The Supreme Scripture of the Goddess of Time
Devīkālottarāgama
देवीकालोत्तरागमः
SKसर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम् देवेश ज्ञानमाचारं कृपया कथयस्व मे //
SKज्ञानाचारौ वरारोहे कथयामि तवाधुना प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम् //
SKयेषां बोधेन संजातं कालज्ञानं वरानने न तेषां जायते बोधः शास्त्रकोटिशतैरपि //
SKअतो हि निर्भयो विद्वान् निःशङ्को विगतस्पृहः ज्ञानोत्साहपरो भूयात् श्रद्दद्धानो निराकुलः //
SKनिर्ममः करुणोपेतः सर्वभूताभयप्रदः भजेत् कालोत्तरं देवि मुमुक्षुर्योगतत्परः //
SKस ब्रह्मा स शिवो विष्णुः स इन्द्रः स षडाननः स गुरुः सर्वदेवाश्च स योगी स तपोधनः //
SKपण्डितः स महाभागः कृतार्थः परमार्थतः चलद्वायुसमं चित्तं ध्रियते येन निश्चलम् //
SKस उपायो मिमोक्षस्य सदुपात्तगुणस्तु सः सा प्रज्ञा तदिह स्थैर्यं तत्पुण्यं व्यवसायिनाम् //
SKतदेव तीर्थं दानं च स तपश्च न संशयः येनोपायेन बध्येत वायुभिश्चलनं मनः //
SKचित्ते चलति संसारो निश्चलो मोक्ष एव तु तस्माच्चित्तं स्थिरं कुर्यात् प्रज्ञया परया बुधः //
SKएकान्तिकं सुखं यत्र तथाइवात्यन्तिकं भवेत् निष्कर्मणि परे तत्त्वे को न रज्येत पण्डितः //
SKनिवृत्तो विषयज्ञानात् निष्कलज्ञानतत्परः अनिच्छन्नपि मेधावी लभते मोक्षमक्षयम् //
SKअस्मिताकलया युक्तं चैतन्यं सकलं स्मृतम् अस्मितारहितं चेतश् चैतन्यं शक्तिरुच्यते //
SKतथा प्रकाशितं विश्वं शक्तिध्यानमुदाहृतम् सर्वालम्बविनिर्मुक्तं निष्कलं ज्ञानमुच्यते //
SKअहमंशेन यच्छून्यं चिन्मात्रालोकमद्वयम् मुक्तिबीजं तदाख्यातं परयोगप्रवर्तकम् //
SKचक्राणि नाडयः पद्मदेवताबीजमण्डलम् रूपमित्यादिकं किञ्चिद् ध्येयं नैव कदाचन //
SKकुहकं मन्त्रजालं च प्राणायामादि धारणम् सर्वमेतन्न कर्तव्यं मोक्षमक्षयमिच्छता //
SKनात्र पूजा नमस्कारो न जपो ध्यानमेव च केवलं ज्ञानमित्युक्तं वेदितव्यं न किञ्चन //
SKबहिराहितचित्तानां जायन्ते बन्धहेतवः बहिश्चित्तं निवार्यैव विन्दन् लोके न सीदति //
SKनात्र किञ्चिद्बहिर्नान्तं न मध्यं नाप्यधः क्वचित् सर्वाकारं निराकारं स्वसंवेद्यं विराजते //
SKयद्यदालोक्य यो जन्तुः कुरुते कर्मसञ्चयम् तद्गतिर्जायते यस्मान् निरालोकं तु चिन्तयेत् //
SKहेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः //
SKनिरालम्बमिदं सर्वं निरालम्बप्रकाशितम् निरालम्बमिदं कृत्वा निरालम्बो भविष्यति //
SKव्योमाकारं महाशून्यं व्यापकं यो न भावयेत् संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा //
SKज्ञानोत्पत्तिनिमित्तं तु क्रियाश्चर्याः प्रकीर्तिताः योगं सालम्बनं त्यक्त्वा निष्प्रपञ्चं विचिन्तयेत् //
SKपातालात् शक्तिपर्यन्तं सर्वमेतदभीप्सितम् भग्नं यैः शून्यमन्त्रेण ते स्मृताः शून्यवेदिनः //
SKविषये लोलुपं चित्तं मर्कटादपि चञ्चलम् सर्वशून्यपदे स्थित्वा ततो निर्वाणमेष्यति //
SKसर्वतत्त्वाद्यसम्भिन्नं देहाद् भिन्नं तथैव च अहमस्माद्यसम्भिन्नं चैतन्यं सर्वतोमुखम् //
SKआकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् //
