SK
|| श्रीः || श्रीनेत्रतन्त्रम् (मृत्युञ्जयभट्टारकः) श्रीमत्क्षेमराजविरचितनेत्रोद्द्योताख्यव्याख्योपेतम् प्रथमोऽधिकारः ᳚ नेत्रोद्योतः ᳚ द्वारेशा नवरन्ध्रगा हृदयगो वास्तुर्गणेशो मनः शब्दाद्या गुरवः समीरदशकं त्वाधारशक्त्यात्मकम् | चिद्देवोऽथ विमर्शशक्तिसहितः षाड्गुण्यमङ्गावलिर् लोकेशः करणानि यस्य महिमा तं नेत्रनाथं स्तुमः || १ || यन्मन्त्रावलिनायकं भवति यत् स्वं वीर्यमन्तर्बहिर् यन्त्राणां भविनां विभूतिकृदणौ यद्विश्वरक्षाकरम् | ज्योतिस्तत्परमं परामृतमयं विश्वात्म तुर्यं त्रिकं नेत्रं पञ्चकसप्तकात्म शिवयोर्नौंम्येकवीरं मृडम् || २ || योऽन्तर्विश्वं झटिति कलयन्नक्षचक्रेश्वरीभिः स्वात्मैकात्म्यं गमयति निरानन्दधाराधिरूढेः | यः पूर्णत्वाद्बहिरपि तथैवोच्छलत्स्वात्मरूपो बोधोल्लासो जयति स गुरुः कोऽप्यपूर्वो रहस्यः || ३ || सर्वाभासविकासि चिन्मयमहः स्वच्छस्वतन्त्रस्फुरद् यद्द्वैतेन्धनदाहि यच्च परमाद्वैतामृतेनोच्छलत् | द्वैताद्वैतदृगन्धकारहरणं धामत्रयैकात्मकं शैवं नेत्रमनुग्रहाय जगतोऽमुत्रैदुद्द्योतते || ४ || अभिनवबोधादित्यद्युतिविकसितहृत्सरोजान्मे रसयत सरसाः परिमलमसारसंसारवासनाशान्त्यै || ५ || इहानुजिघृक्षामनाः परसंविद्देवीप्रबोधितोऽवतितारयिषितसर्वागमरहस्यैतच्छासनानु- गुण्येन नमस्कार्यनमस्कारं कश्चित्तन्त्रावतारक- आह त्रिधा तिसृष्ववस्थासु रूपमास्थाय शक्तिमान् | उद्भवस्थितिसंहारान् कृत्स्नविश्वस्य शक्तितः || १-१ || विधाता यो नमस्तस्मै शुद्धामृतमयात्मने | शिवाय ब्रह्मविष्ण्वीशपराय परमात्मने || १-२ ||