Monastic Code for Nuns

Bhikṣuṇīvinaya · Bहिक्षुणीविनय

Monastic Code for Nuns

Bhikṣuṇīvinaya

Bहिक्षुणीविनय

SK
भिक्षुणी-विनय
SK
STORY OF MAHĀPRAJĀPATĪ GAUTAMĪ
SK
१. ॐ नमो बुद्धाय | आर्यमहासांघिकानां लोकोत्तरवादिनां मध्य्ऽ-उदेशिकानां पाठेन भिक्षुणीविनय स्यादिः |
SK
भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा शाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिन् न्यग्रोधारामे शास्ता देवानाञ् च मनुष्यानाञ् च बुद्धो भगवान् सत्कृतोगुरुकृतो मानितः पूजितो अर्चितो अपचायितो लाभाग्रयशो-ऽग्रप्राप्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानान् | तत्र चानुपलिप्तो पद्मम् इव जलेन पुण्यभागीयान् सत्वान् पुण्येहि निवेशयमानो फलभागीयान् सत्वान् फलेहि प्रतिष्ठापयमानो वासनाभागीयान् सत्वान् वासनायाम् अवस्थापयमानो अमृतम् अनल्पकेन देवमनुष्यान् सम्विभजन्तो प्राणिकोटिनियुतशतसहस्राण्य् अमृतं अनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकविदुर्गान् महाप्रपाताद् अभ्युद्धरित्वा क्षेमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अङ्गमगधवृजिमल्लिकाशिकोशलकुरुपञ्चालचेदिवत्समत्स्यशूरसेनशिविदशार्ण चास्वकिअवन्ति |
SK
ज्ञाने दृष्टपराक्रमो स्वयांभूः दिव्येहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि सातत्ये हि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवसिपरमपारमिप्रप्ताश् च पुनर् बुद्धा भगवन्तो येहि येहि विहारेहि आकाङ्क्षन्ति तेहि तेहि विहारेहि विहरन्ति विहारकुशलाश् च पुनर् बुद्धा भगवन्तः |
SK
२. अथ खलु महाप्रजापती गौतमी च्छन्दाय च्छन्दकपालाय दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सार्धं येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकान्तस्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत् | दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना | भगवांस् चैतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो च देशयति औपसमिको पारिनिवाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति | साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुणिभावं | भगवान् आह | मा ते गौतमि रोचतु तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो |
SK
अथ खलु महाप्रजापती गौतमी | न खलु भगवान् मातृग्रामस्य अवकाशं करोति तथागत प्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदाय भिक्षुणीभावायेति | सा भगवतो पादौ शिरसा वन्दित्वा सार्धं च्छन्दाय च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च येन तानि पञ्च शाकियानीशतानि तेनोपसंक्रमित्वा शाकियानीयो एतद् अवोचत् | न खलु आर्यमिश्रिकायो भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाय भिक्षुणीभावाय | किम् पुन वयम् आर्यमिश्रिकायो सामम् एव केशान् ओतारयित्वा काषायानि वस्त्राणि आच्छादयित्वा कोशकाबद्धेहि यानेहि भगवन्तं कोशलेहि जनपदेहि चारिकां चरमाणं पृष्ठिमेन पृष्ठिम् आबन्धेम | सचे मो भगवान् अनुजानिष्यति प्रव्रजिष्यामो नो च अनुजानिष्यति एवम् तु तायि भगवतो सन्तिके ब्रह्मचर्यञ् चरिष्यामः साधु आर्येति तायो शाकियानीयो महाप्रजापतीये गौतमीये प्रत्याश्रौषि |
SK
३. अथ खलु भगवान् कपिलवस्तुस्मिन् नगरे यथाभिरम्यं विहरित्वा कोशलेषु जनपदेषु चारिकां प्रक्रामि | अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दाये च्छन्दकपलाये दासच्छन्दाय च्छन्दकमातरे च पञ्चहि च शाकियानीशतेहि सात्मनेव केशान् ओतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा कोशकबद्धेहि यानेहि भगवन्तं कोशलेषु जनपदेषु चारिकां चरमाणं पृष्ठिमेन पृष्ठम् अनुबन्धेंसुः |
SK
४. अथ खलु भगवान् कोशलेषु जनपदेषु चारिकां चरमानो महता भिक्षुसंघेन सार्धं पञ्चहि भिक्षुशतेहि येन कोशलानां श्रावस्तीनगरं तद् अवसारि | तद् अनुप्राप्तस् तत्रैव विहरति जेतवने अनाथपिण्डदस्यारामे |
SK
अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि | एकान्तस्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत् | दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना | भगवांश् चैतर्हि लोके उत्पन्नो तथागतो र्हं सम्यक्सम्बुद्धो धर्मो च देशते औपसमिको च पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियाय सम्वर्तति | साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदां भिक्षुणीभावं | एवम् उक्ते भगवान् महाप्रजापतीं गौतमीम् एतद् अवोचत् | मा ते गौतमी रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याउपसम्पदाभिक्षुणिभावो |
SK
५. अथ खलु महाप्रजापती गौतमी | न खलु भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्याय उपसम्पदाय भिक्षुणिभावस्येति | सा भगवतो पादां शिरसा वन्दित्वा जेतवनस्य आरामद्वारकोष्ठकसमीपे रोदमानी अस्थासि पादाण्गुष्ठेन भूमिं विलिखन्ती | अद्दशाशि खु अन्यतरो भिक्षुर् महाप्रजापतीं गौतमीं जेतवनस्य आरामद्वारकोष्ठसमीपे रुदमानीन् तिष्ठन्तीं पादाङ्गुष्ठेन भूमिं विलिखेन्तीं दृष्ट्वा च पुनर् येनायुष्मान् आनन्दो तेनोपसंक्रमित्वा आयुष्मन्तम् आनन्दम् एतद् अवोचत् | एषा आयुष्मन् आनन्द महाप्रजापती गौतमी जेतवनस्य आरामकोष्ठकसमीपे रुदमानी तिष्ठति पादाङ्गुष्ठेन भूमिं विलिखन्ती | गच्छावुसानन्द जानेहि किं महाप्रपती गौतमी रोदीति |
SK
६. अथ खलु आयुष्मान् आनन्दो येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत् | किं गौतमि रुदसि | एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् | अलम् मे आर्यानन्द रुण्णेन यत्र हि नाम एवं दुर्लभो बुद्धोत्पादो एवं दुर्लभा सद्धर्मदेशना | भगवांश् चैतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो देशीयति औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति | न च भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसम्पदाय भिक्षुणीभावस्य श्चै साधु तावार्यानन्द भगवन्तं याच यथा लभेय मातृग्रामो पि तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं |
SK
७. साधु गौतमीति आयुष्मान् आनन्दो महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौशिरसा वन्दित्वा एकान्ते अस्थासि | एकान्तस्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्धर्मदेशना भगवान् चेतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो च देश्यते औपसमिको पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति | साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपदम्पदां भिक्षुणिभावं | एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् | मा ते गौतमीमाता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसम्पदा भिक्षुणीभावो |
SK
८. अथ खल्व् आयुष्मान् आनन्दो | भगवान् नावकशं करोति मातृग्रामस्य तथागत प्रवेदिते धर्मविनये प्रव्रज्याउपसंपदाये भिक्षुणीभावस्येति | भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापति गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत् | न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावाय | एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् | साधु तावार्यानन्द द्वितीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्यां उपसंपदां भिक्षुणीभावं | साधु गौतमीति आयुष्मान् आनन्दो द्वितीयं पि महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि | एकान्ते स्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | दुर्लभो भगवन् बुद्धोत्पादो ति तद् एवं सर्वं याव भिक्षुणीभावो ति एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् | माते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्या उपसंपदा भिक्षुणीभावो | संयथापि नामानन्द सम्पन्ने यवकरणे च कारण्डवं नाम रोगराजा ति उपनिपतेय एवन् तं सम्पन्नं यवकरणं महता उपक्लेशेन उपक्लिष्टं भवति एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणीभावं एवन् तं प्रावचनं महतामुपक्लेशेन उपक्लिष्टं भवति | सय्यथापि नाम गौतमी माता सम्पन्ने इक्षुकरणे मञ्जिष्ठा नाम रोगराजा ति एवन् तं सम्पन्नं इक्षुकरणम् महता उपक्लेशेन उपक्लिष्टम् भवति | एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणीभावं एवन् तं प्रावचनम् महता उपक्लेशेन उपक्लिष्टम् भवति | सय्यथापि नाम मा ते गौतमी माता रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यामुपसंपदा भिक्षुणीभावो |
SK
९. अथ खल्व् आयुष्मान् आनन्दो | भगवान् ना वकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति | येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत् | न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्यायोपसंपदाय भिक्षुणीभावस्येति | एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् | साधु तावार्यानन्द तृतीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावं | साधु गौतमीती आयुष्मान् आनन्दो तृतीयं पि महाप्रजापतीय गौतमीय प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि एकान्तनिषण्णो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | पुरिमकानां भगवन् तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां कति पर्षायो अभुवन् | एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् | पुरिमकानाम् आनन्द तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां चत्वारि परिषायो अभुवन् सय्यथीदं | भिक्षु भिक्षुणी उपासकोपासिका |
SK
एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | ये इमे भगवन् चत्वारो श्रामण्यफला सय्यथीदं श्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अग्रफलम् अर्हत्वं | भव्यो एतेषां मातृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं | एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् | यानीमानि आनन्द चत्वारि श्रामण्यफलानि सय्यथीदं श्रोतआपत्तिफलं यावद् अग्रफलम् अर्हत्वं | भव्यो एतेषां मतृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं |
SK
१०. एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | यतो खलु भगवन् पुरिमकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां चत्वारो पर्षायो अभूंसुः भिक्षुभिक्षुणी उपासकोपासिका | इमे चत्वारि श्रामण्यफलानि सय्यथीदं | श्रोतआपत्तिफलं याव अग्रफलम् अर्हत्वं | भव्यो एतेषां मातृग्रामो पि एको अप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं | साधु भगवन् मातृग्रामो पि लभेय तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसंपदां भिक्षुणीभावं | दुष्करकारिका च भगवतो महाप्रजापती गौतमी आपायिका पोषिका जनेत्रीये कालगताये स्तन्यस्य दायिका भगवांश् च कृतज्ञो कृतवेदी | एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत् | एवम् एतद् आनन्द दुष्करकारिका आनन्द तथागतस्य महाप्रजापती गौतमी आपायिका पोषिका जनेत्रिये कालगताये स्तन्यस्य दायिका तथागतो च कृतज्ञो कृतवेदी च | अपि चानन्द तथागतो पि महाप्रजापतीय गौतमीय दुष्करकारको | तथागतं ह्य् आनन्दाआगम्य महाप्रजापती गौतमी बुद्धशरणं गता | धर्मशरणं गता | संघशरणं गता तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी
SK
यावज्जीवं प्राणातिपातातो प्रतिविरता [१] यावज्जीवं अदत्तादानात् प्रतिविरता [२] यावज्जीवं कामेषु मिथ्याचारात् प्रतिविरता [३] यावज्जीवं मृषावादातो प्रतिविरता [४] यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरता || [५]
SK
तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी श्रद्धया वर्धति | शीलेन वर्धति श्रुतेन वर्धति त्यागेन वर्धति | प्रज्ञया वर्धति | तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी दुःखं जानाति समुदयं जानाति | निरोधं जानाति | मार्गं जानाति ||
SK
११. यं आनन्द पुद्गलो पुद्गलम् आगम्य बुद्धं शरणं गच्छति | धर्मं शरणं गच्छति | संघं शरणं गच्छति | इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरणं भवति यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि | एवं पि न सुप्रतिकरं भवति | यं आनन्द पुद्गलो पुद्गलम् आगम्य यावज्जीवं प्राणातिपातातो प्रतिविरमति | यावज्जीवं अदत्तादानातो प्रतिविरमति | यावज्जीवं कामेषु मिथ्याचारात् प्रतिविरमति | यावज्जीवं मृषावादातो प्रतिविरमति | यावज्जीवं सुरामैरेयमद्यपानातो प्रतिविरमति | इमिना पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति | यावज्जीवं अपि न उपस्थिहेया | यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि | एवं पि न सुप्रतिकरं भवति | यं आनन्द पुद्गलो पुद्गलम् आगम्य श्रद्धया वर्धति शीलेन श्रुतेन त्यागेन प्रज्ञया वर्धति | इमिनानन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति | यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि | एवं पि से न सुप्रतिकारम् भवति | यं आनन्द पुद्गलो पुद्गलम् आगम्य दुःखं जानाति समुदयं जानाति निरोधञ् जानाति मार्गञ् च जानाति | इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकारम् भवति | यावज्जीवं पि न उपस्थिहेय यद् उत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि | एवं पि से न सुप्रतिकरम् भवति ||
SK
१२. अथ खलु भगवतो एतद् अभूषि | सचे खलु अहम् आनन्दस्य गौतमस्य पुत्रस्य यावत्तृतीयकं अपि प्रतिवहिष्यामि भविष्यति च से चित्तस्यान्यथात्वं | श्रुता पि से धर्मा सम्मोहं गमिष्यन्ति | कामं वर्षसहस्रं पि मे सद्धर्मो स्थास्यति | मा हैवानन्दस्य गौतमीपुत्रस्य भवतु चित्तस्यान्यथात्वं मा पि से श्रुता धर्मा सम्मोषङ् गच्छन्तु | कामं पञ्चापि मे वर्षशतानि सद्धर्मो स्थास्यति | अथ खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयति स्म | सय्यथापि नामानन्द इह पुरुषो पर्वतसंक्षेपे सेतुं बन्धेय यावद् एव वारिस्य अनतिक्रमणाय एवम् एवानन्द तथागतो भिक्षुणीनाम् अष्ट गुरुधर्मान् प्रज्ञापेति ये भिक्षुनीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव महासमुद्रेण || कतमे अष्टौ |
SK
अष्टौ गुरुधर्मा
SK
गुरुधर्म १
SK
१३. वर्षशतो पसम्पन्नाये आनन्द भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा पादा वन्दितव्या | अयम् आनन्द भिक्षुणीनां प्रथमो गुरुधर्मो यो भिक्षूणीहि यावज्जीवं सत्कर्तव्यो याव अनतिक्रमणीयो वेलामिव महासमुद्रेण ||
SK
गुरुधर्म २ अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी देशिताशिक्षाये परिपूर्णशिक्षाये उभयतो संघे उपसम्पदा प्रत्याशंसितव्या | अयम् आनन्द द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो याव वेला इव समुद्रेण ||
SK
गुरुधर्म ३ आवड्डो आनन्द भिक्षुणीनां भिक्षुषु वचनपथो भूतेन वा अभूतेन वा अनावड्डो भिक्षुस्य भिक्षुणीषु वचनपथो भूतेन नो अभूतेन | अयम् आनन्द भिक्षुणीनां तृतीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ||
SK
गुरुधर्म ४ भक्ताग्रं शय्यासनं विहारो च भिक्षुणीहि भिक्षुतो सादयितव्यो | अयम् आनन्द चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो विस्तरेण ||
SK
गुरुधर्म ५ गुरुधर्मापन्नाये आनन्द भिक्षुणीये अर्धमासम् भिक्षुणीसंघे मानत्वं याचितव्यं उभयतो संघे च आह्वयनं | अयम् आनन्द पण्चमो भिक्षुणीनां गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ||
SK
गुरुधर्म ६ अन्वार्धमासं भिक्षुणीहि भिक्षुसंघात् उवादोपसंक्रमणं प्रत्याशंसितव्यं | अयम् आनन्द भिक्षुणीनाम् षष्ठो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण |
SK
गुरुधर्म ७ न क्षमति भिक्षुणीहि अभिक्षुके आवासे वर्षाम् उपगन्तुं | अयम् आनन्द भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो विस्तरेण ||
SK
गुरुधर्म ८ वर्षोषिताहि आनन्द भिक्षुणीहि उभयतोसंघे प्रवारणा प्रत्याशंसितव्या | अयम् आनन्द भिक्षुणीनां अष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेला इव समुद्रेण |
SK
इमे आनन्द भिक्षुणीनाम् अष्टौ गुरुधर्मा ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला इव समुद्रेण ||
SK
१४. सचे नामानन्द महाप्रजापती गौतमी इमान् अष्ट गुरुधर्मान् प्रतीच्छति चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षति | एषा से अद्यदग्रेण प्रव्रज्या | एषा उपसंपदा एष भिक्षुणीभावो | साधु भगवन्न् इति आयुष्मान् आनन्दो भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत् | शृणु गौतमी भगवतो वचनं | सय्यथापि नाम गौतमी इह पुरुष पर्वतसंक्षेपे सेतुं बन्धेय यावद् एव वारिष्य अनतिक्रमणाय एवम् एव गौतमी भगवान् भिक्षुणीनां अष्टगुरुधर्मान् प्रज्ञापेति ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेलामिव समुद्रेण |
SK
१५. कतमे ऽष्ट | वर्षशतोपसम्पन्नाय गौतमी भिक्षुणीय तदहोपसम्पन्नस्य भिक्षुस्य पादा शिरसा वन्दितव्या | अयं गौतमी भिक्षुणीनाम् प्रथमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यो अनतिक्रमणीयो वेलामिव समुद्रेण | एवं सर्वे अष्ट गुरुधर्मान् | तद् एव महाप्रजापतीय गौतमीय प्रत्यारोचिति | याव सचे खु त्वं गौतमी इमान् अष्ट गुरुधर्मान् प्रतीच्छसि चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षसि | एषा एव ते अद्यदग्रेण प्रव्रज्या एषा उपसम्पदा एष भिक्षुणीभावो ||
SK
१६. एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत् | सय्यथापि नामानन्द इह स्यात् युवा पुरुषो मण्डनजातीयो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उत्पलमालाम् वा चम्पकमालाम् वा कुमुदमालाम् वा तृणमोलिकमालाम् वा शिरसा प्रतीच्छेय एवम् एवाहम् आर्यानन्द इमान् अष्टगुरुधर्मान् शिरसा प्रतीच्छामि चतुहि च पतनीयेहि धर्मेहि अनध्यचाराय शिक्षां शिक्षां शिक्षिष्यं ||
SK
१७. अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दायि च्छन्दकपालाये दासच्छन्दाये च्छन्दकमातरे च पञ्चहि च शाकियानिशतेहि सार्धं येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासुः |
SK
१८. एकान्तस्थितायो भिक्षुणीयो भगवान् एतद् अवोचत् | तस्माद् इह भवे भिक्षुणीयो अद्य्दग्रेण महाप्रजापतीं गौतमीं संघस्थविरां संघमहत्तरीं संघथविरिणा विकन्धावेथ | अथ खलु महाप्रजापती गौतमी येन भगवान् तेनाञ्जलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत् | ये इमे भगवन् भिक्षुणीनां अष्टगुरुधर्मा भगवता संक्षिप्तेन भाषिता विस्तरेण विभक्ता लभ्या ते ऽस्माभिर् विस्तरेण श्रोतुं ||
SK
१९. भगवान् आह | लभ्या | आह | किन्ति दानी गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म समीचीकर्म कर्तव्यं | न दानिं भिक्षुणीये आगमितव्यं | यदाहं वर्सशतोपसम्पन्ना भविष्यं भिक्षु च तद् अहोपसम्पन्नो भविष्यति तदाहम् अभिवादनवन्दनप्रत्युत्थानमञ्जलीकर्म सामीचिकर्म करिष्यं |
SK
२०. अथ खलु सर्वाहि भिक्षुणीहि स्थविरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणाम् स्थेराणां नवानां मध्यमानां अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचिकर्म कर्तव्यं || एते दानि भिक्षू भिक्षूणीउपाश्रयं प्रविष्टा भवन्ति | सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां स्थेराणां नवानाञ् च मध्यमानाम् अभिवादनवन्दनप्रत्युत्थानाञ्जलीकर्म सामीचीकर्म कर्तव्यं ||
SK
२१. अथ दानि भिक्षुणी जरादुर्बला वा भवति व्याधिदुर्बला वा यत्तकानां अभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या | शिष्ठकानां मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं | सर्वेषां आर्यमिश्राणां पादां वन्दामि | एतायो भिक्षुणीयो भिक्षुविहारं निर्धावन्ति सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां थेराणां नवानां मध्यमानां पादा शिरसा वन्दितव्या | अथ दानि भिक्षुणी जरादुर्बला भवति व्याधिदुर्बला वा यत्तकानाम् अभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या शिष्टकानां मूर्ध्नि अञ्जलीं कृत्वा वक्तव्यं | सर्वेषां आर्यमिश्राणां पादा शिरसा वन्दामि |
SK
२२. सा एषा भिक्षुणी अवज्ञाय परिभवनेन कोण्टभिक्षू ति वा कृत्वा ढोस्सभिक्षू ति वा कृत्वा वैद्यभिक्षू ति वा कृत्वा अखल्लमहल्ले ति वा अकुशलो ति वा अप्रतिकृतिज्ञो ति वा कृत्वा न शिरसा पादान् वन्दति गुरुधर्मम् अतिक्रामति | एवं गौतमी वर्षशतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा वन्दितव्यं | अयं गौतमी भिक्षुणीनां प्रथमो गुरुधर्मो यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव समुद्रेण ||
SK
गुरुधर्म २ २३. किन्ति दानि गौतमी अष्टादशवर्षाये कुमारीभूताये द्वेवर्षाणि शिक्षितशिक्षाये परिपूर्णशिक्षाये उभयतोसंघे उपसम्पदा प्रत्यासंसितव्या | या दानि एषा अष्टादशवर्षा कुमारीभूता भवति ताये भिक्षुणीसंघे द्वेवर्षाणी शिक्षादेशनासंमुति याचितव्या | कर्मकारिकाय कर्म कर्तव्यम् | शृणोतु मे आर्यसंघो | इयम् इत्थन्नामा नाम अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं | यदि संघस्य प्राप्तकालं इयम्नामा अष्टादशवर्षा कुमारीभूता संघं द्वेवर्षाणि शिक्षादेशनासंमुतिं याचेया | याचिष्यति आर्यमिश्रिकायो संघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासंमुतिं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि |
SK
२४. ताय दानि याचितव्यं | वन्दामि आर्यसंघं | अहम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसम्पदां भिक्षुणीभावं | साहं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचामि | साधु वत मे आर्यसंघो द्वे वर्षाणि शिक्षादेशनासंमुतिं देतु | एवं द्वितीयम् पि तृतीयम् पि |
SK
२५. कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति | तस्या आर्यसंघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् दद्यात् | ओवयिका एषा ज्ञप्तिः |
SK
शृणोतु मे आर्या संघो | इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदां भिक्षुणीभावं | सेयं संघं द्वे वर्षाणि शिक्षादेशनासंमुतिं याचति | तस्या संघो इत्थन् नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिन् देति | यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणी शिक्षादेशनासंमुतिं दीयमानां संघेन सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषतु | एवं द्वितीयं पि तृतीयं पि दिन्नामार्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासंमुतिः संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि |
SK
२६. तस्या दानि का वत्ता | सर्वभिक्षुणीनान् नविका सर्वश्रामणेरीणां वृद्धा आसनपर्यन्तो ताये सादयितव्यो [१] | भक्तपर्यन्तो ताये सादयितव्यो [२] य्वागुपर्यन्तो ताये सादयितव्यो [३] यत् तस्या ऽमिषम् अकल्पिकम् तं भिक्षुणीनां आमिषं कल्पिकं [४] यं भिक्षुणीनां आमिषं कल्पिकं तस्या तं आमिषं अकल्पिकं [५] भिक्षुणीयिहि तस्याः तेन परिवर्तशेय्या कर्तव्या [६] ताय पि श्रामणेरीणां तेन परिवर्तकशेय्या कर्तव्या [७] | भिक्षुणीयिहि सा प्रतिग्राहणिका कारापयितव्या स्थापयित्वा अग्निकल्पञ् च [८] | जातरूपरजतञ् च [९] ताये पि श्रामणेरीयो प्रतिग्राहणिका कारापयितव्यायो [१०] |
SK
२७. न क्षमति ताये पोषधो वा प्रवारणा वा अभिसंभुणितुं | अथ खलु यदा पोषधो वा प्रवारणा वा भवति | तदहो तायि वृद्धान्तम् आरुह्य मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं | वन्दामि आर्यायो विशुद्धाम् मे धारेथ | द्वितीयम् पि तृतीयम् पि | वन्दामि आर्यायो विशुद्धां धारयेथ त्रीणि वारां जल्पीय गन्तव्यं [११] न क्षमति सा प्रातिमोक्षसूत्रं श्रावयितुं | अथ खलु यत्तकं पारियति पदफलकाये ग्राहयितुं तत्तकं ग्राहयितव्या [१२] | वक्तव्यम् |
SK
न क्षमति अब्रह्मचर्यं प्रतिसेवितुं [१३] न क्षमति अदिन्नम् आदयितुम् [१४] |
SK
न क्षमति स्वहस्तं मनुष्यविग्रहं जीविताद् व्योपरायितुं [१५] न क्षमति अभूवनम् उत्तरिमनुष्यधर्मम् प्रजानितुं [१६] |
SK
एवं यत्तकं पारीयति पदफलके ग्राहयितुं तत्तकं ग्राहयितव्या |
SK
पञ्चशिक्षाभञ्जनकानि | विकालभोजनं | सन्निधिकाराभोजनं | जातरूपरजतप्रतिग्रहणं | गन्धामालाविलेपनधारणं | सुरामैरेयमद्यपानाञ् च | यत्तकानि दिवसानि अध्याचरति तत्तकानि दिवसानि उक्तानि शिक्षा शिक्षितव्या [१८] ||
SK
२८. यं कालं द्वे वर्षाणि भवन्ति ततो ताय संघो उपस्थापनासंमुतिं याचितव्यो |
SK
कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरशिक्षा आकाम्क्षति तथागतप्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदाम् भिक्षुणीभावं | यदि संघस्य प्राप्तकालं इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वष्राणि देशितशिक्षा परिपूरिशिक्षा | सा संघं उपस्थापनासंमुतिं याचेय | याचिष्यति आर्यमिश्रिकायो इत्थन्नामा अष्टादशावर्षा कुमारीभूता देशितशिक्षा परिपूरिशिक्षा द्वे वर्साणि उपस्थापनासंमुतिं | क्षमते तं संघस्य यस्मात् तूष्णिम् एतद् धारयामि |
SK
२९. ताय दानि याचितव्यं | वन्दामि आर्यसंघम् अहम् इत्थन्नामा अष्टादशवर्शा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा | सा अहं संघं उपस्थापनासंमुतिं याचामि | साधु मे आर्या संघो उपस्थापनासंमुतिन् देतु | द्वितीयम् पि तृतीयम् पि | वन्दामि आर्यायो अहम् इत्थन् नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा | साहं संघं उपस्थापनासंमुतिं याचामि | साधु मे आर्यसंघो उपस्थापनासंमुतिन् देतु | कर्मकारिकाये कर्म कर्तव्यं | शृणोतु मे आर्यसंघो | इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता द्वे वर्षाणि देशितशिक्षा परिपूरिशिक्षा सा संघं उपस्थापनासंमुतिं याचति | यदि संघस्य प्राप्तकालं संघो इत्थन् नामाये अष्टादेशवर्षाये कुमारी भूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थ्हापनासंमुतिन् दद्यात् | ओवशिकाये एषा ज्ञप्तिः ||
SK
३०. शृणोतु मे आर्यसंघो इयं इत्थन्नामा अष्टादशवर्षा कुमारी भूता द्वे वर्षाणि देशितशिक्षा परिपूर्णशिक्षा | सा संघम् उपस्थापनासंमुतिं याचति | ताय संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं देति | यासां आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादश वर्षाये कुमारीभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुतिं दीयमानां संघेन | सा तूष्णीम् अस्य | यस्य न क्षमति सा भाषितु | इयं प्रथमा कर्मवाचना | एवं द्वितिया तृतीया कर्मवाचनेति |
SK
३१. दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादश वर्षाये कुमारिभूताये द्वे वर्षाणि देशितशिक्षाये परिपूर्णशिक्षाये उपस्थापनासंमुति संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
३२. उपसंपाद्याय उपाध्यायिनी याचितव्या | वन्दाम्य् आर्ये अहम् इत्थन्नामा आर्याम् उपाध्यायिनीं याचामि | आर्या मे उपसंपादेतु उपाध्यायिनीमिश्राहि | एवं द्वितियम् पि तृतीयम् पि याचितव्यं | उपाध्यायिनीय पात्रचीवराणि पर्येषितव्यानि | अनुश्रावणाचार्या पर्येषितव्या द्वे रहानुशासनाचार्या पर्येषितव्या यो गणो समुदानयितव्यो गणस्य उपनामयितव्यो |
SK
३३. कर्म | शृणोतु मे आर्यसंघो इयम् इत्थन्नामा इत्थन्नामाय उपसम्पाद्या | यदि संघस्य प्राप्तकालं इत्थंनामा च इत्थन्नामा च इत्थन्नामां रहो ऽनुशासेय्या | अनुशासिष्यति आर्यसंघो इत्थन्नामा च इत्थन्नामा च इत्थन्नामां रहो | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि |
SK
३४. ताहि दानि सा अनुशासितव्या गणस्य नातिदूरे नात्यासन्ने संक्षिप्तेन वा विस्तरेण वा |
SK
किन्ति दानि संक्षिप्तेन | वक्तव्या | शृणु कुलधिते यं यद् एवात्र संघमध्ये पृच्छियसि तत् तद् एव यं अस्ति तम् अस्तीति वक्तव्यं | यन् नास्ति तन् नाfतिति वक्तव्यं | एवं संक्षिप्तेन |
SK
३५. किन्ति दानि विस्तरेण | शृणु कुलधीते अयं सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमं ततो महासावद्यतरं |
SK
यं यद् एव संघमध्ये पृच्छियसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं |
SK
अनुज्ञातासि अनुज्ञापकेहि | आमं | याचिता ते उपाध्यायिनी | आम | परिपूर्णन् ते पात्रचिवरं | आम | देशितशिक्षासि | आम | परिपूर्णशिक्षासि | आम | सम्मतासि विशुद्धासि भिक्षुणीहि | आम | मा मातृघातिनि | नहि | मा पितृघातिनि | नहि | मा अर्हन्तघातिनी | नहि | मा संघभेदिका | नहि | मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका | नहि | चिरा परिनिवृतो खो पुन सो भगवांस् तथागतो र्हन् सम्यक्सम्बुद्धो ||
SK
मा भिक्षुदूषिका | नहि | मा स्तैन्यसम्वासिका | नहि | मा तिर्थिकापक्रान्तिका | नहि | मा दासि | नहि | मा अवपितिका | नहि | मा ऋणहारिका | नहि | मा राजभटि | नहि | मा राज्ञः किल्बिषकारिणि | नहि | उपसम्पन्नपूर्वासि | अन्यदापि यद्य् आह उपसम्पन्नपूर्वा ति | वक्तव्या गच्छ नस्य चल प्रपलाहि | नास्ति ते उपसम्पदा |
SK
अथ दान् आह | नहीति | उत्तरि समनुग्राहितव्या मा वातिला | मा पित्तिला | मा पिन्दिला | मा हल्लवाहिनी | मा पूयवाहिनी | मा चक्रवाहिनी | मा आर्द्रव्रणा | मा शुष्कव्रणा | मा शोणितव्रणा | मा शिखिरिणी | मा द्विपुरुषिका | मा स्त्रिपण्डिका | मा पुरुषद्वेषिणी
SK
३६. सन्ति खो पुनर् इमस्मिन् काये विविधा अनुशयिका आबाधा सय्यथीदं |
SK
दर्द्रु कण्डू कच्छू रकचा | विचर्चिका अर्शो भगन्दला | पाण्डुरोगो आलसको | लोहितपित्तं ज्वरो | कासो श्वासो सोषो अपस्मारो | वातोदरं दकोदरं | प्लीहोदरं कुष्ठं किटिभं मधुमेहो विसूचिका |
SK
सन्ति ते एते वा अन्ये वा विविधा अनुशयिका आबाधाः काये ऽस्मिन् न वा |
SK
३७. यद्य् आह नहीति | वक्तव्या | यं कालं शब्दापियेसि तं कालम् आगच्छेसि ताहि दानीं आगत्वा सामीचिं कृत्वा वक्तव्यं अनुशास्ता ति |
SK
कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो इयम् इत्थम्नामा इत्थन्नामाये उपसम्पाद्या इत्थन्नामाय च इत्थन्नमाय च रहोऽनुशास्ता | यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा इत्थंनामाय उपाध्यायिन् ईय संघमध्यम् उपसंक्रामेय्या | उपसंक्रमिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थंनामाय उपाध्यायिनीय संघमध्यं | क्षमते तं संघस्य | यस्मात् तूष्णीं एवम् एतं धारयामि |
SK
३८. सा दानि शब्दापितव्या | ताय दानि आगच्छित्वा वृद्धान्तातो प्रभृति सर्वासां पादा शिरसा वन्दितव्याः यावन् नवकान्तं |
SK
कर्मकारिकाये अग्रतः अष्टोहं + + + + + + + + +तकं कृत्वा पर्यङ्केन निषीदितव्यं दुर्बलवस्तिको मातृग्रामः मा अफासु भवेया ति |
SK
३९. कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा इत्थम्नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या | याचिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् मे धारयामि |
SK
४०. ताय दानि याचितव्यं | वन्दाम्य् आर्यसंघं | अहं इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीय उपसम्पाद्या इत्थंनामाय च इत्थंनामाय च आर्या रहोऽनुशास्ता | साहम् इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि | उपसंपादेतु मे आर्यसंघो | उल्लुम्पतु मे आर्यसंघो | अनुकम्पतु मे आर्यसंघो | अनुकम्पको अनुकम्पाम् उपादाय | एवं द्वितीयम् पि तृतीयम् पि याचयितव्यं |
SK
४१. कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो | इयम् इत्थन्नामा इत्थंनामाये उपसंपाद्या | इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | अनेया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो | यदि संघस्य प्राप्तकालं इत्थन्नामां इत्थंनामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः | पृच्छिष्यति आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि |
SK
४२. सा दानि वक्तव्या शृणु | कुलधीते संघ सत्यकालो अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरान् विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमन् ततो महासावद्यतरं |
SK
४३. यं यद् एव संघमध्ये पृच्छियेसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं | यन् नास्ति तन् नास्तीति वक्तव्यं |
SK
अनुज्ञातासि अनुज्ञापकेहि | आम | याचिता ते उपाध्यायिनी | आम | परिपूर्णन् ते पात्रचीवरं | आम | देशितशिक्षासि | आम | परिपूर्णशिक्षासि आम | सम्मतासि | विशुद्धासि भिक्षुणीहि | आम | मा मातृघातिनि | नहि | मा पितृघातिनि | नहि | मा अर्हद्घातिनि | नहि | मा संघभेदिका | नहि | मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका | नहि |
SK
चिरपरिनिवृतो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो |
SK
४४. मा भिक्षुदूषिका | नहि | मा स्तैन्यसम्वासिका | नहि | मा तिर्थिकापक्रान्तिका | नहि | मा स्वयं सन्नद्धिका | नहि | मा दासि | नहि | मा अवपितिका | नहि | मा ऋणहारिका | नहि | मा राजभटि | नहि | मा राज्ञः किल्बिषकारिणी | नहि | उपसम्पन्नपूर्वासि अन्यदापि | यद्य् आह उपसम्पन्नपूर्वा ति | वक्तव्या | गच्छ नस्य चल प्रपलाहि नास्ति ते उपसंपदा |
SK
४५. अथाह | नहीति | वक्तव्या | मा वातिला | नहि | मा पित्तिला | नहि | मा पिन्दिला | नहि | मा हल्लवाहिनी | नहि मा पूयवाहिनी | नहि | मा चक्रवाहिनी | नहि | मा आर्द्रव्रणा | नहि | मा शुष्कव्रणा | नहि | मा शोनितव्रणा | नहि | मा शिखरिनी | नहि | मा द्विपुरुषिका | नहि | मा स्त्रीपण्डिका | नहि | मा पुरुषद्वेषिणी | नहि |
SK
४६. सन्ति खो पुनर् इमस्मिं काये विविधा आनुशयिका आबाधा संयथीदं | दर्द्रु कण्डू कच्छू रकचा | विचर्चिका अर्शो भगन्दला | पाण्डुरोग अलसको | लोहितपित्तं | ज्वरो | कासो श्वासो शोषो अपस्मारो | वातोदरं दकोदरं प्लीहोदरं मधुमेहो | सन्ति ते एते वा अन्ये वा विविधा आनुशयिका वा आबाधाः काये ऽस्मिन् न वा | यद्य् आह नहीति वक्तव्यं | तूष्णीका भवाहीति |
SK
४७. कर्मकारिकाये कर्म कर्तव्यं | शृणोतु मे भन्ते आर्या संघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचितानया उपाध्यायिनी | परिपूर्णम् अस्याः पात्रचीवरं | देशितशिक्षा परिपूर्णशिक्षा | सम्मता परिशुद्धा अन्तरायिकेहि धर्मेहि | आत्मानं प्रतिजानाति | यदि संघस्य प्राप्तकालं इत्थंनामाये उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः | देशयिष्यन्ति आर्यसंघो इत्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
४८. सा दानि वक्तव्या | शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन अर्थकामेन हितैषिना अनुकम्पकेन अनुकम्पाम् उपादाय श्राविकाणां त्रयो निश्रया अभिज्ञाय देशिताः प्रज्ञप्ताः सम्यग् आख्याताः | यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपदीयन्ति | अनुत्सहन्तीयो नोपसंपादीयन्ति |
SK
निश्रय १
SK
४९. पांसुकूलं चीवराणां अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च | तण् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसंपादीयन्ति | अत्रच ते कुलधीते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुं | उत्सहन्त्या उत्सहामीति वक्तव्यं | अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षौमुतिका चीवराणां ||
SK
निश्रय २
SK
५०.उच्छिष्टपिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकं चानवद्यञ् अ श्रमणीसारूप्यञ् च | तङ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभाव यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसंपादीयन्ति |
SK
अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधीते यावज्जीवम् उच्छिष्टपिण्डं भोजनानां भोक्तुं | उत्सहन्तीयो उत्सहामीति वक्तव्यं | अतिरकलाभः पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिका उपोषधिका शलाकाभक्तं |
SK
निश्रय ३ ५१. पूतिमूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च | तञ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणीभावः | अत्र उत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसम्पादीयन्ति | अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुं | उत्सहन्त्या उत्साहामीति वक्तव्यं | अतिरेकलाभः सर्पिस्तैलं मधुफाणितं वसानवनीतं इमे त्रयो निश्रया आर्यवंशा | अनुशिक्षितव्यं अनुवर्तितव्यं |
SK
५२. कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्या संघो इयम् इत्थन्नामा इत्थंनामाये उपसंपाद्या इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | ताय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचितानया उपाध्यायिनी | परिपूर्णम् अस्याः पात्रचीवरन् | देशितशिक्षा | परिपूर्णशिक्षा | सम्मता | परिशुद्धा अन्तरायिकेहि धर्मेहि | आत्मानं प्रतिजानाति | निश्रयेषु चोत्सहति | यदि संघस्य प्राप्तकालं | संघो इत्थंनामां इत्थंनामाय उपाध्यायनीय उपसंपादेय्य | ओवयिका एषा ज्ञप्तिः |
SK
५३. शृणोतु मे आर्या संघो इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या | इत्थंनामाय च इत्थंनामाय च रहोऽनुशास्ता | संघो ऽनया इत्थंनामाय इत्थन्नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचितानया उपाध्यायिनी परिपूर्णम् अस्याः पात्रचीवरं | देशितशिक्षा | परिपूर्णशिक्षा | सम्मता | परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रति जानाति | निश्रयेषु चोत्सहति |
SK
५४. तां संघो इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादेति | यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादीयमानां संघेन | सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषतु | इयं प्रथमा कर्मवाचना | एवं द्वितीया | तृतीया कर्मवाचनेति | वक्तव्यं | उपसम्पन्नेयम् आर्यमिश्रिकायो इत्थन्नामा इत्थन्नामाये उपाध्यायायिनीय संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
५५. सा दानि वक्तव्या | जानामि त्वम् इत्थन्नामे उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा | ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन | समग्रेण संघेन न व्यग्रेण | दशबद्धेन गणेन | सातिरेकदश बद्धेन |
SK
५६. तथा दानि करोहि यथा |
SK
बुद्धशोभना च भोसि | धर्मशोभना च भोसि | संघशोभना च भोसि | बुद्ध गुरु च धर्म गुरु च संघ गुरु च | उपाध्यायिनी गुरु च | आचार्यायिणी गुरु च | शिक्षा गुरु च | तथा दानि करोहि | यथा | आरागयित्वा न विरागयसि | दुर्लभा क्षणसंपदा |
SK
यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा | तच्छीलम् अनुरक्षस्व बालाग्रं चमरी यथा || [१]
SK
यन् मनापम् अभिप्रेतम् बुद्धस्यादित्यबन्धुनो | श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थदर्शिनां | सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा || [२]
SK
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं | तं प्रापुणाहि निर्वाणं एषा ते सर्वसम्पदा || [३]
SK
५७. ताम् एवम् भिक्षुणीगणेनोपसंपादिय भिक्षुविहारं गत्वा उपाध्यायिनीय उभयतो संघो समुदानयितव्यो | आसनप्रज्ञप्ति कर्तव्या नीचतमा एकदेशे भिक्षुणीसम्घस्य | यदा भिक्षू सामीचिं कृत्वा निषण्णा भवन्ति तदा भिक्षुणीहि सामीचिं कृत्वा निषीदितव्यम् | ततो उपाध्यायिनीय उपसंपाद्या गणस्योपनामयितव्या | कर्मकारकेण पृच्छितव्या | परिशुद्धासि भिक्षुणीहीति | न पृच्छति विनयातिक्रमम् आसादयति |
SK
५८. कर्मकारकेण कर्म कर्तव्यं | शृणोतु मे भन्ते संघो | इयम् इत्थन्नामा भिक्षुणी | ताये इत्थन्नामा अन्तेवासिनी उपसंपाद्या | विशुद्धा भिक्षुणीहि |
SK
यदि संघस्य प्राप्तकालं इत्थन्नामा भिक्षुणी इत्थन्नामाये अन्तेवासिनीये संघम् उपसंपदं याचेय्या | याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाये अन्तेवासिनीये संघम् उपसंपदं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
५९. ताय दानि याचितव्यं | वन्दाम्य् आर्यसंघं अहम् इत्थन्नामा भिक्षुणी | तस्या मे इयम् इत्थन्नामा अन्तेवासिनी उपसम्पाद्या | साहम् इत्थन्नामाय अन्तेवासिनीये संघम् उपसंपदं याचामि | उपसंपादेतु तं संघो इत्थन्नामां मया इत्थन्नामाय उपाध्यायिनीय अनुकम्पाम् उपादाय | द्वितीयम् पि तृतीयम् पि याचितव्यं | कर्म | शृणोतु मे भन्ते संघो | इयम् इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या | इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | यदि सम्घस्य प्राप्तकालं इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या | याचिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
६०. ताय दानि याचितव्यं | वन्दाम्य् आर्यसंघं | अहं इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाये उपाध्यायिनीये उपसंपाद्या | इत्थन्नामाय च इत्थन्नामाय च आचार्याय रहोऽनुशास्ता | साहम् इत्थन्नामा अर्हहेतोर् नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि | उपसंपादेतु मे आर्यो संघो | उल्लुम्पतु आर्यो संघो | अनुकम्पतु मे आर्यो संघो | अनुकम्पको अनुकम्पाम् उपादाय एवम् द्वितीयम् पि तृतीयम् पि |
SK
कर्म | शृणु मे भन्ते संघो | इयम् इत्थन्नामा इत्थन्नामाये उपसंपाद्या | इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता | अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो | यदि संघस्य प्राप्तकालं इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः | पृच्छिष्यति भन्ते संघो इत्थन्नामा इत्थन्नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
६१. सा दानि वक्तव्या | शृणु कुलधिते | अयं सत्यकालो | अयं भूतकालो याव सदेवकं लोकं समारकं सब्रह्मणं सश्रमणब्राह्मणीं प्रजां सदेवमानुषासुरां विसम्वादेय्या य च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य उभयतोसंघं विसम्वादेय्या इमन् ततो महासावद्यतरं | यं यद् एव ते संघमध्ये पृच्छेयाम तं तद् एव यम् अस्ति तम् अस्तीति वक्तव्यं | यं नास्ति तं नास्तीति वक्तव्यं |
SK
६२. अनुज्ञातासि अनुज्ञापकेहि | आम | याचिता ते उपाध्यायिनी | आम | परिपूर्णन् ते पात्रचीवरं | आम | देशितशिक्षासि | आम | परिपूर्णशिक्षासि | आम | सम्मतासि | आम | विशुद्धासि भिक्षुणीहि | आम | मा मातृघातिनी | नहि | मा अर्हद्घातिनी | नहि मा संघभेदिका | नहि | मा तथागतस्य दुष्टचित्तरुधिरोत्पादिका | नहि | चिरपरिनिवृत्तो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो |
SK
मा भिक्षुदूषिका नहि मा स्तैन्यसम्वासिका | नहि | मा तीर्थिकापक्रान्तिका | नहि | मा दासी | नहि | मा अवपितिका | नहि | मा ऋणहारिका | नहि | मा राजभटी | नहि | मा राज्ञः किल्बिषकारिणी | नहि | उपसम्पन्नपूर्वासि अन्यदापि | यद्य् आह | आमन् ति | वक्तव्या | गच्छ नस्य चल प्रपलाय नास्ति ते उपसंपदा | अथाह नहीति | वक्तव्यं | सन्ति खो पुनर् इमस्मिं काये विविधा अनुशायिका आबाधाः | संयथीदं दद्रु कण्डू कच्छू रकचा | विचर्चिका कुष्ठं किटिभं | अर्शा भगन्दला | पाण्डुरोगो आलसो | लोहितपित्तं ज्वरो | कासो श्वासो सोषो अपस्मारो | वातोदरम् दकोदरं | प्लीहोदरं मधुमेहो विसूचिका | सन्ति ते एते वा अन्ये वा विविधा अनुसायिका आबाधा काये ऽस्मिन् न वा | यद्य् आह नहीति | वक्तव्या | तूष्णिका भवाहि |
SK
६३. कर्म | शृणोतु मे भन्ते संघो | इयम् इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या | इत्थन्नामाय च इत्थननामाय च रहोऽनुशास्ता | अनया इत्थन्नामाय इत्थन्नामाय उपाध्यायिन्या संघो यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचितानया उपाध्यायिनी | परिपूर्णं से पात्रचीवरं | देशितशिक्षा | परिपूर्णशिक्षा | सम्मता विशुद्धा भिक्षुणीहि | परिशुद्धा अनतरायिकैर्धर्मैर् आत्मानं प्रतिजानाति | यदि संघस्य प्राप्तकालं इत्थन्नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रया देशयामः | देशिष्यन्ति भन्ते संघो इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान् | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
निश्रय १ ६४. सा वक्तव्या | शृणु कुलधीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्ढेनार्थकामेन हितैषिना अनुकम्पकेनानुकम्पाम् उपादाय श्राविकाणान् त्रयो निश्रया अभिज्ञाय देशिता प्रज्ञप्ताः सम्यग् आख्याताः | यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति अनुत्सहन्तीयो नोपसंपादीयन्ति | अत्र च कुलधिते यावज्जीवम् उत्साहो करणीयो | पांसुकूलं चीवराणाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च | तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः | यत्रोत्सहन्तीयो श्राद्धायो कुलकुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसंपादियन्ति | अत्र च ते कुलधीते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधीते यावज्जीवं पांसुकूलं चीवराणान् धारयितुं | उत्सहन्तीय उत्सहामीति वक्तव्यं | अतिरेकलाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षोमुतिका चीवराणां |
SK
निश्रय २ उच्छिष्टपिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च | तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणीभावः | यत्रोत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसंपादीयन्ति | अत्र च ते कुलधिते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधिते यावज्जीवम् उच्छिष्टपिण्दं भोजनानां भोक्तुं | उत्सहन्तीय उत्साहामीति वक्तव्यम् | अतिरेकलाभः | पक्षिकानिमन्त्रणा चातुर्दशिका पाञ्चदशिकायां उपोषधिका शलाकाभक्तं |
SK
निश्रय ३ पूतिमूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणीसारूप्यञ् च | तञ् च निश्राय प्रव्रज्योपसंपद् भिक्षुणीभावः | यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति | अनुत्सहन्तीयो नोपसंपादीयन्ति | अत्र च कुलधीते यावज्जीवम् उत्साहो करणीयो | उत्सहसि त्वं कुलधीते यावज्जीवं पूतिमूत्रं भैषज्यानां प्रतिसेवितुं | उत्सहन्तीय उत्साहामीति वक्तव्यं | अतिरेकलाभः | सर्पिस्तैलं मधुफाणितं वसानवनीतं | इमे त्रयो निश्रया आर्यवंशा | अनुशिक्षितव्यं अनुप्रवर्तितव्यं |
SK
६५. कर्मकारकेण कर्म कर्तव्यं | शृणोतु मे भन्ते संघो | इयं इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या इत्थन्नामा य च इत्थन्नामाय च रहोऽनुशास्ता संघो ऽनया इत्थन्नामाय इत्थन् नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचितानया उपाध्यायिनी | परिपूर्णम् अस्याः पात्रचीवरं | देशितशिक्षा | परिपूर्णाशिक्षा सम्मता विशुद्धा भिक्षुणीहि परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानाति | निश्रयेषु चोत्सहति यदि संघस्य प्राप्तकालं संघो इत्थन्नामां इत्थन्नामाय उपाध्यायिनीय उपसंपादेय्या | ओवयिका एषा ज्ञप्तिः |
SK
६६. शृणोतु मे भन्ते संघो | इयम् इत्थन्नामा इत्थन्नामाये भिक्षुणीये उपसंपाद्या | इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्ता संघो ऽनया इत्थन्नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि याचितानया उपाध्यायनीयिनी | परिपूर्णम् अस्याः पात्रचीवरं | देशितशिक्षा | परिपूर्णशिक्षा सम्मता | विशुद्धा भिक्षुणीहि | परिशुद्धा अन्तरायिकैर् धर्मैर् आत्मानं प्रत्fइआनाति | निश्रयेषु चोत्सहति | तां संघो इत्थन्नामां इत्थन्नामाये उपाध्यायिनीये उपसंपादेति | येषाम् आयुष्मन्तानां क्षमति इत्थन्नामाम् इत्थन्नामाये उपाध्यायिनीये उपसंपादीयमानां संघेन | सो तूष्णीम् अस्य | यस्य न क्षमति सो भाषतु | इयं प्रथमा कर्मवाचना | एवम् द्वितीया | तृतीया कर्मवाचनेति वक्तव्यं | उपसंपन्नेयं भन्ते संघो इत्थन्नामां इत्थन्नामाये उपाध्यायिनीय संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
६७. अत्रान्तरे च्छाया मापयितव्या | नक्षत्राणि वा गणयितव्यानि
SK
सा दानि वक्तव्या | एषासि त्वं कुलधीते उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा | ज्ञप्तिचतुर्थेन | अनाघातपञ्चमेन उभयतः संघेन समग्रेण न व्यग्रेण दशबद्धेन गणेन सातिरेकदशबद्धेन वा |
SK
तथा दानि करोहि यथा | बुद्धशोभना च भोसि धर्मशोभना च संघशोभना च | बुद्ध गुरु च धर्म गुरु च संघ गुरु च | उपाध्यायिनी गुरु च आचार्या गुरु च तथा दानि करोहि यथा |
SK
आरागयित्वा न विरागयसि दुर्लभा क्षणसम्पदा |
SK
यसार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा | तच्छीलम् अनुरक्षस्व बालाग्रं चमरी यथा | [१]
SK
यन् मनापम् अभिप्रेतं बुद्धस्यादित्यबन्धुनो | श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थदर्शिनां | सो ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा || [२]
SK
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं | तं प्रापुणाहि निर्वाणं एषा ते सर्वसम्पदा || [३]
SK
६८. पारिवेणिका | अष्टौ पाराजिका धर्माः | एकूनविंशति संघातिशेषा धर्माः | त्रिंशन् निःसर्गिकपाचत्तिका धर्माः | अष्ट प्रातिदेशिका धर्माः | चतुषष्टि शेखिया धर्माः | सप्त अधिकरणशमथा धर्माः | द्वौ धर्मौ धर्मो ऽनुधर्मश् च | एष ते कुलधीते संक्षिप्तेन ओवादो | विस्तरेण ते उपाध्यायिनीआचार्यायो ओवदिश्यन्ति |
