Sutraya

Parātriṃśikāvivaraṇa

Exposition of the Thirty Verses on the Supreme · परात्रिंशिकाविवरणम्

Parātriṃśikāvivaraṇa

Exposition of the Thirty Verses on the Supreme

परात्रिंशिकाविवरणम्

SK
ॐ नमः शिवाय
SK
विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः / तद् उभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् //
SK
यस्याम् अन्तर् विश्वम् एतद् विभाति बाह्याभासं भासमानं विसृष्टौ / क्षोभे क्षीणे ऽनुत्तरायां स्थितौ तां वन्दे देवीं स्वात्मसंवित्तिम् एकाम् //
SK
नरशक्तिशिवात्मकं त्रिकं हृदये या विनिधाय भासयेत् / प्रणमामि पराम् अनुत्तरां निजभासां प्रतिभाचमत्कृतिम् //
SK
जयत्य् अनर्घमहिमा विपाशितपशुव्रजः / श्रीमान् आद्यगुरुः शम्भुः श्रीकण्ठः परमेश्वरः //
SK
निजशिष्यविबोधाय प्रबुद्धस्मरणाय च / मयाभिनवगुप्तेन श्रमो ऽयं क्रियते मनाक् //
SK
अनुत्तरं कथं देव सद्यःकौलिकसिद्धिदम् येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् //
SK
परमेश्वरः पञ्चविधकृत्यमयः सततम् अनुग्रहमय्या परारूपया शक्त्या आक्रान्तो वस्तुतो ऽनुग्रहैकात्मैव न हि शक्तिः शिवाद् भेदम् आमर्शयेत् /
SK
सा च शक्तिः लोकानुग्रहविमर्शमयी प्रथमतः परामर्शमयपश्यन्त्यासूत्रयिष्यमाणानन्तशक्तिशताविभिन्ना प्रथमतरं परमहामन्त्रमय्याम् अदेशकालकलितायां संविदि निरूढा तावत्पश्यन्त्युद्भविष्यदुक्तिप्रत्युक्त्यविभागेनैव वर्तते / सैव च सकलप्रमातृसंविदद्वयमयी सततम् एव वर्तमानरूपा / ततस् तु पश्यन्ती यद् यत् अभीप्सितं तत् तद् एव समुचितकारणनियमप्रबोधितं बोधसूत्रणमात्रेण विमृशति, यथा अनेकभावाभावज्ञानसंस्कारसंस्कृताया मेचकधियः स्मृतिबीजप्रबोधकौचित्यात् किंचिद् एव स्मृतिर् विमृशति / न हि प्रथमज्ञानकाले भेदो ऽत्रास्फुरत् यत्र वाच्यवाचकविशेषयोर् अभेदः / मध्यमा पुनस् तयोर् एव वाच्यवाचकयोर् भेदम् आदर्श्य सामानाधिकरण्येन विमर्शव्यापारा / वैखरी तु तदुभयभेदस्फुटतामय्य् एव -- इति तावद्व्यवस्थायां स्वसंवित्सिद्धायां यैव परावाग्भूमिः सैव मायीयशब्दशक्तिपरमार्थस्वभावासांकेतिकाकृतकपारमार्थिकसंस्कारसारा वक्ष्यमाणनयेन मन्त्रवीर्यभूतांशचोदिता तदुत्तरं पश्यन्त्यादिदशास्व् अपि वस्तुतो व्यवस्थिता / तया विना पश्यन्त्यादिषु अप्रकाशतापत्त्या जडताप्रसङ्गात् / तत्र च इदम् एवम् अत्र इदानीम् इत्यादिभेदकलना न काचित् / तत एव च परमहामन्त्रवीर्यविसृष्टिरूपाया आरभ्य वैखरीप्रसृतभावभेदप्रकाशपर्यन्तं यद् इयं स्वचमत्कृतिमयी स्वात्मन्य् एव प्रकाशनमये विश्रम्य स्फुरति तद् एवं स्फुरितम् अविच्छिन्नतापरमार्थम् अहम् इति / तद् एतत् अग्रे स्फुटीभविष्यति / तन्मध्य एव तु पश्यन्त्यां यत्र भेदांशस्यासूत्रणं यत्र च मध्यमायां भेदावभासस् तत्रोभयत्र ज्ञानक्रियाशक्तिमये रूपे सदाशिवेश्वरसारे सैव अहम् इति चमत्कृतिर् अन्तःकृतानन्तविश्वेदन्ताचमत्कृतिपूर्णवृत्तिस् तत्पश्यन्तीमध्यमात्मिका स्वात्मानम् एव वस्तुतः परसंविदात्मकं विमृशति /
SK
परैव च संविद् भगवती देवी इत्य् उच्यते / इयता पश्यन्त्यादिसृष्टिक्रमेण बाह्यनीलादिपर्यन्तेन स्वविमर्शानन्दात्मना क्रीडनेन, सर्वोत्तीर्णत्वेन सर्वोत्कर्षावस्थितेर् भगवतो भैरवस्य तथा स्थातुम् इच्छया विजिगीषात्मना, इयदनन्तज्ञानस्मृतिसंशयनिश्चयादिव्यवहारकरणेन, सर्वत्र च भासमाने नीलादौ तन्नीलाद्यात्मभासनरूपेण द्योतनेन, सर्वैर् एव तदीयप्रकाशावेशैस् तत्प्रवणैः स्तूयमानतया, यथेच्छं च देशकालावच्छेदेन सर्वात्मतागमनेन / अत एव मुख्यतो भैरवनाथस्यैव देवत्वम् इष्यते / तच्छक्तेर् एव भगवत्या देवीरूपता / यद् उक्तं दिवु क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिगतिष्व् इति / तथा च एवंविधमुख्यपारमैश्वर्यमयदेवत्वांशांशिकानुग्रहाद् विष्णुविरिञ्च्यादिषु देवताव्यवहारः / एवं भगवती पश्यन्ती मध्यमा च स्वात्मानम् एव यदा विमृशति अहम् एव परावाग्देवतामयी एवम् अवोचम् इति, तदा तेन रूपेणोल्लसन्मायारम्भतया स्वात्मापेक्षतया तन्मायीयभेदानुसारात् ताम् एव पराभुवं स्वात्ममयीं भूतत्वेन अभिमन्वाना, भेदावभासप्राणनान्तर्बहिष्करणपथव्यतिवर्तिनीत्वात् परोक्षतया सूर्यादिसंचारायत्तदिनविभागकृताद्यतनानवच्छेदात् / ब्रह्मणो ऽनेककल्पसंमितम् अहः, ततो ऽपि विष्णुप्रभृतेः, अन्तश् च प्राणचारादौ प्राणीयशतसहस्रांशे ऽपि अहर्व्यवहार इत्य् अनवस्थितं काल्पनिकं चाद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथम् इति न्यायात् भूतानद्यतनपरोक्षार्थपरिपूरणात् परोक्षोत्तमपुरुषक्रमेण विमृशेत् / अहम् एव सा परावाग्देवीरूपैव सर्ववाच्यवाचकाविभक्ततयैवम् उवाचेति तात्पर्यम् / सुप्तोऽ हं किल विललाप इति ह्य् एवम् एवोपपत्तिः / तथाहि ताम् अतीताम् अवस्थां न स्मरति प्रागवेद्यत्वात्, इदानीं पुरुषान्तरकथितमाहात्म्यात् अतिविलापगानादिक्रियाजनितगद्गदिकादिदेहविक्रियावेशेन वा तदवस्थां चमत्कारात् प्रतिपद्यते / न ह्य् अप्रतिपत्तिमात्रम् एवैतत् / मत्तः सुप्तो वाहं किल विललाप इति मदस्वप्नमूर्छादिषु हि वेद्यविशेषानवगमात् परोक्षत्वम्, परावस्थायां तु वेद्यविशेषस्याभाव एव,
SK
केवलम् अत्र वेदकतादात्म्यप्रतिपत्त्या तुर्यरूपत्वात्, मदादिषु तु मोहावेशप्राधान्यात् - इतीयान्विशेषः, परोक्षता तु समानैव / एवं सर्व एव प्रमाता गुरुशिष्यादिपदे अन्यत्र वा व्यवहारे स्थितः सर्वकालम् एव यत् किंचित् कुर्वाण एनाम् एव संविदम् अनुप्रविश्य सर्वव्यवहारभाजनं भवति / अतस् ताम् एव वस्तुतो विमृशति देवी उवाच इति / यावद् उक्तं स्याद् अहम् एव सततं सर्वम् अभेदेन विमृशामि पराभूमौ, अन्यथा पश्यन्तीमध्यमाभूमिगं स्फुटम् इदं प्रथनं न स्यात्, तावद् एवोक्तं भवति देवी उवाच इति / एवम् एव पुरस्ताद् भैरव उवाच इति मन्तव्यम् / तत्रापि हि स्वपरशक्त्यविभागमयो भैरवात्मैव अहम् उवाच इत्य् अर्थः / केवलं शक्तिप्रधानतया सृष्टिस्वभावाख्यामर्शे अहम् इत्य् उचितो देवीपरामर्शः, शक्तिमत्प्रधानतया संहारावेशविमर्शे मह इति भैरवरूपचमत्कारः / स्फुटयिष्यते चैतत् /
SK
एतच् च पश्यन्तीमध्यमाभुवि ज्ञानशक्तिमय्याम् एव परस्या इच्छाशक्तिमय्याः संविदो विमर्शनं, तद् एव च सर्वारम्भपर्यन्तशास्त्रप्रयोजनम् / अत एव ज्ञनशक्ताव् एव सदाशिवमय्यां पूर्वोत्तरपदवाक्यक्रमोल्लासाद् वास्तवपरमहामन्त्रवीर्यविमर्श एव दकार-एकार-वकार-यकार-उकार-वकार-आकार-चकार, भकार-ऐकार-रेफ-अकार-वकार-अकारादिपदवाक्ययोजना / उक्तं च स्वच्छन्दतन्त्रे
SK
Q: गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः / Q: पुर्वोत्तरपदैर् वाक्यैस् तन्त्रं समवतारयत् //
SK
इति / एवं चानुग्रहशक्तिः सततं सर्वप्रमातृष्व् अनस्तमितैवेति सैष षडर्धसारशास्त्रैकप्राणः पर एव संबन्धः / अत्रानुत्तरे संबन्धान्तराणां महदन्तरालदिव्यादिव्यादीनाम् उक्तोपदेशेन परैकमयत्वात् / तद् उक्तं त्रिकहृदये
SK
Q: नित्यं विसर्गपरमः स्वशक्तौ परमेश्वरः / Q: अनुग्रहात्मा स्रष्टा च संहर्ता चानियन्त्रितः //
SK
इति / एवम् अमुना क्रमेण सदोदितता /
SK
एवंपरमार्थमयत्वात् परमेश्वरस्य चित्तत्त्वस्य यद् एवाविभागेनान्तर्वस्तु स्फुरितं तद् एव पश्यन्तीभुवि वर्णपदवाक्यविबिभाजयिषया परामृष्टं मध्यमापदे च भेदेन स्थितं वस्तुपूर्वकं संपन्नं यावद् वैखर्यन्तम् अनुत्तरं कथम् इत्यादि भिन्नमायीयवर्णपदवाक्यरचनान्तम् / एतद् एव तद् अनुपलक्ष्यं भैरववक्त्रं सृष्टिपरामर्शात्मकम्, अनुत्तराहंभावसाराकाराकाररूपशिवशक्तिसंघट्टसमापत्तिक्षोभात्मकं त्रिकशास्त्रप्रसरबीजं ध्रुवपदं मौलिकं सर्वजीवतां जीवनैकरूपम् / अत एव व्यवच्छेदाभावात् स्थाननिर्देशाद्ययोगात् स्थानादिपूर्वकत्वं नोपपन्नम् / वस्तु च प्रश्नतदुत्तररूपं सततोदितम् एव प्रथमम् अविभागमयम् / तेन एतावद् एवात्र तात्पर्यम् -- स्वात्मा सर्वभावस्वभावः स्वयं प्रथमानः स्वात्मानम् एव स्वात्माविभिन्नेन प्रश्नप्रतिवचनेन प्रष्टृप्रतिवक्तृस्वात्ममयेनाहन्तया चमत्कुर्वन् विमृशतीति / अहम् एवैवंविचित्रचमत्कारेच्छुस् तथा जानन्न् एव तथैव भवामीति यावत् तावद् एव देवी उवाच, अनुत्तरं कथम् इत्य् आरभ्य भैरव उवाच शृणु देवि इति मध्यतो यावद् इत्य् एतद् रुद्रयामलम् इति / यद् वा सर्वाणि पञ्चस्रोतःप्रभृतीनि शास्त्राणि यावत् लौकिको ऽयं व्यवहारः / स एष उक्तः परः संबन्धः /
SK
गोप्यम् उपदेशसारं सद्योभैरवपदावहं सततम् / अभिनवगुप्तेन मया व्याख्यातं प्रश्नसर्वस्वम् //
SK
शिष्यहितपरतया तु इदम् एव संगृह्याभिदध्मः /
SK
सर्वेषु व्यवहारेषु ज्ञेयं कार्यं च यद् भवेत् / तत्परस्यां तुर्यभुवि गतभेदं विजृम्भते //
SK
भेदासूत्रणरूपायां पश्यन्त्यां क्रमभूजुषि / अन्तःस्फुटक्रमायोगं मध्यायां तद् विभेदभाक् //
SK
मध्या पश्यन्त्य् अथ पराम् अध्यास्याभेदतो भृशम् / परोक्षम् इव तत्कालं विमृशेन् मत्तसुप्तवत् //
SK
एवम् एव एतद् अनुत्तरत्वं निर्वक्ष्यतीति / तद् उक्तं श्रीसोमानन्दपादैः
SK
Q: पञ्चविधकृत्यतत्परभगवद्भैरवभट्टारकस्य प्रथमशाक्तस्पन्दसमन्तरम्
SK
इत्यादि निजविवृतौ /
SK
तद्ग्रन्थिनिर्दलनार्थ एव अयम् अस्माकं तच्छासनपवित्रितानां यत्नः / उक्तः संबन्धः / अभिधेयं त्रीशिका इति / तिसृणां शक्तीनाम् इच्छाज्ञानक्रियाणां सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानाम् ईशिका ईश्वरी / ईशना च ईशितव्याव्यतिरेकेणैव भाविनीति एतच्छक्तिभेदत्रयोत्तीर्णा तच्छक्त्यविभागमयी संविद्भगवती भट्टारिका परा अभिधेयम्, तद्योगाद् एव च इदम् अभिधानम् / त्रिंशका इत्य् अपि गुरवः पठन्ति, अक्षरवर्णसाम्यात् च निरुक्तम् आहुः तिस्रः शक्तीः कायतीति त्रिंशका, न तु त्रिंशच्छ्लोकयोगात् त्रिंशिका / अतावतो ऽपि त्रिंशकार्थत्वात् / तथाहि श्रीतन्त्रसारे
SK
Q: त्रिंशकार्थस् त्वया प्रोक्तः सार्धकोटिप्रविस्तरः /
SK
इति / अभिधानाभिधेययोश् च पर एव संबन्धस् तादात्म्याद् इत्य् उक्तप्रायं प्रयोजनं च सर्वप्रमात्ःणां विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानाम् इत्थंनिजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः / प्राणदेहादिभूमाव् एव ह्य् अन्तर्बहिष्करणविषयायां प्रेरणाख्यायाम् उद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिर् इति गीयते / त्रुटिते ऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः, किमपेक्षया वेति / तद् उक्तं श्रीस्पन्दे
SK
Q: इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् / Q: स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः //
SK
इति / स्फुटीभविष्यति च एतत् अविदूर एव /
SK
तदनेन स्वसंवेदनेन प्रयोजनम् एव अत्र सकलपुमर्थपर्यवसानम् इति प्रयोजनप्रयोजनानवकाशः / उक्तान्य् एव संबन्धाभिधेयप्रयोजनानि /
SK
अथ ग्रन्थार्थो व्याख्यायते / अनुत्तरम् इति / न विद्यते उत्तरम् अधिकं यतः / यथा हि तत्त्वान्तराणी षट्त्रिंशद् अनाश्रितशिवपर्यन् तानि परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदम् अधिकयन्ति नैवं परा परिपूर्णा परभैरवसंवित्, तस्याः सदा स्वयम् अनर्गलानपेक्षप्रथाचमत्कारसारत्वात् / तथा न विद्यत्य् उत्तरं प्रश्नप्रतिवचोरूपं यत्र / यत एव हि महासंवित्सिन्धोर् उल्लसदनन्तप्रतिभापर्यन्तधाम्न उल्लास्य प्रश्नप्रतिभानादिपात्रं भवति शिष्यः, तद् एव वस्तुतस् तत्त्वं सततोदितम् इति किमिव आचार्यीयम् उत्तरम् अन्यत् स्यात् / उत्तरणम् उत्तरो भेदवादाभिमतो ऽपवर्गः / स हि वस्तुतो नियतिप्राणतां नातिक्रामति / तथा हि प्रथमं शरीरात् प्राणभूमाव् अनुप्रविश्य, ततो ऽपि बुद्धिभुवम् अधिशय्य, ततो ऽपि स्पन्दनाख्यां जीवनरूपताम् अध्यास्य, ततो ऽपि सर्ववेद्यप्रक्षयात्मशून्यपदम् अधिष्ठाय, ततो ऽपि सकलमलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्वव्यक्त्या अणुर् अपवृज्यते आरोपव्यर्थत्वात् इति / ईद्र्श एव नाभिहृत्कण्ठतालुब्रह्मभैरवबिलाद्यधिष्ठानक्रमप्राप्त ऊर्ध्वतरणक्रम उत्तरः / तथा उत्तरन्ति अत इति उत्तरो बन्धः / उत्तरणम् उत्तरो मोक्षः / तद् एवंविधा उत्तरा यत्र न सन्ति / उत्तरं च शब्दनम् / तत् सर्वथा ईदृशं तादृशम् इति व्यवच्छेदं कुर्यात् / तद् यत्र न भवत्य् अव्यवच्छिन्नम् इदम् अनुत्तरम् / इदम् इत्य् अपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणम् एवेति व्यवच्छेदकत्वात् विकल्पात्मैव / अत एव यावद् अनुत्तरे रूपे प्रविविक्षुर् मायीयः प्रमाता तावत् कल्पित एव विशेषात्मनि / तत्रत्व् अविकल्पितं यद् अविनाभावि, तद्विना कल्पितरूपास्फुरणात्, तद् एव वस्तुतो ऽनुत्तरम् / तत्र हि भावनादेर् अनुपपत्तिर् एव वस्तुत इति भावनाकरणोज्झितत्वम् उक्तम्, न तु अनुपयुक्तित एव / तद् ईदृशम् अनुत्तरं व्यवहारवृत्तिष्व् अप्य् एवम् एव / तद् उक्तं मयैव स्तोत्रे
SK
Q: वितत इव नभस्य् अविच्छिदैव प्रतनु पतन् न विभाव्यते जलौघः / Q: उपवनतरुवेश्मनीध्रभागाध्युपधिवशेन तु लक्ष्यते स्फुटं सः //
SK
तद्वत्
SK
Q: ... परभैरवो ऽतिसौक्ष्म्याद् अनुभवगोचरम् एति नैव जातु //
SK
Q: अथ देशाकृतिकालसन्निवेशस्थितिसंस्पन्दितकारकत्वयोगाः //
SK
Q: जनयन्तो ह्य् अनुभाविनीं चितिं ते झटिति न्यक्कृतभैरवीयबोधाः //
SK
इतियादि / तथा च वक्ष्यते उत्तरस्याप्य् अनुत्तरम् इति / व्याख्यायते चैतत् / एवम् एव नरात्मनः शाक्तम् उत्तरं ततो ऽपि शाम्भवम् / तथा तेष्व् अपि भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्य् एव उत्तरोत्तरत्वम्, भूतादिष्व् अपि पृथिव्यादिरूपतया, जाग्रत उत्तरं स्वप्नः, ततः सुप्तम्, ततस् तुर्यम्, ततो ऽपि तदतीतम्, जाग्रदादिष्व् अपि स्वात्मन्य् एव चतुरादिभेदतया उत्तरोत्तरत्वम् / तद् एतत् श्रीपूर्वपञ्चिकायां मयैव विस्तरतो निर्णीतम् इह अनुपयोगाद् ग्रन्थगौरवाच् च न वितत्योक्तम् / तद् ईदृशम् औत्तराधर्यद्वैतसंमोहाधायि उत्तरत्वम् / तथा विप्रराजन्यविट्सूद्रान्त्यजातिविभागमयम् ऊनाधिकत्वं यत्र न स्यात् / भावप्राधान्यम् उत्तरशब्दस्य उत्तराः पश्यन्त्याद्याः शक्तयः, अघोराद्याः, पराद्याः, ता यत्र न स्युः / नुद प्रेरणे इति नोदनं नुत् / तया तरणं दीक्षाक्रमेण तरः / शिष्यचैतन्ये गुरुचैतन्यं प्रेर्यते / तेन हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कले ऽपि वा पूर्णाहुतियोजनिकादिस्थित्या मोक्षदां दीक्षां विधत्ते / तद् अत्र चैतन्यस्य स्वप्रकाशस्य व्यापिनो दे शकालाकारविशेषाविशेषितस्य कथंकारम् इमा विडम्बनाः /
SK
तद् एवंविधो नुदा प्रेरणेन तरस् तरणं यत्र न भवति तद् अनुत्तरम् / यद् वक्ष्यते
SK
Q: एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी / Q: दीक्षाभवति ...
SK
इति / अनिति स्वसितीति क्विपि अन् अणुर् आत्मा देहपुर्यष्टकादिः / तथा अननं जीवनम् / अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या वृत्तिः, यः शून्यप्रमाता इत्य् अभिहितः, तस्यैवोत्तरत्वं सर्वतः परमार्थतया आधिक्यं यत्र, भैरवैकमयत्वात् / जडाजडभरिते जगति जडैर् जीवदेकमग्नैः स्थीयते, जीवतां च जीवनं नाम प्रागुक्तम्, ज्ञानक्रियारूपम् एकं पारमेश्वर्यं सर्वेषां, परत्रापि हि स्ववद् देहादिर् एव पृथक्तया भाति / यत् पुनः प्राणनं तद् अभेदेनैव स्वप्रकाशम् / एतद् एव च परमार्थो यद् उक्तं श्रीमदुत्पलदेवपादैः
SK
Q: ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् /
SK
इति / तथा जीवनं ज्ञानक्रिये एव इति / अ इति च येयम् अमायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधिस्वात्मचमत्काररूपा शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहंभावप्रथमपर्यवसानोभयभूमिगा कला तस्या एव वक्ष्यमाणनयेन येयं नुद् विसर्गान्तता तस्या एव तरः प्लवनं सर्वोपरिवृत्तित्वं यत्र / अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा नुत् प्रेरणा क्रमात्मकक्रियामयी यत्र तत् अनुद् आकाशादि लोकप्रसिद्ध्या / ततो ऽपि सातिशयम् अनुत्तरम् / तस्यापि ह्य् आकाशादेः संयोगिघटादिचित्रोपाधिवशात् समवायिशब्दादियोगाच् च स्याद् अपि ईदृशी सक्रमा क्रिया / संवित्तत्त्वे तु सर्वतो ऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारे ऽविच्छिन्नचमत्कारमयविश्रान्त्या स्वीकृतशङ्क्यमानोपाधिभावे सकलेदन्तास्पदभावपूगपरिपूरिताहमात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानाभासे इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावाद् अक्रमैव स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा क्रिया इति तद् एव अनुत्तरम् /
SK
अतिशयमात्रे तमपो विधिः, द्विवचनविभज्योपपदे अत्र तरप् / तत्रायं शुक्लो ऽयं शुक्लः, अयम् अनयोर् अतिशयेन शुक्ल इति वाक्ये ऽयम् अर्थः - अनयोः शुक्लयोः मध्यात् अतिशयेनायं शुक्लः शुक्लतरः लेषां तु शुक्लानाम् अयम् अतिशयेन शुक्ल इति को ऽयम् अधिको ऽर्थः / तथा ह्य् अयं प्रासादः शुक्लः, अयं पटः शुक्लः, अयं हंसश् च शुक्लः, एषां सातिशयः शुक्लतम इति / तत्र प्रासादो ऽपि शुक्लः पटो ऽपि शुक्ल इति किम् इव अधिकम् उक्तं स्यात् / तमपि प्रत्यये एवंविधवाक्यकरणम् अयुक्तम् एव / न च तरपः तमप् अधिकम् अतिशयम् अभिदध्यात्, एवं तावत् तु स्यात्, अविवक्षिते प्रतियोगिविशेषे तमप्प्रयोगः, प्रतियोगिविशेषापेक्षायां तु तरप् / प्रतियोग्यपेक्षैव द्विवचनविभज्योपपदार्थः / एक एव हि प्रतियोगी भवेत् / अनयोर् अयं शुक्लो ऽतिशयेन इति न तृतीयः प्रतीयते, निर्धारणार्थेन प्रथमस्यैव प्रतियोगित्वावगतेः / न च द्विप्रभृत्यपेक्षा भवति एकस्य युगपत्, एकैकापेक्षा मता इति तस्य क्रमेण नाधिको ऽर्थः कश्चित् / तारतम्यम् इति तु प्रयोगः क्रमातिशये ऽव्युत्पन्न एव / न तु तरप्तमप्प्रत्ययार्थानुगमात् तार्यं ताम्यम् इत्याद्य् अपि हि स्यात् / तद् अलम् अकाण्डे श्रुतलवकौशलप्रथनेन / इह तूत्तरक्रमिकप्रतियोग्यपेक्षायाम् अनुत्तमम् इत्य् अपि प्रयोगे अयम् एवार्थः / तथाह्य् आगमान्तरे
SK
Q: अद्यापि यन् न विदितं सिद्धानां बोधशालिनाम् / Q: न चाप्य् अविदितं कस्य किम् अप्य् एतद् अनुत्तमम् //
SK
इति / एवं स्वातन्त्र्यसाराकलितक्रियाशक्तिशरीरम् अनुत्तरम् / तद् उक्तम् उत्पलदेवपादैः
SK
Q: सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः / Q: घटते न तु शास्वत्याः प्राभव्याः स्यात् प्रभोर् इव //
SK
इति / तत् व्याख्यातम् इदम् अनुत्तरं षोडशधा / यद् उक्तं सारशास्त्रे
SK
Q: अनुत्तरं तद् धृदयं हृदये ग्रन्थिरूपता / Q: ग्रन्थिं षोडशधा ज्ञात्वा कुर्यात् कर्म यथासुखम् //
SK
इति / तथा
SK
Q: हृदये यः स्थितो ग्रन्थिः
SK
इत्यादि /
SK
तद् ईदृग् अनुत्तरं केन प्रकारेण किम् उत्तररूपपरित्यागेन उतस्विद् अन्यथेति / कश् चायं प्रकारः, यद् अनुत्तरं सर्वम् इदं हि ज्ञानज्ञेयजातं सर्वत एवान्योन्यं भेदमयं विरोधम् उपलभते, ततश् चेदम् औत्तराधर्यं भवेद् एवेति / कस्मिंश् च प्रकारे मोक्ष एव किं वा बन्धाभिमते ऽपीति / थमुप्रत्ययस्य विभक्तिविशेषार्थानियमेन प्रकारमात्रे विधानात् प्रकारमात्रविषय एवायं प्रश्नः / देव इति व्याख्यातम् /
SK
कुलं स्थूलसूक्ष्मपरप्राणेन्द्रियभूतादि समूहात्मतया कार्यकारणभावाच् च / यथोक्तं संहत्यकारित्वाद् इति / तथा कुलं बोधस्यैव आश्यानरूपतया यथावस्थानाद् बोधस्वातन्त्र्याद् एव चास्य बन्धाभिमानात् / उक्तं हि कुल संस्त्याने बन्धुषु च इति / न हि प्रकाशैकात्मकबोधैकरूपत्वाद् ऋते किम् अप्य् एषाम् अप्रकाशमानं वपुर् उपपद्यते / तत्र कुले भवा कौलिकी सिद्धिस् तथात्वदार्ढ्यं परिनिर्वृत्यानन्दरूपं हृदयस्वभावपरसंविदात्मकशिवविमर्शतादात्मयम् / तां सिद्धिं ददाति / अनुत्तरस्वरूपतादात्म्ये हि कुलं तथा भवति / यथोक्तम्
SK
Q: व्यतिरेकेतराभ्यां हि निश्चयो ऽन्यनिजात्मनोः / Q: व्यवस्थितिः प्रतिष्ठाथ सिद्धिर् निर्वृतिर् उच्यते // Aजडप्रमातृसिद्धि_१२
SK
इति / सद्य इति शब्दः समाने अहनि इत्य् अर्थवृत्तिर् उक्तनयेन अह्नो ऽनवस्थितत्वात् समाने क्षणे इत्य् अत्रार्थे वर्तते / समानत्वं च क्षणस्य न सादृश्यम्, अपि तु तत्त्वपर्यवसाय्य् एव / एवम् एव सद्यःशब्दात् प्रतीतिः /
SK
अतस् तस्मिन्न् एव क्षण इति वर्तमानक्षणस्य सावधारणत्वेन भूतभविष्यत्क्षणान्तरनिरासे तदुभयापेक्षकलनाप्राणां वर्तमानस्यापि कालतां निरस्येत यतो यावद् इदं परमेश्वरस्य भैरवभानोः रश्मिचक्रात्मकं निजभासास्फारमयं कुलम् उक्तम् / तच् चेद् अन्तर्मुखपरभैरवसंवित्तादात्म्यलक्षणं निरोधम् एति, तदा तद् एव परमानन्दामृतास्वादमयम् अदेशकालकलितम् अनुत्तरं ध्रुवं विसर्गरूपं सततोदितं / तद् उक्तं श्रीवाद्यतन्त्रे
SK
Q: संरुध्य रश्मिचक्रं स्वं पीत्वामृतम् अनुत्तमम् / Q: कालोभयापरिच्छिन्नं वर्तमाने सुखी भवेत् //
SK
इति / विस्तारितश् च विस्तरतो ऽन्यत्र मयैव कालोभयापरिच्छेदः / तथा कुलात् प्राणदेहादेर् आगता सिद्धिर् भेदप्राणानां नीलसुखादीनां निश्चयरूपा तां ददातीति / शरीरादयो हि झगिति अनुत्तरध्रुवविसर्गवीर्यावेशेन अकालकलितेन प्राणादिमध्यमसोपानारोहेणैव भावानां तथात्वनिश्चयरुपां सिद्धिं विदधते / यथोक्तम्
SK
Q: अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत्
SK
इति / तथा
SK
Q: ... करणानीव देहिनाम् /
SK
इति / तथा कुले शिवशक्त्यात्मनि संनिहिते ऽपि सिद्धिर् उक्तनयेन जीवन्मुक्ततामयी समभिलषिताणिमादिप्रसवपदं / तां सद्यः अनाकलितम् एव भावनाकरणादिरहितत्वेनैव ददाति / यद् उक्तं श्रीसोमानन्दपादैः /
SK
Q: भावनाकरनाभ्यां किं शिवस्य सततोदितेः /
SK
इति / तथा
SK
Q: एकवारं प्रमाणेन शास्त्राद् वा गुरुवाक्यतः / Q: ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना //
SK
Q: करणेन नास्ति कृत्यं क्वापि भावनयापि वा /
SK
इति / कुले जाता सिद्धिः शाक्तहादिरूपप्रसरणाद् आरभ्य बहिर्भावपटलविकासपर्यन्तं भेदावभासना / तां ददाति /
SK
तद् एव ह्य् अनुत्तरं महाप्रकाशात्म अन्तःकृतबोधमयविश्वभावप्रसरम् अनुत्तरत्वाद् एव निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारभराद् भेदं विकासयति / न ह्य् अप्रकाशरूपं भावविकासप्रकाशे कारणं भवेत् / प्रकाशात्मकं चेन् नूनं तत् परमेश्वरभैरवभट्टारकरूपम् एवेति किम् अपरेण वाग्जालेन / तथा येन अनुत्तरेण विशेषेण ज्ञाता मात्रा मानेन प्रमात्मना त्राणं पालनं पतित्वं यासां प्रमातृप्रमाणप्रमेयप्रमितिरूपाणां ता मात्रा विज्ञाता येन तत् विज्ञातमात्रं / तथा विशेषेण प्रतिपत्तिदार्ढ्यबन्धेन यज् ज्ञातं तद् विभातम् एव, न पुनः भावनीयं सकृद्विभातात्मत्वात् / तथा ज्ञातमात्रं ज्ञातम् एव ज्ञेयैकरूपत्वात्, न तु कदाचित् ज्ञातृरूपं घटादि / तथा ज्ञाता ज्ञेयरूपा भेदमयी इयं माया / तदुभयं विगतं यत्र तत् विज्ञातमात्रम् / घटादयो यत्र ज्ञात्रेकरूपत्वेन स्वप्रकाशात्मानः, यत्र च माया न प्रभवति, तेन विज्ञातमात्रेण /
SK
खे ब्रह्मण्य् अभेदरूपे स्थित्वा चरति विषयम् अवगमयति / तथा हानादानादिचेष्टां विधत्ते स्वरूपे चास्ते इति खेचर्य् अन्तर्बहिष्करणतदर्थसुखादिनीलादिरूपा / तथाहि वेद्यवेदकभावानुल्लासिपदे शून्ये संविन्मात्रदृगुल्लासे संवेद्यगतान्तरैक्यरूपदिश्यमानभेदोल्लासे स्फुटभेदोद्रेके च क्रमेण व्योमचरीगोचरीदिक्चरीभूचरीभूता याः शक्तयस् ता वस्तुत उक्तनयेन स्वभावचरखेचरीरूपशक्त्यविभक्ता एवेत्य् एकैव सा पारमेश्वरी शक्तिः / यद् उक्तम्
SK
Q: शक्तयो ऽस्य जगत् कृत्स्नं शक्तिमांस् तु महेश्वरः /
SK
