The Perfection of Wisdom in One Thousand Lines, Volumes 1 and 2

Daśasāhasrikā prajñāpāramitā, 1 and 2 translated from Tibetan · Dअशसाहस्रिका प्रज्ञापारमिता, १ अन्द् २ त्रन्स्लतेद् fरोम् Tइबेतन्

The Perfection of Wisdom in One Thousand Lines, Volumes 1 and 2

Daśasāhasrikā prajñāpāramitā, 1 and 2 translated from Tibetan

Dअशसाहस्रिका प्रज्ञापारमिता, १ अन्द् २ त्रन्स्लतेद् fरोम् Tइबेतन्

SK
Dअशसाहस्रिका Pरज्ञापारमिता
SK
एवं मया श्रुतम्: एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धम् अनेकैर् भिक्षुसहस्रैः, सर्वैर् अर्हद्भिः क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशिपरमपारमिताप्राप्तैर्, एकं पुद्गलं स्थापयित्वा यदुतायुष्मन्तम् आनन्दं शैक्षं स्रोतआपन्नं; पञ्चमात्रैश् च भिक्षुणीशतैर्, उपासकैर् उपासिकाभिश् च सार्धं, सर्वैर् दृष्टसत्यैर्; अनेकसहस्रैश् च बोधिसत्त्वैर् महासत्त्वैः सार्धं, सर्वैर् धारणीप्रतिलब्धैः समाधिप्रतिलब्धैः शून्यताविहारिभिर् अनिमित्तगोचरैर् अविकल्पितप्रणिधानैः समताक्षान्तिप्रतिलब्धैर् असंगप्रतिभाणप्रतिलब्धैः सर्वैश् च पञ्चाभिज्ञैर् आदेयवचनैर् अकुहकैर् अपगतज्ञानार्थलाभसत्कारचित्तैर् निरामिषधर्मदेशकैर् गम्भीरधर्मक्षान्तिपारगतैर् वैशारद्यप्राप्तैर् मारकर्मसमतिक्रान्तैः सर्वकरणावरणविमुक्तैर् धर्मनिर्देशसंचितैर् असंख्येयकल्पसमारब्धप्रणिधानैः स्मितमुखैः पूर्वाभिलापिभिर् व्यपगतभ्रूकुटीमुखैर् अनन्तपरिषदभिभवनवैशारद्यसमन्वागतैर् अनेककल्पकोटिनिर्देशनिःसरणकुशलैर् मायामरीचिस्वप्नोदकचन्द्रप्रतिभासाकाशगन्धर्वनगरप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तैर् अप्रमाणवैशारद्यसमन्वागतैः सर्वसत्त्वचित्तगत्यधिमुक्तिपर्याप्तिकुशलैः सर्वसत्त्वाप्रतिहतचित्तैर् महाक्षान्तिसमन्वागतैर् याथात्म्यावतारणकुशलैर् अनन्तबुद्धक्षेत्रव्यूहपरिगृहीतैर् असंख्येयलोकधातुगतबुद्धानुस्मृतिसमाधिसततसमिताभिमुखीभूतैर् अपरिमितबुद्धाध्येषणकुशलैर् नानादृष्टिसमुत्थितक्लेशप्रशमनकुशलैः समाधिविक्रीडनशतसहस्रनिर्हारकुशलैस्, तद्यथा भद्रपालेन च बोधिसत्त्वेन महासत्त्वेन, रत्नाकरेण च, सार्थवाहेन च, नरदत्तेन च, वरुणदत्तेन च, इन्द्रदत्तेन च, उदारमतिना च, विशेषमतिना च, वर्धमानमतिना च, अमोघदर्शिना च, सुसंप्रस्थितेन चम्, सुविक्रान्तविक्रमिणा च, नित्योद्युक्तेन च, अनिक्षिप्तधुरेण च, आदित्यगर्भेण च, चन्द्रगर्भेण च, अनुपममतिना च, अवलोकितेश्वरेण च, मञ्जुश्रिया च, रत्नमुद्राहस्तेन च, नित्योत्क्षिप्तहस्तेन च बोधिसत्त्वेन, मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, एवंप्रमुखैर् अनेकबोधिसत्त्वसहस्रैः, सर्वैः कुमारभूतैः सार्धम्.
SK
तस्यां वेलायां भगवान् शक्रं च ब्रह्माणं च सर्वांश् च लोकपालान् तेजसाभिभूय तासां चतसृनां पर्षदां पुरतो विरोचमान ऋद्ध्या नानाविधं विकुर्वणप्रातिहार्यं संदर्शयति स्म. रोमकूपेभ्यो ऽनेकानि रश्मिकोटिनियुतशतसहस्राणि निश्चेरुः.
SK
तेन खलु समयेनायुष्मान् शारद्वतीपुत्रस् तस्यां पर्षदि संनिपतितो ऽभूत् संनिषण्णः. स तथागतस्येदृशम् ऋद्धिविकुर्वणप्रातिहार्यं दृष्ट्वा तुष्ट उदग्र आत्तमनः प्रमुदितः प्रीतिसौमनस्यजात उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्: सचेन् मे भगवान् प्रश्नव्याकरणायावकाशं कुर्याद् अहं भगवन्तम् कंचित् प्रदेशं प्रक्ष्यामि.
SK
एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: तथागतं प्रष्टुं, शारद्वतीपुत्र, सदा कृतावकाशत्वाद् यत् किंचित् त्वं तथागतं प्रष्टुम् इच्छसि, तत् प्र्च्छ, प्रश्नप्रतिवचनेन चाहं तव चित्तम् आराधयिष्ये.
SK
एवम् उक्त आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्: प्रज्ञापारमिता, भदन्त भगवन्, प्रज्ञापारमितेत्य् उच्यते; कतमा भदन्त भगवन् सा बोधिसत्त्वानं प्रज्ञापारमिता? कस्य धर्मस्य पारमितायां बोधिसत्त्वाः प्रज्ञापारमितायां पारं गताः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते?
SK
एवम् उक्ते भगवान् आयुष्मते शारद्वतीपुत्राय साधुकारम् अदात्: साधु, साधु, शारद्वतीपुत्र, यत् त्वं तथागतस्याधिष्ठानाद् एवं प्रश्नं पृच्छसि, साधु; सुन्दरस् ते संकल्पः, तेन हि त्वं शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ऽहं प्रज्ञापारमिताम्.
SK
एवम् अस्तु भदन्त भगवन्न् इत्य् आयुष्मान् शारद्वतीपुत्रो भगवतः प्रत्यश्रोषीत्.
SK
भगवांस् तस्यैतद् अवोचत्: शारद्वतीपुत्र प्रज्ञापारमिता प्रज्ञापारमितेत्य् उच्यते यद् इदं सर्वधर्मानभिनिवेशः. अनभिनिविष्टाः शारद्वतीपुत्र बोधिसत्त्वाः प्रज्ञापारमितायां पारं गताः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
आह: कतमे भदन्त भगवंस् ते सर्वधर्मा येषु बोधिसत्त्वा महासत्त्वा अनभिनिविष्टाः?
