Sutraya

Paryantapañcāśikā

Fifty Verses on the Ultimate · पर्यन्तपञ्चाशिका

Paryantapañcāśikā

Fifty Verses on the Ultimate

पर्यन्तपञ्चाशिका

SK
श्री गणपतये नमः |
SK
आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् | अनुच्चार्याम् अहं वाचम् अधीये हृदयं विभोः || १ ||
SK
स एव भैरवो देवस् सर्वे देवाश् च यन्मयाः | सैवासौ भैरवी सत्तासत्तापि च यन्मयी || २ ||
SK
तद् एव भैरवं ज्ञानम् अज्ञानम् अपि यन्मयम् | स हि भैरवसिद्धान्तः पूर्वपक्षो ऽपि यन्मयः || ३ ||
SK
ऐकध्यम् अध्वनां ष.ङ्नां यत्र सा भैरवी स्थितिः | पर्यन्ते सर्वतन्त्राणाम् अवाच्या परमा गतिः || ४ ||
SK
सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया | हृदयं देवदेवस्य भैरवस्याविभागभूः || ५ ||
SK
चित्स्वाभाव्याद् असौ देवः स्वात्मना विमृषन् प्रभुः | अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते || ६ ||
SK
तत्र वाचकवाच्यात्मस्पन्दयोर् एकशः प्रभोः | स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता || ७ ||
SK
क्रमो यो देशकालात्मा भेदप्राणस् स संविदाम् | विच्छेदाद् एष विज्ञातुर् विचित्राभासताकृतः || ८ ||
SK
उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः | शुद्धिर् बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् || ९ ||
SK
अशुद्धिर् अपि मग्नानां नैवं हृदयविश्रमः | अत्रान्तरे ऽप्य् अनन्तास् स्युः स्थितयस् तारतम्यतः || १० ||
SK
उचितोचितमेयानां प्रमातॄणां प्रकाशने | साधारणान्यथाभावौ भिद्येते मातृमेययोः || ११ ||
SK
अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता | अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः || १२ ||
SK
क्रियाज्ञानात्मचिच्छक्तिर् भेदासूत्रणकारणात् | कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर् भवेत् || १३ ||
SK
प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः | सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा || १४ ||
SK
कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुर् उच्यते | इतीच्छया स भगवान् भैरवः परिमीयते || १५ ||
SK
मितवृत्तिस् सती सा च शक्तिस् तम् अनुवर्तते | तस्य विद्येशसादाख्यशिवतास् संकुचत्स्थितेः | देहप्राणबुद्धिशून्यप्रमातृत्वम् उपागमन् || १६ ||
SK
तस्यासाधारणी सृष्टिस् तत्तन्नानाविकल्पना | शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया || १७ ||
SK
प्रमातैवायम् एतावत्प्रकारो ऽवग्रहोत्सवे | अव्यग्रो वर्तते स्वात्मन्य् अविकल्पे चिदात्मके || १८ ||
SK
वत्स पश्य त्वम् एवैतत् अद्वयत्वेन संविदः | विदितं तन्मयं विश्वम् अन्यत् तुच्छम् असद् यतः || १९ ||
SK
किम् उपायम् इदं तत्त्वं यतो ऽन्यन् नैव सम्भवि | अनन्योपायम् एतत् तदात्मोपायं प्रचक्षते || २० ||
SK
संहृत्य सर्वतश् चिन्ताम् [अह]म् इत्य् अनुशीलयन् | अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते || २१ ||
SK
अनन्तैतावदाकारस्वीकारे ऽप्य् एकलक्षणाम् | तां स्वसंविदम् आविश्य विकल्पान् न विकल्पयेत् || २२ ||
SK
खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् | व्योमेश्वरीम् आत्मचितिं विगाह्य ब्रोडयेज् जडम् || २३ ||
SK
सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् | पञ्चकृत्यानि कुर्वाणः शिवो ऽहम् इति विश्वसेत् || २४ ||
SK
क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा | गुरुवक्त्रेण तान्य् आत्मन्य् आकलय्य कृती भवेत् || २५ ||
SK
विकल्पयित्वा विश्वात्मा भैरवो ऽहं ममैव ताः | विश्वभङ्ग्यो यथा वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः || २६ ||
