Garland of Birth Stories (1–15)

Jātakamālā 1-15 · Jआतकमाला १-१५

Garland of Birth Stories (1–15)

Jātakamālā 1-15

Jआतकमाला १-१५

SK
Āर्यशूर: Jआतकमाला १-१५, रेविसेद् तेxत् १. Vयाघ्रीजातकम् २. Śइबिजातकम् ३. Kउल्माषपिण्डीजातकम् ४. Śरेष्ठिजातकम् ५. Aविषह्यश्रेष्ठिजातकम् ६. Śअशजातकम् ७. Aगस्त्यजातकम् ८. Mऐत्रीबलजातकम् ९. Vइश्वंतरजातकम् १०. Yअज्ञजातकम् ११. Śअक्रजातकम् १२. Bराह्मणजातकम् १३. Uन्मादयन्तीजातकम् १४. Sउपारगजातकम् १५. Mअत्स्यजातकम्
SK
नमो बुद्धाय //
SK
श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि कीर्त्यास्पदान्य् अनवगीतमनोहराणि / पूर्वेषु जन्मसु मुनेश् चरिताद्भुतानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये // AJम्_१.१ //
SK
श्लाघ्यैर् अमीभिर् अभिलक्षितचिह्नभूतैर् आदेशितो भवति यत् सुगतत्वमार्गः / स्याद् एव रूक्षमनसाम् अपि च प्रसादो धर्म्याः कथाश् च रमणीयतरत्वम् ईयुः // AJम्_१.२ //
SK
लोकार्थम् इत्य् अभिसमीक्ष्य करिष्यते ऽयं श्रुत्यार्षयुक्त्यविगुणेन पथा प्रयत्नः / लोकोत्तमस्य चरितातिशयप्रदेशैः स्वं प्रातिभं गमयितुं श्रुतिवल्लभत्वम् // AJम्_१.३ //
SK
स्वार्थोद्यतैर् अपि परार्थचरस्य यस्य नैवान्वगम्यत गुणप्रतिपत्तिशोभा / सर्वज्ञ इत्य् अवितथाक्षरदीप्तकीर्तिं मूर्ध्ना नमे तम् असमं सहधर्मसङ्घम् // AJम्_१.४ //
SK
१. Vयाघ्रीजातकम्
SK
सर्वसत्त्वेष्व् अकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्व् अपि स भगवान् इति बुद्धे भगवति परः प्रसादः कार्यः //
SK
तद्यथानुश्रूयते रत्नत्रयगुरुभिः प्रतिपत्तिगुणाभिराधितगुरुभिर् गुणप्रचयगुरुभिर् अस्मद्गुरुभिः परिकीर्त्यमानम् इदं भगवतः पूर्वजन्मावदानम् / बोधिसत्त्वः किल प्रतिज्ञातिशयसदृशैर् दानप्रियवचनार्थचर्याप्रभृतिभिः प्रज्ञापरिग्रहनिरवद्यैः कारुण्यनिस्यन्दैर् लोकम् अनुगृह्णन् स्वधर्माभिरत्युपनतशुचिवृत्तिन्य् उदितोदिते महति ब्राह्मणकुले जन्मपरिग्रहं चकार // स कृतसंस्कारक्रमो जातकर्मादिभिर् अभिवर्धमानः प्रकृतिमेधावित्वात् सानाथ्यविशेषाज् ज्ञानकौतूहलाद् अकौसीद्याच् च नचिरेणैवाष्टादशसु विद्यास्थानेषु स्वकुलक्रमाविरुद्धासु च सकलासु कलास्व् आचार्यकं परम् अवाप /
SK
स ब्रह्मवद् ब्रह्मविदां बभूव राजेव राज्ञां बहुमानपात्रम् / साक्षात् सहस्राक्ष इव प्रजानां ज्ञानार्थिनाम् अर्थचरः पितेव // AJम्_१.५ //
SK
तस्य भाग्यगुणातिशयसमावर्जितो महालाभसत्कारयशोविशेषः प्रादुरभूत्/ धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयस् तु बोधिसत्त्वो न तेनाभिरेमे /
SK
स पूर्वचर्यापरिशुद्धबुद्धिः कामेषु दृष्ट्वा बहुदोषजातम् / गार्हस्थ्यम् अस्वास्थ्यम् इवावधूय कं चिद् वनप्रस्थम् अलंचकार // AJम्_१.६ //
SK
स तत्र निःसङ्गतया तया च प्रज्ञावदातेन शमेन चैव / प्रत्यादिदेशेव कुकार्यसङ्गाद् विश्लिष्टशिष्टोपशमं नृलोकम् // AJम्_१.७ //
SK
मैत्रीमयेन प्रशमेन तस्य विस्यन्दिनेवानुपरीतचित्ताः / परस्परद्रोहनिवृत्तभावास् तपस्विवद् व्याडमृगा विचेरुः // AJम्_१.८ //
SK
आचारशुद्ध्या निभृतेन्द्रियत्वात् संतोषयोगात् करुणागुणाच् च / असंस्तुतस्यापि जनस्य लोके सो ऽभूत् प्रियस् तस्य यथैव लोकः // AJम्_१.९ //
SK
अल्पेच्छभावात् कुहनानभिज्ञस् त्यक्तस्पृहो लाभयशःसुखेभ्यः / स देवतानाम् अपि मानसानि प्रसादभक्तिप्रवणानि चक्रे // AJम्_१.१० //
SK
श्रुत्वाथ तं प्रव्रजितं मनुष्या गुणैस् तदीयैर् अवबद्धचित्ताः / विहाय बन्धूंश् च परिग्रहांश् च तच्छिष्यतां सिद्धिम् इवोपजग्मुः // AJम्_१.११ //
SK
शीले शुचाव् इन्द्रियभावनायां स्मृत्यप्रमोषे प्रविविक्ततायाम् / मैत्र्यादिके चैव मनःसमाधौ यथाबलं सो ऽनुशशास शिष्यान् // AJम्_१.१२ //
SK
अथ कदा चित् स महात्मा परिनिष्पन्नभूयिष्ठे पृथूभूते शिष्यगणे प्रतिष्ठापिते ऽस्मिन् कल्याणे वर्त्मन्य् अवतारिते नैष्क्रम्यसत्पथं लोके संवृतेष्व् इवापायद्वारेषु राजमार्गीकृतेष्व् इव सुगतिमार्गेषु दृष्टधर्मसुखविहारार्थं तत्कालशिष्येणाजितेनानुगम्यमानो योगानुकूलान् पर्वतदरीनिकुञ्जान् अनुविचचार //
SK
अथात्र व्याघ्रवनितां ददर्श गिरिगह्वरे / प्रसूतिक्लेशदोषेण गतां विस्पन्दमन्दताम् // AJम्_१.१३ //
SK
परिक्षामेक्षणयुगां क्षुधा च्छाततरोदरीम् / आहारम् इव पश्यन्तीं बालान् स्वतनयान् अपि // AJम्_१.१४ //
SK
स्तन्यतर्षाद् उपसृतान् मातृविश्रम्भनिर्व्यथान् / रोरूयितरवैः क्रूरैर् भर्त्सयन्तीं परान् इव // AJम्_१.१५ //
SK
बोधिसत्त्वस् तु तां दृष्ट्वा धीरो ऽपि करुणावशात् / चकम्पे परदुःखेन महीकम्पाद् इवाद्रिराट् // AJम्_१.१६ //
SK
महत्स्व् अपि स्वदुःखेषु व्यक्तधैर्याः कृपात्मकाः / मृदुनाप्य् अन्यदुःखेन कम्पन्ते यत् तद् अद्भुतम् // AJम्_१.१७ //
SK
अथ बोधिसत्त्वः ससंभ्रमाम्रेडितपदं स्वभावातिशयव्यञ्जकं करुणाबलसमाहिताक्षरं शिष्यम् उवाच / वत्स वत्स /
SK
पश्य संसारनैर्गुण्यं मृग्य् एषा स्वसुतान् अपि / लङ्घितस्नेहमर्यादा भोक्तुम् अन्विच्छति क्षुधा // AJम्_१.१८ //
SK
अहो बतातिकष्टेयम् आत्मस्नेहस्य रौद्रता / येन मातापि तनयान् आहारयितुम् इच्छति // AJम्_१.१९ //
SK
आत्मस्नेहमयं शत्रुं को वर्धयितुम् अर्हति / येन कुर्यात् पदन्यासम् ईदृशेष्व् अपि कर्मसु // AJम्_१.२० //
SK
तच् छीघ्रम् अन्विष्यतां तावत् कुतश् चिद् अस्याः क्षुद्दुःखप्रतीकारहेतुर् यावन् न तनयान् आत्मानं चोपहन्ति / अहम् अपि चैनां प्रयतिष्ये साहसाद् अस्माद् वारयितुम् / स तथेत्य् अस्मै प्रतिश्रुत्य तदाहारान्वेषणपरो बभूव // अथ बोधिसत्त्वस् तं शिष्यं सव्यपदेशम् अतिवाह्य चिन्ताम् आपेदे /
SK
संविद्यमाने सकले शरीरे कस्मात् परस्मान् मृगयामि मांसम् / यादृच्छिकी तस्य हि लाभसंपत् कार्यात्ययः स्याच् च तथा ममायम् // AJम्_१.२१ //
SK
अपि च /
SK
निरात्मके भेदिनि सारहीने दुःखे कृतघ्ने सतताशुचौ च / देहे परस्माय् उपयुज्यमाने न प्रीतिमान् यो न विचक्षणः सः // AJम्_१.२२ //
SK
स्वसौख्यसङ्गेन परस्य दुःखम् उपेक्ष्यते शक्तिपरिक्षयाद् वा / न चान्यदुःखे सति मे ऽस्ति सौख्यं सत्यां च शक्तौ किम् उपेक्षकः स्याम् // AJम्_१.२३ //
SK
सत्यां च शक्तौ मम यद्य् उपेक्षा स्याद् आततायिन्य् अपि दुःखमग्ने / कृत्वेव पापं मम तेन चित्तं दह्येत कक्षं महताग्निनेव // AJम्_१.२४ //
SK
तस्मात् करिष्यामि शरीरकेण तटप्रपातोद्गतजीवितेन / संरक्षणं पुत्रवधाच् च मृग्या मृग्याः सकाशाच् च तदात्मजानाम् // AJम्_१.२५ //
SK
किं च भूयः /
SK
संदर्शनं लोकहितोत्सुकानाम् उत्तेजनं मन्दपराक्रमाणाम् / संहर्षणं त्यागविशारदानाम् आकर्षणं सज्जनमानसानाम् // AJम्_१.२६ //
SK
विषादनं मारमहाचमूनां प्रसादनं बुद्धगुणप्रियाणाम् / व्रीडोदयं स्वार्थपरायणानां मात्सर्यलोभोपहतात्मनां च // AJम्_१.२७ //
SK
श्रद्धापनं यानवराश्रितानां विस्मापनं त्यागकृतस्मयानाम् / विशोधनं स्वर्गमहापथस्य त्यागप्रियाणाम् अनुमोदिनॄणाम् // AJम्_१.२८ //
SK
कदा नु गात्रैर् अपि नाम कुर्यां हितं परेषाम् इति यश् च मे ऽभूत् / मनोरथस् तं सफलीक्रियासं संबोधिम् अग्र्याम् अपि चाविदूरे // AJम्_१.२९ //
SK
न स्पर्धया नैव यशोऽभिलाषान् न स्वर्गलोभान् न च राज्यहेतोः / नात्यन्तिके ऽप्य् आत्मसुखे यथायं ममादरो ऽन्यत्र परार्थसिद्धेः // AJम्_१.३० //
SK
तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च / हर्तुं च कर्तुं च सदास्तु शक्तिस् तमः प्रकाशं च यथैव भानोः // AJम्_१.३१ //
SK
दृष्टः श्रुतो ऽनुस्मृतिम् आगतो वा स्पृष्टः कथायोगम् उपागतो वा / सर्वप्रकारं जगतो हितानि कुर्याम् अजस्रं सुखसंहितानि // AJम्_१.३२ //
SK
एवं स निश्चित्य परार्थसिद्ध्यै प्राणात्यये ऽप्य् आपतितप्रमोदः / मनांसि धीराण्य् अपि देवतानां विस्मापयन् स्वां तनुम् उत्ससर्ज // AJम्_१.३३ //
SK
अथ सा व्याघ्री तेन बोधिसत्त्वस्य शरीरनिपातशब्देन समुत्थापितकौतूहलामर्षा विरम्य स्वतनयवैशसोद्यमात् ततो नयने विचिक्षेप / दृष्ट्वैव च तद् बोधिसत्त्वशरीरम् उद्गतप्राणं सहसाभिसृत्य भक्षयितुम् उपचक्रमे / अथ स तस्य शिष्यो मांसम् अनासाद्यैव प्रतिनिवृत्तः कुत्रोपाध्याय इति विलोकयंस् तद् बोधिसत्त्वशरीरम् उद्गतप्राणं तया व्याघ्रयुवत्या भक्ष्यमाणं ददर्श / स तत्कर्मातिशयविस्मयात् प्रतिव्यूढशोकदुःखावेगस् तद्गुणाश्रयबहुमानम् इवोद्गिरन्न् इदम् आत्मगतं ब्रुवाणः शोभेत /
SK
अहो दयास्य व्यसनातुरे जने स्वसौख्यनैःसङ्ग्यम् अहो महात्मनः / अहो प्रकर्षं गमिता स्थितिः सताम् अहो परेषां मृदिता यशःश्रियः // AJम्_१.३४ //
SK
अहो पराक्रान्तम् अपेतसाध्वसं गुणाश्रयं प्रेम परं विदर्शितम् / अहो नमस्कारविशेषपात्रतां प्रसह्य नीता स्वगुणातनुस् तनुः // AJम्_१.३५ //
SK
निसर्गसौम्यस्य वसुंधराधृतेर् अहो परेषां व्यसनेष्व् अमर्षिता / अहो मदीया गमिता प्रकाशतां खटुङ्कता विक्रमसंपदानया // AJम्_१.३६ //
SK
अनेन नाथेन सनाथतां गतं न शोचितव्यं खलु सांप्रतं जगत् / पराजयाशङ्कितजातसंभ्रमो ध्रुवं विनिश्वासपरो ऽद्य मन्मथः // AJम्_१.३७ //
SK
सर्वथा नमो ऽस्त्व् अस्मै महाभागाय सर्वभूतशरण्यायातिविपुलकारुण्यायाप्रमेयसत्त्वाय भूतार्थबोधिसत्त्वायेति // अथ स तम् अर्थं सब्रह्मचारिभ्यो निवेदयाम् आस /
SK
तत्कर्मविस्मितमुखैर् अथ तस्य शिष्यैर् गन्धर्वयक्षभुजगैस् त्रिदशाधिपैश् च / माल्याम्बराभरणचन्दनचूर्णवर्षैश् छन्ना तदस्थिवसुधा वसुधा बभूव // AJम्_१.३८ //
SK
तद् एवं सर्वसत्त्वेष्व् अकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्व् अपि स भगवान् इति बुद्धे भगवति परः प्रसादः कार्यः /
SK
जातप्रसादैश् च बुद्धे भगवति प्रीतिर् उत्पादयितव्या / एवम् आयतनगतो नः प्रसाद इत्य् एवम् अप्य् उपनेयम् / तथा सत्कृत्य धर्मः श्रोतव्यः / एवं दुष्करशतसमुदानीतत्वात् करुणावर्णे ऽपि वाच्यम् एवं स्वभावातिशयनिष्पादिका परानुग्रहप्रवृत्तिहेतुः करुणेति //
SK
बोधिसत्त्वावदानमालायां व्याघ्रीजातकं प्रथमम् //
SK
२. Śइबिजातकम्
SK
दुष्करशतसमुदानीतो ऽयम् अस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः //
SK
तद्यथानुश्रूयते / बोधिसत्त्वभूतः किलायं भगवान् अपरिमितकालाभ्यासात् सात्मीभूतोपचितपुण्यकर्मा कदा चिच् छिबीनां राजा बभूव / स बाल्यात् प्रभृत्य् एव वृद्धोपासनरतिर् विनयानुरक्तो ऽनुरक्तप्रकृतिः प्रकृतिमेधावित्वाद् अनेकविद्याधिगमविमलतरमतिर् उत्साहमन्त्रप्रभावशक्तिदैवसंपन्नः स्वा इव प्रजाः प्रजाः पालयति स्म /
SK
तस्मिंस् त्रिवर्गानुगुणा गुणौघाः संहर्षयोगाद् इव संनिविष्टाः / समस्तरूपा विबभुर् न चासुर् विरोधसंक्षोभविपन्नशोभाः // AJम्_२.१ //
SK
विडम्बनेवाविनयोद्धतानां दुर्मेधसाम् आपद् इवातिकष्टा / अल्पात्मनां या मदिरेव लक्ष्मीर् बभूव सा तत्र यथार्थनामा // AJम्_२.२ //
SK
उदारभावात् करुणागुणाच् च वित्ताधिपत्याच् च स राजवर्यः / रेमे ऽर्थिनाम् ईप्सितसिद्धिहर्षाद् अक्लिष्टशोभानि मुखानि पश्यन् // AJम्_२.३ //
SK
अथ स राजा दानप्रियत्वात् समन्ततो नगरस्य सर्वोपकरणधनधान्यसमृद्धा दानशालाः कारयित्वा स्वमाहात्म्यानुरूपं यथाभिप्रायसंपादितं सोपचारमनोहरम् अनतिक्रान्तकालसुभगं दानवर्षं कृतयुगमेघ इव ववर्ष / अन्नम् अन्नार्थिभ्यः पानं पानार्थिभ्यः शयनासनवसनभोजनगन्धमाल्यसुवर्णरजतादि तत्तदर्थिभ्यः // अथ तस्य राज्ञः प्रदानौदार्यश्रवणाद् विस्मितप्रमुदितहृदया नानादिगभिलक्षितदेशनिवासिनः पुरुषास् तं देशम् अभिजग्मुः /
SK
परीत्य कृत्स्नं मनसा नृलोकम् अन्येष्व् अलब्धप्रणयावकाशाः / तम् अर्थिनः प्रीतिमुखाः समीयुर् महाह्रदं वन्यगजा यथैव // AJम्_२.४ //
SK
अथ स राजा समन्ततः समापततो लाभाशाप्रमुदितमनसः पथिकनेपथ्यप्रच्छादितशोभस्य वनीपकजनस्य
SK
विप्रोषितस्येव सुहृज्जनस्य संदर्शनात् प्रीतिविजृम्भिताक्षः / याच्ञां प्रियाख्यानम् इवाभ्यनन्दद् दत्त्वा च तुष्ट्यार्थिजनं जिगाय // AJम्_२.५ //
SK
दानोद्भवः कीर्तिमयः स गन्धस् तस्यार्थिनां वागनिलप्रकीर्णः / मदं जहारान्यनराधिपानां गन्धद्विपस्येव परद्विपानाम् // AJम्_२.६ //
SK
अथ कदा चित् स राजा दानशालाः समनुविचरंस् तृप्तत्वाद् अर्थिजनस्य प्रविरलं याचनकजनसंपातम् अभिसमीक्ष्य दानधर्मस्यानुत्सर्पणान् न तुष्टिम् उपजगाम /
SK
तर्षं विनिन्ये ऽर्थिजनस् तम् एत्य न त्व् अर्थिनः प्राप्य स दानशौण्डः / न ह्य् अस्य दानव्यवसायम् अर्थी याच्ञाप्रमाणेन शशाक जेतुम् // AJम्_२.७ //
SK
तस्य बुद्धिर् अभवत् / अतिसभाग्यास् ते सत्पुरुषविशेषा ये विश्रम्भनिर्यन्त्रणप्रणयम् अर्थिभिः स्वगात्राण्य् अपि याच्यन्ते / मम पुनः प्रत्याख्यानरूक्षाक्षरवचनसंतर्जित इवार्थिजनो धनमात्रके ऽप्य् अप्रगल्भप्रणयः संवृत्त इति //
SK
अथ क्षितीशस्य तम् अत्युदारं गात्रेष्व् अपि स्वेषु निवृत्तसङ्गम् / विज्ञाय दानाश्रयिणं वितर्कं पतिप्रिया स्त्रीव मही चकम्पे // AJम्_२.८ //
SK
अथ शक्रो देवानाम् इन्द्रः क्षितितलचलनाद् आकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किम् इदम् इति समुत्पतितवितर्कस् तस्य राज्ञ इमं वितर्कातिशयं धरणिचलननिमित्तम् अवेत्य विस्मयावर्जितहृदयश् चिन्ताम् आपेदे /
SK
दानातिहर्षोद्धतमानसेन वितर्कितं किं स्विद् इदं नृपेण / आबध्य दानव्यवसायकक्ष्यां स्वगात्रदानस्थिरनिश्चयेन // AJम्_२.९ //
SK
तन् मीमांसिष्ये तावद् एनम् इति // अथ तस्य राज्ञः परिषदि निषन्नस्यामात्यगणपरिवृतस्य समुचितायां कृतायाम् अर्थिजनस्य कः किम् इच्छतीत्य् आह्वानघोषणायां समुद्घाट्यमानेषु कोशाध्यक्षाधिष्ठितेषु मणिकनकरजतधननिचयेषु विश्लिष्यमाणपुटासु विविधवसनपरिपूर्णगर्भासु वस्त्रपेडासु समुपवर्त्यमानेषु विनीतविविधवाहनस्कन्धप्रतिष्ठितयुगेषु विचित्रेषु यानविशेषेषु प्रवृत्ते ऽर्थिजनसंपाते शक्रो देवानाम् इन्द्रो वृद्धम् अन्धं ब्राह्मणरूपम् अभिनिर्माय राज्ञश् चक्षुःपथे प्रादुरभवत् / अथ स राज्ञा कारुण्यमैत्रीपरिभावितया धीरप्रसन्नसौम्यया प्रत्युद्गत इव परिष्वक्त इव च दृष्ट्या केनार्थ इत्य् उपनिमन्त्र्यमाणः क्षितिपानुचरैर् नृपतिसमीपम् उपेत्य जयाशीर्वचनपुरःसरं राजानम् इत्य् उवाच /
SK
दूराद् अपश्यन् स्थविरो ऽभ्युपेतस् त्वच्चक्षुषो ऽर्थी क्षितिपप्रधान / एकेक्षणेनापि हि पङ्कजाक्ष गम्येत लोकाधिप लोकयात्रा // AJम्_२.१० //
SK
अथ बोधिसत्त्वः समभिलषितमनोरथप्रसिद्ध्या परं प्रीत्युत्सवम् अनुभवन् किं स्विद् इदं सत्यम् एवोक्तं ब्राह्मणेन स्याद् उत विकल्पाभ्यासान् मयैवम् उपधारितम् इति जातप्रत्यवमर्शश् चक्षुर्याच्ञाप्रियवचनश्रवणतृषितमतिस् तं चक्षुर्याचनकम् उवाच /
SK
केनानुशिष्टस् त्वम् इहाभ्युपेतो मां याचितुं ब्राह्मणमुख्य चक्षुः / सुदुस्त्यजं चक्षुर् इति प्रवादसंभावना कस्य मयि व्यतीता // AJम्_२.११ //
SK
अथ स ब्राह्मणवेषधारी शक्रस् तस्य राज्ञ आशयं विदित्वोवाच /
SK
शक्रस्य शक्रप्रतिमानुशिष्ट्या त्वां याचितुं चक्षुर् इहागतो ऽस्मि / संभावनां तस्य ममापि चाशां चक्षुःप्रदानात् सफलीकुरुष्व // AJम्_२.१२ //
SK
अथ स राजा शक्रसंकीर्तनान् नूनम् अस्य ब्राह्मणस्य भवित्री देवतानुभावाद् अनेन विधिना चक्षुःसंपद् इति मत्वा प्रमोदविशदाक्षरम् एनम् उवाच /
SK
येनाभ्युपेतो ऽसि मनोरथेन तम् एष ते ब्राह्मण पूरयामि / आकाङ्क्षमाणाय मद् एकम् अक्षि ददामि चक्षुर्द्वयम् अप्य् अहं ते // AJम्_२.१३ //
SK
स त्वं विबुद्धनयनोत्पलशोभितास्यः संपश्यतो व्रज यथाभिमतं जनस्य / स्यात् किं नु सो ऽयम् उत नेति विचारदोलालोलस्य सो ऽयम् इति चोत्थितविस्मयस्य // AJम्_२.१४ //
SK
अथ तस्य राज्ञो ऽमात्याश् चक्षुःप्रदानव्यवसायम् अवेत्य ससंभ्रमावेगविषादव्यथितमनसो राजानम् ऊचुः /
SK
दानातिहर्षाद् अनयम् असमीक्ष्याहितोदयम् / प्रसीद देव मा मैवं न चक्षुर् दातुम् अर्हसि // AJम्_२.१५ //
SK
एकस्यार्थे द्विजस्यास्य मा नः सर्वान् पराकृथाः / अलं शोकाग्निना दग्धुं सुखसंवर्धिताः प्रजाः // AJम्_२.१६ //
SK
धनानि लक्ष्मीप्रतिबोधनानि श्रीमन्ति रत्नानि पयस्विनीर् गाः / रथान् विनीताश्वयुजः प्रयच्छ मदोर्जितश्रीललितान् द्विपांश् च // AJम्_२.१७ //
SK
समुच्चरन्नूपुरनिस्वनानि शरत्पयोदाभ्यधिकद्युतीनि / गृहाणि सर्वर्तुसुखानि देहि मा दाः स्वचक्षुर् जगदेकचक्षुः // AJम्_२.१८ //
SK
विमृश्यताम् अपि च तावन् महाराज /
SK
अन्यदीयं कथं नाम चक्षुर् अन्यत्र योज्यते / अथ दैवप्रभावो ऽयं त्वच्चक्षुः किम् अपेक्षते // AJम्_२.१९ //
SK
अपि च देव /
SK
चक्षुषा किं दरिद्रस्य पराभ्युदयसाक्षिणा / धनम् एव यतो देहि देव मा साहसं कृथाः // AJम्_२.२० //
SK
अथ स राजा तान् अमात्यान् सानुनयमधुराक्षरम् इत्य् उवाच /
SK
अदाने कुरुते बुद्धिं दास्यामीत्य् अभिधाय यः / स लोभपाशं प्रभ्रष्टम् आत्मनि प्रतिमुञ्चति // AJम्_२.२१ //
SK
दास्यामीति प्रतिज्ञाय यो ऽन्यथा कुरुते मनः / कार्पण्यानिश्चितमतेः कः स्यात् पापतरस् ततः // AJम्_२.२२ //
SK
स्थिरीकृत्यार्थिनाम् आशां दास्यामीति प्रतिज्ञया / विसंवादनरूक्षस्य वचसो नास्ति निष्क्रयः // AJम्_२.२३ //
SK
यद् अपि चोक्तं देवतानुभावाद् एव चक्षुर् अस्य किं न संभवतीत्य् अत्रापि श्रूयताम् /
SK
नैककारणसाध्यत्वं कार्याणां ननु दृश्यते / कारणान्तरसापेक्षः स्याद् दैवो ऽपि विधिर् यतः // AJम्_२.२४ //
SK
तन् मे दानातिशयविघ्नाय व्यायन्तुं नार्हन्ति भवन्त इति // अमात्या ऊचुः / धनधान्यरत्नादि देवो दातुम् अर्हति न स्वचक्षुर् इति विज्ञापितम् अस्माभिः / तन् न देवं वयम् अतीर्थे प्रतारयामः // राजोवाच /
SK
यद् एव याच्येत तद् एव दद्यान् नानीप्सितं प्रीणयतीह दत्तम् / किम् उह्यमानस्य जलेन तोयैर् दास्याम्य् अतः प्रार्थितम् अर्थम् अस्मै // AJम्_२.२५ //
SK
अथ तस्य राज्ञो रूढतरविश्रम्भप्रणयः स्नेहावेगाद् अनपेक्षितोपचारो ऽमात्यमुख्यस् तं राजानम् इत्य् उवाच / मा तावद् भोः /
SK
या नाल्पेन तपःसमाधिविधिना संप्राप्यते केन चिद् याम् आसाद्य च भूरिभिर् मखशतैः कीर्तिं दिवं चाप्नुयात् / संप्राप्ताम् अतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीं किं दृष्ट्वा नयने प्रदित्सति भवान् को ऽयं कुतस्त्यो विधिः // AJम्_२.२६ //
SK
लब्धावकाशस् त्रिदशेषु यज्ञैः कीर्त्या समन्ताद् अवभासमानः / नरेन्द्रचूडाद्युतिरञ्जिताङ्घ्रिः किं लिप्समानो नु ददासि चक्षुः // AJम्_२.२७ //
SK
अथ स राजा तम् अमात्यं सानुनयम् इत्य् उवाच /
SK
नायं यत्नः सार्वभौमत्वम् आप्तुं नैव स्वर्गं नापवर्गं न कीर्तिम् / त्रातुं लोकान् इत्य् अयं त्व् आदरो मे याच्ञाक्लेशो मा च भूद् अस्य मोघः // AJम्_२.२८ //
SK
अथ स राजा नीलोत्पलदलरुचिरकान्ति नयनम् एकं वैद्यपरिदृष्टेन विधिना शनकैर् अक्षतम् उत्पाट्य परया प्रीत्या चक्षुर्याचनकाय प्रायच्छत् / अथ शक्रो देवेन्द्रस् तादृशम् ऋद्ध्यभिसंस्कारं चक्रे यथा ददर्श स राजा सपरिजनस् तत् तस्य चक्षुश् चक्षुःस्थाने प्रतिष्ठितम् / अथोन्मिषितैकचक्षुषं चक्षुर्याचनकम् अभिसमीक्ष्य स राजा परमेण हर्षेणापूर्यमाणहृदयो द्वितीयम् अप्य् अस्मै नयनं प्रायच्छत् //
SK
ततः स राजा नयने प्रदाय विपद्मपद्माकरतुल्यवक्त्रः / पौरैर् असाधारणतुष्टिर् आसीत् समग्रचक्षुर् ददृशे द्विजश् च // AJम्_२.२९ //
SK
अन्तःपुरे ऽथ मनुजाधिपतेः पुरे च शोकाश्रुभिर् वसुमती सिषिचे समन्तात् / शक्रस् तु विस्मयम् अवाप परां च तुष्टिं संबोधये नृपम् अकम्प्यमतिं समीक्ष्य // AJम्_२.३० //
SK
अथ शक्रस्य विस्मयावर्जितहृदयस्यैतद् इत्य् अभवत् /
SK
अहो धृतिर् अहो सत्त्वम् अहो सत्त्वहितैषिता / प्रत्यक्षम् अपि कर्मेदं करोतीव विचारणाम् // AJम्_२.३१ //
SK
तन् नायम् आश्चर्यसत्त्वश् चिरम् इमं परिक्लेशम् अनुभवितुम् अर्हति यतः प्रयतिष्ये चक्षुर् अस्योपायप्रदर्शनाद् उपपादयितुम् // अथ तस्य राज्ञः क्रमात् संरूढनयनव्रणस्यावगीतप्रतनूभूतान्तःपुरपौरजानपदशोकस्य प्रविवेककामत्वाद् उद्यानपुष्करिण्यास् तीरे कुसुमभारानततरुवरनिचिते मृदुसुरभिशिशिरसुखपवने मधुकरगणोपकूजिते पर्यङ्केण निषण्णस्य शक्रो देवेन्द्रः पुरस्तात् प्रादुरभवत् / क एष इति च राज्ञा पर्यनुयुक्तो ऽब्रवीत् /
SK
शक्रो ऽहम् अस्मि देवेन्द्रस् त्वत्समीपम् उपागतः /
SK
स्वागतम् / आज्ञाप्यतां केनार्थ इति / स उपचारपुरःसरम् उक्तो राजानं पुनर् उवाच /
SK
वरं वृणीष्व राजर्षे यद् इच्छसि तद् उच्यताम् // AJम्_२.३२ //
SK
अथ स राजा प्रदानसमुचितत्वाद् अनभ्यस्तयाच्ञाकार्पण्यमार्गो धृत्याविस्मयशौटीर्यम् उवाच /
SK
प्रभूतं मे धनं शक्र शक्तिमच् च महद् बलम् / अन्धभावात् त्व् इदानीं मे मृत्युर् एवाभिरोचते // AJम्_२.३३ //
SK
कृत्वापि पर्याप्तमनोरथानां प्रीतिप्रसादाधिकलोचनानि / मुखानि पश्यामि न याचकानां यत् तेन मृत्युर् दयितो ममेन्द्र // AJम्_२.३४ //
SK
शक्र उवाच / अलम् अनेन ते व्यवसायेन / सत्पुरुषा एवेदृशान्य् अनुप्राप्नुवन्ति/ अपि च पृच्छामि तावद् भवन्तम् /
SK
इमाम् अवस्थां गमितस्य याचकैः कथं नु ते संप्रति तेषु मानसम् / प्रचक्ष्व तत् तावद् अलं निगूहितुं व्रजेच् च संप्रत्ययनीयतां यथा // AJम्_२.३५ //
SK
राजोवाच / को ऽयम् अस्मान् विकत्थयितुम् अत्रभवतो निर्बन्धः / अपि च देवेन्द्र श्रूयताम् /
SK
तदैव चैतर्हि च याचकानां वचांसि याच्ञानियताक्षराणि / आशीर्मयाणीव मम प्रियाणि यथा तथोदेतु ममैकम् अक्षि // AJम्_२.३६ //
SK
अथ तस्य राज्ञः सत्याधिष्ठानबलात् पुण्योपचयविशेषाच् च वचनसमनन्तरम् एवेन्द्रनीलशकलाक्रान्तमध्यम् इव नीलोत्पलदलसदृशम् एकं चक्षुः प्रादुरभूत् / प्रादुर्भूते च तस्मिन् नयनाश्चर्ये प्रमुदितमनाः स राजा पुनर् अपि शक्रम् उवाच /
SK
यश् चापि मां चक्षुर् अयाचतैकं तस्मै मुदा द्वे नयने प्रदाय / प्रीत्युत्सवैकाग्रमतिर् यथासं द्वितीयम् अप्य् अक्षि तथा ममास्तु // AJम्_२.३७ //
SK
अथाभिव्याहारसमनन्तरम् एव तस्य राज्ञो विस्पर्धमानम् इव तेन नयनेन द्वितीयं चक्षुः प्रादुरभूत् /
SK
ततश् चकम्पे सधराधरा धरा व्यतीत्य वेलां प्रससार सागरः / प्रसक्तगम्भीरमनोज्ञनिस्वनाः प्रसस्वनुर् दुन्दुभयो दिवौकसाम् // AJम्_२.३८ //
