभते | स तां प्रतिलभ्य इदं संशिक्षते | संबाधो गृहावासो रजसामावासः | अभ्यवकाशं प्रव्रज्य यन्व(यन्न्व)हं सर्वं कड(ल)त्रवर्गं, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनागारिकां प्रव्रजेयम् | प्रव्रजित्वा (Śभ्_Sह्: ९) (प्रव्रज्य) च प्रतिपत्त्या सम्पादयेयमिति | य एवमुत्पन्नश्छन्दः कुशलेषु धर्मेष्वयमुच्यते कुशलो धर्मछन्दः (च्छन्दः) ||
SK
प्रव्रज्या कतमा [|] या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वाक्कर्मणा उपसम्पत्कुशलैरशी(ःशी)लसमादानं वा [|] इयमुच्यते प्रव्रज्या ||
SK
शीलसम्बरः कतमः [|] स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसम्वरसंवृतः | आचारगोचरसम्पन्नः | अणुमात्रेष्ववद्ये षु भयदर्शी, समादाय शिक्षते शिक्षापदेषु [|] अयमुच्यते शीलसम्वरः ||
SK
इन्द्रियसम्वरः कतमः || स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति | निपकस्मृतिः | स्मृत्यारक्षितमानसः समावस्थावचारकः [|] स चक्षुषा रूपाणि दृष्ट्वा | न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो [अ]धिकरणम स्य पापका, अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वराय प्रतिपद्यते [|] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (|), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही यतो [अ]धिकरणमस्य पापका (Śभ्_Sह्: १०) अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वरा [य प्रतिपद्यते, रक्षति] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते | अयमुच्यते इन्द्रियसम्वरः |
SK
भोजने मात्रज्ञता कतमा [|] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति | न दर्पार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थं, यावदेवास्य कायस्य स्थितये, [यापनायै, ब्रह्मचर्यानुग्रहाय] इति | पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [|] यात्रा च मे भविष्यति | बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता ||
SK
जागरिकानुयोगः कतमः | [सदिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो (Śभ्_Sह्: ११) धर्मेभ्यश्चित्तं परि] शोधयति | स दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य, बहिर्विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्यालोकसंज्ञी, स्मृतः, संप्रजानन्, उत्थानसंज्ञामेव मनसि कुर्वन् स रात्र्याः पश्चिमे यामे [लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्या] मावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्तता [|]
SK
संप्रजानद्विहारिता कतमा [|] स तथा जागरिकानुयुक्तः अति(भि)क्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, साम्मिञ्जितप्रसारिते, सांघाटीचीवरपात्रधारणे, अशितपीतखादितस्वादिते (Śभ्_Sह्: १२) निद्राक्लमविनोदने, गते, स्थिते, निषण्णे, शयिते, जागृते, भाषिते, तूष्णीम्भावे सम्प्रजानद्विहारी भवति | इयमुच्यते सम्प्रजानद्विहारिता ||
SK
प्राविवेक्यं कतमत् [|] स एभिर्धर्मैः परिकर्मभूमिं शोधयित्वा विविक्तानि शयनासनान्यध्यावसत्यरण्यानि, वृक्षमूलानि, शून्यागाराणि, पर्वतकन्दरगिरिगुहापलाल[पुंजा]भ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनादीनीदमुच्यते प्राविवेक्यम् ||
SK
निवरणविशुद्धिः कतमा [|] सो [अ]रण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, पंचभ्यो निवरणेभ्यश्चित्तं विशोधयति | कामच्छन्दाद् व्यापादात्स्त्यानमिद्धादौद्धत्यकौकृत्याद्विचिकित्सायाः [|] स एभ्यो निवरणेभ्यश्चित्तं विशोध्य विनिवरणं समाधिकल्पतायामवस्थापयतीयमुच्यते निवरण विशुद्धिः |
SK
समाधिसन्निश्रय कतमः | स पञ्चनिवरणानि प्रहाय चेतसोपक्लेश(चेतस उपक्लेश)कराणि संक्लेशकराणि | विविक्तं कामैर्विविक्तम्पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति [|] सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं (Śभ्_Sह्: १५) समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति | स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजान[न्] सुखं च कायेन प्रतिसम्वेदयते यत् | तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति स सुखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा(रस्तङ्गमा)ददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति | अयमुच्यते समाधिसन्निश्रयः [|]
SK
सो [अ]नयानूपूर्व्या उत्तरोत्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्यग्रानात्मसम्पत्पूर्वान् समाधि] संनिश्रयपर्यवसानान् समुदानयति | एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा दानुशासनीं प्रतिलभते | एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय | य (त)त्पूर्विकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति | विमुक्तिञ्च परिपूरयति | निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति | तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः | (Śभ्_Sह्: १६) निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः | तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [अ]यं | हीनः समुदागमप्रत्ययो वेदितव्यः | तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः | अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः | इदमुच्यते गोत्रव्यवस्थानं ||
SK
गोत्रस्थस्य पुद्गलस्य कतमानि लिंगानि | आह | यान्यपरिनिर्वाणधर्मकस्य लिंगानि | ( आह | यान्यपरिनिर्वाणधर्मकस्य लिंगानि |) तद्विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि |
SK
कानि पुनरपरिनिर्वाणधर्मकलिंगानि यैः समन्वागतः अपरिनिर्वाणधर्मकः | अपरिनिर्वाणधर्मको ऽयमिति विज्ञेयः | बहून्यपरिनिर्वाणधर्मकलिंगानि | (प्रदेशमात्रं |) प्रदेशमात्रन्तु निर्देक्ष्यामि | इहापरिनिर्वाणधर्मस्य पुद्गलस्यादित एवाल [] तृष्णा सर्वेण सर्वं सर्वथा च सर्वबुद्धैराश्रयसन्निविष्टा अप्रहाणधर्मिणी भवत्यनुत्पाद्या दूरागता प्रगाढसन्निविष्टा [इदं] | इदं प्रथम[म]गोत्रकस्थस्य पुद्गलस्य लिंगं || पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च (Śभ्_Sह्: १७) श्रुत्वा निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् | प्रभूतांश्च श्रुत्वा परीत्तमपि प्रपंचे संसारदोषदर्शनमादीनवदर्शनं | संवेगमात्रं नोत्पादितवानतीतमध्वानमुपादाय नोत्पादयिष्यत्यानागत[मध्वान]मुपादाय नोत्पादयति [वर्त]मानमध्वानमुपादाय परीत्तकल्पमात्रकमवरमात्रकं निर्वाणे, तृष्णाक्षये, विरागे, निरोधे गुणदर्शनमुशन्स (शंस)दर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति | इदं द्वितीयमगोत्रस्थ[स्य पुद्गलस्य] लिंगम् | पुनरपरमगोत्रस्थः पुद्गलः [अनेकपर्या] [येण..............] गामीदुः[खा] पत्राप्येण समन्वागतो भवति | येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्वस्यायमध्याचरति | न च कदाचित्तनि (न्नि)दानं विप्रतिसारी भवति | नान्यत्र // [|] [इदं तृतीयमगोत्रस्थं लिङ्गं [|] पुन]रपरमगोत्रस्थः (Śभ्_Sह्: १८) सर्वाकारपरिपूर्णे [अ]स्य (|) दो[ष]युक्ते चित्रे (त्ते) गमके दुःखं वा आरभ्य, समुदयं वा, निरोधम्वा, मार्गम्वा, सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रे कर्मणि, मुक्तिमात्रे [यदुतातीतमध्वानमुपादायानागतमध्वानमुपादाय य] दुत प्रत्युत्पन्नमध्वानमुपादाय | इदं चतुर्थमगोत्रस्थं लिंगं | पुनरपरमगोत्रस्थः पुद्गलः स चेत् कदाचित् कर्ह (र्हि)चित् स्वाख्याते धर्मविनये प्रव्रजति | स राजा भिनिर्णीतो वा, चो (चौ)राभिनिर्णीतो वा, ऋ[णा]र्तो वा, अजीविकामयभीतो वा, मा[रभयभीतो वा, अश्रमणः श्रमणप्रति] ज्ञः, अब्रह्मचारी ब्रह्मचारी (रि-) प्रतिज्ञः, अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या | न वा शिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसम्पद्भिक्षुभावः | तदनेन पर्यायेणानेनाभिसन्धिना अर्थतो नै[र्याणिकतो [अ]गोत्रस्थः पुद्गलः प्रव्रजित] इति संख्यां गच्छति | इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिंगम् || पुनरपरमगोत्रस्थः पुद्गलो यत्किंचित् कुशलं कर्म करोति | (Śभ्_Sह्: १९) कायेन, वाचा, मनसा वा तत्सर्वं भवाभिप्रायो वा, विशिष्टमायतिपुनर्भवमभिप्रार्थयमानो भोगाभिप्रायो [वा भवति | इदं षष्ठमगोत्रस्थस्य पुद्गलस्य] लिंगं | एवंभागीयानि चास्य बहूनि लिङ्गानि सम्विद्यन्ते यैः समन्वागतः | अपरिनिर्वाणधर्मको [अ]परिनिर्वाणधर्मक इति संख्यां गच्छति ||
SK
तत्र कतमे गोत्रस्थाः पुद्गलाः | आह | अस्ति गोत्रस्थः पुद्गलः | गोत्र एव स्थितो, नावतीर्णो न निष्क्रान्तः [अवतीर्णो न निष्क्रान्तः, अवतीर्णो निष्क्रान्तो], मृद्विन्द्रियो, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितो, द्वेषचरितो, मोहचरितः | अक्षणोपपन्नः | अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः, आवृतो [अ]नावृतः, दूरे, अन्तिके [|] परिपक्वश्चा [अ]परिपक्वश्च, विशुद्धश्चाविशुद्ध[श्च [|] ||
SK
तत्र कतमो गोत्रस्थ एव पुद्गलः | आह |] यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजमोहागतो भवति | न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य, सद्धर्मश्रवणं वा, तथागतप्रवेदिते धर्मविनये श्रद्धां च शीलं च समाददाति | न श्रुतमुद्गृहणाति | न त्यागं बृंहयति, न दृष्टिमृजूक[रोति | अयमुच्यते गोत्रस्थ एव पुद्गलः ||
SK
अ]स्य विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चावतीर्णश्च (Śभ्_Sह्: २०) वेदितव्यः | अयन्तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य | तत्फलस्य च क्लेश विसंयोगस्य ||
SK
कतमो गोत्रस्थश्चावतीर्णश्च निष्क्रान्तश्च || एतदेवोक्त्वा [अ]यं विशेषः [|] लाभी भवत्यार्यमार्गस्य तत्फलस्य च || [|]
SK
[तत्र मृद्विन्द्रियः पुद्गलः कतमः | यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्ब]ने अत्यर्थं धन्धवाहीनीन्द्रियाणि भवन्ति | मन्दवाहीनि वा [|] श्रुतमयेन वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि | यदुत श्रद्धा, वीर्यं, स्मृतिः, समाधिः | प्रज्ञा वा [|] न समर्थानि, न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशुच प्रतिवेधाय | अयमुच्यते मृद्विन्द्रियः पुद्गलः ||
SK
मध्येन्द्रियः कतमः [|] यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्धवाहीनीन्द्रियाणि सर्वं पूर्ववद्विस्तरेण वक्तव्यमयमुच्यते मध्येन्द्रियः पुद्गलः ||
SK
तीक्ष्णे[न्द्रियः पुद्गलः] कतमः [|] यस्य पुद्गलस्य ज्ञेये वस्तुन्यालम्बने [अ]धन्धवाहीनीन्द्रियाणि भवन्ति | अमन्दवाहीनि [|] श्रुतमयेन [वा, (Śभ्_Sह्: २१) चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि | यदुत श्रद्धा, वीर्यं, स्मृतिः,] समाधिः, प्रज्ञा वा [|] शक्तानि भवन्ति धर्मस्य प्रतिवेधाय, अर्थस्य वा आशु च प्रतिवेधाय | [तनु] वा [|] अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः [|]
SK
रागचरितः पुद्गलः कतमः | यो रंजनीये आलम्बने तीव्ररागश्च भवत्यायतरागश्च, अयमुच्यते [रागचरितः पुद्गलः ||
SK
द्वेषचरितः पुद्गलः कतमः | यः प्र] तिघस्थानीये आलम्बने तीव्रद्वेषश्च भवत्यायतद्वेषश्चायमुच्यते द्वेषचरितः पुद्गलः ||
SK
मोहचरितः पुद्गलः कतमः | यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्चायमुच्यते मोहचरितः पुद्गलः ||
SK
अक्षणोपपन्नप्रमत्त[मिथ्याप्रतिपन्नाश्च पुद्गलाः कतमे | अक्षणो] पपन्नाः प्रमत्तामिथ्याप्रतिपन्नानावृता (पन्ना अनावृता) वेदितव्या[ः] ||
SK
दूरे पुद्गलः कतमः | अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे | अस्ति प्रयोगदूरतया (|) तत्र कतमः कालदूरतया दूरे | अनेकैर्जातिशतैरनेकैर्जातिशतसहस्रैः (Śभ्_Sह्: २२) [अनेकजातिशतसहस्रैः] ततः पश्चाद् भव्यो [भवत्याशुप्रत्ययलाभाय | परिनिर्वाणाय | तत्र | प्रयोगदूरतया पु]द्गलो गोत्र एव केवले स्थितो भवति | नावतीर्णः | स भव्यो भवत्याशुप्रत्ययलाभाय | परिनिर्वाणाय [|] स निर्वाणायानारब्धप्रयोगदूरतया [दूरत्वात् प्रयोग] कालदूरतया अयमुच्यते दूरे पुद्गलः || आसन्ने पुद्गलः | .............................
SK
II. अवतारभूमिः
SK
........... यैः षड्भिर्भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतः | अधिमात्रकुशलमूलसमन्वागतः | निष्ठाप्रायोगिको, निष्ठागतश्च |
SK
तत्र कतमो भव्य एव पुद्गलः | यो गोत्रस्थान (नं) चा(भि)ध्यायि(यी) तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते | या च दृष्टिमृजूकरोति |
SK
तत्र कतमो मृदुकुशलमूलसमन्वागतः | यो गोत्रस्थस्तेन वा तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति | यावद् दृष्टि ऋजूकृता [|] अयमुच्यते मृदुकुशलमूलसमन्वागतः [|]
SK
मध्यकुशलमूलसमन्वागतो गोत्रस्थः पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावद्दृष्टिमृजुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिर्वर्त्तयति | विशेषाये(यै)ति |
SK
य[ः] परैति | नो चरममात्मभावं प्रतिलभते | यत्र स्थितः परिनिर्वात्ययमुच्यते | अधिमात्रकुशलमू लसमन्वागतः पुद्गलः |
SK
तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः | यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते | न चाध्मायि (यी?) सर्वेण सर्वं सर्वथा प्रतिपद्यते | आस्रवक्षयमनुप्राप्नोति | न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रायोगिकः पुद्गलः |
SK
तत्र निष्ठागतः पुद्गलः कतमः [|] यः सम्यगावेदितः सम्यगनुशिष्टः | यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते | यत् सर्वेण सर्वं सर्वथा आस्रवक्षयमनुप्राप्नोति | कृतकृत्यो भवति परमशीतीभावप्राप्तः [|] अयमुच्यते निष्ठागतः पुद्गलः ||
SK
तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते | अवतीर्णश्च (Śभ्_Sह्: २७) भवति | सो [अ]वतीर्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति | स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते | परिपक्वश्च भवति | सो [अ]धिमात्रकुशलमूलहेतुसमुदागतेनात्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति | चित्तैकाग्रताञ्च स्पृशति | सम्यक्त्वञ्च न्याममवक्रामति | स्त्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [अ]नागामिफलम्वा साक्षात्करोति | नो त्वग्रफलमर्हत्वं(त्त्वं) साक्षात्करोति | तदा निष्ठाप्रायोगिक इत्युच्यते |
SK
यदा तु सर्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति | तदा निष्ठागतो भवति ||
SK
सैषा सादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः सन्दर्शिता भवति | तत्र गोत्रेणादि[ः] श्रावकचर्यायाः सन्दर्शितः | निष्ठाया (निष्ठया) पर्यवसानं | तदन्येन मध्यं संदर्शितं ||
SK
तत्रावतीर्णानां पुद्गलानां किं परिमाणनियतस्तुल्यश्च सर्वेषां कालो भवति | परिनिर्वाणायाहोस्विदपरिमाणनियतः | (Śभ्_Sह्: २८) अतुल्यनिश्चयः सर्वेषां कालो भवति | न परिनिर्वाणाय आहो नैषां परिमाणनियतः कालो नापि तुल्यः सर्वेषाम्परिनिर्वाणाय [|] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यं | केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुनः क्षिप्रमेव परिनिर्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स] सर्वक्षिप्रं परिनिर्वाति | सो [अ]वश्यं त्रीणि जन्मान्यभि निर्वर्त्तयति | एकस्मिन्नवतरत्येकस्मिं (स्मिन्) परिमुच्यते | एकास्मिं(स्मिन्) जन्मनि परिपक्वो भवति | तत्रैव च परिनिर्वाति | नो चेत् परिनिर्वाति | सो [अ]वश्यं शैक्षकालं करोति | परञ्च सप्तभवानभिनिर्वर्त्तयतीदमुच्यते अवतारव्यवस्थानं |
SK
अवतीर्णस्य पुद्गलस्य कतमानि लिंगानि | इह गोत्रस्थः पुद्गलः अवतीर्णमात्र एव यदा जन्मान्तरपरिवर्त्तेनापि स्मृतिसंप्रमोषं प्रतिलभते | आशास्तरि धर्मविनये वा सति सम्विद्यमाने [अ]पि दुराख्याते धर्मविनये स्वाख्याते [अ]प्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशन्सं(शंसं) श्रुत्वा नावतरति | न प्रव्रजति | प्रव्रजितो [अ]प्यवतीर्णो (Śभ्_Sह्: २९) लघु लघ्वेव प्रत्युदावर्त्तखे | प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते | मधुनि जातस्येव च प्राणकस्य शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्दे(न्दे ?)ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धर्मविनयस्य नैव वर्ण[ं] स्तुतिमानुशन्सं (शंसं) श्रृणोति वा कण्डति वा | अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लघ्वेवावतरति प्रव्रजति वा [|] तथा प्रव्रजितश्चावतीर्णो न प्रत्युदावर्त्तते | प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते | मधुप्राणकस्य वा मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायां | यथापि तत्पूर्वकेणापि हेतुबलाधानेन | इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
पुनरपरमवतीर्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपायक्षणगमनीयैः क्लेशैः | न च पुनरक्षणेपूपपद्यते | अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता |
SK
सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते | अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ||
SK
स यदा अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते [|] (Śभ्_Sह्: ३०) न त्वन्येषु | इदं द्वितीयमवतीर्णस्य पुद्गलस्य लिङ्गम् |
SK
पुनरपरमवतीर्ण[ः] पुद्गलः बुद्धस्य वा, धर्मस्य वा, संघस्य वा गुणांच्छ्रुत्वा, अनुस्मृत्य वा, लभते चेतसः प्रसादमुदारं, कुशलं, नैष्क्रभ्योपसंहितं, भूयो भूयस्तेनालम्बनेन, प्रसादद्रवचित्ततया अस्त्रप्रपाताद्रोमांचा[दीनि] प्रतिलभते इदं तृतीयमवतीर्णस्य पुद्गलस्य (पुद्गलस्य) लिङ्गम् |
SK
पुनरपरमवतीर्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति | यदुत सर्वसावद्द्यस्थानसत्ता (मु)दाचारेष्विदं चतुर्थमवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
पुनरपरमवतीर्णः पुद्गलः छन्दिको भवति | तीव्रछ (च्छ)न्दः उद्देशे, स्वाध्याये, परिपृच्छायां, योगे, मनसिकारे, किंकुशलगवेषी भवति | इदं पञ्चममवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
पुनरपरमवतीर्णः पुद्गलः सर्वकर्मान्तेष्वनवद्येषु स[र्वस]मादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति स्थिरारम्भश्च निश्चितारम्भश्च यदुत समागमाय [|] इदं षष्ठमवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
पुनरपरमवतीर्णः पुद्गलः मन्दरज[स्क]जातीयो भवति | मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति | न च पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा [|] इदं सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
पुनरपरमवतीर्णः पुद्गलो ऽसंलीनचित्तो भवत्युदरेष्वधिगम्येषु स्थानेषु नात्मानम्परिभवति | नाप्रतिबलतायामवतरति | अधिमुक्तिबहुलो भवति | इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ||
SK
इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गलानां लिङ्गानि वेदितव्यानि || येषामेतत् प्रदेशमात्रमाख्यातं ||
SK
पुनरेतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्णस्य मृदूनि भवन्ति | सछि(च्छि)द्राण्यनिरन्तराणि अपरिशुद्धानि [|] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्णस्य पुद्गलस्य लिङ्गानि | यैलिंगैः समन्वागत[ः] अवतीर्ण इति संख्यां गच्छति | अपि पुनरेतानि गोत्रस्थानामवतीर्णानाञ्च पुद्गलानां आनुमानिकानि लिङ्गानि वेदितव्यानि | बुद्धा एव तु भगवन्तः परमपारमि[ता]प्राप्ताश्च श्रावकास्तायिनः | तत्र प्रत्यक्षदर्शिनः | (Śभ्_Sह्: ३२) सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति | यदुत गोत्रं चावतारञ्च [||]
SK
अवतीर्णाः पुद्गलाः कतमे [|] अस्त्यवतीर्णः पुद्गलः | अवतीर्ण एव, न परिपच्यमानो, न परिपक्वो, न निष्क्रान्तः || अस्ति परिपक्वो न निष्क्रान्तः | अस्ति निष्क्रान्तो न परिपक्व एषां च पूर्ववद्विभागो वेदितव्यः || ये [अ]पि तदन्ये मृद्विन्द्रिया दयः पुद्गलाः | गोत्रभूमौ निर्दिष्टाः | तेषामिहापि यथायोगं विभागो वेदितव्यः [|]
SK
तत्र यश्चायमवतारस्य स्वभावः, यच्च व्यवस्थानं, यानि चेमान्यवतीर्णानां लिङ्गानि | ये चेमे अवतीर्णां पुद्गलाः तत्सर्वमभिसंक्षिप्यावतारभूमिरित्युच्यते ||
SK
|| उद्दानम् ||
SK
स्वभावस्तद् व्यवस्थानं लिङ्गं पुद्गल एव च | अवतारभूमिविज्ञेया सर्वमेतत् समासतः ||
SK
||श्रावकभूमा[व]वतारभूमिः समाप्ता ||
SK
नैष्क्रम्यभूमिः
SK
नैष्क्रम्यभूमिः कतमा | आह [|] यच्च लौकिकेन मार्गेण वैराग्यगमनं | यच्च लोकोत्तरेण मार्गेण वैराग्यगमनं | यच्च(यश्च) तयोस्सम्भारः तदेकत्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्यते |
SK
लौकिकेन मार्गेण वैराग्यगमनं कतमत् | यथापीहैकत्यः कामधातावौदारिकदर्शी भवति | प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति | स तथादर्शी तद्बहुलविहारी सत्कायवैराग्यमनुप्राप्नोति | प्रथमञ्च ध्यानं समापद्यते | एवं सर्वध्यानादूर्ध्वं सर्वास्वधरिमासु भूमिष्वौदारिकदर्शी भवति | सर्वासु चोपरिमायु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदाकिञ्चन्यायतनाद्वैराग्यमनुप्राप्नोति | नैवसंज्ञानासंज्ञायतनं च समापद्यते [|] लौकिकेन मार्गेण (Śभ्_Sह्: ३६) वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः |
SK
लोकोत्तरेण मार्गेण वैराग्य गमनं कतमत् | यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति | समुदयम्वा समदयतः | निरोधम्वा निरोधतः | मार्गम्वा मार्गतः | शैक्षेण ज्ञानदर्शनेन समन्वागतः | ततश्चोत्तरि मार्गं भावयंस्त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्योधर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ त्रैधातुकसमतिक्रान्तो भवति | इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ||
SK
तत्र सम्भारः कतमः | तद्यथा आत्मस्वपरसम्पत् (आत्मसम्पत्) | परसम्पत्, कुशलः (लो)धर्म[च्]छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, (Śभ्_Sह्: ३७) सद्धर्मश्रवणचित्तं (चिन्तना) अ[न]न्तरायः त्यागः, श्रमणालंकारश्च इतीमे धर्मा लौकिकलोकोत्तरवैराग्य[गम]नाय सम्भार इत्युच्यते | तत्र या चात्मसम्पत्, परसम्पत् कुशलश्च धर्मछ(च्छ)न्द एषां पूर्ववद्विभागो वेदितव्यः | यदुक्तं निहीने बीजसमुदागमप्रत्यये |
SK
तत्र शीलसम्वरः कतमः [|] यथापीहैकत्यः शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेषु [|] कथं च शीलवान् विहरति | यावत् समादाय शिक्षते शिक्षापदेषु [|] (कथं शीलवान् विहरति |) यथा समात्तेषु शिक्षापदेषु अविपन्नकायकर्मान्तश्च, भवत्यविपन्नकायकर्मान्तश्च | अखण्डचारी, अछि(च्छि)द्रचारी एवं शीलवान् भवति ||
SK
कथं प्रातिमोक्षसम्वरसंवृतो भवति | सप्तनैर्याणिकं शीलं प्रातिमोक्षसम्वर इत्युच्यते | त एते निकायभेदेन बहवः सम्वरा भवन्ति | अस्मिंस्त्वर्थे (Śभ्_Sह्: ३८) भिक्षुसम्वरमधिष्ठायाह प्रतिमोक्षसम्वरसंवृतः |
SK
कथमाचारसम्पन्नो भवति | यथापि तदीर्यापथमितिकरणीय(यं) वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुवर्त्तिना, लोकानुत्क्रान्तेन, विनयानुवर्त्तिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति |
SK
तत्र ईर्यापथाधिष्ठान आचारः | कथं न लोकानु(को)त्क्रान्तो [न] विन योत्क्रान्तः [|] यथापि तद्यत्र चंक्रमितव्यं | यथा चंक्रमितव्यं [|] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकगर्हितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति | [अ]गर्ह्यस्थानीयः | यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या |
SK
तत्र इतिकरणीय आचारः | कथं न लोकोत्क्रान्तो भवति | न विनयोत्क्रान्त इति करणीयमुच्यते | चीवराच्छादनं | उच्चारवस्त्रावं | उदकदन्तकाष्ठं | ग्रामप्रवेशः | पिण्डपातनिर्हारपरिभोगः | पात्रनिर्मार्द (र्ज)नं स्थापनं च | पादप्रक्षालनं च | शयनासनप्रज्ञप्तिः | तस्यैव चाभिसंक्षेपः पात्रकर्म चीवरकर्म इति | यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते | तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति | (Śभ्_Sह्: ३९) येन लौकिकानामनभ(भि)योज्यो भवत्यविगर्हितः | विनयधराणां [विनयशिक्षिताना] मनपवाद्यो भवत्यविगर्हितः | सम्यग्रतानां सहधार्मिकाणामेवमितिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति | विनयानुत्क्रान्तश्च ||
SK
तत्र कुशलपक्षप्रयोगधिष्ठान आचारः [|] कथं लोकानुत्क्रान्तश्च भवति, विनयानुत्क्रान्तश्च [|] कुशलपक्षौच्यते [|] तद्यथा स्वाध्यायगुरूणां सामीचीकर्म, उपस्था(प)नं च, तथा ग्लानोपस्थानमन्यो [अ]न्यमनुकम्पाचित्तमुपस्थाप्य च्छन्ददान[स]मुप्रयोगः, परिपृच्छा, धर्मश्रवणदक्षस्यानलसस्य विज्ञानां सब्रह्मचारिणां कायेन चैया(चेर्या) कृत्यक्रिया, परेषां च कुशलपक्षसमुदापना, धर्मदेशना | प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धानिषद्या इति य एवं भागीया अप्यन्ये धर्मा अयमुच्यते | कुशलपक्षप्रयोगः [|] स एवं कुशलपक्षप्रयोगो (गं) यथायोगं यथापरिकीर्तितं | यत्र कल्पयितव्यं तत्र तथा कल्पयति | येन नानुयोज्यो भवति | गर्हितो लौकिकानां विनयधराणां, विनयशिक्षितानां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणामयमुच्यते कुशलपक्ष (Śभ्_Sह्: ४०) प्रयोगाधिष्ठान आचार(रो) लोकानुत्क्रान्तो, विनयानुत्क्रान्तश्च [|] य एभिराकारैः सम्पन्न आचार इयमुच्यते आचारसम्पत् | एवं चाचारसम्पन्नो भवति |
SK
कथञ्च गोचरसम्पन्नो भवति | पञ्च भिक्षोरगोचराः (|) कतमे पञ्च [|] तद्यथा घोषो, वेषं (वेश्या-)पानागारः, राजकुलं, चण्डालकठिनमेव पञ्चममिति | य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वा अन्यत्र गोचरे चरत्यनवद्ये तत्र कालेनैवं गोचरसम्पन्नो भवति ||
SK
कथमणुमात्रेष्ववद्येषु भयदर्शी भवति | अणुमात्रमवद्यमुच्यते | क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि येष्वध्यापत्तिर्व्युत्थानं च प्रज्ञायते | तेषां याध्यापत्तिरिदमवद्यमणुमात्रं | पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छेण व्युत्तिष्ठते येन तदणुमात्रमित्युच्यते |
SK
तत्र कथं भयदर्शी भवति | सा है वाह(सो ऽह)मेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधि[गतस्याधि]गमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा, देवता वा, विज्ञा वा, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुः | दिग्विदिक्षु च मे पापको वर्णकीर्त्तिशब्दश्लोको [अ]भ्युद्गच्छेत्स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्यो वि[शि]ष्टेभ्यो धर्मेभ्यो भयदर्शी भवति | येन तानि क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संधिभ्यो व्यापद्यते | कदाचित् कर्ह(र्हि)चित् स्मृतिसंप्रमोषादध्यापन्नः लघु लघ्वेव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते [|] एवमणुमात्रेष्ववद्येषु भयदर्शी भवति |
SK
कथं समादाय शिक्षते शिक्षापदेषु | (Śभ्_Sह्: ४२) आह [|] पूर्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्वत्र ल(ब्धा)ष्यामीति (लप्स्यामीति) | आचार्योपाध्यायानामन्तिकाच्छ्रुत्वा आलप्तकसंलप्तकसंस्तुतकमप्रियकानां(णाम्) अध्बरमासंगप्रातिमोक्षसूत्रोद्देशतः | ततश्च तेन सर्वशिक्षासमादानात् प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति | तानि तावन्नाध्यापद्यते | अध्यापन्नश्च यथाधर्मं प्रतिकरोति | येषु पुनः शिक्षापदेषु कुशलो भवति | अव्युत्पन्नबुद्धिः | तानि पूर्वं प्रतिज्ञासमादानेन समादत्तान्येतर्हि व्युत्पत्तिकौशल्यतया समाददाति | तेभ्यः पूर्वं यथापरिकीर्त्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत् | व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते | ते[षु गुरु]स्थानीयव्यपदिष्टेषु शिक्षापदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च | एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः ||
SK
तत्र कतमः समासार्थः | तथायं समासार्थस्त्रिलक्षण एव | शीलस्कन्धः परिदीपितो भगवता, तद्यथा (Śभ्_Sह्: ४३) अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश्च | यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातं || यत्पुनराह प्राति मोक्षसम्वरसंवृत इति | अनेन स्वभावलक्षणमाख्यातं | यत्पुनराह | आचारगोचरसम्पन्नः | अनेन परमुपनिधाय, तथा समादत्तस्य प्रातिमोक्षसम्वरस्य गुणलक्षणमाख्यातं | तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः | प्रसन्नाश्च प्रसन्नाधिकारं कुर्वन्ति | न च मनान्सि (मनांसि) प्रदूषयन्ति | नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचारगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा (आनुशंसा) च भवेदेतद्विपर्ययेण वा (चा)स्य दोष एव भवेत् | यत्पुनराह | अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु [|] अनेनाध्यात्माधिपतेयगुणानुशन्स(शंस)लक्षणमाख्यातं | तत्कस्य हेतोर्यदस्येद (म)माचारगोचरसम्पन्नः पराधिपतेयं गुणानुशन्सं (शंसं) प्रतिलभेत | अपि च | शीलं वि पातयित्वा (विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते | अभव्यताम्वा (तांवा) अप्राप्तस्य प्राप्तये पूर्वत् | यत्पुनरणुमात्रेष्ववद्येषु भयदर्शी भवति | प्रागेवाधि मात्रेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात् सुगतावुपपद्यते | भव्यो (Śभ्_Sह्: ४४) वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व[व]दनेन कारणेना ध्यात्माधिपतेयो (अ)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते ||
SK
अपरः पुनः पर्यायः [|] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च [|] तत्र यत्तावदाह | शीलवान्विहरतीत्यनेन समादत्तशीलताख्याता | यत् पुनराह | प्रातिमोक्षसम्वरसंवृत इत्यनेन नैर्याणिकशीलता आख्याता [|] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते | अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षां भावयत्येवमसौ सर्वदुःखक्षयाय | निर्यातो भवति | यदुताधिशीलं प्रतिष्ठाय पूव्वंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणिकं शीलमित्युच्यते | यत्पुनराह | आचारगोचरसम्पन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्वनेन शीलभावना आख्याता | एभिराकारैस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यं | एवं च भावितं सुभावितं भवतीति स एष एकः शीलसम्वरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः ||
SK
स चैष शीलसम्वरो दशभिराकारैर्विपन्नो (Śभ्_Sह्: ४५) वेदितव्यः | विपर्ययाद्दशभिश्चैव कारणैः सम्पन्नः |
SK
कतमैर्दशभिः कारणैर्विपन्नो भवति | आदित एव दुर्गृहीतो भवत्यतिलीनो भवत्यनिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति | मिथ्या प्रणिहितो भवति | आचारविपत्त्या परिगृहीतो भवत्याजीवविपत्त्या परिगृहीतो भवत्यन्तद्वयपतितो भवति || अनैर्याणिको भवति | समादानपरिभ्रष्टश्च भवति ||
SK
तत्र कथमादितो दुर्गृहीतं शीलं भवति | यथापी हैकत्यो राजाभिनिर्णीतो वा, प्रव्रजितश्चौराभिनिर्णीतो वा, ऋणार्त्तोवा, भयार्त्तो वा, वा, अ(आ)जीविकाभयभीतो (Śभ्_Sह्: ४६) वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणायैवमादित[ः |] दुःगृहीतो (दुर्गृहीतं) भवति |
SK
कथमतिलीनो (नं) भवति | यथापीहैकत्यः अलज्जी भवति मन्दकौकृत्यः | शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [अ]यमतिलीनो (नं) भवति ||
SK
कथमतिसृतो (तं) भवति | यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकौकृत्यः | सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [|] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति | प्रवेदयत्येवमतिसृतं (भवति) |
SK
कथं प्रमादकौसीद्यपरिगृहीतं भवति | यथापीहैकत्यो [अ]तीतमध्वानमुपादायापत्तिमापन्नः [|] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति | यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति | सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मप्रतिकृता भवति | न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते | यन्न्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्तिं नाध्यापद्येय, तथा च, तथा चरति, विहरति | यथापत्तिमध्यापद्यते | सो [अ]नेन (Śभ्_Sह्: ४७) पूर्वान्तसहगतेनापरान्तसहगतेन, मध्यान्तसहगतेन, पूर्वकालकरणीयेन सहानुचरेण प्रमादेन समन्वागतो निद्रासुखं, शयनसुखं, पार्श्वसुखं च स्वीकरोति | अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवं (व्यापृत्यैवं) प्रमादकौसीद्यपरिगृहीतं भवति ||
SK
कथं मिथ्याप्रणिहितं भवति | यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति | अनेनाहं शीलेन वा, ब्रतेन वा, तपसा वा, ब्रह्मचर्यवासेन वा, देवो वा स्यां, देवान्यतमो वा, लाभ सत्कारकामो भवति | परतः लाभसत्कारं प्रार्थयते | लाभसत्कारस्य स्पृहयति | एवं मिथ्याप्रणिहितं भवति |
SK
कथमाचारविपत्त्या परिगृहीतं भवति | यथापीहैकत्य ईर्यापथं वाधिष्ठाय इतिकरणीयम्बा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश्च भवति | विनयोत्क्रान्तश्च पूर्ववदेवमाचारविपत्त्या परिगृहीतं भवति |
SK
कथमाजीवविपत्त्या परिगृहीतं भवति | यथापीहैकत्यो (Śभ्_Sह्: ४८) महेच्छो भवत्यसंतुष्टः, दुर्मोषो, दुर्घरजातीयः [|] स चाधर्मेण चीवरं पर्येषते | न धर्मेणा [अ]धर्मेण पिण्डपातं, शयनासनं, ग्लानप्रत्ययभैषज्यपरिष्कारम्पर्येषते | न धर्मेण [|] स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारहेतोः आत्मनो गुणसंभावनानिमित्तमप्राकृतं तिठपित मीर्यापथं कल्पयत्यनुद्धतेन्द्रियतामचपलेन्द्रियतां, शान्तेन्द्रियताञ्च परेषामुपदर्शयति | येनास्य परे गुणसंभावना जाता दातव्यं कर्तव्यं मन्यन्ते | यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् | ध्वाङ्क्षश्च भवति, मुखरः | प्रगल्भः, केलायिता, नामगोत्रोद्गृहीता, बहुश्रुतो भवति | धर्मधरो, लाभकारणादेव च परेषां धर्मं संलपति, श्रावकभाषितं वा, आत्मनो वा गुणान्, भूतान्वा कि[ञ्चिद्वा] पुनः समारोप्य स्वयमेव वक्ता भवति | लापयति वा परैरनुत्तरेण वा उपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी, प्रभूतेन वा, अग्रतरेण वा, अविहन्यमानो ऽपि प्राकृतस्य चीवरस्योपदर्शयिता (Śभ्_Sह्: ४९) भवति | अस्येच्छन् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा (संलक्ष्य) प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यते(न्ते) | यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारं श्राद्धानाञ्च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वा अलभमानः, असत्सु वा [अ]संविद्यमानेषु भोगेष्वलभमान एवंचोपरोधेन याचते | निष्पिष्य निष्पियामि (पि)चैनां परुषयत्यपि हीनम्वा पुनर्लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं मन्स (मंस) यत्यवसादयति | संमुखं च दातारं दानपतिं, एवं चाह [|] हं भोः, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिका नीचकुलीनतराश्च [दरिद्रतराश्च] ते पुनरेवं चैवञ्च प्रणीतदायिनो मन आपदायिनश्च | कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतराश्चान्यतरश्च समान एव समनाप (मन आप)दायी, नाप्रणीतपरीत्तदायी चेति | य एभिराकौरः कुहनाम्बा निश्रित्य, लपनाम्वा, नैमित्तिकताम्वा, नैष्पेषिकताम्वा, लाभेन लाभं निश्चिकीर्षतां, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते | सो [अ]धर्मेण [|] यः पुनरधर्मेण सो [अ]स्य भवति मिथ्याजीवः | एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति |
SK
कथमन्तद्वयपतितं भवति | यथापीहैकत्यः (Śभ्_Sह्: ५०) कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः | प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते | आदीनवादर्शी निःसरणमप्रजानन्नयमुच्यते एको [अ]न्तः | पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति | कष्टव्रतसमादायी च भवति | तद्यथा कण्टकापाश्रयो वा भवति | भस्मादायी मुसलापाश्रयः | फलकापाश्रयो भवति | उत्कुहकस्थितो भवत्युत्कुहकप्रहाणयोगमनुयुक्तः [|] अग्निपरिचारको भवति | यावत् त्रिरप्यग्निं परिच[रति] उदकमध्याहारो भवति | यावत् त्रिरप्युदकमध्यावै(व)हति | एकपादकः स्थित्वा यतः सूर्यस्ततः परिवर्तते | इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते द्वितीयो [अ]न्तः | ए[वमन्त]द्वयपतितं भवति |
SK
कथमनैर्याणिकं भवति | यथापीहै कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति | अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति | मुक्तिर्निर्याणं (Śभ्_Sह्: ५१) भविष्यतीति | सर्वं च शीलमितो बाह्यानां सुरक्ष(क्षि)तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते | एवमनैर्याणिकं भवति |
SK
कथं समादानपरिभ्रष्टं भवति | यथापीहैकत्यः सर्वेण सर्वमलज्जी भ भवति निरपेक्षः | श्रामण्ये स च भवति | दुःशीलः पापधर्मा अन्तः पूतिरवस्रुतः कशम्बोदकजातः | शंखस्वरसमाचारः | अश्रमण[ः] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति |
SK
एभिर्दशभिः कारणैर्विपन्न (न्नं)शीलं शीलविपत्तिरित्युक्ता भगवता [|]
SK
अपि च शीलाभ्यसनमप्युक्तं भगवता [|] द(त)च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम् | या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या | एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शीलसम्पत्तिर्वेदितव्या | शीलविशुद्धिश्च [|] (Śभ्_Sह्: ५२) क्वचित् पुनर्भगवताशीलं मूलार्थेनोक्तं | यथोक्तं-
SK
सुप्रतिष्ठितमूल[ः] स्याच्चित्तस्योपशमे रतः |
SK
संयुक्ता च विसंयुक्ता दृष्ह्यादृष्ह्यार्यपापयेति गाथा ||
SK
क्वचिदलंकार शब्देनोक्तं | यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्वा भिक्षुणी वा अकुशलं प्रजहाति कुशलं भावयति | क्वचिदनुलेपनशब्देनोक्तं | यत्राह | शीलानुलेपनसम्पन्नो भिक्षुर्वा भिक्षुणीवेति पूर्ववत् | क्वचिद्गन्धशब्देनोक्तं | अस्ति तद्दानं यद्गन्धजातं यस्यानुवातमपि गन्धो वाति प्रतिवाम(त)मप्यनुवातमपि गन्धो वाति | क्वचित् सुचरितशब्देनोक्तं | यत्राह | कायसुचरितस्येष्टो विपाको (Śभ्_Sह्: ५३) दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [|] क्वचित्सम्वरशब्देनोक्तम् | यत्राह | दाता दानपतिः शीलवान् भवति | सम्वरस्थायी आगमदृष्टिः फलदर्शी | अपिचोक्तं | शीलवान् विहरति | प्रातिमोक्षसम्वरसंवृत इति विस्तरः |
SK
केन कारणेन भगवता शीलं मूलशब्देनोक्तम् | प्रतिष्ठार्थं आधारार्थो मूलार्थः | तच्चैतच्छीलं सर्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना]मनवद्यानामग्र्याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलंभाय तस्मान्मूलशब्देनोच्यते | तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु]ल्मौषधिवनस्पतीनामुत्पत्तये एवमेव शीलम्बिस्तरेण पूर्ववद्वाच्यम् |
SK
केन कारणेन शीलमलंकारशब्देनाख्यातं | आह | यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति | शिशु[ः] कृष्णकेशः (Śभ्_Sह्: ५४) प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति | न त्वेवं पुनर्जीर्णस्य, वृद्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर्विभूषणैः प्रावृतैः स विडम्वित इव ख्याति | आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते | शीलं पुनः सर्वेषां सर्वकालञ्च शोभाकारं भवति | तस्मादलंकारशब्देनोच्यते ||
SK
केन कारणेनशीलमनुलेपनशब्देनोक्तम् | तत्र बहुकुशलमनवद्यं शीलसमादानं सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहं अपनयति | घर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ||
SK
केन कारणेन शीलं गन्धजातशब्देनोच्यते | शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः (णं) कीर्त्तियशः शब्दश्लोको निश्चरति | विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति | अनेन कारणेन शीलं गन्धजातशब्देनोच्यते ||
SK
केन कारणेन शीलं सुचरितशब्देनोच्यते | सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी / (Śभ्_Sह्: ५५) एषा चर्या | तस्मात् सुचरिंतमित्युच्यते ||
SK
केन कारणेन शीलं सम्वरशब्देनोच्यते | निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः | तस्मात् सम्वरशब्देनोच्यते | अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [|] कतमा त्रिविधा [|] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा |
SK
[तत्र च पुनरेतानि] कर्माणि प्रत्यवेक्षमाण[ः] शीलसम्वरं परिशोधयति | यत्कर्म कायेन प्रणिहितं भवति कर्त्तुं तदेव प्रत्यवेक्षते | किन्नु व्याबाधिकं मे एतत् कार्य कर्म आत्मना अन्तरायः
SK
परेषा[मकु]शलं दुःखोदयं दुःखविपाकमाहोस्विदव्याबाधिकं मे एतत् कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च]रति | तत्कर्म न करोति | नानुप्रयच्छति | स चेत्पुनर्जानात्यव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्ववत स करोति | तत् कायेन कर्म (Śभ्_Sह्: ५६) न प्रतिसंहरति, अनुप्रयच्छति | यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति | तदप्यभीक्ष्णं प्रत्यवेक्षते | किन्तु व्याबाधिकं मे एतत् पूर्ववत् | स विज्ञानां सब्रह्मचारिणां सचेत् स ए[वं] प्रत्यवेक्षमाणो [जानाति व्याबाधिकं] मे एतत् कर्म पूर्ववत् | सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति | अनुप्रयच्छति | यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति | तदप्यभीक्ष्णं प्रत्यवेक्षते [|] किन्नु व्याबाधिकं मे एतत् पूर्ववत् | सविज्ञानां सब्रह्मचारिणा[मन्तिके] सचेत् स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत् कर्म पूर्ववत् [|] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति | स चेत् पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत् कायकर्म पूर्ववत् [|] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति | सुविशोधितं च | यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु [|] यथा कायकर्म एवं वाक्कर्म वेदितव्यं | अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः | अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः | तन्मनो [अ]भीक्ष्णं प्रत्यवेक्षते [|] किन्नु व्याबाधिकं मे एतन्मनः पूर्ववत् | (Śभ्_Sह्: ५७) यावन्नोत्पादयति | प्रतिसंहरति, नानुप्रयच्छति | तन्मनस्कर्म [|] शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छतितन्मनस्कर्म | एवमनेन तन्मनः कर्म प्रत्यवेक्षितं भवति | सुपरिशोधितं | यदुतातीतानागतप्रत्युपन्नेष्वध्वसु [|] तत्कस्य हेतोरतीते [अ]प्यध्वनि अनागते [अ]पिप्रत्युत्पन्ने [अ]पि ये केचिच्छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्ककर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च [|] यथोक्तं भगवता आयुष्मन्तं राहुलमारभ्य |
SK
कायकर्माथ वाक्कर्म मनस्कर्म च राहुल | अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम् ||
SK
एतच्छ्रामणकं कर्म अत्र शिक्षस्व राहुल | अत्र ते शिक्षमाणस्य श्रेय एव न पापकम् ||
SK
तत्र यदेवं विचिनोति तत् कायकर्म, वाक्ककर्म, मनस्कर्म किं व्याबाधिकं मे इति विस्तरेण (Śभ्_Sह्: ५८) पूर्ववदियं प्रत्यवे[क्षणा] [|] यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति | तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना [|]
SK
तत्रैवं परिशुद्धस्य शीलसम्वरस्य दशानुशन्सा(शंसा) (Śभ्_Sह्: ५९) वेदितव्या[ः |] कतमे दश | इह शीलवां (वान्) विहरति पुरुषपुद्गलः शीलविशुद्धिमात्मनः (Śभ्_Sह्: ६०) प्रत्यवेक्षमाणः अविप्रति[सारं प्र]तिलभते | अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर्जायते | प्रीतमनसः कायःप्रश्रभ्यते | प्रश्रब्धकायः सुखं वेदयते | सुखितस्य चित्तं समाधीयते | समाहितचित्तो यथाभूतं प्रजानाति | यथाभूतं पश्यति | यथाभूतं जानन् पश्यन्निर्विद्यते [|] निर्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति[ः] स्मृतिर्ज्ञा(विमुक्तिज्ञा)नदर्शनं भवति | यावन्निरुपधिशेषे निर्वाणधातौ परिनिर्वाति | यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धय्धियतेयमविप्रतिसारं प्रतिलभते | अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्सः (शंसः) | पुनरपरं शीलवां (वान्) पुरुषपुद्गलः मरणकालसमये प्रत्युपस्थिते, कृतं एतन्मे सूक्तं त [......] (सुचरितं) कायेन वाचा मनसा न कृतं एतन्मे दुश्चरितं कायेन पूर्ववत् | इति या गतिः | कृतपुण्यानां कृतकुशलानां कृतभयभीरूप्राणानां तां गतिं प्रेत्य गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (|) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति | भद्रिका कालक्रिया भद्रको [अ]भिसम्परायः | अयं द्वितीयः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं शीलवतः पुरुषपुद्गलस्य कल्याणो (Śभ्_Sह्: ६१) वर्णः कीर्तिर्यशः[ः] शब्दश्लोको निश्चरति | अयं तृतीयः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतियुज्यते | निष्परिदाहेन कायेन चित्तेन चायं चतुर्थः शीलानुशन्सः (शंसः) |
SK
पुनरपरं शीलवां (वान्) पुरुषपुद्गलः सुप्तो [अ]पि देवानां रक्ष्यो भवति | अयं पञ्चमः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति | परतः पापस्य, न भीतेश्च संत्रस्तमानसः [|] अयं षष्ठः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं शीलवां(वान्) पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपि प्र--त्राणां छिद्रप्राप्तो [अ]पि रक्ष्यो भवति | सर्वदायं पुरुषपुद्गल इति विदित्वा मित्रताम्वापद्यन्ते (ते) मध्यमस्थताम्वा[|]अयं सप्तमः शीलानुशन्सः ||
SK
पुनरपरं पूर्वबह्वास्थानानां यक्षाणां निवासिकानाममनुष्याणां छिद्रप्राप्तो [अ]पि रक्ष्यो भवति | यदुत तदेव शीलमधिपतिं कृत्वा [|] अयमष्टमः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभन्ते (लभते) | यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्यदुत (Śभ्_Sह्: ६२) शीलाधिका(क)रणहेतोः सत्कृतश्च भवति | गुरुकृतो राज्ञां राजामात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां [|] अयं नवमः शीलानुशन्सः (शंसः) ||
SK
पुनरपरं पूर्ववत्सर्वप्रणिधानानि समृध्यन्ति | स चेदाकांक्षते कामधातौ क्षत्रियमहासालकुलानां, ब्राह्मणमहासालकुलानाम्वा, गृहपतिमहासालकुलानां वा चातुर्महाराजकाणि कानाम्वा (चातुर्महाराजिकाणां वा) देवानां, त्रा (त्र)यस्त्रिंशानाम्वा, यामानां, तुषितानां, निर्माणरतीनां, परनिर्मितवशवर्त्तिनां देवानां सभागतोयोपपहो (सभागतायामुपपन्नो) यथापि तद्विशुद्धत्वाच्छीलानां समदानां अत्यर्थजातं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयं | रूपोपमानां च देवानां सभागतायोपपद्येय (यामुपसम्पद्येय) विहरे[य एत]द्यश एतच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति | स चेदाकांक्षते | .......... विमोक्षा............ स्याद्वोपसम्पद्य विहरेयं | आरूप्योपगतानाम्वा देवा[नां स]भागतायो (यामु)पपद्येय पूर्ववत् || स चेदाकांक्षते अत्यन्तनिष्ठनिर्वाणमधिगच्छेयमित्यधिगच्छति || (तद्गति) शुद्धत्वाच्छीलानां (Śभ्_Sह्: ६३) सर्वत्र च वीतरागस्य [|] अयं दशमः शीलानुशंसो वेदितव्यः ||
SK
निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसम्पत्तिः | निर्दिष्टानि पर्यायनामानि | निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो [अ]नुशंसः ||
SK
स एष सर्वाकारपरिपूर्णः शीलसम्वरः संभारपरिगृहीत आख्यातः कथिमो (तो) विवृतः प्रकाशितो यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यं ||
SK
|| उद्दानं ||
SK
विभंगस्त्रिविधो ज्ञेयः सम्पद् दशविधा भवेत् | पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता | अनुशन्सो (शंसो) दशविधः एषो ऽसौ शीलसम्वरः ||
SK
इन्द्रियसम्वरः कतमः | यथापीहैकत्यः (Śभ्_Sह्: ६४) इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्निपकस्मृतिरित्ति विस्तरः | तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्भवति | निपकस्मृतिरिति विस्तरेण यावद्ररक्षति मन इन्द्रियं मन इन्द्रियेण [|] स एवं समापद्यते | एवमिन्द्रियैर्गुप्तद्वारो विहरति |
SK
तत्र कथमारक्षितस्मृतिर्भवति | यथापीहैकत्येनेन्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति | चिन्तितम्वा पुनर्भावितम्वा | तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति | (Śभ्_Sह्: ६५) स तस्या एव स्मृतेः प्रतिलब्धायाः असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्यासं करोति, चिन्तायांभावनायां योगमभ्यासं करोति | न भवति स स्त प्रयोगा यि-कृत प्रयोग एवमनेन तस्या[ः] श्रुतसमुदागमता(गता) याश्चिन्ता-समुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति | एवमारक्षितस्मृतिर्भवति |
SK
कथं निपकस्मृतिर्भवति | स तस्यामेव स्मृतौ नित्यकारी च भवति | [निर्याणकारी च भवति] | तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता | तत्र या निर्याणकारिता इयमुच्यते सत्कृत्यकारिता | स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते | स तथारक्षितस्मृतिर्भवति | तथा तां स्मृतिं न संप्रमोषयति | स तथानिपकस्मृतिर्भवति | तथा तस्यामेवाप्रमुषितायां (Śभ्_Sह्: ६६) स्मृतौ बलाधानप्राप्तो भवति | येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां, गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय |
SK
कथं स्मृत्यारक्षितमानसो भवति | चक्षुः प्रतीत्य रूपाणि चोत्पद्यते | चक्षुर्वि[ज्ञानं, च]-क्षुर्विज्ञानानन्तरमुत्पद्यते | विकल्पकं मनोविज्ञानं येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते | अप्रियरूपेषु रूपेषु व्यापद्यते [|] स भा (ता)मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात्तस्मात् संरक्षति | यथा संक्लेशो नोत्पद्यते | एवं श्रोत्रं घ्राणं जिह्वां कायं मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानं | तच्च मनोविज्ञानमस्यायोनिशेविकल्पसहगतं संक्लेशसमुत्थापकं | येन प्रियरूपेषु धर्मेषु संरज्यते | अप्रियरूपेषु धर्मेषु व्यापद्यते | स तस्मादयोनिशोविकल्पात् संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते | एवं स्मृत्यारक्षितमानसोभवति |
SK
कथं समावस्थावचारको भवति | समावस्थोच्यते | उपेक्षा कुशला वा, अव्याकृता वा [|] स तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात् तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति | (Śभ्_Sह्: ६७) तेनोच्यते समावस्थावचारकः | एवं समावस्थावचारको भवति |
SK
कथं पुनस्तस्मादयोनिशो विकल्पसंक्लेशसमुत्थापकान् मानसं रक्षति | न निमित्तग्राही भवति | तेषु रूपेषु, शब्देषु, गन्धेषु, रसेषु, स्प्रष्टव्येषु, धर्मेषु नानुव्यंजनग्राही भवति यतो [अ]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः | स चेत् पुनः स्मृतिसंप्रमोषात् क्लेशप्रचुरतया वा विवर्जयतो [अ]पि निमित्तग्राहम(हो ऽ)नुव्यंजनग्राह[ः स]मुत्पद्यते एव | पापका अकुशलातो दुःगृहीतो (पापकादकुशलतो दुर्गृहीतो) भवति के (ये) धर्मा अनुसरन्त्येव | चित्तं तेषां सम्वराय प्रतिपद्यते | आभ्यां द्वाभ्यामाकाराभ्यां तस्मात् संक्लेशसमुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति ||
SK
कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां सरंक्ष्य कुशलायाम्वा उपेक्षायामवधारयत्यव्या कृतायाम्वा [|] द्वाभ्यामेवाकाराभ्यां [|] कतमाभ्यां द्वाभ्यां [|] यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते | यथा चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते | मे (ए)वं श्रोत्रघ्राणजिह्वाकायां (यान्), रक्षति मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते | आभ्यां द्वाभ्योमाकाराभ्यां कुशलायाम्वा, अव्याकृतायाम्वा उपेक्षायां तन्मानसमेव चारयति ||
SK
कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति | निमित्तग्राह उच्यते | यच्चक्षुर्विज्ञानगोचरो रूपे तस्य गोचरस्य ग्राही भवति | चक्षुर्विज्ञानेन [|] एवं निमित्तग्राही भवति | यदुत चक्षुर्विज्ञेयेषु रूपेषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु रूपेषु अपरा जाति[र्] निमित्तं | स चेत् पुनस्तं गोचरं परिवर्जयति | चक्षुर्विज्ञानस्यैवं न (च) न निमित्तग्राही [भ]वति | चक्षुर्विज्ञेयेषु रूपेष्वेवं श्रोत्र घ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु [|]
SK
कथं नानुव्यंजनग्राहीभवति | चक्षुर्विज्ञेयेषु रूपेषु [|] अनुव्यंजनग्राह उच्यते | यस्तेष्वेवचक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा, संद्वेषाय, वा संमोहाय वा तं गोचरं परिवर्जयति | नोत्पादयति तदालम्बनं | तन्मनोविज्ञानमेवं नानुव्यंजनग्राही भवति | यदुत चक्षुर्विज्ञेयेषु रूपेषु [|] एवं श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु अपरा जातिर्निमित्तग्राहस्यानुव्यंजनग्राहस्य च | तत्र निमित्तग्राहो यच्चक्षुषा रुपाण्याभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति [|] तत्रानुव्यंजनग्राहः | तान्येव रूपाणि चक्षुषा आभासगतानि तज्जं मनसिकारं संमुखीकृत्य पश्यति | अपितु परतो [अ]नुस्रवपूर्वकं (Śभ्_Sह्: ६९) श्रृणोति | सन्त्येवं रूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि [यान्य]धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते | अनुव्यंजनग्राहः [|] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः | स पुनरयं निमित्तग्राहो [अ]नुव्यंजनग्राहश्च अस्ति यन्निदानमस्य यदधिकरणं यदधिपतेयं अस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति | अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्मा श्चित्तमनुस्रवन्ति | तत्र यो [अ]यं निमित्तग्राहो [अ]नुव्यंजनग्राहो अयोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति | तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति |
SK
पापका अकुशला धर्माः कतमे [|] रागः, रागसमुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं | द्वेषो, मोहः [|], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः |
SK
कथमेते चित्तमनुस्रवन्ति | यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते | गच्छति प्रतिसरति | तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः [ः] कायवाङ्मनोदुश्चरितसमुत्थापका[स्] ते रागद्वेषमोहा उत्पद्यन्ते, गच्छन्ति प्रतिसरन्ति | तेनोच्यन्ते (ते) चित्तमनुप्रवन्ति ||
SK
एवं तावन्निमित्तग्राहेणानुव्यंजनग्राहेण च य उत्पद्यते, संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु सो [अ]स्य नोत्पद्यते निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयतः [|] स चेत् पुनः स्मृतिसंप्रमोषाद्वा, क्लेशप्रचुरतया वा, एकाकिनो [अ]पि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा पूर्वानुभूतां (तान्) श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वोत्पद्यन्ते पापका अकुशला धर्मा[स्] तानुत्पन्नानधिवासयति, प्रजहाति, विशोधयति, व्यन्तीकरोति | तेनोच्यते तेषां सम्वराय प्रतिपद्यते |
SK
स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति | येषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं (Śभ्_Sह्: ७१) भवति | तेषु तथा प्रेरयति | यथा न संक्लिश्यते | एवमनेन तस्मात् संक्लेशान्मन[इन्द्रियं] रक्षितं भवति | तेनोच्यते रक्षति मन इन्द्रियं | येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्शुरिन्द्रियं न प्रेरयितव्यं भवति | येषु श्रोत्रघ्राणजिह् वाकायमनोविज्ञेयेषु ध[र्मेषु] मन इन्द्रियं न प्रेरयितव्यं भवति | तेषु सर्वेण सर्वं सर्वथा न प्रेरयति | तेनोच्यतेचक्षुरिन्द्रियेण सम्वरमापद्यते | तेनोच्यते यावन्मन इन्द्रियेण सम्वरमापद्यते | अयं तावद्विभंगो विस्तरेणेन्द्रियसम्वरस्य विज्ञेय[ः] |
SK
समासार्थः | येन च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः | तत्सर्वमेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते |
SK
तत्र केन संवृणोति [|] या आरक्षिता च स्मृतिस्तया संवृणोति [|]
SK
किं संवृणोति [|] चक्षुरिन्द्रियं संवृणोति | श्रोत्रघ्राणजिह् वाकायमनैन्द्रियं संवृणोति | इदं संवृणोति |
SK
कुतः संवृणोति | प्रियरूपाप्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मेभ्यो [अ]तः संवृणोति (संवृणोति) |
SK
कथं संवृणोति | न निमित्तग्राही भवति नानुव्यंजनग्राही (Śभ्_Sह्: ७२) यतो [अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति | तेषां सम्वराय प्रतिपद्यते | रक्षतीन्द्रियमिन्द्रियेण | सम्वरमापद्यते | इत्येवं संवृणोति |