SK
६९. शृणु त्वम् इत्थन्नामे | इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन एवं प्रव्रजितोपसम्पन्नाये भिक्षुणीये चत्वारः श्रामणीका रका धर्मा आख्याता |
SK
आक्रुष्टाय न प्रत्याक्रोषितव्यं रोषिताय न प्रतिरोषितव्यं | भण्डिताय न प्रतिभण्डितव्यं ताडिताय न प्रतिताडितव्यं || [१]
SK
प्रासादिकाय प्रव्रज्या परिशुद्धायोपसंपदा | आख्याता सत्यनामेन सम्बुद्धेन प्रजानता || [२]
SK
सर्वपापस्याकरणं कुशलस्योपसंपदा | स्वचित्तपर्यादमनं एतद् बुद्धानुशासनं || [३]
SK
७०. एकम् इदङ् गौतमि समयं तथागतो वैशालीयं विहरति | महावने कूटागारशालायान् धर्मदिन्नाये दानि भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो | अप्रशर्केण दानि लिच्छविकुमारेण श्रुतं | धर्मदिन्नाये भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो | ता पञ्चाहं पूर्वे एवञ् चैवञ् च खलीकृतो गच्छाम्य् अहन् तायो उपसम्पाद्यायो ब्रह्मचर्यातो याचयामीति धर्मदिन्नाये श्रुतं |
SK
७१. सा दानि येन भगवांस् तेनोपसंक्रमित्वा भगवन्तम् एतद् अवोचत् | मम भगवन् द्वे अन्तेवासिनीयो उपसंपाद्यायो | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायः | लभ्या भगवन् तायो तत्रस्थितायो इहस्थितेन संघेन उपसंपादयितुं | भगवान् आह | लभ्या | गच्छ प्रथमं भिक्षुणीगणेनोपसंपादिय पश्चाद् भिक्षुविहारं गत्वा दूतोपसंपदाप्रतिग्राहकान् याच द्वौ वा त्रीणि वा गण न क्षमति | ददातु च ते संघो दूतोपसंपदाप्रतिग्राहकान् | साधू ति वदित्वा धर्मदिन्ना भिक्षुणी भगवतो ऽन्तिकात् प्रक्रान्ता | यावत् |
SK
७२. कर्मकारकेण कर्म कर्तव्यं | शृणोतु मे भन्ते संघो इयन् धर्मदिन्ना भिक्षुणी | तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | यदि संघस्य प्राप्तकालं धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनां तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचेय | याचिष्यति भन्ते संघो धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनाम् उपसंपाद्यानां तत्रस्थितानां इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
७३. ताय दानि याचितव्यं | वन्दाम्य् आर्यसंघं अहन् धर्मदिन्ना भिक्षुणी | तस्या मे इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | साहं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानान् तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपादाप्रतिग्राहकान् याचामि | साधु भव मे आर्यो संघो इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्रस्थितानाम् इहस्थितो संघो दूतोपसंपदाप्रतिग्राहकान् देतु | एवं द्वितीयम् पि तृतीयम् पि याचितव्यं |
SK
७४. कर्म | शृणोतु मे भन्ते संघो | इयन् धर्मदिन्ना भिक्षुणी | तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो | तासाम् इहागच्छन्तिनां स्याद् ब्रह्मचर्यन्तरायः | सेयन् धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च उपसंपाद्यानां तत्रस्थितानाम् इहस्थितं संघं दूतोपसंपदाप्रतिग्राहका याचयति | यदि संघस्य प्राप्तकालं संघो इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्येया | इवयिका एषा प्रज्ञप्तिः |
SK
७५. शृणोतु मे भन्ते संघो | इयं धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनी उपसंपाद्या तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | सेयं धर्मदिन्ना भिक्षुणी इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्रस्थितानां इहस्थितं संघं दूतोपसंपदाप्रतिग्राहकान् याचते | तान् संघो धर्मदिन्नाये भिक्षुणीये इत्थन्नामं च इत्थन्नामं च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यति | येषाम् आयुष्मन्तानां क्षमति धर्मदिन्नाये भिक्षुणीये इत्थन्नामो च इत्थन्नामो च दूतोपसंपदाप्रतिग्राहकान् सम्मन्यियमानान् संघेन | सो तूष्णीम् अस्य | यस्य न क्षमति सो भाषतु | इयं प्रथमा कर्मवाचना | एवं द्वितीय तृतीया कर्मवाचना इति कर्तव्यं |
SK
७६. सम्मता | भन्ते संघो | धर्मदिन्नाये भिक्षुनिये इत्थन्नामाये च इत्थन्नामाये च अन्तेवासिनीनां तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तराय इति कृत्वा तत्रस्थितानाम् इहस्थितेन संघेन इत्थन्नामो च इत्थन्नामो च भिक्षू दूतोपसंपदाप्रतिग्राहकाः क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
७७. तेहि दनि सम्मतेहि समानेहि धर्मदिन्नाये भिक्षुणीये उपाश्रयं गन्तव्यं | ताहि दानि धर्मदिन्नाय अन्तेवासिनीहि ते याचितव्याः | वन्दाम्य् आर्यं इहस्थितायो इत्थन्नामा च इत्थन्नामा च आर्याये धर्मदिन्नाये उपाध्यायिनीये उपसंपाद्यायो | विशुद्धा भिक्षुणीहि | इत्थन्नामाय च इत्थन्नामाय च आर्याय रहोऽनुशास्तायो तासाम् अस्माकं तत्रगच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | ता वयं इत्थन्नामा च इत्थन्नामा च आर्याय धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितं संघम् उपसंपदं याचामः | उपसंपादेतु मे आर्य संघो | उल्लुम्पतु मे आर्यो संघो | अनुकम्पतु मे आर्यो संघो अनुकम्पको अनुकम्पाम् उपादाय | एवं द्वितीयं पि तृतीयंपि याचितव्यं |
SK
७८. ततो भिक्षुविहारङ् गन्तव्यं | यं कालं उभयतो संघो उपविष्टो भवति ततो धर्मदिन्नाय याचितव्यं | वन्दाम्य् आर्यसंघं | अहन् धर्मदिन्ना भिक्षुणी | तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो | विशुद्धा भिक्षुणीहि | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | साहन् धर्मदिन्ना भिक्षुणी इत्थन्नामाय च इत्थन्नामाय च अन्तेवासिनीनाम् उपसंपाद्यानां तत्रस्थितानाम् इहस्थितं संघं उपसंपदं याचामि | उपसंपादेतु तायो संघो मया इत्थन्नामाय उपाध्यायिनीय | एवं द्वितीयम् पि तृतीयं पि याचितव्यं |
SK
७९. यं कालं धर्मदिन्नाय याचितं भवति | ततो दूतोपसंपदाप्रतिग्राहकेहि याचितव्यं | वन्दाम्य् आर्यसंघं | इयन् धर्मदिन्ना भिक्षुणी तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिन्यो उपसंपाद्यायो | तासाम् इहागच्छन्तीनां स्यात् ब्रह्मचर्यान्तरायो | ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितः संघ उपसंपदं याचितः | उपसंपादेतु तायो आर्यो संघो | उल्लुम्पतु तायो आर्यो संघो | अनुकम्पतु तायो आर्यो संघो | अनुकम्पको अनुकम्पाम् उपादाय | एवं द्वितीयम् पि तृतीयम् पि याचितव्यं |
SK
८०. कर्मकारकेन कर्म कर्तव्यं | शृणोतु मे भन्ते संघो इयं धर्मदिन्ना भिक्षुणी | तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो इत्थन्नामा च इत्थन्नामा च रहोऽनुशास्तायो | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्र स्थिताहि इहस्थितः संघो उपसंपदं याचितो | अनुज्ञाता अनुज्ञापकेहि | याचिता ताहि उपाध्यायिनी | परिपूर्णं तासां पात्रचीवरं | देशितशिक्षायो परिपूर्णशिक्षायो सम्मतायो विशुद्धायो भिक्षुणीहि | परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति | निश्रयेषु चोत्सहन्ति | यदि संघस्य प्राप्तकालं इत्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितो संघो उपासंपादेय्या | ओवयिका एषा ज्ञप्तिः |
SK
८१. शृणोतु मे भन्ते संघो | इयन् धर्मदिन्ना भिक्षुणी | तस्या इत्थन्नामा च इत्थन्नामा च अन्तेवासिनीयो उपसंपाद्यायो | इत्थन्नामाय च इत्थन्नामाय च रहोऽनुशास्तायो | तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो | ताहि इत्थन्नामाय च इत्थन्नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इहस्थितो संघो उपसंपदं याचितो | अनुज्ञातायो अनुज्ञापकेहि | याचिता ताहि उपाध्यायिनी | परिपूर्णं तासां पात्रचीवरं | देशितशिक्षायो | परिपुर्णशिक्षायो | सम्मतायो विशुद्धायो भिक्षुणीहि | परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति | तायो संघो इत्थन्नामां च इत्थन्नामां च धर्मदिन्नाय उपाध्यायिनीय इहस्थितो संघो उपसंपादेति | येषाम् आयुष्मतां क्षमति इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन उपसंपादीयमानायो | सो तूष्णीम् अस्य | यस्य न क्षमति सो भाषतु | इयं प्रथमा कर्मवाचना | एवं द्वितीया तृतीया कर्मवाचना |
SK
८२. कर्म कर्तव्यम् | उपसम्पन्ना भन्ते संघो इत्थन्नामा च इत्थन्नामा च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थितायो इहस्थितेन संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि |
SK
एवम् उपसंपदाय तेहि दूतोपसंपदाप्रतिग्राहकेहि भिक्षुण्युपाश्रयङ् गत्वा तायो उपसंपन्नायो वक्तव्यायो | एता इत्थन्नामायोपसंपन्नायो सूपसंपन्नायो त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन | अनाघातपञ्चमेन | समग्रेण उभयतः संघेन दशबद्धेन गणेन | सातिरेकदशबद्धेन वा |
SK
तथा दानि करोथ यथा | बुद्धशोभना च भोथ | धर्मशोभना च संघशोभना च |
SK
बुद्ध गुरु च | धर्म गुरु च संघ गुरु च | उपाध्यायिनी गुरु च | आचार्य गुरु च | तथा दानि करोथ यथा | आरागयित्वा न विरागयथ | दुर्लभा क्षणसम्पदा |
SK
यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा तच्छीलम् अनुरक्षध्वं बालाग्रं चमरी यथा || [१]
SK
यं मनापम् अभिप्रेतं बुद्धस्यादित्यबन्धुनो | श्राविकानां च विज्ञानां निपुणानाम् अर्थदर्शिनां | सो वो ऽर्थो अनुप्राप्तो लब्धा वो उपसंपदा || [२]
SK
अशोकं विरजं क्षेमं द्वीपं लेनं परायणं तं प्रापुणथ निर्वाणं एषा वो सर्वसंपदा || [३] शेषं पूर्ववद् योज्यं |
SK
एवं गौतमि अष्टादशवर्षाये कुमारी भूताये उभयतःसंघे उपसंपदा प्रत्याशंसितव्या | अयं गौतमि भिक्षुणीनां द्वितीयो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् वेलामिव महासमुद्रेण |
SK
गुरुधर्म ३ ८३. किन् ति दानि गौतमि आवडो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा अभूतेन वा अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन अभूतेन | न क्षमति भिक्षुणीहि भिक्षुं धर्षिय वक्तुं कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्ला महल्लअप्रतिज्ञअकुशलो ति वा वक्तुं | अथैव जल्पति गुरुधर्मम् अतिक्रमति |
SK
८४. अथ दानि भिक्षुणीये कश्चित् प्रव्रजितो भवति ज्ञातिको वा भ्राता वा | सो च भवति उद्धतो उन्नडो | न क्षमति अध्युपेक्षितुं नामपि क्षमति धर्षिय वक्तुं | अथ खलु प्रज्ञया सम्ज्ञापयितव्यो यदि तावत् तरुणको भोति वक्तव्यो | सालोहित इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि | किन् दानि यदा जीर्णो वृद्धो महल्लको अध्वगतवयन् अनुप्राप्तो भविष्यसि | एतत् तव साधु एतत् प्रतिरूपं यच् च उद्दिशेशि स्वाध्यायेसि भद्रको गुणवान् शिक्षाकामो भवेसि बुद्धानाम् शासने योगम् आपद्येसि |
SK
८५. अथ दानि सो वृद्धो भोति | वक्तव्यो | इदनीं इमीदृशो पुनस् त्वं तरुअणकाले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि | किन् दानि यदा मण्डलद्वारम् अनुप्राप्तो भविष्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अनयव्यसनम् आपद्यिष्यतीति एतत् तव साधु एतत् प्रतिरूपं यत् त्वम् उद्दिशसि स्वाध्यायेसि भद्रको गुणवान् | शिक्षाकामो भवेसि बुद्धानां शासने योगम् आपद्येसि सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा वैद्यभिक्षू ति वा चूडभिक्षू ति वा अखल्लमहल्लअप्रकृतिज्ञअकुशलो ति वा धर्षिय जल्पति गुरुधर्मम् अतिक्रमति |
SK
८६. अनावडो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन वा अभूतेन इति न क्षमति भिक्षुणा भिक्षुणीं धर्षिय वक्तुं मुण्डस्त्री छिन्नकवडेति जल्पति विनयातिक्रमम् आसादयति |
SK
८७. अथ दानि भिक्षोर् माता वा भगिनी वा प्रव्रजितिका भवति सा च उद्धता वा उन्नडा वा भवति | न क्षमति अध्युपेक्षितुं यदि तावत् तरुणिका भोति | वक्तव्या | सालोहिते इदानीं त्वं न शिक्षिष्यसि कदा शिक्षिष्यसि | किं दानि यं कालं जीर्णवृद्धा महल्लिका भविष्यसि एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायेसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धनां शासने योगम् आपद्येसि |
SK
८८. अथ दानि सा वृद्धा भोति | वक्तव्या | सालोहिते इदानीं त्वम् ईदृशी कीदृशी पुनस् तरुणीकाले इदानीं त्वन् न शिक्षसि कदा शिक्षिष्यसि किन् दानि यं कालं मण्डलद्वारम् अनुप्राप्ता भविस्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अनयेन व्यसनम् आपद्यिष्यतीति | एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायसि भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसीति |
SK
एष गौतमि आवटो भिक्षुणीनां भिक्षूहि वचनपथो भूतेन वा | अभूतेन वा |
SK
अनावटो भिक्षूणां भिक्षुणीहि वचनपथो भूतेन नो अभूतेन |
SK
अयं गौतमि भिक्षुणीनाम् तृतियो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण |
SK
गुरुधर्म ४ ८९. किन् ति दानि गौतमि भक्ताग्रं शयनासनाग्रं विहाराग्रञ् च भिक्षुणीहि भिक्षुसंघातो सा दयितव्यं |
SK
एषो दानि कोचि भिक्षुणीसंघस्य भक्तं करोति वक्तव्यो | ज्येष्ठपर्यायता करोहीति | अथ दानि सो आह नास्ति मम तंहि श्रद्धा नास्ति प्रसादो ति वक्तव्यः | वयं पि न प्रतिच्छामो ति | अथ दान् आह | दत्तपूर्वं तेषां मम मात्रा वा पित्रा वा गोष्ठीसम्बन्धेन वा श्रेणीसंबन्धेन वा समयसम्भन्धेन वा आर्यमिश्रिकाणां न कदाचिन् मया भक्तं कृतपूर्वं | प्रतिगृह्णन्तु आर्यमिश्रिका ति अन्तमसतो एकपिण्डपातं पि दापयित्वा भिक्षुसंघस्य भिक्षुणीसंघो शतरसं पि भोजनं प्रतिच्छति अनापत्तिः |
SK
९०. किन् ति दानि शयनासनाग्रं | एषो दानि कोचिद् भिक्षुणीसंघस्य शयनासनं ददाति | वक्तव्यं | ज्येष्ठपर्यायतावद् देहीति | अथ दानि सो आह नास्ति मम तहिं श्रद्धा नास्ति प्रसादो | वक्तव्यं |
SK
वयं पि न प्रतिच्छामो ति | अथ दान् आह | दत्तपूर्वं मम आर्ये भिक्षुसंघस्य शयनासनं मात्रा वा यावत् समयसम्बन्धेन वा | प्रतीच्छन्त्वार्यमिश्रिका ति अन्तमसतो खयु[?]का मञ्चं पि भिक्षुसंघस्य दापयित्वा महार्हं शयनासनं भिक्षुणीसंघः प्रतीच्छत्य् अनापत्तिः |
SK
९१. किन् ति दानि विहाराग्रं | एषो दानि कोचित् भिक्षुणीसंघस्य विहारं प्रतिष्ठापयति | वक्तव्यं | ज्येष्ठपर्यायतावत् प्रतिष्ठापयेहीति |
SK
अथ दान् आह | आर्ये नास्ति मम तहिं श्रद्धा | नास्ति प्रसादो ति | वक्तव्यं वयं पि न प्रतीच्छामो ति | अथ दान् आह | आर्ये कारापितन् तेषां विहाराः मात्रा वा यावत् समयसम्बन्धेन वा प्रतीच्छन्त्व् आर्यमिश्रिका विहारन् ति अन्तमसतो गोमयगृहं पि पिष्ठगृहं पि भिक्षुसंघस्य दापयित्वा भिक्षुणीसंघो सप्तभूमकं पि विहारं प्रतीच्छत्य् अनापत्तिः |
SK
९२. ता एता भिक्षुणीयो अवज्ञाय परिभवेन वा कोण्टभिक्षू ति वा | वैद्यभिक्षू ति वा | अखल्लमहल्लाप्रकृतिज्ञो ती वा कृत्वा भक्ताग्रं शयनासनाग्रं विहाराग्रं भिक्षुसंघातो न शातियति गुरुधर्मम् अतिक्रामति | एवं गौतमी भक्ताग्रं शयनासनग्रं विहाराग्रं भिक्षुणीहि भिक्षुसंघातो सातयितव्यो |
SK
अयं गौतमि भिक्षुणीनां चतुर्थो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण |
SK
गुरुधर्म ५ ९३. किन् ति दानि गुरुधर्मापन्नाय भिक्षुणीय अर्धमासं मानत्वञ् चरितव्यं उभयतः संघे आह्वयनं |
SK
सा दानि एषा भिक्षुणी गुरुधर्मान् अपन्ना भवति ताय अर्धमासं भिक्षुणीसंघे मानत्वं चरितव्यं उभयतः संघे च आह्वयनं | सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा यावद् अकुशलो ति वा कृत्वा गुरुधर्मापन्ना समाना नार्धमासं भिक्षुणीसंघे मानत्वं चरति उभयतः संघे च आह्वयनं | गुरुधर्मम् अतिक्रमति | अयं गौतमि भिक्षुणीनां पञ्चमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् वेलामिव महासमुद्रेण |
SK
गुरुधर्म ६ ९४. किन् ति दानि अन्वार्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं यदहो दानि पोषधो भवति तदहो भिक्षुणीसंघेन भिक्षुविहारं गन्तव्यं | अथ दानि सर्वसंघो न गच्छति अर्धसंघेन गन्तव्यं | अर्धसंघो न गच्छति अष्टाहि वृद्धतरिकाहि गन्तव्यं | अष्ट वृद्धतरिका न गच्छन्ति अन्तमसतो मासचारिकिणीहि पक्षचारिकिणीहि वा च्छन्दार्हणां छन्दं गृह्णीय गन्तव्यं | यदि तावद् अनुकाल्यं भवति स्तूपो तावद् वन्दितव्यो | स्तूपं वन्दित्वा यो तहिं भिक्षुर् अभिलक्षितो भवति परिज्ञातो वा तस्य छन्दो दातव्यो | वक्तव्यं वन्दाम्य् आर्यसंघं | आर्यसमग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादान् शिरसा वन्दति | ओवादोपसंक्रमणञ् च धर्मं याचति | पोषधञ् च प्रतीच्छति | द्वितीयम् पि तृतीयम् पि वक्तव्यं |
SK
९५. अथ दान् आह | अहं संघस्थविरो अहं तत्रदेशको अहं भिक्षुणीओवादको ति ताभिर् अपि एते त्रयो वर्जं कृत्वा शिष्टकानां छन्दो दातव्यो छन्दं दत्वा भिक्षुणीउपाश्रयं गन्तव्यं | यं कालं भिक्षुणीसंघो उपविष्टो भवति पोषस्धकर्माय सूत्रोद्देशिकाय सूत्रं प्रगृहीतं भवति | शृणोतु मे आर्यसंघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं एत्तकं ऋतुस्य निर्गतं एत्तकम् अवशिष्टं |
SK
किं संघस्य पूर्वकृत्यं | अल्पार्थो ऽल्पकृत्यो भगवतः श्राविकासंघो शोभति अनागतानाम् आर्यमिश्रिकाणां छन्दपरिशुद्धिं आरोचेथ | नीतो छन्दहारिकाहि छन्दो ति ताहि वृद्धान्तम् आरुहित्वा सामीचिं कृत्वा वक्तव्यं | नीतो ऽस्माभिः छन्दहारिकाभिश् छन्दो इत्थन् नामेनार्येण प्रतीच्छितो |
SK
९६. यं कालं भिक्षुसंघो उपविष्टो भवति सूत्रोद्देशकेन सूत्रं प्रतिगृहीतं भवति | शृणोतु मे भन्ते संघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं | एत्तकं ऋतुस्य निर्गतं एत्तकं अवशिष्टं | किं संघस्य पूर्वकृत्वा अल्पार्थो अल्पकृत्यो भगवतः श्रावकसंघो शोभति | अनागतानाम् आयुष्मन्तो भिक्षूणां छन्दपारिशुद्धिम् आरोचेथ | आरोचितञ् च प्रतिवेदेथ | को भिक्षु भिक्षुणीनां छन्दहारको तेनोत्थाय वृद्धान्तं आरुह्य वक्तव्यं | वन्दाम्य् आर्यसंघं समग्रो हि भिक्षुणीसंघो समग्रस्य पादां शिरसा वन्दति | अववादञ् च याचति | पोषधञ् च प्रतिच्छति | एवं द्वितीयम् पि तृतीयम् पि वक्तव्यं | यदि तहिं भिक्षुणीतोवादको सम्मतको भवति वक्तव्यो | ओवादाहीति |
SK
९७. अथ दानि न कोचिद् भिक्षुणीयोवादको भवति तत्र यो द्वादशेहि अङ्गेहि समन्वागतो भवति सो सम्मन्यितव्यो | कतमेहि द्वादशेहि | तद्यथा | प्रातिमोक्षसम्वरसम्वृतो विहरति आचारगोचरसम्पन्नः | अनुमात्रेष्व् अवद्येषु भयदर्शी समादाय शिक्षितशिक्षापदेषु कायकर्मवाक्कर्मणा सम्मन्वागतः | परिशुद्धेन परिशुद्दाजीवः | बहुश्रुतश् च अभिधर्मे बहुस्रुतश् च भवत्य् अभिविनये पर्तिबलो च भवत्य् अधिशीलशिक्षायाम् विनयितुं | ण्क |
SK
प्रतिबलो भवत्य् अधिचित्तं शिक्षायां विनयितुं | तृ | प्रतिबलो भवत्य् अधिप्रज्ञां शिक्षायां विनयितुं | फु | अननुध्वस्तब्रह्मचर्यश् च भवति | ग्रा | यो भूयक्षान्तिजातिको भवति | ह्रा | न च भिक्षुणीनां गुरुधर्मं आपद्यिता भवति | तो कल्याणवचनश् च भवति कल्याणवाक्करणोपेतश् च भवति | पौर्यवाचा समन्वागतो विस्पष्टाय अनेलाय अर्थस्य विज्ञापनीय | विंशतिवर्षो च भवति सातिरेकविंशतिवर्षो वा |
SK
इमेहि द्वादशेहि अङ्गेहि समन्वागतो भिक्षुणीओवादक सम्मुतीय संमन्यितव्यो |
SK
९८. कर्मकारकेण कर्म कर्तव्यं | शृणोतु मे भन्ते संघो अयम् इत्थन्नामो ति भिक्षुर् अङ्गोपेतो | यदि संघस्य प्राप्तकालं संघो इत्थन्नामं भिक्षुं भिक्षुणीतोवादकं संमुतीय संमन्येय ओवयिका एषा ज्ञप्तिः | शृणोतु मे भन्ते संघो अयम् इत्थन्नामो भिक्षुर् तं संघो इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यति | येषाम् आयुष्मन्तानां क्षमति इत्थन्नामं भिक्षुं भिक्षुणीओवादकं संमुतीय सम्मन्यियमानं संघेन | सो तूष्णीम् अस्य | यस्य न क्षमति सो भाषतु | इयं प्रथमा कर्मवाचना एवं द्वितीय तृतीया कर्मवाचनेति | सम्मतो भन्ते संघो इत्थन्नामो भिक्षुः भिक्षुणीओवादक संमुतीय संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि |
SK
९९. तेन दानि सम्मतेन समानेन तायो भिक्षुणीयो ओवादितव्यायो नाकाले [१] | नादेशे [२] | नानागते काले [३] | नातिक्रान्ते काले [४] | न छन्दशो [५] | न व्यग्रशो [६] | न पार्षदो [७] | न दीर्घोवादेन [८] | आगन्तुकामस्य प्रेषितव्या [९] |
SK
किन् ति दानि नाकालो | अकालो नाम अस्तमितो सूर्यो | अन्तर्हितो च अरुणो [१] |
SK
किन् ति दानि नादेशे | अदेशो नाम वेशिकासामन्ते वा द्यूतकरशालासामन्ते वा | पानागारशालासामन्ते वा | वधबन्धनागारशालासामन्ते वा अतिभूण्डे वा अतिप्राकटे वा प्रदेशे [२] |
SK
किन् ति दानि नानागते काले अनागतो नाम कालो प्रतिपदे द्वितीयायाम् वा [३] |
SK
किन् ति दानि नातिक्रान्ते काले | अतिक्रान्तो नाम कालो चतुर्दशीयाम् वा पञ्चदशीयाम् वा | अथ खु तृतीयाप्रभृति तावद् ओवदितव्या यावत् त्रयोदशीति [४] |
SK
किन् ति दानि न छन्दशो | ओवादकस्य भिक्षुणीय छन्दो दातव्यो | अथ खु सर्वाहि आगन्तव्यं [५] |
SK
किन् ति दानि न व्यग्रशो | न भिक्षुणा व्यग्रो भिक्षुणीसंघो ओवदितव्यो | अथ खु सर्वाः समग्रा त्-ओवदितव्याः [६] |
SK
किन् ति दानि न पार्षदो | न तावत् तव पर्षा ओवदितव्या तवाद्य पर्षाये ओवादकवारो तवाद्य पर्षाये ओवादकवारो ति | अथ खु सर्वाः समग्रा त्-ओवदितव्याः [७] |
SK
किन् ति दानि न दीर्घोवादेन ओवदिताः | अथ खु संक्षिप्तेन ओवदितव्याः |
SK
सर्वपापस्याकरणं कुशलस्योपसम्पदा | स्वचित्तपर्योदवनम् एतद् बुद्धानुशासनन् ति ||
SK
एष भगिनीयो ओवादो शिष्टकं परिकथा भविष्यति | यागन्तु कामा सागच्छतु | या श्रोतुकामा सा शृणोतु |
SK
१००. किन् ति दानीं आगन्तुकामस्य प्रेषयितव्यं | यदि सो भिक्षुणीओवादको देशान्तरङ् गतो भवति ततो ये तस्य सार्धेविहारिकावा अन्तेवासिका भवन्ति ते भिक्षुनीसंघेन उत्साहयितव्याः | गच्छथ आर्यस्य पात्रचीवरं आनेथ | तेषान् दानि गच्छन्तानाम् आगच्छन्तानाञ् च पथ्य् अदनेनावैकल्यं कर्तव्यं | आगच्छन्तस्य भिक्षुणीसंघेन छत्रध्वजपताकेहि योजनं पन्थस्य प्रत्युद्गन्तव्यं | यंहि विहारे अवतराय तंहि उभयसंघस्य सप्ताहं भक्तं कर्तव्यं | अथ दानि दरिद्रो भिक्षुणीसंघो भवति भिक्षुसंघस्यैव सप्ताहं भक्तं कर्तव्यं | अन्तमसतो एकपिण्डपातेनापि प्रतिमानयितव्यो तेन दानि भिक्षुणीओवादकेन भिक्षुणीहि धीतासंज्ञा उपस्थापयितव्या | ताहि भिक्षुणीहि तस्मिन् भिक्षुणीओवादकेहि पितृसंज्ञा उपस्थापयितव्या |
SK
१०१. न क्षमति तेन भिक्षुणीओवादकेन घोटेन यथा प्रसार्य ग्रीवां तायो भिक्षुणीयो ओवादितुं | अथ खलु युगमात्रं निरीक्षन्ते न तायो ओवादितव्यायो | यदि कदाचित् तहिं भवेत् केशावर्तेन वा कृतेन | अक्षीहि वा अञ्चितेन आकोटितमष्टेहि वा चीवरेहि | श्वेतेन वा काय बन्धनेन | चित्रकुटाहि वा उपानहाहि | न क्षमति अध्युपेक्षितुं | यदि ताव तरुणिका भवति धर्षयितव्या | हे अव्यक्ते अकुशले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यं कालं जीर्णवृद्धा महल्लिका अध्वगतवयम् अनुप्राप्ता भविष्यसि या पि तवैषा पर्षा सा पि तव दृष्ट्वा अनुकृतिम् आपद्यमाना अनयेन व्यसनम् आपद्यिष्यति | एतं तव साधु एतत् प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसि | अथ दानि सा वृद्धा भवति वक्तव्यं | सालोहिते इदानीं ईदृशी कीदृशी त्वम् आसि तरुणे काले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि | यं कालं मण्डलद्वारम् अनुप्राप्ता भविष्यसि यापि तव एष पर्षा सापि तव दृष्ट्वा नुकृतिम् आपद्यमाना अनया व्यसनम् आपत्स्यति एतत् तव साधु एतं प्रतिरूपं यं त्वं भद्रिका गुणवती शिक्षाकामा भवेसि बुद्धानां शासने योगम् आपद्येसि |
SK
१०२. अथ दानि सो भिक्षुणीयोवादको गोचरप्रसृतो रथ्यायं भिक्षुणीन् पश्यति केशावर्तेन वा कृतेन | अक्षीहि वा अञ्चितेहि | आकोटितमष्टेहि वा चीवरेहि | श्वेतेन वा कायबन्धनेन | चित्रकूटाहि वा उपानहाहि न दानि क्षमति नहि कीञ्चिज् जल्पितुं | मा जनो ओज्झापेय पश्यथ भणे श्रमणको भार्याम् इव श्रवणिकाम् ओवदति | अथ खु पृच्छितव्या | कतमहिं एषा विहारके प्रतिवसति | का से उपाध्यायी | का से आचार्या पश्चाद् उक्तं तहिं गत्वा ओवदितय्वा | सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा | वैद्यभिक्षू ति वा कृत्वा चूडभिक्षू ति वा कृत्वा | अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अन्वार्धमासं भिक्षुसंघातो ओवादोपसंक्रमणं न प्रत्याशंसति गुरुधर्मम् अतिक्रमति | एवं गौतमि अन्वर्धमासं भिक्षुणीहि भिक्षुसंघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं | न प्रत्याशंसति गुरुधर्मम् अतिक्रामति |
SK
अयं गौतमि भिक्षुणीनां षष्टो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण |
SK
गुरुधर्म ७ १०३. किन् ति दानि न क्षमति भिक्षुणीहि अभिक्षुके अवासे वर्षाम् उपगन्तुं |
SK
न क्षमति भिक्षुणीहि अभिक्षुकेहि ग्रामनगरेहि वर्षाम् उपगन्तुं |
SK
अथ दानि भिक्षुणी ज्ञातिकेहि ग्रामवासकेहि निमन्त्रीयति | इहार्या वर्षावसान ति न च तहिं केचि भिक्षू भवन्ति भिक्षुणी च ज्ञातिकामनुकंपितुकामा भवन्ति वक्तव्यं | ज्येष्ठपर्षां ताव निमन्त्रेथ | अथ दान् आहंसुः | नास्ति अस्माकं तहिं श्रद्धा | नास्ति प्रसादो | वक्तव्यम् | अहं पि न इच्छामि | अथ दानि भिक्षुणी सविभवा भवति | ज्ञातिकाञ् च अनुकम्पितुकामा भवति | आत्मना भिक्षू निमन्त्रयितव्या | तेषाम् आगतानां समानानां आहारेण अवैकल्यं कर्तव्यं | तेहि तहिं वर्षाम् उपगन्तव्यं | ताय भिक्षुणीय तहिं वर्षाम् ताय भिक्षुणीय तेषाम् भिक्षूणां मूले अन्वर्धमासं ओवादोपसंक्रमणं प्रत्याशंसितव्यं |
SK
१०४. अथ तेषाम् भिक्षूणां वर्षाम् उपगतानां अन्तरवर्षा-र्-अस्तु | कोचि आदीनवो उत्पद्यति उत्थाय पलायन्ति | न दानि क्षमति भिक्षुणीय कहिञ्चि गन्तुं यावत् प्रवारणाकालं | यदि तावत् क्षेमम् भवति ततो ते शब्दापयितव्याः | न दानि आगन्तिकायो | अथ खलु उक्तेन निमन्त्रयितव्याः |
SK
आगतानां समानानां भक्तेन प्रतिमानीय आच्छादीय यथा सम्विभागन् दातव्यं | प्रवारिते किञ्चापि यंहि छन्दो तहिं गच्छति अनापत्तिः |
SK
१०५. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्ट भिक्षू ति वा कृत्वा | वैद्यभिक्षू ति वा कृत्वा कृत्वा चूडभिक्षू ति वा कृत्वा खल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा अभिक्षुके आवासे वर्षाम् उपगच्छति गुरुधर्मम् अतिक्रमति | एवं गौतमि न क्षमति भिक्षुनीय अभिक्षुके आवासे वर्षाम् उपगन्तुं | अयं गौतमि भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज् जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेलामिव महासमुद्रेण |
SK
गुरुधर्म ८ १०६. किन् ति दानि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या | यदहो दानि संघस्य प्रवारणा भवति तदहो भिक्षुणीहि प्रवारयितव्यं | अपरेज्जुकातो प्रतिपदे कल्यतो ये च निर्धाविय भिक्षुविहारं गन्तव्यं | यदि ताव समग्रो भिक्षुसंघो भवति न क्षमति सर्वाहि भिक्षुणीहि अपूर्वाचरिमं प्रावरयितुं | अथ खु एका प्रवारायिका संमन्यितव्या | भिक्षुणी प्रतिबला प्रवारायिका |
SK
१०७. ततो कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्यसंघो | इयम् इत्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका | यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीम् संघस्य प्रवारायिकां संमन्येय | ओवयिका एषा ज्ञप्तिः |
SK
शृणोतु मे आर्यसंघो | इयम् इत्थन्नामा भिक्षुणी प्रतिबला प्रवारायिका | तां संघो इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यति | यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यियमानां संघेन | सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषतु | इयं प्रथमा कर्मवाचना | एवं द्वितीया तृतीया कर्मवाचनेति | वक्तव्यं | सम्मता आर्यमिश्रिकायो इत्थन्नामा संघस्य प्रवारायिका संघेन क्षमते तं संघस्य यस्मात् तूष्णीम् एवं धारयामि |
SK
१०८. ततो सर्वाहि वृद्धान्ते स्थातव्यं | ततो ताय प्रवारायिकाय वक्तव्यं | समग्रो भिक्षुणीसंघो समग्रं भिक्षुसंघं प्रवारेति दृष्टेन श्रुतेन परिशङ्कया | ओवदन्तु मो आर्यो संघो अर्थकामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्त्यो पश्यन्त्यो स्मरन्त्यो यथा धर्मविनयं प्रतिकरिष्यामः | एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि समग्रो भिक्षुणीसंघो भवति संबहुला भिक्षू भवन्ति | वक्तव्यं | समग्रो भिक्षुणीसंघो संबहुलान् भिक्षून् प्रवारेति दृष्टेन श्रुतेन यावत् प्रतिकरिष्यामः | द्वितीयम् पि तृतीयम् पि |
SK
१०९. अथ दानि समग्रो भिक्षुणीसंघो भवति एक भिक्षु च भवति | वक्तव्यं | समग्रो भिक्षुणीसंघो आर्यं प्रवारेतीति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि संबहुलायो भिक्षुणीयो भवन्ति | समग्रो च भिक्षुसंघो भवति | वक्त्यव्यं संबहुलाः आर्यमिश्रिकाः समग्रं भिक्षुसंघं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः | एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि संबहुला च भिक्षुणीयो भवन्ति संबहुला च भिक्षु भवन्ति | वक्तव्यं | संबहुला आर्यमिश्रिकाः संबहुलान् आर्यमिश्रान् प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् | यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामः | एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि संबहुला भिक्षुणीयो भवन्ति | एक भिक्षु च भवति | वक्तव्यं | संबहुला आर्यमिश्रिकाः आर्यं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामाः | एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि एका भिक्षुणी भवति | समग्रो च संघो भवति | वक्तव्यं | अहम् इत्थन्नामा संघं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया | ओवदतु मो आर्यो संघो यावत् प्रतिकरिष्यामि एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि एका भिक्षुणी भवति | संबहुला च भिक्षू भवन्ति | वक्तव्यं | अहम् इथन्नामा संबहुलान् आर्यमिश्रान् प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया | ओवदन्तु मे आर्यमिश्रा यावद् यथाधर्मं प्रतिकरिष्यामि | एवं द्वितीयम् पि तृतीयम् पि |
SK
अथ दानि एका भिक्षुणी भवति | एक भिक्षु भवति | वक्तव्यं | अहम् इत्थन्नामा आर्यं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया | ओवदतु मे आर्यो अर्थ कामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्ती पश्यन्ति स्मरन्ती यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामि | एवं द्वितीयम् पि तृतीयम् पि |
SK
११०. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा | वैद्यभिक्षू ति वा कृत्वा | चूडभिक्षू ति वा कृत्वा अखल्लमहल्लअकुशलअप्रकृतिज्ञो ति वा कृत्वा | वर्षोषिता उभयतो संघप्रवारणान् न प्रत्याशंसयति गुरुधर्मम् अतिक्रामति | एवं गौतमि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या | अयं गौतमि भिक्षुणीनाम् अष्टमो गुरुधर्मो यो भिक्षुणीहि यावज्जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेलामिव महासमुद्रेण |
SK
इमे गौतमि भिक्षुणीनाम् अष्टौ गुरुधर्माः ये भिक्षुणीहि यावज्जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयित्व्या अनतिक्रमणीया वेलामिव महासमुद्रेण |
SK
पाराजिकधर्म |
SK
मैथुनं
SK
१११. अथ खलु भगवान् भिक्षुणीयो आमन्त्रयते स्म तस्मात् तहिं भिक्षुणीयो अद्यदग्रेण महाप्रजापतीं गौतमीं संघस्थविरीं संघमहत्तरीं संघपरिणायिकां धारयथ |
SK
य इमे भगवन् भगवता चत्वारो पतनीयो धर्मो अभिज्ञाय देशिताः लभ्या ते भगवन्न् अस्माभि विस्तरेण श्रोतुं | भगवान् आह लभ्या गौतमि |
SK
११२. पञ्चार्थवशान् संपश्यमानाय श्रद्धाय कुलधीताय अलम् विनयम् उद्दिशितुं | अलं विनयं धारयितुं यथा भिक्षुविनये |
SK
११३. एकम् इदं गौतमि समयन् तथागतो श्रावस्तीयम् विहरति | अथ खलु शारिपुत्रस्य स्थविरस्य यावत् को नु खलु भगवन् हेतुः कः प्रत्ययो येन इहैकेषान् तथागतानाम्, अर्हतां सम्यक्सम्बुद्धानाम् अत्ययेन चिरस्थितिकं प्रावचनं भवति चिरस्थितिकः सद्धर्म इति यथा भिक्षुविनये |
SK
एकम् इदं गौतमि समयन् तथागतो वैशालीयम् विहरति | विस्तरेण यशिकस्यार्थोत्पत्तिः प्रथमा | तस्मात् तर्हि गौतमि भिक्षुण्यापि अत्रैव शिक्षितव्यम् |
SK
द्विन्नां लिच्छवि कुमाराणाम् अर्थोत्पत्तिः | द्वितीया | यावन् नास्ति भिक्षुणीये शिक्षाप्रत्याख्यानं | तृतीया | नास्ति दौर्बल्याविष्करकर्म | चतुर्थी | नन्दिकस्यार्थोत्पत्तिः | पञ्चमी | मर्कटीय अर्थोत्पत्तिः षष्ठी |
SK
विस्तरेण तस्माद् इह गौतमि भिक्षुणीहि अत्रैव शिक्षितव्यं |
SK
११४. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो | अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा यावच् छिक्षापदं प्रज्ञप्तं |
SK
या पुन भिक्षुणी छन्दसो मैथुनं ग्राम्यं धर्मं प्रतिषेविय अन्तमसतो तिर्यग्योनिगतेन पि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
या पुन भिक्षुणी ति उपसम्पन्ना सूपसम्पन्ना त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन अनाघातपञ्चमेन समग्रेण संघेन उभयतः संघेन इयं भिक्षुणी | च्छन्दसो ति रक्तचित्ता |
SK
मैथुनन् ति अब्रह्मचर्यं ग्राम्यधर्मन् ति ग्रामस्याप्य् एषो धर्मो नगरस्याप्य् एषो धर्मो सर्वावन्तस्यापि लोकस्य एषो धर्मो | प्रतिषेवेया ति अध्याचारेय | सा एषा भिक्षुणी मैथुनं ग्राम्यधर्मं प्रतिषेवति मानुषेण पुरुषेण मानुष्यकेन पण्डकेन त्रयाणां व्रणमुखानां धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे अन्यतरान्यतरस्मिं व्रणमुखे अङ्गजाते अङ्गजातं प्रक्षिप्तं आर्तीयति आर्तयित्वा स्वादयति | आदौ स्वादयति | मध्ये स्वादयति | पर्यवसाने स्वादयति | सुखीयति | आस्वादं निगमयति पाराजिका भवति | आदौ न स्वादयति | मध्येन स्वादयति | पर्यवसाने स्वादयति | यावत् पाराजिका भवति | आदौ न स्वादयति | मध्ये न स्वादयति | पर्यवसाने स्वादयति या आस्वादन् निगमयति सा पाराजिका भवति | आदौ न स्वादयति | मध्ये न स्वादयति | पर्यवसाने न स्वादयति अनापत्तिः |
SK
एवं सुप्तस्य मृतस्य अङ्गजाते अङ्गजातं प्रक्षिपित्वा अर्तीयति | पेयालं एवं अमानुषस्य पण्डकस्य तिर्यग्योनिगतस्य पुरुषस्य पण्डकस्य त्रयाणां व्रणमुखानां | पेयालं |
SK
११५. सा एषा भिक्षुणी रक्तचित्ता पुरुषं दर्शनाय उट्ठापेति सम्वरगामिविनयातिक्रमम् आसादयति दर्शनश्रवणे देशनागामिविनयातिक्रमम् आसादयति | यथा भिक्षुविनये |
SK
११६. पुरुषो त्रिखण्डीकृतो भवति | द्विधापाटितो भवति | शुष्को भवति | कोटरकजातः | आध्मातजातो भवति | विनीलको भवति | विपूयको भवति |
SK
११७. पञ्च भिक्षुणीयो पञ्च भिक्षून् बलात् प्रसह्यमध्योमर्दन्ति पञ्च भिक्षुणीयो पाराजिकायो भवन्ति | यो च भिक्षुः सातियति |
SK
पञ्च भिक्षू पञ्च भिक्षुणीयो बलात् प्रगृह्यमध्योमर्दन्ति पञ्च भिक्षू पाराजिका भवन्ति | या च भिक्षुणी सातियति |
SK
भिक्षु भिक्षुणीय सार्धं अन्योन्यं विप्रतिपद्यति उभये पाराजिका भवन्ति | भिक्षुणी श्रामणेरेण सह विप्रतिपद्यति भिक्षुणी पाराजिका भवति श्रामणेरो नाशयितव्यो | अथ दानि भिक्षुणी आरामिकेन सह विप्रतिपद्यते भिक्षुणी पाराजिका भवति | आरामिको अगृहीतसम्वरत्वात् किम् व्रद्यिष्यति | एवं तीर्थिकेन | त्रिहि भिक्षुणी पाराजिका भवति | मानुषेण अमानुषेण तिर्यग्योनिगतेन अपरेहि त्रिहि धन्यमार्गे वर्चमार्गे प्रस्रावमार्गे | अपरेहि त्रिहि सुप्ते मृते जाग्रन्ते | द्विहि भिक्षुणी पाराजिका भवति पुरुषेण पण्डकेन च | सा एषा भिक्षुणी सुप्ता वा भवति मत्ता वा उन्मत्ता वा विस्तरेण पुरुषो उपसंक्रम्य अभिनिषीदति वा अभिनिपद्यति वा | अन्तोस्तरति वा | सा ततो उत्थाय आदौ स्वादयति | मध्ये स्वादयति | पर्यवसाने स्वादयति पाराजिका भवति | किन् ति दानि सादियना द्रष्टव्या | किन् ति दानि असादियना | यथा भिक्षुविनये | सा एषा भिक्षुणी छन्दसो मैथुनं ग्राम्यधर्मं प्रतिषेवतीति | पेयालं | सा एषा आपद्यति | अप्य् एकत्या अज्ञानात् | अप्येकत्या स्मृतिसंमोषात् | अप्य् एकत्याकल्पियसंज्ञया | अप्य् एकत्या अलज्जिकेन | अप्य् एकत्या रागाभिभूता दोषाभिभूता मोहाभिभूता अनापत्तिः | क्षिप्तचित्ताये अकरन्तीये अनध्याचरन्तीये अनापत्तिः | तेन भगवान् आह |
SK
या पुनर् भिक्षुणी छन्दशो मैथुनं ग्राम्यधर्मं प्रतिषेवेय अन्तमसतो तिर्यग्योनिगतेनापि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असंवास्या |
SK
पाराजिकधर्म २४
SK
एवं द्वितीयस्य | तृतीयस्य | चतुर्थस्य | न किञ्चिन् नानाकरणं यथा भिक्षुविनये |
SK
संसर्ग
SK
११८. भगवान् छाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे | तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनां अरण्यकानि शयनासनानि प्रतिक्षिप्तानि | ग्रामान्तकानि च अकृतानि | भिक्षुणीयो गृहिणाम् उपवसितेहि वसन्ति | राष्ट्रा नाम भिक्षुणी | सा दानि अपरस्य साक्यस्य उदुवसिते वसति | सा दानि राष्ट्रा तस्य शाकियकुमारस्य उद्दिशति | सा दानि राष्ट्रा प्रासादिका दर्शनिया अविगतराग | सो पि शाकियकुमारो प्रासादिको दर्शनीयो | सो दानि ताये त्रिक्खत्तो देवशिकं उपलङ्कृतं काल्यं मध्याह्ने सायं | ताये दानि तं शाकिय कुमारं दृष्ट्वा अभीक्ष्णं संसेवाय च रागचित्तम् अनुध्वंसयति | सा दानि म्लायति पाण्डुकृशा दुर्वर्णा भोन्तीमपि भोजनं न छन्दो भवति |
SK
११९. भिक्षू दानीं पृच्छन्ति | केन त्वं भगिनी राष्ट्रा पाण्डुकृशा दुर्वर्णा | किन् ते दुःखति | किन् ते पर्येषामः | सर्पिस् तैलं मधु फाणितं | सा दान् आह भोतु भोतु आर्य एवम् एव वर्ता भविष्यामि | भिक्षुणीयो पृच्छन्ति | आर्ये राष्ट्रे केन त्वम् एवं पाण्डुकृशा दुर्वर्णा | किन् ते दुःखति | किन् ते पर्येषामः | सर्पिस् तैलं मधु फाणितं | सा दान् आह | भोतु भोतु आर्यमिश्रिकायो एवम् एव वर्ता भविष्यामीति | एवं एव उपासिका उपासिकायो | सो पि शाकियकुमारो आह | आर्ये किन् ते दुःखति | केन सि पाण्डु कृशा दुर्वर्णा | आचिक्षाहि कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय | सचेद् अस्माकं न भविष्यति प्रातिवेश्य कुलातो उद्धारधर्मणा आनापयिष्यामि | अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामि | सा दान् आह भोतु दीर्घायुः एवम् एव वर्ता भविष्यामि | द्वितीयं तृतीयम् अपि आह | आर्ये किन् ते दुःखति | केनासि पाण्डुकृशा दुर्वर्णा यावद् ग्रामान्तरातो आनापयिष्यामि | सा दान् आह भोतु दीर्घायु एवम् एव वर्ता भविष्यामि | सो दानि शाकियकुमारो आह | न इदं आर्याये किञ्चित् कायिकं गैलायं | चैतसिकं आर्याये गैलान्यं | सा दान् आह | बाढं चैतसिकं गैलान्यं | सो दान् आह कथं सह्यं भवेय | सा दान् आह | यदि एवम् इच्छसि एवं सह्यं भवेय |
SK
१२०. सो दान् आह | आर्ये किम् अर्थम् अहं नेच्छामि | यो दानि अहं जल्पामि | आचिक्षतु आर्या किम् आज्ञापयसि | किं करोमि | कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय | सचेद् अस्माकं न भविष्यति प्रातिवेश्यकुलातो उद्धारधर्मणा आनयिष्यामि अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामीति | आचिक्षतु आर्या | सा दान् आह | साधु ते एतम् अर्थम् करोहि | सो दान् आह | न आर्ये एवं वक्तव्यं | अन्याहि अहं काषायवसनाहि नोत्सहाम्य् एतं अर्थं कर्तुं प्राग् एव आर्याय | आर्या मम गुरु च भावनीया च | नाहम् आर्याय एवं वक्तव्यो | नह्य् अहम् उत्सहाम्य् एतं कार्यं कर्तुं | सा दान् आह | साधु ताव मे आलिङ्गस्व चुम्बस्व स्तनोदरञ् च मे परिमर्दस्वेति | लभ्यन् मया एतन् मात्रं कर्तुं | स मात्रालिङ्गति चुम्बति स्तनोदरञ् च से परिमृशति | सा पि दानि तत्तकेनैव विनोदयति | सो पि दानि शाकियकुमारो अभीक्ष्णसंसर्गेण अपम्लायति |
SK
१२१. यथा भगवान् आह | नाहम् भिक्षवो ऽन्यम् एकं स्प्रष्टव्यं समनुपश्यामि | एवं रञ्जनीयम् एवं कमनीयम् एवं वञ्चनीयम् एवं मूर्च्छनीयम् एवम् अध्योहारि एवम् अन्तरायकरम् अनुत्तरस्य योगक्षेमस्याधिगमाय यथा पुरुषस्य स्त्री स्प्रष्टव्यं स्त्रीया पुरुष इति दानि तेन अभिक्ष्णसंसेवाय अपम्लायति | सो दानि पुनः पुनः करोति |
SK
१२२. सा दानि भिक्षुणीहि वुच्चति | मा आर्ये एवं करोहि नैवं लभ्या कर्तुं | सा दान् आह | एवं मम क्रियमाणं फासु भवति | एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसु | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह शब्दापयथ राष्ट्रां | सा दानि शब्दापिता | भगवान् आह | सत्यं राष्ट्रे एवं नाम त्वं अवश्रुता अवश्रुतस्य | पुरुषस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्यां आमोषणपरामोषणं सादियसि | आह | आम् भगवन् | भगवान् आह | दुष्कृतं ते राष्ट्रे | नन्व् अहं राष्ट्रे अनेकपर्यायेण सर्वेषां कामानां कामनन्दीनां कामनिम्नानां काममूर्च्छानां कामपिपासानां कामपरिदाह्यानां कामाध्यवसानानां अन्तम् वदामि | प्रहाणम् वदामि | समतिक्रमणं वदामि | तत्र नाम त्वं इमं एवं रूपत्वं पापम् अकुशलं धर्मं अध्याचरसि | नैष राष्ट्रे धर्म | नैष विनयो | नैवं शास्तुः शासनं | नैवं कर्तव्यं | नैवं करतो वृद्धिर् भवति कुशलेहि धर्मेहि |
SK
१२३. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो | यावतिका भिक्षुणीयो कपिलवस्तुन् नगरम् उपनिश्रित्य विहरन्ति | अथ खलु भगवान् सन्निपतितं भिक्षुणीसंघं विदित्वा एतत् प्रकरणं भिक्षुणीनां विस्तरेणारोचयति | पेयालं | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षाभ्याम् उपरि जानुमण्डलाभ्याम् आमोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
या पुन भिक्षुणीति | पेयालं | यावद् एषा भिक्षुणी अवश्रुता ति रक्तचित्ता | अवश्रुतस्येति रक्तचित्तस्य | अधो कक्षाभ्याम् इति स्तनोदरं | उपरि जानुमण्डलाभ्याम् इति ऊरु | आमोषणं ति च्छुवणं | परामोषणन् ति वीतिहारो | सादियेया ति सातीयति सुखियति रमीयति आस्वाद निगमयति पाराजिका भवति |
SK
पाराजिकेति पारं नामोच्यते धर्मज्ञानं | ततो जीना ओजीना संजीना परिहीणा | तेनाह पाराजिकेति |
SK
१२४. एवं विस्तरेण | सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति | सा एषा भिक्षुणी अवश्रुतस्य पण्डकस्य उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति | सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूलच्चयम् आसाद्यति | सा पि एषा भिक्षुणी अवश्रुता अनवश्रुतेन पुरुषेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूलच्चयम् आसादयति | सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणं परामोषणं सादियेय थूलच्चयम् आसादयति | सा एषा भिक्षुणी अवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादिय देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूल्ऽ-अच्चयम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अवश्रुतेनपण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादियति थूल्ऽ-अच्चयं आसादयति | सा एषा भिक्षुणी अनवश्रुता अवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामि विनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति सम्वरगामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् स्थूलात्ययम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् याव थूल्ऽ-अच्चयम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावद् देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसास्दयति | सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्यां उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वरगामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतायस्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् सम्वरगामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् सम्वरगामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वरगामिविनया तिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् आमोषणपरामोषणं सादीयति अनापत्तिः |
SK
१२५ | अथ दानि भिक्षुणी ललाटसिरां वेधापयति द्वितीयाय भिक्षुणीय मूर्ध्नि आक्रमितव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं संजानाति | अथ दानि बाहुशिरां विन्धापयति अपराय भिक्षुणीय बाहा ग्रहेतव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं | एवं गुल्फशिरा | एवं जानुमण्डलाधः | अथ दानि गण्डं वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा उपनाहापयति वा अपराय भिक्षुणीय आलम्बयितव्यं | न क्षमति सम्बाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा पुरुषेण वेधापयितुम् वा पाटापयितुम् वा उपनाहापयितुम् वा | सम्बाधो नाम प्रदेशो उपरि जानुमण्डलाभ्याम् अधः कक्षाभ्याम् | तेन भगवान् आह |
SK
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षा भ्याम् उपरि जानुमण्डलाभ्याम् आमोषणपरामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
पाराजिकधर्म ६ अष्टवस्तुका
SK
१२६. भगवान् सम्यक्सम्बुद्धो यदर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा वैशालीयाम् विहरति | महावने कूटागारशालायां | तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनाम् आरण्यकानि शयनासनानि प्रतिक्षिप्तानि | ग्रामान्तिकनि च अकृतानि | भिक्षुणीयो अभ्यन्तरनगरे प्रविशन्ति | अथ राष्ट्रपाला नाम भिक्षुणी | सा दानि अपरस्य लिच्छविकुमारस्य उदुवसिते वसति | सा दानि तस्य लिच्छविकुमारस्य उद्देशन् ददाति | सा दानि राष्ट्रपाला तस्य देवसिकम् उपसंक्रमति काल्यं मध्याह्ने सायम् | सा दानि प्रासादिका दर्शनीया अवीतरागा | सो पि लिच्छविकुमारो प्रासादिको दर्शनीयो | ताये दानि राष्ट्रपालाय अभीक्ष्णदर्शनेन अभिक्ष्णं संसेवाय च रागचित्तम् अनुध्वंसयति | सा दानि म्लायति | पेयालं | यावद् गुरु च भावनीया च यावन् नोत्सहामि |
SK
१२७. सा दान् आह | साधु खलु तावन् मे अन्तो हस्तपाशस्य तिष्ठाहि संलपाहि | हस्तं मे गृह्णाहि | प्रहस्तं मे गृह्णाहि | अङ्गुलिं मे गृह्णाहि | अन्गुष्टं मे गृह्णाहि | चीवरं मे गृह्णाहि | अहं पि ते आगतम् अभिनन्दिष्यं | आसनेन उपनिमन्त्रयिष्यं | कायन् ते अनुप्रयच्छिष्यं | पीठिकाम् वा आपणम् वा कर्मान्तम् वा गमिष्यन् ति | सो दान् आह | आर्ये लभ्या मया एतं कर्तुं | सो दानि ताये अन्तो हस्तपासस्य तिष्ठति | संलपति | हस्तेन गृह्णाति | प्रहस्ते गृह्णाति | चीवरे गृह्णाति | सा पि तं आगतम् अभिनन्दति | आसनेनोपनिमन्त्रयति | कायं से नुप्रयच्छति | संकेतं वा गच्छति | सापि दानि तत्तकेनैव कामच्छन्दम् विनोदेति | सो पि दानि लिच्छविकुमारो अभीक्ष्णदर्शनेन अभीक्ष्णसंसेवाय अपम्लायति |
SK
१२८. यत् तद् उक्तं भगवता | नाहम् भिक्षवो ऽन्यद् एकरूपम् अपि समनुपश्यामीति विस्तरेण सूत्रं | सा दानि अभीक्ष्णं संसेवाय अपम्लायति | सा पुनः पुनः करोति | सा भिक्षुणीहि वुच्चति | मा आर्ये राष्ट्रपाले एवं करोहि | नैवं लभ्या कर्तुं | सा दान् आह | केन्ऽ अर्थन् न लभ्यते | एवम् मम क्रियमाणे फासु भवति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ राष्ट्रपालां | सा दानि शब्दापिता | भगवान् आह | सत्यं राष्ट्रपाले एवन् नाम त्वं अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठसि संलपसि | पेयालं | यावत् संकेतं गच्छसि | आह | आम् भगवन् | भगवान् आह | दुष्कृतं ते राष्ट्रपाले | यावन् महाप्रजापतीं गौतमीम् आमन्त्रयति | यावच् छिक्षापदं प्रज्ञपतं |
SK
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य संतिष्ठेत वा संलपेत वा | हस्तग्रहणम् वा | चीवरग्रहणम् वा सादीयेय | आगतम् वा अभिनन्देय | आसनेन वा उपनिमन्त्रेय | कायम् वा अनुप्रयच्छेय | संकेतकृतम् वा गच्छेय | इयं पि भिक्षुणी पाराजिका भवत्य् असंवास्या |
SK
१२९. या पुन भिक्षुणीति उपसंपन्ना | यावत् सा एषा भिक्षुणी अवश्रुता ति रक्तचित्ता | अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य | अन्तो हस्तपाशस्येति अन्तो व्यायामेति | संलपेया ति उपकर्णं वा जल्पेय | हस्तग्रहणन् ति हस्ते गृह्णिय यावद् अङ्गुष्टके वा | चीवरग्रहणन् ति संघाटीयं वा उत्तरासङ्गे वा अङ्तरेवासे वा संकक्षिकायां वा दकशाटिकायाम् वा | सादियेया ति आस्वादं निगमयेत् | आगतं वा अभिनन्देया ति वा स्वागतन् ते अनुरागतन् ते पुनः पुन आगच्छेसि | प्रीतास्मि तवागमनेन | प्रह्लादितम् मे गात्रं तव दर्शनेन | आसनेनोपनिमन्त्रेया ति आसनम् अस्य ददेय | कायं से अनुप्रयच्छेया ति येनासौ तेन कायं प्रणामेत | संकेतकृतं गच्छेद् इति यस् तस्य अभीक्ष्णं उपचारो भवेद् आपणो वा पीठिका वा क्षेत्रवस्त्रं वा उदकसमीपं वा कर्मान्तं वा उद्यायं वा मार्गे वा तहिं तिष्ठेद् इयं पि भिक्षुणी पाराजिका असंवास्येति यावत् प्रज्ञप्तिः |
SK