इति / ततः स्त्रीलिङ्गेन निर्देषः / न ह्य् आत्मनो मनस इन्द्रियाणां बाह्यानां च भेदविषयस्य व्यवस्थापनं व्यवस्था च युज्यते, अभिसंधानाद्ययोगाद् अप्रकाशत्वाच् च / सैव खेचरी कामक्रोधादिरूपतया वैषम्येन लक्ष्यते / तस्याः समता सर्वत्रैव परिपूर्णभैरवस्वभावात् / अणुमात्रम् अप्य् अविकलानुत्तरस्वरूपापरिज्ञानम् एव चित्तवृत्तीनां वैषम्यम्, स एव च संसारः, अपूर्णाभिमानेन स्वात्मन्य् अणुत्वापादनात् आणवमलस्य, तदपूर्णरूपपरिपूर्णाकाङ्क्षायां भेददर्शनात् मायाख्यस्य मलस्य, तच्छुभासुभवासनाग्रहेण कार्ममलस्य चोल्लासात् /
SK
स्वरूपापरिज्ञानमयतद्वैषम्यनिवृत्तौ मलाभावात् / क्रोधमोहादिवृत्तयो हि परिपूर्णभगवद्भैरवभट्टारकसंविदात्मिका एव / यद् उक्तं श्रीसोमानन्दपादैः
SK
Q: ... तत् सरत्प्रकृतिः शिवः / इति / तथा
SK
Q: सुखे दुःखे विमोहे च स्थितो ऽहं परमः शिवः /
SK
इति /
SK
Q: दुःखे ऽपि प्रविकासेन स्थैर्यार्थे धृतिसंगमात् /
SK
इत्यादि / क्रोधादिवृत्तयो हि चिच्चमत्कारतादात्म्याद् अन्यथा तत्स्वरूपलाभस्यैवायोगाच् च परमेश्वर्यः करणदेवता एव भगवत्यस् तास् ताः क्रीडा वितन्वत्यः शिवार्कस्य दीधितिरूपाः / तथा ता एव तत्तत्परस्परसांकर्यलब्धासंख्येयरूपास् तत्तदुच्चाटनमारणशान्त्यादिरूपेषु कर्मसु परिकल्पिततत्तत्समुचितसौम्यरौद्रप्रकाराः कृत्यादिभेदाद् देवतात्वेनोपास्या उक्ता मतादिशास्त्रेषु भगवद्भैरवभट्टारकपरिवारभूताश् च / यथोक्तम्
SK
Q: उच्चाटने काकवक्त्रा ... /
SK
इत्याद्य् उपक्रम्य
SK
Q: ता एव देवदेवस्य रश्मयः कादिधारिकाः /
SK
इत्यादि / तथात्वेन त्व् अपरिज्ञातस्वरूपाश् चिच्चमत्कारं विकल्पे ऽपि निर्विकल्पैकसारं तेन तेन विचित्रवर्णाक्षरपुञ्जात्मना घोरतरात्मना विकल्परूपेण देवतात्मना शङ्कातङ्कानुप्रवेशेन तिरोदधत्यः सांसारिकपाश्यपशुभावदायिन्यः / यथोक्तम्
SK
Q: पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर् मुहुः /
SK
इति / तथा
SK
Q: विषयेष्व् एव संलीनान् अधो ऽधः पातयन्त्य् अणून् /
SK
इत्यादि / तथा
SK
Q: शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् / Q: कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः //
SK
इति / ज्ञातस्वरूपास् ता एवोक्तयुक्त्या जीवन्मुक्तताप्रदायिन्यः / तथा उक्तम्
SK
Q: यदा त्व् एकत्र संरूढस् तदा तस्य लयोद्भवौ / Q: नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् //
SK
इति / स्वरूपपरिज्ञानं च एतावद् एव यद् एतासु वृत्तिषूदयसमयनिर्विकल्पैकरूपासु विकल्पो ऽप्य् उदयमानो वर्णराशिसमारब्धतत्तद्विचित्रशब्दारूषितत्वे ऽपि न तादृशेन वर्णपुञ्जात्मना शक्तिचक्रेण युज्यते, यत् तस्य प्राक्तननिर्विकल्पैकव्यवहारमयस्य विकल्पात्मनो मातुः स्वरूपं खण्डयेत् / न च विकल्पा अनुभवाद् विकल्पान्तराद् वा भिन्नाः, अपि तु स एवैकः स्वातन्त्र्यभेदितभावोपरागलब्धभेदभूताद्यभिधविज्ञानचक्रप्रभुः / तद् एवं खेचरीसाम्यम् एव मोक्षः / तच् चानुत्तरस्वरूपपरिज्ञानम् एव सततोदितं परमेश्वर्याः शिवात्मनि संघट्टसमापत्त्या उभयविमर्शानन्दरूढि / शिवो हि परवाङ्मयमहामन्त्रवीर्यविसृष्टिमयः परमेश्वरीविसृष्ट्या तद्वीर्यघनतात्मकप्रसूननिर्भरया सृष्ट्या युज्यते / तथा हि सर्वेषाम् अन्तर्बहिष्करणानां यद् यद् अनुप्रविशति तत् तन् मध्यमनाडीभुवि सर्वाञ्गानुप्राणनसारायां प्राणात्मना चेतनरूपेणास्ते यद् ओज इति कथ्यते / तद् एव सर्वाङ्गेष्व् अनुप्राणकतया तदविभक्तवीर्यरूपत्वेन /
SK
ततो ऽपि पुनर् अपि नयनश्रवणादीन्द्रियद्वारेण बृंहकरूपं रूपशब्दाद्य् अनुप्रविशद् बृंहकत्वाद् एव तद्वीर्यक्षोभरूपकामानलप्रबोधकं भवति / यथोक्तम्
SK
Q: आलापाद् गात्रसंस्पर्शात्
SK
इत्यादि / एकेनैव च रूपाद्यन्यतमेनोद्रिक्तप्राक्तनबलोपबृंहितस्य सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य सर्वसर्वात्मकत्वात् / स्मरणविकल्पनादिनापि सर्वमयमनोगतानन्तशब्दादिबृंहणवशाज् जायत एव क्षोभः / परिपुष्टसर्वमयमहावीर्यम् एव पुष्टिकारि न त्व् अपूर्णं नापि क्षीनम् समुचितं शैशववार्द्धकयोर् / वीर्यविक्षोभे च वीर्यस्य स्वमयत्वेनाभिन्नस्याप्य् अदेशकालकलितस्पन्दमयमहाविसर्गरूपम् एव परिपूर्णभैरवसंविदात्मकं स्वातन्त्र्यम् आनन्दशक्तिमयं सुखप्रसवभूः / नयनयोर् अपि हि रूपं तद्वीर्यक्षोभात्मकमहाविसर्गविश्लेषणयुक्त्या एव सुखदायि भवति / श्रवणयोश् च मधुरगीतादि / अन्यत्रापीन्द्रिये अन्यत् केवलं परिपूर्णसृष्टिताम् नाश्नुते स्वात्मन्य् एवोच्छलनात् / तथा च तद्वीर्यानुपबृंहितानाम् अविद्यमानतथाविधवीर्यविक्षोभात्मकमदनानन्दानां पाषाणानाम् इव रमणीयतरतरुणीरूपम् अपि नितम्बिनीवदनघूर्णमानकाकलीकलगीतम् अपि न पूर्णानन्दपर्यवसायि / यथा यथा च न बृंहकं भवति तथा तथा परिमितचमत्कारपर्यवसानम् / सर्वतो ह्य् अचमत्कारे जडतैव / अधिकचमत्कारावेश एव वीर्यक्षोभात्मा सहृदयता उच्यते / यस्यैव एतद्भोगासङ्गाभ्यासनिवेशितानन्तबृंहकवीर्यबृंहितं हृदयं तस्यैव सातिशयचमत्क्रिया / दुःखे ऽप्य् एष एव चमताक्रः / अन्तर्व्यवस्थितं हि यत् तद् दयितसुतसुखादि वीर्यात्मकं तद् एव भावनासदृशदृगाक्रन्दादिबोधेन क्षोभात्मकम् विकासम् आपन्नं पुनर् न भविष्यतीति नैरपेक्ष्यवशसविशेषचमत्क्रियात्म दुःखसत्त्वम् / तद् उक्तम्
SK
Q: दुखे ऽपि प्रविकासेन
SK
इति / यदा सकलेन्द्रियनाडीभूतमरुदादिपरिपूरणे तु महामध्यमसौषुम्नपदानुप्रवेशे निजशक्तिक्षोभतादात्म्यं प्रतिपद्यते तदा सर्वतो द्वैतगलने परिपूर्णस्वशक्तिभरविमर्शाहन्तामयचमत्कारानुप्रवेशे परिपूर्णसृष्ट्यानन्दरूपरुद्रयामलयोगानुप्रवेशेन तन्महामन्त्रवीर्यविसर्गविश्लेषणात्मना ध्रुवपदात्मकनिस्तरङ्गाकुलभैरवभावाभिव्यक्तिः / तथा हि तन्मध्यनाडीरूपस्योभयलिङ्गात्मनो ऽपि तद्वीर्योत्साहबललब्धावष्टम्भस्य कम्पकाले सकलवीर्यक्षोभोज्जिगमिषात्मकम् अन्तःस्पर्शसुखं स्वसंवित्साक्षिकम् एव / न चैतत् कल्पितशरीरनिष्ठतयैव केवलम् / तदभिज्ञानोपदेशद्वारेणेयति महामन्त्रविसर्गविश्लेषणावाप्तध्रुवपदे परब्रह्ममयशिवशक्तिसंघट्टानन्दस्वातन्त्र्यसृष्टिपराभट्टारिकारूपे ऽनुप्रवेशः / तद् वक्ष्यते
SK
Q: तत्र सृष्टिं यजेद्
SK
इत्यादि / तथा
SK
Q: यथा न्यग्रोधबीजस्थः
SK
इत्यादि / तथा
SK
Q: इत्य् एतद् रुद्रयामलम्
SK
इत्यादि / अन्यत्राप्य् उक्तम्
SK
Q: लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः / Q: शक्त्यभावे ऽपि देवेशि भवेद् आनन्दसंप्लवः //
SK
इति / भरात् स्मर्यमाणो हि स स्पर्शस् तत्स्पर्शक्षेत्रे च मध्यमाकृत्रिमपरात्मकशक्तिनालिकाप्रतिबिम्बितस् तन्मुख्यशाक्तस्पर्शाभावे ऽपि तदन्तर्वृत्तिशाक्तस्पर्शात्मकवीर्यक्षोभकारी भवतीत्य् अभिप्रायेण / तथा
SK
Q: शक्तिसंगमसंक्षोभशक्त्यावेशावसानकम् / Q: यत् सुखं ब्रह्मतत्त्वस्य तत् सुखं स्वाक्यम् उच्यते //
SK
इति /
SK
Q: ... स्नेहात् कौलिकम् आदिशेत् /
SK
इति च / महावीरेण भगवता व्यासेनापि
SK
Q: मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् / Q: संभवः सर्वभूतानां ततो भवति भारत //
SK
इत्य् {अपि} गीतम् / सोमानन्दपादैर् अपि निजविवृतौ
SK
Q: भगवत्या रतस्थाया प्रश्न इति परैकमयत्वे ऽपि तन्मयमहदन्तरालाभिप्रायेण/
SK
इति / तद् अलम् अमुना त्रिकशास्त्ररहस्योपदेशकथातिप्रस्तावेन / तद् इदम् अनुत्तरं कौलिकसिद्धिदं येन ज्ञातमात्रेण खेचरीसाम्यम् उक्तनयेन
SK
एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो
SK
गुह्यम् अप्रकटत्वात् / यतो गुहायां स्वरूपापरिज्ञानमय्यां सत्यां स्थितम् अप्य् अप्रकटम् / अथ च महद् अगुह्यं सर्वस्य एवंविधचमत्कारमयत्वात् / मातृमानमेयमयभेदाविभागशालिनी भगवती शुद्धविद्यैव त्रिकोणा मायायाम् अतिशयप्रतिफलितभेदावग्रहा भवतीति मायापि जगज्जननभूर् विद्यैव वस्तुतः / तद् उक्तेन नयेन सैवंभूतत्वेन परिज्ञायमानत्वाद् अभेदमाहात्म्यतिरोहिततत्प्रमात्रादिकोणत्रयत्वान् महागुहेत्य् उच्यते / सैव च वस्तुतः पूजाधाम त्रिशूलं त्रिकार्थे / तद् उक्तम्
SK
Q: स त्रिकोणा महाविद्या त्रिका सर्वरसास्पदम् / Q: विसर्गपदम् एवैष तस्मात् संपूजयेत् त्रिकम् /
SK
इति / तथा
SK
Q: उदेत्य् एकः समालोकः प्रमाणार्थप्रमातृगः / (Kरमस्तोत्र ओf Eरकनाथ)
SK
इति / ततश् च ईदृश्यां महागुहायां शुद्धविद्याहृदयमय्यां महासृष्टिरूपायां जगज्जन्मभूमौ स्वचमत्काररूपेण भवति यन् मह इति यद् एतद् गुह्यम् / एतेन हि यद् इदम् अविच्छिन्नभैरवभासाविमर्शरूपं स्वातन्त्र्यं भावेभ्यः स्वरूपप्रत्युपसंहारक्रमेण आत्मविमर्शविश्रान्तिरूपत्वम् / प्रकाशस्य हि स्वाभाविकाकृत्रिमपरवाङ्मन्त्रवीर्यचमत्कारात्म अहम् इति / यथोक्तम्
SK
Q: प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः /
SK
इति / तद् एव गुह्यम् अतिरहस्यम् / तथा हि सृष्टिक्रमेण यथाविकृतानुत्तरध्रुवरूपविश्रान्तो भैरवभट्टारकः सकलकलाजालजीवनभूतः सर्वस्यादिसिद्धो ऽकलात्मकः स एव प्रसरात्मना रूपेण विसर्गरूपताम् अश्नुवानो विसर्गस्यैव कुण्डलिन्यात्मकहशक्तिमयत्वात् पुनर् अपि तच्छाक्तप्रसराभेदवेदकरूपबिन्द्वात्मना नररूपेण प्रसरति / तथा पुनर् अपि तन्मूलत्रिशूलप्राणपरशक्तित्रयोपसंहारे तद्विसर्गविश्लेषणया मूलध्रुवपदानुत्तरप्रवेशः सर्वदा / स्फुटयिष्यते चैतद् अविदूर एव / महे परमानन्दरूपे पूर्वोक्ते यद् इदम् उक्तनयेन अ इति रूपं तद् एव गुह्यम् / एतद् एव च महागुह्यं जगज्जननधाम / तथोभयसमापत्त्यानन्देनागुह्यं सर्वचमत्कारमयम् / स्व आत्मन् एव हे प्रभो एवंविधवैचित्र्यकारितया प्रभवनशील / आमन्त्रणम् एतत् / तच् चामन्त्र्यस्यामन्त्रकं प्रति तादात्म्यम् आभिमुख्यं प्रातिपदिकार्थाद् अधिकार्थदायि / यथोक्तम् /
SK
Q: संबोधनाधिकः प्रातिपदिकार्थ /
SK
इति / निर्णीतं चैतन् मयैव श्रीपूर्वपञ्चिकायाम् / एतत् कथय परावाग्रूपतयाविभक्तं स्थितम् अपि पश्यन्तीभुवि वाक्यप्रबन्धक्रमासूत्रणेन योजय / यथोक्तं प्राक्
SK
Q: गुरुशिष्यपदे स्थित्वा ...
SK
इत्यादि / पराभट्टारिकायाश् च पश्यन्त्यादितादात्म्यं निर्णीतं प्राग् एव /
SK
तथा मम इत्य् अस्य प्रत्यगात्मसंबन्धित्वस्य इदंभावस्य यद् गुह्यं मह इत्य् उक्तम् अहम् इति / तथा हि ममेदं भासत इति यद् भासनं तस्य विमर्शः पुनर् अप्य् अहंभावैकसारः / स पुनर् अहंभावो भावप्रत्युपसंहरणमुखेनेति मह इत्य् एतद्रूप एव यथोक्तं प्राक् / यद् उक्तम्
SK
Q: इदम् इत्य् अस्य विच्छिन्नविमर्शस्य कृतार्थता / Q: या स्वस्वरूपे विश्रान्तिर् विमर्शः सो ऽहम् इत्य् अयम् //
SK
इति / अन्यत्रापि
SK
Q: घटो ऽयम् इत्य् अध्यवसा नामरूपातिरेकिणी / Q: परेशशक्तिर् आत्मेव भासते न त्व् इदन्तया //
SK
इति / तद् उक्तं श्रीसोमानन्दपादैर् निजविवृतौ /
SK
Q: अबीजं शुद्धशिवरूपम्
SK
इत्यादि / तद् एवास्माभिर् विपञ्चितम् इति / तथा स्वमम सुष्ठ्व् अविद्यमानं मम इति यस्य / अहन्ताभरैकरूढत्वात् विश्वं न किंचिद् यस्य व्यतिरिक्तनिर्देशप्राणषष्ट्यर्थयोगि भवति / शास्त्रान्तरदीक्षितानां विज्ञानाकलानां प्रलयकेवलिनां च यद्य् अपि ममेति व्यतिरिक्तं नास्ति तथापि यद् भेदयोग्यतावासना स्याद् एव प्रबोधसमये तद्विकासात् अहंभावारूढिः / तदपाकृत्यै सुष्ठुशब्दार्थे सुः / यद् उक्तं मयैव स्तोत्रे Q: यन् न किंचन ममेति दीनतां प्राप्नुवन्ति जडजन्तवो ऽनिशम् / Q: तन् न किंचन ममास्मि सर्वम् इत्य् उद्धुरां धुरम् उपेयिवान् अहम् //
SK
इति / शोभनेन द्वैतकलङ्काङ्कनाकालुष्यलेषशून्येनामेन परमार्थोपदेशद्वयात्मना ज्ञानेन मा मानम् अवबोधो यस्य स्वप्रकाशैकरूपत्वात् / अमतीति अमा, अ इति मा यत्र, अविद्यमानं मा मानं निषेधश् च यत्र, नित्योदितत्वात् संहारश् च यत्र नास्ति, सा भगवती अमा इति उच्यते / अमा शोभना सततोदिता यत्र मायायां प्रमाणप्रमेयव्यवहृतौ सा तादृशी मा यस्येति बहुव्रीह्यन्तं बहुव्रीहिः /
SK
परमेश्वरो हि प्रमाणादिव्यवहारे ऽपि परशक्तिमय एव सर्वथाद्वैतरूपत्वात् तस्य / आमन्त्रणम् आत्मन एव /
SK
इदम् एव सार्धश्लोकनिरूपितानन्तप्रश्नतात्पर्यम् / संग्रहेणैतद् उक्तं भवतीति निर्णेतुं निरूप्यते /
SK
हृदयस्था तु या शक्तिः कौलिनी कुलनायिका //
SK
तां मे कथय देवेश येन तृप्तिं लभाम्य् अहम्
SK
सर्वस्य नीलसुखादेर् देहप्राणबुद्ध्यादेश् च परं प्रतिष्ठास्थानं संविदात्म हृत् / तस्यैव निजस्वातन्त्र्यकल्पितभेदा अया विचित्रानि घटादिज्ञानानि / तत्स्था इयं स्फुरणमयी शक्तिः कुलस्य नायिका शरीरप्राणसुखादेः स्फुरत्तादायिनी ब्राह्म्यादेवताचक्रस्य वीर्यभूता निखिलाक्षनाडिचक्रस्य मध्यमध्यमरुपा जननस्थानकर्णिका लिङ्गात्मा अस्ति / तत्रैव च कुले भवा कुलरूपा कौलिकी / यद् वा कुले भवम् अकुलात्म कौलम् / तद् यस्याम् अन्तस् तादात्म्येनास्ति सा कौलिकी / कुलं ह्य् अकुलप्रकाशरूढम् एव तथा भवति / यद् उक्तम्
SK
Q: अपि त्व् आत्मबलस्पर्शात् /
SK
इति / तथा
SK
Q: तद् आक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः / Q: प्रवर्तन्ते ऽधिकाराय करणानीव देहिनाम् //
SK
इति / देवानां ब्रह्मविष्णुरुद्रादीनाम् ईशस्यामन्त्रणं / तन् मे कथय इत्य् अपि पठन्ति श्रीसोमानन्दपादा व्याचक्षते च तत् तस्माद् इति / यद् वा तत् कथय येन तृप्तिं परमानन्दमयीं लभे परमाद्वयनिर्वृतिस्वातन्त्र्यरसीभवामीति समन्वयः / व्रजामि इत्य् अपि पाठः / अहम् इत्य् अनेन सर्वप्रमातृजीवनरूपम् एव सततं परामृश्यते / तच् चैवम् अभिहितस्वरूपोपदेशेन प्रत्यभिज्ञाय निजम् ईश्वररूपं परिपूर्णभावात्मिकां तृप्तिं विन्दतीति प्राक् प्रकटितम् एव /
SK
तद् उक्तं सोमानन्दपादैः स्वविवृतौ
SK
Q: हृद्य् अयो गमनं ज्ञानम्
SK
इत्यादि /
SK
इति शिवरसं पातुं येषां पिपासति मानसं सततम् अशिवध्वंसे सत्तां शिवेन निवेशिताम् / हृदयगगनग्रन्थिं तेषां विदारायितुं हठाद् अभिनव इमां प्रश्नव्याख्यां व्यधात् त्रिकतत्त्वगाम् //
SK
तद् अत्र प्रश्नसर्वस्वे
SK
व्याख्यातं प्राग् एवैतत् / किं पुनरुक्ततापादनेन / भैरवो भरणात्मको महामन्त्ररवात्मकश् च / केवलम् अत्र शक्तिमत्प्राधान्यं संहाररूपेण मह इत्य् एवंरूपम् इत्य् उक्तं प्राक् स्फुटीभविष्यति चाग्रत एव / तद् इयान् अत्र तात्पर्यार्थः /
SK
परा भगवती संवित् प्रसरन्ती स्वरूपतः / परेच्छाशक्तिर् इत्य् उक्ता भैरवस्याविभेदिनी //
SK
तस्याः प्रसरधर्मत्वाज् ज्ञानशक्त्यादिरूपता / परापरापरारूपपश्यन्त्यादिवपुर्भृतिः //
SK
तद् एव प्रसराकारस्वरूपपरिमर्शनम् / प्रश्न इत्य् उच्यते देवी तन्मयप्रश्नकारिणी //
SK
तस्य प्रसररूपस्या परामर्शनम् एव यत् / तद् एव परमं प्रोक्तं तत्प्रश्नोत्तररूपकम् //
SK
तद् एवापरसंवित्तेर् आरभ्यान्तस्तरां पुनः / परसंविद्घनानन्दसंहारकरणं मुहुः //
SK
अन्तर्भावितनिःशेषप्रसरं भैरवं वपुः / प्रतिवक्तृस्वरूपेण सर्वदैव विजृम्भते //
SK
एतौ प्रसरसंहाराव् अकालकलितौ यतः / तद् एकरूपम् एवेदं तत्त्वं प्रश्नोत्तरात्मकम् //
SK
तद् एवं परसंबन्धम् अनुत्तरतयान्वितम् / षडर्धसारसर्वस्वं गुरवः प्राङ् न्यरूपयन् //
SK
शृणु देवि महाभगे उत्तरस्याप्य् अनुत्तरम् //
SK
यद् अयं कौलिको विधिर् मम हृद्व्योम्न्य् अवस्थितः कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् //
SK
देवि इति प्राग्वत् / महान् भागो यस्या या भज्यमाना उक्तवक्ष्यमाणोपदेशानुशीलनेन सेव्यमाना पारमेश्वर्याख्यमहाबलदा भवतीति / महत् परममहद्रूपतया प्रसिद्धो ऽनाश्रितशिवरूपः स यस्या भाग अंशः / पारमेश्वरी हि शक्तिः अनन्तषट्त्रिंशदादितत्त्वगर्भिणी / महान् बुद्ध्यादिस् तत्त्वविशेषो भागो विभागः कलापेक्षि रूपं यस्याः / पारमेश्वरी हि संविदेकघनशक्तिः स्वस्वातन्त्र्योपकल्पितभिन्नज्ञेयकार्यप्रतिष्ठापदत्वे बुद्धिर् इत्य् उच्यते / यद् उक्तं श्रीसोमानन्दपादैः
SK
Q: ... अपरस्थितौ //
SK
Q: सा बुद्धिर् यत् पुनः सूक्ष्मं सर्वदिक्कम् अवस्थितम् / Q: ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा //
SK
इति / भागो भेदः स यत्रास्तीति मत्वर्थीयाकारप्रत्ययान्तेन भागशब्देन विभक्तं रूपम् उच्यते / विभक्ते च वपुषि परिच्छेदो ऽन्योन्यव्यवच्छेदेनैव भवतीति प्रसादात्मकविषयनिश्चयो बुद्धाव् उपजायमानो ऽपररम्यारम्यादिविश्ववर्तिनो भावान् अस्पृशन्न् एव प्रत्युत तान् व्यवच्छिन्दन् उपजायत इति / सुखवृत्तिबुद्धेर् धर्मैश्वर्यादिरूपत्वात् सत्त्वात्मको गुणनिःष्यन्द इति गीयते / यदि तु तत्रापि अन्तस्तमाम् अनुप्रविश्यते तत् तद्द्वारेणैव तन्मूलवर्तिनि परमानन्दधाम्नि भवेद् एव सततम् उदयः / अत एव महस्य सर्वतो ऽखण्डितपरिपूर्णनिरर्गलनिरपेक्षस्वातन्त्र्यजगदानन्दमयस्य आ ईषद् भागाः सुखलक्षणा अंशाः / यतो यत् यत् किल सुखं तन्महानन्दनिर्वृतिपरमधाम्नि विसर्गशक्ताव् अनुप्रवेशात् तथा ऽचेत्यमानतया कियद्रूपतां प्राप्तम् /
SK
तद् उक्तं भट्टनारायणेन
SK
Q: त्रैलोक्ये ऽप्य् अत्र यो यावान् आनन्दः कश्चिद् ईक्ष्यते / Q: स बिन्दुर् यस्य तं वन्दे देवम् आनन्दसागरम् //
SK
इति प्राङ्नयेन यद् उक्तं मह इति रूपं तद् एव भजनीयं यस्याः / परमेश्वरस्य हि स्वचमत्कारबृंहितं यद् अहम् इति तद् एव शाक्तं वपुः, तद् एव च पराभट्टारिकारूपम् इत्य् उच्यते / अत एव सैव च परमेश्वरी सर्वं शृणोति / श्रवणाख्यया सत्तया तिष्ठन्ती श्रवणसंपुटस्फुटक्रमिकस्वस्पन्दमयवर्णराशिनिष्ठम् ऐकात्म्यापाद् अनरूपसंकलनानुसंधानाख्यं स्वातन्त्र्यम् / तेन हि विना कलकललीनशब्दविशेषं शृण्वन्न् अपि न शृणोमीति व्यवहरति प्रमाता / कलकलमात्रविषयम् एव तु संकलनम् इति तत्रैव श्रुतम् इति व्यवहारः / वस्तुतस् तु स कलकलध्वनिः श्रोत्राकाश अनुप्रविशन् वर्णान् अनुप्रवेशयन् तथा भवेत् तद्वर्णातिरिक्तस्य कलकलस्यैवाभावात् / तद्वर्णविशेषविवक्षायां च कलकलस्य च कारणाभावाद् एवानुत्पत्तिः स्यात्, तद्विवक्षोत्पन्नस्फुटवर्णमयशब्दकार्यत्वे ऽपि सजातीयशब्दोत्पत्त्युपपत्तेः / सर्वथा त एव वर्णास् तेन स्फुटरूपेण संकलनाम् अगच्छन्तः कलकलशब्दवाच्याः / तत्संकलनावधानोद्युक्तस्य भवेद् एव कियन्मात्रस्फुटोपलम्भ इति संकलनम् एवात्रोपयोगि / संकलनं च भगवती सैव परा परमेश्वरी करोति / यद् उक्तम्
SK
Q: तद् आक्रम्य बलं मन्त्राः
SK
इत्यादि / वस्तुतो हि शृणोति पश्यति वक्ति गृह्णातीत्यादि भगवत्या एव रूपम् / यथोक्तम्
SK
Q: येन रूपं रसं गन्धं स्पर्शशब्दौ च मैथुनम् / Q: एतेनैव विजानाति किम् अत्र परिशिष्यते //
SK
इति वेदान्ते परमेश्वरेण /
SK
न तु श्रवणं नाम स्फुटकलकलात्मकतारगद्गदादिरूपवर्णाकर्णनम् एव / तथा हि श्रीपरमेश्वर एव श्रीस्वच्छन्दशास्त्रे जपविभागनिर्णयावसर एवम् एव निरूपितवान्
SK
Q: आत्मना श्रूयते यस् तु स उपांशुर् इति स्मृतः / अत्र हि मध्यमापदे आत्मैव संशृणुते नापर इत्य् उक्तम् / स्थानादिप्रयत्नस्फुटतायां दन्तौष्ठपुटादिसंयोगविभागेनातिनिभृतम् अपि शब्दोच्चारे निकटतरवर्तिपरश्रवणम् अपि स्याद् इति सशब्दतापात्तिर् एव /
SK
Q: परैः संश्रूयते यस् तु सशब्दोऽसौ प्रकीर्तितः /
SK
इत्य् उक्तं / यतः न चात्र निकटादिविशेषः कश्चिद् इति / परप्रमातृदर्शनमात्रगोचरजिह्वोष्ठपुटादिसंयोगे तु यद्य् अप्य् आत्मन एव श्रवणं स्यान् न परस्य तथापि मध्यमापदम् एवैतत् संपद्यते वर्णस्य बहिरात्मलाभाभावात् / वाय्वभिघाताद् धि स्फुटवर्णनिष्पन्न एव / न च तत्र वाय्वभिघातो बाह्यतापत्तिपर्यन्तः स्यात् / ओष्ठादिचलनम् अपि न तत्र वर्णांशे ऽनुप्रविशेद् अपि तु स्वात्मनिष्ठम् एव तात्कालिकं तत् स्यात् / तात्कालिकेङ्गितनिमिषितकरव्यापारादिस्थानीये स्फुटस्थानकरणप्रयत्नयोगे तु वर्णनिष्पत्ताव् अपि यदि नाम ध्वनीनां तारतम्येन तारमन्द्रादिविभागे दूरादूरादिश्रवणं स्यात्, सर्वथा परैः श्रूयत इति वैखरीपदम् एवैतद् इत्य् अलं प्रसक्तानुप्रसक्त्या / सैव परमेश्वरी आमन्त्रणयोगेन स्फुटं शक्तिरूपतयोक्ता / नरशक्तिशिवात्मकं हीदं सर्वं त्रिकरूपम् एव / तत्र यत् केवलं स्वात्मन्य् अवस्थितं तत् केवलं जडरूपयोगि मुख्यतया नरात्मकं घटस् तिष्ठतीतिवत् / एष एव प्रथमपुरुषविषयः शेषः / यत् पुनर् इदम् इत्य् अपि भासमानं यदामन्त्र्यमाणतया आमन्त्रकाहंभावसमच्छादिततद्भिन्नेदंभावं युष्मच्छब्दव्यपदेश्यं तच् छाक्तं रूपं त्वं तिष्ठसीति / अत्र ह्य् एष एव युष्मच्छब्दार्थो आमन्त्रणतत्त्वं च /
SK
तथा हि यथाहं तिष्ठामि तथैव अयम् अपीति तस्याप्य् अस्मद्रूपावच्छिन्नाहंभावचमत्कारस्वातन्त्र्यम् अविच्छिन्नाहंचमत्कारेणैवाभिमन्वान आमन्त्रयते युष्मदर्थेन मध्यमपुरुषेण व्यपदिशति / सेयं हि भगवती परापरा / सर्वथा पुनर् अविच्छिन्नचमत्कारनिरपेक्षस्वातन्त्र्याहंविमर्शे अहं तिष्ठामीति पराभट्टारिकोदयो यत्रोत्तमत्वं पुरुषस्य / यद् उक्तम्
SK
Q: यस्मात् क्षरम् अतीतो ऽहम् अक्षराद् अपि चोत्तमः / Q: अतो ऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः //
SK
इति / अत्र क्षराक्षररूपाद् उभयतो ऽपि ह्य् उत्तमत्वम् अस्मीत्य् अस्मदर्थेनोक्तम् / न ह्य् अत्र सर्वत्र अहम् इति परिमितं शरीरद्य् अपदिश्यते तस्य प्रत्यक्षेणैव ताद्रूप्यविरोधात् / तद् एवम् ईदृशं स्वयंप्रथात्मकं शिवात्मकं रूपम् / अत एव बोधस्यास्य स्वसंवित्प्रथात्मकस्य किंचिन् नोनं नाप्य् अधिकं तस्याप्रकाशरूपस्य चिन्मये अननुप्रवेशात्, तदपेक्षया च माध्यस्थ्यम् अपि न किंचिद् इत्य् उपचयापचयमध्यस्थानीयेदन्तानिर्देश्यभावलब्धप्रतिष्ठाने न प्रभवन्ति तद्बोधाविच्छेदरूपा अस्मदर्थाः / विच्छेदितो ऽपि युष्मदर्थ एवम् एवेति / अत एव अलिङ्गे युष्मदस्मदी गीते / देहगतसंख्याध्युपचारेण परापरादिशक्तिगर्भीकारात् संख्यायोगस् तूपपद्यते / तथा हि स्वस्वातन्त्र्योपकल्पितभेदावभास्य् अनन्तशरीराद्य् एकतयैव विमृशेद् आवां युवां वयं यूयम् इति च / उपचयाद्यास् तु देहगता उपचरितुम् अपि न शक्याः, चिद्रूपस्योनाधिकतानुपपत्तेः / सर्वं हि सर्वात्मकम् इति नरात्मानो जडा अपि त्यक्ततत्पूर्वरूपाः शाक्तशैवरूपभाजो भवन्ति, शृणुत ग्रावाणः , मेरुः शिखरिणाम् अहं भवामि , अहं चैत्रो ब्रवीमीत्य् अपि प्रतीतेः / शाक्तम् अपि युष्मदर्थरूपम् अपि नरात्मकतां भजत एव शक्तरूपम् उज्झित्वा त्वं गतभयधैर्यशक्तिर् इत्य् अनामन्त्रणयोगेनापि प्रतिपत्तेः / भवान् इत्य् अनेन पादा गुरव इत्यादिप्रत्ययविशेषैश् चापरावस्थोचितनरात्मकप्रथमपुरुषविषयतयापि प्रतीतिसद्भावात् /
SK
त्यक्तशाक्तरूपस्यापि चाहंरूपशिवात्मकत्वम् अपि स्यात्, वयस्ये दयिते शरीरचित्तत्त्वम् एवाहं भवामीति प्रत्ययात् / शिवस्वरूपम् अपि चोज्झितचिद्रूपम् इव नरशक्त्यात्मकं वपुर् आविशत्य् एव / को ऽहम्, एषो ऽहम्, अहो अहं, धिक् माम्, अहो मह्यम् इत्यादौ ह्य् अहम् इति गुणीकृतम् अविच्छिन्नं स्वातन्त्र्यम् / मुख्यतया तु विच्छिन्नैवेदन्ता प्रतीयते यत्र भगवत्या अपराया उदयः / हे ऽहम् इत्यादौ परापरशाक्तस्पन्दस्पर्श एव शिवस्य / किं तु पूर्वं पूर्वम् अव्यभिचरितम् उत्तरत्र / तेन नररूपं स्फुटयैव प्रतिपत्त्या शाक्तशांभवधुरम् आरोढुं शक्नुयाद् एव / न पुनर् वैपरीत्येनारोहणं स्फुटप्रतीतिमयम् / अत्यक्तनिजनिजरूपतया त्र्यात्मकत्वाद् एकद्विबहुरूपभागित्वम् एति प्रत्येकम् एतत् त्रिकम् / उक्तं हि
SK
Q: एकं वस्तु द्विधा भूतं द्विधा भूतम् अनेकधा /
SK
इति / एकात्मकत्वे ह्य् अप्रतियोगित्वाच् छिवता प्रतियोगिसंभवे शाक्तत्वम् अनेकतायां भेद एव नरात्मभाव एकस्यैव / घटः घटपटौ घटाः घटपटपाषाणा इत्य् अपि हि तिष्ठति तिष्ठतः तिष्ठन्तीति चैक्येनैव क्रियाशक्तिस्फुरितम् एवैतत् / यथोक्तं
SK
Q: अनेकम् एकधा कृत्वा को न मुच्येत बन्धनात् /
SK