SK
का पुनः संवृतिः | यतः स्मृत्यारक्षितमानसो भवति | समावस्थावचारकः | इयमुच्यते संवृतिः |
SK
पुनरपरः समासार्थः [|] यश्चसम्वरोपायः | यच्च सम्वरणीयम्वस्तु, या च संवृतिः | तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते |
SK
तत्र कतमः सम्वरोवा (संवरोपायः) [|] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही | यतो [अ]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति | तेषां सम्वराय प्रतिपद्यते | रक्षतीन्द्रियमिन्द्रियेण सम्वरमापद्यते | अयमुच्यते सम्वरोपायः |
SK
सम्वरणीयं वस्तु कतमत् [|] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु |
SK
तत्र संवृतिः कतमा [|] यदाह | स्मृत्यारक्षितमानसो भवति | समावस्थावचारक इतीयमुच्यते संवृतिः |
SK
स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः | (Śभ्_Sह्: ७३) प्रतिसंख्यानबलसंगृही[तो भावनाबलंसंगृही]तश्च |
SK
तत्र प्रतिसंख्यानबल संगृहीतो येन विष्येष्वादीनवं पश्यति | नो तु तमादीनवं व्यपकर्षति | प्रजहाति | तत्र [भा]वनाबलसंगृहीतो येन विष्येष्वादीनवं पश्यति, तं च पुनरादीनवं व्यपकर्षति | प्रजहाति | तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसम्वरेण विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति, न संमुखीकरोति | न चैवाश(श्र)यसन्निविष्टमनुशयं प्र[जहा]ति, समुद्घातयति | तत्र भावनाबलसंगृहीते[ने]न्द्रियसम्वरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति, न सम्मुखीकरोति | सर्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति | समुद्घातयति | अयम्विशेषः, अयमभिप्रायः | इद[म]नाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसम्वरस्य | तत्र यो [अ]यं प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्वरो [अ]यं संभारमार्गसंगृहीतः [|] यः पुनर्भावनाबलसंगृहीत इन्द्रियसम्वरः | स वैराग्यभूमिपतितो वेदितव्यः ||
SK
भोजने मात्रज्ञता कतमा | यथापीहैकत्यः प्रतिसंख्यायाहारमाहरति | (Śभ्_Sह्: ७४) न द्रवार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् |
SK
कथं प्रतिसंख्यायाहारमाहरति | प्रतिसंख्योच्यते यया प्रज्ञया कबडंकारस्याहारस्यादीनवं समनुपश्यत्यादीनवदर्शनेन (Śभ्_Sह् ७५) विदूषयित्वा (विदूष्या)भ्यवहरति ||
SK
तत्पुनरादीनवदर्शनं कतमत् | यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरिणामान्वयो वा, पर्येषणान्वयो वा |
SK
परिभोगान्वय आदीनवः (कतमः) [|] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [|] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्णितश्च, लालाविसरविक्लिन्नश्च भवति | लालापरिवेष्टितश्च भवति | स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति | स यासौ पूर्विका, पुराणा मनापता (न आपता) तां सर्वेण सर्वं विजहाति | परां च विकृतिमापद्यते | यस्यां च विकृतौ (Śभ्_Sह् ७६) वर्तमानश्छन्दितकोपमः ख्याति | तदवस्थं चैनं स चेदयं भोक्ता पुरुषपुद्गलः स चेदाकारतो मनसि कुर्यात् समनुस्मरेन्नास्य सर्वेण सर्वमन्यत्रापि तावदविपरिणते, प्रणीते भोजने भोगकामता सन्तिष्ठेत | कः पुनर्वादस्तत्र तदवस्थ इति य एभिराकौररनेकविधैरनयानुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा यासौ शुभा वर्णनिभा अन्तरीयते, आदीनवश्च प्रादुर्भवति अशू(शु)चिसंगृहीतः [|] अयमुच्यते परिभोगान्वयः | आदीनवः | यदुत आहारे |
SK
तत्र कतमो विपरिणामान्वय आदीनव आहारे | तस्य तमाहारमाहृतवतस्तु [ष्टव] तः यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमान्स(मांस)स्नाय्वस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराणि | अस्मिन् काये अशुचिन्द्रव्याणि विवर्धयति संजनयति |
SK
अर्थतश्च | अतिपरिणतश्चाधोभागी (Śभ्_Sह्: ७७) भवति | यदस्य दिवसे शोचयितव्यं च भवति | तेन च यः स्पृष्टो भवति | हस्तो (तौ) वा पादो (दौ) वा, अन्यतमा न्यतमज्वा (मंवा) अंगप्रत्यंगं, बहिर्धा गुप्यनीयं (गोपनीयं) भवत्यात्मनः परेषां च (|) तन्निदानाश्चास्योत्पद्यन्ते | काये बहवः कायिका आबाधाः | तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डू[ः], कुष्ठः, किटिभः, किवासो (किलासो), ज्वरः कासः शोथः, शोषापस्मार (शोषो ऽपस्मार), आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये भैरंभगंया ([अ]प्येवंभागीयाः) काये कायिका आबाधा उत्पद्यन्ते | भुक्तम्वा [अ]स्य विपद्यते | येनास्य काये विषूचिका सन्तिष्ठते | अयमुच्यते (Śभ्_Sह्: ७८) विपरिणामाच्च य आदीनवो यदुत आहारे |
SK
तत्र कतमः पर्येषणान्न(न्व)यआदीनव आहारे | पर्येषणान्वय आदीनवो [अ]नेकविध[ः]-समुदाननाकृतः | आरक्षाकृतः | स्नेहपरिभ्रंशकृतः | अतृप्तिकृतः | अस्वातन्त्र्यकृतः दुश्चरितकृतश्च |
SK
तत्र कतम आदीनव आहारे [|] समुदानना कृतः [|] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते | कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनाव्यसनसंख्यामुद्रया [अ]नेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा [|] यथा आहारस्ये (स्यै)वमाहारनिदानस्य [|] तस्यैवमुत्सहतो, घटत(तो), व्यायच्छत (ः), स चेत्ते कर्मान्ता विपद्यन्ते | स तं निदानं (तन्निदानं) शोचति क्लाम्यति, परिदेवते | उरस्ताडयति | क्रन्दति- संगो वा [मा] मापद्यते | मोहो बत मे स्वायासो [अ]तिफल इति | अयमु(यं समु)दानना सहगतः आदीनवो यदुत आहारे [|]
SK
स चेत्संपद्यते स तस्यारक्षाधिकरणहेतोस्तीव्रमौत्सुक्यमापद्ययते | कच्चिन्मे भोगा राज्ञा वा अपह्रियेरंश्चौरैर्वा, अग्निना वा दह्येरन्नुदकेन वा उह्येयुः | कुनिह(हि)ता वा निधयः प्रणश्येयुः (Śभ्_Sह्: ७९) कुप्रयुक्ता वा कर्मान्ताः प्रलुज्येरन्, अप्रियो(या)वा दायादा अधिगच्छेयुः | कुलेवा कुलांगार उत्पद्येत | यस्तान्भोगाननयेन व्यसनमापादये [द]यमारक्षासहगत आदीनवो यदुत आहारे |
SK
कतम आदीनव[ः] स्नेहपरिभ्रंशकृतः | यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्णम्भाषते | पुत्रो मात्यः (मातुः), पिता पुत्रस्य, पुत्रो (त्रः) पितुः, भ्राता भगिन्या, भगिनी भ्रातुः | सहायकः | सहायकस्य | प्रागेव जनो जनस्य [|] ते (|) चान्योन्यं विगृहीता भवन्ति, विवादमापन्नास्तथाउदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीताविवादमापन्नाः अन्योन्यं पाणिना प्रहरन्ति | लोष्ठेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्त्ययमुच्यते स्नेहपरिभंशकृत आदीनवः |
SK
तत्र कतमः | अतृप्तिकृत आदीनवः | यथापि तद्राजानः कृतिया (क्षत्रिया) मूर्द्धाभिषिक्ताः, स्वेषु ग्रामनिगमराष्ट्रराजधानीषु असंतुष्टा विहरन्त उभयतो [अ]भ्यूहकानि संग्रामानीकानि प्रतिसरन्ति | शंखै(ः) कम्प(म्प्य)मानैः, पटाहैर्वाद्यमानैः, इषुभिः क्षिप्यमाणैर्विविधैस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति || भ्रान्तेन हस्तिना, स्थेन, पत्तिना सार्धं समागच्छन्ति | इषुभिः शक्तिभिर्वा अपकृत्तगात्रा (Śभ्_Sह्: ८०) मरणम्वा नि (वि)गच्छन्ति | मरणमात्रं वा दुःखमयमुच्यते | अतृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः ||
SK
तत्र कतमः | अस्वातन्त्र्यकृत आदीनवः | यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते) | तप्तेनापि ति (तै)लेनावसिच्यन्ते | तप्तया वसया, तप्तया गोमयलो (लौ)हिकया, तप्तेन ताम्रेण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा नि (वि)गच्छन्ति | मरणमात्रकं वा दुःखं | अयमुच्यते अस्वातन्त्रयकृत आदीनव इति यो वा पुनरप्येवंभागीयः |
SK
तत्र [कतमो] दुश्चरितकृत आदीनवः [|] यथापि तदेकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा [|] स च य(था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरित(तं), पर्वतानां वा पर्वतकूटानाम्वा, सायाह्ने [या]च्छया(च्छाया) अवलम्बते | अव्या(ध्य)वलम्बते | अभिप्रलम्बते | [तस्यै]वं भवति | कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, मनसा, (Śभ्_Sह्: ८१) सो [अ]हं या गति[ः] कृतपापानां [तां] गतिं प्रेत्य गमिष्यामीति | विप्रतिसारी कालं करोति | अकालञ्च कृत्वापायेषूपपद्यते | यदुत नरकेषु, तिर्यक्प्रेतेषु [|] अयमुच्यते दुश्चरित कृत आदीनवः |
SK
तस्यैवम्भवति | इत्ययमाहार[ः] पर्येष(ष्य)माणो [अ]पि सादीनवः | परिभुज्यमानो [अ]पि सादीनवः | परिभुक्तो [अ]पि परिणाम आदीनवः | एवमस्ति पुनरस्याहारस्य काचिदनुशन्स (शंस)मात्रा सा पुनः कतमा | आहारस्थितिको [अ]य(यं) [काय] आहारं निश्रित्य तिष्ठति | नानाहार इयमस्यानुशन्स(शंस)मात्रा [|]
SK
एवमाहारस्थितिको [अ]यं कायं(ः) सुचिरमपि तिष्ठन् वर्षशतम्वा तिष्ठति | किंचिद्वा पुनर्भूयः सम्यक् परिह्रियमाणः | अस्ति चास्यार्वागुपरतिः | तत्र यः (ये) कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्ना[ः] काये कायस्थितिमात्रकेन (ण) संतुष्टा न (न) ते असंतुष्टा, न च पुनस्ते आहारकृतं परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति | ये पुनर्नकायस्थितिमात्रकेण (न) संतुष्टा[ः] कायस्थितिमात्रके प्रतिपन्ना, न ते सुप्रतिपन्ना, अपि तु तामेव कायस्थितिं (Śभ्_Sह्: ८२) निश्चिं[त्य] (निश्रित्य) ब्रह्मचर्यं (र्य)समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, त एव च पुनः परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति | तन्मे प्रतिमं स्याद् यद(द्)वा प्रत्यवरेण आहारानुशन्स (शंस)मात्रकेण संतुष्टो विहरेयं | न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे सर्वाकारं परिपूर्णमादीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनव दर्शी, निःसरणान्वेषी चाहारनिःसरणार्थमेव पुत्रमां(मान्) सो धर्ममाहारमाहरति |
SK
तस्यैवं भवति | एवमेते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ्मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति | य [एते] [अ]नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो [अ]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (|) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला[ः] स्युर्महानुशंसा, महाद्युभ(त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं, ह्रीमानप्रगल्भः, अनात्मोत्कर्षी अपरपन्सी, (Śभ्_Sह्: ८३) यथास्वेन लाभेन चित्त (सुचित्तः) स्यां, सुमनाः, एवं परस्यापि लाभेन चित्त (सुचित्तः) स्यां सुमना, एवं चित्तश्च पुनः कुलान्युसंक्रमेयं | तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्वदत्र परे मे मान (नं) ददतु | सत्कृत्य, मा असत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरित[ं] मा गत्वं (बद्धम्) | एवं चरितस्य मे कुलान्युसंक्रमतः स चेत् परे न दद्युस्तेनाहं न तेषामन्तिके आघातचित्ततया प्रतिघचित्ततया व्यवदीयेयं | न च पुनस्तन्निदानं कायस्य भेदादपायोपपत्त्या विघातमापद्येय (यं) | यदुत तामेवाघातचित्तता (तां) [प्रतिघचित्ता]मधिपतिं कृत्वा स चेदसत्कृत्य न सत्कृत्य, स चेत्स्तोकं न प्रभूतं | स चेल्लूहं न प्रणीतं, स चेद्वद्धं न त्वरितं दद्युः | द (त)याहमाघातचित्ततया, प्रतिघचित्ततया च व्यवदीयेयमिति विस्तरेण पूर्ववत् | इमं चाहं कबडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येय(यं), ताञ्च मात्रां प्रतिवेध्येयं | येन मे जीवितेन्द्रियनिरोधश्च न स्यान्नच पिण्डकेन क्लाम्येयं | ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रव(म)णभावे, प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगरूपश्च | (Śभ्_Sह्: ८४) परिशुद्धश्चानवद्यश्च स्यादेभि[राका]रैः स प्रतिसंख्यायाहारमाहरति |
SK
आहारः पुनः कतमः [|] चत्वार आहाराः [|] कबडंकारः, स्पर्शो, मनःसंचेतना, विज्ञानं चास्मिंस्त्वर्थे कबडंकार आहारो ऽभिप्रेतः | स पुनः कतमस्तद्यथा मन्था वापूपा वा ओदनकुल्माषम्वा, सर्पिस्तैलं, फणितं, मांसं, मत्स्या, वल्लूरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवं रूपाण्युपकरणानि यानि कबडानि (Śभ्_Sह्: ८५) कृत्वा [अ]भ्यवह्रियन्ते | तस्मात् कबडंकार इत्युच्यते |
SK
आहरतीति भुंक्ते | प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति | स्वादयति, पिबति, चूषतीति पर्यायाः [|]
SK
न द्रवार्थमिति | यश्चैते (ये चैते) कामोपभोगिन इत्यर्थः | याहरन्ति (य आहरन्ति) यद्वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अतिक्रान्तायां रजन्यां, मौलीबद्धिकाभिः सार्द्धंमलाबु-रोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः (कन्दुकस्तनीभिर्नारीभिः) (Śभ्_Sह्: ८६) क्रीडतो (न्तो), रममाणाः, परिचारयन् (न्त), औद्धत्यं द्रवं प्राविष्करिष्याम इति [|] द्रव एष आर्ये धर्मविनये यदुतकामरागोपसंहिता, मैथुनोपसंहिता[ः] पापका अकुशला धर्मा, वितर्का, यैरयं खाद्यमानो, बाध्यमान, उद्धतेन्द्रियो भवत्यनुद्धतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो [अ]व्युपशान्तमानसः, ते पुनरत्यन्तमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते |
SK
श्रुतवांस्त्वार्यश्रावक[ः] प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानं (नन्) परिभुंक्ते | न तथा यथा ते कामोपभोगिनो भुंजन्ते | तेनाह- न द्रवार्थं न मदार्थं, न मण्डनार्थं न विभूषणार्थमिति | यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति | अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलं | स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्णसंपन्नं, गन्धसम्पन्नं, रससम्पन्नं | एन्धाभूते (ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः | प्रतिबला, व्यायामकरणो (णा), यदुत अतर्त्काया (आततीक्रियया) वा, निर्घातेन, व्यायामशिलया (Śभ्_Sह्: ८७) वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, (अ)लंघनेन वा [|] तत्र व्यायामेन बाह(हु)ञ्च पुनर्व्यायामं निश्रित्य बलवन्तोभविष्यामः | (अ)व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं (|) विरूपकरणी जरा देहमभिभविष्यन्ती (ती)ति | चिरतरं च जीविष्याम इति | प्रभूतभक्षणे च प्रतिबला भविष्यामः | भुक्तं च (भुक्तं) सम्यक्परिणमिष्यति | दोषाणां चापच (क्ष)यः कृतो भविष्यति | इत्यारोग्यमदार्थं, [यौवन]मदार्थं, जीवितमदार्थं परिभुंजते |
SK
तेषां पुनरेवं भवति | कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो, यदुत-शुचिना तोयेन गात्राणि प्रक्षालिष्यामः | प्रक्षालितगात्राश्च केशानि च (केशांश्च) प्रसाधयिष्यामः | विविधेन चानुलेपनेन कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलं[कारैः] कायं भूषयिष्यामः | (Śभ्_Sह्: ८८) तत्र यत् स्नानप्रसाधनानुलेपनमिदमुच्यते | तेषां मण्डनं |
SK
तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते | विभूषणमिति | मण्डनार्थं विभूषणार्थं परिभुंज[तो ऽत] एवं (परिभुंजन्तो ऽत एवं) मदमत्ता मण्डनजातिविभूषितगात्राः | मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन | आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो) यथोपपन्नमाहारमाहरन्ति | यावदेव पुनः पुनर्द्रवार्थं, मण्डनार्थं, विभूषणार्थ च [|]
SK
श्रुतवांस्त्वार्यश्रावकः | प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणंप्रजानन् परिभुंक्ते | न तु तथा यथा ते कामोपभोगिनः परिभुंजते | नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामीति | यावदेवास्य कायस्य स्थितये इति भुक्त्वा नाभुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते | सो [अ]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहारति | तेनाहं (ह) यावदेवास्य कायस्य स्थितये |
SK
कथं यापनायै आहरति | द्विविधा यात्रा-अस्ति कृच्छ्रेण अस्त्यकृच्छ्रेण [|] कृच्छ्रेण यात्रा कतमा [|] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति | दुःखितो वा बाढग्लानः | अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण | रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्छितो ऽध्यवसितो [अ]ध्यवसायमापन्नः | गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधियते (धीयेत) | कृच्छ्रेण वा आश्वास-प्रश्वासाः प्रवर्तन्ते | स्त्यानमिद्धं वा चित्तं पर्यवहीय (पर्यवनह्यतीय)मुच्यते कृच्छ्रेण यात्रा |
SK
अकृच्छ्रेण यात्रा कतमा [|] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्ब्बल्यं वा न भवति | नाभ्यधिको भवति | दुःखितो वा बाढग्लानः | धर्मेण वा पिण्डपातं पर्येषते, न वा [अ]धर्मेण | सुरक्तो वा परिभुंक्तेसक्तः (परिभुङ्कते ऽसक्तः), अगृध्रः, अग्रथितः, अनध्यवसितो [अ]नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति | कर्मण्यो भवति | प्रहाणक्षमः | येनास्य त्वरितं चित्तं समाधीयते | अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्त्तन्ते | स्त्यानमिद्धं (Śभ्_Sह्: ९०) चित्तं न पर्यवन(ह्य)तीयमुच्यते अल्पकृच्छ्रेण यात्रा |
SK
तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति | कायस्य सावद्या ससंक्लिष्टा [|] तत्र येयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति (|) कायस्य [|] सा च पुनरनवद्या | असंक्लिष्टा [|] तत्र श्रुतवानार्यश्रावकः | सावद्यां संक्लिष्टां यात्राम्परिवर्जयति | अनवद्यामसंक्लिष्टां यात्रां गच्छति | प्रतिषेवते | तेनाह यापनायै |
SK
सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्वमुक्ता | तां कथं यापयति | आह | यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि नवाञ्च नोत्पादयिष्यामि | यात्रा च मे भविष्यति | बलं च, सुखं चानवद्यता च, (Śभ्_Sह्: ९१) स्पर्शवि[हार]ता चेति | एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति |
SK
कथं च पुनर्जिघत्सोपरतये आहरति [|] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुंक्ते | यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते | सायाह्नसमये वा, अभि(ति?)क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये [|] एवं जिघत्सोपरतये आहरति |
SK
कथं ब्रह्मचर्यानुग्रहायारति | तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति | येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति | कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते | अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते | स्त्यानमिद्धं चित्तं न पर्यवनह(ह्य)ति | येनायं भव्यो भवति | प्रतिबलश्च | क्षिप्रमेवाप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै | एवं ब्रह्मचर्यानुग्रहायाहरति ||
SK
कथं पौराणां वेदनां प्रहास्यामीत्याहरति | (Śभ्_Sह्: ९२) तथापि तदतीतमध्वानमुपादाय | अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति | तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः] किलास इति विस्तरेण पूर्ववत् | तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापा (अमन आपा)[ः |] तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पश्यमनु(पथ्यमनु)कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [|] सांप्रेयं चाहारमाहरति | येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति | स वर्त्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते | अपथ्य ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत | अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत | तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः], किलास इति विस्तरेण पूर्ववत् | यन्निदाना उत्पद्येरन्छा (ञ्छा)रीरिका वेदना[ः] पूर्ववत् | एवं च नवां वेदनां नोत्पादयिष्यामीत्याहरति |
SK
कथं यात्रा मे भविष्यति | वर्णं च सुखं चानवद्यतां(ता) च | स्पर्शविहारता चेत्याहरति | यत्तावद् भुक्तो जीवतीत्येवं यात्रा भवति | यत्पुनर्जिघत्सादौर्बल्यमु(म)पनयति | एवमस्य वर्णं भवति | यत्पुनः पौराणां वेदनां प्रजहाति | नवां चो (च नो)त्पादयत्येवमस्य सुखं भवति | यत् पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येष्यारक्तः), असक्तः इति विस्तरेण पूर्ववदेवमनवद्यता भवति | यत्पुनर्भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति | तेनाह प्रतिसंख्यायाहारमाहरति | न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति | विस्तरेण पूर्ववदयं तावद् भोजने मात्रज्ञताया विस्तरविभागः |
SK
समासार्थः पुनः कतम[ः] आह [|] यश्च (यञ्च) परिभुङक्ते | यथा च परिभुंक्ते | यदुत कबडंकारमाहारं, मन्था वा, [अ]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् |
SK
कथं परिभुंक्ते | प्रतिसंख्याय परिभुंक्ते | न द्रवार्थं, न मदार्थं न मण्डनार्थमिति विस्तरेण पूर्ववत् |
SK
पुनरपरं (ः) समासार्थः [|] प्रतिपक्षपरिगृहीतं च परिभुंक्ते | कामसुखल्लिकान्त (वि) वर्जितञ्च | आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय | (Śभ्_Sह्: ९४) यदाह | प्रतिसंख्यायाहारमाहरति |
SK
कथं कामसुखल्लिकान्तविवर्जितं | यदाह | न द्रवार्थं, न मदार्थं, न मण्डनार्थ, न विभूषणार्थमिति |
SK
कथमात्मक्लमथान्तविवर्जितं | यदाह [|] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि | नवाञ्च नोत्पादयिष्यामि | यात्रा च मे भविष्यति | बलं च सुखं चेति |
SK
कथं बह्मचर्यानुग्रहाय परिभुंक्ते | यदाह | ब्रह्मचर्यानुग्रहाय | अनवद्यता च | स्पर्शविहारता च मे भविष्यतीति |
SK
पुनरपरः समासार्थः [|] द्वयमिदं भोजनं, चाभोजनं च | तत्राभोजनं यत् सर्वेण सर्वं सर्वथा किंचिन्न परिभुंक्ते | अभुंजानश्च म्रियते | तत्र भोजनं द्विविधं | समभोजनं, विषमभोजनं च | तत्र समभोजनं | यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं | तत्र विषमभोजनं | यद्य(द) त्यल्पमतिप्रभूतं च | अपरिणते (तं) वा, अपथ्यं वा, संक्लिष्टं वा परिभुंक्ते | तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (|) नोत्पादयति | उत्पन्नं प्रजहाति | तत्र नातिप्रभूतभोजने (न) [सम]विषमभोजनेन (Śभ्_Sह्: ९५) गुरुकः कायो भवत्यकर्मण्यः अप्रहाणक्षमो विस्तरेण पूर्ववत् | तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति | नवाञ्च नोत्पादयिष्यत्येवमस्य यात्रा भवति | बलं च, सुखं च, असंक्लिष्टभोजनेन | समभोजनेन अनवद्यता च भवति | स्पर्शविहारता च |
SK
तत्रात्यल्पभोजनं येन जीवति | अतिप्रभूतभोजनं | येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति | न च कालेन भ(भु)क्तम्परिणमति | तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते | अन्यतमान्यतमो वा काये कायिक आबाधः (|) समुत्पद्यते | यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [|] तत्रायमपथ्यभोजने विशेषः [|] दोषः प्रचयं गच्छति | खरं वाबाधं स्पृशति | तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते | सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् | इति यः समभोजनं च परिभुंक्ते | विषमभोजनं च परिवर्जयति | तस्माद् भोजने समकारीत्युच्यते | भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता | यदुत प्रतिसंख्यायाहारमाहरति | न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् |
SK
तत्र यस्ता(यत्ता)वदाह | प्रतिसंख्यायाहारमाहरति | न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विदू(भू)षणार्थं (|), यावदेवास्य कायस्य स्थितये, यापनायै, अनेन तावदभोजनं न (च) प्रतिक्षिपति | यत्पुनराह | जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत् स्पर्शविहारतायै, अनेन विषमभोजनं प्रतिक्षिपति |
SK
कथं च पुनर्विषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति | यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति | यदाह [|] पौराणां च वेदनां प्रहास्यामि (|), नवां च नोत्पादयिष्यामीत्यनेनापरिणतभोजनत मे (ताम)पथ्यभोजनतां च प्रतिक्षिपति | यदाह | यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र)भूतभोजनतां च दर्शयति (प्रतिक्षिपति) | यदाह | सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च दर्शयति [|] यदाह (|) सुखं च मे भविष्यतीति पथ्यभोजनतां च दर्शयति | यदाह | अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति | योसावधर्मेण पिण्डपातं पर्येष्य रक्तः (Śभ्_Sह्: ९७) परिभुंक्ते | सक्तो विस्तरेण पूर्ववत् | स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति | तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये [अ]स्य तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्ततिं प्रवर्त्तयन्ति | येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति | सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् | अपरेना (णा) स्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति | तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति | इयमुच्यते भोजने मात्रज्ञता || विस्तरतः संक्षेपतश्च ||
SK
पूर्वरात्रापररात्रं जागरिकानुयुक्तता कतमा | (Śभ्_Sह्: ९८) तत्र कतमः पूर्वरात्रः (-मत् पूर्वरात्रम्) | कतमो (मद)पररात्रः (त्रम्) | कतमोजागरिकायोगः | कतमा जागरिकायोगस्यानुयुक्तता | तत्राय(यं)-(त्रेदं) सायाह्नं अर्धरात्रः (त्रं), सायाह्नं सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्वभागः, सो ऽतिरेकं प्रहारं (सातिरेकः प्रहरः) | तत्रायं जागा(ग)रिकायोगः | यदाह | दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | परिशोध्य, बहि[र्]विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति | पादे पादमाधाय आलोकसंज्ञी स्मृतः | संप्रजान(न्) उत्थानसंज्ञामेव मनसि कुर्वन्, स रात्र्याः पश्चिमे यामेलघु लघ्वेव प्रतिविबुध्य चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं (Śभ्_Sह्: ९९) परिशोधयति | तत्रेयं जागरिकानुयोगस्यानुयुक्तता | यथापि तद्बुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता | तत्र शिक्षितुकामो भवति | यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्यामीति यश्छन्दो, वीयं (वीर्यं), व्यायामो, निष्क्रमः | पराक्रमस्थानप्रारम्भः | उत्साह उत्सूढिरप्रतिवाणिश्चेतसः | संग्रहः सावद्यं (द्यः) |
SK
तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | दिवा उच्यते | सूय(र्य)स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया[च्], चंक्रम उच्यते | आयतानि (आयतनानि) (|) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग]युक्तं | सत्कायकर्मनिषद्या उच्यते | यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति | पर्यङ्कमाभुज्य | ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [|] आवरणान्युच्यन्ते पञ्च निवरणानि | आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणापरकास्ते (Śभ्_Sह्: १००) पुनः कतमे | कामछन्दो (कामच्छन्दो), व्यापाद[ः], स्त्यान(नं), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा, [अ]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडितरसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः | त्र्यध्वगता चायोनिशो धर्मचिन्ता [|]
SK
एभ्यः कथं चंक्रमणचित्तं परिशोधयति | कतिभ्यश्च परिशोधयति [|] स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात् परिशोधयति | आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति | सुमनसिकृतं, सुज(जु)ष्टं | सुप्रतिविद्धं | स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति | समुत्तेजयति | संप्रहर्षयति | यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (|) काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्यद्गृहीता, धृताः | तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धममनेकपर्यायेण विगर्हितं, विजुगुप्सितं [|] स्त्यानमिद्धप्रहाणं पुनः (|)स्तुतं, वर्णितं, प्रशस्तं [|] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति | परेषाम्वा (Śभ्_Sह्: १०१) प्रकाशयत्यर्थम्वा चिन्तयति | तुलयत्युपपरीक्षते, दिशो वा व्यवलोकयति | चतुर्नक्षत्रग्रहतारासु वा दृष्टिं धारयत्युदकेन मुखमाक्लेदयति | एवमस्य तत्स्त्यानमिद्धपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया[द्] धर्माच्चित्तं परिशोधितं भवति |
SK
तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यः [चित्तं] परिशोधयति | कामच्छन्दाद्, व्यापादादौद्धत्यकौकृत्याद्विचिकित्सायास्तदाहारकेभ्यश्च धर्मेभ्यः [|] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा, विपूयकम्वा, विम(भ)द्राम(त्म)कम्वा, व्याध्मातकम्वा, वि[खादि]तकम्वा, विलोहितकम्वा, अस्थिं (अस्थि) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं समाधिनिमित्तं मनसि करोति | ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति | धृता, वचसा परिजिता, मनसा अन्वीक्षिता[ः], दृष्ट्या सुप्रतिविद्धा[ः], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् | ये अनेकपर्यायेण कामरागं, कामच्छन्दं, (Śभ्_Sह्: १०२) कामालयं, कामनियन्तिं, कामाध्यवसानं विगर्हन्ति, विवर्णयन्ति | विजुगुप्सयन्ति | कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति | वर्णयन्ति, प्रशन्स(शंस)यन्ति | तां (तान्) धर्मांस्तथा निषण्णो [अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते | उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति |
SK
तत्र व्यापादे अयम्विशेषः | तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-)सम्पद्य विहरति | तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति | शेषं पूर्ववत् |
SK
तत्रौद्धत्यकौकृत्ये विशेषः | तद्यथा निषण्णे अध्यात्ममेव चित्तं स्थापयति | संस्थापयति | सम्विषोदयति (संविशोधयति) | एकोतीकरोति | समाधत्ते | शेषं पूर्ववत् |
SK
तत्र विचिकित्सानिवरणे विशेषः | तथा सन्निषण्णः | अतीतमध्वानं नायोनिशो मनसिकरोति | अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति | किं न्वहमभूवमतीते [अ]ध्वनि कोन्वहमभूवं | आहोस्विन्नाहमतीते [अ]ध्वनि को न्वहमभूवं | कथं (Śभ्_Sह्: १०३) न्वहमभूवमदी(ती)ते ऽध्वनि [|] को न्वहं भविष्यामि | अनागते [अ]ध्वनि, कथं भविष्याम्यनागते [अ]ध्वनि, के सन्तः के भविष्यामः | अयं सत्व (सत्त्वः) कुत आगतः | इतश्च्युतः कुत्रगामी भविष्यति | स इत्येवं रूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसि करोति | अतीतमध्वानमनाती(ग)तं प्र[त्युत्पन्न]मप्यध्वानं [|] स धर्ममात्रं पश्यति | वस्तुमात्रं | सच्च सतः, असच्चासतः | हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति | न सद्वस्तु नाशयत्यपच(व)दति | भूतं भूततो जानाति | यदुतानित्यतो वा, [दुःखतो] वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स एवं योनिशो मनसि कुर्वन्, बुद्धे [अ]पि निष्काङ्क्षो भवति, निर्विचिकित्सः | धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतौ, हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति | निर्विचिकित्सः | शेषं पूर्ववत् |
SK
तत्र व्यापादे वक्तव्यं | यो [अ]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [|]
SK
औद्धत्यकौकृत्ये वक्तव्यं | अनेनौद्धत्यकौकृत्यमारभ्य (Śभ्_Sह्: १०४) तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् |
SK
विचिकित्सायाम्वक्तव्यं | ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववदित्यनेन कामछ(च्छ)न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणा[च्] चित्तं विशोधितं भवति | तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति |
SK
या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [|] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त परिशोधना [|]
SK
आत्माधिपतेया कतमा | यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते (ति) | प्रजहाति, विनोदयति, व्यन्तीकरोति | तेन निवरणेनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण, विघातपक्ष्येणैवमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति |
SK
कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | इहास्या (स्य) निवरणे (Śभ्_Sह्: १०५) समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते | एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति | स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं | शास्ता मे अपवदेद्, देवता अपि | विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति | स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति | एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चानुवृत्तो भविष्यतीति यावद्रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिर्विहारस्य पादौ प्रक्षालयति | प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति | यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय [|] उपचितो [अ]यं कायः कर्मण्यतरश्च भविष्यति | अनुकूलतरश्च सातत्येनै[क]पक्ष्ये कुशलपक्षप्रयोगे |
SK
केनकारणेन पार्श्वेन शय्यां कल्पयति | (Śभ्_Sह्: १०६) सिंहस्य प्राणिनः साधर्म्येण [|] किं पुनरत्र साधर्म्यं [|] सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः | भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति | विक्रान्त, उत्साही, दृढपराक्रमः | अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेतशय्या, देवशय्या, न का[म]भोगशय्या | तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च(म)न्दबलपराक्रमाः | अपि तु धर्मतैषा यद्दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति | न च शयानस्य स्मृतिसंप्रमोषो भवति | न च गाढं स्वपिति | पापकांश्च स्वप्नां (प्नान्) न पश्यति | अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः | तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति |
SK
आलोकनिमित्तमनेन सूद्गृहीतं भवति | सुमनसिकृतं | सुजुष्टं, सुप्रतिविद्धं | यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति | सुप्तस्यापि चास्य येन न भवति चेतसः [|] अन्धकारायितत्वमेवमालोकसंज्ञीशय्यां कल्पयति |
SK
कथं स्मृत[ः] शय्यां कल्पयति | य (ये) अनेनधर्मा[ः] श्रुता भवन्ति | चिन्तिता, भाविता वा, (Śभ्_Sह्: १०७) कुशला अर्थोपसंहितास्तदन्वया [अ]स्य स्मृतिर्यावत्स्वपनकालानुवर्त्तिनी भवति | यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति | इति यथास्मृत्या यथास्मृतः | कुशलचित्तशय्यां कल्पयति | अव्याकृतचित्तो वा [|] एवं स्मृतः शय्यां कल्पयति |
SK
कथं संप्रजानन्तो (जानन्) शय्यां कल्पयति | सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये [अ]न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति | स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति | प्रत्युदावर्त्तयति मानसं | तेनोच्यते संप्रजानं(नन्) शय्यां कल्पयति |
SK
कथमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति | स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति | सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त)स्तद्यथा आरण्यको मृगः | नो तु सर्वेण सर्वं विद्धमवक्रमणनिम्नं चित्तं करोति | तत्प्रवणं | न तत्प्राभो (भा)रमपि (|) चास्यैवं भवति | अहो बताहं बुद्धानुज्ञातां जागरितां (कां)सर्वेण सर्वं सर्वथा सम्पादयेयमिति | तस्याश्च सम्पादनार्थं त्वाशंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [|] अपि चास्यैवं भवति | यथाहमद्य (Śभ्_Sह्: १०८) जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानाञ्च धर्माणां भावनायै, दक्षो [अ]नलस, उत्थानसम्पन्नः, श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति | तत्रैकया उत्थानसंज्ञया गाढं स्वपिति | येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति | द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश]य्यां कल्पयत्यन्यूनामनधिकां | तृतीययोत्थानसंज्ञया छन्दंन स्रन्स(स्रंस)यति | सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति | एवमुत्थानसंज्ञामेव मनसि कुर्वन् शय्यां कल्पयति |
SK
स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति | पश्चिमो याम उच्चते | यो [अ]पररात्रः सातिरेकप्रहरं (रः) | स चायमालोकसंज्ञी स्मृतः | संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मिं (स्मिन्) समये व्युत्तिष्ठते | तत्र तस्मिं (स्मिन्) समये व्युत्तिष्ठते | कर्मण्यकायो भवति | उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः | येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदायितच्च(त्व)म्वा, आलस्यकौसीद्यम्वा [|] असति वा (Śभ्_Sह्: १०९) पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकौसीद्ये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदि तव्याः (व्या) | अयं तावत्पूर्वरात्रापरंरात्रं जागरिकानुयोगस्य विस्तरविभागः |
SK
समासार्थाः पुनः कतमे | इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति | कतमानि चत्वारि | यावज्जाग्रति (गति) तावत्कुशलपक्षं न रिंचति | सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति | नाकालेन | सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति | न संक्लिष्टचित्तः [|] कालेन च प्रतिविबुध्यते(ति) | नोत्थानकालमतिवर्तते | इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः |
SK
कथं च पुनर्देशितः | यत्तावदाह [|] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति | एवं रात्र्याः प्रथमयाममि (इ)त्यनेन तावत् प्रथमं सम्यक्करणीयमाख्यातं | यदुत यावज्जाग्रति (गर्ति)तावत् कुशलपक्षं न रिंचति | सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां | यस्मात् (Śभ्_Sह्: ११०) पुनराह | बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति | पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं | यदुत कालेन शय्यां कल्पयति | नाकालेन | यत्पुनराह | आलोकसंज्ञी स्मृतः | संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं | यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति (क्रमते) | न संक्लिष्टचित्त इति | यत् पुनराह रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थं सम्यक्करणीयमाख्यातं | यदुत कालेन प्रतिविबुध्यति | नोत्थानकालमतिवर्तते | इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि [कुर्व]न् शय्यां कल्पयतीति | अतो द्ववाभ्यां कारणाभ्यां असंक्लिष्टचित्तो मिद्धमवक्रामयति | यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुनः कारणाभ्यां कालेन प्रतिविबुध्यते | नो तु कालमतिवर्तते | यदुतालोकसंज्ञया, उत्थानसंज्ञया च | कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति | संप्रजन्येन, तस्मात्, कुशलादालम्बनाच्च्यवमानं, (Śभ्_Sह्: १११) संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति | एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति | तत्रालोकसंज्ञया, उत्थानसंज्ञया च | न गाढं स्वपिति | नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति | इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति]विबुध्यते (ति) | नोत्थानकालमतिवर्तते | अयं जागरिकानुयोगस्य समासार्थो (र्थः) [|] यश्च पूर्वको विस्तरविभागः, यश्चायं समासार्थः | इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता ||
SK
संप्रजानद्विहारिता कतमा | यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति | आलोकितव्यवलोकिते, संमिंजित (साम्मिञ्जित)प्रसारिते, संघाटीचीवरपात्रधारणे | अशिते, पीते, खादिते, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल]पिते, तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति |
SK
तत्र कतमो [अ]भिक्रमः | प्रतिक्रमः कतमः | अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [कतमा] |
SK
तत्राभिक्रमः [|] यथापीहैकत्यो ग्रामम्वा उपक्रामति | ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा], विहारान्तरम्वा [|]
SK
तत्र प्रतिक्रमः | यथापीहैकत्यः ग्रामान्तराम्वा (ग्रामाद्वा) प्रतिनिवर्त्तते | ग्रामान्तराद्वा, कुलाद्वा, कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा [|]
SK
तत्र संप्रजानद्विहारिता (याः) || अभिक्रम[मा]णे (णो) अभिक्रमामीति सम्यगेव प्रजानाति | अत्र मया अभिक्रमितव्यं | अत्र मया पुनर्नाभिक्रमितव्यमिति | सम्यगेव प्रजानति | अयम्वा मे अभिसंक्रमणकालः अयं नाभिसंक्रमणकाल इति | सम्यगेव प्रजानाति | इदमस्योच्यते संप्रजन्यं [|] स चेत्तेन संप्रजन्येन (Śभ्_Sह्: ११३) समन्वागतः | अभिक्रममाणः प्रजानात्यभिक्रमामीति | यत्र चानेनाभिक्रमितव्यं भवति | तत्र चाभिक्रमति | कालेन चाभिक्रमति नाकालेन | यथा चाभिक्रमितव्यं | यद्रूपया [च] य(र्य)या आचारेणाकल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः) |
SK
तत्र कतमदालोकितं, कतमद् व्यवलोकितं | कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता) | तस्यास्य पूर्वपरिकी[र्त्तितेषु धमषु] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वकमच्छन्दपूर्वकं | अ[न्तरे]ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितं |
SK
यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं, कृत्यपूर्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा(ज्ञां) राज्या(जा)मात्राणां, नैगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानांलयनानां, मारुतानामवरकाणां, प्र(प्रा)सादानां, हर्म्यतलानामिति | यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते | व्यवलोकितं |
SK
यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः (Śभ्_Sह्: ११४) सम्यगेव प्रजानाति | यथा आलोकि(कयि)तव्यं, यथा व्यवलोकयितव्यं तदपिसम्यगेव प्रजानाति | इदमस्योच्यते संप्रजन्यं [|] स तेन संप्रजन्येन समन्वागतः | सचेदवलोकयमानो जानात्यवलोकयामीति | यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति | यदा आलोकयितव्यं, व्यवलोकयितव्यं | तदा आलोकयति, व्यवलोकयति [|] यथा आलोकयितव्यं व्यवलोकयितव्यं तथा आलोकयति, व्यवलोकयति | इयमस्योच्यते | संप्रजानद्विहारिता | यदुतालोकितव्यवलोकिते [|]
SK
तत्र कतमत् संमिजि(सम्मिञ्जि)तं, कतमत् प्रसारितं, कतमा संमिजि(सम्मिञ्जि)तप्रसारिते संप्रजानद्विहारिता | स तथा आलोकयमानो, व्यवलोकयमानश्च | अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिंजयति, प्रसारयति | बाहू वा संमि(मिं)जयति | प्रसारयति | हस्तौ वा संमि(मिं)जयति, प्रसारयति | इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति | प्रसारयतीदमुच्यते | संमि(मिं)जित प्रसारितं [|] सचेत् संमि(मिं)जितप्रसारितं स्वलक्षणतः प्रजानाति संमि(मिं)जितव्यं | प्रसारितव्यञ्च | सम्यगेव प्रजानाति | यादि च संमि(मिं)जि(जयि)तव्यं, यदा प्रसारि(रयि)तव्यं तदपि सम्यगेव प्रजानाति | यथा च संमि(मिं)जि(जयि)तव्यं, यथा (Śभ्_Sह्: ११५) प्रसारि(रयि)तव्यं, तदपि सम्यगेव प्रजानाति, इदमस्योच्यते संप्रजन्यं |
SK
स तेन संप्रजन्येन समन्वागतः | स चेत् संमिज(सम्मिञ्ज)यमानः(यन्), प्रसारयमाणः(यन्) | जानाति | संमि(मिं)जयामि | प्रसारयामीति | यच्च संमि(मिं)जयितव्यं प्रसारयितव्यं संमि(मिं)जयति, प्रसारयति | यदा च संमि(मिं)जयितव्यं, प्रसारयितव्यं तदा संमि(मिं)जयति, प्रसारयति, इयमस्योच्यते | संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते ||
SK
तत्र कतमत् संघाटीधारणं | कतमच्चीवरधारणं, कतमत्, पात्रधारणं, कतमा(मत्)सां(सं)घाटीचीवरपात्रधारणं (णे) | संप्रजानद्विहारिता |
SK
यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) नवतिखन्नम्वा(खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी) [|] तस्य प्रावरणं परिभोगः | सम्यगेव परिहरणं धारणमित्युच्यते |
SK
यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा | आधिष्ठानिकं वा | चीवरं अतिरेकचीवरम्वा विकल्पनार्हं विकल्पयति (Śभ्_Sह्: ११६) तच्चीवरमित्युच्यते | तस्य प्रावरणं परिभोगः | सम्यगेव परिहरणं धारणमित्युच्यते | यत्पुनरस्याधिष्ठानानि कमा(र्मा)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते | पात्रं, तस्य परिभोगः | सम्यगेव परिहरणं धारणमित्युच्यते |
SK
स चेत्पुनरयं तां सां (सं)घाटीं, चीवरं, पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति | यच्च सां (सं)घाटीचीवरपात्रधारणं | कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति | यदा च सां (सं)घाटीचीवरपात्रधारणं धारयितव्यं (कर्त्तव्यं) | तदा सम्यगेव प्रजानाति | यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति | इदमस्योच्यते | संप्रजन्यं | स तेन संप्रजन्येन समन्वागतः | सचेत् सां (सं)घाटी(टीं), चीवरं, पात्रं धारयमाणो जानाति धारयामीति | यच्च धारयितव्यं तद्धारयति | यदा च धारयितव्यं तदा धारयति | यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता | यदुत सां (सं)घाटीचीवरपात्रधारणे |
SK
तत्र कतमदशितं | कतमत्पीतं | कतमत् खादितं | कतमत्स्वादितं | कतमा अशितपीतखादितास्वादिते[षु] संप्रजानद्विहारिता | यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते | तस्य पुनर्द्विधा भेदः खादितं; स्वादितं च | तत्र खादितं | मन्था (Śभ्_Sह्: ११७) वा, [अ]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते खादितमशितमपीतं |
SK
स्वादितं कतमत् | तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो(फा)णितं, मान्सं (मांसं), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तं ||
SK
यत्पुनः पीयते खण्डरसं(सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा | शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [|] इदमुच्यते पीतं |
SK
स चेदशितपीतखादितास्वादितं स्वलक्षणतः सम्यगेव प्रजानाति | यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि(दयि)तव्यं तदपि सम्यगेव प्रजानाति | यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि(दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति | यथा चाशितव्यं, पातव्यं, खादितव्यं | स्वादि(दयि)तव्यं | तदपि सम्यगेव प्रजानाति | इदमस्योच्यते संप्रजन्यं [|]
SK
स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमानः (पिबन्), खादमानः (खादन्), स्वादयमानः (स्वादयन्) स चेज्जानाति | अश्नामि, पिबामि, खादामीति | यच्चाशितव्यं, पातव्यं, खादितव्यं, (Śभ्_Sह्: ११८) तदश्नातियावत्स्वादयति | यदा चाशितव्यं (याव)त्स्वादयितव्यं | तदा अश्नाति, स्वादयति | यथा चाशितव्यंयावत्स्वादयितव्यं तथा [अ]श्नाति | यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता | यदुताशितपीतखादितास्वादिते[षु] [||]
SK
तत्र कतमद्गतं, कतमत् स्थितं, कतमन्निषण्णं | कतमच्छयितं | कतमज्जागृतं | कतमद्भाषितं, कतमत्तू(मस्तू)ष्णीम्भावः | कतमा निद्राक्लमप्रतिविनोदना | कतमा गते, स्थिते, निषण्णे शयिते, जागृते, भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना[यां] संप्रजानद्विहारिता | यथापीहैकत्यश्चंक्रमे चंक्रम्यते(मते), सहधर्मिकाणां चोपसंक्रामति | अध्वानं वा प्रतिपद्यते | इदमस्योच्यते गतं | यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति | आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां इदमुच्यते स्थितं | यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा | पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते | निषण्णं | यथापीहैकत्यो (Śभ्_Sह्: ११९) बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति | पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तरके(णे) वा, अरण्ये, वृक्षमूले वा, शून्यागारे वा [|] इदमुच्यते शयितं | यथापीहैकत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे [|] इदमुच्यते जागृतं |
SK
यथापीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति | पर्यवाप्नोति | तद्यथा सूत्रं, गेयं, व्याकरणमिति | विस्तरेण पूर्ववत् | उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति | यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति | कालेन कालमालपति | प्रतिसंमोदय[ति वि]ज्ञैः सब्रह्मचारिभिस्सार्द्धं, तदन्यैर्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते | भाषितं |
SK
यथापीहैकत्यो यथाश्रुतानां, यथा पर्य[वा]तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [अ]र्थं चि[न्तय]ति, तुलयत्युपपरीक्षते | प्रतिसंलीनो वा पुनः भवत्यध्यात्ममेव चित्तं स्थापयति | दमयति [|] शमयति | व्युपशमयति | एकोतीकरोति | (Śभ्_Sह्: १२०) समाधत्ते [|] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः |
SK
यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते | श्रान्तो वा भवति | क्लान्तस्योत्पद्यते | अकाले निद्राक्लमः स्वपितुकामतः (ता) | अयमुच्यते निद्राक्लमः |
SK
स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं | तत्स्वलक्षणतः सम्यगेव प्रजानाति | यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः | तदपि सम्यगेव प्रजानाति | यदा च गन्तव्यं | यावद्यथा निद्राक्लमः | प्रतिविनोदयितव्यः | तदपि सम्यगेव प्रजानाति | यथा च गन्तव्यं भवति | यत्र (यथा) च यावन्निद्राक्लमः | प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति | इदमस्योच्यते संप्रजन्यं [|]
SK
स तेन संप्रजन्येन समन्वागतः | गच्छन् यावन्निद्राक्लमः (मं) प्रतिविनोदयन् स चेज्जानाति | (गच्छामि) गच्छामि यावत् (न्) निद्राक्लमं प्रतिविनोदयामि | यत्र च गन्तव्यं भवति | यत्र च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति | तदा गच्छति | तदा यावन्निद्राक्लमं प्रतिविनोदयति | यथा च गन्तव्यं भवति | यथा यावन्निद्राक्लमः | प्रतिविनोदयितव्यो भवति | तथा गच्छति | तथा (Śभ्_Sह्: १२१) यावत् | निद्राक्लमं प्रतिविनोदयतीयमस्योच्यते (|)[|]
SK
संप्रजानद्विहारिताया[ः] कतमा आनुपूर्वो, कतमा च स्तुतिभावना, यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप[नि]श्रित्य विहरति | तस्यैवं भवति | मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं]क्रमितव्यः | पिण्डाय चरित्वा, पुनरेव विहारं [प्रति]निष्क्रमितव्यं [|]
SK
सन्ति(|) पुनरत्र कुलानि ग्रामे वा, नगरे वा, यानि मया नोपसंक्रमितव्यानि | तानि पुनः कतमानि | तद्यथा | घोषं(षः), पानागारं, वेश्यं, राजकुलं, चण्डालकठिनमिति | यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि [|] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि | तद्यथा क्षत्रियमहासालकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा, धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि, तानि नातिसायमुपसंक्रमितव्यानि | तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न (Śभ्_Sह्: १२२) क्रीडारतिमण्डनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [|] तथा चोपसंक्रमितव्यानि यथोपसंक्रमन्नहन्न भ्रान्तेन हस्तिना सार्धं समागच्छेयं, न भ्रान्तेन स्थेन, पुनः चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाटं वा मर्देयं | न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं | न स्यन्दिकायां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं | ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः | यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः अनन्योत्कर्षी, अपरपंसकः | अनुकम्पाचित्तो, दयाचित्तः | एवं च पुनरुपसंक्रमितव्यानि | तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [|] उपसंक्रम्य च मे [मया] प्रतिग्रहे मात्रा करणीया | न च लाभहेतोः कुहना करणीया | लपना, नैमित्तिकता, नैष्पेषिकता, लाभेन लाभनिश्चिकीर्षता करणीया(ः) | स च लाभः अरक्तेन परिभोक्तव्य[ः], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन [|] यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति | तान्येकत्यानि द्रष्टव्यानि | तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्तचक्षुषा भवितव्यं | सुसंहृतेन्द्रियेण, यानि पुनर्द्रष्टव्यानि (Śभ्_Sह्: १२३) तेषु सूपस्थितां स्मृतिमुपस्थाप्य [|]
SK
कथं रूपाणि [पुना] रूपाणि नावलोकयितव्यानि | तद्यथा न नर्त्तको, न हासको, न लासक इति [|] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [|] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो र[ञ्जनी]य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघातिभिः ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानाम्वितर्काणां समुदाचाराय सम्वर्त्तेरन् | तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [|]
SK
कथं रूपाणि पुना रूपाणि द्रष्टव्यानि | तद्यथा जीर्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरतः प्राभो(भा)रकायं दण्डभवष्टभ्य, प्रवेपमानकायेन आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्णं, दद्रूलम्वा, कच्छू(ण्डू)लम्वा, कुष्ठितम्वा, दुःखितहतगात्रं | पक्वगात्रमुपहतेन्द्रियं | मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा | काकैः कुररैः खाद्यमानं, गृद्धैः, श्वभिः, श्रृगालैर्विविधैर्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमर्ह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन(र)ः पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, (Śभ्_Sह्: १२४) तस्मा (स्या) वकीर्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातं | परिदेवजातं | दौर्मनस्यजातं, उपायासजातं यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि | यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय(ं) सम्वर्त्तन्ते | न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्चग्मिकया न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन | ना (आ)सने निषत्तव्यं | ना [अ]प्रत्यवेक्ष्यासनं, न सर्वकायं समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ(वृ)तेन, नोच्च(द्ध?)स्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ]ष्टं, न हम्धी(स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकं | न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि कार[यितव्यं] | नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राभो(भा?)रे पात्रं स्थापयितव्यं, सावदानं (ः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) | नो(न ओ)दनेन स्नापिकं प्रतिछा(च्छा)दयितव्यम् | न सूपिकेनोदेनमतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न (Śभ्_Sह्: १२५) तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीत्तं परिमण्डलयालोपमालोपयितव्यं (आलोप आलोपयितव्यः) | न हस्तावलेहकं (कः), न पात्रावलेहकं (कः) | न हस्तसंथूनकं (कः), न पात्रसंथूनकं(कः) | न कबडच्छेदकं (कः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) || विहारगतेनापि मे (मया) तेभ्यः कुलेभ्यः प्रत्यागतेन, (प्रत्यागतेन) प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम् | न परक्ष्ये (परोक्षे) | अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्रयुक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे | स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपौद्गलिकायां, न परपक्ष्यायामविश्वास्यायामप्रवारितायां, तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यं | पय(र्य)ङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां(खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम् | दिवापूर्वकञ्च(श्च) यामं(मः) कुशलपक्षेणातिनामयितव्यं(व्यः) | एवं च पुनःस्वपितव्यं [|]|
SK
