SKकैलासशिखरासीनं भैरवं विगतामयम् चण्डनन्दिमहाकालगणेशवृषभृङ्गिभिः //
SKकुमारेन्द्रयमादित्यब्रह्मविष्णुपुरःसरैः स्तूयमानं महेशानं गणमातृनिषेवितम् //
SKसृष्टिसंहारकर्तारं विलयस्थितकारकम् अनुग्रहकरं देवं प्रणतार्तिविनाशनम् //
SKमुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत् श्रीदेव्युवाच यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर //
SKशतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितम् चतुष्पीठं महातन्त्र चतुष्टयफलोदयम् //
SKन शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः अल्पायुषो ऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर //
SKतदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरम् भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः //
SKकीदृशं वै गुरुं विद्यात् साधकं च महेश्वर भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीम् //
SKमन्त्रांश्चैव समासेन कालं चैव समासतः यजनं हवनं चैव अधिवासं रजांसि च //
SKपञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलम् दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च //
SKकलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर श्रीभैरव उवाच साधु साधु महाभागे यत्त्वया परिचोदितम् //
SKअनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते आदौ तावत्परीक्षेत आचार्यं शुभलक्षणम् //
SKआर्यदेशसमुत्पन्नं सर्वावयवभूषितम् शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् //
SKदेवकर्मरतं शान्तं सत्यवादिदृढव्रतम् सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतम् //
SKत्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितम् ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः //
SKक्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः //
SKअतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः //
SKअन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः //
SKदेवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः //
SKईदृशो वै भवेच्छिष्.यः सो ऽत्रानुग्रहभाजनम् मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः //
SKकामी च लोभसम्पन्नः शिवभक्तिविवर्जितः दूषको गुरुशास्त्राणां दीक्षितो ऽपि न मुक्तिभाक् //
SKसन्तापं क्रोधने विन्द्याच् चपले चपलाः श्रियः मन्त्रसिद्धिं हरेत् क्षुद्र आचार्यस्तु वरानने //
SKदयाहीनेन दौर्भाग्यम् अदक्षे दस्युपीडनम् केकरेण भवेद्व्याधिर् दन्तुरः कलिकारकः //
SKकाणो विद्वेषजननः खल्वाटश्चार्थनाशनः शास्त्रहीने न सिद्धिः स्याद् दीक्षादौ वीरवन्दिते //
SKदीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः //
SKक्षयान्वितेन मृत्युः स्यात् तार्किके वधबन्धनम् दाम्भिकः पापजनको वेदितव्यो वरानने //
SKमन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः सर्वे ते न शुभा देवि इह लोके परत्र च //
SKसितरक्तपीतकृष्णां भूमिं प्लवविशोधिताम् विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकाम् //
SKसुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालिताम् सुधूपामोदबहलां वितानोपरिशोभितम् //
SKआचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः //
SKप्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमात् //
SKआदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः कवर्गश्चटवर्गौ च तपयाः शस्तथैव च //
SKसंहारेण समोपेतौ योनिर्वै भैरवी स्मृता मातृकाभैरवं देवम् अवर्गेण प्रपूजयेत् //
SKभैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेत् अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा //
SKचवर्गे तु महेशानी टवर्गे तु कुमारिका नारायणी तवर्गे तु वाराही तु पवर्गिका //
SKऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका एताः सप्त महामातृः सप्तलोकव्यवस्थिताः //
SKसर्वान् कामानवाप्नोति देव्येवं भैरवो ऽब्रवीत् अन्ते ऽस्य उद्धरेन्मन्त्रान् यथाक्रमनियोगतः //
SKत्रयोदशं बिन्दुयुतम् अनन्तासनमुत्तमम् अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगम् //
SKब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेत् मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेत् //
SKअर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभाम् तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेत् //
SKॐकारमुच्चरेत्पूर्वम् अघोरेभ्यो अनन्तरम् थ घोरेभ्यो समालिख्य ततो ऽन्यत्तु समालिखेत् //
SKघोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेत् सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च //
SKरूपेभ्यश्च समालिख्य नमस्कारावसानकम् मन्त्रराजः समाख्यातः अघोरः सुरपूजितः //
SKसकृदुच्चारितो देवि नाशयेत् सर्वकिल्बिषम् जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितम् //
SKस्मरणान्नाशयेद्देवि तमः सूर्योदये यथा यकारादिवकारान्ताः संहारेण समायुताः //
SKबिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि //
SKपुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरम् अपरं कल्पयित्वा तु कलाभेदेन विन्यसेत् //
SKपूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् //
SKएवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेत् पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेत् //
SKहृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा पृष्ठे चोरसि विन्यसेद् अघोरेण यथाक्रमम् //
SKगुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि //
SKविन्यसेच्चैव वामेन शरीरे तु यथाक्रमम् पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ //
SKसद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमम् तासां नामानि वक्ष्यामि यथावदनुपूर्वशः //
SKतारा सुतारा तरणी तारयन्ती सुतारणी ईशानस्य कला पञ्च निरञ्जनपदानुगा //
SKनिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च पुरुषस्य कला ह्येताश् चतस्रः परिकीर्तिताः //
SKतमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि //
SKरजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा //
SKमनोन्मनी कला ह्येता वामदेवे त्रयोदश सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर् मेधा कान्तिः सुधा स्थितिः //
SKसद्योजातकलास्त्वेवम् अष्टौ सम्परिकीर्तिताः पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमम् //
SKनवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेत् विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान् शृणु प्रिये //
SKअघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकम् घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेत् //
SKसर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेत् नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः //
SKॐकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरम् नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि //
SKविद्याङ्गानि विजानीयात् नामानि च निबोध मे सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा //
SKदुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे //
SKचतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितम् क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका //
SKशकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकम् ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा //
SKक्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितम् इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका //
SKहंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः //
SKअस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयम् //
SKसान्तं दीर्घस्वरैः षड्भिर् भिन्नजातिविभेदितम् हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेत् //
SKॐकारो दीपनस्तेषाम् अन्ते जातिं प्रकल्पयेत् नमः स्वाहा तथा वौषट् हुं वषट् फट् क्रमेण तु //
SKएष भैरवराजस्तु सर्वकामार्थसाधकः हर ईम अकारश्च ङादिरोस्वरसंयुतः //
SKयान्त एकारसंयुक्तः षादिर्लान्तविभेदितः लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः //
SKषष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी //
SKभैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः //
SKबिन्दुनादसमायोगात् कपालेशः प्रकीर्तितः सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः //
SKशिखिवाहनसंज्ञस्तु ज्ञातव्यो ऽसौ वरानने संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः //
SKक्रोधराजः समाख्यातः - - - - - - - - - - - - - - - तथान्यं कथयामि ते ञादिः षष्ठस्वरोपेतस् त्रिपदेन समायुतः //
SKबिन्दुमस्तकसम्भिन्नो विकरालो वरानने सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतो ऽप्यधः //
SKचतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः //
SKयेनेदं तु निजं सर्वं जगत्स्थावरजङ्गमम् हररादिसमायुक्तः ऊकाराधः सबिन्दुकः //
SKमेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः //
SKसोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः //
SKभान्तो वादिर्लकारान्तो राद्यो ऽधो रुद्रयोजितः बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः //
SKविद्याराजः समाख्यातो महापातकनाशनः भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः //
SKलोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेत् //
SKइति स्वच्छन्दतन्त्रे मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः
SKअथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा //
SKशुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम् प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने //
SKभागद्वयं ततो ऽस्त्रेण कर्तव्यं तु कृशोदरि भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च //
SKक्षालयेत यथान्यायं त्रिरन्तरितयोगतः अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् //
SKसप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत् शिरःप्रभृति पादान्तम् आगुष्ठ्य स्नानमाचरेत् //
SKउत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम् संध्याया वन्दनं कुर्याच् छास्त्रदृष्टेन कर्मणा //
SKमलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु //
SKवामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात् पूर्वभागं ततो ऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् //
SKदक्षिणस्थं तथा वक्त्रैर् अभिमन्त्र्य वरानने उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च //
SKपूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत् उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् //
SKबाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते //
SKस्नायाद्राजोपचारेण सुगन्धामलकादिभिः प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च //
SKउत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत् उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् //
SKतीर्थं संगृह्य देवेशि आत्मनो ऽग्रे निधापयेत् तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमात् //
SKअघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने //
SKमन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेत् //
SKमूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परम् मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना //
SKपरिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेत् विधिस्नानं ततः कुर्याद् भैरवेशमनुस्मरन् //
SKशिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् //
SKअभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् संध्याया वन्दनं कुर्याद् यथापूर्वं वरानने //
SKततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत् शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः //
SKसकलीकृतदेहस्तु पुष्पमादाय सुव्रते दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः //
SKशिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत् द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा //
SKसंपूज्य गन्धपुष्पाद्यैर् धूपादिभिरनुक्रमात् अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे //
SKनन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः //
SKभैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् //
SKनाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः निवारितं तेन सर्वं विघ्नजालमनन्तकम् //
SKततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेत् मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् //
SKदक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितम् //
SKगन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु //
SKपरां शक्तिं तु संक्षोभ्य ततो ऽनन्तं प्रकल्पयेत् मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् //
SKअङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम् भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेत् //
SKप्राणायामत्रयं कार्यं देहसंशुद्धिकारणम् अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् //
SKकुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत् खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितम् //
SKकार्येणैव विहीनं च मायाप्रध्वस्तगोचरम् शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु //
SKपरं भावं तु संगृह्य ततः शोष्या तनुः प्रिये संहारेण यभिन्नेन रुद्रबीजयुतेन च //
SKतेनैव दहनं कार्यम् ऊर्ध्वाधो ऽग्नियुतेन च अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः //
SKउत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेत् //
SKआनयेत्तं यथानीतं प्लावयेदमृतेन तु मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् //
SKरागेण रञ्जितात्मान कालेन कलितं तथा नियत्या यमितं भूयः पुंभावेनोपबृंहितम् //
SKप्रधानाशयसंपन्नं गुणत्रयसमन्वितम् बुद्धितत्त्वसमासीनम् अहङ्कारसमावृतम् //
SKमनसा बुद्धिकर्माक्षैस् तन्मात्रैः स्थूलभूतकैः प्रणवेन तु सर्वं तच् छरीरोत्पत्तिकारणम् //
SKन्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने //
SKप्रधानावनिपर्यन्तं शरीरं च विनिर्मितम् चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु //
SKद्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि //
SKपञ्चविंशकमेतच्च प्राकृतं समुदाहृतम् ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितम् //
SKसकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने मुखानि कल्पयेत्पश्चान् मूर्धादिचरणावधि //
SKवक्त्राणि कल्पयेत्पश्चाद् ऊर्ध्वं पूर्वं च दक्षिणम् उत्तरं पश्चिमं चैव यथावत्प्रविभागशः //
SKकलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत् नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् //
SKवर्गातीतेन क्षुरिकाम् ऊर्ध्वाधो ऽग्निप्रदीपिताम् षोडशान्तर्हता सा तु रक्षि᳚का विघ्ननाशिका //
SKनवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः //
SKपादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम् क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः //
SKविद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् //
SKगन्धैर्धूपैस्तथा पुष्पैर् विविधैर्भक्ष्यभोजनैः पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः //
SKआत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत् नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् //
SKहृदन्तं कल्पयेद्यावत् तत्र पद्मं विचिन्तयेत् अष्टपत्रं महादीप्तं केसरालं सकर्णिकम् //
SKकन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये भुवनानि च तान्येव रुद्राणां वरवर्णिनि //
SKमायात्मको भवेद्ग्रन्थिर् अशुद्धाध्वव्यवस्थितः विद्यापद्मं महादीप्तं कर्णिकाबीजराजितम् //
SKपुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् //
SKशक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरम् अङ्कुरं नालविन्यासम् अनन्तं परिकल्पयेत् //
SKतेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम् धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च क्रमान्न्यसेत् //
SKसितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः //
SKशिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते अधर्माज्ञानावैराग्यम् अनैश्वर्यं च प्राग्दिशः //
SKउत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः संधानकीलकाश्चैव अतसीपुष्पसंनिभाः //
SKवेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् //
SKमध्ये तमो विजानीयाद् गुणास्त्वेते व्यवस्थिताः सितं पद्मं विजानीयात् केसराणि विचिन्तयेत् //
SKसितरक्तप्रपीतानि मूलमध्याग्रदेशतः कर्णिका हेमसंकाशा बीजानि हरितानि तु //
SKवामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम् रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे //
SKकलविकरणीं देवीं विन्यस्येद्वारुणे दले बलविकरणीं देवीं वायव्यदलमाश्रिताम् //
SKबलप्रमथनीं देवीम् उत्तरे विनियोजयेत् सर्वभूतदमनीं च ऐशान्यां विनियोजयेत् //
SKमध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेत् शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् //
SKमध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम् सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे //
SKवह्निमण्डलकं देवि कर्णिकायां निवेशयेत् ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः //
SKब्रह्मा चतुर्मुखो रक्तश् चतुर्बाहुविभूषितः कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः //
SKकमण्डलुधरो देवि दण्डहस्तस्तथैव च अक्षमालाधरो देवः पद्महस्तः सुलोचनः //
SKध्यात्वा पत्रेषु तं न्यस्येत् सर्वकिल्विषनाशनम् अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम् //
SKपीताम्बरधरं देवं वनमालाविभूषितम् स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् //
SKदिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् //
SKशङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् //
SKसिंहचर्मपरीधानं शशाङ्ककृतभूषणम् नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने //
SKनिवेशयेत्कर्णिकायां महापातकनाशनम् महाप्रेतं न्यसेत्पश्चात् प्रहसन्तं सचेतनम् //
SKरक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् प्रणवेन न्यसेत्सर्वम् आसनं भैरवस्य तु //
SKगन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेत् कदम्बकुसुमाकारां तुषारकिरणत्विषम् //
SKमूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत् द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलम् //
SKवक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि मूर्धादिचरणं यावत् प्रणवादिनमोन्ततः //
SKअष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत् नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् //
SKविद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत् शक्तित्रयं ततो न्यस्येद् दक्षदिग्वामगोचरे //
SKमध्यप्रदेशे देवेशि ततो रूपमनुस्मरेत् त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् //
SKचन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरम् पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् //
SKवृश्चिकैरग्निवर्णाभैर् हारेण तु विराजितम् कपालमालाभरणं खड्गखेटकधारिणम् //
SKपाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् //
SKवीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् वज्रदण्डकृताटोपं परश्वायुधहस्तकम् //
SKमुद्गरेण विचित्रेण वर्तुलेन विराजितम् सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् //
SKअष्टादशभुजं देवं नीलकण्ठं सुतेजसम् ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् //
SKआपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् दक्षिणं तु विजानीयाद् वामं चैव विचिन्तयेत् //
SKदाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभम् चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् //
SKस्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः //
SKततः परमबीजेन परं परमकारणम् सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनम् //
SKआवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहम् हृत्कण्ठतालुभ्रूमध्यनादान्तान्तसमाश्रितम् //
SKनिष्कम्पं कारणातीतम् आवाह्य परमेश्वरम् संस्थाप्य विधिवद्देवम् अङ्गषट्कं ततो न्यसेत् //
SKपाद्यमाचमनं चार्घं स्वागतं तदनन्तरम् संनिधानं च देवेशि निष्ठुरया निरोधयेत् //
SKगन्धैः पुष्पैस्तथा धूपैर् धूपयित्वा तमर्चयेत् मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि //
SKततः स्नानादिकं कर्म कृत्वा चैव वरानने परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च //
SKविलिप्यागुरुकर्पूरैर् मुकुटाद्यैर्विभूषयेत् पुष्पैर्नानाविधैः शुभ्रैर् अर्चयेद्भूषयेत्पुनः //
SKअर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत् प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् //
SKततो ह्याभरणं बाह्ये विनिवेश्यं वरानने ऐशान्यां पूर्वतो याम्यां उत्तराप्यावसानकम् //
SKविन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह //
SKध्यातव्यानि स्वरूपाणि वराभयकराणि तु अग्नीशरक्षोवायव्यचतुर्दिक्षु च तं न्यसेत् //
SKहृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् //
SKतडिद्वलयसंकाशां शिखां देवीं विचिन्तयेत् आधूम्रं कवचं विद्यात् कपिशं चास्त्रमेव च //
SKज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम् पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः //
SKनानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः //
SKरत्नमालावनद्धाश्च हारकेयूरभूषिताः द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः //
SKभैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा //
SKभैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत् यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि //
SKईषत्करालवदनां गम्भीरविपुलस्वनाम् प्रसन्नास्यां सदा ध्यायेद् भैरवीं विस्मितेक्षणाम् //
SKद्वितीयावरणे देवि विन्यसेद्भैरवाष्टकम् कपालीशं तु पूर्वायाम् आग्नेय्यां शिखिवाहनम् //
SKदक्षिणे क्रोधराजं तु विकरालं तु नैरृते मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा //
SKवायव्ये देवि विन्यस्य सोमराजं तथोत्तरे विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः //
SKपञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः //
SKपूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् //
SKश्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् //
SKतृतीये चैव लोकेशान् सास्त्रान्संपरिकल्पयेत् नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः //
SKइन्द्राग्नियमनिरृतिवरुणाश्च समीरणः सोमराजः कुबेरश्च ईशानः परमेश्वरः //
SKभैरवाष्टकरूपेण ध्यातव्यास्तु वरानने वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च //
SKध्वजो गदा त्रिशूलं च लोकपालयुधानि वै वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् //
SKदण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम् किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् //
SKगदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम् संपूज्यावरणं सर्वं संधानं मन्त्रनायके //
SKअस्त्राणि लोकपालाश्च भैरवाष्टकमेव च पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु //
SKक्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरम् मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च //
SKपरान्तं यावदाभाव्य नैवेद्यानि निवेदयेत् घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा //
SKखण्डलड्डुशरावाणि भक्ष्याणि विविधानि च शाल्योदनं मुद्गसूपम् आज्याक्तं संप्रकल्पयेत् //
SKकौशल्यां मण्डकापूपांस् तथा क्षौद्रशिरांसि च घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेत् //
SKअवदंशान्यनेकानि कटूनि मधुराणि च रसालां च दधि क्षीरम् आसवं विविधं तथा //
SKमत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च अग्रमापूरयेच्छंभोर् वित्तशाठ्यविवर्जितः //
SKपश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि //
SKप्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेत् अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चिताम् //
SKवाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् //
SKउन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेत् अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् //
SKजपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः संहारः स तु विज्ञेयः शिवधामफलप्रदः //
SKव्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः //
SKसृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया आत्मनो भैरवं रूपं सदा भाव्यं वरानने //
SKतस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत् जप्त्वा निवेदयेद्देवि भैरवाय वरानने //
SKपूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितम् त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतम् //
SKशान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः सशब्दश्चाभिचारे ऽसौ प्रागुदग्दक्षिणामुखः //
SKआत्मा न शृणुते यं तु मानसो ऽसौ प्रकीर्तितः आत्मना श्रूयते यस्तु तमुपांशुं विजानते //
SKपरे शृण्वन्ति यं देवि सशब्दः स उदाहृतः अष्टोत्तरशतेनैव अक्षमाला समेरुका //
SKरुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा //
SKदशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः सूत्रं ध्यात्वा परां शक्तिम् अध्वभागांस्ततो मणीन् //
SKव्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेत् सप्तविंशतिभिः कुर्याद् द्विगुणैर्वा चतुर्गुणैः //
SKसमैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे न तं विलङ्घयेद्विद्वान् सृष्टिसंहारकारणम् //
SKवीरस्थानरतानां हि वीराणां वरवर्णिनि महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् //
SKगृहस्थेन न कर्तव्यम् उद्वेगजननं परम् तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः //
SKसाधयेद्विविधान्कामान् अधमान्मध्यमोत्तमान् एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः //
SKसबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा //
SKशाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा //
SKअस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः //
SKवस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन् वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेत् //
SKपूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः यागार्थो द्रव्यसंघातः ततो यजनमारभेत् //
SKशक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम् सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगाम् //
SKॐकारदीपितां देवीं नमस्कारावसानिकाम् अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च //
SKवैराग्यं च तथैश्वर्यम् आग्नेय्यादिक्रमेण तु अधर्मं च तथाज्ञानम् अवैराग्यमनैश्वरम् //
SKसंधानकीलकांश्चैव अधश्छादनमूर्ध्वगम् पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च //
SKमण्डलत्रितयं देवाञ् शक्तीश्चापि शिवान्तकम् मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् //
SKभैरवाष्टकविद्याङ्गलोचनं क्षुरिकां तथा शक्तित्रयं परं देवम् अङ्गषट्कसमन्वितम् //
SKविन्यस्य भावयेद्देवि सततं विधिपूर्वकम् निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना //
SKस्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च रोधं निष्ठुरया कुर्यान् मूलमन्त्रमनुस्मरन् //
SKपूजा सुविपुला कार्या गन्धधूपस्रगादिभिः मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि //
SKतत आवरणं बाह्ये विनिवेश्यं वरानने ईशपूर्वयाम्यसौम्यवरुणान्तं प्रकल्पयेत् //
SKवक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम् आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि //
SKउत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितम् //
SKस्वमन्त्रेण तु सर्वेषाम् अर्ध्यं पाद्यं समाहितः मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा //
SKन बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत् परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचित् //
SKस्वमुद्रामन्त्रसंयुक्तान् युगपत्परिकल्पयेत् अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेत् //
SKसर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः भैरवाष्टकलोकेशान् सास्त्रान्संपरिकल्पयेत् //
SKबाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम् पूर्वादीशानपर्यन्तं कल्पयेत विधानतः //
SKआमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम् श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः //
SKचितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा //
SKएकपादं तथा सौम्ये आग्नेय्यां त्रिपुरान्तकम् नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् //
SKऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः तर्पयेन्मत्स्यमांसाद्यैर् आसवैर्विविधैस्तथा //
SKगन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत् प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः //
SKरेचकेन प्रयोगेन निवेद्य विधिपूर्वकम् हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् //
SKअग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा //
SKकवचेनावगुण्ठ्यैतद् अस्त्रदर्भेण चोल्लिखेत् उद्धृत्य प्रोक्षयेत्पश्चाद् अस्त्रमन्त्रेण भामिनि //
SKपूरणं तेन कर्तव्यं समीकरणमेव च सेचनं कुट्टनं चैव लेपनं तेन कारयेत् //
SKप्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत् पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणम् //
SKवज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः याम्यसौम्यमुखी चैका वज्रमेतत्प्रकीर्तितम् //
SKवज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः याम्यसौम्यमुखा त्वेका वज्रमेतत्प्रकीर्तितम् //
SKअसिनैवाग्निकुण्डं तद् दर्भैः पूर्वाग्रसंस्तरैः सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि //
SKकुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम् दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् //
SKस्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम् आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् //
SKपुष्पादिभिः सुधूपाद्यैर् ध्रुवेण तु यथाक्रमम् चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु //
SKपूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् //
SKवागीशीं च समाहूय प्रणवादिनमोन्तगाम् नीलोत्पलदलश्यामाम् ऋतुमच्चारुलोचनाम् //
SKसर्वलक्षणसंपूर्णां सर्वावयवभूषिताम् ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः //
SKऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम् पूजयेद्गंधपुष्पाद्यैर् भवमन्त्रमनुस्मरन् //
SKततो मुद्रां दर्शयेत संनिधानाय मन्त्रवित् ततो ऽग्निपात्रमादाय शिवाम्भो ऽस्त्रेण प्रोक्षयेत् //
SKकवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत् अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः //
SKअग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु //
SKआत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत् ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेत् //
SKयोनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः //
SKदर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेत् अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेत् //
SKसप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम् दक्षहस्ते तु बध्नीयाद् अस्त्रमन्त्रमनुस्मरन् //
SKरक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेत् अपरास्यत्रिराहुत्या पूजनं हृदयेन तु //
SKहृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत् हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् //
SKगन्धपुष्पादिभिः पूजां शिखया कारयेत् ततः त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् //
SKपुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् //
SKग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत् प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेत् //
SKगन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात् पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेत् //
SKमुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम् शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः //
SKपञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यसौम्यकम् अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया //
SKवक्त्राणां निष्कृतिं तद्वद् आहुतीनां त्रिसंख्यया नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयम् //
SKआहुतित्रितयेनैव तिलैः सर्वं तु कारयेत् ततः कलासमूहं च पञ्च चाथ चतुष्टयम् //
SKअष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात् शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेत् //
SKअङ्गानि विन्यसेत्पश्चात् हृदाद्यानि यथाक्रमम् त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयम् //
SKसीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते अस्त्रेण वीजयेदग्निम् अस्त्रेणैव तु पूजयेत् //
SKत्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम् एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् //
SKअस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये वक्त्राण्युद्धाटयेत्पश्चाद् वक्त्रेणैवाहुतित्रयात् वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः //
SKवक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम् प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा //
SKदर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान् सौम्याग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा //
SKअस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे //
SKसदाशिवं चोत्तरे ऽथ स्वनामपदचिह्नितम् आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेत् //
SKगन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत् मेखलोपरि लोकेशान् पूजयेत्प्रणवेन तु //
SKरक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् //
SKपुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेत् कवचेनोपचारं तु गन्धपुष्पादिधूपकैः //
SKऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः //
SKविसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः //
SKधाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु //
SKस्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भो ऽस्त्रेण प्रोक्षयेत् कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा //
SKअस्त्रेण मार्जयेदद्भिर् दर्भाग्रेणाथ संस्पृशेत् पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा //
SKदर्भमध्येन संस्पृश्य भूयो ऽग्नौ भ्राम्य तापयेत् शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् //
SKस्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ दर्भाणां पृष्ठतः पूज्यौ दक्षिणे ऽग्नेः सदा बुधैः //
SKआज्यसंस्करणं कुर्याद् आज्याधिश्रयणादिकम् आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् //
SKशिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् //
SKयोनिसंस्थं चाज्यपात्रं उद्प्लवं संप्लवं ततः दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् //
SKपवैत्रमेतद्विहितम् उत्प्लवं तेन संप्लवम् अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकम् //
SKपराङ्मुखं तु त्रीन्वारान् संमुखं त्रींस्तथैव च अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना //
SKदर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेत् नीराजनं ततः कुर्यात् पर्यग्निकरणं ततः //
SKधाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा //
SKअभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु सकृदुच्चारयोगेन पूजयेद्भैरवेण तु //
SKवक्त्रसंधानकं वक्त्रैर् आहुतित्रितयेन तु अपरास्येन तद्वक्त्रसंधानं तु समाचरेत् //
SKएवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेत् त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः //
SKपूर्ववक्त्रे ऽप्यथैवं स्याद् ऊर्ध्ववक्त्रं शिवान्वितम् त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः //
SKमुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु मुक्तिकामस्य दीक्षायाम् ऊर्ध्ववक्त्रस्य मुख्यता //
SKपादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् //
SKमारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेत् //
SKशान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा //
SKपश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे //
SKआज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना //
SKउच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना नाडीत्रयेण युगपत् पात्रे भागत्रयं न्यसेत् //
SKसुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत् इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् //
SKएवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेत् भैरवेणैव मन्त्रेणाग्नये स्वाहान्तमेव च //
SKअग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेत् सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् //
SKधामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत् अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः //
SKप्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेत् शुक्लपक्षे विधिर्ह्येष कृष्णपक्षे ऽन्यथा भवेत् //
SKसोमभागे भवेत्सूर्यो ह्य् अग्निसंज्ञा तु पूर्ववत् अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेत् //
SKयतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु //
SKचूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् //
SKभैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः अग्निं तु प्रोद्धरेत्पश्चात् पात्रे संस्थाप्य रक्षयेत् //
SKकुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितम् //
SKपुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत् प्रणवादि समावाह्य विष्णुनाम ततो नमः //
SKआमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत् स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तम् //
SKपश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः //
SKततो ऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत् स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेत् //
SKध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम् तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः //
SKभावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः //
SKराज्यार्था दाहजननी मृत्युदा शत्रुकारिका वशीकर्त्र्युच्चाटनी स्याद् अर्थदा मुक्तिदायिका //
SKसर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेत् पूणा तु भैरवेणैव जिह्वानां कल्पनाय च //
SKपुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत् ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् //
SKआत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेत् मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् //
SKनालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् //
SKअनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम् ॐकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेत् //
SKशिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका //
SKमूर्तिभूतं प्रकल्प्यैवम् अष्टात्रिंशत्कलायुतम् शोध्याध्वानं तु विन्यस्येद् दीक्षाकाले वरानने //
SKभैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः //
SKसंधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेत् मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् //
SKस्थण्डिलस्थशिवालीनम् एकार्थं चैव संधयेत् शुद्धाज्येनाहुतिशतम् अष्टोत्कृष्टं वरानने //
SKभैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम् भैरवाष्टकलोकेशान् दशमांशेन होमयेत् //
SKमूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत् भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् //
SKपुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने //
SKसर्वकामप्रदो होमस् तिलैः शस्तो घृतान्वितैः धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः //
SKजायते विपुला सिद्धिर् अधमा मध्यमोत्तमा श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयात् //
SKक्शीराक्ततिलहोमेन शान्तिकर्म वरानने सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् //
SKमारणं च वरारोहे क्रमेण परिकल्पयेत् कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः //
SKजातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका //
SKचण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु घृताक्तेन वरारोहे समन्त्री सपुरोहितः //
SKराज्ञी पुत्रसमोपेता वशं याति वरानने यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः //
SKविद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितम् //
SKभक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः एवं होमानुसारेण साधको विधिसंस्थितः //
SKपूजाहोमरतो नित्यं यान्यान्कामान्समीहते तांस्तान्स साधयत्येव भैरवस्य वचो यथा //
SKइति श्रीस्वच्छन्दतन्त्रे द्वितीयः पटलः
SKअधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः //
SKभस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः जिह्मजेनोपवीतेन सवासा वा दिगम्बरः //
SKसुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः दिव्याभरणसम्पन्नः सुप्रसन्नः सुभावितः //
SKसुधूपितः सुताम्बूलश् चन्दनागुरुचर्चितः महद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः //
SKद्वाराध्यक्षान् पूजयित्वा पुष्पप्रक्षेपणं ततः हुम्फट्कारप्रयोगेण तालाशब्दं विधाय च //
SKपार्ष्ण्यधोहस्तसंयोगाद् विघ्नप्रोच्चाटनाय वै पार्ष्ण्या भूमिगतान् हन्यात् तालया चान्तरिक्षगान् //
SKमन्त्रैर्दिव्यान् विशोध्यैवं यागहर्म्यं विशेत्ततः रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेत् //
SKवर्मणा मायारूपेणाच् छाद्यैव तु मखालयम् ततो दक्षिणदिग्भागे उपविश्य वरानने //
SKकरन्यासं यथापूर्वं दहनोत्पूयने तथा प्लावनाप्यायने चैव सकलीकरणं तथा //
SKपूर्ववन्मानसं यागम् अन्तर्देहे समाचरेत् शक्त्याधारमनन्तं च धर्मादिचरणावधि //
SKगात्रकाणि त्वधर्माद्यस् तथा सन्धानकीलकान् अधश्छादनमूर्ध्वं च पद्मकेसरकर्णिकाः //
SKपुष्कराणि च शक्तीश्च मण्डलान् मण्डलाधिपान् शिवान्तमासनं दद्यात् पूर्वरूपं ध्रुवेण तु //
SKमूर्तिब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकम् द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च //
SKविद्याङ्गानि तथा देवीं क्षुरिकां लोचनत्रयम् शक्तित्रयं परं देवम् अङ्गषट्कसमन्वितम् //
SKमुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेत् संकल्प्य च यथान्यायं यथायोगं प्रकल्पयेत् //
SKसद्योजातं च वामं च अघोरं च यदुक्तवान् पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेत् //
SKहृदयादींस्ततः पञ्च दिशासु विदिशासु च पूर्वतो यावदीशान्तं भैरवावरणं बहिः //
SKलोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च //
SKपञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि क्रमेणोच्चारयेत् सर्वान् यावत्तद्गर्भमैश्वरम् //
SKमन्त्रसन्धानमेतद्धि परमीकरणं शृणु उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितम् //
SKतावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा //
SKपिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने //
SKभेदयित्वा क्रमात् सर्वं यावद्वै निधनान्तिकम् निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनम् //
SKतदध्यास्यानुलोम्येन हृत्पद्मे विनिवेशयेत् सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेत् //
SKतेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः यथा स्वरूपसंस्थानवर्णा ये कथिता मया //
SKतथा ते विनियोक्तव्या मानसे मानसेन तु कर्णिकायां तु संस्थाप्य द्विधावस्थं च भैरवम् //
SKशुद्धस्फटिकसंकाशं सर्वमन्त्रैरलंकृतम् तत्रापि परितो ज्ञेयम् अनिर्देश्यमनामयम् //
SKयत्र नास्ति द्विधाभावो न मन्त्रादिप्रकल्पना ॐकारबिन्दुनादानां विलयं तं विनिर्दिशेत् //
SKतत्स्थानं दुर्लभं मत्वा सम्भवेन्न कदाचन यस्य नाग्रं च मूलं च दिशो विदिशस्तथा //
SKन शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितम् //
SKय एवं सततं कुर्याद् दैशिको यागतत्परः स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा //
SKजले चाग्नौ च सम्पूज्य सम्यग् दीक्षाफलं लभेत् अकृत्वा मानसं यागं यो ऽन्यं यागं समारभेत् //
SKअशिवः स तु विज्ञेयो न मोक्षाय विधीयते आत्मयागे कृते चैव देहशुद्धिः प्रजायते //
SKअधिष्ठितं शिवेनैव तमाचार्यं विनिर्दिशेत् आत्मनिर्दहनं चैव मानसं च यदुक्तवान् //
SKविदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् //
SKब्रह्महापि स मुच्येत किं पुनः शिवतत्परः सर्वावस्थागतश्चैव विषयैरनुरञ्जितः //
SKसकृत् सम्पूज्य मुच्येत किं पुनर्यो दिने दिने एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकम् //
SKइज्यादि चान्यतन्त्रे ऽपि तद्वैतत् कामिकं भवेत् नानासिद्धिगुणैर्युक्तं नानाकामफलप्रदम् //
SKयोगसिद्धिश्च जायेत मुक्तिं च लभते ध्रुवम् सदाशिवो ऽपि जानाति देवाश्चैवासुरादयः //
SKएवं तु मानसं यागं कृत्वा बाह्यं समाचरेत् परां वृत्तिमनुध्यायन् द्रव्याण्यादौ विलोकयेत् //
SKसितचन्दनकर्पूरं सुधूपं सितवाससी पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकम् //
SKचूतपल्लवदर्भांस्तु सिद्धार्थान् खटिकां तथा करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् //
SKवार्धानीं शिवकुम्भं च तथेध्मान् परिधीनपि समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवम् //
SKतण्डुलांश्च तथा क्षीरम् एवमादीन्यनेकशः ततो ऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा //
SKकवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत् उदकादिभिरष्टाङ्गः पूरयेत्तु वरानने //
SKउदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः प्रणवेनासनं सर्वं ततो मूर्तिं न्यसेत् प्रिये //
SKभैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमम् गन्धैः पुष्पैस्तथा धूपैर् मन्त्रसन्धानपूर्वकम् //
SKमन्तव्यं परमं तत्त्वं ततश्चैवामृतीभवेत् पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा //
SKपश्वर्घे च प्रकल्प्यैवं शिवहस्तं प्रकल्पयेत् मन्त्रसन्धानकं प्राग्वन् नाडीसन्धानमेव च //
SKमूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगम् भ्रूमध्यं शब्दकूटं तत् तुर्यस्थानं विभेदयेत् //
SKवामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेत् द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः //
SKतस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि आत्मनो रेचकेनैव पूरकेण विशेद्धृदि //
SKनाडीसन्धानमेतद्धि शिवेन परिकीर्तितम् व्यापकं तु शिवं ध्यायेन् मन्त्रमूर्तिमधिष्ठितम् //
SKदर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितम् पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा //
SKअस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेत् दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेत् //
SKतस्योपरि न्यसेत् पात्रं गोमयादीनि चाहरेत् पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा //
SKगोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि शिखया वर्मणा क्षीरम् अस्त्रेणाज्यं कुशोदकम् //
SKधाम्ना च मन्त्रयेत् पश्चाद् गोमयादीनि योजयेत् पूर्वसंस्कृतपात्रे तु स्वमन्त्रैर्गोमयादिकम् //
SKसंयोज्य मन्त्रयेत्पश्चात् तैरेव हृदयादिभिः प्रणवेन तु संकल्प्य अनन्तं मूर्तिविग्रहम् //
SKधामाङ्गानि च बाह्ये तु सम्पूज्यावरणस्थितिम् मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा //
SKशिवामृतं तत्संचिन्त्य सम्पूज्य स्थापयेत्ततः अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु //
SKयावद्भूमौ समन्तात्तु सौम्यास्यो दक्षिणे स्थितः ततश्चैवोद्धरेच्छल्यम् आजलान्तं व्यवस्थितम् //
SKरेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेत् समीकरणमस्त्रेण कवचेन तु सेचनम् //
SKआकोटनमथास्त्रेण ततो मार्जनलेपने अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि //
SKशिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत् सप्तकृत्वो ऽस्त्रमन्त्रेण स्थित्वा मन्त्रे तु प्राग्दिशः //
SKऊर्ध्वाधो विकिरेद्धान्यान्य् अस्त्रभूतानि चिन्तयेत् चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् //
SKऐशान्यभिमुखान्येव नैरृत्या यावदैश्वरम् पञ्चगव्येन सम्प्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा //
SKध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनाम् शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुताम् //
SKनीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदाम् //
SKगन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेत् ऐशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलम् //