इति / अत एव नरशक्तिशिवात्मनां युगपद् एकत्र परामर्शे उत्तरोत्तरस्वरूपानुप्रवेश एव तस्यैव वस्तुतस् तत्परमार्थरूपत्वात् / स च त्वं च तिष्ठथः, स च त्वं चाहं च तिष्ठाम इति प्रतीतिक्रम एवाकृतकसंस्कारसारः शाब्दिकैर् लक्षणैर् अनुगम्यते / तथा च निजभाषापदेष्व् अपि संस्कारस्य यत्र नामापि न अवशिष्यते बौद्धान्द्रद्रविडादिषु तत्राप्य् अयम् एव वाचनिकः क्रमः /
SK
वचनक्रमश् च हार्दीम् एव प्रतीतिं मूलतो ऽनुसरन् तत्प्रतीतिरसरूपतया प्रतीतेर् अप्य् एवंरूपत्वम् अवगमयेत् / यथोक्तं मयैव
SK
Q: ... न हृदयंगमगामिनी गीः /
SK
इति / तत् सर्वथाकृतकैवेयं प्रतीतिः / यथोक्तम्
SK
Q: न तैर् विना भवेच् छब्दो नार्थो नापि चितेर् गतिः /
SK
इति / श्रीमालिनीतन्त्रे ऽपि / Q: एवं सर्वाणुसंघातम् अधिष्ठाय यथा स्थिता / Q: तथा ते कथिता शम्भोः शक्तिर् एकैव शांकरी //
SK
इति / श्रीतन्त्रसमुच्चये ऽपि
SK
Q: नरशक्तिशिवावेशि विश्वम् एतत् सदा स्थितम् / Q: व्यवहारे क्रिमीणां च सर्वज्ञानां च सर्वशः //
SK
इति / तद् एव नरशक्तिशिवात्मकं स्फुटप्रतिपत्तिसंप्रदायोपदेशेन दर्शितम् / नरः शक्तिः शिव इति तु सर्वंसहः प्रतिपत्तिक्रमः परमेश्वरेच्छास्वातन्त्र्यसृष्ट इत्य् अलं परशक्तिपातपवित्रितबहुश्रुतसहृदयसोपदेशकतिपयजनहृदयहारिण्या प्रसक्तानुप्रसक्त्या /
SK
तद् व्याख्यातं \प्रतिक{शृणु देवि} इति / \प्रतिक{उत्तरस्यापि} इति यद् उक्तं कथम् अनुत्तरम् इति तत्र प्रतिवचनम् / उत्तरस्यापि संनिहितस्य यद् अनुत्तरम् / प्रागुक्तक्रमेण ह्य् उत्तरम् अप्य् अनुत्तरतादात्म्येनैव भवेत् नान्यथा / अत एव उत्तरम् अप्य् अनादृत्य
SK
Q: अनादरे षष्ठी /
SK
उत्तरं रूपं ह्य् अनादृततद्भावम् अनुत्तररूपम् एव / भेदो ह्य् अयम् उत्तररूपो नितराम् एवाभेदभुवम् अधिशय्य तथा भवेत् / यथोक्तम्
SK
Q: परव्यवस्थापि परे यावन् नात्मीकृतः परः / Q: तावन् न शक्यते कर्तुं यतो बुद्धः परः परः //
SK
इति /
SK
तथोत्तरस्यापि ग्रन्थभागस्यानुत्तरं तेनापि उत्तरीतुं न शक्यते / पश्यन्त्या अपि पराभट्टारिकायाः प्रथमप्रसरत्वाद् उत्तरस्यापि च मदीयस्यैतद् एवानुत्तरं परमार्थः / उत्तरस्य त्रिशूलप्रेरणादिमयस्य यद् अनुत्तरं विश्रान्तिस्थानम् / किं तद् इत्य् आह यतः स्याद् अयं कौलिको विधिः / कौलिकः कुलाकुलात्मा प्राग् व्याख्यातः विधीयमानत्वाद् विधिर् महासृष्टिरूपो गर्भीकृतानन्तसृष्ट्यादिकोटिशतो यस्मात् प्रसृत एतद् एव तद् अनुत्तरम् / यद् उक्तम्
SK
Q: यतः सर्वम्
SK
इति / तथा हीदं विश्वं चिच्चित्तप्राणदेहसुखदुःखेन्द्रियभूतघटादिमयम् एकस्यां परस्यां परमेश्वर्यां भैरवसंविद्य् अविभागेनैव बोधात्मकेन रूपेणास्ते / यद्य् अपि बोधात्मकं रूपं नास्तमेति जातुचिद् अपि तदस्तमये अप्रकाशमानतापत्तेः, तथापि परस्पराभावात्मको ऽवच्छेदः तत्र नास्ति / विश्वात्मान एव भावाः, तत्र च यद्य् एषाम् अवस्थितिर् न स्यात् तत् प्रथमानुसंधानादिकम् एवाक्षप्रेरणोपयोग्य् अपि न भवेद् इति समुचितानुदितेदन्ताकम् अहंपरामर्शमात्राभिन्नम् एव भावजातं विगतभेदकलनं तिष्ठति / न तत्र कश्चिद् अवच्छेदः / तथा यद् यत्र स्पष्टः सन्न् अयं विधिः कौलिकः स्थितो विश्रान्तिं प्राप्तः / सर्वम् इदं हि षट्त्रिंशदात्म ततः सामान्यस्पन्दसंविदात्मनः शक्तिमतः परशक्तिप्रधानाच् छिवात् स्वशक्त्या सृष्टम् अपि सत् तत्रैव भैरवविशेषस्पन्दात्मनि शक्तिप्रधाने स्वस्वरूपे विश्राम्येत् / तद् एव स्वस्वभावनिष्ठितत्वं भावानाम् / यद् उक्तं
SK
Q: यस्मिन् सर्वम्
SK
इति / तद् एतद् शिवशक्त्यात्मैव सामान्यविशेषरूपम् एकात्मकम् अपि परमेश्वरेणैवोपदेशोपायप्रवेशाय पृथक्कृत्य निरूप्यमाणं वस्तुतः पुनर् एकम् एव स्वतन्त्रचिन्मयम् अहम् इत्य् ऐश्वर्यशक्तिसारम् अनुत्तरम् / यत्र कीदृशे स्वस्वरूपे ऽवस्थितः
SK
Q: मम हृद्व्योम्नि /
SK
ममेति यद् एतद् धृदयं सर्वभावानां स्थानं प्रतिष्ठाधाम / नीलादीनां ह्य् अन्ततः क्रिमिपर्यन्तं चिदंशानिविष्टानां न किंचित् नीलादिरूपम् इति प्रमातुर् एव यत्
SK
Q: ममेति
SK
अविच्छिन्नचमत्कारांशोपारोहित्वं
SK
Q: मम नीलं भातम्
SK
इति तदेव नीलादिरूपत्वम् इति /
SK
तस्य ममेत्य् अस्य नीलाद्यनन्तसर्वभावहृदयस्य यद् व्योम यत्र तत् ममकारात्मकं विश्वं सम्यग् धृतम् / अत एव त्यक्तभिन्ननिजरूपतया शून्यरूपं व्योम यत्र / तथा ममेत्य् अस्य भिन्नाभिन्नरूपपरापरसंविदात्मनो यद् धृदयं पर्यन्तप्रतिष्ठाधाम अहम् इति तस्यापि व्योम संहाररूपकलनेन मह इति नरात्मकं लीनं बिन्द्वात्मशक्तौ म इति, कुण्डलिनीहकलारूपायां प्रविश्य परिपूर्णनिरर्गलचमत्कारे सर्वाविच्छिन्ने अ इत्य् अनुप्रविष्टं तथा भवति / एतद् एव मम हृद्व्योम / एवं यत इदं प्रषृतं यत्र च विश्रान्तं तद् एव नित्यम् अनावृतस्वभावं स्वयं प्रथमानम् अनपह्नवनीयम् अनुत्तरम् / यथोक्तम्
SK
Q: यत्र स्थितम् इदं सर्वं कार्यं यस्माच् च निर्गतम् / Q: तस्यानावृतरूपत्वान् न निरोधो ऽस्ति कुत्रचित् /
SK
इति / आवरकत्वेन निरोधकाभिमतो ऽपि हि तदावरणादिस्वातन्त्र्येण प्रकाशमानो दृक्क्रियात्मक एव परमेश्वरः / यद् इत्य् अयं निपातः सर्वविभक्त्यर्थवृत्तिर् अपरवाक्यीयसंबन्धौचित्याद् विशेषे स्थास्नुर् अत्र पञ्चम्यर्थे सप्तम्यर्थे च वर्तते / अयं ह्य् आञ्जस्येन अर्थो यद् अयं कौलिकः सृष्टिप्रसरः, यच् च मम हृद्व्योम्न्य् अवस्थितस् तद् एवानुत्तरम् /
SK
एवं तस्यैव प्रसरविश्रान्त्युभयस्थानत्वं निरूप्य प्रसरक्रमस्वरूपं क्रियाशक्तिस्पन्दविसर्गं निरूपयति
SK
Q: कथयामि
SK
इत्यादि / तद् एव हि रूपम् अहं परानुत्तरात्म परापरादिमयपश्यन्त्यादिप्रसरपरिपाट्या ऽविच्छिन्नैकतापरमार्थः कथयामीति समुचितव्यपदेशं पराभट्टारिकोदयभागि वैखर्यन्तं वाक्यप्रबन्धं शास्त्रीयलौकिकादिबहुभेदं व्यक्तयामीति / तदुक्तम्
SK
Q: ... सर्वतश् च यः
SK
इति / प्रथमपर्यन्तभुवि पराभट्टारिकात्मनि तत्प्रसरात्मनि च परापरादेवतावपुष्य् अनुत्तरध्रुवपदविजृम्भैव / तद् आहुर् निजविवृतौ श्रीसोमानन्दपादाः कथयामित्य् उच्चारयाम्य् उत्कलिकात इति / तथाहम् एव सर्वस्यान्तश् चिद्रूपेण कथयामीति / तद् एवास्माभिर् युक्त्युपदेशसंस्कारैर् निर्मलय्य हृदयङ्गमीकृतम् /
SK
स्वरूपं चास्य परमेश्वरस्य सद्य इति / य एव च परमेश्वरो भैरवात्माकुलानुत्तरध्रुवधामतयोक्तस् तद् एवेदं सर्वं सत् कौलिकविधिरूपम् / न हि प्रकाशविमर्शशुद्धभैरवस्वरूपातिरेकि किंचित् भावानां सत्त्वम् / सत्तासंबन्धार्थक्रियाकारित्वादीनाम् अपि सत्ताहेतुतापराभिमतानाम् अपि सत्ताऽयोगे तथात्वानुपपत्तेः सत्त्वान्तरार्थाक्रियान्तरयोगे चानवस्थापत्तेः /प्रथमत एव तथा विमर्शजीवितप्रकाशमयत्वम् एव सत्त्वं, तच् च स्वातन्त्र्यविमर्शसाराहंभावभरितम् इति भैरवरूपम् एव / यद् वा सति सद्रूपे यस्यति यत्नं करोति क्रियाशक्तिप्राणत्वात् / तत् सद्य इति क्विपि नपुंसकनिर्देशः / सद् यद् इति केचित् गुरवः पठन्ति / तद् उक्तं श्रीसिद्धसन्ताने
SK
Q: प्रकाशमानाभासैव यद् भूतिस् तत् सद् एव हि /
SK
इति / श्रीस्पन्दे ऽपि
SK
Q: ... तद् अस्ति परमार्थतः /
SK
इति / श्रीसोमानन्दपादैर् अपि
SK
Q: यत् सत् तत् परमार्थो हि परमार्थस् ततः शिवः /
SK
इति स्वरूपम् उक्तम् / तद् उक्तं \प्रतिक{यः सर्वं} इति / अस्यैव क्रियाशक्तिप्रसरं निरूपयति \प्रतिक{कौलिकसिद्धिदम्} इति / कौलिकं यत् व्याख्यातम् / तस्य सिद्धिः तथात्वदार्ढ्यम् / तद् यतो भवति / तत्र हि परमार्थप्रमातरि सकलं कुलाकुलादि तथा भवति / यत्र प्रतीयमानं सर्वं तथात्वदार्ढ्यं भजते / तद् उक्तम्
SK
Q: कुलात् परतरं त्रिकम् /
SK
इति / अन्यत्रापि
SK
Q: वेदाच् छैवं ततो वामं ततो दक्षं ततः कुलम् / Q: ततो मतं ततश् चापि त्रिकं सर्वोत्तमं परम् //
SK
इति / श्रीनिशाचारे ऽपि
SK
Q: वाममार्गाभिषिक्तो ऽपि दैशिकः परतत्त्ववित् / Q: संस्कार्यो भैरवे सो ऽपि कुले कौले त्रिके ऽपि सः //
SK
इति /
SK
श्रीसर्वाचरे ऽ पि
SK
Q: वाममार्गार्गाभिषिक्तो ऽपि दैशिकः परतत्त्ववित् / Q: क्रमाद् भैरवतन्त्रेषु पुनः संस्कारम् अर्हति //
SK
इति / क्रमश् चैष एव / यथोक्तम् एवं यत् सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति / यथोक्तम्
SK
Q: यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः /
SK
इति / तद् एवानुत्तरम् / एतत् सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः,
SK
Q: किं बहुना सर्वम् एवानुत्तरम् अनुत्तरत्वाद्
SK
इति / अयं तात्पर्यार्थः
SK
इति / ईदृग् व्याख्यानं त्यक्त्वा यद् अन्यैर् व्याख्यातं तत्प्रदर्शनं दूषणम् / यद्य् अपि पदवाक्यसंस्कारविहीनैः सह व्रीडावहा गोष्ठी कृताभवति तथापि सचेतसो ऽनुत्तरम् अवबोधयितुं तद् एकवारं तावल् लिख्यते / \प्रतिक{अनुत्तरम्} इत्यादिना सार्धेन श्लोकेन शिवविषयः प्रश्नः / \प्रतिक{हृदयस्था} इत्यादिना श्लोकेन शक्तिविषयः / तथा \प्रतिक{शृणुदेवि} इत्य् अत्र प्रतिवचनग्रन्थे \प्रतिक{उत्तरस्याप्य् अनुत्तरम्} इति तत्रार्थ उत्तरं च शृण्व् अनुत्तरं चेति / अत्र यद्य् एषा त्रिकार्थाभिप्रायेण व्याख्या तन् नरविषयतृतीयप्रश्नप्रसङ्गः / अथ तु यामलाभिप्रायेण तत्रापि न द्वे वस्तुनी शिवशक्त्यात्मके यामलम् उच्यते येन पृथक् प्रश्नविषयतोपपत्तिः / अथशब्दार्थश् च न संगच्छते / स हि सजातीयनिश्चयानन्तर्यवृत्तिः / उत्तरस्वरूपावधारणम् अन्तरेण चानुत्तरविषयस्यैकप्रश्नस्यानुपपत्तिः / तथाहि केषुचिद् वृद्धपुस्तकेष्व् ईदृक् श्लोकान्तरं दृश्यते
SK
Q: श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर / Q: उत्तरं च तथा ज्ञानं त्वत्प्रसादावधारितम् //
SK
इति / तस्मात् श्रीसोमानन्दपादनिरूपितव्याख्यानुसारेणैव यद् गुरवः समादिक्षन् तद् एव सर्वस्य करोति शिवम् /
SK
इत्य् असंस्कृतदुर्व्याख्यातामसोन्मूलनव्रतः / षडर्धशासनापूतहृदंबुजविकासकः //
SK
संस्त्यानानन्तपाशौघविलापकलसद्रुचिः / दीप्तो ऽभिनवगुप्तेन व्याख्याभानुः प्रकाशितः //
SK
एवं यतो ऽयं कौलिको विधिः प्रभवति यत्र च प्रतिष्ठापदवीं भजते यन्मयं चेदं कौलिकं तद् एवानुत्तरं इत्य् उक्तम् / तत्र कस् तावत् कौलिको विधिः कथं चास्य प्रसरो ऽनुत्तरात् कथं चात्रैवास्य प्रतिष्ठा कथं चानुत्तरैकरूपत्वम् ? यच् चोक्तम् उत्तरस्याप्य् अनुत्तरम् इति तत् सर्वं युक्त्यागमस्वसंवेदननिष्कर्षणतत्त्वावबोधावाप्तविमर्शनिपुणान् शिष्यान् प्रति वितत्य निर्णिनीषुर् भगवान् प्रस्तौति ग्रन्थान्तरम् / एतावद्दृढोपदेशनिर्दलितभेदाभिमानविकल्पानल्पसंस्काराणां तु सर्वम् एतावतैव
SK
अनुत्तरं कथम्
SK
इत्यादिसार्धश्लोकयुगलनिगमितेन प्रश्नेन
SK
शृणु देवि
SK
इत्यादिना सार्धश्लोकनिर्णीतेन चोत्तरेणानुत्तरपदप्राप्तिवशाविष्टजीवन्मुक्तभावानां कृतकृत्यता / अतस् तावन्मात्र एव दृढप्रतिपत्तिपवित्रीकृतैर् विश्रमणीयम् इत्य् उद्भुजाः फूत्कुर्मः / तद् अनुत्तरपरभैरवपदविमलदर्पणान्तर्निविष्टकौलिकपदप्रविविक्तये ग्रन्थान्तरम् अवतरति इत्य् उक्तम् / तद् यथा
SK
अथाद्यास् तिथयः सर्वे स्वरा बिन्द्ववसानकाः तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ //
SK
पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते //
SK
वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् तदूर्ध्वे शादिविख्यातं पुरस्ताद् ब्रह्मपञ्चकम् //
SK
अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिर् उदाहृता सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि //
SK
इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा
SK
तत्राकुलम् अनुत्तरम् एव कौलिकं सृष्टिरूपम् इति निर्णीयते / अथ तत् सृष्टिर् इति संबन्धस् तद् एवानुत्तरं पदं सृष्टिर् इत्य् अर्थः / यद्य् अपि च सृष्टाव् अपि प्राक्तननयेन कालापेक्षि पौर्वापर्यं न स्यात् तथाप्य् उपदेश्योपदेशभावलक्षणो भेदो यावत् स्वात्मनि स्वातन्त्र्यात् परमेश्वरेण भास्यते तावत् पौर्वापर्यम् अपीति तदपेक्षया अथशब्देनानन्तर्यम् /
SK
अनन्तरम् अकुलम् एव सृष्टिरूपम् इति यावत् / न तु प्रश्नप्रतिज्ञाभ्याम् आनन्तर्यम् अथशब्देनोक्तम् एकप्रघट्टकगतसजातीयप्रमेयापेक्षक्रमतात्पर्यप्रतीतिप्रवणत्वाद् अस्य / अन्यथा तूष्णींभावादेर् अनन्तरम् इदम् इत्य् अपि सर्वत्र तत्प्रयोगावकाशः / अस्तु, क इवात्र भवतः क्लेश ? इति चेन् न कश् चिद् ऋते प्रतीत्यभावात् / यत् तु श्रीसोमानन्दपादाः
SK
Q: अकारः शिव इत्य् उक्तस् थकारः शक्तिर् उच्यते /
SK
इत्य् आगमप्रदर्शनेनाथ इत्य् एतावद् एवानुत्तरम् इति व्याचचक्षिरे थकारसमव्याप्तिकताभिप्रायेण सर्वत्र प्रथमोल्लासे प्रसरदनन्तानन्तवस्तुसृष्टिशक्त्यभेदरूपत्वात् सर्वभूतजीवनरूपपरनादावलम्बनरूपत्वाच् चाथशब्दार्थस्य / तन् नास्माभिर् वितत्य विवेचितं, तादृशस्यागमस्य यतो न साक्षाद् वयम् अभिज्ञाः / तैस् तु तथाविधागमसाक्षात्कारिभिर् अनेकयुक्तिशतसहिष्णुता सूत्रग्रन्थस्य सूत्रितैव / धूलिभेदप्रदर्शनम् अपि तेनैवाभिप्रायेण तैर् इतश् चामुतश् च विततम् / वयं तु तच्छासनपवित्रितास् तद्ग्रन्थग्रन्थिनिर्दलनाभिलषितस्वात्मपवित्रभावास् तैर् निर्णीतेष्व् अर्थेषूदासीना एव / धूलिभेदादिना च कल्पितसामयिकलिप्यपेक्षणम् अपि भवेद् अपि कस्य चित् उपायाय, न तु तत् सकलदेशकालगतशिष्यविषयम् इति नास्मभिर् वितत्य विपञ्चितम् / एतदनुभवयुक्त्यनुप्रविष्टानां च तद् अकार्यकरं स्वकल्पनाभिश् च सुकरम् अव्यवस्थितं च, अन्येषां चैतदुपदेशानभिज्ञानां तदुपदेशनम् अप्य् अकिंचित्करम् इत्य् अलम् अनेन प्रकृतविघ्नविधायिना / प्रस्तुतम् अनुसरामः /
SK
``अऽऽ आद्यो येषां स्वराणां यदि वा थकारेण सुखोच्चारणार्थेन सह अथाद्यो येषाम् इति आद्यशब्दश् चात्र न व्यवस्थामात्रे नापि सामीप्यादौ, अपि त्व् आदौ भव आद्यः /
SK
तथा ह्य् अमीयां वर्णानां परावाग्भूमिर् इयम् इह निर्णीयते यत्रैवैषाम् असामयिकं नित्यम् अकृत्रिमं संविन्मयम् एव रूपम् /
SK
संविन्मये च वपुषि सर्वसर्वात्मकता सततोदितैव / सा च परमेश्वरी पराभट्टारिका तथाविधनिरतिशयाभेदभागिन्य् अपि पश्यन्त्यादिकाः परापराभट्टारिकादिस्फाररूपा अन्तःकृत्य तत्तदनन्तवैचित्र्यगर्भमयी / न हि तत्र यन् नास्ति तत् क्वाप्य् अस्तीति न्याय्यम् / परामृशत च प्रथमां प्रतिभाभिधानां संकोचकलङ्ककालुष्यलेशशून्यां भगवतीं संविदम् / तथाहि यत् किंचिच् चरम् अचरं च तत् पारमार्थिकेनानपायिना रूपेण वीर्यमात्रसारात्मना तदुद्भविष्यदीषदस्फुटतमे यदस्फुटतरे यदस्फुटादिवस्तुशतसृष्टिकालो लक्ष्यमाणतत्तदनन्तवैचित्र्यप्रथोन्नीयमानतथाभावेन संविदि भगवद्भैरवभट्टारिकात्मनि तिष्ठत्य् एव / तथावधानातिशयरूढैः सहसैव सर्वज्ञताभूमिर् असंकुचितपरमार्था अकृत्रिमतद्रूपा अधिशय्यते एव परानुग्रहपवित्रितैर् अभ्यासक्रमशाणनिघर्षनिष्पेषिततदप्रत्ययरूपकम्पाद्यनन्तापरपर्याय विचिकित्सामलैः, सविचिकित्सैर् अपि प्रतिभातकियन्मात्रवस्तुदत्तसंकोचा न त्व् अकृत्रिमा / यद् आहुः श्रिकल्लटपादाः
SK
Q: तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वलाभ
SK
इति / एवम् एष स्वप्रकाशैकरूपो ऽप्य् अर्थो युक्त्या प्रदर्श्यते / यद् यत् स्वसामर्थ्योद्भूतोत्तरकालिकार्थक्रियायोग्यतादिवशनिःशेष्यमाणसत्यतावशावाप्ताविचलसवादविरोधावभासिसंमतक्रमिकविकल्प्यमाननीलादिनिष्ठविकल्पपूर्वभावि निर्विकल्पसंविद्रूपं तत्तद्विकल्पनीयविरुद्धाभिमतनीलपीताद्याभासाविभागि भवति, यथा चित्रज्ञानशिखरस्थसंविन्मेचकबोधादि / यत् तु तद्विरुद्धरूपनीलपीताद्याभासाविभक्तं न भवति तत्तदनन्तस्वसामर्थ्योद्भूतनीलपीताद्याभासविकल्पपूर्वभाग्य् अपि न भवति, यथा नीलैकसाक्षात्कारि ज्ञानम् / भवति चेदम् अस्तमितोदेष्यदुभयविकल्पज्ञानान्तरालवर्त्य् उन्मेषप्रतिभादिशब्दागमगीतं निर्विकल्पकं ससंवादविरुद्धाभिमतनीलादिविकल्पपूर्वभावि / तस्मात् तद् अनन्तावभासाविभागमयम् एवेति / उभयोश् च ज्ञानयोर् अन्तरालम् अनपह्वनीयां ज्ञानयोर् भेदाद् एव / तच् च संविदात्मकम् एव, अन्यथा तेनैव संवित्संस्कारोच्छेदे स्मरणाद्यनुसंधानाद्ययोग इति प्रतिभाख्यस्य धर्मिणः सर्ववादिनः प्रत्य् अविवाद एवेति नासिद्धिः / संकेतव्युत्पत्तिकालानवलम्बनाच् चास्याविकल्पत्वम् एव /
SK
सहजासामयिकतथापरामर्शयोगो हि जडविलक्षणसंविद्रूपनान्तरीयकः / न विकल्पतुल्यत्वं भेदानुल्लासात् / भेदसारतालम्बतया त्व् अर्थभावं कुर्यात् / विकल्पानां चाविकल्पं विना नोदयः, अस्वातन्त्र्यात् / अस्वातन्त्र्यं च संकेतादिस्मरणोपायत्वात्, संकेतादिस्मरणं च तथानुभवं विना कुतः / संविदश् च प्रङ्न्यायेन कालादिपरिच्छेदाभाव इति एकैव सा पारमेश्वरी प्रतिभा अस्मदुक्तिमाहात्म्यकल्पिता एवंविधपरिच्छिन्नस्वभावापि सर्वात्मैव / मध्ये ऽपि वर्तमानभूतभविष्यद्रूपविकल्पान्तरप्रसवभूर् एव / तथा च विवेककुशलैर् आलयविज्ञानम् एवम् एवोपगतम् / ससंवादत्वं च तदनन्तरभाविनां विकल्पानां दर्शितम् एवेति नासिद्धो हेतुः साध्यधर्मिणि, न चैकावभासिविकल्पसंविभागकारिणि अविकल्पके विपक्षे सदा वा कदाचिद् अपि वा वर्तते, न च ततो ऽस्य व्यावृत्तिः संदिग्धेति न विरुद्धो नानैकान्तिको न संदिग्धविपक्षव्यावृत्तिः, दृष्टान्तधर्मिण्य् अपि चित्रज्ञानादौ हेतोर् एवम् एवासिद्धतादिदोषा परिहृता भवन्त्य् एव / हेतुदोषेषु तु परिहृतेषु दृष्टान्तादिदोषा निरवकाशा एव इत्यादि बहु निर्णीतकल्पम् अपरैर् एवेति किं तदनुभाषणक्लेशेन / सिद्धं तावद् ध्य् एतत्
SK
यत् प्रातिभं निखिलवैषयिकावबोध-पूर्वापरान्तरचरं निखिलात्मकं तत् / तस्यां प्रलीनवपुषः परशक्तिभासि ग्लानिर् घटेत किम् अभाववशोपकॢप्ता //
SK
शरीरप्राणादौ परधनसुखास्वादपटलम् अनालोक्य स्वस्मिन् स्पृशति हृदये ग्लानिम् असमाम् / प्रविष्टा चेद् अन्तर् निखिलजगतीसूतिसरसा परा देवी हन्त प्रविलसतु पूर्णं हविर् इव //
SK
तद् उक्तं स्पन्दे
SK
Q: ग्लानिर् विलुम्पिका देहे तस्याश् चाज्ञानतः सृतिः / Q: तद् उन्मेषविलुप्तं चेत् कुतः सा स्याद् अहेतुका // SपKआ_३.८ //
SK
वर्: अ:: विलुण्ठिका>
SK
इति /
SK
Q: एकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः / Q: उन्मेषः स तु विज्ञेयः स्वयं तम् उपलक्षयेत् // SपKआ_३.९ //
SK
इति च /
SK
Q: मायीयकार्ममलमूलम् उशन्ति तावद् अज्ञाननाममलम् आणवम् एव भद्राः / Q: बीजं तद् एव भवजीर्णतरोः परस्मिन् संविन्निशातदहने दहते क्षणेन //
SK
यथाहुः
SK
Q: मलम् अज्ञानम् इच्छन्ति संसाराङ्कुरकारणं /
SK
इति / तद् एवोक्तम्
SK
Q: तदुन्मेषविलुप्तं चेत् ... /
SK
इति / एवम् एव च व्याख्यातम् अदः / अन्यथा ग्लानेर् विलोपकत्वम् अस्याश् चाज्ञानात् सरणम् अज्ञानस्य चोन्मेषेण विलोप इति किं केन संश्लिष्टम् इति नृपनिरूपणप्रायम् एव भवेत् /
SK
तद् एवं भगवती परावाग्भूमिर् गर्भीकृतस्वस्वातन्त्र्यसत्तोद्भविष्यत्पश्यन्त्यादिविनिविष्टपरापराभट्टारिकादिप्रसरा तद्गर्भीकारवशाविवादघटितसकलभूतभुवनभावादिप्रपञ्चप्रबोधैक्यचमत्कारसारा परमेश्वरभैरवभट्टारकाविर्भावप्रथिततथाविधाद्भूतभूतपरमार्थस्वरूपा स्वात्मविमलदर्पणनिर्भासितानन्तसृष्तिस्थितिसंहारैक्यमयमहासृष्टिशक्तिर् आदिक्षान्तरूपा अथाद्या इत्यादिना ग्रन्थेन निःशेषं भगवता निर्णीयत इति स्थितम् /
SK
तद् एवं स्थिते ग्रन्थार्थो निर्णीयते / अकारादिविसर्गान्तं शिवतत्त्वम् / कादिङान्तं धरादिनभो ऽन्तं भूतपञ्चकम् / चादिञान्तं गन्धादिशब्दान्तं तन्मात्रपञ्चकम् / टादिणान्तं पादादिवागन्तं कर्माक्षपञ्चकम् / तादिनान्तं घ्राणदिश्रोत्रान्तं बुद्धिकरणपञ्चकम् / पादिमान्तं मनोऽहंकारबुद्धिप्रकृतिपुरुषाख्यं पञ्चकम् /
SK
वाय्वादिशब्दवाच्या यादयो वकारान्ता रागविद्याकलामायाख्यानि तत्त्वानि / धारयन्ति पृथग्भूततयाभिमानयन्तीति धारणानि / द्वाव् अत्र णिचौ प्रयोज्यप्रयोजकभावद्वैरूप्यात् / तथाहि ध्रियन्ते स्वात्मन्य् एव सर्वे भावाः प्रकाशात्मनि परमपरिपूर्णे पदे भैरवात्मनि सर्वात्मनि / यथोक्तं शिवदृष्टौ
SK
Q: आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः / Q: अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः // //
SK
इति / यथोक्तं स्पन्दे
SK
Q: यत्र स्थितम् इदं सर्वं
SK
इति / एवं स्वात्मन्य् एव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावान् धारयति स्वयम् अप्रकाशीभावेन जडतास्वभावेदंभावास्पदताप्रापणेन प्रकाशयति परमेश्वर एव / पुनर् अप्य् अहंभावेनैवाच्छादयति / तद् इयं भगवत्सदाशिवेशदशा शुद्धविद्यामयी एकेन णिचा ध्वनिता / तत्रापि च यद् इदन्ताया अहन्तयाच्छादनं तदाच्छादनीयेदन्तोपपत्ताव् उपपद्यते, न च शुद्धपरमेश्वरचिन्मयरूपापेक्षं भिन्नप्रथात्मकम् इदन्ताख्यं रूपम् उपपद्यत इत्य् आच्छादनीयानुपपत्तौ तद्वशेन तदाच्छादकताप्य् अहंभावस्य नोपपन्नेति तथाविधेश्वरबोधानुपपत्तिः / तदनुपपत्तौ च न किंचिद् भासेत कारणाभवाद् इत्य् उक्तम् असकृत् / भासते चेदं तद्भासाव्यतिरेकरहितम् अपि परमेश्वरशक्तित एव बहिः प्रथते कारणान्तरासंभवात् स्वसंविदि च संविद एव सर्वमयत्वप्रथनात् / तद् एवं स्वात्मरूपं जगद् भेदेन भासमानं प्रकाशात्मन्य् एव अहमात्मनि भासते सामानाधिकरण्येनेतीयता एतावद् अवश्यम् एवाक्षिप्तं यथा ईश्वर एव कस्यापि वेदितुर् भिन्नान् वेद्यान् अहन्तया पश्यति यश् चासौ को ऽपि वेदयिता सो ऽपि भासनात् स्वात्ममय एवेति स्वात्मनि तथाविधाः शक्तीर् अधिशेते याभिर् असौ तदैव भिन्नवेद्यवेदकीभावम् उपाश्नुवीत / रागादिभिर् एव च तथाविधत्वम् अस्येति रागादय एव ध्रियमानान् भावान् उक्तन्यायेन धारयन्तम् ईश्वरं प्रति प्रयोजकतां गच्छन्ति / अतस् तस्यैव पुंस्त्वव्यपदेशकारणैकभूता द्वितीये णिचि उत्पन्ने धारणशब्दवाच्याः /
SK
णिजुत्पत्ताव् अपि सर्वत्रैव प्रकृत्यर्थान्वयानपायः / ध्रियमाणतया प्रकाशमानस्यैव हि धार्यमाणता प्रकाशनासंज्ञा उपपद्यते यतः / यथोक्तं मयैव शिवदृष्ट्यालोचने
SK
Q: प्रेर्यो ऽपि स भवेद् यस्य शक्तता नाम विद्यते /
SK
इति / भर्तृहरिर् अपि Q: अप्रवृत्तस्य हि प्रैषे प्रच्छादेर् लोड् विधीयते / Q: प्रवृत्तस्य यदा प्रैषस् तदा स विषयो णिचः //
SK
इति / तद् एवं धारणशब्देनापरशास्त्रेषु कञ्चुकनामधेयप्रसिद्धान्य् एव तत्त्वानीह निरूपितानि / यद् उक्तं श्रीतन्त्रसारे Q: धारयन्ति पशोः पाशान् भावान् स्वात्ममयांस् तथा / Q: विद्यामायानियत्याद्याः शोध्यास् तेन प्रयत्नतः //
SK
इति / यत् तु श्रीसोमानन्दपादैर् धारणशब्देनाङ्गानि निरूपितानि पक्षान्तराश्रयणेन तत्र परपक्षसर्वदृश्यत्वप्रथनम् आत्मन्य् अभिप्रायः / तेषां हीदृशी शैली
SK
Q: स्वपक्षान् परपक्षांश् च निःशेषेण न वेद यः / Q: स्वयं स संशयाम्भोधौ निमज्जंस् तारयेत् कथम् //
SK
इति / शादिक्षान्तं महामायाविद्येश्वरसदाशिवशक्त्याख्यं तत्त्वपञ्चकम् / तथा हि मायातत्त्वस्योपरि विद्यातत्त्वाधश् च अवश्यं तत्त्वान्तरेण भावितव्यं यत्र विज्ञानाकलानां स्थितिः / यथोक्तम्
SK
Q: मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः //
SK
इति / तथा हि महामायाभावे मायापदे प्रलयकेवलानाम् अवस्थितिः विद्यापदे च विद्येश्वरादीनाम् इति किम् इव तद् विज्ञानकेवलास्पदं स्यात् / अत एव विद्यापदप्रच्युतानाम् अप्य् एषां भेदमयभावराशिगतभिन्नवेद्यप्रथानुदयान् मायीयाभिधानमलानुल्लासे
SK
Q: तत्र विज्ञानकेवलो मलैकयुक्तः
SK
इत्य् अज्ञानात्मकाणवमलावलम्बित्वं श्रीपूर्वशास्त्रे कथितम् / त एव शुद्धविद्यापदानुग्रहाद् बोधिता मन्त्रतदीशादिभावभागिनो भवन्तीति तत्रैवोक्तं
SK
Q: विज्ञानकेवलान् अष्टौ बोधयाम् आस पुद्गलान् /
SK
इत्यादिना
SK
Q: मन्त्रमहेश्वरेशत्वे संनियोज्य...