आलोकसंज्ञिना स्मृतेन संप्रजा[ना]नेन, उत्थानसंज्ञामेव मनसि कुर्वता, रात्र्या[ः] पश्चिमे यामे लघुलध्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः | प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (|) चित्राक्षरश्चित्रपदव्यंजना, अनर्थोपसंहिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते | ये वा पुनर्धर्मास्तथागतभाषिता, गंभीरा, गंभीराभासा[ः], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया(यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ(द्ग्र)हीतव्याः | दृढञ्च, स्थिरञ्च, सूद्गृहीताश्च, न नाशयितव्याः | प्रतिपत्त्या[ः] सम्पादनार्थं, न लाभसत्कार हेतोः [|] ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः | न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य(स्स)ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा || अनुपलंभचित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च || परेषां धा(ध)र्म्यां कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः | न चायोनिशोधर्मचिन्तायुक्तेन |
SK
एवं रूपा अनेन बहवो धर्मा उद्गृहीता (Śभ्_Sह्: १२८) भवन्ति | धृता, वचसा परिजिता, मनसा चान्वीक्षिता[ः] | दृष्ट्या सुप्रतिविष्टाः (विद्धाः) | एवं बहुश्रुतो भवति |
SK
कथमधिगन्ता भवति | लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखे ऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया [|] लाभी भवति (|) प्रथमस्य ध्यानस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्याकाशानन्त्या यतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्र्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिफलस्य, सकृदागामिफलस्यानागामिफलस्य च, द्विविषयस्य, पूर्वेनिवासस्य, दिव्यस्य श्रोत्रस्य, च्युत्युपपादस्य, चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य [|] शक्तो भवति | प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुं | ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण, अनुशासनाप्रातिहार्येण [|] एवमधिगन्ता भवति | कथमनुकम्पको भवति | परेषामन्तिके कारुणिको भवति | दयापन्नः, अर्थकामो भवति | हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः [|] एवमनुकम्पको भवति |
SK
कथमप्रतिखिन्नमानसो भवति | व(र)तिसंदर्शको भवति | समादापकः, समुत्तेजकः संप्रहर्षकः, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थानसम्पन्नः | आरब्धवीर्य, आरब्धवीर्य (Śभ्_Sह्: १३०) जातीयः [|] एवमपरिखिन्नमानसो भवति |
SK
कथं क्षमावान् भवति | आक्रुष्टो न प्रत्याक्रोशति | रोषितो न प्रतिरोषयति | वादितो न प्रतिवादयति | मण्डितो न प्रतिमण्डयति | [अनेन दानप्रत्यर्थादान(प्रत्यादान)समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छे(च्छे)दनेषु, आत्मापराधी भवति | कर्मविपाकञ्च प्रतिसरति | न परेषामन्तिके कुप्यति | नाप्यनुशयं वहति | इति विमानितो [अ]पि, विवर्णितो [अ]पि, विजुगुप्सितो [अ]पि, न विकृमिमापद्यते | नान्यत्रार्थायैव चेतयते क्षमश्च भवति | शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां(नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अ[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः | एवंक्षमावान् भवत्य[सा]विति ||
SK
कथं विशारदो भवति | असंलीनचित्तः [|] पर्षदि धर्मं देशयति | अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः | न चास्य शारद्यहेतोः, शारद्यनिदानं (Śभ्_Sह्: १३१) भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा [|] एवं विशारदो भवति |
SK
कथं वाक्करणेनोपेतो भवति | पौर्या(र्यया)वाचा समन्वागतो भवति | वल्गून्यविस्प(वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ)पर्याप्तया [|] एवम्वाक्करणेनोपेतो भवति | कल्याणवादी |
SK
स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति | स्मारकः, अववादकः, अनुशासको, धर्म देशकः ||]
SK
कथं चोदको भवति | यदुताधिशीले च शीलविपत्त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति | भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना(न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [|] एवं चोदको भवति |
SK
कथं स्मारको भवति | आपत्तिम्वा स्मारयति | धर्मं चा(वा)र्थम्वा [|]
SK
कथमापत्तिं स्मारयति | यथापि तदापत्ति मध्यापद्यमानः स्मरति | तमेनं स्मारयति | आयुष्मन्नमुष्मिन्देशे, अमुष्मिन्, वस्तुनि, अमुष्मिन् (Śभ्_Sह्: १३२) काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्तिं स्मारयति |
SK
कथं धर्मं स्मारयति | यथापि तच्छ्रुतानुद्गृहीतान् धर्मानेकाकी स्मरति | स्मर्तुमिच्छति | तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति | तमेन (नं) स्मारयति | उत्स्मारणिकाम्वास्यानुप्रयच्छति | आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति |
SK
कथं धर्म (अर्थं) स्मारयति | यथापि नथां (चार्थान्) विस्मारयति (विस्मरति) | तमेनं स्मारयति | पुनरपि प्रतिनवीकरोति | उत्तानी करोति | देशयति, संप्रकाशयति | यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितं | चिरक(कृ)तं, चिरभाषितमप्यनुस्मारयिता भवति | एवं स्मारको भवति |
SK
कथमववादको भवति | प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार(रे), शमथविपश्यनायां कालेन कालमानुलोमिकं अववादं प्रवर्त्तयति | कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति | तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय[ता (Śभ्_Sह्: १३३) प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति | एवमववादको भवति |
SK
कथमनुशासको भवति | धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति | उपाध्यायो वा, सहधार्मिको वा, गुरुर्वा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा | कालेन कालमवसादयति | दण्डकर्मम(र्मा)नुप्रयच्छति | प्रणामयति चैनं | पुनरपि च धर्मेण समयेप्रतिसंस्तरसामीचीसंज्ञप्तिं प्रतिगृहणाति | संरोहकश्च भवति | करणीये चाकरणीये भाव्याचारानध्याचारान् अध्याचीर्णे (चरिते) अनध्याचीर्णे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति |
SK
कथं च धर्मदेशको भवति | कालेन कालं पूर्वकालकरणीयां कथां करोति | तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति | कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति | दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय?) वा, सत्व(त्त्व) व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तैः पदव्यंजनैः, सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः, (Śभ्_Sह्: १३४) प्रतिरूपैः, प्रदक्षिणैर्निपकस्यांगसंभारैस्तां च पुनः कथां कालेन करोति | सत्कृत्यानुसन्धिमनुपतितां | हर्षयन्, रोचयन्ननु(यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णां, यथाधार्मिकीं, यथापर्षन्मैत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः | अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति | न परान्पंस(पंस)यत्येवं धर्मदेशको भवति |
SK
यश्चैभिरष्टाभि(ः) (समन्वागतो) रंगैः समन्वागतो भवति | एवं च कालेन कालं चोदको भवति, स्मारकः | अववादानुशासकस्तस्मात् कल्याणमित्र[म्]इत्युच्यते | अयं तावत् कल्याणमित्रताया विस्तरविभागः [|]
SK
समासार्थः पुनः कतमः [|] स चेदयं मित्रसुहृदनुकम्पकः आदित एव हितकामो भवति | सुखकामश्च [|] तच्च पुनर्हितसुखं यथाभूतं प्रजानाति | अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः | यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्धवीर्यजातीयः | यदुत तमेव हितसुखोपसंहारमारभ्य [|] (Śभ्_Sह्: १३५) एभिश्चतुर्भिः कारणैः सर्वाकारपरिपूर्णः (ं) | समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्) | अयं च पुनः कल्याणमित्रतायाः समासार्थः || यश्च पूर्वो विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ||
SK
सद्धर्मश्रवणचिन्तना कतमा | सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातः | देशित उत्तानो विवृतः | संप्रकाशितः | स पुनः कतमः | तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् | द्वादशांगवचोगतं सद्धर्म इत्युच्यते |
SK
तत्र सूत्रं कतमत् | यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्तावा कथा कृता, धातुसंगणसंयुक्ता वा, आयतनप्रतिसंयुक्ता वा | प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति [प्रति]संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा | स्मृत्युपस्थानसम्यक्प्रहाणधि(र्धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता | अशुभा, आनापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता [|] सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये, यथा योगमनुपूर्वेण रचिता, अनुपूर्वेण समायुक्ता | प्रतिरूपैर्नामकायपदव्यंजनकायैर्यदुत तेषां तेषामर्थानां सूचनायै (Śभ्_Sह्: १३७) कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं [|]
SK
गेयं कतमत् | यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते [गेयं] |
SK
व्याकरणं कतमत् | यस्मिंछ्रावके (यस्मिञ्छ्रावके)भ्यो [अ]भ्यतीतकालगतो (तौ)उपपत्तौ व्याक्रियते | यच्च सूत्रं नीतार्थमिदमुच्यते | व्याकरणं [|]
SK
गाथा कतमा | या न गद्येन भाषिता | अपितु पादोपनिबन्धेन द्विपदा वा, त्रिपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा इयमुच्यते गाथा ||
SK
उदाना कतमा | यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्मस्थितये, (Śभ्_Sह्: १३८) शासनस्थितये च | इयमुच्यते उदाना ||
SK
निदानं कतमत् | यत्पुद्गलस्य नामगोत्रम्परिकीर्तयित्वा (कीर्त्त्य) उद्दिश्य भाषितम् | यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदानं] [|]
SK
अवदानं कतमत् | यत्सदृष्टान्तकमुदाहतं | येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते | अवदानं |
SK
वृत्तं कतमत् | यत्किंचित्पूर्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकं ||
SK
जातकं कतमत् | यदतीतमध्वानमुपादाय तत्र तत्र भगवतः च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या | आख्याता [|] इदमुच्यते जातकं ||
SK
वैपुल्यं कतमत् | यत्र बोधिसत्त्वानां मार्गो देश्यते | अनुत्तरायै सम्यक् संबोधये | दशबलानावरणज्ञानसमुदागमाय [|] इदमुच्यते वैपुल्यं ||
SK
अद्भुताधर्माः कतमे | यत्र बुद्धानाञ्च, बुद्धश्रावकाणां च, भिक्षूणाञ्च, भिक्षुणीनाञ्च, शिक्षमाणानां, श्रामणेकी(री)णामुपासिकानां, साधारणासाधारणाश्च तदन्यप्रतिविशिष्टाश्चाश्चर्याद्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः ||
SK
उपदेशाः कतमे [|] सर्वमातृका अभिधर्मः सूत्रान्तनिष्कर्षः | सूत्रान्तव्याख्यानमुपदेश इत्युच्यते |
SK
तच्चैतद् द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः | तत्र यत्तावदाह | सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति | इदं तावत्सूत्रं | यत्पुनराह | निदानमित्ययमुच्यते | विनयः | यत्पुनराह | उपदेशा इति | अयमुच्यते | अभिधर्मः |
SK
तच्चैतद् द्वादशां[गं श्रु]तं पिटकत्रयसंगृहीतं | सद्भिः सम्यग्गतैर्देशितं | सद्धर्म इत्युच्यते | तस्य श्रवणं | सद्धर्मश्रवणं [|] तत्पुनः कतमत् | यथापीहैकत्यः (Śभ्_Sह्: १४०) सूत्रधरो वा भवति | विनयधरो वा | मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा | इदमुच्यते सद्धर्मश्रवणं | तत्पुनः | श्रवणं द्विविधं | व्यंजनश्रम(व)णमर्थश्रवणं च |
SK
चिन्तना कतमा | यथापीहैकत्यस्तानेव यथाश्रुतान्धर्मानेकाकी रहोगतः | षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां, सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा)नां कर्मविपाकचिन्तां, ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः | सामान्यलक्षणतश्च चिन्तयति |
SK
सा पुनः चिन्ता द्विविधा गणनाकारासह गणनायोगेन धर्मेण | तुलनाकारम(रा), युक्त्या गुणदोषपरीक्षणाकारा [च] [|] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति | स चेदन्यतमान्यतमान्यतमां पूर्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति | यथा पुनः कथमि तिरूपमुच्यते | दश रूपीण्यायतनानीति | यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः, तिस्रो (Śभ्_Sह्: १४१) वेदना वेदनास्कन्धः | षट् संज्ञाकायाः संज्ञास्कन्धः | षट् चेतनाकायाः चेतनास्कन्धः | षड् विज्ञानकाया विज्ञानस्कन्ध इत्येवं गणनासंख्याकारां स्कन्ध[गणनां] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः |
SK
कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति | चतसृभिर्युक्तिभिरुपपरीक्षते | कतमाभिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या | धर्मतायुक्त्या ||
SK
अपेक्षायुक्तिः कतमा | द्विविधा अपेक्षा उत्पत्यपेक्षा प्रज्ञप्त्यपेक्षा च | तत्रोत्पत्त्यपेक्षा यैर्हेतुप्रत्ययैः स्कन्धानां प्रादुर्भावो भवति | तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते | यैर्नामकायपदकायव्यंजनकायैः स्कन्धानां प्रज्ञप्तिर्भवति | तस्यां स्कन्धप्रज्ञप्तौ ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते | इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा | प्रज्ञप्त्यपेक्षता (क्षा) च | या चोत्पत्त्यपेक्षा | या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग (Śभ्_Sह्: १४२) उपायः | स्कन्धोत्पत्तये | स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते |
SK
कार्यकारणयुक्तिर्या [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा | चक्षुषा रूपाणि द्रष्टव्यानि | श्रोत्रेण शब्दा[ः] श्रोतव्याः | यावन्मनसा धर्मा विज्ञेया इति | रूपेण चक्षुषो गोचरे अवस्थातव्यं | शब्देन श्रोत्रस्य, एवं याद्धर्मैर्मनस इति | यद्वा पुनरन्यदप्येवंभागीयं | तत्र तत्र धर्माणामन्यो [अ]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते | कार्यकारणयुक्तिः |
SK
उपपत्तिसाधनयुक्तिः कतमा [|] अनित्या[ः] स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[ः], शून्या, अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते यदु(त)ताप्तागमेन, प्रत्यक्षेणानुमानेन च [|] एभिस्त्रिभिः प्रमाणैरूपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना (Śभ्_Sह्: १४३) साधना क्रियते | यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया[ः], शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः |
SK
धर्मतायुक्तिः कतमा | केन कारणेन तथाभूता एते स्कन्धा[ः], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आपः, उष्णलक्षणं तेजः[ः], समुदीरणलक्षणो वायुः, (|) अनित्याः, स्कन्धा[ः], केन कारणेन शान्तं निर्वाणमिति | तथा रूपणलक्षणं रूपं | अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति | प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृशः | धर्मतैषा चैव चासौ धर्मता | सैवात्र युक्तिर्योग उपायः [|] एवं वा एतत् स्यात् | अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिप्रसरणधर्मतैव युक्तिः | चित्तनिध्यायनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः |
SK
एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति | यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनायाइयमुच्यते | सद्धर्मश्रवणचिन्त[न्]आ ||
SK
अनन्तरायः कतमः [|] अनन्तरायो द्विविधः | अध्यात्ममुपादाय बहिर्धा च [|] तत्राध्यात्मं बहिर्धा चोपादायान्तराय(यं) वक्ष्यति | तद्विपर्ययेण [|] नन्तरायो वेदितव्यः |
SK
अध्यात्ममुपादायान्तरायः कतमः | यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति | सौकृतत्वात् पुण्यानां च लाभी भवति | कालेन कालमानुलोमिकां (कानां, केषु) जीवितपरिष्काराणां (रेषु) | यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु) तीव्ररागो भवत्यायत (न)रागः | तीव्रद्वेषः आयत(न)द्वेषः | तीव्रमोह आयत(न)मोहः | पूर्वं वानेनाबाधसंवर्त्तनीयानि कर्माणि कृतानि भवन्ति | यद्धेतोराबाधबहुलो भवति | दृष्ट एव धर्मे विषमचारी भवति | यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा काये सन्तिष्ठते | भोजनगुरुको भवति | बह्वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति | कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः | आत्मसंप्रग्राहकश्चपलः, प्रमत्तः कुदेशवासी वा | इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः |
SK
बहिर्धोपादायान्तरायाः कतमे [|] तथापि तदसत्पुरुषापाश्रयः | यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं [|] (Śभ्_Sह्: १४५) कुदेशे वा वसति | यत्रास्य वास(सं)कल्पयतो दिवा वाग्रविलोको (वोग्रो रवेरालोको) भवति | प्रभूतः, रात्रौ वा [|] उच्चशब्दो, महाशब्दोमहाजनकायस्य निर्घोषः | तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया(र्धोपादाया)न्तरायो वेदितव्यः | अयं तावद्विस्तरविभागस्या(गः) ||
SK
समासार्थः पुनः कतमः | समासतस्त्रिविधो [अ]न्तरायः | प्रयोगान्तराय[ः], प्राविवेक्यान्तराय[ः] | प्रतिसंलयना न्तरायश्च |
SK
तत्र प्रयोगान्तरायो येनान्तरायेण समव[हितेन] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे [|] स पुनः कतमः | यदाबाधको भवति, बाढग्लानः, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा), विषूचिका वास्य काये सन्तिष्ठते [|] अपि त्वस्य दशति वृश्चिको वा, शतपदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा [|] न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः |
SK
प्राविवेक्यान्तरायः कतमः [|] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरतिं (Śभ्_Sह्: १४६) रतो भवति | तेषु तेष्वितिकरणीयेषु प्रसृतमानसः | भाष्यारामो भवति | शक्तः प्रतिबलः सन् | प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन(ण) संतुष्टो निद्रारामो भवति | स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति | संगणिकारामो भवति सार्धं गृहस्थप्रव्रजितैः | राजकथाम्वा करोति | चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [|] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति | तत्र चाभिर(म)तो भवत्यभीक्ष्णेण(न) गणसन्निपातबहुलो भवति | तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति | व्याकुलमानसः | संसर्गारामो भवति | गृहस्थप्रव्रजितानामसमवहितानां च वियोगं गच्छति | प्रपंचारामो भवति | प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः | इदमेवंभागीयो (इम एवं भागीया) धर्माः प्रविवेकान्तरायो वेदितव्यः | यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुं | अरण्यानि वा वृक्षमूलानि (Śभ्_Sह्: १४७) वा शून्यागाराणि वा [|] प्रतिसंलयनान्तरायः कतमः [|] तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च | तत्रास्ति शमथान्तरायः | अस्ति विपश्यनान्तरायः | तत्र शमथान्तरायः प्र[भिन्नः] अदेशवासश्च | यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति | शमथमात्रम्वा आस्वादयति | लीनत्वाय वा चित्तमुपनामयति | अन्धकारायितत्वं वा चेतसो भवति | यद्रूपेण चादेशवासेन | मनुष्यकृतो वा परतः संघट्टो भवति | येनास्य चित्तम्बहिर्धा विक्षिप्यते [|] अयं शमथान्तरायः | प्रतिसंलयनान्तरायो वेदितव्यः |
SK
विपश्यनान्तरायः कतमः | यदुतात्मसंग्राहश्चापल्यञ्च |
SK
तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुलः प्रव्रजितः | अलीनः | अन्ये च न तथेत्यात्मानमुत्कर्षयति | संगृह्णाति | परांश्च पन्स(पंस)यति | एवमाढ्यकुलप्रव्रजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः | एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति | आत्मानमुत्कर्षयति | संप्रगृह्णाति | परांश्च पन्स(पंस)यति | स आत्मानं संप्रगृह्णात्येते भवन्ति | भिक्षवः, स्थविरा, रतिज्ञा, अभ्यवतीर्णब्रह्मचर्याः, (Śभ्_Sह्: १४८) तान्न कालेन कालं परिपृच्छति | परिप्रश्नीकरोति | ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति | विवृतानि च स्थानानि विवृण्वन्ति | न च गम्भीरमर्थपदं | साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये | एवमस्य स आत्मसंग्रहः |
SK
आन्तरायिको भवति | यदुत विपश्यनायाः [|] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति | स तेन ज्ञानमात्रकेण | दर्शनमात्रकेणात्मानमुत्कर्षयति | संप्रगृह्णाति | स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति नोत्तरि व्यायच्छते | एवमस्यान्तरायः कृतो भवति | आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [|] चपलो वा पुनः अनुपशान्तेन्द्रियो भवति | उद्धतेन्द्रियः, उन्नतेन्द्रियः | स दूषितचित्ती भवति | सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति | न दृढं चिन्तयति | येन विपश्यनां न पूरयति न विशोधयत्येवमस्य चापल्यं | अन्तरायो भवति | यदुत विपश्यनाया इति |
SK
द्वौ धर्मौ शमथान्तरायौ | यदुत प्रमादः, आदेशवासश्च [|] द्वौ धर्मौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च | इति यश्च शमथान्तरायः | यश्च विपश्यनान्तरायः | अयमुच्यते (Śभ्_Sह्: १४९) प्रतिसंलयनान्तरायः |
SK
अयं च पुनरन्तरायस्य समासार्थ इति | यश्चायं समासार्थः | यश्च पूर्वको विस्तरविभागः | तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते | अस्य चान्तरायस्य विपर्ययेणा[न]न्तरायो वेदितव्य इति | य एषामन्तरा[या]णामभावो विगमः असंगतिरसमवधार(चर)[ण]मयमुच्यते [अन]न्तरायः ||
SK
त्यागः कतमः | यद्दानमनवद्यं चित्तालंकारार्थं, (Śभ्_Sह्: १५०) चित्तपरिष्कारार्थं, योगसंभारार्थं, उत्तमार्थस्य प्राप्तये ददाति |
SK
तत्र को ददाति [कस्मै ददाति कुत्र ददाति]केन च ददाति | कथं ददाति | कस्माद्ददाति | येनास्य (Śभ्_Sह्: १५१) दानम[न]वद्यं भवति || आह | दाता, दानपतिर्ददाति | अयमुच्यते दाता | यस्य स्वकं दीयते | तच्च दातुकामस्य, नादातुकामस्य, अयमुच्यते दानपतिः |
SK
तत्र कुत्र ददाति | आह | चतुर्षु ददाति | दुःखितायोग(प)कारिणे | इष्टाय, विशिष्टाय च |
SK
तत्र दुःखितायेति | कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति | ये वा पुनरन्ये [अ]प्येवंभागीया[ः |]
SK
उपकारिणः कतमे तद्यथा मातापितरं (रौ) आपायकपोषकं (कौ), सम्वर्धकमि(कावि)ति | ये वा पुनरटवीकान्तारादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा | आबाधकाद्वा हितोपदेशकाश्चास्य भवन्ति | सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये [अ]प्येवंभागीया इम उपकारिणः |
SK
इष्टाः कतमे [|] ये संस्तुता[ः] | येषामस्यान्तिके भवति | प्रेम वा, गौरवम्वा, भक्तिवादो वा, आलप्तकाः, संस्तुतकाः सप्रियकाश्च भवन्ति | इति वा पुनरन्ये [अ]प्येवंभागीया इम उच्यते इष्टाः ||
SK
विशिष्टाः कतमे [|] ते श्रव(म)णब्राह्मणा[ः] (Śभ्_Sह्: १५२) साधुरूपसम्मताः | अव्याबाध्याः अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेषविनयाय प्रतिपन्नाः | विगतमोहा, मोहविनयाय प्रतिपन्ना इति | ये वा पुनरन्ये [अ]प्येवं भागीया इम उच्यन्ते विशिष्टाः ||
SK
तत्र किं ददातीत्याह | समासतः सत्त्वसंख्यातमसत्व (त्त्व) संख्यातं च | वस्तु ददाति |
SK
तत्र सत्त्वसंख्यातम्वस्तु कतमत् | तद्यथा पुत्रदानं दासीदासकर्मकरपौ[रुषे]यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति | यद्वा पुनरन्यदप्येवं भागीयं वस्तु | अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स(मांस)रुधिरवसादीन्यनुप्रयच्छति | इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते | अस्मिंत्वर्थे नेदं दानमभिप्रेतं | येषु तु सर्वेष्वस्यैश्वर्यं भवति | वशिता च प्रभविष्णुता च | अर्हति च तान्सत्वा (त्त्वा)न् परेषां प्रतिपादयितुं | प्रतिपादयंश्चात्मानमनवद्यं करोति | न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नांसि) प्रदूषयन्ति | ये च सत्वा (त्त्वाः) परेषु प्रतिपादिता(ः)स्तेन व्यापादिता भवन्तीदमुच्यते अनवद्यं सत्व(त्त्व)वस्तुदानं ||
SK
असत्त्वसंख्यातम्वस्तु कतमत् | तद्यथा धनवस्तु, (Śभ्_Sह्: १५३) धान्यवस्तु | देश वस्तु |
SK
तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)श्मगर्त्तपुसारगण्वजातरूपरजतलोहितिकादक्षिणावर्तमिति | यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, वस्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं |
SK
धान्यं कतमत् | यत्किंञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसम्वा (सो वा), मृद्वीकारसम्वा (सो वा), इति यद्वा पुनरप्येवंभागीयमिदमुच्यते धान्यं ||
SK
देशवस्तु कतमत् | तद्यथा क्षेत्रवस्तु गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति | यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु |
SK
तत्र यच्च सत्व (सत्त्व) संख्यातम्वस्तु इदं ददातीति ||
SK
केन ददतीति | या च अलोभसहगता चेतना, चित्ताभिसंस्कारो मनस्कर्म | यच्च तत्समुत्थापितं कायकर्म | वाक्कर्म दे[श]वस्तुपरित्यागाय, स्वसंताने वा [|] अनेन ददाति |
SK
तत्र कथं ददातीति | श्रद्धया ददाति | आगमदृष्टिः, फलदर्शी, सत्कृत्य ददाति | प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति | अनपविद्ध[ः] कालेन ददाति | यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति | धर्मेण, समयेन, असाहसेन, समुदानयित्वा (समुदानीय) शुचि ददाति | प्रणीतं कल्पिकं ददाति | येन न परे सावद्या भवन्ति | नात्मा [|] अभीक्ष्णं ददाति | विनीय सात्म[यन्मलं] सन्निधिमलं च दानं ददाति | पूर्वमेव दानात्सुमना ददच्चि(दंश्चि)त्तं प्रसादयति | दत्वा वा विप्रतिसारी भवति | एवं ददाति |
SK
कस्माद्ददाति | आह | कारुण्याद्वा ददाति | यदुत दुःखितेषु कृतज्ञताया (तया) ददाति | यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति | यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति | यदुत विशिष्टेषु [|] तस्मात् | ददातीत्युच्यते |
SK
एभिराकारैरतो ऽस्य गृहिणो वा, प्रव्रजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थं | योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति | अयमुच्यते त्यागः ||
SK
श्रमणालंकारः कतमः [|] तद्यथैकत्यः श्राद्धो भवति | अशठः | अल्पाबाधः, आरब्ध[वीर्य]जातीयः प्राज्ञो [अ]ल्पेच्छः, संतुष्टः | सुपोषः, सुक(भ)रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः | सत्पुरुषधर्मसमन्वागतः | पण्डितधर्मसमन्वागतः | पण्डितलिंगसमन्वागतः | क्षमः, सू(सु)रतः, पेशलश्च भवति ||
SK
कथं श्राद्धो भवति | प्रसादबहुलो भवति | अर्थकल्पनाबहुलः | विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु [|] स शास्तरि प्रसीदति | न कांक्षति | न विचिकित्सति | शास्तारं सत्करोति | गुरुकरोति | मानयति | पूजयति | सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति | यथा शास्तर्येवं धर्मे | सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति |
SK
कथमशठो भवति | रुजको भवति रुजकजातीयः | यथाभूतमात्मानमाविष्कर्त्ता भवति | (Śभ्_Sह्: १५६) शास्तुरन्तिके, विज्ञानाञ्च, सब्रह्मचारिणामेवमशठो भवति |
SK
कथमल्पाबाधो भवति | अरोगजातीयः | समयासाधिन्या ग्रहण्या समन्वागतो भवति | नात्युष्णया, नातिशीतया, अव्याबाधा(ध)या, जातुसुखया ययास्याशितपीतखादितास्वादिता[नि] सम्यक्युखेन परिपाकं गच्छन्त्येवमल्पाबाधो भवति |
SK
कथमारब्धवीर्यजातीयो भवति | स्थामवान्विहरति | वीर्यवानुत्साही दृढपराक्रमः | निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थानसम्पन्नः [|] कर्त्ता भवति | विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवमारब्धवीर्यो भवति |
SK
कथं प्राज्ञो भवति | द्विधा स्मृतिबुद्धिसम्पन्नो भवति | अधन्धे[न्द्रियः], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणां अर्थमाज्ञातुमिति | सहजयापि बुद्ध्या समन्वागतो भवति | प्रायोगिकयापि बुद्ध्या समन्वागतो भवति | एवं प्राज्ञो भवति |
SK
कथमल्पेच्छो भवति | यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते | कश्चि(च्चि)न्मे(न्मां) परे न जानीयुः, अल्पेच्छ[ं] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति |
SK
कथं संतुष्टो भवति | इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्टः, स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति | न परितस्यति | लब्ध्वा च पुनः अरक्तः परिभुंक्ते | असक्त इति विस्तरेण पूर्ववत् | यथा चीवरमेवं पिण्डपातं (तः), शयनासनमेवं तुष्टो भवति |
SK
कथं सुपोषो भवति | आत्मा अस्यैकः पोष्यो भवति | न तु परे तद्यथा दारका वा, मनुष्या वेति | ये वा पुनरन्ये [अ]पि केचिद्येषामर्थाय या (या य)म्पर्येष्टिमापद्यते | परे चैवं दायकदानपतयो दुष्पोष्यमिति पश्ये (श्येयुः) (न् | र) एवं सुपोष्यो भवति |
SK
कथं सुभरो भवति | अल्पेनापि यापयति | लूहेनापि यापयत्येवं सुभरो भवति |
SK
कथं धुतगुणसमन्वागतो भवति | पिण्डपातिको भवति | सावदानपिण्डपातिकः | एकासनिकः, खलु पश्चाद्भक्तिकः | त्रैचीवरिको, नामतिकः, पान्सु (पांसु)कूलिकः | (Śभ्_Sह्: १५८) आरण्यको, वृक्षमूलिकः आभ्यवकाशिकः | श्माशानिको, नैषद्यिकः | याथासंस्तरिकः [|] त एते पिण्डपातचीवरशयनासनमारभ्य द्वादशका[धुत]गुणा भवन्ति | त्रयोदशा (श) वा [|]
SK
तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति | प्राप्तपिण्डपातिकश्च, सावदानपिण्डपातिक[त]या वेश्यानुवेश्यकुलानि भिक्षित्वा, पर्यटित्वा (पर्यट्य), यथालब्धं यथोपसम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति | अतो [अ]हं लप्स्ये, प्रणीतं खादनीयं, भोजनीयं, यावदाप्तं [|] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति | प्रभेदं पुनः आरभ्य त्रयोदश(ः) [|]
SK
तत्रैकासनिकत्वं कथमत् | एकस्मिन्नासने निषण्णोयावत्परिभोक्तव्यं | तावत्परिभुंक्ते | व्युत्थितश्च पुनस्तस्मादासनान्न परिभुंक्ते | इदमुच्यते | एकासनिकत्वं ||
SK
खलु पश्चाद्भक्तिकत्वं कतमत् | भोजनार्थं निषण्णस्तावत्(न्) न परिभुंक्ते | यावत्सर्वभोजनं प्रतीच्छति | यावता जानाति शक्ष्यामि यापयितुं | यतश्च पुनर्जानीते न मे अत उत्तरि भोजनेन कृत्यं भविष्यतीति | ततः सर्वं परिहृत्यारभते | (Śभ्_Sह्: १५९) प[रि]भोक्तुं | एवं खलु पश्चाद्भक्तिको भवति |
SK
कथं त्रैचीवरिको भवति | त्रिभिश्च चीवरैर्यापयति, सांघाटिना वा, उत्तरासंगेन, अंतर्वासेन च | त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं त्रै[चीव]रिको भवति ||
SK
कथं नामतिको भवति || यत्किंचिच्चीवरं धारयति | त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौर्णिकं धारयति | न त्वन्यं (न्यत्) [|] एवं नामतिकं धारयति |
SK
कथं पान्सु (पांसु)कूलिको भवति | यच्चीवरं परैर्मुक्तं भवति | उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, श्रृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूयरुधिरखेटाप्रक्षितं वा [|] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु(पांसु)कूलिको भवति |
SK
कथमारण्यको भवति | अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति | यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ||
SK
कथं वृक्षमूलिको भवति | वृक्षमूले वासं (Śभ्_Sह्: १६०) कल्पयति | [वृक्ष]मूलं निश्रित्य [|] एवं वृक्षमूलिको भवति |
SK
कथमाभ्यवकाशिको भवति | अभ्यवकाशे वासं कल्पयति | अनवकाशे विवृते द (दे)शे [|] एवमाभ्यवकाशिको भवति |
SK
कथं श्माशानिको भवति | श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः | अभिनिर्ह्रियत एवं श्माशानिको भवति ||
SK
कथं नैषद्यिको भवति | मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति | नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं) वृक्षमूलम्वा, तृणसंस्तरम्वा,पर्णसंस्तरम्वा, निश्रित्य पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्येवं नैषद्यिको भवति |
SK
कथं याथासंस्तरिको भवति | यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति | तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति | तथैव शय्यां कल्पयति | नो तु पुनर्विकोपयति | अभिसंस्करोति चैवं य(या)थासंस्तरिको भवति |
SK
केनैते धुतगुणा उच्यन्ते तद्यथा ऊर्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति | त[च्च त]स्मिन् (Śभ्_Sह्: १६१) समये मृदु च भवति | लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते?) (तूलाभिनिर्हारे) वा [|] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति | संसक्तं चीवररागेण शयनासनरा[गेण] शयनासने चित्तं सक्तं भवति | संसक्तं | स एभिर्धुतगुणैर्विशोधयति ऋजूकरोति | मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति ||
SK
तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति | प्रभूतभोजनरागस्य प्रहाणाय नामतिको भवति | प्रणीतचीवररागस्य प्रहाणाय नामतिको भवति | प्रणीतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति | चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु(पांसु)कूलिको भवति | शयनासनरागश्चतुर्विधः | तद्यथा संस्पर्शरागः | प्रतिश्रयरागः | पार्श्वसुखशयनसुखरागः | आस्तरणप्रत्यास्तरणोपच्छादनरागः | तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति | प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिकः (Śभ्_Sह्: १६२) आम्यवकाशिकः | श्माशानिको भवति | अपि च श्माशानिकत्वं मिद्धेन रागस्य प्रहाणाय भवति | पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषद्यिको भवति | आस्तरणप्रत्यास्तरणोपच्छाद[न]रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण समन्वागतो भवति |
SK
कथं प्रासादिको भवति | प्रासादिकेनाति(भि)क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिंजित)प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति |
SK
कथं मात्रज्ञो भवति | इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थं प्रचारयति | यदुत चीवर पिण्डपात शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्र प्रतिग्र[हेण] मात्रां जानाति | एवं मात्रज्ञो भवति |
SK
कथं सत्पुरुषधर्मसमन्वागतो भवति | उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः | अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति | परांश्च पन्स (पंस)यति | धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति |
SK
कथं पण्डितलिंगसमन्वागतो भवति | कर्मलक्षणो (Śभ्_Sह्: १६३) बालः, कर्मलक्षणः पण्डितः | यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति | दुर्भाषितभाषी, दुष्कृतकर्मकारी, पण्डितः पुनः सुचिन्तितचिन्ती भवति | सुभाषितभाषी, सुकृतकर्मकारी [|] एवं पण्डितलिंगसमन्वागतो भवति |
SK
कथं क्षमो भवति | आक्रुष्टो न प्रत्याक्रोशति | रोषितो न प्रतिरोषयति | वादितो न प्रतिवादयति | भण्डितो न प्रतिभण्डयति | स चायुष्मान् क्षमो भवति | शीतस्योष्णस्य जिघत्साया[ः], पिपासायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां(णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां | शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः | एवं क्षमो भवति |
SK
कथं (सू) सुरतो भवति | यथापि तन्मैत्रेण काय कर्मणा समन्वागतो भवति | मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च | भवत्यप्रतिगुप्तभोजी | लाभैर्धार्मिकैर्धर्मप्रतिलब्धैः, पात्रगतैः, पात्रपर्यापन्नैः शीलसामान्यगतश्च भवति | दृष्टिसामान्यगतश्च | स एभिः षड्भिः संरजनीयैर्धर्मैः (संरंजनीयैर्धर्मैः) समन्वागतः प्रियकरणैर्गुरुकरणैर्स्थवादकरणैः सुखसंवास्यो भवति | अविहेठनजातीयः | (Śभ्_Sह्: १६४) अभिनन्दन्ति चैनं विज्ञाः | सब्रह्मचारिणः | एकव्यवसायः | एवं सू (सु)रतो भवति |
SK
कथं पेशलो भवति | विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितसार्द्धंगमःपूर्वाभिभाषी | प्रियवादी | संग्रहशीलः | आत्तसन्तानः [ः |] एवं पेशलो भवति |
SK
स एभिधर्मैः समन्वागतो धर्मकामो भवति | गुणकामः | न लाभसत्कारकीर्तिश्लोककामः | न स मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति | नाप्यप[वादि]कया [|] असन्तं धर्मं न समारोपयति | सन्तं धर्मं नापवदति | स यत्तद्भवति | कथितं काथेयं, चिवा(ह्ना)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तं | तन्निरर्थकमिति | विदित्वा आरात्परिवर्जयति | [न ते]न दयते, न तेन प्रीयते, तेन चात्मदं [वा]न्यी (ची)वरं धारयति | गृहस्थैः सार्धं, संसर्गं परिवर्जयन्ति (यति) | क्लेशवर्द्धनं [|] आर्यैः सह [सं]सर्गं करोति | ज्ञानविशोधकं [|] न च मित्रकुलानिकरोति | प्रतिगृह्णाति | सामे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद् व्यापारो वा, तेषाम्वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति | उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति | प्रजहाति, (Śभ्_Sह्: १६५) विनोदयति, व्यन्तीकरोति | सा (तन्) मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति | श्रद्धोदयं च न विनिपातयति | अच्युतशीलः | अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते | न च श्रद्धादेयं प्रतिक्षिपति | न शिक्षां प्रत्याख्याति | आत्मदोषान्तरस्खलितगवेषी वा भवति | प्रतिच्छन्नकल्याणो विवृतपापकः | परदोषान्तस्खलितेषु नाभोगः संविद्य[ते] चापत्तिर्नापद्यते | जीवितहेतोरपि | आपन्नश्च लघु लघ्वेव यथाधर्मं प्रतिकरोति | इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परतः कायपरिचर्यां पर्येषते | बुद्धानां च बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते | न प्रतिक्षिपति | तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति | दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमंन्त्री [|] स एभिर्गुणैर्युक्तः, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीयः, कामोपभोगी, स्नातानुलिप्तः | अववादवस्तुप्रावृतः | विविधैर्भूषणैरलंकृतः शोभते | तद्यथा हर्षैर्वा, केयूरैर्वा, अंगुलिमुद्रिकया वा, जातरूपरजतमालया (Śभ्_Sह्: १६६) [वा |] एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो | भासते, तपति, विरोचते | तस्माच्छ्रमणालंकार इत्युच्यते | अयमुच्यते श्रमणालंकारः ||
SK
|| उद्दानं ||
SK
स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा | भोजनं चैव जागर्या संप्रजानद्विहारिता ||
SK
चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना) |
SK
अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ||
SK
श्रद्धा अशठः अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता [||] सुभरता धुतप्राणादिकमात्रता क्षान्ति[ः] सौरभ्यपेशला ||
SK
|| योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानं ||
SK
II. द्वितीयं योगस्थानम्
SK
लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च | तयोश्चैव हि सम्भारो भूमिर्नैष्क्रम्यसंज्ञिता ||
SK
तत्र कति पुद्गला येस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्त्तितायां निष्क्रामन्ति | कथं च पुद्गलानां व्यवस्थानं भवति | कतमदालम्बनं | कतमोववादः | कतमा शिक्षा | कतमे शिक्षानुलोमिका धर्माः | कतमो योगभ्रंशः | कतमे योगाः [|] कतमो मनस्कारः | कति योगाचाराः | कतमद्योगकरणीयं | कतमा योगभावना [|] कतमद्भावनाफलं | कति पुद्गलपर्यायाः | कति माराः | कति मारकर्माणि | कथमारम्भो विफलो भवति |
SK
तत्र पुद्गलाः अष्टाविंशतिः | कतमे अष्टाविंशतिः | तद्यथा मृद्विन्द्रियः | तीक्ष्णेन्द्रिययः | उन्मदरागः | उन्मेदद्वेषः | उन्मदमोहः | उन्मदमानः | उन्मदवितर्कः | समप्राप्तो, मन्दरजस्कजातीयः | प्रतिपन्नकः [|] फलस्थः | श्रद्धानुसारी | धर्मानुसारी | (Śभ्_Sह्: १७०) बुद्धाधिमुक्तो, दृष्टिप्राप्तः | कायसाक्षी | सकृद्भवपरमः | कुलंकुलः [|] एकवीचिकः | अन्तरा(य)परिनिर्वायी | उपपद्यपरिनिर्वायी | साभिसंस्कारपरिनिर्वायी | ऊर्ध्वं(र्ध्व)स्रोता[ः |] समयविमुक्तः | अकोप्यधर्मा(ः) प्रज्ञाधिमुक्तः | उभयतोभागविमुक्तश्चेति | तत्र मृद्विन्द्रियः पुद्गलः कतमः | यस्य पुद्गलस्य मृदूनीन्द्रियाणि | धन्धवाहीनि | मन्दवाहीनि | ज्ञेये वस्तुनीति पूर्ववत् | स पुनर्द्विविधो वेदितव्यः | आदित एव मृद्विन्द्रियगोत्रः | अपरिभाषि(वि)तेन्द्रियश्च |
SK
तीक्ष्णेन्द्रियः पुद्गलः कतमः | यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति | अमन्दवाहीनि | ज्ञेये वस्तुनीति पूर्ववत् | स पुनर्द्विविधो वेदितव्यः | आदित एव तीक्ष्णेन्द्रियगोत्रः | परिभावितेन्द्रियश्च ||
SK
रागोन्मदः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः स तेन हेतुना तेन प्रत्ययैनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत(न)रागश्च | अयमुच्यते रागोन्मदः पुद्गलः |
SK
द्वेषोन्मदः पुद्गलः कतमः | येन पुद्गलेन द्वेषः पूर्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः | तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च | अयमुच्यते | द्वेषोन्मदः पुद्गलः |
SK
मोहोन्मदः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः | तेन च हेतुना तेन प्रत्ययेन [|] एतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायत मोहश्चायमुच्यते मोहोन्मदः पुद्गलः |
SK
मानोन्मदः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृतस्तेन हेतुना तेन प्रत्ययेन [|] एतर्हि मन्यनीये(माननीये)वस्तुनि तीव्रमानश्च भवत्यायतमानश्च || अयमुच्यते मानोन्मदः पुद्गलः |
SK
वितर्कोन्मदः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु वितर्क आसेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतर्हि वितर्क स्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च [|] अयमुच्यते वितर्कोन्मदः | पुद्गलः ||
SK
समप्राप्तः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु रागो, द्वेषो, मोहो, मानो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा (Śभ्_Sह्: १७२) आदीनवतो दृष्टाः | विदूषिताः, सन्तीरिताः [|] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति | नाप्यायतरागः | न चास्य समुदाचरति रागो, यदुत तेन वस्तुना [|] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः | अयमुच्यते समप्राप्तः पुद्गलः |
SK
मन्दरजस्कः पुद्गलः कतमः | येन पुद्गलेन पूर्वमन्यासु जातिषु न राग आसेवितो भवति, बहुलीकृतः | आदीनवतश्च बहुलं दृष्टो भवति | विदूषितः सन्तीरितः | स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये वस्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद्व(उल्व)णे रज्यं रागमुत्पादयति | मध्ये परीत्ते नैवोत्पादयति | यथा राग एवं द्वेषो, मोहो, मानो, वितर्का(र्को), वेदितव्याः (व्यः) | अयमुच्यते मन्दरजस्कः पुद्गलः ||
SK
प्रतिपन्नकः पुद्गलः कतमः [|] आह | प्रतिपन्नकाः पुद्गलाश्चत्वारः | तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः | सकृदागामिफलप्रतिपन्नकः | अनागामिफलप्रतिपन्नकः | अर्हत्त्वफलप्रतिपन्नकः | अयमुच्यते (Śभ्_Sह्: १७३) प्रतिपन्नकः पुद्गलः ||
SK
फलस्थ पुद्गलः कतमः | आह | स्त्रोत आपन्नः, सकृदागामी, (Śभ्_Sह्: १७४) अनागामी अर्हन् | अयमुच्यते फलस्थः पुद्गलः ||
SK
श्रद्धानुसारी पुद्गलः कतमः | यः पुद्गलः परत अव(तो ऽव)वादानुशासनीं पर्येषते | तद्वलेन च प्रतिपद्यते | यदुत फलस्याधिगमाय | नो तूद्गृहीतेषु धर्मेषु | पर्यवाप्तेषु, चिन्तितेषु, तुलितेषूपपरीक्षितेषु स्वयमेवशक्तो भवति | प्रतिबलः | तान् धर्मान् भावनाकारेणानुसर्त्तुं | नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते | तस्माच्छ्रद्धानुसारीत्युच्यते ||
SK
धर्मानुसारी पुद्गलः कतमः | यत्पु(यः पु)द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु, चिन्तितेषु | तुलितेषूपपरीक्षितेषु, स्वयमेव शक्तो भवति | प्रतिबलस्तान्धर्मान्भावनाकारेणानुसर्त्तम् || नो तु परतो ऽववादानुशासनीम्पर्येषते | यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः |
SK
श्रद्धाधिमुक्तः पुद्गलः कतमः | स श्रद्धानुसारी (Śभ्_Sह्: १७६) पुद्गलः | यस्मिन्समये श्रामण्य[भाव]मधिगच्छति | स्पर्शयति (स्पृशति) | साक्षीकरोति | परतोववादानुशासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते ||
SK
दृष्टिप्राप्तः पुद्गलः कतमः | आह [|] स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति | स्पर्शयति (स्पृशति) | साक्षीकरोति | (Śभ्_Sह्: १७७) परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते ||
SK
कायसाक्षी पुद्गलः कतमः [|] योयं पुद्गलः | अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते | व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य [बहुलं] विहरति, न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः ||
SK
सप्तकृद्भवपरमः पुद्गलः कतमः | योयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः, शीलव्रतपरामर्शस्य, विचिकित्सायाः स्त्रोत आपन्नो भवति | अविनिपातधर्मा, नियतः संबोधिपरायणः | सप्तकृद्भवपरमः | सप्तकृत्वा देवांश्च, मनुष्यांश्च, (Śभ्_Sह्: १७८) संबाध्य, संसृत्य दुःखस्यान्तं करोति | उभावपि स्त्रोत आपन्नौ पुद्गलौ वेदितव्यौ |
SK
तत्रैकवीचिकः पुद्गलः कतमः | यस्य सकृदागामिनः पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशाः प्रहीणा भवन्ति | मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति | सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति | स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ||
SK
अन्तरापरिनिर्वायी पुद्गलः कतमः | आह | (Śभ्_Sह्: १७९) अन्तरापरिनिर्वायिणः पुद्गलास्त्रयः | एकोन्तरापरिनिर्वायी पुद्गलः | च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्वतयत्यभिनिर्वृत्ते[ः] समकालमेव परिनिर्वाति | तद्यथा परीत्तः शकलिकाग्निरुत्पन्नैव(न्न एव) परिनिर्वाति | द्वितीयोन्तरापरिनिर्वायी पुद्गलः | अन्तराभवमभिनिर्वर्त्तयत्यभिनिर्वृत्तेः (Śभ्_Sह्: १८०) समकाला(कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति | नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति | तद्यथा अशुभानाम्वा अयःस्थालानाम्वा, दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं) परिनिर्वाति | तृतीयोन्तरापरिनिर्वायि (यी) पुद्गलः अन्तराभवमभिनिर्वर्त्त्य येनोपपत्ति भवस्तेनोपनमति | उपनतश्च पुनरनुपपन्न एव परिनिर्वाति | तद्यथा | अयस्प्रपाटिका उत्पत्य पृथिव्याम् | अपतितैवमभिनिर्वाति | त इमे त्रयो ऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते |
SK
उपपद्यपरिनिर्वायी पुद्गलः कतमः | य उपपन्नमात्र एव परिनिर्वाति ||
SK
अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः | योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य (Śभ्_Sह्: १८१) तत्रोपपन्नः परिनिर्वात्ययमुच्यते अनभिसंस्कारपरिनिर्वायी पुद्गलः |
SK
साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः | योभिसंस्कारेण प्रयत्नेन खेदमार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वात्ययमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ||
SK
ऊर्ध्वस्रोताः पुद्गलः कतमः | यः पुद्गलो ऽनागामी | (Śभ्_Sह्: १८२) प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्वाति | अपि तु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्वर्त्तयभ्य(न्या)वदकनिष्ठान्वा देवान्गच्छति | नैव संज्ञा | (|) नासंज्ञायतनाद्वा | अयमुच्यते उर्ध्वस्रोताः पुद्गलः |
SK
समयविमुक्तः पुद्गलः कतमः | यो मृद्विन्द्वियगात्रः (गोत्रः) पुद्गलः लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते | चेतयति वा मरणाय | अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापन्नयुक्तो भवति | यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति | नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्त्ताना (णा)मत्ययादत्यर्थं विशेषाय परैति | यावन्न तीव्रमभियोगं करोति | अयमुच्यते समयविमुक्तः पुद्गलः ||
SK
अकोप्यधर्मा पुद्गलः कतमः | एतद्विपर्ययेणा [को] ऽप्यधर्मा पुद्गलो वेदितव्यः ||
SK
प्रज्ञाविमुक्तः पुद्गल कतमः | यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति | नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति | अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः [|]
SK
[उभयतोभागविमुक्तः पुद्गलः] कतमः | यः पुद्गल सर्वेण सर्वमास्रवक्षयमनु प्राप्नोति | अष्टौ विमोक्षान्कायेनोपसम्पद्य विहरति | तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति | विमोक्षावरणाच्चा[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः ||
SK
पुद्गलव्यवस्थानं कतमत् | एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् | कतमैरेकादशभिस्तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन | समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि प्रभेदेना वरणप्रभेदेन च ||
SK
इन्द्रियप्रभेदेन तावत् | मृद्विन्द्रियस्ती (यती) क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं ||
SK
निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं | भिक्षु[र्]भिक्षुणी, शिक्षमाणा [श्रामणेरः] श्रामणेरी उपासक उपासिका च ||
SK
तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं | योयं रागोन्मदः पुद्गलः स रागचरितः [|] यो द्वेषोन्मदः स द्वेषचरितः | यो मोहोन्मदः स मोहचरितः | यो मानोन्मदः स मानचरितः | यो वितर्कोन्मदः स वितर्कचरितः | यः समप्राप्तः समभागचरितः | यो मन्दरजस्कः सो [मन्दचरितो] वेदितव्यः ||
SK
तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि | इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रंजनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति | कः पुनर्वादो मध्यप्रणीते [|] तच्च पुनारागपर्यवस्थानं संतत्या चिरकालमवस्थापयति | दीर्घकालमनुबद्धो भवति (|) तेन पर्यवस्थानेन, रंजनीयैर्धर्मैरभिभूयते | नो तु शक्तो [अ]तिरंजनीयान्धर्मानभिभवितुं [|] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः | कर्कशेन्द्रियः, अपरुद्धेन्द्रियः | नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन, वाचा दुर्विवेज्यश्च भवति, दुःसंवेज्यश्च | हीनाधिमुक्तिकश्च भवति | दृढकर्मान्तः | स्थिरकर्मान्तः | दृढव्रतः | स्थिरव्रतः | महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारितस्य पुद्गलस्य लिंगानि वेदितव्यानि |
SK
द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि | इह द्वेषचरितः पुद्गलः | द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं,प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति | कः पुनर्वादो मध्याधिमात्रे(ण) [|] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति | चिरकालमनुबद्धो भवति | प्रतिघपर्यवस्थानेन | स द्वेषणीयैर्धर्मैरभिभूयते | नो तु द्वेषणीयान्धर्मान्छक्नो (ञ्छक्नो)ति (Śभ्_Sह्: १८६) अभिभवितुं | रुक्षेन्द्रियश्च भवति | खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति | यदुत कायेन, वाचा | सुविवेन्य(ज्य)श्च भवति | सुसंवेज्यः | ध्वाङ्क्षो भवति मुखरः | प्रगल्भः अनधिमुक्तिबहुलः | न दृढकर्मान्तो, नस्थिरकर्मान्तः | न दृढव्रतो, न स्थिरव्रतः | दौर्मनस्यबहुलश्च भवत्युपायासबहुलः | अक्षमो भवत्यमहिष्ठः | विलोमनजातीयः | अप्रदक्षिणग्राही दुःप्रत्यानेय जातीय उपनाहबहुलः | क्रूराशंसश्चण्डश्च भवत्यादा[यी] प्रत्यक्षरवादी सो ऽल्पमात्रमप्युक्तः सन्नभिषज्यते | कुप्यति | व्यापद्यते | मद्गु[ः] प्रतितिष्ठति | कोपं संज[न]यति | [वि]कृतभृकुटिश्च भवति | अनुत्तानमुखवर्ण[ः] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [द्वेष]चरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ||
SK
तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि | इह [मोह]चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं, प्रभूतं मोहपर्यवस्थानमुत्पादयति | प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति | तेन चानुबद्धो भवति | (Śभ्_Sह्: १८७) स मोहनीयैर्धर्मैरभिभूयते | नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं) | बद्धे(धन्धे?)न्द्रियश्च भवति | जडेन्द्रियश्च भवति | मत्तेन्द्रियश्च, शिथिलकायकर्यान्त(न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसम्पन्नः | मन्दभागी, दुर्मेधो(धः) | मुषितस्मृतिः | असंप्रजानद्विहारी | वामग्राही, दुर्विवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः | जात एडमूको हस्तसंबाधिकः | अप्रतिबलः | सुभाषितदुर्भाषितानामर्थमाज्ञातुं प्रत्यय(प?)हायश्च भवति | परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ||
SK
तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि | इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति | कः पुनर्वादो मध्याधिमात्रे [|] तस्य च मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति | तेन चानुबद्धो भवति | [कतमानि मानचरितस्य पुद्गलस्य लिंगानि [|] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपिघनं मानपर्यवस्थानमुत्पादयति कः पुनर्वादो मध्याधिमात्रे | तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति | तेन चानुबद्धो भवति] स मानस्थानीयैर्धर्मैरभिभूयते | (Śभ्_Sह्: १८८) नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुं | उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो[न्नतेन्द्रियश्च] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ता भवति | स्तब्धो भवति | अप्रणतकायो नाभि वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षो परपंसकः | लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः |उत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति | दुःसंवेज्य उदाराधिमुक्तिश्च भवति | मन्दकारुण्यः [|] अधिमात्रं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति | उपनाही चेत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ||
SK
तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिंगानि | इह वितर्कचरितः पुद्गलः वितर्क स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति | तच्च पर्यवस्थानं दीर्घकालमवस्थापयति | तेन चानुबद्धो भवति | स वितर्कस्थानीयैर्धर्मैरभिभूयते | नो तु वितर्कस्थानीयान् धर्मां (र्माञ्) छक्नोत्यभिभवितुं | अस्थिरेन्द्रियश्च भवति | चपलेन्द्रियः | (Śभ्_Sह्: १८९) त्रं (चं)चलेन्द्रियः | व्याकुलेन्द्रियः | [अस्थिर]कायकर्मान्तः [|] छ(दु)रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसंवेज्यः, प्रपंचारामः प्रपंचरतः | कांक्षाबहुलो, विचिकित्साबहुलः | छन्दिकश्च भवत्यस्थिरव्रतः | अनिश्चितव्रतः | अस्थिरकर्मान्तः [|] अनिश्चितकर्मान्तः [|] शंकाबहुलः, प्रमुषितस्मृतिः | विवेकानभिरतो, विक्षेपबहुलः | लोकचित्रेषु छन्दरागानुसृतः [|] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि || इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ||
SK
तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं | अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः [|] अस्ति प्रत्येकबुद्धयाने [|] अस्ति महायाने [|] तत्र योयं पुद्गलः | श्रावकयाने कृतप्रणिधानः सम्यक्छ्रावकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः | स्यान्महायानगोत्रः | तत्रयोयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छावकगोत्रः, स्यान्महायानगोत्रः [|] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः | तत्र योयं श्रावकगोत्रः पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृतप्रणिधानः | स श्रावकगोत्रत्वादवश्यमन्ते काले तत्प्रणिधानं (Śभ्_Sह्: १९०) व्यावर्त्यं श्रावकयानप्रणिधान एवावतिष्ठते | एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः |
SK
तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः | नो तु गोत्रसंभारो, गोत्रव्यतिकरः | अस्मिंस्त्वर्थे श्रावकयानप्रणिधाना[ः] श्रावकगोत्राश्चैते पुद्गला वेदितव्याः || एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ||
SK
कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति | एषां यथोद्दिष्टानां यथापरिकीर्त्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति | कतमाभिश्चतसृभिः [|] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा | [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा] | अस्ति प्रतिपत्सुखा धन्धाभिज्ञा अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा || तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा | तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा | तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा | तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा | एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं ||