SK
प्रसादरम्यं ददृशे वपुर् दिशां रराज शुद्ध्या शरदीव भास्करः / परिभ्रमच् चन्दनचूर्णरञ्जितं पपात चित्रं कुसुमं नभस्तलात् // AJम्_२.३९ //
SK
समाययुर् विस्मयफुल्ललोचना दिवौकसस् तत्र सहाप्सरोगणाः / ववौ मनोज्ञात्मगुणः समीरणो मनःसु हर्षो जगतां व्यजृम्भत // AJम्_२.४० //
SK
उदीरिता हर्षपरीतमानसैर् महर्द्धिभिर् भूतगणैः सविस्मयैः / नृपस्य कर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः // AJम्_२.४१ //
SK
अहो बतौदार्यम् अहो कृपालुता विशुद्धता पश्य यथास्य चेतसः / अहो स्वसौख्येषु निरुत्सुका मतिर् नमो ऽस्तु ते ऽत्यद्भुतधैर्यविक्रम // AJम्_२.४२ //
SK
सनाथतां साधु जगद् गतं त्वया पुनर् विबुद्धेक्षणपङ्कजश्रिया / अमोघरूपा बत पुण्यसंचयाश् चिरस्य धर्मेण खलूर्जितं जितम् // AJम्_२.४३ //
SK
अथ शक्रः साधु साध्व् इत्य् एनम् अभिसंराध्य पुनर् उवाच /
SK
न नो न विदितो राजंस् तव शुद्धाशयाशयः / एवं तु प्रतिदत्ते ते मयेमे नयने नृप // AJम्_२.४४ //
SK
समन्ताद् योजनशतं शैलैर् अपि तिरस्कृतम् / द्रष्टुम् अव्याहता शक्तिर् भविष्यत्य् अनयोश् च ते // AJम्_२.४५ //
SK
इत्य् उक्त्वा शक्रस् तत्रैवान्तर्दधे // अथ बोधिसत्त्वो विस्मयप्रहर्षापूर्णमनोभिर् मन्दमन्दनिमेषप्रविकसितनयनैर् अमात्यैर् अनुयातैः पौरैश् चाभिवीक्ष्यमाणो जयाशीर्वचनपुरःसरैश् च ब्राह्मणैर् अभिनन्द्यमानः पुरवरम् उच्छ्रितध्वजविचित्रपताकं प्रवितन्यमानाभ्युदयशोभम् अभिगम्य पर्षदि निषण्णः सभाजनार्थम् अभिगतस्यामात्यप्रमुख्यस्य ब्राह्मणवृद्धपौरजनस्यैवम् आत्मोपनायिकं धर्मं देशयाम् आस /
SK
को नाम लोके शिथिलादरः स्यात् कर्तुं धनैर् अर्थिजनप्रियाणि / दिव्यप्रभावे नयने ममेमे प्रदानपुण्योपनते समीक्ष्य // AJम्_२.४६ //
SK
अनेकशैलान्तरितं योजनानां शताद् अपि / अदूरस्थितविस्पष्टं दृश्यं पश्यामि सर्वतः // AJम्_२.४७ //
SK
परानुकम्पाविनयाभिजाताद् दानात् परः को ऽभ्युदयाभ्युपायः / यन् मानुषं चक्षुर् इहैव दत्त्वा प्राप्तं मयामानुषदिव्यचक्षुः // AJम्_२.४८ //
SK
एतद् विदित्वा शिबयः प्रदानैर् भोगेन चार्थान् सफलीकुरुध्वम् / लोके परस्मिन्न् इह चैष पन्थाः कीर्तिप्रधानस्य सुखोदयस्य // AJम्_२.४९ //
SK
धनस्य निःसारलघोः स सारो यद् दीयते लोकहितोन्मुखेन / निधानतां याति हि दीयमानम् अदीयमानं निधनैकनिष्ठम् // AJम्_२.५० //
SK
तद् एवं दुष्करशतसमुदानीतो ऽयम् अस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः /
SK
तथागतमाहात्म्ये पूर्ववच् च करुणावर्णे ऽपि वाच्यम् इहैव पुण्यफलप्रदर्शने चैवं सत्कृत्योपचितानि पुण्यानीहैव पुष्पमात्रम् आत्मप्रभावस्य कीर्तिसंततिमनोहरं प्रदर्शयन्तीति //
SK
शिबिजातकं द्वितीयम् //
SK
३. Kउल्माषपिण्डीजातकम्
SK
चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानम् अस्ति विपाकमहत्त्वात् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वभूतः किलायं भगवान् कोशलाधिपतिर् बभूव / तस्योत्साहमन्त्रप्रभावशक्तिसंपत्प्रभृतीनां प्रकर्षिणाम् अपि राजगुणानां विभूतिम् अतिशिश्ये दैवसंपद्गुणशोभा /
SK
गुणास् तस्याधिकं रेजुर् दैवसंपद्विभूषणाः / किरणा इव चन्द्रस्य शरदुन्मीलितश्रियः // AJम्_३.१ //
SK
तत्याज दृप्तान् अपि तस्य शत्रून् रक्तेव रेमे तदपाश्रितेषु / इत्य् आस तस्यान्यनराधिपेषु कोपप्रसादानुविधायिनी श्रीः // AJम्_३.२ //
SK
धर्मात्मकत्वान् न च नाम तस्य परोपतापाशिवम् आस चेतः / भृत्यानुरागस् तु तथा जजृम्भे द्विषत्सु लक्ष्मीर् न यथास्य रेमे // AJम्_३.३ //
SK
सो ऽनन्तरातीतां स्वां जातिम् अनुसस्मार / तदनुस्मरणाच् च समुपजातसंवेगो विशेषवत्तरं श्रमणब्राह्मणकृपणवनीपकेभ्यः सुखहेतुनिदानं दानम् अदात् / शीलसंवरं चानवरं पोषधनियमं च पर्वदिवसेषु समाददे / अभीक्ष्णं च राजपर्षदि स्वस्मिंश् चान्तःपुरे पुण्यप्रभावोद्भावनाल् लोकं श्रेयसि नियोक्तुकामः प्रतीतहृदयो गाथाद्वयम् इति नियतार्थं बभाषे /
SK
न सुगतपरिचर्या विद्यते स्वल्पिकापि प्रतनुफलविभूतिर् यच् छ्रुतं केवलं प्राक् / तद् इदम् अलवणायाः शुष्करूक्षारुणायाः फलविभवमहत्त्वं पश्य कुल्माषपिण्ड्याः // AJम्_३.४ //
SK
रथतुरगविचित्रं मत्तनागेन्द्रलीलं बलम् अकृशम् इदं मे मेदिनी केवला च / बहु धनम् अनुरक्ता श्रीर् उदाराश् च दाराः फलसमुदयशोभां पश्य कुल्माषपिण्ड्याः // AJम्_३.५ //
SK
तम् अमात्या ब्राह्मणवृद्धाः पौरमुख्याश् च कौतूहलापूर्णमनसो ऽपि न प्रसहन्ते स्म पर्यनुयोक्तुं किम् अभिसमीक्ष्य महाराजो गाथाद्वयम् इदम् अभीक्ष्णं भाषत इति // अथ तस्य राज्ञो वाल्लभ्याद् अव्याहततरविश्रम्भप्रणयप्रसादा देवी समुत्पन्नकौतूहला संकथाप्रस्तावागतं पर्षदि पर्यपृच्छद् एनम् /
SK
नियतम् इति नरेन्द्र भाषसे हृदयगतां मुदम् उद्गिरन्न् इव / भवति मम कुतूहलाकुलं हृदयम् इदं कथितेन तेन ते // AJम्_३.६ //
SK
तद् अर्हति श्रोतुम् अयं जनो यदि प्रचक्ष्व तत् किं न्व् इति भाषसे नृप / रहस्यम् एवं च न कीर्त्यते क्व चित् प्रकाशम् अस्माच् च मयापि पृच्छ्यते // AJम्_३.७ //
SK
अथ स राजा प्रीत्यतिस्निग्धया दृष्ट्या समवेक्ष्य देवीं स्मितप्रविकसितवदन उवाच //
SK
अविभाव्यनिमित्तार्थं श्रुत्वोद्गारम् इमं मम / न केवलं तवैवात्र कौतूहलचलं मनः // AJम्_३.८ //
SK
समग्रम् अप्य् एतद् अमात्यमण्डलं कुतूहलाघूर्णितलोलमानसम् / पुरं च सान्तःपुरम् अत्र तेन मे निशम्यतां येन मयैवम् उच्यते // AJम्_३.९ //
SK
स्वप्नप्रबुद्ध इव जातिम् अनुस्मरामि यस्याम् इहैव नगरे भृतको ऽहम् आसम् / शीलान्वितो ऽपि धनमात्रसमुच्छ्रितेभ्यः कर्माभिराधनसमार्जितदीनवृत्तिः // AJम्_३.१० //
SK
सो ऽहं भृतिं परिभवश्रमदैन्यशालां त्राणाशया स्वयम् अवृत्तिभयाद् विविक्षुः / भिक्षार्थिनश् च चतुरः श्रमणान् अपश्यं वश्येन्द्रियान् अनुगतान् इव भिक्षुलक्ष्म्या // AJम्_३.११ //
SK
तेभ्यः प्रसादमृदुना मनसा प्रणम्य कुल्माषमात्रकम् अदां प्रयतः स्वगेहे / तस्याङ्कुरोदय इवैष यद् अन्यराजचूडाप्रभाश् चरणरेणुषु मे निषिक्ताः // AJम्_३.१२ //
SK
तद् एतद् अभिसंधाय मयैवं देवि कथ्यते / पुण्यैर् न च लभे तृप्तिम् अर्हतां दर्शनेन च // AJम्_३.१३ //
SK
अथ देवी प्रहर्षविस्मयविशालतराक्षी सबहुमानम् उदीक्षमाणा राजानम् उवाच / उपपन्नरूपः पुण्यानाम् अयम् एवंविधो विपाकाभ्युदयविशेषः / पुण्यफलप्रत्यक्षिणश् च महाराजस्य यद् अयं पुण्येष्व् आदरः / तद् एवम् एव पापप्रवृत्तिविमुखः पितेव प्रजानां सम्यक्परिपालनसुमुखः पुण्यगुणार्जनाभिमुखः /
SK
यशःश्रिया दानसमृद्धया ज्वलन् प्रतिष्ठिताज्ञः प्रतिराजमूर्धसु / समीरणाकुञ्चितसागराम्बरां चिरं महीं धर्मनयेन पालय // AJम्_३.१४ //
SK
राजोवाच / किं ह्य् एतद् देवि न स्यात् /
SK
सो ऽहं तम् एव पुनर् आश्रयितुं यतिष्ये श्रेयःपथं समभिलक्षितरम्यचिह्नम् / लोकः प्रदित्सति हि दानफलं निशम्य दास्याम्य् अहं किम् इति नात्मगतं निशाम्य // AJम्_३.१५ //
SK
अथ स राजा देवीं देवीम् इव श्रिया ज्वलन्तीम् अतिस्निग्धम् अवेक्ष्य श्रीसंपत्तिहेतुकुतूहलहृदयः पुनर् उवाच /
SK
चन्द्रलेखेव ताराणां स्त्रीणां मध्ये विराजसे / अकृथाः किं नु कल्याणि कर्मातिमधुरोदयम् // AJम्_३.१६ //
SK
देव्य् उवाच / अस्ति देव किं चिद् अहम् अपि पूर्वजन्मवृत्तम् अनुस्मरामीति/ कथय कथयेदानीम् इति च सादरं राज्ञा पर्यनुयुक्तोवाच /
SK
बाल्ये ऽनुभूतम् इव तत् समनुस्मरामि दासी सती यद् अहम् उद्धृतभक्तम् एकम् / क्षीणास्रवाय मुनये विनयेन दत्त्वा सुप्तेव तत्र समवापम् इह प्रबोधम् // AJम्_३.१७ //
SK
एतत् स्मरामि कुशलं नरदेव येन त्वन्नाथताम् उपगतास्मि समं पृथिव्या / क्षीणास्रवेषु न कृतं तनु नाम किं चिद् इत्य् उक्तवान् असि यथैव मुनिस् तथैव // AJम्_३.१८ //
SK
अथ स राजा पुण्यफलप्रदर्शनात् पुण्येषु समुत्पादितबहुमानाम् अभिप्रसन्नमनसं परिषदं विस्मयैकाग्राम् अवेत्य नियतम् ईदृशं किं चित् समनुशशास /
SK
अल्पस्यापि शुभस्य विस्तरम् इमं दृष्ट्वा विपाकश्रियः स्यात् को नाम न दानशीलविधिना पुण्यक्रियातत्परः / नैवं द्रष्टुम् अपि क्षमः स पुरुषः पर्याप्तवित्तो ऽपि सन् यः कार्पण्यतमिस्रयावृतमतिर् नाप्नोति दानैर् यशः // AJम्_३.१९ //
SK
त्यक्तव्यं विवशेन यन् न च तथा कस्मै चिद् अर्थाय यत् तन् न्यायेन धनं त्यजन् यदि गुणं कं चित् समुद्भावयेत् / को ऽसौ तत्र भजेत मत्सरपथं जानन् गुणानां रसं प्रीत्याद्या विविधाश् च कीर्त्यनुसृता दानप्रतिष्ठा गुणाः // AJम्_३.२० //
SK
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् // AJम्_३.२१ //
SK
विभवसमुदयं वा दीप्तम् आज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा / यद् अभिलषति सर्वं तत् समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् // AJम्_३.२२ //
SK
सारादानं दानम् आहुर् धनानाम् ऐश्वर्याणां दानम् आहुर् निदानम् / दानं श्रीमत् सज्जनत्वावदानं नाल्पप्रज्ञैः पांसुदानं सुदानम् // AJम्_३.२३ //
SK
अथ सा पर्षत् तस्य राज्ञस् तद्ग्राहकं वचनं सबहुमानम् अभिनन्द्य प्रदानादिगुणप्रतिपत्त्यभिमुखी बभूव //
SK
तद् एवं चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानम् अस्ति विपाकमहत्त्वाद् इति प्रसन्नचित्तेनानुत्तरे पुण्यक्षेत्र आर्यसंघे दानं ददता परा प्रीतिर् उत्पाद्या / अदूरे ममाप्य् एवंविधा अतो विशिष्टतरश् च संपत्तय इति //
SK
कुल्माषपिण्डीजातकं तृतीयम् //
SK
४. Śरेष्ठिजातकम्
SK
अत्ययम् अप्य् अविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्यात् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वभूतः किलायं भगवान् भाग्यातिशयगुणाद् उत्थानसंपदा चाधिगतविपुलधनसमृद्धिर् अविषमव्यवहारशीलत्वाल् लोकबहुमाननिकेतभूत उदाराभिजनवान् अनेकविद्याकलाविकल्पाधिगमविमलतरमतिर् गुणमाहात्म्याद् राज्ञा समुपहृतसंमानः प्रदानशीलत्वाल् लोकसाधारणविभवः श्रेष्ठी बभूव /
SK
अर्थिभिः प्रीतहृदयैः कीर्त्यमानम् इतस् ततः / त्यागशौर्योन्नतं नाम तस्य व्याप दिशो दश // AJम्_४.१ //
SK
दद्यान् न दद्याद् इति तत्र नासीद् विचारदोलाचलमानसो ऽर्थी / ख्यातावदाने हि बभूव तस्मिन् विश्रम्भधृष्टप्रणयो ऽर्थिवर्गः // AJम्_४.२ //
SK
नासौ जुगोपात्मसुखार्थम् अर्थं न स्पर्धया लोभपराभवाद् वा / स त्व् अर्थिदुःखं न शशाक सोढुं नास्तीति वक्तुं च ततो जुगोप // AJम्_४.३ //
SK
अथ कदा चित् तस्य महासत्त्वस्य भोजनकाले स्नातानुलिप्तस्य कुशलसूदोपकल्पिते समुपस्थिते वर्णगन्धरसस्पर्शादिगुणसमुदिते विचित्रे भक्ष्यभोज्यादिविधौ तत्पुण्यसंभारविवृद्धिकामो ज्ञानाग्निनिर्दग्धसर्वक्लेशेन्धनः प्रत्येकबुद्धस् तद्गृहम् अभिजगाम भिक्षार्थी / समुपेत्य च द्वारकोष्ठके व्यतिष्ठत /
SK
अशङ्किताचञ्चलधीरसौम्यम् अवेक्षमाणो युगमात्रम् उर्व्याः / तत्रावतस्थे प्रशमाभिजातः स पात्रसंसक्तकराग्रपद्मः // AJम्_४.४ //
SK
अथ मारः पापीयान् बोधिसत्त्वस्य तां दानसंपदम् अमृष्यमाणस् तद्विघ्नार्थम् अन्तरा च तं भदन्तम् अन्तरा च द्वारदेहलीं ज्वालाकरालोदरम् अनेकपौरुषम् अतिगम्भीरं भयानकदर्शनं प्रतिभयनिर्घोषं नरकम् अभिनिर्ममे विस्फुरद्भिर् अनेकैर् जनशतैर् आचितम् // अथ बोधिसत्त्वः प्रत्येकबुद्धं भिक्षार्थिनम् अभिगतम् आलोक्य पत्नीम् उवाच / भद्रे स्वयम् आर्याय पिण्डपातं देहीति / सा तथेत्य् अस्मै प्रतिश्रुत्य प्रणीतं भक्ष्यभोज्यम् आदाय प्रस्थिता / नरकम् आलोक्य द्वारसमीपाद् भयविषादचञ्चलाक्षी सहसा न्यवर्तत / किम् एतद् इति च भर्त्रा पर्यनुयुक्ता समापतितसाध्वसापिहितकण्ठी तत् कथं चिद् अस्य कथयाम् आस // अथ बोधिसत्त्वः कथम् अयम् आर्यो मद्गृहाद् अनवाप्तभिक्ष एव प्रतियास्यतीति ससंभ्रमस् तत् तस्याः कथितम् अनादृत्य स्वयम् एव प्रणीतं भक्ष्यभोज्यम् आदाय तस्य महात्मनः पिण्डपातं प्रतिपादयितुकामो द्वारकोष्ठकसमीपम् अभिगतस् तम् अतिभीषणम् अन्तरा नरकं ददर्श / तस्य किं स्विद् इदम् इति समुत्पतितवितर्कस्य मारः पापीयान् भवनभित्तेर् निष्पत्य संदृश्यमानदिव्याद्भुतवपुर् अन्तरिक्षे स्थित्वा हितकाम इव नामाब्रवीत् / गृहपते महारौरवो नामायं महानरकः /
SK
अर्थिप्रशंसावचनप्रलुब्धा हिंसन्ति दानव्यसनेन ये ऽर्थान् / शरत्सहस्राणि बहूनि तेषाम् अस्मिन् निवासो ऽसुलभप्रवासः // AJम्_४.५ //
SK
अर्थस् त्रिवर्गस्य विशेषहेतुस् तस्मिन् हते केन हतो न धर्मः / धर्मं च हत्वार्थनिबर्हणेन कथं नु न स्यान् नरकप्रतिष्ठः // AJम्_४.६ //
SK
दानप्रसङ्गेन च धर्ममूलं घ्नता त्वयार्थं यद् अकारि पापम् / त्वाम् अत्तुम् अभ्युद्गतम् एतद् अस्माज् ज्वालोग्रजिह्वं नरकान्तकास्यम् // AJम्_४.७ //
SK
तत् साधु दानाद् विनियच्छ बुद्धिम् एवं हि सद्यः पतनं न ते स्यात् / विचेष्टमानैः करुणं रुदद्भिर् मा दातृभिर् गाः समताम् अमीभिः // AJम्_४.८ //
SK
प्रतिग्रहीता तु जनो ऽभ्युपैति निवृत्तदानापनयः सुरत्वम् / तत् स्वर्गमार्गावरणाद् विरम्य दानोद्यमात् संयमम् आश्रयस्व // AJम्_४.९ //
SK
अथ बोधिसत्त्वो नूनम् अस्यैतद् दुरात्मनो मद्दानविघ्नाय विचेष्टितम् इत्य् अवगम्य स्वसत्त्वावष्टम्भधीरविनयमधुराक्षराविच्छेदं नियतम् इत्य् अवोचद् एनम् /
SK
अस्मद्धितावेक्षणदक्षिणेन विदर्शितो ऽयं भवतार्यमार्गः / युक्ता विशेषेण च दैवतेषु परानुकम्पानिपुणा प्रवृत्तिः // AJम्_४.१० //
SK
दोषोदयात् पूर्वम् अनन्तरं वा युक्तं तु तच्छान्तिपथेन गन्तुम् / गते प्रयामं ह्य् अपचारदोषैर् व्याधौ चिकित्साप्रणयो विघातः // AJम्_४.११ //
SK
इदं च दानव्यसनं मदीयं शङ्के चिकित्साविषयव्यतीतम् / तथा ह्य् अनादृत्य हितैषितां ते न मे मनः संकुचति प्रदानात् // AJम्_४.१२ //
SK
दानाद् अधर्मं च यद् ऊचिवांस् त्वम् अर्थं च धर्मस्य विशेषहेतुम् / तन् मानुषी नेयम् अवैति बुद्धिर् दानाद् ऋते धर्मपथो यथार्थः // AJम्_४.१३ //
SK
निधीयमानः स तु धर्महेतुश् चौरैः प्रसह्याथ विलुप्यमानः / ओघोदरान्तर्विनिमग्नमूर्तिर् हुताशनस्याशनतां गतो वा // AJम्_४.१४ //
SK
यच् चार्थदाता नरकं प्रयाति प्रतिग्रहीता तु सुरेन्द्रलोकम् / विवर्धितस् तेन च मे त्वयायं दानोद्यमः संयमयिष्यतापि // AJम्_४.१५ //
SK
अनन्यथा चास्तु वचस् तवेदं स्वर्गं च मे याचनका व्रजन्तु / दानं हि मे लोकहितार्थम् इष्टं नेदं स्वसौख्योदयसाधनाय // AJम्_४.१६ //
SK
अथ मारः पुनर् अपि बोधिसत्त्वं हितैषीव धीरहस्तेनोवाच /
SK
हितोक्तिम् एनां मम चापलं वा समीक्ष्य येनेच्छसि तेन गच्छ / सुखान्वितो वा बहुमानपूर्वं स्मर्तासि मां विप्रतिसारवान् वा // AJम्_४.१७ //
SK
बोधिसत्त्व उवाच / मार्ष मर्षयतु भवान् /
SK
कामं पतामि नरकं स्फुरदुग्रवह्निं ज्वालावलीढशिथिलावनतेन मूर्ध्ना / न त्व् अर्थिनां प्रणयदर्शितसौहृदानां संमानकालम् अवमाननया हरिष्ये // AJम्_४.१८ //
SK
इत्य् उक्त्वा बोधिसत्त्वः स्वभाग्यबलावष्टब्धो जानानश् च निरत्ययतां दानस्य निवारणैकरसम् अवधूय स्वजनपरिजनं साध्वसानभिभूतमतिर् अभिवृद्धदानाभिलाषो नरकमध्येन प्रायात् /
SK
पुण्यानुभावाद् अथ तस्य तस्मिन्न् अपङ्कजं पङ्कजम् उद्बभूव / अवज्ञयेवावजहास मारं यच् छुक्लया केसरदन्तपङ्क्त्या // AJम्_४.१९ //
SK
अथ बोधिसत्त्वः पद्मसंक्रमेण स्वपुण्यातिशयनिर्जातेनाभिगम्य प्रत्येकबुद्धं प्रसादसंहर्षापूर्णहृदयः पिण्डपातम् अस्मै प्रायच्छत् //
SK
मनःप्रसादप्रतिबोधनार्थं तस्याथ भिक्षुर् वियद् उत्पपात / वर्षञ् ज्वलंश् चैव स तत्र रेजे सविद्युदुद्द्योतपयोदलक्ष्म्या // AJम्_४.२० //
SK
अवमृदितमनोरथस् तु मारो द्युतिपरिमोषम् अवाप्य वैमनस्यात् / तम् अभिमुखम् उदीक्षितुं न सेहे सह नरकेण ततस् तिरोबभूव // AJम्_४.२१ //
SK
तत् किम् इदम् उपनीतम् / एवम् अत्ययम् अप्य् अविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्याद् इति न सत्त्ववन्तः शक्यन्ते भयाद् अप्य् अगतिं गमयितुम् इत्य् एवम् अप्य् उपनेयम् //
SK
श्रेष्ठिजातकं चतुर्थम् //
SK
५. Aविषह्यश्रेष्ठिजातकम्
SK
न विभवक्षयाशङ्कया समृद्ध्याशया वा प्रदानवैधुर्यम् उपयान्ति सत्पुरुषाः //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल त्यागशीलकुलविनयश्रुतज्ञानाविस्मयादिगुणसमुदितो धनदायमानो विभवसंपदा सर्वातिथित्वाद् अनुपरतदानसत्त्रो लोकहितार्थप्रवृत्तो दायकश्रेष्ठः श्रेष्ठी बभूव / मात्सर्यादिदोषाविषह्यो ऽविषह्य इति प्रकाशनामा /
SK
इष्टार्थसंपत्तिविमर्शनाशात् प्रीतिप्रबोधस्य विशेषहेतुः / यथार्थिनां दर्शनम् आस तस्य तथार्थिनां दर्शनम् आस तस्य // AJम्_५.१ //
SK
देहीति याच्ञानियतार्थम् उक्तो नास्तीति नासौ गदितुं शशाक / हृतावकाशा हि बभूव चित्ते तस्यार्थसक्तिः कृपया महत्या // AJम्_५.२ //
SK
तस्यार्थिभिर् निर्ह्रियमाणसारे गृहे बभूवाभ्यधिकः प्रहर्षः / विवेद स ह्य् उग्रघनान् अनर्थान् अकारणक्षिप्रविनाशिनो ऽर्थान् // AJम्_५.३ //
SK
भवन्ति लोकस्य च भूयसार्था लोभाश्रया दुर्गतिमार्गसार्थाः / परात्मनोर् अभ्युदयावहत्वाद् अर्थास् तदीयास् तु बभुर् यथार्थाः // AJम्_५.४ //
SK
अथ तस्य महासत्त्वस्य यथाभिलषितैर् अक्लिष्टैः शिष्टोपचारविभूषणैर् विपुलैर् अर्थविसर्गैर् याचनकजनं समन्ततः संतर्पयतः प्रदानौदार्यश्रवणाद् विस्मयावर्जितमनाः शक्रो देवेन्द्रः प्रदानस्थिरनिश्चयताम् अस्य जिज्ञासमानः प्रत्यहं धनधान्यरत्नपरिच्छदजातं तत् तद् अन्तर्धापयाम् आस / अपि नामायं विभवपरिक्षयाशङ्कया मात्सर्याय प्रतार्येतेति / प्रदानाधिमुक्तस्य तु पुनर् महासत्त्वस्य
SK
यथा यथा तस्य विनेशुर् अर्थाः सूर्याभिसृष्टा इव तोयलेशाः / तथा तथैतान् विपुलैः प्रदानैर् गृहात् प्रदीप्ताद् इव निर्जहार // AJम्_५.५ //
SK
अथ शक्रो देवेन्द्रस् त्यागपरायणम् एव तं महासत्त्वम् अवेत्य प्रक्षीयमाणविभवसारम् अपि विस्मिततरमतिस् तस्यैकरात्रेण सर्वं विभवसारम् अन्तर्धापयाम् आसान्यत्र रज्जुकुण्डलकाद् दात्राच् चैकस्मात् // अथ बोधिसत्त्वः प्रभातायां रजन्यां यथोचितं प्रतिविबुद्धः पश्यति स्म धनधान्यपरिच्छदपरिजनर्द्धिशून्यं निष्कूजदीनं स्वभवनं राक्षसैर् इवोद्वासितम् अनभिरामदर्शनं किम् इदम् इति च समुत्थितवितर्कः समनुविचरंस् तद् रज्जुकुण्डलकं दात्रं च केवलम् अत्र ददर्श / तस्य चिन्ता प्रादुरभवत् / यदि तावत् केन चिद् याचितुम् अनुचितवचसा स्वविक्रमोपजीविना मद्गृहे प्रणय एवं दर्शितः सूपयुक्ता एव मे ऽर्थाः / अथ त्व् इदानीं मद्भाग्यदोषाद् उच्छ्रयम् असहमानाः केन चिद् अनुपयुक्ता एव विद्रुतास् तत् कष्टम् /
SK
चलं सौहृदम् अर्थानां विदितं पूर्वम् एव मे / अर्थिनाम् एव पीडा तु दहत्य् अत्र मनो मम // AJम्_५.६ //
SK
प्रदानसत्कारसुखोचिताश् चिरं विविक्तम् अर्थैर् अभिगम्य मद्गृहम् / कथं भविष्यन्ति नु ते ममार्थिनः पिपासिताः शुष्कम् इवागता ह्रदम् // AJम्_५.७ //
SK
अथ बोधिसत्त्वः स्वधैर्यावष्टम्भाद् अनास्वादितविषाददैन्यस् तस्याम् अप्य् अवस्थायाम् अनभ्यस्तयाच्ञाक्रमत्वात् परान् याचितुं परिचितान् अपि न प्रसेहे / एवं दुष्करं याचितुम् इति तस्य भूयसी याचनकजनेष्व् अनुकम्पा बभूव// अथ स महात्मा याचनकजनस्वागतादिक्रियावेक्षया स्वयम् एव तद् रज्जुकुण्डलकं दात्रं च परिगृह्य प्रत्यहं तृणविक्रयोपलब्धया विभवमात्रयार्थिजनप्रणयसंमाननं चकार // अथ शक्रो देवेन्द्रस् तस्येमाम् अविषादितां परमे ऽपि दारिद्र्ये प्रदानाभिमुखतां चावेक्ष्य सविस्मयबहुमानः संदृश्यमानदिव्याद्भुतवपुर् अन्तरिक्षे स्थित्वा दानाद् विच्छन्दयंस् तं महासत्त्वम् उवाच / गृहपते /
SK
सुहृन्मनस्तापकरीम् अवस्थाम् इमाम् उपेतस् त्वम् अतिप्रदानैः / न दस्युभिर् नैव जलानलाभ्यां न राजभिः संह्रियमाणवित्तः // AJम्_५.८ //
SK
तत् त्वा हितावेक्षितया ब्रवीमि नियच्छ दानव्यसनानुरागम् / इत्थंगतः सन्न् अपि चेन् न दद्या यायाः पुनः पूर्वसमृद्धिशोभाम् // AJम्_५.९ //
SK
शश्वत् कृशेनापि परिव्ययेण कालेन दृष्ट्वा क्षयम् अञ्जनानाम् / चयेन वल्मीकसमुच्छ्रयांश् च वृद्ध्यर्थिनः संयम एव पन्थाः // AJम्_५.१० //
SK
अथ बोधिसत्त्वः प्रदानाभ्यासमाहात्म्यं विदर्शयञ् छक्रम् उवाच /
SK
अनार्यम् आर्येण सहस्रनेत्र सुदुष्करं सुष्ठ्व् अपि दुर्गतेन / मा चैव तद् भून् मम शक्र वित्तं यत्प्राप्तिहेतोः कृपणाशयः स्याम् // AJम्_५.११ //
SK
इच्छन्ति याच्ञामरणेन गन्तुं दुःखस्य यस्य प्रतिकारमार्गम् / तेनातुरान् कः कुलपुत्रमानी नास्तीति शुष्काशनिनाभिहन्यात् // AJम्_५.१२ //
SK
तन् मद्विधः किं स्विद् उपाददीत रत्नं धनं वा दिवि वापि राज्यम् / याच्ञाभितापेन विवर्णितानि प्रसादयेन् नार्थिमुखानि येन // AJम्_५.१३ //
SK
मात्सर्यदोषोपचयाय यः स्यान् न त्यागचित्तं परिबृंहयेद् वा / स त्यागम् एवार्हति मद्विधेभ्यः परिग्रहच्छद्ममयो विघातः // AJम्_५.१४ //
SK
विद्युल्लतानृत्तचले धने च साधारणे नैकविघातहेतौ / दाने निदाने च सुखोदयानां मात्सर्यम् आर्यः क इवाश्रयेत // AJम्_५.१५ //
SK
तद् दर्शिता शक्र मयि स्वतेयं हिताभिधानाद् अनुकम्पितो ऽस्मि / स्वभ्यस्तहर्षं तु मनः प्रदानैस् तदुत्पथे केन धृतिं लभेत // AJम्_५.१६ //
SK
न चात्र मन्योर् अनुवृत्तिमार्गे चित्तं भवान् अर्हति संनियोक्तुम् / न हि स्वभावस्य विपक्षदुर्गम् आरोढुम् अल्पेन बलेन शक्यम् // AJम्_५.१७ //
SK
शक्र उवाच / गृहपते / पर्याप्तविभवस्य परिपूर्णकोशकोष्ठागारस्य सम्यक्प्रवृत्तविविधविपुलकर्मान्तस्य विरूढायतेर् लोके वशीकृतैश्वर्यस्यायं क्रमो नेमां दशाम् अभिप्रपन्नस्य / पश्य /
SK
स्वबुद्धिविस्पन्दसमाहितेन वा यशोऽनुकूलेन कुलोचितेन वा / समृद्धिम् आकृष्य शुभेन कर्मणा सपत्नतेजांस्य् अभिभूय भानुवत् // AJम्_५.१८ //
SK
जने प्रसङ्गेन वितत्य संनतिं प्रबोध्य हर्षं ससुहृत्सु बन्धुषु / अवाप्तसंमानविधिर् नृपाद् अपि श्रिया परिष्वक्त इवाभिकाम्यया // AJम्_५.१९ //
SK
अथ प्रदाने प्रविजृम्भितक्रमः सुखेषु वा नैति जनस्य वाच्यताम् / अजातपक्षः खम् इवारुरुक्षया विघातभाक् केवलया तु दित्सया // AJम्_५.२० //
SK