SK
एको ऽहं मातृविज्ञानमानमेयप्रकारवान् | शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः || २७ ||
SK
मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् | भैरवो ऽस्मीति विस्रम्भात् स्वाच्छन्द्यं परमं व्रजेत् || २८ ||
SK
अन्तःकारबहिष्काराव् अकालक्रमम् आत्मनः | अपराधीनम् आधत्से यत् त्वं प्राभवनिर्भरः || २९ ||
SK
अनुत्तरविसर्गात्मविश्रमोदययामलम् | संघट्टश् शिवशक्त्योस् तदन्तरे चान्यशक्तयः || ३० ||
SK
आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः | अस्फुटस्फुटभेदेन वेद्योल्लासस् तयोर् विदः || ३१ ||
SK
आनन्दानुत्तराभ्यां च सन्धीभावो ऽथ वेदना | वेद्यानां प्राणभूतेति पूर्णं तद् भैरवं वपुः || ३२ ||
SK
वेद्योल्लासो ऽयम् इच्छायाम् ईशने चैकतः स्थितः | स्थूलत्वेन पृथिव्यादिभूतपञ्चकताम् इयात् || ३३ ||
SK
सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः | करणत्वेन संस्पर्शाद् इन्द्रियाणां द्विपञ्चताम् || ३४ ||
SK
वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे | मनो ऽहंबुद्धितां एषाम् अविभागे प्रधानताम् | पुरुषत्वं च संकोचविकासौ यदपेक्षया || ३५ ||
SK
अभूवन्न् इष्यसंयोगाद् द्विरूपाद् उभयात्मनः | इच्छास्वरूपाद् उन्मेषाद् अन्यथानुत्तरायुतात् || ३६ ||
SK
चतस्रश् शक्त्यो ऽन्तःस्थाः पुंसो ऽस्यान्तश् च धारिकाः | चिद्व्योम्नो जडभूमेश् च मायामय्यस् त्रिशङ्कुवत् || ३७ ||
SK
इच्छाशक्तेस् त्रिरूपायास् तिस्रो ऽन्याश् शक्त्यो ऽभवन् | विसर्गो ऽयम् अथात्यर्थं स्फुटो ऽभूत् सृज्यविस्तरात् || ३८ ||
SK
एतत् सृष्ट्वात्मशक्तीनाम् इतरेतरमिश्रात् | भवेत् क्षोभान्तरं नास्माद् विसर्गाद् बाह्यतो भवेत् || ३९ ||
SK
इयत्सर्वं सद् इच्छादिद्वारानुत्तरभैरवे | विश्रम्य विश्रम्य मुहुस् तत एव विसृज्यते || ४० ||
SK
अन्तर्निलीनानन्तार्थस्वात्मामर्शश् चितिः परा | एकवारवहाद् येयं मन्त्री वाक् शुद्धकर्तृता || ४१ ||
SK
त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः | बहिस् ततश् चात्मनीति श्रीपरा कालकर्षिणी || ४२ ||
SK
भेदितान्तःकृताख.ङ्दभावावेक्षा परापरा | कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया || ४३
SK
मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी | विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता || ४४ ||
SK
स्ववासनातादवस्थ्याद् दशयोः पूर्वयोर् अपि | मायामातुर् मितत्वं स्यात् पश्यन्त्याश् च क्रमो ह्य् अणुः || ४५ ||
SK
तयोर् आविश्य दशयोः क्रमाच् छान्तविकल्पयोः | धन्यस् स्वसंविद्विस्तारं साश्चर्यम् अनुपश्यति || ४६ ||
SK
सा स्थानकरणाघातपुंव्यापारात्मिका सती | वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः || ४७ ||
SK
आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः | व्यवहारो ऽथ शास्त्रीयो नानासंकोचसंकटः || ४८ ||
SK
इति वाग्व्याप्तिविद्वांसम् एतद्वर्गाधिदेवताः | माहेश्वरीमुखा देव्यो जागरे ऽपि न भुञ्जते || ४९ ||
SK
उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः | यासौ स्वसंवित् ताम् एव सर्वोपायां समाविशेत् || ५० ||
SK
आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् | रहस्यं मन्त्रमुद्राणां प्रपद्ये ऽनुत्तरं महः || ५१ ||
SK
शम्भोर् अभिन्नहृदया जयन्ति गुरवः पुरा | निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः || ५२ ||
SK
|| नमः शिवाय ||
SK
|| परिपूर्णा कृतिर् इयं श्रिमदाभिनवगुप्तनाथस्य
SK
पर्यन्तपञ्चाशिका नाम ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Paryantapañcāśikā: Encoded by Marino Faliero (Gandharva-nagaram / DSO).

Source