SKगन्धोदकेन संलिप्य शिवाम्भो ऽस्त्रेण प्रोक्षयेत् अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि //
SKसर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितम् स्वस्तिकाद्यैश्चार्चयित्वा यवसिद्धार्थदूर्वभिः //
SKसितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा सम्पूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः //
SKरत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितम् //
SKआसनस्योपरि न्यस्येन् मूलमन्त्रमनुस्मरन् कलाध्वभैरवादीनि न्यस्यार्घादीन् प्रकल्पयेत् //
SKमुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेत् //
SKवामभागे तु कुम्भस्य पञ्चगव्येन मण्डलम् शिवाम्भसा तु सम्प्रोक्ष्य प्रणवेनासनं न्यसेत् //
SKसम्प्रोक्ष्य च शिवाम्भोभिर् वार्धानीं मङ्गलान्विताम् कुम्भवच्चार्चयित्वा ताम् आसनस्योपरि न्यसेत् //
SKगन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीम् उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेत् //
SKअच्छिन्नामनुलोमेन जलधारां तु पातयन् तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करम् //
SKआचार्यः कलशं पश्चाद् भैरवेण समुद्धरेत् नयेद्वार्धानिमार्गेण तस्मिन् संस्थापयेत्पुनः //
SKवार्धानीं स्थापयेत्पश्चाद् अस्त्रमन्त्रमनुस्मरन् विशेषपूजामुभयोर् गन्धपुष्पपवित्रकैः //
SKमन्त्रसन्धानकं कुर्यान् नाडीसन्धिमथोभयोः विकिरान् संहितान् पूर्वं वार्धान्याः कल्पयेदधः //
SKअक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः चक्रपट्टिसवज्रादित्रिशूलान्तान्यनेकशः //
SKयोगौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः //
SKशिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितम् तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेत् //
SKनैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुम् भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहम् //
SKसन्निधानं सदा तुभ्यम् अविघ्नार्थं सदा भव अनुज्ञातोत्थितो यायाद् अर्घहस्तो दिगीश्वरान् //
SKस्वनामपदविन्यासान् ॐकारादिनमोन्तगान् गन्धपुष्पपवित्राद्यैः पूजयेत्तान् प्रयत्नतः //
SKइन्द्राद्यनन्तपर्यन्तांल् लोकपालान् प्रपूजयेत् ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेत् //
SKपञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि शिवाम्भसास्त्रमन्त्रेण सम्प्रोक्ष्य त्ववगुण्ठयेत् //
SKब्रह्मस्थानस्य पूर्वेण गुरून् पूज्य विनायकम् वायव्ये पूजयेद्देवि गन्धपुष्पैरनुक्रमात् //
SKअथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेत् ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेत् //
SKपूर्वोक्तेन विधानेन भैरवेशं वरानने पूजयित्वा पवित्राद्यैस् त्रिरावरणसंयुतम् //
SKस्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितम् मन्त्रसन्धानकं पूर्वं नाडीसन्धानमेव च //
SKपरमीकरणं कुर्याद् व्यापकेन परेण तु नैवेद्यान् विविधाकारान् दत्त्वा मुद्रां प्रदर्शयेत् //
SKप्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकम् पश्चाद्बलिः प्रदातव्यो मातृणां भूतसंहते //
SKभूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते //
SKततो ऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा //
SKअग्नेः सन्तर्पणं कुर्यात् सहस्रेण शतेन वा ततश्चरुं च श्रपयेत् स्थालीं संगृह्य निर्व्रणाम् //
SKशिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत् चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेत् //
SKसूत्रेण वेष्टयेत् कण्ठे वर्मभूतेन सुव्रते दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये //
SKप्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेत् आसनं तत्र विन्यस्येद् अनन्तादिशिवान्तकम् //
SKमूर्तिभूतां न्यसेत्स्थालीं तत्रस्थं भैरवं यजेत् त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमात् //
SKमानसेन प्रयोगेण भावपुष्पैर्वरानने चुल्लीं सम्प्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः //
SKतत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः क्षीरं प्रोक्ष्य शिवाम्भोभिस् तण्डुलांश्च समासतः //
SKमन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः मूलमन्त्रेण देवेशि एकचित्तः समाहितः //
SKचालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत् तप्ताभिधारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेत् //
SKत्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात् प्रिये भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेत् //
SKस्थालीमाज्योपलिप्तां तु शीताघारं च होमयेत् भैरवेण षडङ्गेन वषड्जातियुतेन च //
SKमण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत् स्थाल्यां तस्योपरि न्यस्य सम्पातं मन्त्रसंहिताम् //
SKजपन्नेकैकयाहुत्या पातयेद् भैरवेण तु अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् //
SKरजस्यादौ ततो देवि कर्तर्यां करणौ तथा खटिकातिलाज्यसम्पातं मूलमन्त्रेण कारयेत् //
SKत्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितम् शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेत् //
SKद्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकम् चरुं पात्रे तु संगृह्य पूजयेद्भैरवेण तु //
SKपुष्पधूपादिभिर्नीत्वा धाम्नैतं विनिवेदयेत् हृदाद्यावरणस्थानां दशमांशं निवेदयेत् //
SKकलशे ऽप्येवमेवं तु अग्नौ होम्यश्चरुः स्रुचा भैरवस्य शतं होम्यम् अङ्गानां तु दशांशकम् //
SKसाधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत् प्रिये विनायके शतं होम्यं भूपरिग्रहणे तथा //
SKअधिवासे तथैवेह अष्टोत्तरशतं हुतिः प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके //
SKन्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने //
SKशिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेत् //
SKप्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेत् समपादं स्तब्धकायं सौम्याननकृताञ्जलिम् //
SKगुरुः पूर्वमुखो ऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा भस्मना ताडयेन्मूर्ध्नि अस्त्रमन्त्रेण चालभेत् //
SKनाभ्यूर्ध्वं त्रींस्तथा वारान् नभ्यधस्त्रीन् प्रकल्पयेत् शिवं न्यासाङ्गसहितं पूजयेद्भैरवेण तु //
SKवस्त्रं सम्प्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् पूजयेद्भैरवेणैव मुखं प्रच्छादयेत्तथा //
SKहस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरम् देवस्याभिमुखं कृत्वा पुष्पं प्राणौ प्रदापयेत् //
SKप्रक्षेपयेत्ततो धाम्ना मुखमुद्घाट्य दर्शयेत् विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवम् //
SKअज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः //
SKकृतकृत्यः प्रहृष्टात्मा प्रहृष्टनयनं शिशुम् उत्थाप्य हस्तान् संगृह्य दक्षिणां मूर्तिमानयेत् //
SKतत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनम् तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखम् //
SKगुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत् उपवेश्य ततः कृत्वा सकलीकरणे विधिम् //
SKविशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् //
SKकवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेत् //
SKव्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुम् //
SKधूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेत् भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु //
SKव्योमवच्चिन्तयेद्देहं चैतन्यं कनकाग्निवत् शक्तिन्यासं न्यसेत्पूर्वं कमलं प्रणवेन तु //
SKतस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभम् मूर्तिमन्त्रं समुच्चार्य मूर्तिभूतं प्रकल्पयेत् //
SKपूर्वोद्धृतेन मन्त्रेण प्लावयेदमृतेन तु मन्त्रन्यासो यथापूर्वम् अष्टात्रिंशत्कलावधि //
SKकलाध्वानं न्यसेत् पश्चाच् छान्त्यतीताद्यनुक्रमात् स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका //
SKशान्त्यतीतादिका ज्ञेयास् तत्त्वभूतास्तु ताः कलाः धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेत् //
SKआत्मान्तःकरणे यद्वत् तद्वत्पूजां समारभेत् धाम प्रोच्चार्य सन्दध्यात् सबाह्याभ्यन्तरं पुनः //
SKशिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् धामोच्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेत् //
SKअधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत् उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु //
SKप्रवेश्याभ्यर्चयेच्छम्भुं शिवमुच्चार्य निक्षिपेत् निर्गत्य वन्दयेद्देवं दण्डवत् त्रिः प्रदक्षिणम् //
SKशिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयन् शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः //
SKनान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः //
SKआत्मसव्ये ऽथ दिग्भागे मण्डलं प्रणवेन तु प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेत् //
SKउपवेश्य करे दर्भं भैरवेण समर्पयेत् मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः //
SKपिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता //
SKनाडीसन्धानहेत्वर्थं भैरवेणाहुतित्रयम् तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् //
SKग्रहणाकर्षणार्थं तु गृह्णन् मुञ्चन् पुनः पुनः दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः //
SKशिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेत् //
SKमूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत् हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः //
SKशिष्.यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः //
SKयुगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु //
SKउत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम् भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः //
SKधाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेत् मन्त्राणां दीपनं कुर्याद् धामाद्यस्त्रावधि क्रमात् //
SKहुंकारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् प्रणवादिफडन्तेन आहुतीः प्रतिपादयेत् //
SKहृदादीनां च सर्वेषां जातिरुक्तात्र दीपने पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् //
SKमन्त्राः करणभूतास्तु पशुकार्यस्य साधने आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः //
SKक्रूरकार्ये तु कर्तव्ये मन्त्रान् सन्दीप्य योजयेत् क्रूरजात्यनुरूपेण वाचकान् योजयेत् सदा //
SKभ्रुकुटीकरालवदनान् वाच्यरूपान् विचिन्तयेत् सौम्यजातियुतान् सौम्ये सौम्यरूपान् विचिन्तयेत् //
SKपाशकर्म ततो वक्ष्ये कन्याकर्तितसूत्रकम् त्रिगुणं त्रिगुणीकृत्य पाशबन्धनसूत्रकम् //
SKशिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य कवचेनावगुण्ठयेत् पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः //
SKप्रसारयेद्गृहीत्वा तन् मूर्धाद्यङ्गुष्ठकावधि शिष्यस्य स्तब्धदेहस्य नाडीभूतं विचिन्तयेत् //
SKसुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता ॐकारादि स्वनाम्ना तु नमस्कारावसानकम् //
SKशिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेत् गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् //
SKसन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः शिवाम्भो ऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः //
SKताडयेदस्त्रपुष्पेण हृदि चित्संहृता भवेत् हुंकारोच्चारयोगेन रेचकेन विशेद्धृदि //
SKनाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिषोः कदम्बगोलकाकारं स्फुरत्तारकसन्निभम् //
SKहृत्स्थं छित्त्वास्त्रखड्गेन हुम्फट्कारान्तजातिना धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमात् //
SKद्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते //
SKव्यापकं भावयित्वा तु कवचेनावगुण्ठयेत् भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे //
SKद्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे बन्द्याश्चेद्यास्तथा दाह्याः सूत्रस्थाने न विग्रहे //
SKपाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः //
SKमलः कर्म निमित्तं तु नैमित्तिकमतः परम् आधाररूपं नैमित्तं शरीरभुवनादिकम् //
SKनिमित्तमभिलाषाख्यं विचित्रैर्हेतुरूपकैः तांश्चावलोकयेत् सूत्रे बन्ध्यबन्धनहेतुतः //
SKपाशानां ताडनं कार्यं हुम्फट्कारान्तजातिना स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमात् //
SKपुष्पेण ताडयेन्मूर्ध्नि ग्राह्यं हूमादि योजयेत् हुंफ.कारान्तयोगेनागृह्य संहारमुद्रया //
SKधाम्ना तु योजयेत् सूत्रे नमस्कारान्तयोगिना एवं शान्त्यादिकान् पाशान् स्थानात् संगृह्य योजयेत् //
SKभावयेत्त्रिविधान् पाशान् पञ्चतत्त्वाध्वव्यापकान् त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी //
SKशान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता आधेयग्रह आधारं गृहीतं भावयेत् पशोः //
SKगन्धपुष्पादिभिः पूज्य सूत्रे पाशांश्तु तर्पयेत् शान्त्यतीताक्रमेणैव आहुतीनां त्रयं त्रयम् //
SKसन्निधानाय पाशानाम् अतः पाशांस्तु दीपयेत् स्वनामजातिफट्कारधामभिश्च त्रयं त्रयम् //
SKविश्लेषकरणार्थं तु पाशानां दीपनं भवेत् दीप्ताः पाशास्ततो बन्ध्यास् ताडनग्रहणादिना //
SKसूत्रस्थांस्ताडयेत्पुष्पैः स्वदेहस्थानिव क्रमात् धाम्ना च सम्पुटीकृत्य स्वनाम्ना च सकृत्सकृत् //
SKबन्धने तु प्रयोगो ऽयं सूत्रे ग्रन्थीन् प्रदापयेत् बन्धने परिमाणं च कर्मणो विषयस्य च //
SKषट्त्रिंशत्तत्त्वमध्यस्थो भुङ्क्ते भोगं न चान्यथा पाशान् संस्थाप्य पात्रे तु संपातं जुहुयात् सकृत् //
SKपात्रसम्पुटमध्यस्थान् स्थण्डिले विनिवेदयेत् नीत्वा समर्पयेत् कुम्भे पाशान् संरक्ष हे विभो //
SKदर्भं विमोचयेच्छिष्यं पुष्पं पाणौ प्रदापयेत् स्ह्तण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेत् //
SKततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि उत्थाप्य पञ्चगव्यादीन् दद्याद्वै भैरवेण तु //
SKगोमयेन शुचौ देशे कार्यं मण्डलकत्रयम् एकस्मिन् मण्डले विष्टः पञ्चगव्यं शिशुः पिबेत् //
SKउपविश्य द्वितीये तु चरुकं प्राशयेद्बुधः आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः //
SKभक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत् पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनम् //
SKअन्यस्यामशुभं विद्धि तस्य होमः शतं भवेत् आचार्यो जुहुयात् पश्चात् प्रायश्चित्तं शिवेन तु //
SKविधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद् विशुद्ध्यति //
SKपश्चात्सन्तर्पयेद्धोमसहस्रेण शतेन वा मन्त्रांश्च दशभागेन वह्नौ नैवेद्यदापनम् //
SKविशेषपूजनं चार्घं मुद्राबन्धं वरानने स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेत् //
SKनिरोधार्घेण चार्घं तु दत्त्वा चैव वरानने रेचकेन तु संगृह्य भैरवं तमनुस्मरन् //
SKमुष्टिना पूरितं नीत्वा पूजयित्वा वरानने अग्निष्ठं वै पूरकेण गृहीत्वा स्थापयेत् पुनः //
SKतत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत् कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् //
SKप्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत् प्रिये शिवाम्भसा तु सम्प्रोक्ष्य शिष्ये शय्यां प्रकल्पयेत् //
SKगृहिणो दर्भशय्यां तु यतेर्वै भस्मना प्रिये पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः //
SKतत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् //
SKभस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत्ततः //
SKततश्चैव तु निर्गत्य बलिकर्म समारभेत् बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादरात् //
SKतं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेत् भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः //
SKपातालतलसंस्थाश्च शिवयागे सुभाविताः ध्रुवादिसर्वभूताश्च ऐन्द्राद्याशास्थिताश्च ये //
SKस्वाहाकारसमायोगात् तृप्यन्तूच्चारयन् क्षिपेत् नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमात् //
SKपूर्वादीशानपर्यन्तम् अधश्चोर्ध्वं समन्ततः कोणस्थान् क्षेत्रपालांश्च पतिताञ्छ्वपचानपि //
SKबलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुम् //
SKसहायैः सहितो वीर एकचित्तः समाहितः प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् //
SKपञ्चगव्यं पिबेत् पूर्वं चरुकं दन्तधावनम् प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च //
SKयागबूमौ स्वपेत् पाश्चाच् छिष्यैः सह वरानने भैरवध्यानयोगेन समाधौ जाग्रदेव वा //
SKस्वच्छन्दतन्त्रे ऽधिवासपटलस्तृतीयः
SKप्रत्यूषे विमले कृत्वा शौचाद्यान् पुर्र्ववत्क्रमात् सकलीकरणं कृत्वा पूर्ववत् प्रविशेद्गृहम् //
SKशिष्यश्च शुचिराचान्तः पुष्पहस्तः (...) गुरुं ततः प्रणम्य शिरसा (...) हृष्टो गुरोः स्वप्नान्निवेदयेत् //
SKशुभान् स्वप्नान् प्रवक्ष्यामि अशुभांश्च वरानने स्वप्नेषु मदिरापानम् आममांसस्य भक्षणम् //
SKक्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् //
SKश्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दाम भूषणम् सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् //
SKरत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् //
SKनरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः आचार्यैः सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति //
SKनदीसमुद्रतरणम् आकाशगमनं तथा भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् //
SKग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनम् हर्म्यस्यारोहणं चैव प्रासादशिखरे ऽपि वा //
SKनराश्ववृषपोतेभतरुशैलाग्ररोहणम् विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् //
SKलाभः सिद्धचरोश्चैव देवादीनां च दर्शनम् गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः //
SKउप्वीताञ्जनं चैव अमृतं पारतौषधीः शक्तिं कमण्डलुं पद्मम् अक्षसूत्रं मनःशिलाम् //
SKप्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा //
SKक्षतजार्णवसांग्रामतरणं विजयं रणे ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् //
SKवीरवेतालसिद्धैश्च महामांसस्य विक्रयम् महापाशोः संविभागं लब्ध्वा देवेभ्य आदरात् //
SKआत्मना पूजयन् देवं जपन् ध्यायन् स्तुवन्नपि सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति //
SKहंससारसचक्राह्वमयूरशवरोहणम् मातृभिर्भैरवश्चैव मातृरुद्रगणैः सह //
SKभैरवं भैरवीं दृष्ट्वा सिद्ध्यत्यत्र न संशयः शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे //
SKतैलाभ्यङ्गस्तथा पानं विशनं च रसातले अन्धकूपे च पतनम् अथ पङ्के निमज्जनम् //
SKवृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वतात् कर्तनं कर्णनासाभ्याम् अथ वा हस्तपादयोः //
SKपतनं दन्तकोशानाम् ऋक्षवानरदर्शनम् वेतालक्रूरसत्वानां तथैव कालपूरुषाः //
SKकृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेत् //
SKम्रियते नात्र संदेहो यदि शान्तिं न कारयेत् गृहप्रसादभेदं च शय्यावस्त्रासनेषु च //
SKआत्मनो ऽभिभवं संख्य आत्मद्रव्यापहारणम् खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च //
SKमहिषोलूककाकेषु रोहणम् च प्रवर्तनम् भक्षणम् पक्वमांसस्य रक्तमाल्यानुलेपनम् //
SKकृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् //
SKस्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणम् उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति //
SKअशुभा ह्येवमाख्याता विज्ञेया देशिकोत्तमैः शुभास्तत्रानुमेद्यास्तु अशुभेषु तु होमयेत् //
SKअष्टोत्तरशतं धाम्ना प्रायश्चित्ताद्विशुद्ध्यति पूर्ववत् सकलीकृत्य विघ्नोच्चाटनरक्षणम् //
SKवेष्टनं पूर्ववत् कुर्याच् छिवम्भः शिवहस्तकम् लोकपालांस्तु संपूज्य शिवकुम्भं च स्थण्डिलम् //
SKअग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनम् प्रायश्चित्तं ततः पश्चाद् दुस्वप्नार्थं यदुक्तवान् //
SKएवं पूजादिकं कृत्वा विसृज्य स्थण्डिलच्छिवम् निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् //
SKनित्यकर्म ततः कुर्यात् पूजाहोमजपादिकम् नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेत् //
SKउपलिप्य शिवाम्भोभिर् ब्रम्ह्मस्थानं प्रपूजयेत् भावेन गन्धपुष्.पाद्यैः ततो मण्डलमालिखेत् //
SKकरणीं खटिकां चैव भैरवेण प्रपूजयेत् धाम्ना तु रजसां पातः सिताद्यश्वागमोदितः //
SKनिष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेत् नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः //
SKस्नानादि पूर्वमन्त्रैः सकलीकरणादिकम् आत्मरक्षास्त्रप्राकारद्वारपालादिपूजनम् //
SKविघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनाम् अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनम् //
SKउदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत् शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनम् //
SKलोकपालांस्तु संपूज्य शिवकुम्भं प्रपूजयेत् मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना //
SKवर्मणा वेष्टयेत् पश्चात् प्रणवेनाभिमन्त्रयेत् अष्टोत्तरशतं धाम्ना रजोदोषैर्विशुद्ध्यति //
SKचतुर्दिक्ष्वस्त्रं संपूज्य द्वारे गन्धादिभिः क्रमात् प्राकारं भावयेदस्त्रं मण्डलं प्रविशेत् ततः //
SKगुरून् संपूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु अनन्तमासनं प्राग्वच् छिवान्तं प्रणवेन तु //
SKमूर्त्यादि पूर्वन्न्यस्येद् धृदाद्यावरणान्तगम् पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेत् //
SKनिरोधार्घेण चार्धं तु दत्वा चैव निरोधयेत् जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेत् //
SKनाडीसंधानकं त्रिष्ठं कृत्वा संतर्पयेद्विभुम् आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् //
SKकलशस्थस्य वामेन रोचयेत् पूरयेत्ततः मण्डलस्थस्य सव्येन पुनर्वामेन रोचयेत् //
SKअग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत् एवं साधनकं कृत्वा ततस्तर्पणमारभेत् //
SKदशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत् प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् //
SKविधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः आचार्योठार्धहस्तस्तु मण्डलं प्रविशेत्ततः //
SKसंपूज्य परमेशानं पुष्पाद्यैरर्धपश्चिमम् मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः //
SKविज्ञापयेत पश्वर्थं प्रारब्ध्योयं मखोत्तमः स्नानाधिवासनाद्यं यन् मण्डले ऽग्नौ च यत्कृतम् //
SKविधानं पुष्कलं सम्यक् त्वत्प्रसादादिहास्तु तत् इदानीं शिष्यदेहे तु सकलीकरणादिका //
SKयोजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात् प्रसिद्ध्यतु एवमस्त्वित्यनुज्ञातः परमेशेन वीरराट् //
SKलब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद्बहिः पश्वर्थाय कृतं यत्तु तद्गृहीत्वार्धपात्रकम् //
SKधाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेत् //
SKशिवाम्भो ऽस्त्रेण संताड्य भस्मना च कुशैः क्रमात् मण्डले कल्पिते शिष्यं मूर्तिभूतं प्रकल्पयेत् //
SKउपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकम् सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च //
SKशिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलम् मूर्ध्नि संपातयेत्तेजः पाशाङ्कुरविनाशनम् //
SKउत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेत् वस्त्रं संप्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् //
SKपूजयेद्गन्धपुष्पाद्यैर् भैरवेणाभिमन्त्रयेत् नेत्रे बद्धा तु नेत्रेण पुष्पं पाणौ प्रदापयेत् //
SKअकामान्निक्षिपेत्पुष्पं देवस्याभिमुखं स्थितः पुष्पपातवशान्नाम कुर्याद्वै साधकस्य च //
SKमुमुक्षोर्गुरुरिच्छातः नाम वै साधकस्य वा मुखमुद्घाट्य तं शिष्यं शिवाय प्रणिपातयेत् //
SKप्रदक्षिणमतः कृत्वा मण्डलेग्नौ प्रणम्य च अग्निकुण्डसमीपे तु आचार्यः पशुना सह //
SKआत्मसव्येथ दिग्भागे मण्डलं प्रणवेन तु पूर्वन्नाडिसंधानं तद् अर्थं चाहुतित्रयम् //
SKसंपाताभिहुतिं कृत्वा अणुतर्पणमेव च पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेत् //
SKधाम्ना चाष्टशतं पश्चात् पातयेदाहुतित्रयम् जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा //
SKबीजाहारे तथा देशभावशुद्धौ द्विजो भवेत् प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा //
SKअस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेत् रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि //
SKॐकारादि शिवं जप्त्वा अस्त्रमन्त्रं फडन्तगम् विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः //
SKछेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेत् अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेत् //
SKतत्रस्थः पुद्गलो ग्राह्यः संपुट्यैव ध्रुवेण तु संहारमुद्रया सम्यक् पूरकेण विशेद्धृदि //
SKसंस्कुभ्य सरसीकृत्य रेचयेत्पुद्गलं पुनः त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदम् //
SKतत्रस्थं पुद्गलं गृह्य संपुट्य च भवेन तु संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेत् //
SKभैरवेणाभिमन्त्र्य एवम् उपवीतं शिशोर्ददेत् आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेत् //
SKपिण्डस्यापादनं जातेः आहुतित्रितयेन तु चैतन्यस्यापि संस्कारम् आधानान्त्येष्टितः परम् //
SKसूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत् शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः //
SKसमयी संस्कृतो ह्येवं वचनेष्यार्हता भवेत् श्रवणे ऽध्ययने होमे पूजनादौ तथैव च //
SKचर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलार्थिनाम् //
SKविधानमुच्यते सूक्ष्मं पाशविच्छत्तिकारकम् गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणम् //
SKफलमाकाङ्क्षसे यादृक् तादृक् साधनमारभे वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता //
SKमन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा //
SKसाधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः //
SKज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः त्रिविधायास्तु सिद्धेर्वै सो ऽत्रार्हः शिवसाधकः //
SKद्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः कर्मकृत्फलमाकाङ्क्षञ् शुभैकस्थो ऽशुभोज्झितः //
SKतस्य कार्यं सदा मन्त्रैर् अशुभांशविनाशनम् गृहस्थो वा यतिर्वासाव् आश्रमैकतमस्थितः //
SKमुमुक्षुर्द्विविधः प्रोक्तो निर्बीजो बीजवान्पुनः बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम् //
SKएषां निर्बीजिका दीक्षा समयदिविवर्जिता विद्वद्द्वन्द्वसहाना तु सबीजा कीर्तिता प्रिये //
SKदीक्षानुग्राहिका तेषां समयाचारसंयुता विशेषसमयाचारा मन्त्राख्ये ये प्रकीर्तिताः //
SKते ऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता सबीजा सा तुविज्ञेया पुत्रकाचार्ययोः स्थिता //
SKगृहस्थो वाश्रमी वाथ यतिः संकल्प्य दीक्षयेत् पाशसूत्रकमादाय शिष्यदेहे ऽवलम्बयेत् //
SKअध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः कुम्भमण्डलवह्निस्थश् चाध्वात्मस्थः शिशोश्च यः //
SKसूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीर्तितः षड्विधस्याध्वमार्गस्य साधारणगतस्य तु //
SKकुण्डे संकल्प्य संशोध्यमध्वसंधौ तु होमयेत् मूलमन्त्राष्टशतिकमध्वसंधानहेतुतः //
SKअध्वावलोकनं पश्चाद् व्याप्यव्यापकभेदतः भुवनव्याप्तिता तत्त्वेष्व् अनन्तादिशिवान्तके //
SKव्यापकानि च षट्त्रिंशत् मन्त्रवर्णपदात्मकाः तत्त्वान्तर्भाविनः सर्वे वाच्यवाचकयोगतः //
SKकलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः हृदाद्या वाचकास्तासां बीजामन्त्राः प्रकीर्तिताः //
SKएकिकस्याः कलायाश्च पृथग्व्याप्तिं विभावयेत् पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणाश्च ते //
SKएवं व्याप्तिं भावयित्वा अध्वोपस्थापनं भवेत् त्रिराहुतिं ध्रुवेणैव अध्वशुद्धिरतो भवेत् //
SKअग्नौ तु पूजिते देवे अध्वन्यासे कृते सति तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेत् //
SKधामाधिः प्रणवादिश्च निवृत्त्यै च नमः पुनः उपस्थापनमन्त्रो ऽयं व्याप्तिं ध्यात्वाध्वसंस्थिताम् //
SKनिवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा तस्यां च भुवनानां च शतमष्टोत्तरावधि //
SKअष्टाविंशतिः पदानि वर्ण एको ऽत्र संस्थितः मन्त्रौ द्वावेव विज्ञेयौ अध्वषट्कं विभावयेत् //
SKपुष्पगन्धादिना पूज्य संनिधावाहुतित्रयम् मायीया भुवनाकारा मलाः कर्म च संस्थिताः //
SKशरीरभुवनाकारा मायीयाः परिकीर्तिताः भोगहेतुश्च कर्म स्याद् अभिलाषो मलो ऽत्र तु //
SKएवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितम् तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि //
SKआदौ शक्तिं न्यसेद्देवि कलातत्त्वसमन्विताम् हृदा संकल्प्य वागीशीं व्यापिकां सर्वयोनिषु //
SKशतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः समकालमृतुत्वेन वागीशीं संनिधापयेत् //
SKध्रुवेण पूजयेत्पुष्पैर् गन्धधूपैरनुक्रमात् ॐकारेणाहुतिस्तिस्रो वागीशीसंनिधापने //
SKशिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिना हृदः //
SKधाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेत् ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि //
SKपूरयेद्भैरवेणैव कुम्भयेद्रेचयेत्ततः द्वादशान्तात्तु संगृह्य योजयेद्भवमुद्रया //
SKआत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेत् //
SKप्राक्कर्मवासनाशेषफलभोगत्वहेतवे युगपद्भिन्नभोगानि देशकालशरीरतः //
SKमन्त्रशक्त्या विपच्यन्ते पुद्गलाश्च तथाविधाः भिनादेहा विसृज्यन्ते गर्भे वागीशियोनिषु //
SKधाम्ना च योजयित्वा च जुहुयादाहुतित्रयम् युगपत्सर्वगर्भेषु देहा विविधरूपकाः //
SKभैरवेच्छासुसंपन्नः शतरुद्राद्यनन्तगाः गर्भेषु गर्भनिष्पत्ति भैरवेणाहुतित्रयम् //
SKहुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात् सर्वयोनिषु देहास्ते युगपद्वृद्धिमागताः //
SKभोगनिष्पत्तये कर्म व्यापरसहकारणम् तदभावान्न भोगः स्यात् तदर्थं मार्जनं स्मृतम् //
SKअर्जिते [आर्जिते] सति भोक्तव्यो भोगो दुःखसुखात्मकः लयः परमया प्रीत्या सुखदुःखादिके ऽप्यलम् //
SKतिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेत् आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः //
SKयत्कर्मभोग्यरूपं तु जात्यायुर्भोगलक्षणम् निष्कृत्यन्ते विशुद्ध्येत्तद् भूलोकसमवस्थितम् //
SKसंसारा दशचत्वारः संस्कारा अष्टभिः सह चत्वारिंशद् द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि //
SKयोनिर्बीजं तथा भाव आहारो देश एव च एतेषां शोधनं देवि रुद्रांशापादनं तथा //
SKअत्रावलोकनं कृत्वा निष्.कृत्यामेव शुद्ध्यति विषया भुवनाकारा ये केचिद्भोग्यरूपिणः //
SKभुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता विश्लेषो निष्कृतेर्भोगात् भोगाभावे स हि स्मृतः //
SKभोक्तृत्वं विषयासक्तिर् मलकार्यं प्रकीर्तितम् भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतम् //
SKविश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च //
SKआहुतित्रितयं धाम्ना पाशच्छेदे ऽपि दापयेत् पाशा देहे तु मायीयाः कलाद्या भूतकावधि //
SKशरीरकरणाकाराः पुरुषार्थप्रसिद्धये भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा //
SKपाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते //
SKशरीरशेषभङ्गेन एकचैतन्यभावना पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च //
SKशुद्धतत्त्वाग्रसंस्थं तच् चैतन्यं कनकप्रभम् उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेत् //
SKतस्मात् तत्त्वाद्गृहीत्वा तु चैतन्यं मलसंयुतम् मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्द्धृदि //
SKकुम्भित्वा रेच्य संगृह्य द्वादशान्ताद् ध्रुवेण तु शिष्यदेहे निवेश्यैतन् नाडीरन्ध्रेण पूर्ववत् //
SKतत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयम् कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् //
SKस्वनामप्रणवाह्वानपूर्वं संतर्प्य चार्पयेत् शब्दस्पर्शो त्यजेत् तस्मिन् ध्रुवाद्यौ नामसंयुतौ //
SKस्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेत् तिसृभिस्तिसृभिर्होमात् पुर्यष्टांशं निवेदयेत् //
SKआमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत् ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् //
SKध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेत् हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकम् //
SKप्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा मुमुक्षोर्निरपेक्षत्वात् प्रारब्ध्रेकं न शोधयेत् //
SKसाधकस्य तु भूत्यर्थं प्राक्कर्मैकं तु शोधयेत् प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेत् //
SKशिवधर्मिण्यसौ दीक्षा लोकधर्मिण्यतो ऽन्यथा प्राक्तनागमिकस्यापि अधर्मक्षयकारिणी //
SKलोकधर्मिण्यसौ ज्ञेया मन्त्राराधनवर्जिता प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् //
SKभुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः सकले निष्कले वापि शिष्याचार्यवशाद्भवेद् //
SKनिर्वाणे ऽपि सबीजायां कर्माभावाद्विपद्यते समयाचारपाशं हि दीक्षितः पालयेत्तु यः //
SKतं पाशं नैव शुद्ध्येत सा सबीजा प्रकीर्तिता समयाचारपाशं तु निर्बीजायां विशोधयेत् //
SKदीक्षामात्रेण मुक्तिः स्याद् भक्रिमात्राद्गुरोः सदा सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयका //
SKअतीतनागतारब्धपाशत्रयवियोजिका दीक्षावसाने शुद्धिः स्याद् देहत्यागे परं पदम् //
SKएवं भावानुसारेण शिष्याणां गुरुणा सदा फलं तु विविधाकारं निष्पाद्येत सुदीक्षया //
SKअचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा क्रिया काले प्रयोक्तव्या गुरुणा भक्तिपूर्विका //
SKविषाणमिव पाशानां मन्त्रैः कवलनं ध्रुवम् करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणात् //
SKकलासंधानकं कुर्याच् छुद्धाशुद्धद्विरूपगम् शुद्धमुच्चारयेध्रस्वम् अशुद्धं दीर्घमेव च //
SKएकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत् प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरम् //
SKनमस्कारस्तदन्ते तु कलासंधानकं स्मृतम् आवाह्य स्थाप्य संपूज्याहुतीस्तिस्रः प्रपातयेत् //
SKकलासंधानमेतद्धि व्याप्तिं तस्यावलोकयेत् गुल्फादारभ्य नाभ्यन्तं शिष्यदेहे ऽध्वकल्पनम् //
SKप्रतिष्ठाया भवेद्व्याप्तिश् चतुर्विंशतितत्त्विका षट्पञ्चाशद्भुवनिका त्रयोविंशतिवर्णिका //
SKज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते मुख्या ह्येते स्मृताः पाशाः सूक्ष्मानन्तर्विभावयेत् //
SKअन्यत्तन्त्रप्रसिद्धिं तु तन्मात्रेन्द्रियशोधनम् षट्कोशान्विषयान् पञ्च तदन्तर्भावयेत्सदा //
SKविशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः भैरवेणाहुतीस्तिस्रः तस्या वागीशिकल्पना //
SKस्वनामावाहनाद्यस्य अर्धहोमादि पूर्ववत् प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा //
SKधाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत्पुनः योजनं गर्भधारित्वं जननं पूर्ववत्क्रमात् //
SKऐश्वरीं मूर्तिमास्थाय ताडनादीनि कारयेत् अधिकारस्थथा भोगो लयो निष्कृतिरेव च //
SKशिवरूपेण कर्तव्याः निष्कृतिः शिरसा पुनः विश्लेषश्च हृदा होम्यः पाशच्छेदस्तथासिना //
SKपूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेत् //
SKआत्मस्थं पूरकेणैव तत्स्थं रेचकवृत्तितः स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेत् //
SKपूजयेत्पुष्पगन्धाद्यैः तर्पणाहुतित्रयम् रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा //
SKविसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेत् कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः //
SKअभावं भावयेत्तस्मिन् पाशजाले त्वनन्तके कलाद्वयविनिर्मुक्तः पशुरूर्ध्वगमोत्सुकः //
SKतस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेत् स्थापयित्वा संपूज्य जुहुयादाहुतित्रयम् //
SKएवं तु संमुखीकृत्य प्रागिवाध्वावलोकनम् पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते //
SKसप्त तत्त्वानि भुवनसप्तविंशतिरेव च पदविंशतिराख्याता वर्णाः सप्त प्रकीर्तिताः //
SKमन्त्रौ द्वौ षड्विधाध्वानं ज्ञात्वा वागीशिकल्पनम् प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु //
SKसमकालमृतुत्वेन ध्यात्वा संपूज्य तर्पयेत् ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेत् //
SKतेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु आत्मनो रेवकेनैव शिष्यदेहे विशेद्धृदि //
SKअस्त्रमन्त्रेण संछेद्य विशेषाश्लेष्यास्त्रेण कर्षयेत् द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत्कुरु //
SKपूरकेणाथ संकुम्भ्य रेचयित्वा तु योजयेत् पूर्ववद्द्व्यापकं तस्य चैतन्यं सर्वयोनिषु //
SKयोगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववत् शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेत् //
SKप्रणवादि ततो रुद्रम् आवाह्य स्थाप्य पूजयेत् ततो ऽस्य विन्यसेद्देवि गन्धरूपे ध्रुवाहुती //
SKपुर्यषकांशं विन्यस्य विसर्ज्य रुद्रदेवताम् वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववत् //
SKह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत् संधानार्थं तु मूलेन जुहुयादाहुतित्रयम् //
SKस्वनाम्नावाहनं शान्तेर् विधिपूर्वं निवेदनम् प्रमेयभावनां कृत्वा पूजयेत् कुसुमादिभिः //
SKत्रिराहुतिं तु मूलेन विद्यातत्त्वात्सदाशिवम् तत्त्वानां त्रितये व्याप्तिर् वर्णानां त्रय एव च //
SKपदैकादशिका ज्ञेया पुराणि दश सप्त च मन्त्रौ द्वौ षड्विधो ऽध्वैवं मुख्याः पाशा इमे स्मृताः //
SKसूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्सदा वगीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः //
SKपूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम् छेदाकर्षग्रहं चैव योगधारित्वजन्म च //
SKअधिकारस्तथा भोगो लयो वै पूर्ववद्भवेत् सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु //
SKनिष्कृतौ शतहोमं तु कवचेन तु कारयेत् विश्लेषं पाशछेदं तु कुर्यादस्त्रेण दैशिकः //
SKउद्धारकरणात्मस्थतत्स्थीकारान्भवेन तु स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् //
SKसंपूज्य हुत्वा संतर्प्य बुद्ध्यहंकृतिद्यंशकम् स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेत् //
SKअहंकारं तथाप्येवं हुत्वेदं क्षमयेत्ततः वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् //
SKकलासंधानकं पूर्वं शान्त्यतीते तु योजयेत् ह्रस्वदीर्घविभागेन जुहुयादाहुतित्रयम् //
SKध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना कलोपस्थापनं पश्चाद् ध्रुवेण जुहुयात्प्रिये //
SKत्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् शान्त्यतीतां समावाह्य स्थापयेत्पूजयेत्पुनः //
SKव्याप्तिमालोक्य चाध्वस्थां शिवतत्त्वगताश्च ये बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः //
SKपदमेकं मन्त्र एको वर्णाः षोडश कीर्तिताः भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् //
SKशोधनीया वरारोहे यावत्ते शिवरश्मयः शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते //
SKषडध्वा चैकतो ज्ञेयः तस्य संख्यां पुनः शृणु कलाश्च पञ्च विज्ञेयास् तत्त्वषट्त्रिशदेव तु //
SKसचतुर्विंशति ज्ञेयं भुवनानां शतद्वयम् एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता //
SKमन्त्रा एकादशा ज्ञेया इत्येतच्चाध्वमण्डलम् एतस्मिञ्शुद्धिमापने मुक्तिमाप्नोति दीक्षितः //
SKध्रुवेणावाह्य वागीशीं विन्यसेत् पूर्ववद्धुतिः संपूज्य कुसुमादयिस्तु तद्योनौ पूर्ववत्पशुम् //
SKध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकम् निष्.कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेत् //
SKविश्लेषपाशच्छेदाभ्यां प्राग्वत्कुर्याद्ध्रुवेण तु ग्रहेणात्मस्थतत्स्थत्वं प्रणवेन पशोः स्मृतम् //
SKसदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् नमस्कारेण संस्थाप्य पुष्पैः संपूज्य तर्पयेत् //
SKमनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे प्रणवादि समुच्चार्य मनःसंज्ञां नमस्तथा //
SKविन्यस्य पूजयेत्पश्चात् संज्ञास्वाहान्तमेव च आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति //
SKततो विसर्जयेद्देवं कारणं च सदाशिवम् पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरम् //
SKता तु संपूज्य संतर्प्य विज्ञाप्या भक्तिभाविता क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया //
SKइदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपम् विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता //
SKस्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् //
SKसशबोच्चारयोगेन आत्मतत्त्वे तु होमयेत् मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे //
SKविधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये विद्यातत्वे तु होतव्यं शतमष्टोत्तरं प्रिये //
SKउपांशूच्चरयोगेन विद्यातत्त्वे तु होमयेत् सदाशिवान्तमध्वानं विद्यातत्त्वं विनिर्दिशेत् //
SKमन्त्रोच्चरवोलोमेन प्रायश्चित्तं तु यद्भवेत् तद्विशुद्ध्यै स होमः स्याद् विद्यातत्त्वे तु यः कृतः //
SKमनोविज्ञानवैकल्यात् प्रायश्चित्तं तु यद्भवेत् तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् //
SKमानसेन प्रयोगेन शक्त्यन्ते ऽध्वनि संस्थितम् तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेत् //
SKअध्वान्तस्थां परां शान्ताम् अनौपम्यामनामयाम् व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणम् //
SKध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवत् कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखाम् //
SKशिखां समर्प्य चान्यस्य निर्गच्छेत्स सशिष्यकः स्नानं समाचरेच्छिष्यः गुरोराचमनं भवेत् //
SKस्नानमुद्धूलनं वाथ आचरेत्स्वेच्छया गुरुः प्रविश्य सकलीकृत्य पूर्णया जुहुयाच्छिखाम् //
SKहुत्वा निर्गम्य चाचम्याक्षाल्य स्रुक्स्रुवकर्तरीः प्रविश्य सकलीकृत्य शिवहस्तानुपूजनम् //
SKततस्तु मण्डले पश्चात् पूजयेत्परमेश्वरम् पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवम् //
SKभगवंस्त्वत्प्रसादेन अध्वष्टकव्यवस्थितम् पशुं संगृह्य संशोध्य शिखाच्छेदावसानकम् //
SKत्वन्मुखोक्तविधानं तु लेशतो वर्तितं मया त्वच्छक्त्यैव तु गन्तव्यम् आशु ध्रुवपदं शिवम् //
SKइदानीं योजने कर्म तवाज्ञानुविधायिनः आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम् //
SKलब्धानुज्ञातमात्मानं प्रहृष्टो निर्गतः पुरात् अर्धहस्तो व्रजेदग्निम् शिष्यमाहूय प्रोक्षयेत् //
SKपूर्ववच्चासनस्थस्य सकलीकरणादिकम् अन्तःकरणविन्यासं नाडीसंधानपूर्वकम् //
SKपूजनं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च दशभागविभागेन यथा द्रव्यानुसारतः //
SKमन्त्रान्संशोधयेत्पश्चात् सकलीकरणे स्थितान् सकृदाहुतियोगेन अधिकारो विवर्ज्यताम् //
SKसकलीकरणत्वेन न कदाचित्पशोः पुनः योजनीयं प्रयोगं तु अधुना कथयामि ते //
SKज्ञात्वा चारप्रमाणं तु प्राणसंचारमेव च षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितम् //
SKहंसोच्चारं तु वर्णैश्च कारणत्यागमेव च शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवम् //
SKभेदनं च पदार्थानां भावप्राप्तिवशात्पुनः आत्मविद्याशिवव्याप्तिम् एवं ज्ञात्वा तु योजयेत् //
SKतद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः //
SKतुटिषोडशमानेन कालेन कलितः प्रिये संचरन्तं विभागेन यथावत्तं शृणुष्व मे //
SKहृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम् //
SKतत्रस्थो विनिवर्तेत यावत्तत्त्वं न विन्दति विदिते तु परे तत्त्वे तत्रस्थो ऽपि न बाध्यते //
SKशक्त्या चाधो यदा गच्छेद् अबुधस्तु तदा भवेत् हृद्गतः पुनरुत्तिष्ठेद् बुध्यमानः स उच्यते //
SKशक्तिं प्राप्य बुधो ज्ञेयः व्यापिन्यंशे प्रबुद्धता अतीतः सुप्रबुद्धस्तु उन्मनस्त्वं तदा भवेत् //
SKन कालो न कला चारो न तत्त्वं नच कारणम् सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् //
SKतद्वोदित्वा विमुच्येत गत्वा भूयो न जायते अध्वष्ट्कं यथा प्राणे संस्थितं कथयामि ते //
SKआपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत् भुवनाध्वा स विज्ञेयस् तत्त्वाध्वा च तथैव हि //
SKकलाकलितसंतानः प्राणः संचरते सदा निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवर्तिके //
SKविद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका तदतीतः परो भावः तदूर्ध्वम्. पदमव्ययम् //
SKएवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः //
SKप्राणैकसंस्थिताः सर्वाः षट्त्यागात्सप्तमे लयः कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे //
SKवर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे स्थिताः पञ्चशता भेदैः शास्त्रेष्वानन्त्यकोटिषु //
SKशब्दात्प्राणः समाख्यातस् तस्माद्वर्णास्तु प्राणतः उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः //
SKशब्दातीतो वरारोहे तत्त्वेन सह युज्यते युक्तः सर्वगतो देवि धर्माधर्मविवर्जितः //
SKनाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत्पुनः //
SKविज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह वर्णाध्वैवं समाख्यातः पदाध्वा प्रोच्यते ऽधुना //
SKएकाशीतिपदान्येव विद्याराजस्थितान्यपि वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः //
SKतस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु पदाध्वैवं समाख्यातः मन्त्राध्वानं निबोध मे //
SKमन्त्रिकादशिका या तु सा च हंसे व्यवस्थिता पदिकादशिका सा च प्राणे चरति नित्यशः //
SKअकारश्च उकारश्च मकारो बिन्दुरेव च अर्धचन्द्रो निरोधी च नादो नादान्त एव च //
SKशक्तिश्च व्यापिनी चैव समनैकादशी स्मृता उन्मना च ततो ऽतीता तदतीतं निरामयम् //
SKमन्त्रा एवं स्थिताः प्राणे हंसोच्चारस्तथोच्यते हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः //
SKअकारेण यदा युक्त उकारचरणेन तु मकारमात्रया युक्तो वर्णोच्चारो भवेत्स्फुटः //
SKबिन्दुः शिरःसमायोगात् सुस्वरत्वं प्रपद्यते नादो ऽस्य वदनं प्रोक्तः वदनं शब्दमीरयेत् //
SKअनेनैव च योगेन हंसः पुरुष उच्यते ब्रह्मविष्ण्वीशमार्गेण चरन्वै सर्वजन्तुषु //
SKशक्तितत्त्वे लयं याति विज्ञानेनोर्ध्वतां व्रजेत् व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवम् //
SKशिवतत्त्वगतो हंसो न चरेत् व्यापको भवेत् हंसोच्चारः समाख्यातः कारणैश्च समन्वितः //
SKहकारः प्राणशक्त्यात्मा अकारो ब्रह्मवाचकः हृदि त्यागो भवेत्तस्य उकारो विष्णुवाचकः //
SKकण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः तालुमध्ये त्यजेत्तं तु बिन्दुश्चैवेश्वरः स्वयम् //
SKत्यागस्तत्र भ्रुवोर्मध्ये नादे वाच्यः सदाशिवः ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते //
SKशक्तिव्यापिनीसमनास् तासां वाच्यः शिवो ऽव्ययः मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेत् //
SKसमनां उन्मनां त्यक्त्वा षट्त्यागात्सप्तमे लयः सूक्ष्मसूक्ष्मतरैर्भावैर् एवमेवं त्यजेत्प्रिये //
SKस्थूलस्थूलतरैर्भावैर् नानासिद्धिफलप्रदैः सूक्ष्मो ऽत्यन्तं परो भावस् त्व् अभावः स विधीयते //
SKउन्मना त्वपरो भावः स्थूलस्तस्यापरो मतः तस्यापरं पुनः शून्यं संस्पर्शं च ततो ऽपरम् //
SKशब्दो ज्योतिः ततो मन्त्राः कारणा भुवनानि च पञ्चभूतात्मभुवनं कारणैः समधिष्ठितम् //
SKभुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् भुवनेशत्वमाप्नोति शिवं ध्यात्वा तु तन्मयः //
SKब्रह्मादिकारणानां च साधने विग्रहं स्मरन् पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयात् //
SKमन्त्रिश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद्भवेत् पूर्वोक्तरूपकध्यानात् सिद्ध्यन्त्यत्र न संशयः //
SKज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् तन्मयत्वं यदाप्नोति योगिनामधिपो भवेत् //
SKशब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेत् स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् //
SKशून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेत् समनध्यानयोगेन योगी सर्वज्ञतां व्रजेत् //
SKउन्मन्या तु परं सूक्ष्मम् अभावं भावयेत्सदा सर्वेन्द्रियमनोतीतस् त्व् अलक्ष्यो ऽभाव उच्यते //
SKअभावं भाव्यं भावेन भावं कृत्वा निराश्रयम् सर्वोपाधिविनिर्मुक्तम् अभावं लभते पदम् //
SKएष ते कारणत्यागः कालत्यागं निबोध मे तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः //
SKतुटद्वयं समाश्रित्य एकैको भैरवः स्थितः अहोरात्रविभागेन कुर्वन्त्युदयमेव ते //
SKनवमस्तु परो देवः तेजसस्तूदयन्ति ते सर्वं कालं त्यजेत्प्राणे यथावत्कथयामि ते //
SKतुटयः षोडशैवोक्ताः कालस्य करणं तु ताः तदादिः संस्थितः कालः सर्वं चरति वाङ्मयम् //
SKतुटिर्लवो निमेषश्च काष्ठा चैव कला तथा मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा //
SKअयनं वत्सरश्चैव युगं मन्वन्तरं तथा कल्पश्चैव महाकल्पः शक्त्यन्ते तं परित्यजेत् //
SKव्यापिन्यन्ते परः कालः स तदङ्गी त्यजेत्तु तम् स च सप्तदशो ज्ञेयः परार्धपरतः स्थितः //
SKसो ऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेत् सर्वकालं तु कालस्य व्यापकः परमो ऽव्ययः //
SKउन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते नित्यो नित्योदितो व्यापी आदिरूपं न संत्यजेत् //
SKतं च नित्योदितं प्राप्य तन्मयो जायते सदा कालत्यागो भवेदेवं शून्यभावस्त्वथोच्यते //
SKऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकम् शून्यत्रयं चलं ह्येतत् तदधो मध्य ऊर्ध्वतः //
SKचतुर्थं व्यापिनीशून्यं समनायां च पञ्चमम् उन्मनायां तथा षष्ठं षडेते सामयाः स्थिताः //
SKतत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः षट् शून्यानि परित्यज्य सप्तमे तु लयं कुरु //
SKतच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवर्जितम् अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते //
SKअभावः स समुद्दिष्टो यत्र भावाः क्षयं गताः सत्तामात्रं परं शान्तं तत्पदं किमपि स्थितम् //
SKयत्र यत्र च नादादिस्थूला अन्ये ऽपि संस्थिताः तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितम् //
SKतदेव भवति स्थूलं स्थूलोपाधिवशात्प्रिये स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् //