यतो धनं संयमनैभृताश्रयाद् उपार्ज्यतां तावद् अलं प्रदित्सया / अनार्यताप्य् अत्र च नाम का भवेन् न यत् प्रदद्याद् विभवेष्व् अभाविषु // AJम्_५.२१ //
SK
बोधिसत्त्व उवाच / अलम् अतिनिर्बन्धेनात्रभवतः /
SK
आत्मार्थः स्याद् यस्य गरीयान् परकार्यात् तेनापि स्याद् देयम् अनादृत्य समृद्धिम् / नैति प्रीतिं तां हि महत्यापि विभूत्या दानैस् तुष्टिं लोभजयाद् याम् उपभुङ्क्ते // AJम्_५.२२ //
SK
नैति स्वर्गं केवलया यच् च समृद्ध्या दानेनैव ख्यातिम् अवाप्नोति च पुण्याम् / मात्सर्यादीन् नाभिभवत्य् एव च दोषांस् तस्या हेतोर् दानम् अतः को न भजेत // AJम्_५.२३ //
SK
त्रातुं लोकान् यस् तु जरामृत्युपरीतान् अप्य् आत्मानं दित्सति कारुण्यवशेन / यो नास्वादं वेत्ति सुखानां परदुःखैः कस् तस्यार्थस् त्वद्गतया स्याद् अपि लक्ष्म्या // AJम्_५.२४ //
SK
अपि च देवेन्द्र /
SK
संपत्तिर् इव वित्तानाम् अध्रुवा स्थितिर् आयुषः / इति याचनकं लब्ध्वा न समृद्धिर् अवेक्ष्यते // AJम्_५.२५ //
SK
एको रथश् च भुवि यद् विदधाति वर्त्म तेनापरो व्रजति धृष्टतरं तथान्यः / कल्याणम् आद्यम् इमम् इत्य् अवधूय मार्गं नासत्पथप्रणयने रमते मनो मे // AJम्_५.२६ //
SK
अर्थश् च विस्तरम् उपैष्यति चेत् पुनर् मे हर्ता मनांसि नियमेन स याचकानाम् / एवंगते ऽपि च यथाविभवं प्रदास्ये मा चैव दाननियमे प्रमदिष्म शक्र // AJम्_५.२७ //
SK
इत्य् उक्ते शक्रो देवेन्द्रः समभिप्रसादितमनाः साधु साध्व् इत्य् एनम् अभिसंराध्य सबहुमानस्निग्धम् अवेक्षमाण उवाच /
SK
यशःसपत्नैर् अपि कर्मभिर् जनः समृद्धिम् अन्विच्छति नीचदारुणैः / स्वसौख्यसङ्गाद् अनपेक्षितात्ययः प्रतार्यमाणश् चपलेन चेतसा // AJम्_५.२८ //
SK
अचिन्तयित्वा तु धनक्षयं त्वया स्वसौख्यहानिं मम च प्रतारणाम् / परार्थसंपादनधीरचेतसा महत्त्वम् उद्भावितम् आत्मसंपदः // AJम्_५.२९ //
SK
अहो बतौदार्यविशेषभास्वतः प्रमृष्टमात्सर्यतमिस्रता हृदः / प्रदानसंकोचविरूपतां गतं धने प्रनष्टे ऽपि न यत् तदाशया // AJम्_५.३० //
SK
न चात्र चित्रं परदुःखदुःखिनः कृपावशाल् लोकहितैषिणस् तव / हिमावदातः शिखरीव वायुना न यत् प्रदानाद् असि कम्पितो मया // AJम्_५.३१ //
SK
यशः समुद्भावयितुं परीक्षया धनं तवेदं तु निगूढवान् अहम् / मणिर् हि शोभानुगतो ऽप्य् अतो ऽन्यथा न संस्पृशेद् रत्नयशोमहार्घताम् // AJम्_५.३२ //
SK
अतः प्रदानैर् अभिवर्ष याचकान् ह्रदान् महामेघ इवाभिपूरयन् / धनक्षयं नाप्स्यसि मत्परिग्रहाद् इदं क्षमेथाश् च विचेष्टितं मम // AJम्_५.३३ //
SK
इत्य् एनम् अभिसंराध्य शक्रस् तच् चास्य विभवसारम् उपसंहृत्य क्षमयित्वा च तत्रैवान्तर्दधे //
SK
तद् एवं न विभवक्षयापेक्षया समृद्ध्याशया वा प्रदानवैधुर्यम् उपयान्ति सत्पुरुषा इति //
SK
अविषह्यश्रेष्ठिजातकं पञ्चमम् //
SK
६. Śअशजातकम्
SK
तिर्यग्गतानाम् अपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर् दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात् //
SK
तद्यथानुश्रूयते / कस्मिंश् चिद् अरण्यप्रदेशे मनोज्ञवीरुत्तृणतरुनिचिते पुष्पफलवति वैडूर्यनीलशुचिसलिलवाहिन्या सरिता विभूषितपर्यन्ते मृदुशाद्वलास्तरणसुखसंस्पर्शदर्शनीयधरणितले तपस्विजनविचरिते बोधिसत्त्वः शशो बभूव /
SK
स सत्त्वयोगाद् वपुषश् च संपदा बलप्रकर्षाद् विपुलेन चौजसा / अतर्कितः क्षुद्रमृगैर् अशङ्कितश् चचार तस्मिन् मृगराजलीलया // AJम्_६.१ //
SK
स्वचर्माजिनसंवीतः स्वतनूरुहवल्कलः / मुनिवत् तत्र शुशुभे तुष्टचित्तस् तृणाङ्कुरैः // AJम्_६.२ //
SK
तस्य मैत्र्यवदातेन मनोवाक्कायकर्मणा / आसुर् जिह्मितदौरात्म्याः प्रायः शिष्यसुखा मृगाः // AJम्_६.३ //
SK
तस्य गुणातिशयसंभृतेन स्नेहगौरवेण विशेषवत्तरम् अवबद्धहृदयास् त्रयः सहाया बभूवुर् उद्रः शृगालो वानरश् च / ते परस्परसंबन्धनिबद्धस्नेहा इव बान्धवा अन्योन्यप्रणयसंमानविरूढसौहृदा इव च सुहृदः संमोदमानास् तत्र विहरन्ति स्म / तिर्यक्स्वभावविमुखाश् च प्राणिषु दयानुवृत्त्या लौल्यप्रशमाद् विस्मृतस्तेयप्रवृत्त्या च धर्मानुरोधिन्या च वृत्त्या पटुविज्ञानत्वाद् विनयनियमधीरया च चेष्टया देवतानाम् अपि विस्मयनीया बभूवुः /
SK
सुखानुलोमे गुणबाधिनि क्रमे गुणानुकूले च सुखोपरोधिनि / नरो ऽपि तावद् गुणपक्षसंश्रयाद् विराजते किं बत तिर्यगाकृतिः // AJम्_६.४ //
SK
अभूत् स तेषां तु शशाकृतिः कृती परानुकम्पाप्रतिपद्गुरुर् गुरुः / स्वभावसंपच् च गुणक्रमानुगा यशो यद् एषां सुरलोकम् अप्य् अगात् // AJम्_६.५ //
SK
अथ कदा चित् स महात्मा सायाह्नसमये धर्मश्रवणार्थम् अभिगतैः सबहुमानम् उपास्यमानस् तैः सहायैः परिपूर्णप्रायमण्डलम् आदित्यविप्रकर्षाद् व्यवदायमानशोभं रूप्यदर्पणम् इव त्सरुविरहितम् ईषत्पार्श्वापवृत्तबिम्बं शुक्लपक्षचतुर्दशीचन्द्रमसमुदितम् अभिवीक्ष्य सहायान् उवाच /
SK
असाव् आपूर्णशोभेन मण्डलेन हसन्न् इव / निवेदयति साधूनां चन्द्रमाः पोषधोत्सवम् // AJम्_६.६ //
SK
तद् व्यक्तं श्वः पञ्चदशी यतो भवद्भिः पोषधनियमम् अभिसंपादयद्भिर् न्यायोपलब्धेनाहारविशेषेन कालोपनतम् अतिथिजनं प्रतिपूज्य प्राणसंधारणम् अनुष्ठेयम् / पश्यन्तु भवन्तः /
SK
यत् संप्रयोगा विरहावसानाः समुच्छ्रयाः पातविरूपनिष्ठाः / विद्युल्लताभङ्गुरलोलम् आयुस् तेनैव कार्यो दृढम् अप्रमादः // AJम्_६.७ //
SK
दानेन शीलाभरणेन तस्मात् पुण्यानि संवर्धयितुं यतध्वम् / विवर्तमानस्य हि जन्मदुर्गे लोकस्य पुण्यानि परा प्रतिष्ठा // AJम्_६.८ //
SK
तारागणानाम् अभिभूय लक्ष्मीं विभाति यत् कान्तिगुणेन सोमः / ज्योतींषि चाक्रम्य सहस्ररश्मिर् यद् दीप्यते पुण्यगुणोच्छ्रयः सः // AJम्_६.९ //
SK
दृप्तस्वभावाः सचिवा नृपाश् च पुण्यप्रभावात् पृथिवीश्वराणाम् / सदश्ववृत्त्या हतसर्वगर्वाः प्रीता इवाज्ञाधुरम् उद्वहन्ति // AJम्_६.१० //
SK
पुण्यैर् विहीनान् अनुयात्य् अलक्ष्मीर् विस्पन्दमानान् अपि नीतिमार्गे / पुण्याधिकैः सा ह्य् अवभर्त्स्यमाना पर्येत्य् अमर्षाद् इव तद्विपक्षान् // AJम्_६.११ //
SK
दुःखप्रतिष्ठाद् अयशोऽनुबन्धाद् अपुण्यमार्गाद् उपरम्य तस्मात् / श्रीमत्सु सौख्योदयसाधनेषु पुण्यप्रसङ्गेषु मतिं कुरुध्वम् // AJम्_६.१२ //
SK
ते तथेत्य् अस्यानुशासनीं प्रतिगृह्याभिवाद्य प्रदक्षिणीकृत्य चैनं स्वं स्वम् आलयम् अभिजग्मुः / अचिरगतेषु च तेषु सहायेषु स महात्मा चिन्ताम् आपेदे /
SK
अतिथेर् अभ्युपेतस्य संमानं येन तेन वा / विधातुं शक्तिर् अस्त्य् एषाम् अत्र शोच्यो ऽहम् एव तु // AJम्_६.१३ //
SK
अस्मद्दन्ताग्रविच्छिन्नाः परितिक्तास् तृणाङ्कुराः / शक्या नातिथये दातुं सर्वथा धिग् अशक्तिताम् // AJम्_६.१४ //
SK
इत्य् असामर्थ्यदीनेन को न्व् अर्थो जीवितेन मे / आनन्दः शोकतां यायाद् यस्यैवम् अतिथिर् मम // AJम्_६.१५ //
SK
तत् कुत्रेदानीम् इदम् अतिथिपरिचर्यावैगुण्यान् निःसारं शरीरकम् उत्सृज्यमानं कस्य चिद् उपकाराय स्याद् इति विमृशन् स महात्मा स्मृतिं प्रतिलेभे / अये /
SK
स्वाधीनसुलभम् एतन् निरवद्यं विद्यते ममैव खलु / अतिथिजनप्रतिपूजनसमर्थरूपं शरीरधनम् // AJम्_६.१६ //
SK
तत् किम् अहं विषीदामि /
SK
समधिगतम् इदं मयातिथेयं हृदय विमुञ्च यतो विषाददैन्यम् / समुपनतम् अनेन सत्करिष्याम्य् अहम् अतिथिप्रणयं शरीरकेण // AJम्_६.१७ //
SK
इति विनिश्चित्य स महासत्त्वः परम् इव लाभम् अधिगम्य परमप्रीतमनास् तत्रावतस्थे /
SK
वितर्कातिशयस् तस्य हृदि संप्रविजृम्भितः / आविश्चक्रे प्रभावं च प्रसादं च दिवौकसाम् // AJम्_६.१८ //
SK
ततः प्रहर्षाद् इव साचला चला मही बभूवानिभृतार्णवांशुका / वितस्तरुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश् चकाशिरे // AJम्_६.१९ //
SK
प्रसक्तमन्द्रस्तनितप्रहासिनस् तडित्पिनद्धाश् च घनाः समन्ततः / परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तम् एनं कुसुमैर् अवाकिरन् // AJम्_६.२० //
SK
समुद्वहन् धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः / मुदा प्रवृद्धैर् अविभक्तभक्तिभिस् तम् अर्चयाम् आस कृशांशुकैर् इव // AJम्_६.२१ //
SK
तद् उपलभ्य प्रमुदितविस्मितमनोभिर् देवताभिः समन्ततः परिकीर्त्यमानं तस्य वितर्काद्भुतं समापूर्यमाणविस्मयकौतूहलेन मनसा तस्य महासत्त्वस्य भावजिज्ञासया द्वितीये ऽहनि गगनतलमध्यम् अभिलङ्घमाने पटुतरकिरणप्रभावे सवितरि प्रस्फुरितमरीचिजालवसनासु भास्वरातपविसरावगुण्ठितास्व् अनालोकनक्षमासु दिक्षु संक्षिप्यमाणच्छायेष्व् अभिवृद्धचीरीविरावोन्नादितेषु वनान्तरेषु विच्छिद्यमानपक्षिसंपातेषु घर्मक्लमापीतोत्साहेष्व् अध्वगेषु शक्रो देवानाम् अधिपतिर् ब्राह्मणरूपी भूत्वा मार्गप्रनष्ट इवाध्वगः क्षुत्तर्षश्रमविषाददीनकण्ठः सस्वरं प्ररुदन्न् अविदूरे तेषां विचुक्रोश /
SK
एकं सार्थात् परिभ्रष्टं भ्रमन्तं गहने वने / क्षुच्छ्रमक्लान्तदेहं मां त्रातुम् अर्हन्ति साधवः // AJम्_६.२२ //
SK
मार्गामार्गज्ञाननिश्चेतनं मां दिक्संमोहात् क्वापि गच्छन्तम् एकम् / कान्तारे ऽस्मिन् घर्मतर्षक्लमार्तं माभैःशब्दैः को ऽत्र मां ह्लादयेत // AJम्_६.२३ //
SK
अथ ते महासत्त्वास् तेन तस्यातिकरुणेनाक्रन्दितशब्देन समाकम्पितहृदयाः ससंभ्रमद्रुततरगतयस् तं देशम् अभिजग्मुः / मार्गप्रनष्टाध्वगदीनदर्शनं चैनम् अभिसमीक्ष्य समभिगम्योपचारपुरःसरं समाश्वासयन्त ऊचुः /
SK
कान्तारे विप्रनष्टो ऽहम् इत्य् अलं संभ्रमेण ते / स्वस्य शिष्यगणस्येव समीपे वर्तसे हि नः // AJम्_६.२४ //
SK
तद् अद्य तावद् अस्माकं परिचर्याप्रतिग्रहात् / विधायानुग्रहं सौम्य श्वो गन्तासि यथेप्सितम् // AJम्_६.२५ //
SK
अथोद्रस् तस्य तूष्णींभावाद् अनुमतम् उपनिमन्त्रणम् अवेत्य हर्षसंभ्रमत्वरितगतिः सप्त रोहितमत्स्यान् समुपनीयावोचद् एनम् /
SK
मीनारिभिर् विस्मरणोज्झिता वा त्रासोत्प्लुता वा स्थलम् अभ्युपेताः / खेदप्रसुप्ता इव सप्त मत्स्या लब्धा मयैतान् निवसेह भुक्त्वा // AJम्_६.२६ //
SK
अथ शृगालो ऽप्य् एनं यथोपलब्धम् अन्नजातम् उपहृत्य प्रणामपुरःसरं सादरम् उवाच /
SK
एकां च गोधां दधिभाजनं च केनापि संत्यक्तम् इहाध्यगच्छम् / तन् मे हितावेक्षितयोपयुज्य वने ऽस्तु ते ऽस्मिन् गुणवास वासः // AJम्_६.२७ //
SK
इत्य् उक्त्वा प्रीतमनास् तद् अस्मै समुपजहार // अथ वानरः परिपाकगुणात् समुपजातमार्दवानि मनःशिलाचूर्णरञ्जितानीवातिपिञ्जराण्य् अतिरक्तबन्धनमूलानि पिण्डीकृतान्य् आम्रफलान्य् आदाय साञ्जलिप्रग्रहम् एनम् उवाच /
SK
आम्राणि पक्वान्य् उदकं मनोज्ञं छायाश् च सत्संगमसौख्यशीताः / इत्य् अस्ति मे ब्रह्मविदां वरिष्ठ भुक्त्वैतद् अत्रैव तवास्तु वासः // AJम्_६.२८ //
SK
अथ शशो ऽभिसृत्यैनम् उपचारक्रियानन्तरं सबहुमानम् उदीक्षमाणः स्वेन शरीरेणोपनिमन्त्रयाम् आस /
SK
न सन्ति मुद्गा न तिला न तण्डुला वने ऽभिवृद्धस्य शशस्य के च न / शरीरम् एतत् त्व् अनलाभिसंस्कृतं ममोपयुज्याद्य तपोवने वस // AJम्_६.२९ //
SK
यद् अस्ति यस्येप्सितसाधनं धनं स तन् नियुङ्क्ते ऽर्थिजनागमोत्सवे / न चास्ति देहाद् अधिकं च मे धनं प्रतीच्छ सर्वस्वम् इदं यतो मम // AJम्_६.३० //
SK
शक्र उवाच /
SK
अन्यस्यापि वधं तावत् कुर्याद् अस्मद्विधः कथम् / इति दर्शितसौहार्दे कथा कैव भवद्विधे // AJम्_६.३१ //
SK
शश उवाच / उपपन्नरूपम् इदम् आसन्नानुक्रोशे ब्राह्मण्ये / तद् इहैव तावद् भवान् आस्ताम् अस्मदनुग्रहापेक्षया यावत् कुतश् चिद् आत्मानुग्रहोपायम् आसादयामीति // अथ शक्रो देवानाम् इन्द्रस् तस्य भावम् अवेत्य तप्ततपनीयवर्णं स्फुरत्प्रतनुज्वालं विकीर्यमाणविस्फुलिङ्गप्रकरं निर्धूमम् अङ्गारराशिम् अभिनिर्ममे // अथ शशः समन्ततो विलोकयंस् तम् अग्निस्कन्धं ददर्श / दृष्ट्वा च प्रीतमनाः शक्रम् उवाच / समधिगतो ऽयं मयात्मानुग्रहोपायः / तद् अस्मच्छरीरोपभोगात् सफलाम् अनुग्रहाशां मे कर्तुम् अर्हसि / पश्य महाब्राह्मण /
SK
देयं च दित्साप्रवणं च चित्तं भवद्विधेनातिथिना च योगः / नावाप्तुम् एतद् धि सुखेन शक्यं तत् स्याद् अमोघं भवदाश्रयान् मे // AJम्_६.३२ //
SK
इत्य् अनुनीय संमाननादरातिथिप्रियतया चैनम् अभिवाद्य /
SK
ततः स तं वह्निम् अभिज्वलन्तं निधिं धनार्थी सहसेव दृष्ट्वा / परेण हर्षेण समारुरोह तोयं हसत्पद्मम् इवैकहंसः // AJम्_६.३३ //
SK
तद् दृष्ट्वा परमविस्मयावर्जितमतिर् देवानाम् अधिपतिः स्वम् एव वपुर् आस्थाय दिव्यकुसुमवर्षपुरःसरीभिर् मनःश्रुतिसुखाभिर् वाग्भिर् अभिपूज्य तं महासत्त्वं कमलपलाशलक्ष्मीसमृद्धाभ्यां भासुराङ्गुलिविभूषणालंकृताभ्यां पाणिभ्यां स्वयम् एव चैनं परिगृह्य त्रिदशेभ्यः संदर्शयाम् आस / पश्यन्त्व् अत्रभवन्तस् त्रिदशालयनिवासिनो देवाः समनुमोदन्तां चेदम् अतिविस्मयनीयं कर्मावदानम् अस्य महासत्त्वस्य /
SK
त्यक्तं बतानेन यथा शरीरं निःसङ्गम् अद्यातिथिवत्सलेन / निर्माल्यम् अप्य् एवम् अकम्पमाना नालं परित्यक्तुम् अधीरसत्त्वाः // AJम्_६.३४ //
SK
जातिः क्वेयं तद्विरोधि क्व चेदं त्यागौदार्यं चेतसः पाटवं च / विस्पष्टो ऽयं पुण्यमन्दादराणां प्रत्यादेशो देवतानां नृणां च // AJम्_६.३५ //
SK
अहो बत गुणाभ्यासवासितास्य यथा मतिः / अहो सद्वृत्तवात्सल्यं क्रियौदार्येण दर्शितम् // AJम्_६.३६ //
SK
अथ शक्रस् तत्कर्मातिशयविख्यापनार्थं लोकहितावेक्षी शशबिम्बलक्षणेन वैजयन्तस्य प्रासादवरस्य सुधर्मायाश् च देवसभायाः कूटागारकर्णिके चन्द्रमण्डलं चाभ्यलंचकार /
SK
संपूर्णे ऽद्यापि तद् इदं शशबिम्बं निशाकरे / छायामयम् इवादर्शे राजते ऽभिविराजते // AJम्_६.३७ //
SK
ततः प्रभृति लोकेन कुमुदाकरहासनः / क्षणदातिलकश् चन्द्रः शशाङ्क इति कीर्त्यते // AJम्_६.३८ //
SK
तद् एवं तिर्यग्गतानाम् अपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर् दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात् //
SK
तथा तिर्यग्गता अपि गुणवात्सल्यात् संपूज्यन्ते सद्भिर् इति गुणेष्व् आदरः कार्य इत्य् एवम् अप्य् उपनेयम् //
SK
शशजातकं षष्ठम् //
SK
७. Aगस्त्यजातकम्
SK
तपोवनस्थानाम् अप्य् अलंकारस् त्यागशौर्यं प्राग् एव गृहस्थानाम् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वभूतः किलायं भगवांल् लोकहितार्थं संसाराध्वनि वर्तमानश् चारित्रगुणविशुद्ध्यभिलक्षितं क्षितितलतिलकभूतम् अन्यतमं महद् ब्राह्मणकुलं गगनतलम् इव शरदमलपरिपूर्णमण्डलश् चन्द्रमाः समुद्यन्न् एवाभ्यलंचकार / स यथाक्रमं श्रुतिस्मृतिविहितान् अवाप्य जातकर्मादीन् संस्कारान् अधीत्य साङ्गान् वेदान् कृत्स्नं व्याप्य विद्वद्यशसा मनुष्यलोकं गुणप्रियैर् दातृभिर् अभ्यर्थ्य प्रतिग्राह्यमाणविभवत्वात् परां धनसमृद्धिम् अधिजगाम /
SK
स बन्धुमित्राश्रितदीनवर्गं संमाननीयान् अतिथीन् गुरूंश् च / प्रह्लादयाम् आस तया समृद्ध्या देशान् महामेघ इवाभिवर्षन् // AJम्_७.१ //
SK
विद्वत्तया तस्य यशः प्रकाशं तत् त्यागशौर्याद् अधिकं चकाशे / निशाकरस्येव शरद्विशुद्धं समग्रभावाद् अधिकान्ति बिम्बम् // AJम्_७.२ //
SK
अथ स महात्मा कुकार्यव्यासङ्गदोषसंबाधं प्रमादास्पदभूतं धनार्जनरक्षणप्रसङ्गव्याकुलम् उपशमविरोधि व्यसनशरशतलक्ष्यभूतम् अपर्यन्तकर्मान्तानुष्ठानपरिश्रमम् अतृप्तिजनकं कृशास्वादं गार्हस्थ्यम् अवेत्य तद्दोषविविक्तसुखां च धर्मप्रतिपत्त्यनुकूलां मोक्षधर्मारम्भाधिष्ठानभूतां प्रव्रज्याम् अनुपश्यन् महतीम् अपि तां धनसमृद्धिम् अपरिक्लेशाधिगतां लोकसंनतिमनोहरां तृणवद् अपास्य तापसप्रव्रज्याविनयनियमपरो बभूव / प्रव्रजितम् अपि तं महासत्त्वं यशःप्रकाशत्वात् पूर्वसंस्तवानुस्मरणात् संभावितगुणत्वात् प्रशमाभिलक्षितत्वाच् च श्रेयोऽर्थी जनस् तद्गुणगणावर्जितमतिस् तथैवाभिजगाम / स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिनं व्यासङ्गविक्षेपान्तरायकरम् अबहुमन्यमानः प्रविवेकाभिरामतया दक्षिणसमुद्रमध्यावगाढम् इन्द्रनीलभेदाभिनीलवर्णैर् अनिलबलाकलितैर् ऊर्मिमालाविलासैर् आच्छुरितपर्यन्तं सितसिकतास्तीर्णभूमिभागं पुष्पफलपल्लवालंकृतविटपैर् नानातरुभिर् उपशोभितं विमलसलिलाशयप्रतीरं काराद्वीपम् अध्यासनाद् आश्रमपदश्रिया संयोजयाम् आस /
SK
सुतनुस् तपसा तत्र स रेजे तपसातनुः / नवश् चन्द्र इव व्योम्नि कान्तत्वेनाकृशः कृशः // AJम्_७.३ //
SK
प्रशमनिभृतचेष्टितेन्द्रियो व्रतनियमैकरसो वने वसन् / मुनिर् इति तनुबुद्धिशक्तिभिर् मृगविहगैर् अपि सो ऽन्वगम्यत // AJम्_७.४ //
SK
अथ स महात्मा प्रदानोचितत्वात् तपोवने ऽपि निवसन् कालोपनतम् अतिथिजनं यथासंनिहितेन मूलफलेन शुचिना सलिलेन हृद्याभिश् च स्वागताशीर्वादपेशलाभिस् तपस्विजनयोग्याभिर् वाग्भिः संपूजयति स्म / अतिथिजनोपयुक्तशेषेण च यात्रामात्रार्थम् अभ्यवहृतेन वन्येनाहारेण वर्तयाम् आस // तस्य तपःप्रकर्षात् प्रविसृतेन यशसा समावर्जितहृदयः शक्रो देवानाम् इन्द्रः स्थैर्यजिज्ञासया तस्य महासत्त्वस्य तस्मिन्न् अरण्यायतने तापसजनोपभोगयोग्यं मूलफलम् अनुपूर्वेण सर्वम् अन्तर्धापयाम् आस / बोधिसत्त्वो ऽपि ध्यानप्रसृतमानसतया संतोषपरिचयाद् अनधिमूर्छितत्वाद् आहारे शरीरे चानभिष्वङ्गान् न तदन्तर्धानहेतुं मनसि चकार / स तरुणानि तरुपल्लवान्य् अधिश्राय तैर् आहारप्रयोजनम् अभिनिष्पाद्यापरितृष्यमाण आहारविशेषानुत्सुकः स्वस्थमतिस् तथैव विजहार /
SK
न क्व चिद् दुर्लभा वृत्तिः संतोषनियतात्मनाम् / कुत्र नाम न विद्यन्ते तृणपर्णजलाशयाः // AJम्_७.५ //
SK
विस्मिततरमनास् तु शक्रो देवेन्द्रस् तस्य तेनावस्थानेन स्थिरतरगुणसंभावनस् तत्परीक्षानिमित्तं तस्मिन्न् अरण्यवनप्रदेशे निदाघकालानिल इव समग्रं वीरुत्तृणतरुगणं पर्णसमृद्ध्या वियोजयाम् आस // अथ बोधिसत्त्वः प्रत्यार्द्रतराणि शीर्णपर्णानि समाहृत्य तैर् उदकस्विन्नैर् अनुत्कण्ठितमतिर् वर्तयमानो ध्यानसुखप्रीणितमनास् तत्रामृततृप्त इव विजहार /
SK
अविस्मयः श्रुतवतां समृद्धानाम् अमत्सरः / संतोषश् च वनस्थानां गुणशोभाविधिः परः // AJम्_७.६ //
SK
अथ शक्रस् तेन तस्याद्भुतरूपेण संतोषस्थैर्येण समभिवृद्धविस्मयः सामर्ष इव तस्य महासत्त्वस्य व्रतकाले हुताग्निहोत्रस्य परिसमाप्तजपस्यातिथिजनदिदृक्षया दिशो व्यवलोकयतो ब्राह्मणरूपम् आस्थायातिथिर् इव नाम पुरस्तात् प्रादुरभूत् / प्रीतमनाः समभिगम्य चैनं बोधिसत्त्वः स्वागतादिप्रियवचनपुरःसरेणाहारकालनिवेदनेनोपनिमन्त्रयाम् आस / तूष्णींभावात् तु तस्यानुमतम् उपनिमन्त्रणम् अवेत्य स महात्मा
SK
दित्साप्रकर्षविकसन्नयनास्यशोभः स्निग्धैर् मनःश्रुतिहरैर् अभिनन्द्य वाक्यैः / कृच्छ्रोपलब्धम् अपि तच् छ्रपणं समस्तं तस्मै ददौ स्वयम् अभूच् च मुदैव तृप्तः // AJम्_७.७ //
SK
स तथैव प्रविश्य ध्यानागारं तेनैव प्रीतिप्रामोद्येन तद् अहोरात्रम् अतिनामयाम् आस // अथ शक्रस् तस्य द्वितीये तृतीये चाहनि तथैव व्रतकाले पुरतः प्रादुरभूत् / सो ऽपि चैनं प्रमुदिततरमनास् तथैव प्रतिपूजयाम् आस/
SK
दानाभिलाषः साधूनां कृपाभ्यासविवर्धितः / नैति संकोचदीनत्वं दुःखैः प्राणान्तिकैर् अपि // AJम्_७.८ //
SK
अथ शक्रः परमविस्मयाविष्टहृदयस् तपःप्रकर्षाद् अस्य प्रार्थनामात्रापेक्षं त्रिदशपतिलक्ष्मीसंपर्कम् अवगम्य समुत्पतितभयाशङ्कः स्वम् एव वपुर् दिव्याद्भुतशोभम् अभिप्रपद्य तपःप्रयोजनम् एनं पर्यपृच्छत् /
SK
बन्धून् प्रियान् अश्रुमुखान् विहाय परिग्रहान् सौख्यपरिग्रहांश् च / आशाङ्कुशं नु व्यवसृज्य कुत्र तपःपरिक्लेशम् इमं श्रितो ऽसि // AJम्_७.९ //
SK
सुखोपपन्नान् परिभूय भोगाञ् छोकातुरं बन्धुजनं च कृत्वा / न हेतुनाल्पेन हि यान्ति धीराः सुखोपरोधीनि तपोवनानि // AJम्_७.१० //
SK
वक्तव्यम् एतन् मयि मन्यसे चेत् कौतूहलं नो ऽर्हसि तद् विनेतुम् / किं नाम तद् यस्य गुणश्रवेण वशीकृतैवं भवतो ऽपि बुद्धिः // AJम्_७.११ //
SK
बोधिसत्त्व उवाच / श्रूयतां मार्ष यन्निमित्तो ऽयं मम प्रयत्नः /
SK
पुनःपुनर्जातिर् अतीव दुःखं जरा विपद् व्याधिविरूपता च / मर्तव्यम् इत्य् आकुलता च बुद्धेर् लोकान् अतस् त्रातुम् इह स्थितो ऽस्मि // AJम्_७.१२ //
SK
अथ शक्रो नायम् अस्मद्गतां श्रियं कामयत इति समाश्वासितहृदयः सुभाषितेन तेन चाभिप्रसादितमतिर् युक्तम् इत्य् अभिपूज्य तद् अस्य वचनं वरप्रदानेन बोधिसत्त्वम् उपनिमन्त्रयाम् आस /
SK
अत्र ते तापसजनप्रतिरूपे सुभाषिते / ददामि काश्यप वरं तद् वृणीष्व यद् इच्छसि // AJम्_७.१३ //
SK
अथ बोधिसत्त्वो भवसुखेष्व् अनास्थः प्रार्थनाम् एव दुःखम् अवगच्छन् सात्मीभूतसंतोषः शक्रम् उवाच /
SK
दातुम् इच्छसि चेन् मह्यम् अनुग्रहकरं वरम् / वृणे तस्माद् अहम् इमं देवानां प्रवरं वरम् // AJम्_७.१४ //
SK
दारान् मनोऽभिलषितांस् तनयान् प्रभुत्वम् अर्थान् अभीप्सितविशालतरांश् च लब्ध्वा / येनाभितप्तमतिर् एति न जातु तृप्तिं लोभानलः स हृदयं मम नाभ्युपेयात् // AJम्_७.१५ //
SK
अथ शक्रस् तस्य तया संतोषप्रवणमानसतया सुभाषिताभिव्यञ्जितया भूयस्या मात्रया संप्रसादितमतिः पुनर् बोधिसत्त्वं साधु साध्व् इति प्रशस्य वरेणोपच्छन्दयाम् आस /
SK
अत्रापि ते मुनिजनप्रतिरूपे सुभाषिते / प्रतिप्राभृतवत् प्रीत्या प्रयच्छाम्य् अपरं वरम् // AJम्_७.१६ //
SK
अथ बोधिसत्त्वः क्लेशवियोगस्यैव दुर्लभताम् अस्य प्रदर्शयन् वरयाच्ञापदेशेन पुनर् अप्य् अस्मै धर्मं देशयाम् आस /
SK
ददासि मे यदि वरं सद्गुणावास वासव / वृणे तेनेदम् अपरं देवेन्द्रानवरं वरम् // AJम्_७.१७ //
SK
अर्थाद् अपि भ्रंशम् अवाप्नुवन्ति वर्णप्रसादाद् यशसः सुखाच् च / येनाभिभूता द्विषतेव सत्त्वाः स द्वेषवह्निर् मम दूरतः स्यात् // AJम्_७.१८ //
SK
तच् छ्रुत्वा शक्रो देवानाम् अधिपतिर् विस्मयवशात् साध्व् इत्य् एनं सबहुमानम् अभिप्रशस्य पुनर् उवाच /
SK
स्थाने प्रव्रजितान् कीर्तिर् अनुरक्तेव सेवते / तद् वरं प्रतिगृह्णीष्व मद् अत्रापि सुभाषिते // AJम्_७.१९ //
SK
अथ बोधिसत्त्वः क्लेशप्रातिकूल्यात् क्लिष्टसत्त्वसंपर्कविगर्हां वरसंप्रतिग्रहापदेशेन कुर्वन्न् इत्य् उवाच /
SK