SK
तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं (Śभ्_Sह्: १९१) वेदितव्यं | तद्यथा | चतुर्णां प्रतिपन्नकानां स्त्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य अनागामिफलप्रतिपन्नकस्य, अर्हत्त(अर्हत्त्व)फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः | अनागामिनोर्हतश्च ये प्रतिपन्नकमार्गा वर्तन्ते | ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानं | ये ऽर्हत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ]लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ||
SK
कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति | तद्यथा श्रद्धानुसारिधर्मानुसारिणा [|] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः | स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी | एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति |
SK
तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति | तद्यथा कायसाक्षिणः (साक्षी) अष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति | न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति | रूपी रूपाणि पश्यति | अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति | शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति | आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयितनिरोधमनुलोमप्रतिलोमं (Śभ्_Sह्: १९२) समापद्यते च, व्युत्तिष्ठते च | एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति |
SK
कथमुपपत्तिप्रभेदेन | पुद्गलव्यवस्थानं भवति | तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश्च | एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति |
SK
कथमपरिहाणिप्रभेदेन | पुद्गलव्यवस्थानं भवति | तद्यथा समयविमुक्तस्यार्हतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं || अकोप्यधर्मकस्यार्हतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [|] एव मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति |
SK
तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति | तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः | तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् | उभयतोभागविमुक्तस्तु | अर्हन् | क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त इत्युच्यते | एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ||
SK
तत्रालम्बनं कतमत् | आह [|] चत्वार्यार्यालम्बनवस्तूनि | (Śभ्_Sह्: १९३) कतमानि चत्वारि | व्याप्यालम्बनं, चरितविशोधमालम्बनं कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनं |
SK
तत्र व्याप्यालम्बनं कतमत् | आह | तदपि चतुर्विधं | तद्यथा सविकल्पं प्रतिबिम्बं, निर्विकल्पं प्रतिबिम्बं, वस्तुपरीत्तता | कार्यपरिनिष्पत्तिश्च |
SK
तत्र सविकल्पं प्रतिबिम्बं कतमत् | यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा निश्रित्य, दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै र्विपश्यनाकारैर्विपश्यति | विचिनोति | प्रविचिनोति | परिवितर्कयति | परिमीमान्सा (मांसा)मापद्यते |
SK
तत्र ज्ञेयम्वस्तु [|] तद्यथा अशुभा वा, मैत्री वा, (Śभ्_Sह्: १९४) इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्वा | स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं | अधोभूमीनामौदारिकत्वं | उपरिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते | ज्ञेयम्वस्तु | तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र(श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते | तदेवं ज्ञेयम्वस्तुनि (स्त्वधि)मुच्यते | स तस्मिन् समये प्रत्यक्षानुभाविक इति वा[धि]मोक्षः प्रवर्त्तते | ज्ञेयंवस्तुनि (स्त्विति) च | तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति | समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः | स तादृशा(शो) मनस्कारानुभवः समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुनः अनुसदृशं तद् भवति (|) प्रतिभासं, येन तदुच्यते | ज्ञेयवस्तुभावं (-सभागं) प्रतिबिम्बिमिति | यदयं (दिमं) योग[ं] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये वस्तुनि परीक्ष्य गुणदोषावधारणं करोति | इदमुच्यते सविकल्पं प्रतिबिम्बं [|]
SK
निर्विकल्पं (|) प्रतिबिम्बं कतमत् | इहायं योगी प्रतिबिम्बान्निमित्तमुद्गृह्य न पुनः विचिनोति | (Śभ्_Sह्: १९५) प्रतिविचिनोति | परिवितर्कयति | परिमीमान्सा (मांसा)मापद्यते | अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति | अपि तु नवाकारया चित्तस्थित्या अध्यात्ममेव चित्तं स्थापयति | संस्थापयति | अवस्थापयत्युपस्थापयति | दमयति | शमयति | [व्युपशमयति] | एकोतीकरोति | समाधत्ते [|] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति | यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति (|) तदालम्बनं, नो तु विचिनोति | परिवितर्कयति | परिसीमान्सा (मांसा)मापद्यते | तच्च प्रतिबिम्बं प्रतिबिम्ब मित्युच्यते | इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि |
SK
वस्तुपपन्नता (वस्तुपर्यन्तता) कतमा | यदालम्बनस्य यद्भाविकता यथावद्भाविकता | यथावद्भाविकता च |
SK
तत्र यावद्भाविकता कतमा | यस्मात्परेण रूपस्कन्धो (Śभ्_Sह्: १९६) वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा], संस्का[र]स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति | सर्वसंस्कृतवस्तुसंग्रहः पंचभिर्धर्मैः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च | आर्यसत्यैरियमुच्यते यावद्भाविकता ||
SK
तत्र यथावद्भाविकता कतमा | या आलम्बनस्य भूतता | तथता च तसृभिर्युक्तिभिः | युक्त्युपेतता | यदुतापेक्षा (|) युक्त्या, कार्यकारणयुक्त्या | उपपत्तिसाधनयुक्त्या | धर्मतायुक्त्या च | इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते |
SK
तत्र कार्यपरिनिष्पत्तिः कतमा | यदस्य [योगिन]आसेवनान्वया[द्]भावनान्वयाद् बहुलीकारान्वयाच्छमथविपश्यनाया[ः] प्रतिबिम्बालम्बनो मनस्कारः | स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः | स परिपूर्यते | तत्परिपूर्या(श्)चाश्रयः परिवर्त्तते | सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते | आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते | प्रथमध्यानसमापत्तुः, (Śभ्_Sह्: १९७) प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः | चतुर्थध्यानलाभिनः | चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे [|] इयमुच्यते कार्य परिनिष्पत्तिः ||
SK
तान्येतानि भवति | चत्वार्यालम्ब नवस्तूनि | सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नैस्सम्यक्संबुद्धैर्देशितानि | तेनैतद्बाह्यालम्बनमित्युच्यते | अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च | तेन तद्व्यापीत्युच्यते |
SK
यत्तावदाह | सविकल्पं प्रतिबिम्बमिति | इदमत्र विपश्यनापक्ष्यस्य [|] यत्पुनराह | वस्तुपर्यन्ततेति | इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च | यदाह | कार्यपरिनिष्पत्तिरिति | इदमत्र हेतुफलसम्बन्धस्य |
SK
यथोक्तम्भगवता | आयुष्मन्तं रेवतमारभ्य [|] एवमनुश्रूयते | आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत् | (Śभ्_Sह्: १९८) कियता, भदन्त, भिक्षुर्योगा, [(गी) योगा]चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति | कथं पुनरालम्बनै(ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति | साधु, साधु, रेवत, साधु खलु त्वं रेवत | एतमर्थं पृच्छति (सि) | तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [|] इह, रेवत भिक्षुर्योगी योगाचारः चरितम्वा विशोधयितुकामः, कौशल्यम्वा कर्तुकामः | आस्रवेभ्यो वा चित्तं विमोचयितुकामः | अनुरूपे चालम्बने चित्तमुपनिबध्नाति | प्रतिरूपे च सम्यगेव चोपनिबघ्नाति | तत्र चानिराकृतध्यायी भवति |
SK
कथमनुरूपे आलम्बने चित्तमुपनिबघ्नाति | [स चे]द्रेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, स न शुभालम्बने चित्तमुपनिबघ्नाति | एवमनुरूपे आलम्बने चित्तमुपनिबघ्नाति | द्वेषचरितो वा पुनर्मैत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे | स चेद्रेवत, स भिक्षुर्योगी योगाचारोवितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबघ्नाति | एवं सो ऽनुरूपे आलम्बने चित्तमुपनिबघ्नाति | स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबघ्नाति | (Śभ्_Sह्: १९९) हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वावैराग्यं कर्त्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्त्तुकामः | रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबघ्नाति | सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये(षु) समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबघ्नाति | एवं हि, रेवत, भिक्षुर्योगी योगाचारः | अनुरूपे आलम्बने चित्तमुपनिबघ्नाति | इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तुकामो भवति, प्रचेत्तुकामः | परिवितर्कयितुकामः | परिमीमान्स (मांस)यितुकामः | तच्च तेन पूर्वमेव दृष्टम्वा भवति | श्रुतम्वा | मतम्वा | विज्ञातम्वा [|] स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपतिं कृत्वा, समाहितभूमिकेनमनस्कारेण मनसिकरोति | विकल्पयत्यधिमुच्यते | स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते | तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबघ्नाति | स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या)वद्(ज्) ज्ञेयं ज्ञातव्यं भवति | तच्च यथाभूत[मविपरीतचित्तं (त)मेवं हि, रेवत, (Śभ्_Sह्: २००) भिक्षुर्योगी योगाचा]रः | सम्यगेवालम्बने चित्तमुपनिबघ्नाति | कथं च, रेवत, भिक्षुर्योगी योगाचार[ः] अनिराकृतध्यासी (यी) भवति | स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान[ः] सातत्यप्रयोगी च भवति | सत्कृत्यप्रयोगी च | कालेन च कालं शमथनिमित्तं भावयति | प्रग्रहनिमित्तमुपेक्षानि मित्तमासेवनान्वयाद् भावनान्वयाद्वहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति | स्पर्शयति (स्पृशति) | साक्षात्करोति | ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धिं, रागविरागाच्चित्तपरिशुद्धिमविद्या [वि]रागात् (|) ज्ञानपरिशुद्धिमधिगच्छति | स्पर्शयति (स्पृशति), साक्षात्करोति | एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति | यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति |
SK
|| तत्र गाथा ||
SK
निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः | बिम्बध्यायी साततिकः पारिशुद्धि विगच्छति ||
SK
तत्र यत्तावदाह || निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता || यत्पुनराह | सर्वभूतार्थवेदक इति | अनेन वस्तुपर्यन्तता आख्याता || यत्पुनराह | बिम्बध्यायी साततिकः | इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् | यत्पुनराह | पारिशुद्धिं विगच्छतीत्यनेन कार्य[परि]निष्पत्तिराख्याता || पुनरपि चोक्तं भगवता ||
SK
चित्तनिमित्तस्य कोविदः प्रविवेकस्य (प्राविवेक्यस्य?) च विदन्ते रसं | ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं [||]
SK
तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब[ं] निमित्तशब्देनाख्यातं | वस्तुपपर्यन्तता कोविदशब्देन | यत्पुनराह | प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता | यत्पुनराह | ध्यायी निपक[ः] प्रतिस्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् || यत्पुनराह | भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता || तदेवं सत्येतद्व्याप्यालम्बनमाप्तागमविशुद्धं (Śभ्_Sह्: २०२) वेदितव्यं || युक्तिपतितं च | इदमुच्यते व्याप्यालम्बनं ||
SK
तत्र चरितविशोधनमालम्बनं कतमत् || तद्यथा अशुभा [|] मैत्री | इदं प्रत्ययताप्रतीत्यसमुत्पादः | धातुप्रभेदः | आनापानस्मृतिश्च |
SK
तत्राशुभा कतमा | आह [|] षडविधा अशुभा | तद्यथा प्रत्यशुभता | दुःखाशुभता | अवराशुभता | आपेक्षिकी अशुभता | क्लेशाशुभता | प्रभंगुराशुभता च |
SK
तत्र प्रत्यशुभता कतमा | आह | प्रत्यशुभता अध्यात्मं चोपादाय, बहिर्धा चोपादाय वेदितव्या ||
SK
तत्राध्यात्ममुपादाय | तद्यथा- केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ्मान्स(मांस)मस्थि, स्नायु[ः], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोमं, अन्त्रान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं(यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणकं, वसा, लसीका, मज्जामेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंगं, प्रस्रावः |
SK
तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा | तद्यथा विनीलकम्बा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म(त)कम्वा, विखादित(क)म्वा | विलोहितकम्वा | विक्षिप्तकम्वा | अस्थि वा | शंकलिकां (का) वा | उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिंघाणककृतम्वा, रुधिरम्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा | इत्येवं भागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या |
SK
या चाध्यात्ममुपादाय | या च बहिर्धोपादायाशुभता | इयमुच्यते | प्रत्यशुभता |
SK
तत्र दुःखाशुभता कतमा | यद्दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते | कायिकचैतसिकमसातं वेदयितं वेदनागत मियमुच्यते | दुःखाशुभता |
SK
तत्रावराशुभता कतमा | यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च, प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति | इयमुच्यते अवराशुभता |
SK
आपेक्षिकी अशुभता कतमा | तद्यथा तदेकत्यम्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति | तद्यथा | आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति | सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च (भ इति) संख्यां गच्छति | इयमेवं भागीयापेक्षिकी अशुभता [|]
SK
त्रैधातुकावचराणि (|) सर्वाणि संयोजनबन्धना[न्य]नुशयोपक्लेशाशुभतेत्युच्यते (-शा अशुभतेत्युच्यते) ||
SK
तत्र प्रभंगुराशुभता कतमा | या पंचानामुपादानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये | आलम्बनं तत्र रागस्तद्यथा | अध्यात्मं कामेषु (Śभ्_Sह्: २०५) कामछन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्दः (च्छन्दः), मैथुनरागः | विषयछन्दः (च्छन्दः) | विषयरागः | रूपछन्दो (च्छन्दो) रूपरागः सत्कायछ(च्छ)न्दः सत्कायरागश्चेति | अयं पञ्चविधो रागः | तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय | असमुदाचाराय | षड्विधा अशुभता आलम्बनं | तत्राध्यात्ममुपादाय | प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम[च्]छन्दात् कामरागाच्चित्तम्विशोधयति | बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुर्विधा[द्] रागप्रतिसंयुक्ताद्वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति |
SK
तत्र यदा विनीलकम्वा, विपूयकम्वा, विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि करोति | तदा वर्णरागाच्चित्तं विशोधयति | यदा पुनर्विलोहितकं वा मनसि करोति | तदा संस्थानरागाच्चित्तं विशोधयति | यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति | तदा स्पर्शरागाच्चित्तं विशोधयति | यदा विक्षिप्तकं मनसिकरोति तदा उपचाररागाच्चित्तं विशोधयति | अतएव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिव पथिका[सु व्य]वस्थापिता | (Śभ्_Sह्: २०६) या यैवानेन शिवपथिका दृष्टा भवति | एकाहमृता वा, सप्ताहमृता वा, काकैः कुररैः खाद्यमाना, गृध्रैः, श्वभिः, श्रृगालैः | तत्र तत्रेममेच (व) कायमुपसंहरति | अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति | अनेन तावद्विनी लकमुपादाय यावद्विखादितकमाख्यातं |
SK
यत्पुनराह | या अनेन शिवपथिका दृष्टा भवति | अपगतत्वङ्मान्स(मांस)शोणितम्वा सूपनिबद्धेत्यनेन विलोहितकमाख्यातं |
SK
यत्पुनराह | यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकवार्षिकानि द्विवार्षिकानि (र्षिकाणि) | यावत्सप्तवाषि(र्षि)कानि (णि) श्वेतानि शंखनिभानि | कपोतवर्णानि पान्सु(पांसु)वर्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातं |
SK
एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन (ण) रागाच्चित्तं विशोधयति | तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च | विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति | तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति | तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च का[म]भवाग्रमुपादाय (Śभ्_Sह्: २०७) सर्वस्मात्काय(म)रागाच्चित्तं विशोधयति | इदं तावद्रागचरितस्य चरितविशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते | सर्वं सर्वाकारमशुभतालम्बनं | संगृहीतं भवत्यस्मिंस्त्वर्थे प्रत्यशुभतै वाभिप्रेता | तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये | आलम्बनं ||
SK
तत्र मैत्री कतमा | यो मित्रपक्षे वा, अमित्रपक्षे वा | उदासीनपक्षे वा | हिता[ध्या]शयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः | (Śभ्_Sह्: २०८) समाहितभूमिकः | तत्र योयं मित्रपक्षः | अमित्रपक्ष उदासीनपक्षश्च [|] इदमालम्बनं | तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (|) यच्चालम्बनं | यश्चालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते |
SK
तत्र यत्तावदाह मैत्रीसहगतेन चित्तेनेत्यनेन त्रिषु पक्षेषु मित्रपक्षे, अमित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः |
SK
यत्पुनराह | अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं ||
SK
तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता(ः) | असमर्थतया अव्याबाधत[या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता | अपकाराविषष्टनार्थेन (Śभ्_Sह् २०९) अव्याबाध्यता (अव्याबाधता) |
SK
यत्पुनराह | विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः | कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [|] यत्पुनराह | अधिमुच्यस्यानि र्वो( )पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्षः | समाहितभूमिक आख्यातः | स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः | आधिमोक्षिकः | मनस्कारानुगतः | अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः | यस्तु दुःखितो वा, अदुःखितो वा पुनर्मित्रपक्षः | अमित्रपक्ष उदासीनपक्षो वा [|] तत्र यो दुःखितः स करुणाया आलम्बनं | यः सुखितः स मुदिताया आलम्बनमियमुच्यते मैत्री [|] तत्र व्यापादचरितः पुद्गलः (Śभ्_Sह् २१०) मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु करोति | व्यापादाच्चित्तं परिशोधयति ||
SK
तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः | यत्त्रिष्वध्वसु संस्कारमात्रं, धर्ममात्रं, वस्तुमात्रं, हेतुमात्रं, फलमात्रं, युक्तिपतितं, यदुतापेक्षा युक्त्या, कार्यकारणयुक्त्या | उपपत्तिसाधनयुक्त्या च | धर्माणामेव धर्माहारकत्वं | निष्कारकवेदकत्वं च | इदमुच्यते | इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनं | यदालम्बनं मनसि कुर्वन् मोहाधिकः पुद्गलो मोहचरितः मोहं प्रजहाति | तनूकरोति | [मोह]चरिताच्चित्तं विशोधयति ||
SK
तत्र धातुप्रभेदः कतमः | तद्यथा षड्धातवः | पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च |
SK
तत्र पृथिवीधातुर्द्विविधः | आध्यात्मिको (Śभ्_Sह् २१२) बाह्यश्च | तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्मं खक्खटं खरतरमुपादत्तं | बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनु (मु?)पगतमनु (मु?)पादत्तं |
SK
स पुनरध्यात्मिकपृथिवीधातुः कतमः | तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो,मलं, त्वङ्मान्समस्थि, स्नायु[ः], सिरा, वृक्का(क्कं), हृदयं, प्लीहकं, क्लोममन्त्राण्यन्त्रगुणाः | आमाशयः | पक्वाशयः | यकृत्पुरीषमयमुच्यते आध्यात्मिकः पृथिवीधातुः |
SK
स पुनर्बाह्यः पृथिवीधातुः कतमः | काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते (Śभ्_Sह् २१३) बाह्यः पृथिवीधातुः ||
SK
अब्धातुः कतमः | अब्धातुर्द्विविधः | आध्यात्मिको बाह्यश्च |
SK
तत्राध्यात्मिक कोप्धातुः(ब्धातुः) कतमः | यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतं | आपः अब्धातुमुपगतमुपादातुं (अब्धातुगतमुपगतमुपादत्तं) | तद्यथा अश्रु, स्वेदः | खेटः शिंघाणकः | बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय(स्रावो ऽय)मुच्यते आध्यात्मिकोब्धातुः | बाह्योब्धातुः कतमः | यद्बाह्यमापः अप्गतं (अब्गतं), स्नेहः स्नेहगतमनु(तमु)पगतमनु(तमु)पादत्तं | तत्पुनरुत्सो वा, सरांसि वा, तडागा (Śभ्_Sह् २१४) वा, नद्यो वा,प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्योब्धातुः ||
SK
तेजोधातुः कतमः | तेजोधातुर्द्विविधः आध्यात्मिको बाह्यश्च ||
SK
तत्राध्यात्मिकस्तेजोधातुः कतमः | यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा ऊष्मागतमुपगतमुपादत्तं | तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते | संतप्यते, परितप्यते | येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति | यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति ||
SK
बाह्यस्तेजोधातुः कतमः | यद्बाह्यं तेजस्तेजोगतमूष्मा(ष्म)गतमनु(मु)पगतमनु(मु)पादत्तं | (Śभ्_Sह् २१५) तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषते (न्ते) | यत्तूत्पन्नं ग्राममपि दहति | ग्रामप्रदेशमपि | नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति | इति यो वा पुनरन्योप्येवंभागीयः ||
SK
तत्र वायुधातुः कतमः | वायुधातुर्द्विविधः | आध्यात्मिको बाह्यश्च |
SK
तत्राध्यात्मिको वायुधातुः | यदप्यध्यात्मं प्रत्यात्मं वायुर्वायुगतं | लघुत्वं समुदीरणत्वमुपगतमुपादत्तं | स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः | कुक्षिशया वायवः | पृष्ति(ष्ठि)शया वायवः | वाय्वष्ठीला(वाताष्ठीला) वायवः | क्षुरकपिप्पलकशस्त्रका वायवः | आश्वासप्रश्वासा वायवः | अंगप्रत्यं[गानुसारिणोवायवः]
SK
बाह्यो वायुधातुः कतमः | यद्बाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं | अनु(उ)पगतमनु(मु)पादत्तं [|] सन्ति बहिर्धा पूर्वा वायवो, दक्षिणा वायवः | उत्तरा वायवः पश्चिमा वायवः | सरजसो वायवः, अरजसो वायवः, [परीत्ता] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायुमण्डलकवायवः [|] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति | कुड्याग्रानपि पातयति | पर्वताग्रानपि पातयति | पातयित्वा निरुपादानो निग(निर्ग)च्छति | ये सत्त्वाश्चीवरकर्णिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा | इति वायुरन्योप्येवंभागीय[ः ||]
SK
आकाशधातुः कतमः | यच्चक्षुः सौषिर्यम्वा, (Śभ्_Sह् २१८) श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा | इति येन चाभ्यवहरति | यत्र वाभ्यवहरति | येन वाभ्यवह्रियते | यदधोभागेन प्रघरति | इति यो वा पुरनरप्योप्येवंभागीयः [?] अयं उच्यते आकाशधातुः ||
SK
विज्ञानधातुः कतमः [|] यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं | तत् पुनश्चित्तं मनोविज्ञानं च | अयमुच्यते विज्ञानधातुः ||
SK
तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसि कुर्वन् काये पिण्डसंज्ञां विभावयति | अशुभसंज्ञां च प्रतिलभते | न च पुनस्तेनोन्नतिं गच्छति | मानं प्रतनु करोति | तस्माच्चरिताच्चित्तं विशोधयति | अयमुच्यते धातुप्रभेदः | मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं ||
SK
तत्रानापानस्मृतिः कतमा | आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति[ः] |
SK
तत्र द्वावाश्वासौ कतमौ | द्ववौ आश्वासो ऽन्तराश्वासश्च | द्वौ प्रश्वासौ कतमौ | द्वौ प्रश्वासोन्तरप्रश्वासश्च |
SK
तत्र श्वासः यः प्रश्वाससमनन्तरं अन्तर्मुखो वायुः प्रवर्त्तते | यावन्नाभीप्रदेशात् |
SK
तत्रान्तराश्वासो य उपरतेस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते | यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते | अयमुच्यतेन्तराश्वासः |
SK
यथाश्वासो ऽन्तराश्वासश्चैवं प्रश्वासोन्तर(न्तः)प्रश्वासश्च वेदितव्यः | तत्रायं, विशेषः | बहिर्मुखो वायुः प्रवर्तते बहि[ः] नाभीदेशमुपादाय | यावन्मुखाग्रान्नासिकाग्रा[त्]ततो वा पुनर्बहिः |
SK
द्वावाश्वासप्रश्वासनिदानौ [|] कतमौ द्वौ | तदाक्षे पकं च कर्म, नाभीप्रदेशसौषिर्यं च | ततो वा (Śभ्_Sह् २२१) पुन[रुत्पन्नं]यत्कायसौषिर्यं [|] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ | द्वौ कायश्चित्तं च | तत्कस्य हेतोः [|] कायसंन्नि(सन्नि)श्रिताश्चित्तसंन्नि(सन्नि)श्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते | ते च यथायोगं स चेत्कायसंन्निश्रिता [एव] प्रवर्तेरन् | असंज्ञिसमापन्नानां, निरोधसमापन्नानां असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् | स चेच्चित्तसन्निश्रिता एव प्रवर्त्तेरन् | तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् | स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन् | ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाञ्चार्बुदगतानां, पेशीगतानां सत्त्वानां प्रवर्तेरन् | न च प्रवर्त्तते (तन्ते) | तस्मादाश्वासप्रश्वासात्कायसन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि)त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगं |
SK
द्वे आश्वासप्रश्वासयोर्गती [|] कतमे द्वे | आश्वासयोरधोगतिः | प्रश्वासयोरूर्ध्वगतिः |
SK
द्वे आश्वासप्रश्वासयोर्भूमी | कतमे द्वे | औदारिकं च सौषिर्यं, सूक्ष्मं च (|) सौषिर्यं | तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय | यावन्मुखनासिकाद्वारं | मुखनासिकाद्वारमुपादाय (Śभ्_Sह् २२२) यावन्नाभीप्रदेशसौषिर्यं | सूक्ष्मसौषिर्यं कतमत् | सर्वंकायगतानि रोमकूपानि (पाः) ||
SK
चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [|] कतमानि चत्वारि | वायव[ः], आनापानाः, आश्वासप्रश्वासाः | कायसंस्काराश्चेति | तत्रान्यैर्वायुभिः साधारणं पर्यायनामैकं | यदुत वायुरिति | असाधारणानि तदन्यानि त्रीणि |
SK
द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [|] कतमौ द्वौ | अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच | तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते | तथाभ्यवष्टब्धप्रयुक्तस्य कायवैषम्यं चोत्पद्यते | चित्तवैषम्यम्वा | कथं कायवैषम्यमुत्पद्यते | बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते | येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति | ये स्फारकाय (स्फुरका) इत्युच्यन्ते | ते पुनः स्फुरका वायवो विवर्द्धमाना रुजका भवन्ति | येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति | इदमुच्यते कायवैषम्यं || कथं चित्तवैषम्यमुत्पद्यते | चित्तम्वास्य विक्शिप्यते | प्राग[सौ] न वा दौर्मनस्योपायासेनाभिभूयते | एवं चित्तवैषम्यमुत्पद्यते ||
SK
अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो] वेदितव्यः | तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः | प्रतीत्यसमुत्पादावतारपरिचयः | सत्यावतारपरिचयः | षोडशाकारपरिचयश्च |
SK
तत्र गणनापरिचयः कतमः | समासतश्चतुर्विधो गणनापरिचयः | तद्यथा एकैकगणना [|] द्वयैकगणना [|] अनुलोमगणना | प्रतिलोमगणना च ||
SK
तत्रैकैकगणना कतमा |यदा आश्वासः प्रविष्टो भवति | तदा आश्वास प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति | यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति | तदा द्वितीयं गणयत्येवं यावद्दश गणयति | एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना ||
SK
द्वयैकगणना कतमा | यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च | प्रश्वास उत्पन्नो भवति | निर्गतश्च तदा एकमिति गणयति | अनेन गणनायोगेन यावद्दश गणयति | इयमुच्यते | द्वयैकगणना | आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यैकमिति गणयति तेनोच्यते द्वयैकगणना ||
SK
अनुलोमगणना कतमा | अनयैवैकैकगणनया, द्वयैकगणनया वा, अनुलोमं यावद्दश गणयति | (Śभ्_Sह् २२४) इयमुच्यते अनुलोमगणना ||
SK
प्रतिलोमगणना कतमा | प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति | इयमुच्यते प्रतिलोमगणना |
SK
यदा स एकैकगणनां निश्रित्य, द्वयैकगणनाम्वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति | न चास्यान्तराच्चित्तं विक्षिप्यते [|] अविक्षिप्तचित्तश्च गणयति | तदास्योत्तरगणनाविशेषो व्यपदिश्यते |
SK
कतमो गणनाविशेषः | एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति | तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति | एकैकगणनया पुनराश्वासप्रश्वासश्चैकं भवत्येवं यावद्दश गणयति | एवमुत्तरोत्तर वृद्ध्या यावच्छतमप्येकं कृत्वा गणयति | तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति | एवमस्य गणनाप्रयुक्तस्य यावद्दशैकं कृत्वा गणयति | यावच्च दश परिपूरयति | तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते | इयता तेन गणनापरिचयः कृतो भवति |
SK
तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं विक्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते | अनुलोमम्वा, प्रतिलोमम्वा [|] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग(स्वरसवाहिमार्गेणैव) (Śभ्_Sह् २२५) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्त्तमासे आश्वास(से) प्रवृत्तिग्राहकं, निरुद्धे आश्वासे प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते | इयता गणनाभूमिसमतिक्रमो भवति |
SK
पुनस्तदा गणयितव्यं भवति | नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते | आश्वासप्रश्वासा अनुगन्तव्याश्चा[भिलक्ष]यितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः अयमुच्यते गणनापरिचयः |
SK
स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते | तेषामेतद् व्याक्षेपस्थानं भवति | चित्तस्थितये चित्तनिरतये [|] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति |
SK
ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति | तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति | न च तेनाभिरमन्ते [|] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते | यथा च प्रवर्त्तन्ते, (Śभ्_Sह् २२६) यदा च प्रवर्त्तन्ते | तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [|] अयमेवं रूपस्तेषां प्रयोगः |
SK
तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च | एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति | य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति | ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्वन् रूपस्कन्धमवतरति | या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति | या संजानना[स]संज्ञास्कन्ध इत्यवतरति | या चासौ स्मृतिर्या च चेतना, या च (|) तत्र प्रज्ञा | अयं संस्कार इत्युवतरति | यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति | या तद्बहुलविहारिता | एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः |
SK
यदा चानेन स्कन्धमात्रं दृष्टं भवति | परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति |
SK
कथं च पुनरवतरति | स एवं रूपमन्वेषते, पर्येषते, (Śभ्_Sह् २२७) इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति | कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि)त्ताश्रिताश्चित्तप्रत्ययाश्च | कायः पुनश्चित्तं च किं प्रत्ययं च [|] स कायं (यः) चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति | पूर्वकः संस्कारः [|] स पूर्वकं संस्कारमविद्याप्रत्ययमि (इ)त्यवतरति | इति हि अविद्याप्रत्यय(ः) पूर्वकः संस्कारः सर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः | तत्राविद्यानिरोधात् संस्कारनिरोधः | संस्कार निरोधाज्जीवितेन्द्रियनिरोधः | जीवितेन्द्रियनिरोधात्कायचित्तनिरोधः [|] कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः | एवमसौ प्रतीत्यसमुत्पादमतवरति |
SK
स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका]रे कृतपरिचय इत्युच्यते | अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः [|]
SK
स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः | अनित्या एत इत्यवतरति | अनित्यत्वादभूत्वा [च प्रति]विगच्छन्ति | पुनरेते अभूत्वा भवन्ति | भूत्वा च प्रतिविगच्छन्ति | ते जाति धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः | ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [|] एवं सो ऽनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति | या काचिदेषा[ं] संस्काराणामभिनिर्वृत्तिः | दुःखभूता, रोगभूता, गण्डभूता, सर्वासौ तृष्णाप्रत्यया(ः) | यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति | एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति | स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति | अयमुच्यते सत्यावतारपरिचयः [|]
SK
तस्यैवं सत्येषु कृतपरिचयस्य | दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति | येषां प्रहाणाय षोडशाकारपरिचयं करोति |
SK
कतमे पुनः षोडशाकाराः | स्मृत आश्वासः (त (Śभ्_Sह् २३०) आश्वसन्) स्मृत आश्वसिमीति शिक्षते | स्मृतः प्रश्वसन् प्रश्वसिमीति शिक्षते | दीर्घं ह्रस्वं सर्वकायप्रतिसम्वेदी | आश्वसन् सर्वकायप्रतिसंवेदी | आश्वसिमीति शिक्षते | सर्वकायप्रतिसंवेदी प्रश्वसन् | सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते | प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते | प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते | प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते | चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चित्तसंस्कारानाश्वसन्, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते | प्रश्रभ्य चित्तसंस्कारान् (Śभ्_Sह् २३१) प्रश्वसन्, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते | चित्तप्रतिसंवेदी | अभिप्रमोदयंश्चित्तं, समादधच्चित्तं, विमोचच्चित्तं आश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते | विमोचयंश्चित्तं प्रश्वसन् विमोचयंश्चित्तं प्रश्वसिमीति शिक्षते | अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते | निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते | कः पुनरेषां विभागः (|) आकाराणां [|] स शैक्षो दृष्ट(प्र)पवादो लाभीभवति | चतुर्णां स्मृत्युपस्थानानां आश्वा सप्रश्वासालम्बनं च (|) मनस्कारमारभते | अवशिष्टानां (Śभ्_Sह् २३२) संयोजनानां प्रहाणाय [|] तेनाह स्मृतः | आश्वसन् स्मृत आश्वसिमीति शिक्षते | यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घम् आश्वसिमि प्रश्वसिमीति शिक्षते | यदा अन्तराश्वासमन्तरा(न्तः) प्रश्वासं वालम्बनीकरोति | तदा ह्रस्वमा[श्वसिमि] प्रश्वसिमीति शिक्षते | तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते | अन्तराश्वासा अन्तर(न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते | तथैवोपलक्षयति | जानाति | यदा सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा विक्षेपानुप्रविष्टान् काये अधिमुच्यते | आलम्बनीकरोति | निरुद्धे च प्रश्वासे ऽन्तर (न्तः) प्रश्वासे च | अनुत्पन्ने आश्वासेन्तराश्वासे च | प्रश्वासाश्वासशून्यां, तद्व्युपेतां, तद्व्यवहितां सितामवस्था मालम्बनी करोति ||
SK
तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य, कायसंस्कारानाश्वसिमीति शिक्षते | प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते | अपि तु खलु तस्यासेवनान्वयाद्भाव नान्वयाद् बहुलीकरान्वयात् | ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्वमकृतपरिचयस्य प्रवृत्ता (Śभ्_Sह् २३३) भवन्ति | कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते | तेनाह | प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते | स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति | प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (|) आश्वसि मीति शिक्षते | स चेत्पुनर्लाभी भवति | निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [|] स तस्मिन् समये सुखप्रतिसंवेदी भवति |
SK
तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति | येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं | तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [|] स चेत्कदाचित्कर्ह (र्हि) चित्स्मृतिसंप्रमो षादुत्पद्यते | अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि | संज्ञी, असंज्ञी | नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता(तम)भिसंस्कृतं तृष्णागतमुत्पद्यते | य[त्]तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति | नाधिवासयति | प्रजहाति | विनोदयति | व्यन्तीकरोति | एवं चित्तसंस्कारप्रतिसंवेदी प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति (Śभ्_Sह् २३४) [आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति] शिक्षते |
SK
स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति | स तं नि (तन्नि)श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते | सरागं वा, विगतरागम्वा, सद्वेषम्वा, विगतद्वेषम्वा, संमोहं (समोहं) विगतमोहं, संक्षिप्तं, लीनं, प्रगृहीतमुद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं, समाहितमसमाहितं, सुभावितमसुभावितं, विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति | प्रतिसंवेदयति | तेनाह चित्तप्रतिसंवेदी |
SK
स यदा स्त्यान[मिद्ध]निवरणे चित्तं निश्रितं (|) भवति | अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयति | समादापयति | समुत्तेजयति | संप्रदीपयति | तेनाह [|] अभिप्रमोदयंश्चित्तं [|]
SK
यदा [पुन]रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति | अभिसंप्रगृह्णत स्तदा अन्यतममान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति | शमयति, समाधत्ते | तेनाह समदधच्चितं (समादधंश्चित्तं) [|]
SK
यदा च तच्चित्तमासेवनान्वयाद् भावनान्वयाद् (Śभ्_Sह् २३५) बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति | निवरणेभ्यो विशोधितं (विमोचितं) [|] तेनाह [|] विमोचयच्चि(यंश्चि)त्तमाश्वसन् | विमोचयंश्चित्तमाश्वसिमीति शिक्षते |
SK
तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया [अ]वशिष्टा भवन्ति | प्रहातव्याः [|] स तेषां प्रहाणाय मार्गं संमुखीकरोति यदुत संस्कारानित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते | तेनाह | अनित्यानुदर्शी | तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः [|] ऋजुं एतर्हि अनित्यानुदर्शि(र्शी)विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते | यदुतानुशयेभ्यः |
SK
कतमे धातवः [|] यश्च प्रहाणधातुर्यश्च (Śभ्_Sह् २३६) विरागधातुः, यश्चनिरोधधातुः | तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः | सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विराग धातुः | सर्वोपधिनिरोधान्निरोधधातुः | स एवं त्रीन्धातून् शान्ततो मनसि कुर्वन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति | येनास्यासेवनान्वयाद्भावान्वयाद् बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते | तेनाह | प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते | एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु | प्रहीणेष्वर्हन्भवति | क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति | कृतस्य वा परिचयः | अयमस्योच्यते षोडशाकारः परिचयः | यश्चायं पंचविधः परिचय इयमस्योच्यते | आनापानस्मृतिः | यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो हतया प्रयुज्यते | सव्यापारं चैतदालम्बनं | सव्योक्षेपमध्यात्मं प्रत्यात्मं (Śभ्_Sह् २३७) आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति | त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते | अभिरमते | संजायते | इदं पञ्च [विधं] (सं) वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं |
SK
तत्र कौशलालम्बनं (कौशल्यालम्बनं) च [क]तमत् तद्यथा | स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं | तत्र कतमे स्कन्धाः, कतमः (मत्) स्कन्धकौशल्यं || आह | पंच स्कन्धाः | रूपस्कन्धो वेदनास्कन्धः | संस्कारस्कन्धो विज्ञानस्कन्धश्च ||
SK
तत्र रूपस्कन्धो यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि | चत्वारि महाभूतान्युपादाय | (Śभ्_Sह् २३९) तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यम्वा, [औदारि]कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्वा, दूरे वा, अन्तिके वा |
SK
तत्र वेदनास्कन्धः कतमः [|] सुखवेदनीयम्वा (Śभ्_Sह् २४०) स्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्वा [|] षडवेदनाकायाः | चक्षुः संस्पर्शजा वेदना [| श्रो]त्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना ||
SK
तत्र संज्ञास्कन्धः कतमः [|] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा | महद्गतसंज्ञा | अप्रमाणसंज्ञा | नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा | षट्संज्ञाकायाः || चक्षुःसंस्पर्श[जा] संज्ञा || श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा || संस्कार[स्कन्धः] (Śभ्_Sह् २४१) कतमः | षट्चेतना कायाः चक्षुः संस्पर्शजा (Śभ्_Sह् २४२) चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना [|] चेतनां च संज्ञा च स्थापयित्वा || ये तदन्ये चैतसिका धर्माः ||
SK
तत्र विज्ञानस्कन्धः कतमः | यच्चित्तं मनोविज्ञानं [|] ते पुनः षड्विज्ञानकायाः | चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वकायमनोविज्ञानं | सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानं | अतीतानागतप्रत्युत्पन्नमाध्यात्मिकं (Śभ्_Sह् २४३) वा बाह्यम्वा इति विस्तरेण पूर्ववत् || इम उच्यन्ते स्कन्धाः ||
SK
स्कन्धकौशल्यं कतमत् | य एतान्यथोद्दिष्टान्धर्मान्नानात्मकतया च जानाति | बह्वात्मकतया च, न ततः परमुपलभते | विकल्पयति वा | इदमुच्यते समासतः स्कन्धकौशल्यम् ||
SK
तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूपस्कन्धो (Śभ्_Sह् २४४) ऽन्यो वेदनास्कन्ध एवं | अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता ||
SK
तत्र कतमा बह्वात्मकता | यो रूपस्कन्धो नेकविधो नानाप्रकारः | भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च | प्रकारभेदेन [|] इयमुच्यते अनेकात्मकता | रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् | किं च न तस्मात्परं उपलभते, विकल्पयति | स्कन्धमात्रमुपलभते | वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा(त्मा)नमुपलभते | नित्यध्रुवमविपरिणामधर्मकं, नाप्यात्मीयं किंचिदिदं नोपलभते | नो विकल्पयति तस्मात्परेण |
SK
तत्र कतमे धातवः | कतमद्धातुकौशल्यं | आह | (Śभ्_Sह् २४५) अष्टादश धातवः | चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः | श्रोत्रधातुः | शब्दधातुः | श्रोत्रविज्ञानधातुः | घ्राणधातुः | गन्धधातुः | घ्राणविज्ञानधातुः | जिह्वधातूरसधातुः | जिह्वविज्ञानधातुः | कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुर्धर्मधातुर्मनो विज्ञानधातुरिमौच्यन्ते धातवः | यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीजात् | स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति | जानाति रोचयत्युपनिध्याति | इदमुच्यते धातुकौशल्यं || यदष्टादशानां धर्माणां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति | तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यं ||
SK
तत्र कतमान्यायतनानि | कतमदायतनकौशल्यमाह | द्वादशयतनानि | चक्षुरायतनं, रूपायतनं | (Śभ्_Sह् २४६) श्रोत्रायतनं | शब्दायतनं | घ्राणायतनं | गन्धायतनं | जिह्वायतनं | रसायतनं | कायायतनं | स्प्रष्टव्याय तनं, मन आयतनं, धर्मायतनं च | इमान्युच्यन्ते आयतनानि | कतमदायतनकौशल्यं | तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [|] समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः | (Śभ्_Sह् २४७) तत्र श्रोत्रमधिपतिः | शब्द आलम्बनं | समन[न्तर]निरुद्धं च मनः समनन्तरप्रत्ययः | श्रोत्रविज्ञानस्य स संप्रयोगस्योत्पत्तये [|] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं (धर्म आलम्बनं) मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति | त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च | षण्णां विज्ञानकायानां प्रवृत्तिर्भवति | ससंप्रयोगाना(णा)मिति | यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यमिदमुच्यते आयतनकौशल्यम् ||
SK
तत्र कतमः प्रतीत्यसमुत्पादः कतमः (मत्) (Śभ्_Sह् २४८) प्रतीत्यसमुत्पादकौशल्यं [|] आह | अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञानं, विज्ञानप्रत्ययं नामरूपं | विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः | यत्पुरर्धर्मा एव धर्मानभिष्पन्दयति(न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति | संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति | भूत्वा च प्रतिविगच्छन्ति | तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासधर्माणः | ते जरा धर्मित्वाद्यावदुपायासधर्मित्वात् | दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति | यदेभिराकारैः (Śभ्_Sह् २४९) प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानं | इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम् ||
SK
स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद एव वेदितव्यं || तत्रायं विशेषः [|] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति | अस्ति कुशलाकुशलानां कर्मणां फलविपाकः | अकुशलानामनिष्ट इति || यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यं || तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति | सामान्यलक्षणकौशल्यं च | तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातं | अवशिष्टैः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनं ||
SK
तत्र क्लेशविशोधनमालम्बनं कतमत् | आह | (Śभ्_Sह् २५०) अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैव संज्ञानासंज्ञायतनस्य |
SK
तत्र कतमा औदारिकता | औदारिकता द्विविधा | स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च |
SK
तत्र स्वभावौदारिकता कामधातावपि पञ्च स्कन्धाः संविद्यन्ते | प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहारत[राश्]च | अल्पकावस्थायितराश्च | हीनतराः प्रतिक्रुष्टतराश्च [|] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [|] तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते |
SK
तत्र संख्यौदारिकता कतमा | कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः | प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता || एवमुपरिमाभूमिषु स्वभावो (वौ) दारिकता संख्यौदारिकता च | यथायोगं वेदितव्याः (:) |
SK
इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[रा]श्च वेदितव्याः सर्वा अधरिमा भूमयः | दुःखविहारत[रा]श्च अल्पायुष्कतराश्च, नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् | यत्र समासत आदीनवार्थः | औदारिकतार्थः | यस्यां यस्यां भूमौ प्रभूततरमा(आ)दीनवं(वो) (Śभ्_Sह् २५१) भवति | सा आदीनवतः | औदारिकेत्युच्यते | यस्यां लौकिकानां भूमावल्पतर मा(आ)दीनवं(वो) भवति | सा आदीनवतः शान्तेत्युच्यते | इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः | रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्ततः [|] ये अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः, कामधातुमुपादाय ते प्रहीयन्ते | न त्वत्यन्ततः प्रहीयन्ते | ते पुनरेव ते प्रतिसन्धिका भवन्ति |
SK
लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं, तद्यथा | दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यञ्च ||
SK
तत्र दुःखसत्यं कतमत् | तद्यथा जातिर्दुःखं जरापि [दुःखं] व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च | संक्षेपतः पञ्चोपादानस्कन्धा दुःखं [|]
SK
तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी ||
SK
तत्र निरो[ध आ]र्यसत्यं यदस्या एव तृष्णाया अशेषप्रहाणं ||
SK
मार्गसत्यं आर्याष्टांगो मार्गः [|]
SK
तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानं ||
SK
तत्र दुःखसत्यं फलं | समुदयसत्यं हेतुः | निरोधसत्यं फलं | मार्गसत्यं हेतुः प्राप्तये, स्पर्शनायै | तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयं | समुदयसत्यं व्याधिनिदानस्थानीयं | तच्चान्तरम्परिवर्जयितव्यं | निरोधसत्यमारोग्यस्थानीयं | तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यं | मार्गसत्यं भैषज्यस्थानीयं | तच्चासेवितव्यं, भावयितव्यं | बहुलीकर्तव्यं | भूतं चैतत्तथा अवितथा (-थम)विपरीतमविपर्यस्तं (Śभ्_Sह् २५४) दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते | स्वलक्षणं च [न] विसम्वदति | तद्दर्शनाच्चाविपरीता बुद्धयः प्रवर्त्तन्ते | तेन सत्यमित्युच्यते [|]
SK
कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति | आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (|) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति | यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते | बालानामेतद्धर्मतया सत्यं नावबोधेत (बुध्यते) | आर्याणां तूभयथा तत्र जानाति (ज्ञायते) |
SK
दुःखमिति जायमानस्य दुःखा वेदनोत्पद्येत (|) कायिक चैतसिकी, न तु ज[आ]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति ||
SK
इच्छाविघातनिदानं दुःखमुत्पद्येत | कायिकचैतसिकं, न त्विच्छाविघात एव (|) दुःखं, दुःखनिदानं पुनः स इति पेयालम् | संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिर्जात्यादिभिः पर्यायै[ः] | दुःखदुःखतैव परिदीपिता | तत्र विपणामदुःखता संस्कारदुःखता चावशिष्टा | सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति | तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता[ः |] या च नोक्ता विपरिणामदुःखता | संस्कारदुःखता च | साप्येष्वेव द्रष्टव्या |
SK
केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्त्तिता | स्वशब्देन विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण [|] तथा हि दुःखदुःखताया (Śभ्_Sह् २५६) मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते | संवेजिकात्यर्थं दुःखदुःखता पूर्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति | सत्येषु विनेयानां [|]
SK
तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति | यत्तावद्दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता || सा च दुःखदुःखता [|] इदं दुःखदुःखताया व्यवस्थानं | ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य | अप्रियविनाभावः प्रियविनाभावस्य, इच्छासम्पत्तिरिच्छाविघातस्य, ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशा इयमुच्यते विपरिणाम दुःखता ||
SK
तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि]णमन्ती | अत्यर्थीभावाधिपतेयं दुःखं विदधाति | क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानष(श) एव दुःखा भवन्ति | विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते || यथोक्तं भगवता- अवतीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः || यथा चोक्तं- काम[च्]छन्दपर्यवस्थितः | काम[च्]छन्दपर्यवस्थानप्रत्ययं तज्जं (Śभ्_Sह् २५७) चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते | एवं व्यापादस्त्यानमिद्धामौद्ध(मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः | तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते | विपरिणामार्थो(र्त्तो)पि | तेनोच्यते क्लेशविपरिणाम [दुःखते ति [|] इदं विपरिणाम]दुःखताया व्यवस्थानं | संस्कारदुःखता पुनः | सर्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः(दुःख)सहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्यया स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता || ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता[ः] | दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः | दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च [|] इयमुच्यते संस्कारदुःखतया दुःखता [|] इदं संस्कारदुःखताया व्यवस्थानं |
SK
तभ(त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्यायाः [|] सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता(स्)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च | (Śभ्_Sह् २५८) तत्र या पुनर्भवप्रार्थना मा पौनर्भविकी तृष्णा | विषयप्रार्थना पुनर्द्विविधा [|] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [|] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते | या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते |
SK
निरोधोपिद्विविधः | क्लेशनिरोधः, उपक्लेशनिरोधश्च |
SK
मार्गोपि द्विविधः | शैक्षश्चाशैक्षश्च | इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं | तेनाह चतुर्विधमालम्बनं | व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ||
SK
तत्राववादः कतमः | चतुर्विधो [अ]ववादः | (Śभ्_Sह् २५९) अविपरीताववादः | अनुपूर्वाववादः | आगमाववादः | अधिगमाववादश्च ||
SK
तत्राविपरीताववादः कतमः | यदविपरीतं धर्मसत्त्वं च देशयति | ग्राहयति | भूतं यदस्य निर्याति | सम्यग्दुःखक्षयाय | दुःखस्यान्तक्रियायै [|] अयमुच्यते ऽविपरीताववादः |
SK
अनुपूर्वाववादः कतमः | यत्कालेन धर्मं देशयति | उत्तानोत्तानानि [स्थानानि] तत्प्रथमतो ग्राहयति | वाचय[ति] | ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते | (Śभ्_Sह् २६०) ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते | ततः पश्चादन्यासां ध्यानसमापत्तीनामयमेवंभागीयोनुपूर्वाववादो वेदितव्यः |
SK
तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति | गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा [|] तथैवानेनान्यूनमधिकं कृत्वा परानववदते | अयमुच्यते आगमाववादः |
SK
तत्राधिगमाववादः [|] यथानेन तेधर्मा अधिगता भवन्ति | स्पर्शिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा | तञ्चैव परेषां प्राप्तये | स्पर्शनायै साक्षात्क्रियायै | अववदते [|] अयमुच्यते अधिगमाववादः |
SK
अस्ति पुनः सर्वाकारपरिपूर्णोववादः | स पुनः कतमः [|] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारर्यैववदति | ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण | अनुशास्तिप्रातिहार्येण | ऋद्धिप्रातिहार्येण, (Śभ्_Sह् २६१) अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति | परेषां यथा तेन बहुमानजाताः | श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति | तत्र [|] देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारंधर्मदेशनां देशयति | प्रतिपक्षे समनुशास्ति | तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्णाववादो भवति ||
SK