SK
इत्यादिना च / केषु चित् तु शास्त्रेषु सा महामाया भेदमलाभावोपचाराद् विद्यातत्त्वशेषतयैव निर्णीयते / क्वचित् पुनर् अज्ञानमलसद्भावोपरोधान् मायातत्त्यपुच्छतया यथा केषु चित् शास्त्रेषु
SK
Q: रागतत्त्वं पुंस्य् एव लग्नम्
SK
इति न पृथक् परामृष्टम्, यथा वेहैव श्रीत्रिकागमेषु नियतिकालौ न पृथङ् निरूपितौ / अत्र मते विद्याद्यनाश्रितशिवान्तं ब्रह्मपञ्चकं निर्णेष्यते चैतत् / एषां च तत्त्वानं बृहत्त्वं बृंहकत्वं च प्रायो भेदसमुत्तीर्णत्वात् संसारसूतिकर्तृत्वाच् च / एवम् एतानि चतुस्त्रिंशत्तत्त्वानि प्रक्रियात्मना स्थितान्य् अकारम् एव आदिरूपतया भजन्ते / तत्रेदं विचार्यते / प्रथमतः शिवतत्त्वम् अवर्गे, ततो भूतानीत्यादि यावद् अन्ते शक्तितत्त्वम् इति को ऽयं सृष्टिसंहारज्ञप्तिस्थित्यवतारक्रमाणां मध्यात् क्रमः / सर्वत्र च श्रीमालिनीविजयोत्तरसिद्धातन्त्रस्वच्छन्दादिशास्त्रेषु क्षकारात् प्रभृत्य् अवर्गान्तं पार्थिवादीनां शिवान्तानां तत्त्वानां निवेश उक्तः
SK
Q: आद्यं धारिकया व्याप्तं तत्रैकं तत्त्वम् इष्यते / Q: एकम् एकं पृथक् क्षार्णं पदार्णम् अनुषु स्मरेत् //
SK
इत्यादिना / तत्रैव च पुनर् भिन्नयोनिमालिनीभट्टारिकानुसारेण फकारादीनाम् अभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थितीनाम् अपि Q: फे धरातत्त्वम् उद्दिष्टं दादिझान्ते ऽनुपुर्वशः / Q: त्रयोविंशत्य् अबादीनि /
SK
इत्यादिना पार्थिवादितत्त्वयोजना निरूपिता / पुनर् अपि च तत्रैव श्रीविद्यात्रयानुसारेण
SK
Q: निष्कले पदम् एकार्णं त्र्यर्णैकार्णद्वयं द्वये /
SK
इति परापराभट्टारिकानुसारेण ॐकारं शिवतत्त्वम् अघोरे इत्य् अत्र शक्तितत्त्वम् इत्यादिक्रमेण पार्थिवादितत्त्वनिरूपणा योजिता / श्रीमदपराभट्टारिकाभिप्रायेण च
SK
Q: सार्धेनाण्डद्वयं व्याप्तम् एकैकेन पृथग् द्वयम् / Q: अपरायाः समाख्याता व्याप्तिर् एषा विलोमतः //
SK
इत्यादिना फट्कारे पार्थिवप्राकृताण्डद्वयं, हुंकारे मायीयं, ह्रींकारे शाक्तम् अण्डं चेति तत्त्वनिवेशः / श्रीपराभट्टारिकाव्याप्तिनिरूपणे च
SK
Q: सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् / Q: सर्वातीतं विसर्गेण परा व्याप्तिर् उदाहृता //
SK
इत्य् अन्यथैव प्रक्रियायोजनं निरूपितम् / पुनर् अपि मातृकासद्भावरतिशेखरकुलेश्वरादिमन्त्रभट्टाराकाद्यभिप्रायेणान्यथान्यथा च / अपरतन्त्रेष्व् अप्य् एवम् एव विपर्यस्तप्रायं बहु बहुशो निरूपितम् / तत् पुनर् इह सर्वम् एवान्यथेति परिदृश्यत इति महान् अयम् आगमविदः स्वकटकक्षोभ इव सर्वविनाशकः समुद्भूतः / न च सांकेतिकम् इदं येन पुरुषेच्छावशोपकल्पितेन रूपेण चान्यथान्यथा निरूप्यमाणम् इह संगतं भवेत्, यथा दाक्षिणात्याः चौरशब्देन ओदनं व्यपदिशन्ति, सैन्धवास् तु तेनैव दस्युम्, ओदनं तु क्रूरश्रुत्या, तया तु काश्मीरिका वितुषितयवगोधूमतण्डुलान् इति / सांकेतिकत्वे ह्य् अनवस्थितत्वाद् अपारमार्थिकत्वाच् च शोध्यशोधकभावाद्यनुपयोगाद् अनिरूपणीयत्वम् एव स्यात् / संकेतस्यापि परमार्थसत्तैव / न हि संकेतो नाम अन्यः कश् चिद् ऋते परमेश्वरेच्छातः / प्रसिद्धो हि नः संकेतो भगवदिच्छाप्रकल्पितस् तन्नामाक्षरलिप्यादिगताप्यायनादिकर्मविधिजनिततच्छान्तिकादिफलसंपत्तेर् इति चेत् / तर्ह्य् एकेनैव संकेतेन सर्ववस्तुसंपत्तौ किं संकेतान्तराश्रयेण / तदाश्रयणे वा स्वशास्त्रितशास्त्रान्तरीयलौकिकपार्षददैशिकघनकृतप्रतिपुरुषनियताद्यनन्तसंकेतनिवेशपूर्वकं तद् अपि निरूप्यम् एव / न तावद्भिर् उपयोगः, एतावतैव कार्यसिद्धिर् इत्य् अपि निरक्षरकुक्षिकुहरैर् उच्यमानं श्रूयमाणं च शोभत एव /
SK
अविकला भगवदिच्छा न विचारपदवीम् अधिशेते इति चेद् अलं ग्रन्थधारणवाचनव्याख्यानविचारणादिमिथ्यायासेन, परित्याज्य एवायं गुरुभारः, तूष्णींभावशरणैर् एव स्थेयम्, भगवदिच्छैवोत्तारणीयम् उत्तारयेत् / तद् इच्छैव अनुग्रहात्मा एवंविचारणायां पर्यवसाययति / न खलु पादप्रसारिकयैव सुखं सयानैर् भुञ्जानैश् च स्वयम् अविमृशद्भिः स्वापेक्षतीव्रतरादिपरमेश्वरानुग्रहोत्पन्नाधिकाधिकसूक्ष्मतमविमर्शकुशलधिषणापरिशीलनपराङ्मुखैर् वा स्थातव्यम् इति / तत् सर्वदा विमृश्यम् इदं वर्तत इति एतावन् न जहीमः / तद् अत्रावधार्य स्थीयतां यावत् परिहरामः सर्वम् इदं किं चिन् न वस्तुतश् चोद्यजातं परमेश्वर्यां परावाग्भुव्य् अनुत्तरदुर्घटकारितात्मकनिरपेक्षस्वातन्त्र्यसारायां पारतन्त्र्यांशलेशमात्रपरमाणुनाप्य् अनुपरक्तायाम् इति / प्रायः प्राग् एव प्रतिसमाहितम् अदः / तथापि विस्तरतः परिह्रियते / यत् तावद् उक्तं शिवतत्त्वं ततः पृथिवीत्यादीति को ऽयं क्रम इति / तन् न कश् चित् क्रम इति ब्रूमः / अक्रमं यद् एतत् परं पारमेश्वरं विचित्रं गर्भीकृतानन्तवैचित्र्यं स्वातन्त्र्यं त्रिकार्थरूपं तद् एवैतत् / तथा हि येयम् अपरा परापरा पराभट्टारिका पारमेश्वरी भैरवीया सत्ता सा सदाशिवतत्त्वानाश्रितशक्तितत्त्वस्याप्य् उपरिवृत्तिस् तदन्तस्याप्य् आसनपक्षीकृतत्वात् / तथा हि
SK
Q: ईश्वरं च महाप्रेतं प्रहसन्तम् अचेतनम् /
SK
इत्य् अनेन सदाशिवान्तम् आसनं नादान्तपक्षनिविष्टं श्रीपूर्वशास्त्रोपसंहृतम्
SK
Q: इत्य् एतत् सर्वम् आसनम्
SK
इत्य् उक्त्वा
SK
Q: तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत्
SK
इति शक्तिव्यापिनीसमनात्मकशृङ्गत्रयम् उक्तं, तत्राप्य् औन्मनसोर्ध्वकुण्डलिकापदपरमधाम सितकमलत्रयरूपतया निरूपितम् इत्य् एतत् परमासनं परापर्यन्तत्वाद् इति / तदुपरि च देवीनां स्थितिर् इति /
SK
तत् परं पश्यन्त्याख्यं ज्ञानशक्तेर् एव पर्यन्तधाम नादाख्यरूपम् अतिक्रमणीयत्वेनैव स्थितम् / यथोक्तं शिवदृष्टौ
SK
Q: अथास्माकं ज्ञानशक्तिर् या सदाशिवरूपता / Q: वैयाकरणसाधूनां सा पश्यन्ती परा स्थितिः //
SK
इति / प्रत्यगात्मनि हि बुद्धिः पश्यन्ती रुद्रदेवता परं सदाशिवज्ञानशक्ताव् एव अनाश्रितशिवशक्त्यात्मनि विश्राम्यति / मनोऽहंकारयोर् ब्रह्मविष्णुदेवतयोर् वैखरीमध्यमापदे पत्योर् ईशसदाशिवक्रियाशक्तिपदम् एव परा प्रतिष्ठाभूर् इति तावद् आगमसिद्धं स्वसंवेदनबृंहितं च / तत् पश्यन्त्युपरि पराभूमिर् भगवती यत्र सर्वम् अभेदेनैव भाति च विमृश्यते च / यद्य् अपि हि विद्यापदे मायापदे ऽप्य् अभेदेन भासना स्थितापि तत्र विमर्शो ऽन्यथा / विद्यापदे हीदम् इति प्रमातृप्रमेयजातम् एकतो ऽहमात्मनि संक्रामेत् तदाच्छादितं विमृश्यते
SK
Q: अहम् इदम्
SK
इति / तद् एतत् समाने चिदात्मन्य् अधिकरणे उभयं प्रतिबिम्बितम् अभेदेनैवावभासमानं सामानाधिकरण्यम् उक्तम् / अत एव
SK
Q: ईश्वरावस्थायां परापरात्मिकां दशां भावा भजन्ते, यथैव मायाध्वन्य् अपरां, न तु सैव परापरशक्तिर् अपरा वा
SK
इति यद् ईश्वरतत्त्वं प्रत्य् अभिहितं श्रीमदुत्पलदेवपादैस् तत् प्रदर्शितागमविपर्यासशङ्कायुक्तम् इति न मन्तव्यम् / मन्त्रमहेशादिषु तु रूपं बोधैकपरमार्थम् अपि अपरबोधैकपरमार्थाद् अन्यद्
SK
Q: अहम् अहम् इदं पुनर् इदम् एव
SK
इति संवित् / विज्ञानाकलानां तु बोधैकपरमार्थे ऽपि रूपे
SK
Q: नाहं नेदम्
SK
इति संविदप्रबोधाद् अहम् इत्य् एव तत्र प्रबुद्धम् / प्रलयकेवलिनाम् इदम् अहम् इत्य् अप्रबुद्धम् एव / अत्र मायापदे च तन्निर्विकल्पकताभासेन यद्य् अप्य् अस्ति तथाविध एव प्राणभूतो विमर्शस् तथापि तद्रूपव्यवहारकस्य तत्प्रसादासादितसत्ताकस्यापि तदव्यतिरिक्तस्यापि पश्चात्तनस्य विमर्शस्य
SK
Q: इदं शरीराद्य् अहम्, अहं योऽसौ ज्ञाता, इदं घटादिकम्, इदं यत् तत् ज्ञेयम्
SK
इति भेदेनैव विमर्शरूपतया व्यवहारो विकल्पात्मैव / तत्र तु तथाविधत्वे कारणान्तरासंवेदनात् कल्प्यमाने ऽपि च कारणे पुनर् अपि तथाविधबोधाविनिर्भागमात्रपर्यवसानत् तस्यैवाविकल्पसंविदात्मनस् तथासामर्थ्यं तथासामर्थ्ययोगाद् एव च तदनन्तवैचित्र्यात्मकत्वम् इत्य् ऐश्वर्यम् अनपायि सिद्ध्येत् / अस्यां च सत्तायाम् ऐश्वर्यम् अनपेतं यतो वैखर्यात्मनि एवं मायीये वेद्ये ऽपि वा मध्यमामये धाम्नि भासनातिरेक्य् अपि संभाव्य एवं विमर्शः / अत्र तु परसंविदि यथैव भासा तथैव व्यवहारमयो ऽपि विमर्शः / तेन जल इव जलं ज्वालायाम् इव ज्वाला सर्वथाभेदमया एव भावा भासन्ते, न तु प्रतिबिम्बकल्पेनापि / केवलं यावद् एषापि परमेश्वरी उपदेशाय निरूप्यते तावद् अधरसत्ताकॢप्ता तथा भवति / एवं च भासात्मकं भैरवरूपं स्वतःसिद्धम् अनादि प्रथमं सर्वतः चरमं च सर्वतश् च वर्तमानम् इति किम् अपरं तत्रोच्यताम् / तत्त्वभावविकासम् आत्ममयम् आत्मैक्येनैव स्वप्रकाशं प्रकाशयति तथैव च विमृशत्य् अनपेततथाचमत्कारत्वे ऽपि / यच् च तत् तथा विमर्शनं तद् भाविमायीयानन्तसृष्टिसंहारलक्षकोट्यर्बुदपरार्धसाक्षात्कारिणि भासने भवेत् तथारूपम् एव भवति / तथाभवच् च तद् यदि सृष्टौ प्राथमिकं माध्यमिकं वा पदं भासनाद् विमृशेत् तत्पूर्वस्य तदुत्तरव्यभिचारणाशङ्कासंभावनानपगमाद् अपरिपूर्णम् अप्रथितेतरभावराशि खण्डिताभेदं कथम् अनिर्व्यूढपरभैरवमहाधामसमाश्रिताधस्तनपश्यन्त्यादिनिष्ठभेदासूत्रणकलङ्कं तथाविधवस्त्वपोषणवसनाममात्रीभूतपराभट्टारिकारूपं तत् किम् अपि रूपं भवेत् / एतादृशधारारोहणाभावे च न किं चित् इदं विजृम्भमाणं भासेत इति न व्रजत्व् अपूर्णता मा प्रथिष्ठ भावराशिर् अभेदकथा खण्ड्यतां मा निर्वाक्षीद् भैरवाश्रयता भेदकलङ्कम् उद्वहतु नामधेयमात्रेण परत्वम् इति वक्तुं युक्तम् /
SK
तद् एतद् एव भवति संगच्छते च यदि प्रथमतरं सर्वचरमे एवमाभासा पतन्ती तत्रैव विमर्सेनापि पदं बन्धयेत् / स हि चरमो भागस् तथा तावत् स्वात्मरूपं बिभ्रत् तत्स्वात्मरूपनान्तरीयकतास्वीकृततदनन्तनिजपूर्वपूर्वतरादिभागान्तरो भासमानो विमृश्यमानश् च पूर्ण एव / तत्पुर्वो ऽपि भागस् तदुत्तरभागपृष्ठपातिवृत्तपूर्वपरिपूर्णभासासारविमर्शतादात्म्यात् तदुत्तररूपपरिपूर्णताम् अजहत् स्वयं च स्वरूपनान्तरीयकताहठकृष्टस्वपूर्वपूर्वतरादिभागान्तराभोगो भासमानो विमृश्यमानश् च तथैवाखण्डित इत्य् एवं तत्पूर्वपूर्वगता भासा तत्तद्द्वित्रादिनिजनिजोत्तरभागभासा विभागे लब्धभैरवभावस्वभावाव्यभिचारानुरोधबलस्वीकृतस्वस्वपूर्वभागचमत्कार एकैकम् अपि परं पूर्णा भवति यावत् स्वप्रकाशनिजभैरवाभिमतनिकटतरवर्ति रूपं / तद् एव स्वेच्छाविश्रान्तिधाम वा भैरवाख्यं वपुः / स्वयम् एव तद्विमर्शकुशला भवत प्रसंख्यानपराः / ह्रदगिरितरुप्रभृत्युपाधिसंकोचेन रहिते तद्वत्य् अपि वारण्यानीप्रदेशे दुराद् अखण्डिता दृष्टिर् एवम् एवाखण्डितताम् उपाश्नुवाना भैरवबोधानुप्रवेशं प्रति संप्रदायताम् आसादयेत /
SK
Q: निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् /
SK
इत्यादि / अन्यथा भागशः पाते प्रथमभागाद् आरभ्य यदि वा निरवयवम् एवैतत् क इव अपरसंवेदनेभ्यो ऽपुर्णाभिमतेभ्यो विशेषः / विशेषस् तु गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इवापूर्णसंविदन्तरेभ्यः पूर्णाभिमतसंवेदनस्येति स्वयम् एव जानन्तु सोपदेशाह् पारमेश्वराः / परमेशशक्तिपातकिरणाविकसिते तु पशुजनहृदयकुशेशये न अस्मदीयैर् वचनशतैर् अप्य् अतितीक्ष्णाभिधेयसूचिभिर् अपि संभेदो ऽथ विकासो ऽथ वितरीतुं शक्यः / घटे ऽपि एवम् एव परिपूर्णो दृष्टिपातः / तत्रापि ह्य् अविकल्पा संवित् झगिति चरमभाग एव निपतति / ततस् तु क्रमाद् विकल्पसंविद आयान्त्य आचरमनिकटभागाद् अन्तस्तराम् अन्तस्तमां चानुप्रविशन्तीति किम् अन्येन / तद् एवम् एवेहापि शिवतत्त्वं सदा अविकल्पम् एव विकल्पसूति स्वातन्त्र्यसरसम् अनादि सर्वादिभूतं सिद्धम् / अत्र तावन् न विमतिः / तत् तु परिपूर्णं तथा भवति यदि सर्वचरमां पार्थिवीम् एव भुवम् अधिशेते / धरासंविद् धि तथा धरां विषयतयाप्य् अभेदेनाभासयेद् विमृशेच् च यदि तत्स्वरूपसर्वस्वावभासविमर्शयोः व्याप्रियेत /
SK
स्वरूपसतत्त्वं चास्याः परिपूर्णप्रसरत्स्वातन्त्र्यकॢप्ताप्ररूढभेदतत्पूर्वकैकरसभेदावभासतद्वशोदितसकुचच्चित्स्वातन्त्र्यसत्तामयमायाग्राहकतद्ग्राह्यचक्राविभेदात्मक्प्रधानतद्विकारधीतत्त्वतत्परिणामात्मकाहंकारतन्मूलकारणपूर्वकतन्मात्रवर्गप्रसृतखादिजलान्तभूतवर्गाधरवृत्तितयावस्थानम् / सा हि यावद् आक्षेपेणैव वर्तमाना तावत् स्वरूपसतत्त्वैव / यावद् एव पञ्चगुणत्वात् तन्मात्राण्य् आक्षिपेत् तावत् तान्य् आक्षिप्यमाणानि निजस्वरूपोपकॢप्तये समाक्षिप्तप्राक्तनप्रातिष्ठिकमूलान्तरपरम्परानुबन्धिस्वकपूर्वकमूलान्य् एव / न ह्य् Q: उपादानाभिमतकारणस्वरूपानन्वयः कार्यसत्तायां स्यात् इति न्याय्यम् / निमित्तकारणादीनि कथं चिन् नान्वीयुर् इत्य् उच्येतापि कदा चित् / एतच् च प्रकृतविघातकम् अन्यत्र तदभिधानप्रवणे शास्त्रे निष्कुष्य निष्कुषितम् अस्माभिर् एवेति नेह विततम् /
SK
तद् एवं प्रथमं तावद् धरा ततो ऽपि जलं तथैव स्वरूपसाकल्येन भासमानं विमृश्यमानं च तद्भासाविमर्शचमत्कारम् अन्तःकृततथाविधधरणितत्त्वसंस्कारसत्ताकं पूरयेद् एवेति यावद् अन्ते सैव पूर्णसंविद्भगवती शिवात्मैव / तद् अनेनैवोपदेशयुक्तिनयेन
SK
Q: प्रदेशमात्रम् अपि ब्रह्मणः सर्वरूपम् एकैकत्रापि च तत्त्वे षट्त्रिंशत्तत्त्वमयत्वं शास्त्रेषु निरूपितम् / एवं च श्रीस्पन्दशास्त्रोपदेशो
SK
Q: दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते / Q: तदा किं बहुनोक्तेन स्वयम् एवावभोत्स्यते //
SK
इत्य् अयं हृदयंगमीकर्तव्यः / चरमेण पादेन तद् एवात्र सूचितम् इति किम् अन्यत् / यच् च येन विना न भवति तत् तावत्स्वरूपं यथा शिंशपात्वं वृक्षत्वस्वरूपं पारमेशस्वातन्त्र्यातिरोहितनियतिविजृम्भायाम् / यत् तु यावत्स्वरुपं न भवति तत् तेन विना भवत्य् एव यथा वृक्षत्वम् ऋते शिंशपात्वापवादः /
SK
न भवन्ति च धरादीन्य् उत्तरोत्तरतत्त्वानि जलादि पूर्वपूर्वं विनेति तावत्स्वरूपाण्य् एव / धरा हि न जलं विना भवेत् स्रुतेर् एव काठिन्ये दर्शनाद् इत्य् एवंक्रमेण भूतानि तन्मात्रैर् विना कथम्, तान्य् अपि इन्द्रियजृम्भया विना, इन्द्रियाण्य् अपि तत्तथाविधाध्यवसायेन विना / सर्वाणि चैतदाद्याविभक्तान्वितसूक्ष्मरूपमूलकारणविनाकृतानि न भवन्ति / मूलप्रकृतिर् अपि भोग्या भोक्तारं तद्भोग्यविभागभागित्वाद् एव संकुचितं संकोचवशाद् एव च स्वात्मारोहितकालकलादिपाशजालं संविदात्मकं चान्तरेण कथं / संविदश् चाखण्डरूपायाः कथं संकोचकारणस्वातन्त्र्यं मायापरपर्यायं विना संकुचितत्वम् / स्वातन्त्र्यं च संकोचे ऽसंकुचिततासारतत्संकोचतारतम्याक्षेपि भवद् ईषदसंकुचितासंकुचितेषड्विकासिविकस्वररूपं विरहय्य नैव भवेत् / सर्वम् एव चेदं प्रथमानं स्वतन्त्रपरिपूर्णप्रथासारभैरवं विना किं चिद् एव नेति स्वसंवित्सिद्धो ऽयं तत्त्वक्रमः / स्रुतिर् अपि जलात्मिका काठिन्यं विना क्वेति धरापि पूर्विका सलिले ऽस्त्व् इति कथ्यमानम् अपि किं नश् छेदयेत् / प्रत्युत परिपूर्णसर्वात्मकभैरवभट्टारकात्मकपरासंवित्परिपोषणायैव स्यात् / सर्वश् चायं परापराभट्टारिकादिरूपपश्यन्त्यादिसत्तासमयोद्भविष्यदीषत्स्फुटस्फुटतरादितत्त्वभेदानुसारेण पराभट्टारिकामहसि तदुचितेनैव वपुषा विराजते / तत्र हि निःश्वस्येव / हस्ते द्रविणम् असन् न क्व चिद् अपि स्यात् / भविष्यद् अपि वस्तु चरमम् अपि प्रथमप्रकाशे भासेतैव / केवलम् एकरसतद्भेदसारस्फुटरूपापेक्षया भविष्यत्ता / तथा हि भविष्यति कल्की हनिष्यत्य् अधर्मपरान् इत्यादि यदि न प्रकाशितं तत् कथं पुराणेषु निबद्धम् / क्वचन सर्गे बभूव कल्की तथैव व्यधित इति चेत् किं स एवासाव् अन्य एव वा, अन्यश् चेद् अप्रकाशो ऽसौ, स एव चेत् कथं कालभेदः / अकालकलितश् चेत् कथम् इव /
SK
चित्त्वाद् विश्वरूपत्वाद् इति चेत् तर्ह्य् अकालकलिते संविदात्मनि सततविश्वशक्त्यवियुक्ते स्वातन्त्र्यवशसंकोचविकासावभासितसंहृतिसृष्टिसताविरूद्धैकरूपतदात्मकवपुषि परमेश्वरे ऽस्मज्जिह्वाग्रहृदयानपायिनि भैरवभट्टारके सर्वम् अस्तीत्य् अस्माभिर् उपन्यस्यमानम् एव मुक्तमन्दाक्षं कथं नाद्रियते विवृततरकण्ठम् एव वा स्वयम् एव न निर्णीय निरूप्यते / तस्मात् शिवतत्त्वम् इदम् अनाद्यन्तं स्वयं प्रथमानं पूर्णतात्मकनिरपेक्षतामात्रसतत्त्वस्वातन्त्र्यसारम् अन्तःक्रोडीकृत्यात्मतैकपरमार्थं तत्त्वजातं परसंविदि सततोदितत्वात् सर्वाविरोधित्वान् निखिलानुग्राहकत्वाच् च अवस्थाशब्दव्यपदेशासहिष्णौ यावद् अकालकलितम् आसीनं भैरवरूपम् अवतिष्ठते तावद् एतच्छास्त्रसमुचितेनैव महासृष्ट्यादिरूपेण न तु मितसृष्ट्यादिक्रमेण---इति सिद्धम् / स एष एव संपुटयोगे अस्मद्गुरूणां संप्रदायः शुद्धपरसत्तया सर्वस्यैव एकैकतत्त्वस्य निखिलस्य च तत्त्वौघस्य संपुटीकरणात् / वक्ष्यते चाप्य् एतत् /
SK
पश्यन्तीदशायाश् चारभ्य भेदासूत्रणात्मांशांशोल्लास इति ततः प्रभृत्य् एव शोध्यशोधकभाव इति तावद् व्यवस्थानापह्नवनीया / यथोक्तम्
SK
Q: यत् सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते / Q: तत् सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् //
SK
इत्यादि / पश्यन्ती च परापराभट्टारिकासतत्त्वा परशक्तेर् एव स्वात्मशक्तिर् दर्पणकल्पा यत्र तत् पराभट्टारिकास्वरूपम् एव चकास्ति प्रतिबिम्बवत् / यच् च रूपं सदा बिम्बे प्रतिबिम्बे चैकतापरमार्थं मुखपरामर्शमात्रम् इव न तत् प्रतिबिम्बितम् उच्यते तन्मात्रसत्त्वाद् एव / यत् तु तत्रान्यथा तथा च भाति मुखाकार इव पूर्वापरवामदक्षिणतादिविपर्ययाद् एतद् एवापि तद् एवापि तद् एव प्रतिबिम्बितम् उच्यते तच् च तत्समानधर्मैव भवति न तु विजातीयम् / एवं च पश्यन्तीसतत्त्वपरापराविमलमुकुरिकायां तत्तत्तथाविधोक्तक्रमपूर्णपृथिव्यादितत्त्वसामग्रीनिर्भरमन्तस् तथाविधसहजाकृत्रिमपारमार्थिकानपायिकादिपरामर्शक्रोडीकारेणैव वर्तमानम् अपि श्रीपराभट्टारिकावपुः प्रतिबिम्बम् अर्पयत् स्वरूपान्यथात्वासहिष्णुकादिपरामर्शानन्यथाभावेनैव तत्परैकरूपं परामृश्यं धरण्यम्भःप्रभृति तथोल्लसद्भेदसूत्रणतया सजातीयायां विमलायां च यावत् प्रतिबिम्बयति तावद् धरादितत्त्वानां विपर्यास एवोपजायते /
SK
यत् परसंविदि शक्तितत्त्वं तद् एव परापरात्मनि पृथिवीतत्त्वं, यत् तु धरातत्त्वं तच् छक्तितत्त्वम् इति क्षकारात् प्रभृति धरादीनां स्थितिः / भगवद्भैरवभट्टारकस् तु सदा पूर्णो ऽनन्तस्वतन्त्र एव न विपर्यस्यते जातुचिद् अपि चिद्रूपातिरेकाद्यभावाद् इत्युक्तं बहुशः / परात्मनि परामर्शे परामर्शैकतत्त्वान्य् एव तत्त्वानि परामर्शश् च कादिक्षान्तशाक्तरूपपरमार्थ इति तत्र अभेद एव / परापरायां तु भेदाभेदात्मकता प्रतिबिम्बन्यायेन / सा च परापरा परामर्शमयी कादिक्षान्तवर्णमालाशरीरा यावत् स्वोर्ध्वव्यवस्थितपराभट्टारिकानिविष्टतत्त्वप्रतिबिम्बानि धारयति तावत् तेष्व् एवामायीयाश्रौतकादिक्षान्तपरमार्थपरामर्शेषूर्ध्वाधरविपर्यासेन तत्त्वानि संपद्यन्ते ऊर्ध्वबिम्बाधरप्रतिबिम्बधामस्वभावमहिम्ना---इति तात्पर्यम् / ततः पृथिवी क्षकार इत्यादि शोध्यरूपापेक्षया न किंचिद् विरुद्धम् / तत्रापि परदशानपायात् एष एव कादिवर्णसंतानः / तत्रैव च स्वांशोद्रेकात् स्वांशान्तर्वर्तिमध्यमापदोल्लासात् स्वरूपवर्तमानवैखरीरूपप्रावण्याच् च वर्णमन्त्रपदरूपता शोध्यांशवृत्तिर् इत्य् आस्ताम् / अप्रकृतम् एतन् निर्णीतं च मयैव श्रीपूर्वप्रभृतिपञ्चिकासु / यद् अप्य् उक्तं श्रीमालिनीभट्टारिकानुसारेण
SK
Q: अन्यथा चान्यथा स्थितिः
SK
इति तद् अपि निर्णीय निरूप्यमाणं विमृशन्तु त्रिकोपदेशविसीर्णाज्ञानग्रन्थयः पारमेश्वराः / अनाश्रितशक्त्यात्मकपश्यन्तीपरमकोटिम् अतिक्रम्य पारमेश्वर्यां परसंविदि देवतास् तिस्र इति यद् उक्तं तत् तावन् न प्रस्मर्तुम् अर्हन्ति तत्रभवन्तः /
SK
एवं च परसंविदन्तर्वर्तिनि मध्यमापदे परापराभट्टारिकाविजृम्भास्पदे स्थितिर् विमृश्यते / मध्यमा तावत् स्वाधिकारपदे क्रियाशक्त्यात्मन्य् ऐश्वरे पदे स्फुटवेद्यप्रच्छादकवेदनरूपा वाच्ये वाचकं तत्रापि च वाच्यम् अध्यस्यते /
SK
विश्वत्र वाच्ये विश्वात्मनि वाचकम् अपि यदि विश्वात्मैव तद् एवं परस्पराच्छादनलोलीभावात्मा निर्वहेद् अध्यासो न त्व् अन्यथा / न हि त्रिचतुरङ्गुलन्यूनतामात्रे ऽपि पटः पटान्तराच्छादकः स्यात् / विश्वात्मकत्वं च परस्परस्वरूपव्यामिश्रतया स्यात् / बीजात्मनां स्वराणां वाचकत्वं योनिरूपानां च व्यञ्जनानां वाच्यत्वं क्रमेण शिवशक्त्यात्मकत्वात्
SK
Q: बीजम् अत्र शिवः शक्तिर् योनिर् इत्य् अभिधीयते /
SK
इति / तथा
SK
Q: बीजयोन्यात्मकाद् भेदाद् द्विधा बीजं स्वरा मताः / Q: कादिभिश् च स्मृता योनिः ... //
SK
इति श्रीपूर्वशास्त्रनिरूपणात् / शिव एव हि प्रमातृभावम् अत्यजन् वाचकः स्यात् प्रमेयांशावगाहिनी च शक्तिर् एव वाच्या / भेदे ऽपि हि वाचकः प्रतिपाद्यप्रतिपादकोभयरूपप्रमातृस्वरूपाविच्छिन्न एव प्रथते / शिवात्मकस्वरबीजरूपा श्यानतैव शाक्तव्यञ्जनयोनिभावो बीजाद् एव योनेः प्रसरणाद् इति समनन्तरम् एव निर्णेष्यामः / अत एव च स्वरात्मकबीजव्यामिश्रीभावश् चेद् योनेः तत् समस्तफलप्रसवो हन्त निर्यत्न इत्य् अपवर्गभोगाव् अकृष्टपच्याव् एव भवतो बीजवर्णो ऽपि स्वात्मनि योनिवर्णो योनिवर्णो ऽपि तथैवेति किं कस्य भेदकम् इति कथ्यमानं नास्मान् आकुलयेत् ये वयम् एकां तावद् अनन्तचित्रतागर्भिणीं तां संविदात्मिकां गिरं संगिरामहे / मायीये ऽपि व्यवहारपदे लौकिकक्रमिकवर्णपदस्फुटतामयी एकपरामर्शस्वभावैव प्रत्यवमर्शाकारिणी प्रकाशरूपा वाक् / अन्यैश् चैतत् प्रयत्नसाधितरो इह च एतावदुपदेशधाराधिशयनशालिनाम् अप्रयत्नत एव सिद्ध्यतीति नास्माभिर् अत्र वृथा वैयाकरणगुरुगृहगमने पूतशरीरताविष्क्रियामात्रफले निर्बन्धो विहितः / एवम् एव नवात्मपिण्डप्रभृतिष्व् अपि मालामन्त्रेष्व् अपि च क्रमाक्रमपूर्वापरादिभेदचोद्यप्रतिविधानं सिद्धम् एव /
SK
एवं भगवती मालिन्य् एव मुख्यपारमार्थिकमध्यमाधाम शक्तिसतत्त्वम् / अत एवोक्तं श्रीपूर्वशास्त्रे
SK
Q: यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् / Q: न्यसेच् छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् //
SK
इति / भिन्नयोनित्वं च निर्णीतम् / अन्यत्रापि
SK
Q: न पुंसि न परे तत्त्वे शक्तौ मन्त्रं निवेशयेत् / Q: जडत्वान् निष्क्रियत्वाच् च न ते भोगापवर्गदाः //
SK
इति / एवं च स्थिते सर्वसर्वात्मकत्वाद् यद् एव ``न ऋ ऋ ऌ ऌ३ थ च ध ई ण उ ऊ ब क ख गऽऽ इत्य् अभिहितेहत्यपरसंविदम् अपेक्ष्य क्रमेण श्रोत्रं नादात्मकभावरूपं योन्यात्म अमृताप्यायकारिणि बीजचतुष्काप्यायभूमौ पतितं बृंहितत्वम् अवाप्य झटिति ग्रहणात्मकरससतत्त्वरसनामयत्वं प्रतिपद्य धरण्याकारगन्धविशेषीभूय तत्रैव स्पर्शकरणतां श्रित्वा एतावच् च शाक्तं यौनं धाम ईशानबीजेनाधिस्थाय वागात्मनि करणशक्तौ प्रतिफलितं ततो ऽपि करणशक्तेर् उन्मेषोर्ध्वाश्रयणबीजरूपतया बुद्धिरूपां शाक्तयोनिम् अधिशय्य पृथिव्यप्तेजोयोनिसमाविष्टम् / पश्यन्तीरूपानुसृत्या तु ग्रहणात्मकवाणिरूपायां तत्रैव बीजेषु प्रसृत्य चाक्षुष्यां भुवि तत्सामान्याशुद्धविद्याकरणे तत्सर्वान्त्यकरणे च घ्राणे स्थित्वा ईशानबीजेनाक्रम्य श्रोत्रशक्तिम् आलम्ब्योन्मेषोर्ध्वबीजयोगेन आनन्देन्द्रिययोनिगं सदाशिवेश्वरशुद्धविद्यामयं भवति -- इति सर्वाग्रमध्यान्तगामित्वेनापरिच्छिन्नम् अनन्तशक्ति शिवतत्त्वम् अत्रोक्तं भवति / मालिन्याम् इहत्यपरसंविदनुसृत्या पश्यन्त्यात्मकसत्तानुसृत्या च क्रमेण वायुर् माया घ सादाख्यम् / नभः कला च ङ ईश्वरः / इच्छैव शक्तिमयी इ शुद्धविद्या / अनुत्तर एव स्वतन्त्रो ऽहंभावः अ शिवाख्यो माया / अशुद्धविद्या गन्धश् च व कला / प्रकृतिः पादेन्द्रियं च भ अशुद्धविद्या / कालः स्पर्शश् च य रागः / पायुर् अहंकृच् च ड नियतिः / हस्तौ मनश् च ढ कालः / आनन्देन्द्रियं बुद्धिश् च ठ पुरुषः / स्पर्शः कालश् च झ प्रकृतिः / शब्दः पुमान् च ञ धीः / रूपं नियतिश् च ज अहंकृतम् / नियती रूपं च र मनः / पादेन्द्रियं प्रकृतिश् च ट श्रोत्रम् /