SK
भगवान् आह: सर्वधर्माः शारद्वतीपुत्रोच्यन्ते यदुत पञ्च स्कन्धा, द्वादशायतनान्य्, अष्टादश धातवश्, चत्वार्य् आर्यसत्यानि, द्वादश प्रतीत्यसमुत्पादाङ्गानि, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणाणि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य्, आर्याष्टाङ्गमार्गः, शून्यताविमोक्षमुखम्, अनिमित्तविमोक्षमुखम्, अप्रणिहितविमोक्षमुखं, चत्वारि ध्यानानि, चत्वार्य् अप्रमानानि, चतस्र आरूप्यसमापत्तयो, ऽस्टौ विमोक्षा, दशानुपूर्वविहारसमापत्तयो, नव संज्ञा, दशानुस्मृतयः, षट् संज्ञाकारा, धर्मज्ञानम्, अन्वयज्ञानं, परचित्तज्ञाननि, संवृतिज्ञानं, दुःखज्ञानं, समुदयज्ञानं, निरोधज्ञानं, मार्गज्ञानं, क्षयज्ञानम्, अनुत्पादज्ञानं, यथाभूतज्ञानं च; एवम् एव सवितर्कः सविचारः समाधिर्, अवितर्को विचारमात्रः समाधिर्, अवितर्काविचारः समाधिर्, अनाज्ञातमाज्ञास्यामीन्द्रियम्, आज्ञेन्द्रियम्, आज्ञातावीन्द्रियम्, अष्टाव् अभिभ्वायतनानि, दश कृत्स्नायतनान्य्, अष्टादश शून्यता, दश तथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदो, महामैत्री, महाकरुणा, अष्टादशावेणिका बुद्धधर्माश् च; एवम् एव सर्वज्ञता, मार्गाकारज्ञता, सर्वाकारज्ञता, षट् पारमिताः, पञ्चाभिज्ञाः, पञ्च चक्षूंषि, द्वात्रिंशन् महापुरुषलक्षणान्य्, अशीतिर् अनुव्यञ्जानानि च. एते ते सर्वधर्मा येष्व् अनभिनिविष्टा बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां पारं गताः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
तत आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्: कतमे भदन्त भगवन् पञ्च स्कन्धाः, पेयालं यावत् कतमानि द्वादश प्रतीत्यसमुत्पादाङ्गानि, कतमानि चत्वारि स्मृत्युपस्थानानि, पेयालं यावत् कतम आर्याष्टाङ्गमार्गः, कतमं शून्यताविमोक्षमुखं, पेयालं यावत् सर्वाकारज्ञता, कतमाः षट् पारमिताः, पेयालं यावद् अशीतिर् अनुव्यञ्जनानि?
SK
[Dस्P_१] एवम् उक्ते भगवान् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: पञ्च स्कन्धा इति, शारद्वतीपुत्र, उच्यन्ते यदुत रूपं, वेदना, संज्ञा, संस्कारा, विज्ञानम्.
SK
[Dस्P_२] तत्र कतमानि द्वादशायतनानि? षड् आध्यात्मिकानि, षड् बाह्यानि. एतान्य् उच्यन्ते द्वादशायतनानि.
SK
तत्र कतमानि षड् आध्यात्मिकान्य् आयतनानि? यदुत चक्षुरायतनं, श्रोत्रायतनं, घ्राणायतनं, जिह्वायतनं, कायायतनं, मनआयतनम्. एतान्य् उच्यन्ते षड् आध्यात्मिकान्य् आयतनानि.
SK
तत्र कतमानि षड् बाह्यान्य् आयतनानि? यदुत रूपायतनं, शब्दायतनं, गन्धायतनं, रसायतनं, स्प्रष्टव्यायतनं, धर्मायतनम्. एतान्य् उच्यन्ते षड् बाह्यान्य् आयतनानि.
SK
[Dस्P_३] तत्र कतम अष्टादश धातवः? यदुत चक्षुर्धातू, रूपधातुश्, चक्षुर्वीज्ञानधातुः; श्रोत्रधातुः, शब्दधातुः, श्रोत्रविज्ञानधातुः; घ्रानधातुर्, गन्धधातुर्, घ्राणविज्ञानधातुः; जिह्वाधातू, रसधातुर्, जिह्वाविज्ञानधातुः; कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुः; मनोधातुर्, धर्मधातुर्, मनोविज्ञानधातुः. एत उच्यन्त अष्टादश धातवः.
SK
[Dस्P_४] तत्र कतमानि चत्वार्य् आर्यसत्यानि? यदुत दुःखम् आर्यसत्यं, समुदय आर्यसत्यं, निरोध आर्यसत्यं, मार्ग आर्यसत्यम्. एतान्य् उच्यन्ते चत्वार्य् आर्यसत्यानि.
SK
[Dस्P_५] तत्र कतमानि द्वादश प्रतीत्यसमुत्पादाङ्गानि? यदुताविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानं, विज्ञानप्रत्ययं नामरूपं, नामरूपप्रत्ययानि षड् आयतनानि, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवो, भवप्रत्यया जातिर्, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपयासाः. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति.
SK
अविद्यानिरोधात् संस्कारनिरोधः, संस्कारनिरोधाद् विज्ञाननिरोधो, विज्ञाननिरोधान् नामरूपनिरोधो, नामरूपनिरोधात् षडायतननिरोधः, षडायतननिरोधात् स्पर्शनिरोधः, स्पर्शनिरोधाद् वेदनानिरोधो, वेदनानिरोधात् तृष्णानिरोधस्, तृष्णानिरोधाद् उपादाननिरोध, उपादाननिरोधाद् भवनिरोधो, भवनिरोधाज् जातिनिरोधो, जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपयासनिरोधः. एवम् अस्य केवलस्य दुःखस्कन्धस्य निरोधो भवति. एष उच्यते प्रतीत्यसमुत्पादो ऽनुलोमश् च प्रतिलोमश् च.
SK
[Dस्P_६] तत्र कतमानि चत्वारि स्मृत्युपस्थानानि? यदुत काये कायानुपश्यनास्मृत्युपस्थानं, वेदनासु वेदनानुपश्यनास्मृत्युपस्थानं, चित्ते चित्तानुपश्यनास्मृत्युपस्थानं, धर्मेषु धर्मानुपश्यनास्मृत्युपस्थानम्. एतान्य् उच्यन्ते चत्वारि स्मृत्युपस्थानानि.
SK
[Dस्P_७] तत्र कतमानि चत्वारि सम्यक्प्रहाणानि? इह बोधिसत्त्वो महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दं जनयति व्यायच्छते वीर्यम् आरभति चित्तं प्रग्र्ह्णाति सम्यक् प्रदधाति;
SK
उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते वीर्यम् आरभति चित्तं प्रगृह्णाति सम्यक् प्रदधाति;
SK
अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयति व्यायच्छते वीर्यम् आरभति चित्तं प्रगृह्णाति सम्यक् प्रदधाति;
SK
उत्पन्नानां कुशलानां धर्माणां स्थितये ऽसंप्रमोषाय भूयोभावनायै परिपूरणाय छन्दं जनयति व्यायच्छते वीर्यम् आरभति चित्तं प्रगृह्णाति सम्यक् प्रदधाति. एतान्य् उच्यन्ते चत्वारि सम्यक्प्रहाणानि.
SK
[Dस्P_८] तत्र कतमे चत्वार ऋद्धिपादाह्? यदुत छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादो, वीर्यसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादश्, चित्तसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धीपादो, मीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. एत उच्यन्ते चत्वार ऋद्धिपादाः.
SK
[Dस्P_९] तत्र कतमानि पञ्चेन्द्रियाणि? श्रद्धेन्द्रियं, वीर्येन्द्रियं, स्मृतीन्द्रियं, समाधीन्द्रियं, प्रज्ञेन्द्रियम्. एतान्य् उच्यन्ते पञ्चेन्द्रियाणि.
SK
[Dस्P_१०] तत्र कतमानि पञ्च बलानि? श्रद्धाबलं, वीर्यबलं, स्मृतिबलं, समाधिबलं, प्रज्ञाबलम्. एतान्य् उच्यन्ते पञ्च बलानि.
SK
[Dस्P_११] तत्र कतमानि सप्त बोध्यङ्गानि? यदुत स्मृतिसंबोध्यङ्गं, धर्मप्रविचयसंबोध्यङ्गं, वीर्यसंबोध्यङ्गं, प्रीतिसंबोध्यङ्गं, प्रस्रब्धिसंबोध्यङ्गं, समाधिसंबोध्यङ्गम्, उपेक्षासंबोध्यङ्गम्. एतान्य् उच्यन्ते सप्त बोध्यङ्गानि.
SK
[Dस्P_१२] तत्र कतम आर्याष्टाङ्गमार्गः? यदुत सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिः. एष उच्यत आर्याष्टान्गमार्गः.