१३०. सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं संतिष्ठति यावत् संकेतं कृतं गच्छति पाराजिका भवति | एवं पण्डकस्य स्त्रियाः स्थूलात्ययः | सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशं तिष्ठति यावत् संकेतकृतम् वा गच्छति थूल्ऽ-अच्चयं | एवं पण्डके स्त्रियायां देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अनवश्रुता अवश्रुतस्य अन्तो हस्तपाशस्य संतिष्ठति यावत् संकेतकृतम् वा गच्छति स्थूलात्ययं | एवं पण्डकस्य स्त्रियायान् देशनागामिविनयातिक्रमम् आसादयति | सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण सन्तिष्ठति थूल्ऽ-अच्चयम् | संलपति स्थूल्ऽ-अच्चयं | हस्तग्रहणं थूल्ऽ-अच्चयम् | चीवरग्रहणं थूल्ऽ-अच्चयं | आगतम् अभिनन्दति थूल्ऽ-अच्चयं | आसनेनोपनिमन्त्रेति थूल्ऽ-अच्चयं | कायम् अनुप्रयच्छति थूल्ऽ-अच्चयं | संकेतङ् गच्छति पाराजिका भवति | एवम् एकैकेन पदेन थूल्ऽ-अच्चयं | यावत् सप्तमे सप्त थूल्ऽ-अच्चयाः | अष्टमे पदे पाराजिका भवति | अथ दानि अनुखज्जकम् आपज्जति यदाष्टौ थूल्ऽ-अच्चया भवन्ति तदा पाराजिका भवति | अथ दानि एक समापद्यित्वा प्रतिकरित्वा यावत् सप्तमम् आपद्यित्वा प्रतिकरित्वा अष्टमम् आपद्यति न सा पाराजिका भवति | अथ दानि सप्तमम् आपद्यित्वा अप्रतिकरित्वा अष्टमम् आपद्यति पाराजिका भवति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य सन्तिष्ठेद् वा | संलपेद् वा | हस्तग्रहणम् वा | चीवरग्रहणम् वा सादीयेय | आगतम् वा अभिनन्देय | आसनेन वा उपनिमन्त्रेयेत | कायम् वा अनुप्रयच्छेय | संकेतकृतम् वा गच्छेय | इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्य |
SK
पाराजिकधर्म ७ अवद्यप्रतिछादिका
SK
१३१. भगवान् वैशालीयं विहरति | विस्तरेण निदानं कृत्वा | वैशालीयं दानि नगरे अपरस्य लिच्छविस्य त्रियन्तरा दारिका जाता | अमङ्गल्या अप्रशस्ता | तेषान् दानि मातापितृणाम् भवति | क इमां विवाहयिष्यति | गृहे पि धार्यमाणा अमङ्गल्या कस्येयन् दातव्या | अपरे आहंसुः | इच्छत यूयं एतां दारिकां उन्नीयमानां | ते दान् आहंसुः | इच्छामः | आहंसुः | एषात्र काली नाम भिक्षुणी | तस्या देथ सा उन्नेष्यति | तेहि दानि सा उक्ता | आर्ये ऽस्माकं त्रियन्तरा दारिका जाता अधन्या वामङ्गल्या वाप्रशस्ता वा | ताम् वयम् आनापेयेमः | उन्नेहि वर्धेहि अन्तेवासिनीय ते भविष्यति | वयं च ते ग्रासाच्छादन् दास्यामः | ताय सा परिगृहीता | उन्नेति वर्धेति | ततो देवसिकं पक्वप्रहेणकम् आनीयति | अनुशमं अनुशमं आच्छादं लभति | हेमन्ते हेमन्तिकं | वर्षाकाले वर्षावासिकं | सा यदा महन्तीभूता तदा ताय प्रव्रजिता | शिक्षा देशिता | परिपूरशिक्षा | उपसम्पादिता | तीव्ररागो मातृग्रामः | सा दानि क्लेशेहि बाध्यते | न सहति | सा दान् आह | आर्ये न दानि प्रव्रज्यायां गमिष्याम्य् अहं | क्लेशेन बाध्यामि | काली आह | पुत्रि दुःखो गृहावासः | अङ्गारकर्षूपमा कामा उक्ता भगवता | किन् ते गृहावासेन | सा पश्यति यदि तावद् इयं प्रत्योधावति ततो मे लाभसत्कारो ऽन्तरहायिष्यति | सा ताय निगृहीता विच्छिन्दिता | सा दानि क्लेशान् असहन्ती आरामिकपरिव्राजकेहि सार्धं मिश्रिभूता | ताय कुक्षिः प्रतिलद्भोदरं महन्तीभूतं | सा भिक्षुणीहि निष्काशीयति | तायो दानि भिक्षुणीयो आहंसुः | आर्ये कालि जानासि त्वम् एतां आगारकेहि परिव्राजकेहि सह मिश्रीभूतां | आह | जानामि | एवं विरोपादाय आहंसुः | किम् अर्थं त्वं नारोचेसि | न जल्पसि | पश्यामि यद्य् अहम् आरोचयिष्यं | एषा गृहं गमिष्यति | मम एष लाभसत्कारो अन्तराहायिष्यतीति |
SK
१३२. एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ कालिं | सा शब्दापिता | तद् एव सर्वं भगवान् विस्तरेण पृच्छति | आह | आम भगवन् | भगवान् आह | दुष्कृतं ते कालि | अस्ति नाम त्वं कालि जानन्ती भिक्षुणीं दुष्ठुल्लापत्तिम् आपनां प्रतिच्छादेसि | यावन् नैष कालि धर्मो नैष विनयो | यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो वैशालीन् नगरीम् उपनिश्रित्य विहरन्ति | यावच् छिक्षापदं प्रज्ञप्तं |
SK
या पुन भिक्षुणी जानन्ती भिक्षुणीं दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय | सा न परेषाम् आरोचयति कुवेगे महाजने संघमध्ये | यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्मविनयाद् | अथ सा भिक्षुणीनाम् एवम् वदेय | आज्ञासि वताहम् आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्लामापत्ति कृतामध्याचीर्णा | साहं न परेषाम् आरोचयेयं | किन् ति इमाये मापरे जानन्तू ति | इयं भिक्षुणी पाराजिका भवति ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन श्रवणेन | दुष्ठुल्लाम् आपत्तिं ति दुष्ठुल्लानाम अष्टानाम् अन्यतरान्यतरा कृता अध्याचीर्णा | सा न परेषाम् आरोचेय इति न कथयेत् | कुवे एगे ति एकाये | महाजने ति द्विन्नाम् त्रयाणां | संघमध्य्ति परिपूर्णसंघस्य |
SK
च्युता ति च्युता भोति ब्रह्मचर्यातो | मृता ति कालगता | निषण्णा अवसण्णा ति गृहिणीभावङ् गता | अवक्रान्ता इमस्माद् धर्मविनयाद् इति अन्यतीर्थिकायतनं संक्रान्ता | अथ सा भिक्षुणी भिक्षुणीनां एवं वदेया | आज्ञासि वताहं आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्तिः कृतामध्याचीर्णा | छाये | साहं न परेषाम् आरोचये | किन् ति इमाये मापरे जानन्तू ति | इयम् पि भिक्षुणी पाराजिका भवति | पारन् नाम वुच्चति धर्मज्ञानं | पेयालं | यावत् प्रज्ञप्तिः |
SK
१३३. सा एषा भिक्षुणी पश्यति भिक्षुणीं अरुणोद्गते दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं | नो तु च्छादनाचित्तं प्रतिलभते | सूर्यस्योद्गमनकालसमये छादनाचित्तं प्रतिलभित्वा अरुणमुद्घाते ति इयं भिक्षुणी पाराजिका भवति | एवं दो कालिका अष्ट परिवर्ता कर्तव्याः | यथा भिक्षुविनये छादनायां | सा एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् अध्याचरन्तीं | ताय दानि अपराय आरोचयितव्यं | अथ सा भोति अन्तेवासिणी वा सार्धविहारिणी वा पश्यति | यदि आरोचयिष्यामि इदानीं भिक्षुणीहि निस्कासिष्यतीति अनुनयसम्बन्धेन छादेति पाराजिका भोति | सा एषा भिक्षुणी पश्यति अपरां भिक्षुणीं आपत्तिम् आपद्यन्तीं | सा दानि अपराय आरोचेति दृष्टा मया इत्थन्नामा भिक्षुणी दुष्ठुल्लाम् आपत्तिम् अध्याचरन्ती | अहं पश्यामि यदि आरोचयिष्यतीति दानी भिक्षुणीहि निर्धावयिष्यतीति मया पि च्छादितं | सा पि पश्यति यदि अहम् आरोचयिष्यं उभये निर्धावयिष्यन्तीति च्छादेति | सा पि पारजिका भवति | एवं यत्तिकायो च्छादेन्ति सर्वायो पाराजिका भोन्ति | एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं | सा अपरान् आरोचेति | इत्थन्नामा भिक्षुणी दुष्ठुल्लाम् आपत्तिम् आपन्ना | सा दान् आह | पापं कृतन् त्वया मम आरोचयन्तीय | मा अपराये पि आरोचयिष्यसीति थूल्ऽ-अच्च्यम् आसादयति | सा एषा भिक्षुणी पश्यति भिक्षुणीं दुष्थुल्लाम् आपत्तिम् अध्याचरन्तीं | ताय अपराये आरोचयितव्यं | अथ दानि सा भोति रौद्रा वा साहसकारा पश्यति | मा से जीवितान्तरायं वा ब्रह्मचर्यान्तरायम् वा करिष्यतीति उपेक्षा पर्तिलभति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती भिक्षुणीये दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय | सा न परेषाम् आरोचयेत् कुवेगे महाजने संघमध्ये | यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्मविनयाद् | अथ भिक्षुणी भिक्षुणीनाम् एवम् वदेय आज्ञासि वताहं आर्ये इत्थन्नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्ति कृतामध्याचीर्णा | साहं न परेषाम् आरोचयेयं | किन् ति इमाये मापरे जानन्तू ति | इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
पाराजिकधर्म ८
SK
उत्क्षिप्तानुवर्तिका
SK
१३४. भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तदर्थम् अभिसम्भावयित्वा | पेयालं | यावत् तेहि तेहि विहारेहि विहरन् कौशाम्ब्याम् विहरति घोषितारामे | आयुष्मान् दानि छन्दको पञ्चानाम् आपत्तिकायानाम् अन्यतरान्यतराम् आपत्तिम् अध्योमर्दति | सो भिक्षूहि वुच्चति आयुष्मन् छन्दक पश्यसि एताम् आपत्तिं | सो दान् आह | नाहं पश्यामि यूयम् अपि नं पश्यथ | भे च्यु[?]तं पश्यन्तु | किम् पुन मम एताय दुष्टाय | एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु | भगवान् आह | यद्य् एषो भिक्षवश् छन्दको पञ्चानाम् आपत्तिकायानाम् अन्यतरान्यतराम् आपत्तिम् अध्योमर्दति | स ताम् आपत्तिं न पश्यति | तेन संघो आपत्तीय अदर्शनेन उत्क्षेपनीयं कर्म करोतु | तस्य संघेन उत्क्षेपणीयं कर्म कृतं | न संभुञ्जति धर्मसंभोगेन आमिषसंभोगेन | तस्य दानि माता अपरंहि भिक्षुणीविहारे आवासिनी | सो दानि तंहि गत्वा आह | सालोहिते संघेनाहम् उत्क्षिप्तो | न संभुञ्जति मे धर्मसम्भोगेन आमिषसंभोगेन | सा दान् आह | अपर्या आर्य च्छन्दक | अहन् ते संभुञ्जामि धर्मसम्भोगेन आमिषसम्भोगेन | सा दानि सम्भुञ्जति धर्मसंभोगेन आमिषसंभोगेन | सा दानि भिक्षुणीहि वुच्चति | आर्ये एषो हि आर्य छन्दको समग्रेण संघेन धर्मतो विन्यतो उत्क्षिप्तो अप्रतिकृतो | मा आर्ये एतं भिक्षुं अनुवर्तेहि |
SK
भगवान् आह | अपापाय आर्यमिश्रिका अहं च तावन् नेतं भिक्षुं अनुवर्तिष्यं | का अन्या अनुवर्तिष्यति | अनुवर्तिष्याम्य् अहम् एतं भिक्षुं | किम् अर्थम् अहम् एतं किम् अर्थम् अहम् एतम् नानुवर्तिष्ये | एतत् प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये आरोचयेंसुः | महाप्रजापती गौतमी भगवत आरोचयति | भगवान् आह | यद्य् एषा भिक्षुणी छन्दकमाता छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तति | तेन हि तं गच्छथ त्रिःक्खत्तो कुवेगे त्रिःक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ एतस्य वस्तुस्य प्रतिनिःसर्गाय | सा दानि कुवेगे वुच्चति सत्यं त्वम् आर्ये छन्दकमाते आर्येछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि | आहो त्य् आह | सा त्वं कुवेगे वुच्यसि | मा आर्ये छन्दकमातो आर्यछन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं अनुवर्ताहि | यं खलु ते आर्ये छन्दकमाते मित्राय करणीयं अर्थकामाय हितैषिणीय करोति ते तं मित्रा एका वाचा गच्छन्ति | द्वे वाचे अवशिष्टे प्रतिनिःसर न प्रतिनिःसरामीत्य आह | एवम् द्विर् अपि त्रिर् अपि | एवं महाजने संघमध्ये अवलोकना कर्तव्या यावन् न प्रतिनिःसरामीत्य् आह |
SK
१३५. एतं प्रकरणं तायो भिक्षुणीयो भगवतः आरोचयेंसुः | अनुप्राप्ता भगवन् आर्या छन्दकमाता त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरति | भगवान् आह | शब्दापयथ छन्दकमातां | सा दानि शब्दापिता | भगवान् आह | सत्यं त्वं छन्दकमाते | एवन् नाम त्वं छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं संभुञ्जसि | सा त्वं त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये अनुप्राप्ता एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरसि | आम् भगवन् | भगवान् आह | दुष्कृतन् ते छन्दकमाते | नन्व् अहं छन्दकमाते अनेकपर्यायेण दौर्वचनस्यं गर्हामि दौर्वचनस्य अवर्णवादि तत्र नाम त्वं खराखक्खटं वामा अप्रदक्षिनग्राहिणी | नैषश् छन्दकमाते धर्मो | नैष विनयो नैतं शास्तुः शासनं | नैवं कर्तव्यं नैवं करणीयं | नैवं करोन्तीये वृद्धिर् भवति कुशलेषु धर्मेषु | एवं च दानि त्वं जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्तसि | तेन हि न क्षमति जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तितुं |
SK
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो कौशाम्बिनगरीम् उपनिश्राय विहरन्ति | यावच् छिक्षापदं प्रज्ञप्तं |
SK
१३६. या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रवणेन | समग्रेण संघेनेति अव्यग्रेण | धर्मविनयतो आपत्तीय अदर्शनेन आपत्तीय अप्रतिकर्मेण त्रयाणां दृष्टिगतानाम् अप्रतिनिःसर्गेण | उत्क्षिप्तन् ति असंभोगम् कृतं |
SK
अप्रतिकृतं ति अप्रत्योसारितं | अनुवर्तेया ति आमिषसंभोगेन वा धर्मसंभोगेन वा संभुञ्जेय |
SK
सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | एषो हि आर्ये भिक्षुः समग्रेण संघेन | पेयालं | यावत् तद् एव वस्तुं प्रतिगृह्णेय न प्रतिनिःसरेय यं तं उत्क्षिप्तकं भिक्षुम् अनुवर्तति |
SK
सा भिक्षुणीति यथा छन्दकमाता | भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या इति त्रिक्खत्तो कुवेगे महाजने त्रिक्खत्तो संघमध्ये | सा कुवेगे वक्तव्या | सत्यं त्वं इत्थंनामे इत्थंनामे भिक्षुसमग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि | आमो त्य् आह | सा दानि वक्तव्या | मा आर्ये इत्थंनाम भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्ताहि | यं खलु ते इत्थन्नामे मित्राय करणीयं अर्थकामाय हितैषिनीय करोति | ते तं मित्रा एका वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह द्वितीयं तृतीयम् अपि | पेयालं | संघमध्ये पि त्रैवाचिकं यावत् तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिःसरेय इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
पाराजिकेति पाराजिकाये आपत्तीये संकाशना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः |
SK
१३७. सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां विनयातिक्रमम् आसादयति | त्रिक्खत्तो महाजने समनुग्राहियंआणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिस्सरति वाचायाम् वाचायाम् विनयातिक्रमम् आसादयति | संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति | प्रथमायाम् वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति | व्योरोपितायां थूल्ऽ-अच्चयम् आसादयति | द्वितीयायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति | व्योरोपितायां वाचायां थूल्ऽ अच्चयम् आसादयति | तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम् आसादयति | व्योरोपितायां पाराजिका भवति | यदा पाराजिकाम् आपत्तिम् आपन्ना भवति | ये च कुवेगे महाजने ये च संघमध्ये विनयातिक्रमाश् च थूल्ऽ-अत्ययाश् च सर्वे ते प्रतिप्रश्रंभ्यन्ते एका आपत्तिर् गुरुका सन्थिहति | यद् इयं पाराजिका | अन्तरा प्रतिनिःसरति पञ्चास्थितासु आपत्तिषु कारापयितव्या | किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं | किम् अप्रतिनिःसर्गार्हम् अभूषिसि इत्थन्नामं भिक्षुं उत्क्षिप्तकम् अनुवर्तिष्यन् ति | नानुवार्तितं अनुवर्तामि अनुवर्तिष्यामि चेति एवं प्रतिनिःसर्गार्हं |
SK
किन् ति दानि अप्रतिनिःसर्गार्हं अभूषिसि | इत्थन्नामं भिक्षुम् उत्क्षिप्तकम् अनुवर्तिष्यन् ति | अनुवर्तितं दानि नानुवर्तामि अनुवर्तिष्यामि चेति एवम् अप्रतिनिःसर्गार्हं चेति एवम् अप्रतिनिःसार्गर्हं द्रष्टव्यं | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तेय सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीय | एषो हि आर्ये भिक्षुः समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तो अप्रतिकृतो | मा एतं भिक्षुम् अनुवर्तेय | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तं वस्तुं प्रतिगृह्णेय | न प्रतिनिःसरेय सा भिक्षुनी भिक्षुणीहि यावत् तृतीयकम् समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिःसरेय इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या |
SK
उद्दानं मैथुनम् अदत्तादानं वधो मृषा संसर्गो ऽष्टवस्तुका | अवद्यप्रतिच्छादिका उत्क्षिप्तानुवर्तिका ||
SK
प्रपूर्यते वर्गः | पाराजिकाः समाप्ताः |
SK
संचरित्र
SK
१३८. संचरित्रकर्म यथा भिक्षूणां सर्वम् अन्वर्थं यावत् तेन भगवान् आह |
SK
या पुन भिक्षुणी संचरित्रं समापद्येय स्त्रीमतम् वा पुरुषस्योपसंहरेय पुरुषस्य वा मतं स्त्रियायोपसंहरेय जायत्ततेन वा जारत्ततेन वा अन्तमसतो तत्क्षणीकानि पि अयं धर्मो प्रथमापत्तिको संघातिशेषो [(वा?)] उपादिशेषो संघो संघम् एवाधिपति कृत्य निःसरणीयो |
SK
संघातिशेषधर्म २
SK
अमुलकः द्वे अभूते तथैव कर्तव्या यथा भिक्षूणां | यावत् तेन भगवान् आह |
SK
या पुन भिक्षुणी दुष्टाद् दोषात् कुपिता अनात्तमना शुद्धां भिक्षुणीम् अनापत्तिकां अमूलकेन पाराजिकेन धर्मेणानुध्वंसये अप्य् एव नाम्ऽ एनां ब्रह्मचर्यातो च्यावेयन् ति सा तद् अपरेण समयेन समनुग्राहियमाणा वा असमनुभाषियमाना वा अमूलकम् एतम् अधिकरणम् भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति अयम् पि वर्गे प्रथमापत्तिको संघातिशेषो यावत् |
SK
लेशमात्रकं
SK
तेन भगवान् आह | या पुन भिक्षुणी दुष्टा दोषात् कुपिता अनात्तमना अन्यभागियस्य चाधिकरणस्य किञ्चि देशं लेशमात्रकं धर्मं उपादाय अपराजिकां भिक्षुणीं पाराजिकेन धर्मेणानुध्वंसये अप्य् एव नामैनां ब्रह्मचर्या च्यावेयन् ति सा तद् अपरेण समयेन समनुग्राहियमाणा वासमनुभाषियमाना वा अन्यभागीयम् एव तम् अधिकरणं भवति अन्यभागीयस्य चाधिकरणस्य किञ्चि देश लेशमात्रको धर्मो उपादिन्नो भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति संघातिशेषो |
SK
संघातिशेषधर्म ४
SK
उस्सयवादा
SK
१३९. भगवाञ् छ्रावस्तीयं विहरति | तंहि दानि भिक्षुणीविहारो च तीर्थिकशय्या च | कन्थान्तरिका | सा कन्था पतिता | तंहि दानि भिक्षुणीविहारे | स्थूलनन्दा नाम भिक्षुणी आवासिकिनी | सा दान् आह | तीर्थिका करोथैतां कन्थां | यूयं आह्रीकअनपत्रापिणो ह्रीरपत्राप्य निपन्नाः | आर्यमिश्रिकाः ह्रीरपत्राप्य सम्पन्नाः काले च विकाले च मर्मां प्रविशन्तां निष्क्रामन्तां दृष्ट्वा भविष्यति चित्तस्योपक्लेशो | ते दान् आहंसुः | अयं वर्षारात्रो यदा वर्षा निर्गता भविष्यन्ति तदा करिष्यामः | सा दान् आह | इदानीम् एव करोथ | ते न कुर्वन्ति | सा दानि आक्रोशति भ्रष्टायूः नष्टायूः भग्नाशा सुराभ्रष्टा यानगर्दभा न करिष्यथ | कथम् नग्नाः | आह्रीकअनोपत्रापिणो ह्रीरपत्राप्य विपन्ना मिथ्यादृष्टिका विनिपातिताः | करोथैतां कन्थां | ते दान् आहंसुः इतिकितिकाय धीते वडडिङ्गरपुष्टे श्रमणिके यदि मरसि न करोम एतां कन्थां |
SK
१४०. ताय दानि गत्वा आसने निवेदितं | एतद् एव सर्वम् आरोचयित्वाह दीर्घायु यथा सा कन्था क्रियते तथा करोथ | आसनिका श्राद्धा प्रसन्ना | ते दान् आहंसुः शब्दापयथ मिश्रस्थान् | ते दानि शब्दापिताः | ते आसनिका आहंसुः | हे इतिकितिकाय पुत्राः तीर्थिनग्नाः सुराभ्रष्टा यानगर्दभाः मिथ्यादृष्टीक विनिपातिताः | गच्छथ तां कन्थां करोथ | यूयम् अह्रीका अनोत्रापिणो आर्यमिश्रिका ह्रीरपत्राप्य सम्पन्नाः | तेषां युष्माकं काले च विकाले च निष्क्रामन्तां प्रविशन्तां दृष्ट्वा आर्यमिश्रिकाणां ब्रह्मचारिणीनां भविष्यति चित्तस्यान्यथात्वं तेहि दानि आसनिकेहि नियुक्ताः अकामका कार्यन्ते | ते दिवसतो कन्थाम् उत्थापयन्ति | रात्रौ च वर्षेण पातीयति | तेषां दानि त्रेमासं कर्म कुर्वन्तानां गतं | ते दान् आहंसुः | इमाय इतिकितिकाय धीतरे वडडिङ्गरपुष्टाय श्रमणिकाय मृत्तिकाकर्म करियामः | उपासककुलेहि अवध्यायन्ति पश्यथ गृहपतयो युष्माकं दक्षिणीय श्रमणिकाय अस्ति मे चलन् ति कृत्वा त्रेमासं अकामका कर्म कारापिता | एतं प्रकरणं उपासका कुलोपिकानां भिक्षुणीनाम् आरोचयन्ति | भिक्षुणीयो पि महाप्रजापतीये गौतमीये आरोचयन्ति | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | सत्यन् नन्दे ति | पेयालं | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी उत्सयवादा विहरेया आगारिकपरिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धम् अयम् पि धर्मो प्रथमापत्तिको |
SK
या पुनर् भिक्षुणीति उपसम्पन्ना | उत्सयवादा विहरेया ति कलहं करेय | आगरिकेहीति गृहिकेहि | परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि | दिवसं ति सुर्याकं दिवसं | मुहूर्तं ति तत्क्षणं तन्मुहूर्तं | अन्तमसतो आरामिकेहीति संघोपस्थायकेहि | श्रमण्ऽउद्देशकेहीति पञ्चदशवर्षान् उपादाय यत सप्ततिकाः | सार्धम् विहरेय | अयम् पि धर्म प्रथमापत्तिको संघातिशेषो |
SK
संघो ता नाम वुच्चन्ति अष्ट पाराजिका धर्माः | तेषाम् इयम् आपत्तिः सावशेषा सप्रतिकर्मा | संघातिशेषन् ति संघातिशेषाये आपत्तीये संकाषना प्रकाशना विवरणा विभजना उत्तानीकर्मता प्रज्ञप्तिः |
SK
सा एषा भिक्षुणी राजाकुले वा आसने वा निवेदयति थूल्ऽ-अच्चयं | आकार्षापयति संघातिशेषः | उपासककुले वा श्राद्धकुले वा निवेदयति विनयातिक्रमः | उज्झापयति सम्वरगामिवि | भिक्षुर् अपि राजकुले निवेदयति विनयातिक्रमम् आसादयति | ओज्झापयति सम्वरगामिवि | तेन भगवान् आह |
SK
या पुन भिक्षुणी उत्सयवादा विहरेय आगारिकपरिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशेहि सार्धम् आपत्तिः धर्मो प्रथमापत्तिको ||
SK
संघातिशेषधर्म ५ ग्रामान्तरं
SK
१४१. भगवां च्छ्रावस्तीयम् विहरति | तंहि दानि राष्ट्रा नाम भिक्षुणी | तस्या एव राष्ट्रपाला नाम भगिनी कुग्रामके वूढा | सा तावद् अनज्जिका | सा प्रेषयति | आर्ये राष्ट्रे आगच्छ यदि माम् इच्छसि जीवन्तीं पश्यितुं | सा तहिं गता | सा च कालगता | सो दानि भगिनीपतिको परिदेवति | आर्ये राष्ट्रे यन् ते भगिनी कालगता का तावद् इमं दारकं परिहरिष्यति का तावद् इमं मम गृहं प्रतिजागरिष्यति | आर्याय राष्ट्राय वयं प्रतिजागृतव्याः | ताये दानि भवति पापकाः खलु वाता वायन्तीति | सा निष्क्रमित्वा स्रावस्तीम् आगता | सा भिक्षुणीनाम् आह | आर्यमिश्रिकायो मनास्मि ब्रह्मचर्यातो च्याविता | आहंसुः | किम् वा कथम् वा | एतद् एव विस्तरेणारोचयति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति | महाप्रजापती पि गौतमी भगवत आरोचयति | भगवान् आह | शब्दापयथ राष्ट्रां | सा दानि शब्दापिता | तद् एव सर्वं विस्तरेण पृच्छीयते | यावद् आम् भगवन् | भगवान् आह | एवं च नाम त्वं भिक्षुणीय विना अध्वानमार्गं प्रतिपद्यसि | तेन हि न क्षमति यावच् छिक्षापदं प्रज्ञप्तं |
SK
१४२. एषा एवार्थोत्पत्तिः | भिक्षुणीयो अध्वानमार्गं गच्छन्ति | अपरा दानि भिक्षुनी प्रासादिका दर्शनीया तरुणी उच्छ्वासकारी वा प्रश्वासकारि वा मार्गातो उत्क्रमित्वा उपविष्टा | पुरुषसार्थो च आगच्छति | सा तेहि परिवारिता | ते दान् आहंसुः | आर्या प्रासादिका दर्शनीया तरुणी प्रत्यग्रयौवने वर्तसि | कामाः | परिभोक्तव्याः | सा त्वं किं प्रव्रजिता | को वा ते निर्वेद इति | आह | प्रव्रजितास्मि |
SK
आहंसुः | आचक्ष्व तावत् यावत् ते तद् अनन्तरं परिवारिय धारेन्ति | तावत् तायो भिक्षुणीयो ग्रामान्तरङ् गताः | ताये दानि कौकृत्यम् उत्पन्नं | सा महाप्रजापतीये गौतमीये आरोचयति | महाप्रजापती गौतमी भगवत आरोचयति | भगवान् आह | तेन हि आपत्तिः अकामिकायेति |
SK
१४३. एषैवार्थोत्पत्तिः | भिक्षुणीयो अध्वानमार्गं गच्छन्ति | अपरा दानि भिक्षुणी ग्लाना | सा विना भिक्षुणीहि ग्रामान्तरम् उत्क्रान्त | ताये दानि कौकृत्यं कृतं कौकृत्येन महाप्रजापतीये आरोचयति | महाप्रजापती गौतमी भगवत आरोचयति | भगवान् आह | अनापत्तिः ग्लानायेति | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमीति | पेयालं |
SK
या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्रसमये तत्रायं समयो अकामिका भिक्षुणी भवति ग्लानिका वा | अयम् अत्र समयो | अयम् पि धर्मो प्रथमापत्तिको |
SK
या पुन भिक्षुणीति | पेयालं | भिक्षुणीय विनेति अद्वितीया | अध्वानमार्ग त्रियोजनं द्वियोजनम् त्रियोजनम् | अन्तमसतो ग्रामान्तरम् वा | अकामिका ति हस्ति कडेवरेण अश्वकडेवरेण गोकडेवरेण वा मनुष्यकडेवरेण वा आवृता भवति | ग्लानिकेति जरादुर्बला वा व्याधिदुर्बला वा भवति | प्रत्युद्धृतं भगवता पदं अनापत्ती ग्लानाय | अयम् अत्र समयो | एता दानि भिक्षुणीयो अध्वानमार्गङ् गच्छन्ति यावता अन्तोसीमाङ् गच्छन्ति किञ्चापि दूरं दूरं गच्छन्ति अनापत्तिः | अथ दानि ग्रामान्तरम् वा नगरान्तरम् वा गच्छन्ति कान्तारमार्गम् वा अतिक्रामन्ति | अन्तो हस्तपाशस्थिताहि अतिक्रामितव्यं | परं हस्तपाशं गच्छन्ति | अन्तमसतो चतुरङ्गुलम् पि देशनागामिविनयातिक्रमम् आसादयति | अध्यर्धम् वा द्विहस्तम् वा गच्छन्ति थूल्ऽ-अच्चयम् आसादयति | अथ दानि एका भिक्षुनी आगत्वा सीमान्तरे तिष्ठति थूल्ऽ-अच्चयम् आसादयति | अपरा आगत्वा अतिक्रामति इमं सीमान्तरन् ति एवं यत्तिका अतिक्रामन्ति सर्वासां थूल्ऽ-अच्चयं | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीय विना अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्रसमये | तत्रायं समयो अकामिका भिक्षुणी भवति | ग्लानिका वा | अयम् अत्र समयो | अयम् पि धर्मो प्रथमापत्तिको |
SK
ग्रामान्तरं एकरात्रं पि
SK
१४४. भगवान् राजगृहे विहरति | तत्र दानि कर्मकारपुत्रः श्रद्धाप्रसन्नः | तस्य भार्या शुक्ला नाम कर्मारधीता प्रासादिका दर्शनीया | अथ भगवान् कालस्यैव निवासयित्वा पात्रचीवरम् आदाय राजगृहं पिण्डाय प्रविष्तः | सावदानम् पिण्डाय चरन्तो तस्य गृहं गतो उद्देशे स्थितः | सो दानि भुञ्जति | सा परिविशन्ती आवृत्य स्थिता | मा भगवन्तम् दृष्ट्वा विप्रकृत उत्थास्यतीति | तस्य दानि भवति किन् तावद् इयम् आवृत्य तिष्ठति | भगवता पि वैनेयवशेन प्रभा ते उत्सृष्टा | तेन चावलोकितं | तेन भगवान् दृष्टो | सो दान् आह | अये हि अस्ति नाम त्वं मम भगवन्तम् आवारयसि | अनर्थकामा त्वं | मम न त्वम् अर्थकामा | सा दान् आह नाहम् आर्यपुत्रस्य अनर्थकामा | भगवन्तम् आराधयामि | अपि तु मा विप्रकृतो भगवन्तम् दृष्ट्वा उत्थास्यसीति | ताये दानि भवति धिग् अस्तु मम गृहावासस्य | यत्र हि नाम प्रियं करिष्यामीति | अप्रियम् उक्ता | सा दान् आह आर्यपुत्र गच्छाम्य् अहं | पर्व्रजामि | सो दान् आह | कस्मिन् प्रवचने | आह | बौद्धे | आह | प्रव्रजाहीति |
SK
१४५. सा दानि उत्पलवर्णाय प्रव्रजिता उपसम्पादिता | ताय दानि अष्टाहेन प्रव्रजिताय युञ्जन्तीय व्यटयन्तीय व्यासयन्तीय तिस्रो विद्याः षडभिज्ञाः | बलवशीभावः साक्षीकृतो | सा दानि बलवशीभावप्राप्ता | अन्यतरं वृक्षमूलं निश्रयोपनिषण्णा | ताये दानि शक्रो ऽमरसंघपरिवृत्तो पादवन्दो आगतो | आह |
SK
इमां पश्यथ धर्मस्थां शुक्लां कर्मारधीतरं | अद्य अष्टाहप्रव्रजिता कृतकृत्या निराश्रवा || [१] ||
SK
सुविनीतोत्पलवर्णा मार्गे आर्य प्रविशते | त्रैविद्या ऋद्धि च प्राप्ता चेतोपर्यायकोविदा || [२] ||
SK
महर्द्धिका भिक्षुणी ता विजिता इन्द्रियाणी च | निषण्णा वृक्षतलंमि अनिञ्जेन समाधिना || [३] ||
SK
तां शक्रो ऽमरसंघेन उपसंक्रम्य वासवो | नमस्यत्य् अञ्जलीभूतो शुक्लां कर्मारधीतरं || [४] ||
SK
सा मधुरभाषिणी गृहेण गृहं नीयते | अपरेण दानि उपासकेन महार्हेण पटेन छादिता | अन्तरीक्षाद् देवता वाचं निश्चारयन्ति |
SK
लक्ष्मीवान् अयम् उपासको पुण्यम् प्रभूतम् अनल्पकं | सर्वग्रन्थप्रहीणाये शुक्लाये अदासि चीवरं || [५] ||
SK
किं राजगृहे मनुष्या मधुमत्तावतिष्ठन्ति | ये शुक्लान् न पर्युपासन्ति दैवसिकान् धर्मान् उत्तमा || [६] ||
SK
तं आसेचनकं शान्तं ते वै अप्रतिवाणीयं | आज्ञेयरूपो विज्ञेहि बालेहि अविजानियो || [७] ||
SK
सा दानि गृहेण गृहं भाषणाय नीयति | ताये दानि लाभसत्कारश्लोको ऽभ्युद्गतः | ताये दानि भिक्षुणीयो इर्ष्यापत्तिः | लाभसत्कारम् असहमाना ता दान् आहंसुः | भञ्जनं एताय कृतं | ततो ऽस्याः सर्वो जनकायो श्रोतव्यं श्रद्धातव्यम् मन्यति | तायो दानि भगवतो अल्लीना | एताय भगवन् जम्भनं साधितं | भगवान् आह | सत्यं शुक्ले एवं नाम त्वया जम्भनं साधितं | तेन ते जनो श्रोतव्यं मन्यति | आह | अहं भगवान् जम्भनं न जानामि | कुतो जम्भनं साधयि ष्यामि | भगवान् आह | न एताय जम्भनं साधितं | अपि तु अस्याः प्रणिधानं इदं |
SK
१४६. भूतपूर्वम् अतीते ऽध्वानं नगरे वाराणसीयं भगवति काश्यपे तत्र दानि राजा कृकी नामाभूत् | तस्य सप्त धीतरो अभूषि |
SK
श्रमणा [१] श्रमणिमित्रा [२] भिक्षुणी [३] भिक्षुणीदासिका [४] | धर्मा चैव [५] सुधर्मा च [६] संघदासी च सप्तमा [७] || [१] ||
SK
चतुर्दशीम् पञ्चदशीं या च पक्षस्य अष्टमी | प्रातिहारकपक्षञ् च अष्टाङ्गं सुसमाहिता || [२] ||
SK
पोषधम् उपोषधन् ति सदा शिलेन संवृता ||
SK
काशिनाञ् च मनापो आसि भद्रको नाम मानवो || [३] ||
SK
कुशलो नृत्त गीतस्मिं तन्त्रीनृत्तप्रबोधने | क्रीडायेति रमायेति जनन् तत्र समागतं || [४] ||
SK
तं च कालगतं ज्ञात्वा सर्वास् ताः सप्त कुमारियो | प्रासादिका दर्शनीयाः राज कन्याः समागताः || [५] ||
SK
राजानम् उपसंक्रम्य इदं वचनम् अब्रवीत् || [६] ||
SK
आपृच्छाम वयं तात कशीनां राष्ट्रवर्धन | अनुजानातु मो देव श्मशानं यामं प्रेक्षितुम् || [७] ||
SK
अद्य पञ्चदशी देव दिव्या नक्षत्र मालिनी | अनुजानातु मो नाथ श्मशानं यामं पश्यितुं || [८] ||
SK
उत्रासनभीषणके दुर्गन्धे लोमहर्षणे | आरोदने मनुष्यानां श्मशाने किं करिष्यथ || [९] ||
SK
यत्र भे अपेतविज्ञाना परभक्षा अचेतना | अपविद्धा मृता शेन्ति श्मशाने बहुभीषणे || [१०] ||
SK
यत्र गृध्रा शृगालाश् च काकोलूकास् तथा वृकाः | अङ्गमङ्गानि खादन्ति श्मशाने बहुभीषणे || [११] ||
SK
यत्र गृध्रा शृगालाश् च काकोलूकास् तथा वृकाः> | अस्त्रान् आदाय गच्छन्ति श्मशाने किं करिष्यथ || [१२] ||
SK
यत्र अस्थीनि दृश्यन्ते विक्षिप्तानि दिशोदिशं | तिष्ठन्ति शङ्खवर्णानि श्मशाने किं करिष्यथ || [१३] ||
SK
शूलायुतानि दृश्यन्ते अशुचि खेटगन्धिका | केशानाम् आकरे रौद्रे श्मशाने किं करिष्यथ || [१४] ||
SK
धूर्ताचारिकविकीर्णे चौरव्यालनिषेविते | दुर्मनुष्यान आवासे श्मशाने बहुभीषणे || [१५] ||
SK
अमनुष्यान आवासे राक्षसानान् निवेशने | सर्वप्रेतान आवासे | श्मशाने बहुभीषणे || [१६] ||
SK
ते सुकुमाल्याभरणा मणिकेयूरधारिणो | बाहं प्रगृह्य क्रन्दन्ति श्मशाने बहुभीषणे || [१७] ||
SK
ते सुकुमाल्याभरणा मणिकेयूरधारिनो | केशा प्रकीर्य क्रन्दन्ति श्मशाने भयभैरवे || [१८] ||
SK
यत्र माता पिता भ्राता भगिनी ज्ञातिबान्धवाः | दुर्मना यत्र निवर्तन्ते श्मशाने भयभयानके || [१९] ||
SK
यत्र माता पिता भ्राता भगिनीज्ञातिबान्धवाः | अनापृच्छति वर्तन्ते श्मशाने ऽतिभयानके || [२०] ||
SK
पाणिय हाह निर्घोषे ज्ञातीनां परिदेवने | पूतिविकन्थिते घोरे श्मशाने ऽतिभयानके || [२१] ||
SK
व्यजनीतालवृन्तानि विक्षिप्तानि दिशोदिशं | चिताधूमाकुले रौद्रे श्मशाने किं करिष्यथ || [२२] ||
SK
अयं प्रासादवरो कूटागारो सुनिर्मितो | [२२अ]
SK
यत्र अन्नञ् च पानञ् च रतीयो च उपस्थिताः | अत्र रमथ कन्यायो श्मशाने किं करिष्यथ || [२३] ||
SK
इमां पुष्किरिणीं रम्यां चक्रवाकोपशोभितां | पुण्डरीकैः सुसंछन्नां कुमुदसौगन्धिकेहि च || [२४] ||
SK
नानाद्विजगणाकीर्णा नाना स्वरनिकूजिताः | अत्र रमथ कन्यायो श्मशाने किं करिष्यथ || [२५] ||
SK
कुमार्यो आहंसुः |
SK
वयं पि तात जानामो श्मशाने भयभैरवे दुर्गन्धं कुणपं चैव कोविदारं च पुष्पितं || [१] ||
SK
वयम् अपि तातं जहिष्यामो ततो ऽप्य् अस्मां जहिष्यति | नानाभावो विना भावो न चिरेण भविष्यति || [२] ||
SK
राजा आह | दुःखसंज्ञा कुमारीयो [.........................] | अवव्याबाध्येन चित्तेन प्रविशेषातिमुक्तकं || [३] ||
SK
अनुज्ञाता कृकिणा राज्ञा निर्याताः काशीनां पुरात् | सर्वास् ताः रथम् आरुह्य गताः श्मशानप्रेक्षिकाः || [४] ||
SK
तायो अद्दशंसु मार्गस्मिं [उत्सृष्टं ?] उज्झितं शवं | दुर्गन्धिम् अशुचिं [ः] विधवस्तञ् च विनीलकं || [५] ||
SK
तायो यानाद् अवतरित्वान सर्वाः सप्त कुमारियो समन्तात् परिवारेत्वा इदम् वचनम् अब्रवीत् | सर्वासां वो अयन् धर्मः सर्वीषा एष धर्मता | एष अस्य शरीरस्य सर्वा गाथां करोमहे || [६] ||
SK
अयम् पुरा चन्दनलिप्तगात्रो अवदातावस्त्रो वशितानुचारि | छायं कुलञ् च अवेक्षमानो सो खज्जते शिवपथिकाय मध्ये || [७] ||
SK
अस्थिकङ्कालनगरं मांसशोणितलेपनं | यत्र रागस्य दोषस्य मोहस्यापि समूह यः || [८] ||
SK
इमम् नगरम् उत्सृज्य नागरीशो कहिं गतः || [९] ||
SK
यो द्विचक्रं द्विअरञ् च इमं परिहरेद् रथं | इमं रथं समुत्सृज्य शारथी सो कहिं गतः || [१०] ||
SK
ऊर्ध्वशाखम् अधो मूलं य इमं परिहरे ध्वजं | इमं ध्वजं समुत्सृज्य धवजहारो सो कहिं गतः || [११] ||
SK
य इमं परिहरेत् कायं अश्वं भद्रम् च वाणिजो | इमं कायं समुत्सृज्य वाणिजो सो कहिं गतः || [१२] ||
SK
य इमां परिहरेन् नावं अस्मिमाने महार्णवे | इमान् नावं समुत्सृज्य नाविको सो कहिं गतः || [१३] ||
SK
यो ऽयम् अस्मिन् आगारे वासं कल्पेय अध्वगः | इमम् आगारं समुत्सृज्य अध्वगो सो कहिं गतः || [१४] ||
SK
मम गाथा सुभणिता मम गाथा सुभणिता | ता अन्योन्यं विवर्तन्ति श्मशाने अतिमुक्तके || [१५] ||
SK
ततश् च मघवान् छक्रो देवराजः शचीपतिः | सम्वेगजातास् ताः कन्याः दृष्ट्वा ता उपसंक्रमेत् || [१६] ||
SK
सर्वासां वो सुभाषितं सर्वासां वो सुभणितं | वरं वरेथ कन्यायो यत् किञ्चिन् मनसेप्सितं || [१७] ||
SK
को नु दिव्येन वर्णेन अन्तरीक्षस्मि तिष्ठति | को वा त्वं कस्य वा पुत्रः कथं जानाम ते वयं || [१८] ||
SK
अहं शक्रः सहस्राक्षो मघवान् देवकुञ्जरः | यां देवसंघा वन्दन्ति सुधर्मायां समागताः || [१९] ||
SK
अहं शक्रः सहस्राक्षो देवराजा शचीपतिः | वरं वरेथ कन्यायो यत् किञ्चिन् मनसेप्सितं || [२०] ||
SK
शक्रश् च वो वरं दद्यात् त्रयस्त्रिंशेश्वरः प्रभूः | वरं वरेथ कन्यायो क्षिप्रं व्याहरतो मम || [२१] ||
SK
१४८. कुमार्यो आहंसुः |
SK
यस्य मूले छविर् नास्ति पत्रन् नास्ति कुतो लता | यो धीरो बन्धनान् मुक्तः तन् मे शक्र वरं दद || [१] ||
SK
पांसु कूलधरं भिक्षुं कृशन् धर्मनिमन्त्रितं | ध्यायन्तं वृक्षमूलस्मि तन् मे शक्र वरं दद || [२] ||
SK
यस्य रागश् च दोषश् च अविद्या च प्रदालिता | क्षीणास्रवम् अर्हन्तं (!) तन् मे शक्र वरं दद || [३] ||
SK
यस्य शैलोपमं चित्तं स्थितन् न अनुकम्पति | यो विमुक्तिं संजानेया तन् मे शक्र वरं दद || [४] ||
SK
यस्या उरे च पारे च मध्ये नास्ति न किञ्चन | अकिञ्चनम् अदानं च तन् मे शक्र वरं दद || [५] ||
SK
वारि पुष्करपत्रे वा आराग्रे इव सर्षपः | यो न लिप्यति कामेषु तन् मे शक्र वरं दद || [६] ||
SK
बहुश्रुतं चित्रकथं बुद्धस्य परिचारकं | पर्णभारविसंयुक्तं तन् मे शक्र वरं दद || [७] ||
SK
शक्र आह |
SK
नाहम् अर्हन्तम् ईशेमि नाहम् अर्हन्तेष्व् ईश्वरः | अन्यं वरेथ कन्यायो अपि चन्द्रमसूर्ययोः || [८] ||
SK
कुमार्यो आहुः |
SK
अस्वामिको स्वामिकामो अवरं वरदायको | अस्वामिको वरं दत्त्वा कथं शक्र करिष्यसि || [९] ||
SK
उभौ कूलौ असंप्राप्तः अतीर्थे प्रतरेन् नदीम् | एष शक्र विषण्णो सि पण्केवासि जरद्गवः || [१०] ||
SK
शक्र आह |
SK
उपासिका वो कन्यायो अपि च ये उपासका | धर्मेण वो अहं भ्राता अनुजानामि वो वरं || [११] ||
SK
कुमार्यो आहंसुः |
SK
नैव ते शक्र याचामो नापि उन्नोदयाम ते | स्वयम् एव शक्र जानाहि किं वरेण कुमारिणां || [१२] ||
SK
१४९.अथ भगवान् तासां भिक्षुणीनां पूर्वे निवासप्रतिसंयुक्तां प्रतिज्ञाकथां व्याकार्षीत् |
SK
कदाहं वीणां वा मधुरां सप्ततन्त्रीयुतां मनोरमाम् | धर्मं प्रव्याहरिष्यामि तत् कदा नु भविष्यति || [१] ||
SK
समन्वाहरसि शुक्ले | एवं ह्य् एतद् भगवन् | एषापि तत्रैवासि | एताये प्रणिधानम् अभूषि | अपरापि तत्रैवासि | ताम् अपि भगवान् व्याकार्षीत् |
SK
कदाहं गङ्गायमुनाय च पातालपथोदकं | अमज्जमाना गमिष्याम तत् कदा नु भविष्यति || [२] ||
SK
समन्वाहरस्य् उत्पलवर्णे | एवं ह्य् एतद् भगवन् एषापि तत्रैवासि | एतस्याप्य् एतं प्रणिधानम् अभूषि | अपरापि तत्रैवासि | ताम् अपि भगवान् व्याकार्षीत् |
SK
कदाहं पांसुकुलानि संहरित्वा मया पथे | संघाटीं कृत्वा धारयिष्यं तत् कदा नु भविष्यति || [३] ||
SK
कदाहं गिरिदुर्गेषु प्रहीणभयभैरवा | चित्तं ऋजुं करिष्यामि तत् कदा नु भविष्यति || [४] ||
SK
समन्वाहरसि पटच्चरे | एवम् ह्य् एतद् भगवन् | एषापि तत्रैवासि | एतस्याप्य् एतं प्रणिधानम् अभूषि | अपरापि तत्रैवासि | ताम् अपि भगवान् व्याकार्षीत् |
SK
कदाहं मुण्डकं शीर्षं क्षुरधारानिषेवितं | पाणिना परिमार्जिष्यं तत् कदा नु भविष्यति || [५] ||
SK
कदाहं हेमन्तिकां रात्रिं ओवृष्टआर्द्रचिवरा | पिण्डपातं चरिष्यामि कदा नस् तद् भविष्यति || [६] ||
SK
समन्वाहरसि कृशगौतमि | एवम् एतद् भगवन् | एषापि तत्रैवासि | एतस्या प्रेतं प्रणिधानम् अभूषि | अपरापि तत्रैवासि | ताम् अपि भगवान् व्याकार्षीत् |
SK
कदाहं तारकराजा व (!) नक्षत्रपरिवारिता | संघं परिहरिष्यामि तत् कदा नु भविष्यति || [७] ||
SK
कदाहं चन्द्रो च विमलो विप्रसन्नो अनाविलो | शुद्धं चित्तं अधिष्ठिहिष्यं तत् कदा नु भविष्यति || [८] ||
SK
समन्वाहरसि महाप्रजापति | एवं ह्य् एतद् भगवन् | एषापि तत्रैवासि | एतस्याप्य् एतत् प्रणिधानम् अभूषि | अपरापि तत्रैवासि | ताम् भगवान् व्याकार्षीत् |
SK
कदाहं विहारं शरण्यं [.......] साधु निष्ठितं | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [९] ||
SK
कदाहं मञ्चम् वा पीठम् वा बिसि चतुरस्रकाणि वा | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [१०] ||
SK
कदाहं कासिकं वस्त्रं क्षौमकोटुम्बकानि च | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [११] ||
SK
कदाहं सुम्भकं पात्रं सुकृतं साधु निष्ठितं | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [१२] ||
SK
कदाहं विविधान् भक्षान् नानारसानुसेवितान् | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [१३] ||
SK
कदाहं शालिनाम् ओदनं शुचिमांसोपसेवनं | संघे दानानि दास्यामि तत् कदा नु भविष्यति || [१४] ||
SK
१५०. तत्र तासां भिक्षुणीनां चक्षुर् गोचरं नास्ति | यां जानेसुः | तायो आहंसुः | का पुन सा भगवन् आसि | भगवान् आह | विशाखा मृगारमाता |
SK
तेन कालेन तेन समयेन अपरा ह्य् एता भिक्षुणीयो कृकिणो राज्ञः सप्त धीतरो अभूषि | अथ शुक्ला भिक्षुणी गृहेण गृहं भाषणाय नीयति | सा दानि अपरेण गृहभाषणाय नीता भिक्षुणीहि विप्रवुस्ता | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ शुक्लां | सा दानि शब्दापिता | भगवान् | आह | सत्यं शुक्ले | एवं नाम त्वं भिक्षुणीभिर् विना विप्रवससि | तेन हि न क्षमति भिक्षुणीहि विना विप्रवसितुं एकां रात्रिम् पि |
SK
१५१. एषैवार्थोत्पत्तिः | भगवाञ् छ्रावस्तीयं विहरति | विस्तरेण निदानं कृत्वा | भिक्षुणीयो दानि अध्वानं गच्छन्ति | तहिन् दानि अपरा भिक्षुणी जरादुर्बला व्याधिदुर्बला सार्थात् परिहीणा | सा रात्रिं विप्रवुस्ता | ताय दानि कौकृत्यं कृतं | कौकृत्येन भिक्षुणीनां विस्तरेणारोचयति | यावत् महाप्रजापती पि गौतमी भगवतो आरोचयति | भगवान् आह | तेन हि अनापत्तिः ग्लानाय |
SK
१५२. एषैवार्थोत्पत्तिः | भगवान् श्रावस्तीयं विहरति | विस्तरेण निदानं कृत्वा | कापिलवास्तव्येहि शाकियेहि संस्थागारः कारापितः | न चो अचिरनिष्ठितः | तेहि दानि तहिं रक्षपालाः स्थापिताः | न कस्यचित् प्रवेशो दातव्यो ति भगवान् प्रथमं परिभोक्ष्यति | पश्चाद् वयं परिभोक्ष्यामो ति | अथ राज्ञः प्रसेनजितः कोशलस्य पुत्रो विरूढको नाम कुमारः कपिलवस्तुं गतको मातुलानाम् अन्तिके शिक्षामाणाय | सो दानि तेहि रक्षपालेहि प्रमत्तेहि संस्थागारं प्रविष्टः क्रीडनाय | सो दानि तेहि रक्षपालेहि अन्येहि च शाकियेहि दृष्टो | ते दानि रुषिता इतिकितिकाय पुत्र दासीपुत्र कहिं प्रविष्टो ऽसि ति | ओचपेटितः | एकेन हस्तेन बाहायां गृहीत्वा द्वितीयेन हस्तेन ग्रीवायां संस्थागाराद् बहिश् छोरितः | विरूढको उत्कण्ठितः | तं दानि तेहि शाकियेहि संस्थागार पुरुषमात्राभूमिं खानापयित्वा नवेन पांसुना पूरयित्वा गन्धोदकेन सिक्तः | विरूढकेन श्रुतं | स सुतरां रुषितः | आघातचित्तम् उत्पादितवान् | यद्य् अहं राज्यं प्रतिलभेयं शाकियानां निधनं करिष्ये | सो दानि श्रावस्तीयम् आगतः | तस्य दुःखशायी नाम बटुकः सेवको | सो दानि तस्याह | यदाहं राज्ये प्रतिष्ठितो भवेयं तदा मे स्मारयिष्यसि शाकियानाम् अन्तम् गमिष्यं | रात्रि त्रिवन्तम् एव वैरम् अनुविचितयति | कदाचि दानि राजा प्रसेनजित् कोशलो उद्यानभूमिन् निर्गतः | तञ् च विरूढकेन नगरद्वारं बन्धापितं | शङ्खा आध्मास्यन्ति घुष्यन्ति | विरूढको राजा विरूढकस्य राज्यम् इति | राजा प्रसेनजित् कोशलो न भूयः प्रवेशं लभति | विरूढकेनामात्यानां दूतो प्रचितो | यस्य भवन्तो गृहेणार्थः पुत्रदारेण चार्थः स प्रविशतु नगरं | एवम् अक्रियमाणे युष्माकं पुत्रदारं व्यसनम् आपादयिष्यामीति | अमात्या राजानं पृच्छन्ति | किम् आज्ञापयति देवो युध्यामः | राजा ब्रवीति | मा युध्यन्तु भवन्तः | इदानिम् वा पश्चाद् वा एतस्यैव एतं राज्यं गच्छथ | एतस्यैव आजानथ | मा पश्चाद् युष्माकं दुःखं उत्पादयिष्यति | ते एकद्विकाय नगरं प्रविष्टाः | राजा दानि आत्मतृतीयो, उद्यानभूमीयं संस्थितो पानीयपालो मल्ली च राजा दृष्टसत्यो न परितस्यति | वस्तु विस्तरेण कर्तव्यं | यावत् विरूढको मात्यान् आमन्त्रयति | यो दानि भणे राजानं क्षत्रियं जुगुप्सेय तस्य किं दण्डः | आमात्या आहंसुः | वधो महाराज | राज आह | पूर्वम् अहं कुमारभूतः शाकियानां संस्थागारं प्रविष्टः तेहि मम जुगुप्साय संस्थागारं पुरुषसंस्थागारं पुरुषमात्रं खानापयित्व पांसुना पूरयित्वा क्षीरगन्धोदकेन भित्तियो तायो धोवितायो? मया तेषां वैरं प्रतिकर्तव्यं यदि भगवांस् तेषां नानुकम्पति | अथ भगवान् अनुकम्पति | नाहं शक्ष्यामि किञ्चित् प्रतिकर्तुं | आमात्या आहंसुः | श्रूयते महाराज | श्रमणो गौतमो वीतरागः | वीतरागश् च ज्ञातीनां निरपेक्षा भवन्ति | उद्युज्यन्तु महाराज | शक्ष्याम वयं तेषां निग्रहीतुं | भगवान् दानि विरूढकस्य इमम् एवं रूपं चेतः परिवितर्कम् आज्ञाय कालस्यैव निवासयित्वा पात्रचीवरम् आदाय श्रावस्तीये नगरीये पिण्डाय चरित्वा अन्यतरं शाखोटवृक्षं निश्राय निषीदति स्म | अथ खलु राजा विरूढको चतुरङ्गबलकायं सन्नाहयित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं श्रावस्त्यां नगर्यां निर्याति कपिलवस्तुं नगरं संप्रस्थितः | अद्राक्षीद् राजा विरूढको भगवन्तं शाखोटकवृक्षं निश्राय निषण्णं दृष्ट्वा च पुन येन भगवांस् तेन हस्तिनागं प्रेरयति | अथ खलु राजा विरूढको यावद् एव यानस्य भूमिस् तावद् यानेन गत्वा हस्तिनागात् प्रत्यारुह्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत् | सन्ति भगवन्न् अन्ये वृक्षाः | अश्वत्थन्यग्रोधसप्तपर्णाद्याः शोभनाश् च शीतलाश् च तान् उत्सृज्य इतरस्य प्रत्यवरस्य विरलपत्रस्य शाखोटकवृक्षस्याधस्तान् निषण्णः | भगवान् आह | शीतला महाराज ज्ञातीनां च्छाया | अथ खलु राज्ञो विरूढकस्य एतद् अभवत् | अनुकम्पति भगवान् ज्ञातीन् इति | ततो येव प्रतिनिवर्तयित्वा श्रावस्तीन् नगरम् अनुप्रविष्टः |
SK
भगवान् दानि श्रावस्तीयं यथाभिरम्यं विहरित्वा कपिलवस्तुं नगरं प्रक्रामि | यावच् छाक्यान् विनयति | विनयित्वा तत्रैव विहरति न्यग्रोधारामे | विरूढकीयं सूत्रं विस्तरेण कर्तव्यं |
SK
१५३. एषा एवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | राजा दानि विरूढको शाकीयान् वधित्वा शाकियकन्यायो आदाय श्रावस्तीं प्रतिगतः तद्यथा | चारू च नाम | उपचारू च नाम | सुमना च नाम | मनोहरा | सालवती | अभया च नाम | सो दानि सार्धं क्रीडन्तो रमन्तो परिचारयन्तः अभिक्ष्णं वदति | निहता मे ग्रामकण्टकाः | शाकियजनपदकण्टकाः | निहता मे प्रत्यर्थिकाः प्रत्यमित्राः | यद् इदम् शाकियाः शाक्यपुत्रा इति |
SK
अथ खल्व् अभया राजधीता राजानं विरूढकम् एतद् अवोचत् | मा देव एवं वद निहता मे ग्रामकण्टकाः शाकिया इति | सन्ति देव शाकियाः क्षान्तिसम्पन्नाः | सौरत्यसम्पन्नाः | एवं शीलश्रुतत्यागसमाधिप्रज्ञासम्पन्नाः | एवं बुद्धं शरणं गताः | धर्मं शरणं गताः | बुद्धे अवेत्य प्रसादेन समन्वागताः | धर्मे संघे अवेत्य प्रसादेन समन्वागताः | प्राणातिपातात् प्रतिविरताः | यावद् आर्यकान्तेः शीलेः समन्वागताः | सन्ति देव शाकियाः श्रोतआपन्नाः सकृदागामिनो नागामिनस् ते देवेन अदूषका अनपराधिनो जीविताद् व्यवरोपिताः | तत् ते दुःखं वेदनीयं भविष्यति | बहु ते पापकं कर्म कृतं | बहु ते अपुण्यं प्रसूतं |
SK
१५४. अथ राजा विरूढकः कुपितः यावत् कारणान्तिकं महामात्रम् आमन्त्रयति | त्वं हि भणे पुरुष मम भोगेहि जाययसि | मम सुखेन जीवसि | कन्यायो शाकियायिनीयो मम प्रत्यर्थिकायो प्रत्रसितायो | मम जीवितं नेच्छन्ति | मम सुखं नाभिनन्दन्ति | सो ऽहम् अन्तःपुरमध्यगतो पि एतासाम् अविश्वस्तः | शयनगतो पि शय्यां कल्पयन्तो पि | तेन हि भणे महामात्र इमायो शाकियायिनीयो दण्डहतायो कृत्वा कर्णनासाहस्तपादच्छिन्नायो कृत्वा तप्तेन तेलेन कायं परिषिञ्चित्वा जीवन्तिकायो एवं परिखायां च्छोरया | अथ कारणान्तिकस्य एतद् अभवत् | यन् दानि अहं शाकियायिनीनां आसि दर्शनं पि न लभमानो तायो एतायो मम हस्तगतायो यन् नूनम् अहम् एताहि सह क्रीडेयं रमेयं परिचारयेयं | सो दानि ताहि सार्धं स्वके गृहे प्रविचारयति | अश्रौषीद् राजा विरूढको कारणान्तिकस् ताहि सार्धं क्रीडति यावन् न च पि यथोक्तं करोतीति | अथ खलु विरूढकः कारणान्तिकम् आमन्त्रयति | गच्छ तासां शाकियायिनीनां यथोक्तं कुरु | मा ते जीविताद् व्यवरोपयिष्यामीति | अथ कारणान्तिकः यथोक्तम् अकार्षीत् | यावत् परिखायां जीवन्तीयो एव छोरितायो | तायो तत्र दुःखं तीव्रां कटुकां वेदनां वेदयन्ति | अन्वेन्ति क्रन्दन्ति एवन् तानेन्ति त्रातेन्ति | भगिनीज्ञातिकाप्रियं शाकिय मण्डलं | रमणीया भवति तो जन्म भूमिः | हा रमणीयो जम्बुद्वीपः | सूक्तवादी भगवान् इति परिदेवन्ति | तहि दानि महाजनकायो सन्निपतितो |
SK
अथ खलु भगवान् कालस्यैव निवासयित्वा पात्रचीवरम् आदाय श्रावस्तीन् नगरीं पिण्डाय प्रविष्टः | यावद् आयुष्मन्तम् आनन्दम् आमन्त्रयति | कस्यैषा गौतमी माता | महतो जनकायस्य निर्घोषो यावद् राज्ञा विरूढकेन षण्णां शाकियायिनीनां यावत् तस्य कृपणेन यावन् सूक्तवादी भगवान् इति क्रन्दन्ति | साधु भगवान् अर्थकामो ज्ञातीनाम् अनुकम्प्यार्थं उपसंक्रामतु | अप्य् एव नाम भगवतः सम्मुखाद् धर्मं श्रुणित्वा अपि स्वर्गोपिगा भवेंसुः |
SK
१५५. अथ खलु भगवां शक्रं देवानाम् इन्द्रं समन्वाहरति स्म | अथ खलु शक्रो देवानाम् इन्द्रः शचिम् आमन्त्रयति | एष शचि भगवान् ज्ञातीनाम् उपसंक्रमति अनुकम्पार्थं | गच्छ शचि तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानं निषीदापेहि वस्त्रेणाच्छादेहि भगवान् उपसंक्रमिष्यति | अथ खलु शची तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानन् निषीदापयित्वा वस्त्रेणाच्छादिता |
SK
अथ खलु भगवान् यावत् तायोमैन्द्र्या स्फरित्वा यत् किञ्चित् कायिकं चैतसिकं च दुःखवेदनागतं सर्वं तं प्रतिप्रस्रंभेति | भिक्षून् आमन्त्रयति | तृप्यतां भिक्षवो भगवतीषु को भिक्षवो भवम् अभिनन्देय को उपादियेय अन्यत्र बालपृथग्जनानां अन्धानां अचक्षुकानां पश्यथ | भिक्षवः एतायो शाकियायिनीयो मनुष्यकेहि पञ्चहि कामगुणेहि क्रीडित्वा रमित्वा प्रविचारयित्वा एतर्हि ज्ञातिक्षये च भोगक्षये च कर्मस्य च सम्मुखीभावाद् दुःखां वेदनां वेदयन्ति |
SK
अथ भगवांस् तायो शाकियायिनीयो आमन्त्रयति | सचेन् मन्यथ भगिनीयो यद् इदं युष्माकं हस्तो च पादो च छिन्नो अपि तु ते वेदयन्ति वा न वा | नो हीदं भगवन् | अस्ति च तत्प्रत्यया दुःखा वेदना | एवं ह्य् एतद् भगवन् सचेन् मन्यथ भगिनीयो चक्षुः स्वभावं वेदयति | यावद् अस्ति च तत्प्रत्यया दुःखा वेदना | एवं ह्य् एतद् भगवन् | एवम् अशिष्टान्य् आयतनानि | एवं स्कन्धधातवः | एवं केशा रोमा नखा | एवं सर्वा अशुभपाली | एवं च पुनर् दुःखा वेदना पराधीना परप्रतिबद्धा प्रत्ययाधीना प्रत्ययप्रतिबद्धा इति विदित्वा द्वा त्रिंशतीहि आकारेहि प्रकृति भिन्नः | संस्कारपुञ्जः परिज्ञेयः | अतश् च भगिनीयो आर्य श्रावक इमेसां पञ्चोपादानस्कन्धानां नात्मानं समनुपश्यति | आत्मीयान् यावत् प्रत्यात्मम् एव परिनिर्वाति | इदम् अवोचत् भगवान् | यावत् तायो पट शाकियायिनीयो धीतां अनागामितां साक्षात् कुर्युः | पञ्चानाञ् च भिक्षुशतानम् अनुपादायास्रवेभ्यश् चित्तानि विमुच्येयुः | अनेकेषाञ् च देवताशतसहस्राणां धर्मेषु धर्मचक्षु विशुद्धं |
SK
१५६. अथायुष्मान् वागीशस् तस्याम् एव पर्षदि यावद् भगवान् आह | प्रतिभातु ते वागीश यावद् अध्याभाषि |
SK
प्रतीयं शत्कारगतं हि शून्यं यत्र विहन्यते विपरीतग्राही | अहं ममेति तथा हि मन्यमानो ते वर्धयन्ति कटसीं पुनः पुनः || [१] ||
SK
शून्यम् असारम् कञ् च कायं विदित्वा निरोधक्षयधर्मकं तथा | संभूता विभूता च भवगतीती को भवगतीषु रमेत युक्तयोगी || [२] ||
SK
इदञ् च दुःखं वेदयित्वा तस्य मूलं दृष्ट्वा च उत्पद्यति | दुःखमूले कायचित्तञ् च एतं अनुश्रोतगामिनं मुक्तञ् च चित्तं विहनेन्ति मारं || [३] ||
SK