SK
मनो हस्तश् च प त्वक् / रसो रागश् च छ नेत्रे / रागो रसश् च ल रसना / आनन्दशक्तिः शैवी आ घ्राणम् / विद्या तेजश् च स वाक् / विसर्गशक्तिश् च अः करौ / ईशो जलं च ह पायुः / माया वायुश् च ष आनन्देन्द्रियम् / सादाख्यं पृथिवी च क्ष पादौ / पुमान् शब्दश् च म शब्दः / कला नभश् च श स्पर्शः / बैन्दवी शिवशक्तिः अं रूपम् / नासिका त्वक् च त रसः / शिवशक्तिः सात्त्वी ए गन्धः / सैव दीर्घा ऐ नभः / तथैव वायुतेजसी ओ औ / नेत्रे रसश् च द आपः / अहंकृत् पायुश् च फ पृथिवी / अत्रैव च यथोक्तं शरीरनिवेश इत्य् एवं सर्वसर्वात्मकत्वं निर्व्यूढं भवेत् / पराभट्टारिकैव हि प्रोक्तनयेन पश्यन्त्यां प्रतिबिम्बं स्वकम् अर्पयमाणा तत्समकालम् एव स्वात्मतादात्म्यव्यवस्थितमध्यमाधाम्नि भिन्नयोनिताम् अश्नुवाना तत्तद्योनिबीजपरस्परसंभेदवैचित्र्यस्यानन्त्याद् असंख्येनैव प्रकारेण तत्तत्कुलपुरुषादिभेदेनापरिगणनभेदभागिनी मालिन्य् एव / यथोक्तम्
SK
Q: अनन्तैः कुलदेवैस् तु कुलशक्तिभिर् एव च / Q: मालिनीं तु यजेद् देवीं परिवारितविग्रहाम् //
SK
इति / अनेनैव च क्रमेण बहिर् भुवनेषु तत्त्वेषु शारीरेषु च चक्रेषु अभ्यासपरो योगी तत्तत्सिद्धिभाग् यत्रैव देहे प्राणे वा भवति / यथा काश् चिद् एवौषध्यः समुद्भूय किंचिद् एव कार्यं विदधते तथा काचिद् एव समुद्भूय भावना मन्त्रन्यासहोमादिगतिर् वा कांचिद् एव सिद्धिं वितरेत्, अत्रापि यावन् नियतिव्यापारानतिक्रमात् / तथा हि प्रतिशास्त्रम् अन्यथा चान्यथा च वर्णनिवेशपुरःसरं निजनिजविज्ञानसमुचितततत्तद्वर्णभट्टारकप्राधान्येन तत्तद्वर्णप्राथम्यानुसारायातनियतपरिपाटीपिण्डितवर्णसमूहरूपः प्रस्तारो नि रूपितः -- तत एव च मन्त्रोद्धारो निरूपितः -- ताम् एव मातृकारूपतां तथाविधवीर्यदानोपबृंहितमन्त्रस्फुरत्तादायिनीं दर्शयितुं, यथा श्रीनित्यातन्त्रेषु ऐकारात्मकमोहनबीजप्राधान्यहेतुः / परनादात्मनिवेशप्राधान्यात् तदनुसारापतितश्रीमन्नादिफान्तक्रमेणैव निवेशः / अत्र कुलपुरुषाणां कुलशक्तीनां च एष एव निवेश अभिप्रायो न च वर्णमन्त्रादिगुप्तिमात्रम् एव फलम् / तथा श्रीवाजसनेयतन्त्रे वर्णान् यथोचितं निवेश्योक्तम्
SK
Q: इत्य् एतन् मातृकाचक्रं दिव्यं विष्णुपदास्पदम् / Q: ज्ञातं गुरुमुखात् सम्यक् पशोः पाशान् निकृन्तति //
SK
इति / तथा श्रीत्रिकहृदये ऽपि
SK
Q: चक्रशूलाम्बुजादीनां प्राणिनां सरितं नृणाम् //
SK
Q: आयुधानां च शक्तीनाम् अन्यस्यापि च कस्य चित् //
SK
Q: यो निवेशस् तु वर्णानां तद्वीर्यं तत्र मन्त्रगम् / Q: तेन गुप्तेन ते गुप्ताः शेषा वर्णास् तु केवलाः //
SK
इति / तथाहि मन्त्राणाम् अक्षरमात्रानन्यथाभावे ऽपि तेषाम् एव शास्त्रेष्व् आणवशाक्तशाम्भवादिविभागेनान्यथात्वं यथा मायाबीजस्य प्रणवस्य सर्वस्यामृतबीजस्य वैष्णवशैववामादिशास्त्रेषु यथा वा चतुष्कलभट्टारकस्य कालोत्तरादौ श्रीमदुच्छुष्मशास्त्रे च / अत्र च कुलपुरुषबहुभेदप्रकटनायाम् अभियुक्तानाम् उपायो लिख्यते
SK
Q: पूर्वे परेषाम् अपरे परे पृष्ठवद् एव च / Q: पूर्वे ऽपि च यथापूर्वं मातृकाया विधिर् मतः //
SK
Q: एतेनैवानुसारेण भिन्नयोनिस्वरूपतः //
SK
Q: शाक्ता ह्य् असंख्या देवीयं परैवोत्तरमालिनी //
SK
Q: ऊर्ध्वाधो विनिविष्टेषु भेदसंख्येषु धामसु / Q: एकं बिन्दुर् अथापि प्राग् अन्येषु प्राक्तनान्त्यगाम् //
SK
Q: स्वपृष्ठगां च तां संख्यां विनिवेश्यैकतः क्षिपेत् / Q: अस्मादन्यैर् भवेत् संख्या स्पृष्टैर् इष्टैः पुनः क्रमः //
SK
यथोक्तं कुलशक्तीनां विधिर् आनन्त्यवेदन इति / तद् एतेन विधिना ये कुलपुरुषशक्तियोगिनो निरधिकारीभूताः, यथोक्तम्
SK
Q: ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्य् अलम् //
SK
Q: मन्त्राणां कोटयस् तिस्रः सार्धाः शिवनियोजिताः / Q: अनुगृह्याणुसंघातं याताः पदम् अनामयम् //
SK
इति मन्त्रमहेस्वराः, न तु मन्त्राः, तेषां स्वलयावसरे अनामयपदपर्यन्तताभावः /
SK
तेभ्यो नैव मन्त्रोद्धारस् तस्य निष्फलत्वात् / तत एव
SK
Q: अभिन्नयोनिमध्ये तु नादिफान्तं कलौ युगे /
SK
इति / तद् एवं भगवती परापराभट्टारिका पदभेदशालिनी मध्यमया मुख्यया वृत्त्या भगवन्मालिनीरूपैवानन्तापरिगणप्रदर्शितवैश्वरूप्यस्वस्वरूपापीति / तत्रापि च तथैव स्वात्मनि सर्वात्मकत्वेनांशत्रयोद्रेकाद् वर्णपदमन्त्रात्मकत्वम् / एतच् च शोधनकरणभावेनेति मन्तव्यम् / पश्यन्त्यंशोल्लसन्तो हि पाशाः सूक्ष्मा एव शोध्या भवन्त्य् अन्तर्लीनत्व एव पाशत्वात् / उदितोदितविजृम्भामयशाक्तप्रसरे तु मध्यमापदे शोधनकरणतैवान्तर्लीनपटमलापसरणे बाह्यस्थूलमलस्येव /
SK
तत्पराभट्टारिकासंविदन्तर्गतं तु वैखरीपदं विमृश्यते / न हि तत्रैव वैखर्या असंभवः / तथा हि बाला द्वित्रैर् वर्षैर् यद्य् अपि स्फुटीभूतस्थानकरणा भवन्ति तथाप्य् एषां मासानुमासदिनानुदिनम् एव वा व्युत्पत्तिर् अधिकाधिकरूपताम् एतीति तावत् स्थितम् / तत्र यदि मध्यमापदे तथाविधवैखरीप्रसरस्फुटीभविष्यत्स्थानकरणाविभागवर्णांशस्फुरणं न स्यात् तद् अहर्जातस्य बालकस्य मासजातस्य संवत्सरजातस्य वा व्युत्पत्तौ न विशेषः स्यात् / मध्यमैव सा व्युत्पत्त्या विशिष्यत इति चेत् कथम् इति चर्च्यताम् तावत् / सृन्वन्न् एव ताञ् शब्दान् पश्यंश् चार्थान् व्युत्पद्यते वमांश् च श्रूयमानान् एव परामृशेच् छ्रूयन्ते च वैखरीमयाः, तेषु च असौ रूप एव जात्यन्धवत् / तस्माद् अन्तर्मध्यमानिविष्टस्थानकरणादिमयी अस्त्य् एव वैखरी / मूके ऽप्य् एवम् एव / सर्वात्मकत्वं च संविदो भगवत्या एवोक्तम् / एवं च वैखरीपदम् एव मध्यमाधामलब्धविजृम्भं स्वांशे परस्परवैचित्र्यप्रथात्मनि स्फुटवाच्यवाचकभावोल्लासे जाते तत्त्वजालम् अन्तःकृत्य यावद् आस्ते तावद् अपराभट्टारिका / तदन्तर्वर्तिमध्यमापदोल्लासे परापरा / पश्यन्त्युल्लासे च स्वरूपतो भगवती देवी चेति शोधकभावेन स्थितिः त्रैधम् एवावतिष्ठते / सोधको हि विश्वात्मा विततरूपो वैतत्यं चैवम् एव भवतीत्य् उक्तम् /
SK
शोधनं प्रति तु करणत्वं कर्तुर् एव स्वस्वातन्त्र्यगृहीतसंकोचस्य शाक्तमहिमविश्रान्तस्य भगवतः / शोध्यता तु संकोचैकरूपस्य सप्तत्रिंशातिक्रान्तत्रिकैकरूपभैरवभट्टारकाविनिर्भक्तपराभट्टारिकातुल्यकक्ष्यपरापरादेवताक्षोभात्मकसदाशिवज्ञानशक्तिविस्फारितपशुशक्तिरूपपश्यन्तीधामप्रथमासूत्रितभेदात्मनो नरात्मनः पाशजालस्येति निर्णयः / यथोक्तं श्रीसोमानन्दपादैः शिवदृष्टौ
SK
Q: अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे / Q: शिवः करोतु परया नमः शक्त्या ततात्मने //
SK
इति / सर्वक्रियाकलापे एवंरूपतासूचकत्वं शिवदृष्टौ / तत्रापि चोत्तरोत्तरं शोध्यसोधकानाम् अपि विगलनम् /
SK
Q: त्यज धर्मम् अधर्मं च उभे सत्यानृते त्यज / Q: उभे सत्यानृते त्यक्त्वा येन त्यजसि तत् त्यज //
SK
इति / तद् इयम् एतावती धारा यच् छोधनम् अपि शोध्यम् एवेति श्रीषडर्धशास्त्रे एव एक उत्कर्षः / तिसृणाम् अपि चासां युगपत् स्थितिर् भवत्य् एव / वक्ति ह्य् अन्यत् विकल्पयंश् चान्यत् जल्पत्य् अविकल्पम् एव अन्यत् पश्यति / अत्र तु परिपूर्ण एव तावति भगवान् भैरव एवेत्याद्य् अनुभवसंप्रदायोपदेशपरिशीलनेनास्यार्थस्य स्वसंविन्मयस्यानपलापनीयत्वात् / न तद् युगपत् अपि तु तथासौक्स्म्याद् अलक्सणम् इति यौगपद्याभिमानः शिरीषकुसुमपल्लवसतव्यतिभेद इवेति चेत् केयं खलु भाषा युगपद् इति / समानकालम् इति चेद् अन्तर्मुखे सम्विदात्मनि प्रोक्तनयेन कः कालः तस्य ज्ञेयरूपप्राणगमागमादिमयाभासतदभावप्राणत्वात् / ज्ञेयोपाधिगतोऽपि ज्ञानम् अवस्कन्देत् स इति चेज् ज्ञेयस्य स्वात्मनि भासामये ऽन्यथा वा कस्य निवेशो ज्ञानमुखे नोक्तः / इतरेतराश्रयसंप्लवः स्वतो भेदाद् इत्याद्य् अपि सर्वम् उच्यमानं ज्ञानमुखम् एवापतेत् तथा च स एव दोषः /
SK
बहुतरकुसुमपल्लवसतव्यतिभेदो ऽपि चानेक इत्य् उच्यमाने सर्वत्र सूक्ष्मपरमाण्वन्तावयवयोगान् नास्ति कर्म इत्य् आपतेत् / न चानुसंधानं ज्ञानाभावेन सह स्याद् अनुसंधायाः स्मृतिभेदे तस्याश् चानुभवोपजीवित्वे ऽनुभवाभावाभावात् / वितत्य च विचारितं मयैतत् पदार्थप्रवेशनिर्णयटीकायाम् इति किम् इह वृथावाग्जालेन प्रकृतोपदेशविघ्नपर्यवसायिना / एवं भगवत्य् अपरा सोधकभावेन स्थिता परा परापरापि च यत्र भगवतीनाम् अघोरदीनां शक्तीनां स्थितिर् यद्योगाद् विज्ञानाकलसाधकयोगिनो मन्त्रमहेसादिरूपेणाघोराद्याः संपन्नाः / ब्रह्म्यादिशक्त्यनुग्रहेणैव साधकाणवो ब्रह्मविष्ण्वादयः / परमेश्वरो हि भैरवभट्टारकः समग्रशक्तिपुञ्जपरिपूर्णनिर्भरवपुर् निजशक्तिनिवेशनया ब्राह्म्यादीन् स्वातन्त्र्यात् करोति इति किम् अन्यत् / एवं शोधकस्यापि शोध्यत्वम् इत्य् अन्य उत्कर्षः
SK
Q: ... कुलात् परतरं त्रिकम् /
SK
इति स्थित्या / ततश् च शोध्यशोधनशोधकानां सर्वत्रैव त्र्यात्मकत्वात् त्रिकम् अनपायि यथोक्तं मयैव स्तोत्रे Q: ... यत्र त्रिकानां त्रितयं समस्ति /
SK
इति / न चैवम् अनवस्था सर्वस्यास्य भगवत्परसंविदेकमयत्वात् /
SK
Q: ... येन त्यजसि तत् त्यज
SK
/ इत्य् एवम् एव मन्तव्यम् / शोधनम् अपि अन्ततः शोधको ऽपि वा भेदांशोच्छलत्तायां पाशात्मकत्वात् शोध्य एव / शोधनं च परमार्थतः सर्वमलप्लोषचतुरभैरवसंविदभेदिहुतवह एव सर्वस्यानुप्रवेशे परिपूर्णतैव / यद् वक्स्यति
SK
Q: एवं यो वेत्ति तत्त्वेन ... /
SK
इत्यादि / तत् परसंविदेकमयपरापरादिदेवतानं सर्वात्मकत्वात्
SK
Q: परापराङ्गसंभूता योगिन्यो ऽष्टौ महाबलाः /
SK
इत्यादिवचनाल् लौकिकशास्त्रान्तरीयादिवाच्यवाचकानन्त्यम् अपि संगृहीतम् / तद् एवं कृतकरिष्यमाणाद्यनन्तसंकेतगर्भीकारेणैवायं शोध्यशोधकभावो न चानवस्था न चातिप्रसङ्गो नाव्यप्तिर् न संकेतितस्यापारमार्थिकतेति स्थितम् / एवं स्थिते प्रकृतम् अनुसरामः / अकाराद्या एव कालयोगेन सोमसूर्यौ यौ तौ तदन्तः प्रकीर्तिताव् इति संबन्धः/ तच्छब्देन प्राक्तनश्लोकोक्तम् अकुलं भैरवात्म परामृश्यते / तेनाकुलम् एवान्तर्गृहीतकलनाकं कुलशक्तेर् अत्रैव निवेशात् / कलनात्मिका हि विमर्शशक्तिः / ताम् अन्तरेणाकुलम् अपि तुर्यातीतं नाम न किं चित् सौषुप्तपदाविष्टत्वात् तुर्यानन्तरताया अपि समानत्वात् / विमर्शशक्तिश् च परा परमेश्वरी भैरवभट्टारकस्य निरतिशयस्वातन्त्र्यात्मिका पूर्णकृशतदुभयात्मकतदुभयरहितत्वेनावतिष्ठते / तत्र यद्य् अपि न कश् चिद् अत्र क्रमयौगपद्योदयकलङ्कः प्रोक्तोपदेशनयेनैतावत्याः पराभट्टारिकासंविदो ऽनन्तागामिप्रलयोदयात्मकस्वस्वभावविमर्शैकघनत्वात्
SK
Q: स्वतन्त्रः परिपूर्णो ऽयं भगवान् भैरवो विभुः / Q: तन् नास्ति यन् न विमले भासयेत् स्वात्मदर्पणे //
SK
इति नीत्या क्रमयौगपद्यासहिष्णुस्वात्मरूपमध्य एव यावत् क्रमाक्रमावभासस् तावत् तदनुसारेणायं क्रमो विचारणीयः, अक्रमस्य तत्पूर्वकत्वेन संविद्य् एव भावात् प्रतिपादनायास् तु सर्वथैव सक्रमत्वात् / तथा च सर्व एवायं वाग्रूपः परामर्शः क्रमिक एव, अन्तःसंविन्मयस् त्व् अक्रम एवेति सदैवेयम् एवंविधैव एवम् एव विचित्रा पारमेश्वरी पराभट्टारिका / ततस् तत्क्रमानुसारेण ``अत्ऽऽ इत्यादिव्यपदेशः / एवं परमेश्वरस्य स्वात्मनीच्छात्मिका स्वातन्त्र्यशक्तिर् अनुन्मीलितभावविकासा तथाविधान्तर्घनसंवित्स्वभावविमर्शसारा ``अऽऽ इत्य् उच्यते / स चावस्था इच्छेति व्यपदेश्या इष्यमानानुद्रेका तत एवानुत्तरसत्तापरामर्शात्मिकैव एषा /
SK
परमेश्वरः सततं स्वस्वरूपामर्शको ऽकुलशक्तिपदात्मकम् अपि रूपम् आमृशन् यद्य् अपि कुलशक्तीर् अनुयातु तथापि कुलपरामर्शतो ऽस्य स्याद् एव विशेष इति भैरवशक्तिमद्विमर्शसत्तेयम् / तादृश्य् एव पुनः प्रसरन्ती आनन्दशक्तिः ``आऽऽ इति / प्रसृता परिपूर्णेच्छा ``इऽऽ इति / इच्छैव भाविज्ञानशक्त्यात्मकस्वातन्त्र्येण जिघृक्षन्ती ईशनरूपा ``ईऽऽ इति / उन्मिषन्ती तु ज्ञानशक्तिर् इष्यमाणसकलभावोन्मेषमयी ``उऽऽ इति / उन्मिषत्तैव उन्मिमिषताम् अपि अन्तःप्राणसर्वस्वरूपोन्मेषोत्तरैकरूपैर् अपि अन्तःकरणवेद्यदेशीयास्फुटप्रायभेदांशभासमाभिः संकोचवशेनोनीभूतानुत्तरसंवित् सर्वभावगर्भीकारेणानङ्गधैनवीरूपपरदेवताया ऊढोरूपा ऊढसकलभावराशिः सुस्फुटा प्रसृता ज्ञानशक्तिः ``ऊऽऽ इति / तद् एवम् एते परमेश्वरस्य भैरवस्य द्वे शक्ती, प्रथमा स्वरूपपरिपूरणारूपत्वात् पूर्णा चान्द्रमसीशक्त्यव्यतिरेकाच् च सहोमया वर्तत इति सोमरूपा स्वानन्दविश्रान्तिभावा इच्छाख्या कलना महासृष्टिव्यपदेश्या, यद् वक्ष्यते ``तत्र सृष्टिं यजेद्ऽऽ इति / द्वितीया तु तत्स्वरूपभावराशिरेचनानुप्रवेशाद् रिक्ता तद्रेचनाद् एव कृशा भावमण्डलप्रकाशनप्रसारणव्यापारा सूर्यरूपा स्वरूपभूतकुलसंवित्संजिहीर्षात्मिका महासंहारशक्तिर् ज्ञानाख्या / तत्रापि च प्रसरतत्प्राक्तनरूपपर्यालोचनावसात् स्वात्मनि यथाक्रमं सोमसूर्यरूपतायुगलकभावेन स्वसंविदात्मकं भावाख्यं च रूपम् अपेक्ष्य विपर्ययो ऽपि सोमसूर्यात्मकसृष्टिसंहृतिकलनयोः / न चात्रानवस्था ज्ञानेच्छयोर् अपि प्रसराप्रसरान्तरादिरूपत्वं, तयोर् अपि प्रसराप्रसरयोर् इच्छाज्ञानप्रसराप्रसरान्तरादिपरिकल्पनाप्रसङ्गाद् इति वाच्यम् / उपसंहरत बाह्यविभ्रमभ्रमभ्रमणं तावत्, अनुप्रविशत सूक्ष्मां विमर्शपदवीम् / यावद् धि घटादाव् अपि विज्ञानं जायते तावद् एव ज्ञेयघटाद्यंशकर्बुरीकृतस्वयंप्रथं ज्ञानं प्रथत एव / तत्रापि च तद्रूपकर्बुरीभावे घटादिप्रथमसूक्ष्मोल्लासोऽपि संवेद्य एकभावोद्गमस्य अन्यतः कुतश् चिद् अभावस्य प्रथमानत्वात् /
SK
संविद एव स्वातन्त्र्यं भावोज्जिगमिषात्मकम् ईशनं स्वसंवित्प्रमाणलब्धम् एव / तद्भावानुचयरूपा संविद्घना परिपूर्णा स्वातन्त्र्यसत्तापि संवेद्या / स्वात्मन्य् आनन्दघनो भवंस् तथा स्वतन्त्रः स्याद् इत्य् आनन्दो ऽपि नापह्नवनीयः / अनुत्तरश् च शक्तिमान् अव्यपदेश्यपरचमत्कारसारो भैरवभट्टारकः सर्वत्र कर्तृत्वेन भासत एव / तत्रापि त्व् अनुत्तरानन्देच्छेशनोन्मेषणोनत्वनिमेषाणां स्वरूपविमर्शे तेषां विच्छेदविचारणेन ज्ञानभूमिम् अधिशयानानां ता एव भगवत्यः संविच्छक्तयः समापतन्त्य् अनन्या एव स्वयं संविदः, परिपूर्णत्वेनाभेदात् संवेद्योपाधेश् च भेदकत्वात् तस्य देहसंवेद्यमात्रतयैव भावात् / अत एव श्रीतन्त्रसारे निजोत्तमाङ्गच्छाया तत्त्वम् इत्य् उक्तम्
SK
Q: स्वपदा स्वशिरश्छायां यद्वल् लङ्घितुम् ईहते / Q: पादोद्देशे शिरो न स्यात् तथेयं बैन्दवी कला //
SK
इति / तद् एवं षट्कं प्रवृत्तं ज्ञानशक्त्यन्तम् / क्रियाशक्तिस् तु प्रसरन्ती विचार्यते / इच्छाज्ञाने एव परस्परस्वरूपसांकर्यवैचित्र्यचमत्कारमयपूर्वापरीभूतस्वरूपपरिग्रहे संरम्भसारा क्रिया / तत्र यद् यद् अन्यव्यामिश्रितसांकर्यम् अन्यसंबन्धाद् एति तत् तद् अनामर्शनीयशून्यप्रायस्वरूपाक्रमणपुरःसरीकारेण तथा भवति प्लवानाम् इव भेकादिः / तत्रानुत्तरानन्दात्मकं वपुर् न व्यपसरति, अव्यपदेश्यरूपत्वात् सर्वज्ञानेषु सर्वाधारवृत्तित्वेन पर्यवसतिपर्यन्तभित्तिरूपत्वात्, अपि तु क्रमसहिष्णुत्वात् संरम्भ इच्छैवेशनान्ता स्वात्मन्य् अनुत्तरानन्दपदे च प्रसरणक्षमा / ततः सैव शून्यात्मकं स्वं वपुर् अवगाहमाना भास्वरं रूपं तेजोमयम् इव प्रथमं गाहते ``ऋ ःऽऽ इति / अत्र हि ``इ ईऽऽ इत्यनुगमो भास्वररूपरेफश्रुत्यनुगमश् च कथम् अपह्नूयताम् / यथाह भगवान् पुष्पदन्तः
SK
Q: रश्रुतिसामान्याद् वा सिद्धम्
SK
इति / शून्ये हि निश्चले रूपे अनुप्रविविक्षायां भास्वररूपसंवित्तिसोपानाक्रमणं स्थितम् एव /
SK
ततो निश्चलरूपानुप्रवेशात् पार्थिवरूपसतत्त्वनिश्चलतात्मकलकारश्रुत्यनुगमे ऌ ऌ३ इति / तथा च पर्यन्ते ईशनरूपतैव समग्रभावात्मस्वरूपोल्लङ्घनेन दीर्घतरं प्लुत्वा निश्चलां शून्यां सत्ताम् एतीति प्लुतत्वम् एति ``ऌवर्णस्य दीर्घा न सन्तिऽऽ इति न्यायात् / अवर्णादीनां तु दीर्घस्यैव दीर्घतरता प्लुतत्वं / तच् च प्राङ्नीत्या दीर्घत्वम् एव पृथग् अपर्येषणीयम् इत्य् आस्तां तावत् / एतच् चतुष्कं शून्यरूपतानुप्रवेशाद् दग्धबीजम् इव षण्ठरूपं भण्यते न तु सर्वथा बीजरूपत्वाभावात्, बीजयोन्यात्मकशिवशक्त्युभयातिरेकिनः कस्य चिद् अप्य् अभावात्, श्रीपूर्वादिशास्त्रेषु चानभिधानात् / लौकिकसुखादिषु चैवंविधैव विश्रान्तिर् आनन्दरूपेति तद् एवामृतबीजचतुष्कम् इत्य् उक्तम् / तद् एवम् इच्छेशनं चानन्दवपुषि अनुत्तरपरधामनि च प्राग्भाविनि स्वरूपाद् अप्रच्याविन्य् अनुप्रविश्य ``अ आ इ ई इति एऽऽ, न तु विपर्यये, यथोक्तम् ``अवर्ण इवर्णे एऽऽ इति / अनुप्रवेशे चानुत्तरपदानुप्रवेशे स्याद् अपि कश् चिद् विशेषः / आनन्दपदानुप्रवेशे हि स्फुटता / अनुत्तरधामसंभेदे तु सूक्ष्मता तदपेक्षया / तथाहि भगवान् भुजगविभुर् आदिशत्
SK
Q: छन्दोगानां सात्यमुग्रिराणायनीया अर्धम् एकारम् अर्धम् ओकारं चाधीयते /
SK
इति / लोकेऽपि प्राकृतदेशभाषादौ स्फुट एव प्रचुरो निवेशः / पारमेश्वरेष्व् अपि एकारौकारयोर् एकारौकारापेक्षया यद् ध्रस्वत्वम् अङ्गवक्त्रादिविनियोगे दृश्यते तद् एवम् एव मन्तव्यम् अर्धैकारार्धौकारभिप्रायेण / एवम् ``एऽऽ इति बीजं स्थितम् / एतद् अपि तथाशबलीभूतं संविद्वपुस् तथैव तद् एव रूपम् अनुवसत् ``अ आ एऽऽ इति ऐ / एवम् उन्मेषेऽपि वाच्यम् ``अ आ उ ऊ इति ओऽऽ / ``अ आ ओ इति औऽऽ / केवलम् उन्मेषो ज्ञानशक्त्यात्मा प्रसरन् यद्य् अपि शून्यतावगाहनम् कुर्यात् तथापि अस्येशनेच्छात्मकोभयरूपप्रवेश एव शून्यता, इच्छेशनयोस् तु स्वपरिवृत्तिरूपं नास्तीत्य् उक्तनयेनैव स्थितिः / एवम् इच्छाज्ञाने अनुत्तरस्वरूपानुप्रवेशेन प्राप्तोपचये पश्चात् परित्यज्य तथाविधोपाधिपरिस्पन्दसत्ताम् अभेदसत्तारोहणचिन्मयपुरुषतत्त्वसतत्त्ववेदनारूपबिन्दुमात्रावशेषेण वपुषा तथानुत्तरपद लीने ``अंऽऽ इति /
SK
तथाहि औकारे एव क्रियाशक्तिपरिस्पन्दः परिसमाप्यते इतीच्छाज्ञानयोर् अत्रैवान्तर्भावात् त्रिशूलरूपत्वम् अस्य षडर्धशास्त्रे निरूपितम्
SK
Q: ...त्रिसूलेन चतुर्थकम् /
SK
इत्याद्युद्देशेषु / बिन्दुः पुनर् वेदनामात्रशेषतैव सर्वस्य / वेदनामात्रावशेषम् अपि विश्वं यदा स्वात्मन्य् एकगमनाय विसृजति स्वात्मनश् च सकाशात् तन्निर्माणेन विसृजति स एव परमेश्वरः, प्रथमं शक्तिमद्रूपप्रधानतया, इदानीं तु शाक्तविसर्गप्रधानतया ``अःऽऽ इति / औकारपर्यन्ते हि निर्भरीभूते क्रियाशक्तिप्रसरे एतावद् अनुप्रविष्टम् / अनुत्तरपदस्य भैरवभट्टारकस्य स्वरूपसतत्त्वस्येच्छाज्ञानक्रियात्मकशक्तिपरिस्पन्दादिमध्यान्तभागा उल्लिलसिषोल्लसत्तोल्लसिततास्वभावाः सूक्ष्मतमप्रसंख्यानगृहीततावद्भूमिकाधिरूढयोगिजनस्फुटलक्सणीयाः श्रीस्वच्छन्दादिप्रक्रियाशास्त्रेषु प्रबुद्धप्रसरणावरणादिरूपत्वेनोक्ताः / अत एव शिवदृष्टिशास्त्रे सप्तमाह्निके
SK
Q: सुनिर्भरतराह्लादभरिताकाररूपिणि / Q: निलीनशक्तित्रितये परात्मन्य् अनुभावनात् //
SK
इत्यादि
SK
Q: तस्यापि शक्तिर् मृत्पिण्डघटवद् विश्वरूपताम् /
SK
गता ... //
SK
इत्यन्तं निरूप्य
SK
Q: एकम् एव हि तत् तत्त्वं न संख्यातो ऽतिरिक्तता /
SK
इति यच् छिवतत्त्वम् एव अनन्तविचित्रस्वातन्त्र्यस्फारस्फुरणशक्तिचमत्कारभरिततोपात्तभैरवभावं निर्णीतं तत्रायम् एवोक्तक्रमः / संप्रदायप्रथमाह्निके ऽपि
SK
Q: स यदास्ते चिदाह्लादमात्रानुभवतल्लयः / Q: तदिच्छा तावती तावज् ज्ञानं तावत् क्रिया हि सा //
SK
Q: सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते / Q: चिद्रूपाह्लादपरमो निर्विभागः परः सदा //
SK
इति / तथा
SK
Q: ...घटं जानाति यावसा / Q: जानाति ज्ञानम् अत्रैव निरिच्छोर् वेदनक्षतिः //
SK
Q: औन्मुख्याभावतस् तस्य निवृत्तिर् निर्वृतिं विना / Q: द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितिम् //
SK
इति / तथा
SK
Q: यत इच्छति तज् ज्ञातुं कर्तुं वा सेच्छया क्रिया / Q: तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या //
SK
Q: तत्कर्मनिर्वृतिप्राप्तिर् औन्मुख्यं तद्विकासिता / Q: न चौन्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् //
SK
इत्यादि / एतद् आगमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतम् / स एष परमेश्वरो विसृजति विश्वम्, तच् च धरादिशक्त्यन्तं कादिक्षान्तरूपम् इत्य् एतवती विसर्गशक्तिः ``षोडशी कलाऽऽ इति गीयते
SK
Q: पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् /
SK
इति एषा हि न संख्येया नापि वैदन्तिकी दृग् अपि तु शैव्य् एव / विसर्गशक्तिर् एव च परमेश्वरी परमानन्दभूमिबीजम् / एवं ह्य् अकारादिरूपं घनतापत्त्या योनिरूपतां गृहीत्वा स्वरूपाप्रच्युतं तद् एव स्वस्वरूप एव योनिरूपे संक्रामद् विसर्गपदम् इत्य् उच्यते / यथोक्तम्
SK
Q: स विसर्गो महादेवि यत्र विश्रान्तिम् ऋच्छति / Q: गुरुवक्त्रं तद् एवोक्तं शक्तिचक्रं तद् उच्यते //
SK
इत्यादि / अकारस्यैव घनता कवर्गः, कण्ठ्यत्वात् / इकारस्य चवर्गः, तालव्यत्वात् / उकारस्य पवर्गः, औष्ठ्यत्वात् / ऋकारस्य तवर्गः, मर्धन्यत्वात्, ऌकारस्य तवर्गः, दन्त्यत्वात् / यशौ चवर्गस्यान्तः, रषौ टवर्गस्य, लसौ तवर्गस्य, वकारोऽपि तपवर्गयोः / घनता बोधस्यामूर्तस्यापि चिन्मात्रस्यापि क्रियाशक्तिरूपतैव / सा चोक्तनीत्या शक्तिषट्कक्रमेणैवोपजायते / तेन पञ्च प्रसृताः षड्गुणितास् त्रिंशत्, षड्भिः सह षट्त्रिंशद् भवन्तीति /
SK
तद् एवं शिवबीजम् एव स्वातन्त्र्याद् घनीभूततया क्वचिद् वपुषि शाक्तरूपे कुसुमतया तिष्ठद् योनिर् इत्य् अभिधीयते / तद् एव हि पुष्पं पुर्वोक्तनयेन ग्राह्यग्राहणग्राहककोणत्रयमयं वस्तुतः प्रसूतिपदं बीजसंमिश्रतयैव भवति, तदैव पुष्परूपत्वात्, अन्यदा तु योग्यतयैव तथाव्यपदेशः / तथा च तत् कुसुमम् एव त्रिकोणतया योनिरूपम् / तत् स्फुटीभूतविभक्तग्राह्यादिरूपसोमसूर्याग्निसृष्टिस्थितिसंहृतीडापिङ्गलासुषुम्नाधर्माधर्मशबलादिकोणत्रितया पारमेश्वरी भैरवी भट्टारिका मुद्रा तद्रूपयोन्याधारतया योनिर् इति निर्दिष्टा / तथा च श्रीकुब्जिकामते खण्डचक्रविचारे अमुम् एवार्थं प्रधानतयाधिकृत्यादिष्टम्
SK
Q: मायोपरि महामाया त्रिकोणानन्दरूपिणी / %नोत् इन् एद्. ओf KउMअ? fओर् Mअहामाया \च्f \RऔSउSअम् ४:२८च्द्: मायोपरि महामाया सर्वकारणकारणम्; = \अगम{Nइश्वासगुह्य} ७.२५३अब्
SK
इत्यादि / अत एव तथाविधबीजकुसुमैकघनभावशिवशक्तिसंघट्टः स्वयं स्वात्मनैव पूज्य इत्य् उपदिष्टं श्रीत्रिकतन्त्रसारे
SK
Q: शिवशक्तिसमापत्त्या शिवशक्तिघनात्मकः / Q: शिवशक्तिसमापत्ति त्रिकं संपूजयेत् परम् //