SK
[Dस्P_१३] तत्र कतमच् छून्यताविमोक्षमुखम्? यदुत सर्वधर्मस्वलक्षणताशून्यप्रत्यवेक्षणचित्तस्थितिर् विमोक्षमुखम्. एतद् उच्यते शून्यताविमोक्षमुखम्.
SK
[Dस्P_१४] तत्र कतमद् अनिमित्तं विमोक्षमुखम्? यदुत सर्वधर्मस्वलक्षणतानिमित्तप्रत्यवेक्षणचित्तस्थितिर् अनिमित्तविमोक्षमुखम्. एतद् उच्यते ऽनिमित्तं विमोक्षमुखम्.
SK
[Dस्P_१५] तत्र कतमद् अप्रणिहितं विमोक्षमुखम्? यदुत सर्वधर्मानभिसंस्कारे ऽनभिसंस्कारचित्तस्थितिर् अप्रणिहितविमोक्षमुखम्. एतद् उच्यते ऽप्रणिहितं विमोक्षमुखम्.
SK
[Dस्P_१६] तत्र कतमानि चत्वारि ध्यानानि? यदुत विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति;
SK
स वितर्कविचाराणाम् उपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति;
SK
स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन्, सुखं च कायेन प्रतिसंवेदयति यत् तद् आर्या आचक्षते स्मृतिमान् सुखी सुखविहार्य् उपेक्षक इति, निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति;
SK
स सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. एतान्य् उच्यन्ते चत्वारि ध्यानानि.
SK
[Dस्P_१७] तत्र कतमानि चत्वार्य् अप्रमाणानि? यदुत मैत्री, करुणा, मुदिता, उपेक्षा. एतान्य् उच्यन्ते चत्वार्य् अप्रमाणानि.
SK
[Dस्P_१८] तत्र कतमाश् चतस्र आरूप्यसमापत्तयः? यदुताकाशानन्त्यायतनं, विज्ञानानन्त्यायतनम्, आकिञ्चन्यायतनं, नैवसंज्ञानासंज्ञायतनम्. एता उच्यन्ते चतस्र आरूप्यसमापत्तयः.
SK
[Dस्P_१९] तत्र कतमे ऽष्टौ विमोक्षाः? यदुत रूपी रूपाणि पस्यत्य्, अयं प्रथमो विमोक्षः;
SK
अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य्, अयं द्वितीयो विमोक्षः;
SK
शुभम् इत्य् एवाधिमुक्तो भवत्य्, अयं त्र्तीयो विमोक्षः;
SK
स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः;
SK
स सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पञ्चमो विमोक्षः;
SK
स सर्वशो विज्ञानानन्त्यातनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः;
SK
स सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्,अयं सप्तमो विमोक्षः;
SK
स सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधम् उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. एत उच्यन्ते ऽष्टौ विमोक्षाः.
SK
[Dस्P_२०] तत्र कतमा नवानुपूर्वविहारसमापत्तयः? यदुत
SK
विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीयं प्रथमा समापत्तिः;
SK
स वितर्कविचाराणाम् उपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरतीयं द्वितीया समापत्तिः;
SK
स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं च कायेन प्रतिसंवेदयति यत् तद् आर्या आचक्षते स्मृतिमान् सुखविहार्य् उपेक्षक इति निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरतीयं तृतीया समापत्तिः;
SK
स सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्सास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरतीयं चतुर्थी समापत्तिः;
SK
स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरतीयं पञ्चमी समापत्तिः;
SK
स सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरतीयं षष्ठी समापत्तिः;
SK
स सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरतीयं सप्तमी समापत्तिः;
SK
स सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरतीयम् अष्टमी समापत्तिः;
SK
स सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधम् उपसंपद्य विहरतीयं नवमी समापत्तिः. एता उच्यन्ते नवानुपूर्वसमापत्तयः.
SK
[Dस्P_२१] तत्र कतमा नव संज्ञाः? यदुत विध्मातकसंज्ञा, विपडुमकसंज्ञा, विलोहितकसंज्ञा, विपूयकसंज्ञा, विनीलकसंज्ञा, विखादितकसंज्ञा, विक्षिप्तकसंज्ञा, अस्थिकसंज्ञा, विदग्धकसंज्ञा. एता उच्यन्ते नव संज्ञाः.
SK
[Dस्P_२२] तत्र कतमा दशानुस्मृतयः? यदुत बुद्धानुस्मृतिर्, धर्मानुस्मृतिः, संघानुस्मृतिः, शीलानुस्मृतिस्, त्यागानुस्मृतिर्, देवतानुस्मृतिर्, उपशमानुस्मृतिर्, आनापानानुस्मृतिः, कायगतानुस्मृतिर्, मरणानुस्मृतिः. एता उच्यन्ते दशानुस्मृतयः.
SK
[Dस्P_२३] तत्र कतमे षट् संज्ञाकाराः? यदुतानित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, सर्वलोके ऽनभिरतिसंज्ञा. एत उच्यन्ते षट् संज्ञाकाराः.
SK
[Dस्P_२४] तत्र कतमद् धर्मज्ञानम्? यत् पञ्चानां स्कन्धानां परिकर्मितत्वे परिच्छेदज्ञानम् इदम् उच्यते धर्मज्ञानम्.
SK
[Dस्P_२५] तत्र कतमद् अन्वयज्ञानम्? यच् छक्षुर् अनित्यम् इति ज्ञानम्, एवम् एव श्रोत्रं, घ्राणं, जिह्वा, कायो, मनो, रूपं, शब्दो, गन्धो, रसः, स्प्रष्टव्यं, धर्मा अनित्या इति यज् ज्ञानम् इदम् उच्यते ऽन्वयज्ञानम्.
SK
[Dस्P_२६] तत्र कतमत् परचित्तज्ञानम्? यत् परसत्त्वानं परपुद्गलानां चेतसैव चेतसि चेतसिकेषु च धर्मेष्व् अविचिकित्सितं ज्ञानम् इदम् उच्यते परचित्तज्ञानम्.
SK
[Dस्P_२७] तत्र कतमत् संवृतिज्ञानम्? यत् प्रतिपज्ज्ञानम् इदम् उच्यते संवृतिज्ञानम्.
SK
[Dस्P_२८] तत्र कतमद् दुःखज्ञानम्? यद् दुःखस्योत्पादस्थितिज्ञानम् इदम् उच्यते दुःखज्ञानम्.
SK
[Dस्P_२९] तत्र कतमत् समुदयज्ञानम्? यत् समुदयस्य प्रहाणज्ञानम् इदम् उच्यते समुदयज्ञानम्.
SK
[Dस्P_३०] तत्र कतमन् निरोधज्ञनम्? यद् दुःखनिरोधज्ञानम् इदम् उच्यते निरोधज्ञानम्.
SK
[Dस्P_३१] तत्र कतमन् मार्गज्ञानम्? यद् आर्याष्टाङ्गमार्गज्ञानम् इदम् उच्यते मार्गज्ञानम्.
SK
[Dस्P_३२] तत्र कतमत् क्षयज्ञानम्? यद् रागद्वेषमोहक्षयज्ञानम् इदम् उच्यते क्षयज्ञानम्.
SK
[Dस्P_३३] तत्र कतमद् अनुत्पादज्ञानम्? यद् भवगत्यनुत्पदज्ञानम् इदम् उच्यते ऽनुत्पादज्ञानम्.
SK
[Dस्P_३४] तत्र कतमद् यथाभूतज्ञानम्? यत् तथागतस्य सर्वज्ञताज्ञानम् इदम् उच्यते यथाभूतज्ञानम्.
SK
[Dस्P_३५] तत्र कतमद् अनाज्ञातमाज्ञास्यामीन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् अनभिसमितानां श्रद्धेन्द्रियं, वीर्येन्द्रियं, स्मृतीन्द्रियं, समाधीन्द्रियं, प्रज्ञेन्द्रियं इदम् उच्यते ऽनाज्ञातमाज्ञास्यामीन्द्रियम्.