तत्र शिक्षा कतमा | आह | तिस्रः शिक्षाः [|] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा ||
SK
तत्राधिशीलं शिक्षा कतमा | यथापि तच्छीलं (Śभ्_Sह् २६२) वा (तच्छीलवान्) विहरतीति विस्तरेण पूर्ववत् ||
SK
तत्राधिशीलं (चित्तं) शिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं, सविचारं, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[ञ्]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति | इयमधिचित्तं, शिक्षा | अपि खलु सर्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः | अधिचित्तं शिक्षेत्युच्यते | अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयोमा वक्रान्तिर्भवति | न तु सर्वेण सर्वं विना ध्यानैः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि |
SK
तत्राधिप्रज्ञं शिक्षा या चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानं [|]
SK
केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वं | आह | समाधिप्रतिष्ठार्थेन | ज्ञानसंनिश्रयार्थेन | कृत्यकरणार्थेन च [|] तत्र समाधिप्रतिष्ठार्थेनाधिशीलं | शिक्षा | तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (||) चित्तसमाधिं [||] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा | तथा हि समाहितचित्तस्यैकाग्रता | स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्त्तते | तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा | तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति | एष हि स्वार्थ ए[तत्] परमं कृत्यं यदुत क्लेशप्रहाणं [|] तत उत्तरिकरणीयं पुनर्नास्ति | तेन एतास्तिस्र एव शिक्षाः |
SK
काः पुनरासां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसारः [|] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [|] समाहितचित्तो यथाभूतं प्रजानाति | यथाभूतं पश्यति | यथाभूतं जानन्पश्यन्निर्विद्यते | निर्विण्णो (Śभ्_Sह् २६४) विरज्यते | विरक्तो विमुच्यते | विमुक्तो [अ]नुपादाय परिनिर्वाति | एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति | यदुतानुपादाय परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी |
SK
तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते | एवमधिचित्तमधिप्रज्ञमधिकारार्थेना(धिकारार्थेन) च |
SK
तत्र कथमधिकारार्थेना (ना अ)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा | अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः | सा अधिचित्तं शिक्षा |
SK
क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं | सा अधिप्रज्ञं शिक्षा |
SK
या चाधिचित्तं | या चाधिप्रज्ञं शिक्षा | एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यैरेवमधिकार्थेन [|]
SK
अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका | तद्यथा | आर्यश्रावकः | अलाभी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[ः] स्मृतिसंबोध्यंगं भावयति | इयमधिप्रज्ञं शिक्षा (|) अधिचित्तं (Śभ्_Sह् २६५) शिक्षाया आवाहिका | अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्वमेवोक्ता || तत्र अस्त्यधिशीलं शिक्षा | नाधिचित्तं, नाधिप्रज्ञं | अस्त्यधिशीलमधिचित्तं, नाधिप्रज्ञं | न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च | अतो यत्राधिप्रज्ञं | शिक्षा | तत्र तिस्रः शिक्षा वेदितव्या[ः] || इदं तावच्छिक्षाव्यवस्थानं | तत्र योगिना योगप्रयुक्तेन शिक्षितव्यं |
SK
तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति | कतमे त्रयस्तद्यथा | अवीतरागः यद्भूयो वीतरागः, वीतरागश्च |
SK
तत्र सर्वेणसर्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्त्रोत) आपन्नो भवति |
SK
यद्भूयो वीतरागः पुनः सकृदागामी भवति |
SK
वीतरागः सह सत्याभिसमयाद् (येना) नागामी भवति |
SK
त्रीणीन्द्रियाणि | अनाज्ञातमाज्ञास्यामीन्द्रियं | आज्ञेन्द्रियमाज्ञातवत इन्द्रियं |
SK
एषामिन्द्रियाणां कथं व्यवस्थानं भवति | अनभिसमितानां (Śभ्_Sह् २६७) सत्यानां अभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानं | अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानं | कृतकृत्यस्याशैक्षस्यार्हतः | आज्ञा[तावीन्द्रिय]व्यवस्थानं |
SK
त्रीणि विमोक्षमुखानि | तद्यथा शून्यता [अ]प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति | आह [|] द्वयमिदं संस्कृतमसंस्कृतञ्च |
SK
तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [अ]संस्कृतं पुनः निर्वाणं | इदमुभयं यच्च संस्कृतं, यच्चा संस्कृतमित्युच्यते |
SK
यत्पुनरिदमुच्यते | आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् | तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति | अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते | निर्वाणे पुनः तत्र प्रणिधानवतः प्रणिधानं भवति | शान्तदर्शनं | प्रणीतदर्शनं | निःसरणदर्शनं च | निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते | तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति | तद्यथैवासत्तथैवासदिति | जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते | एवं त्रयाणां विमोक्शमुखानां व्यवस्थानं भवति ||
SK
तत्र कतमे शिक्षानुलोमिका धर्माः | आह दश शिक्षाविलोमा धर्माः | तेषां प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा] वेदितव्याः |
SK
तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा | मातृग्रामः | शिशुरुदारवर्णो रंजनीयः | शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं | सत्कायदृष्टेः कबडंकाराहारमुपादाय रसरागः | लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः | स पुनः कतमस्तद्यथा (Śभ्_Sह् २६९) रसेषु वा, सत्येषु वा, स्कन्धेषु वा [|] कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यशैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः | स्त्यानमिद्धेन वा चित्ताभिभवः | चित्ताभिसंक्षेपः | अन्वारब्धवीर्यस्य वा कायिकक्लमः | चैतसिक उपायासः | अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानं | लोभेन वा, यशसावा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः | औद्विग्न्य मुत्प्लावितत्वं | सत्कायनिरोधे निर्वाणे उत्त्रासश्ठ(ःस्त)म्भितत्वं | अमात्रया प्रयोगः | अत्यभिजल्पः | धर्म्यामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः | पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः चित्ताक्षेपः | अनित्येषु च संस्का[रेषु] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारापक्षाला वेदितव्याः |
SK
ध्यान[समापत्ति]सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता | स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[ः] |, जीविताशा तदाशानुगतस्य (Śभ्_Sह् २७०) शोचना, क्लाम्यना, परिदेवना इति | इमे दश शिक्षाविलोमा धर्माः [|] कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति | तद्यथा-अशुभसंज्ञा, अनित्ये दुःखसंज्ञा | दुःखे अनात्मसंज्ञा | आहारे प्रतिकूलसंज्ञा | सर्वालोके अनभिरतिसंज्ञा | आलोकसंज्ञा | विरागसंज्ञा | निरोधसंज्ञा | मरणसंज्ञा | इतीमा दश संज्ञा[ः] | आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते |
SK
तत्र धर्मालोकः | अर्थालोकः | शमथालोको, विपश्यनालोकश्च | एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा | अस्मिन्नर्थे अभिप्रेता | धर्मचिन्तायोगमनसिकारः | परिपन्थस्य प्रहाणाय ||
SK
तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः | कतमे दश [|] तद्यथा पूर्वको हेतुः | आनुलोमिक उपदेशः | योनिशः प्रयोगः | सातत्यसत्कृत्यकारिता तीव्र[च्]छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध(ब्धि)रभीक्ष्णप्रत्यवेक्ष[ण]ता | अपरितमना, निरभिमानता च |
SK
तत्र पूर्वको हेतुः कतमः | यः पूर्वमिन्द्रियपरिपाकः | (Śभ्_Sह् २७१) इन्द्रियसमुदागमश्च | [तत्रानुलोमिक उपदेशः कतमः] य उपदेशो ऽविपरीतश्चान(नु)पूर्विकस्य(श्च) |
SK
तत्र योनिशः प्रयोगः | यथैवा[व]वदितः (वोदितः) | तथैव प्रयुज्यते | तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति ||
SK
तत्र सातत्यसत्कृत्यकारिता [|] षड्रूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति | कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति |
SK
तत्र तीव्र[च्]छन्दता [|] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति | कदा स्विदहं तदायतनमुपसम्पद्य विहरिष्यामि | यदार्या आयतनमुपसंपद्य विहरन्तीति |
SK
तत्र योगबलाधानता [|] द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति | प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च | तत्र कायचित्तदौष्ठु[ल्यं, प्रीतिः] प्रश्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते | कायदौष्ठुल्यं, चित्तदौष्ठुल्यं | तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति | अतिवितर्कितेनातिविचारितेनोत्पद्यते | कायचित्तदौष्ठुल्यं तदा [चात्म]चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति | (Śभ्_Sह् २७२) चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं | चोत्पद्यते | कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति | प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यं अविगतं भवति | सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रश्रम्भयति |
SK
तत्राभीक्ष्णप्रत्यवेक्षा | अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते | सुकृतञ्च | अकृतं च प्रत्यवेक्षते, कृतं च | कुकृताच्चाकृताद् व्यावर्त्तते | सुकृताच्च कृतान्न प्रत्युदावर्त्तते | तथा क्लेशानां प्रहीणाप्रहीणानां मीमान्सा (मांसा) मनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते | तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेव मार्गं भावयति |
SK
तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं | द्रष्टव्यं, प्राप्तव्यं | तदजानतो [अ]पश्यतो, नाधिगच्छतः | परितमना उत्पद्यते, चैतसिकः क्लमः | चैतसिकोविघातः | तामुत्पन्नान्नाधिवासयति | प्रजहाति |
SK
निरभिमानता | अधिगमे प्राप्तौ | स्पर्शनायां निरभिमानो भवति | अविपरीतग्राही, प्राप्ते प्राप्त संज्ञी, अधिगते अधिगतसंज्ञी [|] इतीमे दश धर्माः शिक्षाकामस्य योगिनः || आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति | तेनोच्यन्ते शिक्षानुलोमिका इति |
SK
तत्र कतमो योग्रभंशः | आह | चत्वारो योगभ्रंशाः | कतमे चत्वारः | अस्ति योगभ्रंश आत्यन्तिकः | अस्ति तावत्कालिकः | अस्ति पारिहाणिकः | अस्ति मिथ्याप्रतिपत्तिकृतः |
SK
तत्रात्यन्तिको योगभ्रंशः | अयोगस्थानां पुद्गलानां वेदितव्यः | तस्यापरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति |
SK
तत्र तावत्कालिकः | तद्यथा गोत्रस्थानां परिनिर्वाण धर्मकाणां प्रत्ययविकलानां, ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति | योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति | तेनैव तेषां तावत्कालिक एव भ्रंशो भवति |
SK
तत्र प्राप्तिपरिहाणिको योगभ्रंशः | यथापीहैकत्ये प्राप्तादधिगता[ज्]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते |
SK
तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः | यथापीहैकत्येः | अयोनिशः प्रयुज्यमानो नाराधको भवति (|) योगस्य, नाराधयति (|) ध्याय्यं धर्मं कुशलं [|] यथापीहैकत्यः बहुक्लेशो भवति | प्रभूतरजस्कजातीयः | महाविज्ञानश्च भवति | महाबुद्धिः | महताया (महत्या) बुद्धया समन्वागतः | स श्रुतमुद्गृह्णाति | श्रुतं पर्यवाप्नोति | अल्पम्वा, प्रभूतं वा, अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां, रुजकानां, रुजकजातीयानां धर्मदेशनया (Śभ्_Sह् २७४) चित्तमाराधयति | कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्ययेनोत्पद्यते | लाभसत्कारश्लोकः, स ज्ञातो भवति | महासुखो लाभी भवति | चीवरपिण्डपातशयनासन[ग्लानप्रत्य]यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत(द)ः | तस्यान्ता वर्त्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः | अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा [...]यतस्यैवं भवति | सन्ति ये श्रावका, गृहिप्रव्रजिता, ये मयि संभावनाजाता येषां महत्संस(म)तः ते चेद्या(न्मा)मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[ं] प्रश्नं पृच्छेयुः | तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेन्न (हीयेत, न) च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं | स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योगंव्यवस्थापयति | स चास्य योगो न सूत्रे भवति | न विनये संदृश्यते | धर्मतां च विलोमयति | मयेते(य एते) भिक्षवः | सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं (Śभ्_Sह् २७५) विनिगूहति | न प्रकाशयति | येप्यस्य श्रावका भवन्ति | गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति | तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः | तच्च नावतारये(तरे)द्विनये, संदर्शयेयुः | तच्च न संदृश्यते | धर्मतया उपपरीक्ष्येत | तच्च धर्मतां विरोधयेत् | ते च ततो निदानम् प्रतीता भवेयुरप्रतीतवचनैश्च सां चोदयेयुः | अधिकरणानि चोत्पादयेयुः | एवमहं पुनरपि न सत्कृतः (|) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति | स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपि[णी]मधर्मं धर्मतो दीपयति | संप्रकाशयति | तत्र येस्य दृष्ट्यनुमतमापद्यन्ते | तेप्यधर्मे | धर्मसंज्ञिनो भवन्ति | मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः | अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [|] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ||
SK
तत्र योगः कतमः | आह [|] चतुर्विधो (Śभ्_Sह् २७६) योगः | तद्यथा श्रद्धा, छन्दो, वीर्यं, उपायश्च ||
SK
तत्र श्रद्धा द्विविधाधिष्ठाना-अभिसंप्रत्ययाकारा प्रसादाकारा च || धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ||
SK
छन्दोपि चतुर्विधः | तद्यथा प्राप्तये [|] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति | विस्तरेण पूर्ववत् | परिपृच्छायै | यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छायै | आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय [|] संभारसमुदागमाच्छन्दः | यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्रज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति | अनुयोगाच्छन्दः | या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः | (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये | परिपृच्छनायै | संभारसमुदागमाय | अनुयोगाय च |
SK
तत्र वीर्यमपि चतुर्विध[ं] तद्यथा श्र[वणा]य, चिन्तनायै, भावनायै | आवरणपरिशुद्धये च |
SK
तत्र श्रवणाय वीर्यं | यदश्रुतं शृण्वतः | पर्यवदापयतः | चेतसो [अ]भ्युत्साहः | अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं | चिन्तयतस्तुलयत उपपरीक्षमाणस्य | एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[ं] निवरणेभ्यश्चित्तं विशोधयतः | यश्चेतसोभ्युत्साहः | अविन्यस्तयागता(प्रयोगता) [|] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं चिन्तयत आलयदीर्घता तत्र |
SK
उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता | तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा | कुशलानां धर्माणां निषेवणा | तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः | अधिप्रज्ञञ्च धर्मविपश्यना [|] स चायं योगश्चतुर्विधः | षोडशाकारो भवति | तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति | प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति | कुशलेषु धर्मेषु [|] स एवं कर्तुकामः | अहोरात्रानुयुक्तो विहरति | उत्साही | दृढपराक्रमः | तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय | असाक्षात्कृतस्य साक्षात्क्रियायै | सम्वर्त्तते | तस्मादिमे चत्वारो धर्मा योग इत्युच्यते | तत्र मनसिकारः कतमः | चत्वारो मनस्काराः कतमे चत्वारः | (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्वतः | यावन्मनस्कारं न प्राप्नोति | तावदस्य बलवाहनो मनस्कारो भवति | बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति | तेनोच्यते | बलवाहन इति | सछिद्रवाहनो मनस्कारः कतमः) तद्यथा- बलवाहनः स(च्]छिद्रवाहनः, अनाभोगवाहनश्च |
SK
तत्र बलवाहनो मनस्कारः कतमः | तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः | संस्थापयतश्च | (Śभ्_Sह् २७९) धर्मान् प्रविचिन्वतः | यावन्मनस्कारं न प्राप्नोति | तावदस्य बलवाहनो मनस्कारो भवति | बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति | तेनोच्यते बलवाहन इति |
SK
स[च्]छिद्रवाहनो मनस्कारः कतमः | यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रतिसंवेदी मनस्कारः | तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते | नैकान्तेन भावनाकारेण प्रवर्त्तते |
SK
तत्र नि[श्]छिद्रवाहनो मनस्कारः | लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् | प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः | यः प्रयोगनिष्ठाफलो मनस्कारः ||
SK
अपरे चत्वारो मनस्काराः तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [|]
SK
तत्रानुलो[मिको] मनस्कारः | येनालम्बनं विदूषयति | सम्यक्प्रयोगं चारभते | नो तु क्लेशं प्रजहाति ||
SK
तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति |
SK
तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोच(द)यति | सं[प्रहर्ष]यति | प्रगृह्णाति | (Śभ्_Sह् २८०) तत्र प्रत्यवेक्षणीयो मनस्कारः | तद्यथा मिमान्सा(मांसा)मनस्कारः | यमधिपतिं कृत्वा प्रहीणा प्रहीणतां क्लेशानां प्रत्यवेक्षते |
SK
तत्रालम्बनं मनसि कुर्वता कति निमित्तानि मनसि कर्त्तव्यानि भवन्ति | आह | चत्वारि | तद्यथा | आलम्बननिमित्तं | परिवर्त्त(र्ज)नीयं निमित्तं [|] निषेवणीयं च निमित्तं | तत्रालम्बननिमित्तं यत् | ज्ञेयवस्तुसभागं प्रतिबिम्बं | प्रतिभासं (सः) ||
SK
तत्र निदाननिमित्तं तद्यथा समाधिसंभारोपचयः | अनुलोमिक उपदेशः | भावनासहगतः | तीव्र[च्]छन्दः, संवेजनीयेषु धर्मेषु संवेगः | विक्षेपाविक्षेपपरिज्ञा | अवधानं परतश्च | संघहा मनुस्य(ष्य) कृतो वा, को (अ)मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा | तथा विपश्यनापूर्वंगमः | अध्यात्मं चित्ताभिसंक्षेपः | उत्तप्ततराया विपश्यनायाः उत्तरत्र निदाननिमित्तं, तथा शमथपूर्वंगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तं |
SK
तत्र परिवर्जनीयनिमित्तं चतुर्विधं | तद्यथा | लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च | तत्र लयनिमित्तं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति | (Śभ्_Sह् २८१) तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते | तत्र संगनिमित्तं येनालम्बननिमित्तेन | निदाननिमित्तेन चित्तमालम्बने रज्यते || संरज्यते | संक्लिश्यते | तत्र विक्षेपनिमित्तं | येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा विक्षिप्यते | तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते |
SK
कत्यधिमोक्षा भवन्ति | आह [|] नवाधिमोक्षा स्तद्यथा | प्रभास्वरश्चाप्रभास्वरश्च | जड्ः, पटुः, परीत्तो, महद्गतः | अप्रमाणः | परिशुद्धः | अपरिशुद्धश्चेति ||
SK
तत्र प्रभास्वरोधिमोक्षो य आलोकनिमित्ते सूद्गृहीते आलोकसहगतः |]
SK
तत्राप्रभास्वरोधिमोक्षः | तद्यथा आलोकनिमित्ते सूद्गृहीते अन्धकारसहगतः |
SK
तत्र जडो ऽधिमोक्षः | यो मृद्विन्द्रियसन्तानपतितः |
SK
तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः |
SK
तत्र परीत्तोधिमोक्षः | यः परीत्तश्रद्धाछ(च्छ)न्दसमाधिः परीत्तालम्बनश्च | इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः ||
SK
तत्र महद्गतोधिमोक्षः | तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते | योधिमोक्ष इति | मनस्कारमहद्गत[त]या चालम्बनमहद्गततया महद्गतोधिमोक्षः |
SK
तत्राप्रमाणोधिमोक्षः | अप्रमाण[ः] श्रद्धाछ(च्छ)न्दसहगतः | अनन्तम्वा अपर्यन्त[मालम्ब]नमधिमुच्यते | यो ऽधिमोक्ष इति | मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः |
SK
तत्र परिशुद्धो ऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः पर्यवसानगतः |
SK
अपरिशुद्धो वा पुनर्यो न सुभावितो, न (Śभ्_Sह् २८३) परिनिष्पन्नो न पर्यवसानगतः |
SK
तत्र कति योगस्य योगकरणीयानि | आह | चत्वारि | कतमानि चत्वारि | तद्यथा | आश्रयनिरोधः | आश्रयपरिवर्त्तः | आलम्बनपरिज्ञानं | आलम्बनाभिरतिश्च |
SK
तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः | सो ऽनुपूर्वेण निरुध्यते | प्रस्रब्धिसहगतश्चाश्रयः परिवर्त्तते | अयमाश्रयनिरोधोयमाश्रय परिवर्तः | योगकरणीयं |
SK
तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च | अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः | आश्रयनिरोधपरिवर्त्तपूर्वंगमं | यदा चालम्बनपरिज्ञानमालम्बनाभिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते | परिवर्त्तते च | अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः | आश्रयविशुद्धिपूर्वंगमः | आश्रयविशुद्धिमधिपतिं (Śभ्_Sह् २८४) कृत्वा सुविशुद्धमालम्बनज्ञानं | कार्यपरिनिष्पत्तिकाले प्रवर्तते | अभिरतिश्च [|] तेनोच्यते चत्वारि योगस्य करणीयानीति ||
SK
तत्र कति योगाचाराः | आह त्रयस्तद्यथा | आदिकर्मिकः, कृतपरिचयः | अतिक्रान्तमनस्कारश्च ||
SK
तत्रादिकर्मिको योगाचारः | मनस्कारादिकर्मिकः | क्लेशविशुद्ध्यादिकर्मिकश्च ||
SK
तत्र मनस्कारादिकर्मिकः | तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति | चित्तैकाग्रतां न स्पृशति |
SK
तत्र क्लेशविशुद्ध्यादिकर्मिकः | अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्लक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः | अयं क्लेशविशुद्ध्यादिकर्मिकः | तत्र कृतपरिचयः कतमः | लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति |
SK
तत्रातिक्रान्तमनस्काराः (रः) प्रयोगनिष्ठाफलमनस्कारे वेदितव्यः | अतिक्रान्तो ऽसौ भवति | प्रमो(यो)गभावनामनस्कारं | स्थितो भवति | भावनाफले [|] तस्मादतिक्रान्तमनस्कार इत्युच्यते |
SK
अपि च कुशलं धर्म[च्]छन्दमुपादाय | प्रयुज्यमानो (Śभ्_Sह् २८५) यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति | तावदादिकर्मिको भवति | यदा पुनर्निर्वेधभागीयान्युत्पादयति | तद्यथा ऊष्मगतानि | मूर्धानः (मूर्ध्नः), सत्यानुलोमाः | क्षान्तयो(न्तीः) लौकिकानग्रधर्मान् | तदा कृतपरिचयो भवति | यदा पुनः सम्यक्त्वं न्याममवतरति | सत्यान्यभिसमागच्छति | अपरप्रत्ययो भवत्यनन्यनेयः | शास्तुः शासने तदातिक्रान्तमनस्कारो भवति | परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः | तस्मादतिक्रान्तमनस्कार इत्युच्यते |
SK
तत्र योगभावना कतमा | आह | द्विविधा | संज्ञाभावना बोधिपक्ष्या भावना च |
SK
तत्र संज्ञाभावना कतमा | तद्यथा लौकिकमार्गप्रयुक्तः | (Śभ्_Sह् २८६) सर्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[ं] भावयति | [प्रहा]णाय वा पुनः प्रयुक्तः | प्रहाणधातौ, विरागधातौ निरोधधातौ, शान्तदर्शी प्रहाणसंज्ञां, विरागसंज्ञां, निरोधसंज्ञाञ्च भावयति | शमथाय वा पुनः प्रयुक्तः | ऊर्ध्वमधः संज्ञां शमथपक्ष्यां (Śभ्_Sह् २८७) भावयति | विपश्यनायां प्रयुक्तः | पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति | विपश्यनायां प्रयुक्तः | पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केशमस्तकात्पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते | सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् | तत्र पश्चात्पुनः | संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव | साधु च, सुष्ठु च, सूद्गृहीतं भवति | सुमनसीकृतं, सूत्कृष्टं | सुप्रतिविद्धं | तद्यथा स्थितो निषण्णं प्रत्यवेक्षते | निषण्णो वा निपन्नं | पुरतो वा गच्छन्तं, पृष्ठतो गच्छन्प्रत्यवेक्षते | सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षापरिदीपिता | तत्र यत्तावदाह- स्थितो निषण्णं (Śभ्_Sह् २८८) प्रत्यवेक्षते | अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते | वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते | अनागता पुनः ज्ञेयावस्था | अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते | यत्पुनराह | निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता | प्रत्युत्पन्ना हि मनस्कारावस्था | निरोधाभिमुखा निषण्णेत्युच्यते | अतीता पुनः निरुद्धत्वाज्ज्ञेयावस्था निपन्नेत्युच्यते | यत्पुनराह | पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण | अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता | तत्र य उत्पन्नोत्पन्नो मनसिकारो [अ]नन्तरनिरुद्धः स पुरतो यायी [|] तत्र अनन्तरोत्पन्नः | अनन्तरोत्पन्नो मनस्कारः | नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः | स पृष्ठतो यायी | तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति | इयं संज्ञाभावना |
SK
तत्र बोधिपक्ष्यभावना कतमा | यः षट्(सप्त)त्रिंशतां (Śभ्_Sह् २८९) बोधिपक्ष्याणां धर्माणामभ्यासः | परिचयः | आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना | तद्यथा चतुर्णां स्मृत्युपस्थानानां, चतुर्णां (Śभ्_Sह् २९०) सम्यक्प्रहाणानां, चतुर्णा ऋद्धिपादानां | पञ्चानामिन्द्रियाणां, पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य [|]
SK
कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य | अनुत्पन्नानां धर्माणां पापकानामकुशलानां धर्माणामनुत्पादाय [च्]छन्दं जनयति | व्यायच्छते, वीर्यमारभते | चित्तं प्रगृह्णाति | प्रदधाति | सम्यक्प्रहाणस्य(ण्णाय) | उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय | अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय | उत्पन्नानां कुशलानां धर्माणां स्थितये | असंमोषाय भावनापरिपूरये (य यो) भाववृद्धिविपुलतायै छन्दं व्यायच्छते | वीर्यमारभते | चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य (|) ऋद्धिपादस्य, (Śभ्_Sह् २९१) श्रद्धावीर्यचित्तमीमान्सा(मांसा) समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा(मांसा)समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [|] सम्यग्दृष्टेः | सम्यक्संकल्पस्य, सम्यग्वाक्कर्मान्ताजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च ||
SK
तत्र कतमः कायः | कतमा काये कायानुपश्यना [|] कतमा (|) स्मृतिः [|] कतमा[नि] (|) स्मृतेरुपस्थानानि [|] आह | कायः पञ्चत्रिंशद्विधः | तद्यथा आध्यात्मिको, बाह्यश्च | इन्द्रियसंगृहीतः | (Śभ्_Sह् २९२) अनिन्द्रियसंगृहीतश्च | सत्त्वसंख्याता (तो) ऽसत्त्वसंख्याता (त)श्च | दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च | भूतकायः, भौतिककायश्च | नामकायो, रूपकायश्च | नारकस्तैर्यग्योनिकः | पैतृविषयिकः | मानुष्यो, दिव्यश्च | सविज्ञानकः | अविज्ञानकं (को)वा | अन्तःकायो, बहिःकायश्च [|] विपरिणतो [अ]विपरिणतश्च || स्त्रीकायः, पुरुषकायः, षण्ड(ढ)ककायश्च | मित्रकायः, अमित्रकायः | उदासीनकायश्च | हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून(युव)कायो, वृद्धकायश्च | अयं तावत्कायश्च प्रभेदः |
SK
तत्रानुपश्यना त्रिविधा | या कायमधिपतिं कृत्वा- श्रुतमयी वा प्रज्ञाभावनामयी वा [|] यया प्रज्ञया सर्वंकायं सर्वाकारं सम्यगेवोपपरीक्षते | संतीरयत्यनुप्रविशति | अनुवुप्यते |
SK
तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (||) ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योर्थः (|) चिन्तितो, ये (Śभ्_Sह् २९३) च भावनया साक्षात्कृता[ः] | तत्र व्यंजने, चार्थे च, साक्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति || सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति | सुसंस्पर्शिता[ः] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता भवतीदं स्मृतेरुपस्थानं | अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च | तत्र स्मृत्या रक्षा यथोक्तं पूर्वमेवारक्षितस्मृतिर्भवति | निपकस्मृतिरिति | तत्र विषयासंक्लेशाय | यथोक्तं स्मृत्या रक्षितमानसः | समावस्थाचारको, न निमित्तग्राही | नानुव्यंजनग्राही | यावद्विस्तरेण रक्षति | मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते | तत्रालम्बनोपनिबन्धाय | यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः | तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानं ||
SK
तत्र वेदना कतमा [|] तद्यथा सुखा, दुःखा, (Śभ्_Sह् २९४) अदुःखासुखा च वेदना | तत्र सुखापि कायिकी | दुःखाप्यदुःखासुखापि [|] यथा कायिकी | एवं चैतसिकी | सुखापि सामिषा, दुःखाप्यदुःखासुखापि | एवं निरामिषापि, एवं गर्ध(वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुःखासुखापि | सैषा एकविंशतिविधा वेदना भवति | नवविधा वा ||
SK
तत्र चित्तं कतमत् | तद्यथा- सरागं चित्तं, सद्वेषं, विगतद्वेषं, समोहं, विगतमोहं, संक्षिप्तं, विक्षिप्तं, लीनं, प्रगृहीतं | उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं | समाहितमसमाहितं, सुभावितमसुभावितं | सुविमुक्तं चित्तमसुविमुक्तं चित्तं | तदेतदभिसमस्य विंशतिविधं चित्तं भवति |
SK
तत्र धर्माः कतमे [|] रागो, रागविनयश्च | (Śभ्_Sह् २९५) द्वेषो, द्वेषविनयश्च | मोहो मोहविनयश्च | संक्षेपो, विक्षेपः | लयः, प्रग्रह, औद्धत्यमनौद्धत्यं | व्युपशमः | अव्युपशमस्सुसमाहि[त]ता, न सुसमाहितता | सुभावितमार्गता, न सुभावितमार्गता | सुभावितमुक्तता, न सुभावितमुक्तता च | इतीमे कृष्णशुक्ल[पक्ष]व्यवस्थिता विंशतिधर्मा वेदितव्याः | संक्लेशव्यवदानपक्ष्ये (क्ष्याः) |
SK
तत्र सुखावेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते [|] सातं, वेदितं, वेदनागतं | सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता | सा कायिकी | या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी | यथा सुखवेदनीयमेवं (Śभ्_Sह् २९६) दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते असातं, नैवसातं नासातं वेदितं [विगतरागं] | वेदनागतमिदमुच्यते दुःखा अदुःखासुखा वेदना | सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता | सा कायिकी | या मनोविज्ञानसंप्रयुक्ता | सा चैतसिकी | या निर्वाणानुकूला[सा]नैर्वेधिकी | अत्यन्तनिष्ठतायै अत्यन्तविमलतायै | अत्यन्तब्रह्मचर्यपर्यवसानायै (य?) | सम्वर्त्तते | सा निरामिषा || या पुनर्धातुपतिता, भवपतिता सा सामिषा [|] या पुन(ना) रूपारूप्य प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा नैष्क्रम्याश्रिता | या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता ||
SK
तत्र सरागं चित्तं | यद्रंजनीये वस्तुनि रागपर्यवस्थितं [|]
SK
विगतरांगं यद्रागपर्यवस्थानापगतं [|] सद्वेषे(षं) य[द्]द्वेषणीये वस्तुनि द्वेषपर्यवस्थितं | विगतद्वेषं यद्द्वेषपर्यवस्थानापगतं | तत्र सम्मो(मो)हं | यन्मोहनीये वस्तुनि [....] तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि | तत्र त्रीणि संक्लेशपक्ष्याणि | त्रीणि संक्लेशप्रातिपक्षिकाणि |
SK
तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनोपनिबद्धं |
SK
विक्षिप्तं | यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतं |
SK
तत्र लीनं चित्तं | यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत् प्रसदनीयेनालम्बनेन संप्रतिष्ठितं [|]
SK
उद्धतं चित्तं यदति संप्रग्रहादौद्धत्यपर्यवस्थितमनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षा प्राप्तं [|] तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं पुनर्यदविमुक्तं |
SK
तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टं, न सुसमाहितं यदप्रविष्टं [|]
SK
तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभी | आशुसमापत्ता |
SK
तत्र न सुभावितं चित्तमेतद्पिर्ययेण वेदितव्यम् |
SK
तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [|]
SK
न सुविमुक्तं | चित्तं यन्न सर्वतो ना(ना)प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (|) विहारगतानि वेदितव्यानि |
SK
तत्र निवरणभूविशुद्धा (द्धि)भूमिमारभ्य विहारगतान्यष्टौ चित्तानि वेदितव्यानि | विक्षिप्तं संक्षिप्तं यावद् व्युपशान्तमव्युपशान्तमिति | क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट् चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति [|]
SK
यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति | असति निवरणे नास्ति मे निवरणमिति जानाति | यथा चानुत्पन्नस्य विवरणस्योत्पादो भवति | तदपि यथा योत्पन्नस्य विगमो भवति | तदपि प्रजानाति | यत्र सति चक्षुःसंयोजने यावत्पुनः (न्मन) (Śभ्_Sह् २९९) संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति | असति यावत्पुनः (न्मनः) संयोजने नास्ति मे मनः संयोजनमिति प्रजानाति | यथा चानुत्पन्नस्य यावन्मनः संयोजनस्योत्पादो भवति | तदपि प्रजानाति | यथा चोत्पन्नस्य निरोधो भवति | तदपि प्रजानाति | सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [स्मृति] संबोध्यंगमिति प्रजानाति | असति नास्ति मे प्रजानाति | यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति | तदपि प्रजानाति | यथा चोत्पन्नस्य स्थितिर्भवति | असंमोषो भावना (|) परिपूरिर्भूयो भाववृद्धिर्विपुलता तदपि प्रजानाति | सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्यप्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति यदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्षए) वं वेदना[यां] यच्चित्ते (यावच्चिते) धर्मेषु यथायोगं वेदितव्यम् |
SK
तत्र कथमध्यात्मं काये कायानुदर्शी विहरति | कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं सत्व(त्त्व)संख्याते काये कायानुपश्यी (दर्शी) विहरति | एवमध्यात्मं काये कायानुदर्शी विहरति | (Śभ्_Sह् ३००) कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं, यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति | यदा बहिर्धा (र्धो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति |
SK
तत्राध्यात्मं रूपमुपादाय | सूक्ष्मं सत्त्वसंख्यातं | या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् [|] अध्यात्मं वेदना[यां], चित्ते, धर्मेषु धर्मानुदर्शी विहरति | बाह्यमसत्त्वसंख्यातं रूपमुपादाय | या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् | बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति | बहिर्धा बाह्यं रूपसत्त्वमुपादाय | या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति ||
SK
अपरः पर्यायः | इन्द्रियसंगृहीतं रूपमालम्बनीकुर्वन्, अध्यात्मं काये कायानुपश्यी (दर्शी) विहरति | अनिन्द्रियसंगृहीतं | रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति | अनिन्द्रियसंगृहीतमेव | रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति | [अनिन्द्रियसंगृहीतं रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी (Śभ्_Sह् ३०१) विहरति | अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति] [|] एवं पूर्वं [ं] त्रिविधं रूपमुपादाय | यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यं |
SK
अपरः पर्यायः | यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति | यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति | एवं बहिर्धा काये कायानुपश्यी (दर्शी) विहरति | परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन् अध्यात्मबहिर्धा काये | कायानुदर्शी विहरति | एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः |
SK
अपरः पर्यायः | अध्यात्मं भूतरूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति | बाह्यं भूतरूपमालम्बनी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति | तच्च भूतरूपमुपादाय | यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय | रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति | एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि यथायोगं वेदितव्याः | अपरः पर्यायः | यदा सविज्ञानकं कायमध्यात्ममालम्बननीकरोति | एवमध्यात्मं (Śभ्_Sह् ३०२) काये कायानुदर्शी विहरति | अविज्ञानकं रूपं सत्त्वसंख्यातं | विनीलकादिष्ववस्थास्वालम्बनी कुर्वन्बहिर्धा काये कायानुदर्शी विहरति | अ(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [|] अविज्ञान[क]स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्मतां आलम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः | अपरः पर्यायः [|] आत्मनः अन्त[ः] कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति || परेषामन्तः कायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी विहरत्यध्यात्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः | बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च | विनीलकादिभिराकारैस्तुल्यधर्मतया आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति | तदुपादाय या उत्पन्ना वेदना, चित्तं, (Śभ्_Sह् ३०३) धर्मास्तेपि यथायोगं वेदितव्याः | इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेनबहवः पर्याया वेदितव्याः | इमे तु कतिपयाः (ये)पर्यायाः | संप्रकाशिताः [|]
SK
तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि | तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितं | तथा हि भगवता कायस्मृत्युपस्थानभावनायां | अशुभाप्रतिसंयुक्ताश्चतस्रः शिवपथिका देशिताः | या अस्य बहुलं कुर्वन् मनसिकुर्वतः | अशुचौ शुचीति विपर्यासः प्रहीयते | तत्र सुखे सुखमिति | विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं | वेदनानुदर्शी विहरन् | यत्किंचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुखमिति | विपर्यासः | स प्रहायते (Śभ्_Sह् ३०४) (प्रहीयते) | अनित्ये नित्यमिति विपर्यासः | प्रतिपक्षेण स्मृत्युपस्थानं व्यवस्थापितं | तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्त्ताना (णा)मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते | यत्रा[ना]त्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं | तस्य येषां आत्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति | नान्यस्य, स्वलक्षणतः | सामान्यलक्षणतश्च धर्माधर्मानुदर्शिनो यथाभूतं पश्यतः | योनात्मन्यात्मेति विपर्यासः | स प्रहीयते |
SK
अपरः पर्यायः | प्रायेण हि लोक एवं प्रवृत्तः | स्कन्धेषु स्कन्धमात्रं, धर्ममात्रं, यथाभूतमप्रजानन् यथा काये आश्रितः | यदाश्रितश्च सुखदुःख ज धर्माधर्माभ्यां संक्लिश्यते व्यवदा(दी)यते च | तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं | कायस्मृत्युपस्थानं व्यवस्थापितं | तस्यैवात्मनः अनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितं | यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् |
SK
अपरः पर्यायः | यत्र च कर्म करोति | यदर्थं च करोति | यश्च कर्म करोति | (यदर्थं च करोति | यश्च [कर्म] करोति |) (..) येन च (Śभ्_Sह् ३०६) करोति | तत्सर्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि | तत्र काये करोति | वेदनार्थं | चित्तेन कुशलाकुशलैर्धर्मैः |
SK
अपरः पर्यायः | यत्र च संक्लिश्यते | विशुध्यते | यतश्च यश्च येन क्लिश्यते | विशुध्यते यतश्च यश्च येन संक्लिश्यते विशुध्यते च | तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि | तत्र काये संक्लिश्यते, विशुध्यते च | वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते | विशुध्यते च |
SK
तत्र स्मृत्युपस्थानमिति [को] ऽर्थ आह | यत्र च स्मृतिमुपस्थापयति | येन च स्मृतिमुपस्थापयति | तदुच्यते स्मृत्युपस्थानं | यत्र स्मृतिमुपस्थापयति | तदालम्बनस्मृत्युपस्थानं येन स्मृतिमुपस्थापयति | तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानं | तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः | संसर्गस्मृत्युपस्थानं | अपि [च] कायवेदनाधिपतेयो (Śभ्_Sह् ३०७) मार्गः समुत्पन्नः कुशलः सास्रवः | अनास्रवश्च [|] तत्स्मृत्युपस्थानं | स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च | तत्र श्रुतचिन्तामयः | सास्रव एव [|] भावनामयः स्यात्सास्रवः स्यादनास्रवः ||
SK
स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको(कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः | तदनन्तरमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय | उत्पन्नानां प्रहाणाय | अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय | उत्पन्नानां स्थितय इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति | प्रदधाति ||
SK
तत्र कतमे पापका अकुशला धर्मा[ः] [|] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ्मनोदुश्चरितसंगृहीतं | येन तत्समुत्थापकाः क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, (Śभ्_Sह् ३०८) ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [|] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजनप्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः | उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति | प्रणिधत्ते, सर्वेण सर्वं सर्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति | उत्पन्नान्वा पुनः समवहितान्सर्वेणसर्वं नाधिवासयिष्यामि प्रहास्यामि | प्रतिविनोदयिष्यामि य[द]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व मेवोत्पाद(|)स्पृहामुत्पादयति | प्रणिधत्ते [|] नाधिवासय(यि)तुकामो भवति | अयमुत्पन्नानां प्रहाणाय [च्]छन्दः [|]
SK
ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति | येनोक्तविषयालम्बना[ः], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना[ः |]
SK
तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय | उत्पन्नानां च प्रहाणाय | व्यायच्छते [|] प्रत्यक्षविषयालम्बननानां पुनः | (Śभ्_Sह् ३०९) अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते | तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः | प्रहाणं वा भवति | अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय | उत्पन्नानां प्रहाणाय व्यायच्छते | अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय | उत्पन्नानां च प्रहाणाय वीर्यमारभते | स चेदतीते आलम्बने चरति | तथा चरति | यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते | स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति | प्रजहाति | व्यन्तीकरोति | यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् | एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते | स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति | यथा तेनालम्बनेन क्लेशो नोत्पद्यते | स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते | उत्पन्नं नाधिवासयति | प्रजहाति | विनोदयति | व्यन्तीकरोति | एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय | उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते |
SK
सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते | न विषयबलेन | सन्ति ये संकल्पबलेन च | विषयबलेन च | तत्र संकल्पबलेनोत्पद्यन्ते | तद्यथा विहरतः | अतीतानागतालम्बना ये उत्पद्यन्ते | (Śभ्_Sह् ३१०) तत्र संक्लेशवशे(ले)न च विषयबलेन चोत्पद्यते (न्ते) | तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते | अवश्यं तत्रायोनिशः संकल्पो भवति | तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय | उत्पन्नानां च प्रहाणाय | व्यायच्छते | तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते | तेषामनुत्पन्नानामनुत्पादाय | उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते | तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते | तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति | ये कुशलाधर्मा अप्रतिलब्धा [अ]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [|] चित्तं प्रणिधत्ते [|] तीव्रा प्रतिलब्धुकामता | संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति | अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये |
SK
कृ(य)त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति | उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभाविगमं प्रतिलब्धां पारिहाणिमधिकृत्याह | स्थितय इति संमुखीभावादधन्धायितत्वमधिकृत्याहासंमोषायेति | तेषामेव च कुशलानां (Śभ्_Sह् ३११) धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह | भावनापरिपूरये इति | तत्र च स्पृहामुत्पादयति | चित्तं प्रणिधत्ते | तीव्रा चास्य स्थितिकामता असम्मोषकामता | भावनापरिपूरिकामता प्रत्युपस्थिता भवति | अयमुच्यते | उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये [च्]छन्दः | तत्र व्यायच्छत इति | प्रतिलब्धानां संमुखीभावाय वीर्यमारभते | अप्रतिलब्धानां प्रतिलम्भाय [|]
SK
तत्र व्यायच्छते | उत्पन्नानां स्थितये, असंमोषाय, वीर्यमारभते | भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये | असंमोषाय व्यायच्छते | अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते |
SK
तत्र चित्तं प्रगृह्णाति | यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति | अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय | एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय | उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते | तत्र चित्तं प्रगृह्णाति | यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति | अनुत्पन्नानां (Śभ्_Sह् ३१२) पापकानां अकुशलानां धर्माणामनुत्पादाय | एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये | असंमोषाय भावनापरिपूरये | तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति | लीनत्वाभिशंकि चैवं पश्यति | तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति | संहर्षयत्येवं चित्तं प्रगृह्णाति |
SK
कथं प्रदधाति | पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति | तदा पुनरप्यध्यात्ममभिसंक्षिपति | शमथाय प्रणिदधाति | तान्येतानि भवन्ति | चत्वारि सम्यक्प्रहाणानि | कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय | उत्पन्नानां च प्रहाणाय [च्]छन्दो व्यायामो वीर्यारम्भः | चित्तप्रग्रहः | प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [|]
SK
विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये | तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानामकुशलानां धर्माणां प्रहाणाय [च्]छन्दं जनयतीति विस्तरेण | द्वितीयं प्रहाणप्रहाणं यदनुत्पन्नानामनुत्पादाय [च्]छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यं | पापकं च वस्तु | अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा | प्रहीणस्य प्रहाणं प्रहाणप्रहाण[ं] |
SK
तत्र भावनाप्रहाणमेकं यदाह | अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरेण यावच्चित्तं प्रगृह्णाति, प्रदधातीति | तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते | प्रतिलब्धाश्च सम्मुखीक्रियन्ते |
SK
तत्रानुरक्षणाप्रहाणमेकं | यदाह | उत्पन्नानां कुशलानां धर्माणां स्थितये | विस्तरेण यावच्चित्तं प्रगृह्णाति | प्रदधाति | तथा हि प्रतिलब्धेषु संमुखीकृतेषु च | कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च | सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये | एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः |
SK
समासत(सार्थ)ः पुनः कतमः | आह | कृष्णशुक्लपाक्षिकस्य त्यागात्पुनर्वस्तुनः | प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं | पर्यवस्थानप्रहाणाय च | अस्त्याशयसम्पत्प्रयोगसम्पच्च | परिदीपिता भवति | तत्रास्या (स्त्या)शयसम्पत् | छन्दजननतया, प्रयोगसम्पत्पुनः व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः | एतावच्च योगिना करणीयं | यत्प्रहातव्यस्य वुस्तनः प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि (Śभ्_Sह् ३१४) भावयितव्यानि | पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः | तच्चैतत्सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः ||
SK
तत्र चत्वारः समाधयः, तद्यथा छन्दसमाधिः | वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च |
SK
तत्र छन्द(समाधि)मधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः | वीर्यं, चित्तं, मीमांसामधिपति कृत्वा प्रतिलभ्यते (प्रतिलभ्यते) समाधिरयं [...........] मीमान्सा (मांसा) समाधिः | यदा (Śभ्_Sह् ३१६) तावदयं छन्दमेव केवलं जनयति | छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च | सम्यगेवोपनिदध्याति | एकाग्रां स्मृतिं प्रवर्त्तयति | एवं कुशला[न्]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च | अकुशलतो निःसरणतः सम्यगेवोपनिदध्या (धा)ति | एकाग्रां स्मृतिमवस्थापयति | तद्बहुलाकारामेकाग्रतां स्पृशति | समवस्थानसमुदाचारदूरीकरणयोगेन | न त्वस्याप्यनुशयमुत्पादयति | पापकानामकुशलानां धर्माणामयमप्युच्यते | छन्दाधिपतेयः | स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्पन्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः | तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च | सम्यगुपनिध्यायतः | एकाग्रां स्मृतिमुपस्थापयतो यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते | समवस्थानदूरीकरणयोगेन त्वस्याप्यनुशयमुद्घातयति | पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः | समाधि[ः |] लीनम्वा पुनश्चित्तं प्रगृह्णतः | प्रगृहीतं चित्तं समादधतः | कालेन च कालमध्युपेक्षितः | यत्पापकानामकुशलानान्धर्माणां (Śभ्_Sह् ३१७) पापकाकुशला(ल) धर्मस्थानीयान्वयात् कुशल[त]ः | कुशलान्धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः, सम्यगुपनि (द)ध्यायतः | एकाग्रतां स्मृतिमुपस्थापयतः | तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रताः विस्तरेण यावदयं | चित्ताधिपतेयः समाधिः |
SK
तत्र ये पापकाकुशला (ल)धर्मस्थानीया धर्मा भवन्ति | अयोनिशो मनसिकुर्वतः | त एव कुशलधर्मस्थानीया भवन्ति | योनिशो मनसिकुर्वतः | तस्यैवं समवस्थानेषु दूरीकृतेषु | समवस्थानप्रतिपक्षे च | समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मुदा हरन्ति | तस्यैवं भवति | किं सतः सम्विद्यमानान्पापकानकुशलान्धर्मान् न प्रतिसंवेदयाम्याहोस्विदसतः | असंविद्यमानान्यन्व(न्न्व)हं परिमीमान्से (मांसये) यं | स मीमान्सा(मांसा)मनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमान्स(मांस)ते सम्यगेवोपनिध्यापयति | तद्बहुलविहारी च स्पृशति] चित्तस्यैकाग्रतां येन च निरभिमानो भवति | पर्यवस्थानमात्रकाच्य(च्च)चित्तं विमुक्तं, (Śभ्_Sह् ३१८) न तु सर्वेण सर्वंमनुशयेभ्यः | तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्मा[श्]च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति | अयमस्योच्यते मीमान्सा (मांसा)समाधिः |
SK
स तं चतुर्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु | सर्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (|) धर्माणां समुदागमाय [च्]छन्दं जनयति | व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते | तथा प्रयुज्यमानस्य तथभूतस्याष्टौ प्रहाणसंस्कारा भवन्ति | ये [अ]स्यानुशयसमुद्घाताय च प्रवर्त्तन्ते | समाधिपरिपूरये च तद्यथा- छन्दः (Śभ्_Sह् ३१९) कदाचित्समाधिं परिपूरयिष्यामि | अनुशयांश्च प्रहास्यामि | पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायामविन्यस्तयोगस्य (Śभ्_Sह् ३२०) विहरतः | उत्तरे [अ]धिगमे श्रद्द्धानता | अभिसंप्रत्ययः |
SK
तत्र प्रश्रब्धिः | यच्छ्रद्धाप्रमादपूर्वंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशला धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः |
SK
तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका |
SK
छंदसंप्रजन्ये | या विपश्यनापक्ष्या प्रज्ञा | तत्र चेतनायाश्चित्ताभिसंस्कारः | प्रहीणाप्रहीणतो मीमान्स(मांस) मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति |
SK
तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशलाधर्मास्थानीयेषु चरतः चित्ताभिसंक्लेशश्चित्तंगमता | आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति | यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा(चो)पेक्षया | इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति | ते चैतेष्टौ (स चैषो ऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय | तत्र छन्द(च्छन्द)श्च, एत(ष) एव यो व्यायामः इदं वीर्यं, याश्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं | या च चेतना, या चोपेक्षा | अय (इदं ?)मुपादाय | तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः | ये च इमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु, (Śभ्_Sह् ३२१) परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते(ते) | वीर्यचित्तमीमान्सा (मांसा) समाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते |
SK
केन कारणेन ऋद्धिपाद इत्युच्ते | आह | तद्यथा | यस्य पादः सम्विद्यते सो [अ]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति | एवमेव यस्यैते धर्माः संविद्यन्ते | एष च समाधिः संविद्ययते | परिपूर्णः [|] स एवं परिशुद्धे चित्ते, पर्यवदाते, अनंगणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिंज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति | लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै | एषा हि परा ऋद्धिः, परा समृद्धिः | यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते?) ऋद्धिपाद इति ||
SK
स एवं समाधिप्रतिष्ठितः | समाधिं निश्रित्य | (Śभ्_Sह् ३२२) [अधि]चित्तं शिक्षा[या]मधिप्रज्ञं शिक्षायां योगं करोति | तत्रास्य योगं कुर्वतः | परेषां चाधिगमे शास्तुः श्रावकाणां च यो [अ]भिसंप्रत्ययः | प्रसादः, श्रद्धानता | समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते | कुत्र पुनरस्याधिपत्यं | आह | लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यं | ये [अ]पि ते वीर्यादयः तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यं | यावत् प्रतिपत्तये आधिपत्यं | यावत् प्रज्ञया लोकोत्तरधर्मोत्पत्तये | आधिओपत्यं | तैनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति |
SK
या पुनः पूर्वेणापरं विशेषाधिगमं सजानतः (संजानतः) | तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, प्रसादः, श्रद्दधानता | सा अनवमृद्यनार्थेन श्रद्धाबलमित्युच्यते | केन पुनर्न (Śभ्_Sह् ३२३) शक्यते | अवमृदितुं | असंहाया(र्या)सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा | केनचिद्वा पुनर्लोके, सहधर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते | तत्प्रमुखास्तत्पूर्वंगमा ये वीर्यादयस्तेपिबलानीत्युच्यन्ते | तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते | आस्रवाणां क्षयाय | तस्माद्बलानीत्युच्यन्ते |
SK
तत्र यश्च(यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्य प्रसादेषु द्रष्टव्यं | तत्कस्य हेतोः | यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः | स तद्धेतुकस्तत्प्रत्यस्तन्निदानः | तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा | तत्र द्रष्टव्यमित्युक्तं भगवता | न तु तच्छरीरतां तल्लक्षणतां [|] तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यं | (तत्कस्य हेतोः) यानि (तानि) कतमानि | सम्यक्प्रहाणानि यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय सम्वर्त्तन्ते ||