SK
इति / एवं च घनीभावो ऽपि वैखरीरूपे यद्य् अपि स्फुटीभवति तथापि सर्वसर्वात्मनि परावाग्वपुषि मुख्यतयावतिष्ठते / तत्र परं कण्ठोष्ठस्थानकरणान्य् अपि सर्वसर्वात्मकम् एवेति विशेषः / तथा ह्य् अन्तर् अपि संजल्पेत् पश्येद् इति स्फुट एवानुभवो भेदश् च स्थानादिकृत एव, श्रुत्येकप्राणत्वात् वर्णानां / किं बहुना / बालोऽपि व्युत्पाद्यमानो ऽन्तस् तथारूपतया विमृशति भावजातं, विपर्ययेण संशयेनापि वा विमृशति / अवच्छेदं तावत् संवेदयत एव / स च वाग्विमर्शकृत एव / अत एव संवारविवाराल्पप्राणमहाप्राणताश्वासनादानुप्रदानादियोगोऽपि चान्तस् तथासमुचितस्वभावः स्याद् एव, अन्यथा सस्थानेषु भेदायोगात् / अन्तर्हितकरणशक्तयोऽपि स्युर् एव, शृणोम्य् अश्रौषं पश्याम्य् अद्राक्षं संकल्पयामि समकल्पयम् इत्यादेर् अपि संकल्पस्यान्यथावैचित्र्यायोगात् / तद् अनया युक्त्या निभालितयान्तर् अधिकम् अधिकम् अनुप्रविश्य परिशीलयत तां सम्विदं यत्र सर्वसर्वात्मकबोधैकघनकण्ठौष्ठादिधाम्नि तथाविधबोधैकघनविमर्शात्मकस्वातन्त्र्यसारमहामन्त्ररूपवर्णभट्टारकनिवेशः /
SK
बोधैकघनतानिर्विशेषतायाम् इदं स्थानम्, इदं करणम्, अयं वर्ण इति कथंकारं विभाग इति चेद् यद् एवं स्वातन्त्र्यं तथाविधे स्वात्मनि घटो ऽयम्, सुखम् इदम्, ज्ञानम् इदम्, ज्ञाताहम् इत्य् अवभासयति तस्यैवंविधचित्रतररूपावभासेन को वा कियान् वा प्रयासः / अत एव सर्वे पाषाणतरुतिर्यङ्मनुष्यदेवरुद्रकेवलिमन्त्रतदीशतन्महेशादिका एकैव परभट्टारिकाभूमिः सर्वसर्वात्मैव परमेश्वररूपेणास्ते इति तद्विचित्रस्थानादिसार्वात्म्यनिर्विष्टस्फुटास्फुटव्यक्ताव्यक्तादिरूपशब्दशरीरा मन्त्र वीर्यम् इति गीयते/ तथा हि वीणाविपञ्चीकच्छपिकामुरुजादिषु स एव स्वनो ऽन्यतो ऽन्यतो देशाद् अप्य् उद्भवन्न् एकस्थान इति कथ्यते / एवं तारमध्यमन्द्रेष्व् अपि तत्स्थायिस्वरैकात्म्ये ऽपि वाच्यम् / अत एव च स एव वर्णः क्व चित् प्राणिनि स्थानान्तरसमुल्लास्य् अपि भवति यथा ध्वांक्षेषु ककारटकाररेफा उच्चरन्तः सर्व एवोदरपायुकण्ठतालुनिर्वर्त्या उपलभ्यन्ते / अव्यक्तत्वे ऽपि त एव तावन्तः शब्दत्वात् शब्दस्य च मातृकातिरेकिनो ऽभावात् / मातृकातिरेक्य् अपि अव्यक्तः शब्दो ऽनुपयोगान् न संगृहीत इत्य् अप्य् अयुक्तम् / अव्यक्तवर्णरूपस्यापि मौरुजसामुद्रादिध्वनितस्य ह्लादपरितापकारित्वम् अपि अस्त्य् एवेति को ऽन्यो ऽभिमत उपयोगः / पारमेश्वरे ऽपि अव्यक्तध्वनेर् मुख्यतयैव प्रायशो मन्त्रत्वं निरूपितम् अर्धचन्द्रादीनाम् एव मन्त्रव्याप्तिसारत्वेनाभिधानात् / तत्र च
SK
Q: निरोधिनीम् अनुप्राप्तः शब्दः शुमशुमायते /
SK
इत्याद्य् उक्तम् / घण्टाकांस्यादिध्वनीनां श्रोत्रघट्टनादीनां च नादोपदेशे निरूपणात्
SK
Q: हयो हेषति यद्वच् च दान्त उद्रवतीव च / Q: सिंहो गर्जति यद्वच् च उष्ट्रः सीत्कुरुते यथा //
SK
Q: तथोदीर्य पशोः प्राणान् आकर्षन्ति बलाधिकाः / Q: महामन्त्रप्रयोगो ऽयम् असाध्याकृष्टिकर्मणि //
SK
इत्य् उक्तं गुह्ययोगिनीतन्त्रे / तत्रोपायमात्रम् एतत् / वस्तुतस् त्व् आन्तर एवासौ नादात्मा मन्त्र इति तु कथ्यमानं भवद्भिर् अपि अस्माभिर् अपि व्यक्तवर्णमालादिमन्त्रेष्व् अपि न न संचारयितुं शक्यते /
SK
तस्माद् अव्यक्तो वर्णात्मैव शब्दो यथा विदूरगतोऽपि घटो घट एव इति स्थितम् / स च प्राणभेर्यादिभेदेन स्थानान्तरम् अपि अनुसरन् स एवेत्य् अपि स्थितम् / अत एवेदनीं सर्वभूतरुतज्ञानं यच् छेषमुनिना भगवतोपदिष्टं तद्धृदयंगमीभूतं, अन्यथा शब्दार्थप्रत्ययानां य इतरेतराध्यासो यश् च ध्यानधारणासमाधिसंयमेन तत्प्रविभागपर्यन्तपरलाभः स कथम् अस्फुटवर्णरूपत्वातिरेकिविहगादिकूजितज्ञानाय पर्यवस्येत् / यदा तु त एव वर्णा वर्णानाम् एव च परमार्थतो ऽर्थतादात्म्यलक्षणं वाचकत्वम् तदा युक्त्यात एव विहगादिरुतज्ञानम् / भेर्यादिशब्दा अपि ह्य् अर्थवन्त एव जयाजयसूचकतयोपदेशाद् विहगादिरुतवत् / तदभिप्रायेणैव शिक्षासूत्रकारसूत्राणि हविसर्जनीयाव् उरस्याव् एकेषां रदनमूलम् एकेषाम् इत्यादीनि वाचकीभवन्ति न त्व् अपरथा कथंचिद् अपि / अत एव किंचिद् वैचित्र्यम् आलम्ब्यान्यत्वम् अन्यत्वं चाशङ्कमानैः विसर्जनीयाज् जिह्वामूलीयोपध्मानीयौ, अनुनासिकेभ्यः पञ्चयमान्, डकारढकारयरलवक्षकारेभ्यः तान् एव लघुप्रयत्नतरान् भेदेनाभिमन्य चतुःषष्टिर् वर्णा उक्ताः / अन्यत्वं चात्र स्वरव्यञ्जनयोर् इव ऋवमरशब्दयोः / श्रीत्रिकरत्नकुले ऽपि उक्तम्
SK
Q: अष्टाष्टकविभेदेन मातृका या निरूपिता / Q: तद् एव कुलचक्रं तु तेन व्याप्तम् इदं जगत् //
SK
इति / मातृकाज्ञानभेदे विस्तरतो निरूपितम् एतत् / इह तु तत्प्रक्रियानभिनिवेशः, पूर्णतैकसारत्वात् / तद् एवं सर्वत्रायम् ईदृशः संविदनुप्रवेशक्रमः / पदार्थः संकल्प्यमानः साक्षात्क्रियमाणो वामायीयासांकेतिकस्वरूपभूतशुद्धविमर्शात्मपरवाङ्मन्त्रमहामहसि तावत् प्रतिष्ठां भजते यत्र सर्ववादिभिर् अविकल्पा दशा गीयते / तच् च परममन्त्रमहः पृथिव्यादौ शुद्धव्यामिश्रादिपारमार्थिकबीजपिण्डरूपकादिवर्णात्मकम् एव, अन्यथा मेरुबदरजलज्वलनभावाभावघटसुखनिर्विकल्पज्ञानानीत्य् एकम् एव सर्वं स्यात् / विकल्पो ऽपि तत्प्रसादोत्थः ताम् एव सरणिम् अनुसरेत्,
SK
न तु प्रत्युत तत्स्वरूपं भिन्द्यात् / तथा च यद् एव तद् असांकेतिकं मन्त्रवपुस् तद् एव अन्योन्यविचित्ररूपं पश्यद्भिः सर्वज्ञैः संकेतोपायम् उपास्यतया उपदिश्यते / तत्रैव चासांकेतिके वाङ्महसि तथा खलु मायीयाः संकेताः पतन्ति यथा त एवामायीयासंकेतितमन्त्रतादात्रोयं प्रतिपद्यन्ते / तथास्वरूपप्रतिपत्तिर् एव हि तेषां वाचकताभावो नान्यः कश् चित् / अत्र च स्फुटम् अभिज्ञानम् अभ्यासवसात् / सांकेतिकताम् आपन्नो चिरतरपूर्ववृत्तगोशब्दपरामर्शस् तथैव संकेतकाले गोपरामर्शो ऽप्य् अन्योऽमायीयासांकेतिकपरामर्शधामन्य् एव निपतति / यावत् बालस्यापिजन्मान्तरानुसरणे ऽपि चित्स्वभावस्यादौ स्थितैवासंकेतिकी सत्ता, अन्यथानवस्थानात् / एवम् एव खलु संकेतग्रहणोपपत्तिर् नान्यथेतीश्वरप्रत्यभिज्ञाटीकायाम् अपि श्रीमदुत्पलदेवपादैर् निर्णीतम् / अत्र चानुप्रवेशयुक्तिः
SK
Q: पश्यत्य् अन्यच् छृणोत्य् अन्यत् करोत्य् अन्यच् च जल्पति / Q: चिन्तयत्य् अन्यद् आभुङ्क्ते तत्रासांकेतिकी स्थितिः //
SK
इति / भट्टारकश्रीश्रीकण्ठपादाः
SK
Q: मनोऽप्य् अन्यत्र निक्षिप्तं चक्षुर् अन्यत्र पातितम्
SK
इत्याद्य् अप्य् अवोचन् / तद् अप्य् असांकेतिकमन्त्रवपुः स्वबीजम् अनुधावद् अनुत्तरपदपर्यवसायि भवति / तद् अप्य् अनुत्तरपदं सतततथाविधानन्तसमुदायवैचित्र्यसंरम्भसारं विसर्गदृष्ट्या प्रसरद् एव, विसर्गस्यैव हकलापर्यन्ततया प्रसरात् तस्या अपि हकाराख्यशक्तिकुण्डलिन्याः स्वरूपभेदात्मकबिन्दुस्वरूपद्वारेणानुत्तरपद एव संक्रमात्, स्वरूप एव विश्राम्यति / एकाक्षरसंवित् किल स्वरूपत एव देशकालकलनोपाधानादिनैरपेक्ष्येणैव प्रागुक्ततत्त्वपूर्णतानयेन झगिति विसर्गभूमौ धावति / विसर्गभूमिश्लेष एवानन्देच्छेशनोन्मेषतत्प्रसृतितद्वैचित्र्यक्रियाशक्तिमयानाम् आकारादीनां स्थितिः /
SK
स एव विसर्गः स्वसत्तानान्तरीयकतयैव तथैवातिभरितया सत्तया प्रसरन् द्राग् इत्य् एव हकलामयः संपद्यते / हकलामयतासंपत्तिर् एव वस्तुतः कादिसत्तानन्ततत्त्वजालस्थितिः / हकलैव च पुनर् अपि बिन्दाव् अनुप्रविशन्त्य् अनुत्तरपद एव पर्यवस्यतीत्य् एकैवाद्वयपरिपूर्णरूपा संवेदनसत्ताभट्टारिकेयं परा भगवती परमेश्वरी, न त्व् अत्र क्रमादियोगः कश् चित् / तद् एतद् उच्यते ``अहम्ऽऽ इति विपर्यये तु संहृतौ ``महऽऽ इति / द्वैधम् अपि चेयम् एकैव वस्तुतः संवित् / एवम् एष स सर्वत्र घटसुखादिप्रकाशे ऽपि स्वात्मविश्रान्तिसर्वस्वभूतो ऽहम्भावः / यथोक्तम्
SK
Q: प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः /
SK
इति / स च वस्तुतः सर्वात्मकः समनन्तरनिर्णीतनीत्या -- इति पराभट्टारिकानुविद्धो भैरवात्मक एव / यथोक्तं मयैव स्तोत्रे
SK
Q: विश्वत्र भावपटले परिजृम्भमाण- Q: विच्छेदशून्यपरमार्थचमत्कृतिर् या / Q: तां पूर्णवृत्त्य् अहम् इति प्रथनस्वभावां Q: स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् //
SK
इति / एष एव श्रीवामनविरचिते द्वयसंपत्तिवार्तिके उपदेशनयो बोद्धव्यः / तेन स्थितम् एतद् अकार एव सर्वाद्यः / यत्रापि हर्षघटनीलादौ हकाराद्या अपि वर्णास् तत्रापि तथाविधानन्तनिजपूर्वापरवर्णसमाक्षेप एव, अन्यथा तस्यैव हादेः समुदयायोगात् / ते परम् आक्षिप्यमाणत्वाद् एवान्तमिलीना विकल्पगोचरत्वम् अप्राप्ताः, अत एव सर्वत्र विज्ञाने सर्वा एव देवताः समम् एव समुदायं दधत्यश् चित्रां संवित्तिवृत्तिं वर्तयन्ति / तद् अनेनैवाशयेन कालाधिकारादाव् एकस्मिन्न् एव प्राणे प्राणषोडशांशे ऽपि वा षष्टितद्द्विगुणाद्यब्दोदयपूर्वकं मातृरुद्रलोकपालग्रहनागादीनाम् उदयप्रलयाश् चित्रा निरूपिताः /
SK
तच् चित्रानन्तोदयप्रलयमय एव द्वितीयो ऽपि प्राणचारादिर् इत्य् अकालकलितम् एव तत्त्वं वस्तुतः परमार्थः, यदि परम् एतावन्मात्रं मायीयाध्यवसायानध्यवसेयम् इति नास्तिताभिमानकारि परसंविदि तु तत्कालं भासते एव / अत एवैकस्याम् एव ज्ञानकलनायां पश्यत्य् अन्यद् विकल्पयत्य् अन्यद् इत्याद्युपदेशेन यद् उक्तम् देवतात्रयाधिष्ठानं तत् सर्वत्रैवानपायि / सर्वाण्य् एव च संवेदनानि वस्तुतो ऽहम् इति परमार्थानि विमर्शमयान्य् एव / तद् एवं स्थितम् एतद् विश्वम् अन्तःस्थितम् आनन्दशक्तिभरितो वमन् ग्रसमानश् च विसर्ग एव परमेश्वरो घनीभूय हकारात्मतां प्रतिपद्यानन्तसंयोगवैचित्र्येण क्षरूपताम् अप्य् एति / स एवैष दूत्यत्मकशाक्तयोनिसंघट्टसमुचितवर्णात्मकक्षोभः / अनाहतनाददशाश्रयणेन मध्यमसौषुम्नपदोच्छलत्तत्तदनन्तभावपटलात्मा विसर्गो विश्लिष्यन् ध्रुवधाम्नि अनुत्तरपद एव प्रविशतीति प्राग् अप्य् उक्तम् एत / अमी चाकाराद्याः स्थितिमन्तः प्राणे तुटिषोडशकादिस्थित्या एकां तुटिं संधीकृत्यार्धार्धभागेन प्रलयोदययोर् बहिर् अपि पञ्चदशदिनात्मककालरूपतां तन्वते इति तिथयः कलाश् चोक्ताः / षोडश्य् एव च कला विसर्गात्मा विश्लिष्यन्ती सप्तदशी कला श्रीवाद्यादिशास्त्रेषु निरूपिता
SK
Q: सा तु सप्तदशी देवी हकारार्धार्धरूपिणी /
SK
इति / विसर्गस्य हकारार्धत्वात् ततोऽपि विश्लेषस्यार्धत्वाद् इति निरवयवस्यैकवर्णस्य कथम् एषा विकल्पना इति चेद् अस्मत्पक्षे सर्वम् एवानवयवं चिन्मयैकावभासनानतिरेकात्, तथापि च स्वातन्त्र्याद् एव अवयवावभासे ऽप्य् अनवयवतैवानपायिनी, तथेहापि अस्तु को विरोधः / एवम् एव वर्णोपपत्तिः, अपरथा दन्त्योष्ठ्यकण्ठ्यतालव्यादिवर्णेषु क्रमप्रसारी पवन आघातकः कथं कण्ठं हत्वा ताल्व् आहन्तीति / युगपदापूरकत्वे ऽपि समानकालता स्यात्, यत्र कण्ठघाटोत्थं रूपं तत् तु ताल्वाहतिजं सर्वत्र संभवति / श्वासनादयोश् च पश्चात्प्रतीयमानतयानुप्रदानत्वम् उच्यते / द्विमात्रत्रिमात्रेषु च द्विकादियोगो गर्भीकृतैकद्वयादिर् एव /
SK
तथैव मात्रके ऽप्य् अर्धमात्रादियोगः संवेद्यः, यथोक्तं भट्टनारायणेन
SK
Q: प्रणवोर्ध्वार्धमात्रातो ऽप्य् अणवे महते नमः /
SK
इति / इह तु पञ्चाशद्वर्णा विश्वम् अपि वा अक्रमम् एकम् एव / क्व चित् तु मतादिशास्त्रेषु विसर्गविश्लेषस्यैवानुत्तरपदसत्तालम्बनेनाष्टादशी कला इत्य् अभ्युपगमः / तद् एवम् एताः कला एव ह्लादनामात्रचित्तवृत्त्यनुभावकाः ``स्वराऽऽ इत्य् उक्ताः / स्वरयन्ति शब्दयन्ति सूचयन्ति चित्तं स्वं च स्वरूपात्मानं रान्त्य् एवम् इति परप्रमातरि संक्रामयन्तः ददति स्वं चात्मीयं कादियोनिरूपं रान्ति बहिः प्रकाशयन्तो ददतीति स्वराः / एत एव हि चित्तवृत्तिसूचका नादात्मकाः करुणाशृङ्गारशान्तादिकां चित्तवृत्तिम् आक्रन्दनचाटुकस्तुत्यादौ केवला वा योनिवर्णनिविष्टा वा तिर्यक्तत्तदहर्जातादिष्व् अपि प्रथमत एवापतन्तः संकेतविघ्नादिनैरपेक्ष्येणैव संविदासन्नवर्तित्वात् स्वरकाक्वादिरूपताम् अश्नुवानाः प्रकाशयन्तीत्य् अर्थधर्मा उदात्तादय उपदिष्टाः, तेषाम् एव चित्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात् /
SK
एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय आदिक्षान्ताः समापतन्त्यो ऽहमहमिकया अक्रमम् एव भासमानाः कलनामयतयैव ज्ञानक्रमसंक्रमणम् एव दिश्यमानं देशम् उत्थापयन्त्यः,
SK
Q: अन्यथा मेरुपरमाण्वोर् अविशेषात्
SK
इति न्यायेन गर्भीकृतदेशात्मकवैचित्र्यं क्रियावैचित्र्यात्मकं क्रमरूपं कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि युञ्जानत्वेन ग्रसमानाः प्रोल्लाससमये ऽपि रिक्तरूपतया उद्योगावभाससंक्रामविलापनरूपेण द्वादशात्मिकां कृशरूपताम् आश्रयन्त्यस् तद्गृहीतप्रमदादिगतोद्योगादिकलाचतुष्टयपरिपूर्णतयाप्य् अङ्कुरीभूय सालसं षोडशात्मकभरितपूर्णरूपतया प्रविशन्त्यो ऽन्तर् बहिश् च तद् अमृतानन्दविश्रान्तिरूपं चमत्कारसत्तासारकलाचतुष्कं विसृजन्त्य एवंविधाम् एव पूर्णकृशात्मकदोलालीलां निर्विशमानाः सोमसूर्यकलाजालग्रसनवमनचतुराः /
SK
अकारम् एवादितया मध्ये च कादियोनिजातम् अवसाने च बिन्दुं दधती ``अहम्ऽऽ इत्य् एषैव भगवती सृष्टिः /
SK
तद् उक्तं श्रीसोमानन्दपादैर् निजविवृतौ ``अं अ इत्य् एषैव विकृताविकृतरूपा मातृकाऽऽ इत्यादि / ते तु ``अऽऽ इत्य् एतद् अनुत्तरम् आकाराद्याश् च तिथयः, यद् वा बिन्दुर् अंकारः अकाराद्यास् तिथयस् तदन्तो विसर्ग इत्य् अपि व्याचक्षते / तद् एव संवित्सतत्त्वं ``स्पन्दऽऽ इत्य् उपदिशन्ति / स्पन्दनं च किंचिच्चलनम् / स्वरूपाच् च यदि वस्त्वन्तराक्रमणं तच् चलनम् एव न किंचित्त्वम्, नो चेत् चलनम् एव न किंचित् / तस्मात् स्वरूप एव क्रमादिपरिहारेण चमत्कारात्मिका उच्छलत्ता ऊर्मिर् इति मत्स्योदरीतिप्रभृतिशब्दैर् आगमेषु निदर्शितः स्पन्द इत्य् उच्यते, किंचिच्चलनात्मकत्वात् / स च शिवशक्तिरूपः सामान्यविशेषात्मा / तद् व्याख्यातम्, आद्यास् तिथयः बिन्द्ववसानगाः कालयोगेन सोमसूर्यौ तस्यैवाकुलस्यान्तः /
SK
पृथिव्यादीनि च यावद् ब्रह्मपञ्चकं तावत् तेषां स्वराणाम् अन्तः / कथं / क्रमात् / अथ च क्रमस्यादनं भक्षणं कालग्रासः तथा कृत्वेति क्रियाविशेषणं च / सोभने व्रते भोगे रिक्तत्वे भोगनिवृत्तौ च पूर्णत्वे सुव्रते / आमन्त्रणम् अप्य् एतत् एवं व्याख्येयम् /
SK
एवम् अमूला अकारमूला अविद्यमानमूला चानादित्वात् / स क्रमो यस्याः प्रश्लेषेणातद्रूपः / अन्यथारूपो ऽपि क्रमो यस्याः तथाप्य् अमूला / अमूलस्य यद् आतननम् आतत् ततस् तद् एव च क्रमो यस्याः / एष चाज्ञेया ज्ञातृरूपा, एषैव च ज्ञेया, अन्यस्याभावात् / अविद्यमानं क्षान्तं तुष्णीम् आसनम् अविरतं सृष्ट्यादिरूपत्वेन अस्याम् / आक्षाणाम् ऐन्द्रियकाणाम् अन्ते समीपे प्राग् अपर्यवसाना या भवेद् इति / उपचाराद् आक्षान्ता सृष्टिर् अपूर्वम् आहरणं स्वात्मानुप्रवेशात्मस्वरूपं संहाररूपं यस्याम् / एषैव च शिवात्मकबीजप्रसररूपाणां मननत्राणधर्मानां सर्वेषाम् एव वाच्यवाचकादिरूपवर्णभट्टारकात्मनां मन्त्राणां शक्त्यात्मकयोनिस्पन्दानाम्, सर्वासां तद्बीजोद्भूतानां वेदनारूपाणां विद्यानाम् इयं समा सर्वत्रानूनाधिका सर्वेषु तन्त्रेषु तन्त्रणासु च सर्वासु क्रियासु सर्वकालं च सर्वं ददती सिद्धिसङ्घम् / अख्याता अप्रकटा / अख्यातिरूपतां मायीयाम् उद्दिश्य भेदो वर्णानां / तथा हि त एव शुद्धमन्त्ररूपा वर्णाः प्रथमं पञ्चविधविपर्ययाशक्त्यादिरूपप्रत्ययात्मकभावसृष्टिताम् एत्य स्वरूपम् आवृण्वते /
SK
Q: पञ्च विपर्ययभेदा भवन्त्य् अशक्तिश् च करणवैकल्यात् / Q: अष्टाविंशतिभेदा तुष्टिर् नवधाष्टधा सिद्धिः //
SK
इति ह्य् एत एव प्रत्ययाः पाशवसृष्टिरूपाः पाशा मुख्यतया, यथोक्तम्
SK
Q: स्वरूपावरणे चास्य शक्तयः सततोत्थिताः / Q: यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः //
SK
इति / तथा
SK
Q: परामृतरसापायस् तस्य यः प्रत्ययोद्भवः /
SK
इत्यादि / एवं प्रत्ययसृष्टित्वान्तरालीकरणेन स्फुटश्रूयमाणश्रुत्यात्मकक्रमाभासमानमायीयवर्णसृष्टिर् आद्यपारमार्थिकशुद्धरूपालिङ्गिता तत्तत्कार्यफलप्रसवदायिनी निरूपिता श्रीपूर्वशास्त्रे /
SK
Q: सर्वशास्त्रार्थगर्भिण्यै .../
SK
इत्य् एवंविधया
SK
Q: अनया संप्रबुद्धः सन् योनिं विक्षोभ्य शक्तितः / Q: तत्समानश्रुतीन् वमांस् तत्संख्यान् असृजत् प्रभुः //
SK
इत्यादि,
SK
Q: ते तैर् आलिङ्गिताः सन्तः सर्वकामफलप्रदाः /
SK
इत्यादि / एवम् आख्याता अप्रकटापि मायान्धानां सर्वदैव ख्याता / प्रकाशा शुद्धवेदनात्मिका / यशः सर्वत्र स्वस्वभावात्मकप्रभावप्रख्याप्रसरानिरोधो यस्या इत्य् आमन्त्रणं शोभनव्रते इतिवत् / तद् अयम् अत्र संक्षेपार्थः /
SK
स्वातन्त्र्यैकरसावेशचमत्कारैकलक्षणा / परा भगवती नित्यं भासते भैरवी स्वयम् //
SK
तस्याः स्वभासायोगो यः सो ऽनिरुद्धः सदोदितः / सदाशिवधरातिर्यङ्नीलपीतसुखादिभिः //
SK
भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः / प्रथते संविदाकारः स्वसंवेदनसारकः //
SK
स्वस्वसंवेदनं नाम प्रमाणम् इति वर्ण्यते / बालतिर्यक्सर्वविदां यत् साम्येनैव भासते //
SK
इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः / सारूप्यम् अन्यथायोगः प्रतीत्यनुदयो यमः //
SK
इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते / तत् स्वसंवेदनं प्रोक्तम् अविच्छेदप्रथामयम् //
SK
येषां नाक्षत्रिरूपादिनाममात्रे ऽप्य् अभिज्ञता / तेषाम् अपि तिरश्चां हि समा संवित् प्रकाशते //
SK
एवं भासा स्वभावेन स्वरूपामर्शनात्मिका / स्वरूपामर्शनं यच् च तद् एव परवाग्वपुः //
SK
तद्विचित्रस्वभावत्वाद् विचित्रप्रथनामयम् / प्रथने पारतन्त्र्यं हि न जातु भजते क्व चित् //
SK
अपारतन्त्र्यात् संकेतप्रत्यूहादेः कथं स्थितिः / अतः संकेतरहितं स्वस्वरूपविमर्शनम् //
SK
देशकालकलामायास्थानघातक्रियोत्तरम् / परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् //
SK
स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् / शुद्धविद्यात्मकं रूपम् अहम् इत्य् उभयात्मकम् //
SK
तद् एव मातृकारूपं धरादीनां निजं वपुः / तत् पारमार्थिकाकरं द्रुत्याश्यानस्वरूपतः //
SK
बीजयोन्यात्मकं प्रोक्तं शिवशक्तिस्वरूपकम् / शिवशक्त्योस् तु संघट्टाद् अन्योन्योच्छलितत्वतः //
SK
परस्परसमापत्तिर् जगदानन्ददायिनी / अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः //
SK
यद् वीर्यम् इति निर्णीतं तद् विस्लेषणयोजनात् / विसर्ग इति तत् प्रोक्तं ध्रुवधाम तद् उच्यते //
SK
अनुत्तरपदावाप्तौ स एष सुघटो विधिः/ अस्माद् एव त्व् अमायीयाद् वर्णपुञ्जान् निरूपिता //
SK
मायाम् आलम्ब्य भिन्नैव श्रीपूर्वे सृष्टिर् आक्षरी / पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका //
SK
बन्धरूपा स्वभावेन स्वरूपावरणात्मिका / अत्रैवान्तर्गतास् तास् ताः खेचर्यो विषयात्मिकाः //
SK
तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् / अस्याः साम्यां स्वभावेन शुद्धभैरवतामयम् //
SK
प्रोक्तं प्राग् एव जीवत्वे मुक्तत्वं पारामार्थिकम् / भिन्नाया वर्णसृष्टेश् च तद् अभिन्नं वपुः परम् //
SK
वीर्यम् इत्य् उक्तम् अत्रैव यद् गुप्त्या मन्त्रगुप्तता / तद् एतद् अहम् इत्य् एव विसर्गानुत्तरात्मकम् //
SK
स्वस्वभावं परं जानञ् जीवन्मुक्तः सकृद् बुधः / सिद्ध्यादिप्रेप्सवस् तेन कॢप्तसंकोचसूत्रितम् //
SK
नाभिकुण्डलहृद्व्योम्नोर् योगिनो ऽहम् उपासते / तद् एतत् किल निर्णीतं यथागुर्वागमं मनाक् //
SK
एनां संविदम् आलम्ब्य यत् स्यात् तत् पृच्छ्यतां स्ववित् / नैतावतैव तुलितं मार्गांशस् तु प्रदर्शितः //
SK
इयतीति व्यवच्छिन्द्याद् भैरवीं संविदं हि कः / एतावाञ् छक्तिपातो ऽयम् अस्मासु प्रविजृम्भितः //
SK
येनाधिकारितैर् एतद् अस्माभिः प्रकटीकृतम् / अस्माकम् अन्यमात्ःणाम् अद्य कालान्तरे ऽपि वा //
SK
भवत्य् अभूत्वा भविता तर्कः सूक्ष्मतमो ऽप्य् अतः / यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् //
SK
श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश् च मोचकः / एतत् तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः //
SK
क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः / आलोचनक्षणाद् ऊर्ध्वं यद् भवेद् आत्मनि स्थितिः / चिदर्काभ्रलवास् तेन संशाम्यन्ते स्वतो रसात् //
SK
एवम् उत्तरस्याप्य् अनुत्तरम् इति यद् उक्तं यो ऽसाव् ``उत्तरस्यऽऽ इत्य् अंशेनोपात्तः कुलात्मा शाक्तः सृष्टिप्रसरः स विस्तरतो निर्णीतः /
SK
तच् चोत्तरम् अपि यथानुत्तरं तथा निरूपितम् / इदानीं त्व् अनुत्तरम् एव स्वरूपेण विस्तरतो विचारपदवीम् अपेक्षते /एवं विध्यनुवादौ निर्वहतः, यद्य् अनूद्यमानो विधीयमानश् चांशः स्वरूपतो लक्षितौ स्याताम्, यथा यद् एव शिवनामस्मरणम् एतद् एव समस्तसौख्योच्छलनम् इति द्वाव् अप्य् अंशौ लक्ष्यौ / इह तु यद्य् अप्य् अनुत्तरं नाम अन्यद् वस्तु किंचिन् नास्ति, अन्यत्वे तस्याप्य् उत्तरत्वे एवाभिपातात्, तथापि स्वातन्त्र्यकॢप्तोपदेश्योपदेशकभावाभिप्रायेणेयं व्यवस्था इत्य् उक्तं प्राक् / ततश् च विस्तरतो ऽनुत्तरस्वरूपनिरूपणाय ग्रन्थान्तरावतारः / तन् निरूपयति /
SK
चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् //
SK
तृतीयम् ब्रह्म सुश्रोणि हृदयम् भैरवात्मनः एतन् नायोगिनीजातो नारुद्रो लभते स्फुटम् //
SK
हृदयं देवदेवस्य सद्यो योगविमोक्षदम् अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् //
SK
सद्यस् तन्मुखताम् एति स्वदेहावेशलक्षणम् मुहूर्तं स्मरते यस् तु चुम्बकेनाभिमुद्रितः //
SK
स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः अतीतानागतानर्थान् पृष्टो ऽसौ कथयत्य् अपि //
SK
प्रहराद् यद् अभिप्रेतं देवतारूपम् उच्चरन् सक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रशक्तिभिः //
SK
प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः //
SK
वीरा वीरेश्वराः सिद्धा बलवाञ् छाकिनीगणः आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः //
SK
यच्छन्ति परमां सिद्धिं फलं यद् वा समीहितम् अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः //
SK
यत् किंचिद् भैरवे तन्त्रे सर्वम् अस्मात् प्रसिद्ध्यति
SK
भैरवरूपस्य विश्वस्य प्रदर्शितयुक्त्यागमनिरूपितपरापराभट्टारिकास्वभावः शाक्तः / तस्य हृदयं सारं शिवरूपं परमेश्वर्या श्रीमत्पराभट्टारिकया समालिङ्गितम् / भैरवशब्देन विश्वस्य सर्वसर्वात्मकतावपुः शक्तिरूपम् / तत्सहितस्यात्मनः प्रत्येकस्य भेदस्य नररूपस्य एतावच् छिवात्मकं हृदयम् / परेणाभेदेन सर्वात्मकताया एव तेन तया च विनास्य भेदस्यैवायोगद् इत्य् उक्तं प्राक् / ``सुस्रोणिऽऽ इत्य् आमन्त्रणम् / शोभनं मायात्मकतायाम् अप्य् अनपेतं शुद्धचिन्मयं यद् एतत् श्रोण्यां हृदयं योनिरूपम् उक्तं तन् नो ऽन्तःकृतसकलमन्त्रमहेशादितिर्यक्स्थावरान्तप्रमातृजालस्यामात्मनो ऽस्माकम् इति समुचितापतितव्यपदेशस्य भैरवात्म पूर्णतामयम् अन्तर्गतविश्ववीर्यसमुच्छलत्तात्मकविसर्गविश्लेषानन्दशक्त्यैकघनं ब्रह्म बृहद् व्यापकं बृंहकं बृंहितं च, न तु वेदान्तपाठकाङ्गीकृतकेवलशून्यवादाविदूरवर्ति ब्रह्मदर्शने इव / एतच् च तृतीयं नराद्यपेक्षया शिवपरैकरूपम् / अत एवामीषु शास्त्रेष्व् अत्र च मुख्यतया तद् एव हृदयं पूज्यतयोपदिष्टम् / अननुप्रविष्टतथावीर्यव्याप्तिसारहृदया अपि तावन्मात्रबाह्याचारपरिशीलनेनैव क्रमवशशिथिलीभवच्छिथिलितविदलद्विदलितपाशवनियमबन्धना एतद्धृदयव्याप्तिं स्वयम् एव समधिशेरते / न ह्य् एतद्धृदयानुप्रवेश एव ``एतद्धृदये ऽनुप्रविष्टो ऽस्मि, इयं देवी पराऽऽ इत्य् एतच्छाब्दविकल्पकल्प्यः, अस्य च प्रत्युत हृदयान्तरमार्गणाद् इत्य् उक्तं विस्तरतः, अपि तु