SK
[Dस्P_३६] तत्र कतमद् आज्ञेन्द्रियम्? यच् छैक्षाणां पुद्गलानाम् अभिसमितानां श्रद्धेन्द्रियं वीर्येन्द्रियं, स्मृतीन्द्रियं, समाधीन्द्रियं, प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियम्.
SK
[Dस्P_३७] तत्र कतमद् आज्ञातावीन्द्रियम्? यद् अशैक्षाणां पुद्गलानां तद्यथार्हतां, प्रत्येकबुद्धानां, दशभूमिस्थितानां बोधिसत्त्वानां, तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रद्धेन्द्रियं, वीर्येन्द्रियं, स्मृतीन्द्रियं, समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यत आज्ञातावीन्द्रियम्.
SK
[Dस्P_३८] तत्र कतमः सवितर्कः सविचारः समाधिः? विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरत्य् अयम् उच्यते सवितर्कः सविचारः समाधिः.
SK
[Dस्P_३९] तत्र कतमो वितर्को विचारमात्रः समाधिः? या प्रथमध्यानस्य द्वितीयध्यानस्य चान्तरिकायम् उच्यते ऽवितर्को विचारमात्रः समाधिः.
SK
[Dस्P_४०] तत्र कतमो ऽवितर्को ऽविचारः समाधिः? प्रथमं ध्यानम् उपादाय यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिर् एष उच्यते ऽवितर्को ऽविचारः समाधिः.
SK
[Dस्P_४१] तत्र कतमान्य् अष्टाव् अभिभ्वायतनानि? यदुताध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि, तानि रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यत्य्, एवंसंज्ञी भवतीदं प्रथमम् अभिभ्वायतनम्;
SK
अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति महद्गतानि सुवर्णदुर्वर्णानि, तानि रूपण्य् अभिभूय जानात्य् अभिभूय पश्यत्य्, एवंसंज्ञी भवतीदं द्वितीयम् अभिभ्वायतनम्;
SK
अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि, तद्यथोमापुष्पं संपन्नं वा बारणसेयं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम्, एवम् एवाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भसानीदं तृतीयम् अभिभ्वायतनम्;
SK
अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि, तद्यथा कर्णिकारपुष्पं संपन्नं वा बाराणसेयं वस्त्रं पीतं पीतवर्णं पीतनिदर्शनं पीतनिर्भासम्, एवम् एवाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानीदं चतुर्थम् अभिभ्वायतनम्;
SK
अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, तद्यथा बन्धुजीवकपुष्पं संपन्नं वा बाराणसेयं वस्त्रं लोहितं लोहितवर्णं लोहितनिदर्शनं लोहितनिर्भासम्, एवम् एवाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानीदं पञ्चमम् अभिभ्वायतनम्;
SK
अध्यात्मम् अरूपसंज्नी बहिर्धा रूपाणि पश्यत्य् अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानि, तद्यथोशनस्तारकया वर्णो ऽवदातो ऽवदातवर्णो ऽवदातनिदर्शनो ऽवदातनिर्भास, एवम् एवाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अवदातान्य् अवदातवर्णान्य् अवदातनिदर्शनान्य् अवदातनिर्भासानीदं षष्ठम् अभिभ्वायतनम्;
SK
स सर्वशो रूपसंज्ञानं समतिक्रमत् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरतीदं सप्तमम् अभिभ्वायतनम्;
SK
स सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानम् इती विज्ञानानन्त्यायतनम् उपसंपद्य विहरतीदम् अष्टमम् अभिभ्वायतनम्. एतान्य् उच्यन्ते ऽष्टाव् अभिभ्वायतनानि.
SK
[Dस्P_४२] तत्र कतमानि दश कृत्स्नायतनानि? यदुत पृथिवीकृत्स्नम्, अप्कृत्स्नं, तेजःकृत्स्नं, वायुकृत्स्नम्, आकाशकृत्स्नं, नीलकृत्स्नं, पीतकृत्स्नं, लोहितकृत्स्नम्, अवदातकृत्स्नं, विज्ञानकृत्स्नम्. एतान्य् उच्यन्ते दश कृत्स्नायतनानि:
SK
सर्वधातून् पृथिवीधाताव् अधिमुच्य सर्वम् अपि पृथिवीधातुर् एवैकधातुर् भवति;
SK
सर्वधातून् अब्धाताव् अधिमुच्य सर्वम् अप्य् अब्धातुर् एवैकधातुर् भवति;
SK
सर्वधातूंस् तेजोधाताव् अधिमुच्य सर्वम् अपि तेजोधातुर् एवैकधातुर् भवति;
SK
सर्वधातून् वायुधाताव् अधिमुच्य सर्वम् अपि वायुधातुर् एवैकधातुर् भवति;
SK
सर्वधातून् आकाशधाताव् अधिमुच्य सर्वम् अप्य् आकाशधातुर् एवैकधातुर् भवति;
SK
सर्वधातून् नीले धिमुच्य सर्वम् अपि नीलम् एव भवति;
SK
सर्वधातून् पीते ऽधिमुच्य सर्वम् अपि पीतम् एव भवति;
SK
सर्वधातून् लोहिते ऽधिमुच्य सर्वम् अपि लोहितम् एव भवति;
SK
सर्वधातून् अवदाते ऽधिमुच्य सर्वम् अप्य् अवदातम् एव भवति;
SK
सर्वधातून् विज्ञाने ऽधिमुच्य सर्वम् अपि विज्ञानम् एवैकधातुर् भवति.
SK
पृथिव्यप्तेजोवाय्वाकाशनीलपीतलोहितावदातविज्ञानं सर्वम् अप्य् एकम् एव भवतीत्य् एतान्य् उच्यन्ते कृत्स्नायतनानि.
SK
निरन्तरकृत्स्नस्फरणाद् एतान्य् उच्यन्ते कृत्स्नायतनानि. एकैकं चायतनं सर्वं भवति, तस्माद् उच्यन्ते कृत्स्नायतनानीति.
SK
[Dस्P_४३] तत्र कतमा अष्टादश शून्यताः? यदुताध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
SK
तत्र कतमाध्यात्मशून्यता? आध्यात्मिका धर्मा उच्यन्ते, यदुत चक्षुः, श्रोत्रं, घ्राणं, जिह्वा, कायो, मनः. तत्र चक्षुश् चक्षुषा शून्यम् अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. एवम् एव श्रोत्रं, घ्राणं, जिह्वा, कायो, मनो मनसा शून्यम् अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽध्यात्मशून्यता.
SK
तत्र कतमा बहिर्धाशून्यता? बाह्या धर्मा उच्यन्ते यदुत रूपं, शब्दो, गन्धो, रसः, स्प्रष्टव्यं, धर्माः. तत्र रूपाणि रूपैः शून्यान्य् अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. एवम् एव शब्दो, गन्धो, रसः, स्प्रष्टव्यं, धर्मा धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते बहिर्धाशून्यता.
SK
तत्र कतमाध्यात्मबहिर्धाशून्यता? अध्यात्मबाह्या धर्मा उच्यन्ते षड् आध्यात्मिकान्य् आयतनानि, षड् बाह्यान्य् आयतनानि. तत्राध्यात्मिका धर्मा आध्यात्मिकैर् धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. बाह्या धर्मा बाह्यैर् धर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽध्यात्मबहिर्धाशून्यता.
SK
तत्र कतमा शून्यताशून्यता? या सर्वधर्मशून्यता तया सर्वधर्मशून्यतया सर्वधर्मशून्यता शून्याकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा.
SK
तत्र कतमा महाशून्यता? पूर्वा दिक् पूर्वया दिशा शून्याकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. एवम् एव दक्षिणा, पश्चिमा, उत्तरा दिक्, चतस्रो विदिशस्, ता अष्टौ दिश, उपरिस्टाद्दिग् उपरिष्टाद्दिशा शून्या, अधस्ताद्दिग् अधस्ताद्दिशा शून्याकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते महाशून्यता.