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् | किं भगवन्न् इमाहि शाकियायिनीहि पुरा पापं कर्म कृतम् येन एतायो एवं दुःखाम् वेदनाम् वेदयन्ति | भगवान् आह | भूतपूर्वम् आनन्द एतायो शाकियायिनीयो इहैव श्रावस्त्यां षड् गणिकायो अभूवन् | इहैव श्रावस्तीयं कालो नाम प्रत्येकभुद्धो अभूषि | सो दानि पिण्डाय चरन्तो ताहि गणिकाहि उक्तो | अयं दानि श्रमणो स्वयं कामान् परिभुञ्जति | कामानां चावर्णं भाषति | ताहि हास्याभिप्रायाहि विहेठनाभिप्रायाहि अन्येहि दुरुक्तेहि वचनपथेहि ओभर्त्सितो अङ्गारमल्लकेहि चावकीर्णः | सो दानि आनन्द प्रत्येकबुद्धो दुःखाय वेदनाय स्पृष्टः खरां कटुकां वेदनां वेदयन्तो कायेन च जीवितेन च अर्दियन्तो तत्रैव विहाय समभ्युद्गम्य अनुपादाय परिनिवृतः | पूर्वाधिष्ठितेन च स्वकेन तेजोधातुना तस्य शरीरं व्यापिनं | तायो दानि गणिकायो भीतयो पापकम् अस्माभिः कर्मोपचितं | बहु अपुण्यं प्रसूतं | ईदृशो महाभागो ऋषिर् विहेठितः | तद् अस्माकं दुःखं वेदनीयं भविष्यति | ताहि दानि विप्रतिसारं जानाहि | तस्य शरीरं परिगृह्य स्तूपम् अकरेंसुः | छत्रध्वजपताकाहि च पूजयेंसुः | पुष्पधूपगन्धेहि च पूजयेंसुः | एवं च प्रणिधेंसुः | अनागतम् अध्वानम् वयम् एतादृशं शास्तारम् आरागयेमः | येषां पाञ्चधर्माणाम् अयं लाभी | तान् वयम् अपि लप्स्याम इति | तायो एतायो तेन पापेन कर्मेण कृतेन यावन् नरकेषूपपन्नायो एतायो तहिं बहूनि वर्षसहस्राणि दुःखम् अनुभवेंसुः | एताहि आनन्द बालपृथग्जनाहि हसन्तीहि पापकर्म कृतं | यस्य अश्रुमुखा पि पापकम् प्रतिसम्वेदयन्ति | यम् एताहि सा पूजा कृता विप्रतिसारश् चोत्पादितः | यं च प्रणिधानं अनागतम् अध्वानं एतादृशं शस्तारम् आरागयेमः | येषान् धर्माणाम् अयं लाभी | तान् वयम् अपि लप्स्याम इति | यावत् पञ्चानाम् अवरभागीयानां संयोजनानां यावत् तत्र परिनिर्वायिन्यः | को नामायं भगवन् धर्मपर्यायः | कथं चैनां धारयामि | भगवान् आह | तस्मात् त्वम् आनन्द इमं धर्मपर्यायं कारणवैपुल्यन् नाम धारय इदम् अवोचत् |
SK
१५७. भिक्षुणीयो दानि कपिलवस्तुनगरे रुद्धे विरूढकेन | काश्चिद् अन्तो नगरे निलीनाः काश्चिद् बहिर् निर्गताः | भिक्षुणीयो भिक्षुणीहि विप्रवुस्तायो | तासां कौर्कृत्यं | यावद् भगवान् आह | तेन हि अनापत्तिः अकामिकाये नगररुद्धाये |
SK
भगवां श्रावस्तीयं विहरति | भिक्षुणीयो अध्वानं गच्छन्ति | तत्र दानि भिक्षुणी जरादुर्बला | व्याधिदुर्बला | सार्थातो परिहीणा ति | भिक्षुणीयो अतिक्रान्तायो | तायो दानि कौकृत्यं | कौकृत्येन महाप्रजापतीये गौतमीये आरोचयेंसुः | महप्रजापती गौतमी भगवन्तम् आरोचयति | भगवान् आह | तेन हि अनापत्तिः | अकामिकाय | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणीय विना एकरात्रम् पि विप्रवसेय अन्यत्रसमयेन | तत्रायं समयो ग्लाना भिक्षुणी भवति | नगरोपरोधे वा रुद्धा भवति | अयम् अत्र समयो |
SK
या पुन भिक्षुणीति उपसंपन्ना | भिक्षुणीभिर् विना ति अद्वितीयं | एकं रात्रम् पि विप्रवसेया ति अरुणमुदगमे च अन्यत्रसमये | तत्रायं समयो अकामिका भिक्षुणी भवति | जराबुर्बला वा व्याधिदुर्बला वा नगरोपरोधो वा | एतं ताव नगरं परचक्रेणोवरुद्धम् भवति | किञ्चापि भिक्षुणी अन्तो नगरतो बहिर्धा निर्धावति बहिर्धातो वा अन्तो नगरं प्रविशति | किञ्चापि प्रविशति अनापत्तिः | सा एषा भिक्षुणी ससूर्ये विना भूता भिक्षुणीहि विप्रवुस्ता अरुणमुद्घातेति संघातिशेषो | अस्तमिते सूर्ये विना भूता अरुणमुद्घातयति थूल्ऽ-अच्चयं | भिक्षुणीविहारे अन्यत्र वा सर्वाहि अन्तो हस्तपाशस्य प्रतिक्रमितव्यं | त्रिक्खत्तो रात्रीय अन्यमन्यसमवधानं दातव्यं | हस्तेन परामृषितव्यं | न खलु सकृद् एव |
SK
अथ खलु यामे यामे पुरिमे यामे समवधानं न देति विनयातिक्रमम् आसादयति | मध्यमे यामे न देति विनयातिक्रमम् आसादयति | पश्चिमे यामे न देति विनयातिक्रमम् आसादयति | सर्वत्र ददाति अनापत्तिः |
SK
अथ दानि द्विभूमकं भवति एका हेष्ठिमे प्रतिक्रमति अपरा उपरिमे | त्रिक्खत्तो रात्रौ अवतरितव्यं | तेन भगवान् आह |
SK
या पुनभिक्षुणी भिक्षुणीभि विना एकरात्रम् पि विप्रवसिय अन्यत्रसमये | तत्रायं समयो ग्लाना भिक्षुणी भवति | नगरो परोधे वा रुद्धा भवति अयम् अत्र समयो | अयं पि धर्मो प्रथमापत्तिको संघातिशेषो |
SK
संघातिशेषधर्म ७ अननुज्ञाता
SK
१५८. भगवान् श्रावस्त्यां विहरति | राजगृहे दानि अपरस्य अभटगणस्य सुदिन्निका नाम भार्या तरुणी | प्रासादिका दर्शनीया | सो दानि कालगतो | सा स्त्री पुरुषेणार्थिका | स देवरो संकलेतुकामो | सा स्त्री स्त्रिणाम् आह | आर्यमिश्रिका अहं पुरुषेण अनर्थिका | अयं च देवरो मम संकलेतुकामो | अपरा स्त्री आह | इच्छसि मुच्चितुं | सा दान् आह | इच्छामि | सा आह | गच्छ श्रावस्तीं | तंहि दानि काली नाम भिक्षुणी प्रतिवसति | सा ते प्रव्राजयिष्यति | सा दानि निर्धाविता | श्रावस्तीं गता | सा भिक्षुणीविहारं गत्वा पृच्छति | कतमं आर्याये कालीये परिवेणं | अपराहि दर्षितः दर्शितः एषो ति | सा ताम् उपसंक्रमित्वा आह | इच्छामि आर्ये प्रव्रजितुं | सा ताय प्रव्रजिता उपसंपादिता | सो दानि मनुष्यो मार्गति संकलेष्यामीति | न लभति | सो दानि शृणोति | श्रावस्तीयं काली नाम श्रामणिका | ताये प्रव्राजितेति | सो दानि पुरुषो अनुपूर्वेण श्रावस्तीं गत्वा पृच्छति | कतमो ऽत्र भिक्षुणीविहारः | अपराहि दर्शित एषो ति | सो तहिं प्रविशेतिवा | पृच्छति यावाद् आह कतमा आर्या कालीति सा दान् आह | अहं | सो दान् आह | प्राप्तकालन् नाम आर्याये मम भार्याम् अनोत्सृष्टां प्रव्राजयितुं | सा दान् आह | कुतः पुनस् त्वं दीर्घायुः | सो दान् आह | राजगृहातो | सा दान् आह | चण्डायुषो नस् त्वं नगरं प्रविष्टः | सान्तेवासिनी नाम् आह | आनेथ संघाटिं यावद् इमं चण्डायुं धरे चाटिकं बन्धापयामि | सो दानि पुरुषो भीतः पश्यति | यावद् इयं श्रमणिका धृष्टा च मुखरा च बन्धापयेय इति | सो मनुष्यो ओज्झायति च ओसक्कति च यावद् बहिर् गत्वा भिक्षुणीनां महाजनकायस्यारोचयति | पश्यथ भणे श्रमणिका भार्याम् च मे अनोत्सृष्टां प्रव्राजयति मम च भन्धनेन सन्तर्जेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ कालिं | सा दानि शब्दापिता | एतद् एव सर्वं पृच्छीयति | यावद् आम् भगवन् | भगवान् आह | दुष्कृतं ते कालि | एवन् नाम त्वं अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयसि | तेन हि न क्षमति अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयितुं |
SK
भिक्षुणीयो आहंसुः | पश्य भगवन् कथम् इयं कालीय प्रत्युत्पन्नप्रतिभानताय मोचिता | स च पुरुषो भीतः प्रपलानः | भगवान् आह | न चेषा भिक्षुणीयो कालीय एतर्ह्य् एव प्रत्युत्पन्नप्रतिभानताय मोचिता | एष च पुरुषो भीतः प्रपलानः | अन्यदाप्य् एषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता | एष च पुरुषो भीतः प्रपलानः |
SK
भूतपूर्वं भिक्षुणीयो इयम् एव नगरी वाराणसी | इयं स्त्री रात्रौ दारिकां स्कन्धेनादाय गच्छति | सिंहो च पुरतः प्रत्युपस्थितो | सा दानि दारिका दृष्ट्वा रुदिता | ताय स्त्रियाय सा दारिका चपेटाय आहता | एको ते सिंहो खादितो एतम् पि खादितुकामासि | सिंहः पश्यति | यादृशी एषा स्त्री ध्वाङ्क्षा च मुखरा च खादत्य् | एषा ममायीति | भीतः प्रपलायति | पुरतो मर्कटः आगत्वा सिंहं पृच्छति | मृगराजपुत्र कहिं गमिष्यसि | सिंहो जल्पति | भयं मे उपतन्नं | वानरः पृच्छति | कीदृशं भयं | सिंहो विस्तरेणाचिक्षति | सो जल्पति | नैवं वक्तव्यं | सिंहस् त्वं मृगराज | कस् त्वां प्रहरिष्यति | आगच्छाहि निवर्ताहि | स नेच्छति | सिंहो वानरेण केशेहि गृहीतः | आगच्छाहीति | सा दारिका दृष्ट्वा प्ररुदिता | सा स्त्री जल्पति मा रोदाहि दारिके | एषो तव मातुः केनानीतो केशेहि गृहीत्वा | इदानिं यन् नं इच्छसि तं से खादाहीति | सिंहः पश्यति | मा हैवं संकेतकृतं भविष्यति | एवम् एवानीयानीय देति | एषापि खादति | यत् तावद् अहं एकं वारं प्रपलानः किं भूयो निवर्तितः | सो दानि तस्य मर्कटस्य अवधुनित्वा प्रपलानः | देवता गाथां भाषते |
SK
प्रत्युत्पन्ना इयं बुद्धिर् नेयं चिरसमुत्थिता | पश्य सिंहभयं जातं प्रतिभानान् निवर्तितं ||
SK
भगवान् आह | स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा स्त्री अभूषि | नैतद् एवं द्रष्टव्यं | इयम् एव सा काली स्त्री अभूषि | स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा दारिका ति | नैतद् एवं द्रष्टव्यं | इयम् एव सा सुदिन्निका दारिका अभूषि | स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्यो सो सिंहो अभूषीति | नैतद् एवं द्रष्टव्यं | एषो सो मनुष्यो सिंहो अभूषि | तदाप्य् एषा एताय प्रत्युत्पन्नप्रतिभानताय मोचिता | एष च पुरुषो भीतः प्रपलानः |
SK
१५९. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो |
SK
या पुन भिक्षुणीति उपसंपन्ना | अनुज्ञापकेहि अननुज्ञाताम् इति अवूढाय दारिकाय मातापितरौ अनुज्ञापका | वूढाय श्वश्रुश्वशुरौ पतिदेवरौ | उपस्थापयेद् इति उपसंपादयेत् | सा एषा भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् प्रव्राजयति विनयातिक्रमम् आसाद्यति | शिक्षां देति थूल्ऽ-अच्चयम् आसादयति | उपसंपादेति संघातिशेषो एषा काचित् प्रव्रज्यापेक्षा आगच्छति प्रष्टव्या | अनुज्ञातासि अनुज्ञापकेहि | यदि तावद् आह नहीति | अवूढा वक्तव्या | मातापितरौ अनुजानापयित्वा आगच्छाहीति | वूढा वक्तव्या पतिदेवरौ श्वश्रुश्वशुराव् अनुजानापयित्वा आगच्छाहीति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अनुज्ञापकेहि अननुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो |
SK
संघातिशेषधर्म ८
SK
वध्या १६०. भगवान् श्रावस्तीयम् विहरति | मल्ला नामा मल्लकल्यो नाम निगमो | तंहि दानि अपरस्य मल्लस्य भार्या परपुरुषेण सार्धम् अभिचरति | सो दान् आह | असुके विरम | अतो दोषो | ऽतो मा ते अहम् एवञ् च एवञ् च असत् करिष्यं | सा दानि दुष्टा न विरमति | मरिष्याम्य् अहं | न पुनर् अहम् अतो दोषतो विरमिष्यं | तेन सा सहोढं गृहीत्वा आसने उपनामिता | इच्छेयम् अहं भवन्तो इमां स्वधर्मेण लम्भियमानां | कः पुनस् तेषां स्वधर्मः मल्लानां | या स्त्री अन्येन पुरुषेण सार्धं अभिचरति | सा सप्तदिवसानि दानविसर्गं कारपेत्वा उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटीयति | आसनिका आहंसुः | दिन्ना भवतु स्वधर्मे लभेहि | तेन दानि पुरुषेण गृहं नयित्वा उक्ता | इतिकितिकाय धीते दद यत् ते अस्ति च नास्ति च | सप्त दिवसानि अहं ते उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यं | सा दानि उभयतो ज्ञातिसंघं सन्निपातेत्वा अन्नं पानं खाद्यं भोज्यं समुदानीय रोदति | स्त्रियो आहंसुः | किं रुदितेन त्वयैव तथा चेष्टितं येन त्वम् एवं दुःखम् अनुभविष्यसि | सा दान् आह | नाहं करोमि | मरिष्यन् ति | अपि तु उभयतो ज्ञातिसंघस्य पुरतो गोपाटिकाय पाटयिष्यन् ति | एवं रोदामि | अपरा आह | इच्छसि त्वं मुच्चितुं | सा दान् आह | इच्छामि | आह | गच्छ श्रावस्तीं | तहिं काली नाम भिक्षुणी | सा ते प्रव्राजयिष्यति | सा तस्या वचनं श्रुत्वा जनस्य खाद्यन्तस्य पिबन्तस्य प्रमत्तस्य यथा वा तथा वा निर्धावित्वा अनुपूर्वेण पृच्छपृच्छिकाय श्रावस्तीम् आगता | पृच्छति | कतमो ऽत्र भिक्षुणीविहारो | अपराहि दर्शितः | सा दानि प्रविशित्वा पृच्छति | कतमा आर्यकाली | अपराहि आख्याता | एषा ति | सा ताम् उपसंक्रम्य आह | इच्छाम्य् आर्याय प्रव्राजीयमानां | सा दान् आह | अनुज्ञातासि अनुज्ञापकेहि | सा दान् आह | के पुन आर्ये अनुज्ञापकाः | आह | अवूढाये दारिकाये मातापितरौ | वूढाय श्वश्रुश्वशुरौ पतिदेवराः | आह | तदा एषाहम् अनुज्ञाता | यदाहं गोपाटिकाय निसृष्टा सुनिसृष्टा | आह | पुत्रिणि या त्वं निसृष्टा सुनिसृष्टा या त्वं गोपाटिकायां निसृष्टा | सा ताय प्रव्राजिता उपसंपादिता | सो मनुष्यो मार्गयति | गोपाटिकाय पाटिष्यामीति न लभसि | सो दानि शृणोति | श्रावस्तीयं काली नाम भिक्षुणी | ताय प्रव्राजिता | श्रावस्तीम् आगत्वा पृच्छति | कतमो ऽत्र भिक्षुणीविहारो | अपरेहि आख्यातो एषो ति यावत् | स तहिं प्रविशित्वा | आर्या काली नाम | आह | किम् कर्तव्यं | प्राप्तन् नामार्याय मम भार्याम् अनोत्सृष्टाम् प्रव्राजयितुं | सा दान् आह | कुतस् त्वं | आह | आमलककल्यतो | आह | चण्डायु चोरस् त्वम् ओचोरकस् त्वम् ओचरितुकामो त्वं श्रावस्तीयं प्रविष्टः | न त्वं जानासि नित्यविरुद्धाः श्रावस्तेयाः आमलककल्याश् च | सा दानि अन्तेवासिनीं शब्दापयति | आनेहि ताव समघाटिम् यावद् इमं चण्डायुं धरे चाटिकं राजकुले भन्धापेमि | सो मनुष्यो पश्यति | यादृशी इयं श्रमणिका धृष्टा च मुखरा च प्रगल्भा च | भन्धापेयंसि | एष सो दानि पुरुषो ओज्झायति च ओसक्कति च | सो दानि पुरुषो भिक्षुणी नां महाजनकायस्य च पुरो ओज्झायति | पश्यथ भणे श्रमणिका भार्याञ् च मे अनोत्सृष्टां प्रव्राजेति | मम च बन्धनेन तर्जयति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति | यावद् भगवान् आह |
SK
दुष्कृतं ते कालि | एवन् नाम त्वं जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयसि | तेन हि न क्षमति जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयितुं |
SK
१६१. एषैवार्थोत्पत्तिः | शाक्यानां शाक्यावानो नाम निगमः | एवम् एव विस्तरेण कर्तव्यं | यावद् अन्या ताव मया ईदृशी येव प्रव्राजिता | तत्र मया दण्डकर्म लद्भं | गच्छ नोत्सहामि प्रव्राजयितुं | सा दानि अपरापरासां भिक्षुणीनाम् अल्लीना न काचित् प्रव्राजेति | यावत् तीर्थिकेहि प्रव्राजिता | सो मनुष्यो मार्गति | गोपाटिकाय पाटिष्यन् ति | न लभति | तेन श्रुतं श्रावस्त्यां तीर्थिकेहि प्रव्राजिता | सो दान् आह | इदानीं सा इतिकितिकाय धीता सुमहता दृष्टधार्मिकेन च वधेन | यं उपासकधीता तिर्थिकेहि प्रव्राजिता | सो पुनर् न गवेषति न पृच्छति | सा पि दानि तेन तीर्थिकभावेन तीर्थिकभावेनार्तीयति | ते दानि तीर्थिका दुराख्याता अधर्माणाः | तण्डुलोदकञ् च पिबन्ति | स्थालीधोवनञ् च पिबन्ति | नग्ना अह्रीका अनोत्रापिणो इस्त्रिकामा पि दूषेन्ति | सा स्त्री भिक्षुणीनाम् आह | मोह भागिनी अस्माकं प्रव्रज्या गर्तस्मि पतिता | निरयस्मि पतिता | प्रपातस्मि पतिता | उत्तरयाथ मां | अनुकम्पयथ मां | उद्धरथ मां | अनुकम्पयथ मां | प्रव्राजेथ मां | ता दानि नेच्छन्ति | सा दानि महाप्रजापतीये गौतमीये अल्लीना | महाप्रजापती गौतमी च भगवतो आरोचेति | भगवान् आह | लभ्या | यस् तत्रावर्णः स तीर्थिकेषु गतः | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि तावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयेद् अन्यत्र समये | तत्रायं समयः अन्यतीर्थिकपूर्वा भवति | अयम् पि धर्मो प्रथमापत्तिको संघातिशेषो |
SK
१६२. या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | वध्याम् इति घात्यां | विदितान् ति उभयतो ज्ञातिसंघस्य मातृपक्षस्य पितृपक्षस्य च |
SK
ज्ञाति दण्डप्राप्तां ति | ज्ञातयो नाम क्षत्रियाङ् ब्राह्मणाः वैश्याः शूद्राः अम्बष्ठवैदेहाः भटनाः कुङ्कुमालाः | यावत् केषाञ्चित् गोपाटिकाय पाटीयति | केषाञ्चित् कीटेन वा कालिञ्जेन वा वेठयित्वा दह्यति | केषाञ्चित् वालुकाघटकं कण्ठे बध्वा उदके प्रवेशियति | केषाञ्चिच्छीर्षं प्रधमीयति | केषाञ्चित् कर्णनासा छिद्यन्ति | केषाञ्चित् तप्तं फालं व्रणमुखे अनुश्रोतं प्रक्षिपीयति |
SK
मल्लानां शाक्यानां च गोपाटिकाय पाटीयति | क्षत्रियाणां पलालेन शरेहि च वेठयित्वा दह्यति | अभीराणाम् वालुकाय घटं कण्ठे भध्वा उदके प्रक्षिपति | शकयवनानां शीर्षं प्रधमीयति | कर्णनासा वा छिद्यन्ति | तप्तम् वा फालं अनुश्रोते व्रणमुखे प्रक्षिपीयन्ति |
SK
उपस्थापयेद् इति प्रव्राजयेद् उपसम्पादयेद् | अन्यत्र समये ति प्रत्युद्धृतं भगवता पदं अनापत्तिः | अन्यत्र समये तत्रायं समयः |
SK
अन्यतीर्थिकपूर्वा भवति | अन्यतीर्थिका नाम | चरकपरिव्राजकनिर्ग्रन्थाजीवकत्रेदण्डिकाः माकन्दिकाः गुदुगुदुकाः गौतमधर्मचिन्तकाः वृद्धश्रावकः दकतृतीयकाः यावत् प्रज्ञप्तिः |
SK
सा एषा भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति दण्डप्राप्तां प्रव्रजयति विनयातिक्रमम् आसादयति | शिक्षां देति थूल्ऽ-अच्चयम् आसादयति | उपसम्पादेति संघातिशेषा | तेन भगवान् आह | या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञातिदण्डप्राप्ताम् उपस्थापयेत् | अन्यत्र समये | तत्रायं समयः | अन्यतीर्थिकपूर्वा भवति | अयं पि धर्मो प्रथमापत्तिको |
SK
संघातिशेषधर्म ९
SK
एका नदिन् तरेय
SK
१६३ भगवान् श्रावस्तीयम् विहरति | अथ संबहुला स्त्रियो नदीयम् अजिरावतीयं स्नायन्ति | स्थूलनन्दा भिक्षुणी तत्रैव स्थाय गता | सा तावद् एकान्ते चीवरकाणि निक्षिप्य बाहुभ्यां प्रतीर्णा | ता दानि स्त्रियो आहंसुः | एषा आर्या स्थूलनन्दा आगच्छतीति | सा कयधानके मुहूर्तम् विश्रमित्वा पुनर् एवागता | स्त्रियो आहंसुः | एषा आर्या स्थूलनन्दा आगता | अतिचापलम् आर्याय कृतं | कथं त्वम् बाहुभ्यां तरसि | ता दानि स्त्रियो ओज्झायिताः | एतं प्रकरणं भिक्षुणीहि श्रुतं | भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति | महाप्रजापती गौतमि भगवतो आरोचेति यावद् भगवान् आह | दुष्कृतं ते नन्दे | एवं च नाम त्वं एकाकिनी नदीं तरसि | तेन हि न क्षमति भिक्षुणीय विना नदीन् तरितुं |
SK
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरे अयं पि धर्मो प्रथमापत्तिको |
SK
या पुन भिक्षुणीति उपसम्पन्ना | भिक्षुणीय विना ति अद्वितीया | नदीति या बहिः सीमातो प्रवहन्ती बहिः सीमाम् उपेति | तरेया ति अपरात् पारं गच्छेय | अयं पि धर्मो प्रथमापत्तिको | यावता च एतायो भिक्षुणीयो नदीन् तरन्ति अन्तो हस्तपाशे तरितव्यं | परं हस्ते पाशे तरन्ति थूल्ऽ-अच्चयं | दूरेण दूरं भवन्ति संघातिशेषो | अथवैका मध्ये तिष्ठति अपरा तरन्ति थूल्ऽ-अच्चयं | यावद् एवम् अपरापरन्ति सर्वाः थूल्ऽ-अच्चयम् आसादयन्ति | एतायो भिक्षुणीयो नद्यां स्नायन्ति अन्ते हस्तपाशेन स्नातव्यं | परं हस्तपाशा स्नायन्ति विनयातिक्रमम् आसादयन्ति | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरेय | अयं पि धर्मो प्रथमापत्तिको संघातिशेषो ||
SK
संघातिशेषधर्म १०
SK
उत्क्षिप्तका
SK
१६४. भगवान् श्रावस्तीयम् विहरति | तहिं काली नाम भिक्षुणी ग्रामचारिकां गता | तस्या गताय अन्तेवासिनीये भिक्षुणीसंघेन उत्क्षेपनीयकर्म कृतं | सा ग्रामचारिकां चरित्वा आगता | सा दान् आह | आर्ये संघेन उत्क्षेपनीयं कर्म कृतं | नैवम् एव धर्मसंभोगेन संभुञ्जन्ति नामिषसंभोगेन | सा दान् आह | तूष्णीका भव यावत् भिक्षुणीयो सन्निपातयन्ति | सा दान् आह | सन्निपातेथ आर्यमिश्रिकायो | सा दानि अन्यदा चान्यदा च यदा ग्रामचारिकां चरित्वा आगता भवति | ततो भिक्षुणीनां वैभङ्गिकं ददाति | तायो भिक्षुणीयो सन्निपतथेत्य् उक्ता शीघ्रं शीघ्रं सन्निपतिताः किञ्चिद् वैभङ्गिकं दास्यतीति | सा दान् आह | शृणोतु मे आर्यमिश्रिका संघो | इयं इत्थन्नामा भिक्षुणी | तस्याः संघेन उत्केषेपनीयं कर्म कृतं | यदि संघस्य प्राप्तकालं संघो इत्थन्नामां भिक्षुणीं प्रत्योसरेय | ओवयिका एषा ज्ञप्तिः | शृणोतु मे आर्यमिश्रिका संघो | इयम् इत्थन्नामा भिक्षुणी | तस्याः संघेन उत्क्षेपनीयं कर्म कृतं | संघो तां इत्थन्नामां भिक्षुणीं प्रत्योसारयति | यस्या आर्यमिश्रिकानां क्षमति इत्थन्नामां भिक्षुणीं प्रत्योसार्यमाणां संघेन सा तूष्णीम् अस्य यस्या न क्षमति सा भाषेतु | इयं प्रथमा कर्मवाचना | एवं त्रैवाचिकं प्रत्योसारिता आर्यमिश्रिका इयम् इत्थन्नामा भिक्षुणी | उत्क्षेपनीयं कर्म कृतम् संघेन | क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि |
SK
अथ सा धृष्टा च मुखरा च प्रगल्भा चेति न काचित् प्रतिक्षिपति | अथ ता भिक्षुण्यो पीडिता आहुः | किन् तावद् इमन् ति | अपरा आहुः | वयम् अपि न जानीमः | एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयेयुः | महाप्रजापती गौतमी भगवतः आरोचयति | भगवान् आह | शब्दापयथ कालिं | यावद् एतम् एवार्थं पृच्छिता | आह | आम् भगवन् | भगवान् आह | दुष्कृतं ते कालि एवन् नाम त्वं जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्ताम् अप्रतिकृतां | अकृत्वा पूर्वकृत्यं | अनवलोकयित्वा भिक्षुणीसंघं प्रत्योसारयसि | तेन हि न क्षमति | पेयालं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अप्रतिकृतां | अकृत्वा पूर्वकृत्यं | अनवलोकयित्वा भिक्षुणीसंघं | स्वयम् एव प्रत्योसारयति | अयं पि धर्मो प्रथमापत्तिको |
SK
या पुन भिक्षुणीति उपसम्पन्ना यावद् उभयतः संघेन | सा एषा भिक्षुणी जानन्तीति | स्वयम् वा जाने परतो वा श्रुत्वा | भिक्षुणीं समग्रेण संघेनेति अव्यग्रेण | धर्मतो विनयतो ति | सति आपत्या अदर्शनेन | अप्रतिधर्मेण | त्रयाणां दृष्टीनां अप्रतिनिस्सर्गाय | उत्क्षिप्तम् ति असंभोगकृतं | अप्रतिकृतन् ति अप्रत्योसारितं | अकृत्वा पूर्वकृत्यं ति प्रकृतिस्था भिक्षुणीयो असंज्ञापयित्वा |
SK
अनवलोकयित्वा भिक्षुणीसंघं ति | संघमध्ये अवलोकनाम् अकृत्वा स्वयम् एव प्रत्योसारयेत् | अयम् अपि धर्मः यावत् प्रज्ञप्तिः |
SK
सा एषा भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां | अप्रतिकृतां | अकृत्वा पूर्वकृत्यं | अनवलोकयित्वा भिक्षुणीसंघं स्वयम् एव प्रत्योसारयति | संघातिशेषम् आसादयति |
SK
सा एषा भिक्षुणी समग्रेण संघेन उत्क्षिप्ता भवति | या तस्या उपाध्यायी वा आचार्यायिणी वा च या प्रकृतिस्था भिक्षुण्याः ता संज्ञापयितव्याः |
SK
कस्यात्ययाः न विद्यन्ते को नरो नापराध्यति | को न गच्छति सम्मोहं कस्य बुद्धिर् ध्रुवा स्थिता ||
SK
एवं तया अज्ञानतया कृतं | न पुनर् एवं करिष्यति |
SK
यदा संज्ञप्ता भवन्ति तदावलोकना कर्तव्या | शृणोतु मे आर्यमिश्रिका संघः | इयम् इत्थन्नामा भिक्षुणी | तस्याः संघेन अमुकस्मिन् वस्तुनि उत्क्षेपनीयं कर्म कृतं | सा वर्तं वर्तयति | लोमं पातयति | निःसरणं प्रवर्तयति | यदि संघस्य प्राप्तकालं संघम् इत्थन्नामा प्रत्योसारणां याचेय | याचिष्यति इत्थन्नामा संघं प्रत्योसारणां | क्षमते तं संघस्य यस्मात् तूष्णीं | एवम् एतं धारयामि | ताय याचयितव्यं | पेयालं | अथ तत्र काचित् पृअतिहति कर्मक्रियमाणे प्रकृतिस्थाभिर् भिक्षुणीभिः संज्ञापयितव्याः | अस्माकं भणन्तीनां क्षमस्वेति |
SK
भिक्षुर् अपि जानन् भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तं स्वयम् एव प्रत्योसारयति स्थूलात्ययम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ति भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अप्रतिकृतां अकृतां अकृत्वा पूर्वकृत्यं अनवलोकयित्वा भिक्षुणीसंघं स्वयम् एव प्रत्योसारयति | अयम् अपि धर्मो प्रथमापत्तिको संघातिशेषो ||
SK
संघातिशेषधर्म ११
SK
अनवश्रुता अवश्रुता
SK
१६५. भगवान् राजगृहे विहरति | तत्र जेता नाम भिक्षुणी | ताम् अपरः पुरुषो रक्तचित्तः | भक्तेनोपनिमन्त्रयति | पात्रचीवरेण भक्ष्यभोज्येन ग्लानप्रत्ययभैषज्यपरिष्कारैः | सो आह | जानासि आर्ये कस्य वयम् अर्थाय आर्याय ददामः | सा आह | जानामि | सो आह | कस्यार्थाय | सा आह | पुण्यं ते भविष्यति सो आह | एवम् एतत् पुण्यं भविष्यति | अयं त्व् अहम् आर्याय अर्थिकः आर्याय ददामि | सा तावद् विगतरागा | नैव प्रतिक्षिपति | नाधिवासयति | एतं प्रकरणं भिक्षुण्यो महप्रजापत्या गौतम्या आरोचयेयुः | महाप्रजापती गौतमी भगवतः आरोचयति | भगवान् आह | शब्दापयथ जेतां | सा शब्दापिता | एतद् एवं सर्वं पृच्छीयति | यावद् आम् भगवन् | भगवान् आह | दुष्कृतं ते जेते | ननु ते पश्चिमा नाम जनता अवलोकयितव्या | नैष धर्मो नैष विनयः |
SK
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमी यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी जानन्ती अनवश्रुता अवश्रुतस्य पुरुषस्य प्रतिगृह्णीयात् पात्रं वा चीवरं वा भक्ष्यं वा भोज्यं वा ग्लानप्रत्ययभैषज्यपरिष्कारं वा अयम् अपि धर्मः |
SK
या पुन भिक्षुणीति यावद् उपसम्पन्ना उभयतः संघेन | एषा भिक्षुणी अनवश्रुता ति अरक्तचित्ता | अवश्रुतस्य पुरुषस्येति रक्तचित्तस्य | प्रतिगृह्णेया ति प्रतिच्छेय | पात्रम् इति ज्येष्ठं मध्यमं कन्यसम् वा | चीवरम् इति संघाटिउत्तरासङ्गमन्तर्वासकं कण्ठप्रतिच्छादनं उदकशाटिका | खाद्यम् इति खादनीयं | भोज्यम् इति भोजनीयं | अन्तशः ग्लानभैषज्यम् इति सप्ताहिकं वा यावज्जीविकम् वा | अयम् अपि धर्म | यावत् प्रज्ञप्तिः | एषो तावन् मनुष्यो भिक्षुणीय ददाति पात्रम् वा चीवरम् | भक्ष्यभोज्यम् वा | ग्लानभैषज्यम् वा | तां पुरुषो आह | आर्याय वयम् अर्थिका | आर्याय वयम् ददाम इति | न क्षमति प्रतीच्छितुं | स वक्तव्यः | तवैव भवतु दीर्घायुः लभिष्यामः वयम् अन्यतो पि | अथ प्रतीच्छति संघातिशेषं | अथ वाचं न भाषति हस्तविकारं वा पादविकारं वा अक्षिविकारं वा करोति | हष्तम् वा प्रस्फोटयति | अङ्गुलीं वा अक्षिं वा निपातयति | भूमिम् वा विलिखति विनमति वा | जानाति रक्तचित्तो ति | न क्षमति प्रतीच्छितुं | प्रतीच्छति स्थूलात्ययं |
SK
अथ खलु देनं देति प्रसन्नैर् इन्द्रियैः | अथ खलु तया भिक्षुण्या आशयेन प्रतीच्छितव्यं प्रतीच्छति अनापत्तिः |
SK
एवं भिक्षोर् अपि रक्तचित्ता स्त्री ददाति | न जानम् गृह्णाति स्थूलात्ययं | निमित्तं करोति | जानाति रक्तचित्ता इति | नं प्रतीच्छति विनयातिक्रमन् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य पात्रम् चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानभैषज्यम् वा प्रतिगृह्णेय अयम् अपि धर्मो प्रथमापत्तिको |
SK
किं ते वदेति त्वं प्रतिगृह्ण
SK
१६६. भगवान् राजगृहे विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति अवश्रुतस्य पुरुषस्य पात्रं वा यावत् प्रतिगृह्णातुं | सा जेता तस्य पुरुषस्य न प्रतिच्छति | स्थूलनन्दा भिक्षुणी आह | प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य | किं ते परो करिष्यति | अवश्रुतो वा अनवश्रुतो वा | यतो च त्वम् अनवश्रुता | दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि | सा भिक्षुणीभिर् उच्यते | मा आर्ये एतां भिक्षुणीम् एवं वद | प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य | किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा | यतो च त्वम् अनवश्रुता | दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि | एवं सकृद् उक्ता न प्रतिक्रमति | द्वितीयम् तृतीयम् अप्य् उक्ता न प्रतिक्रमति | एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयन्ति | महाप्रजापती गौतमी भगवतः आरोचयति | भगवान् आह | शब्दापयथ नन्दां यावद् आम् भगवन् | भगवान् आह | दुष्कृतं ते नन्दे | नैष धर्मो नैष विनयः | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय यावत् पर्यवदातानि |
SK
या पुन भिक्षुणी भिक्षुणीं एवं वदेय | प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य | किं ते परः करिष्यति | अवश्रुतो वा अनवश्रुतो वा | या त्वम् अनवश्रुता | दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि | सा भिक्षुणी भिक्षुणीभिः उच्यमाना एतद् एव वस्तुं प्रतिगृह्य तिष्थेय न प्रतिनिस्सरेत् | सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं | नो च प्रतिनिःसरेय | अयम् अपि धर्मो यावत् तृतीयकः |
SK
या पुन भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी | तां भिक्षुणीम् इति यथा तां जेतां | भिक्षुणीम् एवं वदेत् | सा भिक्षुणी भिक्षुणीभि एवम् अस्य वचनीया | पेयालं | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तद् एवं वस्तुं समादाय प्रतिगृह्य तिष्ठेय | अयम् अपि धर्मो यावत् तृतीयकः यथा भिक्षुविनये | पेयालं | यावत् प्रज्ञप्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीम् एवं वदेय | प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य | किं ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा | या त्वम् अनवश्रुता | दायकदानपतीनां देयधर्मं प्रतिगृह्णीत्वा यथाप्रत्ययं करोहि | सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया | मा आर्ये एतां भिक्षुणीम् एवं वदे | प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य | किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा | या त्वम् अनवश्रुता | दायकदानपतीनां देयधर्मं परितिगृह्णित्वा यथाप्रत्ययं करोहि | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय | न प्रतिनिःसरेय | सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुशासितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत् तृतीयकं समनुग्राह्यमाणा समनुभाष्यमाणा तम् वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं | नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय | अयन् धर्मो यावत् तृतीयकः |
SK
संघभेदःद्वेय भेदेन
SK
१६७. भगवान् राजगृहे विहरति | द्वौ भेदेन तथैव कर्तव्यो यावत् तेन भगवान् आह |
SK
या पुन भिक्षुणी समग्रस्य संघस्य भेदाय पराक्रमेय भेदनसम्वर्तनीयं वा अधिकरणं समादाय प्रतिगृह्य तिष्ठेय | सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया | मा आर्ये समग्रस्य संघस्य भेदाय पराक्रमेय | भेदनसम्वर्तनीयम् वा अधिकरणं समादाय प्रतिगृह्य तिष्ठाहि | समेतु आर्या संघेन | समग्रो हि संघो सहितो सम्मोदयमान अविवदमानो | एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः सुखञ् च फासुञ् च विहरति | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय | न प्रतिनिःसरेय | सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं न प्रतिनिःसरेय | अयम् अपि धर्मो यावत् तृतीयकः |
SK
संघातिशेषधर्म १४(३)
SK
तद् अनुवर्तकाः
SK
तस्याः खलु भिक्षुण्या भिक्षुण्यो भवन्ति सहायिका | एका वा द्वौ वा त्रयो वा संबहुला वा | वर्गवादिनीयो अनुवर्तिकाः समनुज्ञाः संघभेदाय | ता भिक्षुण्यः भिक्षुण्यो एवम् आहुः | मा आर्यमिश्रिकाः एतां भिक्षुणीं किञ्चिद् अववदित्थ | कल्याणं वा पापकं वा | धर्मवादिनी चैषा भिक्षुणी विनयवादिनी चैषा भिक्षुणी | अस्माकं चैषा भिक्षुणी छन्दञ् च रुचिं च समादाय प्रगृह्य व्यवहरति | यञ् चैतस्याः भिक्षुण्याः क्षमते च रोचते च अस्माकम् अपि तं क्षमते च रोचते च | जानन्ती चैषा भिक्षुणी भाषते नो अजानन्ति | ता भिक्षुण्यो भिक्षुणीभिर् एवम् अस्य वचनीयाः | मा आर्यमिश्रिकाय एवम् अवोचत् | नैषा भिक्षुणी धर्मवादिनी | नैषा भिक्षुणी विनयवादिनी | मार्यमिश्रिकाः संभेदं रोचयन्तु | संघसामग्रीम् एवार्यमिश्रिका रोचयन्तु | समग्रो हि संघो | सहितो सम्मोदयमानो अविवदमानो एक्ऽउद्देशो क्षीरोदकीभूतो शास्तुः शासनं दीपयमानः | सुखाञ् च फासुञ् च विहरति | एवञ् च ता भिक्षुण्यो भिक्षुणीभिः उच्यमाना तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं | नो चे प्रतिनिःसरेंसुः ता भिक्षुण्यो भिक्षुणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं | नो च प्रतिनिःसरेंसुः | तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेयुः | अयम् अपि धर्मो यावत्तृतीयकः |
SK
संघातिशेषधर्म १५(४) आक्रोशो
SK
१६८. भगवान् श्रावस्तीयम् विहरति | तत्र स्थूलनन्दा नाम भिक्षुणी अधिकरणान्य् उत्पादयति | तस्या संघेन उत्क्षेपनीयं कर्म कृतं | सा संघं आक्रोशति संघम् अगतिगमनेन प्रापयति | छन्दगामी चार्या संघो | दोषगामी चार्या संघो | भयगामी चार्या संघो | मोहगामी चार्या संघो | छन्दन् निश्राय | दोषन् निश्राय | मोहन् निश्राय मम आक्रोषितव्यं | परिभाषितव्यम् मन्यति | भिक्षुणी भिक्षुणीभिर् उच्यते | मा आर्ये नन्दे संघम् अगतिगमनेन प्रापय | न संघो छन्दगामी | पेयालं | यावन् न मोहन् निश्राय यावद् आर्या एवं छन्दगामी | मा आर्ये छन्दन् निश्राय संघम् आक्रोषितव्यम् मन्यसि परिभाषितव्यम् मन्यसि | सा त्वम् एवम् उच्यमानी न प्रतिक्रमसि द्वितीयं तृतीयम् अध्युच्यमानि न प्रतिक्रमसि | एतं प्रकरणं यावद् भगवान् आह | तेन हि गच्छथ | त्रिष्कृत्वा कुवेगे | त्रिष्कृत्वा महाजने | तृष्कृत्वा संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय | सा कुवेगे उच्यते | सत्यं त्वम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयसि | अलम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयितुं | यावत् खलु ते आर्ये मित्राय करणीयं अर्थकामाय हितैषिणीय करोति | ते तन् मित्रा एकवाचा गच्छन्ति | द्वे वाचे अवशिष्टे | प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह | एवम् महाजने संघमध्ये अवलोकना कर्तव्या | सत्यं त्वम् आर्ये नन्दे संघम् अगतिगमनेन प्रापयसि | पेयालं | याव आमो त्य् आह | सा ताव संघमध्ये पि वक्तव्या पेयालं | एतं प्रकरणं भिक्षुण्यो आरोचयेयुः | अनुभाष्टा भगवन् आर्या नन्दा त्रिष्कृत्वा कुवेगे त्रिष्कृत्वा महाजने त्रिष्कृत्वा संघमध्ये एतस्य वस्तुनः प्रतिनिःसर्गाय | न प्रतिनिःसरति | भगवान् आह शब्दापयथ नन्दां | पेयालं | यावद् एवं चैवञ् च पृष्टा | पेयालं | आम् भगवन् | भगवान् आह | दुष्कृतं ते नन्दे | नन्व् अहं नन्दे अनेकपर्यायेण दौर्वचस्यं विगर्हामि यावन् नैवं कुर्वतो वृद्धिर् भवति कूशलेषु धर्मेषु अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय | पेयालं | यावत् पर्यवदातानि भविष्यन्ति |
SK
भिक्षुणी खलु पुनः संघाक्रोशिका भवति | सा एवम् आह | छन्दगामी च संघो | दोषगामी च | भयगामी च | मोहगामी च | संघो छन्दन् निश्राय | दोषन् निश्राय | भयन् निश्राय | मोहन् निश्राय | समाक्रोशितव्यं परिभाषितव्यं मन्यति | सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया | मा आर्ये एवं वद | न संघो छन्दगामी | न संघो दोषगामी | न संघो भयगामी | न संघो मोहगामी | न च संघो छन्दन् निश्राय | दोषभयमोहन् निश्राय आक्रोशितव्यं | परिभाषितव्यं मन्यति | आर्ये च छन्दन् निश्राय दोषं भयं मोहन् निश्राय संघम् आक्रोशितव्यं मन्यति | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमान तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेय | सा भिक्षुणी भिक्षूणीभिः यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिस्सर्गाय | यावत्तृतीयकं समनुग्राहियमाना वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतत् कुश्लं | नो च प्रतिनिस्सरेंसुः | अयम् अपि धर्मो यावत्तृतीयकः | पेयालं |
SK
यावद् एषा भिक्षुणी त्रिष्कृत्वा कुवेगे समनुग्राहियमाना समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति | वाचायाम् वाचायां विनयातिक्रमम् आसादयति | एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति | प्रथमायां वाचायां अव्यवरोपितायां विनयातिक्रमः | व्यवरोपितायां स्थूलात्ययः | एवम् द्वितीयातृतीयाम् वा वाचायां यावद् व्यवरोपितायां संघातिशेषं | यदा संघातिशेषाम् आपत्तिम् आपन्ना |
SK
ये च कुवेगे | ये च महाजने | ये च संघमध्ये विनयातिकरमाः | स्थूलात्ययाः सर्वे ते प्रतिप्रस्रभ्यन्ति स्थापयित्वा अष्टौ स्थूलात्ययाः | न संघम् अगतिगमनेन प्रापयन्ती | अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारयितव्या | कथं तावत् प्रतिनिः सर्गार्हं कथम् अप्रतिनिःसर्गार्हं | अभूषि मे संघम् अगतिगमनेन प्रापयिष्यन् ति प्रापयामि प्रापयिष्यामि चेति एवं प्रतिनिःसर्गार्हं | कथं प्रतिनिःसर्गार्हं | अभूषि मे संघम् अगतिगमनेन प्रापयिष्यन् ति प्रापितञ् च | न खल्व् इदानीं प्रापयामि न च प्रापयिष्यामीत्य् अप्रतिनिःसर्गार्हं | तेन भगवान् आह |
SK
भिक्षुणी खलु पुनः संघाक्रोशिका भवति | सा एवम् आह | छन्दगामी | चार्यमिश्रिकायो | संघो दोषगामी च भयगामी च संघो | मोहगामी च संघो | छन्दन् निश्राय दोषं भयं मोहं निश्राय समाक्रोशितव्याम् परिभाषितव्याम् मन्यति | सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया | मा आर्ये संघआक्रोशिका भवाहि | न संघो छन्दगामी | न संघो दोषगामी | न संघो भयगामी | न संघो मोहगामी | न च संघो छन्दन् निश्राय दोषं भयं मोहं निश्राय आर्याम् आक्रोशितव्याम् परिभाषितव्याम् मन्यति | आर्या एवं छन्दगामिनी दोषगामिनी भयगामिनी मोहगामिनी | आर्या एव छन्दन् निश्राय दोषं भयं मोहन् निश्राय संएघम् आक्रोशितव्यं रोषितव्यं परिभाषितव्यं मन्यति | विरमार्य संघाक्रोशनातो | एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एवि वस्तुं समादाय प्रतिगृह्य तिष्ठेत् | न पर्तिनिःसरेय | सा भिक्षुण् भिक्षुनीभिर् यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत्तृतीयकं समनुग्राह्यमाना वा समनुभाषियमाना | तं वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं | नो चेत् प्रतिनिःसरेय | अयम् अपि धर्मो यावत्तृतीयको |
SK
संघातिशेषधर्म १६(५) दौर्वचस्यंदुर्वचकजातियो
SK
१६९. भगवान् कौशाम्बीयाम् विहरति | छन्दकमाता नाम भिक्षुणी | सा उद्देशपर्यवसानेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना | पेयालं | यथैव छन्दकस्य तथैवं विस्तरेण कर्तव्यं | तेन भगवान् आह |
SK
भिक्षुणी खलु पुनर् दुर्वचकजातीय भवति | सा उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अवचनीयं करोति | सा एवम् आह | मा मे आर्यमिश्रिकायो किञ्चिद् वदथ कल्याणम् वा पापकं वा | अहम् अप्य् आर्यमिश्रिकाणान् न किञ्चिद् वक्ष्यामि कल्याणम् वा पापकम् वा | विरमन्त्व् आर्यमिश्रिकायो मम वचनाय | सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | मा आर्ये उद्देशपर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अवचनीयं करोहि | वचनीयम् एवार्यात्मानं करोतु | आर्या पि भिक्षुणीयो वदन्तु शिक्षायां सह धर्मेण सह विनयेन | आर्यम् अपि भिक्षुणीयो वक्ष्यन्ति शिक्षायां सह धर्मेण सह विनयेन | एवं संवृद्धा खलु पुनर् आर्ये तस्य भगवतस् तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य पर्षा यद् इदम् अन्यमन्यवचनीया अन्यमन्यापत्तिव्युत्थापनीया | एवं च सा भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय | न प्रतिनिःसरेय | सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावात्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाण वा तम् वस्तुं प्रतिनिःसरेय इत्य् एवं कुशलं | नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय | अयम् अपि धर्मो यावत् तृतीयको |
SK
द्वे संसृष्टा विहरन्ति
SK
१७०. भगवां च्छ्रावस्त्यां विहरति | एता दानि भिक्षुणीयो नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता कायिकेन संसर्गेण संसृष्टा हि विहरन्ति | वाचिकेन संसर्गेण संसृष्टा विहरन्ति | कायिकवाचिकेन संसर्गेण संसृष्टा विहरन्ति | अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति | किन्ति दानि कायिकेन संसर्गेण संसृष्टा विहरन्ति | पेयालं | किन् ति दानि अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति | एकाये अवद्यम् अपराच्छादेति | अपरात् वद्यम् अपरा च्छादेति | तायो भिक्षुणीयो भिक्षुणीहि वुच्चन्ति | मार्यमिश्रिकायो कायिकेन संसर्गेण संसृष्टा विहरथ मा वाचिकेन मा कायिकवाचिकेन | मा अन्यमन्यस्यावद्यानि च्छादेथ | तायो सकृद् उक्तायो न प्रतिक्रमन्ति | द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमन्ति | एतं प्रकरणं ता भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती गौतमी भगवतो आरोचयेत् | विस्तरेण | पेयालं |
SK
भिक्षुणीयो खलु पुनर् द्वे संसृष्टा विहरन्ति | अन्यमन्यस्यावद्यप्रतिच्छादिका | ता भिक्षुणीयो भिक्षुणीहि एवम् अस्य वचनीया | मा आर्येमिश्रिकायो संसृष्टा विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका | नाना आर्यमिश्रिकायो विहरथ | नाना वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि | न परिहाणिः | एवं च तायो भिक्षुणीयो भिक्षुणीहि वुच्यमानास् तं वस्तुं प्रतिनिस्सरेंसुः | इत्य् एतं कुशलं | नो च प्रतिनिस्सरेंसुः ता भिक्षुणीयो भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः तस्य वस्तुस्य प्रतिनिस्सर्गाय | यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेंसुः इत्य एतं कुशलं | नो च प्रतिनिस्सरेंसुः तम् एवम् वस्तुं समादाय प्रतिगृह्य तिष्ठेंसुः | अयम् अपि धर्मो यावत् तृतीयको |
SK
भिक्षुणीयो खलु पुन द्वे संसृष्टा विहरन्ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता | संसृष्टा विहरन्ति कायिकेन वाचिकेन कायिकवाचिकेन | अवद्यप्रतिच्छादिका ति आपत्तिप्रतिच्छादिका | ता भिक्षुणीयो यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता | भिक्षुणीहीति संघेन महाजनेन एकभिक्षुणीय | एवं स्युर् वचनीया | मा आर्यमिश्रिकायो संसृष्टा विहरथ | अन्यमन्यस्यावद्यप्रतिच्छादिका | पेयालं | यावत् तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेंसुः | यं तं वस्तुं संसृष्टा विहरन्ति अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति | ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरकधिता | भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या | त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महाजने त्रिक्खुत्तो संघमध्ये समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिःसरेंसुः अयम् अपि धर्मो यावत् तृतीयको संघातिशेषो | पेयालं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुन् न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति | एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति | प्रथमायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति | व्योरोपितायां थूल्ऽ-अच्चयं | एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयं | अध्योरोपितायां संघातिशेषं | किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं | किम् अप्रतिनिःसर्गार्हं | अभूषि खलु मो संसृष्टा विहरिष्यामो | अन्योन्यसावद्यप्रतिच्छादिका ति विहरामो विहरिष्यामो | नो च खलु विहृतं | एवं प्रतिनिःसर्गार्हं द्रष्टव्यं | किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यं | अभूषि खलु मो संसृष्टा विहरिष्यामो अन्योन्यस्यावद्यप्रतिच्छादिका ति ते दानीम् विहरामो विहरिष्यामो न विहृतं | मो ति एतं प्रतिनिःसर्गार्हं द्रष्टव्यं | तेन भगवान् आह |
SK
भिक्षुणीयो खलु पुन द्वे संसृष्टायो विहरन्ति अन्योन्यस्यावद्यप्रतिच्छादिका | पेयालं | विस्तरेण |
SK
संघातिसेषधर्म १८(७)
SK
तासाञ् चानुविचारिका
SK
१७१. भगवां च्छ्रावस्त्यां विहरति | भगवान् आह | शिक्षापदं प्रज्ञप्तं | न क्षमति भिक्षुणीहि संसृष्टा विहरितुन् ति | नन्दा च शाक्यकन्या उत्तरा च माशोरकधीता भिक्षुणीयो नाना विहरन्ति | स्थूलनन्दा भिक्षुणी तासाम् आह | संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ | अन्यमन्यस्यावद्यप्रतिच्छादिका | तासां संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि | न परिहानिः | किं यूयम् एव एवंरूपा संघे | सन्त्य् अन्या अप्य् एवंरूपा संघे | न च संघो तासां किञ्चिद् आह | युष्मान् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति | सा भिक्षुणीहि वुच्चति | मा आर्ये नन्दे एतायो भिक्षुणीयो एवं वद संसृष्टा एव आर्यमिश्रिकायो विहरथ | पेयालं | यावत् परिमर्दितव्याम् मन्यति |
SK
सा सकृद् उक्ता न प्रतिक्रमति | एवं द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति | महाप्रजापती पि गौतमी भगवतो आरोचेति | भगवान् आह | यद्य् एषा स्थूलनन्दा नाम भिक्षुणी नन्दां शाक्यकन्यां उत्तरां च माशोरकधीताम् एवम् आह | संसृष्टा एव आर्यमिश्रिकायो विहरथ | पेयालं | यावत् सकृद् उक्ता न प्रतिक्रमति | द्वितीयम् पि तृतीयम् पि उक्ता न प्रतिक्रमति | तेन हि गच्छथ नन्त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहयथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय | सा कुवेगे वक्तव्या | सत्यं त्वम् आर्ये नन्दे एता भिक्षुणीयो एवम् वदसि यावद् आमो त्य् आह | सा त्वं कुवेगे वुच्चति | मा आर्ये नन्दे एता भिक्षुणीयो एवं वद | पेयालं | यं खलु ते आर्ये नन्दे मित्राय करणीयं अर्थकामाये हितैषिणीये अनुकम्पिकाय अनुकम्पाम् उपादाय करोति | तं मित्रा एका वाचा गच्छति द्वे वाचा अवशिष्टा प्रतिनिःसरामित्य् आह | एवं द्वितीया तृतीया | एवं महाजने संघमध्ये अवलोकना कर्तव्या | एवं एव यावद् अनुभाष्टा न प्रतिनिःसरति | पेयालं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती गौतमी भगवत आरोचयेत् | भगवान् आह शब्दापयथ नन्दां | सा दानि शब्दापिता | एतद् एव सर्वं पृच्छीयति | यावद् आम् भगवन् | भगवान् आह | दुष्कृतं ते नन्दे यावत् सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय | संसृष्टा एव आर्यमिश्रिकायो विहरथ अन्यमन्यसावद्यप्रतिच्छादिका | संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि | न परिहाणिः | किं पुनर् यूयम् एव एवंरूपा संघे | सन्त्य् अन्या प्य् एवंरूपा संघे | न च तासां संघो किञ्चिद् आह | युष्मान् एव संघो अवज्ञाय परिभावेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति | सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | मा आर्ये नन्दे इत्थन्नामां च इत्थन्नामां च भिक्षुणीं नाना विहरन्तीं अनुविचारेहि | संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ | अन्यमन्यस्यावद्यप्रतिच्छादिका | नानासंसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि | न परिहानिः | किम् पुनर् यूयम् एव एवंरूपा संसृष्टा संघे | सन्त्य् अन्या अपि एवंरूपा संघे | न च संघो तासां किञ्चिद् आह | युष्माकम् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति | एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिस्सरेय | सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिस्सरेय | अयं पि धर्मो यावत्तृतीयको |
SK
या पुन भिक्षुणीति यथा स्थूलनन्दा | ता भिक्षुणीयो ति यथा नन्दा च शाक्यकन्या उत्तरा च मासोरकधीता | एवं वदेय | संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका ति कायिकेन वाचिकेन कायिकवाचिकेन संसर्गेण | मा नानां संसृष्टानां वो ऽधिविहरन्तीनां वृद्धिर् एव प्रतिकाङ्क्षितव्या कुशलेहि धर्मेहि न परिहाणिः | पेयालं |
SK
सा भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी | भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन एवम् अस्य वचनीया | आर्येमिश्रान् नामे | पेयालं | यावन् न प्रतिनिस्सरेय | सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकम् ति त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये | सा कुवेगे वक्तव्या | सत्यं त्वम् आर्ये इत्थन्नामे इत्थन्नामां च इत्थन्नामां च भिक्षुणीम् यावद् आमो त्य् आह | सा कुवेगे वुच्चति | मा आर्ये इत्थन्नामाञ् च इत्थन्नामाञ् च भिक्षुणीं नाना विहरन्तीं अनुविचारेहि | पेयालं | अयम् अपि धर्मो यावत् तृतीयको | पेयालं | सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति |
SK
एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति | यावत् तृतीयायां वाचायां अध्योरोपितायां संघातिशेषं | पेयालं | यावत् किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अप्रतिनिःसर्गार्हं | अभूषि खलु इमे इत्थन्नामायो भिक्षुणीयो वदिष्यं | संसृष्टा एवार्यमिश्रिकायो विहरथ | अन्योन्यसावद्यप्रतिच्छादिका वदामि वदिष्यामि | न खलु वदितं एवं प्रतिनिःसर्गार्हं | किन् ति दानि अप्रतिनिःसर्गार्हं | अभूषि खलु मे इत्थन्नामायो भिक्षुणीयो वदिष्यं | संसृष्टा एवार्यमिश्रिकायो विहरथ | अन्योन्यसावद्यप्रतिच्छादिका ति | वदितं खलु मे इदानीम् वदामि न वदिष्यामि चेति एवम् अप्रतिनिःसर्गार्हम् द्रष्टव्यं | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय | विस्तरेण | यावद् अयं पि धर्मो यावत् तृतीयको |
SK
संघातिशेषधर्म१९(८)
SK
शिक्षाप्रत्याख्यायिका
SK
१७२. भगवान् शाक्येषु विहरति | शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे | तहिं दानी द्वे माताधीतरे अगारस्यानगारिकां प्रव्रजिते | धीता शाक्येहि प्रव्रजिता माता तीर्थिकेहि | सा दानि माता धीतरम् आह | पुत्रिणि | किं वयं जीवन्तिका एव अन्यमन्यं न पश्यामः | इहैव चागच्छ | सा दान् आह | आगच्छामी | न मया यथा वा तथा वा शक्यम् आगन्तुं | यावत् किञ्चिद् अधिकरणम् उत्पादयामि | सा भिक्षुणी भिक्षुणीहि सह वाचो वाचिकं करोति | सा यदा पर्यादिन्ना भवति तदा आह | बुद्धं प्रत्याख्यामि | एवं धर्मं संघं शिक्षाम् उद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं प्रत्याख्यामि | शाक्यपुत्रीय भावं प्रत्याख्यामि | किं एता एव श्रमणिका शाक्यपुत्रीया | सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि | तत्र ब्रह्मचर्यं चरिष्यं | सा दानि भिक्षुणीहि वुच्चति | मा आर्ये बुद्धं प्रत्याख्याहि यावत् मा शाक्यपुत्रीय भावं प्रत्याख्याहि | असाधु आर्ये बुद्धप्रत्याख्यानं यावद् असाधु शाक्यपुत्रीय भावप्रत्याख्यानं |
SK
सा सकृद् उक्ता न प्रतिक्रमति | द्वितीयं तृतीयम् पि उक्ता न प्रतिक्रमति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचयेति | भगवान् आह | तेन हि भिक्षुण्यो | यद्य् एषा इत्थन्नामा भिक्षुणी शिख्याप्रत्याख्यायिका | सा एवम् आह | बुद्धं प्रत्याख्यामि | पेयालं | यावत् तत्र ब्रह्मचर्यञ् चरिष्यं | सा सकृद् उक्ता न प्रतिक्रमति | द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति | तेन हि गच्छथ | तां त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय | सा दानि कुवेगे वक्तव्या | सत्यं त्वम् आर्ये इत्थन्नामे शिक्षां प्रत्याख्यासि | सा त्वम् एवम् वदसि बुद्धं प्रत्याख्यामि | पेयालं | यावत् किं पुनर् एता एव श्रमणिका शाक्यपुत्रीयाः | सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि | तत्र ब्रह्मचर्यं चरिष्यन् ति | आमो त्य् आह | सा त्वं कुवेगे वुच्चसि मा त्वम् आर्ये इत्थन्नामे बुद्धं प्रत्याख्याहि यावच् छाक्यपुत्रीय भावं प्रत्याख्याहि | असाधु आर्ये बुद्धप्रत्याख्यानं | यावद् असाधु शाक्यपुत्रीय भावप्रत्याख्यानं |