SKतत्प्राप्य तन्मयत्वं च लभते नात्र संशयः शून्यभावः समाख्यातः सामरस्यं निबोध मे //
SKआत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः तृतीयं नाडिगं कुर्याच् छक्तौ कुर्याच्चतुर्थकम् //
SKव्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकम् तात्वः समरसो देवि सप्तमस्तु विधीयते //
SKशिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमात् पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् //
SKपूरकं कुम्भकं कृत्वा समानेन निरोधयेत् यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः //
SKसमानेन समाकृष्टा एकीभूता भवन्ति ताः तासु ये वायवस्ते ऽपि प्राणे समरसीगताः //
SKनाडयस्तु सुषुम्नायाम् एकीभूता व्यवस्थिताः ततो वै उच्चरेन्मन्त्रः नादे लीनं विचिन्तयेत् //
SKमन्त्र आत्मा तथा नाडी एवं समरसीभवेत् वामदक्षिणमध्ये तु ततो नादं प्रमोचयेत् //
SKसेतुबन्धं च तं मार्गं यत्र गत्वा न जायते ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च //
SKएते ऽत्र समतां यान्ति अन्यथा तु पृथक् पृथक् तस्मिन्समुच्चरेन्नादं यावच्छक्तौ लयं गतः //
SKशक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते सर्वं शक्तिमयं तत्र सर्वं समरसीभवेत् //
SKतदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेत् समन्ताद्व्याप्नुयाद्यस्माद् व्यापिनीत्यभिधीयते //
SKतदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत्पुनः सा च सर्वगता ज्ञेया सामरस्येन संस्थिता //
SKषष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा //
SKस च सर्वेषु भूतेषु भावतत्वेन्द्रियेषु च स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् //
SKअध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः //
SKयस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः मनो न चलते तस्य सर्वावस्थागतस्य तु //
SKयत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेत् चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः //
SKविषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् //
SKएवां समरसं ज्ञात्वा नासौ मुह्येत् कदाचन यस्यैवं सर्वतो भावः सो ऽपि सर्वगतो भवेत् //
SKएवं समरसः प्रोक्तो विषुवत्तु निबोध मे प्रथमं प्राणविषुवन् मात्रं ज्ञेयं द्वितीयकम् //
SKतृतीयं नाडिविषुवत् प्रशान्तं च चतुर्थकम् पञ्चमं शक्तिविषुवत् षष्ठं वै काल उच्यते //
SKसप्तम तत्त्वविषुवत् प्रविभागस्त्वथोच्यते आत्मानं च मनः प्राणे संयोज्य विषुवद्भवेत् //
SKप्राणे विषुवदाख्यातं मान्त्रं विषुवदुच्यते मन्त्रमुच्चारयेत्तावद् यावन्नान्यमना भवेत् //
SKपरापरविभागेन मन्त्रात्मा तु तदुच्यते मान्त्रं विषुवदित्युक्तं नाडिस्थं तन्निबोध मे //
SKसर्वासामेव नाडीनां मध्ये या संव्यवस्थिता सुषुम्ना नाम सा ज्ञेया नाभेः शक्त्या शिवं गता //
SKतत्र प्रवाहयेन्नादं नाडीविषुवदुच्यते प्रशान्तं विषुवच्चैवम् अधुना कथयामि ते //
SKअयने षडङ्गुलश्चारः कारणान्यङ्गुले ऽङ्गुले तान्यधस्तात्परित्यज्य कारणानि षडेव तु //
SKसप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम् प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः //
SKनिश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः एवंभावं समास्थाय दीक्षा कार्या तु दैशिकैः //
SKएतत्प्रशान्तविषुवत् शक्त्युपाधिं निबोध मे शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा //
SKतावत्तु शक्तिविषुवत् कालाख्यं तु निबोध मे तुटिः षोडशका या तु प्राणान्ते संव्यवस्थिता //
SKकालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीर्तितो मया तं परापरभागेन पुनरेव त्रिधा कुरु //
SKअपरः षोडशो यावत् कालः सप्तदशः परः परापरस्तु यः कालः स प्रिये ऽष्टादशः प्रभुः //
SKप्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत्पुनः अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः //
SKतृतीयः समनास्थाने तत्कालविषुवत्स्मृतम् एतत्षष्ठं समाख्यातं सप्तमं तात्व्वमुच्यते //
SKउन्मना परतो देवि तत्रात्मानं नियोजयेत् तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते //
SKतत्त्वाख्यं विषुवद्देवि सर्वेषां परतः स्थितम् विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् //
SKविषुवत्ते समाख्यातं पदार्थभेदनं शृणु त्यागं चानुभवं चैव योजनं च परे पदे //
SKपदार्थैकादशी ज्ञेया उन्मनान्तः परो भवेत् भेदयेज्ज्ञानशूलेन ज्ञानं ज्ञेयस्य ज्ञापकम् //
SKज्ञापकं बोधमतुलं दीपवद्योतनं यतः दीपहस्तो यथा कश्चिद् द्रव्यमालोक्य चाहरेत् //
SKएवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्यात्तु संस्थितम् ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्वस्य सुव्रते //
SKलक्षणं गुण आख्यातः कला तत्त्वस्य सर्वदा न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः //
SKगुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचित् गृह्यते ह्यनुमानेन प्रत्यक्.आनुभवेन च //
SKअर्थिप्रत्यर्थिभावेन आगमेन तु लभ्यते आगमो ज्ञानमियुक्तम् अनन्ताः शास्त्रकोटयः //
SKशास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः हंसयोगः पुराख्यातः मात्रासंख्या त्वथोच्यते //
SKमात्रायोगो यथा चास्य प्रमाणं हृदयादिस्.उ नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात्षडङ्गुले //
SKहृदयं मध्यदेशे तु चतुरङ्गुलसंमितम् चतुर्विंशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः //
SKकण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः तत्त्वाष्टकेन संयुक्तः तदूर्ध्वं चतुरङ्गुलम् //
SKमायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीर्तितम् //
SKतत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः एकादशाङ्गुले चैव मूर्ध्वं देवः सदाशिवः //
SKतत्त्वद्वयसमायुक्तो यावद्ब्रह्मबिलं गतः तदूर्ध्वैकाङ्गुला शक्तिः शिवस्तत्र व्यवस्थितः //
SKत्वक्छेषे व्यापिनी प्रोक्ता समना चोन्मना ततः तत्परं तु परं तत्त्वं प्रमाणपरिवर्जितम् //
SKमात्रासंख्या च योगश्चाधुना हंसस्य कथ्यते अकारश्च हकारश्च द्वावेतावेकतः स्थितौ //
SKविभक्तिर्नानयोरस्ति मारुताम्बरयोरिव एकमात्रः स विज्ञेयो हृदयात्संप्रवर्तते //
SKउकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेत् त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेत् //
SKबिन्दुश्चैवार्धमात्रस्तु मात्रार्धं हि स उच्यते भ्रुवोर्मध्ये स उच्चारस् तस्य देवि विधीयते //
SKतच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत् निरोधी चार्धपादस्तु ललाटान्ते समुच्चरेत् //
SKनादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेत् द्वात्रिंशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेत् //
SKव्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतःस्थिता समना चोन्मना चोर्ध्वम् अमात्रः परमो ऽव्ययः //
SKमात्रासंख्या च योगश्च प्रमाणं परिकीर्तितम् एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेत्ततः //
SKभेदयेन्मत्रशूलेन मुद्राभावयुतेन च मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका //
SKभावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम् परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः //
SKयत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते क्रियाकरणसंबन्धात् तत्त्वस्योच्चारणं भवेत् //
SKक्रियाकरणहीनस्य न चैवोच्चारणं भवेत् क्रिया करणभेदेन सा चैव त्रिविधा स्मृता //
SKएकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेत् //
SKतृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेत् पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत् //
SKगुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेत् //
SKनाडयो ग्रन्थिपद्माश्च ये ऽधोमुखगताः प्रिये ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः //
SKकरणं तु ततः कृत्वा लक्षणं तस्य वै शृणु जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् //
SKईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेत् दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववर्जिता //
SKकायं समुन्नतं कृत्वा करणं दिव्यमुच्यते दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु //
SKकुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः नाडयो ग्रन्थिपद्माश्च देहे याःसंव्यवस्थिताः //
SKरेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते ततो वै ज्ञानशूलेन ग्रन्थीन्भिन्दन् समुच्चरेत् //
SKभित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते यदाकाशसमायोगात् घोषशब्दोपमो भवेत् //
SKकण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते //
SKतालुमध्यगतः प्राणो यदा भवति सुव्रते बिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते //
SKएवं ते ऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते त्रयस्ते ऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमात् //
SKतिष्ठेत्स यत्र वै प्राण आत्मा तद्गतिमाप्नुयात् तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः //
SKभ्रुवोर्मध्यं यदा गच्छेत् स्फोटशब्दस्तु जायते बिन्दुं भेदयतो देवि शब्दो धुमधुमायते //
SKकपिर्वै नारिकीलेन आचार्यः सह बिन्दुना अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये //
SKभित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत् भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते //
SKअर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीम् तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते //
SKस्थनत्रयमिदं देवि पञ्चपञ्चकलान्वितम् प्राणस्य चरतस्तत्र यस्मिन्स्थाने स तिष्ठति //
SKतत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात् निरोधिनीं भेदयित्वा ततो नादं व्रजेद्बुधः //
SKवंशशब्दसमः शब्दस् तत्र सूक्ष्मः प्रजायते भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुर्भिदम् //
SKभिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः //
SKतां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनाम् भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः //
SKशक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेत् अनुभावो बवेत्तत्र स्पर्शो यद्वत्पिपीलिका //
SKस्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् यत्र यत्र चरेत्प्राणस् तत्तद्रूपमवाप्नुयात् //
SKयत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयात् तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिम् //
SKभित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेत् मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् //
SKजीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः //
SKसमस्ताध्वपदातीतः शुद्धविज्ञानकेवलः गृहाणाति नापरं भावं न परं च शिवात्मकम् //
SKपरापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परम् //
SKबन्धनाशेषभावेन सर्वाध्वोपाधिवर्जिता अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः //
SKत आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः //
SKतस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः आत्मतत्त्वं ततस्त्याज्यं विद्यातत्वे नियोजयेत् //
SKउन्मना सा तु विज्ञेया मनः संकल्प उच्यते संकल्पः क्रमतो ज्ञानम् उन्मानं युगपत्स्थितम् //
SKतस्मात् सा तु परा विद्या यस्मादन्या न विद्यते विन्दते ह्यत्र युगपत् सार्वज्ञ्यादिगुणान् परान् //
SKवेदनानादिधर्मस्य परमात्मत्वबोधना वर्जना परमात्मत्वे तस्माद्विद्येति सोच्यते //
SKतत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम् परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् //
SKसुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे //
SKतद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः अहमेव परो हंसः शिवः परमकारणम् //
SKमत्प्राणे स तु पश्वात्मा लीनः समरसीगतः मन्त्रकरणक्रियायोगाद् योजयामि परे शिवे //
SKएवं यो वेत्ति तत्त्वेन अग्निवद्देहमध्यतः यद्वद्वह्निशिखातीता तद्वद्योजयते परे //
SKतस्मिन्युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः शिव एको भवेद्देवि अविभागेन सर्वतः //
SKतत्त्वत्रयं परं ख्यातम् अपरं चाध्वमध्यगम् भेदनं तु पदार्थानां त्यागानुभवयोजनम् //
SKपूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेत् संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि //
SKविद्यातत्त्वास्पदं बद्ध्वा बिन्दुतत्त्वासने स्थितः नादशक्तितनुश्चैव व्यापिनीकरणान्वितः //
SKसर्वज्ञत्वावबोधेन समनान्तश्चरा तु सा त्रितत्वं यत्परं प्रोक्तं तेन चापूरिता तनुः //
SKअपरा सा तनुः स्थूला षट्विंशत्तत्त्वकल्पिता तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववर्जितम् //
SKतेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः एवमाचरते यस्तु आचारं तु शिवात्मकम् //
SKशिवेन सहचारित्वाद् आचार्यस्तेन चोच्यते तस्य दर्शनसंभाषास्पर्शनात्स्मरणादपि //
SKभवत्येवैश्वरी व्याप्तिर् न भवेत्तदधोगतिः तेन संयोजितो जन्तुः ब्रह्महापि शिवो भवेत् //
SKततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे शिव आचार्यरूपेण लोकानुग्रहकारकः //
SKतस्मान्न मानवीं बुद्धिं कारयेद्देशकं प्रति आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च //
SKनानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते //
SKआचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः //
SKनरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् न तेन सह संभाषा कर्तव्या तु शिवार्थिना //
SKकृत्वा संभाषणं तेन नरकं सो ऽपि गच्छति तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता //
SKभुक्तिमुक्तिफलावाप्तिर् भवत्येव तदाज्ञया आचार्यः स्वजानानां च कुलकोटिसहस्रशः //
SKज्ञानज्ञेयपरिज्ञानात् समस्तास्तारयिष्यति एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः //
SKपूर्णाहुत्यैकयैवासौ पशून्योजयते परे पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव //
SKऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः नाभिस्थाने स्रुचो मूलम् उत्तानाग्रमुखं समम् //
SKस्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ //
SKमुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतो ऽपि च अग्रतो दक्षिणं हस्तं वामं वै पृष्टतः प्रिये //
SKमुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः ततो घृतेन संप्लाव्य अभिमानं तु कारयेत् //
SKअहमेव परं तत्त्वं परापरविभागतः तत्त्वमेकं हि सर्वत्र नान्यं भावं तु कारयेत् //
SKयत्कुम्भे ऽध्वात्र विन्यस्तः षट्प्रकारो वरानने मण्डले ऽग्नौ शिशोरन्तः साधारणविकल्पितः //
SKस्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगम् प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेत् //
SKवसुधारप्रयोगेण प्रक्षिपेज्जातवेदसि नाभिस्थाने स्रुचो मूलं नयन्नासान्तगोचरम् //
SKयथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेत् प्राणो ऽपि वर्णतां याति षड्विधाध्वमयस्तु सः //
SKषड्विधेध्वनि नातो ऽन्यः प्रमेयो विद्यते क्वचित् तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः //
SKवर्णैः कारणषट्कं तु षट्त्यागात्सप्तमे लयः अकारश्च उकारश्च मकारो बिन्दुरेव च //
SKअर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् //
SKसमनान्तं वरारोहे पाशजालमनन्तकम् कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणम् //
SKअत्र पाशोपरि ह्यात्मा व्योमवद्बिन्दु[च्चित्सु]निर्मलः शिवतत्त्वगुणामोदाच् छिवधर्मावलोककः //
SKपाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यत् आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिस्ततो ऽन्यथा //
SKसर्वज्ञ्यादिगुणा ये ऽर्था व्यापकान्भावयेद्यदा शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी //
SKअतो धर्मिस्वभावो हि शिवः शान्तश्च पठ्यते उन्मनाश्च मनोग्राह्यः आत्मबोधे स्थितोन्मनाः //
SKव्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवात् //
SKपरे चैव नियुक्तस्य स्रुवमापूरयेत्पुनः स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते //
SKबहिस्थां कुम्भकं तावत् परे तत्त्वे तु भावयेत् बहिर्निरोधभावेन सामरस्यं शिवेन च //
SKअन्यथा न भवेद्देवि नदीवेग इवार्णवे स्थितः स सागरेद्भिस्तु सिन्धुः समरसीभवेत् //
SKपुनर्विभागं नाप्नोति तथात्मा तु शिवार्णवे स्रुचस्तु पूरणं यावत् तावत्कालं समादिशेत् //
SKअनेनैव तु कालेन बहिः कुम्भकवृत्तिना आत्मा समरसत्वेन शिवीभवति सर्वगः //
SKगुणानापादयेत्पश्चात् षट् अङ्गपरिमाहुतीन् यथा नृपत्वे संप्राप्ते कलशैश्चाभिषिच्यते //
SKवन्दिभिश्च गुणास्ते ऽपि ख्याप्यन्ते वसुधातले तथा शिवत्वे संप्राप्ते गुणानापादयेद्बुधः //
SKसर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः //
SKतथा त्वलुप्तशक्तिश्चानन्तशक्तिस्ततः पुनः गुणानापाद्य सर्वांस्तान् मूलमन्त्रमनुस्मरेत् //
SKॐहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमम् स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेत् //
SKतिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा दद्यात् ततो ऽभिषेकं तु मूलमन्त्रेण सुव्रते //
SKपरं शक्त्यमृतं क्षोभ्य शिष्यमूर्ध्नि निपातयेत् तुर्यद्वारं विशेत्तद्धि सबाह्याभ्यन्तरं स्मरेत् //
SKमन्त्रशक्तिभिरुग्राभिः शेषनिर्दहनादिभिः शरीरं शोष्यते ताभिस् तदर्थमभिषेचनम् //
SKदीक्षानिर्वर्तनात्पूर्वं पुष्पं पाणौ प्रदापयेत् दर्भं विमोचयित्वा च शिवाग्नौ कलशे गुरौ //
SKप्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद्भुवि कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः //
SKप्रोत्फुल्लनयनः शान्तस् तृप्तात्मानं तु भावयेत् इयं नैर्वाणकी दीक्षा निर्बीजा वा सबीजिका //
SKयेषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम् श्रुतशीलसमाचारान् देशकत्वे नियोजयेत् //
SKअथाभिषेक आचार्ये शिवयोगादनन्तरम् पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः //
SKशिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः ऋद्धिवृद्ध्यादिभिः पूतैर् ओषध्यक्षतपूरितैः //
SKसितपद्ममुखोद्गारैश् चूतपल्लवसंयुतैः पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत् //
SKकलशेषु महादेवि पुनश्चैव कला न्यसेत् निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् //
SKएकैककलशो व्याप्यो ह्य् अनन्तादिशिवान्तकः पूजयेद्भैरवं देवं सर्वसंभारकैः क्रमात् //
SKषडङ्गावरणोपेतं मन्त्रसंधानसंयुतम् भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये //
SKअष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् वारुण्यां सौम्ययम्यायम् एन्द्र्यामैश्यां तथैव च //
SKसंपूज्यैवं विधानेन अभिषेकं समाचरेत् यागहर्म्यस्य ऐशान्यां पीठं संकल्प्ययेबुधः //
SKतत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितम् वितानोपरिसंछन्नं ध्वजैश्च परिशोभितम् //
SKतत्रासनं न्यसेद्देवि श्रीपर्णीचन्दनोद्भवम् तत्रानन्तासनं न्यस्य मूर्तिभूतं शिशुं न्यसेत् //
SKपूर्ववत्सकलीकृत्य ऐशान्यभिमुखं स्थितम् गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः //
SKमृद्भस्मगोमयैः पिण्डैर् दूर्वाङ्कुरसमाश्रितैः सिद्धार्थदधितोयैश्च निराजनसमन्वितैः //
SKनिर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत् पृथिव्यादिघटासयिर्वा धामानुस्मृत्य सेचयेत् //
SKक्रमाद्ध्यात्वा कलशेषु आचार्यः सुसमाहितः अभिषिक्तो ऽन्यवासस्तु परिधाप्याचनेत्ततः //
SKप्रविश्य दक्षिणां मूर्तिं योगपीठं प्रकल्पयेत् संस्थाप्य सकलीकृत्य अधिकारं प्रकल्पयेत् //
SKउष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनम् हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः //
SKकरणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकम् अक्षसूत्रादिकं दत्त्वा चतुराश्रमसंस्थिताः //
SKदीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा अद्यप्रभृति कर्तव्येत्य् अधिकारः शिवाज्ञया //
SKउत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत् जानुभ्यां धरणीं गत्वा संपूज्य भैरवं ततः //
SKविज्ञाप्य भगवन्नेवम् अभिषिक्तस्त्वदाज्ञया आचार्यपदसंस्थेन तवानुज्ञाविधायिना //
SKकर्तव्यं यत्तदायातम् अधिकारं तु देशके शिवतत्त्वार्थकथनं शिवस्य पुरतः स्हितः //
SKनिर्गत्य भवनादगनौ कलाध्वानं तु होमयेत् मन्त्रतर्पणकं कृत्वा कलानां पञ्च चाहुतीः //
SKपञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत्प्रभोः //
SKअभिषिक्तो मयाचार्यस् तदर्थं मन्त्रतर्पणम् हृदाद्यैः पञ्चभिश्चाङ्गैर् दक्षिणं लाञ्छयेत्करम् //
SKदर्भोल्मुकं शिवाग्नौ तु कानीयस्यादि लाञ्छयेत् पुष्पं पाणौ प्रदद्यात्तु मण्डलाग्नौ प्रपातयेत् //
SKभैरवं कलशं चाग्निं नमस्कृत्य तु दण्डवत् लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः //
SKस गुरुः शिवतुल्यस्तु शिवधामफलप्रदः शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका //
SKशिवधर्मिण्यसौ ज्ञेया लोकधर्मिण्यतोण्यथा शिवधर्मिण्यसौ येषां साधकानां प्रकीर्तिता //
SKतेषां कृत्वाभिषेकं तु साधकत्वे नियोजयेत् साधकस्याभिषेको ऽयं विद्यादीक्षात उत्तरः //
SKविद्यादीक्षा भवेत्सा तु वासनाभेदतः स्थिता कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः //
SKकृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु तानि संशोध्य विधिवत् कलापञ्चस्थितानि तु //
SKयोजन्यवसरे भेदो विमर्शः साधकस्य तु प्रारब्दं कर्म पाश्चात्यं न चैकस्थं तु भावयेत् //
SKसाधकस्य तु भूत्यर्थं प्राक् कर्मैकं तु शोधयेत् धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेत् //
SKविद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम् पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतम् //
SKअणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकम् //
SKकलशैः पञ्चभिः कुर्यात् निवृत्याद्यास्त्रिषु न्यसेत् शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके //
SKशान्त्या तु संपुटीकृत्य पृथिव्याद्यैश्च पञ्चभिः एकैककलशे पश्चात् साध्यमन्त्रं तु विन्यसेत् //
SKविद्याङ्गैः सकलीकृत्य विद्याङ्गावरणं न्यसेत् संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः //
SKबहिर्मण्डलके न्यस्य आसनं प्रणवेन तु साधकं तत्र संस्थाप्य सकलीकरणं ततः //
SKनिर्भत्स्य पूर्ववत्सर्वैः साध्यमन्त्रेण सेचयेत् निवृत्यादित्रिभिः कुम्भैः स्नापयेत्पूर्वदिङ्मुखम् //
SKशान्त्यतीतं घटं पश्चाद् गृहीत्वा सेचयेच्छिशुम् शान्तिं पश्चात्तु गृह्णीयात् संपुटेनाभिषेचयेत् //
SKसाधकस्याभिषेको ऽयम् अनुलोमविलोमतः अभिषिच्य प्रवेश्यैनं दक्षिणां मूर्तिमास्थितम् //
SKप्रणवेनासनं दत्त्वा सकलीकरणं भवेत् साधकस्याधिकारार्थम् अक्षमालादि कल्पयेत् //
SKमन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके उष्णीषरहितं दत्वा प्रविश्य शिवसंनिधौ //
SKविज्ञाप्य परमेशानं साधको ऽयं मया कृतः भूयात्सिद्धिस्त्वदाज्ञातस् त्रिप्रकारस्य भक्तितः //
SKसाध्यमन्त्रं ददेत्पश्चात् पुष्पोदकसमन्वितम् तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु //
SKप्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत् प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् //
SKअग्न्यागारे सावधानौ तर्पयेन्मन्त्रसंहिताम् सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् //
SKएवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेत् त्रिस्थं संपूज्य देवं तु ततो ऽपि त्रिःप्रदक्षिणम् //
SKप्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत् उत्थाप्य साधकं ब्रूयात् समयान्पाहि यत्नतः //
SKदीक्षावसाने ते देवि श्रावणीया विपश्चिता एवं दीक्षां तु निर्वर्त्य सर्वदैव वरानने //
SKआत्मत्यागः प्रकर्तव्यो यथा भवति तच्छ्रुणु वैज्ञानकी प्राकृती वा आचार्यस्य यदृच्छया //
SKवैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेत् तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना //
SKकलाभिः पञ्चभिर्व्याप्तम् अध्वानं युगपन्न्यसेत् पूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् //
SKशिष्यचैतन्यवत् योगाद् अध्वानं युगपन्न्यसेत् पुष्पाद्यैः पूजयित्वा तं योगार्थमाहुतित्रयम् //
SKगर्भधारित्वजनने अर्जने भोगतल्लये युगपद्धोमयेद्देवि मूलमन्त्रेण सुव्रतः //
SKआहुतीनां त्रयं होम्यं प्रतिकर्म वरानने होतव्या निष्कृतिर्भिन्ना पञ्चस्थानकलात्मसु //
SKशतमेकं तदर्थं वा निष्कृतिः परिकीर्तिता विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः //
SKउद्धारे चात्मतत्त्वस्थे पूर्णाहुतिं तु पातयेत् आत्मानं योजयेत्तत्त्वे शिवे परमकारणे //
SKगुणान् पूर्ववदापाद्य अमृतान्पूर्ववत् कुरु आत्मदीक्षा समाप्तौ तु प्रायश्चित्तनिवृत्तये //
SKअथ विज्ञानरूपेण सकृदुच्चारलक्षणा हेयोपादेयपाशानां युगपद्भैरवेण तु //
SKशाश्वती संस्थितिः पश्चात् सूक्ष्मदीक्षा प्रकीर्तिता विशेषपूजनं होमं यथाशक्ति प्रकल्पयेत् //
SKवाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरम् त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलम् //
SKअष्टाङ्गपतनं कृत्वा विज्ञपेत्परमेश्वरम् भगवन्पशुहेत्वर्थं येन्मयावाहितो भवान् //
SKतत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो विधिन्यूनमकामस्य पूजा शास्तोदिता यथा //
SKन भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसंचयैः अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया //
SKतत्सर्वं सफलं मे ऽस्तु सुप्रसन्ने विभो त्वयि प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेत् //
SKउपविश्य ततो यागं संहरेत क्रमात् प्रिये अग्रं संप्रार्थ्य गृह्णीयात् स्थापयेच्चास्त्ररक्षितम् //
SKविशेषपूजनं चार्धं प्रणिपातं ततः पुनः निरोधार्धं ततो गृह्य अर्धं सव्यापसव्यतः //
SKदत्वा विसर्जयेद्देवं धाममन्त्रमनुस्मरन् आत्मनो रेचकं कृत्वा पुष्पं देवाय नि.क्षिपेत् //
SKसंहारिण्या च संगृह्य मन्त्रान् पार्श्वव्यवस्थितान् विद्युद्वच्चलितान् ध्यात्वा धामदेहे तु विन्यसेत् //
SKविद्यादेहं भैरवस्य तल्लीनं बिन्दुविग्रहे बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् //
SKशक्तिरूपं व्यपकेन प्रणवोभयसंपुटम् संहारिण्या तु संगृह्य द्वादशाते तु योजयेत् //
SKपूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत् सकलं निष्कलं रूपं तथा सकलनिष्कलम् //
SKभिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत्प्रिये विसर्जनविधिर्ह्येवं अग्नावेवं प्रपूजयेत् //
SKअष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेत् अर्धामाचमनं दत्वा प्रणिपत्य क्षमापयेत् //
SKमण्डलस्थप्रयोगेन रेचकापूरकेण तु संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत् //
SKजागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः निर्माल्यनयनं कुर्याद् रजांस्यपहरेत्प्रिये //
SKततः प्रविश्य वसुधां प्रोक्षयेत्तं शिवाम्भसा बहिर्निर्गत्य भूतानां बलिकर्म तु पूर्ववत् //
SKआचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः गुरुं संपूजयेच्छिष्यो यथाविभवविस्तरैः //
SKदेशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकम् शतभुक्पञ्च वै दद्याद् ग्रामं विंशतिभुक्तथा //
SKदद्यात्तु ग्रामभुक् क्षेत्रं क्षेत्रभोक्ता तु विंशतिम् येन येन गुरुस्तुष्येत् तत्सर्वं विनिवेदयेत् //
SKततस्त्वनृणतां याति वित्तशाठ्यविवर्जितः ततस्तु समयाञ्श्राव्यस् तन्त्रे भैरवनिर्गते //
SKचरुकं प्राशयेत्पश्चाच् चुम्बकः साधकैः सह वाङ्निरुद्धः प्रसन्नात्मा पृथक् पात्रव्यवस्थितः //
SKअनुक्रमेण दातव्यः ततः सिद्धिमवाप्नुयात् अनेनैव विधानेन दीक्षिता ये वरानन्ते //
SKब्राह्मणाः क्षत्रिया वैश्याः शूद्रश्चान्ये ऽथवा प्रिये सर्वे ते समधर्माणः शिवधर्मे नियोजिताः //
SKसर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने //
SKपुत्रकाणां भवेदेका साधकानां तथा भवेत् चुम्बकानां भवेदेका न प्राग्जातिविभेदतः //
SKएकैव सा स्मृता जातिर् भैरवीया शिवाव्यया तन्त्रमेतत्समाश्रित्य प्राग्जातिं न ह्युदीरयेत् //
SKपुत्रकाणां साधकानां तथा समयिनामपि प्राग्जात्युदीरणाद्देवि प्रायश्चित्ती भवेन्नरः //
SKदिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च पितामहस्य पक्षैकं नरके पच्यते तु सः //
SKअविवेकी भवेत्तस्माद् यदीच्छेदुत्तमां गतिम् अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेत् //
SKस्वच्छन्दतन्त्रे चतुर्थः पटलः
SKकलादीक्षा सुरेशान कथिता परमेश्वर तत्त्वदीक्षा समासेन कथयस्व प्रसादतः //
SKसमासात् कथयिष्यामि त्वत्प्रियार्थं वरानने षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति //
SKपृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहम् //
SKविद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः //
SKधरित्र्यादिप्रधानान्तम् ऊकारो वाचकः स्मृतः पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च //
SKनियामिकां वकारेण विद्यातत्त्वसमन्विताम् कालं कलां लकारेण कल्पयेत्तु वरानने //
SKमायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः //
SKप्रणवेन तथा शक्तिर् न्यसितव्या वरानने व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेत् //
SKशोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे //
SKनिराभासे परे शान्ते ईशाने चाव्यये त्वजे षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे //
SKप्रकृतिः पुरुषश्चैव नियतिः काल एव च माया विद्या तथेशश्च सदाशिवशिवौ तथा //
SKशोधयित्वा तु विधिवद् व्याप्त्यात्मानं नियोजयेत् पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः //
SKधरित्र्यादि खपर्यन्तं शोधयेत् तत्क्रमेण तु कलानां यावती व्याप्तिस् तत्त्वानां तावदेव हि //
SKत्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः //
SKमायान्तं तद्विजानीयात् विद्याख्यस्याप्युकारकः सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः //
SKखस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेत् //
SKतत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः //
SKविद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः पृथग्भेदेन तेषां तु विन्यासं कथयामि ते //
SKनवनाभं पुरं कृत्वा नवपद्मोपलक्षितम् नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः //
SKसप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितम् चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितम् //
SKकोष्ठकैकोनपञ्चाशत् सूत्रेण तु समालिखेत् मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितम् //
SKसमालिख्य महादेवि चतुर्भागविभाजिते प्रथमे कर्णिकां कुर्यात् केसराणि द्वितीयके //
SKतृतीये दलसन्धींश्च दलाग्राणि चतुर्थके दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च //
SKभ्रामयेच्चतुरो वृत्तांश् चतुरङ्गुलसम्मितान् द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तत् //
SKसूत्राग्रं तु ततो भ्राम्यम् अर्धचन्द्रविधानतः मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता //
SKपूर्वपत्रं प्रसाध्यवम् इतराण्येवमेव हि केसराणि च संलिख्य चतुर्विंशतिसंख्यया //
SKपत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनाम् तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः //
SKपूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत् प्रिये //
SKद्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तम् पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मिताम् //
SKपूर्वाह्ने ग्राहयेच्छायाम् अपरस्थां सुचिह्निताम् अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत् प्रिये //
SKध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने ततः समालिखेत् पद्मम् अष्टपत्रं सकर्णिकम् //
SKदिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितम् शेषा लोप्या वरारोहे एकान्तरितयोगतः //
SKपद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेत् वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेत् //
SKउपशोभां च तन्मानां कपोलान्तं समालिखेत् तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितम् //
SKद्वाराष्टकविभागेन नवनाभं पुरं स्मृतम् स्नात्वा तु विधिवद् देवि प्रविशेद्भवनं गुरुः //
SKपूर्वोक्तेन विधानेन सकलीकरणादिकम् ततः सम्पूजयेद्देवं भैरवं परमेश्वरम् //
SKप्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरम् //
SKपूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितम् पत्राष्टके न्यसेद्वर्णान् पूर्वादीशांश्ततः क्रमात् //
SKसदाशिवं हकारेणेत्य् एवमादि वरानने प्रकृत्यन्तं विजानीयान् मध्ये पीठेशकल्पना //
SKदिक्पद्मकर्णिकासंस्थान् अष्टौ देवान् प्रपूजयेत् तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमम् //
SKशोधयेच्च प्रकृत्यादिशिवान्तं सुरसुन्दरि ईशानदिश आरभ्य मध्यपीठं विशोधयेत् //
SKयोजयेत्तु परे तत्त्वे शिवे परमकारणे एवं वर्णास्तथा मन्त्रान् भुवनानि विशोधयेत् //
SKकालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेत् समयान् श्रावयेत्पश्चात् तन्त्राम्नायोत्थितान् प्रिये //
SKन निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवम् सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् //
SKयतः शिवोद्भवाः सर्वे ह्य् अपवर्गफलप्रदाः स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकम् //
SKब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा //
SKदेवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितम् गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि //
SKमद्यं मांसं तथा मत्स्यान् अन्यानि च वरानने साचाराश्च निराचारांल् लिङ्गिनो न जुगुप्सयेत् //
SKचरुकं प्राशयन्नित्यं गुरून् सम्पूजयेत् सदा उपस्करान् महादेवि पादेन तु न संस्पृशेत् //
SKसंहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत् सदा आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने //
SKअदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् त्रिकालं पूजयेद्देवं जपध्यानरतः सदा //
SKसमयान् पालयन्नित्यम् उभयार्थफलेप्सया अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः //
SKअध्यात्मगतिचारेण केवलेन विशोधिकाम् शिष्यात्मानं गृहीत्वा तम् आत्मप्राणे नियोजयेत् //
SKअभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा उद्घातैश्च ततो ऽध्वानं शिष्यस्य तु विशोधयेत् //
SKततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमम् //
SKसस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितम् बिन्दुना शक्तिसंयोगाद् उद्घातः प्रथमः स्मृतः //
SKदेवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः //
SKहंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः अर्धचन्द्रान्निरोधिन्याम् उद्घातस्तु तृतीयकः //
SKभिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेत् उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः //
SKस एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः //
SKपञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः अकारोकारमकारान्तम् एवं शुद्ध्यति नान्यथा //
SKशुद्धे ऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः जलीभूतं तदेवैतद् आत्मना सह योगतः //
SKजलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेत् बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेत् //
SKशोधिते तोयसंघाते तेजोभूतं विचिन्तयेत् तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः //
SKनास्ति तेजस्ततो वायुर् उद्घातद्वयशोधितः आकाशे लीयमानं तम् उद्घातेन तु चिन्तयेत् //
SKनष्टे वायौ ततः शून्यम् उद्घातैकेन योजयेत् व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता //
SKसमनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः //
SKतत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगवित् योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे //
SKयोजनां तु परे तत्त्वे शृणु देवि वदाम्यहम् मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परम् //
SKपरापरविभागेन यावत्तत्त्वं परं गतम् त्रिदेवं बिन्दुसंयुक्तम् अर्धचन्द्रं निरोधिकाम् //
SKनादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः उन्मना च परश्चैव सर्वव्यापी शिवो ऽव्ययः //
SKज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमम् तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेत् //
SKबिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते //
SKईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता //
SKस शब्दस्तालुके देवि ईरितः सम्प्रवर्तते तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते //
SKज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः //
SKवर्णः शब्दगतः तेषाम् उद्घातः स तु कीर्तितः तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः //
SKपञ्चधावस्थितो बिन्दुर् अर्धचन्द्रो निरोधिका तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेत् //
SKईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः //
SKपञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता //
SKस्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववत् व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता //
SKवालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि //
SKतस्यापि समनातीता मनस्तत्र न कारयेत् उन्मनापदमारोहन् शुद्धात्मा तु ततो भवेत् //
SKशिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेत् तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयात् //
SKगुरुपारम्परायातः सम्प्रदायः प्रकाशितः योजने तु परे तत्त्वे उपायः कथितस्तव //
SKएवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेत् तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च //
SKवर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु //
SKमन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेत् //
SKइति स्वच्छन्दतन्त्रे तत्त्वदीक्षाप्रकाशनं नाम पञ्चमः पटलः
SKसमयाचारयुक्तस्य साधकस्य वरानने जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते //
SKसुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेत् //
SKजपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते पञ्चप्रणवसंयोगाज् जपतः सिद्ध्यते ध्रुवम् //
SKमुच्यते न तु सन्देहो भेदनात् प्रणवस्य तु ह्रस्वं दीर्घं प्लुतं सूक्ष्मम् अतिसूक्ष्मं परं शिवम् //
SKप्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः //
SKयत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितम् शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः //
SKविना प्रणवसंयोगाज् जीव एको व्यवस्थितः यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः //
SKतथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते //
SKप्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः कथितं नाभिजानन्ति विना शास्त्रेण चोदनाम् //
SKषष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते //
SKनिर्गुणस्तु यदा देव एकाकी कालवर्जितः विज्ञातव्यं न किञ्चित्स्यात् केवलो निष्कलस्तु सः //
SKतस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः //
SKएतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितम् पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः //
SKग्रहणं तु यदा तस्य योगी योगविचिन्तकः योगेनावाहितस्यापि भावमात्रं तु भावयेत् //
SKयदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते बिन्दूपरि च यच्छान्तः शिवः परमकारणम् //
SKतत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः षष्ठस्वरसमायोगाद् अभ्यासादचिराल्लभेत् //
SKषष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः //
SKसकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः सकले जप्यमाने तु जप्तो भवति निष्कलः //
SKसुरासुराणां देवेन यजनोपायहेतुना रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितम् //
SKप्रथमं प्राकृतं रूपं विकृतं च द्वितीयकम् प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते //
SKये पदार्थाः पुरा प्रोक्तास् तत्रासावुच्छ्वसन् मुहुः प्रवर्तते च एतेन पुनस्तेन निवर्तते //
SKप्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते //
SKअकारश्च उकारश्च मकारश्च तृतीयकः वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः //
SKबिन्दुनादसमायोगाद् ईश्वरश्च सदाशिवः एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा //
SKपरमात्मा शिवो हंसस् त्व् अपरेण समन्वितः परतः प्रणवान् पञ्च पुनरेव वदाम्यहम् //
SKशक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः //
SKपरतः परमो हंसः सर्वं व्याप्य व्यवस्थितः एते वै प्रणवाः पञ्च परापरविभागशः //
SKपरापरेण हंसेन नित्यमेव प्रणामिताः प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः //
SKपञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः //
SKतद्योगादपि तद्बीजं सर्वबीजप्ररोहकम् प्रवर्तते ऽयतो यस्माद् देवासुरनिकेतनम् //
SKतत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत् प्रिये //
SKतावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति विदिते तु पुरे तत्त्वे न भूयो जायते क्वचित् //
SKअकृतार्थो नरस्तावद् यावद्धंसं न विन्दति प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेत् //
SKउच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः //
SKहकारोकारसंयुक्तबिन्द्वन्ते तु तृतीयकः सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते //
SKएवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः //
SKईषदुद्घाटिते वक्त्रे तदा नादं विजानत नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः //
SKव्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् //
SKएवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः //
SKज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकम् शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकम् //
SKब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदम् परापरविभागेन ते सर्वत्र व्यवस्थिताः //
SKशून्यातीता तु समना शुद्धात्मा तून्मना तथा सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् //
SKमन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः तत्रस्था सर्वकर्माणि साधयन्ति न संशयः //
SKतत्त्वं च उन्मनात्मा तु समना शून्यमेव च स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरम् //
SKमन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने //
SKकर्मकाले तु सकलान् शिरः पाण्यादिभिर्युतान् जपेत् तु सकलान् देवि निष्कलेन समन्वितान् //
SKध्यायेज्ज्योतिर्मयान् सर्वान् शब्दसिद्धिप्रदायकान् शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः //
SKक्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे //
SKतत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः //
SKपञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया पञ्चप्रणवपूर्वेण ॐकाराद्ययुतेन तु //
SKनमस्कारावसानेन बहुरूपेण सुव्रते जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया //
SKप्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत् सदा जपान्ते तु पुनर्होमं दशमांशेन कारयेत् //
SKनृमांसं पुरसंयुक्तं घृतेन च परिप्लुतम् ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमम् //
SKत्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत् ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् //
SKभयदाता च हर्ता च शापानुग्रहकृद् भवेत् दर्पं हरति कालस्य पातयेद् भूधरानपि //
SKस्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेत् ब्रह्मराक्षसवेतालान् क्रूरग्रहविनायकान् //
SKस्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः //
SKतानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः मोहना सहदेवा च भूधात्री चक्रलाञ्छना //
SKरामवल्ल्या सहैकत्र आत्मबीजेन पोषयेत् भक्षे पाने च दातव्यं वशीकरणमुत्तमम् //
SKउत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेत् आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमम् //
SKश्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतम् भूकदम्बसमोपेतं दातव्यं पयसा निशि //
SKअप्रवासे प्रदातव्यं म्रियते विरहेण सा षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः //
SKनरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी एष कापालिको योगो गच्छन्तमनुगच्छति //
SKश्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतम् //
SKभक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमम् मोहना चैव कान्तारी मयूरशिखया युता //
SKआत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमम् लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा //
SKनागेन्द्रपदमिश्रं तद् आत्मबीजसमन्वितम् एष योगवरो दिव्यो दीयते यस्य सुव्रते //
SKमधुरेण समायुक्तो यावदायुर्वशी स तु चणका माषमुद्गाश्च अपानेन विनिर्गताः //
SKवान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा मूत्रं रक्तं तथा केशो लाला चैव वरानने //
SKपुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता //
SKपुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः //
SKउच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनाम् काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका //
SKकृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेत् काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेत् //
SKतां चतुष्पथे निखनेत् श्मशानाग्निमथोपरि प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते //
SKउद्भ्रान्तपत्रसहितान् खरमूत्रेण भावितान् यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितम् //
SKमन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेत् भ्रमते काकवत् पृथ्वीं शत्रुर्व्याधिनिपीडितः //
SKपिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टिताम् //
SKश्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि पुष्पैर्विभीततरुजैर् यस्य नाम्ना तु होमयेत् //
SKविद्विष्टो वै भवेच्छत्रुः कामदेवसमो ऽपि यः प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितम् //
SKहृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते जातिकुट्मलकैर्मिश्रैस् त्रिमध्वक्तैस्तिलैर्हुतैः //
SKसुभगत्वमवाप्नोति रूपहीनो ऽपि यो नरः तिलैर्लवणसम्मिश्रैस् त्रिमध्वक्तैर्हुतैः प्रियैः //
SKसप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता राजिका लवणं चैव मधुक्षीरघृतप्लुतम् //
SKहोमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतम् नरस्य रोचनां गृह्य द्विरदस्य मदेन तु //
SKभावयित्वाभिमन्त्र्यैतन् मन्त्रेणाष्टशतं जपेत् स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते //
SKस वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः //
SKअपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसम् कपालद्वयमादाय नाम शत्रोः समालिखेत् //
SKकपालसम्पुटस्थं तद् विषाङ्गारेण भावितम् रुधिरेण समायुक्तं हुम्फट्कारविदर्भितम् //
SKमहाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः कृष्णमाल्योपहारैश्च ततः कर्म समारभेत् //
SKविज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयम् //
SKतत्र गत्वा महादेवि कपालासनसंस्थितः तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः //
SKआत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणम् क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितम् //
SKविलोमेन महाभागे शत्रुनाम ततो ऽन्तगम् हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशम् //
SKखण्डशश्चूर्णिते यावत् तावच्छतुर्विनश्यति सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः //
SKएवं शतसहस्राणि अन्यकल्पोत्थितानि च प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः //
SKअनुलोमगतं देवं वौषत्कारान्तसंस्थितम् क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकम् //
SKवषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतम् //
SKएतद्धि कथितं देवि साधकस्य सुमेधसः क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहम् //
SKइति स्वच्छन्दतन्त्रे पञ्चप्रणवाधिकारः षष्ठः पटलः
SKक्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर कालांशकं च देवेश कथयस्व प्रसारतः //
SKकालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये सुवारकरणे लग्ने सुयोगे सुदिने प्रिये //
SKतेजो ऽपचयराशौ तु दक्षिणायनमुत्तरम् ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा //
SKपक्षो मासश्च वेला विषुवद्राश्यन्तरं तथा पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः //
SKआध्यात्मिकं पुनर्देवि कथयामि निबोध मे षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः //
SKस मनोबुद्ध्यहङ्कारबुद्धिकर्मेन्द्रियैर्गुणैः सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः //
SKतत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः //
SKतस्माद्विनिर्गता नाड्यस् तिर्यगूर्ध्वमधः प्रिये चक्रवत् संस्थितास्तत्र प्रधाना दश नाडयः //
SKद्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः पुनर्विनिर्गताश्चान्या आभ्यो ऽप्यन्याः पुनः पुनः //
SKयावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः //
SKशरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा //
SKपृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने //
SKनाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः प्रधाना दश याः प्रोक्ता नाडयश्च वरानने //
SKतासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे //
SKइडा च पिङ्गला चैव सुषुम्ना च तृतीयका गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी //
SKअलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः //
SKप्राणो ऽपानः समानश्च उदानो व्यान एव च नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः //
SKवायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये तासु संचरतः सिद्धिं योगं चैव वरानने //
SKजपतश्च वरारोहे जपसिद्धिमवाप्नुयात् दशानां तु परं देवि नाडीत्रयमुदाहृतम् //
SKबिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता हृच्चक्रे तु समाख्याताः साधकानां हितावहाः //
SKप्राणो वै चरते तासु अहोरात्रविभागतः तथा ते कथयिष्यामि प्रविभज्य यथास्फुटम् //
SKप्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः त्रय एते ऽविभागेन संचरन्ते समन्ततः //
SKअध ऊर्ध्वं वहेद्यस्मात् सर्वनाडीः प्रवाहयन् वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा //
SKद्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये कोटिधातो वरारोहे स एकः संव्यवस्थितः //
SKप्राणापानमयः प्राणो विसर्गापूरणं प्रति नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः //
SKप्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः अहोरात्रगतिं प्राणे अधुना कथयामि ते //
SKतुटयः षोडश प्राणे पूर्वं हि कथिता मया बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः //
SKताभिश्चतसृभिर्देवि प्राणे यामो विधीयते तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेत् //
SKरात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतो ऽष्टभिः शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः //
SKआत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेत् //
SKऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते //
SKअहोरात्रोदयस्त्यैव विभागं कथयामि ते हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत् प्रिये //
SKअङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः //
SKअत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेत् नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते //
SKप्रहरस्तु तृतीयो ऽसौ भवेद्वै वरवर्णिनि शक्त्यन्ते च चतुर्थस्तु प्रहरो ऽहः प्रकीर्तितम् //
SKचतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः ततो ऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत् प्रिये //
SKतत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते स च चन्द्रोदयो देवि रजनी च विधीयते //
SKपूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ तालुके चार्धरात्रस्तु पुनरेवं विधीयते //
SKहृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः //
SKतस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः पूर्ववत् क्रमयोगेन स चरेद्धि सदा शुभे //
SKवासरे तु चरेत्सूर्यो धारायां संचरेच्छशी चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः //
SKभौमाद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये //
SKवेला वारो भवेद्यस्य स चरेत्प्रहरद्वयम् राहुश्चरति सोमेन केतुश्चरति भास्वता //
SKये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते मूर्तयश्चैव ते चाष्टाव् अष्टौ ते च गणेश्वराः //
SKते च पञ्चाष्टका रुद्रास् तथा योगाष्टकाः परे अनन्तादिशिखण्ड्यन्तास् ते च विद्येश्वराष्टकाः //
SKसकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः //
SKग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः राशिभिः सह नक्षत्रैस् त उद्यन्ति अहर्निशम् //
SKमध्याह्ने चार्धरात्रे च उदयो ऽभिजितो भवेत् अभीप्सितं फलं तत्र साधकानां भवेदिह //
SKअहोरात्रविभागो ऽयम् एवं ते कथितो मया अधुना पक्षमासांश्च वर्षाणि कथयामि ते //
SKआध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेत् //
SKतत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि मासैद्वदशभिश्चैव बाह्ये ऽथ घटिका भवेत् //
SKशतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका वर्षमेतत् समाख्यातं बाह्ये वै घटिका च सा //
SKघटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः //
SKप्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव षट् शतानि वरारोहे सहस्राण्येकविंशतिः //
SKअहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु //
SKप्रणहंसे सदा लीनः साधकः परतत्त्ववित् तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः //
SKअधः प्रवहणे सिद्धिर् हृत्पद्मं यावदागतः मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते //
SKमनो ऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् यथा प्रवर्तते प्राणस् त्व् अयत्नादेव सर्वदा //
SKनास्योच्चारयिता कश्चित् प्रतिहन्ता न विद्यते स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः //
SKमासवत्सरसंख्या तु एषा ते कथिता मया चन्द्रसूर्योपरागं तु कथयामि ततः परम् //
SKअहोरात्रस्तु यः प्रोक्तः प्राणे ऽस्मिन्सुरसुन्दरि स एव पक्षद्वितयं मासं च कथयामि ते //
SKतुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः मध्ये पञ्चदशोक्ता यास् तिथयस्ताः प्रकीर्तिताः //
SKप्रथमोदये तु हृत्पद्मात् तुट्यर्धं तु दिनं भवेत् द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी //
SKराशयो ग्रहनक्षत्राण्य् उदयन्ति यथाक्रमम् अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने //
SKतुटिभिः पञ्चदशभिः पक्षः स तु विधीयते तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् //
SKऋणं चैव भवेत्कासो निःश्वासो धन उच्यते कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेत् //
SKक्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयात् शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते //
SKशक्तिं वै विशति प्राणे या तुटिस्तु विधीयते अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने //
SKशक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितम् पक्षसंधिस्त्वसौ ज्ञेयो ऽमावस्यार्धप्रतिपदा //
SKतिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेत् रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् //
SKतदन्तरे भवेद्राहुर् अमृतार्थी वरानने अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तम् //
SKपीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते आदित्यग्रहणं चैव लोके तदुपदिश्यते //
SKराहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् //
SKस कालः सर्वलोकानां महापुण्यतमो भवेत् तत्र स्नानं तथा दानं पूजाहोमजपादिकम् //
SKयत्कृतं साधकैर्देवि तदनन्तफलं भवेत् तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेत् //
SKशक्तिगर्भादधः सृष्टिस् तस्माद्वृद्धिः प्रजायते तदारभ्य च कर्माणि शुभान्यभ्युदयानि च //
SKध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः प्राणहंसो यदा प्राप्तस् त्व् अधस्तां प्रथमां तुटिम् //
SKपूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा राशयो ग्रह ऋक्साणि योगाश्च करणानि च //
SKपूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशम् प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेत् //
SKद्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि //
SKपौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेत् //
SKसंपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता //
SKतस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेत् //
SKआदित्येन विना लोके सोमग्रहणमुच्यते तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः //
SKपक्षद्वये ऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः नानादिद्धिप्रदं ह्येतत् साधकस्याभियोगिनः //
SKमोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु //
SKउन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेत् //
SKतस्य मुक्तिर्न संदेहस् त्व् अन्यथा सिद्धिभाग्भवेत् पक्षद्वये ऽपि ग्रहणं भवेद्वै सर्वदेहिनाम् //
SKएवमेतत्समाख्यातं यावदायुर्वरानने अत्रैवाध्यात्माहोरात्रे त्व् अथाब्दोदय उच्यते //
SKहृत्पद्मादूर्ध्वपर्यन्तं राशयः षड् व्यवस्थिताः अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः //
SKअङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः तस्याप्यर्धं दिनं पूर्वम् अपरार्धं निशा भवेत् //
SKषट्पञ्चकास्तिथीनां ये ते ःओरात्रास्तु मासिकाः त्रिंशता तैरहोरात्रैर् द्विपक्षो मास उच्यते //
SKमासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे हृदयादुदयस्थानात् संक्रान्तिर्मकरे स्थिता //
SKषडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः //
SKगलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषे ऽथ संक्रमेत् नासान्तं यावत्संक्रान्तिर् अङ्गुलानि षडेव हि //
SKएषा वै विषुसंक्रान्तिर् उत्तरे संव्यवस्थिता जपहोमार्चनध्यानान् महाभ्युदयकारिका //
SKनासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेत् षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः //
SKशक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता मकराच्च समारभ्य मिथुनान्तं च सुव्रते //
SKउत्तरयणमत्रैतद् ऐहिकीसिद्धिवर्जितम् स्नानं ध्यानं तथा दानं पूजाहोमजपादिकम् //
SKसाधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेत् इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते //
SKदिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकम् तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे //
SKहंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तम् गर्भस्थानेकधारूपं यद्गृहीतं पुरातनम् //
SKकर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः तस्मादारभ्य मकराद् ध्यानहोमजपादिकम् //
SKपरलोकनिमित्ताय तदनन्तफलं भवेत् पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् //
SKमीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः बाह्ये ऽपि तरवो लोके ऋतुषट्कसमीरितम् //
SKकुसुमानन्दमायान्ति कुसुमायुधदीपकम् मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः //
SKज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः //
SKहंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः //
SKतदारभ्य जपात्तस्य सर्वमेव प्रवर्तते मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते //
SKसहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे //
SKकण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेत् तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेत् //
SKदक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये //
SKषडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः //
SKनासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेत् तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेत् //
SKसाधनं यत् कृतं तत्र इह जन्मनि कामदम् मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेत् //
SKतस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुम् षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः //
SKकण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलम् वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते //
SKषडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि हृत्पद्मान्तं तु वै हंसश् चरित्वा ऊर्ध्वगोदयः //
SKमकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनाम् //
SKऐहिकामुष्मिकी सिद्धिर् अधमा मध्यमोत्तमा अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता //
SKअयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः तत्रस्थो वै जपध्यानान् मोक्षसिद्धिमवाप्नुयात् //
SKमोक्षं गत्वा तु नागच्छेत् प्रतिज्ञा भैरवस्य तु अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु //
SKचैत्रसंवत्सरे यस्मान् मासानामुदयो भवेत् तदादि साधकैस्तस्मात् कर्तव्यं मन्त्रसाधनम् //
SKद्वादशाब्दः स विज्ञेयश् चैत्रमासाद्वरानने लक्षणं तस्य वक्ष्यामि प्राणो ऽस्मिन्प्रविभागशः //
SKतत्र संवत्सरेणैव अमुनोक्तेन सुव्रते अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये //
SKद्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेत् //
SKतमेव द्विगुणं कृत्वा कालस्तु स विधीयते त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु //
SKसंक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः //
SKद्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा //
SKद्वादशाब्दोदये देवि प्राणे ऽस्मिन्कथिता मया षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते //
SKआनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि //
SKचरन्ति प्रविभागेन तथा ते कथयाम्यहम् आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः //
SKतस्यानन्दस्तु देवेशि मन्त्रेण सह जायते द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तम् //
SKषष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः //
SKतैश्च द्वादशभिर्देवि वर्षमेकं विधीयते अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितम् //
SKषडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेत् //
SKशक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेत् षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहम् //
SKविंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने //
SKषष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया चन्द्रसूर्योपरागे च पक्षमासायनेषु च //
SKयुगादिषु युगान्तेषु यच्च संवत्सरे ऽप्यथ वर्षद्वादशके चैव षष्ट्यब्दे ऽथ वरानने //
SKस्नानदानेन यज्ञैश्च पूजाहोमजपेन च ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतम् //
SKअमुनोक्ते वरारोहे तत्फलं लभते महत् प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेत् //
SKस्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटम् अथवा स जपादेवम् अत्यर्थमुपबृंहितः //
SKमन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत् पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः //
SKदक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे //
SKअन्तःस्थः कालरूपेण कलाभिः कलयञ्जगत् नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः //
SKगुणत्रयसमाविष्टस् त्रिधावस्थाव्यवस्थितः कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः //
SKइच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता //
SKइडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे //
SKमध्यमः शिवमार्गस्तु तत्र गत्वा न जायते दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः //
SKमध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ //
SKमध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे //
SKरौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते //
SKपाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवम् //
SKप्रकाशयेत्स्वसामर्थ्यात् परतत्त्वमनामयम् राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये //
SKचन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये //
SKसोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः वायति तपति सूर्यः सोमो वर्षति चामृतम् //
SKसोमसूर्यात्मकं यस्माज् जगत्स्थावरजङ्गमम् सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः //
SKवामः सौम्यस्तु यः प्रोक्तस् तत्र वै दक्षिणायनम् सोमसूर्यात्म विषुवत् पुटद्वयविनिःसृतम् //
SKउदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयम् //
SKसौरश्च दक्षिणो मार्गस् त्व् अभिचारप्रसिद्धिदः आप्यायने तथा पुष्टौ शान्तिके सौम्य उत्तरः //
SKदक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते //
SKदक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरम् यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् //
SKतावत्तद्विषुवत्प्रोक्तम् उत्तरं तूत्तरायणे उत्तराद्दक्षिणायां तु संक्रामन्स वरानने //
SKयावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत् विषुवद्दक्षिणं तावद् दक्षिणायनजं प्रिये //
SKतत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेत् ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः //
SKबाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् //
SKअहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् //
SKतृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम् चतुर्धा विषुवत्प्रोक्तम् अहोरात्रेण मुक्तिदम् //
SKचतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः शतानि नव वै हंस एकामेकां वहेत्सदा //
SKएतन्मानं समाख्यातं अन्यथा प्रवहेद्यदा इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः //
SKआत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेत् पूर्वोदये तु संप्राप्ते भास्करस्य वरानने //
SKजीवितं मरणं चैव तदारभ्य विचारयेत् सुसंयतमना योगी वीरो योगासनस्थितः //
SKसंस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये सुप्रशान्तस्तदा तिष्ठेत् प्राणैकगतमानसः //
SKप्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेत् प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेत् //
SKएकाब्दं जीवितं ज्ञेयम् अहोरात्रेण सुव्रते अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु //
SKत्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकम् पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च //
SKसप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः नवभिर्नववर्षाणि दशभिर्दश एव च //
SKदिनैकादशकेनैव वर्षैकादशकं प्रिये दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश //
SKसप्तयामप्रवाहेण षण्मासानथ जीवति प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति //
SKपञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः चतुर्भिः प्रहरैदेवि मासमेकं स जीवति //
SKप्रहरत्रयवाहेन मासार्धं चैव जीवति प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति //
SKचतुरः प्रहराञ्जीवेत् प्रहरं तु वहेद्यदा प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयम् //
SKसद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः यदारभ्य निरूप्येत प्राणे वै कालमीश्वरम् //
SKमासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेत् //
SKउत्तरायणजे काले एवं ते कथितं मया अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे //
SKकर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा मरणं तस्य देवेशि षण्मासेन विनिर्दिशेत् //
SKघोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवम् मासमेकं स जीवेत्तु न शृणोति यदा प्रिये //
SKउत्पाटं चैव काणं च मृत्युयोगं च मे शृणु संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा //
SKतमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेत् वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते //
SKसुहृद्गृहविनाशश्च तेजोहानिश्च जायते दक्षिणे पुट एकस्मिन् दक्षिणायनवर्जिते //
SKसंक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः भगन्धरो ऽनुग्रन्थश्च नेत्ररोगश्च कामला //
SKशूलं विस्फोटिका दुःखम् उरोदोषा भवन्ति च वामनासापुटेनैव संक्रान्तीश्च त्रयोदश //
SKज्वरः शिरो ऽर्तिः शूलं च अर्शासि स्तम्भ एव च मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते //
SKइडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे //
SKव्याधिभिः पीड्यते सर्वैर् वामवामेतरेतरे अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि //
SKऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा //
SKमध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेत् इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा //
SKपूजनं बहुसंमानं लाभस्तस्य भवेत्तदा मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा //
SKभूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः द्वादशैव तु संक्रान्तीर् वहेद्विषुवतैकतः //
SKतदैकवत्सरेणैव मरणं तु समादिशेत् ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा //
SKसंक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु //
SKमासान्ते तु भवेन्मृत्युः सद्य एव वरानने मृत्युयोगः समाख्यातो मया ते वरवर्णिनि //
SKअब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेत् यत्कालात्तु समारभ्य तत्कालं तु समादिशेत् //
SKइडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः दक्षिणायनजे काले एवं ते कथितं शुभम् //
SKएवं शरीरजे काले मृत्युं चाशुभमेव च ज्ञात्वा योगी जयेन्मृत्युम् अशुभान्यप्यशेषतः //
SKध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरम् नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगत् //
SKतत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः //
SKध्यानयुक्तस्य षण्मासात् सर्वज्ञत्वं प्रवर्तते कालत्रयं विजानाति कालयुक्तस्तु योगवित् //
SKकालहंसं स तु जपन् ध्यायन्वापि महेश्वरि स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेत् //
SKहतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः विज्ञानं श्रवणं दूरान् मननं चावलोकनम् //
SKसर्वैश्वर्यगुणावाप्तिर् भवेत्कालजयात्सदा दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयात् //
SKतदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः //
SKतत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेत् भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः //
SKनित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेत् आयुषा बलवीर्येण रूपैश्वर्येण तत्समः //
SKब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयात् विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयात् //
SKरुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेत् एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः //
SKनाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदम् ध्यात्वा सितं सुविकचं कलाषोडशकान्वितम् //
SKसंपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहम् तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलम् //
SKश्रीरामृतार्णवावस्थकल्लोलामृतपूरितम् उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ //
SKतच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकम् तन्मध्ये चिन्तयेद्धंसम् अधो बिन्दुशिखान्वितम् //
SKवर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेत् आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेत् //
SKसितं सुबहुलं सान्द्रम् अमृतं मृत्युनाशनम् तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेत् //
SKपद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा अमृतापूरितं देहं सर्वमेव विचिन्तयेत् //
SKएवं वै नित्ययुक्तात्मा अमृतेशसमो भवेत् व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः //
SKएवं तस्यामृतध्यानात् कालमृत्युजयो भवेत् अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते //
SKचिन्तयेत्परमं तत्त्वं कालचारविवर्जितम् कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदम् //
SKनिष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः //
SKवर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः समनावधिपर्यन्तः कलङ्काधार उच्यते //
SKआधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितम् //
SKव्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखम् पञ्चपञ्चकतत्त्वस्थम् अष्टादशगुणान्वितम् //
SKयद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनात् कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा //
SKबिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना //
SKपञ्चपञ्चकमेतद्धि कथितं ते वरानने तत्त्वान्येव तु षट्त्रिंशत् गुणांश्चैव निबोध मे //
SKअहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता //
SKएते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकम् प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे //
SKएतेषु तत्परं तत्त्वम् उच्चारालम्बनादृते अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरम् //
SKअक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः यावदुच्चार्यते वाचा यावल्लेख्ये ऽपि तिष्ठति //
SKतावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः //
SKअधश्चारे भवेत्सृष्टिर् ऊर्ध्वे संहार उच्यते अधश्चारेण जातो ऽसौ उर्ध्वे चैव मृतो भवेत् //
SKसूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता //
SKतत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः //
SKरागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन //
SKसमः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेत् //
SKआत्मानं च तथैवैवं सर्वथैव सदा स्मरेत् सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः //
SKनित्यं तस्य वशास्ते वै शिवभावनयानया नचासौ कुरुते पुण्यं नैव पापं च सुव्रते //
SKकृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा //
SKधर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च //
SKनापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः //
SKनास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च क्षेत्रं तस्य परा शक्तिर् यतः सर्वं प्रसूयते //
SKसर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगम् //
SKयेन व्याप्तमिदं विश्वम् अनन्तं विश्वशक्तिभिः नित्यं विरक्तिः संसाराद् यमो ऽयम् परिकीर्तितः //
SKनियमो भावना नित्यं परतत्त्वैकतानता नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् //
SKआचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेत् परभावनया नित्यं परधर्मेण वर्तयेत् //
SKसर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः स्वतन्त्रो ऽलुप्तसामर्थ्यस् त्व् अनादिनिधनाश्रितः //
SKअनादिबोधो ह्यतुलः कालवेलाविवर्जितः चारोच्चारविनिर्मुक्तस् त्व् अहोरात्रविवर्जितः //
SKन दिवा जागरं कुर्यान् न च रात्रौ स्वपेत्क्वचित् स्वभावेनैव संतिष्ठद् दिनरात्रिविवर्जितः //
SKएवं वै वर्तते योगी परेण समतां व्रजेत् न च तं कलयेत्कालः कल्पकोटिशतैरपि //
SKजीवन्नेव विमुक्तो ऽसौ यस्यैषा भावना सदा शिवो हि भावितो नित्यं न कालः कलयेच्छिवम् //
SKयोगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् //
SKस्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च //
SKयोगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु //
SKअयोगी यानि जानाति अयुक्तो वापि सुव्रते बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु //
SKशुष्कताल्वोष्ठकण्ठश्चेद् अकस्माद्धूसरच्छविः स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयात् //
SKसुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः //
SKविरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितम् तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः //
SKहिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च स्वप्ने संपश्यते यो वै षण्मासान्सो ऽपि जीवति //
SKआत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनम् //
SKरक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः //
SKवृतं यातं गृद्ध्रकाकैर् महिषैरुष्ट्रगर्दभैः अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलम् //
SKस्वप्ने च पश्यते यो वै वर्षमेकं स जीवति शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु //
SKसो ऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीम् //
SKन पश्यति महायानं सो ऽवश्यं म्रियते नरः तालुरन्ध्रगतो धूमो महायानं तदुच्यते //
SKजिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः //
SKन पश्येद्गगने ऽप्येतत् सो ऽवश्यं म्रियते नरः स्थूलो ऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः //
SKअतिक्रुद्धो ऽतिभीतश्च वर्षमेकं स जीवति कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतम् //
SKनरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषम् हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणात् //
SKगात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनम् //
SKदिग्दाहो ऽप्लुष्टदेशे ऽपि मासमेकं स जीवति चक्षुषी स्रवतो यस्य शब्दं न शृणुयात् स्फुटम् //
SKनाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै //
SKगात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति तालुकम्पो ऽथ नाभेश्च अर्धमासं स जीवति //
SKप्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति पूर्वदृष्टं न जानाति चतुर्मासं स जीवति //
SKबिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितम् नित्यं वहति हिक्कां तु वर्षमेकं स जीवति //
SKबहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च पूजया जपहोमेन ध्यानधारणया प्रिये //
SKकृतरक्षाविधानेन जीयन्ते नात्र संशयः नाडीनां शोधनं चैव वायूनां च जयः कथम् //
SKस्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये //
SKयो न कस्यचिदाख्यातस् तं योगं शृणु तत्त्वतः सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः //
SKवालुकाशर्कराहीने शुष्कवृक्षविवर्जिते निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते //
SKपुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेत् देवदेवं समभ्यर्च्य भैरवं सविनायकम् //
SKपूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा //
SKसापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखम् दहनोत्पूयने कृत्वा प्लावयेदमृतेन च //
SKसबाह्याभ्यन्तरेणैव सकलीकरणं ततः अन्तर्यागं यथापूर्वम् उच्चार्यं च परं तथा //
SKदशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेत् मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिम् //
SKसंकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगम् अपसव्येन पूर्येत सव्येनैव विरेचयेत् //
SKनाडीसंशोधनं चैतन् मोक्षमार्गपथस्य च रेचनात्पूरणाद्रोधात् प्राणायामस्रिधा स्मृतः //
SKसामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु //
SKनिष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः नाभ्यां हृदयसंचारान् मनश्चेन्द्रियगोचरात् //
SKप्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् //
SKशनैर्विमोचयेद्वायुं वामनासापुटेन तु वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः //
SKमाहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता //
SKएकद्वित्रिचतुष्पञ्चसंख्योद्धातैः प्रसिद्ध्यति संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते //
SKस उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः //
SKधारणाभिर्दहेत्पापं प्रत्याहारे ऽक्षसंयमः हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च //
SKप्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः //
SKक्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः //
SKप्राणादिनां तु पञ्चानाम् अयं शब्द उदाहृतः जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः //
SKशिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितम् प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः //
SKअन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति अशितं लीढपीतं च समानः समतां नयेत् //
SKक्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितम् स्वेदश्च रोमहर्षश्च शूलं दाहो ऽङ्गभञ्जनम् //
SKव्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः //
SKनागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा //
SKनागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः अतिनिद्राकरश्चान्यो योजकश्च धनंजयः //
SKश्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितम् //
SKन चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरम् //
SKप्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते //
SKप्राणापानं गुदे ध्यायेत् प्राणसमानं नाभितः प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगम् //
SKनागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेत् निरुद्धस्य च यः कालस् तं वक्ष्यामि निबोध मे //
SKतालात्प्रभृति तं ध्यायेद् यावत्पञ्चशतं गतम् जितो ऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि //
SKदिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते //
SKवायुवद्विचरेल्लोकान् सिद्धान्देवांश्च पश्यति मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकम् //
SKसर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते //
SKप्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते //
SKपुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेत् दीर्घकोटिसमायोगात् तत्क्षणाच्च पतेद्भुवि //
SKकण्ठस्थं च तथैवेह प्राणमेव निरोधयेत् प्लुतकोटिसमायोगात् स्वप्नवृत्तिस्ततो भवेत् //
SKभ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेत् सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते //
SKमूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेत् एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेत् //
SKपिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु //
SKपूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेत् जायते उन्मनस्त्वं हि देहेनानेन साधके //
SKसंक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते //
SKप्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते प्रसङ्गे ऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च //
SKसर्वमेतत्समाख्यातम् अंशकांश्च निबोध मे //
SKइति स्वच्छन्दतन्त्रे सप्तमः पटलः
SKअंशकं षड्विधं देवि कथयाम्यनुपूर्वशः भावांशकः स्वभावांशः पुष्पपातांश एव च //
SKमन्त्रांशकः स्मृतश्चान्यस् त्व् अंशकापादनं द्विधा देवानुस्मरणं भावः सहजं तं विजानत //
SKस्वभावश्च भवेच्चेष्टा कथयाम्यनुपूर्वशः ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे //
SKरुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः //
SKसर्वदेवरतः शान्तो यक्षांशो धनसंग्रही लुब्धो गर्वितमृष्टाशी वातांशश्चपलः स्मृतः //
SKसर्पविस्रम्भगामी स्यान् नागांशो दीर्घशाय्यथ दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा //
SKगान्धर्वो गायनो नित्यं शिवभक्तो वरानने विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः //
SKकामांशो रूपवांश्चैव सुभगो गणिकाप्रियः रक्ष्ॐशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च //
SKपिशाचांशश्छलान्वेषी वासरे भीरुकातरः अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा //
SKसवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा इष्टानि कुरुते नित्यं दयालुः शिवभावितः //
SKस्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः भैरवाङ्गसमालब्धाः सर्वे देवा वरानने //
SKभैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः स्वभावांशः समाख्यातः साधकानां हिताय वै //
SKपुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद्यदि //
SKअंशकापादनं देवि कथयामि समासतः वैहायसं ध्वज चैव होमयेद्यस्तु साधकः //
SKस मन्त्रः सिद्ध्यते तस्य अर्यन्तो ऽपि हि सुव्रते अनंशको ऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने //
SKतदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत् शिष्यस्य पूर्ववत्कर्म कृत्वा तु विधिपूर्वकम् //
SKपूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् //
SKमन्त्रांशं गणयित्वा तु गृह्णीयात्सुविचारितम् हीनमध्यसमुत्कृष्टं कथयामि समासतः //
SKहीनं शत्रुं विजानीयान् मध्यमं साध्यरूपिणम् सिद्धं चैव सुसिद्धं च उत्तमं परिकीर्तितम् //
SKमन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम् आत्मनामाक्षरं तद्वद् अधोभागे ऽस्य योजयेत् //
SKआत्मवर्णात्समारभ्य यावन्मन्त्रार्णमागतम् यस्मिन्स निपतेद्देवि तमायं परिकल्पयेत् //
SKरेखाङ्गुलिगतं तं तु कथयामि समासतः पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके //
SKतृतीये तु सुसिद्धः स्याद् अरिर्ज्ञेयश्चतुर्थके अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु //
SKसिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रदः यस्त्वंशकविशुद्धः स्याद् भैरवो ऽत्र वरानने //
SKतं मध्यमस्थं संपूज्य तत्स्थाने मध्यमं न्यसेत् यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः //
SKतत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः कथितं सरहस्यं ते गुह्याद्गुह्यतरं परम् //
SKअतस्तन्त्रावतारार्थं कथयामि समासतः अदृष्टविग्रहायातं शिवात्परमकारणात् //
SKध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् तदेवापररूपेण शिवेन परमात्मना //
SKमन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना पुरुषार्थं विचार्याशु साधनानि पृथक् पृथक् //
SKलौकिकादिशिवान्तानि परापरविभूतये तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे //
SKअनुष्टुप्छन्दसा बद्धं कोट्यर्बुदसहस्रधा गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः //
SKपूर्वोत्तरपदैर्वाक्यैस् तन्त्रमाधारभेदतः तज्ज्ञानमीश्वरे ऽदात्तद् ईश्वरेण शिवेच्छया //
SKविद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात् मायानियतिपर्यन्तैस् तस्माद्रुद्रैरवापि तत् //
SKश्रीकण्ठेनेश्वरात्प्राप्तं ज्ञानं परमदुर्लभम् तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया //
SKप्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् //
SKश्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम् मयापि तव देवेशि साधिकारं समर्पितम् //
SKत्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम् ब्रह्मविष्विन्द्रदेवानां वसुमातृदिवाकृताम् //
SKलोके संगृह्य नागानां यक्षाणां परमेश्वरि कथयस्व ऋषीणां च ऋषिभ्यो मनुजेष्वपि //
SKएवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम् त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् //
SKइति स्वच्छन्दतन्त्रे ऽंशकाधिकारो ऽष्टमः पटलः समाप्तः
SKअतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते //
SKमहाभैरवदेवस्य क्रीडमानस्य भामिनि सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः //
SKकल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनम् तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभम् //
SKचन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणम् बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनम् //
SKस्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितम् सर्पहारकृताटोपं सर्पकङ्कणनूपुरम् //
SKसिंहचर्मपरीधानं सर्पमेखलमण्डितम् गजचर्मावृतपटं शशाङ्ककृतशेखरम् //
SKपञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनम् कपालमालाभरणं खड्गखेटकधारिणम् //
SKपाशाङ्कुशधरं देवं शरशार्ङ्गावतानितम् कपालखट्वाङ्गधरं वरदाभयपाणिकम् //
SKभिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम् ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् //
SKएवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेत् स्मरणान्नाशयेद्देवः पापसंघातमुल्बणम् //
SKअस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुम् //
SKतस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात् पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे //
SKपुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः //
SKएकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम् सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः //
SKपूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने चतुर्द्वारसमोपेतम् अष्टपत्रं सकर्णिकम् मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् //
SKद्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम् एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् //
SKचतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेत् मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् //
SKभस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः //
SKशङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः परितो ऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये //
SKप्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् //
SKयत्तत्परमनिर्भासम् अनामयमरूपकम् तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा //
SKवर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत् स्थापनं संनिधानं च निरोधार्धादिपूजनम् //
SKसर्वं तेनैव कर्तव्यम् उक्तानुक्तं वरानने मध्यस्थं भैरवं पूज्यम् अङ्गषट्कसमन्वितम् //
SKततः पत्रस्थिता देवीर् द्वात्रिंशार्णैर्निवेशयेत् पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः //
SKतासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया अरुणा घोषा देवी च रेवती भोगदायिका //
SKस्थापनी घोरसंज्ञा च रक्षा भारभरेति च घोररूपा रवा घोणा रतिस्ताराथ रूपिणी //
SKभयहानिस्तु चण्डा वै सर्वदा च तथा वरा तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा //
SKरौद्री च भ्रामणी चैव नागिनी च मनोहरा स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी //
SKभयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात् प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा //
SKसर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना हेमाभं प्राक्चतुष्कं तद् इन्द्रचापसमप्रभम् //
SKचतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितम् कपालमालाभरणं प्रहसत्तु विचिन्तयेत् //
SKआग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत् दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणम् //
SKनीलमिन्दीवराभासं नैरृतं खड्गहस्तकम् श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् //
SKधूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम् उत्तरं धवलं ज्ञेयं गदाखेटकधारि च //
SKस्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम् एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेत् //
SKवत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेत् महेन्द्रे मलये सह्ये पारियात्रे ऽर्बुदे तथा //
SKविन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने //
SKगङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च //
SKसुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः //
SKतेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः //
SKशाकभक्षः फलाहारी नीवाराद्यशने रातः त्रिकालपूजानिरतो ऽथाग्निकार्यपरायणः //
SKभावितात्मा महासत्त्वो रक्षायाश्च विधानवीत् तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरम् //
SKकालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परम् //
SKदेवयोन्यष्टकं चैव प्रधानपुरुषान्तकम् नियतिः कालतत्त्वं च रागो विद्या कला तथा //
SKमाया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरम् सर्वं सिद्ध्यत्यनायासान् मन्त्रराजप्रब्भावतः //
SKपूर्वोक्तं कर्म वै क्षिप्रम् अधमं मध्यमोत्तमम् साधयेन्नात्र संदेहो भैरवस्य वचो यथा //
SKअथैकवीरमाश्रित्य अङ्गषट्कसमन्वितम् जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये //
SKपूजयेत्पूर्वविधिना जपहोमार्चने रतः ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् //
SKप्राप्नोति चिन्तितान्कामान् देवि नास्त्यत्र संशयः अथ रक्षाविधानेषु अघोरं योजयेद्यथा //
SKतथाहं कथयिष्यामि तदेकाग्रमनाः शृणु द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि //
SKनाभिकेसरसंयुक्तं सुसमं तु वरानने गोरोचनां तु संगृह्य सिद्धालक्तकसंयुताम् //
SKदूर्वाकाण्डेन देवेशि हरितेन समालिखेत् विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितम् //
SKशक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेत् कषमध्ये वरारोहे नयनाद्यन्तरोधितम् //
SKईकारवेष्टितं कृत्वा अरकस्था निवेशयेत् पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेत् //
SKभवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत् त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः //
SKऊर्ध्वे चैव तु संरोध्य क्र्ॐकारेण वरानने इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेत् //
SKवेष्टयेच्चैव तद्भूर्जम् अरन्ध्रं निर्व्रणं समम् पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने //
SKसिक्थेन मुटयेत्पश्चात् क्षौद्रमध्ये निधापयेत् यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये //
SKअरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत् तस्य मृत्युर्न जायेत इत्येवं भैरवो ऽब्रवीत् //
SKकपालीशस्य गर्भे तु नाम यस्य समालिखेत् भूर्जपत्रे वरारोहे रोचनाया रसेन तु //
SKॐकारपुटमध्यस्थं रोधितं नयनाक्षरैः वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते //
SKशिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत् अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेत् //
SKतस्य वै जायते दाहः फट्काराद्यन्तरोधितम् ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि //
SKतत्क्षणाज्जायते दाहो भैरवस्य वचो यथा क्रोधराजनिरुद्धं तु श्मशानपटमध्यगम् //
SKश्मशानादलिना लेख्यं विषरक्तान्वितेन तु यस्य नाम वरारोहे हुंफट्कारविदर्भितम् //
SKमारयेतिसमायोगात् क्रूरजातिसमन्वितम् म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः //
SKविकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः //
SKन क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेत् मन्मथेन युतं कृत्वा साध्यनाम वरानने //
SKध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम् अमुको ऽत्र वरारोहे तद्दिशो ऽभिमुखः स्थितः //
SKअमुकस्य वशं यातु जपहोमौ समाचरेत् सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः //
SKमेघनादावसाने तु नाम यस्य समालिखेत् यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितम् //
SKप्रेतस्थाने निधाप्यैतद् भैरवं तत्र पूजयेत् अक्षपुष्पैर्वरारोहे तद्दिशो ऽभिमुखः स्थितः //
SKतमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः सोमराजेन देवेशि आदिमध्यान्तसंयुतम् //
SKनाम यस्य समालिख्य वषड्जातिसमन्वितम् संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि //
SKसप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च असाध्यं साधयत्याशु धनं च विपुलं लभेत् //
SKपञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम् संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्विताम् //
SKउन्मत्तो जायते साद्यो होमेन च जपेन च मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु //
SKभूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समम् तस्मिन्समालिखेत्पद्मम् अष्टपत्रं सकर्णिकम् //
SKतस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेत् संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि //
SKप्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेत् पत्राष्टके ऽप्यघोरस्य नामाधस्तात्समालिखेत् //
SKवक्तव्यं देव संरक्ष शरणं त्वामुपागतम् आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरम् //
SKजन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत् पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेत् //
SKमुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत् जायते परमा शान्तिः पुनरन्यन्निबोध मे //
SKजुंसः संपुटमध्यस्थं प्रणवोभयसंयुतम् नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये //
SKपरां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते भूर्जपत्रं समादाय रोचनाया वरानने //
SKमातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेत् तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु //
SKपुनर्गर्भे समालिख्य साध्यनाम वरानने ध्रुवेण वेष्टयेत्पश्चाद् वकारेण ततः प्रिये //
SKसकारं च क्षकारं च लिखेच्च तदनन्तरम् पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते //
SKअङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम् स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् //
SKवषड्जातिसमोपेतां कर्पूरक्षोदचर्चिताम् गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये //
SKजायते परमा शान्तिर् नात्र कार्या विचारणा अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेत् //
SKतस्य व्याधिर्न जायेत इत्येवं भैरवो ऽब्रवीत् त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितम् //
SKभोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा न तस्य जायते मृत्युर् भैरवस्य वचो यथा //
SKअथा हिना महादेवि दूषितः साधको यदा मूलमन्त्रसमोपेतम् अघोरं तत्र योजयेत् //
SKआत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम् दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् //
SKसर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणम् पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् //
SKतेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेत् तज्ज्वालाभिः सुदीप्ताभिर् दग्धं संचिन्तयेद्विषम् //
SKतत्क्षणाद्देवदेवेशि निर्विषः स तु जायते ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणात् //
SKअथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेत् तदागदैर्महादेवि निर्विषं कुरुते क्षणात् //
SKकुमारिद्वितयं गृह्य नागिन्या तु सहैकतः गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतम् //
SKआमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेत् गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते //
SKअश्वमारस्य मूलं तु उदकेन तु पेषयेत् पाने नस्ये प्रदातव्यं तदा भवति निर्विषः //
SKआरग्वधस्य मूलं तु उदकेन च पेषयेत् पाने नस्ये प्रदातव्यं तदा भवति निर्विषः //
SKमधुकस्य तु सारं यन् नस्ये पाने प्रयोजयेत् निर्विषस्तु प्रजायेत भैरवस्य वचो यथा //
SKजम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेत् निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा //
SKषड्बिन्दुपटखर्जूरसूक्ष्मचूर्णं तु कारयेत् मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये //
SKत्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेत् न विषं क्रमते तस्य यश्च दष्टो महोरगैः //
SKअगदान्घृतसंयुक्तान् पिबेद्वै विषदूषितः न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः //
SKएवमन्ये ऽपि ये योगाः स्वच्छन्देन विनिर्मिताः कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः //
SK[प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] //
SKइति स्वच्छन्दतन्त्रे नवमः पटलः समाप्तः
SKअध्वायं तु महादेव सूचितो न तु वर्णितः कथयस्व प्रसादेन साधकानां हिताय तम् //
SKअध्वानं संप्रवक्ष्यामि साधकानां हिताय वै अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः //
SKकोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु नवनवतिकोट्यश्चाप्य् अण्डानां तु सहस्रकम् //
SKकोटीनां सप्ततिर्लक्षाण्य् अयुतानां सहस्रकम् अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च //
SKपद्मानि चाप्यसंख्यानीत्य् एवमादीन्यनेकशः तेषां वै नायको ह्यत्र त्व् अनन्तः परमेश्वरः //
SKतेन शुद्धेन शुद्धानि त्व् अण्डान्यत्रोहकैः सह शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया //
SKकोटिकोटिपरीवारास् त्व् अनौपम्यगुणान्विताः दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः //
SKसूर्यायुतप्रतीकाशास् तोरणाट्टालमण्डिताः न तत्र दिःखितः कश्चिन् मुक्त्वा दिःखमनङ्गजम् //
SKरमन्ते तत्र वै वीरा नारीभिः सह लीलया भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः //
SKभुवनान्येवमुक्तानि भुवनान्तरवासिनाम् सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते //
SKअथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः अधिकारं प्रकुरुते तदाज्ञानुविधायकः //
SKअनेकरुद्रकोटीभिर् उपेतस्तिष्ठति प्रिये अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितम् //
SKयोजनानां वरारोहे यथा भवति तच्छृणु अव्यक्ताद्दशभिर्भागैर् महान्स्थूलो विभाव्यते //
SKद्विपञ्चभागो महतो भूतादिः स्थूल उच्यते भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषम् //
SKभूतादेर्यद्दशगुणम् अणीयो दृश्यते रजः जालान्तरगते भानौ परमाणुः स उच्यते //
SKअष्टानां परमाणूनां समवायस्तु यो भवेत् त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते //
SKत्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता //
SKलिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेत् अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलम् //
SKद्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते तालद्वयं भवेद्धस्तश् चतुर्विंशतिकाङ्गुलः //
SKचतुर्हस्तो धनुर्दण्डो नालिका यूप एव च धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते //
SKक्रोशद्वयेन गव्यूतिर् गव्यूती द्वे तु योजनम् अनेन परिमाणेन योजनानां यशस्विनि //
SKसिंहासनं महादीप्तं सहस्रद्वयविस्तृतम् सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते //
SKतिष्ठते तत्र देवेशः कालो द्वादशलोचनः सितरक्तपीतकृष्णश् चतुर्वक्त्रो महाबलः //
SKरक्ताङ्गो ऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः //
SKज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः //
SKदशबाहुर्महात्मा वै खड्गखेटकधारकः शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा //
SKकपालखट्वाङ्गधरो वरदाभयपाणिभृत् दशयोजनलक्षाणि शरीरं भाति भास्वरम् //
SKकोटियोजनमानेन भुवनं चास्य जाज्वलम् संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः //
SKनानारूपविमानैश्च प्रज्वलद्भिः समावृतम् ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः //
SKतस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः //
SKअतः परं वरारोहे नरकाः परिकीर्तिताः पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः //
SKप्रधानं संप्रवक्ष्यामि शतं तत्र वरानने चत्वारिंशत्समोपेतं कथितं नामतः शृणु //
SKअवीची रौरवश्चैव महारौरव एव च तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ //
SKपद्मश्चैव महापद्मः कालसूत्रस्तथैव च सूचीमुखः महाकायः क्षुरधारो ऽसिपर्वतः //
SKअसिस्तालो द्रुमश्चैव द्रुममस्तक एव च द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च //
SKअम्बरेषो ऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ //
SKसन्दंशः वज्रकायश्च मेदकश्च वरानने उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः //
SKअसृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा संग्रहश्च कपालश्च तप्तकवच एव च //
SKगजपादो महावक्त्रः कूर्माख्योनकुलस्तथा पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च //
SKअनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः //
SKसुतप्तो जतुपङ्कश्च घोररूपो ऽतिदारुणः अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः //
SKउलूकः परशुर्दण्डः काकाख्यश्च तथैव च सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च //
SKअश्वास्यो गोपलादश्च अलोको दहनस्तथा श्ववक्त्रो ऽथ दवाग्निश्च क्षारकूपस्तथा तमः //
SKअहीनां निचयश्चैव तप्तपाषाण एव च विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा //
SKकृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ //
SKमुसलः अनातपश्चैव यमलाद्रिस्तथैव च क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा //
SKनिगडो लोहरज्जुश्च लोहपञ्जर एव च तनुभेदश्चोरगश्च वृश्चिकः काल एव च //
SKवज्रकणः कटाहश्च पट्टः संकुल एव च घोरश्चाजगरश्चैव महावैतरणी तथा //
SKगृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः //
SKचिपिटः खञ्जरीटश्च शवलो नील एव च काकः कङ्कुममुखश्चैव शिवारावस्ततः परः //
SKगजनादो महानादः सिंहनादस्तथैव च महाग्राहस्तथा नक्रो मूषिकाकीटसागरः //
SKअवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता //
SKकटङ्कटश्चविख्यातः तप्तवालुक एव च एते ऽतिघोरा नरकास् त्रिकोणाः परिकीर्तिताः //
SKअसत्कर्मरतानां च प्राणिनां पातनाय तु निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा //
SKनिर्दयाधमजातीनां परहिंसारतात्मनाम् परदाररतानां च शिवशास्त्रस्य दूषिणाम् //
SKदेवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनाम् गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् //
SKसुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनाम् दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसाम् //
SKनरकास्तु समाख्यातास् त्व् अकर्मपथवर्तिनाम् शुभकर्मरता लोका नरके न पतन्ति हि //
SKतत्समासेन वक्ष्यामि यथावदनुपूर्वशः सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता //
SKदयालौल्यं च यस्यासौ नरकान्नाधिगच्छति शान्तो दान्तः सुहृष्टात्मा त्व् अनहंकारवान्समः //
SKअद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः अमात्सर्यममानित्वं शिवभक्तिरचापलम् //
SKजपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम् व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता //
SKसर्वत्र श्रद्दधानत्वम् आर्जवं ह्रीर्मनस्विता तेजः प्रशान्तिः संतोषो ऽप्रियवाक्यविवर्जनम् //
SKसमीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः अदम्भित्वममायित्वम् अकल्को ज्ञानशीलता //
SKपितृदेवार्चने भक्तिर् गोब्राह्मण शरण्यता अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनम् //
SKएकान्ते च रतिर्ध्यानम् आत्मन्येव च तुष्टता अव्यापारः परार्थेषु औदासीन्यमनागसः //
SKअक्रोधित्वमनालस्याम् एते धर्माः प्रकीर्तिताः यस्त्वेतान्भजते भावान् सो ऽमृतत्वाय कल्पते //
SKनश्यन्ति पौरुषाः पाशा ये ऽप्यनन्ताः प्रकीर्तिताः शिवाचाररतानां तु धार्मिकाणां हि देहिनाम् //
SKतस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत् यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषम् //
SKस याति परमांल्लोकान् नरकांश्च न पश्यति यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी //
SKअकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितम् //
SKतज्जयेन जितं सर्वं त्रैलोक्यं सचराचरम् स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेत् //
SKएतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः इत्येष तान्त्रिको न्यायः कथितस्तु समासतः //
SKअतान्त्रिकाणामन्येषां परिसंख्या न विद्यते शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः //
SKपरतत्त्वविदो ये तु न तेषां दुरितं भवेत् एतेषां नरकाणां तु प्रधानानि निबोध मे //
SKपञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः चत्वारिंशच्छतंह्येतत् समासात्परिकीर्तितम् //
SKतैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः //
SKचत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने त्रिभिः शुद्धैस्तु द्वात्रिंशच् छुद्धा एव भवन्ति हि //
SKतेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः //
SKमहारौरवराजश्च स्थानं तेषां निबोध मे अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमम् //
SKव्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः नरकैकादशगतम् अवीचिं शोधयेत्प्रिये //
SKआत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत् महारौरवसंज्ञं चाप्य् एवमेव न संशयः //
SKपञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने अवीचिः क्रिमिनिचयो नदी वैतरणी तथा //
SKलोहश्च शल्मलिश्चैवाप्य् असिपर्वत एव च सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा //
SKतप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयताम् //
SKअस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः वसामिश्रोह्ययस्तुण्डस् त्रपुलेपः प्रकीर्तितः //
SKकुम्भीपाकश्च विज्ञेयस् तीक्ष्णासिश्च तथैव च तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा //
SKअशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः //
SKमहारौरवराजे च अत ऊर्ध्वं निबोध मे कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ //
SKपाशो ऽम्बरेषकश्चैव अयःपट्टस्तथैव च दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः //
SKमहारौरव एतेषाम् उपरिष्टाद्व्यवस्थितः अवीचौ कृमिनरकान् कुम्भीपाके सुदारुणान् //
SKमहारौरवके ऽमेध्यान् अन्तर्भूतान्विचिन्तयेत् द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे //
SKनवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमात् //
SKएतेषामुपरिष्टात्तु प्रभुत्वेन वरानने योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः //
SKनवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितम् तस्योपरिष्टात्पातालान् कथयामि समासतः //
SKआभासं वरतालं च शर्करं च गभस्तिमत् महातलं च सुतलं रसातलमतः परम् //
SKसौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम् आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते //
SKसहस्रनवकोत्सेधम् एकैकं तु पुरोत्तमम् एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया //
SKछत्राकाराणि सर्वाणि तेषां वै भुवनानि तु सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु //
SKहेमप्राकारशिखरैश् छत्रध्वजसमाकुलैः किङ्किणीजालमुखरैस् तोरणाट्टालमण्डितैः //
SKनिर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः //
SKनानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः प्रासादैस्तुङ्गशिखरैश् चन्द्रातपसमप्रभैः //
SKरथ्यामार्गवरारामैः सदापुष्पफलान्वितैः कोकिलारावमधुरैः शिखिषट्पदसेवितैः //
SKहंसकारण्डवाकीर्णैश् चक्रवाकोपशोभितैः सारसारावसंघुष्टपद्मिनीषण्डमण्डितैः //
SKतडागैः स्वच्छतोयाढ्यैर् दीर्घिकाभिर्युतानि तु पुरुषैश्च महाकायैर् महाबलपराक्रमैः //
SKसर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः दिव्यवस्त्रैः सुताम्बूलैर् दिव्यगन्धानुलेपनैः //
SKदिव्याभरणसंयुक्तैर् मुकुटै रत्नमण्डितैः शिवाराधनसक्ता ये तत्प्रसादेन साधकाः //
SKते विशन्ति महादेवि पातालं सिद्धसेवितम् रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते //
SKक्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः //
SKसर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः //
SKमध्यक्षामैः प्रसन्नास्यैस् तरलायतलोचनैः सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः //
SKसुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः एवं ते कथिता देवि पातालान्तरवासिनः //
SKत्रयो ऽसुरास्तथा नागा राक्षसाश्च विभागतः एकैकत्र च पाताले कथितास्ते वरानने //
SKपातालसप्तके ज्ञेयास् तथान्ये भुवनाधिपाः बलोह्यतिबलश्चैव बलवान्बलविक्रमः //
SKसुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः //
SKयदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितम् तत्र वसत्यसौ देवो हाटकः परमेश्वरः //
SKपुरकोटिसहस्रैस्तु समन्तात्परिवारितः सिद्धैरुद्रगणैर्दिव्यैर् भगिनीमातृभिर्वृतः //
SKयोगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः सिद्धद्रव्यसमैर्मन्त्रैश् चिन्तामणिरसायनैः //
SKसिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरम् हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् //
SKतेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः //
SKभूकटाहः समुद्दिष्टः समन्तात्तु वरानने अतो भगवती पृथ्वी नानाजनपदाकुला //
SKतस्या मध्ये महामेरुः सौवर्णश्च वरानने तस्याचलस्य विस्तारम् ऊर्ध्वाधः कथयामि ते //
SKयोजनानां सहस्राणि चतुरशीतिरुच्छ्रितः षोडशैव सहस्राणि अधोभागे प्ररोपितः //
SKतान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती //
SKचतुर्दशसहस्राणि योजनानां प्रमाणतः सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता //
SKसर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता //
SKतस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतम् सूर्यकोटिप्रतीकाशं गणप्रथमसेवितम् //
SKसर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितम् स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितम् //
SKतत्रास्ते भगवान्देवस् त्र्यम्बकः परमेश्वरः लोकपालैर्वृतो ऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः //
SKममांशं तं विजानीयाः सुरसिद्धनमस्कृतम् अधिकारं प्रकुरुते परेच्छासंप्रचोदितः //
SKसभाया ब्रह्मणो ऽधस्तात् सहस्राणि चतुर्दश योजनानां परित्यज्य चक्रवाटः समन्ततः //
SKस्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती //
SKतेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता दक्षिणे यमराजस्य नाम्ना संयमनी पुरी //
SKकृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता //
SKवायव्यां तु पुरी वायोर् नाम्ना गन्धवहा प्रिये उत्तरेणापि सोमस्य पुरी नाम्ना महोदया //
SKऐशान्यामीशराजस्य पुरी नाम्ना यशोवती एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः //
SKदक्षिणेनामरावत्याः कामवत्यप्सरः पुरी सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु //
SKतस्या वै दक्षिणेनान्या पद्मरागोपशोभिता आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा //
SKसाध्यानां राजती दिव्या ख्याता वै कुसुमावती वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी //
SKतस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता //
SKक्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी //
SKतत्र शूलधरा रुद्रा यमस्य परिचारकाः तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी //
SKएकादशानां रुद्राणां वज्रप्राकारतोरणा निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी //
SKस्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता //
SKनिस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा तस्या अप्युत्तरे भागे पुरी हैमी सुखावती //
SKमित्रो वसति तत्रैव बहुभृत्यजनावृतः तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता //
SKवसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता //
SKभूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे //
SKतस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी सर्वविद्याधराणां तु सा पुरी परिकीर्तिता //
SKवायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः //
SKवायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता //
SKआस्ते भगवती साक्षात् सप्रस्वरविभूषिता ग्रामत्रयपरीधाना जातिमेखलमण्डिता //
SKमूर्च्छनातानचित्राङ्गी नानातालकलोदया लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता //
SKगन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती नारदाद्यैश्च ऋषिभिर् नागकिन्नरसेविता //
SKतस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता //
SKपूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी सर्वधातुमयी चित्रा कुबेरस्य महात्मनः //
SKषड्विंशतिसहस्रैस्तु कोटीनां परिवारितः यक्षाणामुत्तमः श्रीमान् आस्ते भोगैरनुत्तमैः //
SKतस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः //
SKपश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी तत्रास्ते श्रीपतिः श्रीमान् अतसीपुष्पसन्निभः //
SKशङ्खचक्रगदापाणिः पीतवासा जनार्दनः ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी //
SKमहापद्मोपविष्टस्य पद्ममालाधरस्य तु पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः //
SKतस्या दक्षिणतो देवि नाम्ना कामसुखावती अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः //
SKउत्तरेत्वमरावत्या महामेघेति विश्रुता विनायकानां सा दिव्या वसतिस्तत्र कल्पिता //
SKदशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा विनायका महादीप्ता अग्निज्वलिततेजसः //
SKअसुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः //
SKपुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये //
SKसर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः //
SKआनन्दः सततं देवि देवानां च पुरे पुरे विमाननगरारामैश् चतुरोद्यानमण्डपैः //
SKछत्रध्वजपताकाभिर् गजवाजिसमाकुलैः द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः //
SKगीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा इष्टापूर्तरता देवि ये नरा पुण्यभारते //
SKत्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः //
SKकथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता कथयस्व प्रसादेन समासात्सुरसत्तम //
SKगङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते जगन्माता महादेवि मम पत्नी पुरा हि सा //
SKममनेत्रोदकं चैव करजैश्छादिते मम पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया //
SKमन्नेत्रेभ्यो ऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये दशधा निःसृता गङ्गा कपालावरणे मम //
SKसप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा //
SKस्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता //
SKततो ऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया //
SKअवतार्य महादेव मर्त्यलोकं विसर्जय ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता //
SKलोकानां तु हितार्थाय आगच्छ सुरसुन्दरि आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता //
SKतस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु //
SKसुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे मन्दरस्तु महादेवि गन्धमादनसंज्ञकः //
SKविपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे //
SKसितं चैव हरिद्राभं नीलं दाडिमसप्रभम् प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनम् //
SKतत्रारुणोदकं नाम तडागं पद्ममण्डितम् गन्धमादनसामीप्ये नन्दनं तु महावनम् //
SKतस्यमध्ये ऽम्बुजच्छन्नं मानसं तु सरोवरम् विपुलस्य समीपे तु वैभ्राजं तु महावनम् //
SKसितोदं तस्य मध्ये तु तडागं विमलोदकम् वनं पितृवनं नाम स्वपार्श्वस्य समीपतः //
SKतस्यान्तस्तु महाभद्रं तडागं च मनोरमम् कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् //
SKमन्दरे ऽथ कदम्बं स्यान् मस्तके तु व्यवस्थितम् सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितम् //
SKपुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितम् तत्प्रमाणा स्मृता जम्बूर् गन्धमादनमूर्धनि //
SKतस्याः फलसमूहोत्थो रसो ज्ञेयो ऽमृतोपमः तेन जम्बूनदी जाता प्रिये वेगवती भृशम् //
SKमेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकम् तत्संपर्कात्समुत्पन्नं कनकं देवभूषणम् //
SKतेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमम् तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः //
SKजाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः विपुले ऽपि तथाश्वत्थः केतुमाल इति श्रुतः //
SKतस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः //
SKन्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः अनेकगुणसंपन्नो मेरुः ख्यातः समासतः //
SKतत्पार्श्वस्थान्प्रिये देशान् काथयामि समासतः मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः //
SKलवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः पर्वतान्तरितास्तत्र नव भागा भवन्ति हि //
SKदक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः निषधो हेमकूटश्च हिमवानिति ते त्रयः //
SKउत्तरे चापि मेरुस्तु नीलः श्वेतो ऽथ शृङ्गवान् प्राक् पश्चिमायाता ह्येते षडेव तु महीधराः //
SKनीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ //
SKहिमवान् शृङ्गवांश्चैव सहस्राशीतिरेव तु लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः //
SKकैलासयुक्तो हिमवांस् त्रिशृङ्गश्च सजारुधिः शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते //
SKनीलरत्नमयो नीलो निषधः पद्मरागभः सौवर्णो हेमकूटश्च हिमाभो हिमवानिति //
SKपूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि //
SKयाम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः //
SKनीलश्च निषधश्चैव माल्यवान्गन्धमादनः चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः //
SKचतुर्दिक्षु गतौ मेरोर् द्वौ द्वौ सीमान्तपर्वतौ जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ //
SKकैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ निषधः पारियात्रश्च अपरेण महीधरौ //
SKजारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ मेरोः समन्ततो रम्यम् इलावृतमुदाहृतम् //
SKअधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम् योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः //
SKनातपो भानुजस्तत्र न च सोमस्य रश्मयः प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितम् //
SKप्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः जम्बूरसफलाहारा जरामृत्युविवर्जिताः //
SKत्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितम् देवगन्धर्वसिद्धाश्च ऋषयो ऽथ विनायकाः //
SKगणमातृभगिन्यश्च वेताला राक्षसादयः एवमाद्यैरसंख्यातैर् वृतं चैतदिलावृतम् //
SKगन्धमादनवारुण्यां समुद्रस्य च पूर्वतः केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमम् //
SKनीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च //
SKजयन्तो वर्धमानश्च अशोको हरिपर्वतः विशालः कम्बलः कृष्णस् तत्र सप्त कुलाद्रयः //
SKमाल्यवत्पूर्वभागेन समुद्रस्यापरेण तु वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः //
SKजनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा //
SKपद्मश्चैव समाख्यातास् तत्र पञ्च कुलाद्रयः द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते //
SKचतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः //
SKकुरवोनामलोकास्ते कुरुवृक्षफलाशिनः त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः //
SKयुग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः //
SKसर्वरत्नमयी भूमिर् हिमवालुकया चिता नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितम् //
SKसूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः //
SKतस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनम् तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिम् //
SKपञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितम् तथा वायव्यदिग्भागे प्रविश्य लवणोदधिम् //
SKयोजनानां सहस्राणि चत्वार्येव वरानने दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितम् //
SKभद्राकारमिति ज्ञेयं सर्वकामफलप्रदम् अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः //
SKचन्द्राख्ये ऽप्ययुतं चायुर् जीवन्ति फलभोजिनः श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयम् //
SKलकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश //
SKनीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः //
SKनीलोत्पलदलश्यामा जरारोगविवर्जिताः द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितम् //
SKनवसाहस्रविस्तारं रम्यकं च हिरण्मयम् हेमकूटस्य सौम्येन दक्षिणे निषधस्य तु //
SKहरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः //
SKअतीव शोभनं तच्च नवसाहस्रविस्तृतम् हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे //
SKवर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः //
SKनवैव तु सहस्राणि विस्तारस्तत्र कीरितः याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः //
SKभारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम् जना रोगभयत्रस्ता दुःखिता मन्दसंपदः //
SKसुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे भोगिनो मन्दभोगाश्च तथान्ये ऽत्यन्तदुःखिताः //
SKगौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः वर्णजातिप्रभेदेन नानाकर्मानुरूपतः //
SKचतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च //
SKपण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनो ऽपरे //
SKयाचकाश्चापि जायन्ते दातारश्चापरे जनाः प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये //
SKगुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम् नष्टासु विद्यते काचिद् युगत्रयमयी स्थितिः //
SKचतुर्युगवती ज्ञेया भारताख्ये वरानने तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभम् //
SKवसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः महाकालस्तथैकाम्रम् एवमादि वरानने //
SKतीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया गङ्गादीनां नदीनां च तत्र पञ्च शतानि च //
SKनवयोजनसाहस्रं धन्वाकारं निबोध तम् नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये //
SKएकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितम् शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा //
SKपरस्परमगम्यास्ते तेषां नामानि मे शृणु इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् //
SKनागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितम् //
SKबिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितम् योजनानां सहस्रं तु नानावर्णाश्रमान्वितम् //
SKये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये //
SKभूधराः सप्त विज्ञेयास् तत्रैव तु सुशोभनाः महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः //
SKविन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः दक्षसागरमध्यस्थान्य् उपद्वीपानि षट् प्रिये //
SKअङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकम् कुमुदं च वराहं च इत्येवं परिकीर्तितम् //
SKकथितो मलयद्वीपे मलयो नाम पर्वतः तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता //
SKचामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता //
SKअनन्तविभवास्तत्र राक्षसा देवकन्यकाः रमन्ते कन्यकासक्ता महाबलपराक्रमाः //
SKअगस्त्यशिखरं तत्र मलये भूधरोत्तमे तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः //
SKतत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः न तत्र जायते मारी नाकालः संप्रवर्तते //
SKन जरा न च शोकश्च नोपसर्गभयं क्वचित् न वदत्यनृतं कश्चिद् रागद्वेषौ न कुत्रचित् //
SKअगस्त्यस्य प्रभावेण त्व् अज्ञानं दूरतो गतम् तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः //
SKजपाध्ययन होमादि पूजास्तुतिपरायणाः त्र्यम्बकस्य महादेवि नित्यमाराधने रताः //
SKअगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः //
SKलक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः //
SKत्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः //
SKद्वादशैव महावीर्यास् तान्ब्रवीमि समासतः वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः //
SKचन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु अशोको ऽथ वराहश्च नन्दनश्च तृतीयकः //
SKअपरेण नगास्तत्र प्रविष्टा लवणोदधिम् चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः //
SKदक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः //
SKजम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः //
SKतस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः //
SKज्योतिष्मान् द्युतिमान् हव्यः सवनः सत्र एव च मेधाः सत्रो ऽग्निबाहुश्च एते प्रव्रजितास्त्रयः //
SKसप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः //
SKनाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः //
SKनवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः //
SKतेषां नामाङ्कितानीह नववर्षाणि पार्वति नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः //
SKतस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् //
SKतस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये भारते त्वष्टद्वीपे ऽत्र अष्टौ पुत्रा निवेशिताः //
SKनवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः //
SKजम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिम् गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति //
SKअधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते क्षारः क्षीरं दधि घृतं तथा इक्षुरसो ऽपि च //
SKमदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः //
SKपरिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः //
SKअग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके //
SKराजा क्रौञ्चे ऽथ ज्योतिष्मान् शाल्मलौ द्युतिमान्स्मृतः गोमेदे हव्यनामा तु सवनः पुष्करे तथा //
SKत्रेतायुगसमः कालः शाकगोमेदवासिनाम् तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनाम् //
SKमेधातिथेः सप्त पुत्राः शाकद्वीपे ऽभिषेचिताः शान्तो ऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः //
SKक्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु ते ऽङ्किताः वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे //
SKगोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः //
SKसुकृता चानसूया च सुमुखी च तृतीयका विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका //
SKएता एव महानद्यो गिरिष्वेतेषु निर्गताः पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरम् //
SKशाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः //
SKक्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः //
SKश्वेतलोहितजीमूता हरितो वैद्युतस्तथा मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः //
SKकुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः //
SKश्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः //
SKदध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः //
SKदिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः //
SKउद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च रथकारश्च लवणो धृतिमान्सुप्रभाकरः //
SKकपिलश्चेति राजानो वर्षनाम्ना च ते ऽङ्किताः वैद्रुमो हेमनाभश्च द्युतिमान् पुष्पदन्तकः //
SKकुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः मही धाता शिवापापा पवित्रा संततद्युतिः //
SKदम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये //
SKजनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः //
SKक्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः //
SKमनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः //
SKवर्षनामानि तेषां वै सप्तानां सप्त तु क्रमात् क्रौञ्चो ऽथ वामनश्चैवाप्य् अन्धकारो दिवाकृतिः //
SKद्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती //
SKसन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवम् //
SKपिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः //
SKनानानारीसमाकीर्णाः सर्वकामसुखोदयाः हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयत् //
SKजलदश्च कुमारश्च सुकुमारो मरीचकः कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः //
SKतेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः उदयः केसरश्चैव जठरो ऽथ सुरैवतः //
SKश्यामो ऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे गभस्ती सुकुमारी च कुमारी नालिनी तथा //
SKवेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः //
SKअमृतोपमानि स्वादूनि फलान्यत्र वरानने भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतम् //
SKसर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः //
SKमदालसैः पानमत्तैर् अमन्ते सततं प्रिये अतश्च पुष्कराख्ये च सवनस्तत्र नायकः //
SKद्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ पर्वतो वलयाकारो मानसोत्तरसंज्ञितः //
SKपञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः योजनानां वरारोहे सर्वरत्नसमन्वितः //
SKधातकी मध्यमे राजा महवीतो बहिर्नृपः ईर्ष्यया रागतृष्णाभिर् ईतिभिश्च विवर्जिताः //
SKसर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने //
SKचतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी //
SKसुखाह्वा वारुणी चैव सोमस्य तु विभावरी पुष्करद्वीपगुणितः स्वादूदो ऽन्ते व्यवस्थितः //
SKपञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च योजनानां तु लक्षाणि कोटिद्वितयमेव च //
SKमेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितम् ततो हेममयी भूमिर् दशकोट्यो वरानने //
SKदेवानां क्रीडनार्थाय लोकालोकस्त्वतः परम् पर्वतो वलयाकारो योजनायुतविस्तृतः //
SKलक्षमात्रसमुत्सेधो योजनानां वरानने सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः //
SKतस्यान्तर्भासयेद्भानुर् न बहिः सुरसुन्दरि लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः //
SKविरुजो वसुधामा च शंखपात् कर्दमस्तथा हिरण्यरोमा पर्जन्यः केतुमान् भाजनस्तथा //
SKजाम्बूनदमये शुभ्रे सिद्धामरनिवेशने पूर्वादारभ्य क्रमशो यावदीशानगोचरः //
SKलोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः अस्य मध्ये वरारोहे योनयस्तु चतुर्दश //
SKचेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् //
SKतथोत्तरायणं तत्र उत्तरेण प्रकीर्तितम् अर्धरात्रो ऽमरावत्याम् अस्तमेति यमस्य च //
SKमध्याह्नश्चैव वारुण्यां सौम्ये सूर्योदयः स्मृतः यदैव चामरावत्याम् उदयस्तस्य दृश्यते //
SKतदास्तमेति वारुण्याम् इत्यादित्यगतागतम् सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे //
SKपितृदेवपथोह्येष कथितस्तु मया तव अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितम् //
SKपञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः चत्वारिंशत्सहस्राणि योजनानां वरानने //
SKसप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः ब्रह्मणो ऽण्डकटाहेन युक्ता वै मेरुमध्यतः //
SKपञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महत् //
SKअत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि अथ वात्र महादेवि परिपाट्या समन्ततः //
SKदीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेत् //
SKतेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम् अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् //
SKपातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः उपस्थानं ततः कुर्याद् भुवर्लोकस्य वरानने //
SKततो वागीश्वरी देवी संपूज्य कुसुमादिभिः ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च //
SKछेदनं च तथाकर्षो ग्रहणं योजनं ततः गर्भधारित्वजनने अधिकारं तथैव च //
SKयोगं भोगं लयं चैव ततो योनिविशोधनम् चतुर्दश समासेन कथयाम्यनुपूर्वशः //
SKपैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च सौम्यं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः //
SKसंहारक्रमयोगेन शोधनीयाः शिवाध्वरे पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः //
SKस्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकम् देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् //
SKचतुर्दशविधं चैव भूर्लोके तु विशोधयेत् आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे //
SKसंसारः प्रोच्यते तस्मात् पर्यटेत्स यतस्ततः सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः //
SKबन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि //
SKपुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः //
SKप्रधानगुणभेदेन यावच्चानाश्रितं पदम् तस्मादेवं विजानीयात् अध्वा बन्धस्य कारणम् //
SKचतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः //
SKकर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना //
SKकोशकारो यथा कीट आत्मानं वेष्टयेद्दृढम् नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा //
SKतथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः न च मोचयितुं शक्ताः पशवः पाशबन्धनाः //
SKस्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनात् //
SKअन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलम् यत्तत्स्वाभिजनं शुद्धम् अनौपम्यमनामयम् //
SKमोहिता मलमोहेन बद्धाः कर्मकलादिना निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा //
SKउद्धृतस्तु यथा वह्निर् मन्थकस्य वशात्स्फुटम् स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलम् //
SKअन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषाम् प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः //
SKतथात्मा तु विजानाति यत्स्वरूपमनादिमत् मन्थकस्य वशाद्देवि नान्यथा तु कथंचन //
SKमन्थकस्त्विह देवेशि स्वयमेव सदाशिवः आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः //
SKमन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवत् //
SKआत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः उद्बोधितो यथा वह्निर् निर्मलो ऽतीव भास्वरः //
SKन भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः //
SKतत्रस्थो ऽपि न बध्येत यतो ऽतीव सुनिर्मलः रसवह्निसमायोगात् ताम्रं कालिकया यथा //
SKविश्लेषितं तु तत्त्वज्ञैर् हेमत्वं प्रतिपद्यते न भूयस्ताम्रतां याति तथात्मा न कदाचन //
SKरसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवत् तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः //
SKआत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका मन्त्रद्रव्यक्रियायोगाद् वह्न्याधारे तथा प्रिये //
SKगुरुणा तन्त्रविदुषा ह्य् आत्मा वै निर्मलीकृतः न भूयो मलतां याति शिवत्वं याति निर्मलम् //
SKएवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा //
SKगुणभूतास्तु ये पाशास् ते ऽपि शुद्ध्यन्ति तद्वशात् चतुर्दशविधं चैव यदुक्तं तु मया पुरा //
SKसंसारमण्डलं देवि शोद्ध्यं तदवनीतले तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे //
SKब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेत् ब्राह्मं चैव तु प्राजेशं सौम्यमैन्द्रं तथैव च //
SKगान्धर्वं चापरं याक्षं राक्षसं च तथापरम् पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा //
SKसप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा पक्षिणां गरुडं चैव मृगाणां सिंहमेव च //
SKपशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेत् अन्त्यजाञ्छूद्रविट् क्षत्र ब्राह्मणांश्च विशोधयेत् //
SKपञ्चभिर्ब्रह्मभिर्देवित् वधिकारान्विशोधयेत् दशाहुतिप्रयोगेण अन्त्यजान् ब्राह्मणावधि //
SKब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च गर्भः पुंसवनं चैव सीमन्तो जातकर्म च //
SKनाम निष्क्रमणं चैव अन्नप्राशनचूडकम् अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः //
SKएतैर्निवर्तितैर्देवि ततो ऽसौ जायते द्विजः नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः //
SKअङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा //
SKसंध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने //
SKभौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः //
SKसप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणाम् चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु //
SKएभिस्तु सहितं ह्येकं नवमं व्रतबन्धनम् तस्यान्तर्भूतमेवैतत् कथितं व्रतसप्तकम् //
SKचतुर्दश व्रतान्येवं होतव्यानि वरानने वेदव्रतानि चत्वारि होतव्यानि न संशयः //
SKऐष्टिकं पार्विकं चैव भौतिकं सौमिकं तथा व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः //
SKत्रयोदशविजानीयात् ततो वै वेदभाजनम् ततो भवति गोदानं तच्चतुर्दशकं प्रिये //
SKस्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकाम् कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् //
SKतज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमात् नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः //
SKअष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमात् //
SKएतैः सह विजानीयाद् द्वाविंशत्परिसंख्यया आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परम् //
SKपौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परम् //
SKहविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये एभिः सह विजानीयात् संस्कारैकोनत्रिंशकम् //
SKअग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा वाजपेयो ऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः //
SKसोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया हिरण्यपादः प्रथमस् तथा गुह्यहिरण्यधृत् //
SKहिरण्यमेढ्रो हिरण्यनाभिर् हिरण्यगर्भ एव च हिरण्यश्रोत्रो हिरण्यत्वग् घिरण्याक्षस्तथैव च //
SKहिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः शतेन तु घृतं चात्र एकैकं तु विजायते //
SKएते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः अश्वमेधं ततः पश्चाज् जुहुयात्तु यथाक्रमम् //
SKएवं कृतैस्तु तैः सर्वैस् ततश्चैव गृही भवेत् अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेत् //
SKपारिव्राज्यं ततो ऽन्तेष्टिम् एवं ब्राह्मण्यमाप्नुयात् अत आत्मगुणानष्टौ कथयामि समासतः //
SKदया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता शौचं चैवमनायासो मङ्गलं चाप्यतः परम् //
SKअकार्पण्यं चास्पृहा चेत्य् अष्टावात्मगुणाः स्मृताः चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः //
SKएतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या ये ऽपि सुव्रते अतो ऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः //
SKपञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमात् तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेत् //
SKऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितम् तस्मिन् संयोजनं कार्यं नचान्यत्र विधीयते //
SKतस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचित् यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेत् //
SKततो ऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमात् पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः //
SKऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितम् तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन //
SKअनुद्धृते कथं योगः यावत् कर्म न भुज्यते तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना //
SKनिवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान् //
SKभुवनान्तर्निवासांश्च भुवनानां यथाक्रमम् होमेनैव तु संशोध्य विश्लेषं छेदनं तथा //
SKपूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमात् प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः //
SKएवमादिक्रमेणैव धामान्तं च विशोधयेत् भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे //
SKभूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः दश वायुपथा मध्ये त्व् अयुतायुतसंख्यया //
SKआद्ये वायुपथे मेघान् कथयामि यथास्थितान् पञ्चाशद्योजनादूर्ध्वम् ऋतर्द्धिर्नाम मारुतः //
SKयो विवर्धयते पुष्टिम् ओषधीनां बलं तथा बृंहयेच्च महीं सर्वाम् आप्याययति चाव्ययः //
SKदिवा हंसः स वै वायुर् मनुजानां सुखावहः यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः //
SKप्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः स वै नाशयते वृक्षान् कदाचित्संप्रवर्तयेत् //
SKअग्निः प्राचेतसो नाम तेनैव सह तिष्ठति यदा दहति वेश्मानि तदासौ समुदाहृतः //
SKसुखी समुद्रे वसति स जलान्नोपशाम्यति योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते //
SKविद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते ते भुवः क्रोशमात्रेण तिष्ठन्तो ऽपसृजन्त्यपः //
SKयोजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने //
SKयोजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् //
SKतेनोपसर्गा जायन्ते मारकाः सर्वदेहिनाम् तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुत् //
SKतस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः //
SKतस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः तावद्भिर्योजनैरेव ततो वै वैद्युतो ऽनिलः //
SKमेघाश्च वैद्युतास्तस्मिन् निवसन्ति तु वैद्युते अशनिर्वायुसंक्षोभात् तेष्वसौ जायते महान् //
SKतदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् //
SKसंवर्ते रोगदा मेघास् ते रोगोदकवर्षिणः पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः //
SKविषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः //
SKते क्रोधरागबहुलं संग्रामबहुलं तथा राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा //
SKवर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा //
SKसंवर्तश्च विषावर्तो वायवो घोरवेगिनः अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः //
SKत्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः ते वै दिव्यैश्च कुसुमैर् अर्चयन्ति हरात्मजम् //
SKअमोघे विनायका घोरा महादेवसमुद्भवाः त्रिंशत्कोटिसहस्राणि तस्मिन् वायौ प्रतिष्ठिताः //
SKये हरन्ति कृतं कर्म नराणामकृतात्मनाम् वज्राङ्गे ऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः //
SKभिन्नाञ्जननिभा घोरास् तापना नाम विश्रुताः विद्याधराणामधमा मनः पवनगामिनः //
SKये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः साधयित्वा ततः सिद्धास् ते ऽस्मिन् वायौ प्रतिष्ठिताः //
SKवैद्युते ऽप्सरसस्तस्मिन् वासवेन प्रयोजिताः तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने //
SKभृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः //
SKते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः पताकादीर्घिकाकीर्णैर् दिव्यघण्टानिनादितैः //
SKस्त्रीसहस्रपरीवारैर् विमानैस्तान्नयन्ति ताः रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः //
SKगोरोचनाञ्जने भस्म पादुके अजिनादि च साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः //
SKते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः संवर्ते ऽपि महावायौ विद्याधरगणाः स्मृताः //
SKदश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः //
SKआग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः //
SKतत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः //
SKब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः उपरिष्टाद्योजनशताद् दुर्जयस्योपरि स्थिताः //
SKतत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः परावहाभिधं वायुं ते समाश्रित्य संस्थिताः //
SKमहावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः //
SKशक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम् परावहस्तान्वहति मनुजानिव वारणः //
SKतस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः एकादश तु वै कोट्यस् तेषां तु समुदाहृताः //
SKजीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः //
SKतस्मिञ्जीमूतका नाम विद्याधरगणा दश आवहस्तु ततो वायुर् यत्र द्रोणाः समाश्रिताः //
SKतस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा //
SKउपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः महापरिवहो नाम वायुस्तेषां समाश्रयः //
SKआद्ये वायुपथेह्येवं मेघा वै वायुभिः सह सिद्धाश्च पतयश्चैव कथिता मेघचारिणः //
SKद्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः //
SKतृतीये वायुपथे चैव वसन्ते सिद्धचारणाः स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः //
SKचतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः //
SKपञ्चमे पथि देवेशि वसन्त्यैरावतादयः ऐरावतो ऽञ्जनश्चैव वामनश्च महागजः //
SKसुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च कुमुदः पुण्डरीकश्च सार्वभौमो ऽपि चाष्टमः //
SKदिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः षष्ठे वायुपथे देवि पक्षिराजो महाबलः //
SKगरुत्मानिति विख्यातो दुर्जयो ऽतीव वीर्यवान् सप्तमे व्योमगङ्गा तु नानाजलचरानुगा //
SKदिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला //
SKआकाशगङ्गा प्रथिता देवानां सततोत्सवा पुष्पमालेव सा भाति नभसः शिरसि स्थिता //
SKतत्र सिद्धैर्महाभागैर् विद्याधरगणैस्तथा गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः //
SKरुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः //
SKस्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः //
SKभेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः वंशवादित्रनादैश्च मनोवायुसमीरितैः //
SKवैदूर्यनालैः कमलैर् हेमपत्रैः सुगन्धिभिः केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः //
SKनृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता मण्डिता च वनैर्दिव्यैर् धर्माधारा महानदी //
SKमम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा महामन्दाकिनी देवी त्रिदशैः पर्युपासिता //
SKमहाविमानकोटीभिर् निरन्तरमवस्थितैः शोभितासौ भगवती नित्यमास्ते नभस्तले //
SKतत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता पपात धरणीपृष्ठे लोकानां हितकाम्यया //
SKअक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता योजनानां शतं पूर्णं विस्तारो ऽस्याः प्रकीर्तितः //
SKपरिणाहस्ततः कोट्यः महावेगवती शुभा सा भ्रमन्तीव संतिष्ठेत् समन्तात्परिमण्डला //
SKध्रुवमापूर्य सा देवी त्व् अत्यद्भुतमवस्थिता दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी //
SKअष्टमे वृषराजस्तु सपत्नीकः सनन्दनः वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः //
SKनवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः //
SKदशमे वायुपथे देवि वसुरुद्रदिवाकराः अत्र चाङ्गारकः सर्पिर् नैरृतः सदसत्पतिः //
SKबुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा //
SKएकादश स्मृता रुद्राः सर्वकामफलोदयाः धाता ध्रुवश्च सोमश्च वरुणश्चानिलो ऽनलः //
SKप्रत्यूषश्च प्रदोषश्च वसवो ऽष्टौ प्रकीर्तिताः वसवः कथिताह्येते आदित्यांश्च निबोध मे //
SKअर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् मित्रश्चैव समाख्यातस् त्व् अजघन्यो जघन्यकः //
SKविवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः काश्यपेयान्विदुस्त्वेतान् तेषां तेजोनिधेरथ //
SKअमृतोद्भवो ऽर्थो दिव्यः सर्वदेवसमन्वितः यज्ञश्चक्रं रथे तस्मिन् सर्वज्ञानमयी च धूः //
SKसप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः //
SKसत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु नवयोजनसाहस्रो विग्रहो भास्करस्य तु //
SKत्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरम् ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा //
SKमासवारप्रयोगेण संचरन्ति शिवेच्छया अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः //
SKततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः //
SKचन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् //
SKलक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः //
SKसुराचार्यो ऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः तस्योर्ध्वे ऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः //
SKतस्योपरि द्विलक्षेण सौरिः सर्पति लीलया लक्षमात्रेण तु ऋषीन् कथयामि समासतः //
SKअत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः //
SKयमनियमतोह्येते शापानुग्रहकारकाः भीताश्च परपीडायाः शूराः शास्त्रविचारणे //
SKज्ञानखड्गोद्यताः सर्वे त्व् अज्ञानपटलापहाः मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः //
SKयोगैश्वर्यगुणोपेताः शिवाराधनतत्पराः तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश //
SKशरीरं घटितं ताभिर् ध्रुवस्य वरवर्णिनि ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः //
SKतस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः //
SKदशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलात् वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः //
SKआमेघाद्भास्करात्सोमान् नक्षत्राद्ग्रहमण्डलात् ऋषिसप्तकनिर्देशाद् आध्रुवान्तं च सप्तमः //
SKआदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः //
SKऋषिदेवैः सगन्धर्वैर् वृतश्चाप्सरसां गणैः अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः //
SKस्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषम् स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु //
SKपञ्चाशीतिश्च लक्षाणि महर्लोको वरानने ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै //
SKकोट्यष्टकं महादेवि योजनानां वरानने महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः //
SKएकपादो ऽथ जह्नुश्च कपिलश्चासुरिस्तथा भौतिको वाड्वलिश्चैव जनलोकनिवासिनः //
SKद्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये तपोलोकः समाख्यात ऋषियोगेश्वराकुलः //
SKसनकश्चसनन्दश्च सनत्कुमारः सनन्दनः शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः //
SKपद्माः षट्पञ्चपञ्चाशत् कोट्यो लक्षाणि विंशतिः भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने //
SKइयं संख्या समाख्याता भुवनानां वरानने कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये //
SKसत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः //
SKकर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः आनन्दपदसंप्राप्ता आनन्दपदमागताः //
SKऋग्वेदोमूर्तिमांस्तस्मिन्न् इन्द्रनीलसमद्युतिः दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः //
SKसंस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः //
SKदिव्यकुण्डलधारी च महाकायोमहाभुजः स्थितः पश्चिमदिग्भागे सामवेदः सनातनः //
SKरक्ताम्बरधरः श्रीमान् पद्मरागसमप्रभः स्रग्दामधारकश्चित्रम् आलाभूषणभूषितः //
SKअथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः //
SKषडङ्गानीतिहासाश्च पुराणान्यखिलानि तु वेदोपनिषदश्चैव मीमांसारण्यकं तथा //
SKस्वाहाकारवषट्कारौ रहस्यानि तथैव च गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः //
SKभोगस्थानं ब्रह्मणः स्यात् परं ब्रह्म ततो व्रजेत् कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये //
SKब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभम् रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः //
SKचतुर्मुखश्चतुर्वेदश् चतुर्युगवशानुगः ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः //
SKऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः धर्मादिफलसंबन्धप्रदाता च युगे युगे //
SKतिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह स्रष्टा च सर्वभूतानां सदेवासुरमानुषे //
SKकोटिद्वयं तदूर्ध्वे तु योजनानां वरानने नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा //
SKब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला //
SKमरकतस्तम्भसोपाना नीलध्वजसमाकुला घण्टावितानविस्तीर्णा चारुचामरशोभिता //
SKनीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता कामकार्मुकनिर्घोषवित्रस्तमृगलोचनैः //
SKनूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः मनोभवशरायास निपातशतजर्जरैः //
SKसुघूर्णितमदायासविलोलधवलेक्षणैः संसेव्यते स भगवान् विष्णुः कमललोचनः //
SKइन्द्रनीलसमाकारो निलोत्पलदलप्रभः चतुर्भुजो महाकायः पीनवक्षा गदाधरः //
SKकिरीटीकुण्डलीशङ्खी प्रजापालनतत्परः संसेव्यते स भगवान् निकायैरात्मविक्रमैः //
SKविष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः //
SKसप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः शुद्धस्फटिकसंकाशश् चत्वरोद्यानमण्डितः //
SKसहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः //
SKवनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः //
SKनदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी //
SKवसिष्ठा च वराहा च वरारोहा च सप्तमी गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा //
SKलक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः इन्द्रनीलनिभैर्नालैर् योजनायतगन्धिभिः //
SKस्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः शरदिन्दुनिभानार्यो नवनीतसुकोमलाः //
SKसुभ्रूललाटवदनाः कृशोदर्यो मदालसाः अलिपुञ्जनिभैः केशैर् मृगामोदसुगन्धिभिः //
SKप्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः दाडिमीपुष्पसंकाशैर् ओष्ठैरुत्पलगन्धिभिः //
SKरम्भानिभाभिर्जङ्घाभिर् बाहुभिर्बिसकोमलैः अशोकपल्लवाकारैः पादैः पद्मदलोपमैः //
SKनखैश्च केतकीप्रख्यैर् दशनैर्मौक्तिकोज्ज्वलैः स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतम् //
SKहारकेयूरकटकैः सीमन्तमणिजालकैः काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा //
SKतारकुम्भनिभाकारैर् उन्नतैश्च पयोधरैः सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः //
SKगुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः //
SKनूपुरारावमुखरप्रस्खलन्मृदुविक्रमाः हास्यलास्यविलासाढ्यभ्रूभङ्गतरलेक्षणाः //
SKह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनाम् कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः //
SKपरिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् यद्यप्येवंविधानार्यः निजभर्तृभयातुराः //
SKवित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः अवगूह्य च सर्वाङ्गैर् आपीय वदनैर्मुखम् //
SKक्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः //
SKमुकुटैः कुण्डलैश्चित्रैर् महारत्नसमुज्ज्वलैः केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः //
SKमुक्ताफलावलीहारैर् ब्रह्मसूत्रोत्तरीयकैः महाकाया महोरस्कास् त्रिनेत्राः शूलपाणयः //
SKचन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः //
SKहरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः न तत्र मृत्युर्न जरा न शोको ऽस्ति वियोगजः //
SKक्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः //
SKश्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि //
SKएवंविधैरसंख्यातैर् विमानरथगामिभिः महावृषगजारूढैः सिंहवाजिसुवाहनैः //
SKलक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतम् तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः //
SKस्वच्छमौक्तिकसंकाशप्राकारशिखरावृतम् नन्दीश्वरमहाकाल द्वारपालगणैर्वृतम् //
SKकिंकिणीजालमुखरैः पताकाध्वजसंकुलैः वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः //
SKघण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितम् कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः //
SKरचितैश्चित्रशास्त्रज्ञैर् अत्नचूर्णसमुज्ज्वलैः स्वस्तिकैः पत्रवल्याढ्यैश् चित्रितं भुवनाजिरम् //
SKशतसिंहासनाकीर्णं वेदिकारत्नभूषितम् गोपुराट्टालरथकैर् वीथीभिश्च भ्रमान्त्रकैः //
SKसर्वरत्नविचित्राढ्यैर् द्वारबद्धैः सुशोभनम् निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः //
SKस्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः पूर्णचन्द्रनिभाकारैर् अण्डैः शिखरमण्डितैः //
SKमुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः नाट्यशालैः सुशोभाढ्यैर् नृत्तगीतरवाकुलैः //
SKमण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः //
SKमत्तवारणकै रम्यैश् चन्द्रशालासुशोभनैः धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितम् //
SKचित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलम् तूर्यशब्दजयध्वानकाहलाकूजितेन च //
SKवंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च //
SKदुन्दुभीनादशब्देन मुरजस्फालनेन च करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः //
SKगर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः वन्दिनांस्तोत्रशब्देन सामवेदरवेण च //
SKहुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः वृषनन्दितशब्देन गजवाजिरवेण च //
SKकाञ्चीनूपुरशब्देन नदतीव महत्पुरम् सर्वसंपत्करं श्रीमच्छङ्करस्य तु मन्दिरम् //
SKअत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः //
SKपृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः //
SKपूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः //
SKपुष्पदन्तगणेशाद्यैर् आसनं तस्य संवृतम् कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा //
SKविक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा अष्टौ ते हरयःप्रोक्तास् त्रिनेत्रा भूरिविक्रमाः //
SKसिंहरूपाःसुतेजस्काः सटाविकटभास्वराः शक्तिरूपधरैर्मन्त्रैर् योगैश्वर्यसमन्वितैः //
SKआसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः //
SKसर्वलक्षणसंपूर्णः सर्वाभरणभूषितः त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः //
SKपीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः //
SKवरदाभयपाणिश्च सर्वायुधधरस्तथा शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः //
SKचन्द्रबिम्बनखाभाभिर् अङ्गुलीभिरलंकृतैः सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः //
SKपूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः //
SKवीजतस्तु सदा श्रीमांश् चन्द्रकोटिसमप्रभः ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः //
SKध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः //
SKअज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः //
SKतस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः //
SKसर्वलक्षणसंपूर्णा सर्वाभरणभूषिता योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका //
SKदेवस्याभिमुखी नित्यम् उमा तु ललितेक्षणा शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा //
SKब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः //
SKते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहम् जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः //
SKनाधोयान्ति पुनर्देवि संसारे दुःखसागरे शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः //
SKरुद्रलोकः समाख्यातस् ततश्चोर्ध्वमुमे शृणु उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितम् //
SKब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतम् //
SKदण्डपाणिस्तु भगवान् योगैश्वर्यबलान्वितः दण्डः पाणितलेनैव धृतोयेन शिवेच्छया //
SKविवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदम् विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया //
SKसप्तलोकेषु ये रुद्रा कथयामि समासतः शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च //
SKमहादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे //
SKरुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः कालाग्नेर् दण्डपाण्यन्तम् अष्टानवतिकोटयः //
SKयोजनानांवरारोहे त्व् अध्वायमुपवर्णितः कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने //
SKकोटियोजनमानेन घनाकारेणसंस्थितः पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने //
SKपञ्चाशच्च अधोज्ञेया योजनानां समन्ततः एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते //
SKशतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलम् वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि //
SKहुंफट्कारप्रयोगेण भेदयेत्तु वरानने शतरुद्रानतो वक्ष्ये समासेन कृशोदरि //
SKदश दशक्रमेणैव दशदिक्षु समन्ततः पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः //
SKकपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः //
SKइन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः //
SKअग्निरुद्रोहुताशी च पिङ्गलः खादको हरः ज्वलनोदहनोबभ्रुर् भस्मान्तकक्षयान्तकौ //
SKअग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः विचरन्तिमहादेवा अग्निराजसुपूजिताः //
SKयाम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा //
SKयमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः विचरन्तिमहादेवा यमराजसुपूजिताः //
SKनैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ //
SKनैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः //
SKबलोह्यतिबलश्चैव पाशहस्तो महाबलः श्वेतो ऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः //
SKमेघनादी सुनादी च समासात्परिकीर्तिताः वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः //
SKविचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः //
SKपञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः //
SKविचरन्तिमहादेवा वायुराजसुपूजिताः निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः //
SKलक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः सौम्यस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः //
SKविचरन्तिमहादेवाः सोमराजसुपूजिताः विद्याधिपो ऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः //
SKशर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः ईशानानुमता देवाश् चेष्टन्ते सुरपूजिताः //
SKविचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः वृषोवृषधरो ऽनन्तः क्रोधनो मारुताह्वयः //
SKग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः //
SKविचरन्तिमहादेवा अनन्तेन सुपूजिताः शंभुर्विभुर्गणाध्यक्षस् त्र्यक्षश्च त्रिदशेश्वरः //
SKसंवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः //
SKविचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः एकैकस्य सहस्रं तु परिवारो ऽभिधीयते //
SKशतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः //
SKस्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु //
SKएकैकमधिपंचैव कथयामि वरानने स्थितो वै पूर्वतो ऽण्डस्य श्वेतो वै नाम नामतः //
SKरुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः दीप्तिमद्भिर्महातीव्रैर् मयूखैरिव भास्करः //
SKआग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः सो ऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः //
SKयाम्ये ऽण्डस्य महाकालो युगान्तानलसंनिभः शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः //
SKनैरृतो विकटोनाम शतेनपरिवारितः संतिष्ठते महातेजा द्वितीय इव भास्करः //
SKपश्चिमे ऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः शतरुद्रैर्वृतः सो ऽपि तिष्ठत्यमितविक्रमः //
SKवायव्यदिशिचाण्डस्य वायुवेगो महाबलः शतेन च वृतः श्रीमांस् तिष्ठत्यत्र महाबलः //
SKसुभद्रनामोत्तरतः शतेनपरिवारितः महावीर्यबलोपेतस् तिष्ठत्यत्र महाबलः //
SKपरिविष्टो मरीचीभिस् तत्रतिष्ठति वीर्यवान् विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः //
SKशतरुद्रैर्वृतः सो ऽपि परिविष्ट इवोडुराट् महावीर्यबलोपेतस् तिष्ठते ऽनन्तविक्रमः //
SKअधः कालाग्निरुद्रो ऽन्यः स्थितस्त्वत्र द्वितीयकः समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने //
SKशतैः समावृतो रुद्र मयूखैरिव भास्करः वीरभद्रो वृतोरुद्रैर् उपर्यण्डस्य संस्थितः //
SKएकादशो महाकायै रुद्रक्रोधसमुद्भवैः एवंते ऽत्रमहात्मान एकैकं तु शतेन च //
SKदशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते एषामपरिसंख्येयः परिवारो महात्मनाम् //
SKआवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः कदम्बकुसुमंयद्वत् केसरैः परिवारितम् //
SKपरिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः गृहैः सतोरणाट्टालैर् नानारत्नविचित्रितैः //
SKजाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतम् दिव्यनारीभिराकीर्णं सर्वकामसमन्वितम् //
SKब्रह्माण्डमेतदाख्यातं पाशजालावतारितम् जन्मव्याधिजरामृत्युमहोदधिपरिप्लुतम् //
SKगुणत्रयमलच्छन्नं नानाजातिसमाकुलम् पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलम् //
SKअनित्या एव गतयः सर्वेषामेव वादिनाम् परापरविभागं तु नैवजानन्ति मोहिताः //
SKहेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति ईशमायासमाविष्टस्यात्मवर्गस्य भूतये //
SKअथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम् उत्तरोत्तरयोगेन दशधा संस्थितानि तु //
SKअहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि //
SKपौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते //
SKमाया तु कोटिधाव्याप्य स्थिता सर्वं चराचरम् दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता //
SKशतकोटिगुणेनैव व्याप्तासावीश्वरेण तु सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः //
SKयोजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता //
SKअप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमात् //
SKआकारं विभवं चैव भुवनानेकविस्तरम् यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः //
SKयन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः //
SKनापि संशयवादैश्च नग्नक्षपणकादिभिः न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि //
SKन चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः न च वैशेषिकैर्वा.अपि षट्पदार्थपरायणैः //
SKन चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः //
SKन धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरम् इत्येवंवादिनां तेषां वादानां तु शतत्रयम् //
SKत्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् अज्ञानतिमिराधानाम् उन्मीलनकृदुत्तमम् //
SKसंसारपङ्कमग्नानां नौरिवोत्तारणं परम् महामोहतमो ऽन्धानां तमोनुदमिदं परम् //
SKपरमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतम् ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरम् //
SKशृणुष्वैकमना देवि विचित्राकारमद्भुतम् अनन्तो भुवनव्रातस् त्व् अव्युच्छेदाद्व्यवस्थितः //
SKमधुकोशजालकवत् तथा भूरिचयावृतिः मीनशंखकुलायाभं दाषिमीबीजवत्स्थितम् //
SKकदम्बकेसरनिभं पुराणां तु समूहकम् महासेनावासकवद् वने तरुसमूहवत् //
SKनिरन्तरमनन्तानि भुवनानि वरानने नानाकाराणि चित्राणि सर्वरत्नमयानि च //
SKपरिमण्डलानि दीर्घाण्य् अर्धचन्द्राकृतीनि च पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च //
SKपर्वताकृतिरूपाणि गजयुथाकृतीनि च शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च //
SKमहाविमानरूपाणि त्रिशूलाकृतिमन्ति च मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च //
SKमहापुरुषरूपाणि शतशृङ्गाकृतीनि च सहस्रशृङ्गावर्तानि तथान्यानि वरानने //
SKकोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च //
SKदिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च //
SKदिव्यदुन्दुभिनादानि महावेणुस्वनानि च नानावादित्रघोषाणि भुवनानि च सर्वदा //
SKशुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च //
SKलाक्षारससवर्णानि कानिचिद्वरवर्णिनि इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च //
SKनीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च बालादित्यसवर्णानि पद्मगर्भनिभानि च //
SKचन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च //
SKअशोकस्तवकाभानि हरितालनिभानि च शक्रचापसवर्णानि गोक्षीरधवलानि च //
SKसिन्दूरकुङ्कुमाभानि गोरोचननिभानि च तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च //
SKशङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च नानावर्णानि चान्यानि नानारूपाकृतीनि च //
SKएतेषां परतो देवि व्यापकं परमं पदम् अप्रमेयमसंख्येयम् अगम्यं सर्ववादिनाम् //
SKविना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते नचापि भावो भवति दीक्षामप्राप्य देहिनाम् //
SKयदा तु कारणाच्छक्तिर् भवेन्निर्वाणकारिका शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् //
SKमन्त्रयोगात्मिका दिव्यां ततो मोक्षं व्रजेत्पशुः नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि //
SKयस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा स एव मोक्षं व्रजति शिवः सर्वमहेश्वरः //
SKतेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव संसारार्णवमग्नानां नौरिवोत्तारणं परम् //
SKमहामायाञ्जनातीतं अज्ञातं पशुगोचरे अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरम् //
SKपरमेशमुखोद्गीर्णं यन् मया प्राप्तमद्भुतम् वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये //
SKऊर्ध्वं वै ब्रह्मणो ऽण्डस्य पुरैकादशकं स्थितम् एकादशानां रुद्राणां युगान्ताग्निसमत्विषाम् //
SKअथोर्ध्वे भुवनं देव्याः कथयामि वरानने इन्द्रनीलमयं दिव्यं समन्तात्परिमण्डलम् //
SKतस्मिन्भगवती देवी भद्रकाली व्यवस्थिता वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा //
SKसूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते //
SKराजते च महाहारः स्तनाभ्यामन्तरे स्थितः असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा //
SKचतुर्भिश्च धृतं पीठं सिंहैरमितविक्रमैः सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते //
SKआसने सुप्रभे देवी जात्यञ्जनसमप्रभा शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता //
SKसर्वरत्नमयी दिव्या रशनास्या विराजते पीतमाल्यांशुकवती शर्वरीवारुणोदये //
SKतृतीयं नयनं तस्या ललाटस्थं विराजते उदयस्थ इवादित्यो रश्मिजालविभूषितः //
SKउच्छ्रितेनातपत्रेण सा श्वेतेन विराजते कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी //
SKकोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले //
SKकुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः प्रियङ्गुकलिकाश्यामाश् चन्द्रगौर्यः सयौवनाः //
SKपद्मावदातरूपिण्यः पीनश्रोणिपयोधराः हावभावविधिज्ञास्तु नृत्तगीतविशारदाः //
SKवीणावेणुमृदङ्गाद्यैर् वंशवादित्रनिःस्वनैः उपासीनास्तु तां देवीं रमन्ते तत्र योषितः //
SKएवं विद्धि जयं नाम भुवनं तु वरानने या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवर्तिनी //
SKविष्णुना तपसा पूर्वम् आराध्य परमेश्वरम् अवतारिता वधार्ताय महिषस्य महात्मनः //
SKयेन चैकेन शृङ्गेण भगवान् हिमवान् गिरिः शुष्कपर्णमिव क्षिप्तः भगवत्या विनाशितः //
SKसा तं विनाशायेद्देवी तमः सूर्य इवोत्थितः सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति //
SKयोगमायाप्रतिच्छन्ना कुमारी लोकभाविनी अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते //
SKविष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः भगिनीत्वेन चायाति नामरूपविपर्ययैः //
SKमन्वन्तरे मन्वन्तरे तथा चैव युगे युगे रक्षणार्थं हि लोकानां मातेव हितकारिणी //
SKइत्याख्यातं तु भुवनं जयं नाम वरानने तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः //
SKनचैतत्तपसा प्राप्यं नयज्ञैर्भूरिदक्षिणैः न दानैर्विविधैश्चापि शक्यं प्राप्तुं वरानने //
SKप्रसादाद्देवदेवस्य शशाङ्काङ्कितमौलिनः दीक्षां प्राप्य प्राप्नुवन्ति मण्डलं चक्रवर्तिनाम् //
SKनिर्बीजदीक्षया मोक्षं ददाति खलु देहिनाम् सा मुक्तिदीक्षा परमा विधिवत्परिकीर्तिता //
SKविद्येशावरणे दीक्षा यवती क्रियते नृणाम् तावतीं गतिमाप्नोति भुवने ऽत्र वरानने //
SKभुवनानि तदीशांश्च संस्थानानि यथाक्रमम् कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये //
SKभद्रकाल्यां परो देवो रुद्रक्रोधसमुद्भवः कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः //
SKयुगान्ताम्बुदवृन्दोत्थगर्जितध्वनिनिःस्वनः शतबाहुर्महातेजा दिव्याभरणभूषितः //
SKशिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः शिखिकण्ठनिभः किञ्चित् किञ्चिदापाण्डुलोहितः //
SKचाषजीमूतवर्णश्च अतसीपुष्पसंनिभः इन्द्रनीलनिभः किञ्चित् किञ्चिद्भृङ्गनिभाकृतिः //
SKजात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः युतं कोटिसहस्रेण रुद्राणां च महात्मनाम् //
SKभुवनं तस्य देवस्य विजयं नाम विश्रुतम् इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महत् //
SKदशकोटिसहस्राणि रुद्राणां वरवर्णिनि अन्तर्भुवनसंघातैर् अन्यैश्च परिवारितम् //
SKनीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा रुद्रैर्दिव्यैर्महावीर्यैः समन्तात्परिवारितम् //
SKस्तुतिभिर्मङ्गलैर्गीतैर् नृत्तावादित्रवादितैः पणवैर्वेणुवीणाभिर् भेरीझल्लरि गोमुखैः //
SKपटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा //
SKमौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः //
SKभूतैर्भूतगणै रुद्रैर् जल्पितैः पठितैस्तथा ध्यायाद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा //
SKमयूरकोकिलारावान् मुञ्चद्भिश्च तथापरैः नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः //
SKआवृतस्तैर्महातेजा मयूखैरिव भास्करः गजवक्त्रैः सिंहवक्त्रैर् अश्ववक्त्रैः शुभाननैः //
SKगोकर्णैर्गोमुखैश्चान्यैर् द्वीपिऋक्षमुखैस्तथा व्याघ्रवानरवकैश् च भगवान्पर्युपास्यते //
SKवीरभद्रो महातेजा युगान्ताग्निसमप्रभः आसनं तस्य देवस्य सर्ववज्रमयं महत् //
SKदशयोजनविस्तीर्णं चतुरस्रानलप्रभम् राजते ऽत्राष्टभिः सिंहैर् वृतं भीमपराक्रमैः //
SKअत्र ते पुण्यकर्माणः ये स्मरन्ति महेश्वरम् जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः //
SKते यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिम् भुवनस्यास्य देवेशि ह्य् उपर्यावरणं महत् //
SKअम्मयं तु घनं चापि शक्रचापमिव स्थितम् वितानमिव तद्भद्रम् अन्तरे समवस्थितम् //
SKतत्र चास्ते महात्मासाव् अङ्गुष्ठाग्रप्रमाणकः तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते //
SKतिर्यक्त्रिगुणविस्तारम् आप्यमावरणं प्रिये आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा //
SKरुद्राण्ड इति विख्यातं रुद्रालोक इति प्रिये वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा //
SKत्रयोदशभिरन्यैश्च भुवानैरुपशोभितम् नानारुद्रगणैर्दिव्यैर् निरन्तरमलंकृतम् //
SKअण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महत् //
SKधात्री यस्मिन्भगवती धरालोके सनातनी हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता //
SKचक्रवर्तिविमानैश्च बहुभिः परिवारितम् आवृतं भूतसंघातैर् आचार्यैस्तत्परायणैः //
SKदिव्यगीतनिनादाढ्यैर् वादित्रशतनिःस्वनैः अन्तर्भुवनसंघातै रुद्राणां परिवारितम् //
SKभुवनस्यास्य मध्ये तु उदयादित्यसंनिभः रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः //
SKपद्मरागमयो दिव्यः प्रासादो बहुभूमिकः तस्य मध्ये भगवती धरित्री लोकधारिणी //
SKमालया रक्तपुष्पस्य लम्बया नित्यभूषिता चन्द्रार्कमण्डलाकारकपोलतलभूषिता //
SKपीतहेमांशुकवती महाहारविभूषिता शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता //
SKचतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता रूपयौवनसंपन्ना नृत्तगीतविशारदाः //
SKपरिवार्योपासते तां दिव्या वै मानसाः स्त्रियः त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः //
SKउत्पादितास्तु शर्वेण तदर्थं हितमिच्छता तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः //
SKउच्छ्रितेनातपत्रेण ध्रियमाणेन शोभिताः पुरःस्थितो महातेजा यो ऽसौ मेरुर्महागिरिः //
SKउपासीनस्तु तां देवीं तत्रास्ते स नगाधिपः नीलोत्पलदलश्यामो नीलजीमूतसंनिभः //
SKनीलो नाम महाशैलः पीतवासा महाद्युतिः अतिकान्तेन रूपेण कैटभारिरिवापरः //
SKउपास्यमानो दिव्याभिर् नगरीभिर्नगाधिपः तस्योत्तरे चन्द्रनिभो नानालंकारभूषितः //
SKश्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः //
SKपीताम्बरधरः श्रीमान् शृङ्गवानिति विश्रुतः अतिकान्तेन रूपेण कुसुमास्त्र इवापरः //
SKदक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः //
SKशुक्लाम्बरधरः श्रीमान् निषधो नाम विश्रुतः तप्तहेमप्रतीकाशो दिव्याभरणभूषितः //
SKअतिशुभ्रेण देहेन पितामह इवापरः पीताम्बरधरः श्रीमान् पीतमाल्यानुलेपनः //
SKहेमकूटो महातेजास् तेजसामिव सङ्ग्रहः राजते भगवान् शैलः सन्ध्यावृत इवांशुमान् //
SKपाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसंनिभः शुक्लाम्बरधरः श्रीमान् दिव्यकुण्डलभूषितः //
SKआतपत्रेण महता ध्रियमाणेन मूर्धनि हिमवानिति विख्यातो द्वितीय इव भास्करः //
SKइन्द्रगोपकसंकाशः पश्चिमे गन्धमादनः रक्ताम्बरधरः श्रीमान् अस्ताद्रिस्थ इवांशुमान् //
SKशुद्धस्फटिकसंकाशः शुक्लाम्बरधरः शुभः किरीटी कुण्डली श्रीमान् माल्यवान्नाम पर्वतः //
SKइत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः //
SKदिव्यरूपधरा देवी तनुर्वै पारमेश्वरी धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः //
SKते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् अतः परतरं देवि सामुद्रं भुवनं महत् //
SKसर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितम् नीलोत्पलसमच्छायं सर्वतः परिमण्डलम् //
SKमध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभम् शतयोजनसाहस्रं समन्तात्परिमण्डलम् //
SKतस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः //
SKअपां निधेर्भगवतो वरुणस्य परा तनुः तं तु देवं महात्मानं परिवार्य समन्ततः //
SKरूपयौवनसंपन्नाः सततं पर्युपासते शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना //
SKशुक्लयज्ञोपवीता च शुक्लहारोपशोभिता शुक्लैनैवातपत्रेण ध्रियमाणेन मूर्धनि //
SKगङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः नीलाम्बरधरा देवी नीलगन्धानुलेपना //
SKनीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे एवमाद्या महानद्यः परिवार्य महाद्युतिम् //
SKसमुद्राष्टकं च देवेशि स्वनदीभिः समावृतम् उपासते सदा भक्त्या वारुणीं परमां तनुम् //
SKनानासरांसि तीर्थानि तद्भक्ताश्चापि संस्थिताः रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणाम् //
SKअपां योनिं परां प्राप्ताः वारुणी सा परा तनुः अतः परं प्रवक्ष्यामि भुवनं वरवर्णिनि //
SKश्रीनिकेत इति ख्यातं पद्मगर्भ इति श्रुतम् विमानशतसंघातैर् निरन्तरमवस्थितैः //
SKशोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा सरोभिर्मानसैर्दिव्यैर् दीर्घिकाभिश्च शोभितम् //
SKरथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः वैदूर्यनालैः कमलैर् दिव्यगन्धसुगन्धिभिः //
SKमृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः संशोभितं विचित्रैस्तैर् विकचैर्वज्रकेसरैः //
SKउद्यानैर्विविधैश्चापि नानाविहगकूजितैः नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतम् //
SKनानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः मानसीभिश्च नारीभिर् दिव्ययौवनकान्तिभिः //
SKहावभावविलासाढ्यदिव्यस्त्रीभिरलंकृतम् विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते //
SKविभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः गायद्भिश्चाथ नृत्यद्भिर् दिव्यस्त्रैणैः समाकुलम् //
SKतस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलम् //
SKतस्य मध्ये भगवती श्री स्वयं लोकभाविनी चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते //
SKएकत्र युगपत्तेजस् तेजसां तु विराजते निर्वाणमिव या शान्ता सर्वानन्दमनोहरा //
SKरूपिणी परमा देवी मूर्तिरव्यभिचारिणी शतयोजनविस्तीर्णे उदितादित्यसप्रभे //
SKचन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते //
SKपद्मासने भगवती पद्मगर्भसमप्रभा उपविष्टात्र सा नित्यं विभूत्या परया युता //
SKमहारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभम् वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथम् //
SKस्फुरन्मयूखचलने कपोलतलमण्डले सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले //
SKस्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती हेमाभा पीतवसना महाहारविभूषिता //
SKचन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता उपगीता च गन्धर्वैर् मानसै रुद्रसम्भवैः //
SKपरिवारिता भगवती सा तनुः पारमेश्वरी या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना //
SKदत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता //
SKपादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता //
SKतदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता //
SKअचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते //
SKश्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेत् सत्स्वन्येष्वपि भागेषु त्व् इयं सा गदिता गतिः //
SKप्राप्य तामीदृशीं देवीम् ऐश्वर्यमणिमादिकम् भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति //
SKसिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः //
SKकृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः //
SKसा बन्ध एवमुक्तानाम् अबुधानां परा स्मृता श्रीपुरं तु समाख्यातं यथावच्च वरानने //
SKअत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतम् //
SKपद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते योजनानां समाख्यातं प्रमाणेन समन्ततः //
SKसार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितम् विमानैर्विविधाकारैर् नानारत्नमयैः शुभैः //
SKगान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा //
SKस्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलम् तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभम् //
SKरश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलम् तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती //
SKशरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते पीताम्बरधरा देवी पद्मपत्रायतेक्षणा //
SKनीलोत्पलदलश्यामा दिव्याभरणभूषिता हेमपट्टपरीधाना दिव्यकुण्डलधारिणी //
SKउरसा तु महाहारम् उद्वहन्ती शशिप्रभम् स्फुरन्मयूखसंघातकुण्डलद्वयमण्डिता //
SKग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा //
SKपदासना तालपादा गीतवर्णप्रभावती अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने //
SKआसने परमे दिव्ये वृता भूतगणेश्वरैः स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा //
SKमानसीभिश्च नारीभिर् गन्धर्वैर्मानसैर्वृता हाहा हूहूश्चित्ररथस् तुम्बुरुर्नारदस्तथा //
SKविश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् //
SKते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः //
SKते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी //
SKया स्थितापरभावेन ब्रह्माण्डोदरवर्तिनाम् ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति //
SKशाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः //
SKतदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः //
SKपिशाचेभ्यः सहस्रांशान् मानुषेषु च तिष्ठति तैस्तु तप्त्वा तपो घोरम् आराध्य च पिनाकिनम् //
SKअवतारिता तु सा देवी रूपिणी स्वरभूषिता स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा //
SKस्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता //
SKया वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरम् ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी //
SKसर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितम् //
SKइदं तु परमं देव्या मया ते परिकीर्तितम् सारस्वतं तु भुवनं कीर्तितं परमा तनुः //
SKअत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमम् अमरेशं प्रभासं च पुष्करं नैमिषं तथा //
SKआषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलम् गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये //
SKतेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः अग्नेस्तु भुवनं तत्र कथयामि वरानने //
SKअशोकस्तवकानां च सर्वतो दीप्तिमुद्वहत् उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभम् //
SKभुवनस्यास्य मध्ये तु उदितार्कसमप्रभम् परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते //
SKतस्य मध्ये तु भगवाञ् शिवाग्निः कारणं परम् यो ऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा //
SKवक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः //
SKस एव तु महादेवि कालाग्निः परमेश्वरः तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये //
SKरक्तपद्मदलच्छायः पद्मरागसमद्युतिः रक्ताम्बरधरः श्रीमान् रक्तमाल्यानुलेपनः //
SKअर्कभाभ्यां कुण्डलाभ्याम् अलंकृतशुभाननः महाहारेण दीप्तेन उरःस्थेन विराजते //
SKकिरीटी कुण्डली दीप्तो देवानामास्यमुच्यते सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः //
SKदावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः //
SKदक्षिणास्याद्विनिष्क्रान्ताः श्वसतो ऽस्य स्वयम्भुवः हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः //
SKतेन ते ऽग्निं महात्मानो नित्यशः पर्युपासते नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः //
SKगणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः //
SKअग्निकार्यविधानेषु हूयते तद्विदैः सदा तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणाम् //
SKस एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः //
SKबहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले //
SKतदेवं कीर्तितं सम्यग् आग्नेयं भुवनं महत् भुवनाधिपांश्च भुवने कथयामि त्वतः परम् //
SKहरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरम् महाकालं मध्यमं च केदारं भैरवं तथा //
SKअतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमात् अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः //
SKप्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभम् //
SKतस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभम् //
SKरश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः //
SKकिरीटी कुण्डली दीप्तो हारकेयूरभूषितः नानाभरणचित्राङ्गश् चित्रमाल्यानुलेपनः //
SKचित्राम्बरधरः श्रीमान् महाहारविभूषितः मारुता नाम वै देवाः शतकोट्यो महाबलाः //
SKउपासते महात्मानं वायुमूर्तिं महाद्युतिम् यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः //
SKसप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः स्वमण्डलस्य सा दिव्यैर् विभात्येका परा तनुः //
SKतमेतमेकं दशधा प्राणात्मानं तु योगिनः ध्यात्वा त्यक्त्वा तु वै प्राणान् कृत्वा तस्मिन्स्तु धारणाम् //
SKतं विशन्ति महात्मानो वायुभूताः खमूर्तयः इति प्राणस्य भुवनम् आख्यातं तव सुव्रते //
SKभुवनेशांस्तत्र रुद्रान् कथयाम्यनुपूर्वशः गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा //
SKविमलं चाट्टहासं च माहेन्द्र भीममष्टमम् गुह्याद्गुह्यतरं ह्य् एतद् वेदितव्यं प्रयत्नतः //
SKआकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलम् सूक्ष्मरूपो ऽव्ययो नित्यो मध्यदेशे व्यवस्थितः //
SKआकाशधारणायुक्तो योगी युज्यते तत्पदे अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः //
SKवस्त्रापदं रुद्रकोटिम् अविमुक्तं महालयम् गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् //
SKपवित्राष्टकमेतद्धि समासेन प्रकीर्तितम् अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे //
SKछगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम् कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ //
SKस्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरम् मध्यदेशेस्थितो रुद्रस् त्व् अहंकारेश्वरः प्रभुः //
SKश्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभम् पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव //
SKसिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः //
SKशतरुद्राः समाख्यातास् त्रिनेत्राः शूलपाणयः चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः //
SKपद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च शतरुद्रभुवनानि भोगैश्वर्ययुतानि च //
SKपञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः आकाशावरणादूर्ध्वम् अहंकारादधः प्रिये //
SKभुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् //
SKस्थितं वितानवद्देवि योजनानेककोटयः शुक्लरक्तसितापीतहरितं स्फटिकप्रभम् //
SKवितानमिव देवेशि सर्वतः परिमण्डलम् शर्वो ह्यधिपतिस्तत्र एक एव वरानने //
SKतस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् //
SKहरितं मरकतश्यामं चाषपक्षनिभं प्रिये भवो ह्यधिपतिस्तत्र एक एव वरानने //
SKतस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् //
SKस्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम् रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते //
SKतस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि //
SKतस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम् सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये //
SKवितानाकारसदृशं समन्तात्परिमण्डलम् तत्रैव मण्डले देवि त्व् ईशानः संव्यवस्थितः //
SKतस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः //
SKसप्तधा सप्तधा सो ऽपि स एको बहुधा गतः तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् //
SKनीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम् वितानसदृशाकारं समन्तात्परिमण्डलम् //
SKभीमस्तत्राधिपत्येन एक एवावतिष्ठते तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् //
SKव्यापकं सर्वलोकानां परापरगतं प्रिये तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते //
SKसहस्रादित्यसंकाशं दीप्यमानं समन्ततः वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलम् //
SKरुद्रो ह्यधिपतिस्तत्र त्व् एक एवावतिष्ठते सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने //
SKतस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलम् //
SKअधिपतिस्तु महादेव एक एवावतिष्ठते तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः //
SKअसंख्याताः सहस्राणि कल्पे कल्पेए विनिर्गताः तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते //
SKचन्द्रकोटिसमच्छायं समन्तात्परिमण्डलम् वितानवत्स्थितं दिव्यम् उग्रेशसमधिष्ठितम् //
SKसंरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु यजमानसहस्राणि कल्पे कल्पे स्थितानि हि //
SKब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदितात् वेदयज्ञाश्च विविधा ब्रह्मणो ऽनन्तवर्त्मनः //
SKतस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः //
SKइत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः अपरा ब्रह्मणो ऽण्डं वै व्याप्य सर्वं व्यवस्थिताः //
SKएभ्यः परतरं चापि मण्डलं करणात्मकम् शुक्लरक्तासितं पीतं हरितं चापि वर्णतः //
SKपञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् //
SKवाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभम् //
SKतस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् //
SKविषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः //
SKएभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम् विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलम् //
SKतस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम् शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः //
SKएभ्यः परतरं चापि सौम्यं सोमस्य मण्डलम् तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः //
SKचित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकम् तस्याधिपो महातेजाश् चन्द्रमाः सौम्यतेजसा //
SKतस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महत् जपाकुसुमसंकाशम् अरुणादित्यसंनिभम् //
SKपूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलम् तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः //
SKसधूमो ऽग्निरिवासौ वै अहंकारः प्रवर्तते अन्तःकरणमात्मस्थं येनेदं रंजितं जगत् //
SKमत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा //
SKछगलाण्डादयो देवि पूर्वं ते कथिता मया अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते //
SKसूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसम् अष्टानां देवयोनीनाम् अत्रैव भुवनं शृणु //
SKककुभं नाम भुवनं सन्ध्यारुणसमप्रभम् मानसीभिस्तु तत्स्त्रीभिर् मुदिताभिः समाकुलम् //
SKस्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः दशकोटिसहस्राणि तेषां तत्र निवासिनाम् //
SKस्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान् सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः //
SKकुण्डलाभरणोपेतो हारकेयूरभूषितः किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः //
SKपरिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा नानारूपधरैर्दिव्यैर् दिव्याभरणभूषितैः //
SKदिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः परिवृतो महातेजा गणैरिव महागणः //
SKअतः परं प्रवक्ष्यामि राक्षासं भुवनं महत् कोकिलाकण्ठसदृशं नीलजीमुतसंनिभम् //
SKतस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते करालो राक्षसेशो वै जात्यञ्जननिभो महान् //
SKकिरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः जात्यञ्जननिभः श्रीमान् दावाग्निरिव पर्वते //
SKदशकोटिसहस्राणि मुदिता नाम राक्षसाः भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः //
SKअतः परं प्रवक्ष्यामि याक्षं वै भुवनं महत् जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलम् //
SKभोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलम् तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराट् //
SKतप्तकाञ्चनवर्णाभो मकुटादिविभूषितः शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः //
SKतैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महत् //
SKपीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये //
SKगन्धर्वदेवाधिपति गन्धमादनसन्निभः तप्तजाम्बूनदनिभस् तरुणादित्यसप्रभः //
SKदिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः //
SKमनः शिलाभङ्गनिभैर् हरितालनिभैस्तथा स्वकान्ता नाम गन्धर्वाश् चित्रमाल्यानुलेपनाः //