SK
तत्र कतमा परमार्थशून्यता? परमार्थ उच्यते निर्वाणम्. तत्र निर्वाणं निर्वाणेन शून्यम् अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते परमार्थशून्यता.
SK
तत्र कतमा संस्कृतशून्यता? संस्कृतम् उच्यते कामधातू, रूपधातुर्, अरूपधातुः. तत्र कामधातुः कामधातुना शून्यो ऽकूटस्थाविनाशिताम् उपादाय. एवम् एव रूपधातू रूपधातुना शून्यो, ऽरूपधातुर् अरूपधातुना शून्यः; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते संस्कृतशून्यता.
SK
तत्र कतमासंस्कृतशून्यता? असंस्कृतम् उच्यते यस्य धर्मस्य नोत्पादो, न स्थितिर्, न निरोधो, नान्यथात्वम्. तत्रासंस्कृतम् असंस्कृतेन शून्यम् अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽसंस्कृतशून्यता.
SK
तत्र कतमात्यन्तशून्यता? यस्य धर्मस्य नोत्पाद उपलभ्यते ऽकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽत्यन्तशून्यता.
SK
तत्र कतमानवराग्रशून्यता? यस्य धर्मस्य नागतिर् उपलभ्यते ऽकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽनवराग्रशून्यता.
SK
तत्र कतमानवकारशून्यता? यत्र न कस्यचिद् धर्मस्यावकारो ऽकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽनवकारशून्यता.
SK
तत्र कतमा प्रकृतिशून्यता? या सर्वधर्माणां प्रकृतिः संस्कृतानां वासंस्कृतानां वा सा न श्रावकैः कृता, न प्रत्येकबुद्धैः कृता, न बोधिसत्त्वैः कृता, न बुद्धैर् भगवद्भिः कृताकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते प्रकृतिशून्यता.
SK
तत्र कतमा स्वलक्षणशून्यता? तत्र रूप्यलक्षणं रूपम्, अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्कारलक्षणाः संस्काराः, विजाननलक्षणं विज्ञानं पेयालं यावद् यच् च संस्कृतानां धर्माणां लक्षणं यच् चासंस्कृतानां धर्माणां लक्षणं सर्व एते धर्माः स्वेन स्वेन लक्षणेन शून्या अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते स्वलक्षणशून्यता.
SK
तत्र कतमा सर्वधर्मशून्यता? सर्वधर्मा उच्यन्ते पञ्च स्कन्धा, द्वादशायतनान्य्, अष्टादश धातवो, रूपिणो धर्मा, अरूपिणो धर्माः, संस्कृता धर्मा, असंस्कृता धर्माः. तत्र सर्वधर्माः सर्वधर्मैः शून्या अकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते सर्वधर्मशून्यता.
SK
तत्र कतमानुपलम्भशून्यता? सापि सर्वधर्मानुपलम्भो ऽकूटस्थाविनाशिताम् उपादाय; तत् कस्माद् धेतोः? प्रकृतिर् अस्यैषा. इयम् उच्यते ऽनुपलम्भशून्यता.
SK
तत्र कतमाभावशून्यता? यत्र न कश्चिद् भाव उपलभ्यत इयम् उच्यते ऽभावशून्यता.
SK
तत्र कतमा स्वभावशून्यता? यः सांयोगिकस्य स्वभावाभाव इयम् उच्यते स्वभावशून्यता.
SK
तत्र कतमाभावस्वभावशून्यता? नास्ति सांयोगिकस्य कश्चित् स्वभावः. इयम् उच्यते ऽभावस्वभावशून्यता.
SK
पुनर् अपरं शारद्वतीपुत्र भावो भावेन शून्यो, ऽभावो ऽभावेन शून्यः, स्वभावः स्वभावेन शून्यः, परभावः परभावेन शून्यः.
SK
तत्र कतमो भावः? भाव उच्यते पञ्च स्कन्धा यदुत रूपं, वेदना, संज्ञा, संस्कारा, विज्ञानम्. तत्र भावो भावेन शून्यः.
SK
कथम् अभावो ऽभावेन शून्यः? अभाव उच्यते ऽसंस्कृतम्. तत्रासंस्कृतम् असंस्कृतेन शून्यम्, एवम् अभावो ऽभावेन शून्यः.
SK
कथं स्वभावः स्वभावेन शून्यः? या सर्वधर्माणां शून्यता सा न ज्ञानेन कृता न दर्शनेन कृता न केनचित् कृता. अयं स्वभाव उच्यते स्वभावेन शून्यः.
SK
कथं परभावः परभावेन शून्यः? योत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां धर्मस्थितिता, धर्मधातुर्, धर्मानवद्यता, तथताविपर्यासतथतानन्यतथता, भूतकोटिर् यश् चेमेषां परेण शून्यः परभावः स उच्यते परभावेन शून्यः.
SK
एते शारद्वतीपुत्र ते सर्वधर्मा येष्व् अनभिनिविष्टो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां पारं गतः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
SK
दशसाहस्रिकायाः प्रज्ञापारमिताया निदानपरिवर्तो नाम प्रथमः.
SK
दशसाहस्रिका प्रज्ञापारमिता, द्वितीयो ऽध्यायः.
SK
[Dस्P_४४] ततो भगवान् आयुष्मन्तं शारद्वतीपुत्रम् अवोचत्: तत्र कतमानि शारद्वतीपुत्र तथागतस्य दश बलानि? यदुत
SK
स्थानं स्थानतो यथाभूतं प्रजानात्य् अस्थानम् अस्थानतो यथाभूतं प्रजानाति;
SK
अतीतानागतप्रत्युत्पन्नानां कर्मणां कर्मसमादानानां च स्थानशो हेतुशो विपाकं यथाभूतं प्रजानाति;
SK
अनेकधातुनानाधातुलोकं यथाभूतं प्रजानाति;
SK
स परसत्त्वानां परपुद्गलानां नानाधिमुक्तिकताम् अनेकाधिमुक्तिकतां यथाभूतं प्रजानाति;
SK
परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरत्वं यथाभूतं प्रजानाति;
SK
सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति;
SK
इन्द्रियबलबोध्यङ्गविमोक्षध्यानसमाधिसमापत्तीनां संक्लेशव्यवदानव्युत्थानज्ञानं यथाभूतं प्रजानाति;
SK
अनेकविधं पूर्वनिवासम् अनुस्मरति;
SK
सत्त्वानां च्युत्युपपत्तिं यथाभूतं प्रजानाति;
SK
आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्योपसंपद्य विहरति: क्षीना मे जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानामीति. इमानि शारद्वतीपुत्र तथागतस्य दश बलानि.
SK
[Dस्P_४५] तत्र कतमानि शारद्वतीपुत्र चत्वारि वैशारद्यानि?
SK
सम्यक्संबुद्धस्य मे प्रतिजानत इमे धर्मा अनभिसंबुद्धा इत्य् अत्र वत मां श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, निमित्तम् एतद् अहम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तो विहराम्य्, उदारम् आर्षभं स्थानां प्रतिजानामि, पर्षदि सम्यक् सिंहनादं नदामि, ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा लोके सह धर्मेणेति;
SK
क्षीणास्रवस्य मे प्रतिजानत इम आस्रवा अपरिक्षीणा इत्य् अत्र वत मां श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, निमित्तम् एतद् अहम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तो विहराम्य्, उदारम् आर्षभं स्थानं प्रतिजानामि, पर्षदि सम्यक् सिंहनादं नदामि, ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा लोके सह धर्मेणेति;
SK
ये च मयान्तरायिका धर्मा आख्यातास् ते प्रतिसेवतो नालम् अन्तरायायेति, नेदं स्थानं विद्यत इत्य् अत्र वत मां श्रमणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, निमित्तम् एतद् अहम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तो विहराम्य्, उदारम् आर्षभं स्थानं प्रतिजानामि, पर्षदि सम्यक् सिंहनादं नदामि, ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितपूर्वं श्रमणेन व ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा लोके सह धर्मेणेति;
SK
या तेन श्रावकेभ्यः प्रतिपद् आख्यातार्यनैर्याणिका नैर्वेधिका तत्करस्य सम्यग् दुःखक्षयाय तां प्रतिपद्यमानो न निर्यायाद् सम्यग् दुःखक्षयायेति, नेदं स्थानं विद्यत इत्य् अत्र वत मां श्रमणो व ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्तम् एतन् न समनुपश्यामि, निमित्तम् एतद् अहम् असमनुपश्यन् क्षेमप्राप्तो विहराम्य् अभयप्राप्तो वैशारद्यप्राप्तो विहराम्य्, उदारम् आर्षभं स्थानं प्रतिजानामि, पर्षदि सम्यक् सिंहनादं नदामि, ब्राह्मं चक्रं प्रवर्तयाम्य् अप्रवर्तितपूर्वं श्रमणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा लोके सह धर्मेणेति. एतान्य् उच्यन्ते चत्वारि वैशारद्यानि.