SK
यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयं अर्थकामाय हितैषीणीये करोति | तेन मित्रा एकवाचा गच्छति | द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह | एवम् द्वितीयम् पि तृतीयम् पि | एवं महाजने संघमध्ये अवलोकना कर्तव्या यावद् एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेंसुः | भगवान् आह | शब्दापयथ तां भिक्षुणीं | सा दानि शब्दापिता | सत्यन् ति | तद् एवं पृच्छीयति | यावद् आम् भगवन् | भगवान् आह दुष्कृतं ते | पेयालं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति |
SK
भिक्षुणी खलु पुनः शिख्याप्रत्याख्यायिका भवति | सा दान् आह | बुद्धं प्रत्याख्यामि | धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि | किं एता एव श्रमणिका शाक्यपुत्रीया | सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतानानि | तत्र ब्रह्मचर्यं चरिष्यं | सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | मा आर्ये शिख्याप्रत्याख्यायिका भोहि | मा बुद्धं प्रत्याख्याहि | मा धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणिभावं शाक्यपुत्रीय भावं प्रत्याख्याहि | असाधु आर्ये बुद्धप्रत्याख्यानं | असाधु धर्मप्रत्याख्यानं | असाधु संघप्रत्याख्यानं | शिक्षाउद्देशसम्वाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभावप्रत्याख्यानं | असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं | एवञ् च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय न प्रतिनिःसरेय | सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिःसरेय | अयम् अपि धर्मो यावत्तृतीयको संघातिशेषो | संघम् एवाधिपतिं कृत्वा निःसरणीयो |
SK
या पुन भिक्षुणीति यथा सा भिक्षुणी | शिक्षाप्रत्याख्यायिका ति सा एवम् आह बुद्धं प्रत्याख्यामि | पेयालं | यावच् छाक्यपुत्रीय भावं प्रत्याख्यामि | किम् एता एव श्रमणिका शाक्यपुत्रीयाः | सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि | तत्र ब्रह्मचर्यं चरिष्यं | सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | मा आर्ये बुद्धं प्रय्ताख्याहि यावद् असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं | एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिःसरेय | या सा भिक्षुणी शिक्षाप्रत्याख्यायिका |
SK
सा भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खतो संघमध्ये | सा दानि कुवेगे वक्तव्या | सत्यं त्वम् इत्थन्नामे एवं वदसि बुद्धं प्रत्याख्यामि यावच् छाक्यपुत्रीय भावं प्रत्याख्यामि | आम इत्य् आह | सा कुवेगे वुच्चति | मा आर्ये इत्थन्नामे बुद्धं प्रत्याख्याहि | यावद् असाधु आर्ये शाक्यपुत्रीय भावप्रत्याख्यानं | यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयं | अर्थकामाय हितैषिणीये करोति | ते तं मित्रा एकवाचा गच्छति | द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह | एवं महाजने संघमध्ये अवलोकना कर्तव्या | विस्तरेण | यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं | नो च प्रतिनिःसरेय अयम् अपि धर्मो यावत् प्रज्ञप्तिः |
SK
सा एषा भिक्षुणी त्रिक्खत्तो कुवेगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघमध्ये समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति | एवं महाजने संघमध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति | प्रथमायां वाचायां अध्योरोपितायां विनयातिक्रमम् | अध्योरोपितायां थूलच्चयम् | एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम् | अध्योरोपितायां संघातिशेषं | यदा संघातिषेशम् आपत्तिम् आपन्ना भवति तदा ये च कुवेगे ये च महाजने ये च संघमध्ये थूल्ऽ-अच्चया च विनयातिक्रमा च सर्वे ते प्रतिप्रस्रभ्यन्ते | एका गुरुका आपत्तिः संस्थिहति यद् इदं संघातिशेषो | अन्तरा प्रतिनिःसरति यथास्थितासु आपत्तिषु कारापयितव्या | किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अप्रतिनिःसर्गार्हं | अभूषि खलु मे शिक्षां प्रत्याख्यास्यामि | न खलु मे प्रत्याख्यानं प्र्तिनिःसर्गार्हं द्रष्टव्यं | किन् ति दानि अप्रतिनिःसर्गार्हं द्रष्टव्यं | अभूषि खलु मे शिक्षां प्रत्याख्यास्यन् ति | प्रत्याख्यातम् दानि न प्रत्याख्यासि प्रत्याख्यामि चेति | एवम् अप्रतिनिःसर्गार्हं द्रष्टव्यं | तेन भगवान् आह |
SK
भिक्षुणी खलु पुनः शिक्षाप्रत्याख्यायिका भवति | सा एवम् आह | बुद्धं प्रत्याख्यामि धर्मं प्रत्याख्यामि | संघं प्रत्याख्यामि | शिक्षां प्रत्याख्यामि | उद्देशं सम्वासं संभोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्यामि | किम् एता एव श्रमणिका शाक्यपुत्रीयाः | सन्त्य् अन्यान्य् अपि पृथुतीर्थ्यायतनानि | तत्र ब्रह्मचर्यं चरिष्यं | सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया | मा आर्ये शिक्षाप्रत्याख्यायिका भोहि | मा धर्मप्रत्याख्यायिका भोहि | मा संघप्रत्याख्यायिका भोहि | मा शिक्षां प्रत्याख्याहि | मा उद्देशं सम्वासं सम्भोगं शास्तृपदं भिक्षुणीभावं श्रमणीभावं शाक्यपुत्रीय भावं प्रत्याख्याहि | तत् कस्य हेतोः | असाधु आर्ये बुद्धप्रत्याख्यानं | असाधु धर्मप्रत्याख्यानं | असाधु संघप्रत्याख्यानं | असाधु शिक्षाप्रत्याख्यानं | उद्देशसंवाससंभोगशास्तृपदभिक्षुणीभावश्रमणीभाव प्रत्याख्यानं | असाधु शाक्यपुत्रीय भावप्रत्याख्यानं | एवं च सा भिक्षुणी भिक्षुणीहि वुच्चमाना तं एव वस्तुं समादाय प्रगृह्य तिष्ठेय | न प्रतिनिःसरेय | सा भिक्षुणी भिक्षुणीहि यावत्तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय | यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाना वा तम् वस्तुं प्रतिनिःसरेय | इत्य् एतं कुशलं | नो च प्रतिनिःसरेय | अयं पि धर्मो यावत्तृतीयको संघातिशेषो | संघम् एवाधिपतिं कृत्वा निःसरणीयो |
SK
उद्दिष्टा मे आर्यमिश्रिकायो एकूनविंशति संघातिशेषा धर्माः | तत्र एकदश प्रथमापत्तिकाः अष्टौ यावत्तृतीयकाः | येषां भिक्षुणी इत्य् अन्यतरान्यतराम् आपत्तिम् आपद्यित्वा अर्धमासं उभयतो संघे मानत्वं चरितव्यं | चीर्णमानत्वा भिक्षुणी कृतानुधर्मा | आह्वयनप्रतिबद्धा यत्र स्याद् विंशतिगणो उभयतो संघो तत्र सा भिक्षुणी आह्वयितव्या | एकेनापि चेद् ऊनोविंशतिगणो उभयतो संघो तां भिक्षुणीम् आह्वेय | सा च भिक्षुणी अनाहूता | ते च भिक्षवो ताश् च भिक्षुणीयो गर्ह्याः | इयम् अत्र सामीची | तत्रार्यमिश्रिकायो पृच्छामि | कच्चित् थ परिशुद्धा | द्वितीयतृतीयं पि आर्यमिश्रिकायो पृच्छामि | कच्चिच् थ परिशुद्धा | परिशुद्धा अत्रार्यमिश्रिकायो यस्मात् तूष्णीम् एवम् एतन् धारयामि | उद्दानं |
SK
संचरित्रं [१] द्वे अभूते [२,३] | उतसदवादो [४] द्वे विना [५,६] | अननुज्ञाता च [७] | वध्या [८] | च एका नदीन् तरेय [९] | उत्क्षिप्तका सह धर्मेण [१०] | भिक्षुणी च अनवश्रुता [११] ||
SK
वदेति त्वं प्रतिगृह्णे [१२] | द्वे य भेदेन [१३,१४] आक्रोशो [१५] | दुर्वचकजातीयो [१६] | द्वे संसृष्टा विहरन्ति [१७] | तासाञ् चानुविचारिका [१८] | शिक्षाप्रत्याख्यायिका चैव [१९] | ||
SK
अष्टौ यावत्तृतीयकाः संघातिशेषाः समाप्ताः ||
SK
णिःसर्गिकपाच्त्तिकधर्माः ११०
SK
१७३. त्रिंशानाम् आदिः | दशाहं [१] | विप्रवासो [२] | अकाले च [३] | जातरूप [४] | क्रयविक्रयो [५] | याचते [६] | सान्तरोत्तरं [७] | द्वे विकल्पेन [८, ९] राजा च [१०] ||
SK
एतानि साधारणानि |
SK
निःसर्गिकपाचत्तिकधर्म ११
SK
शय्यासनस्यार्थाय
SK
१७४. भगवां च्छ्रावस्त्यां विहरति | स्थूलनन्दा भिक्षुणी अपरंहि भिक्षुणीविहारे शय्यासनप्रतिग्राहका | सा दानि शय्यासनं याचेति | आह | प्रजापती देहि मञ्चं | देहि संघस्य पीठं | बिसि चतुरश्रकं | कुच्चं बिम्बोहनं | ता दानि स्त्रियो काचिन् माञ्चस्य मूल्यन् देन्ति | काचित् पीठस्य यावत् काचिद् बिम्बोहनस्य | सा खादति च पिबति च | पात्रं च जानापेति | चीवरं च जानापेति | भिक्षुणीयो पिण्डपातम् अण्वन्तीयो कुलोपगगृहेहि प्रविशन्ति | ता दानि स्त्रियो पृच्छन्ति | आर्याये नन्दाये मया मञ्चस्य मूल्यं दत्तं | किञ्चित् ताय जानापितं | ता दान् आहंसुः | किं सा भद्रायिणी जानापयिष्यति | खादति च पिबति च पात्रं च जानापेति | चीवरं जानापेति | स्वके मल्लके वर्षति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचेति | भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | भगवान् आह | सत्यं त्वं नन्दे शय्यासनस्यार्थाय याचित्वा अन्यं चेतापेति | आह | आम् भगवन् | भगवान् आह | दुष्कृतं ते नन्दे | पेयालम् | तेन हि न क्षमति | शय्यासनस्यार्थाय याचयित्वा अन्यञ् चेतापयित्वा | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि |
SK
या पुन भिक्षुणी शय्यासनस्यार्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लानभैषज्यम् वा चेतापयेन् निस्सर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | शय्यासनस्यार्थायेति | शय्यासनं नाम मञ्चं पीठं बिसि चतुरस्रं कुच्चं बिम्बोहनं | याचित्वा ति विज्ञापेत्वा समादापेत्वा | अन्यं चेतापये ति जानापयेत् | पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा चेतापयेन् निस्सर्गिकपाचत्तिकं |
SK
निस्सर्गिकपाचत्तिकं ति संघे निस्सरिय पाचतिकं देशयितव्यं | अनिःसरिय देशेति विनयातिक्रमम् आसादयति |
SK
अथ दानि शयनासनं प्रहीणमातृकं भवति | वस्तु प्रदर्शयितव्यं | इमं मया अमुकातो मञ्चमूल्यं लब्धं | इमन् तस्य मञ्चं संजानथ | यावद् बिम्बोयधानस्य | तम् वस्तुं न दर्शेति विनयातिक्रमम् आसादयति | खण्डं प्रलुग्नं वा वा लेपनिकाम् वा कर्तुं कुम्भियो उपस्थापयितुं भिक्षुर् अपि शयनासनस्यार्थाय याचयित्वा अन्यं चेतापेति विनयातिक्रमम् आसादयति | वस्तुन् दर्शेत्वा लभ्यं खण्डं प्रलुग्नादि कर्तुं | तेन भगवान् आह |
SK
या पुन भिक्षुणी शय्यासनस्यार्थाय याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानभैषज्यं वा चेतापये निःसर्गिकपाचत्तिकं ||
SK
निःसर्गिकपाचत्तिकधर्म १२ अन्योद्देशिक
SK
१७४अ. भगवान् श्रावस्त्याम् विहरति | स्थूलनन्दा नाम भिक्षुणी ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि खण्डेन पात्रेण छिद्रविछिद्रेण पिण्डपातम् अण्वति | स्त्रियो आहंसुः | नास्त्य् आर्याये पात्रं | आह | नास्ति | आह | अहन् ते आर्ये पात्रस्य मूल्यं देमि | पात्रम् आर्ये जानापेतु | अपरा आह | नास्त्य् आर्याये चीवरं | आह नास्ति | आह | अहम् आर्याये चीवरस्य मूल्यं देमि | चीवरम् आर्या जानापयितु | सा खादति च पिबति च नैव पात्रं न चीवरं जानापेति | भिक्षुणीयो पिण्डपातम् अण्वन्तीयो कुलोपगगृहाणी प्रविशन्ति | ता दानि स्त्रियो आहंसुः | मया आर्याये नन्दाये पात्रस्य मूल्यन् दत्तं | किञ्चित् ताय पात्रं जानापितं | ता दानि भिक्षुणीयो आहंसुः | किं सा भद्रायणी जानापयिष्यति | सा खादति च पिबति च | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति | महाप्रजापती पि गौतमी भगवतो आरोचेति | भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | सत्यं नन्दे एवन् नाम त्वं नन्दे अन्योद्देशिकेनान्यं चेतापयसि | आह | आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे यावद् एवं नाम त्वम् अन्योद्देशिकेन अन्यं चेतापयसि | तेन हि न क्षमति अन्योद्देशिकेनान्यं चेतापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति |
SK
या पुन भिक्षुणी अन्योद्देशिकेन अन्यं चेतापयेत् निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अन्योद्देशिकेनेति पात्रमूल्येन वा चीवरमूल्येन वा | अन्यं चेतापयेद् इति भक्ष्यम् वा भोज्यम् वा निःसर्गिकपाचत्तिकं | यावत् प्रज्ञप्तिः | एषो दानि भिक्षुणीयो काचित् पात्रम् वा चीवरम् वा घृतम् वा तैलम् वा चेतापयितुं मूल्यन् देति |यस्यार्थाय देति तम् एव चेतापयितव्यं | पात्रमूल्येन पात्रं यावद् घृतमूल्येन घृतं | अन्यं चेतापयति | निःसर्गिकपाचतिकं | अथ अनियतं देति यं इच्छति तं जानापेति अनापत्तिः | अथ दान् आह | यम् इच्छसि तं गृह्णाहीति | यम् इच्छति तं जानापेति अनापत्तिः | भिक्षवोर् अप्य् एवम् एव आपत्तिस् तु विनयातिकरमः | अविवक्षिते अनापत्तिः | यम् वा इच्छसि तं गृह्णाहीति तं गृह्णाति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी अन्योद्देशकेनान्यं चेतापयति निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म १३ अन्येषां
SK
१७५. भगवान् श्रावस्त्याम् विहरति | स्थूलनन्दा नाम भिक्षुणी संघस्य भक्तकानि समादायेति | सा छन्दकम् अण्वन्ती आह | प्रजापति देथ छन्दकं | आर्यमिश्रिकाणां भक्तं करिष्यामीति | ता दानि स्त्रियो छन्दकं प्रजन्तीन्तीयो जल्पन्ति | आर्ये यस्मिन् दिवसे परिवेषणं भवति | वयं पि परिवेषिका गमिष्यामो ति | अथ सा खादति च पिबति च पात्रं च जानापेति | ताय खादितावशेषेण यादृशं वा भक्तं कृतं | ता दानि स्त्रियो परिवेषिका आगतः | आहंसुः | आर्ये अस्माभिर् बहुको छन्दको दिन्नो | इमन् दानि भक्तं लूहविलूहं | भिक्षुणीयो आहंसुः | किम् एषा भद्रायणी तं करिष्यति | खादति चैषा पिबति च | पात्रं चीवरं चैषा जानापेति | स्वके चैषा मल्लके वर्षति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती गौतमी भगवतो आरोचयति | भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | सत्यं नन्दे एवन्नाम त्वम् अन्येषाम् अर्थाय याचित्वा अन्यं चेतापयसि | आम् भगवन् | भगवान् आह | दुष्कृतं ते नन्दे | अथ खलु भगवान् महाप्रजपतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयति | निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अन्येषाम् अर्थाय याचयित्वा संघस्य भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्यपरिष्कारान् वा चेतापयेन् निस्सर्गिकपाचत्तिकं | अथ खलु यस्यार्थाय याचति तम् एव जानापयितव्यं | अथ दानि वस्त्रं विप्रणामेति भक्तस्य वा तर्पणस्य वा य्वागूपानस्य वा अर्थाय याचयित्वा वैभङ्गिकं ददाति | शय्यासनम् वा उपस्थापेति वार्षिकम् वा हेमन्तिकम् वा देति | विनयातिक्रमम् आसादयति | सा एषा भिक्षुणी संघस्य भक्तं दापेति | त्यक्तमुक्तम् अनवगृहीतं दातव्यं | यदि तहिं किञ्चिच् छेषं भवति ओदनम् वा सूपम् वा यावद् भक्ष्यम् वा भोज्यम् वा उपदर्शयितव्यं | यद्य् आदाय गच्छति अध्युपेक्षितव्यं | अथ दान् आह | आर्याय देमीति | वक्तव्यं | न हि | संघस्य देहि | अथाह दिन्नं मया संघस्य | आर्याय देमीती | प्रतीच्छति | अनापत्तिः | भिक्षोर् अपि एवम् एव आपत्तिस् तु विन्यातिक्रमः | तेन भगवान् आह |
SK
या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लानप्रत्ययभैषज्य परिष्कारान् वा चेतापयेन् निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म १४
SK
पात्राणां सन्निचयः
SK
१७६. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो आगन्तुका आगताः | तायो भिक्षुणीयो यथावृद्धिकाय उत्थापयन्ति | ता दान् आहंसुः याव पात्राणि संक्रामयेमः | तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं | चन्द्रश् चोद्गतः न चाशेषतः संक्रामितानि | आगन्तुका आहंसुः | आर्ये रिक्तो विहारको | आहंसुः यावत् पात्राणि संक्रामयेमः | ता दान् आहंसुः | कियन्त्य् आर्यमिश्रिकाणां पात्राणि | किम् आर्यमिश्रिका पात्रापणं प्रसारयिष्यन्ति | का वा जातिः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति | महाप्रजापती पि गौतमी भगवतो आरोचेति | भगवान् आह | शब्दापयथ तायो भिक्षुणीयो | ता दानि शब्दापिताः | सत्यं भिक्षुणीयो ति | भगवांस् तद् एव सर्वं पृच्छीयति | यावद् आम् भगवन् | भगवान् आह | एवञ् च नाम यूयं पात्रसन्निचयं करोथ | तेन हि न क्षमति पात्रसन्निचयं कर्तुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी पात्रसन्निचयं कुर्यान् निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पात्रसन्निचयन् ति पात्रन् नाम सुम्भकं उपसम्भकं | उक्तटेयकं वङ्केटकं तिङ्खिनिपात्रं | ज्येष्ठकं मध्यमकं कन्यसकं | अपात्रं अतिपात्रं परिष्कारपात्रं | सन्निचयं कुर्याद् इति संग्रहं कुर्यान् निस्सर्गिकं यावत् प्रज्ञप्तिः |
SK
भिक्षुणीय षोदष पात्राणि उपस्थापयितव्यानि | एकं पात्रम् अधिष्ठिहितव्यं | त्रीणि पात्राणि मित्राणाम् विकल्पयितव्यानि | चत्वारि अपात्राणि | चत्वारि अतिपात्राणी | चत्वारि परिष्कारपात्राणि | तद् उत्तरिं उपस्थापयन्ति निःसर्गिकपाचत्तिकं | एतं दानि भिक्षुणीये परिमाणं बद्धं पात्रधारणं | किञ्चापि भिक्षुः बहुकान्य् अपि पात्राणि विकल्पेत्वा परिभुञ्जाति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी पात्रसन्निचयं कुर्यान् निःसर्गिकपाचत्तिकं
SK
निःसर्गिकपाचत्तिकधर्म १५
SK
चीवरसन्निचयः १७६अ. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो आगन्तुकाः आगता | ता भिक्षुणीयो यथावृद्धिकाय उपस्थापयन्ति | ता दान् आहंसुः यावच् चीवराणि संक्रामेमः | तायो दानि अनस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं | चन्द्रोद्गतः न चाशेषतो संक्रामितानि | आगन्तुकायो आहंसुः | आर्ये रिक्तो विहारको | आहंसुः | यावच् चीवरानी संक्रामेमः | ता दान् आहंसुः | कियन्त्य् आर्यमिश्रिकाणां चीवराणि | किम् आर्यमिश्रिकाः प्रावरिकापणं प्रसारयिष्यथ | का वा जातिः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचेति | यावद् भगवान् आह |
SK
या पुन भिक्षुणी
SK
या तावद् एकं पञ्चचीवरम् अधिष्ठिहितव्यं | त्रीणि पञ्च चीवराणि मित्राणां विकल्पयितव्यानि | एवम् एतानि विंशति चीवराणि | अतो उत्तरि उपस्थापयेन् निस्सर्गिकपाचत्तिकं | एतं दानि भिक्षुणीये परिमाणं बद्धञ् चीवरधारणं | किञ्चापि भिक्षु बहुकानि चीवराणि मित्राणां विकल्पयित्वा परिभुञ्जाति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणीचीवरसन्निचयं कुर्यात् निस्सर्गिकपाचत्तिकं ||
SK
निःसर्गिकपाचत्तिकधर्म १६
SK
निःशृजाति
SK
१७७. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी चीवराणि नैव धोवति न सीवेति न रञ्जेति | ताये दानि ओमलिनमलिना संघाटी पाटितविपाटिता | उपाश्रये निक्षिप्ता या इच्छति सा उपादीयतू ति | अथापरा भिक्षुणी जेता नाम लूहचीवरधरा | सा भिक्षुणीहि वुच्चति | आर्ये एतां संघाटिं धोविय सीविय फोषिय प्रावृता | सा दानि स्थूलनन्दा आह | आनेहि आर्ये एतां संघाटिं मह्यं एषा संघाटी | पश्यथ आर्यमिश्रिकायो न किञ्चिच् छक्यते उपाश्रये निक्षिपितुं | लब्धोत्क्षिप्तिकाहि पूरो संघारामो ताव | धृष्टा च मुखरा च प्रगल्भा च सा दानि ताय संघाटी आच्छिन्ना | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचेति | यावद् भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुण्युपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति | उक्त्वा पश्चात् स्वयम् एव उपादियेय निस्सर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | भिक्षुण्य् उपाश्रये ति भिक्षुणीविहारे | संघाटीति चीवरं | निक्षिपेत्वा ति स्वयं | निक्षिपायेत्वा ति परेण | या इच्छति सा उपादीयतू ति पश्चात् स्वयम् एव उपादीयेत निःसर्गिकपाचत्तिकं | सा एषा भिक्षुणी भिक्षुणीउपाश्रये चीवरं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति यदि काचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं | आच्छिन्दति निःसर्गिकं भवति | अथ दानि न कायचि उपादिन्नम् भवति तस्या एव च ताय अर्थो भवति किञ्चापि गृह्णाति अनापत्तिः | अथ दानि क्षुद्रानुक्षुद्रकं परिष्कारं निक्षिप्तम् भवति यदि कायचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं | आच्छिन्दति विनयातिक्रमम् आसदयति | भिक्षुर् अपि भिक्षुविहारे पात्रम् वा चीवरम् वा उपानहम् वा क्षुद्रानुक्षुद्रकम् वा परिष्कारं निक्षिपित्वा यो इच्छति सो उपादीयतू ति | यदि केनचिद् उपादिन्नम् भवति न क्षमति आच्छिन्चितुं | आच्छिन्दति विनयातिक्रमम् आसादयति | अथ न केनचिद् गृहीतम् भवति सो एव तेनार्थिको भवति किञ्चापि गृह्णाति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुण्य् उपाश्रये पुराणसंघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति उक्त्वा पश्चात् स्वयम् एव उपादीयेय निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म १७ निःसीवेति
SK
१७८. भगवान् श्रावस्तीयम् विहरति | अपराय दानि भिक्षुणीय पुराणसंघाटी ओमलिनमलिना धोवित्वा निःसीवित्वा आतपे दत्त्वा वातो च प्रवापितो | अग्निश् च उत्थितः | संघाटी दग्धा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति | पेयालं यावद् भगवान् आह | एवन् नाम त्वं पुराणसंघाटीं निःसीवित्वा न प्रतिसंधैसि न प्रतिसन्धापयसि | तेन हि प्रतिसन्धेतव्यं प्रतिसन्धापेतव्यं |
SK
एषा चार्थोत्पत्तिः | ता दानि भिक्षुणीयो शाकियकन्यायो मल्लकन्यायो लेच्छवि कन्यायो सुकुमारायो भारिकां संघाटिं धोवन्तीयो किलम्यन्ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचेति | यावद् भगवान् आह | तेन हि अनुजानामि षट्पञ्चरात्रं | अथ खलु भगवान् महाप्रजापतीम् गौतमीम् आमन्त्रयति | यावद् भगवान् आह |
SK
या पुन भिक्षुणी पुराणसंघाटिं निःसीवित्वा निःसिवापेत्वा वा उत्तरि षट्पञ्चरात्रम् अगिलाना न प्रतिसन्धाये न प्रतिसन्धापयेन निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पुराणसंघाटीति पुराणचीवरं | संघाटीति द्विपुटा | निःसीवित्वा ति स्वयं | निःसीवापेत्वा ति परेण | उत्तरीति षट्पञ्चरात्रम् इति न दानि षट्पञ्च च | अथ खलु परमं षट्रात्रन् न प्रतिसन्धेयैति स्वयं न प्रतिसन्धापेया ति परेण | न प्रतिसन्धापेयन् निस्सर्गिकपाचत्तिकं | पेयालं | यावत् प्रज्ञप्तिः |
SK
एषा दानि भिक्षुणीये संघाटी मलिना भवति | यदि ताव लहुका भोति तथा येव धोवितव्या | न क्षमति निःसीवयितुं | अथ दानि सारिका भोति निःसीवेत्वा निःसीवित्वा धोवितव्या | प्रत्यर्गलकानि दत्त्वा आतपे दातव्या | साहरित्वा गोपिटके वा कुण्डके वा पटलके वा स्थापयित्वा काष्ठखण्डेन वा उपलखण्डेन वा आक्रमितव्या | न क्षमति प्रकीर्णम् ओसारयितुं | अथ दानि भाजनन् न भवति एकस्थाने आक्रमिय इष्टकेन वा उपलखण्डेन वा स्थापयितव्या | पश्चाद् अन्तेवासिणीय वा समानोपाध्यायिनीया वा भिक्षुणीय प्रतिसन्धापयितव्या स्वयम् वा प्रतिसन्धेतव्या | अथ दानि जरादुर्बला व्याधिदुर्बला वा भवति किञ्चापि चिरेण प्रतिसन्धेति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी पुराणसंघाटीन् निःसीवित्वा वा निःसीवापेत्वा वा उत्तरि षट्पञ्चरात्रं अग्लाना न प्रतिसन्धे वा न प्रतिसन्धापेय वा निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म १८
SK
उक्त्वा शिक्षमाणां
SK
१७९. भगवान् श्रावस्तीयम् विहरति | अपरा दानि शिक्षमाना उपसम्पाद्या | सा दानि स्थूलनन्दां भिक्षुणीम् आह | आर्ये नन्दे उपसम्पादय मां | सा आह | यदि चीवरम् देसि ततो हम् उपसम्पादेमि | ताय दानि तस्याश् चीवरं दत्तं | सा दान् आह | आर्ये उपसम्पादय मां | सा विलक्षेति | सा भिक्षुणीनाम् आह | एवम् एव याव सा विलक्षेति नोपसम्पादेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी शिक्षमाणाम् एवम् उक्त्वा यदि मे चीवरं देसि ततो हम् उपसम्पादयिष्यामीति ताये चीवरं गृह्य नोपसम्पादयेन् निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | शिक्षमाणा ति देशितशिक्षा | यदि मे चीवरं देसि ततो हम् उपसम्पादयिष्यन् ति | चीवरन् ति चीवरं नाम कम्बलं कर्पासं यावत् संकक्षिका | उपस्थापयिष्यन् ति उपसंपादयिष्यं | सा तं चीवरं गृह्णित्वा ति यथा स्थूलनन्दा भिक्षुणी न उपसम्पादयेद् इति स्वयन् न उपसम्पादयेत् निःसर्गिकपाचत्तिकं | यावत् प्रज्ञप्तिः | एषा ताव भिक्षुणी शिक्ष्यमाणाया चीवरं गृह्णाति | अहन् ते उपसम्पादयिष्यामीति | ताय उपसंस्थापयितव्या | अथ दानि अप्रतिबला भवति जरादुर्बला व्याधिदुर्बला वा अन्या अध्येषितव्या | वक्तव्या एतस्या मया चीवरं गृहीत्वा इमाम् उपस्थापेहि | अथ सा नेच्छति तं चीवरं प्रतिदातव्यं | गच्छ यत्रेच्छसि तत्र उपसंपद्याहीति | सा एषा भिक्षुणी चीवरं गृहीत्वा न उपस्थापेति न चीवरं प्रतिददाति निःसर्गिकपाचत्तिकं | भिक्षुर् अपि विनयातिक्रमः | तेन भगवान् आह |
SK
या पुन भिक्षुणी शिक्षमानाम् एवं वदित्वा यदि मे चीवररं देसि ततो हम् उपसंपादयिष्यन् ति तस्याश् चीवरं प्रतिगृह्णीत्वा न उपसंपादयेन् निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म १९
SK
गुरुप्रावरणं
SK
१८०. भगवान् वैशालीयम् विहरति | अपरो दानि वाणिजको शतसहस्रमूल्यं कम्बलरतनम् आदाय उत्तरा पथातो आगतो | सो दानि अपरेहि पृच्छितो किम् अस्य मूल्यं | आह | शतसहस्रमूल्यन् ति | नैव राजा क्रीणाति न राजपुत्राः न वणिजाः न सार्थवाहाः | सो दानि वाणिजको वीथीम् अभिरुहित्वा चिन्तासागरम् अनुप्रविष्टो आसति | इमं महार्घं मूल्यं भाण्डं बहुशुल्कं न विक्रायति | अपरो दानि पृच्छति | विक्रीतं ते भाण्डं | आह | नहि इच्छसि विक्रीणितुं | आह | इच्छामि | आह | गच्छ एषा भद्रा नाम श्रमणिका सा क्रीणीष्यति | सो दानि तं चेटकस्य स्कन्धे आरोपयित्वा भिक्षुणी विहारं गत्वा पृच्छति | कतमं आर्याये भद्राये परिवेणं | अपराहि भिक्षुणीहि आख्यातं | सो दानि प्रविश्य आह | वन्दाम्य् आर्ये आर्या भद्रानाम आह | बाढं | किं कर्तव्यं | आह | इमं कम्बलरतनं विक्रेयं विक्रीणामि | आह | किम् एतस्य मूल्यं | आह | शतसहस्रं | सा दानि न पणेति न पणापेति | अन्तेवासिनीये आह | गच्छ सालोहितं जल्पाहि इमस्य शतसहस्रं वीथीकातो दापेहीति | सो दानि अपरेहि पृच्छितो | विक्रीतं ते भाण्डं | आह | विक्रीतं | आह | केन क्रीतं | आह | एषा भद्रा नाम श्रमणिका | ताय क्रीतं | ते दानि ओज्झायन्ति | अद्याप्य् एषा प्रव्रजिता पि महच्छन्दा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचेति | भगवान् आह | शब्दापयथ भद्रां | सा दानि शब्दापिता | तद् एव सर्वं यावद् आम् भगवन् | भगवान् आह | ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या | तेन हि न क्षमति उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयितुं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी उत्तरि चतुष्कर्षेण गुरुप्रावरणं चेतापयति ङिस्सर्गिकपाचत्तिकं |
SK
उत्तरि चतुष्कर्षेणेति कर्षो नाम चत्वारः पुराणाः | चत्वारः कार्षाः षोडषकार्षापणाः | गुरुप्रावरणम् इति कम्बलरत्नं | चेतापयेद् इति जानापयेत् | तद् उत्तरिं परं षोडषेहि पुराणेहि चेतापयति निःसर्गिकपाचत्तिकं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी गुरुप्रावरणं चेतापयितुकामा भवति चतुष्कर्षमूल्यं जानापयितव्यं | प्रत्यवरो वा तद् उत्तरिं न क्षमति |
SK
अथ दानि कोचिद् अयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति प्रतिगृह्णात्य् अनापत्तिः | तद् एवं भिक्षुणीये परिमाणबद्धं | किञ्चापि भिक्षुर् महार्घमूल्यं पि जानापयित्वा परिभुञ्जात्य् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी उत्तरि चतुष्कर्षमूल्यातो गुरुप्रावरणं चेतापयेन् निःसर्गिकपाचत्तिकं |
SK
निःसर्गिकपाचत्तिकधर्म २०
SK
सुखुमं
SK
१८१. भगवान् वैशालीयं विहरति | अपरो दानि वाणिजको दक्षिणपथातो आगतो | दशसहस्रमूल्यं हंसलक्षणपटम् आदाय | सो दानि अपरेहि पृच्छितो | किं मूल्यं | आह | दशपुराणसहस्राणि | नैव राजा क्रीणाति | पेयालं | यावद् अत्र भद्रा नाम श्रमणिका | सा क्रीणिष्यति | सो दानि तम् आदाय भिक्षुणीविहारं गतो | पृच्छति | कतमं आर्याये भद्राये परिवेणं | अपराहि आख्यातं | सो दानि प्रविश्य आह | वन्दाम्य् आर्ये आर्या भद्रा नाम | आह | बाढं | किं कर्तव्यं | आह | अयं हंसलक्षणो पटो विक्रायति | आह | किम् एतस्य मूल्यम् | आह दशपुराण सहस्राणि | सा न स्वयं पणेति न पणापेति | अन्तेवासिनीम् आह | गच्छ सालोहितं जल्पाहि इमस्य पीठिकातो दशपुराणसहस्राणि देहीति | सो दानि अपरेहि पृच्छितो विक्रीतं ते भाण्डं | आह | विक्रीतं | आह | केन क्रीतं | एषा तु भद्रा नाम श्रमणिका | ताय क्रीतं | ते दानि ओज्झायन्ति | अद्याप्य् एषा प्रव्रजिता पि महच्छन्दा |
SK
एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचयति | यावद् भगवान् आह | ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या | तेन हि न क्षमति उत्तरि अड्ढातिय कर्षमूल्यातो सुखुमं चीवरं चेतापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सूक्ष्मं चीवरं चेतापयेन् निस्सर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | उत्तरिन् ति अतिरेक | अड्ढातियकर्षन् ति | कर्षो नाम चत्वारः पुराणाः | चतापयेद् इति जानापयेन् | निःसर्गिक पाचत्तिकं यावत् या पुन भिक्षुणी सुखुमं चीवरं जानापयति दशपुराणमूल्यं जानापयितव्यं | प्रत्य् अवरं वा | एतं भिक्षुणीये परिमाणबद्धं | अथ दानी कोचिद् अयाचितो अविज्ञप्तो महार्घमूल्यं पि ददाति शतिकम् वा साहस्रिकम् वा यदि किञ्चापि परिभुञ्जाति अनापत्तिः | किञ्चापि भिक्षु शतसहस्रमूल्यं पि जानापयत्य् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी उत्तरि अड्ढातियकर्षमूल्यातो सुखुमं चीवरं चेतापयेन् निःसर्गिकपाचत्तिकं | उद्दानं |
SK
शय्यासनस्यार्थाय [११] | अन्योद्देशिको [१२] | अन्येषां [१३] | पात्राणां सन्निचयो [१४] | ऽथ चीवरं [१५] | निःशृजाति [१६] | निःसीवेति [१७] उक्त्वा शिक्षमाणां [१८] | गुरुप्रावरणं [१९] | सुखुमं [२०] ||
SK
द्वितीयो वर्गः |
SK
निःसर्गिकपाचत्तिकधर्म २९ परोपगतं
SK
१८२. भगवान् श्रावस्तीयं विहरति | अपरो दानि मनुष्यो काष्ठवाणिज्यां करोति | सो दानि काष्ठवाहम् आदाय अन्तरापणम् ओकस्तो | आपणिको आह | किं काष्ठवाहस्य मूल्यं | आह | कार्षापणं गच्छ गृहद्वारे अवतारिया गच्छाहि | इतो येव कार्षापणं गृहीत्वा यास्यसीति | भवति च शेषं व्यवहारकाले | सो दानि काष्ठवाहम् आदाय गच्छति | स्थूलनन्दा नाम भिक्षुणी उपाश्रयातो निःक्रमति | तया च दृष्टो | आह | दीर्घायु विक्रयो काष्ठवाहो | आह | विक्रीतो | आह | कथं विक्रीतो | आह | कार्षापणेन | अहं द्वौ कार्षापणा दास्यामि | सो दानि मनुष्य पश्यति यद्य् अहं द्वौ कार्षापणा लभामि मह्ऽअर्घम् मया विक्रीतं भविष्यति | सो तं अधिकरित्वा काष्ठवाहमूल्यं गृह्णिय शकटम् आरुहित्वा तस्यापणिकस्याग्रतेनोपयाति | सो दान् आह | आगच्छ कार्षापणं गृह्णाहि | सो दान् आह | मया अन्यंहि विक्रीतो | सो दान् आह | कथं | विक्रीतो | आह | द्वाभ्यां कार्षापणाभ्यां | केन क्रीतो | आह | एषात्र नन्दा नाम श्रमणिका | तया क्रीतो | सो दानि ओज्झायति | कियन्तो ताये श्रमणिकाये कार्षापनाः | मया कार्षापणेन पणितं | सा द्विहि कार्षापणेहि पणेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति यावद् भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निःसर्गिकपाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रमणेन | परोपगतं ति परेण गृहीतं | चेतापयेद् इति जानापयेत् | निस्सर्गिकपाचतिकं | पेयालं | एतं दानि आपणिकस्य वा प्रावरिकस्य वा किञ्चिद् भाण्डम् उपगतम् भवति | तेन च भिक्षुणी अर्थीका भवति न दानि क्षमति तहिं अन्तराययितुं | यतति निस्सर्गिकं भवति | अथ खु एका श्च स्थित्वा प्रतिपालयितव्यं | यदानेन प्रतिमुक्तं | भवति ततो सो पृच्छितव्यो वक्तव्यो | किं त्वया मुक्तो | यदि तावद् आह | परिमण्डाम्य् अहं मे भन्ते | न क्षमति जानापयितुं | अथ दान् आह | जानापयतु आर्ये नाहम् अर्थिको एतेनेति | जानापयति अनापतिः | अथ दानि भिक्षुणीये किञ्चिद् उपक्रेयम् भवति पात्रम् वा चीवरम् वा न क्षमति अन्तरा यतितुं | यतति विनयातिक्रमः | अथ दानि संघमध्ये वड्ढो वड्ढिकाय जानापयति अनापत्तिः | भिक्षुर् अपि परोपगतं चेतापयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निस्सर्गिकपाचत्तिकं |
SK
शेषा साधारणा | उद्दानं |
SK
पात्र [२१] | बन्धन] [२२] | भैषज्यं [२३] | आच्छेदो [२४] | विकृति [२५] | सूत्रेण | तन्त्र वायेन] द्वे [२६, २७] | द] शाहानागतं [२८] | पर] [२९] | परिणामनेन [३०] ||
SK
तृतीयो वर्गः |
SK
तत्र त्रयो न मत वर्गात् | स्वहस्तं क्रयविक्रयो विकृतिश् च |
SK
वर्गावशेषाः | चतुर्थं च भिक्षुणीनां प्रतिग्रहं उद्धरित्वा न जातरूपं समोदहेत् | धोवनाम् उद्धरित्वा न क्रयविक्रयं | तत्र निर्दिष्टं | शाटिकाम् उद्धरित्वा न विकृतिं | विज्ञः समोदहे | तत्र उत्क्षिप्य अरण्यवासं न परोपगतं |
SK
तत्र निर्दिष्टा त्रिंशद् दश च अनूनाः कारणे समुत्पन्ने नैःसर्गिक भगवता निर्दिष्टा भिक्षुणीसूत्रे ||
SK
समाप्ता त्रिंशन् नैस्सर्गिकाः ||
SK
पाचत्तिका धर्मा १७०
SK
१८३. इमे खो पुनर् आर्येमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः | अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशम् उद्दानं |
SK
मृष [१] | उष्ट्रस्य [२] | पैशुन्यम् [३] | उद्घाटनं [४] | संचिन्त्य तिर्यग्योनि [५] | पदशो [६] | उत्तरि मनुधर्मे [७] | आरोचनाय [८] | यथासंस्तुत [९] विगर्हणाय च [१०] ||
SK
प्रथमो वर्गः |
SK
उद्दानं | बीजं [११] अन्यवादम् [१२] | ओध्यापन [१३] | मञ्च [१४] शय्या [१५] निकड्ढनं [१६] | पूर्वोपगतं [१७] | वैहायसं [१८] | उदके [१९] | कौकृत्येन [२०] ||
SK
द्वितीयो वर्गः ||
SK
उद्दानं | अवसथो [२१] | परंपर [२२] | प्रावरणा [२४] | अप्रत्युद्धारम् [२३] | अदिन्नं [२५] | विकालो [२६] | सन्निधि [२७] | मच्छा (मन्थ) [२८] | अपनिहे [२९] | गणभोजनेन [३०] ||
SK
तृतीयो वर्गः ||
SK
उद्दानं |
SK
ज्योतिः [३१] | सहकार (सहगार) [३२] | च्छन्दम् [३३] | उद्योजना [३४] | त्रयो न्तरायिका [३५] | [३६] | [३७] | [अ]कृतकल्प [३८] | रतन [३९] | भीषनेन [४०] ||
SK
चतुर्थो वर्गः ||
SK
उद्दानं | सप्राणकम् [४१] | अचेलके [४२] | अनुपखज्ज [४३] | प्रतिच्छन्नासनं [४४] | त्रयो सेनायां [४५] | [४६] | [४७] | प्रहरति [४८] | तलशक्तिका [४९] | उदकहास्येन [५०] ||
SK
पञ्चमो वर्गः ||
SK
उद्दानं | अङ्गुलिप्रतोद [५१] | स्तेयसार्थो [५२] | पृथिवी [५३] | प्रवारणा [५४] | न शिक्षिष्यं [५५] | मद्यपानं [५६] | नादर्य [५७] | उपश्रोत्र [५८] | विनिश्चय [५९] | संमोहेन [६०] ||
SK
षष्ठो वर्गः ||
SK
उद्दानं | सभक्तो [६१] | राज्ञः [६२] | सूचीगृहं [६३] | मञ्च [६४] | तूल [६५] | निषीदनं [६६] | कण्डुप्रतिच्छादनं [६७] | सुगतचीवरं [६८] | अभ्याख्यानं [६९] | परिणामनेन [७०] ||
SK
सप्तमो वर्गः ||
SK
एते सप्त वर्गाः साधारणाः | यथा येव भिक्षुणा तथा येव कर्तव्याः |
SK
पाचत्तिकधर्म ७१
SK
संक्रमणं
SK
१८४. भगवान् वैशालीयं विहरति | अथ भद्रा कापिलेयी अन्तेवासिनीये अप्रतिसंविदिता संघाटिं प्रावरित्वा ज्ञातिकुलं गता | भिक्षुणीयो गोचरं प्रस्थितायो | ता दान् आहंसुः | एह्य् आर्ये पिण्डपातं गच्छामः | आह | यावत् संघाटीं गृह्णामि | सा दानि मार्गयति आत्मनः संघाटिन् न पश्यति | ताये दानि भवति अवश्यम् आर्याय संघाटी प्रावरिता | अर्हति आर्या मम संघाटीं प्रावरित्वा गन्तुं | सा दान् आह | गच्छथ यूयं आर्यमिश्रिकायो नाहं गच्छामि किम् अर्थं | आर्या संघाटीं प्रावरित्वा गता | ता दान् आहंसुः | आर्याये संघाटीं प्रावरित्वा आगच्छाहीति | सा दान् आह | नोत्सहामि आर्या मम गुरुवरभावनीया चेति | न गता | सा छिन्नभक्ता संवृता | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवत आरोचयेत् | यावद् भगवान् आह | शब्दापयथ भद्रां | सा दानि शब्दपिता यावत् सत्यं भद्रेति | एतद् एव सर्वं | भगवान् विस्तरेण पृच्छति | यावद् एवन् नाम त्वं चीवरसंक्रमणं करोषि | दुष्कृतन् ते भद्रे | तेन हि न क्षमति चीवरसंक्रमणं कर्तुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | पेयालं | यावत् |
SK
या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात् पाचत्तिकं |
SK
या पुन भिक्षुणीति | पेयालं चीवरन् ति चीवरं नाम संघाटि यावत् दकशाटिका | संक्रमणन् ति अन्या अन्याय | पाचत्तिकं यावत् प्रज्ञप्तिः | न दानि क्षमति अन्तेवासिनीये अप्रतिसंविदिता संघाटीं प्रावरितुं | अथ दानि प्रावरति वक्तव्या इयम् मया संघाटी प्रावरिता | यदि प्रविशेषि मम संघाटीं प्रावरित्वा प्रविशेसि | अथातिरेकं चीवरम् भवति वक्तव्या | इयम् मया तव संघाटी प्रावरिता | यदि प्रविशेसि इमिना चीवरेण प्रविशेसीति |
SK
अथ दानि भिक्षुणी संघाटिं धोवेति वा सीवेति वा रञ्जेति वा | यदि प्रतिबला भवति तस्या अपि संविभागं कर्तव्यं | वक्तव्या | तिष्ठ त्वं इहेव अहन् तव पिण्डपातसंविभागं करिष्यामीति | भिक्षुणाप्य् एवं वक्तव्यं | न वदति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी चीवरसंक्रमणं कुर्यात् पाचत्तिकं |
SK
पाचत्तिकधर्म ७२
SK
श्रमणचीवरं
SK
१८५. भगवान् श्रावस्तीयं विहरति | राष्ट्रपाला भागिनेय | यस्यार्थोत्पत्ति विस्तरेण कर्तव्या |
SK
एषा एवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगरस्यानागरियं प्रव्रजिताः | गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदरो तीर्थिकेहि | सो दानि हस्तकम्बलेन प्रावृतो शीतेन खणखणायन्तो दन्तवीणिकां वादयन्तो विहारम् आगतो | स्नेहचरितो मातृग्रामो | सो दान् आह | पुत्र गर्तोदर शीत कितो सि | सो दान् आह | आम | ताय तस्य उत्तरासङ्गो सुरभो सुफोषितो दिन्नो प्रावरणाय | सो दानि प्रावरित्वा पानागारं गत्वा पिबन्तो आसति | जनो दनि ओज्झायति किम् एषां मिथ्यादृष्टिकानां विनिपतितानां यानगर्दभानां सुराभ्रष्टानां ऋषिध्वजनेन दिन्नेन भिक्षुणीहि श्रुतं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | शब्दापयथ गर्तोदरमातां | सा दानि शब्दापिता | तद् एव सर्वं | भगवान् विस्तरेण पृच्छति | यावद् आम् भगवन् | भगवान् आह दुष्कृतं ते गर्तोदरमाते | तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | पेयालं यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं प्रमाणचीवरं दद्यात् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | आगारिकस्येति गृहिणः | परिव्राजकस्येति गौतमजटिलकपर्यन्तं कृत्वा | स्वहस्तन् ति हस्तेन हस्तं | श्रमणचीवरन् ति ऋषिध्वजं | दद्यात् पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दातुं | अथ दानि भिक्षुणी भवति कृतपुण्या स्त्रियो दानि मङ्गलार्थाय दारकस्य दारिकाये वा काषाय खण्डं याचन्ति | न क्षमति स्वहस्तं दातुं कल्पियकारिकाय दातव्यं | भिक्षुर् अपि आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं देति विनयातिक्रमम् आसादयति | अथ दानि भिक्षुः कृतपुण्यो भवति यावत् कल्पियकारकेण दातव्यं | न क्षमति महान्तं पटं दातुं | अथ खु पोत्तिखण्डं दातव्यं | तेन भगवान् आह |
SK
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं श्रमणचीवरं दद्यात् पाचत्तिकं |
SK
१८६. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि कुमारीनिवस्तं निवासेन्ति | जनो दानि ओज्झायति | एतं प्रकरणं भिक्षुणीहि श्रुतं | भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | तेन हि न क्षमति कुमारीनिवस्तेन अन्तरगृहं प्रविशितुं | भगवता दानि अन्तरवासो ऽनुज्ञातो | भिक्षुणीयो दानि यथागतान् पटान् नवान् तन्त्रोद्गतान् पुष्पदशान् अन्तरवासं कुर्वन्ति | भगवान् आह | प्रामाणिको कर्तव्यो | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपात्य गौतमीये यावत् |
SK
अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिको कारापयितव्यो तत्रेदं प्रमाणं दीर्घसो चत्वारि वितस्तियो | सुगत वितस्तिना | तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं |
SK
पाचत्तिकधर्म ७३, ७४
SK
अन्तर्वासन् ति यत् तद् भगवतानुज्ञातं | भिक्षुणीय कारापयन्तीयेति स्वयं वा कुर्यात् परेण वा कारापयेत् | तत्रेदं प्रमाणं दीर्घशो ति आयामो | विस्तरो ति तिर्यग् चत्वारि वितस्तियो | सुगतवितस्तिना ति तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्यर्धो मञ्चकपादो तद् उत्तरिम् कारापयेद् इति परं प्रमाणतो च्छेदनपाचत्तिकं | यावत् प्रज्ञप्तिः |
SK
सा एषा भिक्षुणी दीर्घशो करोति प्रामाणिकं तिर्यक् करोति अतिरेकं | एवं करोति कारापेति निष्ठापनान्तिकं आपत्तिः | कृतं लभति परिभोगान्तिकं विनयातिक्रमम् आसादयति | एवं तिर्यक् करोति प्रामाणिकं दीर्घशो करोति अतिरेकं | अन्ते करोति प्रामाणिकं मध्ये करोति अतिरेकं | मध्ये करोति प्रामाणिकं अन्ते करोति अतिरेकं | द्विगुणं मापेति उदकेन संकुचति संकुचितं मापेति उदकेन फोषेति शुष्कं वड्ढिष्यतीति पाचत्तिकम् आसादयति | तेन भगवान् आह |
SK
अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिकं कारापयितव्यं तत्रेदं प्रमाणं | दीर्घशो चत्वारि वितस्तियो | सुगतवितस्तिना | तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं ||
SK
पाचत्तिकधर्म ७४
SK
संकक्षिका
SK
१८७. भगवान् श्रावस्तीयं विहरति | अपरा दानि भिक्षुणी प्रासादिका दर्शनीया | ताये दानि पीनेहि स्तनेहि चीवरम् उत्क्षिप्तं | सा मनुष्येहि उच्चग्घीयति | पश्यथ भणे श्रमणिकाय कीदृशं चीवरम् उत्क्षिप्तं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | तेन हि संकक्षिका नाम कर्तव्या | भगवता दानि संकक्षिका अनुज्ञाता | भिक्षुणीयो तथागतान् पटान् पुष्पदशान् संकक्षिकां कुर्वन्ति | यावत् तेन हि न क्षमति तथागतान् पटान् पुष्पदशान् संकक्षिकां कर्तुं | यावत् तेन हि प्रामाणिका कर्तव्या | यथान्तर्वासे तथैव कर्तव्यं | यावत् तेन भगवान् आह |
SK
संकक्षिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या तत्रेदं प्रमाणं | दीर्घशो चत्वारि वितस्तियो | सुगतवितस्तिना | तिर्यग् द्वे | तद् उत्तरिं कारापेय च्छेदनपाचत्तिकं | ण्क ||
SK
दकशाटिका
SK
१८८. वैशाल्यां निदानं | भद्रा दानि कापिलेयी सर्पिणिकां नदीं स्नानाय गता | चीवरन् निक्षिपित्वा अवतीर्णा स्नानाय | पञ्च लिच्छविकुमाराः ताये प्रतिबद्धचित्ताः नदीतीरे स्थिताः | भद्राये अङ्गयष्टिं पश्यितुकामाः | सा दान् आह दीर्घायुः गच्छथ गच्छथ यावद् अहम् उत्तरामि | ता दान् आहंसुः | नहि | आर्याये वयम् अङ्गयष्टिं पश्यितुकामाः | सा दान् आह | दिर्घायुः किम् अनेन पूतिकायेन नवद्वारेणाशुचिप्रघरन्तेन दृष्टेन | प्रक्रमथ यावद् अहम् उत्तरामि | ते दान् आहंसुः | नहि नहि | आर्याये वयम् अङ्गयष्टिं पश्यितुकामाः | ते दानि यदा न गच्छन्ति चिरञ् च भवति | सा दानि अन्धो बालजनो ति कृत्वा एकं हस्तम् अग्रतो कृत्वा अपरं पृष्ठतः कृत्वा उत्तीर्णा | ते तां विवसनां दृष्ट्वा मूर्च्छिताः पतिताः | उष्णं शोणितम् मुखाद् आगतं | कालगतं कालगताः | एतं प्रकरणं | पेयालं | यावद् भिक्षुणीयो भगवन्तम् आहंसुः | पश्य भगवन् कथम् इय पञ्च लिच्छविकुमाराः प्रतिबद्धचित्ताः भद्रायां मूर्च्छिताः पतिताः | भगवान् आह | नैतर्हि येव एते भद्रायां प्रतिबद्धचित्ताः मूर्च्छिताः पतिताः | अन्यदाप्य् एते भद्रायां प्रतिबद्धचित्ताः अन्यदापि भगवन् अन्यदापि भिक्षुणीयो |
SK
भूतपूर्वं भिक्षुणीयो अतीतम् अध्वानं यावत् त्रिंशभवने | अन्यतरस्मिं भवने भरणी नाम अप्सरा उपपन्ना | प्रासादिका दर्शनीया अतिरिवान्यासाम् अप्सराणां अभिभूय भासते | अतिरिवान्यासाम् अप्सराणां अभिभूय भासते तपति विराजते | तस्याः पञ्च देवपुत्राः प्रतिबद्धचित्ताः | शक्रश् च नाम देवानाम् इन्द्रः | मातलिसंग्राहको | जयो | विजयो | खाणु देवपुत्रो पञ्चमः | ते दान् आहंसुः | न तावद् एषा शक्या अस्माभिः पञ्चधा कर्तुं | एष गाथां कुर्मः | यो ऽत्र सर्वसुष्ठु अध्यवसितो भविष्यति स ग्रहीष्यतीति |
SK
शक्रो देवानाम् इन्द्रो गाथां भाषते | उत्थितो वा निषण्णो वा आसने न लभते सुखं | शयितो च सुखं लभे यदा कामा जहन्ति मा || [१] ||
SK
मातलि संग्राहको गाथां भाषयति | सुखं त्वम् असि देवेन्द्र यं सुप्तो लभसे सुखं | भेर्या संग्रामशीर्षे वा सदा कामा हनन्ति मां || [२] ||
SK
जयो देवपुत्रो गाथां भषते | भेर्यास् तु हन्यमानाया भवेद् वीची मुहुर् मुहुः | काष्ठस्रोता उपपन्नं वा सदा कामा हनन्ति मे || [३] ||
SK
विजयो देवपुत्रो गाथां भाषते | काष्ठस्य वुह्यमानस्य भोति संगोजातु तहिं | पतङ्गस्येव अक्षीणि नित्यम् उन्मिलिता मम || [४] ||
SK
खाणु देवपुत्रो गाथां भाषते | सर्वे भवन्तो सुखिता येषां गाथा प्रतिभान्ति | अहं खलु न जानामि किं जीवामि मरामि वा || [५] ||
SK
ते देवपुत्रा आहंसुः | त्वं सुष्ठु अध्यवसितो तथैव एषा भरणी | युष्माकं भवतु देवी या सर्वअङ्गशोभना || [६] ||
SK
भगवान् आह | स्याद् वो भिक्षुणियो युष्माकम् एवम् अस्याद् अन्या सा भरणी नाम अप्सरा अभूषि | नैतद् एवं द्रष्टव्यं | एषा सा भद्रा अप्सरा अभूषि | अन्ये ते देवपुत्राः एतद् एव ते पञ्च लिच्छविकुमाराः | तदाप्य् एते एताय प्रतिबद्धचित्ताः | एतर्ह्य् अप्य् एते एताय प्रतिबद्धचित्ताः | भिक्षुणीयो आहंसुः | कस्य भगवन् कर्मणो विपाकेन भद्रा प्रासादिका दर्शनीया महाकुलीना महेशाख्या महाभोगा क्षिप्राधिगमा च | अथ खलु भगवान् भद्रां कापिलेयीम् आमन्त्रयति | प्रतिभातु ते भद्रे भिक्षुणीनाम् आत्मोपनायिकां पूर्वेनिवासप्रतिसंयुक्तां कथां | अथ खलु भद्रा अनेकविधं पूर्वेनिवासम् अनुस्मरन्ती भिक्षुणीयो आमन्त्रेति |
SK
भूतपूर्वं भगिन्यः अतीतम् अध्वानं नगरं वाराणसी काशीजनपदो | तत्र दानि स्त्री अभूषि दरिद्रा | सा दानि अन्यतराय श्रेष्ठिभार्याय शब्दापिता केशान् प्रसाधनाय | सा ताये श्रेष्ठिभार्याये केशान् प्रसाधयति |
SK
बुद्धानां भगवताम् अनुत्पादात् प्रत्येकबुद्धा उत्पद्यन्ते |
SK
अथ शुण्ठीक नाम प्रत्येकबुद्धो पिण्डपाताय चरन्तो तस्मिन् गृहे पिण्डाय प्रविष्टो | प्रत्येकबुद्धस् तूष्णीम् एव तिष्ठति | न कोचिद् आलापिय देति | सा दानि स्त्री तां श्रेष्ठिभार्यां आह | देहि एतस्य भिक्षां | सा श्रेष्ठिभार्या ऊर्ध्वम् अवलोकयित्वा आह | का इमस्यैवं दुर्वर्णस्य अल्पेशाख्यस्य भिक्षान् दास्यति | सा जल्पति | न एते कायप्रासादिका इच्छीयन्ति | चित्तप्रासादिका एते इच्छीयन्ति | सा दान् आह | नो तस्य देमि | सा दानि दरिद्रा स्त्री आह | आर्यधीते देहि मे यन् ममाद्यभक्तं त्वया दातव्यम् तम् अहम् इमस्य ददामि | ताय दानि आज्ञप्तं | यन् तवाद्यभक्तं प्रापुणति तं गृहीत्वा उदके प्रक्षिपाहि एतस्य वा देहीति | ताय तं भक्तं प्रतिलद्भं | हस्तस्यैवं कृत्वा प्रसादेन तस्य प्रत्येकबुद्धस्य दत्तं | स प्रत्येकबुद्धस् वत एव वैहायसे प्रक्रान्तः | सा दानि दृष्ट्वा तुष्टा उदग्रा आत्तमना गृहं प्रविष्टा | श्रेष्ठिना च दृष्टो गृहातो ऋषी वैहायसेन प्रक्रान्तो | ततः श्रेष्ठि गृहं प्रविष्टो पृच्छति | कोचिद् इह ऋषिः प्रविष्टः | आह | प्रविष्टो | आह | किञ्चित् तस्य दत्तं | आह | नहि | इमाय दरिद्रस्त्रियाय दत्तं श्रेष्ठी उत्कण्ठितो ईदृशो दक्षिणीयो मम गृहं प्रविष्टो न च संमानितो | सो दानि श्रेष्ठी तां स्त्रियम् आह | देहि मे एतं पुण्यं यं त्वया अद्य सञ्चितं | ददामि ते प्रभूतं हिरण्यं सुवर्णं | सा दान् आह |
SK
क्षीयति सर्वं धनधान्यं जातरूपं रजतं च | न क्षीयन्ते पुण्येफलं दत्तं मुनीनां सर्वथा | [७] ||
SK
यद् अहम् एवं दरिद्रा पर वक्तव्या अन्यथा | एतादृशानाम् अदर्शनात् असंविभागाच् च भोगानां | [८] | दुर्वर्णताय मुच्ये हं अवैकल्यता च भोगेहि | मा परदत्तजीविनी आवशा परकुलेहि | [९] ||
SK
एवं चङ्क्रमेयं न भे यथा चङ्क्रमसे वीर | एवं सीया वीतरागा भवबन्धनविमुक्ता | [१०] ||
SK
पारत्रिकं सुनिहितं अवैकल्यता हृष्टा | भवामि मुदिता [ः ः] दत्त्वा ऋषिस्य आहारं | [११] ||
SK
इतो च्यवित्वा उपपद्यिष्यं नन्दने रम्ये तत्र प्रविचारिष्यं देवगणसमाकुले | ||
SK
भक्तं समये दानं दत्तं मया सुविहितस्य दुःखप्रहाणाय || [१२] ||
SK
अथ श्रेष्ठिना सा भार्या अवसादिता | सा दरिद्रा स्त्री भट्टारिका स्थापिता |
SK
