The Upanishad of the Will of Shiva

Śivasaṃkalpopaniṣad · Śइवसंकल्पोपनिषद्

The Upanishad of the Will of Shiva

Śivasaṃkalpopaniṣad

Śइवसंकल्पोपनिषद्

SK
य्éनेद्áम् भूत्áं भ्úवनं भविष्य्áत् प्áरिगृहीतम् अमृ́तेन स्áर्वम्, य्éन यज्ञ्áस् ताय्áते सप्त्áह्óता तन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्éन क्áर्माण्य् अप्áसो मनीष्íणो यज्ञ्é कृण्व्áन्ति विद्áथेषु धी́राः, य्áद् अपूर्व्áं य्यक्ष्áम् अन्त्áḫ प्रजानान् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु,
SK
य्áत् प्रज्ञा́नम् उत्á च्éतो धृ́तिश् च यज् ज्य्óतिर् अन्त्áर् अमृ́तं प्रजा́सु, य्áस्मान् न्á ऋत्é क्íञ् चन्á क्áर्म क्रिय्áते त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्áज् जा́ग्रतो दूर्áम् उदíति दíवं त्áद् उ सुप्त्áस्य त्áथैवíति, दूरङ्गम्áं ज्य्óतिषां ज्य्óतिर् éकं त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्áस्मिन् ऋ́चस् सा́म य्áजूंषि य्áस्मिन् प्र्áतिष्ठिता रथनाभा́व् इवारा́ः य्áस्मिम्̐श् चित्त्áं स्áर्वम् óतम् प्रजानान् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
सुषारथ्íर् áश्वान् इव य्áन् मनुष्या́न् नेनीय्áतेभी́शुभिर् वाज्íन इव हृत्प्र्áतिष्ठं य्य्áद् अजिर्áञ् ज्áविष्ठन् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्áद् áत्र षष्ठ्áं त्रिशत्áम्̐ शरीर्áं यज्ञ्áस्य ग्úह्यन् न्áवना́भम् आ́द्यम्, द्áश पञ्चत्रिम्̐श्áतं य्य्áत् पर्áञ् च त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्é प्áञ्च पञ्चा́ दशत्áम्̐ शत्áं च सह्áस्रं च निय्úतं न्य्áर्बुदं च, ते यज्ञचित्त्éष्टकात्त्áम्̐ श्áरीरं त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
व्éदाह्áम् एत्áं प्úरुषं महा́न्तम् आदित्य्áवर्णन् त्áमसḫ पर्áस्तात्, त्áस्य य्óनिं परिपश्यन्ति धी́रास् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्éन क्áर्माणि प्र्áचरन्ति धीरा व्íप्रा वाचा́ म्áनसा क्áर्मणा च, संव्व्íदम् áनु स्áंय्यन्ति प्राण्íनस् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्é म्áनो हृ́दयं य्य्é च देवा́ य्é अन्त्áरिक्षे बहुधा́ च्áरन्ति, य्é श्रोत्र्áं चक्ष्úषी स्áञ्चरन्ति त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्éन द्यúर् उग्रा́ पृथिवी́ चान्त्áरिक्षं य्é प्áर्वताḫ प्रद्íशो द्íशश् च, य्éनेद्áञ् ज्áगद् व्या́प्तं प्रजा́नान् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
य्éनेद्áं स्áर्वं ज्áगतो बभूव्úर् य्é देवा́ áपि महत्ó जात्áवेदाः, त्áद् एवा́ग्नित्áपसो ज्योत्íर् éकन् त्áन् मे म्áनश् शिव्áसङ्कल्पम् अस्तु.
SK
अचिंत्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत्, सूक्ष्मात् सूक्ष्मतरं ज्ञानं त्áन् मे म्áनः शिवसंकल्पम् अस्तु.
SK
अस्ति विनाशयित्वा सर्वम् इदं नास्ति पुनस् तथैवा दृष्टं ध्रुवं, अस्ति नास्ति हितं मध्यमं पदं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
अस्ति नास्ति विपरीतो प्रवाहोस्ति नास्ति सर्वं वा इदं गुह्यम्, अस्ति नास्ति परात् परो यत् परं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
परात् परतरं यस्य तत्पराच् चैव तत् परं, तत्परात् परतोज्ञेयं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
परात् परतरो ब्रह्म तत्परात् परतो हरिः, तत्परात् परतो ह्य् एष तन् मे मनः शिवसंकल्पम् अस्तु.
SK
गोभिर् जुष्टो धनेन ह्य् आयुषा च बलेन च, प्रजया पशुभिः पुष्कलाद्यं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
प्रयतः प्रणवो नित्यं परमं पुरुषोत्तमं, ॐकारं परम् आत्मानं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
यो वै वेदादिषु गायत्री सर्वव्यापी महेश्वरः, यद् द्विरुक्तं तथाद्व्यैश्यं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
यो वै वेद महादेवम् परमं पुरुषोत्तमं, यः सर्वं यस्य चित् सर्वं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
योसौ सर्वेषु वेदेषु पथते ह्य् अज ईश्वरः, अकायो निर्गुणो ध्यात्वा तन् मे मनः शिवसंकल्पम् अस्तु.
SK
कैलाशशिखरे रम्ये शंकरस्य शुभे गृहे, देवतास् तत्र मोद्यंति तन् मे मनः शिवसंकल्पम् अस्तु.
SK
कैलाशशिखराभासा हि भवद् गिरिसंस्थिताः, नीलकंठं त्रिनेत्रं च तन् मे मनः शिवसंकल्पम् अस्तु.
SK
आब्रह्मस्तम्बपर्यंतं त्रैलोक्यं सचराचरम्, उत्पातितं जगद् व्याप्तं तन् मे मनः शिवसंकल्पम् अस्तु.
SK
य इमं शिवसंकल्पम् सदा ध्यायंति ब्राह्मणाः, ते परमोक्षं गमिष्यंति तन् मे मनः शिवसंकल्पम् अस्तु.
SK
त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्द्धनं, उर्वारुकम् इव बंधनान् मृत्योर् मुक्षीय मामृतात् तन् मे मनः शिवसंकल्पम् अस्तु.

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Śivasaṃkalpopaniṣad (sa_zivasaMkalpopaniSad.htm).

Source