SK
Q: संकोचयन्ति हृदयं नहि शास्त्रपाशा नो संविदं कलुषयेद् यद् अयं च लोकः / Q: सम्यक्स्वभावपदवीपरिपूर्णरूपा सैवोल्लसल्लयभरा भरिता स्थितिः स्यात् //
SK
यद् उक्तं मयैव स्तोत्रे
SK
Q: भगवद्भक्त्यावेसाद् विशदतरसंजातमनसाम् Q: क्षणेनैषावस्था स्फुटम् अधिवसत्य् एव हृदयम् /
SK
इति / अत एव कोणेषु पूज्यास् तिस्रः / मध्ये देवी परानन्दभैरवनिर्मथनरूपा नित्यानन्दरसप्रसरेणैव क्षोभात्मकविसर्गेण इति देवतानां संप्रदायः / यामलयोगे वीराणाम् अप्य् आनन्देन्द्रियनित्यानन्दक्षोभात्मकदूतीसंघट्टजेनेति / एकवीरतायम् अपि स्वरूपानन्दविश्रान्तियोगेन / पुंसो ऽपि आनन्देन्द्रियनिःसरणधाम त्रिकोणं कन्दाधोविनिविष्टं चित्तनिवेशाद् आनन्दक्षोभप्रसवं करोति तदिन्द्रियमूलतत्पर्यन्तसंघट्टघनतायाम् / अत्रोक्तम्
SK
Q: वह्नेर् विषस्य मध्ये तु... / इति / एवम् आनन्दयोग एव हृदयपूजा, यथोक्तं त्रिकतन्त्रसारे
SK
Q: आनन्दप्रसरः पूजा तां त्रिकोणे प्रकल्पयेत् / Q: पुष्पधूपादिगन्धैस् तु स्वहृत्संतोषकारिणीम् //
SK
इति / सर्वं हि मुद्राद्वयानुविद्धम्, ज्ञानक्रियाशक्तिसारत्वत् / केवलं देवतासु ज्ञानमुद्रा अन्तर् उद्रिक्ता, क्रियामुद्रा बहिः, वीरेषु विपर्ययः / अनुप्रवेशस् तु समतया विपर्ययाच् च / अनेनैवाभिप्रायेण ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तिसमर्पणम् उक्तम् /
SK
एवम् एतत् चतुर्दषसु युतं संश्लिष्टं पञ्चदशात्मकं तिथीशान्तेन विसर्गेण षोडशेनान्वितम् / यद् वा चतुर्दशसहितं युतं युग्मं षोडश / तिथीनां पञ्चदशानाम् ईसो विसर्गः तस्यान्तः सप्तदश्य् अनुत्तरकला, तदन्वितं हृदयम् / सर्वाणि घटसुखादीनि वस्तूनि ताम् एव बीजसत्तां परमार्थरूपेणाक्रामन्तीत्य् उक्तं विस्तरतः / अतस् तद् एव हृदयम् /
SK
एवं षोडशधा हृदयम् एतत् /
SK
१) तत्रानुत्तरानुसारेण यद् एतद् ब्रह्म सामरस्यं वेद्यवेदकयोः, चतसृणां दशानाम् उद्योगादीनां समाहारो ऽविभागभूः प्राथमिकी, तया युतम् अविभागि / य एते तिथीनाम् ईशा ऊकारान्ताः तत्प्रभवत्वाद् अन्यस्येति ह्य् उक्तम् / तेसां तिथीशानाम् अन्ता अमृतवर्णाः चत्वारः / तैः सम्यग् अन्वितम् / तच् च तृतीयं नराद्यपेक्षया शिवरूपं परम् / वेदकश् चतसृभिर् दशाभिर् उल्लसन् वेद्यम् एव ताभिर् आप्यायकौतुकात्मना ता एवामृतकलाः स्वात्मनि एकीकुर्वन् वेद्यवेदकक्षोभसमापत्त्या ऐकात्म्य लक्षणं प्रसंख्यानेनाभ्यासेन वा गम्यं भैरवात्मनो विश्वहृदयम् अनुत्तरं प्रविशेत् / यथोक्तम्
SK
Q: सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि / इति /
SK
२) इच्छोल्लसत्तात्मन्य् आनन्दशक्तौ यद् एतत् संहृत्यनुसृत्या क्रियाशक्तिम् अपेक्ष्य तृतीयं रूपम् इच्छात्म तद् एव प्राक्कोटाव् इष्यमाणद्यकलुषं ब्रह्म / चतुर् ये दश चत्वारिंशद् भैरवभेदापेक्षया परभैरवपरशक्तित्रयसहितानि तत्त्वानि, यथोक्तम्
SK
Q: षट्त्रिंशच् छोदनीयनि शोधको भैरवः परः / Q: परं त्रिकं तु करणं दीक्षेयं पारमार्थिकी //
SK
इत्यादि / तैर् युतम् / आनन्दशक्तिर् हि प्रागपररूपा पूर्णा / कथम् / तिथीशैर् बीजैः तदन्तैश् च योनिरूपधरादिभिः समन्वितम् इति क्रियाविशेषणम् / तद् एव हृदयम् / सर्वत्रात्र सकृद्विभातं प्रसंख्यानगम्यं रूपं मुख्यतः तत्रयोग्यानां तु परशक्तिपातपवित्रितानां वृथैन्द्रजालिककलनालालसानां वा योगाभ्यास इति मन्तव्यम् /
SK
३) इच्छाभिप्रायेण तृतीयम् इच्छा / तच् च बृंहितम् इष्यमाणेनाभिन्नेन पूर्णं ब्रह्म / चतुर्दश चत्वारिंशत् / युतानि विभागभाञ्जि यतो ऽनन्तरम् / युतशब्दो विभक्तवाच्य् अपि युतसिद्धत्वाद् इत्यादौ / तिथीश्वरस्याकुलमयानुत्तरकलात्मनो ऽन्तः आनन्दः तस्यानु पश्चात् / सम्यगितं भोदमयम् /
SK
४) ईशानापेक्षया तृतीयम् इच्छारूपं प्रसरवशाद् बृहद्भूतम् ईशानतापन्नम् / चतुर्दशानां चत्वारिंशत उक्ताया युतं परस्परव्यामिश्रता यत्र / तिथीश्वरस्याकुलमयानुत्तरकलात्मनो ऽन्तः संहृतिः कुलशक्तिप्रथमस्पन्दः / तेनान्वितम् /
SK
५) उन्मेषात्मकज्ञानशक्तियोगेन तृतीयं ब्रह्मेशानम् एव यदा चतुर्दशानां तस्या एव तत्त्वचत्वारिंशतो युतं प्रथमविभागो यत्र तथाविधं भवति / तथा तिथीशान्तेन कुलशक्तिप्रथमस्पन्देन सम्यक् प्ररुरुक्षुतया अन्वितम् / संशब्दो ऽत्र भरणापेक्षः /
SK
६) तज्ज्ञानशक्तिक्रियाशक्तिमध्यकोटिरूपप्राङ्निर्णीत-ऊकारकलालम्बितोढतारुढ्या यद् एतत् ब्रह्म यत् किंचिच् चराचरं तद् अशुद्धशुद्धाशुद्धसृष्ट्यपेक्षया तृतीयं शुद्धसृष्ट्यात्मकम् अत एव तिथीश्वरैर् हृदयभूततया तदन्तैश् च कादिक्षान्तैः समन्वितम् /
SK
७) अथ शून्यचतुष्कानुसृत्या चतुर्णां धरादीनां दशा विनाशात्मिका विद्यते यत्र तद् व्योम / तेन युतं तृतीयं ब्रह्मेच्छाख्यं तिथीश्वरस्यार्कस्य अन्तेन बाह्येन तेजसान्वितम् /
SK
८) व्याख्यातक्रमेण तृतीयं ब्रह्मेशनम् / एतद् अपि एवम् एव /
SK
९) तृतीयं ब्रह्मेच्छाख्यम् / चतुर्णां नभःप्रभृतीनाम् अन्तदशा यत्र सा धरा / तया युतं समन्वितं तिथीशान्तस्य वह्नेस् तेजसो यद् अनुसरद्रूपं तेन सहितं व्योमात्म /
SK
१०) तथैव तृतीयं ब्रह्म चतुर्दशयुतं तिथीशान्तसमन्वितं परिपूर्णशून्यरूपप्लुत्या भैरवात्म / इच्छा खलु निजस्वभावभूतेशनसहिता वेद्यभूमेर् व्योमसत्तां यदाक्रामति तदा किंचित्प्रकाशभुवि विश्रम्य झटित्य् अपर्यन्तां काष्ठपाषाणप्रायां निश्चलां व्योमभूमिम् अनुप्रविशति यत्रापवेद्यसुषुप्तमहाव्योमानुप्रविष्टान् योगिनः प्रत्य् उच्यते
SK
Q: भेरीकांस्यनिनादो ऽपि व्युत्थानाय न कल्पते / इत्यादि /
SK
११) अधुनोक्तव्याप्ति यद् एतत् परस्पररूपसांकर्यवैचित्र्यं शक्तीनां तदुद्देशेन / एवम् इच्छा यदानुत्तरपदप्रवेशशालिनी भवति, यथा शक्तिक्षोभस्य रसनादेर् अनन्तरं, तत्रोच्यते विलम्बितमध्यद्रुतानां चिद्विशेषस्पन्दानां सत्त्वादियोगजुषां चतुःशब्दोपलक्षिता चतुर्थी दशा यत्रास्ति सामान्यस्पन्दरूपा तद् अकुलं / तेनाकुलेनानुत्तरेण युतं तृतीयं ब्रह्मेच्छात्म ईशनसहितं तिथीशस्याकारस्यान्तेनानन्दशक्त्यात्मना अन्वितम् /
SK
१२) तद् अपि तथैव पुनर् अपि परां सत्ताम् अनुप्रविशति यदा तदा भैरवात्म परिपूर्णं दीर्घीभूतं / नो ऽस्माकम् इति पूर्ववत् / अत एवैतद् एव बीजयुग्मम् एवंविधबीजवैचित्र्यानुप्रवेशाद् आच्छादप्रसवसमर्थम् इति कामवाक्तत्त्वोपयोगेनोच्यते
SK
Q: कामेन कामयेत् कामान् कमं कामेषु योजयेत् /
SK
इत्यादि
SK
Q: ए-ओकारगतं बीजं वाग्विधानाय केवलम् /
SK
इत्यादि /
SK
१३) पञ्चमषष्ठ ... वर्णद्वयेन ... /
SK
१४) ... यद् उक्तं ``चतुर्दशयुतं तृतीयं ब्रह्म तिथीशान्तसमन्वितंऽऽ तद् एव भैरवात्मानुत्तरपदानुप्रविष्टम् /
SK
१५) एतद् ब्रह्म चत्वारिंशद्युतम् उक्तनीत्या तिथीशान्तसमन्वितं भैरवात्म वेदनरूपतया बिन्द्वात्मकं हृदयम् /
SK
१६) सकलम् इदं तत्त्वजालं भैरवात्मतयोच्छलद् अत एव बहिर् विसृज्यमानं बृंहितं ब्रह्म विसर्गात्मकम् / बहिःस्थितं च भैरवात्मतयैकीभूतं भेदात्मकव्यवच्छेददारिद्र्यापसरणेन सर्वसर्वात्मकपदप्राप्त्या बृंहितम् इति विसर्गपदम् / निर्णीतं चैतद् अवधानेन /
SK
एवं षोडशात्मिका बीजव्याप्तिर् उक्ता / योनिव्याप्तिस् तु प्रतिवर्णं प्राग् एवोक्ता / वर्गीकरणाभिप्रायेण तु निरूपणीया / बाल्ययौवनस्थाविरदेहान्तरग्रहणरूपदशाचतुष्टयसमाहारमयं पाञ्चभौतिकम् अन्तस् तिथीशान्तेन प्रवेशनिर्गमनात्मना प्राणापानरूपेण युतम् / तृतीयं च पुर्यष्टकात्म / ब्रह्म बृहत्त्वाच् च शून्यम् / अत्र च यद् धृदयं शक्त्यात्म / त एते सर्व एव शरीरप्राणपुर्यष्टकशून्यतुर्यशक्तिरूपा बोधात्मकबीजसातिशयघनताक्रमप्राप्तक्रमिकतथाभावा बाह्यात्मभूतात्मातिवाहिकात्मान्तरात्मपरमात्मव्यपदेश्याः प्रमातारः / एतद् भैरवात्म हृदयम् / प्रवेशोपायो ऽत्र -- सर्वाः प्रमातृभूमीर् अनवच्छेदेनाक्रमेत् /
SK
अन्तर्बहिष्करणत्रयोदशकं प्रकृत्या सह च /
SK
चतुर्दश चत्वारिंशत् तद्युतं द्विगुणितम् अशीतिः / तिथयः पञ्चदश / ईशा रुद्रा एकादश / अन्ताः कालास् त्रयः /
SK
एवं द्वादशोत्तरशतमर्मगतस्थूलसूक्ष्मपरशाक्तस्पन्दरूपमन्त्रवीर्यविकासस्फुरीकृतविसर्गविस्लेषणसंघट्टक्षोभात्मिकां शरीरसत्ताम् एव भैरवरूपां परिशीलयेद् युगपन्निवेशसंप्रदाययुक्त्या /
SK
चतस्रो मधुरकषायतिक्ताम्लदशा यस्य मद्यसुरासवादेस् तत् / तिथीशान्तम् उभयविसर्गात्मद्रव्यम् / समन्वितं तदिन्द्रियद्वयान्तर्वर्ति / कुसुमशब्दवाच्यं मलं तृतीयम् / ब्रह्म जगदिन्धनदाहशेषं भस्म / भैरवात्म भरिताकारम् आप्यायकम् अम्बु / हृदयं च सर्वेन्द्रियान्तर्वर्ति रसाश्यानोभयरूपम् / तद् एतानि द्रव्याणि यथालाभं भेदमलविलापकानि / तथाहि दृश्यते एवायं क्रमो यद् इयं संकोचात्मिका शङ्कैव समुल्लसन्ती रूढा फलपर्यन्ता संसारजीर्णतरोः प्रथमाङ्कुरसूतिः / सा चाप्रबुद्धान् प्रति शुद्धाशुद्धादीनां स्थितिर् भवेद् इति प्रबुद्धैः कल्पिता बालान् प्रति च / कल्प्यमानापि च तेषां रूढा वैचित्र्येणैव फलति / अत एव वैचित्र्यकल्पनाद् एव सा बहुविधा धर्मादिशब्दनिर्देश्या प्रतिशास्त्रं प्रतिदेशं चान्यान्यरूपा, यथोक्तम्
SK
Q: ग्लनिर् विलुम्पिका देहे. . . / इति /
SK
सेयं यदा झटिति विगलिता भवति तदा निरस्तपाशवयन्त्रणाकलङ्को भैरवहृदयानुप्रविष्टो भवतीति सर्वथैतदभ्यासे यतितव्यम् / श्रीतिलकशास्त्रे ऽयं भावः / श्रीभर्गशिखायाम् अपि उक्तम्
SK
Q: वीरव्रतं चाभिनन्देद् यथायोगं तथाभ्यसेत् /
SK
इत्यादि / श्रीसर्वाचारे ऽपि
SK
Q: अज्ञानाच् छन्कते मूढस् ततः सृष्टिश् च संहृतिः / Q: मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः //
SK
Q: पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् / Q: सुरूपं च विरूपं च तत् सर्वं तेज उच्यते //
SK
Q: स्पृश्यास्पृश्यौ स्मृतो वायुश् छिद्रम् आकाश उच्यते / Q: नैवेद्यं च निवेदी च नैवेद्यं गृह्णते च ये //
SK
Q: सर्वं पञ्चात्मकं देवि न तेन रहितं क्वचित् / Q: इच्छाम् उत्पादयेद् आत्मा कथं शङ्का विधीयते //
SK
इति / श्रीवीरावलिशास्त्रे ऽपि अयम् एवाभिप्रायः / उक्तं च क्रमस्तोत्रे
SK
Q: सर्वार्थसंकर्षणसंयमस्य यमस्य यन्तुर् जगतो यमाय / Q: वपुर् महाग्रासविलासरागात् संकर्षयन्तीं प्रणमामि कालीं //
SK
इति / व्याख्यातं चैतन् मया तट्टीकायाम् एव क्रमकेलौ विस्तरतः / अत एव षडर्धशास्त्रेष्व् एषैव क्रिया प्रायो नियन्त्रणारहितत्वेन पूजा / तत्परिपूरणायैव सर्वद्रव्यालाभात् संवत्सरमध्ये चतुस् त्रिर् द्विः सकृद् वा पवित्रकविधिर् उक्तः /
SK
Q: क्रियायाः पूरणार्थाय यागाज्ञापूरणाय च / Q: चतुः सकृद् वा यः कुर्यान् न पवित्रं स निष्फलः //
SK
इति / विज्ञानक्रमो विस्तरत उक्तः /
SK
जातीनां च ब्राह्मणादीनां नास्ति स्थितिः कल्पितत्वात् उपदेशव्यङ्गतेति तु दुर्बुद्धीन् पशून् प्रत्याययेद् इति च भगवता मुकुटसंहितायां विस्तरतो निर्णीतम् / इह तु अयत्नसिद्धम् एव /
SK
गुणा इच्छाद्या निर्णीताः चतुर्दशस्वरेभ्यः /
SK
ओकार-अंकारमध्यगः / तिथीशान्तो विसर्गः / तृतीयं ब्रह्म षहमध्यगम् / एतद् बीजं वस्तुतो विश्वस्य / तथाहि यत् किंचित् सत् पार्थिवप्राकृतमायीयरूपं भासते तद् इच्छायां ज्ञाने वा क्रियायां वा पतितम् अपि सर्वात्मकत्वात् त्रिकरूपं परत्र शिवपदे विसृज्यते सर्वं च शिवपदाद् विसृज्यते इत्य् अविरतम् एष एव प्रबन्धो निर्विकल्पकः / विकल्पो ऽपि प्रमदारातिप्रभृतिर् एवंकार्य् अभूत्, अत एवंकारी भवति, एवंकारी भविष्यतीति वर्तमानकालत्रयानुसंधितो ऽभेदपरमार्थतयैव विसर्ग इति प्रत्युत मोक्षमयशिवभूमिर् एव सदैव दैवदग्धानां संसारभयमरुमहाटवी संपन्ना /
SK
Q: जलात् स्फूर्जज्ज्वालाजटिलवडवावह्निनिवहः सुधाधाम्नः पुर्णाद् भयसदनदम्भोलिदलना / Q: विकल्पाद् ऐश्वर्यप्रसरसरणेः संसृतिदरः कियच् चित्रं चित्रं हतविधिविघातात् प्रसरति //
SK
ईश्वरप्रत्यभिज्ञायाम् अप्य् उक्तम्
SK
Q: सर्वो ममायं विभव इत्य् एवं परिजानतः / Q: विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता //
SK
इति / यथा चाकृतिमध्य एव चतुर्भुजत्रिनयनपूर्णकृशाद्या आकृतयो द्रव्यमध्ये च सुरासवाद्या बलाद् एव तां सत्तां समधिशाययन्तीव लिप्यक्षराणीव सत्यवर्णभूमिम् इत्य् उत्कर्षभागित्वम् एषाम्, एवं सर्ववर्णमध्ये ऽपि अयं वर्णः / तथाहि सकारस् तावत् परमानन्दामृतस्वभाव उल्लसन् एव समस्तं वर्णजालम् आक्षिप्य उल्लसति / यद् यत् सत्यसुखसंपत्सत्तादीनां पारमार्थिकं वपुः सीत्कारसमुल्लासशेफकम्पवराङ्गसंकोचविकासोपलक्ष्यम् / तद् एव हि सत्यादीनाम् अमायीयं वस्तुतो रूपम् / तथाहि परहृदयग्रहणेङ्गितनिपुणा गगनगवयगवाद्यनन्तपदप्राङ्मध्यान्तभाविनो ऽपि गकारादिमात्राद् एवाभीष्टं चिन्वते, तावति सत्यपदे ऽनुप्रवेशात् / एवम् एकैकस्यैव वर्णस्य वास्तवं वाचकत्वम् / यथोक्तम्
SK
Q: शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् /
SK
इति / अत एव प्रायशो ऽमी अकारचकाराद्या एकवर्णात्मानो निपातविभक्त्यादयो मायापदे ऽपि पारमार्थिकम् इव प्रमातृपदलीनम् इदन्तापराङ्मुखम् असत्त्वभूतं तत्तन्निषिध्यमानसमुच्चीयमानाभिन्नरूपनिषेधसमुच्चयादिकम् अर्थम् अभिदधति / एष एव भावस् तत्रभवतो भर्तृहरेः, यद् आह
SK
Q: पदम् आद्यं पृथक् सर्वं पदं साकाङ्क्षम् इत्य् अपि /
SK
इति वाक्यविचारे / तथा च वेदव्याकरणे पारमेश्वरेषु शास्त्रेषु मन्त्रदीक्षादिशब्देष्व् अक्षरवर्णसाम्यान् निर्वचनम् उपपन्नम् / तत् तु न रूढं नियतिवशाद् इति न लोकपर्यन्तम् / तद् एवं सकार ईदृशः / औकारविसर्गाव् अपि व्याख्यातौ / तद् उक्तं श्रीपूर्वशास्त्रे
SK
Q: सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् / Q: सर्वातीतं विसर्गेण परा व्याप्तिर् उदाहृता //
SK
इति / तथा
SK
Q: सिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः / Q: शरीरद्रव्यविज्ञानशुद्धिकर्मगुणादिभिः //
SK
Q: बोधिता तु यदा तेन गुरुणा हृष्टचेतसा / Q: तदा सिद्धिप्रदा ज्ञेया नान्यथा विरवन्दिते //
SK
इति / अन्यत्रापि
SK
Q: एकं सृष्टिमयं बीजम् ... /
SK
इति / अत एवालेख्यं पुस्तके इति नियमः / श्रीपूर्वशास्त्रे ऽपि
SK
Q: वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः /
SK
इति / इहापि वक्ष्यते
SK
Q: यथा न्यग्रोधबीजस्थः... /
SK
इति / तद् एतद् भैरवात्मनो हृदयं मालिन्यपेक्षया नकारात् वस्तुतस् त्व् अकाराद् योगिन्याश् च विसर्गशक्तेर् जातः / प्रादुर्भूतप्रमातृभावो रुद्रो रोधको द्रावकश् च पाशानां, स एव ना पुरुषः, एतत् स्फुटं लभते, न त्व् अरुद्रो नापि अयोगिनीगर्भसंभवः / सद्योयोगो भैरवैकात्म्यम् / स एव मोक्षो निर्णीतः / तं ददातीति यो लभते स एवंविधो नान्यः / यश् चैवंविधः स स्फुटं लभते / एवं हृदयम् एव लभते सद्योयोगविमोक्षदम् एवेति सर्वतो नियमः /
SK
मन्त्रा वर्णभट्टारका लौकिकपारमेश्वरादिरूपा मननत्राणरूपा अविकल्पसंविन्मयाः / मुद्राश् च सकलकरचरणादिकरणव्यापारमयाः क्रियाशक्तिरूपाः / तत्कृतो गणः समूहात्मा परशक्त्येकरूपः / स्वस्यात्मनः प्राणपुर्यष्टकशून्यादेर् देहस्य य आवेशो झटिति परस्वरूपानुप्रवेशेन पारतन्त्र्यात्मकजडतातिरोधानेन स्वतन्त्रकर्तृतानुविद्धप्रमातृतोदयः / तथा स्वं स्वभावं पदार्थस्य ददातीति स्वदा / ईहा इच्छाद्या क्रियान्ता / तया आवेशः / तद् एव लक्षणं यत्र / तथा कृत्वा य उदेति सो ऽस्य बीजस्योच्चारे ऊर्ध्वचरणे स्थितौ सत्याम् / अस्य अकारस्य / यथैतत् तथा निर्णीतं बहुशः /
SK
सद्य इत्य् अनेन सत् इत्य् अप्य् अनुप्रवेशः सूच्यते / तन्मुखतां तत्पररूपप्राधान्यम् एति, न तु पशूनाम् इव तद्रूपं प्रत्युत तिरोधत्ते /
SK
अत एव मुहूर्तं, अकालकलितत्वे ऽपि परकलनापेक्षया उन्मेषमात्रम्, यः स्मरत्य् अनुसंधत्ते स एव व्याख्यातं मन्त्रमुद्रागणं संबध्नाति स्वात्मन्य् एकीकरोत्य् अद्वयतः / कथम् / चुम्बकेन विश्वस्पर्शकेन शाक्तेन रूपेणाभितः सर्वतो मुद्रितं मुद्रणं कृत्वा / तुर् अवधारणे / य एव शाक्तस्पन्दमुद्रित एवंविधतत्त्वमयशिवरूपानुसंधायकः स एवैवं करोति न तु नरैकरूपः पाषानादिः / यद् अतीतं यच् चानागतं यद् अनर्थरूपं प्राग् अन्याभावाद् इतरद् अपि स एव कथयति कथापर्यन्ततां नयति संकल्पनात् / कथम् /
SK
Q: पृष्टः प्रश्नो ज्ञीप्सा पृष्टं तद् यस्यास्ति स तथा / Q: यद् एव किल ज्ञीप्सति तत् तद् एवान्तर्गतं बहिष्कुरुते //
SK
यथोक्तम्
SK
Q: यथेच्छाभ्यर्थितो धाता जग्रतो ऽर्थान् हृदि स्थितान् / Q: सोमसूर्योदयं कृत्वा संपादयति देहिनः //
SK
इत्यादि / एको ह्य् असौ स्मरणोत्प्रेक्षणादाव् अपि तावान् एव वर्तमानो न स्तो भूतभविष्यती / यथोक्तं
SK
Q: कालोभयापरिच्छिन्नम् ... इत्यादि /
SK
प्राग्भावत एवानधिकरूपस्य पुनर् इदं जानाति करोति इत्यादिसंकोचासहिष्णोः सकृद्विभातत्वम् / अत एवोक्तं भूताद्यपेक्षया वर्तमानकालस्य तदभावे वस्तुतो ऽप्रसक्तेर् अकालकलितम् एव वस्तुतत्त्वम् इति ह्य् उक्तम् असकृत् / स एव तु कालशक्तिम् अवभासयति चित्राम्
SK
Q: किं च जाग्रति कस्मिंश्चिद् घटिकाभिमतापि या / Q: तस्याम् एव प्रमातारः स्वप्नगाश् चित्रताजुषः / Q: दिनप्रहरवर्षादिवैचित्र्यम् अपि चिन्वते //
SK
इति नीत्या /
SK
प्रकृष्टो हरः संहारो ऽकुलाख्यस् ततो ऽनन्तरम् अभिप्रेतं प्रेतशब्दवाच्यसदाशिवतत्त्वनिविष्टज्ञानशक्त्याभिमुख्येन देवताया इच्छाया रूपं रूपाणां कलानां साक्षस्य सेन्द्रियस्य रूपस्यादनं भक्षणम् अतनं च सातत्यगमनं कृत्वा रोधनद्रावणरूपशक्तिभिर् आकृष्टं पश्यत्य् असंदिग्धं कृत्वा / एतद् उक्तं भवति यद् इदं दर्शनं नाम तत् सर्वतरङ्गप्रत्यस्तमयाख्याकुलसत्ताधिरूढस्यानन्तमहिमस्वातन्त्र्ययोगाद् इच्छाशक्तिमतः / सैवेच्छा स्वान्तर्गतेष्यमाणवस्तुन ईषदस्फुटभेदावभासनरूपज्ञानशक्त्यात्मकताम् एति / तज्ज्ञानशक्तिर् विशेषस्पन्दनरूपसमस्तेन्द्रियाणां बहीरोधनम् / एतद् एव सातत्यगमनम् / यच् च द्रावणं तद् एव भक्षणम् / एते एव वमनभक्षणे दर्शनस्य सर्वप्रथैकमयत्वात् प्रथायाश् च तथाविधवैचित्र्ययोगात् / अनिश्चितोभयालम्बनत्वम् अपि स्थाणुपुरुषादाव् अप्य् असंदिग्धम् एव / एवं दुष्कृतमयी परमेशशक्तिः /
SK
एवं त्व् असौ परापररूपस्मृतिशक्तिमान् भैरव इत्य् आह ``प्रहरद्वयेत्यादिऽऽ / एवं तु स्मरन् जायते व्योम विद्यते यत्र पुर्यष्टके शून्ये च तत्प्रमातृरूपताम् आदधानः / प्रहरोपलक्षितं दर्शनाख्यं रूपं यदा पुनः पुनः परामृशति स्मरत्य् अपि च प्राग्वत् ``साक्षात् पश्यत्य् असंदिग्धम् आकृष्टं रुद्रशक्तिभिःऽऽ इति संबन्धः / तावद् धि तद् अपि दर्शनम् एव इत्य् उक्तम् / एवं तु अपरात्मकविकल्पशक्तियुक्त इत्य् उच्यते / त्रयेणेति पश्यन् स्मरंश् च व्योमस्थो यदा पुनर् अपि पश्यति तद् अनेन प्रहरोपलक्षितदर्शनत्रयेण मातरो ऽन्तःप्रमाट्र्मयाः परमेशशक्तयः ताश् च प्रमातृत्वाद् एव सिद्धाः प्रमात्रन्तरविषयसिद्ध्यनपेक्षाः, तद्रूपैकात्म्यलक्षणेन योगेनैश्वर्यम्, तथा गृहीतस्वातन्त्र्यांशाः, महद् बाह्येन्द्रियवृत्त्यपेक्षया सर्वत्राप्रतिहतप्रसरत्वं बलं यासां ता अन्तःकरणदीधितयः ता अपि सिद्धा एव /
SK
विश्वत्र पाशवसासनयन्त्रणानिरपेक्षतयैव सरभसप्रवृत्तिरूपत्वाद् वीरा बुद्धिक्रियेन्द्रियाख्यास् ते ऽपि सिद्धा एव / तेषाम् अपि चेस्वराः कादिवर्णात्मानः ते ऽपि सिद्धाः / तत्कादिवर्णोद्धारोदितश् च ब्राह्म्यादिदेवतात्मा तत्तद्द्वेषरागादिचित्तवृत्तिरसमयः शक्तिसमूहः सो ऽपि सिद्ध एव, अत एव बलवान् / एते सर्वे संभूय पराज्ञया परस्य मां मानमयीम् ``असौ परःऽऽ इति विकल्पात्मिकां सिद्धिम् / यद् वा समीहितं फलम् एव ``अहंऽऽ ददति प्रयच्छन्ति / अज्ञातार्थक्रिये ज्ञातार्थक्रिये च एष क्रमेण विकल्पाविकल्पयोगः / किं बहुना / ये मन्त्रिणो ऽपरकुलान्तमन्त्रसिद्धा अपि साधयन्ति / अपि च ते ऽप्य् अनेन हृदयेन सेत्स्यन्ति जीवन्मुक्ताः / एतेन विना पारमार्थिकी सिद्धिर् न भवतीति भावः / ``यत् किंचिद् भैरवेत्यादिऽऽ / तथा ये सिद्धाः साधयन्ति च ये च सेत्स्यन्ति अणिमादियोगात् ते ऽप्य् अनेनैव / न हि एतद्धृदयानुप्रवेशं विना व्यावहारिक्य् अपि सिद्धिः, यतो भैरवे विश्वात्मनि तन्त्रे क्रियाकलापे यत् किंचित् सिद्धिजातं तद् अत एव /
SK
एवम् एष परमेश्वर एव हृदयात्मा एवंरूपतया शक्तित्रितयबृंहितसततोदयमानसंह्रियमाणानन्तसंविदैक्यशाली परिकल्पितः सन् अदृष्टम् असंदर्शनम् एवाख्यातिरूपं मण्डं मायामलम्, मण्डं च भावानां भेदाख्यं सारं लुम्पति / एवम् अदृष्टम् एतद् धृदयम् अण्डलोपि / चत्वार्य् अण्डान्य् एव / लोपः संकोचः / तद् योगि /
SK
एवम् एष विद्यामायोभयात्मा परमेश्वर एक एव चिद्घनः, यथोक्तम्
SK
Q: दर्शनं तु परा देवी स्मरणं च परापरा / Q: विकल्पस् त्व् अपरा देवी त्रिकशक्तिमयः प्रभुः //
SK
Q: मायाविद्ये उभे तस्य माया तु चतुरण्डिका / Q: विद्या स्वरूपसंवित्तिर् अनुग्रहमयी शिवा //
SK
इति / यदि तु योगप्राधान्यं तदा श्रीपूर्वादिशास्त्रनिरूपितं पूर्वम् एव व्रतादि कृत्वा, ``अस्योच्चारे कृतेऽऽ इत्यादि स्पष्टम् एव व्यख्येयम्, यतो दृष्टकार्येषु नियतिपरतन्त्री क्रियाकलापं नियतम् एवापेक्षते /
SK
योगिनाम् अपि हि नाडीचक्रकरणभावनासंवेदनयुक्त्या नियम एव /
SK
अस्येदानीं त्रिकार्थस्य यद् उक्तं
SK
Q: कुलात् परतरं त्रिकम् इति
SK
सर्वोत्तरम् अनुत्तरत्वं तन् निरूपयति /
SK
अदृष्टमण्दलो ऽप्य् एवं यः कश्चिद् वेत्ति तत्त्वतः स सिद्धिभाग् भवेन् नित्यं स योगी स च दीक्षितः //
SK
मण्डलं देवताचक्रम् अपश्यन्न् अप्य् अप्राप्तमेलको ऽपि चर्यानिशाटनहठादिना, मण्डलानि शरीरनाडीचक्रानुचक्ररूपाणि योगाभ्यासेनासाक्षात्कुर्वन्न् अपि, त्रिसूलाब्जादिमण्डलम् अदृष्ट्वापि / नात्र मण्डलादिदीक्षोपयोगः / एवम् एव कश्चित् परशक्तिपातानुगृहीतो वेत्ति यः ``एतज्ज्ञानम् एव हि दीक्षा कान्यात्र दीक्षाऽऽ, अत एव एवं जानन् विभुना भैरवभट्टारकेण दीक्षितः / अत एव स्वयंगृहीतमन्त्रश् चेत्य् एतद् एतद्धृदयातिरिक्तमन्त्रविषयम् / न हि अयं मन्त्रो हृदयमयत्वात्, मन्त्रमहेशतन्महेशरूपोत्तीर्णत्वाद् अस्य / पुस्तकेष्व् अलेख्यम् एवेदं हृदयम् इति परशक्तिपातानुग्रहाद् एव एतल्लाभस् तत्त्वत इति निर्णीतम् / तथा यः कश्चिद् इति जातिव्रतचर्यादिनैरपेक्ष्यम् / अत्र वेदनम् एव हि प्रधानम् / स सिद्धिभाग् योगी
SK
Q: योगम् एकत्वम् इच्छन्ति
SK