स्याद् वो भगिन्यः अन्या सा दरिद्रा स्त्री नैतद् एवं द्रष्टव्यं | अहम् एव सा दरिद्रा स्त्री | यं सो मया प्रत्येकबुद्धो पिण्डपातेन प्रतिमानितो प्रसन्नचित्ताय तस्य कर्मणो विपाकेनाहं प्रासादिका | पेयालं | अपि तु भगिन्यः नैतद् एवं मया कुशलमूलम् अवरोपितं येनाहं प्रासादिका दर्शनीया | क्षिप्राधिगमा च | अन्यदा पि मया कुशलमूलं अवरोपितं | १८९. भूतपूर्वं भगिन्यो ऽतीते ऽध्वनि वाराणसीयं नगरे कायचि स्त्रियाय लोहचक्रं पटलके कृत्वा पुष्पेहि ओकिरित्वा काशिकेन वस्त्रेण प्रतिच्छादेयित्वा भगवतो काश्यपस्य दत्तं | दत्त्वा च प्रणिधानम् अकार्षीत् | रथस्य चक्रं सनाभिनेमिकं वस्त्रोत्तमेन प्रतिच्छादयित्वा ये मुनिवरसाक्षिकृता हि धर्मा अहम् अपि तं साक्षिकरोमि धर्मं | सा दानि केनचित् कार्येण अपराधिनी स्वामिना अवसादिता | सा दानि उत्कण्ठिता | आह | धिग् अस्तु स्त्रीभावः | परिभूतो मातृग्रामः | गच्छामि उद्बन्धिष्यं | सा रज्जुम् आदाय निर्गता | तत्र च नातिदूरे भगवतो काश्यपस्य स्तूपं दृष्ट्वा प्रसादजाता | अलङ्कारविभूषिता काशिकवस्त्रप्रावृता चन्दानुलिप्तगात्रा सा चिन्तयति | अहं मरिष्यं | भगवतो काश्यपस्य स्तूपे पूजां करिष्यं | सा प्रसन्नचित्ता तानि अलङ्काराणि मुञ्चित्वा स्तूपे अवकिरित्वा काशिकेन वस्त्रेणाच्छादयित्वा चन्दनेनानुलिम्पित्वा प्रणिधानं अकार्षीत् | अनागते ऽध्वनि एवम्विधं शास्तारम् आरागीयेयं | स च मे धर्मन् देशेय तस्याहं धर्मन् देशितम् आजानेयन् ति | सा तहिम् उद्बन्धित्वा कालगता | तावत्त्रिंशभवने उपपन्ना | अप्सरसहस्रपरिवृता सा तहिं यावदायुः स्थित्वा ततश् च्यवित्वा मनुष्येषूपपन्नाः | वैशलीयं कापिलस्य गोत्रस्य ब्राह्मणकुले उपपन्ना | ताये दानि ज्ञातिकेहि भद्रेति नाम कृतं | अनर्थिका कामगुणेहि पञ्चहि या निष्क्रमित्वा प्रव्रजिता सर्वास्रवक्षयम् अकार्षीत् | काशिकानि वस्त्राणि प्रत्यग्रं चानुलेपनं भगवतो काश्यपस्य या प्रसन्नाभिरोपयेत् | सा कापिलेयी भगवतो पादां वन्दति शास्तुनो | यावद् भगवान् आह | तेन हि दकशाटिका नाम कर्तव्या | भिक्षुणीयो आहंसुः | पश्य भगवन् कथम् इयं भद्रा स्थविरमहाकाश्यपेन सार्धं प्रव्रजिता | भगवान् आह | न एतर्हि येव एते उभये प्रव्रजिता | अन्यदाप्य् एते उभये प्रव्रजिताः | अन्यदापि भगवन् अन्यदापि भिक्षुणीयो |
SK
भूतपूर्वं भिक्षुणीयो अतीतम् अध्वानं चत्वारो राजऋषयः कुम्भकारकुले वासम् उपगताः |
SK
खाणुवर्णः कलिङ्गानां गन्धारानाञ् च भार्गवो | निमी राजा विदेहानां उग्रसेनश् च क्षत्रियः || [१३] ||
SK
एते चत्वारो राजऋषयः उग्रतेजा महाबला कुम्भकारकुले वास एकरात्रम् उपागमत् | कुम्भकारम् उपसम्क्रम्य तान् एव परिपृच्छति | किं दृष्ट्वा श्रुत्वा वा प्रव्रज्याम् आरोचथ |
SK
खाणुवर्णः महाराजा कलिङ्गानां नरऋषभः | पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् || [१४] ||
SK
शङ्खां सुवर्णोत्तरनिष्ठितान् नारि | पिनन्धन पिनन्धति शब्द द्वितीया तु समागता यतो रमागता यतो संसर्गदोषं दृष्ट्वा श्रुत्वा च भिक्षुचर्याञ् चरामि || [१५] ||
SK
भार्गवो पि महाराजा गन्धाराणां नरर्षभः | पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् || [१६] ||
SK
द्विजा तु कुणपस्य कारणा | एकस्यास्ति बहुका पतन्ति | आहारहेतोः परिधावन्ति | तां दृष्ट्वा भिक्षुचर्याञ् चरामि || [१७] ||
SK
निमी अपि महाराजा वैदेहो मिथिलाधिपः | पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् || [१८] ||
SK
अह् अदृशी मेघसमानवर्णां | तेलापकांश च्छुरितान् समानान् | ताम् एव फलहेतोर् विभग्नगतां दृष्ट्वा संविग्नो भिक्षुचर्याञ् चरामि || [१९] ||
SK
उग्रसेनो पि महाराजा क्षत्रियाणां नरर्षभो | पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत् || [२०] ||
SK
र्षभस् तादृशाय शोभाय मध्ये | चलत्ककुदवर्णेन वपुषा उपेतो | तम् अदृशासि कामहेतोर् विभग्न | भग्नं तं दृष्ट्वा भिक्षुचर्याम् चरामि || [२१] ||
SK
सर्वे इमे देवसमा समागताः | अग्निर् यथा प्रज्वलितो निशाय | अहं अपि प्रव्रजिष्यं ..... | अपहाय कामानि मनोरमाणि || [२२] ||
SK
कुम्भकारभार्या कथयति | अयम् एव कालो नहि अन्यद् अस्ति | अनुशासको नास्ति इतो बहिर्धा | अहं अपि प्रव्रजिष्यं | पुत्रका मह्यं कहिं गमिष्यन्ति || [२३] ||
SK
आमं पक्वन् न जानन्ति अथ लोणम् अलोणकं | शकुनीव मुक्ता पुरुषस्य हस्तात् | अजातपक्षा बाला पुत्रका अजानकाः || [२४] ||
SK
प्रव्रजितम् अनुप्रव्रजामि चरन्तम् अनुचराम्य् अहं || [२५] ||
SK
निमी राजा बोधिसत्त्वः कलिङ्ग पि शारिसुतः | उग्रसेनश् च मौद्गल्यो आनन्दो आसि भार्गवो | कुम्भकारः काश्यपो आसि भद्रा सा कुम्भकारिका || [२६] ||
SK
तदाप्य् एते उभये प्रव्रजिताः | एतर्ह्य् अप्य् एते उभय प्रव्रजिताः || [२७] ||
SK
भगवता दानि भिक्षुणीनाम् उदकशाटिका अनुज्ञाता | भिक्षुणीयो दानि तथागतान् पटान् दकशाटिकां कुर्वन्ति | भगवान् आह | तेन हि न क्षमति यथागतं पटं दकशाटिकां कर्तुं | यावच् छिक्षापदं प्रज्ञप्तं |
SK
दकेशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या | तत्रेदं प्रमाणन् | दीर्घशो चत्वारि वितस्तियो | सुगतवितस्तिना | तिर्यग् द्वे तद् उत्तरिं कारापये च्छेदनपाचत्तिकं |
SK
दकशाटिका ति या सा भगवता अनुज्ञाता | कारापयन्तीये ति स्वयं कुर्यात् परेण वा कारापये | प्रामाणिकन् ति तत्रेदं प्रमाणं चत्वारि वितस्तियो | सुगतवितस्तिना ति सुगतो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्य् अर्धो मञ्चकपादो तिर्यग् द्वे तद् उत्तरिं कारापये पाचत्तिकं | अथ दानि एकान्ते निकुञ्जे प्रदेशे स्नायन्ति विना दकशाटिकाय अनापत्तिः | भिक्षुर् अपि विना दकशाटिकाय स्नायति विनयातिक्रमम् आसादयति | अथ निकुञ्जप्रदेशे स्नायति विना दकशाटिकाय अनापत्तिः | तेन भगवान् आह |
SK
दकशाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या | तत्रेदं प्रमाणं | दीर्घशो चत्वारि वितस्तियो | सुगतवितस्तिना | तिर्यग् द्वे | तद् उत्तरिम् कारापये च्छेदनपाचत्तिकं ||
SK
पाचत्तिकधर्म ७६
SK
कठिन
SK
१९०. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी भिक्षुणीसंघेन अध्येष्टा | शक्यसि आर्ये संघस्य कृतेन पटान् याचितुं | सा दान् आह | शक्यं | सा दानि दुर्बलकुलेषु गत्वा आह | महापुण्यो शक्यसि संघस्य पटं दातुं | आहंसुः | आर्ये आज्ञास्यामः पुनर् अप्य् आगमिष्यसि | सा पुनः पुनर् आगच्छति | आहंसुः | ज्ञास्यामः ज्ञास्याम इति | सा दानि जल्पति | यदि यूयं दातुकामा ददथ | अयं संघस्य चीवरकालो अतिक्रमति | किं ज्ञास्याम इति वदथ | तेहि दानि न दत्तं | चीवरकालो ऽतिक्रान्तो | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः यावद् भगवान् आह |
SK
या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | दुर्बलायेति अप्रतिबलाय | चीवरप्रत्याशायेति चीवरं नाम कालं यावत् क्षौमुनिका | संघस्य कठिनास्तारिकं | व्यतिनामयेद् इति अतिक्रामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः | एषा दानि भिक्षुणी उत्साहीयति | आर्ये शक्ष्यसि संघस्य कठिनं याचितुं | यदि प्रतिबला भवति उत्सहितव्यं | उत्सहित्वा न दुर्बलकुलानि याचितव्यानि | अथ खलु ये प्रतिबलाः पिता पुत्रा वा भ्रातरौ वा भगिनीयो वा ज्ञातिसम्बन्धा वा गोत्रसम्बन्धा वा ते याचितव्या | ते प्रतिबला दातुं ते याचित्वारोचयितव्याः | अथ दान् आहंसुः ज्ञास्याम ज्ञास्याम इति वक्तव्या | देथ वा प्रत्याख्याथ वा चीवरकालो ऽतिक्रमति | अथ दानि अप्रतिबला भवति उत्साहयितव्या सा एषा भिक्षुणी संघस्य कठिनविवरार्थाय | उत्सहयित्वा नैव याचति नैव यावयेति न भिक्षुणीसंघस्यारोचयति न लभ्यतीति पाचत्तिकम् आसादयति | फु | भिक्षुर् अपि दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी दुर्बलाय चीवरप्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत् पाचत्तिकं | फु ||
SK
पाचत्तिकधर्म ७७
SK
चीवरपारिहारिकं
SK
१९१. भगवान् श्रावस्तीयं विहरति | ता दानि भिक्षुणीयो सान्तररोत्तरेण प्रावृता भगवतो पादवन्दिका आगता तासां निर्गतानां अग्निदाह उत्पन्नः | तासां दग्धानि चीवराणि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् आम भगवन् | भगवान् आह | एतं व त दानि यूयं पारिहारिकं चीवरं न परिहरथ | तेन हि पारिहारिकं चीवरं परिहरितव्यं |
SK
एषा येवार्थोत्पत्तिः | भगवान् श्रावस्तीयं विहरति | ता दानि भिक्षुणीयो शाकीयकन्यायो च मल्लकन्यायो च कोलितकन्यायो च सुकुमारप्रव्रजिता च | भारिकां संघाटिं परिहरन्तीयो किलम्यन्ती | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | तेन हि अनुजानामि ग्लानाये | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि | पेयालं | यावत् |
SK
या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पारिहारिकं चीवरन् ति संघाटी यावत् दकशाटिका | परिहरतीति येन गच्छेय तहिं नेतव्या | अगिलाना ति प्रत्युद्धृतं पदं भगवता अनापत्तिः गिलानाय | सा एषा भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकम् आसादयति | अथ दानि चेतियं वन्दति चङ्क्रमति वा अन्तो सीमम् वा गच्छति अनापत्तिः | भिक्षुर् अपि पारिहारिकं चीवरं न परिहरति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं |
SK
पाचत्तिकधर्म ७८
SK
पचति
SK
१९२. भगवान् वैशालीयं विहरति | भद्राये दानि कापिलेयीये ज्ञातिकुलातो देवसिकं भक्तम् आनीयति | सा तं विहारके पचित्वा खादति | ताये दानि पुत्रभ्रातृका आगताः | भद्राये अवलोकनाय गताः | सान्येषाम् आह भुञ्जिष्यथ | ते दान् आहंसुः भुञ्जिष्यं | ताये ततो दिन्नं | आह | मृष्टं खल्व् इमं | कुतो इमं | सा दान् आह | युष्माकं गृहातो आनीतं | आहंसुः | अस्माकं गृहे न एवं मृष्टं पच्यति | आह | किं युष्माकं भद्रायिणीयो चेटियो जानिष्यन्ति | कथं परितव्यन् ति | एवम् एवोपकरणानि अस्फातिका कुर्वन्ति | ते दानि गृहं गत्वा ता दासीयो दण्डकशाहतायो कृतायो | इतिकितिकाये धीतरो एवम् एत्तकम् उपकरणं ददामो यूयम् अस्फातिकं करोथ | ता रोदमाना आहंसुः | आर्यधीता अस्माकं हनायेति | भिक्षुणीहि श्रुतं | एतं प्रकरणं | पेयालं | यावद् भगवान् आह | दुष्कृतं ते भद्रे | तेन हि न क्षमति पराहृतं खादनीयम् वा भोजनीयम् वा पचितुम् वा पचायितुम् वा भृज्जितुम् वा भृज्जापयितुम् वा |
SK
एषा एवार्थोत्पत्तिः | भगवां च्छ्रावस्तीयम् विहरति | ता दानि भिक्षुणीयो शाकियकन्यायो च कोलितकन्यायो च पिण्डाय चरन्तीयो | पर्युपासितं भोजनं लभन्ति | पर्युपासितं ओदनम् | पर्युपासितं सूपं | पर्युपासितं शाकं | पर्युपासितं कुल्माषं | तायो भुक्त्वा भुक्त्वा वमन्ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावत् लभ्यं भगवन् भिक्षुणीय तूष्णीं कृत्वा भोक्तुं | भगवान् आह लभ्यं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी पराहृतं खादनीयं वा भोजनीयम् वा पुनो पुनो पचित्वा वा पचापेत्वा वा भृज्जित्वा वा भृज्जापेत्वा वा कठित्वा वा कठापेत्वा वा अगिलाना खादये वा भुञ्जेय वा पाचत्तिकं ||
SK
या पुन भिक्षुणीति | पेयालं | पराहृतन् ति ग्रामतो वा आनीतं नगरतो वा आनीतं | खादनीयन् ति खादनीयं भोजनीयन् ति भोजनीयं | पचित्वा ति स्वयं | पचापयित्वा ति परेहि | भृज्जित्वा ति स्वयं | भृज्जापयित्वा ति परेहि | कठित्वा ति स्वयं | कठापयित्वा ति परेहि | अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिर् गिलानाये | किन् दानि अत्र गैलान्यम् अभिप्रेतं | जरादुर्बला वा भोति व्याधिदुर्बला वा भुक्त्वा वा वमति | अफासुं वा भोति इदम् अत्र गैलान्यम् अभिप्रेतं | सा एषा भिक्षुणी रसगृध्या पराहृतं पिण्डपातं पुनो पुनो पचेय वा पचापेय वा पाचात्तिकम् आसादयति | अथ दानि शीतलम् भवति लभ्या उष्णीकर्तुं | न दानि थालिकाय वा पिठरिकाय वा | अथ खलु ताम्रपात्रेण वा कुपात्रेण वा कांसिकाय वा उष्णीकर्तव्यं | भिक्षुर् अपि स्वयं पचति विनयातिक्रमम् आसादयति | अथ दानि कल्पियकारेण पचापेति अनापत्तिः | अथ दानि शीतलो भवति पिण्डपातो उष्णीकरोति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी पराहृतं खादनीयम् वा भोजनीयम् व पुनो पचित्वा वा पचापेत्व वा भृज्जित्वा वा भृज्जापयित्वा वा कठित्वा वा कठापयित्वा वा अगिलाना खादेय वा भुञ्जेय वा पाचत्तिकं | ह्रा ||
SK
पाचत्तिकधर्म ७९
SK
दकविजनेन
SK
१९३. भगवान् श्रावस्तीयम् विहरति | गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च अगारस्यानगारियं प्रव्रजिताः | गर्तोदरपिता च गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदर तिर्थकेषु | गतोदरपिता भुञ्जति गर्तोदरमाता वीजयन्ती अग्रतो तिष्ठति पानीयमल्लकं धारेति | सो दानि ताये कानिचित् कानिचित् पूर्वचरितानि जल्पति | यानि ताये अमनआपानि | ताय तस्य पानीयमल्लकं मस्तके आपिट्टितं | वीजनदण्डेन च मस्तके आहतो | अखल्लमहल्लअकुशलअप्रकृतिज्ञः | अद्यापि त्वं अजल्पितव्यानि जल्पसि | सा भिक्षुणीहि दृष्टा | ता दान् आहंसुः | मा आर्ये एवं करोहि | अग्रपरिषा एषा न लभ्या एवं कर्तुं | सा दान् आह | अयं खलु अखल्ल अकुशलो अप्रकृतिज्ञो अद्यापि यानि तानि अजल्पितव्यानि जल्पति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | दुष्कृतं ते गर्तोदरमाते | नैष धर्मो नैष विनयो | एवं च दानि भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहसि | तेन हि न क्षमति दकवीजनेन उपस्थिहितुं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | भिक्षुन् ति उपसम्पन्नं | पे | भुञ्जन्तं ति पञ्चजातकम् वा पञ्चजातकसंसृष्तम् वा यद् वा किञ्चित् खाद्यं भोज्यं | दकवीजनेन उपस्थिहेया ति पानीयमल्लकं धारयेत् | वीजनवातम् वा दद्यात् पाचत्तिकं | यावत्प्रज्ञप्तिः | सा एषा भिक्षुणी उदकमल्लकन् धारयति नीवीजनं विनयातिक्रमम् आसादयति | वीजयति न उदकमल्लकन् धारेति विनयातिक्रमम् आसादयति | उभयं करोति पाचत्तिकं | नोभयं अनापत्तिः | सा एषा आपत्तिः एकस्य भिक्षुस्य एकभिक्षुणीये | अथ दानि संबहुला भिक्षू भवन्ति अनापत्तिः | अथ दानि भिक्षुणीये पिता वा भ्राता वा भिक्षुर् भवति किञ्चापि वीजयत्य् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दकवीजनेन उपस्थिहेय पाचत्तिकं
SK
पाचत्तिकधर्म ८०
SK
लशुनञ् च खादति
SK
१९४. भगवान् राजगृहे विहरति | मेघीयो नाम लशुनवाणिजको | तेन भिक्षुणीसंघो लशुनेन उपनिमन्त्रितो | ता दानि षड्वर्गिणीयो खादन्ति पि मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति | सो दानि कदाचित् वाटं प्रत्यवेक्षितुङ् गतः | तेन दानि सो दृष्टो वाटो विध्वस्तो | सो दान् आह | केनायं वाटो विध्वस्तो | आह त्वया आर्यमिश्रिका उपनिमन्त्रिताः | लशुनेन तायो दानि खादन्ति मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति | तस्य दानि अप्रसादो जातो | आह | यदि खादन्ति किम् मर्देन्ति | पेयालं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह |
SK
या पुन भिक्षुणी लशुनं खादेय पाचत्तिकं || लशुनन् ति लशुनं नाम जातिमं सेविमं नागरं कच्छरुहं पार्वतेयं ब्रह्मदेयं आवरन्तकं मागधकं कोसलकं | यं चा पुनर् अन्य पि किञ्चिल् लशुनं सर्वं लशुनं न क्षमति | आमन् न क्षमति पक्वन् न क्षमति | यकृन् न क्षमति | कापि कापि न क्षमति अभ्यन्तरपरिभोगाय |
SK
अथ दानि भिक्षुणीय गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति लभ्यन् तं म्रक्षितुं | म्रक्षयित्वा न क्षमति अभ्यागमे प्रदेशे स्थातुं | अथ खु प्रतिगुप्ते प्रदेशे स्थातव्यं यावद् वर्त्ता भवति | +++++ धोविय निष्क्रमितव्यं | तेन भगवान् आह |
SK
या पुन भिक्षुणी लशुनं खादेय पाचत्तिकं
SK
उद्दानं | संक्रमणं [७१] श्रमणचीवरम् [७२] | अन्तर्वासं [७३] | संकक्षिका [७४] | दकशाटिका [७५] कठिन [७६] | चीवरपारिहारिकं [७७] | पचति [७८] | दकवीजनेन [७९] | लशुनञ् च खादति [८०] | अष्टमो वर्गः ||
SK
पाचत्तिकधर्म ८१
SK
देति
SK
१९५. भगवान् श्रावस्तीयं विहरति | राष्ट्रपालाय भिक्षुणीय भगिनी कालगता | सा दानि तासां भागिनेयकानां नानाप्रकारं खज्जं भोज्जं भक्षयित्वा देति | जनो दानि ओज्झायति | पश्यथ भणे श्रमणिका श्रद्धादेयं गृहिणान् ददाति | एतम् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावच् छब्दापयथ राष्त्रपालां | सा दानि शब्दापिता | तद् एव सर्वं भगवान् विस्तरेण पृच्छति | आह | आम् भगवन् | भगवान् आह | तेन हि न क्षमति आगारिकस्य स्वहस्तं खादनीयं भोजनीयं दातुं |
SK
एषा एवार्थोत्पत्तिः | गर्तोदरो च गर्तोदरपिता च गर्तोदरमाता च अगारस्यानगारियं प्रव्रजिता | गर्तोदरपिता गर्तोदरमाता च शाक्येहि प्रव्रजिताः | गर्तोदर तीर्थिकेहि प्रव्रजितः | यावत् स गर्तोदरमातुः सकाशम् उपसंक्रान्तो ताय गर्तोदरमाताय तस्य नानाप्रकारस्य खज्जकस्य पूरं पात्रं दिन्नं | सो दानि तं गृह्य पानागारं गत्वा आत्मना च खादति पारांश् च छन्देति | ते दान् आहंसुः | कहिं त्वया इमं लब्धं | सो दान् आह | मा शब्दं | शाकियायिनानां श्रमणीयो दक्षिणीयायो | तासां पि वयं दक्षिणीयायो | तासां पि वयं दक्षिणीयाः | जनो दानि ओज्झायति | भिक्षुणीहि श्रुतं | एतं प्रकरणं | पेयालं | यावद् भगवान् आह | दुष्कृतन् ते गर्तोदरमाते | तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा खादनीयम् वा भोजनीयम् वा दातुं | अथ खलु भगवान् | पेयालं | यावत् |
SK
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं | या पुन भिक्षुणीति उपसम्पन्ना | आगारिकस्येति गृहिणः | परिव्राजकस्येति गौतमजटिलकपर्यन्तस्य | स्वहस्तन् ति हस्तेन हस्तं | भाजनेन वा भाजनं | खादनीयन् ति यं खादनीयं | भोजनीयन् ति यं भोजनीयं | दद्यात् पाचत्तिकं | एष दानि भिक्षुणीय कोचिद् आगच्छति | सालोहितो वा भ्राता वा | यदि तावद् अस्य किञ्चिद् दातुं भवति न क्षमति स्वहस्तं दातुं | कल्पियकारिकाय दातव्यं | अथ दानि कल्पियकारी न भवति वक्तव्यं | अतो स्वयं गृह्णीय खादथ | अथ दानि पश्यति | रसगृद्धी य एषो सर्वं खादतीति | यत्तकं परित्यक्तं तत्तकं प्रतिग्राहयित्वा शेषं | वक्तव्यो | गोपेहीति | ततो भूमीयन् निक्षिपिय वक्तव्यो | गृह्णीय खादथ | अथ दानि प्रव्रजितको आगच्छति न क्षमति स्वहस्तं खादनीयम् वा भोजनीयम् वा दातुं | कल्पियकारीय दातव्यं | अथ दानि कल्पियकारी न भवति अतो येव गृह्णीय खादाहीति | अथ दान् आह | सालोहिते किम् अस्माकं चण्डालेहि विय प्रवर्तसि | वक्तव्यं | तथा यूयं दुराख्याते प्रवचने प्रव्रजिताः | अथ दानि ग्रामान्तरं गच्छति लभ्यन् तेन कल्पियकृत्यं कारापयितुं | अतो आत्मा च खादथ अस्माकञ् च प्रतिग्राहथ | अथ दानि जानाति | रसगृध्रा इति शेषं पूर्ववत् | तेन भगवान् आह |
SK
या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्वहस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं ||
SK
पाचत्तिकधर्म८२, ८३
SK
चिकितसति
SK
१९६. भगवान् कौशाम्बीयं विहरति | छन्दकमाता भिक्षुणी राज्ञो ऽनतःपुरं प्रविशति | कुशला मूलभैषज्यानां पत्रभैषज्यानां फलभैषज्यानां | सा दानि राजकुलेहि अमात्यकुलेहि आपणिककुलेहि श्रेष्ठिकुलेहि स्त्रीणां बस्तिं स्थपेति | मूढग्रभां चिकित्सति | अञ्जनं प्रत्यञ्जनं वमनं विरेचनं स्वेदकर्म नस्तकर्म शस्त्रकर्म भैषज्याम् अनुप्रयच्छति | सा उपसर्पणं भवति खज्जं भोज्जं लभति | ता दानि भिक्षुणीयो ओज्झायन्ति | नेयं प्रव्रज्या वैद्यिका इयं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | शब्दापयथ छन्दकमातां | सा दानि शद्बापिता | भगवान् आह | सत्यं छन्दकमाते चिकित्सितविद्यया जीविकां कल्पयसि | आम् भगवन् | भगवान् आह | दुष्कृतं छन्दकमाते | तेन हि न क्षमति चिकित्सितविद्यया जीविकां कल्पयितुं | अथ खलु भगवान् | पेयालं | यावत् |
SK
या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत् पाचत्तिकं |
SK
चिकित्सितविद्या नाम अहिविद्या विषविद्या यावद् ग्रहचरितं | तेन जीविकां कल्पयति पाचत्तिकं | यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीय चिकित्सितुं | लभ्यम् उपदिशितुं | भिक्षुर् अपि चिकित्सितविद्यया जीविकां कल्पयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी चिकित्सितविद्यया जीविकां कल्पयेत् पाचत्तिकं ||
SK
पाचत्तिकधर्म ८३
SK
वाचयति
SK
१९७. भगवान् कौशाम्बीयं विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति चिकित्सितुन् ति | छन्दकमाता न भूयो चिकित्सति | जनो दानि आगच्छति | साध्व् आर्ये चिकित्साहि | सा दान् आह | न क्षमति चिकित्सितुं भगवता शिक्षापदं प्रज्ञप्तं | अपि तु एष देथ मम किञ्चिद् वाचिष्यं | सा आगारिकांश् च परिव्राजकांश् च चिकित्सितविद्यां वाचयति | भिक्षुणीयो दानि ओज्झायन्ति | नेयं किञ्चित् प्रव्रज्या वैद्यकवाचिका इयं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति | पे | आगारिक इति गृहिणः | परिव्राजक इति गौतमजटिलकपर्यन्तं कृत्वा | चिकित्सितविद्याम् इति अहिविद्या विषविद्या यावद् ग्रहचरितं | कायं चिकित्सितं वाचयेद् इति उद्दिशेत् | यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीये आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयितुं | लभ्यं उपदिशितुं | भिक्षुर् अपि चिकित्सितविद्यां वाचयति विनयातिक्रमम् आसाद्यति | तेन भगवान् आह |
SK
या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सितविद्यां वाचयेत् पाचत्तिकं ||
SK
पाचत्तिकधर्म ८४
SK
गृहिवैयापृत्यं
SK
१९८. भगवान् श्रावस्तीयम् विहरति | विशाखाय दानि मृगारमाताय उभयतो संघो भक्तेनोपनिमन्त्रितो | ता दानि भिक्षुणीयो कल्यतो येवागत्वा आहंसुः | उपासिके यं दानि त्वया उभयतो संघो भक्तेनोपनिमन्त्रितो किन् दानि वयम् उपासिकाय उपकारं करोम | सा दान् आह | किम् आर्यमिश्रिका उपकारं करिष्यन्ति | उद्दिशथ स्वाध्यायथ | योनिशो मनसि करोथ | एवं ममोपकारो कृतो भविष्यति | एवम् एतद् अपि तु उपकारं करिष्यामः | तायो दानि तलकम् अभिरुहित्वा कर्पासं गृहीत्वा अन्याहि चिकित्सितं | अन्याहि विलोपितं | अन्याहि पिञ्जितं | अन्याहि विहतं | अन्याहि कर्तितं | तायो सूत्रपिण्डकं गृह्णीय उपासिकाम् उपसंक्रान्ताः | उपासिके उपकारः कृतः | आह | नैष मम उपकारो यं ममार्यमिश्रिका पिञ्जेयुर् वा लोढेयुर् वा विकड्ढेयुर् वा कर्तेयुर् वा | एषो ममोपकारो यम् आर्यमिश्रिका मत्सकाशाद् भुक्त्वा उद्दिशथ स्वाध्यायेथ यावद् बुद्धानां शासने योगम् आपद्येथ | यत् ताय उपासिकाय अवध्यापितं तं दानि भिक्षुणीहि श्रुतं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | दुष्कृतं वो भिक्षुणीयो | तेन हि न क्षमति गृहिवैयापृत्यं कर्तुं | यावत् |
SK
या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात् पाचत्तिकं | या पुन भिक्षुणीति उपसम्पन्ना | गृहीति आगारिको | वैयापृत्यम् इति कर्तेय वा पिञ्जेय वा यावत् | ओहनेय वा पीषेय वा पचेय वा सीवेय वा | या पुनर् अन्य पि किञ्चिद् गृहिवैयापृत्यम् कुर्यात् पाचत्तिकं | यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीय गृहिवैयापृत्यं कर्तुं | अथ दानि माल्योपहारो भवति | गन्धारोपणं वा | सा आह | आर्यमिश्रिकाहि साहाय्यं कर्तव्यम् इति किञ्चापि गन्धम् वा पीषयति | सुमनां वा ग्रन्थयति अनापत्तिः | भिक्षुर् अपि गृहिवैयापृत्यं करोति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी गृहिवैयापृत्यं कुर्यात् पाचत्तिकं
SK
पाचत्तिकधर्म ८५
SK
संभोजनीयं
SK
१९९. भगवां च्छ्रावस्तीयं विहरति | स्थूलनन्दा नाम भिक्षुणी मध्याह्ने विघने अपरं कुलम् उपसंक्रान्ता | तहिन् दानि द्वे भार्यापतिका क्लेषोत्पीडिता रहो संज्ञिनो मैथुनं प्रतिषेतुकामाः | सा दानि अप्रतिसंविदिता सहसा तहिं प्रविष्टा | सो दानि मनुष्यो उद्धावितो उत्कण्ठितो कर्मण्य् एनां राजा तेन परिवातेति | इमान् तावद् इतिकितिकाय धीतां श्रमणिकां विट्टालयिष्यन् ति | सा दानि भीता | प्रपलाना भिक्षुणीनां कथयति | मनास्मि आर्यमिश्रिकायो ब्रह्मचर्यातो च्याविता यावद् एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | दुष्कृतं ते नन्दे एवन् नाम त्वं जानन्ती सम्भोजनीयं कुलन् दिवा पूर्वे अप्रतिसंविचिता उपसंक्रामसि | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो | पेयालं | यावत् |
SK
या पुन भिक्षुणी जानन्ती संभोजनीयं कुलं दिवा पूर्वे अप्रतिसंविदिता उपसंक्रमेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | कुलं ति ब्राह्मणादि कुलं | यहिं स्त्रीपुरुषकं स्थालीपिठरकं कण्टिकामुसलकं सूपेल्लकं यवप्रस्थकं इमं पश्चिमकं कुलं | सम्भोजनीयन् ति स्त्री पुरुषस्य भोजनं पुरुषस्यापि स्त्री भोजनं | यदि विगते मध्याह्ने पूर्वे अप्रतिसंविदिता ति अशब्दकर्णिकाय | अनाहूता उपसंक्रमेया ति प्रविशेत् पाचत्तिकं यावत् प्रज्ञप्तिः | यं दानि ज्ञायते एतं संभोजनीयं कुलन् ति नहि क्षमति तहिं पूर्वे अप्रतिसंविदितं अनाहूताय उपसंक्रमितुं | यदि ताव दौवारिको भवति वक्तव्यं | प्रविशामीति | यद्य् आह | मा प्रविशेहीति न प्रविशितव्यं | अथ दान् आह | प्रतिपालेहि तावत् यावत् प्रतिसंविदायामीति | यदि प्रविशित्वा न निष्क्रामति न क्षमति प्रविशितुं | अथ दानि तुणुतुणा शब्दो भवति अच्छटिका दातव्या उत्काशितव्यं वा | यदि ताव तूष्णीका भवति न क्षमति प्रविशितुं | अथ दानि प्रत्युद्गच्छन्ति स्वागतम् आर्यायेति प्रविशेति प्रवेष्टव्यं | भिक्षुर् अपि संविदितो उपसम्क्रमति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती संभोजनीये कुले दिवा उपसंक्रमेय पूर्वे अप्रतिसंविदिता अनाहूता पाचत्तिकं ||
SK
पाचत्तिकधर्म ८६
SK
संसर्गो
SK
२००. भगवान् वैशालीयम् विहरति | या दानि सा कालीयन् त्रियन्तरा लिच्छविधीता प्रव्राजिता | सा दानि आगारिकेहि च प्राव्राजकेहि च सार्धं संसृष्टा विहरति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | दुष्कृतं ते कालि | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो | पेयालं |
SK
या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा संसृष्टा विहरेय दिवसं वा मुहूर्तं वा अन्तमसतो आरामिकश्रमणोद्देशेहि पाचत्तिकम् ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | यावत् | आगारिकेहीत् | गृहीभिः | परिव्राजिकेहीति गौतमजटिलकपर्यन्तेहि तीर्थिकेहि | संसृष्टा विहरेद् इति कायिकेन संसर्गेण वाचिकेन संसर्गेण | कायिकवाचिकेन संसर्गेण | दिवसम् वा मुहूर्तम् वा अन्तमसतो तत्क्षणन्तल्लवं तन्मुहूर्तम् वा अन्तमसतो | आरामिकश्रमणोद्देशेहीति | आरामिकाः संघोपस्थायकाः | श्रमण्ऽउद्देशा इति पञ्चदशवर्षान् उपादाय यावत् सप्ततिकाः | सा एषा भिक्षुणी आरामिकेहि वा परिव्राजकेहि वा संसृष्टा विहरति पाचत्तिकं | अथ दानि भिक्षुणीयो अन्यमन्यं संसृष्टा विहरन्ति विहरन्त्य् अभिरता विवेचयितव्याः | वीचीकारापयितव्याः | त्रिर् अपि भिक्षुणा सार्धं संसृष्टा विहरति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा सार्धं संसृष्टा विहरेत् दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिकश्रमण्ऽउद्देशकैः सार्धं पाचत्तिकं
SK
पाचत्तिकधर्म ८७
SK
उपशपति
SK
२०१. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति | सा दानि यादा पराजीता भवति तदा उपसम्पति | नमो भगवतो भगवतः पादेहि शपामि | काषायेहि शपामि | दुःखस्यान्तेन शपामि | यद्य् अहम् एवं ब्रवीमि | मा काषायेहि कालं करोमि | मा दुःखस्यान्तं करोमि | मातृघातिकस्य गतिङ् गच्छामि | पिट्र्घातिकस्य गतिङ् गच्छामि | अर्हन्तघातिकस्य गतिङ् गच्छामि | यावद् अकृतज्ञस्य गतिङ् गच्छामि | मित्रद्रोहस्य गतिङ् गच्छामि | आर्यापवादकस्य गतिङ् गच्छामि | नैरयिकीभवामि | तिर्यग्योनिगतिं गच्छामि | प्रेती भवामि | या पि भद्रायणी माम् एवम् आह सा प्य् एवम् भवतु | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावत् शब्दापयथ नन्दां | एतद् एव सर्वं भगवां विस्तरेणाचोचयति | यावत् आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे यावद् भगवान् आह |
SK
या पुन भिक्षुणी उपशपन्ती विहरेत् आत्मानं सन्धाय पराम् वा सन्धाय पाचत्तिकं | या पुन भिक्षुणीति उपसम्पन्ना | पे | उपशपन्ती विहरेया ति शपथं कुर्यात् | नम भगवतो भगवतः पादेहि शपामि | सर्वं पूर्ववत् | यावत् सा एषा भिक्षुणी आत्मानं सन्धाय परम् वा उपशपति पाचत्तिकम् | भिक्षुर् अपि उपशपति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी उपशपन्ती विहरेद् आत्मानं वा सन्धाय परं वा पाचत्तिकं ||
SK
पाचत्तिकधर्म ८८
SK
रोदति
SK
२०२. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति | सा यदा पराजिता भवति तदा आत्मानं खटचपेटमुस्तकेहि पिट्टायति | उदरम् आहनयति | बलबलाय रोदति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | सत्यं त्वं नन्दे एवं नाम भिक्षुणीहि सार्धं कलहं करोषि | पेयालं | यावद् बलबलाय रोदसि | आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे नैष धर्मो यावत् तेन हि न क्षमति आत्मानं हनित्वा रोदितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं || या पुन भिक्षुणीति | पेयालं | आत्मानं हनित्वा ति खटेहि वा पाषाणेहि वा यावद् अन्येन वा केनचित् | रोदेया ति अश्रुणि वा प्रवर्तयेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी आत्मानं हन्ति न रोदयति विनयातिक्रमम् आसादयति | रोदति न हनति विनयातिक्रमम् आसादयति | हनति च रोदति च पाचत्तिकम् आसादयति | नैव हनति न रोदति अनापत्तिः | भिक्षुर् अपि आत्मानं हनित्वा रोदति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं
SK
पाचत्तिकधर्म ८९
SK
क्षियति
SK
२०३. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दाय दानि भिक्षूणीय जेता भिक्षुणी कुलेहि संवर्णिता | सा जेता भिक्षुणी भद्रिका कुलान्य् उपसंक्रमति प्रासादिकेनातिक्रान्तेन प्रतिक्रान्तेनावलोकितेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन संघाटीपात्रचीवरधारणेन अनुद्धता अनुन्नडा अचपला अमुखरा अप्रकीर्णा वाचा | सा प्रासादिका ति प्रसन्ना देवमनुष्याः | ते तेहिं कारा कुर्वन्ति | प्रत्यालपन्ति प्रत्युत्थिहिन्ति | निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्यपरिष्कारेहि | स्थूलनन्दा भिक्षुणी अनाकल्पसम्पन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्डेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णा वाचा | ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति |
SK
सा दानि भिक्षुणीनाम् आह | पश्यथ आर्यमिश्रिकायो ममैवार्या जेता कुलेहि संवर्णिता मह्य्ऽएवावर्णं ब्रवीति | सा दान् आह | नास्त्य् एतं आर्ये | नाहम् आर्याये अवर्णं भाषामि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह |दुष्कृतं ते नन्दे | पेयालं | यावद् एव नाम त्वं दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यसि | तेन हि न क्षमति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यसि | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातये गौतमि यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षूणीनाम् एवं वदेय | यदाहम् आर्ये अमुकं कुलम् उपसंक्रामि | ततो इत्थन्नामाये भिक्षुणीये भगवत्य् आघातो अप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्येय पाचत्तिकं ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | भिक्षुणीनां एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी यावद् आहम् आर्ये अमुकं कुलन् ति कुलन् नाम क्षत्रियकुलं कुलन् नाम क्षत्रियकुलं ब्राह्मणकुलं राजन्यकुलं यानि च पुनर् अन्यानि कुलानि | ततो इत्थन्नामाये ति यथा जेता पि भिक्षुणीये | भगवत्य् आघात इति न च आघातवस्तूनि अस्थानप्रकोपदशमानि | अप्रत्यय इति दुःश्रुतेन दुरवधारितेनेति न आकारवन्तेन दर्शनेन न आकारवन्तेन श्रमणेन क्षियाधर्मम् आपद्येया ति अवध्यापेय पाचत्तिकं | यावत् प्रज्ञप्तिः न क्षमति भिक्षुणीये दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्यितुं | आपद्यति पाचत्तिकम् आसादयति | भिक्षुर् अपि दुःश्रुतेन दुर् अवधारितेन क्षियाधर्मम् आपद्यति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीनाम् एवम् वदेय यदाहम् आर्ये अमुकं कुलं उपसम्क्रमामि | ततो इत्थन्नामाये भिक्षुणीये भगवत्य् आघातो ऽप्रत्यय इति दुःश्रुतेन दुरवधारितेन क्षियाधर्मम् आपद्येय पाचत्तिकं
SK
पाचत्तिकधर्म ९०
SK
कुलमात्सर्येण
SK
२०४. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी कालस्यैव निवासयित्वा पात्रचीवरम् आदाय महात्मेहि कुलेहि द्वारकोष्ठकेहि तिष्ठति | भिक्षूणां प्रविशन्तानाम् आह | प्रविशन्तु आर्याः प्रविशन्तु आर्यमिश्राः अस्माकं कृतेन सिध्यति | अग्रपिण्डन् तावद् दत्त्वा युष्माकं प्रथमानाम् एव पश्चाद् आत्मना परिभुञ्जिष्यन् ति | मा अन्यानि कुलानि उपसंक्रमथ | नहि अन्येहि सिध्यति | ते दानि व्रीडिताः प्रत्योसक्षन्ति | भिक्षुणीनाम् अप्य् एवं कर्तव्यं | एवं चरकपरिव्राजकाजीवकनिर्ग्रन्थाः यावद् धर्मचिन्तकाः प्रविशन्ति | सा दानि तेषां प्रविशन्तानाम् आक्रोशति | चण्डायू नष्टाशा भग्नाशाः | सुराभ्रस्ता याना गर्दभाः नग्नाः अह्रीकाः अनोत्रापिणो मिथ्यादृष्टिकाः विनिपतिताः प्रविशथ युष्माकं कृतेन सिध्यति | युष्माकम् अग्रपिण्डन् तावद् दत्त्वा प्रथमानाम् एव पश्चाद् आत्मानं परिभोक्ष्यन् ति | मा अन्यानि कुलान्य् उपसंक्रमथ | नहि अन्येहि क्लेशेहि सिध्यति | ते दानि व्रीडिताः प्रत्योसक्षन्ति | एवं सर्वभिक्षाचरणाम् आवरणं करोति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | तद् एव सर्वं | भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | दुष्कृतन् ते नन्दे यावद् एवन् नाम त्वं कुलमात्सर्यं करोषि | तेन हि न क्षमति कुलमात्सर्यं करोषि | तेन हि न क्षमति कुलमात्सर्यं कर्तुं | अथ खलु भगवान् माहाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि | पेयालं | यावत् |
SK
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं | या पुन भिक्षुणीति उपसम्पन्ना | कुलमात्सर्यन् ति आवरणं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीय कुलमात्सर्यं कर्तुं | करोति पाचत्तिकम् आसादयति | यदि तावद् भिक्षुर् वा भिक्षुणी वा पृच्छति भूतो गुणो वक्तव्यो | अथ दानि अन्यतीर्थिका पृच्छन्ति मा एते मिथ्यादृष्टिं ग्राहयिष्यन्तीति भृकुटिं करोति अनापत्तिः | भिक्षुर् अपि कुलमात्सर्यं करोति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी कुलमात्सर्यं कुर्यात् पाचत्तिकं | ऌं || उद्दानं |
SK
देति [८१] | चिकित्सिति [८२] | वाचयति [८३] | गृहिवैयावृत्तः [८४] | सम्भोजनीयं [८५] | संसर्गो [८६] | उपशपति [८७] | रोदति [८८] | क्षियति [८९] | कुलमात्सर्येण [९०] ||
SK
पूर्यते नवमो वर्गः |
SK
पाचत्तिकधर्म ९१
SK
सम्मुखं
SK
२०५. भगवान् श्रावस्तीयम् विहरति | गर्तोदरो च गर्तोदरमाता च गर्तोदरपिता च आगारस्यानगारियं प्रव्रजिताह् | पे | यावत् सो महल्लको भुञ्जाति | सा गर्तोदरमाता परिविषति | सो दानि ताये कानिचित् पूर्वचरितानि जल्पति स्त्रीउत्सददौष्ठुल्यानि यानि तस्या अमनआपानि | सा दान् आह | चण्डायुः | अखल्लमहल्लः | अव्यक्तअकुशलअप्रक्र्तिज्ञ | अद्यापि त्वम् अजल्पितव्यानि जल्पसि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते गर्तोदरमाते | पेयालं | तेन हि न क्षमति भिक्षुं सम्मुखम् आक्रोशितुं परिभाषितुं | अथ भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणीभिक्षुं सम्मुखम् आक्रोशयेद् रोषयेद् परिभाषयेत् पाचत्तिकं | या पुन भिक्षुणीति उपसम्पन्ना | सम्मुखन् ति चातुरक्षं | आक्रोशयेद् इति अकारशकारएकारैः रोषयेत् परिभाषयेत् चण्डालु | अखल्लमहल्लअकुशलअप्रकृतिज्ञ ति पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीये भिक्षुणीय भिक्षुं सम्मुखम् आक्रोशितुं रोषितुं परिभाषितुम् | आक्रोशति रोषति परिभाषति पाचत्तिकं | अथ भिक्षुण्या पिता वा भ्राता ज्ञातिको वा प्रव्रजितको भवति | सो च भवति उद्धतो उन्नडो असमाहितो लभ्या दानि सो वक्तुं | न दानि क्षमति धर्षिय वक्तुं | अथ खलु प्रज्ञया सम्ज्ञापयितव्यो | यदि तावत् तरुणको भवति वक्तव्यो | सालोहित इदानीं त्वं न शिक्षसि कदा त्वं शिक्षिष्यसि | यदा जीर्णो वृद्धो भविष्यसि | अथ दानि महल्लको भवति वक्तव्यो | इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यदा मण्डलद्वारम् अनुप्राप्तो भविष्यसि | भिक्षुणापि भिक्षुणीयो न क्षमति सम्मुखम् आक्रोशितुं मुण्डस्त्री वेश्यस्त्री ति | पे | सा एषा भिक्षुणी भिक्षुं समुखम् आक्रोशति पाचत्तिकं
SK
पाचत्तिकधर्म ९२
SK
ऊनद्वादशवर्षा
SK
२०६. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि एकवर्षा द्विवर्षा यावत् षट्वर्षा उपस्थापेन्ति | ते नैव ओवदन्ति नानुशासन्ति | ता इन्द्रगवा इव वर्धन्ति शिवच्छगला विय वर्धन्ति | अनाकल्पसम्पन्ना अनीर्यपथसम्पन्ना न जानन्ति कथम् उपाध्यायिनीये प्रतिपत्तव्यं | कथम् आचार्याये प्रतिपत्तव्यं | कथं वृद्धातरकाणां भिक्षुणीनां प्रतिपत्तव्यं | कथं ग्रामे | कथम् अरण्ये | कथं संघमध्ये | कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् भगवान् आह | शब्दापयथ तायो भिक्षुणीयो | ता दानि शब्दापिताः | एतद् एव सर्वं भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति ऊनद्वादशोदकवर्षाय उपस्थापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | ऊनद्वादशवर्षा ति ऊनद्वादशवर्षा नाम ऊनद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी |
SK
ऊनद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी |
SK
ऊनद्वादशोदकवर्षो अतिरेको द्वादशो सम्वत्सरो ऊनद्वादशवर्षा भिक्षुणी |
SK
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादिति | अकृतायां प्रवारणायां ऊनद्वादशवर्षा भिक्षुणी | एवं ग्रीष्मे वर्षासु उपसम्पन्ना |
SK
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना | अकृतायां प्रवारणायां उपसम्पादेति | पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना | अकृताहि द्विहि प्रवारणाहि उपसम्पादेति ऊनद्वादशवर्षा भिक्षुणी |
SK
पूरद्वादशोदकवर्षो ऊनद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी |
SK
पूरद्वादशोदकवर्षो पूरद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी |
SK
पूरद्वादशोदकवर्षो अतिरेकद्वादशो सम्वत्सरो पूरद्वादशवर्षा भिक्षुणी |
SK
हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृतायां प्रवारणायां पूरद्वादशवर्षा भिक्षुणी |
SK
एवं ग्रीष्मे वर्षासु उपसम्पन्ना |
SK
एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना कृतायां प्रवारणायाम् उपसम्पादेति पूरद्वादशवर्षा भिक्षुणी | पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृताहि द्विहि प्रवारणाहि पूरद्वादशवर्षा भिक्षुणी |
SK
ऊनद्वादशवर्षा उपसम्पादयेत् पाचत्तिकं | सा एषा भिक्षुणी ऊनद्वादशवर्षा उपस्थापयति पाचत्तिकं प्रव्राजयति विनयातिक्रमम् आसादयति | भिक्षुर् अपि ऊनद्वादशवर्षो उपसम्पादयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी ऊनद्वादशवर्षा उपस्थापयेत् पाचत्तिकं ||
SK
पाचत्तिकधर्म ९३
SK
अनङ्गोपेता
SK
२०७. भगवान् श्रावस्तीयम् विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति ऊनद्वादशवर्षाय उपस्थापयितुं | तेन दानि कालेन तेन समयेन षड्वर्गिणीयो भिक्षुणीयो पूरद्वादशवर्षा भवन्ति | तायो दानि प्रव्राजेन्ति उपस्थापेन्ति | ता नैव त्-ओवदन्ति नानुशासन्ति | पेयालं | यावत् कथं संघाटीपात्रधारणे प्रतिपत्तव्यं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावच् छब्दापिता | तद् एव सर्वं भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति अनङ्गोपेताय उपस्थापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | यावत् पर्यवदातानि भविष्यन्ति |
SK
पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं |
SK
पूरद्वादशवर्षा ति यथा प्रथमके शिक्षापदे |
SK
सा च अनङ्गोपेता इति अङ्गोपेता नाम यस्या दशाङ्गानि सम्विद्यन्ते संयथईदं |
SK
प्रातिमोक्षसम्वरसंवृता भवति || [१] || बहुश्रुता भवत्य् अभिधर्मे || २ || बहुश्रुता भवत्य् अभिविनये || ३ || प्रतिबला भवत्य् अधिशीलशिक्षायां निवेशयितुं || ४ || प्रतिबला भवत्य् अधिचित्तशिक्षायान् निवेशयितुं || ५ || प्रतिबला भवत्य् अधिप्रज्ञशिक्षायां निवेशयितुं || ६ || प्रतिबला भवत्य् आपत्तिम् आपन्नां व्युत्थापयितुम् वा व्युत्थापाययितुम् वा || ७ || प्रतिबला भवत्य् आपदासु व्युपकर्षयितुं वा व्युपकर्षापयितुम् वा || ८ || प्रतिबला भवति गिलानम् उपस्थिहितुम् वा उपस्थापयितुम् वा || ० || द्वादशवर्षा भवति सातिरेकद्वादशवर्षा वा || ऌं ||
SK
यस्या इमानि दशाङ्गानि सम्विद्यन्ते इयम् उच्यते अङ्गोपेता | विपर्ययाद् अनङ्गोपेता | सा एषा अनङ्गोपेता उपस्थापयेत् पाचत्तिकं | पेयालं | यावत् प्रज्ञप्तिः | सा एषा अनङ्गोपेता प्रव्राजयति विनयातिक्रमम् आसादयति | उपसम्पादयति पाचत्तिकं | भिक्षुर् अपि अनङ्गोपेतो प्रव्राजयति उपसम्पादयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
पूरद्वादशवर्षा पि च भवति सा च अनङ्गोपेता उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९४
SK
असंमता
SK
२०८. भगवान् श्रावस्तीयम् विहरति | भगवता शिक्षापदं प्रज्ञप्तं | द्वादशवर्षाये अङ्गोपेताय उपस्थापयितव्येति | ता दानि भिक्षुणीयो द्वादशवर्षा अङ्गोपेतायो उपस्थापयन्ति | भिक्षुणीयो दानि ओज्झायन्ति | अस्त्य् एषा द्वादशवर्षा न पुनर् ज्ञायते | अङ्गोपेता वा अनङ्गोपेता वा ति | एतत् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयंसुः | यावद् भगवान् आह | उपस्थापनासंमुती ताय याचितव्या |
SK
कर्मकारिकाय कर्म कर्तव्यं | शृणोतु मे आर्या संघो | यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा भिक्षुनी द्वादशवर्षा अङ्गोपेता | सा संघं उपस्थापना संमुतिं याचेया | यचिष्यति आर्यमिश्रिका इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता उपस्थापनासंमुतिं संघं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि |
SK
ताय दानि याचितव्यं | वन्दाम्य् आर्या संघं | अहम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता | साहं संघम् उपस्थापनासंमुतिं यचामि | साधु बत मे आर्या संघो उपस्थापनासम्मुतिन् देतु | एवम् भिक्षुत्तो याचयितव्यं ||
SK
कर्म | शृणोतु मे आर्या संघो | इयम् इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता | सा संघम् उपस्थापनासंमुतिं याचति | यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिं दद्यात् | ओवयिका एषा ज्ञप्तिः |
SK
शृणोतु मे आर्या संघो | इयं इत्थन्नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता | सा संघम् उपस्थापनासंमुतिं याचति | ताये संघो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासंमुतिन् देति | यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुतिन् दीयमानां संघेन | सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषतु | इयम् प्रथमा कर्मवाचना | एवं द्वितीया तृतीया कर्मवाचनेति | दिन्ना अर्यमिश्रिकायो इत्थन्नामाये भिक्षुणीये द्वादशवर्षाये अङ्गोपेताये उपस्थापनासम्मुति संघेन | क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
पूरद्वादशवर्षा पि च भवति अङ्गोपेता सा च असम्मता उपस्थापयेत् पाचत्तिकं |
SK
अङ्गोपेता इति दशभिर् अङ्गेहि भिक्षुणी अङ्गोपेता भवति | शेषं पूर्ववत् | असम्मता इति असम्मता एव असम्मता | अनङ्गोपेता च असम्मता तम् च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं एवम् एषा असम्मता | उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं | सा एष भिक्षुणी असम्मता उपस्थापयति पाचत्तिकं | प्रव्राजयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
पूर द्वादशवर्षा पि च भवति अङ्गोपेतासा च असम्मता उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९५
SK
दुःशिला
SK
२०९. भगवान् वैशालीयम् विहरति | या सा कालीय भिक्षुणीय त्रियन्तरा लेच्छविधीता प्रव्राजिता | सा देशितशिक्षा | प्रतितालकेहि प्रतिकुञ्चिकाहि च परविहारान् उद्घाटिय आगारिकेहि परिव्राजकेहि च सह तिष्थति | सा ताय उपसंपादिता | भिक्षुणीयो दानि ओज्झायन्ति | किम् इमाय दुःशीलाय प्रतितालकिनीय पुरुषसहायिकाय उपस्थापिताय | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावत् शब्दापयथ कालीं | सा दानि शब्दापिता | भगवान् विस्तरेण पृच्छति यावद् आम भगवन् | भगवान् आह | दुष्कृतन् ते कालि | नैष कालि धर्मो यावद् एव नामा त्वं दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयसि | तेन हि न क्षमति जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी जानन्ती दुःशीलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | दुःशीलेति शीलविपन्ना शीलातिक्रान्ता | प्रतितालकिनीति प्रतितालकेहि प्रतिकुञ्चिकाहि च अन्यातकान् विहारकान् उद्घाटयति | पुरुषसहायिनीति | आगारिकेहि च परिव्राजकेहि च सार्धं संसृष्टा विहरति | उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं यावत् प्रज्ञप्तिः या दानि एषा आगारिकेहि परिव्राजकेहि च सार्धं संसृष्टा विहरति सा न क्षमति उपस्थापयितुं | अथ दानि शक्नोति ब्रह्मचर्यं संपादयितुं लभ्या ततो संसर्गातो विवेचयित्वा उपस्थापयितुं | भिक्षुर् अपि जानन् दुःशीलं श्रामणेरं स्त्रीसंसृष्टं अप्रत्योसारायेत्वा उपसम्पादेति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती दुःशिलां प्रतितालकिनीं पुरुषसहायिकाम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९६
SK
ऊनविंशतिवर्षा कुमारिभूता
SK
२१०. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि दशद्वादशवर्षां कुमारीभूताम् उपसम्पादयन्ति | अप्रतिसंख्यानवर्तिन्यो भवन्ति अनाकल्पसम्पन्ना | न जानन्ति कथम् उपाध्यायीये प्रतिपद्यितव्यं यावत् संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | शब्दापयथ ता भिक्षुणीयो | ता दानि शब्दापिताः | तद् एव सर्वं भगवान् विस्तरेण पृच्छति यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति ऊनविंअतिवर्षां कुमारीभूताम् उपस्थापयितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचतिकं |
SK
ऊनविंशतिवर्षा ति ऊनविंशोदकवर्षो ऊनविंशो सम्वत्सरो ऊनविंशतिवर्षा |
SK
ऊनविंशोदकवर्षो पूरविंशो सम्वत्सरो ऊनविंशतिवर्षा |
SK
ऊनविंशोदकवर्षो अतिरेकविंशो सम्वत्सरो ऊनविंशतिवर्षा |
SK
हेमन्ते जाता तेन विंशेन उपसंपादेति अकृतायां प्रवारणायां ऊनविंशतिवर्षा | एवं ग्रीष्मे जाता |
SK
एवं पुरिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति ऊनविंशतिवर्षा |
SK
पश्चिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति | अकृताहि द्विहि प्रवारणाहि | ऊनविंशतिवर्षा |
SK
कुमारीभूताम् एताम् ऊनविंशतिवर्षां सर्वा ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वायो पाचत्तिकम् आसादयन्ति |
SK
सा च अनुपसम्पन्ना | ताम् एताम् ऊनविंशतिवर्षां कुमारीभूतां एक ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति एका पूरसम्ज्ञिनीयो | या ऊनसंज्ञिनीयो उपसम्पादेन्ति तायो पाचत्तिकम् आसादयन्ति | पूरसंज्ञिनाम् अनापत्तिः | सा चानुपसम्पन्ना | ऊनविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसम्ज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः | सा च सूपसम्पन्ना |
SK
पूरविंशतिवर्षां सर्वायो ऊनविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति सर्वा विनयातिक्रमम् आसादयन्ति | सा च सूपसम्पन्ना |
SK
पूरविंशतिवर्षाम् एका ऊनविंशतिवर्षसंज्ञिनीयो एका पूरविंशतिवर्षसंज्ञिनीयो उपसम्पादेन्ति | या ऊनविंशतिवर्षसंज्ञिनीयो ता विनयातिक्रमम् आसादयन्ति | या पूरविंशतिवर्षसंज्ञिनीयो तासाम् अनापत्तिः | सा च सूपसम्पन्ना |
SK
पूरविंशतिवर्षां सर्वा पूरसंज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अनापत्तिः | सा च सूपसम्पन्ना |
SK
कुमारीभूता ति कुमारीभूता अविकोपितब्रह्मचर्या | उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं | पे | यावत् प्रज्ञप्तिः |
SK
या एषा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसम्पदं सा दानि समनुग्रहितव्या | कदा त्वं जाता | अथ न जानाति जन्मपद्धिका निशामयितव्या | जन्मपद्धिका न भवन्ति मातापितरौ पृच्छितव्यौ | अथ दानि ते पि न जानन्ति पृच्छितव्या | कतरस्मिं राज्ये जाता | केत्तिका वा तदा त्वं अभूषि | सुदृष्टिर् दुर्दृष्टिर् वा | पृच्छितव्या | न उद्धिकस्य वा चित्रिकस्य वा वशेन गन्तव्यं | अथ खु हस्तपादा निशामेतव्याः | तेन भगवान् आह |
SK
या पुन भिक्षुणी ऊनविंशतिवर्षां कुमारीभूतां उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९७
SK
अदेशितशिक्षा
SK
२११. भगवान् श्रावस्तीयम् विहरति | भगवता दानि शिक्षापदम् प्रज्ञप्तं | न क्षमति ऊनविंशतिवर्षां कुमारीभूताम् उपस्थापयितुन् ति | ता दानि भिक्षुणीयो पूरविंशतिवर्षां कुमारीभूताम् अदेशितशिक्षाम् उपस्थापयन्ति | भिक्षुणीयो दानि ओज्झायन्ति | को जानाति पूरविंशतिवर्षा वा एषा न वा ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | या एषा कुमारीभूता आकाङ्क्षति | तथागतप्रवेदिते धर्मविनये उपसंपदां भिक्षुणीभावं | ताय संघो द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचितव्यो | कर्मकारिकाय कर्म कर्तव्यं | शृणोतु आर्या संघो | इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं द्वेवर्षाणि शिक्षादेशनासम्मुतिं याचेय्या | याचिष्यति आर्यमिश्रिका अष्टादशवर्षा कुमारीभूता द्वेवर्षाणि शिक्षादेशनासम्मुतिं संघं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि | ताय दानि याचितव्यं | वन्दाम्य् आर्या संघं | अहम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | साहं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचामि | साधु वत मे आर्या संघो द्वे वर्षाणि शिक्षापदानि सम्मुतिं देतु | एवं त्रिख्हत्तो याचितव्यं |