SK
तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यमितीमानि (Śभ्_Sह् ३२४) चत्वारि स्मृत्युपस्थानान्यविशेषविशेष विपर्यासप्रहाणाय सम्वर्त्तन्ते |
SK
तत्र समाधीन्द्रियं चतुर्षु (स्था) ध्यानेषु द्रष्टव्यं | यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) तत्र प्रज्ञेन्द्रियं चतुर्ध्वार्यसत्येषु द्रष्टव्यमिति | यत्सत्यज्ञानं चतुर्ध्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते (ते) | श्रामण्यफलप्राप्तते, प(य)पेन्द्रियाणि | एवं बलानि वेदितव्यानि | स एषामिन्द्रियाणामे तेषां च बलानामासेवनान्वयाद्भावनान्वयादबहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति | मृदुमध्याधिमात्राणि | तद्यथा ऊष्मगतानि | मूर्धगतानि | मूर्धानः सत्यानुलोमाः क्षान्तयः लौकिकान(द)ग्रधर्मात्तद्यथा | कश्चिदेव पुरुषः अग्निना अग्निकायं कर्त्तुकामः | अग्निनार्थी अधरारण्यामुत्तरारणिं प्रतिष्ठाप्यास [-]न्नुत्सहते, घटते, व्यायच्छते | तथोत्सहतो, घटतो, व्यायच्छतश्च | तत्प्रथमतो ऽधरारण्यामूष्मा जायते | सैव (Śभ्_Sह् ३२५) चोष्मा | अभिवर्धमाना ऊर्ध्वमागच्छति | भूयस्या मात्रया अभिवर्द्धमाना [|] निरर्च्चिषमग्निं पातयत्यग्निपतनसमनन्तरमेव चार्चिर्जायते | यथा अर्च्चिषा उत्पन्नया (नेन) जातया (तेन) संजातया (तेन) अग्निकायं करोति | यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या | यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति | एवमूष्मगतानि द्रंष्टव्यानि | पूर्वंगमानि | निमित्तभूतानि | अग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये | यथा तस्यैवोष्मण ऊर्ध्व[मा]गमनमेवं मूर्धानोद्रष्टव्याः |
SK
यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः || यथाग्नेः पतनं निरर्च्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः |
SK
यथा तदनन्तरमर्च्चिषः (|) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (|) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते | ते पुनः कतमे आह | सप्तबोध्यंगानि | यो ऽसौ यथाभूतावबोधः | सम्यक्त्वन्यामावक्रान्तस्य (Śभ्_Sह् ३२६) पुद्गलस्यैतान्यंगानि [|] स हि यथाभूतावबोधः | सप्तांगपरिगृहीतः | त्रिभिः शमथपक्ष्यैः त्रिभिर्विपश्यनापक्ष्यैरेकेनोभयपक्ष्येण [|] तस्माद्बोध्यंगानीत्युच्यन्ते |
SK
तत्र यश्च धर्मविनयः | यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि | तत्र या च प्रश्रब्धिर्यश्च समार्धिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [|] स्मृतिरभयपक्ष्या(स्) सर्वत्रगेत्युच्यते | स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छैक्षो भवति | प्रातिपदः [|] दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति | भावनाप्रहातव्याश्चावशिष्टाः [|] (Śभ्_Sह् ३२७) स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंगं मार्गं भावयति |
SK
तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः | अयं प्रज्ञास्कन्धः |
SK
तत्र ये सम्यक्कर्मान्ताजीवाः | अयं शीलस्कन्धः |
SK
तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः |
SK
केन कारणेनार्याष्टांगो मार्ग इत्युच्यते | आह | आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगैः संगृहीता(ः) || अपरिशेषः | सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः |
SK
तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (||) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति || यथाविगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते | तां सम्यग्दृष्टिमधिपतिं कृत्वा | यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा(हिंसा)संकल्पमयमुच्यते सम्यक्संकल्पः | स चेत्तावद्वितर्केषु चित्तं क्रामति | स एवं रूपाद्वितर्काद्वितर्कयति [|] स चेत्पुनः कथायां चित्तं (Śभ्_Sह् ३२८) क्रामति | सम्यग्दृष्टिमधिपतिं कृत्वा तेने(न) कुशलात्संकल्पां (लसंकल्पां) धर्म्यां कथां कथयति | सास्य भवति सम्यग्वाक् |
SK
स चेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरतीथी(र्थी)भवति | तत्पर्येषणाम्वापद्यते | सो ऽभिक्रमः | प्रतिक्रमे संप्रजानम्वि(द्वि)हारी भवत्यालोकितव्यवलोकिते [|] तस्मिंजित (संमिंजित) प्रसारिते | सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते | विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते, निषण्णे | यावन्निद्राक्लम[प्रति]विनोदने संप्रजानद्विहारी भवति | अयमस्योच्यते सम्यक्कर्मान्तः | स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते | यावन्मिथ्या [..........] धर्मविवर्जितः सो ऽस्य भवति | सम्यगाजीवः |
SK
ये पुनर्विरतिसंगृहीताः | सम्यक्कर्मान्ताजीवाः | ते अनेन पूर्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति | योप्यापकान्तानि शीलान्युच्यन्ते | केन कारणेन दीर्घ कालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वाग्दुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणं | (Śभ्_Sह् ३२९) सम्वरं प्रतिलभेयं | यदस्य दीर्घरात्रमिष्टं | कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति | तस्मादापकान्तमित्युच्यते | तथा हि स लब्धेष्वापकान्तेषु शीलेषु, न संप्रजा[ना]नो मृषां वाचं भाषते | न संविध्य प्राणिनं (|) जीविताद् व्यपरोपयति | नादत्तमादत्ते [|] न (|) कामेषु मिथ्या चरति | न चाधर्मेण चीवरादीनि पर्येषते | इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते | यच्च कायकर्म यश्चाजीवः तेपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते |
SK
तस्य सम्यगदृष्टिसम्यक्संकल्प (ः |) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य | यच्छन्दो (यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभः | चेतसः संप्रग्रहः | सातत्यमयमुच्यते | सम्यग्व्यायामशमथः | यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः नवाकारा नवाकारचित्तस्थितिसंग्राहिका [|] इयमुच्यते सम्यक्स्मृतिः | सम्यक्समाधिश्च |
SK
तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः |
SK
तत्र सम्यग्वाक्कर्मान्ताजीवाः चारकरणीये [|]
SK
विहारकरणीयं पुनर्द्विविधं | शमथो विपश्यना च [|] तत्र या सम्यग्दृष्टिः | यश्च सम्यक्संकल्पः | यश्च सम्यग्व्यायाम इयं विपश्यना |
SK
तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः | एवं परिशुद्धान् सम्यग्वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति | कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं, प्राप्नोति | प्राकर्षिकश्च (कञ्च) भावनामार्गः (र्गं) [|] कालान्तराभ्यासेन क्लेशान् प्रजहाति | ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः |
SK
इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः, परिचयः | इयमुच्यते बोधिपक्ष्या भावना |
SK
तत्र भावनाफलं कतमत् | आह | चत्वारि श्रामण्यफलानि | स्रोत आपत्तिफलं, सकृदागामिफलं | अनागामिफलमग्रफलमर्हत्त्वं |
SK
तत्र कतमच्छ्रामण्यं | कतमत्फलं | आह | मार्गः, क्लेशप्रहाणं फलं | अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः | फलं, मध्यो, विशिष्टो (Śभ्_Sह् ३३२) वा, पुनः [|] तत्र केन कारणेन चत्वारि व्यवस्थापितानि | आह | चतुर्विधक्लेशप्रहाणप्रतिपक्षतया | तद्यथा निर्वस्तुकानां क्लेशानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं | त्रयाणां तु संयोजनानां प्रहाणाद्व्यवस्थापितं | भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनय पक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् | तत्र गृहिपक्षे सत्कायदृष्टिः | यया यमादित एव न प्रयुत्यत इत्यादित उ[त्]त्रासिका सत्कायदृष्टिः | दुराख्यातेधर्मविनये शीलव्रतपरामर्शः | उच्चलितस्यापि मिथ्याप्रतिपादयति | येनार्यमार्गो नोत्पद्यते | स्वाख्याते धर्मविनये विचिकित्सातश्चोच्चलितश्च भवति | न च मिथ्याप्रतिपन्नः | अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति | ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति | मार्गस्योत्पत्तये | अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं ||
SK
तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति | स चास्यजन्म प्रबन्धः | यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति | देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [|] येषां प्रहाणात्परमेकं देवभवमभिनिर्वर्त्तयत्येकं मनुष्यभवं [|] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते |
SK
यदा तु देवभवमेव केवलमभिनिर्वर्त्तयति | इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं व्यवस्थाप्यते || सर्वभवोपपत्तिसंवर्त्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते |
SK
तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च | तनुत्वाद् भगवता व्यवस्थापितं | पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलं | पर्यादाय सर्वक्लेशप्रहाणादर्हत्त्वफल मिदमुच्यते भावनाफलं |
SK
तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु (लाः) पूर्वं [तैः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यं | ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति | तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यं | समभागचरितस्य तु यत्र प्रियारोहिता | तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये | न तु चरितविशुद्धये | यथा समभागचरित एवं मन्दरजस्को वेदितव्यः | अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति | समभागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरित त्वरितं चित्तस्थितमधिगच्छति | तत्रोक्तानि पूर्वं रागचरितानां पुद्गलानां लिंगानि |
SK
समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि | आह | समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिंगानि संविद्यन्ते | यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि | तथा रागादिचरितानां समप्राप्तानि (Śभ्_Sह् ३३५) भवन्ति प्रत्ययेषु सत्सु न प्रज्ञायन्ते | तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि | अनावृतो भवत्यादिशुद्धसंभारसंभृतः | प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति |
SK
तत्र त्रीण्यावरणानि | कर्मावरणं | क्लेशावरणं | विपाकावरणं |
SK
तत्र कर्मावरणं | पञ्चानन्तर्याणि कर्माणि | यच्चान्यदपि किंचित्कर्माणि (कर्म) | सांचेतनीयं | गुरुकर्म, विपक्वविपाकं | मार्गोत्पत्तये | निबद्धकारकं | तत्र क्लेशावरणं | तीव्रक्लेशता | आयतक्लेशता च | या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं |
SK
तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद उपपत्त्यायतने [|] तत्र वा विपाकमभिनिर्वर्त्तयति | यत्र वा आर्यमार्गस्य प्रवृत्तिः | तत्रोपपत्रो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति | सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं | तत्रादिशुद्धिः, (Śभ्_Sह् ३३६) शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [|] तत्र शीलं सुविशुद्धं | दशभिः कारणैर्वेदितव्यम् | तत्र दृष्टि तृप्तिता जाता श्रदधां(द्धा) संप्रयोगात् | अधिमुक्तिसंप्रयोगाद्धि तमार्या [अ]शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्साप्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता | अस्माद्धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्धानां बुद्धश्रावकाणां च | अनित्यमनुभव[न]मनित्यानि चोपपत्त्यायतना नि | गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते | नो[त्]त्रसति, न संत्रासमा पद्यते | विगतमायाशाठ्या च या दृष्टिः यया ऋजुको भवति | ऋजुकजातीयः | यथानुशिष्टश्च प्रतिपद्यते | यथाभूतं चात्मानमाविष्करोति | धर्माणां वानित्यतामारभ्यं, दुःखतां, शून्यतामनात्मतामर्थः सुविचिन्तितोभवति | सुतुलितः सूपपरीक्षितः | यद्धेतोरयं निःकाङ्क्षो भवति | निर्विचिकित्सः | द्वेधा पथा गतो विशेषाय परैति | इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा | दृष्टिऋजुतेत्युच्यते | तत्र संभारसंभृतताविस्तरेण संभारः | पूर्वमेव निर्दिष्टः समासतः | पुनश्चर्विधो भवति | पुण्यसंभारो, ज्ञानसंभारः, पूर्वको, दृष्टधार्मिकश्च |
SK
तत्र पुण्यसभारो येनाप्येतर्हि आनुलोमिकाः परिष्काराः प्रादुराभवन्ति | प्रदक्षिणाः | कल्याणमित्राणि च प्रतिलभते | अनन्तरायश्च प्रयुक्तस्य भवति |
SK
तत्र ज्ञानसंभारः | येन मेधावी भवति, प्रतिबलः | सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [|] लाभी भवति | आनुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः |
SK
तत्र पूर्वको येनैतहि (र्हि) प[रि]पक्वानीन्द्रियाणि लभते | पूर्वकुशलमूलोपचयात् | तत्र दृष्टधार्मिकस्तद्यथा | कुशलो धर्मछ(च्छ)न्दः | तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति विस्तरेण पूर्ववत् |
SK
तत्र प्रसादबहुलता [|] न शास्तरि कांक्षति | न विचिकित्सति | प्रसीदत्यधिमुच्यते | यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्ववत् |
SK
तत्र मेधा यया आशु धर्ममुद्गृह्णाति | चिरेण धर्ममर्थं च न विस्तारयति | आशु धर्ममर्थं च प्रतिविध्यति |
SK
तत्र कृतपुण्यता | यया अभिरूपो भवति | दर्शनीयः | प्रासादिको दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति | महापुण्यो, लाभी चीवरादीनां | स सत्कृतो, गुरुकृतश्च | राजादीनां |
SK
तत्र गुणान्वित इति | गुणा अल्पेच्छतादयो वेदितव्याः | यथोक्तं श्रमणालंकारे तैरयं प्रकृत्यैव समन्वागतो भवति | इतीमान्येवं भागीयानि मन्दरजस्कस्य पुद्गलस्य लिंगानि वेदितव्यानि ||
SK
तत्र षट् पुद्गलपर्यायाः | तद्यथा श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यति[ः], प्रव्रजितश्चेति |
SK
तत्र चत्वारः श्रमणाः | मार्गजिनः | मार्गदेशिकः | मार्गजीवी | मार्गदूषी च |
SK
तत्र यः सुगतः स मार्गजिनः | यो धर्मवादी स मार्गदेशिकः | तत्र यः प्रतिपन्नः | स मार्गजीवी | यो मिथ्याप्रतिपन्नः स मार्गदूषी |
SK
सुगतश्चोच्यते | योशेषं रागद्वेषमोहक्षयमनुप्राप्तः | धर्मवादी | यो रागद्वेषमोहविनयाय धर्मं देशयति | सुप्रतिपन्नो यो रागद्वेषमोहविनयाय (Śभ्_Sह् ३३९) प्रतिपन्नः | दुःशील[ः], पापधर्मा, मिथ्या प्रतिपन्नः |
SK
अपि च | शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते | दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्नाः | श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च | ये सांकेतिकं धर्मविनयं धारयन्ति | धर्मनेत्रीं प्रवर्त्तयन्ति | इम उच्यन्ते मार्गदेशिकाः | तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः (मार्गदेशिकाः) | कौकृतिकाः शिक्षाकामाः | अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै [|] इम उच्यन्ते मार्ग जीविनः | अप्येषामूष्मा येने[य]मस्य आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते | तेनोच्यन्ते मार्गजीविन इति | तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रहमचारी [ब्रह्मचारी] (रि) प्रतिज्ञः | अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः | येनायमभव्यो भवत्यप्रतिअबलः | अभाजनभूतो मार्गस्योत्पत्तये | सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेधिगमे [|] (Śभ्_Sह् ३४०) तस्मान्मार्गदूषीत्युच्यते |
SK
इदं च सन्धायोक्तं भगवता | इह कतमः श्रमणः | इह यावच्चतुर्थः | शून्याः परप्रवादाः | श्रमणैब्रह्मिणैश्च | यत्रार्याष्टांगो मार्गः प्रज्ञायते | तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ||
SK
तत्र (य) त्रयो ब्राह्मणाः | तद्यथा जातिब्राह्मणः | संज्ञाब्राह्मणः | प्रतिपत्तिब्राह्मणश्च | तत्र जातिब्राह्मणः | योयं जातिब्राह्मणः कुलजातो, योनिजो, मातृसम्भूतः | उत्पन्नो मातृतः, पितृतः | तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, समाज्ञा, प्रज्ञप्तिर्व्यवहारः | प्रतिपत्तिब्राह्मणः | योत्यन्तनि(न्तं) भवति कृतार्थः | वाहिता भवन्त्यनेन पापका अकुशला धर्माः | (Śभ्_Sह् ३४१) यथोक्तं न कार्यं ब्राह्मणस्यास्ति | कृतार्थो ब्राह्मणः स्मृत इति |
SK
तत्र त्रयो ब्रह्मचारिणः | तद्यथा विरतिसमादायी | तदन्तरप्रहायी, तदत्यन्तप्रहायी च | तत्र विरतिसमादायी | यो ब्रह्मचर्या[त्]पुनर्धर्मात्प्रतिविरतो भवति | समादत्तशिक्षः | तत्र तदन्तरप्रहायी यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः | तत्र तदत्यन्तप्रहायी | तद्यथानागामी | अर्हत्वात्पुनः (अर्हन्वा पुनः) ||
SK
तत्र पञ्च भिक्षवः | भिक्षतीति भिक्षुः | प्रतिज्ञाभिक्षुः | संज्ञाभिक्षुः | भिन्नक्लेशत्वाद्भिक्षुः | ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः ||
SK
तत्र त्रयो यतयः | दौःशील्यसंयमाद् यतिः | योकुशलाद् वाक्कायकर्मणः प्रतिविरतः | विषयसंयमाद्यतिः | य इन्द्रिये गुप्तद्वारः | आरक्षितस्मृतिः | निपकस्मृति[ः |] विस्तरेण पूर्ववत् | क्लेशसंयमाद्यतिः | यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च | वितर्कं व्यापादविहि[तं]वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकानि(णि) | दुर्गतिगामी[नि] (|) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति | प्रजहाति | विशोधयति | व्यन्तीकरोति | सो ऽयं द्विविधः क्लेशसंयमो भवति | (Śभ्_Sह् ३४२) पर्यवस्थानसंयम, उभयसंयमश्च ||
SK
तत्र द्वौ प्रव्रजितौ | स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च | तत्र स्वाख्यातधर्मविनयः | भिक्षुर्भिक्षुणी, शिक्षमाणा, श्रामणेर[ः], श्रामणेरी | अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रव्रजित इत्युच्यते | परमार्थतः | तत्र दुराख्यातधर्मविनयः | तद्यथा तीर्थिक[ः], परिव्राजो (व्राड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति | यो वा पुनरप्येवंभागीयः | तेनाहं (ह) श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव्र [........................................] र-च | कालप्रभेदः दीर्घकालभावितमार्गो, न दीर्घकालभावितमार्गश्च | इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति | यद्वा संप्र [.........................................] ज्ञ उपायज्ञ[ः] कुशल इत्यर्थः | सातत्यपक्षे प्रयोगो (गः) साततिको निपक्व इत्युच्यते | दीर्घकालभावितभावित [...........................................] त्रयेण भेदेन | योगप्रयोगकालभेदेनाप्तानां पुद्गलानां व्यवस्थानं यस्तावद्पुद्गलः अपरिपक्वेन्द्रियः | स तावदुपायज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति | (Śभ्_Sह् ३४३) ध्याय्यस्य धर्मस्य कुशलस्य | तत्र परिपक्वेन्द्रियश्च [...............................] ज्ञो भवति | परिपक्वेन्द्रियो भवति | उपायज्ञो न क्षिप्राभिज्ञो भवति | तत्र परिपक्वेन्द्रियो, भवत्युपायज्ञो, न साततिको, न कृतपरिचयः | न तावत्कृतस्वार्थो भवति | कृतकृत्यः | यश्च परिपक्वेन्द्रियो भवत्युपायज्ञः | साततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति | क्षिप्राभिज्ञश्च | कृतस्वकार्यश्च भवति कृत्यकृत्यः ||
SK
तत्र चत्वारो माराः संबहुलानि मारकर्माणि | (Śभ्_Sह् ३४४) वेदितव्यानि योगिना | योगप्रयुक्तेन | ते च परिज्ञाय परिवर्जयितव्याः | तत्र चत्वारो माराः | तद्यथा- स्कन्धमारः, क्लेशमारः, मरणमारः | देवपुत्रमारश्च | पंचोपादानस्कन्धाः स्कन्धमारः | त्रैधातुकावचराः क्लेशाः | तेषां तेषां सत्त्वानां | तस्मात्तस्मात्सत्त्वनिकायाः य(याद्य)न्मरणं कालक्रिया (Śभ्_Sह् ३४५) मरणमारः | योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः | निश्चयप्राप्तः अन्तरायमुपसंहरति | व्याक्षेपकरणे | अयमुच्यते देवपुत्रमारः | तत्र यत्र च म्रियते | यश्चासौ मृत्युर्येन च मृत्युं नमयति, क्रामयत्यन्तरायिकेन वस्तुना [|] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः |
SK
तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते | क्लेशां(शान्)जनयत्यायत्यां जातश्च म्रियते | च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः | कालक्रिया स्वभाव एव मृत्युः | देवपुत्रमारश्च मरण समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति | येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम् || कालान्तरेण वा समतिक्रामति | तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः || इहस्थस्तत्रोपपन्नो वा, [अ]वशगतः | पुनर्यः अवीतरागः |
SK
तत्र यो वीतरागः (|) एव हस्तगतो यथाकामं करणीयः | वीतरागो वा पुनर्बद्धो मारबन्धनैः | अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती(न्ता) इमां (मं) धार्न्तुम् (धातुम्) |
SK
तत्र मारकर्माणि | यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः | कामग्रेधमधिपतिं (Śभ्_Sह् ३४६) कृत्वा प्रवर्त्तन्ते | वेदितव्यं मारकर्मै तदिति | इन्द्रियैर्गुप्तद्वारस्य विहरतः | यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति | वेदितव्यं मारकर्मैतदिति | एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति | भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो गमननुयुक्तस्य विहरतः | निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति | वेदितव्यं मारकर्मैतदिति | तथा संप्रजानद्विहारिणो विहरतः | अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति | लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति | बह्वर्थतां(तायां), बहुकृत्यतायां, चित्तं प्रस्कन्दति | तद्यथा गृहस्थप्रव्रजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति | वेदितव्यं मारकर्मैतदिति || तथा बुद्धे, धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे | इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते | वेदितव्यं मारकर्मैतदिति | अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तम्भयभैरवं पश्यत्यु[त्]त्रासकरं रोमहर्षणं | ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः (|) (Śभ्_Sह् ३४७) शुक्लपक्षाद्विच्छिन्दयति | कृष्णपक्षे च समादापयति | वेदितव्यं मारकर्मैतदिति | यदा लाभसत्कारे चित्तंप्रस्कन्दति | मात्सर्ये महेच्छतायां | असन्तुष्टौ, क्रोधोपनाह (|) कुहनालपनादिषु | श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति | वेदितव्यं मारकर्मैतदिति | इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगं ||
SK
तत्र चतुर्भिःकारणैः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति | तद्यथा इन्द्रियसमुदागमेन | अनुलोमाववादेन | समाधिदुर्ब्बलतया च | इन्द्रियाणि चेन्न समुदागतानि | आनुलोमिकश्चाववादो भवति | समाधिश्च केवलवान् | एवमस्यारम्भो विफलो भवति | इन्द्रियाणि चेन्न समुदागतानि भवन्ति | अववादश्च नानुलोमिको भवति | समाधिश्च बलवान् भवति | एवमारम्भो विफलः | इन्द्रियाणि चेत्समुदागतानि | स अववादश्चानुलोमिको भवति | समाधिश्च दुर्बलो भवत्येवारंभा(वमारम्भो) विफलः | इन्द्रियाणि चेत्समुदागतानि भवन्ति | आनुलोमिकश्चाववादो भवति | समाधिश्च दुर्ब्बलो भवत्येव[मा]रम्भो विफलः | इन्द्रियाणि चेत्समुदागतानि भवन्ति | आनुलोमिकश्चाववादः | समाधिश्च बलवानेवम(Śभ्_Sह् ३४८)स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैर्विफलो भवति | त्रिभिरेव कारणैः सफलः || उद्दानं ||
SK
पुद्गलास्तद्व्यवस्थानं अथो आलम्बनेन च | अववादश्च शिक्षा च तथा शिक्षानुलोमिका[ः] [||] योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः | करणीयं भावना च फलं पुद्गलपर्यायः ||
SK
मारश्च मारकर्माणि आरम्भो विफलो भवेत् ||
SK
|| योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ||
SK
III. तृतीयं योगस्थानम्
SK
एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मिकेन (ण) | तत्प्रथमकर्मिकेन(ण) योगज्ञ, आचार्यो वा, उपाध्यायो वा, पुरुषो, गुरुस्थानीयो वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः | अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भतया | किंकुशलगवेषिणा | नात्मोद्भावनार्थं | आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति | न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः | अहमस्मिं (स्मि) योगेनार्थी, योगं आदिक्ष्वानुकम्पामुपादाय |
SK
इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तुकामः | (Śभ्_Sह् ३५२) श्लक्ष्णश्लक्ष्णैर्वचनपथैरुद्वेजयितव्यः | संप्रहर्षयितव्यः | प्रहाणे चानुशंसो वर्णयितव्यः | साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं)प्रमादापगतायां प्रजायां, विषयनिम्नायां, विषयाध्यवसितायां अप्रमादाय प्रयोक्तुकामः | अपायधारकप्रविष्टायामपायधारकान्निर्गन्तुकामः | रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तुकामः | संसारमहादावीदुगमार्गप्रविष्टानां(यां) निस्तर्त्तुकामः | क्लेशकुशलमूलमहादुर्भिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः | क्लेशतस्करमहाभयानुगतायां | निर्वाणं क्षेममनुप्राप्तुकामः | क्लेशमहाव्याधिग्रस्तायां परममानो निर्वाणमनुप्राप्तुकामः | चतुरोत्मा(घा)नुस्रोतोपहतायामोघानुतर्त्तुकामः | महाविद्यानुकारप्रविष्टायां महाज्ञानालोकमनुप्राप्तुकामः | अन्य(त्र)त्वमायुष्मन्नेवं प्रयुज्यमानः | समोहं च राष्ट्रपिण्डं परिभोक्ष्यते | शास्तुर्वचनकरो भविष्यसि | अनिराकृतध्यायी, विपश्यनया समन्वागतः | बृंहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः | अविगर्हितो विज्ञैः | सब्रह्मचारिभिस्तुल्यहिताय प्रतिपन्नः | परहिताय, बहुजनहिताय, लोकानुकम्पायै, (Śभ्_Sह् ३५३) अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः | संहर्षयित्वा (संहर्ष्य) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः | कश्चि(च्चि)दायुष्मानेकान्तेन बुद्धशरणं गतो, धर्मं, संघं, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्यानामुद्देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च | अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा धिमुक्तं चित्तं | निर्वाणाभिप्रायश्च प्रव्रजितः |
SK
सचेत्पृष्ट ओमिति प्रजानाति | तत उत्तरि चतुर्षु स्थानेषु चतुर्भिः कारणैः समन्वेषितव्यः | प्रणिधानतः समन्वेषितव्यः | गोत्रत, इन्द्रियतः | चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः |
SK
तत्र कथं पृच्छया प्रणिधानतः समन्वेषितव्यः | एवं परिप्रष्टव्यः | कुत्रायुष्मान् कृतप्रणिधान (Śभ्_Sह् ३५४) इति | श्रावकयाने, प्रत्येकबुद्धयाने महायाने [|] (Śभ्_Sह् ३५५) स यत्र यत्र कृतप्रणिधानो भविष्यति | त चै(त्रै)वात्मानं व्याकरिष्यति | एवं पृच्छया प्रणिधानतः समन्वेषितव्यः |
SK
कथं पृच्छया गोत्रमिन्द्रियं चरितं च [|] समन्वेषितव्यं | स एवं परिप्रष्टव्यः | आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा [|] किं गोत्रोहं | कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः | अथ द्वेषचरितः | एवं तावद् वितर्कविचारित (विचारचरित) इति | स चेत्स प्राज्ञो भवति | पू(पौ)र्वापर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति | निमित्तीकृतं [|] तञ्चै(च्चैव)व व्याकरोति | स चेत्पुनर्युक्तो भवति | न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति | ततश्चरितं चोपलक्षितं भवति | स पृष्टो न व्याकरोति | तस्य तत उत्तरकालं कथया तावत्त्रीणि समन्वेषितव्यानि | तस्य पुरस्ताच्छ्रावकयानप्रतिसंयुक्ता (Śभ्_Sह् ३५६) कथा करणीया | चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां कथ्यमानायां स चेच्छ्रावकगोत्रो भवत्यत्यर्थं तया कथया प्रीयते | हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति | (न) प्रसीदति नाधि (अधि)मुच्यते | महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्रः सो ऽत्यर्थं प्रीयते | हृष्यते | यावत्प्रसीदत्यधिमुच्यते | श्रावकप्रत्येकबुद्धस्तु न तथा | स चेत्पुनः मृद्विन्द्रियो भवति | सो ऽत्यर्थञ्च प्रीयते | धर्मस्य चार्थस्य चोपलक्षणाय | उद्ग्रह्णाय, प्रतिवेधाय च | मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु | आशु धर्म चोपलक्षयत्युद्गृह्णाति | प्रतिविध्यति गम्भीरायामपि कथायां कथ्यमानायां | स चेत्पुनारागचरितो भवति | स प्रसदनीयायां कथायां कथ्यमानाया मत्यर्थं प्रसीदति रमते | का (या)व त(द्)ध्यानं प्रविशति | चाप्ता च मग्रु (अश्रु?) प्रपातं च स्निग्धसन्तानतां, मृदुचित्ततां, द्रवचित्ततां चोपदर्शयति | सचेद् द्वेषचरितो भवति | निर्वेधिकायां कथायां कथ्यमानायां निर्वाणप्रतिसंयुक्तायां निरामिषमु[त्]त्रस्य संत्रासमापद्यते | यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम् | स चेत्स धर्मानुचरितो भवति | जानात्यर्थं शुश्रूषते | न श्रोत्रमवदधाति | न तथा प्रज्ञाचित्तमुपस्थापयति | (Śभ्_Sह् ३५७) आवर्जितो ऽपि न तथा सानुकारमनुप्रयच्छति | स चेत्पुनर्विचरितो (र्विचारानुचरितो) भवति | तस्य स्ववहितस्यापि चित्तं विक्षिप्यते | दुर्गृहीतग्राही भवति | न दृढं गृह्णाति | न स्थिरं, उद्गृहीतञ्च नाशयति | न पुन[ः] कय(थ)या परिपृच्छन कश्च भवति | एवं कथया | गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं | कथं चेष्टया [|] यानि पूर्वोक्तानि लिंगानि | श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते | तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं |
SK
तत्र कथं चेतःपर्यायज्ञानेन गोत्रेन्द्रियचरितानि समन्वेषितव्यानि | यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [|] स तेन परचित्तज्ञानेन गोत्रमिन्द्रियं, चरितं च यथाभूतं प्रजानाति | (Śभ्_Sह् ३५८) एतानि चत्वारि स्थानान्येभिश्चतुर्भिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते | तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः(यां), आवरणविशुद्धौ, मनस्कारभावनायां च | तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति | तत्र चाप्रमादविहारी भवत्यपपरिणाय बुद्धानुशिष्टस्य च बुद्धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्शापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रंस)यति | एवमयमविगताच्छीलप्रतिसम्वराच्छि क्षामार्गान्न परिहीयते | अनधिगतं च शिक्षामार्गमधिगच्छति | यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयोगः, संप्रजानद्विहारिता, एवं यावच्छ्रमणालंकार इति | यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति | स तं वा रक्षत्युत्तरि (रं) च प्रविभागस्य पारिपूरये | यथोक्ताद्भूराधिककसमुदाचाराय [च्]छन्दजातो विहेरयु(रेत्) मु(मू)कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः | स एवं हानभागीयांश्च धर्मान् विरज्यति, शेषभागीयांश्च धर्मान् प्रतिषेवमाणः प्रविविक्तविहारी भवति |
SK
प्राविवेक्यं कतमत् | या स्थानसम्पदीर्यापथसम्पत् | तत्र स्थानसम्पत्तद्यथा | अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते | तत्र वनप्रस्थं वृक्षमूलमित्युच्यते | तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते | तदिदमभिसमस्य स्थानं वेदितव्यं | यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि | स्थानसम्पत्पुनः पञ्चविधा | इह स्थानमादित एवाभिरूपं भवति | दर्शनीयं प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूलं, न स्थाणुकण्टकधानं | न बहुपाषाणशर्करकपालं | यत्रास्य दृष्टवा चित्तमभिप्रसीदति | वासाय, प्रहाणाय, प्रयोगाय | हृष्टचित्तः | प्रमुदितचित्तः | प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् | पुनरयं (रिदं) न दिवा अल्पविलोकं भवति | रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् | यत्पुनरपरं सिंहव्याघ्रद्वीपितस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति | यत्र विश्वस्तो निःशंकितमानसः | सुखं स्पर्शं विहरति | इतीयं तृतीया स्थानसम्पत् | (Śभ्_Sह् ३६०) पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्ची वरादयः | ते [अ]त्राल्पकृच्छ्रेण सम्पद्यन्ते | येनायं पिण्डकेन न क्लाम्यति | यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् | पुनरपत्रं(रं) कल्याणमित्रपरिगृहीतं भवति | तद्रूपा अत्र विज्ञाः सब्रह्मचारिणः प्रतिवसन्ति | येस्याकृतानि नोत्तानीकुर्वन्ति | गंभीरं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति | ज्ञानदर्शनस्य विशुद्धये | इयं पञ्चमी स्थानसम्पत् |
SK
तत्र कतमा ईर्यापथसम्पत् | दिवा चंक्रमेण वातिनामयति | निषद्य यावता एवं रात्र्याः प्रथमं यामं, मध्यमे न (च) यामे दक्षिणेन पार्श्वेन (ण) शय्यां कल्पयति | पश्चिमे च यामे लघुलघ्वेवोत्तिष्ठते | चंक्रमनिषद्यया वातिनामयति | तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति | पर्यङ्कमाभुज्य तु | केन कारणेन पञ्च कारणानि समनुपश्यन् संपिण्डितेन कायेन प्रश्रब्धिरुत्पद्यते | प्रश्रब्ध्युत्पत्तये अनुकूलोयमीर्यापथ (Śभ्_Sह् ३६१) इति | तथा चारिका [का]लं निषद्ययाशक्तो व्यतिनामयितुं | ना चास्यानेनेर्यापथेन कायक्लेशो भवति | तथा असाधारणोयमीर्यापथोन्यतीर्थिकैः | परप्रवादिभिः | तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धैश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [|] इमानि पंचकारणानि | संपश्यति निषीदति | पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय |
SK
तत्र कतमा कायसंज्ञता | कायस्य स्पष्टोच्छ्रितप्रणिहितता | चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन | तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति | निष्कुहकेन चित्ते बहिर्धा विक्षेपो न पर्यादाय तिष्ठति | प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य |
SK
तत्र कतमा प्रतिमुखा(खी) स्मृतिः | यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्र[ति]मुखे (खी)त्युच्यते | सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया | अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृतिः प्रतिमुखे (खी) त्युच्यते | सर्वसमाहितभूमिकालम्बनप्रमुखतया इयमुच्यते ईर्यापथसम्पत् |
SK
व्यपकर्षः कतमः | आह | द्विविधः कायव्यपकर्षः | चित्तव्यपकर्षश्च | तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता || तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा | समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति | कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः | तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत् | यश्चायं कायव्यकर्षः | यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस्)तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते |
SK
तत्रैकाग्रता कतमा | आह | पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता | चित्तसन्ततिर्या सा समाधिरित्युच्यते | कुशलचित्तैकाग्रतापि [|] किं पुनः पुनरनुस्मरति | आह | ये धर्मा उद्गृहीता[ः] श्रुता, या चाववादानुशासनी प्रतिलब्धा भवति | गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्बनां प्रवाहयुक्तां स्मृतिमनुवर्त्तयति | (Śभ्_Sह् ३६३) उपनिबध्नाति | तत्र कतमत्सभागालम्बनं | यत्किंचित्समाहितभूमिकमालम्बनमनेकविधं | बहुनानाप्रकारं | येनालम्बने चित्तं परं समाहितमिदमुच्यते | सभागमालम्बनं [|] कस्यैतत् | सभागं [|] आह | क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमित्युच्यते | या पुनरभिक्षयाकारानिछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते | तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता | यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता | वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता | तेनाह पुनः पुनरपरानुस्मृतिसभागालम्बनप्रवाहानवद्यरतियुक्ता चित्त सन्ततिः | समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च | तत्र या नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या |
SK
तत्र नवाकारा चित्तस्थितिः कतमा | इह भिक्षुरध्यात्ममेव चित्तं स्थापयति | संस्थापयति | अवस्थापयत्युपस्थापयति | दमयति | शमयति | (Śभ्_Sह् ३६४) व्युपशमयति | एकोतीकरोति | समाधत्ते [|]
SK
कथं स्थापयति | सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबघ्नाति | यत्तत्प्रथमोपनिबद्धो विक्षेपाय इयं स्थापना |
SK
कथं संस्थापयति | तत्प्रथमोपनिबद्धं यदेव चित्तं तद्ब[ल]मौदारिकमसंस्थितमपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्वन् अभिसंक्षिपन् संस्थापयति |
SK
कथमवस्थापयति | स चेच्चित्तमेव स्थापयतः | स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते | स पुनरपि तथैव प्रतिसंहरन्ति (ति) | एवमे(म)व स्थापयति |
SK
कथं दमयति | यैर्निमित्तैरस्य तच्चित्तं विक्षिप्यते | तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तै रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [|] तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति | तामधिपतिं कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति | एवं दमयति ||
SK
कथं शमयति | यैर्वितर्कैः कामवितर्कादिभिः | यैश्चोपक्लेशैः | काम[च्]छन्दनिवरणादिभिः | तस्य चेतसः संक्षोभो भवति | तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति | तामधिपतिं कृत्वा तस्य चेतसः | तेषु वितर्कोपक्लेशेषु | प्रसरं न ददात्येवं शमयति |
SK
कथं व्युपशमयति | स्मृतिसम्प्रमोषात्तदुभयसमुदाचार [रे] सत्युत्पन्नोत्पन्नान् वितर्कोपक्लेशान् नाधिवासयति | प्रजहाति | एवं व्युपशमयति |
SK
कथमेकोतीकरोति | साभिसंस्कारं निच्छि(श्छि)द्रं निरन्तरं समाधिप्रवाहमा (म)वस्थापयत्येव मेकोतीकरोति |
SK
कथं समाधत्ते | आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादनाभोगवाहनं | स्वरसवाहनं | मार्गं लभते | येनानभिसंस्कार (रे)वा (णा) नाभोगेनास्य चित्तसमाधिप्रवाहः | अविक्षेपे प्रवर्त्तते | एवं समाधत्ते |
SK
तत्र षड्विधबलैर्नवाकारा चित्तस्थितिः सम्पद्यते | तद्यथा श्रुतचिन्ताबलेन | स्मृतिबलेन | वीर्यबलेन | (Śभ्_Sह् ३६६) परिचयबलेन च |
SK
तत्र श्रुतचिन्ताबलेन तावत् | यच्छ्रुतं, या चिन्ता [ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति | तत्रैव च | प्रबन्धयोगेन संस्थापयति | तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति | उपस्थापयति | ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति | शमयति | वीर्यबलेन | तदुभयसमुदाचारं च नाधिवासयति | एकोतीकरोति | परिचय बलेन समाधत्ते [|]
SK
तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः | बलवाहनः स[च्]छिद्रवाहनो निछि(श्छि)द्रवाहनः | अनाभोगवाहनश्च | तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः | अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः, व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः | एकोतीकुर्वतो निछि(श्छि)द्रवाहनो मनस्कारः | समादधतः | अनाभोगवाहनो मनस्कारो भवति | एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति | यः पुनरेवमध्यात्मं चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते | तस्यैत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ||
SK
चतुर्विधा विपश्यना | कतमा | भिक्षुर्धर्मान् विचिनोति | प्रविचिनोति | परिवितर्कयति | परिमीमान्सा(मांसा)मापद्यते | यदुताध्यात्मं चेतःशमथं निश्रित्य [|]
SK
कथं च विचिनोति | चरितविशोधनं वा आलम्बनं | कौशल्यालम्बनं वा, क्लेशविशोधनं वा | यावद्भाविकतया विचिनोति | यथावद्भाविकतया | प्रविचिनोति | सविकल्पेन मनस्कारेण प्रज्ञासहगतेन | निमित्तीकुर्वन्नेव परिवितर्कयति | सन्तीरयत्यधिमीमांसामापद्यते |
SK
सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या(ः) | कतमानि त्रीणि (|) मुखानि [|] विपश्यना यन्निमित्तमात्रानुचरिता | विपश्यना पर्येषणानुचरिता, पर्येषि ता च | प्रत्यवेक्षणानुचरिता |
SK
तत्र निमित्तमात्रानुचरिता [|] येन (यया) (Śभ्_Sह् ३६८) श्रुतमुद्गृहीतं | धर्मं अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति | न चिन्तयति | न तुलयति | नोपपरीक्षते | इयन्निमित्तमात्रानुचरिता भवति |
SK
यदा पुनश्चिन्तयति | तीरयति तुलयत्युपपरीक्षते | तदा पर्येषणानुचरिता भवति |
SK
यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते | तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना |
SK
कतमानि षड्वस्तुप्रभेदालम्बनानि | स पर्येषमाणः | षड्वस्तूनि पर्येषते | अर्थं, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते |
SK
कथमर्थं पर्येषते | अस्य भाषितस्यायमर्थो [अ]स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते |
SK
कथं वस्तु पर्येषते | द्विविधं वस्तु [|] आध्यात्मिकं बाह्यञ्च [|] एवं वस्तु पर्येषते |
SK
कथं लक्षणं पर्येषते | द्विविधं | स्वलक्षणं सामान्यलक्षणं च | एवं लक्षणं पर्येषते |
SK
कथं पक्षं पर्येषते | द्विविधः पक्षः कृष्णपक्षः शुक्लपक्षः [|] कृष्णपक्षं दोषतः | आदीनवतः | शुक्लपक्षं पुनर्गुणतो ऽनुशंसतश्चैवं [पक्षं] पर्येषते |
SK
कथं कालं पर्येषते | त्रयः कालाः [|] अतीतो ऽनागतो वर्तमानश्च | एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति | अनागतेध्वनि | एवमेतदेतर्हि | प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते |
SK
कथं युक्तिम्पर्येषते | चतस्रो युक्तयः |[|] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिर्धर्मतायुक्तिश्च || तत्रो (त्रा) पेक्षायुक्त्या संवृतिं च संवृतितः | परमार्थं च परमार्थतः | निदानं च निदानतः | पर्येषते | काय (र्य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते | अयन्धर्मः, इदं कारित्रं, अयमिदं कारित्र इति [|] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते | आप्तागममनुमानं प्रत्यक्षं च [|] किमस्ति (|) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति | तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्तयति | न विकल्पयत्येवं युक्तिम्पर्येषते |
SK
इयं षड्वस्तुप्रभेदालम्बना(नि) त्रिमुखा (खी)विपश्यना समासतः | अनया सर्वविपश्यनासंग्रहः |
SK
केन पुनः कारणेन षट्प्रभेदा व्यवस्थापिता[ः |] आह | त्रिविधमवबोधमधिकृत्य भाषितार्था (न)वबोधम्वस्तुपर्येषन्ततावबोधं | यथाभूतावबोधं च | तत्रार्थपर्येषणया भाषितार्थावबोधः | वस्तुपर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः | तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया यथाभूतावबोधः | एतावच्च योगिना ज्ञेयं | यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता | यथावद्भाविकता च | तत्राशुभो (भे) प्रयुक्तो योगी षड्वस्तूनि पर्येषते | आह [|] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति | अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक(घ)मेतद् दुर्गन्धमामगन्धमिति | (Śभ्_Sह् ३७१) एभिराकारैरेवंभागीयैस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु तस्यार्थप्रतिसंवेदना [|] एवमशुमतयार्थं पर्येषते |
SK
कथं वस्तु पर्येषते [|] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च |
SK
कथं स्वलक्षणं पर्येषते | अध्यात्मं तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते || सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्तकं मस्तकलुंगं प्रश्राव (प्रस्राव) इति | तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते | पृथिवीधातुना, अब्धातुना च [|] तत्र केशरोमाण्युपादाय | यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते | अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते | बहिर्धा वा पुनर्बाह्यगतामशुभतां विनीलकादिभिराकारैरधिमुच्यते | तत्र विनीलकमधिमुच्यते | यदनेन मृतकुणपं स्वयं वा दृष्टं भवति | पुरतो वा श्रुतं परिकल्पितं वा, पुन[ः] स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य वा | हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [|]
SK
तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते | द्व्यहमृतं (Śभ्_Sह् ३७२) प्राप्तपूयभावं | असंजातकृमिविपूयकमित्यधिमुच्यते | सप्ताहमृतं संजातकृमि आध्मातं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते काकैः कुरलै(रै)ः खाद्यमानं गृद्धैः श्वभिः श्रृगालैर्विखादिकमित्यधिमुच्यते | विरवादितम्वा पुनरपगतत्वङ्मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते | दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से(मांसे)षु निर्मान्से (मांसे)षु किंचिच्छिष्टमान्से(मांसे)षु विक्षिप्तकमित्यधिमुच्यते || अन्यतो वा हस्तास्थीन्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्वस्थीनि, बाह्वस्थीनि, प्रबाह्वस्थीनि | पृष्ठा(ष्ठी) वंशः | हनुनक्रं दन्तमाला मध्यतः | शिरस्कपालं दृष्ट्वान्यास्थीन्यधिमुच्यते | यदा पुनः सम्बद्धमरिक्षकरंकमविशीर्णं मनसि करोति | केवलं निमित्तग्राही भवति | न तु तस्यांग प्रत्यंगेषु व्यंजनग्राही | एवं शंकलिकामधिमुच्यते | यदा [त्वनु] व्यंजनग्राही भवति | तदास्थिशंकलिकामधिमुच्यते | अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च | तत्र देह शंकलिका श्रोणीकटाहमुपादाय | पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितं | प्रत्यंगशंकलिका सम्बद्धानि बाह्वस्थीनि च सम्बद्धानि | तत्र या देहशंकलिका च | तत्र देहशंकलिका श्रोणीकटाहमुपादाय | (Śभ्_Sह् ३७३) पृष्ठीवंशो यावत् यत्र शिरस्कपालं प्रतिष्ठितं | प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि | ऊरुजंघास्थीनि च | तत्र या देहशंकलिका | सा शंकलिकैवोच्यते | या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते |
SK
अपि च द्वौ शंकलिकायानिमित्तग्राहौ चित्रकृतायाः पाषाण काष्ठशादकृताया वा | भूतशंकलिकाया वा | अभूतशंकलिकाया वा | निमित्तं मनसिकरोति | तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां | यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति | तदास्थिशंकलिकामेवाधिमुच्यते | नास्थिशंकलिकां | (यदा पुनर्भूतशंकलिकाया निमित्तं मनसि करोति | तदास्थिशंकलिकामधिमुच्यते) | स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (|) विपरिणामः | स्वरसविपरिणामः | परकृतस्तदुभयपक्ष्यश्च |
SK
तत्र विनीलकमुपादाय | यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः | तत्र विखादितकमुपादाय यावद्विक्षिप्तकात्परकृतो विपर(रि)णामः | तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति | य एवं यथाभूतं प्रजानाति | (Śभ्_Sह् ३७४) बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते |
SK
कथमशुभताया[ः] (|) सामान्यलक्षणं पर्येषते | यथा चाध्यात्मं बहिः कायस्याशुभावर्णनिभया अपरिणता यावद्बहिर्धा बहिः कायस्याशुभा वर्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते | इयमपि मे शुभा वर्णनिभा एवं धर्मिणीति | ये ऽपि केचित्सत्त्वा अनया शुभया वर्णनिभया समन्वागतास्तेषामपि साशुभायां एवं धर्मिणी तद्यथेयम्बाह्या || एवं सामान्यलक्षणं पर्येषते |
SK
कथं पक्षं पर्येषते | तस्यैवं भवति | यदाह मस्या (अनयाशुभया वर्णनिभया एतामशुभमता (तां) यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्णनिभायां संरागमुत्पादयामि विपर्यास एव कृष्णपक्षसंगृहीतः | निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः | अतोनिदाना उत्पद्यन्ते | आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः | या पुनरस्यां शुभायाम्वर्णनिभायां | अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या [|] एष धर्मः अदुःखः | अविघातः | यावदतो निदाना उपायासा निरुध्यन्ते | तत्र योयं (Śभ्_Sह् ३७५) कृष्णपक्षसमयो नाधिवासयितव्यः | प्रहातव्यो विशोधयितव्यः | शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयितव्यः | उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता) करणीया | एवं पक्षं पर्येषते |
SK
कथं कालं पर्येषते | तस्यैवं भवति | येयमध्यात्मं [अ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय | अतीतं पुनरध्वानमुपादाय | शुभा बभूव | सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि | वर्तमानमध्वानमुपादाय | एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [अ]शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती | अनागते [अ]ध्वन्यशुभा न भविष्यतीति | नेदं स्थानं विद्यते | तद्यथैषा बाह्या एव[ं] वर्तमानमध्वानमुपादाय | इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते |
SK
कथं युक्तिं समन्वेषते | तस्यैवं भवति | नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा [|] (Śभ्_Sह् ३७६) अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः | शुभमिति वा अशुभमिति वा | अपि च-
SK
आयुरूष्माथ विज्ञानं (|) यदा कायं जहत्यमी [|] अपविद्धस्तदा शेते यथा काष्ठमचेतनं ||
SK
तस्यास्य मृतस्य कालगतस्यानुपूर्वेण विपरिणता इमा अवस्थाः प्रज्ञायन्ते | यदुत विनीलकमितिवा यावदस्थिशंकलिकाया वा अयमपि मे कायः | पूर्वकर्मक्लेशविद्धः | मातापित्र्यशुचिसंभूत ओदनक(कु)ल्माषोपचितः | येन हेतुना, येन निदानेन इयं तावत्कालिकी शुभा वर्णनिभा | प्रज्ञायते | अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थनिदानतः | अपेक्षायुक्तिं पर्येषते | तस्यैवं भवतीयमशुभता | एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते | कामरागश्च प्रहातव्यः | एवं कार्यकारणयुक्त्या समन्वेषते | तस्यैवं भवत्युक्तं हि भगवता | अशुभा आसेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्त्तत इत्ययं तावन्मे आप्तागमः | प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्त्तते | अहमस्मि यथा यथा अशुभतां भावयामि, मनसि करोमि | तथा कामरागपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते | उत्पन्नं च प्रतिविगच्छति | आनुलोमिकोप्येष विधिरस्ति | (Śभ्_Sह् ३७७) कथमिदानीम्विपक्षं धर्मं मनसिकुर्वतः | तद्विपक्षालम्बनेन क्लेश उत्पद्यते | एवमुपपत्तिसाधनयुक्त्या पर्येषते | तस्यैवं भवति | प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता | यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति | सा च चिन्तयितव्या | न विकल्पयितव्या | अधिमोक्तव्या | एवं धर्मतायुक्त्या अशुभताम्पर्येषते | इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना |
SK
कथं मैत्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते | मैत्र्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते | स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः | सर्व एते पक्षाः परसन्तानपतितत्वाद्वाह्यं वस्त्वित्यधिमुच्यते | मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्रीं समन्वेषते |
SK
स पुनर्विचिनोति | य एते त्रयः पक्षाः अदुःखा सुख(ता)ः | सुखकामास्ते सुखिता भवन्त्विति | तत्रोपकारलक्षणं मित्रं | अपकारलक्षणममित्रं | तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) | ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां (Śभ्_Sह् ३७८) त्रिविधा सुखकामता प्रज्ञायते | एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं | तत्र ये कामसुखेन विहन्यन्ते | अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [|] एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् | एवं स्वलक्षणतो मैत्रीं समन्वेषते |
SK
स पुनः प्रविचिनोति | यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः | तुल्यचित्तता तु मया करणीयेति | समचित्तता | तत्कस्य हेतोः | यस्तावन्मित्र[पक्ष]स्तत्र मे न दुष्करः | सुखोपसंहारः | योप्ययमुदासीनपक्षः | तत्रापि ये (मे) नातिदुष्करः | यस्त्वयममित्रपक्षः | (तत्रायममित्रपक्षः |) तत्रातिदुष्करः | तत्र तावन्मया सुखोपसंहारः करणीयः | कः पुनर्वादः | मित्रपक्षे वोदासीनपक्षे वा | तत्कस्य हेतोः | नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा | रोषयति वा, रोष्यते वा | भण्डयति वा, भण्ड्यते वा | ताडयति वा, ताड्यते वा | अन्यत्राक्षराण्येतानि रवन्ति | शब्दमात्र[ं] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति | यदुत शब्दसंस्पर्शा वा | (Śभ्_Sह् ३७९) पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ं] मे कायः | अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः | अपि च | सर्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन् मे प्रतिरूपं स्यात् | यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्वन्ति |
SK
अपि चोक्तं भगवता | नाहं तं सुलभरूपं समनुपश्यामि | योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[त्] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्वा, गुरुस्थानीयो वेति | तदनेनापि पर्यायेणामित्रपक्ष एव[ं] मे [अ]मित्रपक्षः | न चात्र कस्यचित् परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति | अमित्रो (त्रम)पि मित्रीभवति | तस्मान्न सर्वसत्त्वेषु समचित्तता | समतादृष्टिः करणीया | तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः | सुखोपसंहाराधिमोक्ष इति | एवं सामान्यलक्षणेन मैत्रीं समन्वेषते |
SK
स पुनः प्रविचिनोति | यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् | यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् | यो वा पुनरयमेतर्ह्यव्यापादः (Śभ्_Sह् ३८०) एवं मैत्र्या(ः) कृष्णशुक्लशुक्लपक्षं पर्येषते |
SK
स पुनः प्रविचिनोति | ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः | ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय | यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते |
SK
स पुनः प्रविचिनोति | नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् | यस्य वा सुखमुपसंह्रियते | अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः | ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते | प्रसिद्धधर्मता खल्वेषा [अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते |
SK
तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते | तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [|] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते | (Śभ्_Sह् ३८२) पुनः पुनः प्रविचिनोति | द्वादशभवांगानि | अध्यात्मबहिर्धा अधिमुच्यते | एवं वस्तु पर्येषते | पुनः प्रविचिनोति | अविद्या यत्त(त्)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [|] पुनः (||) प्रविचिनोति | एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा (Śभ्_Sह् ३८३) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् | दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च || एषां च सामान्यलक्षणं पर्येषते | स पुनः प्रविचिनोति | यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः | मरण एष धर्मः कृष्णपक्ष्य[ः |] असम्मोहः | पुनः शुक्लपक्ष इति विस्तरेण [|] एम्पक्षं समन्वेषते |
SK
स पुनः प्रविचिनोति | अस्ति कर्मास्ति विपाकः | कारकस्तु नोपलभ्यते | यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् | तेष्वेवाविद्याप्रत्ययेषु (Śभ्_Sह् ३८४) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति |
SK
अपि च द्विविधमेतत्फलं | द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च | आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [|] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [|]
SK
तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (|) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति | य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये | आनुपूर्व्या पूर्वंमेव बीजपरिग्रहः | अयमाक्षेप [को] हेतुः |
SK
यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति | तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं | परिगृह्णाति | यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः | इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति | एवमपेक्षायुक्तिं पर्येषते |
SK
इदं प्रत्ययता प्रतीत्यसमुत्पादः | आसेवितो भावितो मोहप्रहाणाय सम्वर्तते | आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः | प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते ||
SK
तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते | गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः | प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते | पृथिव्यादीन्षड्धातून्न (न) ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (Śभ्_Sह् ३८६) पर्येषते | खरलक्षणा पृथिवी | यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं | सौषिर्यलक्षणारूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते | सर्व एते धातवः | अनित्यतया समसमाः | यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते | इति यः पिण्डसंज्ञिनो धातुनानात्वं अजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव[ं] पक्षं पर्येषते |
SK
अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति | एवं कालं पर्येषते |
SK
तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो [अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय | अस्थि च प्रतीत्य स्नायु[श्] च | त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति | कायः काय इति | पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते | धातुप्रभेद आसेवितो भावितो (तः) स्त्यानप्रहाणाय (Śभ्_Sह् ३८७) सम्वर्तते | आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते ||
SK
कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते | आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता | आनापानस्मृतिरित्येवं पर्येषते | अध्यात्ममुपलभ्यते | आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते | द्वावाश्वासौ यश्च वायुः प्रविशति | य (स) आश्वासो [यश्च] निष्क्रामति | स नि[ः]श्वासः [|] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्वकायेन प्रतिसंवेदयामि | इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते | निरुद्धे आश्वासेप्रश्वास उत्पद्यते | निरुद्धे आश्वासे (प्रश्वासे) आश्वासः | आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (||) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते | एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण(धर्म) एषधर्मः कृष्णपक्ष्यः | विपर्ययाच्छुक्लपक्ष्य (Śभ्_Sह् ३८८) इति | विस्तरेणत्येवं पक्षं पर्येषते |
SK
अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (ः) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते | नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः | अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा | प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते | आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते | आप्तागमो ऽप्येष, प्रत्यात्मज्ञानानुसारिको ऽप्येष विधिः | प्रसिद्धधर्मताचिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते |
SK
एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितं | विपश्यनाकारैः पर्येषते |तस्य शमथं निश्रित्य विपश्यना विशुध्यते | विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति | कौशल्यालम्बने च | क्लेशाविशोधने च या विपश्यना [|]
SK
षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने |
SK
तत्र नवविधः शुक्लसंगृहीतः (|) प्रयोगस्तद्विपर्ययेण (Śभ्_Sह् ३८९) च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः | तद्यथा [अ]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता | अशिथिलप्रयोगता | कालप्रयोगता | उपलक्षणप्रयोगता | असंतुष्टप्रयोगता | अविधुरप्रयोगता | सम्यक्प्रयोगता च | अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते | विशेषाय च समाधेः परैति | यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः | कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ं] चित्तं समाधीयते | नापि समाधिविशेषाय परैति | यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या | तत्र धन्धायते गमनाय |
SK
कतमानुरूपप्रयोगता (च) | स चेद्रागचरितो ऽशुभायां चित्तमुपनिबघ्नाति | द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति | तेन प्रयुज्यते | इयमनुरूपप्रयोगता [|]
SK
कतमा अभ्यस्तप्रयोग (प्रयोग)ता | अभ्यासो ऽनेन कृतो भवति यो अन्ततः परीत्तो ऽपि न (Śभ्_Sह् ३९०) सर्वेण सर्वमादिकर्मिक एव भवति | तथा ह्यादिकर्मिकस्यानुरूपे ऽप्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति) | कायचित्तदौष्ठुल्यं च | येनास्य तत् (च) चित्तं समाधीयते | इयमभ्यस्तप्रयोगता | तत्र कतमा अशिथिलप्रयोगता | सातत्यप्रयोगी भवति | सत्कृत्यप्रयोगी च | स चेत्पुनर्व्युत्तिष्ठते | समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा | ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्वं करोति | लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते | नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति | न चिरं संसर्गेणातिनामयति | मितं च संलपति | न च भाष्यप्रबन्धमुत्थापयति | नान्यत्र व्यपकर्षति | एवं च पुनरारब्धवीर्यो भवति | यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयं | तत्कस्य हेतोः | बहवो मे प्रत्यया मरणस्य- वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत | अहिर्वा मे (मां) दशेत(त्) | वृश्चिको वा शतपदी वा [|] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य (Śभ्_Sह् ३९१) न- करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति |] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [|] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयं | यावदाश्वसित्वा (स्य)प्रश्वसेयं | यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं | य इ(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता |
SK
तत्र कतमा | अविपरीतप्रयोगता | कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति | शमथं च जानाति | शमथनिमित्तं च | शमथकालञ्च [|] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालं | उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च |
SK
तत्र शमथः नवाकारा चित्तस्थितिः | निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति | तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, (Śभ्_Sह् ३९२) निदाननिमित्तञ्च | ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं | येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये | यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [|] शमथकालः कतमः | आह | उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै | तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै | तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा ||
SK
तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ं] निदाननिमित्तञ्च | तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति | तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [|]
SK
तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै |
SK
तत्र प्रग्रहः कतमः | यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन (Śभ्_Sह् ३९३) चित्तसंहर्षणा संदर्शना समादापना [|] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति | यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै |
SK
तत्रोपेक्षाकतमा | या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे | प्रस(श)ठस्वरसंवाहिता | कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया | तत्रोपेक्षानिमित्तं | येन चालम्बनेन चित्तमध्युपेक्षते | या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता | तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि (Śभ्_Sह् ३९४) उपेक्षायाः कालो भावनायै | इयं कालप्रयोगता |
SK
तत्र कतमा उपेक्षा लक्षणा (उपलक्षण)प्रयोगता [|] तान्येव निमित्तानि सुगृहीतानि भवन्ति | सुसंलक्षितानि येषां सूद्गृहीतत्वात् | यदा आकांक्षते | तदा व्युत्तिष्ठते समाधिगोचरं (|) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [|] इयमुपलक्षणाप्रयोगता |
SK
तत्र कतमा असंतुष्टप्रयोगता | असंतुष्टो भवति कुशलै-कुशलैर्धमैः | अप्रतिवा (भा)णि(णी) च | प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति | नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते | अत्युत्तरे करणीये | इयमसंतुष्टप्रयोगता |
SK
तत्र कतमा अविधुरप्रयोगता | शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति | न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति | जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः | चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता | इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते | अनुकूला एते धर्माश्चित्तैकाग्रतायाः | अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते | तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ताकर्मण्यतायै | (Śभ्_Sह् ३९५) इयमुच्यते अविधुरप्रयोगता |
SK
तत्र सम्यक्प्रयोगता कतमा | अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते | स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति | निमित्तमात्रानुसारिण्या विपश्यनया [|] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः |
SK
विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः | अस्मृत्यमनसिकारतः | तदन्यमनसिकारतः | प्रतिपक्षमनसिकारतः | आनिमित्तधातुमनसिकारतश्च | तत्र नवाकारचित्तस्थित्या विपश्यना पूर्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः | सर्वनिमित्तवैपुल्येन आदितः | अविक्षेपायोप निबध्नतो ऽस्मृत्यमनसिकारतः | समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्वतस्तदन्यमनसिकारतः | शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिं | रूपप्रतिपक्षेणाकाशधातु[ं] मनसि कुर्वतः प्रतिपक्षमनसिकारतः | सर्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः | अपि च | व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः | अस्मृत्यमनसिकारतश्चाभिप्रेता | (Śभ्_Sह् ३९६) तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि)दालम्बने उपनिबन्धितव्यं | अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव | कच्चिन्मे चित्तं निर्निमित्तं, निर्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति | तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति | इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना [|]
SK
स तत्र योगं कुर्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति | कथं च पुनश्चरति | निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [|] न चैकांशेन विपश्यनाप्रयुक्तो भवति | पुनरेव विपश्यनानिमित्तं (|) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति | तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं | यस्मात्तदालम्बनः शमथो वर्तते | तस्मान्न मुक्तः | यस्मान्न निमित्तीकरोति | न विकल्पयति | तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः | आलम्बनं विभावयति | (Śभ्_Sह् ३९७) तत्र विपश्यनानिमित्तमुद्गृहीतवतः | पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते | न पुनः पुनर्विभावयेत् | नास्याधिमोक्ष उत्तरोत्तरः | परिशुद्धः, पर्यवदातः | प्रवर्तते | यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय | यतश्च पुनः पुनरधिमुच्यते | पुनः पुनर्विभावयति | ततोस्योत्तरोत्तरोधिमोक्षः | परिशुद्धतरः, परिशुद्धतमः प्रवर्तते | यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय | तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् | स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति | कृत्वा कृत्वा विभावयति, विनाशयति | पुनरेव च करोति | य यथा यथा भङ्क्त्या भङ्क्त्या करोति | तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति | एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति | तत्प्रतिविशिष्टताम्वा [|] सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात् | न जन्वन्धस्य तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः | तत्र यावदालम्बनमधिमुच्यते | तावद्विभावयति | न त्ववश्यं यावद्विभावयति | तावदधिमुच्यते | परीत्तमधिमुच्यते, परीत्तमेव विभावयति | एवं यावन्महद्गतप्रमाणं | परीत्तं पुनर्विभावयित्वा (भाव्य) (Śभ्_Sह् ३९८) कदाचित्परीत्तमेवाधिमुच्यते | कदाचिन्महद्गतमेव | प्रमाणमेवं महद्गते | प्रमाणे वेदितव्यं | तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्वकं यथानुभावाधिपतेयं | प्रतिभासमियमुच्यते | सम्यक्प्रयोगता | सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या | एवं पर्यायेण नवाकारैव विलोमता | स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ||
SK
तत्रावरणविशुद्धिः कतमा | आह | चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति | स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च |
SK
तत्र कतम आवरणस्वभावः | आह | चत्वार्यावरणानि | परितमना, निवरणं, वितर्कः | (Śभ्_Sह् ३९९) आत्मसंप्रग्रहश्चेति | तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः | स्पृहणा, दौर्मनस्यमुपायासः | तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि | तत्र वितर्कः कामवितर्कादयः | क्लिष्टा वितर्काः | तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति | अहमस्मि लाभी, अन्ये च न तथेति | पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः |
SK
तत्र परितमना यावत्षण्निदानानि | तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं | अतिप्रयोगः | अर्धप्रयोगः | आदिप्रयोगः | क्लेशप्रचुरता | विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं (Śभ्_Sह् ४००) यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः | एवं मैत्रीं [ं] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा[ं] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितं | इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः) |
SK
तत्रादीनवः कतमः | अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते | योगप्रयोगाद्भ्रश्यते | संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति | परतश्चाववादंलभते | कायस्य च भेदात् परं मरणादपायेषूपपद्यते | अयमत्रादीनवः | तत्र प्रतिपक्षः कतमः | तत्र परितमना या समासतो ऽनुस्मृतयः | प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा (संहर्ष्य) उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति | तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः | तत्र वीर्यसमता प्रतिषे(वे)धः | प्रतिपन्नः योर्धप्रयोगः [|] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः | या क्लेशप्रचुरता तस्या (Śभ्_Sह् ४०१) यथायोगमशुभाद्यालम्बनप्रयोगः | प्रतिपक्षः | यो ऽनभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः | पूर्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [|] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[ः] पुनर्भव एवंरूपो भविष्यति | प्रतिसंख्याय मया अरतिस्त्यक्तव्या | रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः |
SK
तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [|] सा खल्वेषा विपश्यना ज्ञेया (Śभ्_Sह् ४०२) कृष्णपक्षतः | परिवर्जनीयमेतदिति | निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति | निदानं पर्येषते | अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते | परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति |
SK
स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्यादनन्ता वेदितव्या | यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या | तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ं] विवर्द्धयते | यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः |
SK
तत्र कियता अशुभा प्रतिलब्धो(धा) भवति | कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति | (Śभ्_Sह् ४०३) पेयालं अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [अ]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं | यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [न] प्रस्कन्दति | न प्रसीदति | नाधिमुच्यते | उपेक्षा संतिष्ठते | निर्वित्प्रतिकूलता वेदितव्यं(या) | योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति | विपर्ययेण [अ]प्रतिलब्धा वेदितव्या | यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः | धातुप्रभेदः | आनापानस्मृतिश्च वेदितव्या | तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति | न प्रतिघनिमित्तं | व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः | बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु | चित्तं (न)प्रस्कन्दतीति (Śभ्_Sह् ४०४) विस्तरः | बहुतरं नानाधातुकता [त]देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति | न त्वेव पि (चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः | बहुतरा अध्यात्ममुपशमसंज्ञा | शमथसंज्ञा | ख्याति | न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः |
SK
तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते | येन युगनद्धवाहीमार्ग इत्युच्यते | आह | यो लाभी भवति नवाकारायां (Śभ्_Sह् ४०५) चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [|] स च तं परिनिष्पन्नं | समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते | तस्य तस्मिन्समये धर्मान्विपश्यतः [|] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः | अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते | यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते | शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति || अनन्तरोद्दानं ||
SK
निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा | अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः ||
SK
अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः | (अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः) कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ||
SK
सम्यक् प्रयोगता चैव नवाधारा द्विधा मता | स्वभावतो निदानाच्च तथादीनवदर्शनात् ||
SK
प्रतिभाविता चैव शुद्धिरावरणस्य हि ||
SK
तत्र मनस्कारभावना कतमा [|] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च (Śभ्_Sह् ४०६) वर्जयति | सम्यक्प्रयोगे च शिक्षते | स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते | कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [|]
SK
तत्र चित्तसन्तापनो मनस्कारः कतमः [ः] [|] आह | येनायं मनस्कारेण | संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः |
SK
तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः | येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (|) चित्ताभिष्यन्दनो मनस्कारः |
SK
तत्र कतमः प्रश्रब्धिजनको मनस्कारः | आह | येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याध्यात्मं शमथयति | निर्निमित्तायां | निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, (Śभ्_Sह् ४०७) येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते | अयमुच्यते प्रश्रब्धिजनको मनस्कारः |
SK
तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः | येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णं अधिप्रज्ञं धर्मविपश्यनायां योगं करोति | यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य [|] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः |
SK
कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति | सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु | सर्वसंवेजनीयानि स्थानानि | कतमानि | आह [|] चत्वारि | तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति | तत्रात्मसम्पत्तिः | परसम्पत्तिश्च | अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं (Śभ्_Sह् ४०८) स्थानं भवति | स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति | तस्याभिप्रमोदयतः | एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च |
SK
तत्राभिप्रमोदनीयाः धर्माः कतमे || आह | त्रिविधा[ः] अ (चत्वारो ऽभिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः | आत्मनि च | विशेषाधिगमसंभावनाजातस्य चेतसो [अ]संकोचः | स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः | यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः | लाभा मे सुलब्धा यो (अ)हं स्वाख्याते धर्मविनये प्रव्रजितः | लाभा मे सुलब्धाः | यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः | कल्याणधर्माणः | भद्रकं मे मरणं भविष्यति | भद्रिका कालक्रिया, भद्रको [अ]भिसंपरायः | एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति |
SK
कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिं अनुस्मरत(रं)श्चित्तमभिप्रमोदयति | लाभा मे सुलब्धा[ः] सो [अ]हं शास्तरि तथागते [अ]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः | शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः | साधारणपरिभोगी [|] एवं शिक्षापदपारिशुद्धिं, (Śभ्_Sह् ४०९) शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति | यदुत विप्रतिसारपूर्वकेण प्रामोद्येन |
SK
तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[ं] परिशुद्धशीलः | प्रतिबलश्च भाजनभूतश्च | एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो [अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै | इति प्रामोद्यमुत्पादयत्येवमात्मनो [अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति |
SK
अपि च | यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति | तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्यादधं श्चित्तमभिप्रमोदयत्ययमपरः | संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति | विगुणी करोति | प्रातिमुख्येनावस्थापयति | विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति | रमयति | संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्यां | सर्वकृष्णपक्षविमुखं सर्वकृष्ण(शुक्ल)पक्षाभिमुखं च (Śभ्_Sह् ४१०) प्रवर्त्तते | यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च | कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति | यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति | प्रविचिनोति | परिवितर्कयति | परिमीमान्स(मांसा)मापद्यते | ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [|] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं | सर्वाकारसर्वगुणहेतूपकृतः (तं) तेषां तेषां रात्रिदिवसानामत्ययात् | क्षणलवमुहूर्त्तानां (णां) [|] विशेषाय परैति |
SK
तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा[रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति | विगतमलकषाये भावे नाभिष्यन्दितं च भवति | तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति | तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा(म)लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति | क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति | (Śभ्_Sह् ४११) तमेनं योगी यत्र यत्र नियोजयति | शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति | सुलग्नं चाविकलं चाविकम्प्यं च | यथाभिप्रेतार्थसम्पत्तये च परैति |
SK
तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते | यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति | तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रतां | इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि)कः (कं) | तत्प्रथमत एवमववदते | एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि) कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा | परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [|] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च [|] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया[व]बोध्यते | एवम[व]बोध्यते | एहि, त्वं, भद्रमुख | यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि | स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि | दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [|] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, (Śभ्_Sह् ४१२) परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [|] नो चेच्छृणोषि | अपितु प्रत्यक्षं पश्यसि | नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि | शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् |
SK
सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय | दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च) परेषाञ्च विपत्तय उपलभ्यन्ते | यदुतारोग्यविपत्तिरपि, जातिविपत्तिरपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च | मरणं, मरणधर्मता च | अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति | सम्पराये च दुर्गतिगामिनः | याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[ः], तासामपि अनित्यता प्रज्ञायते | विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः | असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, (Śभ्_Sह् ४१३) सुष्ठु च, योनिशः प्रदधत्स्व | अनाश्वास्यमेतत्स्थानमविश्वास्यं | यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः | न वा अतोनिदानं मे दुःखमुत्पद्यते (द्येत) | तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [|] एवं च पुनरुद्गृह्णीष्व [|] आत्मनः शीलानि प्रत्यवेक्षस्व | किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः | व्यतिक्रान्ते वा, मे (मया) शिक्षा[ं] यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं | कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा) | न कृतं समासतः | कच्चिदध्याशयसम्पन्नो [अ]स्मि प्रयोगसम्पन्नश्च | यदुत | शिक्षापदेषु | एवं न ते प्रत्यवेक्षमाणेन | स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया | कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयं | यदेवं विशुद्धशीलस्याविप्रतिसार (Śभ्_Sह् ४१४) उत्पद्यते | एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत | अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते | अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः (म्) | उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय | स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः | एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः | दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय | असाक्षात्कृतस्य साक्षात्क्रियायै | अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय || स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [|] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (|) य एभिराकारैर्मनसस्ते स प्रहर्ष इति | य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते |
SK
एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति | एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि | यत्र च यत्रालम्बने प्रयोक्ष्यसे || (Śभ्_Sह् ४१५) शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति | अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [|] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [|]
SK
तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो ऽष्टौ, उपक्लेशाः कामच्छन्दादयः (|) पञ्च | एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व | इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य | इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य [|] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य | यश्च चित्तस्य व्यापारो निमित्तकृतः | यश्चोन्मुक्तसंक्षोभो वितर्ककृतः | यश्चानु(नू)पक्लेश [उपक्लेश]कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा[ः |] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, (Śभ्_Sह् ४१६) उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [|] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [|] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण | यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [|] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (ः) निर्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञां | तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु | येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [|] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण (Śभ्_Sह् ४१७) निर्निमित्ता प्रवर्तेत | निर्विकल्पा उपशान्ता [|] स चेत्पुनः संप्रमोषा[त्]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति | सुखमादर्शयन्ति | आलम्बनीकुर्वन्ति | तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः | यदुत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितं | विश्वस्तमनाभासगतायामवस्थापितं भविष्यति | तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनं | दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[च्]छन्दश्च व्यायामश्च करणीय[ः |]
SK
इदं चालम्बनं सन्धायोक्तं भगवता | जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत | अथ पुरुष आगच्छेदबालजातीयः | तं कश्चिदेव[ं] वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत | सा खलु जनपदकल्याणीम(अ)न्तरा च (Śभ्_Sह् ४१८) महासमाजं | परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः | स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति | किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ं] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः | तस्यैवं स्यात् [|] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि | अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति | नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ं] महासमाजम्वा | तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः | ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति | गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [|] तत्र जनपदकल्याणीति काय[च्]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं | परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं | महासमाज इति | रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनं | (Śभ्_Sह् ४१९) अबालभागीयः पुरुष इति | योगाचारस्याधिवचनं | तैलपात्रमिति | शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं | कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [|] सत्कृत्य विहरति | न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं | येनायं सर्वो (सर्वां) चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्वापयेण प्रवर्त्तयति | न चैकचित्तमुत्पादयति | निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ||
SK
तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति | यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति | तावत्ते शमथमार्ग एव भावयितव्यः | स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते | यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा || तथा प्रयुक्तश्च तत्प्रथमव(त) एकं विनीलकमधिमुच्यस्व, (Śभ्_Sह् ४२०) यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि | प्रभास्वरश्च तेधिमोक्षः प्रवर्तते | तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् | पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्वा दिशो विदिशश्च | प्रमाणाकारेण पूर्वा[ं] निरन्तरा[म]धिमुच्यस्व | येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि [|] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो [अ]प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्यां | येषां पूर्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः | नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात् | एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् | तासां स्यात् संहृतानां विपुलपार्श्वपर्वतसमा राशिः | यथा पूर्वस्यान्तर (पूर्वान्त)मारभ्यैवम परान्तमपि यावत् (|) दुःखस्यान्तं न (Śभ्_Sह् ४२१) करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व) | मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णो भविष्यसि (भव) | न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या[नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना)लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते | न तावात्कालकरणीयं भवति | तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[ः] | चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति | न च तानि निमित्तान्युत्सृजति || सविकल्पानि नापि च कल्पयति | नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति |
SK
स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [अ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [अ]पि, आलोकसहगतेन (Śभ्_Sह् ४२२) चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय | एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः | स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः | स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति | प्रचुराभास(ग)ता च | स चेत्पुनरादित एव विस्पष्टो भविष्यति | प्रचुराभासः | स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति | स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर | यदुताशुभाप्रयोगमेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (त्)द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो ऽन्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, (Śभ्_Sह् ४२३) परीत्तेन वाधिमोक्षेण, महद्गतेन वा [अ]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति | बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स त्वं पुनरप्यात्मनः अन्तःकाये ऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसात्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [अ]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितं | छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स[त्]त्वं, पुनरपि चत्वारो ऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च | यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धाः | प्रतिक्षणं प्रतिक्षणमन्यो ऽन्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वं | ये पूर्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः (Śभ्_Sह् ४२४) क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व | इदं ते भविष्यति | बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः | ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते | वेदनादयचत्वारो [अ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो ऽन्यतां पूर्ववदधिमुच्यस्व | इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं] | एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्णो भविष्यसि | स्मृत्युपस्थाने, प्रयोगे [अ]पि च | ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं | स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा | तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश | चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [|] (Śभ्_Sह् ४२५) अरक्षितस्ते आत्मा भवति | येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु | येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि | तेषु तेषूपस्थिता स्मृतिः | भवतु, यदुत क्लेशासमुदाचाराय | स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व | मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका(भा)णी, कालभाणी, आर्जवभाणी | प्रशान्तभाणी | अधर्म्या च ते [त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या | धर्म्यामपि ते [त्वया] कथा[ं] कथयता न विगृह्य कथा करणीया | तत्कस्य हेतोः [|] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं सन्तिष्ठते | तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः | अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति | न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च | योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व | स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि (Śभ्_Sह् ४२६) स्यात् | सो [अ]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [|] एवं च पुनश्चित्तं प्रणिधत्स्व | स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [|] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [|]
SK
एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च | यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि | तत्प्रथमत[स्त]म्प्र[क्ष्य]सि | मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुलालौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि) |
SK
एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः | अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(क्) चोदितो भवत्येवं च प्रतिपद्यमानः | सम्यक्प्रतिपन्नो भवति | यथा [अ]शुभाविनेयो [अ]शुभायां, तथा मैत्र्यविनेयादयो [अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः | तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि | तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च (Śभ्_Sह् ४२७) निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क उ)दासी नं (नः), तेषु च त्रि[षु] पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः | सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन | ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्यन्ते | निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यं | स च मैत्रीप्रयोगं च न जहाति | नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति | कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति | यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च [|] अहमपि सुखकामो दुःखप्रतिकूलः | इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्] | एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यतया (Śभ्_Sह् ४२८) एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्] | चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति | रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रामित्रोदासीनपक्षाद्(क्षेभ्यो) ऽधिमुच्यते | तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते | सो ऽधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति | यावदप्रमाणाः सत्त्वा एते मया (अ)धिमुक्ता | हितसुखगतेनाध्याशयेन | अतो [अ]प्रमाणतराः सत्त्वा ये ममपूर्वान्तमारभ्य मित्रामित्रोदासीनपक्षतया [अ]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया | यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः | किं (Śभ्_Sह् ४२९) चापि ते [अ]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय | सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु | एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः | तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः | शतिमामपि कलां नौपेति | सहस्रिमामपि | संख्यामपि, कलामपि | गणनामप्युपनिषदमपि नोपैति [|] शेषं पूर्वत् ||
SK
तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानं | सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः | विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते | अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति | ये चात्मभावा नानन्ता[ः] पर्यन्ताः पूर्वान्तमारभ्य येषामादिरेव न प्रज्ञायते | (Śभ्_Sह् ४३०) ते ऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः | आयत्यां नोत्पद्यन्ते | स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्याधिमोक्षिकः | यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान् मनसिकरोति | तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति | यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति | तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति | यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति | तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति | शेषं पूर्वत् |
SK
तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वततृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते | बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[ः], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो (Śभ्_Sह् ४३१) [वा] सर्वेभ्यः | उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः | ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते) | श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [|] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति | चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति | रूपमाभासगतं | न च तज्जो मनस्कारः प्रत्युपस्थितो भवति | न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति | विपर्ययाद्भवति | एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् |
SK
एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते | तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो(गतो) [अ]र्थं विनाप्यधिमुच्यते [|] ततः पश्चात् | सूक्ष्मतरावयव प्रभेदानाधिमुच्यते | एवं यावद्गतायनप्रविष्ट[स्]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो [अ]धिमुच्यते | स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते | (Śभ्_Sह् ४३२) कः पुनर्वादः सर्वकायमयं(यम् | अयं) धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः | यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च [|] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वितीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले | सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते | या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता | चित्तकाय कर्मण्यता | इयमत्र कायचित्तप्रश्रब्धिः | तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ं] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति | यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च | सूपलक्ष्योत्पत्स्यतीति | यावदस्या पूर्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते | न चैतद्वाधलक्षणं | तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते | तत्प्रतिपक्षेण च चित्तकर्मण्यता (Śभ्_Sह् ४३३) चित्तप्रश्रब्धिरुत्पद्यते | तस्योत्पादात् कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व [मु]क्तानि महाभूतानि काये ऽवक्रमन्ति | तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति | प्रहाणरतिरिव[दक]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्वकायः पूर्यते | स्यादा [............] ध्याति |
SK
ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च | चित्तस्य तस्मिन् समये ख्याति | तस्योर्ध्वं यो ऽसौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः | स शनैः शनैः परिश्लथतरो भवति | छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते | यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते | प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते | तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति | [स]मनस्कार इति च संख्यां गच्छति | तत्कस्य हेतोः | रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति | तेनोच्यते समनस्कार इति |
SK
तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति | परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति | परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः | क्लेशविशोधनालम्बनः (Śभ्_Sह् ४३४) प्रयोगे ऽस्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते | शमथोपगूढाच्चरितं तदानेन विशोधितं भवति | स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति | अल्पमात्रेकणावरमात्रकेण च | प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणाशक्तो [अ]तिप्रतिविशोद(ध)यितुं | यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् | निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते || कायश्च [|] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते | न चात्यर्थं निवरणसमुदाचारो भवति | न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[ः] संज्ञामनसिकाराः समुदाचरन्ति | व्युत्थितस्यापि मनस[श्] (व्युत्थितमनसो ऽपि) चरतः | प्रश्रब्ध(ब्धि)मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ||
SK
| पिण्डोद्दानम् ||
SK
उपसंक्रमणं या च हर्षणा पृच्छनैषणा | विनियोगरक्षोपचयः प्राविवेक्यभवैकता ||
SK
आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ||
SK
|| योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ||
SK
IV. चतुर्थं योगस्थानम्
SK
तत्र लब्धमनस्कारस्य योगिनः | एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः | अनन्ये | कतमे द्वे तद्यथा | लौकिकी च लोकोत्तरा च |
SK
तत्रायमादिकर्मिको योगाचारः | समनस्कारः | लौकिकया वा गत्या गमिष्यामि | लोकोत्तरया वेति | तमेव मनस्कारं बहुलीकरोति | यथा यथा बहुलीकरोति | तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च | तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति | यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति | परिश्रब्धश्चालम्बनाधिमोक्षः | प्रवर्तते | शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति | तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [|]
SK
तत्र कति पुद्गलाः | ये दृष्टे धर्मे लौकिकेनैव (Śभ्_Sह् ४३८) मार्गेण पृ(ग)च्छन्ति | न लोकोत्तरेण | आह | चत्वारस्तद्यथा सर्व इतो बाह्यकः | इह धार्मिको ऽपि मन्दः | पूर्वशमथचरितस्तथा भूयो ऽप्यपरिपक्वकुशलमूलः | बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः | नो तु दृष्ट एव धर्मे (|) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि(यि)नो भवन्ति |
SK
तच्च लौकिकमार्गगमनं द्विविधं | सक[ल]बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च | शैक्षाणां |
SK
तत्पुनः कतमत् | कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् | आकिञ्चन्यायतनवैराग्यं वेदितव्यम् | तथा असंज्ञिसमापत्तिः | (Śभ्_Sह् ४३९) ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः |
SK
तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः | कामवैराग्यमनुप्राप्नोति | कतमे पुनस्ते सप्त मनस्काराः | आह | लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः | मीमान्सा(मांसा)मनस्कारः | प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च |
SK
तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः | आह | येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते | प्रथमे च ध्याने शान्तलक्षणं | कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति | आह | कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं) | पक्षं कालं युक्तिञ्च |
SK
तत्रौदारिकार्थं तावत्पर्येषते | इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति | या एषु कामेषु बह्वादीनवता | यावद्बहूपसर्गता | अयमौदारिकार्थः | तत्र वस्तु पर्येषते | अस्त्यध्यात्मं कामेषु काम(च्)छन्द इति |
SK
तत्र स्वलक्षणं पर्येषते | अमी क्लेशकामाः | अमी वस्तुकामाः | ते पुनः सुखस्थानीया, दुःखस्थानीया, (Śभ्_Sह् ४४०) अदुःखसुखस्थानीयाश्च | सुखस्थानीयाः कामरागाधिष्ठानाः | संज्ञाचित्तविपर्यासाधिष्ठानाः | दुःखस्थानीया[ः] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः | अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च | एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते |
SK
तत्र कथं सामान्य लक्षणं (|) पर्येषते | सर्व एते कामा जातिदुःखतया, जरादुःखतया (या)वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च | ये ऽपिकामोपभोगिनो महत्यां कामसम्पदिवर्त[न्]ते | ते ऽपि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् | एवं सामान्यलक्षणं पर्येषते |
SK
कथं पक्षं पर्येषते | कृष्णपक्षपतिता एते कामाः | अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः | अंगारकर्षूपमाः | आशीविषोपमाः | स्वप्नोपमाः | याचिकालंकारोपमाः | तृणफलोपमाश्च | पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (|) दुःखं प्रतिसंवेदयन्ति | आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृतमस्वातन्त्र्यकृतं, दुश्चरितकृतं, (Śभ्_Sह् ४४१) च दुःखं प्रतिसंवेदयन्ति | पूर्ववदेव तावत्सर्वं वेदितव्यं |
SK
तथा कामान्प्रतिषेवतः | पंचादीनवा उक्ताः | भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [|] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [|]
SK
कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति | नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि | इतीमे कामा अतृप्तिकारका[ः] साधारणा, अधर्मविषमचर्याहेतवः | कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः | ये च दृष्टधार्मिकाः (|) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः | मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमे ऽनेकविधाः पापका अकुशला धर्मा मानसाः संभवन्ति | यदुताभिध्या, व्यापादा[ः], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [|] एवम्पक्षं पर्येषते |
SK
अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म)ध्रुवं ध्रुवकालमे ते कामाः | एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते |
SK
कथं युक्तिं पर्येषते | महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते | निर्वर्त्यन्ते, उपचीयन्ते [|] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि | यावदेष बहिर्धा परिग्रहवस्तुनः माता(तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानां | अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(च्)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते | क्षुद्दुःखप्रतीकाराय भोजनं | शीतोष्णदुःखप्रतीघाताय | ह्रीकोपनप्रतिच्छादनाय (|) च वस्त्रं [|] निद्राक्लमदुःखप्रतीघाताय च शयनासनं | चंक्रमस्थानदुःखप्रतिघाताय च | व्याधिदुःखप्रतिघाताय च (|) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति | नैते रक्तेन परिभोक्तव्याः | न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमो ऽप्येषः | तथैते कामाः एवं चैवं चौदारिकाः | प्रत्यात्ममपि मे ज्ञानदर्शनं (Śभ्_Sह् ४४३) प्रवर्तेत | आनुमानिको ऽप्येष विधिः | प्रकृतिश्चैषा कामानां अनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता | सा न चिन्तयितव्या(ः) | न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते |
SK
स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (|) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते | प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः | स खल्वेष मनस्कारः | श्रुत चिन्ताव्यवकीर्णोवेदितव्यः |
SK
स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते | तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति | भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः | इत्युपपद्यते | [आ]धिमोक्षिको मनस्कारः |
SK
त(य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(ः)प्रहाणाय मार्ग उत्पद्यते | क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः | अयमुच्यते प्राविवेक्यः |
SK
स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये (Śभ्_Sह् ४४४) दौष्ठुल्यापगमाच्च | तदूर्ध्वं प्रहाणारामो भवति | विवेकारामः | तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण | संप्रहर्षयति | संवेजनीयेन मनस्कारेण संवेजयति | यावदेव स्त्यानमिद्धौद्धत्यापगमाय (|) अयमुच्यते | रतिसंग्राहको मनस्कारः |
SK
तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति | तस्यैवं भवति | किं सन्तमेवाहं कामेषु काम(च्)छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः | अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति | तस्याप्रहीणत्वात् सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुर्वतः सेवनानिम्नं चित्तं भवति | सेवनाप्रवणं | सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता | तस्यैवं भवति | न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद् धृतं [|] धर्मताभिनिगृहीतं (|) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं | भावनारामः | अयमुच्ते मीमान्सामनस्कारः |
SK
स भूयस्या मात्रया प्रहाणारामो विहरति | भावनारामः | शमथविपश्यनायुक्तः | पौनःपुन्येन च मीमान्सते | तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणाप्रहीणतां मीमान्समानस्य सर्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते | तावत्कालिकयोगेन (|) न त्वत्यन्ताद्बीजसमुद्धातो भवति | तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः | सर्वक्लेशप्रातिपक्षिको मनस्कारः | समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (|)
SK
तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते | मौलप्रथमध्यानसहगतो यो मनस्कारः | अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः |
SK
तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति | कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[ः] | कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति | स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ्]गमुपसम्पद्य विहरति | कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य[ता]मनुप्राप्त (Śभ्_Sह् ४४६) इत्युच्ते |
SK
तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [|] यत् प्रहातव्यं तत् सम्यक् प्रजानाति | प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते | आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते | प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति | रतिसंग्राहकेण स क्लेशप्रकारं जहाति | मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति | प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति | प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति |
SK
अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः | यश्चाधिमोक्षिकः | अयमुच्यते आनुलोमिको मनस्कारो ऽपि दूषणाप्रतिपक्षसहगतः | यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठो ऽयं प्रातिपक्षिको मनस्कारः | प्रहाणप्रतिपक्षगवतः (-क्षगतः) [|] तत्र यो रतिसंग्राहको मनस्कारः (|) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [|]
SK
तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः | इत्युच्यते | एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः | तद्यथा आनुलोमिकः | प्रातिपक्षिकः | प्रसदनीयः | प्रत्यवेक्षणीयश्चेति |
SK
यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः | आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव (Śभ्_Sह् ४४८) मनस्कारैः | तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते | अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः | द्वितीयध्यानसमापत्तये [|] तत्र ध्यानसमापन्नः | प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति | यः समाहितभूमिको ऽप्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः | अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः | एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते | सहभुवः संप्रयुक्ता[ः] | एकालम्बनवृत्तयः | एवमेते अध्यात्ममुत्पद्यन्ते |
SK
बाह्यायतनसंगृहीताश्च | सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः | इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते | उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते | न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते |
SK
सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात् | शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि) योगं पूर्ववद्वेदितव्यं | एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः |
SK
औदारिकलक्षणं पुनः सर्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं | दुःखतरं विहावितो(रिता) चाधर्मू(धोभू)मीनामप्रशान्तविहारिता च | अल्पायुष्कतरा च | इत्येतद् द्विविधमौदारिकलक्षणं | षड्भिर्वस्तुभिर्यथायोगं पर्येषते | यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं | यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति |
SK
द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [|] (Śभ्_Sह् ४५०) कामवितर्को ऽपि द्विविधः | संप्रयोगविवेक आलम्बनविवेकश्च [|] विविक्तं पापकैरकुशलैर्धर्मैरिति | उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं | दण्डादानं शस्त्रादानं | कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति | तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [|] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः) | तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् | सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्वेण गणयतः | तत्प्रथमतश्च कामधातूच्चलितात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य | उत्तरत्र च भावनाबहुलीकारनिष्पादनात् [|] (Śभ्_Sह् ४५१) निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?)लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति | दिवसमपि यावदाकांक्षमाणः सप्तरात्रिंदिवसानि तेनाह विहरतीति | सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्काविचारसमाधिनिमित्तेषूपनिबध्नाति | व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते | व्यवस्थापयति | तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवावितर्काविचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[च्]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति | तेनाह चेतस एकोतीभावात् सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(यौत्प)द्यत इति | तेनाह समाधिजं ईप्सितानिन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् | स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् | प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद् वेदितव्यम् |
SK
प्रीतिनिमित्तेषु दोषं पश्यति | तेनाह प्रीतेर्विरागात् [|] (Śभ्_Sह् ४५२) तस्मिंश्च समये द्विविधो ऽस्य चित्तक्षोभकरः अपक्षालो ऽधिगतो भवति | निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः | द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति | एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ | निरन्तराया उपेक्षाया विघ्नकारकौ | तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति | येन निरन्तरोपेक्षा न प्रवर्त्तते | द्वितीये ध्याने प्रीतिर्भवति | येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते | तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते | स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति | यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति | स चेत्पुनरभावितत्वात् तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति | तां(तान्) लघु लघ्वेव (Śभ्_Sह् ४५३) प्रज्ञया प्रतिविध्यति | सम्यगेव प्रजानाति | उत्पन्नोत्पन्नांश्च नाधिवासयति | प्रजहाति विनोदयति | व्यन्तीकरोति, चित्तमध्युपेक्षते | तेनाह स्मृतः संप्रजाना[न] इति | तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते | तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते | प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते | तृतीयाच्च ध्यानात् | अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते | न तु सुखं | तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् | इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते | यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च |
SK
तत्रातुल्यजातीयत्वात् | प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षो ऽनाख्यातः) | यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातं | कः पुनरसौ प्रतिपक्षः | यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च | तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र (Śभ्_Sह् ४५४) तृतीयध्यानभूमिसुखं तत्प्रजहाति | तेनाह | सुखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त(ङ्)गमात् | तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति | तेन यश्(च्)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते | तस्य संकलनं कुर्वन्नेवमाह | सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ्]गमात् | तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाअद्द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्यास्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति | तेनाह | अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति | तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः | तेषां च प्रहाणाद्या तत्रोपेक्षा | स्मृतिश्च सा परिशुद्धा भवति | पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते | सर्वेञ्जितायतनं | (Śभ्_Sह् ४५५) तेनाह | उपेक्षास्मृतिपरिशुद्धमिति [|] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम् || यथाप्रमाणादिषु स्थानेषु ||
SK
तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति | तेनाह | रूपसंज्ञानां (Śभ्_Sह् ४५६) समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति | तेनाह | प्रतिघसंज्ञानामस्त[ङ्]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[ः] | तेषु सर्वेण सर्वमाभोगो ऽप्यस्य न प्रवर्तते | तेनाह | नानात्वसंज्ञानाममनसिकारात् | स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणाकाशाधिमुक्तो भवति | तेनाह | अनन्तमाकाशम(शंस)सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते | तेनाह | आकाशानन्त्यायतनमुपसम्पद्य विहरति | तस्य यावन्मौलं न समापद्यते | तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः |
SK
समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते | तदेव विज्ञानमनन्ताकाराकाशाधिमोक्षिकं | विज्ञानानन्त्यायतनं समापत्तुकामः | आकाशानन्त्यायतनसंज्ञां व्यावर्त्य | तदेव विज्ञानमनन्ताकारेणाधिमुच्यते | ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते | तेनाह | सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति | स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते | तेनाह | विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति |
SK
स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणालम्बनं समन्वेषमाणो न पुनर्लभते (|) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [|] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते | सो [अ]किञ्चनसंज्ञाधिमुक्त एव भवति | स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते | तेनाह | सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति |
SK
तेनाह | संज्ञी यदुताकिञ्चन्यायतनादुच्चलितः | आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति | तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [अ]किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति | तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्वेण सर्वं सास्य संज्ञा निरुद्धा भवति | तद्यथा आसंज्ञि[के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते | नैव संज्ञा नासंज्ञा [|] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते | तेनाह | सर्वश आकिञ्चन्यायतन[ं] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ||
SK
तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् | कायसंप्रख्यानलिंगं | आरूप्यसमापत्तिकाले आकाशात्पतनवत् | तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः | तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि)समापत्तिर्निरोधसमापत्तिश्च | (Śभ्_Sह् ४५९) तत्रासंज्ञासमापत्ति[ं] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव |
SK
तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति | तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा(ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [|] (Śभ्_Sह् ४६०) तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति | संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु)चरेति (रति) [|] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति | समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति | स एवं निःसरणसंज्ञा पूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [अ]संज्ञ (ज्ञि)समापत्तिः | एवं च पुनरस्याः प्राप्तिर्भवति ||
SK
तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति | तच्चित्तमुच्चलितमालम्बनं न लभते | अलभमानं निरुध्यते | न प्रवर्त्तत इति | य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ||
SK
तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति | कथं च पुनर्भवति | यथापि तद्ध्यायी लाभी भवति | परिशुद्धस्य ध्यानस्य [|] स तत्परिशुद्धं ध्यानं निश्रित्य यो [अ]नेनाभिज्ञाधिपतये(पतेयो) धर्म[ः] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, (Śभ्_Sह् ४६१) यदुत ऋद्धिविषयम्वारभ्य, पूर्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति | धर्मप्रतिसंवेदी च | तस्यार्थप्रतिसंवेदिनो धर्म(ः) प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति | स कालो भवति समयो यदस्य भाज(व)नाफलाः (ः) पंचाभिज्ञा उत्पद्यन्ते ||
SK
अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति | तद्यथा लघु संज्ञा[ं] | मृदुसंज्ञा[ं] | आकाशधातुसंज्ञां | कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च |
SK
तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते | तद्यथा तूलपिन्धुर्वा, कर्पासपिन्धुर्वा [|] वायुमण्डलके वा स तथा [अ]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [|] तद्यथा मञ्चात्पीठान्मञ्चे | एवं मञ्चात् तृणसंस्तरकान्मञ्चे | तत्र मृदुसंज्ञा | मृदुकं कायमधिमुच्यते | तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [|] इतीयं मृदुसंज्ञाया लघुसंज्ञाया[ः] पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति | तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो ऽधिमुच्यते | स चेत् क्वचिद् गन्तुकामो भवति | तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [|] आधिमोक्षिकं (केन) च (Śभ्_Sह् ४६३) मनस्कारेण | तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति | कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [|] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते | तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने [अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेनान्योन्यं करणीयं | विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा [|]
SK
इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति | यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै)की भवति | यदुत निर्माणान्तर्धायिकया [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन (Śभ्_Sह् ४६४) कायेन गच्छति | येन गच्छति | (येन गच्छति) | पृथिव्यामुन्मज्जनिमज्जनं करोति | तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति | तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति | तद्यथा पक्षी शकुनि[ः], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि | परामार्ष्टि | यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति | लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति | यथायोगम्वेदितव्यं | तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (|) वशे वर्त्तयति | यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [|]
SK
तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते | न व्याहन्यते | यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), (Śभ्_Sह् ४६५) शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते) | कया समनुस्मरन्संजानाति | तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा(संसा)रं सोद्देशं विस्तरेण [|] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [|] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित | यः कलकलशब्द इत्युच्यते | महत्या वा नद्या वह[न्]त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्यानार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति | तस्यास्य बहुलीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते | येन दिव्यमानुष्यकां [कान्] शब्दां (ब्दान्) शृणोति | ये ऽपि दूरे, ये ऽप्यन्तिके [|] तत्रावभासरूपनिमित्तसंज्ञा [|] पूर्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति | इयमवभासरूप निमित्तसंज्ञा [|] तस्या भावनान्वयाद् (Śभ्_Sह् ४६६) भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते | येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते) | तत्र क्लेशकृतरूपविकारसंज्ञा | यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[यु]क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां रूपावस्थामुपलक्षयति | परि[च्]छिनत्ति [|] एवं रूपारक्तस्य रूपावस्था भवति | रूपविकृतिः | तद्यथा उद्धतेन्द्रियता, स्मितमुखता [|] एवं रूपा द्विष्टस्य रूपावस्था भवति | रूपविकृतिः | तद्यथा मुखविवर्णता सगद्गदस्वरता | कृतभृकुटिता | एवंरूपा मूढस्य पर्यवस्था भवति | रूपविकृतिः | तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृताप्राकृता वा वाग्व्याहारता [|] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य (Śभ्_Sह् ४६७) या रूपावस्था भवति | रूपविकृतिः | ततो निमित्तमुद्गृह्य मनसि करोति | तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते | येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति |
SK
तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या | तद्यथा समाहितायां भूमौ | यया भावनया आर्यामृद्धिमभिनिर्हरति | वस्तुपरिणामिनी[ं] नैर्माणिकीमाधिमोक्षिकीं | तद्यथा अरणा प्रणिधिज्ञानं | चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित् [|]
SK
तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः | आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति | यद्यदेव निमित्तं निर्मिणोति | तत्तथैव भवति | नान्यथा | सर्वेण तेन कार्यं शक्यते कर्तुम् | अनार्यया न पुनर्न तथैव भवत्यपि तु | मायाकारकस्यैव संदर्शन मात्रकं ख्याति | एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः |
SK
तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [|] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते | तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते | चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते | स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्णं (Śभ्_Sह् ४६९) भावयति | तस्मिं(स्मिन्) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते | तद्यथा अदहे(ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु [|] आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [|] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति | असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते |
SK
तत्र कतमानि वीतरागस्य लिंगानि | आह | स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [|] न चास्येर्यापथ आशु पर्यादीयते | एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः | न ताशु(सु)ईर्यान्तरं स्पृहयति | मन्दभाणी च भवति, प्रशान्तभाणी च [|] न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(क्)प्रवर्तते | चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति | न रूपरागप्रतिसम्वेदी | एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति | नो तु (Śभ्_Sह् ४७०) यावत्स्प्रष्टव्यरागप्रतिसंवेदी | विशारदश्च भवति | गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः || अनभिध्यालुरविक्षोभ्यः | क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति | इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः ||
SK
अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्वेणोत्पद्यन्ते | लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः | तत्र चतुर्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः | सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते | तद्यथानित्याकारेण, दुःखाकारेण, अनात्माकारेण च | चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [|] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते | तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च [|] चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते | तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च | सो ऽस्य भवति लक्षणप्रतिसंवेदी मनस्कारः ||
SK
तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति | कतमैर्दशभिस्तद्यथा | विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [|] कारेण, धर्मताकारेण | संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च | एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते |
SK
तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [|] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च || उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च (Śभ्_Sह् ४७२) विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते | इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता | उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो ऽत्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति | (Śभ्_Sह् ४७३) तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वत राजस्य | यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते | छायिकावशिष्टमपि न प्रज्ञायते [|] अनेन पर्यायेण भगवता भाजनलौकिक(लोक)स्थानित्यता आख्यातायं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ||
SK
स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते | कथञ्च पुनः समन्वेषते | आह | द्विविधं वस्तु व्यवस्थापयति | आह | आध्यात्मिकम्बाह्यं च | तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता(ं) चानित्यतां(यां) समन्वेषते | आह | द्विविधं वस्तु व्यवस्थापयति | आध्यात्मिकम्बाह्यञ्च | तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधं | तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः | आरामवस्तु तद्यथा तृणौषधिवनस्पतयः | पर्वतवस्तु तद्यथा चित्राः (Śभ्_Sह् ४७४) पर्वतसन्निवेशाः | उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु [|] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति | षोडशवस्तूनि [|]
SK
स एवमाध्यात्मिक[ं] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते | तत्र [पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः | अष्टौ विपरिणामकरणानि |
SK
तत्र कतमः [पञ्चद]शविधो विपरिणामः | आध्यात्मिकस्य वस्तुनस्तद्यथा-अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः | अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः] | ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्वेण सर्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः |
SK
तत्राष्टौ विपरिणामकारणानि | कतमानि [|] आह | तद्यथा कालपरिवासः, परोपक्रम उपभोगः, (Śभ्_Sह् ४७५) ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ||
SK
तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने ऽप्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते | जीर्णता रूपविकृतिः ||
SK
तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति |
SK
तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि)कृतिमापादयन्ति |
SK
तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते | ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च | तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [|]
SK
तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति |
SK
तत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति | तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[ः] प्लावयन् परैति ||
SK
तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति | तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः |
SK
प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(ः)स्पर्शसमुद्गमः | [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(ः) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्यासुखवेदनीयस्य वादुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः | तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति | प्रतिघपर्यवस्थानं चोत्पद्यते (|) एवं द्विष्टस्य मूढस्य विसभागः | क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः | तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः | गन्धरसस्प्रष्टव्याः | धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते | इतीमान्यष्टौ विपरिणामकारणानि [|] या काचिद्विपरिणतिर्भवति | रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्वो(र्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः |
SK
तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते | इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति | तां पूर्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वास्यैवं भवति | अनित्या बत(ते) मे संस्कारा[स्] तथाप्येषां प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते |
SK
तत्र कथं सुवर्णकृता(नां) विपरिणामानित्यतां पर्येषते | इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्वं(ताम) स्व(सु)वर्णता(तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) | पश्चाच्च दुर्वर्णतां दुश्छवितां रुक्षतां रुक्षवर्णतां च | पश्यति [|] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति | तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा(रास्तेषा)मियमेवं रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते |
SK
तत्र कथं [सं]स्थानकृतां विपरिणामानित्यतां पर्येषते | यथा वर्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च | तद्यथा ज्ञातिसम्पत्तिर्वा, भोगसम्पत्तिर्वा, शीलदृष्टिसम्पत्तिर्वा [|] एतद्विपर्ययेण विपत्तिस्त (त्तिः [|] त)त्कथमंगप्रत्यंगविपरिणामानित्यतां (Śभ्_Sह् ४७८) पर्येषते | इहानेनात्मनो वा, परेषाम्वा या पूर्वं सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति | प(प्र)तिसम्पत्तिर्वा भोगसम्पत्तिर्वा शीलदृष्टिसम्पत्तिर्वा (|) एतद्विपर्ययेण विपत्ति स्(ः) [|]
SK
तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते) | इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति | सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा [|] दृष्ट्वा च पुनरस्यैवं भवति | अनित्या बत(ते)मे संस्कारा इति पूर्ववदे(त् [|]) |
SK
(एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः | सोपरेण समयेन विगतक्लमश्रमतां पश्यति | तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् | एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते ||
SK
एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति | तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, (Śभ्_Sह् ४७९) वैत्रैर्वा वर(त)त्राभिर्वा [|] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [|] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति | दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते ||
SK
तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति | उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतं | शीतसंस्पर्शाभिलाषिणं पश्यति | दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्वोक्तैरेवाकारैः पश्यति | दृष्ट्वा च पुनरस्यैवं भवति | अनित्या बत(ते)मे संस्कारा इति पूर्ववदेव[ं] शीतकृतां विपरिणामानित्यतां पर्येषते |
SK
स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति | पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति | दृष्ट्वा च पुनरस्यैवं भवत्यनित्या (Śभ्_Sह् ४८०) बतेमे संस्कारा इति पूर्ववत् | एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते ||
SK
कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते | सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः | सुखा[ं] वेदनावस्थामात्मनः परि[च्]छिनत्ति | यथा सुखदेवनावस्था[ं] एवं दुःखासुखासु(दुः)खवेदनावस्थां [|] तस्य पूर्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति | अनित्या बतेमे संस्कारा इति पूर्वत् ||
SK
तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति | सरागं चित्तमुत्पन्नं परिजानाति | विगतरागं सद्वेषम्विगतद्वेषं | समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति | अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति | तस्य पू(पौ)र्वापर्येणैभिः क्लेशोपक्लेशैरवतीपर्णविपरिणताविपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति | तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणामौपलभ्यते ||
SK
तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति | इहानेनैकदात्मा च परे च दृष्ट्वा(ष्टा) (Śभ्_Sह् ४८१) भवन्त्यरोगिणः, सुखिनो, बलवन्तः | सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् |
SK
तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति | इहानेनैकदात्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः | सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः | स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववत् ||
SK
तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति | इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सो ऽपरेण समयेन मृतं कालगतं पश्यति | विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ||
SK
तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति | सो ऽपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति | स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति | एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण (Śभ्_Sह् ४८२) पूर्ववत् ||
SK
तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [|] सो ऽपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति | सर्वेण सर्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्णः | सर्वेण सर्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते | विपरिणामः |
SK
एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति | व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति | ये ऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्वं दृष्टा भवन्ति | गृहवस्त्वापणवस्तुपुण्यशालादेवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (|) सो ऽपरेण समयेन जीर्णान् पश्यति | जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष)तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्) | दृष्ट्वा च पुनरस्यैवं भवति | अनित्या बत(ते)मे संस्काराः [|] तथाप्येः(ह्ये)षां पौर्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो (Śभ्_Sह् ४८३) विपरिणाम उपलभ्यते | एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति | एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति | हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [|] अपरेण स समयेनोच्छुष्काणि पश्यति | विगतपत्रपुष्फलानि (|) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि | तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति |] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं | तथा भोजनपानं च एकदा[न]भिसंस्कृता(न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति] | (Śभ्_Sह् ४८४) तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि | विगतमण्डनानि, जर्जराणि | तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां | प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां | तथालंकाराणामेकदानभिसंस्कृततामेकदाभिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति | तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[स्]समुद्गता[ं] भवभंगताम्पश्यति | तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धाम्लानतां पश्यति | अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति | तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति | तथा आलोकानुकारयोः संभवविभवताम्पश्यति | तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति | अस्थिरतां [|] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो ऽयमीदृश उपलभ्यते | सर्वत्रचैतत् पेयालं वेदितव्यं ||
SK
एभिरष्टाभिर्विपरिणामकारणैः पूर्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति | (Śभ्_Sह् ४८५) यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः | तथैवानुस्मरन् व्यवचारयति | निश्चितश्च भवति | तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति |
SK
स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते | तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति | क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्वेणापरा विकृतिर्युज्यते | न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते | उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति |
SK
यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व)र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति | न तु विनाशस्य [|] तत्कस्य हेतोः [|] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते | न तु सर्वेण सर्वमप्रवृत्तिरेव [|] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते | तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न [प्र]ज्ञायते | छायिका च | शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति | न त्वग्निनैव क्रियते [|] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति | स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ||
SK
एवं च पुनरनुमानं करोति | सन्ति सत्वा (त्त्वा) ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष) आदेयवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [|] (Śभ्_Sह् ४८७) तदेतत् सत्व(त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [|] नासति | यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ||
SK
न चैतदीश्वरनिर्माणहेतुकं युज्यते | स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत | स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् | अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति | अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव | तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [|] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते | अथान्यहेतुका (की) तेनेच्छा प्रयत्नः | (Śभ्_Sह् ४८८) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे ऽपि संस्कारा धर्महेतुका एव भविष्यन्ति | किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते |
SK
स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति | तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च |
SK
विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा | आह | अध्यात्ममुपादाय बहिर्धा च वेदितव्या || तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः | अपरकर्मकरः | सो ऽपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति | स्वामिभावाद्विसंयुज्यते | तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा(ः) अपह्रियन्ते | चोरैर्वा, अप्रियैर्वा, दायादै[रित्य]नित्यता वेदितव्या | तत्र धर्मताकारानित्यता (Śभ्_Sह् ४८९) यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः | वर्तमाने ऽप्यध्वन्यसमवहितायाः अनाभोगे (गते) ऽध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागते ऽध्वनि एवंभागीया इति | एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति |
SK
स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति | तस्यैवं भवति | य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते | इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ं] जरा व्याधिर्मरण[ं], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः | एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति |
SK
स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति | (Śभ्_Sह्: ४९०) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे ऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं |
SK
तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति | तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च | अनित्या, निरोधधर्माणः |
SK
एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति | यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति | यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति | यदुतायोगक्षेमाकारेण [|]
SK
तस्यैवं भवति | संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्वकेण मनस्कारेण दुःखाकारमवतीर्णो भवति | तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रं | तज्जमनुभवमात्रं | चित्तमात्र हता आत्मेति (हतात्मेति) | नाममात्रं | दर्शनमात्रमुपचारमात्रं | (Śभ्_Sह् ४९१) नात उत्तरि नातो भूयः |
SK
तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः | कश्चिदात्मा वा, सत्वो(त्त्वो) वा, यो ऽसौ जायेत वा, हीयेत वा, म्रियते (येत) वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत | इति हि (Śभ्_Sह् ४९२) शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति | तस्यैवं भवति | ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते ऽपि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये ऽस्वतन्त्रास्ते ऽनात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति | एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति ||
SK
तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः | तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [|]
SK
दुःखाकारस्त्रिभिराकारैः संगृहीतः | संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [|]
SK
शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [|]
SK
अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण |
SK
स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो (Śभ्_Sह् ४९३) दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति | यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति | तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः | अभिनिर्वृत्तिर्दुःखितत्वात् प्रभवत्वात् प्रभवतः | पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च | दुःखसमुदयानयनात्प्रत्ययतः | अपरः पर्यायः | उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः | हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः | यथायोगं वेदितव्यं | अपरः पर्यायः [|] यः क्लेशानुशय आश्रय[ः] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [|] अपरः पर्यायः [|] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः | स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [|]
SK
तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः | सापुन[ः] पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः (Śभ्_Sह् ४९४) प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[ः] | पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः | तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च | एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते |
SK
समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति | दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः | एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति | प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन | निर्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति | स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते | अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते | अयमस्योच्यते | चतुर्ष्वार्यसत्ये[षु]) मनस्कारः ||
SK
स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य (Śभ्_Sह् ४९५) व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान् | स्कन्धाननुमानतः पराहन्ति | तेप्येवं धर्माणः ते ऽप्येवंनयपतिता इति | यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः | प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति | ते ऽप्येवं धर्माणस्ते ऽप्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः | शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानं | यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं | तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति | स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः |
SK
यदा तेषु सत्येष्वयं योगी एवं सम्यक्(ग्)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति | यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते | सो [अ]स्य भवत्याधिमोक्षिको मनस्कारः | सत्यालम्बनश्चैकान्तसमाहितश्च [|] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च (Śभ्_Sह् ४९६) समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते | येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ||
SK
एवं दुःखापर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [|] तत्रापर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः | यावत्सन्सा(संसा)रभाविन एते धर्माः, सन्सा(संसा)रस्य वाशेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [|] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति | स एवं सर्वभावोपपत्तिभ्यः | चित्तमुद्वेजयित्वा (-मुद्वेज्य) | उत्त्रास्य | उ(त्)त्रासयित्वा (स्य) [अ]ध्याशयेन निर्वाणे ऽप्यन्यतमान्यतमेनाकारेण प्रणिदधाति | तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतं आ(तमा)चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितं |) रूपशब्दगन्धरसस्प्रष्टव्यैः | येनाध्याशयेनापि निर्वाणं प्रदधते | (Śभ्_Sह् ४९७) न प्रस्कन्दति, न प्रसीदति | न संतिष्ठते | न विमुच्यते, न प्रत्युदावर्त्तते (|) मानसं, शान्तधात्वनभिलक्षिततया | परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[त्]त्रासयति | दुःखसत्यात्समुदयसत्यादुद्वेज्यो[ज्]त्रास्य पुनः पुनरध्याशयतो निर्वाणे प्रणिदधाति | तथाप्यस्य न प्रस्कन्दति | तत्कस्य हेतोस्तथा ह्यसौ [औ]दारिको [अ]स्मि मानो ऽभिसमयाय विबन्धकरः | स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते | अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि | अहमस्मि परिनिर्वास्यामि, अहमस्मि(न्) परिनिर्वाणाय कुशलान्धर्मान् भावयामि | अहमस्मिदुःखं दुःखतः (|) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः | अहमस्मि मार्गं मार्गतः पश्यामि | अहमस्मि शून्यं शून्यतो ऽप्रणिहितमप्रणिहिततः | आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वाध्याशयतो [अ]पि निर्वाणम(त)स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा(म)नस्कारप्रविष्टां, (Śभ्_Sह् ४९८) मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते | स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति | प्रवाहानुप्रबन्धयोगेन | स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते | यथास्य यो ऽसौ मनस्कारानुप्रविष्टो ऽस्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः | पुनर्भवव्युत्पत्तये ||
SK
तथा प्रयुक्तो ऽयं योगी यत्तस्याश्चित्तसन्ततेः अन्योन्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या [अ]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते | इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया[ः |] एवं तावद् दुःखसत्यमवतीर्णो भवति |
SK
तस्यैवं भवतीयमपि मे चित्तसन्ततिः | तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [|] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो ऽपि शान्तः | अस्या अपि यो निरोधगामी मार्गः | स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्णो भवति | तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते | येनास्यौदारिकत्वास्मिमानो निर्वाणाभिरतये विबन्धकरः समुदाचरतः | प्रहीयते | निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति | नप्रत्युदावर्तते(यति) (|) मानसं | परितमनामुपादाय | अध्याशयतश्चाभिरतिं गृह्णाति | तथाभूतस्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते | यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे(ढमि)त्युच्यते | यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ||
SK
स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्वाणे चाध्याशयरतिं परिगृह्ययो ऽसावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः | तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति | तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति | न च तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति | न च तदालम्बनं भवति | तस्य तच्चित्तं प्रशान्तं विगतमिव (Śभ्_Sह् ५००) ख्याति | न च तद्विगतं भवति | न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति | न च तन्निरुद्धं भवति | यत्तदेकत्यानां [मन्दानां] मोमूहानामभिसमया [या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (|) न्यामावक्रान्तिर्भविष्यतीति | यदि यमीदृशी चित्तस्यावस्था भवति | तस्य तत्सर्वपश्चिमनिर्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति | ते लौकिका अग्रधर्माः |
SK
तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते | न लौकिकं [|] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति | तेषां समनन्तरपूर्वाविचारितानि सत्या[न्या]भ्र(व्र)जति | आभोगसमनन्तरं यथापूर्वानुक्रमः [|]
SK
विचारितेषु सत्येषु अनुपूर्वेणैव निर्विकल्पप्रत्यक्षपरोक्षेषु || निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते | तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते | तस्य प्रहाणात् सचेत्पूर्वमेव कामेभ्यो वीतरागो भवति | सह स(ग?)त्याभिसमयात् | तस्मिन्समये (Śभ्_Sह् ५०१) ऽनागामीत्युच्यते | तस्य तान्येव लिंगानि वेदितव्यानि | यानि पूर्वमुक्तानि वीतरागस्यायन्तु विशेषः | अयमौपपादुको भवति | तत्र परिनिर्वायी | अनागन्ता पुनरिमं लोकं [|]
SK
स चेत् पुनर्यद्भूयो वीतरागो भवति | सह गत्या अभिसमयात् सकृदागामी भवति |
SK
सचेत्पुनरवीतरागो भवति | स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति | ज्ञेयेन ज्ञानं समागतं भवति | प्रत्यक्षतया | तेनोच्यते [अ]भिसमयतः | तद्यथा क्षत्रियः क्षत्रियेण | सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते | एवं ब्राह्मणादयो वेदितव्याः |
SK
तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति | सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं | प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो ऽपि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं | यद्यपि स्मृतिसंप्रमोषादुत्पद्यते | तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति | तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति] शिक्षां) व्यतिक्रामति | च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद् व्यपरोपयति | (Śभ्_Sह् ५०२) न शिक्षां प्रत्याख्याय हानायार्वत्तते | अभव्यो भवति पञ्चानामानन्तर्याणां कर्मणां करणतायै | न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नं | न इतो बहिर्धान्यं शास्तारं पर्येषते | न दक्षिणीयं | न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति | सुखपरीक्षकः | नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्णकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययो ऽनन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः | स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति | नाप्यष्टमं भवमभिनिर्वर्त्तयति | चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति | तस्य यावल्लौकिकेभ्यो ऽग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च |
SK
अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतो ऽभ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी भवति | तस्यापि यानि स्रोत आपन्नस्य लिंगानि | सर्वाणि वेदितव्यानि | अयञ्च विशेषो यद्विषये ऽधरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये ऽपि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति | सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति | अनागामी | अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सर्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः |
SK
तत्र भावनायाः कतमः स्वभावः [|] कतमत्कर्म | कतमः प्रकारभेदः | यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः | परिचयः, सातत्यसत्कृत्य क्रिया | चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः |
SK
तत्र भावनाया अष्टविधं कर्म | एकत्यान्धर्मान्भावयन् प्रतिलभते | एकत्यान्धर्मान्भावनया निषेवते | एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति | एकत्यान्धर्मान्प्रजहात्येकत्यान् (Śभ्_Sह् ५०४) धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति | तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते | एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[न्]ते | तान्निषेवते | तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णै)रायत्यां संमुखीक्रियमाणा[ः], परिशुद्धतरा[ः], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(त्) क्लिष्टा(न्)धर्मान्समुदाचरन्ति | तान्कुशलधर्माभ्यासबलेनाधिवासयति | प्रजहाति | विनोदयति | व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति | विदूषयति | शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति | विदूषयति | तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते | क्लेशानां प्रहाणाय, येन प्रजहाति | प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति | यथा च यथोपरिमां भूमिमाक्रमते | तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति | यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ||
SK
तत्र भावनायामे (या ए)कादशविधः प्रकारभेदो (Śभ्_Sह् ५०५) वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [|]
SK
तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ं](ञ्चित्तस्थित्यां) पूर्ववत् |
SK
विपश्यनाभावना पूर्ववदेव | तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [|]
SK
तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्वतः | यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [|]
SK
तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति | तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति | तत्राधि[मात्र]मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति | सर्वम्पश्चात्प्रहेयं |
SK
तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय | तत्रानन्तर्यमार्गभावना यया प्रजहाति | (Śभ्_Sह् ५०६) तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति | तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते | निष्ठागतो वा नारभते | इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः |
SK
तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सो ऽस्य भवति [रति]संग्राह[को] मनस्कारः | तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या[ः] क्लेशप्रहाणाय सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते | तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते | केन कारणेन वज्रोपम इत्युच्यते | तद्यथा (Śभ्_Sह् ५०७) वज्र[ं] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति | न त्वन्यैर्मणिभिर्विलिख्यते | एवमेवायं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति | न च पुनरुत्पत्तिक्लेशैरभिभूयते | तस्माद्वज्रोपम इत्युच्यते |
SK
तस्य वज्रोपमस्य समाधेः समनन्तरं सर्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते | (Śभ्_Sह् ५०८) गोत्रपरिशुद्धिं चानुप्राप्नोति [|] सर्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते | हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते | स तस्मिन् समये ऽर्हन् भवति | क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो ऽनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः | दशभिरशैक्षैर्धर्मैः समन्वागतः | अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [|] स्वचित्तवशवर्ती च भवति | विहारे च मनसिकारे च | समयेन येन कांक्षते | विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति | यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितं | लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति |
SK
तत्रार्यो विहारः शून्य[ता]विहारो(र [आ])निमित्तविहारो ऽप्रणिहितविहारो निरोधसमापत्तिविहारश्च | दिव्यो विहारो ध्यानारूप्यविहारः | ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः | अत्यन्तनिर्मलोभवत्यत्यन्तविमलो ऽत्यन्तब्रह्मचर्यपर्यवसानः | निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त............................................... (Śभ्_Sह् (Śभ्_Sह्: ५०९) शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः | प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते | प श्चितु.............समन्वागतो भवति | पा लं दृष्ट्वा चैवं सुमनाः |
SK
भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः | एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय | मे व........तदूर्ध्व | उपेक्षको विहरति स्मृतः संप्रजा[ना]नः | स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति | स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति...........
SK
समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतो ऽन्तिमादेहधारीत्युच्यते | पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात् वा, निरुपधिशेषनिर्वाणधातौ (प्रविष्टः/प्रविशति)
SK
......परिनिर्वृतो भवति | यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं | शान्तं शान्तमिदं पदं | यदुत सर्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि | (Śभ्_Sह् ५१०) पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति | वि विने | क्त मन्यमसं तथा
SK
प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुं | संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं | तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं | पूर्ववद्यावत्स्वयंकायकारो ऽहेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः) | सत्रासं मांसं भक्ष्य(व्य).........
SK
ऽअन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारो ऽयं प्रयोगनिष्ठाफलो मनस्कारः | एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् आ/प्रा पा तः-त
SK
इत्ययमुच्यते सा/मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र]स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि || मातृका ||
SK
|| उद्दानम् ||
SK
लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः | प्राविवेक्यरतिग्राही तद्व्यामीमान्स(मांस)कः ||
SK
पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् | मनस्कारश्च, ध्यानानां आरूप्याना(णां) विभागता ||
SK
समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता | सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ||
SK
भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ||
SK
|| श्रावकभूमौ चतुर्थं योगस्थानम् ||
SK
|| समाप्ता श्रावकभूमिः ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Asaṅga: Śrāvakabhūmi (sa_asaGga-zrAvakabhUmi-edshukla.htm).

Source