शृणुयाम् अपि नैव जातु बालं न च वीक्षेय न चैनम् आलपेयम् / न च तेन निवासखेददुःखं समुपेयां वरम् इत्य् अहं वृणे त्वाम् // AJम्_७.२० //
SK
शक्र उवाच /
SK
अनुकम्प्यो विशेषेण सताम् आपद्गतो ननु / आपदां मूलभूतत्वाद् बाल्यं चाधमम् इष्यते // AJम्_७.२१ //
SK
करुणाश्रयभूतस्य बालस्यास्य विशेषतः / कृपालुर् अपि सन् कस्मान् न दर्शनम् अपीच्छसि // AJम्_७.२२ //
SK
बोधिसत्त्व उवाच / अगत्या मार्ष / पश्यत्व् अत्रभवान् /
SK
कथं चिद् अपि शक्येत यदि बालश् चिकित्सितुम् / तद्धितोद्योगनिर्यत्नः कथं स्याद् इति मद्विधः // AJम्_७.२३ //
SK
इत्थं चैष चिकित्साप्रयोगस्यापात्रम् इति गृह्यताम् /
SK
सुनयवद् अनयं नयत्य् अयं परम् अपि चात्र नियोक्तुम् इच्छति / अनुचितविनयार्जवक्रमो हितम् अपि चाभिहितः प्रकुप्यति // AJम्_७.२४ //
SK
इति पण्डितमानमोहदग्धे हितवादिष्व् अपि रोषरूक्षभावे / रभसे विनयाभियोगमान्द्याद् वद कस् तत्र हितार्पणाभ्युपायः // AJम्_७.२५ //
SK
इत्य् अगत्या सुरश्रेष्ठ करुणाप्रवणैर् अपि / बाल्याद् अद्रव्यभूतस्य न दर्शनम् अपीष्यते // AJम्_७.२६ //
SK
तच् छ्रुत्वा शक्रः साधु साध्व् इत्य् एनम् अभिनन्द्य सुभाषितपरितोषितमतिः पुनर् उवाच /
SK
न सुभाषितरत्नानाम् अर्घः कश् च न विद्यते / कुसुमाञ्जलिवत् प्रीत्या ददाम्य् अत्र तु ते वरम् // AJम्_७.२७ //
SK
अथ बोधिसत्त्वः सर्वावस्थसुखतां सज्जनस्य प्रदर्शयञ् छक्रम् उवाच/
SK
वीक्षेय धीरं शृणुयां च धीरं स्यान् मे निवासः सह तेन शक्र / संभाषणं तेन सहैव भूयाद् एतद् वरं देववर प्रयच्छ // AJम्_७.२८ //
SK
शक्र उवाच / अतिपक्षपात इव खलु ते धीरं प्रति / तद् उच्यताम् /
SK
किं नु धीरस् तवाकार्षीद् वद काश्यप कारणम् / अधीर इव येनासि धीरदर्शनलालसः // AJम्_७.२९ //
SK
अथ बोधिसत्त्वः सज्जनमाहात्म्यम् अस्य प्रदर्शयन्न् उवाच / श्रूयतां मार्ष येन मे धीरदर्शनम् एवाभिलषति मतिः /
SK
व्रजति गुणपथेन च स्वयं नयति परान् अपि तेन वर्त्मना / वचनम् अपि न रूक्षम् अक्षमां जनयति तस्य हितोपसंहितम् // AJम्_७.३० //
SK
अशठविनयभूषणः सदा हितम् इति लम्भयितुं स शक्यते / इति मम गुणपक्षपातिनी नमति मतिर् गुणपक्षपातिनि // AJम्_७.३१ //
SK
अथैनं शक्रः साधूपपन्नरूपम् इदम् इति चाभिनन्द्य समभिवृद्धप्रसादः पुनर् वरेणोपनिमन्त्रयाम् आस /
SK
कामं संतोषसात्मत्वात् सर्वत्र कृतम् एव ते / मदनुग्रहबुद्ध्या तु ग्रहीतुं वरम् अर्हसि // AJम्_७.३२ //
SK
उपकाराशया भक्त्या शक्त्या चैव समस्तया / प्रयुक्तस्यातिदुःखो हि प्रणयस्याप्रतिग्रहः // AJम्_७.३३ //
SK
अथ तस्य पराम् उपकर्तुकामताम् अवेत्य बोधिसत्त्वस् तत्प्रियहितकाम्यया प्रदानानुतर्षप्राबल्यम् अस्मै प्रकाशयन्न् उवाच /
SK
त्वदीयम् अन्नं क्षयदोषवर्जितं मनश् च दित्सापरितोषपेशलम् / विशुद्धशीलाभरणाश् च याचका मम स्युर् एतां वरसंपदं वृणे // AJम्_७.३४ //
SK
शक्र उवाच / सुभाषितरत्नाकरः खल्व् अत्रभवान् / अपि च /
SK
यद् अभिप्रार्थितं सर्वं तत् तथैव भविष्यति / ददामि च पुनस् तुभ्यं वरम् अस्मिन् सुभाषिते // AJम्_७.३५ //
SK
बोधिसत्त्व उवाच /
SK
वरं ममानुग्रहसंपदाकरं ददासि चेत् सर्वदिवौकसां वर / न माभ्युपेयाः पुनर् इत्य् अभिज्वलन्न् इमं वरं दैत्यनिसूदनं वृणे // AJम्_७.३६ //
SK
अथ शक्रः सामर्षवद् एनम् अतिविस्मयमान उवाच / मा तावद् भोः /
SK
जपव्रतेज्याविधिना तपःश्रमैर् जनो ऽयम् अन्विच्छति दर्शनं मम / भवान् पुनर् नेच्छति केन हेतुना वरप्रदित्साभिगतस्य मे सतः // AJम्_७.३७ //
SK
बोधिसत्त्व उवाच / अलं ते मन्युप्रणयेन / समनुनेष्याम्य् अहम् अत्रभवन्तं देवराजम् / न ह्य् असाव् अदाक्षिण्यानुवृत्तिर् नाप्य् अबहुमानविचेष्टितम् असमवधानकाम्यता वा भवतः / किं तु निरीक्ष्य ते रूपम् अमानुषाद्भुतं प्रसन्नकान्ति ज्वलितं च तेजसा / भवेत् प्रमादस् तपसीति मे भयं प्रसादसौम्याद् अपि दर्शनात् तव // AJम्_७.३८ //
SK
अथ शक्रः प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधे / प्रभातायां च रजन्यां बोधिसत्त्वः शक्रप्रभावोपहृतं प्रभूतं दिव्यम् अन्नपानं ददर्श / शक्रोपनिमन्त्रणाहूतानि चानेकानि प्रत्येकबुद्धशतानि व्यायताबद्धपरिकरांश् च परिवेषणसज्जान् अनेकान् देवकुमारान् /
SK
तेनान्नपानविधिना स मुनिर् महर्षीन् संतर्पयन् मुदम् उदारतमाम् अवाप / वृत्त्या च तापसजनोचितयाभिरेमे ध्यानाप्रमाणनियमेन शमेन चैव // AJम्_७.३९ //
SK
तद् एवं तपोवनस्थानाम् अप्य् अलंकारस् त्यागशौर्यं प्राग् एव गृहस्थानाम् इति
SK
त्यागशौर्येणालंकर्तव्य एवात्मा सत्पुरुषेणेति दानपतिसंवर्णनायाम् उपनेयं लोभद्वेषबालविगर्हायां कल्याणमित्रसंपर्कगुणे संतोषकथायां तथागतमाहात्म्ये चैवं पूर्वजन्मस्व् अपि सुभाषितरत्नातिशयाकरः स भगवान् प्राग् एवाभिसंबुद्ध इति //
SK
अगस्त्यजातकं सप्तमम् //
SK
८. Mऐत्रीबलजातकम्
SK
न परदुःखातुराः स्वसुखम् अवेक्षन्ते महाकारुणिकाः //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल स्वमाहात्म्यकारुण्याभिप्रपन्नजगत्परित्राणाध्याशयः प्रदानदमसंयमसौरत्यादिभिर् लोकानुग्रहानुकूलैर् गुणातिशयैर् अभिवर्धमानः सर्वसत्त्वमैत्रमना मैत्रीबलो नाम राजा बभूव /
SK
दुःखं सुखं वा यद् अभूत् प्रजानां तस्यापि राज्ञस् तद् अभूत् तथैव / अतः प्रजारक्षणदक्षिणो ऽसौ शस्त्रं च शास्त्रं च पराममर्श // AJम्_८.१ //
SK
नरेन्द्रचूडाधृतशासनस्य तस्य त्व् अलंकारवद् आस शस्त्रम् / विस्पष्टरूपं ददृशे च शास्त्रं नयेषु लोकस्य हितोदयेषु // AJम्_८.२ //
SK
विनिग्रहप्रग्रहयोः प्रवृत्तिर् धर्मोपरोधं न चकार तस्य / हिताशयत्वान् नयनैपुणाच् च परीक्षकस्येव पितुः प्रजासु // AJम्_८.३ //
SK
तस्यैवं धर्मेण प्रजाः पालयतः सत्यत्यागोपशमप्रज्ञादिभिश् च परहितपरिणामनात् सविशेषोदात्तक्रमैर् बोधिसंभारविधिभिर् अभिवर्धमानस्य कदा चित् कस्मिंश् चिद् अपराधे यक्षाणाम् अधिपतिना स्वविषयात् प्रव्राजिता ओजोहाराः पञ्च यक्षाः परवधदक्षास् तद्विषयम् अभिजग्मुः / व्यपगतसर्वोपद्रवत्वाच् च नित्यप्रवृत्तविविधोत्सवं परया संपदा समुपेतरूपं प्रमुदिततुष्टपुष्टजनम् अभिसमीक्ष्य तं विषयं तद्विषयनिवासिनां पुरुषाणाम् ओजांस्य् अपहर्तुम् एषाम् अभिलाषो बभूव /
SK
ते परेणापि यत्नेन संप्रवृत्ताः स्वकर्मणि / नैव तद्विषयस्थानां हर्तुम् ओजः प्रसेहिरे // AJम्_८.४ //
SK
तस्य प्रभावातिशयान् नृपस्य ममेति यत्रैव बभूव बुद्धिः / सैवास्य रक्षा परमास तस्माद् ओजांसि हर्तुं न विषेहिरे ते // AJम्_८.५ //
SK
यदा च परम् अपि प्रयत्नं कुर्वन्तो नैव शक्नुवन्ति स्म कस्य चित् तद्विषयनिवासिन ओजो ऽपहर्तुम् अथैषां परस्परम् अवेक्ष्यैतद् अभूत् / किं नु खल्व् इदं मार्षाः /
SK
अस्मत्प्रभावप्रतिघातयोग्या विद्यातपःसिद्धिमया विशेषाः / न सन्ति चैषाम् अथ चाद्य सर्वे व्यर्थाभिधानत्वम् उपागताः स्मः // AJम्_८.६ //
SK
अथ ते यक्षा ब्राह्मणवर्णम् आत्मानम् अभिनिर्माय समनुचरन्तो ददृशुः प्रत्यरण्यचरम् अन्यतमं गोपालकं सशाद्वले छायाद्रुममूले सोपानत्कं संनिषण्णं सपल्लवैर् वनतरुकुसुमैर् विरचितां मालाम् उद्वहन्तं दक्षिणतो विन्यस्तदण्डपरशुम् एकाकिनं रज्जुवर्तनव्यापृतं प्रक्ष्वेडितविलासेन गायन्तम् आसीनं समुपेत्य चैनम् ऊचुः / भो गवां संरक्षणाधिकृत / एवं विविक्ते निर्जनसंपाते ऽस्मिन्न् अरण्ये विचरन्न् एकाकी कथं न बिभेषीति // स तान् उल्लोक्याब्रवीत् / कुतो वा भेतव्यम् इति // यक्षा ऊचुः / किं त्वया न श्रुतपूर्वा रक्षसां पिशाचानां वा निसर्गरौद्रा प्रकृतिः /
SK
सहायमध्ये ऽपि हि वर्तमानो विद्यातपःस्वस्त्ययनैर् उपेतः / येभ्यः कथं चित् परिमोक्षम् एति शौर्याद् अवज्ञातभयो ऽपि लोकः // AJम्_८.७ //
SK
तेभ्यो नृमेदःपिशिताशनेभ्यः कथं भयं ते ऽस्ति न राक्षसेभ्यः / विविक्तगम्भीरभयानकेषु सहायहीनस्य वनान्तरेषु // AJम्_८.८ //
SK
इत्य् उक्ते स गोपालकः प्रहस्यैनान् उवाच /
SK
जनः स्वस्त्ययनेनायं महता परिपाल्यते / देवेन्द्रैर् अप्य् अशक्यो ऽयं किं पुनः पिशिताशनैः // AJम्_८.९ //
SK
तेन गेह इवारण्ये रात्राव् अपि यथा दिवा / जनान्त इव चैको ऽपि निर्भयो विचराम्य् अहम् // AJम्_८.१० //
SK
अथैनं ते यक्षाः कौतूहलप्राबल्यात् सादरम् उपवत्सयन्त इवोचुः / तत् कथय कथय तावद् भद्र कीदृशो ऽयं युष्माकं स्वस्त्ययनविशेष इति // स तान् प्रहसन्न् उवाच / श्रूयतां यादृशो ऽस्माकम् अत्यद्भुतः स्वस्त्ययनविशेषः /
SK
कनकगिरिशिलाविशालवक्षाः शरदमलेन्दुमनोज्ञवक्त्रशोभः / कनकपरिघपीनलम्बबाहुर् वृषभनिभेक्षणविक्रमो नरेन्द्रः // AJम्_८.११ //
SK
ईदृशो ऽस्माकं स्वस्त्ययनविशेष इत्य् उक्त्वा सामर्षविस्मयस् तान् यक्षान् अवेक्षमाणः पुनर् उवाच / आश्चर्यं बतेदम् /
SK
एवं प्रकाशो नृपतिप्रभावः कथं नु वः श्रोत्रपथं न यातः / अत्यद्भुतत्वाद् अथवा श्रुतो ऽपि भवत्सु विप्रत्ययतो न रूढः // AJम्_८.१२ //
SK
शङ्के गुणान्वेषणविक्लवो वा देशे जनो ऽसाव् अकुतूहलो वा / विवर्जितो भाग्यपरिक्षयाद् वा कीर्त्या नरेन्द्रस्य यतो ऽभ्युपैथ // AJम्_८.१३ //
SK
तद् अस्ति वो भाग्यशेषं यत् तादृशाद् देशकान्ताराद् इहागताः स्थ // यक्षा ऊचुः / भद्र किंकृतो ऽयम् अस्य राज्ञः प्रभावो यद् अस्यामानुषा न प्रसहन्ते विषयनिवासिनं जनं हिंसितुम् इति / गोपालक उवाच / स्वमाहात्म्याधिगतः प्रभावो ऽयम् अस्माकं महाराजस्य / पश्यत ब्राह्मणाः /
SK
मैत्री तस्य बलं ध्वजाग्रशबलं त्व् आचारमात्रं बलं नासौ वेत्ति रुषं न चाह परुषं सम्यक् च गां रक्षति / धर्मस् तस्य नयो न नीतिनिकृतिः पूजार्थम् अर्थः सताम् इत्य् आश्चर्यमयो ऽपि दुर्जनधनं गर्वं च नालम्बते // AJम्_८.१४ //
SK
एवमादिगुणशतसमुदितो ऽयम् अस्माकं स्वामी / तेनास्य न प्रसहन्ते विषयनिवासिनं जनम् उपद्रवाः / अपि च कियद् अहं वः शक्ष्यामि वक्तुम् / नृपतिगुणश्रवणकुतूहलैस् तु भवद्भिर् नगरम् एव युक्तं प्रवेष्टुं स्यात् / तत्र हि भवन्तः स्वधर्मानुरागाद् व्यवस्थितार्यमर्यादं नित्यक्षेमसुभिक्षत्वात् प्रमुदितसमृद्धम् अनुद्धतोदात्तवेषम् अभ्यागतातिथिजनविशेषवत्सलं नृपतिगुणाक्षिप्तहृदयं तत्कीर्त्याश्रयाः स्तुतीर् मङ्गलम् इव स्वस्त्ययनम् इव च प्रहर्षाद् अभ्यस्यन्तं जनं दृष्ट्वा राज्ञो गुणविस्तरम् अनुमास्यन्ते / सत्यां च गुणबहुमानोद्भावनायां तद्दिदृक्षायाम् अवश्यं तद्गुणप्रत्यक्षिणो भविष्यथेति // अथ ते यक्षाः स्वप्रभावप्रतीघातात् तस्मिन् राजनि सा मर्षहृदया भावप्रयुक्तयापि युक्तया तया तथ्यया गुणकथया नैव मार्दवम् उपजग्मुः /
SK
प्रायेण खलु मन्दानाम् अमर्षज्वलितं मनः / यस्मिन् वस्तुनि तत्कीर्त्या तद् विशेषेण दह्यते // AJम्_८.१५ //
SK
प्रदानप्रियतां तु समभिवीक्ष्य राज्ञस् ते यक्षास् तदपकारचिकीर्षवः समभिगम्य राजानं संदर्शनकाले भोजनम् अयाचन्त // अथ स राजा प्रमुदितमनास् तदधिकृतान् पुरुषान् समादिदेश / क्षिप्रम् अभिरुचितं भोजनं ब्राह्मणेभ्यो दीयताम् इति // अथ ते यक्षाः समुपहृतं राजार्हम् अपि भोजनं हरिततृणम् इव व्याघ्रा नैव प्रत्यगृह्णन् नैवंविधं भोजनं वयम् अश्नीम इति / तच् छ्रुत्वा स राजा समभिगम्यैनान् अब्रवीत् / अथ कीदृशं भोजनं युष्माकम् उपशेते / यावत् तादृशम् अन्विष्यताम् इति // यक्षा ऊचुः /
SK
अत्यक्तोष्माणि मांसानि नराणां रुधिराणि च / इत्य् अन्नपानं पद्माक्ष यक्षानाम् अक्षतव्रत // AJम्_८.१६ //
SK
इत्य् उक्त्वा दंष्ट्राकरालवदनानि दीप्तपिङ्गलकेकररौद्रनयनानि चिपिटविरूपघोणानि ज्वलदनलकपिलकेशश्मश्रूणि सजलजलधरान्धकाराकाराणि विकृतभीषणानि स्वान्य् एव वपूंषि प्रत्यपद्यन्त / समवेक्ष्य चैनान् स राजा पिशाचाः खल्व् इमे न मानुषास् तेनास्मदीयम् अन्नपानं नाभिलषन्तीति निश्चयम् उपजगाम //
SK
अथ तस्य नरेन्द्रस्य प्रकृत्या करुणात्मनः / भूयसी करुणा तेषु समभूच् छुद्धचेतसः // AJम्_८.१७ //
SK
करुणैकतानहृदयश् च तान् यक्षान् अनुशोचन् नियतम् ईदृशम् अर्थं चिन्तयाम् आस /
SK
दयावतस् तावद् इदम् अन्नपानं सुदुर्लभम् / प्रत्यहं च तद् अन्वेष्यं किं नु दुःखम् अतः परम् // AJम्_८.१८ //
SK
निर्दयस्याप्य् अशक्तस्य विघातैकरसः श्रमः / शक्तस्याप्य् अहिताभ्यासात् किं स्वित् कष्टतरं ततः // AJम्_८.१९ //
SK
एवंविधाहारपरायणानां कारुण्यशून्याशिवमानसानाम् / प्रेत्येह चैषां दहतां स्वम् अर्थं दुःखानि यास्यन्ति कदा नु नाशम् // AJम्_८.२० //
SK
तत् कथम् इदानीम् अहम् एषाम् आहारसंपादनाद् एकाहम् अपि तावत् परहिंसाप्रणयविघातं कुर्याम् /
SK
न हि स्मराम्य् अर्थितयागतानाम् आशाविपर्यासहतप्रभाणि / हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम् // AJम्_८.२१ //
SK
भवतु / दृष्टम् /
SK
स्वतः शरीरात् स्थिरपीवराणि दास्यामि मांसानि सशोणितानि / अतो ऽन्यथा को हि मम क्रमः स्याद् इत्य् आगतेष्व् अर्थिषु युक्तरूपः // AJम्_८.२२ //
SK
स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि / प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम् // AJम्_८.२३ //
SK
जीवतो ऽपि च कुतो ऽहम् अन्यस्मान् मांसम् आदास्ये माम् अभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वाद् अधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति / तद् इदम् अत्र प्राप्तकालम् /
SK
दुष्टव्रणस्येव सदातुरस्य कडेवरस्यास्य रुजाकरस्य / करोमि कार्यातिशयोपयोगाद् अत्यर्थरम्यं प्रतिकारखेदम् // AJम्_८.२४ //
SK
इति विनिश्चित्य स राजा प्रहर्षोद्गमात् स्फीतीकृतनयनवदनशोभः स्वशरीरम् उपदर्शयंस् तान् यक्षान् उवाच /
SK
अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थम् एव / यद्य् आतिथेयत्वम् उपेयुर् अद्य महोदयः सो ऽभ्युदयो मम स्यात् // AJम्_८.२५ //
SK
अथ ते यक्षा जानन्तो ऽपि राज्ञस् तस्याध्याशयम् अत्यद्भुतत्वाद् अश्रद्दधाना राजानम् ऊचुः /
SK
अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते / ज्ञातुम् अर्हति दातैव प्राप्तकालम् अतः परम् // AJम्_८.२६ //
SK
अथ स राजा ऽनुमतम् इदम् एषाम् इति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्ताम् इति समादिदेश // अथ तस्य राज्ञो ऽमात्याः स्वमांसशोणितप्रदानव्यवसायम् अवेत्य ससंभ्रमामर्षव्याकुलहृदया व्यक्तम् ईदृशं कं चिद् अर्थं स्नेहवशाद् ऊचुः / नार्हति देवः प्रदानहर्षातिरभसाद् अनुरक्तानां प्रजानां हिताहितक्रमम् अनवेक्षितुम् / न चैतद् अविदितं देवस्य यथा
SK
यद् यत् प्रजानाम् अहितोदयाय तत् तत् प्रियं मानद राक्षसानाम् / परोपरोधार्जितवृत्तितुष्टिर् एवंस्वभावानघ जातिर् एषाम् // AJम्_८.२७ //
SK
सुखेष्व् असक्तश् च बिभर्षि देव राज्यश्रियं लोकहितार्थम् एव / स्वमांसदानव्यवसायम् अस्मात् स्वनिश्चयोन्मार्गम् इमं विमुञ्च // AJम्_८.२८ //
SK
असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरवीर लोकम् / अनर्थपाण्डित्यहतास् तथा हि नयेन वाञ्छन्त्य् अनयं प्रजानाम् // AJम्_८.२९ //
SK
मेदोवसाद्यैस् त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर् व्रजन्ति / सत्कारपूतं भवदीयम् अन्नं संपन्नम् एषां किल नैव रुच्यम् // AJम्_८.३० //
SK
कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः स्वकार्यानुरागस् त्व् अयम् अस्मान् एवम् उपचारपथाद् भ्रंशयति / पञ्चानाम् अमीषाम् अर्थे सकलं जगद् अनाथीकर्तव्यम् इति को ऽयं धर्ममार्गो देवस्य / अपि च / किंकृतेयम् अस्मास्व् एवं निष्प्रणयता केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यद् अपरिक्षीणेष्व् एवामीषु स्वानि देवो दातुम् इच्छतीति // अथ स राजा तान् अमात्यान् उवाच /
SK
संविद्यमानं नास्तीति ब्रूयाद् अस्मद्विधः कथम् / न ददामीत्य् असभ्यं वा विस्पष्टम् अपि याचितः // AJम्_८.३१ //
SK
धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन / अस्मद्गताचारपथानुगानां भवेद् अवस्था मम का प्रजानाम् // AJम्_८.३२ //
SK
यतः प्रजा एव समीक्षमाणः सारं शरीराद् अहम् उद्धरिष्ये / कश् च प्रभावो जगदर्थसाधुर् मात्सर्यहार्याल्पहृदो मम स्यात् // AJम्_८.३३ //
SK
यद् अपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविश्रम्भगर्भम् अभिधीयते भवद्भिः किंकृतेयम् अस्मास्व् एवं निष्प्रणयता यद् अपरिक्षीणेष्व् एव नो मांसशोणितेषु स्वानि देवो दातुम् इच्छतीत्य् अत्र वो ऽनुनेष्यामि / न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विश्रम्भविरहात् परिशङ्कागहनदुरवगाहो वा / किं तु
SK
धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयम् आगते वा / विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु // AJम्_८.३४ //
SK
विवर्धितेष्व् अर्थिजनार्थम् एव संविद्यमानेषु च मे बृहत्सु / गात्रेषु मांसोपचयोन्नतेषु युष्मास्व् अपि स्यात् प्रणयो विरूपः // AJम्_८.३५ //
SK
असंस्तुतानाम् अपि च क्षमेय पीडां कथं कैव कथा भवत्सु / स्वान्य् एव मांसानि यतो ऽस्मि दित्सुर् मां चैव याचन्त इमे न युष्मान् // AJम्_८.३६ //
SK
तद् अलम् अस्मदतिस्नेहाद् धर्मविघ्ननिःसाध्वसतया / अनुचितः खल्व् अयम् अत्रभवताम् अस्मदर्थेषु समुदाचारः / मीमांसितव्यम् अपि च तावद् एतत् स्यात् / स्वार्थम् अन्नादि दित्सन्तं कथं स्यात् प्रतिषेधयन् / साधुवृत्तिर् असाधुर् वा प्राग् एवैवंविधं विधिम् // AJम्_८.३७ //
SK
तद् अलम् अनेनात्र वो निर्बन्धेन / न्यायोपपरीक्षया क्रियताम् अस्मत्साचिव्यसदृशम् उन्मार्गावरणं मनसः / अनुमोदनानुगुणवचसः खल्व् अत्रभवन्तः शोभेरन् नैवम् अधीरनयनाः / कुतः /
SK
नैकोपयोगस्य धनस्य तावन् न प्रत्यहं याचनका भवन्ति / एवंविधस् त्व् अर्थिजनो ऽधिगन्तुं न दैवताराधनयापि शक्यः // AJम्_८.३८ //
SK
एवंविधे चार्थिजने ऽभ्युपेते देहे विनाशिन्य् असुखास्पदे च / विमर्शमार्गो ऽप्य् अनुदात्तता स्यान् मात्सर्यदैन्यं तु परा तमिस्रा // AJम्_८.३९ //
SK
तन् न मां वारयितुम् अर्हन्त्य् अत्रभवन्त इत्य् अनुनीय स राजा स्वां पर्षदम् आहूय वैद्यान् पञ्च सिराः स्वशरीरे मोक्षयित्वा तान् यक्षान् उवाच /
SK
धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम / भवन्तः कर्तुम् अर्हन्ति देहस्यास्य प्रतिग्रहात् // AJम्_८.४० //
SK
ते तथेत्य् उक्त्वाञ्जलिपुटैर् एव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुम् उपचक्रमिरे /
SK
स पीयमानक्षतजः क्षितीशः क्षपाचरैर् हेमवपुश् चकाशे / संध्यानुरक्तैर् जलभारनम्रैः पयोधरैर् मेरुर् इवोपगूढः // AJम्_८.४१ //
SK
प्रीतिप्रकर्षाद् धृतिसंपदा च वपुर्गुणाद् एव च तस्य राज्ञः / मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिये न क्षतजं क्षरद् वा // AJम्_८.४२ //
SK
विनीततर्षक्लमास् तु ते यक्षाः पर्याप्तम् अनेनेति राजानम् ऊचुः //
SK
अनेकदुःखायतने शरीरे सदा कृतघ्ने ऽपि नराधिपस्य / गते ऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव // AJम्_८.४३ //
SK
अथ स राजा प्रहर्षप्रबोधाद् अधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्त्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशम् आदाय स्वमांसानि च्छित्त्वा च्छित्त्वा तेभ्यः प्रायच्छत् /
SK
ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः / न प्रसेहे मनस् तस्य च्छेददुःखं विगाहितुम् // AJम्_८.४४ //
SK
आकृष्यमाणं शितशस्त्रपातैः प्रीत्या पुनर् दूरम् अपास्यमानम् / खेदालसत्वाद् इव तस्य दुःखं मनःसमुत्सर्पणमन्दम् आसीत् // AJम्_८.४५ //
SK
स प्रीतिमान् एव निशाचरांस् तान् संतर्पयन् स्वैः पिशितैस् तथास / क्रूराणि तेषाम् अपि मानसानि येनासुर् आविष्कृतमार्दवानि // AJम्_८.४६ //
SK
धर्मप्रियत्वात् करुणावशाद् वा त्यजन् परार्थे प्रियम् आत्मदेहम् / द्वेषाग्निदग्धान्य् अपि मानसानि प्रसादसावर्ण्यनवानि कुर्यात् // AJम्_८.४७ //
SK
अथ ते यक्षास् तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादम् अविकम्प्यमानं मांसच्छेदवेदनाभिर् अभिवीक्ष्य परं प्रसादं विस्मयं चोपजग्मुः /
SK
आश्चर्यम् अद्भुतम् अहो बत किं स्विद् एतत् सत्यं न वेति समुदीर्णविचारहर्षाः / राजन्य् अमर्षम् उपमृद्य मनःप्रसादं तत्संस्तुतिप्रणतिभिः प्रथयां बभूवुः // AJम्_८.४८ //
SK
अलम् अलं देव / विरम्यतां स्वशरीरपीडाप्रसङ्गात् / संतर्पिताः स्मस् तवानयात्यद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससंभ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानम् उदीक्षमाणाः पुनर् ऊचुः /
SK
स्थाने भक्तिवशेन गच्छति जनस् त्वत्कीर्तिवाचालतां स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी / व्यक्तं शक्रसनाथताम् अपि गता त्वद्वीर्यगुप्ताम् इमां द्यौः पश्यत्य् उदितस्पृहा वसुमतीं नो चेद् अहो वञ्च्यते // AJम्_८.४९ //
SK
किं बहुना / एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः / युष्मदायासाभ्यनुमोदनात् तु वयम् अत्र दग्धाः / भवद्विधजनापाश्रयाच् छक्य इत्थंगतैर् अप्य् आत्मा समुद्धर्तुम् इति स्वदुष्कृतप्रतीकाराशया पृच्छामः /
SK
अनादृत्य सुखप्राप्ताम् अनुरक्तां नृपश्रियम् / किं तद् अत्यद्भुतं स्थानं पथानेन यद् इच्छसि // AJम्_८.५० //
SK
सर्वक्षितिपतित्वं नु धनेशत्वम् अथेन्द्रताम् / ब्रह्मभूयं विमोक्षं वा तपसानेन काङ्क्षसि // AJम्_८.५१ //
SK
अस्य हि व्यवसायस्य न दूरतरम् ईप्सितम् / श्रोतव्यं चेत् तद् अस्माभिर् वक्तुम् अर्हति नो भवान् // AJम्_८.५२ //
SK
राजोवाच / श्रूयतां यदर्थो ऽयं ममाभ्युद्यमः /
SK
प्रयत्नलभ्या यद् अयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये / भवाश्रया संपद् अतो न कामये सुरेन्द्रलक्ष्मीम् अपि किं बतेतराम् // AJम्_८.५३ //
SK
न चात्मदुःखक्षयमात्रकेण मे प्रयाति संतोषपथेन मानसम् / अमून् अनाथान् अभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान् // AJम्_८.५४ //
SK
अनेन पुण्येन तु सर्वदर्शिताम् अवाप्य निर्जित्य च दोषविद्विषः / जरारुजामृत्युमहोर्मिसंकुलात् समुद्धरेयं भवसागराज् जगत् // AJम्_८.५५ //
SK