SK
कर्म | शृणोतु मे आर्या संघो | इयम् इत्थन्नमा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | सा संघं द्वे वर्षाणि शिक्षादेशनासम्मुतिं याचति | यदि संघस्य प्राप्तकालं संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दद्यात् | ओवयिका एषा ज्ञप्तिः |
SK
शृणोतु मे आर्या संघो | इयम् इत्थन्नामा अष्टादशवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | सा संघं द्वे वर्षाणी शिक्षादेशनासम्मुतिं याचति | तस्याः संघो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्साणी शिक्षादेशनासम्मुतिं देति | यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिं दीयमानां संघेन | सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषितु | इयं प्रथमा कर्मवाचना | एवं द्वितीया तृतीया कर्मवाचनेति | दिन्ना आर्यमिश्रिकायो इत्थन्नामाये अष्टादशवर्षाये कुमारीभूताये द्वे वर्षाणि शिक्षादेशनासम्मुतिः सम्घेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमान्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
पूरविंशतिवर्षा पि च भवति कुमारीभूता | तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं |
SK
पूरविंशतिवर्षा ति पूरविंशोदकवर्षा | पूरविंशो सम्वत्सरो | पूरविंशो सम्वत्सरो | पूरविंशतिवर्षा | कुमारीभूता ति अविरोपितब्रह्मचर्या | अदेशितशिक्षा ति अदेशितशिक्षैव अदेशितशिक्षा | तं च से कर्म कुर्वन्ति ज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं | एवम् अप्य् एषा अदेशितशिक्षा | उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | तेन भगवान् आह |
SK
पूरविंशतिवर्षा पि च भवति कुमारीभूता | तञ् चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९८
SK
अपरिपूरशिक्षा
SK
२१२. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि देशित शिक्षाम् उपस्थापयन्ति | भिक्षुणीयो दानि ओज्झायन्ति | अस्त्य् एषा देशितशिक्षा न ज्ञायते परिपूरशिक्षा वा न वेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि न क्षमति देशितशिक्षाम् अपि अपरिपूरशिक्षाम् उपस्थापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | यावत् पर्यवदातानि भविष्यन्ति |
SK
देशितशिक्षा पि च भवति कुमारीभूता तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं |
SK
देशितशिक्षा ति देशितशिक्षैव देशितशिक्षा अनङ्गोपेताये | देशितशिक्षा तञ् च से कर्म कुर्वन्ति | ज्ञप्तिसम्पन्नं गणसम्पन्नं अनुश्रावणासम्पन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन अनुपक्लिष्टं | एवम् एषा देशितशिक्षा |
SK
अपरिपूरशिक्षा ति अष्टादशहि वर्त्तेहि द्वे वर्षाणि अशिक्षितशिक्षा | कतमेहि अष्टादशहि सर्वभिक्षुणीनां नविकेत्य् आदि पूर्ववत् यथा गुरुधर्मेषु | न च ताये क्षमति एकाकिनीय ग्रामं पिण्डाय प्रविशितुं | अथ खु भिक्षुणीय वा श्रमणेरीय वा सह पिण्डाय प्रविशितव्यं | न क्षमति एकाकिनीय अध्वानं गन्तुं | यदि सा अष्टानाम् अन्यतरान्यरापत्तिम् आपद्यति पुनः शिक्षा देशितव्या | एकान्नविंशतिम् आरभ्य सर्वं दुष्कृतेन कारापयितव्या यानि ऊनकानि द्वे वर्षाणि शिक्षति सापरिपूरशिक्षा | उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं | तेन भगवान् आह |
SK
देशितशिक्षा पि च भवति कुमारीभूता | तां चापरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ९९
SK
असंमता
SK
२१३. भगवान् श्रावस्तीयम् विहरति | भगवता दानि शिक्षापदं प्रज्ञप्तं | न क्षमति अपरिपूरशिक्षाम् उपस्थापयितुं | ता दानि भिक्षुणीयो विंशतिवर्षां कुमारीभूतां देषितशिक्षां परिपूरशिक्षाम् उपस्थापयन्ति | भिक्षुणीयो दानि ओज्झायन्ति | अस्त्य् एषा देशितशिक्षा | नो तु जानाम परिपूरशिक्षा वा न वा ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् भगवान् आह | तेन हि या एषा विंशतिवर्षा कुमारीभूता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये भिक्षुणीभावं ताय संघो उपथापनासम्मुतिं याचितव्यो |
SK
शृणोतु मे आर्य संघो | इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | यदि संघस्य प्राप्तकालं इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं याचेय्या | याचिष्यति आर्या संघो इयम् इत्थन्नामा संघं उपस्थापनासम्मुतिं | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि | ताय दानि याचितव्यं | वन्दाम्य् आर्या संघं | अहम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देसितशिक्षा परिपूरशिक्षा आकाङ्क्षामि तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | साहं संघम् उपस्थापनासम्मुतिं याचामि | साधु वत मे आर्या संघो उपस्थापनासम्मुतिं देतु | एवं द्विर् अपि त्रिर् अपि याचितव्यं |
SK
कर्म | शृणोतु मे आर्या संघो | इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | सा संघम् उपस्थापनासम्मुतिं याचति | यदि संघस्य प्राप्तकालं सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं दद्यात् | ओवयिका एषा ज्ञप्तिः |
SK
शृणोतु मे आर्या संघो | इयम् इत्थन्नामा विंशतिवर्षा कुमारीभूता देशितशिक्षा परिपूरशिक्षा आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं | सा संघम् उपस्थापनासम्मुतिं याचति | तस्या सम्घो इत्थन्नामाये उपस्थापनासम्मुतिं देति | यस्या आर्यमिश्रिकाणां क्षमति इत्थन्नामाये विंशतिवर्षाये उपस्थापनासम्मुतिं दीयमानां संघेन | सा तूष्णीम् अस्य | यस्या न क्षमति सा भाषतु | एवं द्वितीया तृतीया कर्मवाचना | दिन्ना आर्यमिश्रिकायो इत्थन्नामाये विंशतिवर्षाये कुमारीभूताये देशितशिक्षाये परिपूर्णशिक्षाय उपस्थापनासम्मुतिः संघेन | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति | [१] परिपूरशिक्षा पि च भवति तां चासंमताम् उपस्थापयेत् पाचत्तिकं |
SK
परिपूरशिक्षा पि च भवतीति अष्टादशवर्त्तेहि द्वे वर्षाणि देशितशिक्षा | तां चासंमताम् इति असंमता एवम् असंमता अपरिपूरशिक्षा पि असंमता तम् च से कर्म करोन्ति प्रज्ञप्तिविपन्नं गणविपन्नं अनुश्रावणाविपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं | एवं पि एषा असंमता | उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | तेन भगवान् आह |
SK
| [२] पूरविंशतिवर्षा पि च भवति कुमारीभूता देशितशिक्षा च परिपूरशिक्षा च | तां चासंमताम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १००
SK
ऊनद्वादशवर्षा गृहिचरिता
SK
२१४. भगवान् श्रावस्तीयम् विहरति | ता दानि शाकियकन्यायो मल्लकन्यायो कोलीयकन्यायो गृहिचरितायो प्रव्रजितायो पटु कायो उच्चक्षुकायो क्षिप्रनिशान्तिकायो | महाप्रजापती गौतमी भगवन्तं पृच्छति | लभ्या दानि भगवन् ऊनविंशतिवर्षां गृहिचरिताम् उपस्थापयितुं | भगवान् आह | लभ्या | तायो अष्टवर्षाम् नववर्षां गृहिचरिताम् उपस्थापयन्ति | ता अप्रतिसंख्यानवर्तिन्यो भवन्ति | यथा ऊनविंशतिवर्षाः | यावद् भगवान् आह | न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं |
SK
गृहिचरिता ति विकोपितब्रह्मचर्या | उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | या एषा गृहिचरिता आकाङ्क्षति तथागतप्रवेदिते धर्मविनये उपसंपदं भिक्षुणीभावं सा ताय अनुग्राहितव्या | पेयालं | यावत् हस्तपादा निवासयितव्याः | तेन भगवान् आह |
SK
या पुन भिक्षुणी ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयेत् पाचत्तिकं
SK
उद्दानं | सम्मुखम् [९१] | ऊनद्वादशवर्षा [९२] | अनङ्गोपेता [९३] | असम्मता [९४] | दुःशीला [९५] | ऊनविंशतिवर्षा कुमारीभूता [९६] | अदेशितशिक्षा [९७] | अपरिपूरशिक्षा [९८] | असम्मता [९९] | ऊनद्वादशवर्षा गृहिचरिताय [१००] पूर्यते दशमो वर्गः ||
SK
पाचत्तिकधर्म १०१
SK
अदेशितशिक्षा
SK
२१५. भगवान् श्रावस्तीयम् विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति ऊनद्वादशवर्षां गृहिचरिताम् उपस्थापयितुन् ति | तायो दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरिताम् उपस्थापयन्ति | भिक्षुणीयो दानि ओज्झायन्ति | को जानाति पूरद्वादशवर्षा वा न वेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यथा कुमारिभूताय अष्टादशवर्षाय द्वे वर्षाणि शिक्षादेशनासम्मुतिर् याचितव्या | विस्तरेण | तेन भगवान् आह |
SK
पूरद्वादशवर्षा पि च भवति गृहिचरिता तां चादेशितशिक्षाम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०२
SK
अपरिपूरशिक्षा
SK
२१६. भगवान् श्रावस्तीयम् विहरति | सुदिन्ना नाम अभटगणकभार्या प्रव्रजिता | ताय कल्याये शिक्षा देशिता | ताय दानि गृहिभूताय कुक्षि प्रतिलब्धो | सो पि वृद्धो | भिक्षुणीयो दानि ओज्झायन्ति | इयन् ताव देशितशिक्षा | इयं च कुक्षिवती | स निर्वेठेति | आर्यमिश्रिकायो यतो हं प्रव्रजिता नामभिजानाम्य् अहं एतद् धर्मम् प्रतिषेवितुं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं यावद् भगवान् आह | यतो दानि एषा प्रव्रजिता | न एषा जानात्य् एतं धर्म प्रतिषेवितुं | गृहिभूताय एताय कुक्षिः प्रतिलब्धो | या दानि एषा ईदृशी भवति न क्षमति उपस्थापयितुं | अथ खलु यदि तावद् दारिकां जनयति यदा स्तनिका गृहान् निर्गता भवति ततो उपस्थापयितव्या | अथ दारकं जनयति यदा अयं स्तनीभूतो भवति ततो उपस्थापयितव्या | अथ दानि ताये सालोहितो भवति ज्ञातिको वा आहंसुः | वयं एतन् दारकम् उपस्थास्याम इति उपसंपादयितव्या | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | तथैव कर्तव्यं यथा कुमारीभूताये | तेन भगवान् आह |
SK
देशितशिक्षा पि च भवति गृहिचरिता नां अपरिपूरशिक्षाम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०३
SK
असम्मता
SK
२१७. भगवान् श्रावस्तीयम् विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति ऊनद्वादशवर्षाम् गृहिचरिताम् उपस्थापयितुन् ति | ता दानि भिक्षुणीयो पूरद्वादशवर्षां गृहिचरितां देशितशिक्षाम् उपस्थापयन्ति | ता दानि भिक्षुणीयो ओज्झायन्ति | अस्त्य् एषा देशितशिक्षा न तु जानाम परिपूरशिक्ष वा न वेति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यथा कुमारीभूताये यावत् तेन भगवान् आह |
SK
परिपूरशिक्षा पि च भवति गृहिचरिता | तां चासम्मताम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०४
SK
नानुशासेत्
SK
२१८. भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो उपस्थापिय उपस्थापिय नाववदन्ति नानुशासन्ति | तायो दानि इन्द्रगवा इव वर्धन्ति यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपत्तव्यं | पेयालं | यावद् भगवान् आह | दुष्कृतं वो भिक्षुणीयो एवञ् च नामा यूयं उपस्थापयित्वा नाववदथ नानुशासथ | तेन हि द्वे वर्षाणि ओवदितव्या अनुशासितव्या |
SK
अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेय नानुशासयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | उपस्थायिका ति उपाध्यायिनी | उपस्थापितान् ति सार्धं विहारिणी | द्वे वर्षाणीति द्वे दकवर्षाणि | नाववदेद् इति अभिधर्मे वा अभिविनये वा | अभिधर्मो नाम नवविधः सूत्रान्तः |
SK
अभिविनयो नाम प्रातिमोक्षः विस्तरप्रभेदेन | नानुशासेद् इति आचारम् अकुर्वन्तीम् अनाचारं कुर्वन्तीं न निर्द्धमेया न दण्डकर्म दद्यात् पाचत्तिकं | अथ दानि सा उपस्थापिता दुर्वचा भवति शैथिलिका वा बाहुलिका वा अशिक्षाकामा निर्द्धमितव्या | भिक्षुर् अपि सार्धं विहारिनं नावावदति नानुशासति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेन् नानुशासेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०५
SK
नोपस्थिहेत्
SK
२१९. भगवान् श्रावस्तीयम् विहरति | ता दानि भिक्षुणीयो उपस्थापिताः अन्येन गच्छन्ति | ता दानि उपाध्यायिनीयो ओज्झायन्ति | अस्माकं भगवता दण्डकर्म प्रज्ञप्तं | इमा सामोक्तिका | या दानि उपस्थापिता अन्येन गच्छन्ति | कथम् इमाः अस्माभिर् अववदितव्यायो अनुशासितव्यायो | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावच् छब्दापिता | तद् एव सर्वं पृच्छीयन्ति | आम भगवन् | भगवान् आह | दुष्कृतं वो भिक्षुणीयो एवं नाम यूयम् उपस्थापिताः अन्येन गच्छथ | तेन हि उपस्थापिताय उपस्थायिका द्वे वर्षाणि अनुबन्धितव्या | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणि नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | उपस्थापितेति सार्धविहारिणी | उपस्थायिकाम् इति उपाध्यायिनी | द्वे वर्षाणीति द्वे वर्षाणी | नोपस्थिहेद् इति कायपरिचर्यां कुर्यात् | नानुबन्धेद् इति येन गच्छति तेन न गच्छति पाचत्तिकं | यावत् प्रज्ञप्तिः | अथ दानि सा उपस्थायिका अशिक्षाकामा भवति शैथिलिका वा बाहुलिका वा | भिक्षुणी पश्यति | सा मे ब्रह्मचर्यान्तरायो भवेय दृष्ट्वानुकृतिम् आपद्यन्तीयेति अन्येन गच्छति अनापत्तिः | भिक्षुणी उपस्थायिकां नोपस्थिहति नानुबन्धति पाचत्तिकं | भिक्षुर् अपि उपाध्यायं द्वे वर्षान् नोपस्थिहति नानुबन्धति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणी नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०६
SK
अनुवर्षम्
SK
२२०. भगवान् श्रावस्तीयम् विहरति | ता दानि भिक्षुणीयो अनुवर्षम् उपस्थापयन्ति | तासां दानि कौकृत्यं | किन् नु खल्व् एतं लभ्यं कर्तुं | उताहो न लभ्यं | पेयालं | यावद् भगवान् आह | तेन हि न क्षमति अनुवर्षम् उपस्थापयितुं | अथ खलु वीचिः कर्तव्या |
SK
या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अनुवर्षन् ति अनुसम्वत्सरं | उपस्थापयेद् इति उपस्थापयेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी अनुवर्षम् उपस्थापयेति पाचत्तिकं | एकं वर्षम् उपस्थापयितव्यं | अपरवर्षे वीचिः कर्तव्या | अथ दानि भिक्षुणी कृतपुण्या भवति एकं वर्षं शिक्षा देशयितव्या | अपरं वर्षम् उपस्थापयितव्या | किञ्चापि भिक्षुः अनुवर्षम् उपस्थापयेद् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी अनुवर्षम् उपस्थापयेत् पाचत्तिकम्
SK
पाचत्तिकधर्म १०७
SK
एकतो विशुद्धां
SK
२२१. भगवान् राजगृहे विहरति | तहिं दानि जेता नाम भिक्षुणी | सा अन्तेवासिनीं भिक्षुणीहि उपसंपादीयान स्थूलनन्दां भिक्षुणीम् आह | आर्ये मम अन्तेवासिनी उपसम्पाद्या साधु आर्ये आर्यमिश्रिकानां गणं पर्येषेहि | ताय गत्वा षद्वर्गिका भिक्षू आनीता | सा दान् आह | नाहम् एतेहि उपसंपादयेयं | ताय दानि अपरं दिवसं भद्रकाणां भिक्षुणां गणं समुदानयित्वा उपसंपादयित्वा | एतं प्रकरणं भिक्षुणीयो मजाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | दुष्कृतं ते जेते एवन् नाम त्वं एकतो विशुद्धां परिवासिकिनीम् उपस्थापयसि | एवन् नाम त्वं गणम् अवजानासि | तेन हि न क्षमति गणम् अवजानितुं | पेयालं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी एकतो विशुद्धां परिवासिकिनीम् उपस्थापयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | एकतो विशुद्धाम् इति भिक्षुणीगणेनोपसम्पन्नां | पारिवासिकिनीम् इति परिवसितरात्रिं | उपस्थापयेद् इति उपसम्पादयेन् न भिक्षुगणेन पाराजिकं | यावत् प्रज्ञप्तिः | न क्षमति एकतो पारिवासिकिनीम् उपस्थापयितुं | नापि क्षमति अपरिशुद्धेन उपसंपादयितुं | अथ खलु प्रतिकृत्य् एव ताव भद्रकाणां भिक्षूणां गणो समुदानयितव्यो | अथ दानि अन्ये भद्रकाः अन्ये अभद्रकाः तथा कर्तव्यं यथा भद्रोत्तराणि कर्माणि भवन्ति | भिक्षुणा पि भद्रोत्तराणि कर्माणि कर्तव्यानि | अथ दानि गणम् अवजानाति विनयातिक्रमम् आसादयति | अथ दानि सेनाभयं वा भवति परचक्रभयं वा नगरोपरोधो वा किञ्चापि पारिवासिकिनीम् उपस्थापयेत्य् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी एकतो विशुद्धां पारिवासिकीनीम् उपस्थापयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १०८
SK
षट्पञ्च योजना
SK
२२२. भगवान् वैशालीयम् विहरति | या सा कालीय त्रियन्तरा लेच्छविधीता उपस्थापिता | सा दानि आगारिकेहि च सार्धं संसृष्टा विहरति | सा भिक्षुणीहि वुच्चति | आर्ये कालि या दानि उपस्थापिता त्वं जानासि आगारिकेहि च परिव्राजकेहि च संषृष्टां | किम् अर्थं न व्यपकर्षसि न व्यपकर्षापयसि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | दुष्कृतं ते कालि यावत् पर्यवदातानि भविष्यन्ति
SK
या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपासु आपदासु न व्यपकर्षेन् न व्यपकर्षापयेद् अन्तशः षट्पञ्च योजना ति पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | उपस्थायिका ति उपाध्यायिनी | उपस्थापिता ति सार्धेविहारिणी | तथारूपासु आपदासू ति स्वयम् वा प्रत्योधावितुकामा ज्ञातिका वा प्रत्योधावयितुकामा अन्येहि वा संसृष्टा भवति | न व्युपकर्षतीति स्वयं न व्युपकर्षापयतीति परेहि | अन्तमसतो षट्पञ्च योजना ति न दानि षट्पञ्च च परमं | षड् एव पाचत्तिकं | यावत् प्रज्ञप्तिः | एषा दानि भिक्षुणीये सार्धम् विहारिणी वा अन्तेवासिनी वा संसृष्टा भवति व्यपकर्षितव्या वा व्यपकर्षापयितव्या वा चारिकाय वर्णो भाषितव्यः | अथ दानि जरादुर्बलावा व्याधिदुर्बला वा भोति अन्याहि भिक्षुणीहि व्यक्पकर्षयितव्या | वक्तव्या | चेतीय वन्दना भविष्यति | भिक्षुदर्शनम् भविष्यति | यदा वयं तरुणीयो आसि एवम् अस्माभिर् अटितं |
SK
भिक्षुर् अपि सार्धं विहारिं उत्कण्ठितन् न व्यपकर्षयति न व्यपकर्षापयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथारूपास्व् आपदासु न व्यपकर्षयेत् न व्यपकर्षापयेत् अन्तमसतो षट्पञ्च योजना ति पाचत्तिकं
SK
पाचत्तिकधर्म १०९
SK
किं पुनः
SK
२२३. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी अनङ्गोपेता उपस्थापयति | सा नाववदति नानुशासति | ता इन्द्रगवा विय वर्धन्ति शिवच्छगला विय वर्धन्ति | पेयालं | यावत् कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं | सा दानि भिक्षुणीहि वुच्चति किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन यं आर्यामेवं वक्तव्या अनुशासितव्या | सा दान् आह | किं भद्रायिणीयो इर्ष्यापथा मम पर्षाम् उपस्थापयन्तीयो | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | दुष्कृतं ते नन्दे एवन् नाम त्वं क्षियाधर्मम् आपद्येसि | तेन हि न क्षमति क्षियाधर्मम् आपद्यितुं | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणीहि एवम् उच्यमाना | हिम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेन | यं आर्या एवम् वक्तव्या अनुशासितव्येत्य् उक्ता समाना क्षियाधर्मम् आपद्येय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | भिक्षुणीहीति संघेन महाजनेन एकपुद्गलेन | किम् पुनर् आर्याये अनङ्गोपेताये ति दशहि अङ्गेहि समन्वागता अङ्गोपेता | प्रातिमोक्षसम्वरसम्वृता भवति [१] | बहुश्रुता भवत्य् अभिधर्मे [२] | बहुश्रुता भवत्य् अभिविनये [३] | यावत् | द्वादश वर्षा च भवति [१०] | यस्या इमानि दशाङ्गानि न सम्विद्यन्ते सा भवति अनङ्गोपेता | क्षियाधर्मम् आपद्येय ति विवाचयेत् पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी भिक्षुणीहि युच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति क्षियाधर्मम् आपद्येय पाचत्तिकं | भिक्षुर् अपि भिक्षूहि वुच्यमानो किम् पुनर् आयुष्मतो अनङ्गोपेतस्य उपस्थापितेनेति क्षियाधर्मम् आपद्येय विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणीहि एवं वुच्यमाना किम् पुनर् आर्याये अनङ्गोपेताये उपस्थापितेनेति उक्ता क्षियाधर्मम् आपद्येय पाचत्तिकं
SK
पाचत्तिकधर्म ११०
SK
न विसर्जयेत्
SK
२२४. भगवान् वैशालीयम् विहरति | अपरा दानि शिक्षमाणा स्थूलनन्दाम् आह | साधु मे आर्ये नन्दे उपसंपादय मां | सा दान् आह | बाढं अहं ते उपसंपादयिष्यन् ति | सा विलक्षेति | नैवोपसंपादेति न विसर्जयति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावत् शब्दापयथ नन्दां | सा दानि शब्दापिता | तद् एव सर्वं पृच्छीयति | यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे |
SK
या पुन भिक्षुणी शिक्षमाणाम् एवं वादेत् | यदा पूरशिक्षा भविष्यसि ततो हम् उपस्थापयिष्यन् ति वदित्वा नैवोपसंपादयेन् न विसर्जयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पेयालं | शिक्षमाणेति अष्टादशेहि वर्त्तेहि द्वे वर्षाणि देश्तितशिक्षा | एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी | अहन् ते उपस्थापयिष्यन् ति उपस्थापयितव्या | अथ दानि न प्रतिबला भवति अन्या अध्येषितव्या | अथ दानि नैवात्मना उपस्थापयति नाप्य् अन्यां अध्येषयति न विसर्जयति | गच्छ यत्रेच्छसि तहिं उपसम्पद्याहीति | सा एषा भिक्षुणी शिक्षमाणाम् उक्त्वा अहन् ते उपस्थापयिष्यन् ति पश्चान् नोपसम्पादयेन् न विसर्जयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १११
SK
यानम्
SK
२२५. भगवान् वैशालीयम् विहरति | अथ भद्रा कापिलेयी चतुर्युक्तं यानम् अभिरुहित्वा ज्ञातिकुलं गच्छति | जनो दानि ओज्झायति | पश्यथ भणे श्रमणिका महच्छन्दा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी यानम् अभिरुह्येत् पाचत्तिकं | एषैवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | ता दानि शाकीयकन्याः कोलीयकन्याः लेच्छविकन्याश् च प्रकृतिसुकुमाराः प्रव्रजिताः | पादेहि गच्छन्तीयो किलम्यन्ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि अनुजानामि गिलानाये | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति यावत् |
SK
या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिः गिलानाये | ग्लान्यं नाम जरादुर्बला वा व्याधिदुर्बला वा प्रकृतिसुकुमारा वा न शक्नोति पद आगच्छन्तु इदम् अत्र गैलान्यम् अभिप्रेतं | यानन् नाम हस्तियानं अश्वयानम् उष्ट्रयानं गोयानं गर्दभयानं नावायानं शिविकायानं यानयानम् एव अष्टमं | अभिरुह्येत् पाचत्तिकं | न क्षमति भिक्षुण्या यानम् अभिरुहितुं | यत्र उष्ट्रा वा गोणा वा युक्ता भवन्ति | अथ खलु स्त्रीयानम् अभिरुहितव्यं | यहिं उष्ट्रीयो वा गोणीयो वा युक्ता भवन्ति तहिं आरुहितव्यं | अथ दानि असंज्ञिका भवति न स्त्रीं न पुरुषं जानाति अनापत्तिः | अथ दानि नावाय अपरात् परम् उत्तरत्य् अनापत्तिः | ऊर्ध्वङ्गामिनीयम् वा अधोगामिनीयम् वा प्रत्ययो अधिष्ठिहितव्यो मा मरिष्यामीति | भिक्षुर् अपि अगिलानो यानमभिरुहति विनयातिक्रमम् आसादयति | प्रत्ययम् अधिष्ठिहति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना यानम् अभिरुहेत् पाचत्तिकं |रा ||
SK
पाचत्तिकधर्म ११२
SK
छत्र
SK
२२६. भगवान् वैशालीयम् विहरति | भद्रा कापिलेयी छत्रेण गृहीतेन उपानहाभ्याम् आबद्धाभ्यां ज्ञातिकुलं गच्छति | जनो दानि ओज्झायति | पश्यथ भणे श्रमणिका अद्यापीयं प्रव्रजिता पि महच्छन्दा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि न क्षमति छत्रोपानहं |
SK
एषैवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | ता दानि शाकीयकन्याः लेच्छविकुमाराः प्रव्रजिता गच्छन्तीयो आतपेन दह्यन्ते | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं यावद् भगवान् आह | तेन हि अनुजानामि गिलानाये | यावात् |
SK
या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं |
SK
या पुन भिक्षुणी ति उपसम्पन्ना | अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्तिर् गिलानाये | किन् तावद् अत्र गैलान्यम् अभिप्रेतं | जरादुर्बला वा व्याधिदुर्बला व प्रकृतिसुकुमारा वा | शक्नोति गन्तुं आतपेन दह्यते | छत्रोपानह इति छत्रन् नाम भूर्जछत्रं तालछत्रं वेणुछत्रं पर्णछत्रं चैलछत्रम् | उपानहा नाम एकपलासिका संपुटा वा | धारयेद् इति परिभुञ्जेत् पाचत्तिकं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी अगिलाना छत्रन् धारेति न उपानहां विनयातिक्रमम् आसादयति | उपानहान् धारेय न छत्रं विनयातिक्रमम् आसादयति | उभयन् धारेति पाचत्तिकं | नोभयं अनापत्तिः | भिक्षुर् अपि पिचुमस्तकादि छत्रं धारेति संपुटाम् वा अनिर्मोकां विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना छत्रोपानहं धारयेत् पाचत्तिकं |
SK
पाचत्तिकधर्म ११३
SK
मञ्च
SK
२२७. भगवान् वैशालीयम् विहरति | भद्रा दानि कापिलेयी ज्ञातिकुलं गच्छति | तेषां शय्या आस्तृतप्रत्यास्तृता द्विकडेवर त्रिकडेवरेहि निश्रेणीय आरुह्यति | चरकपरिव्राजका भिक्षुणीयो च भिक्षार्थं प्रविशन्ति | ते तां दृष्ट्वा ओज्झायन्ति | पश्यथ भणे श्रमणिका अद्यापीयं महच्छन्दा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावच् छब्दापयथ भद्रां | सा दानि शब्दापिता | तद् एव सर्वं भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | एवं नाम त्वं अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदसि अभिनिपद्यसि | तेन हि न क्षमति अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदितुं वा अभिनिपद्यितुम् वा | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अतिरेकप्रामाणिके इति सुगताष्टाङ्गुलप्रमाणतो उत्तरि | मञ्चे वा पीठे वा ति चतुर्दश मञ्चाः चतुर्दश पीठाः | अभिनिषीदेय वा ति आसेय | अभिनिपद्येय वा ति शय्यां कल्पयेत् पाचतिकं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी सकृन् निषण्णा दिवसं पि निषीदति एकं पाचत्तिकम् आसादयति | अथ पुनो पुनो निषीदति तावत्यः पाचत्तिकाः | अतिरेकप्रमाणं भूमौ निखनित्वा उपविशति वा निपद्यति वा अनापत्तिः | भिक्षुर् अपि अतिरेकप्रामाणिके मञ्चे वा पीठे वा निषीदति वा अभिनिपद्यति वा विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अतिरेकप्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं
SK
पाचत्तिकधर्म ११४
SK
एकास्तरणा
SK
२२८. भगवान् श्रावस्तीयम् विहरति | ता दानि षड्वर्गिणीयो भिक्षुणीयो एकास्तरणप्रावरणां शय्यां कल्पयन्ति | तायो मञ्चां भञ्जन्ति बिशिकां पाटेन्ति चतुरस्रकां पाटेन्ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावत् ता दानि शब्दापिताः पृच्छीयन्ति | यावद् आम भगवन् | भगवान् आह | दुष्कृतं वो भिक्षुणीयो यावत् |
SK
या पुन भिक्षुणी एकास्तरणप्रावरणां सहशय्यां कल्पयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | एकास्तरणा ति एकमञ्चास्तरणा | एकप्रावरणा ति एकचेला | शेय्या ति पङ्गुलमञ्चो पङ्गुलपीठो यावत् कटकिलञ्जादयो | कल्पयेद् इति कुर्यात् | पाचत्तिकम् यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीये सहशय्यां कल्पयितुं | अथ खलु मञ्चे एकाकिनीय शयितव्यं | त्रिहि पीठेहि द्विहि जनाहीति पादां प्रासारयन्तीहि तथा प्रसारयितव्याः यथा अन्यमन्यस्य जानुका नाक्रमेयुः | बिस्याम् एकाकिन्या शयितव्या | तिर्यक् प्रज्ञप्ताया तृहि जनेहि शयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि यथा चतुरस्रके यथा पीठे | अथ दानि तृणादि संस्तरो भवति न क्षमति अतिबहुं आक्रमितुं | अथ खु निर्मुष्टिकं समं प्रज्ञापयितव्यं पाटियकपाटियकेहि प्रत्यास्तरणेहि | अथ दानि शीतम् भवति स्वकस्वकान्य् अन्तरीकरणानि कृत्वा एकं संचेली कर्तव्या | भिक्षुर् अपि सहशय्यां कल्पयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी सहशय्यां कल्पयेत् पाचत्तिकं
SK
पाचत्तिकधर्म ११५
SK
प्रक्रमति
SK
२२९. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी सांघिके विहारे शय्यासनं रुन्धित्वा चारिकां प्रक्रान्ता | भिक्षुणीयो आगन्तुकायो आगतायो | तायो भिक्षुणीयो यथावृद्धिकाय उत्थापीयन्ति तस्मिन् विहारे सांघिकं शय्यासनं | ता भिक्षुणीयो दानि ओज्झायन्ति | किम् अस्य दानि सांघिकं शयनासनं निरुन्धिय चारिकां प्रक्रमीयति | न शयनासनम् अनिःसरित्वा गन्तव्यं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावच् छब्दापयथ नन्दां | सा दानि शब्दापिता | एतद् एव पृच्छियति यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे एवं च नाम त्वं सांघिकं शयनासनं अनिःसरित्वा चारिकां प्रकरमसि | तेन हि न क्षमति सांघिकं शयनासनम् अनिःसरिव्ता चारिकां प्रक्रमितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रामेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | सांघिकं शयनासनन् ति मञ्चम् वा पीठम् वा बिसिकाम् वा चतुरस्रकाम् वा कुच्चम् वा बिम्बोहनम् वा | अनिःसरित्वा ति अनिर्यातयित्वा | चारिकां प्रक्रमेया ति अन्यत्र गच्छेत् पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीये सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमितुं | प्रक्रमन्तीय वक्तव्यं यथा पलिगुद्धं शयनासनं निःसरामीति | अनिःसरित्वा प्रक्रामति पाचत्तिकम् आसादयति | अथ दानि एकवस्तुको संघारामो भवति अनिःसरित्वा चारिकां प्रक्रमति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमेय पाचत्तिकं |ण्àüक ||
SK
पाचत्तिकधर्म ११६
SK
प्रविशति
SK
२३०. भगवान् श्रावस्तीयम् विहरति | सो दानि गर्तोदरपिता स्वविहारे स्नापयति | गर्तोदरमाता अप्रतिसम्विदिता विहारं गच्छति | प्रविशित्वा पृष्ठिम् अस्य मर्दति | तेनावलोकिता | सो दान् आह | अये हि स्त्री ति | सा दान् आह | अपापा गर्तोदरपिता | कस् तावद् अत्र दोषो ऽयं दानि अहं अन्यदापि अन्यदापि स्नापयामि | सो दान् आह | अन्यदाहम् गृही आसि इदानीं प्रव्रजितो | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावच् छब्दापयथ गर्तोदरमातां | सा दानि शब्दापिता तद् एव सर्वं | भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | अन्यदापि स्नापयामि | सो दान् आह | दुष्कृतन् ते गर्तोदरमाते यावद् एवन् नाम त्वं जानन्ती पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमसि | तेन हि न क्षमति यावद् भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसम्विदिता अनाहूता उपसम्क्रमेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | सभिक्षुकन् ति अन्तमसतो यहिं एकभिक्षुर् अपि भवति | संघारामन् ति आरण्यकम् वा ग्राम्ऽअन्तिकम् वा | पूर्वे अप्रतिसम्विदिता ति अनिवेदिता | अनाहूता ति अशब्दापिता | उपसम्क्रमेया ति प्रविशेय | यथा गर्तोदरमाता भिक्षुणी | पाचत्तिकं पेयालं यावत् प्रज्ञप्तिः |
SK
एता दानि यो भिक्षुणीयो परिवेणं गच्छन्ति द्वारकोष्ठके स्थित्वा निवेदयितव्यं | वन्दाम्य् आर्य प्रविशामः | तेनापि दानि भिक्षुणा भिक्षवो जानापयितव्या मा दानि भिक्षू विप्रकटा भवेंसू ति | यदि विप्रकटा भोन्ति मृत्तिकाकर्मेण वा इष्टकाकर्मेण वा | अपलिगुद्धा भवन्ति वक्तव्यं | आगमेथ तावद् भगिनीयो | तेन ते भिक्षू उपसंक्रामित्वा वक्तव्याः | आयुष्मन्तो निवासेथ प्रावरथ भिक्षुणीयो प्रविशन्ति | न च अकुशलेन अप्रकृतिज्ञेन वक्तव्यं | सहसा मा प्रविशथेति | अथ खलु वक्तव्यं | विप्रकटा भिक्षवो मा प्रविशथ | अथ दानि अप्रतिसंविदिता प्रविशन्ति पाचत्तिकं | एकं पादं प्रवेशयति विनयातिक्रमम् आसादयति | द्वितीयपादं प्रवेशयति पाचत्तिकं | तत एव प्रत्योशक्कति विनयातिक्रमम् आसादयति | भिक्षुर् अपि अप्रतिसंविदितो भिक्षुनीउपाश्रयं प्रविशति विनयातिक्रमम् आसादयति | अथ खु द्वारकोष्ठके स्थित्वा अच्छटिका कर्तव्या | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसंविदिता अनाहूता उपसंक्रमेय पाचत्तिकं ||तृ ||
SK
पाचत्तिकधर्म ११७
SK
समनुष्य
SK
२३१. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो ग्रामवासके वासम् उपगताः | तेहि दानि अपरा स्त्री विप्रवस्तपतिका उक्ता | प्रजापति देहि अस्माकं प्रतिश्रयं | सा दान् आह | आर्ये कुटुम्बिको मम विप्रवुस्तो | मा सहसा आगमिष्यति | ता दान् आहंसुः | कः पुनर् एवं ज्ञास्यति आगमिष्यति वा न वेति | ताय दिन्नो प्रतिश्रयो तासान् दानि भिक्षुणीनां प्रतिक्रान्तानां | सो पुरुषो विकाले आगतो | सो दानि खादित्वा पिबित्वा क्लेशे पीडितो भार्याय सार्धं म्श्रीभूतो | ता दानि भिक्षुणीयो तेन शब्देन प्रतिबुद्धाः | या दानि अविगतरागाः तासाम् अस्पर्शसंज्ञा उत्पन्ना |
SK
एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् भगवान् आह | शब्दापयथ तायो दानि भिक्षुणीयो | तायो शब्दापितायो तद् एव सर्वं | भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | एवं च नाम यूयं जानन्तीयो संभोजनीये कुले अनुपखज्जासनं शय्यां कल्पयथ | तेन हि न क्षमति |
SK
एषैवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो अन्यतरस्मिं ग्रामवासके वासम् उपगताः | तायो दानि सर्वग्रामम् अण्विताः न कहिञ्चिद् अपुरुषं गृहं लभन्ति | ता दानि रथ्यायां प्रतिक्रान्ताः रात्रौ वातवृष्टिर् उत्थिताः | विहेठिता दुःखिताः संवृत्ताः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि अनुजानामि वातसमये वृष्टिसमये |
SK
एषैवार्थोत्पत्तिः | भगवान् श्रावस्तीयम् विहरति | यावत् रथ्यायाम् वा सोपगता भिक्षुणीयो | स्त्रियो आरोचयेंसुः | इमं गृहंसुः इमं गृहं प्रविशथ धूर्तकानाम् इह भयं | भिक्षुणीयो आहंसुः | नहि | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति सपुरुषके गृहे शय्यां कारयितुं | तायो तहिं रात्रौ धूर्तकेहि विहेठिताः तत्रान्यतरा ब्रह्मचर्यातो च्याविताः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि अनुजानामि पुरुषाशङ्कितसमयं यावत् |
SK
या पुन भिक्षुनी जानन्ती संभोजनीये कुले अनुपखज्जेशय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं |
SK
तत्रायं समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो अयम् अत्र समयो ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | संभोजनीयन् ति स्त्रीया पुरुषो भोजनं पुरुषस्यापि स्त्री भोजनं | कुलन् ति ब्राह्मकुलं यावद् राजकुलं यानि वा पुनर् अन्यान्य् अपि काञ्चित् कुलानि | अनुपखज्ज नाम वासवस्तु यहिं भार्यापतिका प्रतिक्रमन्ति | शय्यां कल्पयन् ति पार्श्वन् दद्यात् | अन्यत्र समय इति प्रत्युद्धृतं भगवता पदम् अनापत्तिः | समयो वातसमयो वृष्टिसमयो पुरुषाशङ्कितसमयो | तत्र वातसमयो नातीतो नानागतो | अथ खु वर्तमानो येव | एवं वृष्टिसमयो | पुरुषाशङ्कितसमयो नाम मा ब्रह्मचर्यान्तरायो भविष्यतीति | सो एषो पुरुषाशङ्कितसमयो नातीतो नानागतो | अथ खु वर्तमानो येव | पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीये जानन्तीये संभोजनीये कुले अनुपखज्जे शय्यां कल्पयितुं |
SK
अथ दानि ज्ञायते अयं मनुष्यः श्राद्धो आलप्तको वा किञ्चापि अनुपखज्जो शय्यां कल्पयन्ति अनापखज्जो शय्यां कल्पयति अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती संभोजनीये कुले अनुपखज्जे शय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं | तत्रायं समयो वातसमयो वृष्तिसमयो पुरुषाशङ्कितसमयो | अयम् अत्र समयो |रा ||
SK
पाचत्तिकधर्म ११८
SK
अध्वानं
SK
२३२. भगवान् श्रावस्तीयम् विहरति | भिक्षू दानि वैशालीयं वर्षोषिताः श्रावस्तीं प्रस्थिताः भगवतो पादावन्दाः | भिक्षुणीहि श्रुतं भिक्षू किल भगवतो पादवन्दा गमिष्यन्तीति | तायो परिवेणं गत्वा आहंसुः | वन्दाम्य् आर्य श्रुणोमः आर्यमिश्राः श्रावस्तीयं गमिष्यन्ति भगवतः पादवन्दा | आहंसुः | आम किङ् कर्तव्यं | आहंसुः | वयम् अपि गमिष्यामः | आहंसुः | भगवता शिक्षापदं प्रज्ञप्तं न क्षमति भिक्षुणीये सह अध्वानमार्गं प्रतिपद्यितुम् | तायो दानि आहंसुः | कदा पुनर् आर्यमिश्रा गमिष्यन्ति | आहंसुः | अमुकं दिवसं | तायो एकद्विकाय दिवसानि गणयन्ति तदहो गमिष्यन्तीति | तायो दानि प्रकृत्येव कृतभक्तकृत्याः निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय मार्गे स्थिताः | ते च भिक्षवो तां वेलां प्रस्थिताः | ते तां दृष्ट्वा आहंसुः | आयुष्मन्तो इमायो तायो भगिनीयो शीघ्रशीघ्रं गच्छन्ति | ता अपि भिक्षुणीयो शीघ्रशीघ्रं गच्छन्ति | ते दानि भिक्षू प्रधाविताः | ता अपि भिक्षुणीयो प्रधावितायो | तहिं दानि या भिक्षुणीयो तरुणीयो बलवन्तीयो ताहि ते भिक्षू अनुजविताः | या तंहि जरादुर्बलायो व्याधिदुर्बलायो प्रकृतिसुकुमारायो तायो चे एहि मुषिताः परिपिट्टिताश् च | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | एवं च नाम तवे तिरोराज्यन् तिरोजनपदं असार्थिका प्रक्रमथ | तेन हि न क्षमति तिरोराज्यां तिरोजनपदम् असार्थिका चारिकां प्रक्रमितुं | यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी तिरोराज्यं तिरोजनपदं असार्थिका चारिकां प्रक्रमेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | तिरोराज्यन् ति परराज्यं | तिरोजनपदन् ति परजनपदं | असार्थिका ति सालो नाम गृहि सार्थो वा प्रव्रजितसार्थो वा शकटसार्थो वा पर्येषितव्यो | चारिका ति अन्यत्र प्रक्रमति | पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी असार्थिका चारिकां प्रक्रमति | यदा मार्गो निस्तीर्णो भवति पाचत्तिकं | अथ दानि सार्थेण सार्धं गच्छन्ति | समं प्रस्थिताः विषमं प्रविशन्ति विनयातिक्रमम् आसादयन्ति | विषमं प्रस्थिताः समं प्रविशन्ति विनयातिक्रमम् आसादयन्ति | समं प्रस्थिताः समं प्रविशन्ति अनापत्तिः | विषमं प्रस्थिताः विषमं प्रविशन्ति पाचत्तिकम् आसादयन्ति |
SK
भिक्षुर् अपि असार्थिको सभयं सप्रतिभयं साशङ्कसम्मतं मार्ग प्रतिपद्यति विनयातिक्रमम् आसादयति | तेन भगावन् आह |
SK
या पुन भिक्षुणी तिरोराज्यन् तिरोजनपदम् असार्थिका चारिकां प्रक्रमेय पाचत्तिकं || ग्रा ||
SK
पाचत्तिकधर्म ११९
SK
उद्यानं
SK
२३३. भगवान् श्रावस्तीयं विहरति | भिक्षुणीयो दानि स्त्रीभिः सह उद्यानभूमिं निर्गताः | स्त्रियो खादन्ति च पिबन्ति च | तत्र भिक्षुण्यः स्त्रीवेषेण चङ्क्रमन्ति आरामगृहकानि वनगृहकानि चित्रगृहकानि नीरीक्षन्तीयो | तायो दानि गूढे प्रदेशे पुरुषेहि विहेठिताः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह |
SK
अन्तोराज्यं कं पि च भवति अन्तोराष्ट्रं | तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं |
SK
अन्तोराज्यं कंपि भवतीति स्वराज्यं | अन्तोराष्ट्रकम् अपीति स्वराष्ट्रं | तत्र च भिक्षुणी आरामगृहकानीति एते दानि भवन्ति | चंपकारामा वा पनसारामा वा अतिमुक्तकारामा वा | वनगृहकानीति एते भवन्ति | न्यग्रोधवना वा द्राक्षावना वा कदलीवना वा दाडिमवना वा मातुलुङ्गवना वा | चित्रगृहकानीति एते भवन्ति सभा वा कूटागारा वा | दर्शनाय गच्छेद् इति प्रेक्षणाय | पाचत्तिकं | यावत् प्राज्ञप्तिः | न क्षमति आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गन्तुं | गच्छति विनयातिक्रमम् आसादयति | यदागता भवति तदा पाचत्तिकम् आसादयति | अथ दानि तत्रैव स्त्रीभिः सह चञ्चूर्यते अनापत्तिः | भिक्षुर् अपि आरामगृहं वा वनगृहं वा चित्रगृहं वा दर्शनाय गच्छति यत्र कामोपभोगिनः क्रीडन्ति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
अन्तोराज्यं कंपि च भवति अन्तोराष्ट्रं पि | तत्र च भिक्षुणी आरामगृहकानि वा वनगृहकानि वा चित्रगृहकानि वा दर्शनाय गच्छेत् पाचत्तिकं
SK
पाचत्तिकधर्म १२०
SK
रहो
SK
२३४. भगवान् वैशालीयम् विहरति | सुजाता नाम भिक्षुणी आयुष्मतो उदायिष्य पुराणद्वितीया | ताय दानि तस्य दूतेन प्रेषितो | एहि त्वं मम ओहेय्यकवारो भविष्यति | सहितका आसिष्यामः | यदा तायो भिक्षुणीयो गोचरं प्रविष्टाः तदायुष्मान् उदायी कालस्यैव निवासयित्वा प्रावरित्वा पात्रचीवरम् आदाय तहिं प्रविष्टो | ते दानि विहारस्य पश्चात् वस्तुके अम्बरीयकेण निषण्णा रक्तचित्ता कर्मण्येनाङ्गजातेन अन्यमन्यस्य अङ्गजातानि निध्यायत्ता आसन्ति | अपरा दानि भिक्षुणी महल्लिका उच्चारकर्माय वा प्रस्रावकर्माय वा पश्चाद् वस्तुकं गता | ताय दृष्टो | सा दानि व्रीडिता प्रत्योसक्किता | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पेयालं | यावद् आम भगवन् | भगवान् आह | दुष्कृतन् ते सुजातिके यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | एका एकेनेति सा च भवति अन्यो च तत्र भोति | सुप्तो मत्तो उन्मत्तोत्क्षिप्तचित्तो वेदनाभिन्नो उत्तानशय्याको अमानुषो तिर्यग्योनिगतो | एवम् अप्य् एषा एका एकेन | रहो ति मिथो | निषद्यां कल्पयति | सहितका आसेयुः | पाचत्तिकं | पेयालं | यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी भिक्षुणा सार्धं सकृन् निसण्णा दिवसम् पि निषीदति एकं पाचत्तिकम् आसादयति | अथ दानि पुनो पुनो उच्छति च निषीदति च तत्तिका पाचत्तिकम् आसादयति | अथ दानि द्वे जना भवन्ति एको विहारं प्रविशति कस्यचिद् अर्थाय भिक्षुणीय शीघ्रम् उत्थिहितव्यं | नापि दानि सहस्राम् आजानेय मां एषा विहेठयितुकामा ति | अथ खु प्रतिसंवेदितव्यं | उत्थास्याम्य् अहं | आह | कस्यार्थाय | वक्तव्यं | एकाये एकेन स्थातुं | सो एषो ऊनसप्तवर्षो चेल्लको भवति | सो आसादनाय न मोचनाय केत्तावता अन्तरेणापत्तिर् भवति | येनान्तरेणानभिसंस्कृता भिक्षा दीयते | अथ दानि आकीर्णजनमनुष्यो भिक्षुणी उपाश्रयो भवति निष्क्रमन्ति च प्रविशन्ति च स्थपतिवर्धकिचित्रकराः किञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः | अथ दानि रथ्यामुखं द्वारं भवति अवीचिः स्त्रियो च पुरुषा च गच्छन्ति अकिञ्चापि तेहि कल्पियकारेहि आसति अनापत्तिः | अथ दानि अन्तरावीचिः छिन्ना भवति पाचत्तिकं | कल्पियकारो प्रवलायति अच्छटिकाय बोधयितव्यो | अथ दानि द्वे भूमके कल्पियकारो तिष्ठति त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः | तत्र वायो वा वेमान्तरेण त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अनापत्तिः | अस्ति दर्शनोपविचारो न श्रमणोपविचारो | अस्ति श्रमणोपविचारो न दर्शनोपिविचारो | अस्ति दर्शनोपविचारो च श्रमणोपविचारो च | अस्ति नैव दर्शनोपविचारो न श्रमणोपविचारः | किन् ति दानि अस्ति दर्शनोपविचारो न श्रमणोपविचारः | प्राकृतेन चक्षुषा पश्यति भिक्षुर् एषो आसति भिक्षुणी वेति नो तु प्राकृतेन श्रोत्रेण तयोर् आयं शृणोति | एवं चतुष्को योजयितव्यः | यावद् एषा आपत्तिः | ग्रामे वारण्ये वा रात्रौ वा दिवा वा छन्ने वा अभ्यवकशे वा एकस्य न महाजने सन्तिके न दूरे | तेन भगवान् आह |
SK
या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं
SK
पाचत्तिकधर्म १२१
SK
पुरुष
SK
२३५. भगवान् श्रावस्तीयम् विहरति | भद्रा दानि कापिलेयी ज्ञातिकुलं गता भ्रातृकेहि भ्रातृपुत्रकेहि मातुलेहि मातुलपुत्रकेहि सार्धं एका एकेन सह तिष्ठति | भिक्षुणीयो दानि पिण्डपातं अण्वन्तीयो दृष्ट्वा ओज्झायन्ति | किन् तावद् इमाये प्रव्रजिताये पुरुषेण सार्धं एकाय एकेन रहो निषीदितुं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः | यावद् भगवान् आह | शब्दापयथ भद्रां | सा दानि शब्दापिता | तद् एव सर्वं पृच्छीयति | यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति | एकाये एकेन पुरुषेण सार्धं रहो निषीदितुं यावद् भगवान् अह |
SK
या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं |
SK
या पुन भिक्षुणी उपसम्पन्ना | पुरुषेण सार्धं एका एकेनेति सा च भवति यावद् एवम् अप्य् एषा एका एकेन | रहो ति मिथ्या | निषद्यां कल्पेया ति सहितका आसेयुः | पाचत्तिकं यावत् प्रज्ञप्तिः सा एषा भिक्षुणी पुरुषेण सार्धं सन्निषण्णा दिवसन् निषीदति एकं पाचत्तिकम् आसादयति | एवं विस्तरेण यथैव भिक्षुणा | तेन भगवान् आह |
SK
या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ||लृं ||
SK
पाचत्तिकधर्म १२२
SK
उपकर्णकेन
SK
२३६. भगवान् श्रावस्तीयम् विहरति | अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गता | भ्रातृदुहितृपुत्रेहि मातुलपुत्रेहि सह अन्तो हस्तपाशस्य तिष्ठति संलपति उपकर्णकं जल्पति | भिक्षुणीयो दानि ओज्झायन्ति | किन् तावद् इमाये प्रव्रजिताये उपकर्णकं जल्पितेन |
SK
अवश्यम् एषा अस्माकम् अर्थाय जल्पति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः यावत् |
SK
या पुन भिक्षुणी पुरुषेन सार्धं अन्तो हस्तपाशस्य संतिष्ठेय वा संलपेय वा उपकर्णम् वा जल्पेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | पुरुषेण सार्धम् इति गृहस्थेन वा प्रव्राजितेन वा | अन्तो हस्तपाशं ति व्यायामाभ्यन्तरे तिष्ठेय | संलपतीति किञ्चि जल्पेय | उपकर्णकं जल्पेया ति कर्णकल्पिकम् जल्पेय | पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीय पुरुषेण सार्धं अन्तो हस्तपाशस्य तिष्ठतुम् वा सम्लपितुम् वा उपकर्णकम् वा जल्पितुम् वा | अथ दानि किं जल्पितव्यं भवति | परं हस्तपादा स्थिताय जल्पयितव्यं | अथ दानि गुह्यं जल्पितव्यं भवति भित्तिम् वा कुड्यम् वा स्तम्भम् वा वृक्षम् वा यमनिकाम् वा अन्तरीकृत्वा जल्पयितव्यं | सा एषा भिक्षुणी पुरुषेण सार्धम् अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णकम् वा जल्पति पाचत्तिकं | भिक्षुर् अपि स्त्रिया सार्धं अन्तो हस्तपाशस्य तिष्ठति वा संलपति वा उपकर्णम् वा जल्पति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणीपुरुषेण सार्धं अन्तो हस्तपाशस्य सन्तिष्ठेय वा संलपेय वा उपकर्णं वा जल्पेय पाचत्तिकं ||१ || उद्दानं |
SK
छत्र [१(११२)], मञ्च [२(११३)], एकास्तरणा [३(११४)] | प्रक्रमति [४(११५)], प्रविशति [५(११६)] | समनुष्य [६(११७)], अध्वानं [७(११८)], उद्यानम् [८(११९)] | रहो [९(१२०)], पुरुष [१०(१२१)], उपकर्णकेन [११(१२२)] || द्वादशमो मा (व)र्गः ||
SK
पाचत्तिकधर्म १२३
SK
उपसंक्रमति
SK
२३७. भगवान् वैशालीयम् विहरति | अथ भद्रा दानि कापिलेयी ज्ञातिकुलं गत्वा पुत्रभ्रातृभागिनेयानां रहो गतानां अन्धकारे अप्रतिसम्विदिता सहसा छत्ति प्रविशति | ते दानि तहिं वेडा भवन्ति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गुअतमीये आरोचयेंसुः | पेयालं | यावद् आम भगवन् | भगवान् आह | एवं नाम त्वं जानन्ती सपुरुषम् आवासं अन्धकारे अप्रदीपिका उपसंक्रमसि | तेन हि न क्षमति एतद् एव यावत् पर्यवदातानि भविष्यन्ति
SK
या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | सपुरुषो ति यहिं पुरुसो ति यहिं पुरुषो भवेय अन्धकारे अप्रदीपिकेति यहिन् न स्यात् तैलप्रदीपो वा कण्डोल्का वा | उपसंक्रमेय ति प्रविशेत पाचत्तिकं यावत् प्रज्ञप्तिः | न क्षमति भिक्षुणीय सपुरुषम् आवासम् अन्धकारे अप्रदीपिकाय उपसंक्रमितुं | अथ दानि किञ्चित् कार्यं भवति यदि तहिं उच्चशब्दो भवति प्रविशत्य् अनापत्तिः | अथ दानि अग्निर् न भवति प्रतिसंवेदयितव्यो | अच्छटिका वा कर्तव्या उक्कासितव्यम् वा | यद्य् आह प्रविशेति प्रविशितव्यं | स एषा भिक्षुणी नैव प्रतिसंवेदयति नाच्छटिकां करोति उपसंक्रमति पाचत्तिकम् आसादयति |
SK
भिक्षुर् अपि सस्त्रीकम् आवासम् अन्धकारे अप्रतिसंविदितो उपसंक्रमति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती सपुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं ||
SK
पाचत्तिकधर्म १२४ विशोको
SK
२३८. भगवान् राजगृहे विहरति | तायो दानि षड्वर्गिणो भिक्षुणीयो गिर्यग्रसमाजं गच्छन्ति | ता दानि तहिं गत्वा पृथग् मञ्च गृह्णन्ति नटो नाटयति सप्रहासं वस्तुपदा नाटितम् भवति | सर्वो जनो हसति | तायो दानि तूष्णीकास् तिष्ठन्ति योगाचरा इव | यदा प्रशान्तम् भवति नाटकम् अवतारितं भवति | ततो तायो अट्टहासं मुञ्चन्ति | सर्वो जनो ततो सुखो भोति | जनो दानि ओज्झायति | अतिहास्यं इमासां श्रमणिकानां | ते दानि विचक्षु कृता नेलाटिकं न प्रयच्छन्ति | ओज्झायन्ति | इमासाम् श्रमणिकानां बाहनेलाटिकं न लभामः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् आम भगवन् भगवान् आह | तेन हि न क्षमति विशोकदर्शनाय गन्तुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुनर् भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | विशोकम् इति नटनर्तनकसल्लमल्लपाणिस्वरिकाः कुम्भभूमीराः अन्तमसतो यहिं चत्वारो पि जनाः सन्निपतन्ति क्रीड्यार्थं तहिं दर्शनाय गच्छन्ति | पाचत्तिकं यावत् प्रज्ञप्तिः | न दानि क्षमति विशोकदर्शनाय गन्तुं | अथ दानि भिक्षुणी पिण्डचारम् अण्वति पश्यति देवयानं निष्क्रमन्तं राज्ञो ऽन्तःपुरं निष्क्रान्तं दानि शक्यम् अक्षीणि निमीलयितुं किञ्चापि पश्यति अनापत्तिः | अथ दानि आभोगं करोति इमे पश्यामि इतो पश्यामीति पाचत्तिकं | अथ दानि भगवतो माल्यारोपणं भवति उपासकोपासिका आहंसुः | आर्यमिश्रिकाहि शोभा भावयितव्यं | सामग्री दातव्येति लभ्या सामग्री दातुं | अथ दानि तहिं कोचिच् चित्तस्य विकारो भवति न क्षमति स्थातुं | भिक्षुर् अपि विशोकदर्शनाय गच्छति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी विशोकदर्शनाय गच्छेत् पाचत्तिकं ||
SK
पाचत्तिकधर्म १२५
SK
कलहो
SK
