Four Hundred Verses
Catuḥśatikā
Cअतुःशतिका
SKĀर्यदेवस्य तन्नामनोपलब्धग्रन्थभागाः
SK१.२१. शत्रुवत् यान्ति ते काला नियमेन क्षणादयः / सर्व्वथा तेन ते रागः शत्रुभूतेषु तेषु मा
SK१.२२. विप्रयोगभयाद्गेहान्न निर्गच्छमि [दुर्म्मते] / [विविच्य] नाम कर्तव्यं कुर्य्याद्दण्डेन को बुधः
SK२.७. शरीरं सुचिरेणापि सुखस्य स्वं न जायते / परेणाभिभवो नाम स्वभावस्य न युज्यते
SK२.८. अग्रयाणां मानसं दुःखमितरेषां शरीरजम् / दुःखद्वयेन लोकोयमहन्यहनि हन्यते
SK२.९. कल्पनायाः सुखं वश्यं वश्याद्दुःखस्य कल्पना / अतोस्ति किञ्चित् सर्व्वत्र न दुःखाद्वलमन्तरम्
SK२.१०. कालो यथा यथा याति दुःखवृद्धिस्तथ तथा / तस्मात् कडेवरस्यास्य परवदृश्यते सुखम्
SK२.११. व्याधयोऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः / तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः
SK२.१२. सुखस्य वर्द्धमानस्य यथा दृष्टो विपर्ययः / दुःखस्य वर्द्धमानस्य तथा नास्ति विपर्ययः
SK३.१३. प्रतिनासिकया तुष्टिः स्याद्धीनाङ्गस्य कस्यचित् / रागोऽशुचिप्रतीकारे पुष्पादाविष्यते तथा
SK३.२४. शुचि नाम च तद्युक्तं वैराग्यं यत्र जायते / न च सोऽस्ति क्वचिद्भावो निययाद् रागकारणम्
SK३.२५. अनित्यमशुभं दुःखमनात्मेति चतुष्टयम् / एकस्मिन्नेव सर्वाणि सम्भर्वान्त समासतः
SK४.१. अहं ममेति वा दर्पः सतः कस्य भवेद् भवे / यस्मात् सर्व्वेऽपि सामान्या विषयाः सर्व्व देहिनाम्
SK४.२. गणदासस्य ते दर्पः षड्भागेन भृतस्य कः / जायतेऽधिकृते कार्य्यमायत्तं यत्र तत्र वा
SK४.१४. ऋषीणां चेष्टितं सर्व्व कुर्वीत न विचक्षणः / हीनमध्यविशिष्टत्वं यस्मात्तेष्वपि विद्यते
SK४.१५. पुत्रवत् पालितो लोकः पुरतः पार्थिवैः शुभैः / मृगारण्यीकृतः सोऽद्य कलिधर्मसमाश्रितैः
SK४.१६. छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते / अन्येषामपि चौराणां तत् प्रागेव न विद्यते
SK४.१७. सर्व्वस्वस्य परित्यागो मद्यादिषु न पूजितः / आत्मनोऽपि परित्यागः किं मन्ये पूजितो रणे
SK४.२३. विप्रोऽपि कर्म्मना शूद्रः केन मन्ये न जायते
SK४.२४. पापस्यैश्वर्य्यवद्राजन् संविभागो न विद्यते / विद्वान्नाम परस्यार्थे कः कुर्य्यादायतोवधं
SK४.२५. दृष्ट्वा समान् विशिष्टांश्च परांश्छक्तिसमन्वितान् / ऐश्वार्यजनितो मानः सतां हृदि न तिष्ठति
SK५.१. न चेष्टा किल बुद्धानामस्ति काचिदकारणा / निःश्वासोऽपि हितायैव प्राणिनां संप्रवर्त्तत्ते