अथ ते यक्षाः प्रसादसंहृषिततनूरुहाः प्रणम्य राजानम् ऊचुः / उपपन्नरूपम् एवंविधस्य व्यवसायातिशयस्येदं कर्म / तन् न दूरे भवद्विधानाम् अभिप्रायसंपद् इति निश्चितमनसो विज्ञापयाम् आसुः /
SK
कामं लोकहितायैव तव सर्वो ऽयम् उद्यमः / स्वहितात्यादरस् त्व् एष स्मर्तुम् अर्हसि नस् तदा // AJम्_८.५६ //
SK
अज्ञानाच् च यद् अस्माभिर् एवम् आयासितो भवान् / स्वम् अप्य् अर्थम् अपश्यद्भिर् मृष्यताम् एव तच् च नः // AJम्_८.५७ //
SK
आज्ञाम् अपि च तावन् नस् त्वम् अनुग्रहपद्धतिम् / सचिवानाम् इव स्वेषां विश्रब्धं दातुम् अर्हसि // AJम्_८.५८ //
SK
अथ स राजा प्रसादमृदूकृतहृदयान् मत्वैनान् उवाच / उपकारः खल्व् अयं नायासो ममेत्य् अलम् अत्राक्षमाशङ्कया / अपि च /
SK
एवंविधे धर्मपथे सहायान् किं विस्मरिष्याम्य् अधिगम्य बोधिम् / युष्माकम् एव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम् // AJम्_८.५९ //
SK
अस्मत्प्रियं चाभिसमीक्षमाणैर् हिंसा भवद्भिर् विषवद् विवर्ज्या / लोभः परद्रव्यपरिग्रहेषु वाग् गर्हिता मद्यमयश् च पाप्मा // AJम्_८.६० //
SK
अथ ते यक्षास् तथेत्य् अस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे / स्वमांसशोणितप्रदाननिश्चयसमकालम् एव तु तस्य महासत्त्वस्य
SK
विकम्पमाना बहुधा वसुंधरा विघूर्णयाम् आस सुवर्णपर्वतम् / प्रसस्वनुर् दुन्दुभयश् च तद्गता द्रुमाश् च पुष्पं ससृजुर् विकम्पनात् // AJम्_८.६१ //
SK
तद् अभ्रवद् व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत् क्व चित् / विसृत्य माला ग्रथितेव कुत्र चित् समं समन्तान् नृपतेर् व्यकीर्यत // AJम्_८.६२ //
SK
निवारयिष्यन्न् इव मेदिनीपतिं समुद्धतावेगतया महार्णवः / जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर् व्यरोचत // AJम्_८.६३ //
SK
किम् एतद् इत्य् आगतसंभ्रमस् ततः सुराधिपस् तस्य विचिन्त्य कारणम् / नृपात्ययाशङ्किततूर्णम् आययौ नृपालयं शोकभयाकुलाकुलम् // AJम्_८.६४ //
SK
तथागतस्यापि तु तस्य भूपतेर् मुखप्रसादात् सविशेषविस्मयः / उपेत्य तत्कर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे // AJम्_८.६५ //
SK
अहो प्रकर्षो बत सज्जनस्थितेर् अहो गुणाभ्यासविधेर् उदात्तता / अहो परानुग्रहपेशला मतिस् त्वदर्पणान् नाथवती बत क्षितिः // AJम्_८.६६ //
SK
इत्य् अभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यःक्षतरोहणसमर्थैर् दिव्यमानुष्यकैर् औषधविशेषैर् निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस् तेन राज्ञा स्वम् आवासं प्रतिजगाम //
SK
तद् एवं परदुःखातुरा नात्मसुखम् अवेक्षन्ते महाकारुणिका इति को नाम धनमात्रके ऽप्य् अवेक्षां नोत्स्रष्टुम् अर्हतीति दायकजनसमुत्तेजनायां वाच्यं करुणावर्णे ऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च / यच् चोक्तं भगवता बहुकराः खल्व् एते पञ्चका भिक्षव इति स्याद् एतद् अभिसंधाय / तेन हि समयेन ते पञ्च यक्षा बभूवुः / तेषां भगवता यथाप्रतिज्ञातम् एव प्रथमं धर्मामृतसंविभागः कृत इति //
SK
मैत्रीबलजातकम् अष्टमम् //
SK
९. Vइश्वंतरजातकम्
SK
न बोधिसत्त्वचरितं सुखम् अनुमोदितुम् अप्य् अल्पसत्त्वैः प्राग् एवाचरितुम् //
SK
तद्यथानुश्रूयते / सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर् वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योर् उपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिर् अनुद्विग्नसुखोचिताभिर् अनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव /
SK
गुणोदयैर् यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः / अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम् // AJम्_९.१ //
SK
तपःसु विद्यासु कलासु चैव कृतश्रमा यस्य सदो ऽभ्युपेताः / विशेषयुक्तं बहुमानम् ईयुः पूजाभिर् आविष्क्रियमाणसाराः // AJम्_९.२ //
SK
तस्य राज्ञो राज्यप्रतिपत्त्यनन्तरः प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव / अयम् एव स भगवांस् छाक्यमुनिस् तेन समयेन /
SK
युवापि वृद्धोपशमाभिरामस् तेजस्व्य् अपि क्षान्तिसुखस्वभावः / विद्वान् अपि ज्ञानमदानभिज्ञः श्रिया समृद्धो ऽप्य् अवलेपशून्यः // AJम्_९.३ //
SK
दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः / बभूव नैवान्ययशोलवानां प्रसर्तुम् उत्साह इवावकाशः // AJम्_९.४ //
SK
अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रभुतावलेपम् / दानेषुवर्षी करुणोरुचापस् तैर् युद्धसंरम्भम् इवाजगाम // AJम्_९.५ //
SK
स प्रत्यहम् अभिगतम् अर्थिजनम् अभिलषिताधिकैर् अक्लिष्टैर् अर्थविसर्गैः प्रियवचनोपचारमनोहरैर् अतीव प्रह्लादयाम् आस / पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातम् औपवाह्यं द्विरदवरम् अभिरुह्य समन्ततो नगरस्याभिनिविष्टान्य् अर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म / तथा च प्रीतिविशेषम् अधिजगाम /
SK
न हि तां कुरुते प्रीतिं विभूतिर् भवनाश्रिता / संक्राम्यमाणार्थिजने सैव दानप्रियस्य याम् // AJम्_९.६ //
SK
अथ कदा चित् तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैर् अर्थिभिः समन्ततो विकीर्यमाणम् उपलभ्यान्यतमो भूम्यनन्तरस् तस्य राजा शक्यो ऽयम् अतिसंधातुं दानानुरागवशगत्वाद् इति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस् तत्र प्रणिदधे // अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदाद् अधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त / स तं विनिगृह्य द्विरदवरम् उपचारपुरःसरम् अभिगमनप्रयोजनम् एनान् पर्यपृच्छद् आज्ञाप्यतां केनार्थ इति // ब्राह्मणा ऊचुः /
SK
अमुष्य तव नागस्य गतिलीलाविलम्बिनः / गुणैर् अर्थित्वम् आयाता दानशौर्याच् च ते वयम् // AJम्_९.७ //
SK
कैलासशिखराभस्य प्रदानाद् अस्य दन्तिनः / कुरुष्व तावल् लोकानां विस्मयैकरसं मनः // AJम्_९.८ //
SK
इत्य् उक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश् चिन्ताम् आपेदे / चिरस्य खलूदारप्रणयसुमुखम् अर्थिजनं पश्यामि / कः पुनर् अर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम् / व्यक्तम् अयं लोभेर्ष्यादोषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः /
SK
आशाविघातदीनत्वं तन् मा भूद् अस्य भूपतेः / अनादृत्य यशोधर्मौ यो ऽस्मद्धित इवोद्यतः // AJम्_९.९ //
SK
इति विनिश्चित्य स महात्मा त्वरितम् अवतीर्य द्विरदवरात् प्रतिगृह्यताम् इति समुद्यतकाञ्चनभृङ्गारस् तेषां पुरतो ऽवतस्थे //
SK
ततः स विद्वान् अपि राजशास्त्रम् अर्थानुवृत्त्या गतधर्ममार्गम् / धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे // AJम्_९.१० //
SK
तं हेमजालरुचिराभरणं गजेन्द्रं विद्युत्पिनद्धम् इव शारदम् अभ्रराशिम् / दत्त्वा परां मुदम् अवाप नरेन्द्रसूनुः संचुक्षुभे तु नगरं नयपक्षपातात् // AJम्_९.११ //
SK
अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश् च कोलाहलं समुपजनयन्तः संजयं राजानम् अभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणम् ऊचुः / किम् इयं देव राज्यश्रीर् विलुप्यमानैवम् अप्य् उपेक्ष्यते / नार्हति देवः स्वराज्योपप्लवम् एवम् अभिवर्धमानं मर्षयितुम् / किम् एतद् इति च सावेगम् उक्ता राज्ञा पुनर् एनम् ऊचुः / कस्माद् देवो न जानीते /
SK
निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः / मदावलेपं परवारणानाम् आयासदुःखेन विना प्रमार्ष्टि // AJम्_९.१२ //
SK
यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस् ते / विश्वंतरेणैष गजः स दत्तो रूपी जयस् ते ह्रियते ऽन्यदेशम् // AJम्_९.१३ //
SK
गावः सुवर्णं वसनानि भोज्यम् इति द्विजेभ्यो नृप देयरूपम् / यस्मिञ् जयश्रीर् नियता द्विपेन्द्रे देयः स नामेत्य् अतिदानशौर्यम् // AJम्_९.१४ //
SK
नयोत्पथेनैनम् इति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः / नोपेक्षणं देव तवात्र युक्तं पुरायम् आनन्दयति द्विषस् ते // AJम्_९.१५ //
SK
तच् छ्रुत्वा स राजा पुत्रप्रियत्वात् किं चित् तान् एव प्रत्य् अप्रीतमनाः कार्यानुरोधात् सावेगवद् एवम् इत्य् उक्त्वा समनुनेष्यञ् छिबीन् उवाच / जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य / दत्तं त्व् अनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति / अपि तु तथाहम् एनं करिष्ये यथा दाने मात्रां ज्ञास्यति / तद् अलम् अत्र वः संरम्भेणेति // शिबय ऊचुः / न खलु महाराज परिभाषणामात्रसाध्यो ऽस्मिन्न् अर्थे विश्वंतर इति // संजय उवाच / अथ किम् अन्यद् अत्र मया शक्यं कर्तुम् /
SK
दोषप्रवृत्तेर् विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते / बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य // AJम्_९.१६ //
SK
तद् अलम् अत्र वः संरम्भेण / निवारयिष्याम्य् अहम् अतो विश्वंतरम् इति // अथ शिबयः समुदीर्णमन्यवो राजानम् ऊचुः /
SK
को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र / धर्मात्मकस् त्व् एष न राज्यभारक्षोभस्य सोढा करुणात्मकत्वात् // AJम्_९.१७ //
SK
सिंहासनं तेजसि लब्धशब्दास् त्रिवर्गसेवानिपुणा भजन्ते / धर्मातिरागान् नयनिर्व्यपेक्षस् तपोवनाध्यासनयोग्य एषः // AJम्_९.१८ //
SK
फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास् तदपाश्रितेषु / सह्यास् त एषां तु तथापि दृष्टा मूलोपरोधान् न तु पार्थिवानाम् // AJम्_९.१९ //
SK
किम् अत्र वा बह्व् अभिधाय निश्चयस् त्व् अयं शिबीनां त्वदभूत्यमर्षिणाम् / प्रयातु वङ्कं तपसो ऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम् // AJम्_९.२० //
SK
अथ स राजा स्नेहप्रणयविश्रम्भवशाद् अनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरम् इत्य् अभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासम् अभिनिश्वस्य शिबीन् उवाच / यद्य् एष भवतां निर्बन्धस् तद् एकम् अपि तावद् अहोरात्रम् अस्य मृष्यताम् / प्रभातायां रजन्याम् अभिप्रेतं वो ऽनुष्ठाता विश्वंतर इति / एवम् अस्त्व् इति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारम् उवाच / गच्छेमं वृत्तान्तं विश्वंतराय निवेदयेति / स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वंतरं स्वभवनगतम् उपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोर् अस्य न्यपतत् / अपि कुशलं राजकुलायेति च ससंभ्रमं विश्वंतरेणानुयुक्तः समवसीदन्न् अविशदपदाक्षरम् एनम् उवाच / कुशलं राजकुलायेति / अथ कस्माद् एवम् अधीरो ऽसीति च पुनर् अनुयुक्तो विश्वंतरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैर् इत्य् उवाच /
SK
सान्त्वगर्भाम् अनादृत्य नृपाज्ञाम् अप्य् अदक्षिणाः / राष्ट्रात् प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप // AJम्_९.२१ //
SK
विश्वंतर उवाच / मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः /
SK
रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम् / कुत्र मे शिबयः क्रुद्धा यन् न पश्यामि दुष्कृतम् // AJम्_९.२२ //
SK
क्षत्तोवाच / अत्युदारतायाम् /
SK
अलोभशुभ्रा त्वयि तुष्टिर् आसील् लोभाकुला याचकमानसेषु / दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस् त्व् अहरच् छिबीनाम् // AJम्_९.२३ //
SK
इत्य् अतीताः स्वमर्यादां रभसाः शिबयस् त्वयि / येन प्रव्राजिता यान्ति पथा तेन किल व्रज // AJम्_९.२४ //
SK
अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वाम् उद्भावयन्न् उवाच / चपलस्वभावाः खलु शिबयो ऽनभिज्ञा इव चास्मत्स्वभावस्य /
SK
द्रव्येषु बाह्येषु क एव वादो दद्याम् अहं स्वे नयने शिरो वा / इमं हि लोकार्थम् अहं बिभर्मि समुच्छ्रयं किं बत वस्तु बाह्यम् // AJम्_९.२५ //
SK
यस्य स्वगात्रैर् अपि याचकानां वचांसि संपूजयितुं मनीषा / भयान् न दद्यात् स इति प्रतर्कः प्रकाशना बालिशचापलस्य // AJम्_९.२६ //
SK
अपि च / शिबयस् त्वयैवं वाच्या मद्वचनेन /
SK
नैवाहम् एतद् यशसे ददामि न भूतिम् इच्छञ् छिबयो न लोभात् / नीचैर् अनासेवित एष पन्था दातव्यम् इत्य् एव ततो ददामि // २६ऽ //
SK
कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा / न त्व् एवाहं न दास्यामि गच्छाम्य् एष तपोवनम् // AJम्_९.२७ //
SK
अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीम् उवाच / श्रुतो ऽत्रभवत्या शिबीनां निश्चयः // मद्र्य् उवाच / श्रुतो देव // विश्वंतर उवाच /
SK
यद् यद् अस्ति धनं किं चिद् अस्मत्तो ऽधिगतं त्वया / निधेहि तद् अनिन्द्याङ्गि यच् च ते पैतृकं धनम् // AJम्_९.२८ //
SK
मद्र्य् उवाच / कुत्रैतद् देव निदधामीति // विश्वंतर उवाच /
SK
शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम् / तथा हि निहितं द्रव्यम् अहार्यम् अनुगामि च // AJम्_९.२९ //
SK
प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम् / धर्म एवाप्रमादं च शोकं मद्विरहात् तु मा // AJम्_९.३० //
SK
तच् छ्रुत्वा मद्री संतप्तहृदयापि भर्तुर् अधृतिपरिहारार्थम् अनादृत्य शोकदैन्यम् इत्य् उवाच /
SK
नैष धर्मो महाराज यद् याया वनम् एककः / तेनाहम् अपि यास्यामि येन क्षत्रिय यास्यसि // AJम्_९.३१ //
SK
त्वदङ्कपरिवर्तिन्या मृत्युर् उत्सव एव मे / मृत्योर् दुःखतरं तत् स्याज् जीवेयं यत् त्वया विना // AJम्_९.३२ //
SK
नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति / तथा हि /
SK
निर्दुर्जनान्य् अनुपभुक्तसरित्तरूणि नानाविहंगविरुतानि मृगाकुलानि / वैडूर्यकुट्टिममनोहरशाद्वलानि क्रीडावनाधिकसुखानि तपोवनानि // AJम्_९.३३ //
SK
अपि च देव /
SK
अलंक्र्ताव् इमौ पश्यन् कुमारौ मालभारिणौ / क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि // AJम्_९.३४ //
SK
ऋतुप्रयत्नरचिता वनशोभा नवा नवा / वने त्वां रमयिष्यन्ति सरित्कुञ्जाश् च सोदकाः // AJम्_९.३५ //
SK
चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम् / मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम् // AJम्_९.३६ //
SK
माधुर्यानवगीतं च गीतं मधुपयोषिताम् / वनेषु कृतसंगीतं हर्षयिष्यन्ति ते मनः // AJम्_९.३७ //
SK
आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि / संबाहमानो वनमारुतश् च लब्धाधिवासः कुसुमद्रुमेभ्यः // AJम्_९.३८ //
SK
चलोपलप्रस्खलितोदकानां कला विरावाश् च सरिद्वधूनाम् / विभूषणानाम् इव संनिनादाः प्रमोदयिष्यन्ति वने मनस् ते // AJम्_९.३९ //
SK
इत्य् अनुनीयमानः स दयितया वनप्रयाणपर्युत्सुकमतिर् अर्थिजनावेक्षया महाप्रदानं दातुम् उपचक्रमे // अथेमां विश्वंतरप्रव्राजनप्रवृत्तिम् उपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत् / शोकदुःखावेगान् मूर्छापरिगत इव चार्थिजनो मत्तोन्मत्त इव च तत् तद् बहुविधं विललाप/
SK
छायातरोः स्वादुफलप्रदस्य च्छेदार्थम् आगूर्णपरश्वधानाम् / धात्री न लज्जां यद् उपैति भूमिर् व्यक्तं तद् अस्या हतचेतनत्वम् // AJम्_९.४० //
SK
शीतामलस्वादुजलं निपानं बिभित्सताम् अस्ति न चेन् निषेद्धा / व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा // AJम्_९.४१ //
SK
अधर्मो बत जागर्ति धर्मः सुप्तो ऽथवा मृतः / यत्र विश्वंतरो राजा स्वस्माद् राज्यान् निरस्यते // AJम्_९.४२ //
SK
को ऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु / अस्मास्व् अनपराधेषु वधाभ्युद्यमनिष्ठुरः // AJम्_९.४३ //
SK
अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वम् अर्थिभ्यो यथार्हम् अतिसृज्य शोकदुःखाभिभूतधैर्ययोर् मातापित्रोश् चरणान् अभिप्रणम्य सपुत्रदारः स्यन्दनवरम् अभिरुह्य पुण्याहघोषणयेव महतो जनकायस्याक्रन्दितशब्देन पुरवरान् निरगच्छत् / अनुरागवशगम् अनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद् विनिवर्त्य स्वयम् एव प्रग्रहान् परिगृह्य येन वङ्कः पर्वतस् तेन प्रायात् / व्यतीत्य चाविक्लवमतिर् उद्यानवनरुचिरमालिनं पुरवरोपचारम् अनुपूर्वेण प्रविरलच्छायाद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधम् असंबाधदिगालोकं चीरीविरावोन्नादितम् अरण्यं प्रत्यपद्यत // अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस् तुरगान् अयाचन्त //
SK
स वर्तमानो ऽध्वनि नैकयोजने सहायहीनो ऽपि कलत्रवान् अपि / प्रदानहर्षाद् अनपेक्षितायतिर् ददौ द्विजेभ्यश् चतुरस् तुरंगमान् // AJम्_९.४४ //
SK
अथ बोधिसत्त्वस्य स्वयम् एव रथधुर्यताम् उपगन्तुकामस्य गाढतरं परिकरम् अभिसंयच्छमानस्य रोहितमृगरूपिणश् चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयम् एव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त / तांस् तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच /
SK
तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम् / यत्रैवम् अभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु // AJम्_९.४५ //
SK
मद्र्य् उवाच /
SK
तवैवाहम् इमं मन्ये प्रभावम् अतिमानुषम् / रूढो ऽपि हि गुणाभ्यासः सर्वत्र न समः सताम् // AJम्_९.४६ //
SK
तोयेषु ताराप्रतिबिम्बशोभा विशिष्यते यत् कुमुदप्रहासैः / कौतूहलाभिप्रसृता इवेन्दोर् हेतुत्वम् अत्राग्रकराः प्रयान्ति // AJम्_९.४७ //
SK
इति तेषाम् अन्योन्यानुकूल्यात् परस्परं प्रियं वदताम् अध्वानं गच्छताम् अथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरम् अयाचत /
SK
ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः / पूरयाम् आस विप्रस्य स रथेन मनोरथम् // AJम्_९.४८ //
SK
अथ बोधिसत्त्वः प्रीतमना रथाद् अवतार्य स्वजनं निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारम् अङ्केनादाय पद्भ्याम् एवाध्वानं प्रत्यपद्यत / अविमनस्कैव च मद्री कृष्णाजिनां कुमारीम् अङ्केन परिगृह्य पृष्ठतो ऽन्वगच्छद् एनम् //
SK
निमन्त्रयाम् आसुर् इव द्रुमास् तं हृद्यैः फलैर् आनमिताग्रशाखाः / पुण्यानुभावाद् अभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः // AJम्_९.४९ //
SK
हंसांससंक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि प्रादुर्बभूवुश् च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि // AJम्_९.५० //
SK
वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान् / परिश्रमक्लेशम् अमृष्यमाणा यक्षाश् च संचिक्षिपुर् अस्य मार्गम् // AJम्_९.५१ //
SK
इति बोधिसत्त्व उद्यानवनगत इव पादचारविनोदनसुखम् अनुभवन् मार्गपरिखेदरसम् अनास्वाद्य सपुत्रदारः प्राप्त एव तु वङ्कपर्वतम् अपश्यत् / तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहगविविधरुतनिनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरम् इव विमलनीलसलिलया सरिता कुसुमरजोऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयम् अभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां प्रविविक्तां पर्णशालाम् अध्यावसत् /
SK
तस्मिन् वने दयितया परिचर्यमाणः शृण्वन्न् अयत्नमधुरांश् च सुतप्रलापान् / उद्यानसंस्थ इव विस्मृतराज्यचिन्तः संवत्सरार्धम् अधिकं स तपश् चचार // AJम्_९.५२ //
SK
अथ कदा चिन् मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तम् आश्रमपदम् अशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर् ब्राह्मणः पत्न्या परिचारकानयनार्थं समर्पितदृढसंदेशस् तं देशम् अभिजगाम / अथ बोधिसत्त्वश् चिरस्यार्थिजनं दृष्ट्वाभिगतं मनःप्रहर्षात् संजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनम् आश्रमपदं कृतातिथिसत्कारम् आगमनप्रयोजनम् अपृच्छत् / अथ स ब्राह्मणो भार्यानुरागाद् उत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्ज ईदृशम् अर्थम् उवाच /
SK
आलोको भवति यतः समश् च मार्गो लोको ऽयं व्रजति ततो न दुर्गमेण / प्रायो ऽस्मिञ् जगति तु मत्सरान्धकारे नान्येन प्रणयपदानि मे वहन्ति // AJम्_९.५३ //
SK
प्रदानशौर्योर्जितया यशःश्रिया गतं च गन्तव्यम् अशेषतस् तव / अतो ऽस्मि याच्ञाश्रमम् अभ्युपेयिवान् प्रयच्छ तन् मे परिचारकौ सुतौ // AJम्_९.५४ //
SK
इत्य् उक्ते बोधिसत्त्वो महासत्त्वः
SK
दानप्रीतौ कृताभ्यासः प्रत्याख्यातुम् अशिक्षितः / ददामीत्य् अवदद् धृष्टं दयितौ तनयाव् अपि // AJम्_९.५५ //
SK
स्वस्त्य् अस्तु / तत् किम् इदानीम् आस्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहवेगेनावलम्ब्यमानहृदयो बोधिसत्त्व उवाच /
SK
दत्ताव् एतौ मया तुभ्यं किं तु मातानयोर् गता / वनं मूलफलस्यार्थे सायम् अद्यागमिष्यति // AJम्_९.५६ //
SK
तया दृष्टाव् उपाघ्रातौ मालिनाव् अभ्यलंकृतौ / इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम // AJम्_९.५७ //
SK
ब्राह्मण उवाच / अलम् अनेनात्रभवतो निर्बन्धेन /
SK
गौणम् एतद् धि नारीणां नाम वामा इति स्थितम् / स्याच् चैवं दानविघ्नस् ते तेन वासं न रोचये // AJम्_९.५८ //
SK
बोधिसत्त्व उवाच / अलं दानविघ्नाशङ्कया / सहधर्मचारिणी मम सा / यथा वात्रभवते रोचते / अपि च महाब्राह्मण
SK
सुकुमारतया बाल्यात् परिचर्यास्व् अकौशलात् / कीदृशीं नाम कुर्यातां दासप्रीतिम् इमौ तव // AJम्_९.५९ //
SK
दृष्ट्वा त्व् इत्थंगताव् एतौ शिबिराजः पितामहः / अद्धा दद्याद् यद् इष्टं ते धनं निष्क्रयम् एतयोः // AJम्_९.६० //
SK
यतस् तद्विषयं साधु त्वम् इमौ नेतुम् अर्हसि / एवं ह्य् अर्थेन महता धर्मेण च समेष्यसि // AJम्_९.६१ //
SK
ब्राह्मण उवाच / न शक्ष्याम्य् अहम् आशीविषदुरासदं विप्रियोपायनेन राजानम् अभिगन्तुम् /
SK
आच्छिन्द्यान् मद् इमौ राजा दण्डं वा प्रणयेन् मयि / यतो नेष्याम्य् अहम् इमौ ब्राह्मण्याः परिचारकौ // AJम्_९.६२ //
SK
अथ बोधिसत्त्वो यथेष्टम् इदानीम् इत्य् अपरिसमाप्तार्थम् उक्त्वा सानुनयम् अनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थम् अभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुम् आवर्जयाम् आस /