SKनिरिन्धनो यथा वह्निः स्वयमेव प्रशाम्यति ग्राह्याभावान्मनस्तद्वत् स्वयमेव प्रलीयते //
SKमोहिका मूर्च्छिका माया स्वप्नश्चेति चतुर्विधः सुषुप्तिर्जागृतिश्चैव सर्वमेतत् परित्यजेत् //
SKदेहात् सूक्ष्मगतात् प्राणाच् चित्ताद् बुद्धेरहङ्कृतेः सर्वस्माद्भिन्न एवाहं चिन्तयन् लभते चितम् //
SKसदाभिभूतये चित्तं निद्रया स्मरणादिना बोधयित्वा प्रयत्नेन कुर्यात् स्वस्थं पुनः पुनः //
SKयदा स्थिरं भवेच्चित्तं चालयन्न कथंचन न किञ्चिच्चिन्तयेत् तत्र स्थिरमेव तु कारयेत् //
SKआश्रयालम्बनं चित्तं तद्वत् कुर्यान्निराश्रयम् चञ्चलं निश्चलं कुर्यात् निश्चलं न तु चालयेत् //
SKसर्वभूतलये जाते यद्यद्व्योम सुनिर्मलम् तत्तद्रूपं स्वकं ध्यायेद् व्याप्तं चैव तु निर्मलम् //
SKतदेव जन्मसाफल्यं पाण्डित्यमिदमेव हि चलद्वायुसमं चित्तं निश्चलं ध्रियते हि यत् //
SKनैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित् अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् //
SKनिद्रायां बोधयेच्चित्तं विक्षिप्तं शमयेत् पुनः पक्षद्वयपरित्यागे सम्प्राप्ते नैव चालयेत् //
SKनिराश्रयं सदा चित्तं सर्वालम्बनवर्जितम् मनो ऽवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् //
SKसर्वालम्बनशून्यं च धारयित्वा मनो हृदि यज्ज्ञानं जायते स्पष्टं तदभ्यासपरो भवेत् //
SKये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम् ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् //
SKदेवा देव्यस्तथा चान्ये धर्माधर्मौ च तत्फलम् आश्रयाश्रयिविज्ञानं संसारस्य च बन्धनम् //
SKआश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात् परोदयः जीवन्मुक्तस्तदा योगी देहत्यागाद् विमुच्यते //
SKवैराग्येण वपुस्त्यागो न वै कार्यो मनीषिणा आरम्भतः क्रियानाशे स्वयमेव विपत्स्यते //
SKहृत्सरोजे ह्यहंरूपा या चितिर्निर्मलाचला अहङ्कारपरित्यागात् सा चितिर्मोक्षदायिनी //
SKसर्वोपाधिविनिर्मुक्तं चिद्रूपं यन्निरन्तरम् तच्छिवो ऽहमिति ध्यात्वा सर्वासक्तिं विसर्जयेत् //
SKदेशजात्यादिसम्बद्धान् वर्णाश्रमसमन्वितान् भावानेतान् परित्यज्य स्वभावं भावयेद्बुधः //
SKअहमेको न मे कश्चिन् नाहमन्यस्य कस्यचित् न तं पश्यामि यस्याहं तं न पश्यामि यो मम //
SKअहमेव परं ब्रह्म जगन्नाथो महेश्वरः इति स्यान्निश्चितो मुक्तो बद्धः स्यादन्यथा पुमान् //
SKअशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा तदा भवति शान्तात्मा सर्वतो विगतस्पृहः //
SKयो ऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः अकायो निर्गुणो ह्यात्मा सो ऽहमस्मि न संशयः //
SKविज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः नादेयहेयो ह्यहमप्रतर्क्यस् तस्मात्सदा ब्रह्ममयो विशोकः //
SKआमस्तकं पादतलावसानं सान्तर्बहिश्चर्मपटावनद्धम् तत्कृत्स्नमेवामृतरूपमन्यच् चिद्रूपमात्मानमनन्यसिद्धिम् //
SKईशो ऽहमेवास्य चराचरस्य पिता च माता च पितामहश्च ध्यानं समास्थाय पदं चतुर्थं ध्यायन्ति मामेव विमुक्तिकामाः //
SKब्रह्मादिभिर्देवमनुष्यनागैर् गन्धर्वयक्षाप्सरसां गणैश्च यज्ञैरनेकैरहमेव पूज्यो मामेव सर्वे प्रतिपूजयन्ति //