SKचित्राम्बरधराः सर्वे चित्राभरणभूषिताः तस्मात्परतरं वक्ष्ये स्थानम् ऐन्द्रं च पार्वति //
SKबृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदम् शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभम् //
SKतस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते विभूतिर्नाम भगवान् महेन्द्रो भुवनेश्वरः //
SKचन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः शुक्लाम्बरधरः श्रीमाञ्च् छुक्लमाल्यानुलेपनः //
SKज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः //
SKभूतिजा नाम वै देवा विभूत्या परया युताः किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः //
SKदशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः //
SKमनोजं नाम भुवनं शरच्चन्द्रनिभं शुभम् शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसम् //
SKअमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः //
SKकुण्डलैर्दीप्तिसंकाशैर् भूषितस्तु विराजते दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः //
SKतत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः दिव्याः सौम्यास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः //
SKदशकोटिसहस्राणि तेषां वै सौम्यतेजसाम् अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महत् //
SKतस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः //
SKविश्वरूपपरैर्देवैर् विश्वात्मा परिवारितः दशकोटिसहस्राणि विश्वानां भूरितेजसाम् //
SKपरिवार्य महात्मानं शोभने पर्युपासते ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभम् //
SKपितामहो यत्र देवः शुक्लपद्मस्थसौम्यदृक् शुक्लाम्बरधरः श्रीमाञ् छुक्लमाल्यानुलेपनः //
SKशुक्लयज्ञोपवीती च महाहारविभूषितः दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः //
SKब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च //
SKसौम्यं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये एतानि सुरयोनीनां स्थानान्येव पुराणि तु //
SKअवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि परमेशनियोगाच्च चोद्यमानाश्च मायया //
SKनियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा //
SKअंशेनैव वरारोहे न त्यजन्ति निकेतनम् पुर्यष्टकेन्द्रियैः सार्धम् आत्मा मन्त्रैर्विशोधयेत् //
SKपञ्चाष्टकं मूर्तयो ऽष्टौ बुद्धितत्त्वमनुक्रमात् विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परम् //
SKसंवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः //
SKनीलोत्पलदलाभानि तेषां वै भुवनानि तु एकैकस्य परीवारः कोटिर्दशसहस्रकम् //
SKक्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महत् बलाध्यक्षो गणाध्यक्षस् त्रिदशस्त्रिपुरान्तकः //
SKसर्वरूपश्च शान्तश्च निमेषोन्मेष एव च सहस्रैः पञ्चदशभिः परिवारो ऽभिधीयते //
SKअग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु //
SKअत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमम् अकृतं च कृतं चैव रैभवं ब्राह्ममेव च //
SKवैष्णवं त्वथ कौमारम् औमं श्रैकण्ठमेव च क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः //
SKततः साक्षाद्भगवती जगन्माता व्यवस्थिता उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा //
SKतप्तजाम्बूनदनिभा ह्य् उदयादित्यसप्रभा महापीठे मणिमये सिंहाष्टकयुते शुभे //
SKशतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते दिव्यकुण्डलिनी देवी महाहारविभूषिता //
SKविजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी जया च पद्मगर्भाभा सर्वालंकारभूषिता //
SKनन्दा च पद्मपत्राक्षी हारकेयूरभूषिता सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा //
SKपरिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च //
SKमानस्यो दिव्यनार्यस्तास् तां सदा पर्युपासते विमानकोटिरेका च रुद्राणां भूरितेजसाम् //
SKऔमा इति समाख्याताः वैमाना इति ते ऽन्यथा उपासते तु तां देवीं मातरं तनया इव //
SKसावतीर्याण्डमध्ये तु मया सार्धं वरानने अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी //
SKकल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी //
SKपञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा //
SKआनन्दा नवमे कल्पे दशमे वामलोचना एकादशे वरारोहा द्वादशे च सुमङ्गला //
SKकल्पे त्रयोदशे देवि महातनुरुदाहृता कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता //
SKभूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता सहस्रधारा सप्तदशे सती चाष्टदशे पुरा //
SKचाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा //
SKअमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता //
SKत्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरम् मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये //
SKकैलासनिलयश्चाहं त्वया सार्धं वरानने त्वं तनुर्वामभागस्य मत्तो नैव वियुज्यसे //
SKदक्षाध्वरे पुनर्जाता भद्रकालीति नामतः एकानंशापरा मूर्तिः सतीशानाद्विनिःसृता //
SKइदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला //
SKकात्यायनीति दुर्गेति विविधैर्नामपर्ययैः मनुष्याणां तु भक्तानां वरदा भक्तवत्सला //
SKपूर्वमवावतीर्णासि विन्ध्यपर्वतमूर्धनि अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवर्णिनि //
SKसुचार्विति तु विख्यातं सहस्रादित्यकान्तिमत् कैलासशिखराकारं शुद्धस्फटिकसप्रभम् //
SKमहाविमानकोटीभिर् आवृतं चक्रवर्तिनाम् तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः //
SKसहस्रबाहुचरणः सहस्रवदनेक्षणः उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः //
SKभोगस्थानं समस्तं वै तत्रस्थं वामभागतः शतयोजनविस्तीर्णे नानारत्नविभूषिते //
SKदिव्यास्तरणसंछन्ने आदित्यशतसन्निभे आसने परमे दिव्ये रत्नपद्मविचित्रिते //
SKउपविष्टो महातेजा वृषभैरष्टभिर्वृतः हेमचीनाम्बरधरो हारकेयूरभूषितः //
SKधारयन्सुप्रदीप्ते च सूर्यमण्डलसन्निभे स्फुरन्मयूखसंघाते कुण्डले रश्मिसंकुले //
SKधारयन्मकुटं मूर्ध्नि दिव्यरत्नविचित्रितम् देदीप्यमानमत्युग्रं कैलासशिखरोपमम् //
SKप्रलम्बो ऽस्य महाहारः प्रभवद्रश्मिसंकुलः गाङ्गो हिमवतः शृङ्गात् पतितो निर्झरो यथा //
SKत्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा शूलिभिर्जटिभिस्त्र्यक्षैर् दिव्याभरणभूषितैः //
SKनानारूपधरैर् रुद्रैर् वृतो भूतगणैस्तथा दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः //
SKविमानशतकोटीभिर् आवृतः सर्व एव तु मातरः सप्त रूपिण्यो नानालंकारभूषिताः //
SKपरिवार्य महात्मानं समन्तात्पर्यवस्थिताः ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता //
SKआग्नेय्यां दिशि देवेशि स्थिता वै श्रीरिवापरा शङ्खगोक्षीरसंकाशा त्व् ऐशान्यां तु वरानने //
SKमाहेश्वरी महातेजास् तिष्ठते सुरपूजिता कौमारी पद्मगर्भाभा हारकेयूरभूषिता //
SKदिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डैता //
SKदक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम् वैष्णवीति च विख्याता शिवेन परमात्मना //
SKनीलजीमूतसंकाशा सर्वाभरणभूषिता वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता //
SKशङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता ऐन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता //
SKकरालवदना दीप्ता सर्वाभरणभूषिता नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरम् //
SKन त्यजन्ति हि ता देवं सर्वभावसमन्वितम् अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः //
SKअसुराणां वधार्थाय मनुष्याणां हिताय च तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा //
SKरुरोश्चैव वधार्थाय मयापि त्ववतारिताः स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः //
SKस्वच्छन्दं पर्युपासीनाः परापरविभागतः उमैव सप्तधा भूत्वा नामरूपविपर्ययैः //
SKएवं स भगवान्देवो मातृभिः परिवारितः आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगत् //
SKअस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः शर्वो भवश्च भगवान् रुद्रः पशुपतिस्तथा //
SKईशानश्चैव भीमश्च महादेवोग्र एव च एताभिः कुरुते शर्वो मूर्तिभिः सृष्टिमुत्तमाम् //
SKभूमिरापो ऽनलो वायुर् आकाशं सूर्य एव च सोमश्च यजमानश्चेत्य् अष्टौ सृष्टिरियं स्मृता //
SKसर्वात्मना तु ते तस्मिन्न् अन्यत्रैकांशतः स्थिताः एवमस्मिन्स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा //
SKमेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा //
SKशर्वाद्याभिश्च तनुभिर् अष्टाभिर्व्याप्य तिष्ठति ये तु माहेश्वरं योगं सगुणं पर्युपासते //
SKभक्त्या च ब्रह्मचर्येण सत्येन च दमेन च दृष्ट्वा देहस्थमात्मानं ते ऽत्र यान्ति मनीषिणः //
SKदृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशम् मुक्तद्वैता यतात्मानस् तत्र यान्ति मनीषिणः //
SKतेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च //
SKविद्यानामधिपश्चैव एकवीरः प्रचण्डधृत् ईशानश्चाप्युमाभर्ता अजेशो ऽनन्त एव च //
SKतथा एकशिवश्चापि सुशिवा द्वादश स्मृताः सर्वे कुङ्कुमसंकाशाः सूर्यकोटिसमप्रभाः //
SKभुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः //
SKतत्सायुज्यमनुप्राप्य तेनैव सह मोदते अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः //
SKमहादेवो महातेजा वामदेवभवोद्भवौ एकपिङ्गेक्षणेशानौ भुवनेशपुरःसराः //
SKअङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः //
SKबुद्धितत्त्वे समासने भुवनेशा मयोदिताः अथोर्ध्वं गुणतत्त्वं तु तस्मिंश्चैव व्यवस्थितम् //
SKगुरुपङ्क्तित्रयं दिव्यं गुणैरन्तरितं स्थितम् प्रथमा तमसः पङ्क्तिर् उपरिष्टाद्व्यवस्थिता //
SKतेषां नामानि कथ्यन्ते यथावदनुपूर्वशः शिवः प्रभुर्वामदेवश् चण्डश्चैव प्रतापवान् //
SKप्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च //
SKकलेवरश्च विख्यातस् तथा चैव कटङ्कटः अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च //
SKयजुर्वेदः सामवेदस् त्व् अथर्वा सुशिवस्तथा विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा //
SKगण्डो नरो यमो माली गहनेशश्च पीडनः प्रथमा पङ्क्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता //
SKरजसश्चोपरिष्टात्तु द्वितीया पङ्क्तिरुच्यते शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च //
SKसुहोत्र एकपादश्च गृहश्चैव शिवेश्वरः गौतमश्चैव योगीशो दधिबाहुस्तथापरः //
SKऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः गुह्येशानः शिखण्डी च जटी माली तथोग्रकः //
SKभृगुः शिखि तथा शूली सुगतिश्च सुपालनः अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः //
SKभवनश्च तथा भव्यो लकुलेशस्तथैव च त्रिंशद्रुद्राः समाख्याता द्वितीया पङ्क्तिरुत्तमा //
SKसत्त्वस्य चोपरिष्टात्तु तृतीया पङ्क्तिरुच्यते देवो ऽरुणो दीर्घबाहुर् अतिभूतिश्च स्थाणुकः //
SKसद्योजातस्तथा झिण्ठि षण्मुखश्चतुराननः चक्रपाणिश्च कूर्माख्यस् त्व् अर्धनारीश्वरस्तथा //
SKकपाली भूर्भुवश्चैव वषट्कारस्तथैव च वौषट्कारस्तथा स्वाहा स्वधा च परिकीर्तितः //
SKसंवर्तकश्च भस्मेशः कामनाशन एव च एकविंशतिरुद्रास्तु पङ्क्तिरेषा तृतीयका //
SKज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः संसारपाशनिर्मुक्ताः महामोहविवर्जिताः //
SKत्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहकारकाः //
SKगजाकाराणि दिव्यानि सर्वेषां भुवनानि तु बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे //
SKशतद्वयं सप्तकं च भुवनानां वरानने अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने //
SKगुणानामुपरिष्टात्तु प्रधानं परिकीर्तितम् तत्र ये संस्थिता रुद्राः कथयामि समासतः //
SKक्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः //
SKतत्त्वे तु प्राकृते रुद्र महावीर्याः प्रकीर्तिताः गुणानां या पराकाष्ठा तत्प्रधानमिहोच्यते //
SKअतः पुरुषतत्त्वे तु भुवनानि निबोध मे अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया //
SKसुतारा च सुनेत्रा च कुमारी च ततः परम् उत्तमाम्भसिका चैव तुष्टयो नव कीर्तिताः //
SKतारा चैव सुतारा च तारयन्ती प्रमोदिका प्रमोदिता मोदमाना रम्यका च ततः परम् //
SKसदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम् अणिमा लघिमा चैव महिमा प्राप्तिरेव च //
SKप्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम् यत्रकामावसायित्वम् अणिमाद्यष्टकं स्मृतम् //
SKअथोर्ध्वं गुरुशिष्याणां पङ्क्तित्रयमतः शृणु मस्करी पूरणः कृत्स्नः कपिलः काश एवच //
SKसनत्कुमारगौतमव् असिष्ठाद्यांशकास्तथा कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा //
SKशाकल्यश्च समाख्यातो दुर्वासाः परमस् त्व् ऋषिः वाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः //
SKपिप्पलादाश्च सौमित्रिर् वायुपुत्रो भदन्तकः मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः //
SKद्वाविंशतिर्गुरुवराः प्रथमा पङ्क्तिरिष्यते जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च //
SKध्यानाश्रयो ऽथ दीर्घश्च होता जागर एव च अगस्त्यो वसुभौमश्च उपाध्यायश्च कीर्तितः //
SKशुक्रो भृग्वगिरा रामो जमदग्निसुतो ऽध्वगः स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीर्तितः //
SKवज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः जह्न्वादिचारुपर्यन्ता द्वितीया पङ्क्तिरिष्यते //
SKहरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद्वृषकः शिवः //
SKयमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः भूतेश्वरः कपालीशः शङ्करश्च तथैव च //
SKअर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः महाकालश्च संवर्तो मण्डली त्वेकवीरकः //
SKतथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः //
SKहरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः पङ्क्तित्रयं समाख्यातम् ऋषीणां गुरुशिष्ययोः //
SKनाडीविद्याष्टकं देवि कथयामि त्वतः परम् इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा //
SKमाला च मालिनी चैव स्वाहा चैव स्वधा तथा अथोपरिष्टाद्देवेशि विग्रहाष्टकमुच्यते //
SKकार्यं च करणं चैव सुखदुःखकरं तथा ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा //
SKदेहपाशानतो वक्ष्ये धर्मं च दशधोदितम् अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता //
SKअक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः //
SKविकारान्षोडशाख्यास्ये परभावेन संस्थितान् रसो गन्धश्च रूपं च स्पर्शः शब्दस्तथैवच //
SKतन्मात्रपञ्चकं ख्यातम् इन्द्रियाणि निबोध मे वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकम् //
SKश्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता बुद्धीन्द्रियाणि देवेशि मनः षोडशकं स्मृतम् //
SKदेहपाशाः समाख्याताः अतोबुद्धिगुणान्विदुः धर्मोज्ञानं च वैराग्यम् ऐश्वर्यं च ततः परम् //
SKअधर्मश्च तथाज्ञानम् अवैराग्यमनीशिता अहंकारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः //
SKवैकारिकं तैजसं च भूतादिं च यथाक्रमम् दीक्षाकाले यथा शुद्धिस् तथा चैषां निबोध मे //
SKतमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः //
SKविषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च //
SKजन्ममृत्युजराव्याधिक्षुत्तृट्तृष्णास्तथैव च विषादश्च भयं चैव मदो हर्षणमेव च //
SKरागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता //
SKआगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे देवी नन्दिमहाकालौ गणेशो वृषभस्तथा //
SKभृङ्गी चण्डीश्वरश्चैव कार्तिकेयो ऽष्टमः स्मृतः अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः //
SKशिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः विद्येश्वरात्मकान्पाशान् दीक्षाकाले विशोधयेत् //
SKउक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः //
SKअथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे वामदेवस्तथा शर्वस् तथा चैव भवोद्भवौ //
SKवज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः //
SKयत्तद्धृदि स्थितं पद्मम् आत्मा तत्र व्यवस्थितः नियतिदलमहङ्कार केसरं बुद्धिकर्णिकम् //
SKकालतत्त्वे शिवा ज्ञेया कथयामि समासतः शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः //
SKशिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराट् दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने //
SKहेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि //
SKकोटिरेका तथान्यानि सहस्राणि तु षोडश कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु //
SKअत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः //
SKमनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः रागतत्त्वे प्रवक्ष्यामि ये ऽन्ये रुद्रा व्यवस्थिताः //
SKकल्याणः पिङ्गलो बभ्रुर् वीरश्च प्रब्भवस्तथा मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः //
SKपञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु //
SKवामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा बलविकरणश्चैव बलप्रमथनस्तथा //
SKसर्वभूतदमनश्च तथा चैव मनोन्मनः कलातत्त्वे महादेवि महादेवत्रयं स्थितम् //
SKमहादेवो महातेजा महाज्योतिः प्रतापवान् कलातत्त्वं समाख्यातं समासेन वरानने //
SKएते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः //
SKशुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः //
SKछत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः उपरिष्टाद्भवेन्माया कथयामि समासतः //
SKव्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता तत्र रुद्रा महाभागा द्वादशैव महाबलाः //
SKगहनश्च असाध्यश्च तथा हरिहरः प्रभुः दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा //
SKअधःपुटे तु विज्ञेया मायातत्त्वे वरानने क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च //
SKविद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः //
SKएषां मध्ये तु भगवान् अनन्तेशो जगत्पतिः उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः //
SKसर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः //
SKअस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः तथाहं कथयिष्यामि भेदत्रयविभागशः //
SKगोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः ग्रन्थ्यूर्ध्वे संस्थितो विश्वस् त्रिकलः क्षेम एव च //
SKब्रह्मणो ऽधिपतिश्चैव शिवश्चेति स पञ्चमः अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः //
SKपूर्वं वै कथिता देवि अतो ऋषिकुलं भवेत् योनिर्वागीश्वरी चैव यस्यां जातो न जायते //
SKॐकारसाध्यधातारो दमनेशस्ततः परम् ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः //
SKपञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परम् हृदयं लक्षणं चैव व्युहमाकर्षमेव च //
SKआदर्शं च तथैवेह अष्टमं परिकीर्तितम् एते परिवृता देवि रुद्रकोटिसहस्रकैः //
SKनानावर्णविचित्राश्च नानाब्भरणभूषिताः नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया //
SKत्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः //
SKभुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः अतः परं भवेन्माया सर्वजन्तुविमोहिनी //
SKनिर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः इदं तत्त्वमिदं नेति विवदन्तीह वादिनः //
SKसत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः //
SKअसद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः भ्रमयत्येव तान्माया ह्य् अमोक्षे मोक्षलिप्सया //
SKशिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः अथोपरि महाविद्या सर्वविद्याभवोद्भवा //
SKजगतः प्रलयोत्पत्तिविभूतिनिधिरव्यया सा एव परमा देवी वागीशीति निगद्यते //
SKअष्टवर्गविभिन्ना च विद्या सा मातृकैव तु भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः //
SKवामा ज्येष्ठा तथा रौद्री काली विकरणी तथा बलविकरणी चैव बलप्रमथनी ताथा //
SKदमनी सर्वभूतानां तथा चैव मनोन्मनी तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः //
SKअमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः //
SKसर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः //
SKएकैकस्य परीवारो लक्षायुतसहस्रशः पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते //
SKत्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः //
SKविद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेत् बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु //
SKअष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः //
SKतस्यासनं तु विस्तीर्णं सहस्रदलसम्मितम् तिस्रः कोट्यो ऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः //
SKतत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः //
SKगोक्षीरधवलः सौम्यो नागयज्ञोपवीतवान् दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः //
SKसर्वलक्षणसंपूर्णः सर्वाभरणभूषितः त्रिशूलपाणीन्दुमौलिर् जटामुकुटमण्डितः //
SKप्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः वरदाभयहस्तश्च ध्येयो ऽसावीशयोगिभिः //
SKतस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना //
SKदिव्यस्रग्दाममालाभिर् मुक्ताहारैर्विभूषिता मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना //
SKआराधिता विधानेन वेदयेज्ज्ञानिनः सदा प्रहसन्तीव सा भाति महेशवदनेक्षणात् //
SKविद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमात् अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः //
SKएकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमात् //
SKअतो रूपमवस्थानं तत्र रुद्रान्निबोध मे धर्मो ज्ञानं च वैराग्यम् ऐस्वर्यं च चतुर्थकम् //
SKसूक्ष्मावरणमूर्ध्वे ऽतः तत्र शक्तित्रयं विदुः वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः //
SKपरिवारस्तु तासां वै कोट्यो ऽनेकास्तु सङ्ख्यया सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा //
SKशूद्धस्फटिकसङ्काशास् त्रिनेत्राः शूलपाणयः सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः //
SKसर्वैश्वर्यसुसम्पूर्णाश् चारुचन्द्रार्धशेखराः शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः //
SKनानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते //
SKतमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः //
SKभस्मनिष्ठा जपध्यानास् ते व्रजन्त्येश्वरं पदम् तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः //
SKअधिकारं प्रकुरुते शिवेच्छाविधिचोदितः दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमात् //
SKतालुकोर्ध्वे विजानीयाद् दीक्षाकाले वरानने शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतम् //
SKज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परम् भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते //
SKतेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम् प्रमाणावरणे चोर्ध्वे कथयामि च मानतः //
SKब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः //
SKएकाक्षः पिङ्गलो हंसः कथितं तु समासतः शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः //
SKसंस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः एकादशैव रुद्रांश्च कथयामि समासतः //
SKब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः //
SKविजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभम् //
SKईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः //
SKप्रबुद्धावरणं चोर्ध्वे कथयामि समासतः प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः //
SKविष्णुर्मदन एवाथ गहनः प्रथितस्तथा रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् //
SKसमयावरणं चोर्ध्वे कथयामि समासतः प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा //
SKततो घनः समाख्यातो निरञ्जनस्ततः परम् रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत //
SKएकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमात् रुद्रोङ्कारान्तमित्येतद् दीक्षाकाले विशोधयेत् //
SKएकैकस्य परीवारः कोट्यो ऽनेकाः सहस्रशः त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः //
SKशुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः //
SKसर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः //
SKरुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः //
SKईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात् सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः //
SKत्रिपञ्चनयनो देवश् चन्द्रार्धकृतशेखरः वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः //
SKशुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः //
SKपञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः //
SKसकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः //
SKभ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः सकलाद्यैर्वृतो देवः ॐकारेशादिभिः क्रमात् //
SKॐकारेशः शिवो दीप्तः कारणेशो दशेशकः सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः //
SKशर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु //
SKविजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराट् रौरवो मुकुटो विसरश् चन्द्रो बिम्बः प्रगीतवान् //
SKललितः सिद्धरुद्रश्च सन्तानः शर्व एव च परश्च किरणश्चैव पारमेश्वर एव च //
SKसादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः सर्वकारणमध्यक्षः सृष्टिसंहारकारकः //
SKभुक्तिमुक्तिप्रदाता च साधकानां क्रियावताम् कोटयः सप्तमन्त्राणाम् आसने तस्य संस्थिताः //
SKआसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभम् वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः //
SKताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितम् ज्ञानशक्तिः क्रियाशक्तिर् वामे दक्षिणतः स्थिते //
SKइच्छाशक्तिः परादेवि यया सर्वमधिष्ठितम् उत्पत्तिस्थितिसंहारांस् तिरोभावमनुग्रहम् //
SKयया करोति देवेशः सर्वदा सर्वमध्वनि तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी //
SKसा चेच्छा देवदेवस्य शिवस्य परमात्मनः स एवापररूपेण पञ्चमन्त्रमहातनुः //
SKइच्छारूपधरः श्रीमान् देवदेवः सदाशिवः शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः //
SKएकैकं परितो देवि पद्मैरर्बुदकोटिभिः तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः //
SKविद्यारूपैः स्वरूपाढैर् अप्रमेयगुणान्वितैः सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः //
SKहास्यलास्यविलासाढ्यैर् भ्रूक्षेपोन्मदविभ्रमैः चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतम् //
SKताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः पुरवरैः सर्वतोभद्रैश् चन्द्रकोटिसमप्रभैः //
SKमायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः //
SKअधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन //
SKसुशिवावरणं ख्यातं मन्त्रगर्भं वरानने बिन्द्वावरणमूर्ध्वे ऽतश् चन्द्रकोटिसमप्रभम् //
SKतत्र पद्मं महादीप्तं दशकोटिसमन्वितम् तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः //
SKपञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः //
SKनिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते //
SKतस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः //
SKबिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतम् अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका //
SKएते द्वे तु महास्थाने पञ्चपञ्चकलान्विते ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा //
SKअर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा //
SKअर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः तस्याप्यर्धमर्धचन्द्रस् त्व् अष्टांशश्च निरोधिका //
SKनिरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने निरोधिनीति विख्याता तां भित्त्वा तु वरानने //
SKसादाख्यपरभावेन पञ्चमन्त्रकहातनुः तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः //
SKमहद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया //
SKइन्धिका दीपिका चैव रोचिका मोचिका तथा ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी //
SKतस्मिन्पद्मं सुविस्तीर्णं ऊर्ध्वगेशः स्थितः प्रभुः चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः //
SKचन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः //
SKऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता //
SKसुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः //
SKशशाङ्कशेखरः श्रीमान् पञ्चवक्त्रो महातनुः इडा च पिङ्गला चैव वामदक्षिणतः स्थिते //
SKसुषुम्णा तु वरारोहे तुषारकणधूसरा श्वेतपद्मकरा देवी पद्ममालाविभूषिता //
SKपञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः //
SKग्रथितस्तु तया सर्वस् त्व् अध्वायमध ऊर्ध्वगः नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् //
SKअधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः नाड्या ब्रह्मबिले लीनस् त्व् अव्यक्तध्वनिरक्षरः //
SKनदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे //
SKततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितम् तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः //
SKदशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः त्रिशूलपाणिर्भगवाञ् जटामुकुटमण्डितः //
SKब्रह्माणि तु परा शक्तिर् या सा मोक्षपथे स्थिता द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता //
SKमोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये //
SKअत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते //
SKसूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमात् //
SKपञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये //
SKपुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितम् हेमप्राकाररचितं रत्नमाणिक्यमण्डितम् //
SKअशेषभोगसम्पन्नं सर्वकामगुणोदयम् भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु //
SKव्यापकं व्योमरूपं च अनन्तानाथनाश्रितम् कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितम् //
SKतत्र पद्मं सुविस्थीर्णम् अनन्तानन्तसम्भवम् तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः //
SKपञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः दशबाहुर्महादीप्तः सृष्टिसंहारकारकः //
SKसर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः //
SKस्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः //
SKपद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः आबद्धमणिपर्यङ्कश् चामरोत्क्षेपवीजितः //
SKरुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः व्यापिनी व्योमरूपा चानन्तानाथात्वनाश्रिता //
SKपञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः //
SKपूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः //
SKअनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि //
SKशोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते //
SKपरिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता //
SKबिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता तत्रारुढस्तु कुरुते शिवः परमकारणम् //
SKसृष्टिस्थितिसमाहारं तिरोभावमनुग्रहम् हेतुकर्ता महेशानः सर्वकारणकारणम् //
SKसमना नाम या शक्तिः सा तस्य करणं स्मृतम् तयाधितिष्ठेद्देवेशो ह्य् अधःकारणपञ्चकम् //
SKअनाश्रितस्य देवस्य कारणं सेयमाश्रिता स वै प्रेरयते भूयस् त्व् अनाथं तु जगत्पतिम् //
SKअनाथश्चाप्यनन्तेशम् अनन्तो व्योमरूपिणम् व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुम् //
SKव्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली //
SKनादबिन्द्वात्मकं कार्यम् इत्यादिजगदुद्भवः यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते //
SKतत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि //
SKस्फुरत्सूर्यसहस्राभकिरणानन्तभास्वरा ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानवित् //
SKउपचारं ततः कृत्वा वागीश्यावाहनं तथा स्थापनं पूजनं चैव पशोर्यागं तथैव च //
SKगर्भधारित्वजनने अधिकारं तथैव च योगं भोगं लयं चैव निष्कृतिं तदनन्तरम् //
SKभुवनाधिपहोमं च भुवनाधिपवासिनाम् भुवनानां यथायोगं होमं कृत्वा वरानने //
SKत्रितत्त्वं शधयेच्चातो ऽवयवांश्च यथाक्रमम् विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेत् //
SKप्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेत् शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः //
SKआचार्यः प्रयतो भूत्वा सकलीकरणादिकम् स्रुचो ऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरम् //
SKसकलीकरणं कृत्वा आचार्यस्तु वरानने शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेत् //
SKभैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेत् पूर्णां सम्पूर्य विधिवद् वाममन्त्रमनुस्मरन् //
SKपूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः हेयाध्वानमधः कुर्वन् नेचयेत्तं वरानने //
SKयावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता नात्र कालः कलाश्चारो न तत्त्वं न च देवताः //
SKसुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते तदतीतं वरारोहे परं तत्त्वमनामयम् //
SKगुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते निष्कम्पे कारणातीते विरजे निर्मले शुभे //
SKसर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे //
SKज्ञात्वा चैवं महादेवि प्रयाति परमं पदम् देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि //
SKइति स्वच्छन्दतन्त्रे दशमः पटलः समाप्तः
SKअध्वायं तु मया ज्ञातस् त्वत्प्रसादात् सुराधिप जगत्सृष्टिस्त्वया देव सूचिता न तु वर्णिता //
SKअध्वसृष्टिं महादेव कथयस्व प्रसादतः श्रीभैरव उवाच यो ऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः //
SKनिमित्तकारणं सो ऽत्र कथितस्तव सुव्रते अकामात्संसृजेत्सर्वं जगत् स्थावरजङ्गमम् //
SKस्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः //
SKतस्माच्छून्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव //
SKअष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च //
SKझाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः //
SKनदत्यसौ सदा यस्मात् सर्वभूतेष्ववस्थितः तस्मात् सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः //
SKनादाद्बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः //
SKदशधा वर्णरूपेण दशदैवतसंयुतः बिन्दोः सदाशिवो ज्ञेयः सो ऽष्टभेदाङ्गसंयुतः //
SKपञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः पञ्चभिश्च महाज्ञानैर् मूर्तिभिश्च समन्वितः //
SKस एवापररूपेण परमात्मा शिवो ऽव्ययः द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवर्जितः //
SKमुद्रामन्त्रस्वरूपेण स एव च पुनर्द्विधा क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः //
SKशब्दावबोधरूपेण वस्तुरूपस्वरूपतः स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः //
SKव्योमरूपस्वरूपेण समनोन्मन एव च उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे //
SKउन्मनासमनास्थानं शिवेन समधिष्ठितम् पञ्चकारणरूपेण तदधः पुनरेव सः //
SKकारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः //
SKअनन्तश्च सुषुम्नेशस् त्व् अनाथश्चोर्ध्वगस्तथा व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः //
SKअनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः अनाथो विष्णुरित्युक्तस् त्व् अनन्तो रुद्र एव च //
SKव्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः व्यापकश्च पुनर्देवि हाटकः परमेश्वरः //
SKविद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः //
SKअनाथो ऽनन्तरूपेण स्थितश्चाध्वनि धारकः अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः //
SKस्वशक्त्याश्रितः स भवांस् तेन गीतस्त्वनाश्रितः तस्याश्रितं जगत्सर्वम् उन्मन्यन्तं वरानने //
SKसंस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हूहुकः अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरम् //
SKवायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च विषयाश्च मनश्चैव अहंकारस्त्वनुक्रमात् //
SKबौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा नियतिः कालरागौ च विद्या चैव कला तथा //
SKमायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परम् //
SKअधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् //
SKसमना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितम् //
SKएवंविधान्यधो ऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः यथा आत्माणवो देवि असंख्याता व्यवस्थिताः //
SKएवं वै प्रक्रियाण्डानि त्व् असंख्येयान्यनेकशः एकेन वर्णितेनेह सर्वो ऽध्वा वर्णितः प्रिये //
SKयथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते //
SKव्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः //
SKसृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः निर्मलो विमलः शान्तस् त्व् अध ऊर्ध्वं व्यवस्थितः //
SKआकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित् एवं सर्वगतो देवः शिवः परमकारणम् //
SKव्याप्य देवि जगत्सर्वं व्योमसु व्योमवत्स्थितः एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग् भवेत् //
SKकारणानां पुनर्व्याप्तिं कथयामि समासतः तत्त्वे तु पार्थिवे ब्रह्मा अधिष्ठाता व्यवस्थितः //
SKअप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः //
SKआदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः //
SKयजमानस्तु देवेशि स्वयं देवः सदाशिवः सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः //
SKअघोरो रुद्र इत्युक्तस् तथा पुरुष ईश्वरः ईशानस्तु वरारोहे स्वयं देवः सदाशिवः //
SKसद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः अघोरः सामवेदस्तु पुरुषो ऽथर्व उच्यते //
SKईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् //
SKवैदिकं वामदेवात्तु आध्यात्मिकमघोरतः पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने //
SKमन्त्राख्यं तु महाज्ञानम् ईशानात्तु विनिर्गतम् तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते //
SKचतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः //
SKनियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु //
SKऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते //
SKआत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः विद्यातत्त्वे तथा विष्णुर् यावत् सादाख्यगोचरम् //
SKशिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः //
SKरौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः व्याप्तश्च वामया विष्णुर् ज्येष्ठया च पितामहः //
SKज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः इच्छाशक्तिः परो रुद्रः स शिवः परिगीयते //
SKविष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा सदाशिवः शिवाद्देवि उत्पन्नः प्रभुरीश्वरः //
SKतस्माद्विद्या ततो माया विद्यायाः पुनरीश्वरः ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः //
SKसप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः ते च सादाख्यपर्यन्ते पार्थिवाद्ये तु सुव्रते //
SKअनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः शिवशक्तिसमाविष्टास् त्रिनेत्राश्चन्द्रमौलयः //
SKरुद्रमूर्तिभिरेको ऽसौ शिवः परमकारणम् जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा //
SKज्ञानशक्त्या पुनश्चैव समालोक्य वरानने इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते //
SKमायातत्त्वं जगद्बीजं नित्यं विभुतयाव्ययम् तत्स्थं कृत्वात्मवर्गं तु युगपत् क्षोभयेत्प्रभुः //
SKहेलादण्डाहतायाश्च बदर्या वा फलानि तु तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः //
SKमुक्तेस्तु भाजनं ये ऽत्र अनुध्याताः शिवेन तु ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलम् //
SKविद्याया भाजनं तिर्यङ्मन्त्ररूपा भवन्ति वै संसारभाजनं ये तु मलकर्मकलान्विताः //
SKअधस्तात्ते व्रजन्त्यत्र घोरे ऽध्वन्यतिदारुणे तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च //
SKकालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः //
SKसत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः तमो ऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् //
SKसत्त्वं ब्रह्मा रजो विष्णुस् तमो रुद्रः प्रकीर्तितः ब्रह्मत्वे सृजते लोकान् विष्णुत्वे स्थितिकारकः //
SKरुद्रत्वे संहरेत् सर्वं जगदेतच्चराचरम् जाग्रत्स्वप्नसुषुप्तं च तिस्रो ऽवस्थाश्च तद्गताः //
SKगुणेभ्यो धिषणा जाता भावभेदैः समन्विता ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः //
SKसर्वज्ञं च तमेवाहुर् बौद्धानां परमं पदम् गुणेष्वारहतानां च प्रधानं वेदवादिनाम् //
SKपौरुषं चैव सांख्यानां सुखदुःखादिवर्जितम् षड्विंशकं च देवेशि योगशास्त्रे परं पदम् //
SKव्रते पाशुपते प्रोक्तम् ऐश्वरं परमं पदम् मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितम् //
SKक्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम् तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् //
SKदीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् //
SKजपभस्मक्रियानिष्ठास् ते व्रजन्त्यैश्वरं पदम् सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदम् //
SKबुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः //
SKभूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः तन्मात्राण्यथ भूतादेस् तेभ्यो भूतान्यजीजनत् //
SKशब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः एतानि पञ्च ख्यातानि तन्मात्राणि क्रमेण तु //
SKशब्दाद्व्योम समुत्पन्नं स्पर्शद्वायुस्तथा पुनः रूपात्तेजः समुत्पन्नम् आपो जाता रसात् पुनः //
SKगन्धात्तु पृथिवी जाता समासात् कथितं तव कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ //
SKवाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम् बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ //
SKश्रोत्रं त्वक्चक्षुषौ जिह्वा नासिका चैव पञ्चमी उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु //
SKआत्मोपकारकाण्येव कथितानि यथार्थतः आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि //
SKनिरात्मा परात्मात्मैतान् कथयामि समासतः अबुधश्च बुधश्चैव बुध्यमानस्तथैव च //
SKप्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः //
SKयदा तस्मिन् स्थित्वा देवि तदात्मा तु स उच्यते पुर्यष्टकसमायोगात् पर्यटेत् सर्वयोनिषु //
SKअन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतैः //
SKबाह्यात्मा तु तदा देवि भुङ्क्ते ऽसौ विषयान् सदा भूतभावविनिर्मुक्तस् तत्त्वधर्मकलोज्झितः //
SKमलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः निरात्मा तु तदा ज्ञेयः परमात्माथ कथ्यते //
SKमलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः //
SKनिर्मलत्वं यदा याति पदं परममव्ययम् परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः //
SKअबुधं च पुनर्देवि कथयामि समासतः तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे //
SKमायासाम्यनिशायां वै संहृत्य परमेश्वरः निर्व्यापारो भवेत्तावद् यावद्वै नोदय पुनः //
SKसुखदुःखाद्यभावश्च ह्य् आत्मवर्गस्य कर्मणः मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः //
SKन विजानाति शब्दादीन् आत्मानं च वरानने कारणं न विजानाति न च स्थानं स्वकं प्रिये //
SKसर्वमेतन्न जानति यतो लुप्ताक्षदृक्क्रियः अबुधस्तिष्ठते तत्र यावन्माया अहर्मुखम् //
SKअबुधस्तु समाख्यातः बुधं चैव निबोध मे परिपाकगते कर्मणीश्वरेच्छाकरोद्धृते //
SKप्रकाशं नायनं यद्वद् अनुगृह्णाति भास्करः करणान्यनुगृह्णाति तद्वदीश्वर आत्मनाम् //
SKकलोन्मीलितचैतन्यो विद्यादर्शितगोचरः रागो ऽस्य रञ्जकत्वेन विषयानन्दलक्षणः //
SKकालो वै कलयत्येनं तुट्यादिप्रलयावधिः नियतिर्निश्चितं नित्यं योजयेच्च शुभाशुभे //
SKपरमाणुसहस्रांशान् न च न्यूनं न चाधिकम् पुम्भावं तमनुप्राप्य तत्त्वे च पुरुषाह्वये //
SKपुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम् तत्पुरं पोषयेद्यस्मात् तस्माद्वै पुरुषः स्मृतः //
SKयतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम् प्रधानपाशजालेव वेष्टयेदसमञ्जसम् //
SKबुद्धिस्त्रिगुणबन्धेन बुद्ध्वा वैकारिकेण तु तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः //
SKबद्धः संचरति ह्येवं मायाद्यवनिगोचरे संसारी प्रोच्यते तस्मात् संसरेद्यत् पुनः पुनः //
SKशद्बादिविषया यस्माद् विद्यन्ते विषयी ततः विषयाः परमित्याह नानाभेदैर्विसर्पिताः //
SKनानाकर्मविपाकैश्च भुङ्क्ते तद्भावभावितः एवं भुङ्क्ते तु वै यस्मात् तस्माद्भोक्ता स उच्यते //
SKतस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा महाबिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः //
SKवपेच्च मोहभावेन मनोवाक्कायिकं सदा धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः //
SKतस्माद्वै अङ्कुरोत्पत्तिः सुखदुःखफलोदया वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् //
SKयस्मिन् देशे च काले च वयसा यादृशेन च उप्तं शुभाशुभं कर्म तत्काले लभते फलम् //
SKभुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद्बुधः यस्मादेवं विजानाति तस्मात् क्षेत्रज्ञ उच्यते //
SKविषयान्बुध्यते यस्माद् बुधस्तस्मात् प्रकीर्तितः तदेवानिष्टरूपेण यदा भावयते पुमान् //
SKबुध्यमानस्तु स तदा अधुना कथयामि ते यदा जुगुप्सते भोगान् शुभांश्चैवाशुभांस्तथा //
SKकृत्रिमानेव मन्येत परं वैराग्यमाश्रितः मायाद्यवनिपर्यन्तम् इन्द्रजालं तु बुध्यते //
SKपुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा //
SKतद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः एकाकी चाहमेवैष यास्यामि यमसादनम् //
SKतस्माच्च न शुभा ह्येते वैरिणो ऽनर्थकारिणः स्वामीयमप्ययं देहं नित्यमेव जुगुप्सते //
SKशुक्रशोणितसम्भूतं विषयोरगदूषितम् नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलम् //
SKसो ऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम् नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः //
SKकथं मुक्तिर्भवेदस्मात् संसाराद्दुरतिक्रमात् एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः //
SKसर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु //
SKदीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते यदा प्राप्तः परं स्थानम् अध्वातीतं निरामयम् //
SKविरजो विमलं शान्तं प्रपञ्चातीतगोचरम् निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखम् //
SKसुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनम् //
SKतस्मिन् युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा //
SKन चाधिकारिता दीक्षां विना योगो ऽस्ति शाङ्करे अधुना कथयिष्यामि भावभेदान् वरानने //
SKकरणानि दश त्रीणि कार्यं च दशधा प्रिये एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा //
SKबुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः नामान्येषां विभागेन कथयामि यथाक्रमम् //
SKपृथिव्यापस्तथा तेजो वायुराकाशमेव च //
SKगन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु //
SKएतत्ते दशधा कार्यं कीर्तितं नामसंख्यया वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः //
SKश्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितम् बहिष्करणकं देवि दशधा संव्यवस्थितम् //
SKमनोहंकारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम् मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च //
SKनिरानन्दश्च विज्ञेयो बधिरत्वं तथैव च शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च //
SKअनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् //
SKतैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः अहङ्कारस्त्रिधा प्रोक्तो मया त वरवर्णिनि //
SKधर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुर्थकम् अधर्मं च तथाज्ञानम् अवैराग्यमनैश्वरम् //
SKअष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः तमो मोहो महामोहस् तामिस्रो ऽन्यो विपर्ययः //
SKअन्धतामिस्रमित्याहुर् एवं पञ्च विपर्ययाः भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् //
SKपुनश्चाष्टौ तु ये बुद्धेर् भेदा धर्मादयः स्थिताः तेषां भेदा यथा भिन्नास् तथाहं कथयामि ते //
SKबध्नाति सप्तधा सा तु पुंसः संसारवर्त्मनि मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् //
SKज्ञानं च सात्त्विकं प्रोक्तं त्रयो ऽन्ये राजसाः स्मृताः तामसाश्चाप्यधर्माद्याश् चत्वारो वै वरानने //
SKधर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतम् वैराग्यं नवधा चैवम् ऐश्वर्यं चाष्टधा विदुः //
SKएत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् //
SKअहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता एवं दशविधो धर्मः कथितस्तु वरानने //
SKतारं सुतारं तरणं तारकं च प्रमोदकम् प्रमुदितं रम्यकं च सदाप्रमुदितं तथा //
SKएतज् ज्ञानं समाख्यातं समासात् परमेश्वरि अम्भा च सलिला ओधा वृष्टिसंज्ञा तथापरा //
SKसुतारा च सुपारा च सुनेत्रा च परा स्मृता अष्टमी च कुमारी स्याद् उत्तमाम्भसिका तथा //
SKवैराग्यं नवधा चैव कथितं तु मया तव अणिमा लघिमा चैव महिमा प्राप्तिरेव च //
SKप्राकाम्यं च तथेशित्वं वशित्वं च तथा परम् यत्रकामावसायित्वम् अष्टमं परिकीर्तितम् //
SKऐश्वर्यमष्टधा चैव कथितं तु वरानने क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् //
SKअसन्तोषो ऽनार्जवं च हिंसा चासत्यमेव च स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता //
SKएवमेष समाख्यातो दशधाधर्मसंग्रहः अतारमसुतारं च अतारणमथापि च //
SKअतारकं च देवेशि चतुर्थं परिकीर्तितम् अप्रमोदो ऽप्रमुदितम् अरम्यकमथापि च //
SKअसदाप्रमुदितं तद् अज्ञानं चैवमष्टधा अनम्भा असलिला च अनोघावृष्टिरेव च //
SKअसुतारमसुपारम् असुनेत्रमतः परम् अकुमारी च विज्ञेयान् उत्तमाम्भसिका तथा //
SKअनणिमालघिमा चैवामहिमा महेश्वरि अप्राप्तिरप्राकाम्यं चानीशित्वं च तथैव च //
SKअवशित्वं तथा चैवायत्रकामावसायिता अनैश्वर्यं च देवेशि अष्टधा परिकीर्तितम् अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः //
SKयथा क्रमेण तेष्वष्टौ संस्थितान् कथयामि ते अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे //
SKयाक्षे चैव तदज्ञानं गान्धर्वे ऽधर्म एव च धर्मं चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम् //
SKप्राजापत्ये तु वैराग्यम् ऐश्वर्यं ब्रह्मणि स्थितम् चतुष्षष्टिगुणं चैतत् पदे ब्राह्मे व्यवस्थितम् //
SKषट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितम् अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीर्तितम् //
SKचत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते //
SKचतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतम् ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितम् //
SKएवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु //
SKएत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः //
SKगुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम् सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः //
SKगन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः //
SKरजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः //
SKअत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः पादपादविहीनाश्च तामसाः परिकीर्तिताः //
SKसरीसृपाद्या विज्ञेयाः स्थावरान्तास्तु सुव्रते एषामन्तर्गताश्चान्या अनन्ता एव योनयः //
SKमानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः //
SKगुणास्तु मानुषे लोके धर्माद्या एव संस्थिताः धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते //
SKअधर्माद्येषु यानि स्युस् तानि ते कथयाम्यहम् हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् //
SKवादजल्पवितण्डाभिः विवदन्ते ह्यनिश्चिताः हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते //
SKज्ञानयोगविहीनानि देवतारहितानि तु धर्मार्थकाममोक्षेषु निश्चयो नैव जायते //
SKअज्ञानेन निबद्धानि त्व् अधर्मेण निमित्ततः निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः //
SKअवैराग्यादनैश्वर्यं भुञ्जते निरये सदा चत्वारस्ते वरारोहे दुःखदा नरके सदा //
SKमोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् //
SKधर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम् बौद्धमारहतं चैव वैराग्येणैव सुव्रते //
SKज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितम् //
SKअतीतं बुद्धिभावानाम् अतिमार्गं प्रकीर्तितम् लोकातीतं तु तज्ज्ञानम् अतिमार्गमिति स्मृतम् //
SKलोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि तेषामतीतास्ते ज्ञेया ये ऽतिमार्गे व्यवस्थिताः //
SKकपालव्रतिनो ये च तथा पाशुपताश्च ये सृष्टिर्न विद्यते तेषां ईश्वरे च ध्रुवे स्थिताः //
SKयस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणम् लौकिकानां पुनः सृष्टिः पुनः संहार एव च //
SKसंसारचक्रमारूढा भ्रमन्ति घटयन्त्रवत् धर्माद्यरकसंयुक्तम् अष्टारं चक्रकं प्रिये //
SKईश्वराधिष्ठितं देवि नित्यत्यादण्डकाहतम् मलकर्मकलाविद्धं भ्रमते कालवेगतः //
SKलौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः //
SKते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे //
SKलीलया साधयेत् सर्वान् शिवज्ञाने महोदये न सर्वैः साध्यते तद्वै यतो ऽतीव सुनिर्मलम् //
SKयतो योजयते देवि अभावे परमे पदे अभावं भावनातीतं प्रपञ्चातीतगोचरम् //
SKमनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितम् प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम् //
SKसर्वतर्कागमातीतं पाशमन्त्रविवर्जितम् सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् //
SKसर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमत् सर्वातिशयनिर्मुक्तम् अनादिभववर्जितम् //
SKसर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम् एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने //
SKतत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम् भुवनानि विचित्राणि शतशो ऽथ सहस्रशः //
SKतत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् //
SKसर्वं तत्त्वेषु बोद्धव्यं सर्वतत्त्वेषु दृश्यते प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते //
SKनास्ति दीक्षासमो मोक्षो न विद्या मातृका परा न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः //
SKतत्सर्वं कथितं देवि शिवज्ञानमहोदधौ एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते //
SKमानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः //
SKलवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता //
SKत्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तस्त्रिंशदेव ताः मुहूर्तस्तु पुनस्त्रिंशद् अहोरात्रस्तु मानुषः //
SKअहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे //
SKसंवत्सरशतं पूर्णम् आयुर्ज्ञेयं तु मानुषम् दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः //
SKपक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः ऋतुद्वयेन कालः स्याद् अयनं च त्रिभिस्त्रिभिः //
SKताभ्यां द्व्याभ्यां वरारोहे वर्षं तु परिगीयते दक्षिणं चायनं रात्रिर् उत्तरं चायनं दिनम् //
SKपितॄणां तदहोरात्रम् अनेनाब्दस्तु पूर्ववत् एवं दैवस्त्वहोरात्रस् तत्राप्यब्दादि पूर्ववत् //
SKद्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् //
SKत्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये //
SKसन्ध्याद्वयस्य मानं तु कथयामि युगे युगे शतानि चत्वारि कृते त्व् आदिरन्तश्च कीर्त्यते //
SKत्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् //
SKलौकिकेन तु मानेन पुनश्च कथयामि ते त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः //
SKलौकिकेन तु मानेन त्व् इयं संख्या चतुर्युगे एकैकस्य पुनर्देवि युगस्य कथयामि ते //
SKदश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः कृतस्यैतद्भवेन्मानं त्रेतायां कथयामि ते //
SKषण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे //
SKचतुष्षष्टिः सहस्राणि ह्य् अष्टौ लक्षाणि सुव्रते द्वापरस्य तु मानं च कलेस्तु कथयामि ते //
SKद्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम् एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते //
SKवर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः //
SKसन्ध्यामानविहीनं तु युगैर्मानं प्रकीर्तितम् एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतम् //
SKवर्षमानैः पुनश्चैव लौकिकैः कथयामि ते सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने //
SKसहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् //
SKमन्वन्तरे व्यतिक्रान्ते चान्यस्मिन् पुनरागते पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत् सदा //
SKआदौ सहस्रं सर्वेषाम् अन्ते चापि पुनस्तथा कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् //
SKवर्षमानेन दिव्येन पुनश्च कथयामि ते कोटिरेका तु वर्षाणां लक्षाणां चैव विंशतिः //
SKदिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेत् षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीर्तितः //
SKलौकिकेन तु मानेन अधुना कथयामि ते वर्षवृन्दानि चत्वारि त्व् अर्बुदत्रयमेव च //
SKकोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम् सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता //
SKचत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च पश्चिमः सन्धिरेवं हि पूर्वसन्ध्यापि तत्समा //
SKनरकैः सह सप्तानां पातालानां तथा प्रिये लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता //
SKसंहारं च पुनर्देवि शृणुष्व कथयामि ते ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते //
SKदिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया //
SKततः संहरते विश्वं सप्तलोकान्तगोचरम् सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते //
SKतस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेत् तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता //
SKऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा लोकेषु ये स्थिता लोका ये च पातालवासिनः //
SKसुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे //
SKयावन्नोदयनं भूयः सुखदुःखादिकर्मणाम् तावत्तिष्ठन्ति ते मूढा यावद्ब्रह्मा न बुध्यते //
SKरुद्रलोकाधिपतयः पातालपतयश्च ये कूष्माण्डहाटकाद्यास्तु ते तिस्ठन्त्यतिनिर्मलाः //
SKनिर्व्यापारास्तु ते तावद् यावत् सृष्टिः पुनर्भवेत् शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा //
SKसा दहेन्नरकान् देवि पातालानि समन्ततः त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् //
SKधूमेन च त्रयो लोका विनश्यन्ति वरानने महोजनस्तपःसंज्ञाः सत्यलोको ऽपि सुव्रते //
SKतिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः एवं दग्द्घा जगत्सर्वं ज्वाला वक्त्रं विशेत् पुनः //
SKततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये //
SKब्रह्मप्रस्वेदजं वारि तज्जगत् प्लावयेत् पुनः तेनैव वारिणा देवि जगदेकार्णवं भवेत् //
SKनिशाक्षये पुनः स्थित्वा सुखदुःखफलोदये कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः //
SKशून्यभूतां समालोक्य भगवान् प्रभुरिच्छया षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया //
SKप्रथमां तामसीं सृष्टिं करोति तमसोत्कटान् नरकान् विविधाकारान् पशून् वै स्थावरान्तगान् //
SKतमोरजःसमावेशान् मानवान् संसृजेत् पुनः रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरम् //
SKगतनिद्रः प्रबुद्धश्च सत्त्वनिष्ठो जगत्पतिः सृजेद्देवान् सलोकांश्च पूर्वयैव व्यवस्थया //
SKततो रुद्रेन्द्रसूर्येन्दुनक्षत्राणि ग्रहेश्वराः अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे //
SKदिने दिने सृजत्येवं संहरेच्च दिनक्षये दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती //
SKअहोरात्रेण चानेन अब्दं वै पूर्ववत् स्मृतम् अब्दानां तु शते पूर्णे महाकल्पः स उच्यते //
SKब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः //
SKतथा सप्तैव खर्वाणि निखर्वाष्टकमेव च ब्राह्मं वर्षशतं चैतज् ज्ञातव्यं कालवेदिना //
SKदैविकेन तु मानेन मानमित्थं प्रकीर्तितम् लौकिकेन तु मानेन पुनश्चैव निबोध मे //
SKद्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु //
SKशङ्कुत्रयं पद्ममेकं सागरत्रयमेव च एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः //
SKएतल्लौकिकमानेन ब्राह्ममब्दशतं स्मृतम् एकं दशगुणं पूर्वं शतं दशगुणं तु तत् //
SKशतं दशगुणं कृत्वा सहस्रं परिकीर्तितम् सहस्रं दशगुणितम् अयुतं तद्धि कीर्तितम् //
SKदशायुतानि लक्षं तु नियुतं दशतानि च दश तानि च कोटिः स्याद् दश कोटिस्तथार्बुदम् //
SKअर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः दशभिस्तैर्निखर्वं तु शङ्कुः स्याद्दश तानि तु //
SKशङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः सागरैर्दशभिर्मध्यम् अन्त्यं तैर्दशभिः स्मृतम् //
SKअन्त्यं दशाहतं कृत्वा परार्धं परिकीर्तितम् एवमष्टादशैतानि स्थानानि गणितस्य तु //
SKमहाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् //
SKअनेन परिमाणेन तस्याब्दं तु विधीयते वर्षाणां च शते पूर्णे सो ऽपि याति परे लयम् //
SKविष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेत् दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती //
SKब्राह्मी च वैष्णवी शक्तिर् अधिकारपदं गता यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते //
SKतदाधिकारं कुरुते इच्छया परमात्मनः ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा //
SKलोकाधिपाश्च देवेशि तथा च भुवनाधिपाः ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः //
SKशक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः //
SKशिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः //
SKएवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने संहारं च दिनान्ते वै रात्रिर्वै तत्समा भवेत् //
SKदिनरात्रिप्रमाणेना-नेन स्याद्वत्सरो ऽस्य च वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् //
SKसो ऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत् तस्मिन् स्थाने पुनश्चान्यस् तत्समश्च प्रभुर्भवेत् //
SKरौद्रशक्तिसमायोगाद् ब्रह्मविष्ण्विन्द्रनायकः शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये //
SKते प्रयान्ति परं तत्त्वं ततो ऽण्डं तु विनश्यति सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् //
SKसपर्वतवनोद्यानद्वीपसागरमण्डितम् विमानमालाकुलितं ग्रहनक्षत्रमण्डितम् //
SKदेवदानवगन्धर्वसिद्धविद्याधरोरगैः ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः //
SKनरकैश्चैव पातालैर् युक्तं भुवनमण्डितम् अशेषभुवनाधारमण्डमप्सु प्रलीयते //
SKततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् //
SKतत्सर्वं संहरेत् कालः स्वयमेव चराचरम् तदूर्ध्वं शुद्धमध्वानं यावच्छक्त्यन्तगोचरम् //
SKतत्सर्वं संहरेद्घोरम् अघोरो घोरनाशनः त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः //
SKततः संहरते तोयम् अमरेशशतात्यये एवं भूताद्यावरणपतयश्च शतात्यये //
SKसंहरन्ति च देवेशि सृजन्ति च परस्परम् आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः //
SKतथानिलो ऽम्बरं प्राप्य सह तेनैव लीयते तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात् //
SKतन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम् स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते //
SKगुणसाम्यमनिर्देश्यम् अप्रतर्क्यमनौपमम् तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति //
SKपरमाणुप्रमाणेन लीनं संतिष्ठते जगत् षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतम् //
SKप्रजाः प्रजानां पतयः पितरो मानवैः सह साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः //
SKछन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः //
SKदिनान्ते तु प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः //
SKअव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् तस्मिन् संहरते सर्वं प्रधानस्य दिनक्षये //
SKरात्र्यन्ते च सृजेद्भूयः श्रीकण्ठो विश्वनायकः तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवे //
SKयस्मात् प्रलयकोट्यश्च व्यतीताश्च सहस्रशः ततो नियतिकालौ च रागो विद्या कला तथा //
SKपरस्परं लयं यान्ति क्रमात् सर्वे स्वमानतः कलाद्यवनिपर्यन्तं गहनेशदिनक्षये //
SKनानाभुवनविन्यासरचनादिविभूषितम् सगुणाधारपर्यन्तरुद्रक्षेत्रज्ञसङ्कुलम् //
SKगहनेशे लयं याति मूलप्रकृतिकारणे रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् //
SKअहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि प्रलयश्च स एवोक्तो भूतानां परमेश्वरि //
SKप्राधानिकपरार्धेन दशधागुणितेन तु माया संहरते सर्वं पुनश्चैव सृजेज्जगत् //
SKमायाकालपरार्धस्य शतधागुणितस्य च ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगत् //
SKततः सदाशिवो देवः स्वमानेन च संहरेत् सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे //
SKमहाप्रलय एवोक्तः सादाख्ये तु दिनद्वये बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः //
SKबिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकाम् नादतत्त्वे लयं याति गृहीत्वा सचराचरम् //
SKनादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये //
SKपरार्धः स तु विज्ञेयः कालस्तु वरवर्णिनि तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखम् //
SKततश्च संसृजेद्भूयो व्यापी व्योमस्वरूपिणि लीयते सो ऽप्यनन्तेशे सो ऽनाथे सो ऽप्यनाश्रिते //
SKशक्तिकालपरार्धस्य कोटिधागुणितस्य च अनाश्रितस्य देवस्य दिनमेतत् प्रकीर्तितम् //
SKअनेन परिमाणेन परार्धगुणितेन तु सो ऽपि याति परं स्थानं कारणं स्वमनाश्रयम् //
SKस कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः ततो ऽप्यूर्ध्वममेयस्तु कालः स्यात् परमावधिः //
SKनित्यो नित्योदितो देवि अकल्यश्च न कल्यते स चाधः कलयेत् सर्वं व्यापिन्यादिं धरावधिम् //
SKतुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते //
SKन कल्यः कल्यते कश्चिन् निष्कलः कालवर्जितः यः शाङ्कर्युन्मनातीतः स नित्यो व्यापको ऽव्ययः //
SKतस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम् अरूपा रूपनिर्मुक्तः सो ऽनादिर्भववर्जितः //
SKसर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः स एवापररूपेण उन्मन्या मूर्ध्नि संस्थितः //
SKदेवदेवो जगन्नाथः परमात्मा शिवो ऽव्ययः पर्यानुक्रमयोगेन सो ऽकामात् सृजते जगत् //
SKअकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत् कथम् एवं प्रश्नवरं गुह्यं कथयस्व प्रसादतः //
SKआदित्यस्य मणेर्यद्वत् तापिताद्रविरश्मिभिः वह्निः संजायते तस्माद् रवेस्तत्र न कामिता //
SKमणेरपि न कामित्वं तद्वद्देवस्य चेष्टितम् आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता //
SKऋतुकालमिताद्वृक्षात् कालो ऽङ्कुरनियोजकः यद्वच्छिवसमायोगात् तद्वच्छक्तेर्जगत्स्थितिः //
SKइति स्वच्छन्दतन्त्रे एकादशः पटलः समाप्तः
SKसृष्टिः स्थितिश्च संहारस् तत्त्वानां कथितस्त्वया जगत्संभवहेतुश्च त्वत्प्रसादाच्छ्रुतं मया //
SKतत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत् पृथिव्यादि शिवान्तं च कथयामि समासतः //
SKपृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता मांसे ऽस्थिषु तथा चैव स्नायुलोमनखेषु च //
SKमज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा कफासृगाममूत्रेषु रसस्वेदवसासु च //
SKशुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः पचने दहने चैव तेजस्यूष्मणि संस्थितम् //
SKतेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम् वायुरुच्छ्वासनिःश्वासस्पर्शनव्यूहलक्षणः //
SKमूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः //
SKएकलक्षणमाकाशं कथयामि यथा स्थितम् सुषिरात्मकं तु विज्ञेयं नवधा च्छिद्रलक्षणम् //
SKशब्दात्मकं गुणं ह् येतत् कथितं तव सुव्रते वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुर्विधा //
SKसंस्कृता प्राकृती चैव अपभ्रष्टानुनासिका छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् //
SKग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितम् समनिम्नोन्नताश्चैव लोष्टकण्टकवालुकाः //
SKकर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे //
SKउत्सर्गे पर्दिते चैव पायुर्वै चेष्टते सदा आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः //
SKकर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः //
SKषड्जाख्यर्षभगान्धारमध्यमाः पञ्चमः प्रिये धैवतो निषधश्चैव स्वराः सप्त प्रकीर्तिताः //
SKगान्धारो मध्यमः षड्जस् त्रयो ग्रामाश्च पार्वति सप्तस्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः //
SKतान एकोनपञ्चाशद् इत्येतत्सुरमण्डलम् सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः //
SKस्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः //
SKवेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च //
SKसंयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः अपभ्रंशो ऽनुनासिक्यः संस्कृतः प्राकृतो रवः //
SKसप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः //
SKशब्दो ऽस्य विषयो ह्येष येन बुध्येत पुद्गलः मृदुं च कठिनं चैव कर्कशं शीतलं तथा //
SKउष्णं च पिच्छिलं लोष्टं कर्दमं वालुकास्तथा शरकुन्तासिघातादि ताडनं छेदनं तथा //
SKएतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम् स्पर्शो ऽस्य विषयो ह्येष येन बुध्येत पुद्गलः //
SKचक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु सितं रक्तं च पीतं च कृष्णं हरितधूम्रकम् //
SKकपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः नरनारीपशुमृगाञ् ज्योतिः स्थावरजङ्गमम् //
SKरूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते //
SKमधुराम्लरसं चैव लवणं कटु तिक्तकम् कषायमिश्रं स्वादुं च जिह्वा वेदयते रसम् //
SKरसो ऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः सुरभिर्दिव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा //
SKउभौ जिघ्रति नासाग्रे विषयो गन्धसंज्ञितः येनासौ बुध्यते क्षेत्री अहङ्कारेण मोहितः //
SKसंकल्पे च विकल्पे च दशधाक्षेषु धावति अनिवारितसन्देहम् अजय्यं सर्वदेहिनाम् //
SKमनश्च कथितं ह्येतद् धर्माधर्मनिबन्धकम् स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः //
SKगन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् //
SKचक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम् गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् //
SKशब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु सूक्ष्मस्तन्मात्रधर्मो ऽयं भूतानां प्रकृतिक्रमात् //
SKवैकारिकस्ततश्चोर्ध्वं बुध्यते येन पुद्गलः अहं विद्वानहं भोगी त्व् अहं जातो महाकुले //
SKअहं दाता च भोक्ता च तेजस्वी बलवानहम् अहं योद्धा च संग्रामे शत्रवश्च मया जिताः //
SKधर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम् अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः //
SKन दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः इत्यहङ्कारचित्तानां ममत्ववशवर्तिनाम् //
SKअहङ्कारो निबध्नाति संसारे दृढबन्धनैः त्रिविधस्याप्ययं धर्मो ऽहङ्कारस्य प्रकीर्तितः //
SKबुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते धर्मो ज्ञानं च वैराग्यम् ऐश्वर्यं च चतुष्टयम् //
SKअधर्मश्च तथाज्ञानम् अवैराग्यमनैश्वरम् बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेत् //
SKबुद्धिश्चाध्यवसायं च करोति विविधेष्वपि धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये //
SKउपवासो जपो मौनम् अक्रोधो ऽस्तेयमार्जवम् सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा //
SKविद्याभ्यासश्च लज्ज च इन्द्रियाणां च निग्रहः इष्टापूर्तं तीर्थसेवा पितृणां चैव तर्पणम् //
SKअभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम् धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते //
SKधर्मकर्मनिबद्धानां संसारमनुवर्तिनाम् पुनर्मार्त्यं पुनः स्वर्ग्यं तीर्यक् त्वं च पुनः पुनः //
SKधर्मभावः समाख्यातः ज्ञानभावं च मे शृणु चतुर्विंशतिकः पिण्डः करणेन्द्रियसंयुतः //
SKप्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः अकर्ता निर्गुणश्चाहं न मे बन्धो ऽस्ति प्राकृतः //
SKप्रकृत्या कारितं मन्ये वासनादेव मुच्यते साङ्ख्यज्ञानं मया प्रोक्तं प्रकृतेर्येन मुच्यते //
SKमुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः बद्धः संसरते भूयो यावद्देवं न विन्दति //
SKईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम् वैराग्यात्सन्त्यजेत्पुत्रान् दारानिष्टान्सुसंमतान् //
SKहस्त्यश्वरथयानानि सुहृद्भोगधनानि च उपवासं जपं तीर्थं पञ्चाग्निं जलशायिताम् //
SKउपास्यैतानि घोराणि देहं सन्त्यजति क्षणात् गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः //
SKवैराग्यं तु समाश्रित्य कुरुते साहसान्यपि ऐश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति //
SKन दारैर्न धनैर्भागैः परिवारैर्न वाहनैः तपो व्रतानि मन्त्रांश्च ऐश्वर्यार्थे तु साधयेत् //
SKयुद्धं द्युतं तथा मायां चौर्यं चानृतहिंसनम् अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् //
SKऐश्वर्यभावमापन्नः करोति च बहून्यपि प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् //
SKयाचको दुःखदाता च भवेच्चाधर्मचेष्टितम् नास्तिधर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः //
SKअज्ञानभावमापन्नः सर्वं मिथ्येति भाषते नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि //
SKकृच्छ्रजीवी च सततम् अवैराग्ये न खिद्यते राज्यं कृत्वा तु सामन्तः सामन्त्याद्ग्रामभुग्भवेत् //
SKग्रामाद्भ्रष्टस्तदर्धेन वर्तते ऽसावनीश्वरः न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् //
SKअनैश्वर्यस्य भावो ऽयम् एवं ते समुदाहृतः अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् //
SKयस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते अस्य धर्मं प्रवक्ष्यामि रजः सत्त्वतमो ऽभिधम् //
SKप्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः संविभागी च सततं नित्यं सत्त्वोपकारकः //
SKक्षमादयासमायुक्तो ज्ञानविज्ञानपारगः प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा //
SKऋतवाक्समदृष्टिश्च दिव्यबुद्धिप्रबोधनम् यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे //
SKस सात्त्विकस्तु विज्ञेयः रजोधर्मांश्च मे शृणु निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा //
SKकामी हर्षसमाविष्टो दुःखार्तः पर्यटेत्सदा मानी दम्भसमायुक्तो ऽप्यहङ्कारे व्यवस्थितः //
SKनित्यं युद्धरतः शूरः राजसं गुणलक्षणम् कामक्रोधाभिभूतत्वं लोभेन च समन्वयः //
SKईर्श्या दम्भो विषादश्च मद उन्माद एव च निद्रालस्य मकर्मित्वं दौर्मेध्याज्ञानिते तथा //
SKअधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता तमः चिह्नानि चैतानि दृश्यन्ते यत्र मानवे //
SKतामसः स तु विज्ञेयः पुरुषः कलुषाशयः एतत्रिगुणमव्यक्तं त्रिगुणं सामुदाहृतम् //
SKएतत्सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः गुणधर्मा न चैवाहं बुद्ध्यहांकृद्गुणो नहि //
SKकरणेन्द्रियहीनश्च भूततन्मात्रवर्जितः अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः //
SKमानसं वाचिकं चैव शारीरं कर्म यत्कृतम् प्रकृत्या कारितां मन्ये अकर्ता पुरुषः स्मृतः //
SKएवं संन्यस्य कर्माणि वर्तते नच नित्यशः नाहं कर्ता न मे बन्ध एवं बुध्येत यो नरः //
SKप्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः साङ्ख्यज्ञानेन संमूधो मुक्तिरित्यभिमन्यते //
SKन हि मुक्तिर्भवेत्तस्य कंचित्कालं विदेहता तिष्ठेत्प्रकृतिनिर्मुक्तः सृष्टिसंहारवर्जितः //
SKयावत्करोत्यसौ सृष्टिम् ईश्वरः परमेश्वरः तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनाः //
SKक्षिप्तः संसरते भूयः संसारे घोरसागरे धर्माधार्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः //
SKअहं कर्ता च भोक्ता च ईश्वरोबलवानहम् ममत्वेनैव संमूढो भ्राम्यते घटयन्त्रवत् //
SKसाङ्ख्यज्ञानं मया प्रोक्तं शृणु ध्यानाधिदैवतम् पृथ्वीं कठिनरूपेण चतुः सागरमेखलाम् //
SKसपर्वतवनाकीर्णां मृगपक्षिसमाकुलाम् सुस्थितां पीतवर्णाभाम् ऊबीजेन समन्विताम् //
SKध्यात्वा तत्सिद्धिमभ्येति विषसत्त्वान्निवारयेत् अचाल्यः सर्वभूतानां यथैव वसुधा भवेत् //
SKजलापूरितसर्वाङ्गो जलध्यानेन पूरयेत् एवमभ्यस्यमानस्तु विषसत्त्वान्विनाशयेत् //
SKतृष्णादाहविनिर्मुक्त ईतिभिश्च विवर्जितः जगदापूरयेत्सिद्धः पूर्वबीजसमन्वितः //
SKकुर्यात्कर्मसहस्राणि स्वबीजेन तु बीजितः कृष्णरेण्वात्मको वायुर् ध्येयो बीजेन संयुतः //
SKपूरयेद्वै जगद्देहान् सिद्धश्चाश्चर्यकारकः सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् //
SKध्यायेत्प्रकृतिबीजेन चित्रकर्माणि कारयेत् वागिन्द्रिये तथा वह्निर् ध्यातो वाक्सिद्धिदायकः //
SKइन्द्रः पाणावभिध्यातः बाहुशाली त्वजेयकः पादयोर्दूरसंचारं ध्यातो विष्णुः प्रयच्छति //
SKपायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा //
SKजितेन्द्रियश्च भवति त्व् इच्छया रमते शतम् श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद्वीजेन संयुताः //
SKसकृदुक्तं च गृह्णाति दिग्यात्रा चैव सिद्ध्यति मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् //
SKयः स दंष्ट्राद्यभेद्यः स्यात् न क्वचिञ्जायते व्यथा आदित्यं चक्षुषि ध्यायेज् जिह्वायां वरुणं तथा //
SKनासायां पृथिवीं पीतां मनसीन्दुं तथैव च पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् //
SKरक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम् अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च //
SKविषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितम् वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता //
SKध्यानात्सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम् ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा //
SKस्मरन्वै पूर्वबीजेन ज्ञानौघः संप्रवर्तते दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका //
SKभूतं भव्यं भविष्यच्च प्रत्यक्षं संप्रजायते प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते //
SKरक्तं च हृदयं तस्याः बहुपादभुजानना ध्यातव्या तत्त्वबीजेन यदीच्छेत्सिद्धिमात्मनः //
SKसिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायेते षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते //
SKत्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते एष ते प्राकृतो योग उक्तः मोक्षकरः परः //
SKअतः परं तु पुरुषः पद्ममध्ये व्यवस्थितः चित्स्वरूपश्च सर्वेषु देहमापूर्य संस्थितः //
SKस जीव इति विख्यातो येन जीवति तत्पुरम् निर्गतेन मृता येन अचेताः शीर्यते तनुः //
SKबध्यते मुच्यते ऽसौ वै सुखदुःखानि वेत्ति च न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् //
SKन शक्यः कथितुं वापि सूक्ष्मश्चानन्तविग्रहः वालाग्रशतभागस्य शतधा कल्पितस्य तु //
SKतस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते आदित्यवर्णं रुक्माभम् अब्बिन्दुमिव पुष्करे //
SKपश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा रागविद्याकलोपेतः कालबद्धो हि रूपवान् //
SKश्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी //
SKतद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः कर्मबन्धेन बध्नाति सुखदुःखं प्रयच्छति //
SKनियतिं च विजानीयाद् अनिवार्यां सुरासुरैः पूर्वबीजसहध्याना द्विरूपेण समन्विता //
SKध्यानात्सिद्धिमवाप्नोति नियतेश्च विमुच्यते त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजम् //
SKसंहरन्तं दुराधर्षम् अनन्तं कालमीश्वरम् स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते //
SKचक्रवत्परिवर्तन्ते कालध्यानविवर्जिताः एवं कालं सदा ध्यायेत् ध्येयसिद्धिश्च जायते //
SKरागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनाम् सितवर्णां कलां ध्यायेच् चेतन्योन्मीलिनीं तु ताम् //
SKकृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी //
SKया पातयति भूतानि ब्रह्माद्यानि पुनः पुनः निर्वैरपरिपन्थित्वान् माया ग्रन्थिर्दुरुत्तरा //
SKसाङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः //
SKक्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः //
SKदीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम् चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता //
SKसितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका आकाशवायुमारूढा रूपयौवनशालिनी //
SKस्वबीजेन तु सा ध्येया तत्सिद्धिश्चैव जायते दिव्या सिद्धिरमोघा तु सिद्धविद्यश्च जायते //
SKवेद लोकांस्ततः सर्वान् कामरूपी स गच्छति कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् //
SKपूर्वाननमभिध्यायेत् वायुभक्षस्य यत्फलम् तत्पुण्यफलमाप्नोति अश्वमेधायुतस्य च //
SKजगच्च वशमायाति क्रमते सिद्धिमेति च षड्भिर्मासैरसन्देहः दक्षिणं च तथैव हि //
SKनीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनम् भ्रुकुटीकरालवक्त्रं च कपालाहि विभूषितम् //
SKबहुरूपजटाधारं दक्षिणं तस्य चिन्तयेत् सुखदुःखविनाशाय ईतिज्वरविनाशनम् //
SKविषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात् अग्निवज्ज्वलते योगी जरामृत्युविवर्जितः //
SKक्रमते सर्वलोकान्वै सिद्धश्च समतां व्रजेत् सितं त्रिनयनं देवि साक्षासूत्रकमण्डलु //
SKपश्चिमं वदनं ध्यायेद् दिव्यसिद्धिप्रदायकम् हत्वा प्राणिसहस्राणि परदारशतानि च //
SKअलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेत् त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति //
SKध्यानात्तस्य जगत्सर्वं वशमेति न संशयः तपते वर्षते चैव सृजते संहरत्यपि //
SKईप्सितां लभते सिद्धिं यो ऽब्दमेकं तु चिन्तयेत् सितमूर्ध्वं सदा ध्यायेच् छूलहस्तं जटाधरम् //
SKव्याघ्रचर्मपारीधानं साक्षासूत्रकमण्डलु वीणाडमरुहस्तं च नागयज्ञोपवीतकम् //
SKचन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरम् अनेनैव तु देहेन सर्वज्ञः कामरूपवान् //
SKघण्टानादस्य वा ध्यानात् सिद्धिः षाण्मासिकी भवेत् ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते //
SKलिङ्गध्यानं तु यः कुर्यात् पूर्वबीजेन संयुतम् मासेनैकेन पश्येत्स सूक्ष्मं लिङ्गं तनूपरि //
SKशुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते //
SKत्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते आक्रामेत्सर्वलोकांश्च ईश्वरेण समो भवेत् //
SKसोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु तन्मात्राणि हयास्तस्य मनः सारथि चोदितः //
SKअहंकारो भवेद्योद्धा गुणश्चास्य महाधनुः इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीर्तितः //
SKएवं स क्रीडते योगी परमात्मनि हृत्स्थिते पुण्यपापैर्वर्तमान इच्छया परमेश्वरि //
SKनाहं कर्ता न मे बन्धः सर्वमीश्वरकारणम् मत्वा चेश्वरविज्ञानं सर्वकर्मणि सन्त्यजेत् //
SKधर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः तमहं शरणं प्राप्तो न मे बन्धो ऽस्ति कऋतृता //
SKसदाशिवो ऽष्टभेदेन पूर्वबीजसमन्वितः ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता //
SKनादं वै व्यापकं ध्यायेद् अहोरात्रायनेषु च दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः //
SKवंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः सदाशिवः स विज्ञेयः ध्यानात्सिद्धिफलं शृणु //
SKमासमात्रेण तेजस्वी वागीशस्तु द्वितीयके तृतीये पश्यते सिद्धान् दिव्यदृष्टिश्चतुर्थके //
SKसिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः दिव्यासिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके //
SKषण्मुखीकरणं कृत्वा ध्यायेद्देवं सदाशिवम् अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् //
SKशेषाभ्यां वृणुयाद्घ्राणे षण्मुखे किल बद्धधीः दशधा वर्णरूपेण दृश्यते च सदाशिवः //
SKसितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमम् //
SKदृष्ट्वा सर्वाणि रूपाणि त्यजेत्तनि विचक्षणः एकमेव तु गृह्णीयाद् अन्ये तु गुणरूपकाः //
SKचन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम् तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् //
SKनिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः //
SKबिन्दुध्यानं समाख्यातं शक्तिलक्षं निबोध मे खं वीक्ष्य मीलिताक्षो यद् उद्यद्भास्करसन्निभम् //
SKईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा //
SKद्रष्टव्या पारमा शक्तिः तां दृष्ट्वा शिवतां व्रजेत् व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेत् //
SKकारणैः स्वैः समोपेतां ध्यात्वा स्वच्छन्दतां व्रजेत् समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा //
SKध्यानात्सिद्धिमवाप्नोति व्यापकः प्रभुरख्ययः ततश्चोर्ध्वे शिवः शान्तः पूर्वं वै कथितो मया //
SKचक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति //
SKअहंकृतानि यान्येव यच्च वेद्यतया स्थितम् यश्च नास्ति स तत्रैव त्व् अन्वेष्टव्यः प्रयत्नतः //
SKयत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः सुखासीनः संयतात्मा एकचित्तः समाहितः //
SKस्वच्छन्दं समनुस्मृत्य अभावं भावयेत्सदा भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते //
SKये धर्मास्तस्य चाख्याताः पूर्वं ते वरवर्णिनि तैस्तु धर्मैः समायुक्ति योगी वै भवति प्रिये //
SKस्वरूपरूपकध्यानं तत्त्वानां कथितं मया एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यते ऽपि च //
SKइति स्वच्छन्दतन्त्रे द्वादशः पटलः
SKसारं यदस्य तन्त्रस्य यागं तु परमेश्वर तमाख्याहि समासेन साधकानां हिताय वै //
SKमूलबीजाक्षरं मन्त्रनायकं परमीश्वरम् प्रणवासनमारूढम् अङ्गवक्त्रैः समन्वितम् //
SKपूर्वोक्तद्रव्यसंघातैः पूजयेत् परमेश्वरम् स एव होमविन्यासः दीक्षा सैव प्रकीर्तितः //
SKदशलक्षं जपेद्यस्तु एकचित्तः समाहितः समुद्रगसरित्तीरे सहायैः परिवर्जितः //
SKहोमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम् जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः //
SKअसाध्यं साधयेद्देवि नात्र कार्या विचारणा यानि कानीह कर्माणि चतुष्पीठस्थितानि च //
SKअधमान्यथ मध्यानि ह्य् उत्तमानि वरानने तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा //
SKअथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमम् यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः //
SKअभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय / रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् //
SKप्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति / असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् //
SKप्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् / यमलोकादप्यचिरादानयति बलेन पूर्ववत् साध्यम् //
SKमृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय / रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् //
SKखदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन / आनयति शचीमहल्यामथवा दिवसस्य शतभागात् //
SKउद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय / प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुम् //
SKप्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् / कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु //
SKनिजवामकरे ऽलक्तकरोचनया साध्यनाम परिलिखितम् / मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ //
SKखदिरानले विधूमे ऽसुरगुरुमप्यानयत्यनिलवेगात् / साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन //
SKगन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन / आक्रम्य भूमिलिखितं साध्याभिमुखो ऽर्धरात्रकाले तु //
SKक्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् / नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् //
SKनाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य / गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय //
SKकृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत् सम्यक् / खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा //
SKयावत् सिक्थकमेतत् कपाललग्नं विलीयते तावत् / सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण //
SKभित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानम् / साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः //
SKक्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् / रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् //
SKविपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये / सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा //
SKआनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् / शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतम् //
SKतत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु / तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः //
SKविविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः / व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् //
SKधामचाराधयेत् सम्यक् तत्र यस्तु विचक्षणः जायते त्रिविधा सिद्धिर् गिरिराजतनूद्भवे //
SKसुनिश्चितमतेः सम्यग् गिरिराजस्य तस्य वै रक्तचन्दनधूलिं तु राजिकां लवणं तथा //
SKपादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत् जपन् स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयम् //
SKचिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेत् //
SKशतमेकं जपेद्यावत् तावदाकर्षयेन्नृपम् वशमायाति भूनाथ आत्मना च धनेन च //
SKसिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहम् तामेव धूलिं संगृह्य लोहचूर्णविमिश्रिताम् //
SKश्मशानचीरके बद्ध्वा सप्तजप्तां चतुष्पथे निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्विताम् //
SKनिक्षिपेद्यस्य नाम्ना तां स क्षणात् स्तम्भितो भवेत् तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् //
SKबद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्विताम् शतजप्तां तु तां कृत्वा श्मशाने निखनेद् द्रुतम् //
SKभवत्युन्मत्तकः साध्य उद्धृतायां तु मुच्यते उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् //
SKप्रत्यानयनमेतद्धि सिद्धमेव न संशयः अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् //
SKशतमष्टोत्तरं तेषां शतजप्तं तु कारयेत् सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् //
SKएवं दिने दिने कुर्याद् दशाहं सुसमाहितः ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु //
SKमहानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत् आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रवित् //
SKयत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि तद्गृहीत्वाम्बुसम्मिश्रं दन्तैरस्पृष्टमापिबेत् //
SKततो ऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम् तर्जन्यग्रे तु तत्कृत्वा अङ्गुष्ठेनाक्रमेद् बुधः //
SKभ्रामयेत् सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रवित् स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतम् अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनम् //
SKइति स्वच्छन्दतन्त्रे त्रयोदशः पटलः
SKमुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम् उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितम् //
SKतिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम् अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीम् //
SKपराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत् खट्वाङ्गं कीर्तितं ह्येतत् खड्गमुद्रां निबोध मे //
SKअङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकाम् मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता //
SKमुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया //
SKमुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत् अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे //
SKतर्जनीं वर्तुलां कृत्वा मूले ऽङ्गुष्ठस्य योजयेत् पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः //
SKमुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम् नाराचस्तु समाख्यातः समासात्तव भैरवि //
SKमुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये अग्रे निकुञ्चयेत् किञ्चित् पिनाकं परिकीर्तितम् //
SKअग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने पराङ्मुखं तु तं कृत्वा त्व् अभयः परिकीर्तितः //
SKवामं भुजं प्रसार्यैव जानूपरि निवेशयेत् प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः //
SKघण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम् दक्षहस्तस्य तर्जन्या घृषेद् घण्टा प्रकीर्तिता //
SKकनिष्ठिकां समाक्रामेद् अङ्गुष्ठेन समाहितः प्रसार्य चाङ्गुलीस्तिस्रस् त्रिशूलं परिकीर्तितम् //
SKदण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे वामहस्तमधः कृत्वा उत्तानं तु समाहितः //
SKदक्षं चाधोमुखं कृत्वा त्व् अङ्गुष्ठं च कनिष्ठिकाम् उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् //
SKडमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते सुषिरेण समायुक्तं दर्शयेत्तु वरानने //
SKमुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत् मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे //
SKहस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता //
SKप्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः //
SKएता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् आवाहने निरोधे च तथा चैव विसर्जने //
SKकपालं चैव खट्वाङ्गम् अनुक्तेषु प्रदर्शयेत् कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि //
SKत्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितम् //
SKघण्टा हेमप्रभा ज्ञेयाङ् कुशो मरकतप्रभः पाशो भिन्नाञ्जननिभः स्फटिकाभो ऽभयः स्मृतः //
SKवरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् //
SKदण्डं रक्तं विजानीयाद् वज्रं पीतं विचिन्तयेत् राजावर्तनिभो देवि मुद्गरः परशुस्तथा //
SKमुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम् प्रणवासनमारूढा ॐकाराद्या वरानने //
SKस्वनामकृतविन्यासा नमस्कारावसानिकाः साधयन्ति महादेवि फलानि विविधानि तु //
SKनिर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये वेदितव्यं प्रयत्नेन साधितव्यं महात्मना //
SKइति स्वच्छन्दतन्त्रे चतुर्दशः पटलः
SKजपध्यानादियुक्तस्य चर्याव्रतधरस्य च छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने //
SKभैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः //
SKसमयी कान्तदेहस्तु भगिन्यो बलदर्पिताः मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता //
SKमत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनम् जातं प्ररूढमित्याहुर् मृतं चैव पराङ्मुखम् //
SKरक्तं त्वमृतमित्याहुः पद्मनालो ऽन्त्रसञ्चयः शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितम् //
SKश्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः पिशाचो रोमजननः रुहा ज्ञेया रजस्वला //
SKरात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेत् नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः //
SKकरौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः //
SKशस्त्रं विभागजननं कर्तरी कार्यसाधिका दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते //
SKगन्धः सन्तोषजननो राजानो धारकाः स्मृताः पशुर्विबोधको ज्ञेयश् चरुकः सार्वकामिकः //
SKअन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते दिशां मुखं तु श्रवणं त्वक् च संवेदनी स्मृता //
SKघ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकम् पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते //
SKपितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका //
SKमित्रं गुणानां जननं गुणनाशं रिपुं विदुः छित् स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितम् //
SKदशनाः खण्डका ज्ञेया आधार उदरं स्मृतम् हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि //
SKमेदो वसां विजानीयात् मज्जा पुष्टिकरः स्मृतः विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते //
SKकालेयकं तु कुसुमं धूमं धृतिकरं विदुः मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः //
SKदुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः दूषको जार इत्युक्तः पीतं वन्दितमेव च //
SKभक्षितं प्राप्तमित्याहुश् छर्दितं विकृतीकृतम् दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः //
SKमहल्लो रक्षको ज्ञेयश् छगलस्तु कनिष्ठकः विनयो देहकर्म स्यात् साधनं तु जपः स्मृतः //
SKहोमितं सिद्धिजननं विभागो रोचकः स्मृतः कदम्बं वृन्दमित्याहुर् विरलो ऽश्लिष्ट उच्यते //
SKविमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता देवतादर्शनं यत्तत् लब्धं शस्त्रहतं विदुः //
SKनिशाचरो बिडालः स्यात् नखिनश्च विदारकाः आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा //
SKशिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेत् शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेत् //
SKललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेत् तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः //
SKजिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेत् सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते //
SKघण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेत् //
SKहृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेत् नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेत् //
SKतस्याधस्ताद् बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये यदा गुह्यं स्पृशेद्देवि अहंकारो ऽधिदैवतम् //
SKकटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतम् ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेत् //
SKजानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितम् जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेत् //
SKशरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः //
SKसमयाचारयुक्तस्य कालांशकविदः प्रिये क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः //
SKदर्शयन्ति महाध्वानं नानाभोगसमन्वितम् गिरिराजस्य देवेशि यं गत्वा फलमश्नुते //
SKभैरवेण समाज्ञप्ताः शक्तयस्तु वरानने अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः //
SKअन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने //
SKसतताभ्यासयोगेन ददते चरुकं स्वकम् यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेत् //
SKतस्माद् ध्यानार्चने होमं जपम् च वरवर्णिनि कुर्वन्ति भावितात्मानस् ततः सिद्ध्यन्ति मन्त्रिणः //
SKइति स्वच्छन्दतन्त्रे पञ्चदशः पटलः