SK
[Dस्P_४६] तत्र कतमाश् चतस्रः प्रतिसंविदः? यदुत अर्थप्रतिसंविद्, धर्मप्रतिसंविन्, निरुक्तिप्रतिसंवित्, प्रतिभानप्रतिसंवित्. एता उच्यन्ते चतस्रः प्रतिसंविदः.
SK
[Dस्P_४७] तत्र कतमा महामैत्री? या तथागतस्य सर्वसत्त्वेषु शत्रौ च मित्रे च समवृतितेयम् उच्यते महामैत्री.
SK
[Dस्P_४८] तत्र कतमा महाकरुना? निःसत्त्वेषु सत्त्वेषु यो मैत्र्यत्याग इयम् उच्यते महाकरुणा.
SK
[Dस्P_४९] तत्र कतमे ऽष्टादशावेनिका बुद्धधर्माः? यदुत
SK
नास्ति तथागतस्य स्खलितं; नास्ति रवितं; नास्ति मुषितस्मृतिता; नास्ति नानात्वसंज्ञा; नास्त्य् असमाहितचित्तम्; नास्त्य् अप्रतिसंख्यायोपेक्षा; नास्ति छन्दस्य हानिर्; नास्ति वीर्यस्य हानिर्; नास्ति स्मृतेर् हानिर्; नास्ति समाधेर् हानिर्; नास्ति प्रज्ञाया हानिर्; नास्ति विमुक्तेर् हानिर् नास्ति विमुक्तिज्ञानदर्शनस्य हानिः; सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति; सर्वं वाक्कर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति; सर्वं मनःकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति; अतीते ऽध्वन्य् असङ्गम् अप्रतिहतं ज्ञानदर्शनं प्रवर्तते; अनागते ऽध्वन्य् असङ्गम् अप्रतिहतं ज्ञानदर्शनं प्रवर्तते; प्रत्युत्पन्ने ऽध्वन्य् असङ्गम् अप्रतिहतं ज्ञानदर्शनं प्रवर्तते. इम उच्यन्ते ऽष्टादशावेणिका बुद्धधर्माः.
SK
[Dस्P_५०] तत्रा कतमा सर्वज्ञता? यद् द्वादशसु श्रावकप्रत्येकबुद्धायतनेष्व् एकान्तिकं पुद्गलनैरात्म्यज्ञानम् इयम् उच्यते सर्वज्ञता.
SK
[Dस्P_५१] तत्र कतमा मार्गाकारज्ञता? यद् बोधिसत्त्वस्य त्रियानमार्गज्ञस्य श्रावकप्रत्येकबुद्धयानासंतुष्टस्य बोधिसत्त्वयानेन निष्क्रमणम् इयम् उच्यते मार्गाकारज्ञता.
SK
[Dस्P_५२] तत्र कतमा सर्वाकारज्ञता? यत् तथागतस्य सर्वधर्माणां सर्वेषु त्रैकालिकाकारेष्व् अविचिकित्सितं ज्ञानम् इयम् उच्यते सर्वाकारज्ञता.
SK
[Dस्P_५३] तत्र कतमः षट् परमिताः? यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. इमा उच्यन्ते षट् पारमिताह्.
SK
[Dस्P_५४] तत्र कतमा षड् अभिज्ञाः? यदुत
SK
ऋद्धिविधिज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा; दिव्यचक्षुर्ज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा; दिव्यश्रोत्रज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा; परचित्तज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा; पूर्वनिवासानुस्मृतिज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा; आस्रवक्षयज्ञानसाक्षात्कर्तव्यज्ञानाभिज्ञा. इमा उच्यन्ते षड् अभिज्ञा.
SK
[Dस्P_५५] तत्र कतमानि पञ्च चक्षूंषि? यदुत मांसचक्षुर्, दिव्यचक्षुः, प्रज्ञाचक्षुर्, धर्मचक्षुर्, बुद्धचक्षुः. इमान्य् उच्यन्ते पञ्च चक्षूंषि.
SK
[Dस्P_५६] तत्र कतमानि तथागतस्य द्वात्रिंशन् महापुरुषलक्षणानि? यदुत
SK
भगवान् सुप्रतिष्ठितपादः. तत्रायं सुप्रतिष्ठितपादः: सकलाभ्यां पादतलाभ्यां भूमिं संस्पृशति तद्यथा करण्डतलं समतलावलम्बनात् सुसम आधारे ऽवस्थापितं सकलेनाधस्तलेन भूमिं संस्पृशत्य् एवम् एव भगवान् सुप्रतिष्ठितपादः;
SK
भगवान् समन्तनेमिकः. तत्रायं समन्तनेमिकह्: अधस्तात् पादतलयोश् चक्रे जाते सहस्रारे सनभिके सनेमिके सर्वाकारपरिपूरके;
SK
भगवान् मृदुतरुणहस्तपादः. तत्रेयं मृदुतरुणहस्तपादता: तद्यथा शाल्मलिकम्बलं कर्पासकम्बलं वा, यादृशम् अन्यपुरुषाणां नास्ति;
SK
भगवान् दीर्घाङ्गुलिः. तत्रेयं दीर्घाङ्गुलिता: तस्य हस्तपादाङ्गुलयो ऽतिदीर्घा, यादृशम् अन्यपुरुषाणां नास्ति;
SK
भगवान् जलहस्तपादह्: तस्य हस्तपादयोर् जालान्य् अवनद्धानि, यादृशम् अन्यपुरुषाणां नास्ति;
SK
भगवान् आयतपार्ष्णिः. तत्रायम् आयतपार्ष्णिः: तस्य पादपाऋष्नितले आयते, यादृशम् अन्यपुरुषाणां नास्ति;
SK
भगवान् उच्छङ्खपादः. तत्रेयम् उच्छङ्खपादता: आयतपार्ष्ण्या संप्रयोग आयतपार्ष्णेर् गुल्फस्य च सन्धिर् अदृश्यत्वेन संयुज्यते, यादृशम् अन्यपुरुषाणां नास्ति;
SK
भगवान् ऐणेयजङ्घः. तत्रायम् ऐणेयजङ्घः: तस्य जङ्घे अनुपूर्वतनुके भूत्वा सम्यग् अनुपूर्वे भवतः;
SK
भगवान् स्थितानवनताजानुप्रलम्बबाहुः. तत्रायं स्थितानवनताजानुप्रलम्बबाहुर्: भगवान् स्थितको ऽनवनतकाय उभाभ्यां पाणितलाभ्यां जानुमण्डले परिस्पृशति संमृशति;
SK
भगवान् कोशगतवस्तिगुह्यः. तत्रेयं कोशगतवस्तिगुह्यता: तद्यथा वरगोत्र आजानेयो महाहस्त्य् आजानेयो वाश्वः;
SK
भगवान् प्रदक्षिणावर्तैकैकरोमः. तत्रेयं प्रदक्षिणावर्तैकैकरोमता: तस्यैकैकरोमकूपेभ्य एकैकानि रोमाणि जातानि नीलानि कुण्डलावर्तानि स्निग्धकोमलानि;