SKतपोभिरुग्रैर्विविधैश्च दानैर् मामेव सर्वे प्रतिपूजयन्ति भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि //
SKन स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः निरन्तरो निर्मल ईश्वरो ऽहं स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः //
SKअनादिविज्ञानमजं पुराणं गुहाशयं निष्कलमप्रपञ्चम् निरञ्जनं निष्प्रतिमं निरीशम् अदृश्यमग्राह्यमचिन्त्यरूपम् //
SKसनातनं ब्रह्म निरन्तरं यत् पदे पदे सो ऽहमिति प्रपश्येत् यो भावतस्तिष्ठति निष्प्रकम्पः स ब्रह्मभूतो ऽमृततामुपैति //
SKज्ञानमेवं वरारोहे कथितं मोक्षसिद्धये आचारं कथ्यमानं तु साम्प्रतं शृणु तं मया //
SKन स्नानं न जपः पूजा होमो नैव च साधनम् अग्निकार्यादिकार्यं च नैतस्यास्ति महेश्वरि //
SKनियमो ऽपि न तस्यास्ति क्षेत्रपीठे च सेवनम् नार्चनं पितृकार्यादि तीर्थयात्रा व्रतानि च //
SKधर्माधर्मफलं नास्ति न तिथिर्लौकिकक्रिया सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः //
SKसमयाचारनिःशेषान् कृत्यजातं तु बन्धनम् संकल्पं च विकल्पं च ये चान्ये कुलधर्मिकाः //
SKसिद्धीश्च विविधाकाराः पातालादि रसायनम् प्रत्यक्षेणापि लभ्येरन् नैव गृह्णीत साधकः //
SKसर्वे ते पशुबन्धाः स्युर् अधोमार्गप्रदायकाः एतैर्नास्ति परा मुक्तिश् चिद्रूपं व्यापकं विना //
SKयेन केन विशेषेण सर्वावस्थो ऽपि योगधृक् क्षेत्रपीठे च सन्देहाद् वर्जयेद्यदि कौतुकम् //
SKकृमिकीटपतङ्गाश्च तथा देवि वनस्पतीन् न नाशयेद् बुधो जीवान् परमार्थमतिर्यतः //
SKन मूलोत्पाटनं कुर्यात् पत्त्रच्छेदं विवर्जयेत् भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् //
SKस्वयंपतितपुष्पैस्तु कर्तव्यं शिवपूजनम् मारणोच्चाटनादीनि विद्वेषस्तम्भने तथा //
SKज्वरभूतग्रहावेशवश्याकर्षणमोहनम् न कुर्यात् क्षुद्रकर्माणि काष्ठपाषाणपूजनम् //
SKसमो ऽमित्रे च मित्रे च समो लोष्टे च काञ्चने अभिलाषो न कर्तव्य इन्द्रियार्थे कदाचन //
SKआत्मारामो भवेद्योगी निर्भयो विगतस्पृहः समनिन्दाप्रशंसश्च सर्वभूतसमस्तथा //
SKसमदृष्टिस्तु कर्तव्या यथात्मनि तथा परे विवादं लोकगोष्ठीं च कलहाश्च विवर्जयेत् //
SKशास्त्रगोष्ठीं न कुर्वीत कुभाषितसुभाषितान् //
SKईर्ष्यां पैशुन्यदम्भे च रागं मात्सर्यमेव च कामक्रोधौ भयं शोकं त्यजेत्सर्वं शनैः शनैः //
SKसर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते //
SKज्ञानेनैव यथा मोक्षस् तथा सिद्धिर्निरर्थिका तथापि भोगमिच्छन्तः सिद्धिमिच्छन्ति साधकाः //
SKअणिमादिगुणावाप्तिर् जायतां वा न जायताम् तथापि मुच्यते देही पतिं विज्ञाय निर्मलम् //
SKपञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति शिवाद्यवनिपर्यन्तो लोको ऽयं शङ्करात्मकः //
SKईदृशं ज्ञानिनं दृष्ट्वा पूजयन्ति च ये नराः गन्धं पुष्पं फलं धूपं स्नानं वस्त्रं च भोजनम् //
SKनिवेदयन्ति ये केचिद् वाङ्मनःकायकर्मभिः तथैव ते विमुच्यन्ते मुक्तिमार्गाभिकाङ्क्षिणः //
SKस्तुतिनिन्दाकरास्तस्य पुण्यपापे समाप्नुयुः यज्ज्ञानाचरणं पृष्टं तत् सर्वं कथितं मया कालज्ञानं वरारोहे किमन्यत् परिपृच्छसि //
SKइति देवीकालोत्तरागमः परिसमाप्तः