SK
# # MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE # # # � # # # # # # # त्Aर्Aरहस्यम् ब्य् Bरह्म्Aनन्द # # एदितेद् ब्य् ज्Iव्Aनन्दविद्य्Aस्Aगर भTTAच्Aर्य # Pउब्लिस्हेद् Cअल्चुत्त Pरेस्स्, Cअल्चुत्त १८९६ CE # # Dअत एन्तेरेद् ब्य् थे स्तff ओf Mउक्तबोध # उन्देर् थे सुपेर्विसिओन् ओf Dर्. Mअर्क् S. G. Dय्च्zकोwस्कि # # Hअर्वर्द्-Kयोतो त्रन्स्लितेरतिओन् # रेविसिओन् ० Jउने १४, २००७ # # तारारहस्यम् श्रीब्रह्मानन्दपरमहंसपरिव्राजकविरचितम् तारारहस्यम् प्रथमः पटलः ओं नमस्तारायै | तारां संसारसारां त्रिभुवनजननीं सर्वसिद्धिप्रदात्रीं सर्वाद्यां सर्वरूपां सकलगुणमयीं वन्दितां देववृन्दैः | दिव्ये राजे सरोजे भवभयभयदां राजमानां प्रणम्य ब्रह्मानन्दाख्यकोऽहं भुवनहितकृते तद्रहस्यं तनोमि || ब्रह्मा विष्णुरुमापतिस्त्रिभुवने सृष्टिं स्थितिं प्रालयं ध्यात्वेमां जगदम्बिकां वितनुते मोक्षप्रदां रारिणीम् | भक्त्या तद्गतमानसो यदि जनस्तारां भजेद् यत्नतः स क्षेमङ्करमेतदेव लभते तत्त्यागतो यात्यधः || ज्ञात्वा तारारहस्यं भजति यदि जनस्तारकामन्त्रराजं श्रेष्ठां सिद्धिं लभेतामरवरमनुजैर्दुर्लभां तारकातः | त्यक्त्वा तारां प्रयाति ध्रुवमतिविपदामास्पदं मोहकूपं दुःखं शोकञ्च सम्यक् गतिरपि सुतरां नैव भव्या कदाचित् || तारासारं समालोक्य तारानिगममेव च | महानीलं महाचीनं नीलतन्त्रं शिवप्रियम् || ताराकल्पं शक्तिकल्पं शक्तिसारं तथैव च | रुद्रयामलकञ्चैव नीलसारस्वतं तथा || लिङ्गतन्त्रं योनितन्त्रं षोढातन्त्रं महामतम् | तारायाः कुलसर्वस्वं ऊर्द्ध्वाम्नायं विशेषतः || प्. २) नानाशास्त्राणि चालोक्य ताराया मन्त्रसिद्धये | वक्ष्ये रहस्यं ताराया ब्रह्मानन्दो हिताय वै || इति प्रथमं मङ्गलाचरणम् | नानाशास्त्रार्थविलोकनपूर्वकं श्रीमत्तारादेव्या रहस्यं कामार्थमोक्षाणां तारामन्त्रेण दायकं सकलगुरुम्? प्रातःकृत्यादिक्रियाज्ञानार्थं देवतामन्त्रनिरूपणादिग्रन्थः *? कहिताय ब्रह्मानन्देन मया यत्नेन वितन्यते |