SK
तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः / पद्मपत्त्राभिताम्राभ्यां नेत्राभ्यां स्वयम् एव तु // AJम्_९.६३ //
SK
अथ स ब्राह्मणो लाभातिहर्षात् ससंभ्रमाकुलितमतिर् बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदम् आशीर्वचनम् उक्त्वा निर्गम्यताम् इत्य् आज्ञाकर्कशेन वचसा कुमाराव् आश्रमपदान् निष्क्रामयितुम् आरेभे // अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरम् अभिप्रणम्य बाष्पोपरुध्यमाननयनाव् ऊचतुः /
SK
अम्बा च तात निष्क्रान्ता त्वं च नौ दातुम् इच्छसि / यावत् ताम् अपि पश्येव ततो दास्यति नौ भवान् // AJम्_९.६४ //
SK
अथ स ब्राह्मणः पुरा मातानयोर् आगच्छत्य् अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापम् इवानयोर् हस्तान् आबध्य लतया संतर्जयन् विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष // अथ कृष्णाजिना कुमारी तत्पूर्वदुःखोपनिपातात् सस्वरं रुदती पितरम् उवाच /
SK
अयं मां ब्राह्मणस् तात लतया हन्ति निर्दयः / न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल // AJम्_९.६५ //
SK
यक्षो ऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम् / नीयमानौ पिशाचेन तात किं नाव् उपेक्षसे // AJम्_९.६६ //
SK
अथ जाली कुमारो मातरम् अनुशोचन्न् उवाच /
SK
नैवेदं मे तथा दुःखं यद् अयं हन्ति मां द्विजः / नापश्यम् अम्बां यत् त्व् अद्य तद् विदारयतीव माम् // AJम्_९.६७ //
SK
रोदिष्यति चिरं नूनम् अम्बा शून्ये तपोवने / पुत्रशोकेन कृपणा हतशावेव चातकी // AJम्_९.६८ //
SK
अस्मदर्थं समाहृत्य वनान् मूलफलम् बहु / भविष्यति कथं न्व् अम्बा दृष्ट्वा शून्यं तपोवनम् // AJम्_९.६९ //
SK
इमे नाव् अश्वकास् तात हस्तिका रथकाश् च ये / अतो ऽर्धं देयम् अम्बायै शोकं तेन विनेष्यति // AJम्_९.७० //
SK
वन्द्यास्मद्वचनाद् अम्बा वार्या शोकाच् च सर्वथा / दुर्लभं हि पुनस् तात तव तस्याश् च दर्शनम् // AJम्_९.७१ //
SK
एहि कृष्णे मरिष्यावः को न्व् अर्थो जीवितेन नौ / दत्ताव् आवां जनित्रास्मै ब्राह्मणाय धनैषिणे // AJम्_९.७२ //
SK
इत्य् उक्त्वा जग्मतुः // अथ बोधिसत्त्वस् तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिर् अपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना निर्दह्यमानहृदयो विषवेगमूर्छापरिगत इव समुपरुध्यमानचेतास् तत्रैव निषसाद / शीतानिलव्यजनप्रतिलब्धसंज्ञश् च निष्कूजम् इवाश्रमपदं तनयशून्यम् अभिवीक्ष्य बाष्पगद्गदसंनिरुध्यमानकण्ठ इत्य् आत्मगतम् उवाच /
SK
पुत्राभिधाने हृदये समक्षं प्रहरन् मम / नाशङ्कत कथं नाम धिग् अलज्जो बत द्विजः // AJम्_९.७३ //
SK
पत्तिकाव् अनुपानत्कौ सौकुमार्यात् क्लमासहौ / यास्यतः कथम् अध्वानं तस्य च प्रेष्यतां गतौ // AJम्_९.७४ //
SK
मार्गश्रमपरिम्लानौ को ऽद्य विश्रामयिष्यति / क्षुत्तर्षदुःकाभिहतौ याचिष्येते कम् एत्य वा // AJम्_९.७५ //
SK
मम तावद् इदं दुःखं धीरतां कर्तुम् इच्छतः / का न्व् अवस्था मम तयोः सुतयोः सुखवृद्धयोः // AJम्_९.७६ //
SK
अहो पुत्रवियोगाग्निर् निर्दहत्य् एव मे मनः / सतां तु धर्मं संस्मृत्य को ऽनुतापं करिष्यति // AJम्_९.७७ //
SK
अथ मद्री विप्रियोपनिपाताशंसिभिर् अनिष्टैर् निमित्तैर् उपजनितवैमनस्या मूलफलान्य् आदाय क्षिप्रतरम् आगन्तुकामापि व्याडमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदम् उपजगाम / उचितायां च प्रत्युद्गमनभूमाव् आक्रीडस्थानेषु च तनयाव् अपश्यन्ती भृशतरम् अरतिवशम् अगात् //
SK
अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा / प्रसक्तम् आह्वानम् असंप्रतिग्रहं तयोर् विदित्वा व्यलपच् छुचातुरा // AJम्_९.७८ //
SK
समाजवद् यत् प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम् / अदर्शनाद् अद्य तयोस् तद् एव मे प्रयाति कान्तारम् इवाशरण्यताम् // AJम्_९.७९ //
SK
किं नु खलु तौ कुमारौ
SK
क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा / चिरान् मदभ्यागमनाद् अतुष्टौ स्यातां क्व चिद् बालतया निलीनौ // AJम्_९.८० //
SK
रुवन्ति कस्माच् च न पक्षिणो ऽप्य् अमी समाकुलास् तद्वधसाक्षिणो यदि / तरंगभङ्गैर् अविनीतकोपया हृतौ नु किं निम्नगयातिवेगया // AJम्_९.८१ //
SK
अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः / अपि राजपुत्राय सपुत्राय स्वस्ति स्यात् / अप्य् अनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत् / किं नु खल्व् इदं अनिमित्तापवृत्तप्रहर्षम् अरतितमिस्रयावच्छाद्यमानं विद्रवतीव मे हृदयम् / विस्रस्यन्त इव मे गात्राणि / व्याकुला इव दिग्विभागाः / भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनम् इति // अथानुप्रविश्याश्रमपदम् एकान्ते निक्षिप्य मूलफलम् उपचारपुरःसरं भर्तारम् अभिगम्य क्व दारकाव् इति पप्रच्छ / अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवेद्यत्वाच् च विप्रियस्य नैनां किं चिद् वक्तुं शशाक /
SK
जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना उपेत्य हि मनस्तापः सघृणेन सुदुष्करः // AJम्_९.८२ //
SK
अथ मद्री व्यक्तम् अकुशलं मे पुत्रयोर् यद् अयम् एवं तूष्णींभूतः शोकदैन्यानुवृत्त्येत्य् अवधार्य समन्ततः क्षिप्तचित्तेव विचिन्त्याश्रमपदं तनयाव् अपश्यन्ती सबाष्पगद्गदं पुनर् उवाच /
SK
दारकौ च न पश्यामि त्वं च मां नाभिभाषसे / हता खल्व् अस्मि कृपणा विप्रियं हि न कथ्यते // AJम्_९.८३ //
SK
इत्य् उक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात / पतन्तीम् एव चैनां परिगृह्य बोधिसत्त्वस् तृणशयनम् आनीय शीताभिर् अद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्न् उवाच /
SK
सहसैव न ते मद्रि दुःखम् आख्यातवान् अहम् / न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले // AJम्_९.८४ //
SK
जरादारिद्र्यदुःखार्तो ब्राह्मणो माम् उपागमत् / तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः // AJम्_९.८५ //
SK
मां पश्य मद्रि मा पुत्रौ परिदेवीश् च देवि मा / पुत्रशोकसशल्ये मे प्रहार्षीर् इव मा हृदि // AJम्_९.८६ //
SK
याचितेन कथं शक्यं न दातुम् अपि जीवितम् / अनुमोदस्व तद् भद्रे पुत्रदानम् इदं मम // AJम्_९.८७ //
SK
तच् छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर् जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोका पत्युर् अधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयम् उदीक्षमाणा भर्तारम् उवाच / आश्चर्यम् / किं बहुना /
SK
नूनं विस्मयवक्तव्यचेतसो ऽपि दिवौकसः / यद् इत्य् अलब्धप्रसरस् तव चेतसि मत्सरः // AJम्_९.८८ //
SK
तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः / प्रसक्तविस्पष्टपदाक्षरं नभस् तवैव कीर्तिप्रथनादराद् अभूत् // AJम्_९.८९ //
SK
प्रकम्पिशैलेन्द्रपयोधरा धरा मदाद् इवाभूद् अभिवृद्धवेपथुः / दिवः पतद्भिः कुसुमैश् च काञ्चनैः सविद्युदुद्द्योतम् इवाभवन् नभः // AJम्_९.९० //
SK
तद् अलं शोकदैन्येन दत्त्वा चित्तं प्रसादय / निपानभूतो लोकानां दातैव च पुनर् भव // AJम्_९.९१ //
SK
अथ शक्रो देवेन्द्रः क्षितितलचलनाद् आकम्पिते सुमेरौ पर्वतराजे किम् इदम् इति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वंतरपुत्रदानम् उपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वंतरम् अर्थिवद् अभ्यगच्छत् / कृतातिथिसत्कारश् च बोधिसत्त्वेन केनार्थ इत्य् उपनिमन्त्रितो भार्याम् एनम् अयाचत /
SK
महाह्रदेष्व् अम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु / याचे ततस् त्वां सुरसंनिभार्यां भार्याम् इमाम् अर्हसि नः प्रदातुम् // AJम्_९.९२ //
SK
अविमना एव तु बोधिसत्त्वस् तथेत्य् अस्मै प्रतिशुश्राव /
SK
ततः स वामेन करेण मद्रीम् आदाय सव्येन कमण्डलुं च / न्यपातयत् तस्य जलं कराग्रे मनोभुवश् चेतसि शोकवह्निम् // AJम्_९.९३ //
SK
चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम् / अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ // AJम्_९.९४ //
SK
तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानाम् इन्द्रस् तं महासत्त्वम् अभिष्टुवन्न् उवाच /
SK
अहो विकृष्टान्तरता सदसद्धर्मयोर् यथा / श्रद्धातुम् अपि कर्मेदं का शक्तिर् अकृतात्मनाम् // AJम्_९.९५ //
SK
अवीतरागेण सता पुत्रदारम् अतिप्रियम् / निःसङ्गम् इति दातव्यं का नामेयम् उदात्तता // AJम्_९.९६ //
SK
असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशःसु दिक्षु ते / तिरोभविष्यन्त्य् अपरा यशःश्रियः पतंगतेजःसु यथान्यदीप्तयः // AJम्_९.९७ //
SK
तस्य ते ऽभ्यनुमोदन्ते कर्मेदम् अतिमानुषम् / यक्षगन्धर्वभुजगास् त्रिदशाश् च सवासवाः // AJम्_९.९८ //
SK
इत्य् उक्त्वा शक्रः स्वम् एव वपुर् अभिज्वलद् आस्थाय शक्रो ऽहम् अस्मीति च निवेद्यात्मानं बोधिसत्त्वम् उवाच /
SK
तुभ्यम् एव प्रयच्छामि मद्रीं भार्याम् इमाम् अहम् / व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुम् अर्हति // AJम्_९.९९ //
SK
दत्तापि च शृगालस्य सिंहभार्या किम् अस्य सा / सिंहस्यैव हि सा भार्या धीरा यच्छन्ति याचिताः // AJम्_९.१०० //
SK
विशिष्टमध्यहीनानां समचित्ता जिनाङ्कुराः / तस्माद् अनुमता लोके [......]न तु कर्मणा // AJम्_९.१०१ //
SK
तन् मा चिन्तां पुत्रयोर् विप्रयोगाद् राज्यभ्रंशान् मा च संतापम् आगाः / सार्धं ताभ्याम् अभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम् // AJम्_९.१०२ //
SK
इत्य् उक्त्वा शक्रस् तत्रैवान्तर्दधे / शक्रानुभावाच् च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयम् एव संप्रापयाम् आस / अथ शिबयः संजयश् च शिबिराजस् तद् अतिकरुणम् अतिदुष्करं बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान् निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वंतरं राज्य एव प्रतिष्ठापयाम् आसुः //
SK
तद् एवम् अत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः / तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम् //
SK
विश्वंतरजातकं नवमम् //
SK
१०. Yअज्ञजातकम्
SK
न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल स्वपुण्यप्रभावोपनताम् आनतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वाद् अकण्टकाम् असपत्नाम् एकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयाम् आस /
SK
नाथः पृथिव्याः स जितेन्द्रियारिर् भुक्तावगीतेषु फलेष्व् असक्तः / प्रजाहितेष्व् आहितसर्वभावो धर्मैककार्यो मुनिवद् बभूव // AJम्_१०.१ //
SK
विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम् / श्रेयः समाधित्सुर् अतः प्रजासु विशेषतो धर्मविधौ ससञ्जे // AJम्_१०.२ //
SK
ददौ धनं शीलविधिं समाददे क्षमां सिषेवे जगदर्थम् ऐहत / प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान् धर्म इव व्यरोचत // AJम्_१०.३ //
SK
अथ कदा चित् तद्भुजाभिगुप्तम् अपि तं विषयं सत्त्वानां कर्मवैगुण्यात् प्रमादवशगत्वाच् च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्व चित् क्व चिद् अभिदुद्राव // अथ स राजा व्यक्तम् अयं मम प्रजानां वा धर्मापचारात् समुपनतो ऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात् प्रजासु तद्दुःखम् अमृष्यमाणो धर्मतत्त्वज्ञसंमतान् पुरोहितप्रमुखान् ब्राह्मणवृद्धान् मतिसचिवांश् च तदुद्धरणोपायं पप्रच्छ / अथ ते वेदविहितम् अनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास् तम् अस्मै संवर्णयाम् आसुः / विदितवृत्तान्तस् तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान् न तेषां तद् वचनं भावेनाभ्यनन्दत् / विनयानुवृत्त्या चैनान् प्रत्याख्यानरूक्षाक्षरम् अनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार / ते पुनर् अपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यगूढं तस्य भावम् अजानाना यज्ञप्रवृत्तये समनुशशासुः /
SK
कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च / नात्येति कालस् तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत् // AJम्_१०.४ //
SK
त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य / यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्त्रेव कथं मतिस् ते // AJम्_१०.५ //
SK
भृत्यैर् इवाज्ञा बहुमन्यते ते साक्षाद् इयं सिद्धिर् इति क्षितीशैः / श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैर् अयं ते रिपुकाल कालः // AJम्_१०.६ //
SK
कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान् नियमादराच् च / वेदप्रसिद्धैः क्रतुभिस् तथापि युक्तं भवेन् मोक्तुम् ऋणं सुराणाम् // AJम्_१०.७ //
SK
स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति / इति प्रजानां हितम् आत्मनश् च यशस्करं यज्ञविधिं जुषस्व // AJम्_१०.८ //
SK
तस्य चिन्ता प्रादुरभवत् / अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिर् अमीमांसको धर्मप्रियश्रद्दधानो जनो यत्र हि नाम
SK
य एव लोकेषु शरण्यसंमतास् त एव हिंसाम् अपि धर्मतो गताः / विवर्तते कष्टम् अपायसंकटे जनस् तदादेशितकापथानुगः // AJम्_१०.९ //
SK
को हि नामाभिसंबन्धो धर्मस्य पशुहिंसया / सुरलोकाधिवासस्य दैवतप्रीणनस्य वा // AJम्_१०.१० //
SK
विशस्यमानः किल मन्त्रशक्तिभिः पशुर् दिवं गच्छति तेन तद्वधः / उपैति धर्मत्वम् इतीदम् अप्य् असत् परैः कृतं को हि परत्र लप्स्यते // AJम्_१०.११ //
SK
असत्प्रवृत्तेर् अनिवृत्तमानसः शुभेषु कर्मस्व् अविरूढनिश्चयः / पशुर् दिवं यास्यति केन हेतुना हतो ऽपि यज्ञे स्वकृताश्रयं विना // AJम्_१०.१२ //
SK
हतश् च यज्ञे त्रिदिवं यदि व्रजेन् ननु व्रजेयुः पशुतां स्वयं द्विजाः / यतस् तु नायं विधिर् ईक्ष्यते क्व चिद् वचस् तद् एषां क इव ग्रहीष्यति // AJम्_१०.१३ //
SK
अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम् / मुदं प्रयास्यन्ति वपादिकारणाद् वधेन शोच्यस्य पशोर् दिवौकसः // AJम्_१०.१४ //
SK
तद् इदम् अत्र प्राप्तकालम् इति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत् तेषां वचनं प्रतिगृह्यावोचद् एनान् / सनाथः खल्व् अहम् अनुग्रहवांश् च यद् एवं मे हितावहितमनसो ऽत्रभवन्तः / तद् इच्छामि पुरुषमेधसहस्रेण यष्टुम् / अनुशिष्यन्तां तदुपयोग्यसंभारसमुदानयनार्थं यथाधिकारम् अमात्याः / परीक्ष्यतां सत्त्रागारनिवेशयोग्यो भूमिप्रदेशस् तदनुगुणश् च तिथिकरणमुहूर्तनक्षत्रयोग इति // अथैनं पुरोहित उवाच / ईप्सितार्थसंपत्तये स्नातु तावन् महाराज एकस्य यज्ञस्यावभृथे / अथोत्तरेषाम् आरम्भः करिष्यते क्रमेण / युगपत् पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तम् उद्वेगदोषाय प्रजानां ते स्युर् इति // अस्त्य् एतद् इति च ब्राह्मणैर् उक्तः स राजा तान् उवाच / अलम् अत्रभवतां प्रकृतिकोपाशङ्कया / तथाहं संविधास्ये यथोद्वेगं मे प्रजा न प्रयास्यन्तीति // अथ स राजा पौरजानपदान् संनिपात्याब्रवीत् / इच्छामि पुरुषमेधसहस्रेण यष्टुम् / न च मया शक्यः कश् चिद् अकामः पशुत्वे नियोक्तुम् अदुष्टः / तद् यं यम् अहम् इतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनम् अस्मदाज्ञां परिभवन्तं तं तं स्वकुलपंसकं देशकण्टकम् अहं पशुनिमित्तम् आदास्यामीत्य् एतद् वो विदितम् अस्त्व् इति // अथ तेषां मुख्यतमाः प्राञ्जलय एनम् ऊचुः /
SK
सर्वाः क्रियास् तव हितप्रवणाः प्रजानां तत्रावमाननविधेर् नरदेव को ऽर्थः / ब्रह्मापि ते चरितम् अभ्यनुमन्तुम् अर्हः साधुप्रमाणपरम् अत्रभवान् प्रमाणम् // AJम्_१०.१५ //
SK
प्रियं यद् एव देवस्य तद् अस्माकम् अपि प्रियम् / अस्मत्प्रियहिताद् अन्यद् दृश्यते न हि ते प्रियम् // AJम्_१०.१६ //
SK
इति प्रतिगृहीतवचनः पौरजानपदैः स राजा महता जनप्रकाशेनाडम्बरेण प्रत्ययितान् अमात्यान् पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयाम् आस / समन्ततश् च प्रत्यहम् इति घोषणां कारयाम् आस /
SK
अभयम् अभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय / अविनयनिरतैः प्रजाहितार्थं नरपशुभिस् तु सहस्रशो यियक्षुः // AJम्_१०.१७ //
SK
तद् यः कश् चिद् इतः प्रभृत्य् अविनयश्लाघानुवृत्त्युद्धवात् सामन्तक्षितिपार्चिताम् अपि नृपस्याज्ञाम् अवज्ञास्यति / स स्वैर् एव विषह्य यज्ञपशुताम् आपादितः कर्मभिर् यूपाबद्धतनुर् विषादकृपणः शुष्यञ् जनैर् द्रक्ष्यते // AJम्_१०.१८ //
SK
अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरम् अवेक्ष्य राज्ञस् तां च घोषणाम् अतिभीषणां प्रत्यहम् उपशृण्वन्तः पापजनोपग्रहावहितांश् च राजपुरुषान् समन्ततः समापततो ऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृतयुग इव बभूवुः /
SK
भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशोऽनुरक्षया / सुशुक्लभावाच् च विरूढया ह्रिया जनः स्वशीलामलभूषणो ऽभवत् // AJम्_१०.१९ //
SK
यथा यथा धर्मपरो ऽभवज् जनस् तथा तथा रक्षिजनो विशेषतः / चकार दुःशीलजनाभिमार्गणाम् अतश् च धर्मान् न चचाल कश् च न // AJम्_१०.२० //
SK
स्वदेशवृत्तान्तम् अथोपशुश्रुवान् इमं नृपः प्रीतिविशेषभूषणः / चरान् प्रियाख्यानकदानविस्तरैः स तर्पयित्वा सचिवान् समन्वशात् // AJम्_१०.२१ //
SK
परा मनीषा मम रक्षितुं प्रजा गताश् च ताः संप्रति दक्षिणीयताम् / इदं च यज्ञाय धनं प्रकल्पितं यियक्षुर् अस्मीति यथाप्रतर्कितम् // AJम्_१०.२२ //
SK
यद् ईप्सितं यस्य सुखेन्धनं धनं प्रकामम् आप्नोतु स तन् मदन्तिकात् / इतीयम् अस्मद्विषयोपतापिनी दरिद्रता निर्विषयी भवेद् यथा // AJम्_१०.२३ //
SK
मयि प्रजारक्षणनिश्चयस्थिते सहायसंपत्परिवृद्धसाधने / इयं जनार्तिर् मदमर्षदीपनी मुहुर् मुहुर् मे ज्वलतीव चेतसि // AJम्_१०.२४ //
SK
अथ ते तस्य राज्ञः सचिवाः परम् इति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासंदिष्टं राज्ञा प्रत्यहम् अर्थिजनम् अभिलषितैर् अर्थैः संतर्पयाम् आसुः /
SK
अथ विहाय जनः स दरिद्रतां समम् अवाप्तवसुर् वसुधाधिपात् / विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत् // AJम्_१०.२५ //
SK
प्रमुदितार्थिजनस्तुतिविस्तृतं प्रविततान नृपस्य दिशो यशः / तनुतरंगविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः // AJम्_१०.२६ //
SK
इति नृपस्य सुनीतिगुणाश्रयात् सुचरिताभिमुखे निखिले जने समभिभूतबलाः कुशलोच्छ्रयैर् विलयम् ईयुर् असङ्गम् उपद्रवाः // AJम्_१०.२७ //
SK
अविषमत्वसुखा ऋतवो ऽभवन् नवनृपा इव धर्मपरायणाः / विविधसस्यधरा च वसुंधरा सकमलामलनीलजलाशया // AJम्_१०.२८ //
SK
न जनम् अभ्यरुजन् प्रबला रुजः पटुतरं गुणम् ओषधयो दधुः / ऋतुवशेन ववौ नियतो ऽनिलः परिययुश् च शुभेन पथा ग्रहाः // AJम्_१०.२९ //
SK
न परचक्रकृतं समभूद् भयं न च परस्परजं न च दैविकम् / नियमधर्मपरे निभृते जने कृतम् इवात्र युगं समपद्यत // AJम्_१०.३० //
SK
अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्व् अर्थिजनदुःखेषु सार्धम् उपद्रवैः प्रमुदितजनसंबाधायाम् अभ्युदयरम्यदर्शनायां च वसुंधरायां नृपतेर् आशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश् चिद् अमात्यमुख्यो राजानम् इत्य् उवाच / सुष्ठु खल्व् इदम् उच्यते /
SK
उत्तमाधममध्यानां कार्याणां नित्यदर्शनात् / उपर्य् उपरि बुद्धीनां चरन्तीश्वरबुद्धयः // AJम्_१०.३१ //
SK
इति देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानाम् उभयलोकहितं संपादितम् उपद्रवाश् च प्रशमिता दारिद्र्यदुःखानि च / किं बहुना / सभाग्यास् ताः प्रजाः /
SK
लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं दीक्षायन्त्रणया निसर्गललिताश् चेष्टा न मन्दोद्यमाः / मूर्ध्नश् छत्त्रनिभस्य केशरचनाशोभा तथैवाथ च त्यागैस् ते शतयज्वनो ऽप्य् अपहृतः कीर्त्याश्रयो विस्मयः // AJम्_१०.३२ //
SK
हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः / यज्ञस् तु कीर्त्याभरणः समस् ते शीलस्य निर्दोषमनोहरस्य // AJम्_१०.३३ //
SK
अहो प्रजानां भाग्यानि यासां गोपायिता भवान् / प्रजानाम् अपि हि व्यक्तं नैवं स्याद् गोपिता पिता // AJम्_१०.३४ //
SK
अपर उवाच /
SK
दानं नाम धनोदये सति जनो दत्ते तदाशावशः स्याच् छीले ऽपि च लोकपक्त्यभिमुखः स्वर्गे च जातस्पृहः / या त्व् एषा परकार्यदक्षिणतया त्वद्वत् प्रवृत्तिस् तयोर् नाविद्वत्सु न सत्त्वयोगविधुरेष्व् एषा समालक्ष्यते // AJम्_१०.३५ //
SK
तद् एवं न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् //
SK
इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः / यन् नृपाणाम् अतो नालं तम् अनादृत्य वर्तितुम् // AJम्_१०.३६ //
SK
एवं राजाववादे ऽपि वाच्यम् / धर्माभ्यासः प्रजानां भूतिम् आवहतीति धर्मानुवर्तिना भूतिकामेन भवितव्यम् इत्य् एवम् अप्य् उपनेयम् // न पशुहिंसा कदा चिद् अभ्युदयाय दानदमसंयमादयस् त्व् अभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यम् इत्य् एवम् अपि वाच्यम् // लोकार्थचर्याप्रवणमतिर् एवं पूर्वजन्मस्व् अपि स भगवान् इति तथागतवर्णे ऽपि वाच्यम् //
SK
यज्ञजातकं दशमम् //
SK
उद्दानम् //
SK
व्याघ्री शिबिः कोशलेशः श्रेष्ठिनौ शश एव च / अगस्त्यमांसदौ विश्वन्तरयज्ञविदौ तथा //
SK
प्रथमो वर्गः //
SK
११. Śअक्रजातकम्
SK
आपद् अपि महात्मनाम् ऐश्वर्यसंपद् वा सत्त्वेष्व् अनुकम्पां न शिथिलीकरोति //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनिरतक्रियातिशयः कदा चिच् छक्रो देवानाम् इन्द्रो बभूव //
SK
सुरेन्द्रलक्ष्मीर् अधिकं रराज तत्संश्रयात् स्फीततरप्रभावा / हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव // AJम्_११.१ //
SK
यस्याः कृते दितिसुता रभसागतानि दिङ्नागदन्तमुसलान्य् उरसाभिजग्मुः / सा भाग्यविस्तरसुखोपनतापि तस्य लक्ष्मीर् न दर्पमलिनं हृदयं चकार // AJम्_११.२ //