इति यतः / ज्ञानदानमायाक्षपणलक्षणा च तस्यैव दीक्षा / चकारो ऽवधारणे तच् च सर्वतो मन्तव्यम् / स एव सिद्धिभाग् योगी दीक्षितः / सिद्धिभाग् एव योग्य् एव दीक्षित एव सः / तद् आह नित्यम् इति /
SK
अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः
SK
सर्वाभिर् देवताभिः सर्वशक्तिभिश् च सर्वज्ञैर् असौ ज्ञायत एतज् जानन्न् एव / तैर् अपि यत् किंचित् ज्ञायते तद् अनेन ज्ञतमात्रेण ज्ञायत इति प्राग्वत् / सर्वाभिः शक्तिभिर् इति करणे तृतीया /
SK
तथा
SK
शाकिनीकुलसामान्यो भवेद् योगं विनापि हि //
SK
अनेन ज्ञातमात्रेण योगम् आभ्यासिकं मायीयदेहपातावाप्ततदैक्यरूपं च विनापि शाकिनीकुलस्य विशेषस्पन्दात्मनः सामान्यस्पन्दरूपो ऽकुलरूपः शक्तिचक्रेश्वरो भवेद् इति /
SK
किं च
SK
अविधिज्ञो विधानज्ञो जायते यजनं प्रति //
SK
विधिः क्रिया ज्ञा ज्ञानम् / तद् यस्य द्वयं नास्ति स पशुः, यथोक्तं किरणायाम्
SK
Q: पशुर् नित्यो ह्य् अमूर्तो ऽज्ञो निष्क्रियो निर्गुणो ऽप्रभुः / Q: व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः //
SK
इति / स पशुर् अप्य् अनेन ज्ञातमात्रेण विधानं ज्ञा च यस्य स कर्ता ज्ञाता च विषयसंगतिकरणं प्रति जायते / यजनं चास्यापूर्णम् अपि पूर्णं भवतीति सर्वमयत्वाद् धृदयस्य / तथाहि
SK
कालाग्निम् आदितः कृत्वा मायान्तम् ब्रह्मदेहगम् शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् //
SK
कालाग्नेर् धरातत्त्वादिभुवनान् मायातत्त्वं यावद् ब्रह्मणः सकारस्य देहे / विश्वभुवनाद् विद्यातत्त्वादेर् आरभ्य यावत् शिवो ऽनाश्रितशक्तिरूपो ऽनन्तस्यौकारस्यान्तः / परं विसर्गात्मकं शक्तित्रयं तच् च परम् / उक्तं च ``सार्णेनऽऽ इत्यादि //
SK
तदन्तर् वर्ति यत् किंचिच् छुद्धमार्गे व्यवस्थितम् अणुर् विशुद्धम् अचिराद् ऐश्वरं ज्ञानम् अश्नुते //
SK
यत् किंचिद् वस्तु व्यवस्थितं विचित्रावस्थं तद् धृदयबीजान्तर्वर्ति शुद्धं भवेत् / तद् एव चैश्वरं ज्ञानम् अणुर् अण्यते प्राणिति अणति नदति परिमितोच्चारात् मूर्धन्यो भगवत्प्रभावाद् अचिराद् एव प्राप्नोति /
SK
कथम् /
SK
तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः सर्वगो निर्मलः स्वच्छस् तृप्तः स्वायतनः शुचिः //
SK
यस् तच्चोदको गुरुः स शिव एव ज्ञेयः / शिव एव तच्चोदकः / स चाज्ञेयो ज्ञातैव / स्वायतनः स्वान् अयान् विज्ञानरूपान् भावांस् तनोतीति / सर्वं चैतद् विस्तरतो निर्णीतम् एव //
SK
एवं विस्तरशो ऽभिधाय तात्पर्येण निगमयति /
SK
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः तथा हृदयबीजस्थं जगद् एतच् चराचरम् //
SK
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी दीक्षा भवत्य् असंदिग्धा तिलाज्याहुतिवर्जिता //
SK
इहासत् तावन् न किंचिद् इत्य् उक्तम् / विश्वं च विश्वात्मकम् इति / ततश् च यथा वटबीजे तत्समुचितेनैव वपुषाङ्कुरविटपपत्रफलादि तिष्ठतीत्य् एवं विश्वम् इदं हृदयान्तः / एवंपरिज्ञानम् एवासंदिग्धा निर्वाणदीक्षा, यथोक्तम्
SK
Q: इयम् एवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः / Q: इयं निर्वाणदीक्षा च शिवसद्भावदायिनी /
SK
इति / अन्या अपि दीक्षा भोगान् वितरेयुर् अपि, एतत्परिज्ञानम् एव तु तत्त्वतो दीक्षेति तत एवात्र सर्वोत्तरत्वम्, कुलशास्त्रेभ्यो ऽपि आधिक्यात् / यथा हि तुलाङ्केषूर्ध्वम् ऊर्ध्वं परिमिते ऽपि उन्नत्यवनतियोगे ऽनन्तम् अन्तरं परिमाणस्य भवति, एवम् ऊर्ध्वोर्ध्वतत्त्वेषु देशकालभोगसंवेदनानाम् अनन्तम् एवान्तरम् इत्य् एवम् एवाधिकीभवेत्, षट्त्रिंशतो ऽपि अधिकं भवेद् इति / यतश् च संवेदनम् एव दीक्षा तद् एवोक्तम् एतत्संविदनुप्रविष्टौ वीरो वा योगिनी वा निजपरसत्तासततोदितामायीयबाह्यान्तःकरणरश्मिदेवताद्वादशकचक्रेश्वरपरभैरवभट्टारकात्मकनिर्णीततत्त्वाहरूपानुगृहीतौ न कृतदीक्षाव् इति /
SK
एवम् अनुत्तरपदम् उत्तररूपापरित्यागेनैव यथा भवति तथा व्याससमासाभ्यां भूयसा निर्णीतम् / अधुना त्व् इदं वक्तव्यम् / उच्यते तावच् छास्त्रेषु
SK
Q: मनुष्यदेहम् आस्थाय च्छन्नास् ते परमेश्वराः / Q: निर्वीर्यम् अपि ये हार्दं त्रिकार्थं समुपासते //
SK
इति / तत् कथम् अस्योपासा / तथापि चानुत्तरसत्तयात्रापि भाव्यम् अनुत्तरत्वाद् एव / सा च कथम् इत्य् आकाञ्क्षां निर्णिनीषुर् ग्रन्थान्तरम् अवतारयति /
SK
मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् //
SK
एकैकं तु दिशां बन्धं दशानाम् अपि योजयेत् तालत्रयम् पुरा दत्त्वा सशब्दं विघ्नशान्तये //
SK
शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः पुष्पादिकं क्रमात् सर्वं लिङ्गे वा स्थण्डिले ऽथवा //
SK
चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना तत्र सृष्टिं यजेद् वीरः पुनर् एवासनं ततः //
SK
सृष्टिं तु सम्पुटीकृत्य पश्चाद् यजनम् आरभेत् सर्वतत्त्वसुसम्पूर्णाम् सर्वाभरणभूषिताम् //
SK
यजेद् देवीं महेशानीं सप्तविंशतिमन्त्रिताम् ततः सुगन्धिपुष्पैस् तु यथाशक्त्या समर्चयेत् //
SK
पूजयेत् परया भक्त्या आत्मनं च निवेदयेत् एवं यजनम् आख्यातम् अग्निकार्ये ऽप्य् अयं विधिः //
SK
मूर्धादीनि बाह्ये तथोचितरूपाणि / वस्तुतः परं ब्रह्मरूपाभिहितपञ्चात्मकव्योमादिधरण्यान्तसतत्त्वेशानादिसारचिदुन्मेषेच्छाज्ञानक्रियारूपाण्य् एव, मन्त्रलिङ्गात्, यथा मन्त्राः १) ईशानमूर्ध्ने, २) तत्पुरुषवक्त्राय, ३) अघोरहृदयाय, ४) वामदेवगुह्याय, ५) सद्योजातमूर्तये इति / तत्रैतत्पञ्चकाविभागात्मकम् उपक्रमोपसंहारयोः रूपम् इति द्वे, मध्ये च प्रोल्लसति विभागत्वे पञ्चानाम् एकैकशः पञ्चात्मकता इति पञ्चविंशतिः / अत्रैव मालिन्यादिमन्त्राणाम् अनुप्रवेशः /
SK
तिस्रश् च देव्याः प्रत्येकम् इच्छादित्रययोगान् नवात्मतां प्राप्ताः पुनर् अपि सृष्टिस्थितिसंहृतिवशात् त्रैधम् आपन्ना इति सप्तविंशतिसंस्मृतहृद्बीजेन शिखाया एवंरूपधरण्यन्तपरिकल्पनस्वातन्त्र्यरूपायाः परचिद्बुद्धिस्पर्शप्राणब्रह्मरन्ध्रवाहरूपैर् उपचर्यमाणाया बन्धनं सर्वाविभागसारं तादात्म्यम् / मूर्धादिषु केवलेष्व् अपि प्रत्येकं सर्वाणि वक्त्रादीनि परस्परं विशेषणानि / तच् च निर्णीतम् एव सर्वसर्वात्मकत्वनिर्णयेणैव / दिश्यमाना घटाद्या एव दिशः ताश् च स्वापेक्षया दशैव भवन्ति / तत्राप्य् एतद् एव बन्धनम् आत्मसात्कारात्मकम् / एतच् च तालत्रयेण / ताला प्रतिस्था विश्रान्तिः / तत्र सकारादि हृदयम् एव / ताश् च सशब्दं मध्यमान्तम् / शब्दनं हि शब्दः, तच् च मध्यमैव वैखर्यास् तच्छेषात्मकत्वाद् इत्य् उक्तं बहुशः / एषा च विघ्नानाम् अभेदात्मन्य् अखण्डिते परमात्मनि खण्डनात्मकसंकोचसारभेदकल्लोलकलङ्कानां शान्तिर् अभेदभैरवार्णवतादात्म्यम् एव / यद् आहुः श्रीसोमानन्दपादाः
SK
Q: अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे / Q: शिवः करोतु निजया नमः शक्त्या ततात्मने // इति /
SK
एवम् एव सप्तविंसतिजप्तं तोयम् इत्य् अर्घपात्रविधिः / तोयम् अत्र सर्वम् एव हृदयं द्रवात्म, अनियन्त्रितत्वाद् असंकोचदानाच् च / पुष्पं व्याख्यातम् / लिङ्गं च
SK
Q: ...यत्र लीनं चराचरम् / इत्य् एतद् अपि निर्णीतम् एव / विश्वात्मनि तत्त्वे आसिक्रियायाम् अधिकरणस्य कर्तुश् चासनस्य स्वातन्त्र्यात् कल्प्यमानस्य स्वातन्त्र्येण कल्प्यमानत्वं चतुर्दशेन औकारेण, तस्यैव त्रिशूलरूपत्वाद् इत्य् उक्तम् एव / सृष्टिर् आदिक्षान्ततादात्म्यमयं हृदयं शक्तिर् गुह्यम् इति वीरत्वम् / अत एव आसनम् अपि सर्वं तत्रैव, आधाराधेययोः परस्परैकरूपत्वात् / यथोक्तम्
SK
Q: सर्वभूतस्थम् आत्मानम् ... /
SK
इत्यादि / संपुटीकरणं सृष्टेर् आदिक्षान्तायाः प्रत्येकं सर्वशश् च हृदयबीजेन / परतत्त्व एवोल्लासात् संहाराच् च न चानवस्थेत्य् उक्तम् एव / सृष्टेश् च संपुटीकरणम् उभयसंघट्टक्षोभानन्दरूपम् / तदुत्थद्रव्योपयोगो ऽपि / क्त्वा अत्र शब्दप्रतीतिपौर्वापर्यमात्रे / सर्वतत्त्वैः सुष्ठ्व् अभेदेन सम्यग् अनपायितया पूर्णत्वम् / सर्वत्र च परमाणाव् अपि यद् आ समन्तात् भरणं सर्वात्मीकरणम्, सर्वैर् वा घटसुखतिर्यङ्नरविरिञ्चिविष्णुरुद्रमन्त्रसदाशिवादिप्रमातृरूपैर् अवयवमानैर् अहमेकरसावयवित्वं निर्णीतम् एव / अत एव विशिष्टाकृत्यायुधादिध्यानम् अत्र नोक्तम्, तस्य निर्मेयत्वात् / आरुरुक्षुर् एतावत्त्रिकार्थाभिलाषुकश् च कथम् आरोहत्व् इति चेत् कस्यायम् अर्थिभावः / मा तर्हि आरुक्षत् / सिद्धातन्त्रादिविधिम् एव तदाशयेनैव निरूपिततद्ध्यानादिसंकोचम् आलम्बताम् / असंकोचितानुत्तरपदे ह्य् अनधिकृत एव / एष एव सदोदितो योगः / गन्धपुष्पादि निर्णीतम् / यथाशब्दः सहार्थे, तृतीया च तत्रैवोक्ता / परयैव हृदयरूपया पूजयेत् / कथम् / भक्त्या तादात्म्यानुप्रवेशप्रह्वतात्मना / भक्त्या स्वयंकॢप्तेन पूज्यपूजकविभागेन / पूज्यो हि स्वयं सृज्यते / स परं स्वतन्त्रचिन्मयतापरमार्थ एवानुत्तरस्वातन्त्र्यबलात्, न घटादिर् इव जड इति विशेषो ऽत्र / तद् उक्तं श्रीप्रत्यभिज्ञायाम्
SK
Q: स्वातन्त्र्यामुक्तम् आत्मानं स्वातन्त्र्याद् अद्वयात्मनः / Q: प्रभुर् ईशादिसंकल्पैर् निर्माय व्यवहारयेत् // इति / भक्त्या च लक्षणया / पूजनेन परं तत्त्वं लक्ष्यते / सर्वक्रियास्व् एवंरूपताप्रत्यभिज्ञानम्, उपायत्वात्, लिप्यक्षरस्येव मायीयवर्णव्युत्पत्तौ तस्यापि च वर्णवीर्यानुप्रवेश इव / आत्मानं निवेदयेत्, अन्यस्य निवेद्यस्याभावात् / एवं च आत्मानम् एव निःशेषेण निरुत्तरपदं वेदयेत् / अनुत्तरसत्तानुसारेणात्र संभावनायां लिङ्, सततम् एवंमयत्वेनैवावस्थितेर् इति ह्य् उक्तम्, उपासानुसारेण तु नियोगादाव् अपि /
SK
एवम् आ समन्तात् सर्वत्र सदा यत् ख्यातं पारमार्थिकशुद्धशिवस्वरूपप्रथात्मिका ख्यातिर् इति तद् एव यजनम्, परभैरवसंविद्देवतायाः पूजनात् तया च तादात्म्यसम्यग्गमनरूपताकरणात् सर्वत्र च परिमितात्मीयात्मरूपस्वत्वनिवृत्त्या परिपूर्णचिद्घनशिवशक्त्यात्मकात्मीयरूपपरस्वत्वापादनात्म दानाच् च / एतद् एव अग्निकार्यं सर्ववासनाबीजानां सर्वपदार्थेन्धनग्रासलांपट्यजाज्वल्यमाने शिवसंघट्टक्षोभक्षुभितपरशक्त्यरणिसततसमुदितपरभैरवमहामहसि सर्वाभिष्वङ्गरूपमहास्नेहाज्यप्राज्यप्रतापे हवनाद् अन्तर्दाहात् / अयम् एव अग्निकार्ये विधिर् दीक्षापर्यन्तो ऽपि, नान्यः पृथक् कश्चिद् इति तात्पर्यम् /
SK
स्वस्वरूपपरिज्ञानं मन्त्रो ऽयं पारमार्थिकः / दीक्षेयम् एष यागश् च क्रियेयम् अप्य् अनुत्तरः //
SK
अत एव प्राग् एवोक्तं यथान्यत्र मन्त्रोपासादिक्रिया उत्तरेण ज्ञानग्रन्थेनोत्तीर्यते नैवम् इहेति / यद् उक्तम् ``उत्तरस्याप्यनुत्तरम्ऽऽ इति सूत्रे तद् एवैतदन्तेन ग्रन्थेन निर्व्यूढं हृदयस्यैव यागदीक्षाक्रियारूपत्वात् तस्य चानुत्तरत्वात् / श्रीसोमानन्दपादैस् तु स्रुक्स्रुवसंस्कारादि सर्वंसहत्वप्रतिपादनेनाप्य् अखण्डितत्वाभिप्रायेण निरूपितम् / एवमादाव् अङ्गहृद्भेदधूलिभेदाद्य् अपि तद्रूपं युज्यते न किंचिद् अत्र नाप्य् उपपद्यते नाप्य् अस्ति नाप्य् अधरशास्त्रपातित्वेन तदुपजीवकत्वम् इति निर्णीतप्रायम् एव /
SK
किम् एवमुपासायां भवतीत्य् अवतरति /
SK
कृतपूजाविधिः सम्यक् स्मरन् बीजं प्रसिद्ध्यति
SK
एवम् अनवरतं व्यवहारेष्व् अपि बीजं स्मरन्न् एव स्मरणाद् एव कृतपूजाविधिः प्रकर्षेणान्यकुलशास्त्रादिशैववैष्णवान्तशास्त्रातिरेकेणैव भगवद्भैरवभट्टारकरूपसमावीष्टो निजपरसंविच्चमत्कारवशविनिर्मितभावक्रिडाडम्बरो जीवन्मुक्त एव प्रथमोक्तनयेन भवति इत्य् अनुभव एवायम् आवर्तते न त्व् अन्यत् किंचिद् इति स्मरणम् उक्तम् / श्रीमतशास्त्रेष्व् एवम् एव / उपासकस् त्व् अननुप्रविष्टवीर्यसत्तासारहृदयो ऽपि क्रमपूजामाहात्म्याद् बीजं संयक् स्मरन् प्राप्तहृदयाख्यतत्त्वमन्त्रवीर्यः प्रकर्षेण सिद्ध्यति क्रमपूजामाहात्म्याद् एव /
SK
तारतम्यातिशयात् स्वयं वा प्रसन्नगुरुभट्टारकवदनकमलाद् वा मन्त्रवीर्यं हृदयात्मकम् आसादयति जीवन्मुक्तश् च भवतीति यावत् / अत्र द्वारपरिवारगुरुपूजनं गुणं खण्डनां वा न वहति तत एव भट्टपादैः न्यरूपि / अत्र तु कुलपार्वाणि पवित्रं चेति सम्यक्त्वं पूजाविधेः /
SK
यत्रान्तर् अखिलं भाति यच् च सर्वत्र भासते / स्फुरत्तैव हि सा ह्य् एका हृदयं परमं बुधा //
SK
रासभी वडवा वापि स्वं जगज् जन्मधाम यत् / समकालं विकास्यैव संकोच्य हृदि हृष्यति //
SK
तथोभयमहानन्दसौषुम्नहृदयान्तरे / स्पन्दमानम् उपासीत हृदयं सृष्टिलक्षणम् //
SK
ध्यायन् स्मरन् प्रविमृशन् कुर्वन् वा यत्र कुत्रचित् / विश्रान्तिम् एति यस्माच् च प्रोल्लसेद् धृदयं तु तत् //
SK
तद् एकम् एव यत्रैतज् ज्ञानं वैकल्पिकं परम् / तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः //
SK
स्वं स्वं विचित्रम् एवान्तःस्वरूपं पारमार्थिकम् / चित्रीकुर्वन्त एषन्ति तां चित्रं संविदं पराम् //
SK
दशाद्रव्यक्रियास्थानज्ञानादिष्व् अपि सर्वशः / अशङ्कयैव संक्रामः पूजास्य सततोदिता //
SK
क्रमपूजनमात्रं च कुलपर्वपवित्रकैः / सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने //
SK
यथोक्तम्
SK
Q: द्रवाणाम् इव शारीरं वर्णानां सृष्टिबीजकं / Q: शासनानां त्रिकं शास्त्रं मोक्षाणां भैरवी स्थितिः //
SK
Q: उपासायाः समापत्तिर् व्रतानां वीरवृत्तिता / Q: तथैव पर्वमध्ये तु कुलपर्वाणि शासने //
SK
Q: सर्वेषां चापि यागानां पूरणाय पवित्रकम् / Q: पवित्रकं न कुर्वन्ति चतुस् त्रिर् द्विः सकृत् तु ये //
SK
Q: कुलपर्व न जानन्ति तेषां वीर्यं न रोहति /
SK
इति /
SK
एवम् अनुत्तरस्वरूपं विस्तरतो निर्णीतम्, यत्र भावनाद्यनवकाशः / प्रसंख्यानमात्रम् एव दृढचमत्कारलक्षणहृदयङ्गमतात्मकप्रतिपत्तिदार्ढ्यपर्यन्तम् / यत्रोपायधौरेयधाराधरन् निधत्ते सिद्धिप्रेप्सुषु तु योगो वक्तव्यः / स्वातन्त्र्यानीयमानास्व् अपि दृष्टयोगसिद्धिषु लौकिकप्रसिद्धिनियत्युत्तरत्वे ऽपि पारमेशव्यवस्थारूपनियत्यनतिक्रमात्, यदुक्तं शिवदृष्टौ
SK
Q: तथापि चित्रकर्मार्थम् उपायो वाच्य अदरात् /
SK
इति / तत्रापि चानुत्तररूपस्य नास्ति खण्डना काचित्, दृष्टसिद्धीप्सायत्नसेवातदाप्तितत्फलविश्रान्त्यादेर् अपि परैकमयत्वात्, किं तु जीवन्मुक्तापेक्षया मन्दशक्तिपातो ऽसाव् उच्येत अपूर्णप्रायत्वात् /
SK
तं योगमार्गं निरूपयितुं ग्रन्थशेषो ऽवतरति /
SK
आद्यन्तरहितं बीजं विकसत् तिथिमध्यगम् हृत्पद्मान्तर्गतं ध्यायेत् सोमांशं नित्यम् अभ्यस्येत् //
SK
एतद् एव हृदयबीजं दीपकाभावाद् गमागमशून्यत्वात् सततोदितत्वाच् चानाद्यन्तम् / तद् एव विकसत् परिपूर्णत्वं यातम् / तिथीनं मध्यगं हृदयत्वात् / तद् एव संकोचविकासधर्मोपचरितपद्मभावे कन्दे गुह्ये हृदैव ध्यायेत् / किं चास्य ध्यानम् आह / सोमांशं षोडशकलात्मकं केसररूपम् अभितः समन्ताद् अस्येत् क्षिपेत् परिपूर्णचन्द्रस्यास्य हृत्कार्णिकानिवेशिकलया स्वस्वद्वादशान्तगम् / पुष्पाद्युदयस्थानाद् आहृतामृतस्पर्शः प्रोद्यन्नादानुसारचुम्बिकालक्षणकाकचञ्चुपुटमुद्रामुद्रितः पुनस् तदुपसृतशिशिरामृतरसास्वादविकस्वरहार्दसोमप्रसरन्नादनिर्मथिथसुधापानपूरितचन्द्रमाः पुनः सूर्यकलोदयमयो ऽनच्कसकारमात्रविश्रान्तो रोमाञ्चस्तोभोत्पतनबाष्पकम्पस्तम्भाद्यनुगृहीतदेहो ऽभ्यासं कुर्याद् इति भट्टधनेश्वरशर्मा /
SK
आद्यन्तरहितं सकारमात्रं षोडशाकारादितिथिरहितं कलाग्रासक्रमेण हृदये ऽन्तर् निक्षिपेत् नालिकाजलाकर्षणवत् /
SK
चलनकम्पनस्पन्दनसमाविष्टमूलाधारत्रिकोनभद्रकन्दहृन्मुखमुद्रासु युगपद् एव विलम्बितमध्यद्रुततरतदतिशयादिधाराप्राप्तिवशगलितसूर्यसोमकलाजालग्रासे आद्यन्तरहितं कृत्वा /
SK
आद्यन्ताभ्याम् एतद्बीजं मातृकापेक्षया औकारसकाराभ्यां रहितं विश्लेषणयुक्तिलब्धवीर्यपरिचयं ध्रुवं विसर्गात्मकं विकसतां पञ्चदशानां तिथीनां यन् मध्यं तिथिरहितम् एव ग्रस्तकालं षोडशं ततो ऽपि गच्छति यत् ``सप्तदशी कलाऽऽ इत्य् उक्तम् /
SK
सोमस्य सोडशात्मकम् आमृतम् अंशं हृत्कमले ध्यायेत् / तद् एव नित्यम् अभ्यस्येद् इत्य् अस्मद्गुरवः / तथा हि सहोमया भगवत्या संघट्टात्मकसमापत्तिक्षोभेण तत्त्वनिर्मथनात्मना वर्तत इति सोमो भट्टारकः / तस्य समग्रभवभावावयविनः परिपूर्णाहमात्मनो ऽंशो नीलसुखादिः / तद् एवम् अभ्यस्यति स्वस्वरूपावर्तनसृष्टिसंहारावर्तचक्राक्षमालिकया पुनः पुनर् आवर्तयतीति यत् सत्यं भाव्यते स एव एष सततोदितो हृदयजपः / संभावनायां लिङ् /
SK
अन्ये तु हृत्स्थानाद् द्वादशान्तान्तं यश् चारः षट्त्रिंशदङ्गुलस् तत्र सूर्यरूपतयोल्लास्य बहिर् अर्धतुटिमात्रं विश्रम्य अविनाश्य् अमृताख्य वि सर्गरूपसोमकलोदये सपादाङ्गुलद्वितयमात्रायां तुटौ तुटौ प्रत्येकं चन्द्रकलापरिपूरणे पञ्चदश्यां तुटौ पूर्णायां हृत्पद्मे पूर्णश् च भवति / अर्धतुटिमात्रं च तत्रापि विश्रान्तिः / एवं षोडशतुट्यात्मा षट्त्रिंशदङ्गुलश् चारो भवति इत्य् अवस्थायाम् आद्यन्तरहितम् अनस्तमितत्वात् विकसत्सु द्वितीयादिष्व् अन्तर्गतं सोमांशं विसर्गरूपं हृत्पद्ममध्ये विश्लिष्य सप्तदशात्मकं परिशीलनेन ध्यायन् कलाग्रासाभ्यासं कुर्याद् इत्यादि समादिशन् / सर्वं चैतद् युक्तम् एव मन्तव्यम् / अत्र चावृत्त्यानन्तं व्याख्यानं सूत्रत्वाद् उपपन्नम् एव यत उक्तम् ``अनन्तार्थसूत्रणात् सूत्रम्ऽऽ इति / ``त्रिंशिका चानुत्तरसूत्रम्ऽऽ इति गुरवः / एवं पूर्वेष्व् अपि श्लोकसूत्रेषु /
SK
किम् इत्थम् अभ्यासे सति भवतीत्य् आह
SK
यान् यान् कामयते कामांस् तान् ताञ् च्छीघ्रम् अवाप्नुयात् / अस्मात् प्रत्यक्षताम् एति सर्वज्ञत्वं न संशयः //
SK
एवमभ्यासाद् यद् यत् कामयते तत् तद् अचिराद् एव तथाविधसर्वमयहृदयवीर्यसमुच्छलितेच्छाप्रसरावष्टम्भविशेषबलोद्योगसंरम्भसोत्साहः पुनः पुनस् तत्स्थितिरूढिरूपाभ्यासात् प्राप्नोति / किं बहुना / सर्वज्ञत्वं परभैरवात्मकत्वम् अनेनैव देहेनेति सर्वम् उक्त्वोपसंह्रियते / पर्यन्ते हि प्रसरस्योपसंहारे विश्रान्तिरूपाकुलसत्तासादने भैरवता इत्य् उक्तम् असकृत् /
SK
सो ऽयम् उपसंहारग्रन्थः
SK
एवं मन्त्रफलावाप्तिर् इत्य् एतद् रुद्रयामलम् एतद् अभ्यासतः सिद्धिः सर्वज्ञत्वम् अवाप्यते //
SK
मन्त्राणां शास्त्रान्तरीयाणां वर्णानां च फलम् एवम् अवाप्यते नान्यथा / इति समाप्तौ / रुद्रस्य रुद्रायाश् च यद् यामलं संघट्टो निर्विभागप्रश्नोत्तररूपस्वरूपामर्शनप्रसराद् आरभ्य यावद् बहिर् अनन्तापरिगणनीयसृष्टिसंहारशतभासनं यत्रान्तः, तद् एतद् अकुलोपसंहृतम् एवेति प्रसंख्याननिगमनम् / ``एतदभ्यासात् सर्वज्ञत्वम्ऽऽ इति योगफलनिगमनम् / सततोदितं ह्य् एतत् सर्वस्येति शिवम् /
SK
इत्थं प्रपन्नजनतोद्धरणप्रवृत्त-श्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः / वृत्तिं व्यधात् त्रिकरहस्यविमर्शगर्भां काश्मीरिकाच् चुखलकाद् अधिगम्य जन्म //
SK
एतावद् एतद् इति कस् तुलयेत् प्रसह्य श्रीशांभवं मतम् अनर्गलिताश् च वाचः / एतत् तु तावद् अखिलात्मनि भाति यन् मे भातं ततो ऽत्र सुधियो न पराङ्मुखाः स्युः //
SK
अज्ञस्य संशयविपर्ययभागिनो वा ज्ञानं प्रकम्परहितं प्रकरोति सम्यक् / रूढस्य निश्चयवतो हृदयप्रतिष्ठां संवादिनीं प्रकुरुते कृतिर् ईदृशीयम् //
SK
एतावदर्थरससंकलनाधिरूढो धाराधिरूधहृदयो विमृशेद् अतो ऽपि / यद्य् उत्तरं तद् अपि नैव सहेत नेदं सोपानम् एतद् अमलं पदम् आरुरुक्षोः //
SK
कस्मीरेषु यशस्करस्य नृपतेर् आसीद् अमात्याग्रणीः श्रीमान् वल्लभ इत्य् उदाहृततनुर् यः प्राग्र्यजन्मा द्विजः / तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर् गुणैः श्रीशौरिः शिशुचन्द्रचूडचरणध्यानैकरत्नाकरः //
SK
शीलस्यायतनं परस्य यससो जृम्भास्पदं नर्मभूर् वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः / श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्-प्रोद्रिक्तान्तरवृत्ति शङ्करनुतौ यस्या मनो जृम्भते //
SK
तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शङ्कर-ध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः / यो बाल्ये ऽप्य् अथ यौवने ऽपि विषयासक्तिं विहाय स्थिराम् एनाम् आश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् //
SK
भ्राता ममैव शिवशासनरूढचित्तः प्रेप्सुः परात्मनि मनोरथगुप्तनामा / यः शास्त्रतन्त्रम् अखिलं प्रविवेक्तुकामः प्राप्तुं परं शिवपदं भवभेदनाय //
SK
शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् / रामदेवाभिधानश् च भूषितोत्तमजन्मकः //
SK
एतत्प्रियहितकरण-प्ररूढहृदयेन यन्मया रचितम् / मार्गप्रदर्शनं तत् सर्वस्य शिवाप्तये भूयात् //
SK
अन्तर्वेद्याम् अत्रिगुप्ताभिधानः प्राप्योत्पत्तिं प्राविशत् प्राग्र्यजन्मा / श्रीकाश्मीरांश् चन्द्रचूडावतावैर् निःसंख्याकैः पावितोपान्तभागान् //
SK
तस्यान्ववाये महति प्रसूताद् वराहगुप्तात् प्रतिलब्धजन्मा / संसारवृत्तान्तपराङ्मुखो यः शिवैकचित्तश् चुखलाभिधानः //
SK
तस्माद् विवेचितसमस्तपदार्थजाताल् लब्ध्वापि देहपदवीं परमेशपूताम् / प्राप्ताभयो ऽभिनवगुप्तपदाभिधानः प्रावेसयत् त्रिकसतत्त्वम् इदं निगूढम् //
SK
ये तावत् प्रविवेकवन्ध्यहृदयास् तेभ्यः प्रणामो वरः के ऽप्य् अन्ये प्रविविञ्चते न च गताः पारं धिग् एताञ् जडान् / यस् त्व् अन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो लक्षैको ऽपि स कश्चिद् एव सफलीकुर्वीत यत्नं मम //
SK
स्वात्मानां प्रविवेक्तुम् अप्य् अलसतां ये बिभ्रति प्रार्थना तान् प्रत्य् आत्मकदर्थनान् न परतः किंचित् फलं सोष्यते / विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुनः तान् अभ्यर्थयितुं मयैष विहितो मूर्ध्ना प्रणामादरः //
SK
भ्राम्यन्तो भ्रमयन्ति मन्दधिषणास् ते जन्तुचक्रं जडं स्वात्मीकृत्य गुणाभिधानवसतो बद्ध्वा दृढं बन्धनैः / दृष्ट्वेत्थं गुरुभारवाहविधये यातानुयातान् पसून् तत्पाशप्रविकर्तनाय घटितं ज्ञानत्रिशूलं मया //
SK
बहुभिर् अपि सो ऽहम् एव भ्रमितस् तत्त्वोपदेशकंमन्यैः / तत्त्वम् इति वर्णयुगम् अपि येषां रसना न पस्पर्श //
SK
परमेश्वरः प्रपन्न-प्रोद्धरणकृपाप्रयुक्तगुरुहृदयः / श्रीमान् देवः शंभुर् माम् इयति नियुक्तवांस् तत्त्वे //
SK
तत्तत्त्वनिर्मलस्थिति विभागिहृदये स्वयं प्रविष्टम् इव / श्रीसोमानन्दमतं विमृश्य मया निबद्धम् इदम् //
SK
हंहो हृच्चक्रचारप्रविचरणलसन्निर्भरानन्दपूर्णा देव्यो ऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः / चेतोवाक्कायम् एतद् विगतभवभयोत्पत्ति युष्मासु सम्यक् प्रोतं यत् तेन मह्यं व्रजत किल हृदि द्राक् प्रसादं प्रसह्य //
SK
व्याख्यादिकर्मपरिपाटिपदे नियुक्तो युष्माभिर् अस्मि गुरुभावम् अनुप्रविश्य / वाक्चित्तचापलम् इदं मम तेन देव्यास् तच्चक्रचारचतुरस्थितयः क्षमध्वम् //
SK
समाप्तम् इदं परत्रिंशिकातत्त्वविवरणम्
SK
शतैर् एकोनविंशत्या त्रिंशिकेयं विवेचिता / सर्वेषु त्रिकशास्त्रेषु ग्रन्थीर् निर्दलयिष्यति //
SK
कृतिर् अभिनवगुप्तस्य

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Parātriṃśikāvivaraṇa: Input by Somadeva Vasudeva.

Source
Parātriṃśikāvivaraṇa — Reader · Sutraya