Heart of the Perfection of Wisdom

Prajñāpāramitāhṛdayasūtra, saṃkṣiptamātṛkā · Pरज्ञापारमिताहृदयसूत्र, संक्षिप्तमातृका

Heart of the Perfection of Wisdom

Prajñāpāramitāhṛdayasūtra, saṃkṣiptamātṛkā

Pरज्ञापारमिताहृदयसूत्र, संक्षिप्तमातृका

SK
Pरज्ञापारमिताहृदयसूत्रम् | [संक्षिप्तमातृका ||]
SK
नमः सर्वज्ञाय ||
SK
आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म | पञ्च स्कन्धाः, तांश्च स्वभावशून्यान् पश्यति स्म ||
SK
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम् | रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम् | यद्रूपं सा शून्यता, या शून्यता तद्रूपम् ||
SK
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ||
SK
इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः | तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानानि | न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि, न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः | न चक्षुर्धातुर्यावन्न मनोधातुः ||
SK
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम् ||
SK
बोधिसत्त्वस्य(श्च?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः | चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः | त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ||
SK
तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः | तद्यथा - गते गते पारगते पारसंगते बोधि स्वाहा ||
SK
इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम् ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Prajñāpāramitāhṛdayasūtra, saṃkṣiptamātṛkā (sa_prajJApAramitAhRdayasUtrasaMkSiptamAtRkA.htm).

Source