SK
तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकान्तव्यापिनीं कीर्तिसंपदं तां च लक्ष्मीम् अत्यद्भुताम् अमृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविमलप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनम् अभिजग्मुः /
SK
धर्मात्मनो ऽपि तु स तस्य परावलेपः क्रीडाविघातविरसं च भयं जनस्य / तेजस्वितानयपथोपनतः क्रमश् च युद्धोद्धवाभिमुखतां हृदयस्य चक्रुः // AJम्_११.३ //
SK
अथ स महासत्त्वस् तुरगवरसहस्रयुक्तम् अभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितम् अभिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरम् अभिरुह्य महता हस्त्यश्वरथपदातिचित्रेण देवानीकेन परिवृतस् तद् असुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम //
SK
अथ प्रववृते तत्र भीरूणां धृतिदारणः / अन्योन्यायुधनिष्पेषजर्जरावरणो रणः // AJम्_११.४ //
SK
तिष्ठ नैवं इतः पश्य क्वेदानीं मम मोक्ष्यसे / प्रहरायं न भवसीत्य् एवं ते ऽन्योन्यम् आर्दयन् // AJम्_११.५ //
SK
ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे / पटहध्वनितोत्क्रुष्टैः फलतीव नभस्तले // AJम्_११.६ //
SK
दानगन्धोद्धतामर्षेष्व् आपतत्सु परस्परम् / युगान्तवाताकलितशैलभीमेषु दन्तिषु // AJम्_११.७ //
SK
विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः / रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्व् इव // AJम्_११.८ //
SK
पात्यमानध्वजच्छत्त्रशस्त्रावरणमौलिषु / देवदानववीरेषु शितैर् अन्योन्यसायकैः // AJम्_११.९ //
SK
अथ प्रतप्ता सुरशत्रुसायकैर् भयात् प्रदुद्राव सुरेन्द्रवाहिनी / रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत // AJम्_११.१० //
SK
अत्युदीर्णं त्व् आसुरं बलम् अतिहर्षात् पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादम् अभिपतद् अभिवीक्ष्य मातलिर् देवेन्द्रसारथिः स्वं च बलं पलायनपरायणम् अवेत्यापयानम् अत्र प्राप्तकालम् इति देवाधिपतेः स्यन्दनम् आवर्तयाम् आस // अथ शक्रो देवेन्द्रः समुत्पततो रथस्येषाग्राभिमुखान्य् अभिघातपथगतानि शाल्मलिवृक्षे गरुडनीडान्य् अपश्यत् / दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकम् इत्य् उवाच /
SK
अजातपक्षद्विजपोतसंकुला द्विजालयाः शाल्मलिपादपाश्रयाः / अमी पतेयुर् न यथा रथेषया विचूर्णिता वाहय मे रथं तथा // AJम्_११.११ //
SK
मातलिर् उवाच / अमी तावन् मार्ष समभियान्ति नो दैत्या इति // शक्र उवाच/ ततः किम् / परिहर परिहरैतानि सम्यग् गरुडनीडानीति // अथैनं मातलिः पुनर् उवाच /
SK
निवर्तनाद् अस्य रथस्य केवलं शिवं भवेद् अम्बुरुहाक्ष पक्षिणाम् / चिरस्य लब्धप्रसरा सुरेष्व् असाव् अभिद्रवत्य् एव हि नो द्विषच्चमूः // AJम्_११.१२ //
SK
अथ शक्रो देवेन्द्रः स्वम् अध्याशयातिशयं सत्त्वविशेषं च कारुण्यवशात् प्रकाशयन्न् उवाच /
SK
तस्मान् निवर्तय रथं वरम् एव मृत्युर् दैत्याधिपप्रहितभीमगदाभिघातैः / धिग्वाददग्धयशसो न तु जीवितं मे सत्त्वान्य् अमूनि भयदीनमुखानि हत्वा // AJम्_११.१३ //
SK
अथ मातलिस् तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनम् अस्य निवर्तयाम् आस /
SK
दृष्टावदाना रिपवस् तु तस्य युद्धे समालोक्य रथं निवृत्तम् / भयद्रुतप्रस्खलिताः प्रणेशुर् वाताभिनुन्ना इव कालमेघाः // AJम्_११.१४ //
SK
भग्ने स्वसैन्ये ऽपि निवर्तमानः पन्थानम् आवृत्य रिपुध्वजिन्याः / संकोचयत्य् एव मदावलेपम् एको ऽपि संभाव्यपराक्रमत्वात् // AJम्_११.१५ //
SK
निरीक्ष्य भग्नं तु बलं तद् आसुरं सुरेन्द्रसेनाप्य् अथ सा न्यवर्तत / बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः // AJम्_११.१६ //
SK
सहर्षलज्जैस् त्रिदशैः सुराधिपः सभाय्जमानो ऽथ रणाजिराच् छनैः / अभिज्वलच्चारुवपुर् जयश्रिया समुत्सुकान्तःपुरम् आगमत् पुरम् // AJम्_११.१७ //
SK
एवं स एव तस्य संग्रामविजयो बभूव / तस्माद् उच्यते /
SK
पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः / प्राणात्यये ऽपि तु न साधुजनः स्ववृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः // AJम्_११.१८ //
SK
तद् एवं देवराज्यं प्राणान् अपि च परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि / तेष्व् इह प्राज्ञस्याघातो ऽपि न प्रतिरूपः प्राग् एव विप्रतिपत्तिर् इति प्राणिषु दयापन्नेनार्येण भवितव्यम् // तथा हि धर्मो ह वै रक्षति धर्मचारिणम् इत्य् अत्राप्य् उपनेयम् // तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति //
SK
शक्रजातकम् एकादशम् //
SK
१२. Bराह्मणजातकम्
SK
आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल कस्मिंश् चिद् अनुपाक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारो वेदाध्ययननिमित्तं श्रुताभिजनाचारसंपन्ने गुरौ प्रतिवसति स्म /
SK
तस्य श्रुतग्रहणधारणपाटवं च भक्त्यन्वयश् च विनयः स्वकुलप्रसिद्धः / पूर्वे वयस्य् अपि शमाभरणा स्थितिश् च प्रेमप्रसादसुमुखं गुरुम् अस्य चक्रुः // AJम्_१२.१ //
SK
वशीकरणमन्त्रा हि नित्यम् अव्याहता गुणाः / अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम् // AJम्_१२.२ //
SK
अथ तस्याध्यापकः सर्वेषाम् एव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्व् आत्मनो दारिद्र्यदुःखान्य् अभीक्ष्णम् उपवर्णयाम् आस /
SK
स्वजने ऽपि निराक्रन्दम् उत्सवे ऽपि हतानन्दम् / धिक् प्रदानकथामन्दं दारिद्र्यम् अफलच्छन्दम् // AJम्_१२.३ //
SK
परिभवभवनं श्रमास्पदं सुखपरिवर्जितम् अत्यनूर्जितम् / व्यसनम् इव सदैव शोचनं धनविकलत्वम् अतीव दारुणम् // AJम्_१२.४ //
SK
अथ ते शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात् समुपजातसंवेगाः संपन्नतरं प्रभूततरं च भैक्षम् उपाहरन्ति स्म / स तान् उवाच / अलम् अनेनात्रभवतां परिश्रमेण / न भैक्षोपहाराः कस्य चिद् दारिद्र्यक्षामतां क्षपयन्ति / अस्मत्परिक्लेशामर्षिभिस् तु भवद्भिर् अयम् एव यत्नो धनाहरणं प्रति युक्तः कर्तुं स्यात् / कुतः /
SK
क्षुधम् अन्नं जलं तर्षं मन्त्रवाक् सागदा गदान् / हन्ति दारिद्र्यदुःखं तु संतत्याराधनं धनम् // AJम्_१२.५ //
SK
शिष्या ऊचुः / किं करिष्यामो मन्दभाग्या यद् एतावान् नः शक्तिप्रयामः / अपि च /
SK
भैक्षवद् यदि लभ्येरन्न् उपाध्याय धनान्य् अपि / नेदं दारिद्र्यदुःखं ते वयम् एवं सहेमहि // AJम्_१२.६ //
SK
प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् / अप्रदाता जनश् चायम् इत्य् अगत्या हता वयम् // AJम्_१२.७ //
SK
अध्यापक उवाच / सन्त्य् अन्ये ऽपि ब्राह्मणानां शास्त्रपरिदृष्टा धनार्जनोपायाः / जरापीतसामर्थ्यास् तु वयम् अयोग्यरूपास् तत्प्रतिपत्तौ // शिष्या ऊचुः / वयम् उपाध्याय जरयानुपहतपराक्रमाः / तद् यदि नस् तेषां शास्त्रविहितानाम् उपायानां प्रतिपत्तिसहतां मन्यसे तद् उच्यताम् / यावद् अध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति // अध्यापक उवाच / तरुणैर् अपि व्यवसायशिथिलहृदयैर् दुरभिसंभवाः खल्व् एवंविधा धनार्जनोपायाः / यदि त्व् अयम् अत्रभवतां निर्बन्धस् तच् छ्रूयतां साधु कतम एको धनार्जनक्रमः /
SK
आपद्धर्मः स्तेयम् इष्टं द्विजानाम् आपच् चान्त्या निःस्वता नाम लोके / तेनादेयं स्वं परेषाम् अदृष्टैः सर्वं चैतद् ब्राह्मणानां स्वम् एव // AJम्_१२.८ //
SK
कामं प्रसह्यापि धनानि हर्तुं शक्तिर् भवेद् एव भवद्विधानाम् / न त्व् एष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद् व्यवसेयम् एवम् // AJम्_१२.९ //
SK
इति मुक्तप्रग्रहास् तेन ते च्छात्त्राः परम् इति तत् तस्य वचनम् अयुक्तम् अपि युक्तम् इव प्रत्यश्रौषुर् अन्यत्र बोधिसत्त्वात् /
SK
स हि प्रकृतिभद्रत्वात् तन् नोत्सेहे ऽनुमोदितुम् / कृत्यवत् प्रतिपन्नं तैर् व्याहर्तुं सहसैव तु // AJम्_१२.१० //
SK
व्रीडावनतवदनस् तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत् // अथ स तेषाम् अध्यापको बोधिसत्त्वम् अवेक्ष्य तं विधिम् अनभिनन्दन्तम् अप्रतिक्रोशन्तं निविष्टगुणसंभावनस् तस्मिन् महासत्त्वे किं नु खल्व् अयम् अव्यवसितत्वान् निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते / उत धर्मसंज्ञयेति समुत्पन्नविमर्शस् तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वम् उवाच / भो महाब्राह्मण /
SK
अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् / भवान् अनुत्साहजडस् तु लक्ष्यते न नूनम् अस्मद्व्यसनेन तप्यते // AJम्_१२.११ //
SK
परिप्रकाशे ऽप्य् अनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते / कथं नु निःसंभ्रमधीरमानसो भवान् इति स्वस्थवद् एव तिष्ठति // AJम्_१२.१२ //
SK
अथ बोधिसत्त्वः ससंभ्रमो ऽभिवाद्योपाध्यायम् उवाच / शान्तं पापम् / न खल्व् अहं निःस्नेहकठिनहृदयत्वाद् अपरितप्यमानो गुरुदुःखैर् एवम् अवस्थितः किं त्व् असंभवाद् उपाध्यायप्रदर्शितस्य क्रमस्य / न हि शक्यम् अदृश्यमानेन क्व चित् पापम् आचरितुम् / कुतः / रहोऽनुपपत्तेः /
SK
नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः / अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान् // AJम्_१२.१३ //
SK
कृतात्मानश् च मुनयो दिव्योन्मिषितचक्षुषः / तान् अपश्यन् रहोमानी बालः पापे प्रवर्तते // AJम्_१२.१४ //
SK
अहं पुनर् न पश्यामि शून्यं क्व च न किं च न / यत्राप्य् अन्यं न पश्यामि नन्व् अशून्यं मयैव तत् // AJम्_१२.१५ //
SK
परेण यच् च दृश्यते दुष्कृतं स्वयम् एव वा / सुदृष्टतरम् एतत् स्याद् दृश्यते स्वयम् एव यत् // AJम्_१२.१६ //
SK
स्वकार्यपर्याकुलमानसत्वात् पश्येन् न वान्यश् चरितं परस्य / रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन् नियमेन वेत्ति // AJम्_१२.१७ //
SK
तद् अनेन कारणेनाहम् एवम् अवस्थित इति / अथ बोधिसत्त्वः समभिप्रसादितमनसम् उपाध्यायम् अवेत्य पुनर् उवाच /
SK
न चात्र मे निश्चयम् एति मानसं धनार्थम् एवं प्रतरेद् भवान् इति / अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत् // AJम्_१२.१८ //
SK
स्वाभिप्रायं च खलु निवेदयामि /
SK
कपालम् आदाय विपन्नवाससा वरं द्विषद्वेश्मसमृद्धिर् ईक्षिता / व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थे ऽप्य् उपसंहृतं मनः // AJम्_१२.१९ //
SK
अथ स तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात् संपरिष्वज्यैनम् उवाच / साधु साधु पुत्र / साधु महाब्राह्मण / प्रतिरूपम् एतत् ते प्रशमालंकृतस्यास्य मैधावकस्य /
SK
निमित्तम् आसाद्य यद् एव किं च न स्वधर्ममार्गं विसृजन्ति बालिशाः / तपःश्रुतज्ञानधनास् तु साधवो न यान्ति कृच्छ्रे परमे ऽपि विक्रियाम् // AJम्_१२.२० //
SK
त्वया कुलं स्वम् अमलम् अभ्यलंकृतं समुद्यता नभ इव शारदेन्दुना / तवार्थवत् सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश् च मे // AJम्_१२.२१ //
SK
तद् एवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलसमन्वितेनार्येण भवितव्यम् /
SK
एवं ह्रीपरिखासंपन्न आर्यश्रावको ऽकुशलम् प्रजहातीत्येवमादिषु सूत्रपदेषूपनेयम् / ह्रीवर्णप्रतिसंयुक्तेषु सूत्रान्तेषु लोकाधिपतेये चेति //
SK
ब्राह्मणजातकं द्वादशमम् //
SK
१३. Uन्मादयन्तीजातकम्
SK
तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् //
SK
तद्यथानुश्रूयते / सत्यत्यागोपशमप्रज्ञादिभिर् गुणातिशयैर् लोकहितार्थम् उद्यच्छमानः किल बोधिसत्त्वः कदा चिच् छिबीनां राजा बभूव साक्षाद् धर्म इव विनय इव पितेव च प्रजानाम् उपकारप्रवृत्तः /
SK
दोषप्रवृत्तेर् विनियम्यमानो निवेश्यमानश् च गुणाभिजात्ये / पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितये ऽपि लोकः // AJम्_१३.१ //
SK
समस्वभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः / अधर्म्यम् आवृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव // AJम्_१३.२ //
SK
धर्मान्वयं लोकहितं स पश्यंस् तदेककार्यो नरलोकपालः / सर्वात्मना धर्मपथे ऽभिरेमे तस्योपमर्दं च परैर् न सेहे // AJम्_१३.३ //
SK
तस्य च राज्ञः पौरमुख्यस्य दुहिता श्रीर् इव विग्रहवती साक्षाद् रतिर् इवाप्सरसाम् अन्यतमेव च परमया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव /
SK
अवीतरागस्य जनस्य यावत् सा लोचनप्राप्यवपुर् बभूव / तावत् स तद्रूपगुणावबद्धां न दृष्टिम् उत्कम्पयितुं शशाक // AJम्_१३.४ //
SK
अतश् च तस्या उन्मादयन्तीत्य् एव बान्धवा नाम चक्रुः // अथ तस्याः पिता राज्ञः संविदितं कारयाम् आस / स्त्रीरत्नं ते देव विषये प्रादुर्भूतं यतस् तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणम् इति // अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेश / पश्यन्त्व् एनाम् अत्रभवन्तो यद्य् असाव् अस्मद्योग्या न वेति // अथ तस्याः पिता तान् ब्राह्मणान् स्वभवनम् अभिनीयोन्मादयन्तीम् उवाच / भद्रे स्वयं ब्राःमणान् परिवेषयेति / सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुम् उपचक्रमे // अथ ते ब्राह्मणाः
SK
तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः / अनीश्वरा लोचनमानसानाम् आसुर् मदेनेव विलुप्तसंज्ञाः // AJम्_१३.५ //
SK
यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतम् अवस्थातुं कुत एव भोक्तुम् अथैषां चक्षुष्पथाद् उत्सार्य स्वां दुहितरं स गृहपतिः स्वयम् एव ब्राह्मणान् परिवेष्य विसर्जयाम् आस // अथ तेषां बुद्धिर् अभवत् </> कृत्यारूपम् इव खल्व् इदम् अतिमनोहरम् अस्या दारिकाया रूपचातुर्यं यतो नैनां राजा द्रष्टुम् अप्य् अर्हति कुतः पुनः पत्नीत्वं गमयितुम् / अनया हि रूपशोभया नियतम् अस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर् विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथम् उपपीडयन्तः पराभवाय स्युः /
SK
इयं हि संदर्शनमात्रकेण कुर्यान् मुनीनाम् अपि सिद्धिविघ्नम् / प्राग् एव भावार्पितदृष्टिदृष्टेर् यूनः क्षितीशस्य सुखे स्थितस्य // AJम्_१३.६ //
SK
तस्माद् इदम् अत्र प्राप्तकालम् इति यथाप्रस्तावम् उपेत्य राज्ञे निवेदयाम् आसुः / दृष्टास्माभिर् महाराज सा कन्यका / अस्ति चास्या रूपचातुर्यमात्रकम् अपलक्षणोपघातनिःश्रीकं तु यतो नैनां द्रष्टुम् अप्य् अर्हति महाराजः किं पुनः पत्नीत्वं गमयितुम् /
SK
कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति / निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः // AJम्_१३.७ //
SK
इति श्रुतार्थः स राजापलक्षणा किलासौ न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव / अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस् तां दारिकां तस्यैव राज्ञो ऽभिपारगायामात्याय प्रायच्छत् // अथ कदा चित् स राजा क्रमागतां कौमुदीं स्वस्मिन् पुरवरे विषक्तशोभां द्रष्टुम् उत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणम् उच्छ्रितच्छत्त्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमितलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजनसंबाधराजमार्गं पुरवरम् अनुविचरंस् तस्यामात्यस्य भवनसमीपम् उपजगाम / अथोन्मादयन्त्य् अपलक्षणा किलाहम् इत्य् अनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेव नाम संदृश्यमानरूपशोभा विद्युद् इव घनशिखरं हर्म्यतलम् अवभासयन्ती व्यतिष्ठत / शक्तिर् अस्येदानीम् अस्त्व् अपलक्षणादर्शनविचलितस्मृतिम् आत्मानं धारयितुम् इति //
SK
अथ तस्य राज्ञः पुरवरविभूषादर्शनप्रसृता दृष्टिर् अभिमुखस्थितायां सहसैव तस्याम् अपतत् / अथ स राजा
SK
प्रकामम् अन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणो ऽपि / अनुद्धतो धर्मपथानुरागाद् उद्योगवान् इन्द्रियनिर्जये ऽपि // AJम्_१३.८ //
SK
विपुलधृतिगुणो ऽप्य् अपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणो ऽपि / उदितमदनविस्मयः स्त्रियं तां चिरम् अनिमेषविलोचनो ददर्श // AJम्_१३.९ //
SK
कौमुदी किं न्व् इयं साक्षाद् भवनस्यास्य देवता / स्वर्गस्त्री दैत्ययोषिद् वा न ह्य् एतन् मानुषं वपुः // AJम्_१३.१० //
SK
इति विचारयत एव तस्य राज्ञस् तद्दर्शनावितृप्तनयनस्य स रथस् तं देशम् अतिवर्तमानो न मनोरथानुकूलो बभूव / अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनम् उपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत् /
SK
सितप्राकारसंवीतं वेत्सि कस्य नु तद् गृहम् / का सा तत्र व्यरोचिष्ट विद्युत् सित इवाम्बुदे // AJम्_१३.११ //
SK
सारथिर् उवाच / अस्ति देवस्याभिपारगो नामामात्यस् तस्य तद् गृहं तस्यैव च सा भार्या किरीटवत्सदुहितोन्मादयन्ती नामेति / तद् उपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश् चिन्तास्तिमितनयनो दीर्घम् उष्णम् अभिनिश्वस्य तदर्पितमनाः शनैर् आत्मगतम् उवाच /
SK
अन्वर्थरम्याक्षरसौकुमार्यम् अहो कृतं नाम यथेदम् अस्याः / उन्मादयन्तीति शुचिस्मितायास् तथा हि सोन्मादम् इवाकरोन् माम् // AJम्_१३.१२ //
SK
विस्मर्तुम् एनाम् इच्छामि पश्यामीव च चेतसा / स्थितं तस्यां नु मे चेतः सा प्रभुत्वेन तत्र वा // AJम्_१३.१३ //
SK
परस्य नाम भार्यायां ममाप्य् एवम् अधीरता / तद् उन्मत्तो ऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया // AJम्_१३.१४ //
SK
तस्या वपुर्विलसितस्मितवीक्षितेषु संरागनिश्चलमतेः सहसा स्वनन्ती / कार्यान्तरक्रमनिवेदनधृष्टशब्दा विद्वेषम् उत्तुदति चेतसि नालिका मे // AJम्_१३.१५ //
SK
इति स राजा मदनबलविचलितधृतिर् व्यवस्थापयन्न् अप्य् आत्मानम् आपाण्डुकृशतनुः प्रध्याननिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव /
SK
धृत्या महत्यापि निगुह्यमानः स भूपतेस् तस्य मनोविकारः / मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिम् उपाजगाम // AJम्_१३.१६ //
SK
अथेङ्गिताकारग्रहणनिपुणमतिर् अभिपारगो ऽमात्यस् तं राज्ञो वृत्तान्तं सकारणम् उपलभ्य स्नेहात् तदत्ययाशङ्की जानानश् चातिबलतां मदनस्य रहसि राजानं विदितः समुपेत्य कृताभ्यनुज्ञो विज्ञापयाम् आस /
SK
अद्यार्चयन्तं नरदेव देवान् साक्षाद् उपेत्याम्बुरुहाक्ष यक्षः / माम् आह नावैषि नृपस्य कस्माद् उन्मादयन्त्यां हृदयं निविष्टम् // AJम्_१३.१७ //
SK
इत्य् एवम् उक्त्वा सहसा तिरोऽभूद् विमर्शवान् इत्य् अहम् अभ्युपेतः / तच् चेत् तथा देव किम् एतद् एवम् अस्मासु ते निष्प्रणयत्वमौनम् // AJम्_१३.१८ //
SK
तत् प्रतिग्रहीतुम् एनाम् अर्हति मदनुग्रहार्थं देव इति / अथ स राजा प्रत्यादेशाल् लज्जावनतवदनो मदनवशगो ऽपि स्वभ्यस्तधर्मसंज्ञत्वाद् अविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरम् एनम् उवाच / नैतद् अस्ति / कुतः /
SK
पुण्याच् च्युतः स्याम् अमरो न चास्मि विद्याच् च नः पापम् इदं जनो ऽपि / तद्विप्रयोगाच् च मनोज्वरस् त्वां वह्निः पुरा कक्षम् इव क्षिणोति // AJम्_१३.१९ //
SK
यच् चोभयोर् इत्य् अहितावहं स्याल् लोके परस्मिन्न् इह चैव कर्म / तद् यस्य हेतोर् अबुधा भजन्ते तस्यैव हेतोर् न बुधा भजन्ते // AJम्_१३.२० //
SK
अभिपारग उवाच / अलम् अत्र देवस्य धर्मातिक्रमशङ्कया /
SK
दाने साहाय्यदानेन धर्म एव भवेत् तव / दानविघ्नात् त्व् अधर्मः स्यात् तां मत्तो ऽप्रतिगृह्णतः // AJम्_१३.२१ //
SK
कीर्त्युपरोधावकाशम् अपि चात्र देवस्य न पश्यामि / कुतः /
SK
आवाभ्याम् इदम् अन्यश् च क एव ज्ञातुम् अर्हति / जनापवादाद् आशङ्काम् अतो मनसि मा कृथाः // AJम्_१३.२२ //
SK
अनुग्रहश् चैष मम स्यान् न पीडा / कुतः /
SK
स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः / यतः सकामं कुरु देव कामम् अलं मदुत्पीडनशङ्कया ते // AJम्_१३.२३ //
SK
राजोवाच / शान्तं पापम् /
SK
व्यक्तम् अस्मदतिस्नेहान् न त्वयैतद् अवेक्षितम् / यथा दाने न सर्वस्मिन् साचिव्यं धर्मसाधनम् // AJम्_१३.२४ //
SK
यो ऽस्मदर्थम् अतिस्नेहात् स्वान् प्राणान् अपि नेक्षते / तस्य बन्धुविशिष्टस्य सख्युर् भार्या सखी ननु // AJम्_१३.२५ //
SK
तद् अयुक्तं माम् अत्र प्रतारयितुम् / यद् अपि चेष्टं नैतद् अन्यः कश् चिज् ज्ञास्यतीति किम् एवम् इदम् अपापं स्यात् /
SK
अदृश्यमानो ऽपि हि पापम् आचरन् विषं निषेव्येव कथं शम् आप्नुयात् / न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश् चैव नराश् च योगिनः // AJम्_१३.२६ //
SK
किं च भूयः /
SK
श्रद्दधीत क एतच् च यथासौ तव न प्रिया / तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः // AJम्_१३.२७ //
SK
अभिपारग उवाच /
SK
सपुत्रदारो दासो ऽहं स्वामी त्वं दैवतं च मे / दास्याम् अस्यां यतो देव कस् ते धर्मव्यतिक्रमः // AJम्_१३.२८ //
SK
यद् अपि चेष्टं प्रिया ममेयम् इत्य् अतः किम् /
SK
मम प्रिया कामद कामम् एषा तेनैव दित्सामि च तुभ्यम् एनाम् / प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि // AJम्_१३.२९ //
SK
यतः प्रतिगृह्णात्व् एवैनां देव इति // राजोवाच / मा मैवम् / अक्रम एषः / कुतः /
SK
अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा / न त्व् एव धर्माद् अधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुम् // AJम्_१३.३० //
SK
अभिपारग उवाच / यद्य् एनां मद्भार्येति देवो न प्रतिग्रहीतुम् इच्छत्य् अयम् अहम् अस्याः सर्वजनप्रार्थनाविरुद्धं वेश्याव्रतम् आदिशामि / तत एनां देवः प्रतिगृह्णीयाद् इति // राजोवाच / किम् उन्मत्तो ऽसि /
SK
अदुष्टां संत्यजन् भार्यां मत्तो दण्डम् अवाप्नुयाः / स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे // AJम्_१३.३१ //
SK
तद् अलम् अकार्यनिर्बन्धितया / न्यायाभिनिवेशी भवेति // अभिपारग उवाच /
SK
धर्मात्ययो मे यदि कश् चिद् एवं जनापवादः सुखविप्लवो वा / प्रत्युद्गमिष्याम्य् उरसा तु तत् तत् त्वत्सौख्यलब्धेन मनःसुखेन // AJम्_१३.३२ //