SK
भगवान् ऊर्ध्वाग्ररोमः. तत्रेयम् ऊर्ध्वाग्ररोमता: तस्य शिरःकाये केशरोमाणि जातान्य् ऊर्ध्वम् आकुञ्चितानि नीलानि कुण्डलावर्तानि प्रदक्षिणावर्तानि;
SK
भगवान् सूक्ष्मस्निग्धकोमलच्छविः. तत्रेयं सुक्ष्मस्निग्धकोमलच्छविता: तस्य कये रजोजलं नावतिष्ठति;
SK
भगवान् सुवर्णवर्णः. तद्यथा नानारत्नखचितो जाम्बुनदसुवर्णयूप एवं सुरूपः सुदर्शनस्, तस्माद् उच्यते सुवर्णवर्णः;
SK
भगवान् सप्तोत्सदः. तत्रेयं सप्तोत्सदता: तस्य द्वयोः पदयोर् द्वाव् उत्सदौ सुरूपौ सुदर्शनौ परिवृद्धमांसलोहितौ; एवम् एव द्वयोर् हस्तयोर् द्वाव् उत्सदौ सुरूपौ सुदर्शनौ परिवृद्धमांसलोहितौ, द्वयोर् अंसयोर् द्वाव् उत्सदौ, कन्धरोपरि चैक उत्सदः सुरूपः सुदर्शनः परिवृद्धमांसलोहितः;
SK
भगवान् सुसंवृत्तस्कन्धः;
SK
भगवंश् चितान्तरांसः;
SK
भगवान् स्वृजुजातगात्रः;
SK
भगवान् न्यग्रोधपरिमण्डलः. तत्रेयं न्यग्रोधपरिमण्डलता: यावान् आयामतस् तावान् विस्तारतो, यावान् विस्तारतस् तावान् आयामतः;
SK
भगवान् सिंहहनुः;
SK
भगवांश् चत्वारिंशद्दन्तः;
SK
भगवान् अविरलदन्तः;
SK
भगवान् शुक्लतीक्ष्णोन्नताग्रदन्तः;
SK
भगवान् रसाग्रवान्. स ऋजुकण्ठनाडिको ऽजिह्मम् असङ्गं गिलनसमर्थो ऽस्ति;
SK
भगवान् प्रभूततनुजिह्वः. तत्रेयम् प्रभूततनुजिह्वता: मुखाज् जिह्वां निर्णमय्योभे नासिकाविवरे उभे चक्षुर्विवरे उभे कर्णविवरे स्पृशति परिमृशति, केशपर्यन्तं सर्वं मुखमण्डलम् आच्छादयति;
SK
भगवान् ब्रह्मस्वरः;
SK
भगवान् विशालगोपक्ष्मनेत्रः;
SK
भगवान् अभिनीलनेत्रः;
SK
भगवान् परिसमाप्तनेत्रपिण्डः;
SK
भगवान् व्यामप्रभः;
SK
भगवान् पूर्णचन्द्रनिभाननः;
SK
भगवतो भ्रुवोर् अन्तर ऊर्णा जाता कर्पासवत् कोमला कुन्दपुष्पचन्द्रशङ्खपद्मकेसरगोक्षीरावश्यायपुष्पसदृशा;
SK
भगवान् उष्णीसशीर्षः.
SK
एतान्य् उच्यन्ते द्वात्रिंशन् महापुरुषलक्षणानि.
SK
[Dस्P_५७] तत्र कतमान्य् अशीतिर् अनुव्यञ्जनानि? यदुत:
SK
बुद्धा भगवन्त आताम्रनखा, नारायणवत् सुसंहतगत्राश्, चारुनिष्पन्नजानुमण्डलाः, शुचिगात्रा, मृदुगात्राः, कोमलगात्राः, स्निग्धगात्रा, अजिह्मगात्रा, दीर्घानुपूर्वाङ्गुलयः;
SK
बुद्धा भगवन्तो वृत्ताङ्गुलयो, ऽनुपूर्वाङ्गुलयो, गूढशिरा, गूढगुल्फः, सुरूपगात्राः, सुविभक्तगात्राः, सुविशुद्धायतनाः, सुविशुद्धज्ञानाः, साक्षात्संपन्नेर्यापथाः;
SK
बुद्धा भगवन्तः श्रीमन्तो बुद्धिमन्तो, दर्शनीया, नात्यायतवदना, अजिह्मवदना, बिम्बवद् रक्तोष्ठाश्, चितवदना, गम्भीरस्वरा, गम्भीरनाभयः, सुवृत्तनाभयः, प्रदक्षीणवर्तनाभयश्, चितपाणिपादाः;
SK
बुद्धा भगवन्तो यथेप्सितपाणिपादाः, समपाणिलता, अव्यवहितपाणिलेखा, आयतपाणिलेखा, व्यपगतमलदुर्गन्धगात्रा, भास्वरवर्णाश्, चार्वायतनमुखाश्, चन्द्रसदृशमुखाः, पूर्वाभिलापिनो, ऽपगतभ्रूकुटिमुखाः; सर्वरोमकूपेभ्यो मनापो गन्धो निर्गच्छति; सुगन्धमुखा भवन्ति, सिंहविक्रान्तगामिनो, नागविक्रान्तगामिनो, हंसविक्रान्तगामिनश्, छत्त्राकारोत्तमाङ्गा, मधुरसर्वाकारपरिसमाप्तघोषास्, तीक्ष्णदंष्ट्रास्, तुङ्गनासा, रक्तजिह्वाः;
SK
बुद्धा भगवन्तस् तनुजिह्वा, अभिनीलरोमाः, शुचिरोमा, विशालनेत्राः, परिपूर्णविवरा, लोहितपाणिपादलता, नाभिनालरहिता, अभुग्नकुक्षयः, क्षामोदराः;
SK
बुद्धा भगवन्तो ऽवलितकुक्षयः, शुभसन्धयश्, चितसन्धयः, परिशुद्धपाणिपादा, व्यामप्रभाः, प्रभास्वरगामिनः, कायदर्शनतृप्तदेवमनुष्याः, सर्वप्राण्यविमानितदर्शनाः, सत्त्वानुशासकास्; तेषां वाग् अनुकूलवर्तिपर्षदो बहिर् न निर्गच्छति; सिंहपूर्वार्धकाया भवन्ति, सुसंबद्धगात्रा, गूढशिखा, अभिनीलश्लक्ष्नचितकेशा, अनाकुलकेशा, उद्वर्तितसुकुञ्चितकेशा, असंलुलितकेशाः, श्रीवत्सविभूषितोरस्काः, श्रियोज्ज्वलपाणिपादलक्षणाः;
SK
बुद्धानां भगवतां हिङ्गुलमनःशिलाचीनपिष्टवैडूर्यताम्रकिट्टवर्णैर् लिखितानीव लक्षणानि. एतन्य् उच्यन्ते ऽशीतिर् अनुव्यञ्जनानि.
SK
[Dस्P_५८] तत आयुष्मान् शारद्वतीपुत्रो भगवन्तम् एतद् अवोचत्: सचेद् भदन्त भगवन् बोधिसत्त्वा महासत्त्वाः सर्वधर्मेष्व् अनभिनिविष्टास्, तेन बोधिसत्त्वाः सर्वधर्मान् पृथङ् न समनुपश्यन्ति यदुतेमे धर्माः कुशला इमे धर्मा अकुशला, इमे धर्मा व्याकृता इमे धर्मा अव्याकृता, इमे धर्मा लौकिका इमे धर्मा लोकोत्तरा, इमे धर्माः सास्रवा इमे धर्मा अनास्रवा, इमे धर्माः संस्कृता इमे धर्मा असंस्कृता, इमे धर्माः साधारणा इमे धर्मा असाधारणा इत्य्, असंपश्यमानाश् च कथं बोधिमार्गं प्रतिपद्यन्ते, ऽप्रतिपद्यमानाश् च कथं सर्वज्ञताम् अनुप्राप्नुवन्ति?