SK
त्वत्तः परं चाहवनीयम् अन्यं लोके न पश्यामि महीमहेन्द्र / उन्मादयन्तीं मम पुण्यवृद्ध्यै त्वं दक्षिणाम् ऋत्विग् इव प्रतीच्छ // AJम्_१३.३३ //
SK
राजोवाच / कामम् अस्मदतिस्नेहाद् अनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस् तवायम् / अत एव तु त्वां विशेषतो नोपेक्षितुम् अर्हामि / नैव खलु लोकापवादनिःशङ्केन भवितव्यम् / पश्य /
SK
लोकस्य यो नाद्रियते ऽपवादं धर्मानपेक्षः परतः फलं वा / जनो न विश्वासम् उपैति तस्मिन्न् अतीव लक्ष्म्यापि विवर्ज्यते सः // AJम्_१३.३४ //
SK
यतस् त्वां ब्रवीमि /
SK
मा ते रोचिष्ट धर्मस्य जीवितार्थे ऽप्य् अतिक्रमः / निःसंदिग्धमहादोषः ससंदेहकृशोदयः // AJम्_१३.३५ //
SK
किं च भूयः /
SK
निन्दादिदुःखेषु परान् निपात्य नेष्टा सताम् आत्मसुखप्रसिद्धिः / एको ऽप्य् अनुत्पीड्य परान् अतो ऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये // AJम्_१३.३६ //
SK
अभिपारग उवाच / स्वाम्यर्थं भक्तिवशेन चरतो मम तावद् अत्र क एवाधर्मावकाशः स्याद् देवस्य वा दीयमानाम् एनां प्रतिगृह्णतः स्याद् यतः सनैगमजानपदाः शिबयः किम् अत्राधर्म इति ब्रूयुः / तत् प्रतिगृह्णात्व् एवैनां देव इति // राजोवाच / अद्धा मदर्थचर्याप्रवणमतिर् भवान् / इदं त्व् अत्र चिन्तयितव्यम् / सनैगमजानपदानां शिबीनां तव मम वा को ऽस्माकं धर्मवित्तम इति // अथाभिपारगः ससंभ्रमो राजानम् उवाच /
SK
वृद्धोपसेवासु कृतश्रमत्वाच् छ्रुताधिकारान् मतिपाटवाच् च / त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च // AJम्_१३.३७ //
SK
राजोवाच / तेन हि न माम् अत्र प्रतारयितुम् अर्हसि / कुतः /
SK
नराधिपानां चरितेष्व् अधीनं लोकस्य यस्माद् अहितं हितं च / भक्तिं प्रजानाम् अनुचिन्त्य तस्मात् कीर्तिक्षमे सत्पथ एव रंस्ये // AJम्_१३.३८ //
SK
जिह्मं शुभं वा वृषभप्रचारं गावो ऽनुगा यद्वद् अनुप्रयान्ति / उत्क्षिप्तशङ्काङ्कुशनिर्विघट्टं प्रजास् तथैव क्षितिपस्य वृत्तम् // AJम्_१३.३९ //
SK
अपि च पश्यतु तावद् भवान् /
SK
आत्मानम् अपि चेच् छक्तिर् न स्यात् पालयितुं मम / का न्व् अवस्था जनस्य स्यान् मत्तो रक्षाभिकाङ्क्षिणः // AJम्_१३.४० //
SK
इति प्रजानां हितम् ईक्षमाणः स्वं चैव धर्मं विमलं यशश् च / नेच्छामि चित्तस्य वशेन गन्तुम् अहं हि नेता वृषवत् प्रजानाम् // AJम्_१३.४१ //
SK
अथाभिपारगो ऽमात्यस् तेन राज्ञो ऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिर् इत्य् उवाच /
SK
अहो प्रजानाम् अतिभाग्यसंपद् यासां त्वम् एवं नरदेव गोप्ता / धर्मानुरागो हि सुखानपेक्षस् तपोवनस्थेष्व् अपि मृग्य एव // AJम्_१३.४२ //
SK
महच्छब्दो महाराज त्वय्य् एवायं विराजते / विगुणेषु गुणोक्तिर् हि क्षेपरूक्षतराक्षरा // AJम्_१३.४३ //
SK
विस्मयो ऽनिभृतत्वं वा किं ममैतावता त्वयि / समुद्र इव रत्नानां गुणानां यस् त्वम् आकरः // AJम्_१३.४४ //
SK
तद् एवं तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच् चेति धैर्ये धर्माभ्यासे च योगः कार्य इति //
SK
उन्मादयन्तीजातकं त्रयोदशम् //
SK
१४. Sउपारगजातकम्
SK
धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल महासत्त्वः परमनिपुणमतिर् नौसारथिर् बभूव / धर्मता ह्य् एषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद् यद् उत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस् तस्मिन्न् अधिका भवन्ति मेधाविनो जगतः // अथ स महात्मा विदितज्योतिर्गतित्वाद् दिग्विभागेष्व् असंमूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश् चिह्नैः सूपलक्षितसमुद्रप्रदेशः स्मृतिमान् विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुर् अप्रमादी धृतिमान् आहरणापसरणादिकुशलत्वाद् ईप्सितं देशं प्रापयिता वणिजाम् आसीत् / तस्य परमसिद्धयात्रत्वात् सुपारग इत्य् एव नाम बभूव / तदध्युषितं च पत्तनं सुपारगम् इत्य् एव ख्यातम् आसीत् / यद् एतर्हि शूर्पारकम् इति ज्ञायते // सो ऽतिमङ्गलसंमतत्वाद् वृद्धत्वे ऽपि सांयात्रिकैर् यात्रासिद्धिकामैर् वहनम् अभ्यर्थनसत्कारपुरःसरम् आरोप्यते स्म // अथ कदा चिद् भरुकच्छाद् अभिप्रयाताः सुवर्णभूमिं वणिजो यात्रासिद्धिकामाः सुपारगं पत्तनम् उपेत्य तं महासत्त्वं वहनारोहणार्थम् अभ्यर्थयाम् आसुः / स तान् उवाच /
SK
जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ / स्वदेहकृत्ये ऽप्य् अवसन्नविक्रमे सहायता का परिशङ्क्यते मयि // AJम्_१४.१ //
SK
वणिज ऊचुः / विदितेयम् अस्माकं युष्मच्छरीरावस्था / सत्य् अपि च वः पराक्रमसहत्वे नैव वयं कर्मविनियोगेन युष्मान् आयासयितुम् इच्छामः / किं तर्हि /
SK
त्वत्पादपङ्कजसमाश्रयसत्कृतेन मङ्गल्यताम् उपगता रजसा त्व् इयं नौः / दुर्गे महत्य् अपि च तोयनिधाव् अमुष्मिन् स्वस्ति व्रजेद् इति भवन्तम् उपागताः स्मः // AJम्_१४.२ //
SK
अथ स महात्मा तेषाम् अनुकम्पया जराशिथिलशरीरो ऽपि तद्वहनम् आरुरोह / तदधिरोहणाच् च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर् नियतम् अस्माकम् उत्तमा यात्रासिद्धिर् इति / क्रमेण चावजगाहिरे विविधमीनकुलविचरितम् अनिभृतजलकलकलारावम् अनिलविलासप्रविचलिततरङ्गं बहुविधरत्नैर् भूमिविशेषैर् अर्पितरङ्गं फेनावलीकुसुमदामविचित्रम् असुरवरभुजगवरभवनं दुरापपातालम् अप्रमेयतोयं महासमुद्रम् /
SK
अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापाद् इव खं विलीनम् / समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यम् ईयुः // AJम्_१४.३ //
SK
तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महद् औत्पातिकं परमभीषणं प्रादुरभूत् /
SK
विभिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः / नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः // AJम्_१४.४ //
SK
उत्पातवाताकलितैर् महद्भिस् तोयस्थलैर् भीमरयैर् भ्रमद्भिः / युगान्तकालप्रचलाचलेव भूमिर् बभूवोग्रवपुः समुद्रः // AJम्_१४.५ //
SK
विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षाः / आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः // AJम्_१४.६ //
SK
घनैर् घनैर् आवृतरश्मिजालः सूर्यः क्रमेणास्तम् उपारुरोह / दिनान्तलब्धप्रसरं समन्तात् तमो घनीभावम् इवाजगाम // AJम्_१४.७ //
SK
धाराशरैर् आच्छुरितोर्मिचक्रे महोदधाव् उत्पततीव रोषात् / भीतेव नौर् अभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम् // AJम्_१४.८ //
SK
ते त्रासदीनाश् च विषादमूका धीराः प्रतीकारससंभ्रमाश् च / स्वदेवतायाचनतत्पराश् च भावान् यथासत्त्वगुणं विवव्रुः // AJम्_१४.९ //
SK
अथ ते सांयात्रिकाः पवनसलिलवेगवशगया नावा परिभ्राम्यमाणा बहुभिर् अप्य् अहोभिर् नैव कुतश् चित् तीरं ददृशुर् न च यथेप्सितानि समुद्रचिह्नानि / अपूर्वैर् एव तु समुद्रचिह्नैर् अभिवर्धमानवैमनस्या भयविषादव्याकुलताम् उपजग्मुः // अथैनान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्न् उवाच / अनाश्चर्यः खलु समुद्रम् अवगाढानाम् औत्पातिकक्षोभपरिक्लेशः / तद् अलम् अत्रभवतां विषादानुवृत्त्या /
SK
नापत्प्रतीकारविधिर् विषादस् तस्माद् अलं दैन्यपरिग्रहेण / धैर्यात् तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति // AJम्_१४.१० //
SK
विषाददैन्यं व्यवधूय तस्मात् कार्यावकाशं क्रियया भजध्वम् / प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः // AJम्_१४.११ //
SK
इति ते सांयात्रिकास् तेन महात्मना धीरीकृतमनसः कूलसंदर्शनोत्सुकमतयः समुद्रम् अवलोकयन्तो ददृशुः पुरुषविग्रहान् आमुक्तरूप्यकवचान् इवोन्मज्जतो निमज्जतश् च / सम्यक् चैषाम् आकृतिनिमित्तम् अवधार्य सविस्मयाः सुपारगाय न्यवेदयन्त / अपूर्वं खल्व् इदम् इह समुद्रे चिह्नम् उपलभ्यते / एते खलु
SK
आमुक्तरूप्यकवचा इव दैत्ययोधा घोरेक्षणाः क्षुरनिकाशविरूपघोणाः / उन्मज्जनावतरणस्फुरणप्रसङ्गात् कृईडाम् इवार्णवजले ऽनुभवन्ति के ऽपि // AJम्_१४.१२ //
SK
सुपारग उवाच / नैते मानुषा अमानुषा वा / मीनाः खल्व् एते यतो न भेतव्यम् एभ्यः / किं तु /
SK
सुदूरम् अपकृष्टाः स्मः पत्तनद्वितयाद् अपि / क्षुरमाली समुद्रो ऽयं तद् यतध्वं निवर्तितुम् // AJम्_१४.१३ //
SK
चण्डवेगवाहिना तु सलिलनिवहेनैकान्तहरेण च पाश्चात्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर् विनिवर्तितुम् // अथावगाहमानाः क्रमेण रूप्यप्रभावभासितसितसलिलं फेननिचयपाण्डरम् अपरं समुद्रम् आलोक्य सविस्मयाः सुपारगम् ऊचुः /
SK
स्वफेनमग्नैर् इव को ऽयम् अम्बुभिर् महार्णवः शुक्लदुकूलवान् इव / द्रवान् इवेन्दोः किरणान् समुद्वहन् समन्ततो हास इव प्रसर्पति // AJम्_१४.१४ //
SK
सुपारग उवाच / कष्टम् / अतिदूरं खल्व् अवगाह्यते /
SK
क्षीरार्णव इति ख्यात उदधिर् दधिमाल्य् असौ / क्षमं नातः परं गन्तुं शक्यते चेन् निवर्तितुम् // AJम्_१४.१५ //
SK
वणिज ऊचुः / न खलु शक्यते विलम्बयितुम् अपि वहनं कुत एव निवर्तयितुम् अतिशीघ्रवाहित्वाद् वहनस्य प्रतिकूलत्वाच् च मारुतस्येति // अथ व्यतीत्य तम् अपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालम् अग्निज्वालाकपिलसलिलम् अपरं समुद्रम् आलोक्य सविस्मयकौतूहलास् ते वणिजः सुपारगं पप्रच्छुः /
SK
बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैर् अनीलैः / ज्वलन् महान् अग्निर् इवावभाति को नाम कस्माच् च महार्णवो ऽयम् // AJम्_१४.१६ //
SK
सुपारग उवाच /
SK
अग्निमालीति विख्यातः समुद्रो ऽयं प्रकाशते / अतीव खलु साधु स्यान् निवर्तेमहि यद्य् अतः // AJम्_१४.१७ //
SK
इति स महात्मा नाममात्रम् अकथयत् तस्य सरित्पतेर् न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात् // अथ ते सांयात्रिकास् तम् अपि समुद्रम् अतीत्य पुष्परागेन्द्रनीलप्रभोद्द्योतितसलिलं परिपक्वकुशपर्णनिकाशवर्णम् अपरं समुद्रम् आलोक्य कौतूहलजाताः सुपारगं पप्रच्छुः /
SK
परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्व् अयं विभाति / सकुसुम इव फेनभक्तिचित्रैर् अनिलजवाकलितैस् तरङ्गभङ्गैः // AJम्_१४.१८ //
SK
सुपारग उवाच / भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम् / न खल्व् अतः परं क्षमते गन्तुम् /
SK
कुशमाली समुद्रो ऽयम् अत्यङ्कुश इव द्विपः / प्रसह्यासह्यसलिलो हरन् हरति नो रतिम् // AJम्_१४.१९ //
SK
अथ ते वाणिजकाः परेणापि यत्नेन वहनं निवर्तयितुम् अशक्नुवन्तस् तम् अपि समुद्रम् अतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलम् अपरं समुद्रम् आलोक्य सुपारगम् अपृच्छन् /
SK
मरकतहरितप्रभैर् जलैर् वहति नवाम् इव शाद्वलश्रियम् / कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमो ऽयम् ईक्ष्यते // AJम्_१४.२० //
SK
अथ स महात्मा तेन तस्य वणिग्जनस्य व्यसनोपनिपातेन परिदह्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य शनकैर् उवाच /
SK
अतिदूरम् उपेताः स्मः दुःखम् अस्मान् निवर्तितुम् / पर्यन्त इव लोकस्य नलमाल्य् एष सागरः // AJम्_१४.२१ //
SK
तच् छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास् तत्रैव निषेदुः / व्यतीत्य तम् अपि समुद्रं सायाह्नसमये विलम्बमानमन्दरश्मिमण्डले सलिलनिधिम् इव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेर् अशनीनाम् इव च संपततां वेणुवनानाम् इव चाग्निपरिगतानां विस्फुटतां तुमुलम् अतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिम् अश्रौषुः / श्रुत्वा च संत्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततो ऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महान्तं तम् उदकौघं निपतन्तम् </> दृष्ट्वा च परमभयविह्वलाः सुपारगम् उपेत्योचुः /
SK
निर्भिन्दन्न् इव नः श्रुतीः प्रतिभयश् चेतांसि मथ्नन्न् इव क्रुद्धस्येव सरित्पतेर् ध्वनिर् अयं दूराद् अपि श्रूयते / भीमे श्वभ्र इवाग्रतश् च निपतत्य् एतत् समग्रं जलं तत् को ऽसाव् उदधिः किम् अत्र च परं कृत्यं भवान् मन्यते // AJम्_१४.२२ //
SK
अथ स महात्मा ससंभ्रमः कष्टं कष्टम् इत्य् उक्त्वा समुद्रम् आलोकयन्न् उवाच /
SK
यत् प्राप्य न निवर्तन्ते मृत्योर् मुखम् इवामुखम् / अशिवं समुपेताः स्मस् तद् एतद् वडबामुखम् // AJम्_१४.२३ //
SK
तद् उपश्रुत्य ते वाणिजका वडबामुखम् उपेता वयम् इति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः
SK
सस्वरं रुरुदुः के चिद् विलेपुर् अथ चुक्रुशुः / न किं चित् प्रत्यपद्यन्त के चित् त्रासविचेतसः // AJम्_१४.२४ //
SK
विशेषतः के चिद् अभिप्रणेमुर् देवेन्द्रम् आर्तिप्रहितैर् मनोभिः / आदित्यरुद्राश्विमरुद्वसूंश् च प्रपेदिरे सागरम् एव चान्ये // AJम्_१४.२५ //
SK
जेपुश् च मन्त्रान् अपरे विचित्रान् अन्ये तु देवीं विधिवत् प्रणेमुः / सुपारगं के चिद् उपेत्य तत् तद् विचेष्टमानाः करुणं विलेपुः // AJम्_१४.२६ //
SK
आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसंभृतस्य / अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः // AJम्_१४.२७ //
SK
आर्तान् अनाथाञ् छरणागतान् नस् त्वं त्रातुम् आवर्जय धीर चेतः / अयं हि कोपाद् वडबामुखेन चिकीर्षति ग्रासम् इवार्णवो ऽस्मान् // AJम्_१४.२८ //
SK
नोपेक्षितुं युक्तम् अयं जनस् ते विपद्यमानः सलिलौघमध्ये / नाज्ञां तवात्येति महासमुद्रस् तद् वार्यताम् अप्रशमो ऽयम् अस्य // AJम्_१४.२९ //
SK
अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस् तान् वाणिजकान् व्यवस्थापयन्न् उवाच / अस्त्य् अत्रापि नः कश् चित् प्रतीकारविधिः प्रतिभाति / तं तावत् प्रयोक्ष्ये यतो मुहूर्तं धीरास् तावद् भवन्तु भवन्त इति // अथ ते वाणिजका अस्त्य् अत्रापि प्रतीकार इत्य् आशया समुपस्तम्भितधैर्यास् तदवहितमनसस् तूष्णींबभूवुः // अथ सुपारगो बोधिसत्त्व एकांसम् उत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस् तान् सांयात्रिकान् आमन्त्रयते स्म / शृण्वन्त्व् अत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश् च देवताविशेषाः /
SK
स्मरामि यत आत्मानं यतः प्राप्तो ऽस्मि विज्ञताम् / नाभिजानामि संचिन्त्य प्राणिनं हिंसितुं क्व चित् // AJम्_१४.३० //
SK
अनेन सत्यवाक्येन मम पुण्यबलेन च / वडबामुखम् अप्राप्य स्वस्ति नौर् विनिवर्तताम् // AJम्_१४.३१ //
SK
अथ तस्य महात्मनः सत्याधिष्ठानप्रभावात् पुण्यतेजसा च सह सलिलजवेन स मारुतो व्यावर्तमानस् तां नावं विनिवर्तयाम् आस / निवृत्तां तु तां नावम् अभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता निवृत्ता नौर् इति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त // अथ स महात्मा तान् वाणिजकान् उवाच / स्थिरीभवन्तु भवन्तः / शीघ्रम् आरोप्यन्तां शीतानि / इति च तेन समादिष्टाः प्रमोदाद् उद्भूतबलोत्साहास् ते तदधिकृतास् तथा चक्रुः /
SK
अथ मुदितजनप्रहासनादा प्रविततपाण्डरशीतचारुपक्षा / सलिलनिधिगता रराज सा नौर् गतजलदे नभसीव राजहंसी // AJम्_१४.३२ //
SK
निवृत्तायां तु तस्याम् अनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैवाभिप्रयातायां नावि नातिश्यामीभूतसंध्याङ्गरागासु प्रवितन्यमानतमोवितानास्व् आलक्ष्यनक्षत्रभूषणासु दिक्षु किं चिद् अवशेषप्रभे दिवसकरमार्गे प्रवृत्ते क्षणदाधिकारे सुपारगस् तान् वाणिजकान् उवाच / भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालिकापाषाणा वहनम् आरोप्यन्तां यावत् सहते / एवम् इदं यानपात्रं निर्घातभराक्रान्तं न च पार्श्वानि दास्यति / मङ्गलसंमताश् चैते वालिकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति // ते सुपारगप्रेमबहुमानावर्जितमतिभिर् देवताभिर् अनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालिकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनम् आरोपयाम् आसुः // तेनैव चैकरात्रेण सा नौर् भरुकच्छम् उपजगाम //
SK
अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः / स्वदेशतीरान्तम् उपागतास् ते प्रीत्या तम् आनर्चुर् उदीर्णहर्षाः // AJम्_१४.३३ //
SK
तद् एवं धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् //
SK
कल्याणमित्राश्रयवर्णे ऽपि वाच्यम् एवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति //
SK
सुपारगजातकं चतुर्दशम् //
SK
१५. Mअत्स्यजातकम्
SK
शीलवताम् इहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्राग् एव परत्रेति शीलविशुद्धौ प्रयतितव्यम् //
SK
तद्यथानुश्रूयते / बोधिसत्त्वः किल कस्मिंश् चिन् नातिमहति कह्लारतामरसकमलकुवलयविभूषितरुचिरसलिले हंसकारण्डवचक्रवाकमिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर् बभूव / स्वभ्यस्तभावाच् च बहुषु जन्मान्तरेषु परार्थचर्यायास् तत्रस्थो ऽपि परहितसुखोपपादनसव्यापारो बभूव /
SK
अभ्यासयोगाद् धि शुभाशुभानि कर्माणि सात्म्य् एव भवन्ति पुंसाम् / तथाविधान्य् एव यद् अप्रयत्नाज् जन्मान्तरे स्वप्न इवाचरन्ति // AJम्_१५.१ //
SK
इष्टानाम् इव च स्वेषाम् अपत्यानाम् उपरि निविष्टहार्दो स महासत्त्वस् तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परम् अनुग्रहं चकार /
SK
अन्योन्यहिंसाप्रणयं नियच्छन् परस्परप्रेम विवर्धयंश् च / योगाद् उपायज्ञतया च तेषां विस्मारयाम् आस स मत्स्यवृत्तम् // AJम्_१५.२ //
SK
तत् तेन सम्यक् परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम / पुरं विनिर्मुक्तम् इवोपसर्गैर् न्यायप्रवृत्तेन नराधिपेन // AJम्_१५.३ //
SK
अथ कदा चित् सत्त्वानां भाग्यसंपद्वैकल्यात् प्रमादाच् च वर्षाधिकृतानां देवपुत्राणां न सम्यग् देवो ववर्ष / असम्यग् वर्षिणि च देवे तत् सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापूर्वम् आपुपूरे / क्रमेण चोपगते निदाघसमये पटुतरदीप्तिभिः खेदालसगतिभिर् इव च दिनकरकिरणैस् तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभिलाषिणा मारुतेन तर्षवशाद् इव प्रत्यहम् आपीयमानं तत् सरः पल्वलीबभूव /
SK
निदाघकालज्वलितो विवस्वाञ् ज्वालावकर्षीव पटुश् च वायुः / ज्वरातुरेवाशिशिरा च भूमिस् तोयानि रोषाद् इव शोषयन्ति // AJम्_१५.४ //
SK
अथ बोधिसत्त्वो वायसगणैर् अपि प्रतर्क्यमाणं प्राग् एव सलिलतीरान्तचारिभिः पक्षिगणैर् विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलम् अवेक्ष्य करुणायमाणश् चिन्ताम् आपेदे / कष्टा बतेयम् आपद् आपतिता मीनानाम् /
SK
प्रत्यहं क्षीयते तोयं स्पर्धमानम् इवायुषा / अद्यापि च चिरेणैव लक्ष्यते जलदागमः // AJम्_१५.५ //
SK
अपयानक्रमो नास्ति नेताप्य् अन्यत्र को भवेत् / अस्मद्व्यसनसंहृष्टाः समायान्ति च नो द्विषः // AJम्_१५.६ //
SK
अस्य निःसंशयम् इमे तोयशेषस्य संक्षयात् / स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर् मम पश्यतः // AJम्_१५.७ //
SK
तत् किम् अत्र प्राप्तकालं स्याद् इति विमृशन् स महात्मा सत्याधिष्ठानम् एकम् आर्तायनं ददर्श / करुणया च समापीड्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य नभः समुल्लोकयन्न् उवाच /
SK
स्मरामि न प्राणिवधं यथाहं संचिन्त्य कृच्छ्रे परमे ऽपि कर्तुम् / अनेन सत्येन सरांसि तोयैर् आपूरयन् वर्षतु देवराजः // AJम्_१५.८ //
SK
अथ तस्य महात्मनः पुण्योपचयगुणात् सत्याधिष्ठानबलात् तदभिप्रसादितदेवनागयक्षानुभावाच् च समन्ततस् तोयावलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालंकृता नीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वज्यमाना इव चान्योन्यम् अकालमेघाः कालमेघाः प्रादुरभवन् /
SK
दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर् वितन्वन्त इवान्धकारम् / नभस्तलादर्शगता विरेजुश् छाया गिरीणाम् इव कालमेघाः // AJम्_१५.९ //
SK
संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः / प्रसक्तमन्द्रस्तनिता विरेजुर् धीरप्रहासा इव ते घनौघाः // AJम्_१५.१० //
SK
मुक्ता विमुक्ता इव तैर् विमुक्ता धारा निपेतुः प्रशशाम रेणुः / गन्धश् चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन // AJम्_१५.११ //
SK
निदाघसंपर्कविवर्धितो ऽपि तिरोबभूवार्ककरप्रभावः / फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः // AJम्_१५.१२ //
SK
मुहुर् मुहुः काञ्चनपिञ्जराभिर् भाभिर् दिगन्तान् अनुरञ्जयन्ती / पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तम् इवाचचार // AJम्_१५.१३ //
SK
अथ बोधिसत्त्वः समन्ततो ऽभिप्रसृतैर् आपाण्डुभिः सलिलप्रवाहैर् आपूर्यमाणे सरसि धारानिपातसमकालम् एव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यम् आबभाषे /
SK
उद्गर्ज पर्जन्य गभीरधीरं प्रमोदम् उद्वासय वायसानाम् / रत्नायमानानि पयांसि वर्षन् संसक्तविद्युज्ज्वलितद्युतीनि // AJम्_१५.१४ //
SK
तद् उपश्रुत्य शक्रो देवानाम् इन्द्रः परमविस्मितमनाः साक्षाद् अभिगम्यैनम् अभिसंराधयन्न् उवाच /
SK
तवैव खल्व् एष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः / आवर्जिता यत् कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः // AJम्_१५.१५ //
SK
महत्प्रमादस्खलितं त्व् इदं मे यन् नाम कृत्येषु भवद्विधानाम् / लोकार्थम् अभ्युत्थितमानसानां व्यापारयोगं न समभ्युपैमि // AJम्_१५.१६ //
SK
चिन्तां कृथा मा तद् अतः परं त्वं सतां हि कृत्योद्वहने ऽस्मि धुर्यः / देशो ऽप्य् अयं त्वद्गुणसंश्रयेण न भूय एवं भवितार्तिवश्यः // AJम्_१५.१७ //
SK
इत्य् एवं प्रियवचनैर् अभिसंराध्य तत्रैवान्तर्दधे / तच् च सरः परां तोयसमृद्धिम् अवाप //
SK
तद् एवं शीलवताम् इहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्राग् एव परत्रेति शीलविशुद्धौ प्रयतितव्यम् इति //
SK
मत्स्यजातकं पञ्चदशम् //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Āryaśūra: Jātakamālā 1-15 (sa_AryazUra-jAtakamAlA-1-15.htm).

Source