SK
एवम् उक्ते भगवान् अयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: यद् अपि शारद्वतीपुत्र बोधिसत्त्वाः सर्वधर्मान् पृथक् पश्यन्ति तत् संवृतितः, परमार्थतस् तु नास्ति.
SK
आह: कथं भगवन् संवृतितः सत् परमार्थतो नास्ति?
SK
[Dस्P_५९] भगवान् अवोचत्: यस्मिन् काले शारद्वतीपुत्र बोधिसत्त्व एवं चिन्तयति: तत्र कतमे कुशला लौकिका धर्मा इति, स एवं चिन्तयति: एते कुशला लौकिका धर्मा यदुत पितृज्ञता, मातृज्ञता, श्रमण्यता, ब्राह्मण्यता, कुलज्येष्ठापचायिता, दानमयं पुण्यक्रियावस्तु, शीलमयं पुण्यक्रियावस्तु, भावनामयं पुण्यक्रियावस्तु, वैयावृत्यसहगतम् उपायकौशल्यपुण्यं, दश कुशलकर्मपथा, लौकिका विध्मातकसंज्ञा, विपडुमकसंज्ञा, विलोहितकसंज्ञा, विपूयकसम्ज्ञा, विनीलकसंज्ञा, विखादितकसंज्ञा, विक्षिप्तकसंज्ञा, अस्थिकसंज्ञा, विदग्धकसंज्ञा; एवम् एव चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयो, बुद्धानुस्मृतिर्, धर्मानुस्मृतिः, संघानुस्मृतिः, शीलानुस्मृतिस्, त्यागानुस्मृतिर्, देवतानुस्मृतिर्, उपशमानुस्मृतिर्, आनापानानुस्मृतिः, कायगतानुस्मृतिर्, मरणानुस्मृतिर् इति.
SK
[Dस्P_६०] तत्र कतमे ऽकुशला धर्मा इति चिन्तयित्वा स एवं चिन्तयति: एते ऽकुशला धर्मा यदुत प्राणातिपातो, ऽदत्तादानं, काममिथ्याचारो, मृषावादः, पैशुन्यं, पारुष्यं, संभिन्नप्रलापो, ऽभिध्या, व्यापादो, मिथ्यादृष्टिः, क्रोध, उपनाहो, म्रक्षः, प्रदासो, विहिंसेर्ष्या, मात्सर्यं, मान इति.
SK
[Dस्P_६१] तत्र कतमे ऽव्याकृता धर्मा इति चिन्तयित्वा स एवं चिन्तयति: एते ऽव्याकृता धर्मा यदुताव्याकृतानि कायकर्माण्य्, अव्याकृतानि वाक्कर्माण्य्, अव्याकृतानि मनःकर्माण्य्, अव्याकृतानि चत्वारि महाभूतान्य्, अव्याकृतानि पञ्चेन्द्रियाण्य्, अव्याकृताः पञ्च स्कन्धा, द्वादशायतनान्य्, अष्टादश धातवो, विपाकश् चेति.
SK
[Dस्P_६२] तत्र कतमे लोकोत्तरा धर्मा इति चिन्तयित्वा स एवं चिन्तयति: एते लोकोत्तरा धर्मा यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य्, आर्याष्टाङ्गमार्गस्, त्रीणि विमोक्षमुखान्य्, अनाज्ञातमाज्ञास्यामीन्द्रियम्, आज्ञेन्द्रियम्, आज्ञातावीन्द्रियं, सवितर्कः सविचारः समाधिर्, अवितर्को विचारमात्रः समाधिर्, अवितर्को ऽविचारः समाधिर्, अध्यात्मशून्यता यावद् अभावस्वभावशून्यता, तथागतस्य दश बलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदो, महामैत्री, महाकरुणा, अष्टादशावेणिका बुद्धधर्मा इति.
SK
[Dस्P_६३] तत्र कतमे सास्रवा धर्माः? त्रैधतुकपर्यापन्नाः पञ्च स्कन्धा, द्वादशायतनान्य्, अष्टादश धातवश्, चत्वरि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तय एते उच्यन्ते सास्रवा धर्माः.
SK
[Dस्P_६४] तत्र कतमे ऽनास्रवा धर्माः? चत्वारि स्मृत्युपस्थानानि पेयालं यावद् अष्टादशावेणिका बुद्धधर्मा एते ऽनास्रवा धर्माः.
SK
[Dस्P_६५] तत्र कतमे संस्कृता धर्माः? यदुत कामधातू, रूपधातुर्, अरूपधातुर्, एवम् एव पञ्च स्कन्धाश्, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयश्, चत्वारि स्मृत्युपस्थानानि पेयालं यावद् अष्टादशावेणिका बुद्धधर्मा, एते संस्कृता धर्माः.
SK
[Dस्P_६६] तत्र कतमे ऽसंस्कृता धर्माः? येषां धर्माणां नोत्पादो, न स्थितिर्, न निरोधो, नान्यथात्वम्, एवम् एव रागक्षयो, द्वेषक्षयो, मोहक्षय, एवम् एव धर्मस्थितिर्, धर्मता, धर्मधातुर्, धर्मानवद्यता, तथताभ्रान्ततथतानन्यतथता, भूतकोटिर् एत उच्यन्ते ऽसंस्कृता धर्माः.
SK
[Dस्P_६७] तत्र कतमे साधारणा धर्माः? यदुत चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, पञ्चाभिज्ञा, एते पृथग्जनैः सह साधारणा धर्मः.
SK
[Dस्P_६८] तत्र कतमे पृथग्जनैः सहासाधारणा धर्माः? सप्तत्रिंशद् बोधिपक्षिका धर्मा, दश बलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदस्, त्रीणि विमोक्षमुखानि यावद् अष्टादशावेणिका बुद्धधर्मा एत उच्यन्ते ऽसाधारणा धर्माः.
SK
[Dस्P_६९] यद् अपि शारद्वतीपुत्र बोधिसत्त्वाः संवृतितः सर्वधर्मान् एवं पृथक् पश्यमानाः परमार्थतो नाभिनिविशन्ति, कथम् अनभिनिविष्टाः? तद्यथा शारद्वतीपुत्र कश्चित् पुरुषो मायानिर्मितां चतुरङ्गिनीं सेनां दृष्ट्वा, यदुत हस्तिकायम् अश्वकायं रथकायं पत्तिकायं, तत्र सेनास्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुषो घर्मार्तो नानाविधां मरीचिकाम् ऊर्मिवच् चलन्तीं दृष्ट्वेदं जलम् इति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुषः स्वप्ने नानाविधानि रूपाणि दृष्ट्वा विबुद्धः सन् तेषाम् रूपम् अस्तीति नाभिनिविशत्य्, एवम् एव शरद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुष उदके चन्द्रं दृष्ट्वा तत्र चन्द्रो ऽस्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुष इन्द्रजालं दृष्ट्वा तत्र वस्तुत्वे नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि सर्वधर्माणां वस्तुत्वे नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पूरुषो माययाकाशे चरन्न् अपि तत्राकाशो ऽस्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुषः प्रतिश्रुत्कां श्रुत्वा तत्र शब्दो ऽस्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुषो गन्धर्वनगरं दृष्ट्वा तत्र नगरम् अस्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति; तद्यथा शारद्वतीपुत्र कश्चित् पुरुष आदर्शे मुखप्रतिबिम्बं दृष्ट्वैतन् मुखम् अस्तीति नाभिनिविशत्य्, एवम् एव शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वाः सर्वधर्मान् पृथक् पश्यमाना अपि नाभिनिविशन्ति, धर्मेष्व् अनभिनिविष्टाः प्रज्ञापारमितायां पारं गताः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
SK
दशसाहस्रिकायाः प्रज्ञापारमितायाः सर्वधर्मपरिवर्तो नाम द्वितीयः.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Daśasāhasrikā prajñāpāramitā, 1 and 2 translated from Tibetan (sa_dazasAhasrikA-prajJApAramitA1-and-2-translated-from-tibetan.htm).

Source