२३९. भगवान् श्रावस्तीयम् विहरति | अथ खलु महाप्रजापती गौतमी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपशमयति न व्युपशमापयति न व्युपशमनायौत्सुक्यं करोति | एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेम्सुः | यावद् भगवान् सर्वं पृच्छति | यावद् आम भगवन् | भगवान् आह | एवं नाम त्वं भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां वृषभी समाना अधिकरणानि न व्युपसमयसि न व्युपसमापयसि न व्युपसमनायौत्सुक्यं करोसि | तेन हि न क्षमति | अथ खलु यावत् पर्यवदातानि भविष्यन्ति | या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समना अधिकरणानि न व्युपशमयेन् न व्युपसमापयेन् न व्युपसमनायौत्सुख्यं कुर्यात् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | कलहजातानाम् इति वाचाकलहं कुर्वन्तीनां वातयुक्तं मम युक्तम् इत्य् आदि | भण्डनजातानाम् इति अन्यमन्यं मम घटनं कुर्वन्तीनां | विग्रहविवादम् आपन्नानां विहरन्तीनाम् इति तद्यथा | धर्मो अधर्मो विनयो अविनयो | आपत्तिर् अनापत्तिः | गुरुका लघुका सप्रतिकर्मा अप्रतिकर्मा सावशेषा निरवशेषा | धर्मकर्म अधर्मकर्म समग्रकर्म व्यग्रकर्म यावत् स्थानार्हं कर्म इति विहरन्तीनां | वृषभी समाना ति प्रभू समाना | अधिकरणानि न व्युपसमयेद् इति स्वयन् | न व्युपसमापयेद् इति परेहि | न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः | एता दानि भिक्षुणीयो कलहजाता भण्डनजाता विग्रहविवादम् आपन्ना विहरन्ति न दानि क्षमति तायो अद्युपेक्षितुं | अथ खु व्युपसमितव्याः व्युपसमापयितव्याः | औत्सुक्यं कर्तव्यं उपसमनाय प्रत्याशंसितव्यं परस्परं क्षमापयितव्याः प्राप्तकालं यथारूपं परिभाषयितव्याः समग्रीकर्त्व्याः | अथ दानि न शक्नोति अन्या भिक्षुणी अध्येसितव्या उद्योजयितव्या उपासकोपासिकायो भिक्षुभिक्षुणीयो | अथ तान्य् अधिकरणानि कर्क्कशानि भवन्ति दुर्व्युपसमानि तेषाम् एव अधिकरणानां कालम् आगमयति समयम् आगमयति परिपाकम् आगमयति | कालं च समयम् च परिपाकं चागम्य व्युपशमयत्य् अनापत्तिः भिक्षुर् अपि भिक्षूणां कलहजातानां भण्डणजातानां विग्रहविवादम् आपन्नानाम् विहरन्तानां वृषभो समानो अधिकरणानि न व्युपशमयति न व्युपसमापयति न व्युपसमानायौत्सुक्यं करोति विनयातिक्रमम् आसादयति | तेन भगवान् आह | या पुन भिक्षुणी भिक्षुणीनां कलहजातानां भण्डनजातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपसमयेन् न व्युपसमापयेन् न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं
SK
पाचत्तिकधर्म १२६
SK
उद्वर्तनं
SK
२४०. भगवान् वैशालीयम् विहरति | भद्रा दानि कापिलेयी ज्ञातिकुलं नीयते उद्वर्तनाय स्नापनाय गृहपतिनीहि नीयते | वयम् आर्याम् उद्वर्तयामः स्नापयिष्यामः अस्माकं पुण्यं भविष्यति | केचित् प्रसादेन केचिद् अङ्गयष्टिं पश्यितुकामाः | सा दानि प्रासादिका दर्शनीया | कौतूहलजातिको मातृग्रामः | वर्णलोलां उद्वर्तयन्ति कालेयकेन तुङ्गेयकेन स्वङ्गकेन पद्मकेन गन्धचूर्णेहि | सा पि दानि अधिवासयति | भिक्षुणीयो दानि ओज्झायन्ति | पश्य्थार्यमिश्रिकायो अद्यापीयं प्रव्रजिता महच्छन्दा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् आम भगवन् | भगवान् आह | एवन् नाम त्वं गृहिणीनाम् उद्वर्त्नपरिमर्दनस्नापनसम्मतेन उद्वर्तापयसि | तेन हि न क्षमति | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
यानि खलु पुनर् इमानि गृहिणीनाम् उद्वर्तनपरिमर्दनस्नापनसम्मतानि तथारूपेहि भिक्षुणी अगिलाना उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं |
SK
यानि खलु पुनर् इमानि गृहिणीनम् इति क्षत्रियकन्यकानां ब्राह्मणकन्यकानां गृहपतिकन्यकानां | उद्वर्तनपरिमर्दनस्नापनसम्मतानीति कालेयकम् वा तुङ्गेयकम् वा चिक्कसम् वा | यद्य् एको वा तेहि भिक्षुणीहि अगिलाना उद्वर्तापयेत् | किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भवति उद्वर्तापयत्य् अनापत्तिः | उद्वर्तापयेद् इति परिमर्दापयेत् पाचत्तिकं | अथ दानि गण्डम् वा पिटकम् वा भवति लभ्या भैषज्येहि उद्वर्तापयितुं परिमर्दापयितुं | अथ दानि पित्तसंक्षोभो भवति लभ्या चिक्कसेनालिंपितुं | अथ दानि वातसंक्षोभो भवति लभ्या गोधूमचिक्कसेनालिंपितुं | अथ दानि सन्निपातो भवति संयुक्तेहि भैषज्येहि उद्वर्तापयितव्यं परिमर्दापयितव्यं आलिंपितव्यं | ताय पि दानि आलिंपिय न क्षमति अभ्यागमे प्रदेशे स्थातुं | अथ खलु प्रतिगुप्ते प्रदेशे स्थातव्यं | यदावर्त भवति तदा उद्वर्तयित्वा निष्क्रमितव्यं | भिक्षुर् अपि अगिलानो चिक्कसेनोद्वर्तापयेत् परिमर्दापयेद् विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयेत परिमर्दापयेत पाचत्तिकं ||
SK
पाचत्तिकधर्म १२७
SK
भिक्षुणी
SK
२४१. भगवान् वैशालीयम् विहरति | भगवता दानि शिक्षापदं प्रज्ञप्तं न क्षमति गृहिणीनाम् उद्वर्तनपरिमर्दनस्नानसम्मतेहि उद्वर्तापयितुं परिमर्दापयितुं | सा दानि भद्रा भिक्षुणीहि उद्वर्तापयति परिमर्दापयति | भिक्षुणीयो दानि ओज्झायन्ति | पेयालं | यावद् भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | भिक्षुणीयेति उपसम्पन्नाय | अगिलाना ति किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरादुर्बला वा व्याधिदुर्बला वा भोति | प्रत्युद्धृतं भगवता अनापत्तिः गिलानाय | उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयति न परिमर्दापयति विनयातिक्रमः | परिमर्दापयति नोद्वर्तापयति विनयातिक्रमः | उभयं करोति पाचत्तिकं | नोभयम् अनापत्तिः | भिक्षुर् अपि अगिलानो भिक्षुणा उद्वर्तापयति परिमर्दापयति विनयातिक्रमः | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं || फु ||
SK
पाचत्तिकधर्म १२८
SK
श्रामणेरि
SK
एवं एव श्रामणेर्या नास्ति नानाकरणं | तेन भगवान् आह | या पुन भिक्षुणी अगिलाना श्रामणेरीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं || फु ||
SK
पाचत्तिकधर्म १२९
SK
शिक्षमाणा
SK
एतद् एव शिक्षमाणायाः | शिक्षमाणा नाम अष्टादशहि वर्तेहि द्वे वर्षाणि शिक्षमाणा यावत् | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना शिक्षमाणाय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं ||ग्रा ||
SK
पाचत्तिकधर्म १३०
SK
गृहिणी
SK
एतद् एव गृहिणीय | नास्ति नानाकरणं | गृहिणीति गृहस्था | तेन भगवान् आह |
SK
या पुन भिक्षुणी अगिलाना गृहिणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं || ह्रा ||
SK
पाचत्तिकधर्म १३१
SK
विशुद्धिसंवासेन
SK
२४२. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि सन्निपतिताः पोषध कर्माय | जेता नाम भिक्षुणी | सा नागच्छति | ताये दूतो ऽनुप्रेषितो | आर्ये आगच्छाहि भिक्षुणीयो सन्निपतिताः पोषधकर्माय | सा दान् आह | भगवता विशुद्धस्य विशुद्धिपोषधः प्रज्ञप्तः | यावतिका का विशुद्धा अहन् तासाम् अन्यतमासां तत्र नागच्छामि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते जेते | त्वञ् च नाम पोषधन् न सत्करोषि | का अन्या सत्करिष्यति को च पोषधस्य सत्कारो | अगिलानाय उपसंक्रमितव्यं | गिलानाय छन्दो दातव्यो | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी अन्वर्धमासंअगिलाना विशुद्धिसंवासं न सत्करेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अन्वर्धमासं विशुद्धिसंवासं ति चातुर्दशिकेन वा चातुर्दशिकं पाञ्चदशिकेन वा पाञ्चदशिकं | अगिलाना पोषधन् न सत्कारोति | किन् दानि अत्र गैलान्यम् अभिप्रेतं | एषा भवति जरादुर्बला वा व्याधिदुर्बला वा शिराविद्धिका वा भवति असुखा भैषज्यं वा पीतम् भवति | घृतं वा पीतम् भवति | छन्दो दातव्यो |
SK
सा एषा भिक्षुणी अगिलाना पोषधन् न गच्छति | गिलाना वा छन्दन् न देति पाचत्तिकं |
SK
भिक्षुर् अपि अगिलानो नैव पोषधं गच्छति न च्छन्दन् देति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अन्वर्धमासं अगिलाना विशुद्धिसंवासन् न सत्करेय पाचत्तिकं |
SK
उद्दानं |
SK
उपसंक्रमति [१(१२३)] | कलहो [३(१२४)] | विशोको [२(१२५)] | उद्वर्तनं [४(१२६)] | भिक्षुणी [५(१२७)] | श्रामणेरी [६(१२८)] | शिक्षमाणा [७(१२९)] | गृहिणीय [८(१३०)] | विशुद्धिसंवासेन [९(१३१)] ||
SK
पूर्यते त्रयोदशमो वर्गः ||
SK
पाचत्तिकधर्म १३२
SK
ओवादोपसंक्रमणं विशुद्धिपोषधं
SK
२४३. भगवान् श्रावस्तीयम् विहरति | थेरभिक्षू पर्यायेण भिक्षुणीयो ओवदन्ति | ते दानि आयुष्मन्तो षड्वर्गिकाः ओवादकवारं न लभन्ति | ते दान् आहंसुः | न एते युष्माकं ओवादकवारं दास्यन्ति | कस्य दानि वयम् ओवादकवारं गच्छामः | ते दान् आहंसुः | आयुष्मां च्छारिपुत्रः स खिलो च मृदुको च | विस्तारेण यावद् भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति असम्मतेन भिक्षुणा भिक्षुणीयो ओवदितुं | एष निःसीमं गत्वा परस्परं सम्मन्यामः | ते दानि निःसीमं गत्वा अन्यमन्यं संमन्यित्वा कल्यतो येव निवासयित्वा प्रावरित्वा च भिक्षुणी उपाश्रयं गत्वा आहंसुः | सन्निपतथ भगिनीयो ओवादो भविष्यति | यायो षड्वर्गिणीयो तायो ऽच्छन्ति सन्निपतिताः | यायो योगाचारायो भिक्षुणीयो तायो न सन्निपतन्ति | आहंसुः | किम् अर्थम् वयम् एषाम् अविनीतानाम् अववादं गमिष्यामः | ते दानि ताहि सह मुहूर्तम् अन्तरं काकवंहा भञ्जित्वा गताः | आयुष्मान् दानि शारिपुत्रो कालस्यैव निवासयित्वा पात्रचीवरम् आदाय आयुष्मता आनन्देन पश्चाच् छ्रमणेन सार्धं विस्तरेण | यावद् आह | सन्निपतथ भगिनीयो ओवादो भविष्यति | यायो भिक्षुणीयो योगाचाराः तायो ऽच्छन्ति सन्निपतितायो | षड्वर्गिणीयो भिक्षुणीयो नागच्छन्ति | थेरो पृच्छति | समग्रो हि भिक्षुणीसंघो | आहंसुः | नहि को नागच्छति | आहंसुः षड्वर्गिणीयो | तासान् दूतः प्रेषितो | आगच्छथ भगिनीयो ओवादो भविष्यति | ता दान् आहंसुः | न वयम् आगमिष्यामः | ओवदिता वयम् आर्यमिश्रकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन | अथायुष्मान् शारिपुत्रो व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो प्रक्रान्तो | भगवान् जानन्तो येव पृच्छति किन् दानि गौतमी माता शीघ्रम् आगतो सि | ओवदिता भिक्षुणीयो | आह | अहं भगवन् कालस्यैव निवासयित्वा यावद् भिक्षुणीउपाश्रयं प्रविष्टो ओवदितुं मयोक्तं सन्निपतथ भगिनीयो ओवादो भविष्यति | यायो योगाचारायो भिक्षुणीयो तायो ऽच्छन्ति सन्निपतितायो | यायो षड्वर्गिणीयो भिक्षुणीयो ता न सन्निपतन्ति | अहं जल्पामि समग्रो भिक्षुणीसंघो | आहंसुः | नहि | को नागच्छति | आहंसुः षड्वर्गिणीयो | तासान् दूतः प्रेषितः | आगच्छथ भगिनियो ओवादो भविष्यति | आहंसुः | न वयम् आगमिष्यामः ओवदिता वयम् आर्यमिश्रिकेहि षड्वर्गिकेहि अन्यविहितकेन ओवादेन | अहं पि भगवन् व्यग्रो भिक्षुणीसंघो ति कृत्वा उत्थायासनातो सन्निर्गतो | भगवान् आह | शब्दापयथ षड्वर्गिणीयो भिक्षुणीयो | ता दानि शब्दापिताः | तद् एव सर्वं भगवान् विस्तरेण पृच्छति | यावद् आम भगवन् | भगवान् आह | दुष्कृतं वो षड्वर्गिणीयो यावत् पर्यवदातानि भवन्ति |
SK
या पुन भिक्षुणी अन्वर्ध मासं भिक्षुसंघे ओवादोपसंक्रमणं न सत्करेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | अन्वर्धमासन् ति चातुर्दशिकेन वा चातुर्दशिकं | पाञ्चदशिकेन वा पाञ्चदशिकं | भिक्षुसंघे ओवदोपसंक्रमणं न सत्करेय पाचत्तिकं यावत् प्रज्ञप्तिः | अथ दानि जरादुर्बला वा व्याधिदुर्बला वा घृतपीतिका वा भवति वक्तव्यं | ओवादस्य छन्दन् देमि त्रिक्खत्तो | सा एषा भिक्षुणी अगिलाना ओवादोपसंक्रमणं न गच्छति गिलाना वा छन्दन् न देति पाचत्तिकम् आसादयति | यदा पोषधो भवति तदा च्छन्दहारिकाहि भिक्षुविहारङ् गत्वा वक्तव्यं | समग्रो भिक्षुणीसंघो समग्रस्य भिक्षुसंघस्य पादां च्छिरसा वन्दति पोषधञ् च प्रतीच्छति अववादं च याचति एवं त्रिक्खत्तो याचितव्यं | यदि तावत् कोचिद् भिक्षुणीओवादको भवति वक्तव्यं | एष भगिनीयो ओवादको आगमिष्यति | अथ न कोचिद् भवति यो तंहि अङ्गोपेतो भवति सो संमन्यितव्यो | अथ न कोचिद् वक्तव्यं | नास्ति भगिनीयो भिक्षुणीओवादको अप्रमादेन संपादेथ आपत्तिञ् च पोषधं प्रतिजाग्रथ सगौरवा च भवथ स्थविरेहि भिक्षूहि मध्येहि नवकेहीति | तेन भगवान् आह |
SK
या पुन भिक्षुणी अन्वर्धमासं विशुद्धिपोषधं न सत्करेय पाचत्तिकं ||
SK
पाचत्तिकधर्म १३३
SK
गण्डम् वा पिटकम् वा
SK
२४४. भगवान् राजगृहे विहरति | जेताये भिक्षुणीये संबाधे प्रदेशे गण्डम् उत्पन्नं | ताये अन्तेवासिनीयो गोचरञ् गतायो | हिण्डिकवैद्यो आगतो | सा दान् आह | दीर्घायुः शक्यसि मम शस्त्रकर्म कर्तुं | सो दान् आह | बाढं | सो दानि पाटयित्वा धोवायित्वा उपनाहयित्वा गतो | तायो भिक्षुणीयो आगतायो | ताहि दानि सो प्रदेशो दृष्टो पूयम्रक्षितो | ता दान् आहंसुः | आर्ये किम् इदं | आह | शस्त्रकर्म कारितं | आहंसुः | साहसम् आर्याय कृतं संबाधे प्रदेशे शस्त्रकर्म कारयन्तीय | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् आम भगवन् | भगवान् आह | एवं च नाम त्वं उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं शस्त्रकर्म कारापयसि | तेन हि न क्षमति | पेयालं | यावत् |
SK
या पुन भिक्षुणी उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पातापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | उपरि जानुमण्डलाभ्याम् इति ऊरुनाभिभ्यां | अधो कक्षाभ्याम् इति स्तनोदरस्य | गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यन् ति भिक्षुणी वक्तव्यो शस्त्रकर्म कारापयिष्यन् ति |
SK
अनवलोकयित्वा संघा ति संघमध्ये अवलोकना कर्तव्या | शृणोतु मे आर्या संघो यदि संघस्य प्राप्तकालं इत्थन्नामा भिक्षुणी शस्त्रकर्म कारापेय | कारापयिष्यति आर्या संघो इत्थन्नामा भिक्षुणी शस्त्रकर्म | क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि |
SK
पुरुषेणेति गृहस्थेन वा प्रव्रजितेन वा पाटापयेद् वा धोवापयेद् वा उपनाहापेय वा ति यथा जेता भिक्षुणीति पाचत्तिकं यावत् प्रज्ञप्तिः | अथ दानि संबाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति अन्तेवासिनीये वा समानोपाध्यायिनीये वा समानाचार्याये वा यस्या विश्वासो ताय आख्यातव्यं | कण्टकेन वा नखेन वा भेदापयितव्यं भैषज्येन वा आलिम्पापेयतव्यं अथ दानि अधो जानुमण्डलाभ्याम् उपरि कक्षाभ्याम् भवति गण्डम् वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा धोवापयति वा उपनाहापयति वा एवम् शिराम् वा वेधापयति नेलाटिकम् वा बाहुशिराम् वा गुल्फशिराम् वा अपराय भिक्षुणीय आक्रमितव्या तेन भगवान् आह |
SK
या पुन भिक्षुणी उपरि जानुमण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्वकृत्यं अनवलोकयित्वा संघं पुरुषेण पाटापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं ||
SK
पाचत्तिकधर्म १३४
SK
वर्षोपगता
SK
२४५. भगवान् श्रावस्तीयम् विहरति | अथ काली नाम भिक्षुणी वर्षोपगता सांघिकं विहारं बन्धित्वा चारिकां प्रक्रान्ताः | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् आम भगवन् | भगवान् आह | दुष्कृतम् ते कालि एवन् नाम त्वं वर्षोपगतानां चारिकां प्रक्रमसि | तेन हि न क्षमति वर्षोपगताय चारिकां प्रक्रमितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रामेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | वर्षा ति वर्षारात्रं | उपगता ति पुरिमिकां पश्चिमिकाम् वा वर्षोपनामयिकां उपगता | चारिकां प्रक्रामेया ति अन्यत्र गच्छेय ग्रामान्तरं पि पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी एकरात्रम् पि विप्रवसति पाचत्तिकं | अथ दानि राजभयम् वा सेनाभयम् वा परचक्रभयम् वा जीवितान्तरायो वा ब्रह्मचर्यान्तरायो वा भवेय किञ्चापि गच्छति अनापत्तिः | नास्ति भिक्षुण्या अवलोकनाकर्म सप्ताहं वा किञ्चापि भिकुः अवलोकनाकर्म कृत्वा सप्ताहं वा अधिष्ठिहेय गच्छत्य् अनापत्तिः | तेन भगवान् आह |
SK
या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रमेय पाचत्तिकं
SK
पाचत्तिकधर्म १३५
SK
वर्षावुस्ता
SK
२४६. भगवान् श्रावस्तीयम् विहरति | भिक्षुणीयो दानि श्रावस्तीयं वर्षोषिताः वैशालीम् आगताः | तायो भद्राये कापिलेयीये ज्ञातिकुलं प्रविष्टाः | ता स्त्रियो आहंसुः | कहिं आर्यमिश्रिका वर्षोषिताः | ता दान् आहंसुः | श्रावस्तीयं | आहंसुः | कीदृशी श्रावस्ती | आहंसुः | इदृशी च इदृशी च एवम् आरामरमणीया | एवं | जेतवनं | एवं गन्धकुटी | एवम् भगवान् विहरति | एवम् आर्यमिश्रिका शारिपुत्रमौद्गल्यायनाः | यदि प्रव्रज्या एषा प्रव्रज्या इयं पुनर् अस्माकम् आर्यधीता इहैव जाता | इहैव सम्वृद्धा | नैव कहिञ्चि गच्छति कूपमण्डूक इव तिष्ठति अनिःक्रमा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | तेन हि वर्षावुस्ताया भिक्षुणीय चारिका प्रक्रमितव्या | यावद् भगवान् आह |
SK
या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | वर्षोषितेति वार्षिकां त्रयो मासान् चारिकां न प्रक्रमेया ति अन्तमसतो ग्रामान्तरं पि वा पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणी एवं रात्रं पि प्रक्रमति पाचत्तिकं | अथ दानि जरादुर्बला वा व्याधिदुर्बला वा भोति न प्रतिबला गन्तुं किञ्चापि गच्छति अनापत्तिः | भिक्षुर् अपि वर्षावुस्तो चारिकां न प्रक्रमति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी वर्षावुस्ता चारिकां न प्रक्रमेय पाचत्तिकं || ण्क ||
SK
पाचत्तिकधर्म १३६
SK
उद्वहेय
SK
२४७. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दाय भिक्षुणीय जेता भिक्षुणी राजगृहं गच्छमानी निवारिता | इहार्याय वर्षा वसितव्या ताय सा कुलेहि सम्वर्णिता | आर्या जेता भद्रिका गुणवती अनुबद्धा ता संवृता च | एताय अधिकारं करोथ सा दानि कुलानि उपसंक्रमति प्रासादिकेन अतिक्रान्तेन प्रतिक्रान्तेन अवलोकितेन व्यवलोकितेन सम्मिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन अनुबद्धा अनुन्नडा अचपला अमुखरा अप्रकीर्णवाचा | सा प्रासादिका ति प्रसन्ना देवमनुष्याः | ते तंहि कारां कुर्वन्ति | प्रत्यालपन्ति प्रत्युत्थिहेन्ति निमन्त्रयन्ति पात्रेण चीवरेण ग्लानप्रत्ययभैषज्य परिष्कारेहि | स्थूलनन्दा भिक्षुणि अनाकल्पसंपन्ना अनीर्यापथसम्पन्ना ओमलिनमलिनेहि चीवरेहि पाटितविपाटितेहि वड्डडिङ्गरपुष्टालंबेहि स्तनेहि वड्ढेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णवाचा | ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति | सा दानि तां उद्वहति कायेन वाचा | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | शब्दापयथ नन्दां सा दानि शब्दापिता तद् एव सर्वं पृच्छीयतीति यावद् आम भगवन् | भगवान् आह दुष्कृतं ते नन्दे यावत् |
SK
या पुन भिक्षुणी भिक्षुणीम् एवम् उक्त्वा इहार्ये वर्षं वसितव्यं इत्य् उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | भिक्षुणीम् एवम् वदे इहार्ये वर्षां वसितव्यम् इति त्रयो मासां उक्त्वेति निवारयित्वा पश्चाद् उद्वहेय वा ति कायेन वा वाचा वा स्वयं उद्वहति | उद्वाहापेय वा ति परेण कायेन वा वाचाय पाचत्तिकं | यावत् प्रज्ञप्तिः | न क्षमति निवारयित्वा पश्चाद् उद्वहितुं अथ भवति शिथिलिका वा बाहुलिका वा अशिक्षाकामा वा कलहकारिका वा पश्यति यदीह वशिष्यति आश्रयम् उत्पादयिष्यतीति | किञ्चापि उद्वहति अनापत्तिः | सा एषा भिक्षुणी भिक्षुणीम् उद्वहति पाचत्तिकं | श्रामणेरीम् वा शिक्षमाणां वा उद्वहति विनयातिक्रमः | अन्तमसतो गृहिणी पि उद्वहति सम्वरगामीविनयातिक्रमम् आसादयति |
SK
या पुन भिक्षुणी येवम् वदित्वा इहार्ये वर्षम् वसितव्यन् ति उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं || तृ ||
SK
पाचत्तिकधर्म १३७
SK
पूर्वोपगतं
SK
२४८. भगवान् श्रावस्तीयम् विहरति | अथ काली नाम भिक्षुणी | सा उपगच्छति | ता कालं ग्रामान्तरं गता | सा भिक्षुणीहि उपगताहि आगता | तत्र च भिक्षुणीहि विहारोद्देशः शयनासनोद्देशः कृतः | सा दान् आह | आर्ये मह्यं विहारं देथ | सा विहारं न लभति | आहंसुः | कहिं आर्या वर्षोपनायिका कालङ् गता | सा कलहं करोति | अपरा दानि भिक्षुणी योगाचारा | सा दान् आह | आर्ये अयं मम विहारो | अत्र मञ्चकं प्रवेशेहि सहितिका वसिष्यामः | तया तहिं मञ्चको प्रवेशितो | सा काष्ठखण्डा ति यत्र शाखानि प्रवेशयति | सा दान् आह | आर्ये मा विहारे ओविलयं करेहि | सा दान् आह | भद्रायणि किन् त्वया विहारो कृतो किम् विक्रीतो | सांघिको विहारो किम् अर्थं न प्रवेशयिष्यम् | सा उद्वहति कायेनापि वाचाये पि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावत् शब्दापयथ कालिं सा दानि शब्दापिता | एतद् एव सर्वं पृच्छीयति | यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते कालि |
SK
या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचाय वा पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय | भिक्षुणीम् पूर्वोपगताम् इति पुरिमिकायां वर्षोपनायिकायां | पश्चाद् आगत्वेति पश्चिमिकायां | उद्वहेय वा ति स्वयं | उद्वहापेय | वा ति परेण कायेण वा वाचा वा पाचत्तिकं यावत् प्रज्ञप्तिः | सा एषा भिक्षुणीम् उद्वहति पाचत्तिकं | श्रामणेरीम् वा शिक्षमाणाम् वा उद्वहति देशनागामिविनयातिक्रमम् आसादयति | अन्तमसतो गृहिणीं पि उद्वहति सम्वरगामिविनयातिक्रमः | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचा वा पाचत्तिकं || फु ||
SK
पाचत्तिकधर्म १३८
SK
विघसं
SK
२४९. भगवान् काशिषु विहरति | अपराय दानि भिक्षुणीय उच्चारमल्लकं अप्रत्यवेक्षित्वा रथ्यायां छोरितं | तहिं दानि अपरो ब्राह्मणो शीर्षस्नातो आहतवस्त्रनिवस्त्रो ताय रथ्याय अतिक्रमति | उच्चारमल्लकं तस्य शीर्षे पतितं | तस्य शीर्षं वस्त्राणि च विनाशितानि | जनेन चोपहासितं ब्राह्मण सुस्नातः सुविलिप्तस् त्वम् इति | सो दानि ताम् आक्रोशति | आह | इतिकितिकाय धीते श्रमणिके न पश्यसि मम शीर्षं वस्त्राणि च विष्ठेन विनाशितानि | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | पे | यावद् आम भगवन् | भगवान् आह | दुस्कृतन् ते एवन् नाम त्वम् अप्रत्यवेक्षिय छोरेसि | तेन हि न क्षमति अप्रत्यवेक्षिय छोरयितुं | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रास्रावम् वा खेटकम् वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्षित्वा छोरयेत् पाचत्तिकं |
SK
या पुन भिक्षुणीति उपसम्पन्ना | तिरोकुड्यन् ति तिरःप्रकारम् उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा विघसम् वा संकारम् वा वस्त्रधोवनम् वा भाण्डधोवनम् वा केशान् वा नखान् वा | अप्रत्यवेक्षित्वेति अनिरीक्ष्य | छोरेया ति उज्झेय | पाचत्तिकं यावत् प्रज्ञप्तिः | यदि किञ्चित् उज्झितुकामो भवति प्रत्यवेक्षितव्यं | यदि तावद् आकीर्णबहुजनमनुष्या रथ्या भवन्ति आरामयितव्यं | अथ दानि अनाकीर्णा भवन्ति किञ्चापि छोरयत्य् अनापत्तिः | तं पि दानि न क्षमति अशब्दकर्णिकाये छोरयितुं अपि तु अच्छटिका दातव्या उक्कासितव्यम् वा | सा एषा भिक्षुणी नैव प्रत्यवेक्षति नापि अच्छटिकां दत्त्वा छोरयति पाचत्तिकम् आसादयति | भिक्षुर् अपि अप्रत्यवेक्ष्य अच्छटिकाम् अकृत्वा छोरयति विनयातिक्रमम् आसादयति | तेन भगवान् आह |
SK
या पुन भिक्षुणी तिरोकुड्यं उच्चारम् वा प्रस्रावम् वा खेटं वा सिंघाणकम् वा विघसम् वा संकारम् वा अप्रत्यवेक्ष्य छोरेय पाचत्तिकं || ग्रा ||
SK
पाचत्तिकधर्म १३९, १४०
SK
हरित तृणे
SK
उदक २५०. भगवान् श्रावस्तीयं विहरति | राज्ञो दानि प्रसेनजितस्य कोशलस्य पूर्वकोष्ठकं नाम उद्यानम् पुष्किरिणीसम्पन्नं | अनावृतं भिक्षूनां भिक्षुणीनां आवृतं इतराये जनताये | राजा दानि आरामिकस्याह | हो भणे आरामिक पूर्वकोष्ठकम् उद्यानं सिक्तसंसृष्टं करेहि | श्वो हं सान्तःपुरो निर्यास्यं | तं दानि षड्वर्गिणीहि श्रुतं | श्वो राजा सान्तःपुरो उद्यानभूमिन् निर्यास्यतीति | तायो दानि प्रतिकृत्य् एव गत्वा तहिं हरितशाद्वलोपस्तराणायां पक्वखेटेन च पक्वसिंघाणकेन च विनाशयित्वा पदुमपत्रेहि उच्चारस्य पुटकानि बन्धित्वा पुष्किरिणीयं प्रवाहयेंसुः | तायो दानि दिवसं तहिं काकावाहां भञ्जिय सायाह्नसमये नगरं प्रविष्टाः राजा दानि प्रसेनजित कोशलो अपरेज्जुकातो निरगतो सान्तःपुरो | तायो दानि अन्तःपुरिकायो कथञ्चिद् एव सम्रोधाद् अवमुक्ता रन्धनमोक्षम् इव मन्यमानाः चञ्चूर्यन्ते | काश्चिन् निषण्णाः काश्चिन् निपन्नाः | काश्चिद् इतो च इतो च धावन्ति अवकाशं गृह्णन्ति शाद्वलोपस्तरणे परिभ्रामन्ति | तासां दानि पक्वखेटेन पक्वसिंघाणकेन वस्त्राणि विनाशितानि | पुष्किरिणीं ओतीर्णाः स्नानाय | तायो पश्यन्ति पुटकान् प्लवमानान् | तासां भवति कुलपुत्रकेहि श्रुतं श्वो राजा सान्तःपुरो उद्यानं प्रवेक्ष्यतीति तेहि एते गन्धपुटकाः प्रवाहिता इति कृत्वा तायो गृह्णन्ति | ते उदकेन क्लिन्ना उच्चारेण चा खादिताः प्रकृतिसुकुमारं च पद्मपत्रं | गृहीतमात्रम् एव विलीनं | ही ही विष्ठं ता दानि राज्ञो उपसंक्रान्ता आहंसु | महाराज एष तावद् ईदृशी अवस्था राजा आह शब्दापयथ आरामिकं | सो दानि शब्दापितो | राजा आह | हो भणे आरामिक केन उद्यानं विट्टालितं | आह षड्वर्गिणीयो श्रमणीयो एव दिवसं काकवाहा भञ्जित्वा गताः | राजा हसित्वा आह | तासाम् अविनीतानां कर्म भविष्यति | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती पि गौतमी भगवतो आरोचयेत् | यावद्
SK
या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ||
SK
या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ||
SK
या पुन भिक्षुणीति उपसम्पन्ना | उच्चारन् ति गूथं | प्रस्रावन् ति मूत्रं | खेटम् इति श्लेष्मा | सिंघाणकन् ति पक्वसिंघाणकं | हरिते तृणे इति शाद्वले अच्छिन्नालूनस्मिं उदन् ति उदकानि नाम दश | नादिकं ताडागं औदुपानिकं श्वभ्रोदकं प्रघारिमं वृष्टिस्थितं उच्छोदकं अन्तरीक्षपानीयं हिमविलीनं सामुद्रम् वा उच्चारम् वा प्रस्रावं वा कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः | अथ दानि प्रावृषेण्या से सर्वभुमिः शाद्वलोपस्तरेणा भवति यहिं प्रदेशे स्वल्पहरितम् भवति तहिं कर्तव्यं | अथ दानि अल्पहरितं न भवति कटाहके वा इष्टकायम् वा उपले वा शुष्कतृणे वा काष्ठखण्डे वा यत्र वा अन्येन उच्चारो कृतो भवति बलीवर्देन वा | यत्र वा अन्येन मनुष्येन कृतो तहिं कर्तव्यं अथ दानि एवं न भवति अन्तमसतो कनीयसिं पि अङ्गुलिं उपद्राहयित्वा कर्तव्यं | तथा कर्तव्यं यथा तहिम् प्रथमम् निपतति | अथ दानि चङ्क्रमति न क्षमति हरितशाद्वले श्लेष्मं छोरयितुं | अथ खु कटे वा पत्रपुटिकायां वा छोरयितव्यं | तेन भगवान् आह |
SK
या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं |
SK
या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं ||
SK
पाचत्तिकधर्म १४१
SK
गणलाभ
SK
२५१. भगवान् श्रावस्तीयम् विहरति | तायो दानि षड्वर्गिणीयो छन्दकं अण्वन्ति | आहंसुः | प्रजापति देथ च्छन्दकं आर्यमिश्रिकाणां भक्तं करिष्यामः | ता दानि स्त्रियो प्रयच्छन्ति | ता दान् आहंसुः आर्या यं दिवसं संघभक्तं करिष्यथ तदास्माकम् अपि आरोचयेथ | वयम् अपि परिवेषका आगमिष्यामो ति | ताहि दानि निमन्त्रिताः | आयुष्मन्तो शारिपुत्रमौद्गल्यायनौ अनिरुद्धो रेवतः कप्फिणो श्रोणकोटीविंश उपवानो आयुष्मान् राहुलो षड्वर्गिकाश् च | ताहि दानि द्वेआसनप्रज्ञप्ती कृता | एका स्थविराणां अपरा षड्वर्गिकाणां | तहिं दानि भिक्षू कालस्यैव निवासयित्वा प्रावरित्वा च प्रविष्टाः | ततो आयुष्मतो शारिपुत्रस्य दातुं शालिनामोदनं मुद्गानां सूपो घृतं दधि च | आयुष्मतो मौद्गल्यायनस्य यवकोदनो माषसूपो तैलं च | अपरेषाम् षष्टिकोदनो सूपो च | अपरेषां कोद्रवोदनो | अपरेषां व्यञ्जनानि दिन्नानि ओदनो न दीयते | अपरेषां शाकं दिन्नं ओदनो न दीयते | अपरेषां वाटिकोदनो व्यञ्जनं न दीयते | आयुष्मतो राहुलस्य पि श्याकशाकं
SK
ता दानि स्त्रियो भक्ष्यभोज्यम् आदाय गताः पृच्छन्ति | कहिन् ते आर्यमिश्रिकाः | तायो दानि स्थविरान् भिक्षून् आवरित्वा षड्वर्गिकान् दर्शेन्ति | ततस् तेषान् दीयते शालिना मोदनं मुद्गानां सूपो घृतं | नवनीतं अम्बु मधुराणि गौडन् दधि श्वेतं दधि क्षीरं समितासमितं यस्यार्थं याव् अर्थं दीयति | यत् किञ्चित् प्रणीतसम्मतं भक्ष्यभोज्यं पेयं चोष्मं तं षड्वर्गिकाणान् दापयन्ति | इमे ते आर्यमिश्रिकाः भिक्षू पि भुक्तविभुक्तकाः उत्थायोत्थाय भगवतः पादवन्दा उपसंक्रान्ता | भगवान् जानन्तो येव पृच्छति | अपि तु शारिपुत्र शोभने मासि मृष्टम् वा प्रणीतम् वा प्रभूतम् वा | स्थविरो आह | कृतं भगवन् आहारेणाहारकृत्यं | द्वितीयम् पि तृतीयम् पि | भगवान् आह | थेरो आह | लब्धो भगवन् शालिनामोदनं मुद्गानां सूपो नवनीतं अम्बु मधुराणि व्यञ्जननि गौडन् दधि क्षीरं यस्यार्थं यावद् अर्थं दीयति यथापीदं भगिनीनां श्रद्धाप्रसन्नानां परिग्रहे | भगवान् आह | के तहिं संघस्थविरो भूत | आयुष्मां च्छारिपुत्रो | भगवान् आह | सत्यं शारिपुत्र आह | आम भगवन् | भगवान् आह | दुर्भुक्तं ते शारिपुत्र एवं च नाम त्वं भिक्षुसंघं विहेठयन्तं अध्युपेक्षसि | यस्य भगवान् दुर्भुक्तम् इत्य् आह तस्य तं कल्पम् वा कल्पावशेषम् वा तिष्ठेय नैव जरा गच्छेय | स्थविरेण काकपोटं दत्त्वा सर्व दरदराय वान्तं | भगवान् आह | शब्दापयथ भिक्षुणीयो तायो शब्दापिताः | एतद् एव पृच्छीयन्ति | आहंसुः | आम भगवन् | भगवान् आह दुष्कृतं वो भिक्षुणीयो एवम् च नाम यूयं जानन्तीयो गणलाभं गणस्य परिणामयथ | तेन हि न क्षमति | अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी जानन्ती गणलाभं गणस्य परिणतं गणस्य परिणामयेत् पाचत्तिकम् |
SK
या पुन भिक्षुणीति उपसम्पन्ना | जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय | गणलाभम् इति भिक्षुगणस्य भिक्षुणीगणस्य | लाभम् इति अष्ट लाभाः यावत् कालिको यामयामिको यावत् कल्पिकाकल्पिको परिणतन् ति परिनिष्पन्नं | गणस्य परिणामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः | एष दानि कोचिद् आगच्छति देयधर्मं दातुकामो | आह | आर्ये इच्छामि परिगृह्यमाणन् ति परिगृह्णीतव्यं |
SK
प्रातिदेशनिका धर्मा १८
SK
सर्पिस् तैलं एत्च्
SK
२५२. ति | ते दानि भिक्षू षड्वर्गिकाः सर्पिकेहि सर्पि तैलकेहि तैलं गौडकेहि गुडं माधुकेहि मधुं मात्सिकेहि मत्स्यं मांसिकेहि मांसं दुग्धिकेहि दुग्धं दोधिकेहि दधिं विज्ञपिय खादन्ति | जनो दानि ओज्झायति | पश्यथ भणे श्रमणो गौतमो ऽनेकपर्यायेणाल्पेच्छताय वर्णवादी यावच् छिक्षापदं प्रज्ञप्तं | तस्माद् इह गौतमि भिक्षुणीभिर् अवि अत्रैव शिक्षितव्यं |
SK
एषैवार्थोत्पत्तिः | एकम् इदम् गौतमि समयं तथागतो शाक्येषु विहरति | यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति | सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति |
SK
या पुन भिक्षुणी आत्मार्थाय अगिलाना कुलेहि सर्पिं विज्ञापेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय असंप्रेयम् मे आर्यमिश्रिका प्रातिदेशनिकं धर्मम् आपन्ना तन् धर्मं प्रतिदेशयामि | अयन् धर्मो प्रातिदेशनिको |
SK
एवम् सर्पिस् [१] | तैलं [२] | मधु [३] | फाणितं [४] | दुग्धं [५] | दधि [६] | मत्स्यं [७] | मांसं [८] |
SK
या पुन भिक्षुणीति उपसम्पन्ना | आत्मार्थायेति आत्मानं सन्धाय आत्मानम् उपनिध्याय | अगिलाना ति प्रत्युद्धृतं भगवता पदं अनापत्ति गिलानाय | किन् तावद् अत्र गैलान्यम् अभिप्रेतम् | जरादुर्बला वा व्याधिदुर्बला ता विरेचनपीता वा शिराविद्धा वा श्लेष्मा वा सन्निपाता वा | कुलेहीति क्षत्रियकुलानि वा ब्राह्मणकुलानि वा यानि वा पुनर् अन्यान्य् अपि कानिचित् कुलानि | सर्पीति सर्पिन् नाम गाविय माहिषीये अजाये एडकाय उष्ट्रीय | विज्ञपेत्वा ति स्वयं विज्ञापेत्वा | विज्ञपायेत्वा ति परेण विज्ञपायेत्वा | खादेया ती यं खादनीयं | भोजनीयन् ति यं भोजनीयं | प्रतिदेशयितव्यं ताय भिक्षुणीय यावद् अयम् धर्मो प्रातिदेशनिको |
SK
अथ दानि पित्तसंक्षोभो भवति लभ्या सर्पि विज्ञापेतुं पेयालं | अथ दानि पिण्डपातम् अण्वन्ति पश्यति घृतं विक्रायन्तं न दानि वक्तव्यं | ᳚दिर्घायुः लाभो लभ्यतु बहुञ् च भवतु |᳚ लब्धो च स्थावरो भवतु | अथ दान् आह | केनार्थो आर्याये | वक्तव्यं पिण्डचारं अण्वामि | अथ दान् आह | अर्थो आर्याय सर्पिणा यद्य् अर्थिका भोति | वक्तव्यम् अर्थो | यदि पूरं पि पात्रं लभति अनापत्तिः | अथ दानि अपरा पि काचिद् भवति लभ्या प्रत्युत्पन्नप्रायेण (!) वक्तुं इमाये पि देहीति |
SK
एवं तैलं | यदि वातविकारो भवति लभ्या तैलं विज्ञपयितुं तं पि दानि न तैलपीडकानां तेन विज्ञपयितव्यं | अथ दानि पिण्डचारम् अण्वन्ति पश्यति तैलं मापियन्तं यावत् पूरं पि पात्रं लभति अनापत्तिः | यावत् लभ्या प्रत्युत्पन्नप्रयोगेण वक्तुं इमाये पि देहीति |
SK
एवं मधु | यदि श्लेष्मविकारो भवति लभ्यं मधु विज्ञपयितुं | तं पि दानि ना क्षमति मधुघातकानां तेन विज्ञपयितुं |
SK
एवं फाणितं | यदि गिलाना भवति वैद्यो आह आर्ये गुडप्रयोगं करोहीति लभ्यं गुडं विज्ञपयितुं |
SK
एवम् दुग्धं | लभ्यं दुग्धं पिययितुं | अथ दानि पिण्डचारम् अण्वति पश्यति यो कुलेहि गावो दुह्यन्तां न दानि वक्तव्यं | बहुलाभो लभ्यतु क्षेमेण गावो चरन्तु | आहंसुः | केन आर्याये अर्थो | वक्तव्यं | पिण्डचारम् अण्वामि | आहंसुः | अर्थो आर्याये दुग्धेनापूरम् पि पात्रं प्रतीच्छत्य् अनापत्तिः यावत् प्रत्युत्पन्नप्रयोगेन लभ्या वक्तुं इमाय पि देहीति | अथ दानि श्वेतमयं सिक्षति | नास्ति श्वेतमयं | इच्छसि दुग्धं | आह | इच्छामि | पूरम् पि पात्रं लभति अनापत्तिः |
SK
अथ दानि प्रतिश्यायो भवति | वैद्यो आह दधिकृत्यं करोहीति लभ्यं दधि विज्ञपयितुं | अथ दानि पिण्डचारम् अण्वति पश्यति दधि मापीयमानं लभ्या मस्तु विज्ञपयितुं | अथ दान् आह | नास्ति मस्तु इच्छसि दधिं | आह इच्छामि | पूरं पि पात्रं प्रतिगृह्णाति अनापत्तिः |
SK
अथ दानि भिक्षुणी वमनं विरेचनं वा कर्तुकामा भवति वैद्यो जल्पति आर्ये अभिष्यन्देहि मत्स्यरसेहीति | यावन् न क्षमति कैवर्तानां विज्ञपयितुं | अथ दानि पिण्डचारम् अण्वति लभ्यं आम्बूकाञ्जिकं विज्ञपयितुं |
SK
अथ दानि सिराविद्धिका भवति | विरेचनपीतिका भवति | वैद्यो आह | आर्ये मांसरसं प्रतिसेवाहि | लभ्यं मांसरसं विज्ञपयितुं | न क्षमति ओरोभ्रिकानां तेन | अथ दानि पिण्डचारम् अण्वति लभ्यं शाकरसं विज्ञपयितुं | अथ दान् आह | नास्ति आर्ये शाकरसो इच्छसि मांसरसं | आह | इच्छामि | पूरं पि पात्रं लभति अनापत्तिः |
SK
अथ दानि जानाति अमुकस्मिं काले कदाचिद् गैलान्यं भविष्यति इमानि भैषज्यानि दुर्लभानि भविष्यन्तीति प्रतिकृत्य् एव याचति अनापत्तिः | ग्लाना विज्ञपिय अगिलाना खादति विनयातिक्रमः | अगिलाना विज्ञपिय ग्लाना खादति अनापत्तिः | अग्लाना विज्ञापिय अग्लाना खादति प्रतिदेशयितव्यं |
SK
असंप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः | संप्रेयं सिद्धं | असंप्रेयं सिद्धं | असंप्रेयं खादति विनयातिक्रमः | संप्रेयं सिद्धं संप्रेयं खादति अनापत्तिः | परप्रतिबद्धाय जीविकाय अनापत्तिः | तेन भगवान् आह |
SK
यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं सर्पिः एवंरूपं तं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय | असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्ना तं धर्मं प्रतिदेशयामि | अयं धर्मो प्रातिदेशनिको |
SK
एवं तैलेन कर्तव्यं | मधुफाणितं दुग्धं दधि मत्स्यं मांसं |
SK
यानि खो पुनर् इमानि प्रणीतसम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं मांसं एवंरूपं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञपायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय | असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मपर्यायं वा तन् धर्मं प्रतिदेशयामि | अयं पि धर्मो प्रातिदेशनिको ||
SK
उद्दानं |
SK
सरिपिस् [१] | तैलं [२] | मधु [३] | फाणितं [४] | दुग्धम् [५] दधि [६] | मत्स्य [७] | मांसं [८] | इदम् अष्टमं | भिक्षुणीनां प्रातिदेशनिकां ||
SK
शैक्षा धर्मा १६६
SK
२५३. शैक्षा विस्तरेण कर्तव्या यथा भिक्षुणां सर्वे षड्वर्गाह् स्थापयित्वा हरितोदके |
SK
उद्दानम् |
SK
निवासनं [१] | प्रावरणं [२] | सुसंवृतं [३] | चक्षुः [४] | शब्दं [५] | नोच्चग्घिका [६] | नोगुण्ठिका [७] | नोत्क्षिप्तिका [८] | न उत्कुटुके [९] | न खम्भ [१०] | न काय [११] | न शीर्ष [१२] | न बाहुकेन [१३] || प्रथमो वर्गः ||
SK
उद्दानं |
SK
सुसंवृता [१४] | चक्षुः [१५] | न शब्द [१६] | उच्चग्घयिका [१७] | न ओगुण्ठिका [१८] | नोत्क्षिप्तिका [१९] | न ओसक्तिका [२०] | न पल्लत्थिका [२१] | न खम्भ [२२] | न हस्तपादकौकृत्येन [२३] | द्वितीयो वर्गः ||
SK
उद्दानं |
SK
द्वे सत्कृत्य [२४, २५] | समसूप [२६] | न स्तूप [२७] | नावकीर्ण [२८] | नावगण्ड [२९] | न जिह्वा [३०] | नातिमहन्त [३१] | नानागत [३२] | न कवडोत्क्षेपक [३३] | न कवडच्छेदक [३४] | न सकवडेन [३५] | तृतीयो वर्गः ||
SK
उद्दानं ||
SK
त्रयो निर्लेहा [३६, ३७, ३८] | चुच्चु [३९] | सुरुसुरु [४०] | गुलुगुलु [४१] | न हस्त [४२] | न सित्थ [४३] | नोध्यायन [४४] | पात्रसंज्ञी [४५] | विज्ञप्ति [४६] | छादयति [४७] | न पात्रोदके [४८] | न ससित्थेन [४९] | चतुर्थो वर्गः ||
SK
उद्दानं |
SK
न स्थिता [५०] | न निषण्णा [५१] | न उच्चासना [५२] | उपनह [५३] | न पादुका [५४] | न ओगुण्ठिका [५५] | न संमुख [५६] | न ओसक्तिका [५७] | न पल्लत्थिका [५८] | पूर्यते पञ्चमो वर्गः ||
SK
उद्दानं |
SK
न शस्त्रायुध [५९, ६०] | दण्ड [६१] | छत्र [६२] | उत्पथ [६३] | पृष्ठतो [६४] | यान [६५] | स्थितकेन [६६] | षष्ठो वर्गः ||
SK
सप्त अधिकरणसमथा धर्मा धर्मा अनुधर्मा
SK
२५४. सप्ताधिकरणसमथा धर्मा यथा भिक्षूणां | सम्मुख [१] | स्मृति [२] | अमूढ [३] | प्रतिज्ञा [४] | तस्य पापेयशिक [५] | यो भुयसिक [६] | तृणप्रस्तारको [७] च सप्तमः ||
SK
धर्मश् चानुधर्मश् च यथा भिक्षूणां | समाप्तो भिक्षुणीनां प्रातिमोक्षविभङ्गः ||
SK
भिक्षुणी प्रकीर्णक १
SK
निषद्याप्रतिसंयुक्तं
SK
२५५. आर्यमहासांघिकानां लोकोत्तरवादिनां भिक्षुणीप्रकीर्णकस्यादिः |
SK
भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो पश्चिमं प्रहाणं स्वस्तिकपर्यङ्केन निषीदन्ति | अथापराये दानि भिक्षुणीये व्रणमुखेन दीर्घको ऽनुस्रोतेन प्रविष्टो | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | महाप्रजापती गौतमी भगवतो आरोचयेत् | भगवान् आह | गच्छथ ताये अमुकं भैषज्यं देथ ततो सो दीर्घको निष्क्रमिष्यति | ताये दानि तं भैषज्यं दिन्नं पिबनाये | सो दीर्घको अनुस्रोतम् आगतो न च मृतो | भगवान् आह | एवं च नामा यूयं स्वस्तिकपर्यङ्केन निषीदथ | तेन हि न क्षमति स्वस्तिकपर्यङ्केन निषीदितुं | निषद्याप्रतिसंयुक्तं | न क्षमति भिक्षुणीये पर्यङ्केन निषीदितुं | अथ खल्व् एकिना पदेन पर्यङ्को बद्धव्यः | अपराय पार्ष्णिकाय व्रणमुखं पिथयितव्यं | सा एषा भिक्षुणी स्वस्तिकपर्यङ्केन निषीदति विनयातिक्रमम् आसादयति | इदम् उच्यते निषद्याप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकिर्णक २
SK
कठिनप्रतिसंयुक्तं
SK
२५६. भगवान् श्रावस्तीयम् विहरति | ता दानि भिक्षुणीयो कठिने चीवरं निक्षिपिय सीवन्ति | अपराये भिक्षुणीये वंसविदलिकाय व्रणमुखेन कृतं रुधिरम् उत्पादितं | एतं प्रकरणं | पेयालं | भगवान् आह | तेन हि न क्षमति कठिने निषीदितुं | कठिनप्रतिसंयुक्तं | एता दानि भिक्षुणीयो चीवर निषीदितुकामा भवन्ति | न क्षमति कठिने निषीदितुं | अथ खु उपस्थानशालायाम् वा प्रासादे वा प्रहाणशालायाम् वा आकार्षान् दत्त्वा चीवरकं प्रज्ञपिय सीवितव्यं | अथ एवं पि न भवति | पीठस्य वा मञ्चस्य वा उपरि प्रज्ञपयित्वा सीवितव्यं | अथैवं पि न भवति जानुकानाम् उपरि स्थापय्यित्वा सीवितव्यं | सा एषा भिक्षुणी कठिने निषीदति विनयातिक्रमम् आसादयति | इदम् उच्यते कठिनप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक ३
SK
वेठकप्रतिसंयुक्तं
SK
२५७. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा दानि भिक्षुणी संबहुलानि स्त्रीहि सार्धं नदीम् अजिरावतीङ् गत्वा एकान्ते चीवरकाणी निक्षिपिय स्नानायावतीर्णा | सा दानि प्रतिकृत्येवोत्तरित्वा वेठकेन कायं वेठयित्वा स्त्रीणाम् आह | प्रजापति निध्यापयथ मां | किम् अहं शोभामि न शोभामीति | ता दान् आहंसुः | किम् पुनर् आर्याय मुण्डाय पिण्डिलिकाय एतेन कार्यं | वयं कामोपभोगनीया मानार्थाय एवं करोमः | कुटुम्बिकानां प्रियतरिका भविष्यामो ति | आर्ये किम् एतेन | यं ताहि स्त्रीहि अवध्यापितं तं दानि भिक्षुणीहि श्रुतं | एतं प्रकरणं | पे | यावद् आम भगवन् | भगवान् आह | दुष्कृतं ते नन्दे यावत् तेन हि न क्षमति वेठकेन कायं वेठयितुं | वेठकप्रतिसंयुक्तं | सा एषा भिक्षुणी वेठकेन पट्टकेन वा कायं वेठयति विनयातिक्रमम् आसादयति | अथ दानि पट्टिकाय वा लोहकेन वा कायं वेठयति | न क्षमति द्विर् अपि वेल्लकं त्रिर् अपि वेल्लकं वेठयितुं | अथ खु एक परिवेल्लकं वेठयितव्यं | अथ दानि वातेन पार्श्वं गृहीतं भवति | गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति किञ्चापि पट्टकेन कायं वेठयत्य् अनापत्तिः | इदम् उच्यते वेठकप्रतिसंयुक्तं
SK
भिक्षुणी प्रकीर्णक ४
SK
श्रोणिभण्डकप्रतिसंयुक्तं
SK
२५८. भगवान् श्रावस्तीयम् विहरति | यथैव वेठकस्य एवम् एवार्थोत्पत्तिः कर्तव्या | सा प्रतिकृत्य्ऽ एव उत्तरित्वा श्रोणीभण्डकम् आबन्धित्वा आह | प्रजापती प्रजापति निध्यायथ मां किम् अहम् शोभामि न शोभामीति | ता दान् आहंसुः | किम् आर्याय | पेयालम् | यावद् आम भगवन् | भगवान् आह तेन हि न क्षमति श्रोणीभण्डं | श्रोणीभण्डकप्रतिसंयुक्तं | श्रोणीभण्डकन् नाम एते भवन्ति | शङ्खावर्त्तका वा शिरिका वा पीलुका वा विद्रुमा वा अक्षरक्षा वा सुवर्णरूप्यमया वा मणिमया वा प्रकालका वा अन्तमसतो सूत्रमणिका वा बन्धति | तेन च श्रोणीभण्डकछन्दं विनोदयति विनयातिक्रमम् आसादयति | इदम् उच्यते श्रोणीभण्डकप्रतिसंयुक्तं || ण्क ||
SK
भिक्षुणीप्रकिर्णक ५ गृहिणिभण्डकप्रतिसंयुक्तं
SK
२५९. भगवान् श्रावस्तीयम् विहरति | एषैवार्थोत्पत्तिः यावद् गृहिणीभण्डकम् आबन्धित्वा यावद् भगवान् आह | तेन हि न क्षमति गृहिणीभण्डकं | गृहिणीभाण्डकन् नाम एते भवन्ति | मूर्धापिधानका वा | वलया वा | कर्णिका वा | टिक्का वा | वेठका वा | हर्षका वा | हारा वा | अर्धहारा वा अपरञ्जग वा | कटका वा | शङ्खका वा | नूपुरा वा | अङ्गुलीयका वा | यद् वा पुनर् अन्यद् अपि किञ्चिद् गृहिणीभाण्डं सर्वन् न क्षमति | सा एषा भिक्षुणी गृहिणीभण्डकम् आबन्धयति विनयातिक्रमम् आसादयति | अथ दानि भैषज्यभण्डकम् आबन्धति ज्वरसूत्रकम् वा अनापत्तिः | इदम् उच्यते गृहिणीभाण्डकप्रतिसंयुक्तं || तृ ||
SK
भिक्षूणीप्रकिर्णक ६
SK
गृहिणीअलङ्कारप्रतिसंयुक्तं
SK
२६०. भगवान् श्रावस्तीयम् विहरति | तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महान्तेहि कुलेहि प्रव्रजिता अलङ्कारिकान्य् आदाय | कुमारिकानां वुह्यन्तीनां उत्सवसमये तिथि पर्वण्या देवयात्रादिषु कृतकानि भाण्डकानि ददन्ती | जनो दानि ओज्झायति | नेयं प्रव्रज्या वाणिजेयं | एतं प्रकरणं | पेयालं यावद् भगवान् आह | तेन हि न क्षमति गृहिणीअलङ्कारं धारयितुं | यदि काचिद् गृहिणी प्रव्रजति यदि ताय किञ्चिद् अलङ्कारं भवति वक्तव्या विसर्जेहि | अथ दानि पश्यति दुर्भिक्ष वा भवेय पिण्डपातो वा न लभ्येत जरादुर्बला वा भवति व्याधिदुर्बला वा गैलान्यम् वा किञ्चिद् भविष्यति अल्पलाभो मातृग्रामो मा विहन्येया ति | पिण्डं कारयित्वा पर्व्राजयितव्या | सा एषा भिक्षुणी अलङ्कारम् अपरित्याजयित्वा प्रव्रजेति विनयातिक्रमम् आसादयति | भिक्षोर् अप्य् एष एवं विधिर् | इदम् उच्यते गृहिणीअलङ्कारप्रतिसंयुक्तं || फु ||
SK
भिक्षुणीप्रकिर्णक ७
SK
वेश्याप्रतिसंयुक्तं
SK
२६१. भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो शाकीयकन्यायो कोलियकन्यायो मल्लकन्यायो महाकुलेहि प्रव्रजिता चेटिकाम् आदाय प्रव्रजन्ति | तायो चेटिकायो प्रासादिकायो दर्शनीयायो वेश्यं (!) वाहयन्ति | जनो दनि ओज्झायति | नेयं प्रव्रज्या गणिका इमा | एतं प्रकरणं भिक्षुणीहि श्रुतं | यावद् आम भगवन् | भगवान् आह | एवं च नाम यूयं वेश्याम् उपस्थापयथ | तेन हि न क्षमति वेश्याम् (!) उपस्थापयितुं | सा एषा भिक्षुणी वेश्याम् उपस्थापयति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति | इदम् उच्यते वेश्याप्रतिसंयुक्तं || ग्रा ||
SK
भिक्षुणीप्रकीर्णक ८
SK
आरामिकिनिप्रतिसंयुक्तं
SK
२६२.भगवान् श्रावस्तीयम् विहरति | भगवता दानि शिक्षापदं प्रज्ञप्तं | न क्षमति वेश्याम् उपस्थापयितुं ति | तायो दानि शाकियकन्यायो मल्लकन्यायो कोलितकन्यायो महाकुलेहि प्रव्रजन्ति | तायो दानि पौद्गलिकाम् आरामिकिनीम् उपस्थापेन्ति | तायो दानि आरामिकिनीयो प्रासादिकायो जनो दानि ओज्झायति | नेयं प्रव्रज्या गणिका इयं | एतं प्रकरणं भिक्षुणीहि श्रुतं यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति पौदगलिकाम् आरामिकिनीम् उपस्थापयितुं | न क्षमति आरामिकिनी | ना क्षमति चेटी | न क्षमति कल्पियकारी | सा एषा भिक्षूणी या पौद्गलिकाम् आरामिकिनीम् उपस्थापयति विनयातिक्रमम् आसादयति | इदम् उच्यते आरामिकिनीप्रतिसंयुक्तम् || ह्रा ||
SK
भिक्षूणीप्रकीर्णक ९
SK
संकक्षिकाप्रतिसंयुक्तं
SK
२६३. भगवान् श्रावस्तीयम् विहरति | अपरा दानि भिक्षुणी प्रासादिका दर्शनीया | ताये दानि पीनेहि स्तनेहि गच्छन्तीय चीवरम् उत्क्षिपीयति | सा दानि जनेन उच्चग्घीयति | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावद् आम भगवन् | भगवान् आह तेन संकक्षिका नाम कर्तव्या | सम्कक्षिकां प्रावरन्तीय तथा प्रावरितव्यं यथा दानि स्तनापीडिता भवन्ति | सा एषा भिक्षुणी संकक्षिकान् नोपस्थापयति विनयातिक्रमम् आसादयति | सन्ती न प्रावरयति विनयातिक्रमः इदम् उच्यते संकक्षिकाप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक १०
SK
दकशाटिकाप्रतिसंयुक्तं
SK
२६४. भगवान् वैशालीयम् विहरति | भद्राय दानि कापिलेय्या अर्थोत्पत्तिः कर्तव्या | यावद् भगवान् आह | तेन हि न क्षमति नग्निकाया स्नातुं | दकशाटिकाय स्नापितव्यं | दकशाटिकाप्रतिसंयुक्तं | न क्षमति नदीयम् वा ओघे वा पुष्किरिणीयम् वा तडागे वा नग्निकाय स्नापितुं | दकशाटिकाय स्नापितव्यं | नग्निका स्नायति विनयातिक्रमः | अथ दानि विहारे गुप्ते प्रदेशे नग्निका स्नायत्य् अनापत्तिः | इदम् उच्यते दकशाटिकाप्रतिसंयुक्तं || ऌ ||
SK
|| प्रथमो वर्गः ||
SK
भिक्षुणीप्रकीर्णक ११
SK
तलघातप्रतिसंयुक्तं
SK
२६५. भगवान् श्रावस्तीयं विहरति | भिक्षुणीविहारो च गृहिकुलं च कच्छान्तरिता | तायो दानि भिक्षुणीयो कामरागेण खज्जन्ति | तायो दानि हस्ततलेनाङ्गजातं प्रस्फोटयन्ति | सो मनुष्यो पुनो पुनो शब्दं शृणोति | सो दान् आह | किम् एतन् ति | सा दानि स्त्री आह | भवतु आर्यपुत्र अहम् एतं जानामि किन् तवानेन ज्ञानेन | आह | नहि आचिक्षाहि | आह | एता आर्यमिश्रिकायो ब्रह्मचारिणीयो कामरागेन खज्जन्तीयो हस्ततलेन आस्फोटयन्ति आङ्गजातं | तेन दानि मनुष्येण ओज्झापितं | एतं प्रकरणं भिक्षूणीहि श्रुतं | यावद् भगवान् अह | तेन हि न क्षमति तलघातकं | तलघातप्रतिसंयुक्तं | सा एषा भिक्षुणी हस्ततलेनाङ्गजातम् आस्फोटयति पात्रेण वा कुपात्रेण वा कंसिकाय वा विडल्लाय वा अन्येन वा पुन केनचित् तेन च कामरागं विनोदयति विनयातिक्रमम् आसादयति | इदम् उच्यते तलघातकप्रतिसंयुक्तं || [१] ||
SK
भिक्षूणी प्रकीर्णक १२
SK
जतुमट्ठकप्रतिसंयुक्तं
SK
२६६. भगवान् श्रावस्तीयं विहरति | अपराय दानि भिक्षुणीय कामरागेण खज्जन्तीय जतुमट्ठकं मञ्चकं यन्त्रितं | अत्र विप्रतिपद्यिष्यन् ति | तद् अनन्तरम् अग्निर् उत्थितो | ताय दानि संभ्रान्ताय असमन्वाहरित्वा स मञ्चको बहिन् निष्कासितो | मनुष्यो दानि प्रत्यवेक्षमाणा अण्वन्ति | कहिं अग्निर् उत्थितो कस्य गृहाद् उत्थितो | तेहि दानि सो दृष्टो | ते दानि ओज्झायन्ति | एतं प्रकरणं भिक्षुणीहि श्रुतं | पे | यावद् भगवान् आह | तेन हि न क्षमति जतुमट्ठकं | जतुमट्ठकप्रतिसंयुक्तं | जतुमट्ठकं नाम जतुस्य वा लोहस्य वा त्रपुस्य वा नाग्रस्य वा हारकूटस्य वा दन्तस्य वा चोडकस्य वा मृत्तिकाय वा अङ्गजातकाकारं कृत्वा स्वे अङ्गजाते प्रवेशेति तेन च काम रागं विनोदेति थुल्ऽ-अच्चयम् आसादयति | इदम् उच्यते जतुमट्ठकप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक १३, १४
SK
धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं
SK
२६७. भगवान् श्रावस्तीयम् विहरति | अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि | एकान्तस्थिता महाप्रजापती गौतमी भगवन्तं याचति | भगवन्तं वन्दित्वा आह | मातृग्रामस्य भगवन् अङ्गजातं दुर्गन्धं उपवायति | लभ्यं | भगवन् धोवितुं | भगवान् आह | लभ्या | तायो दानि भिक्षुणीयो बाहिरबाहिरेण धोवन्ति तथैव दुर्गन्धं वायति | एतं प्रकरणं महाप्रजापती गौतमी भगवन्तं पृच्छति | लभ्या भगवन् प्रवेशिय धोवितुं | भगवान् आह | लभ्या धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं | भिक्षुणीय धोवन्तीय एकम् अङ्गुलिवेठकं प्रवेशयित्वा धोवितव्यं | न क्षमति अतिदूरं प्रवेशयितुं | अतिदूरं प्रवेशेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति | इदम् उच्यते धोवनाप्रतिसंयुक्तं प्रवेशनाप्रतिसंयुक्तं || ण्क ||
SK
भिक्षुणिप्रकीर्णक १५, १६, १७
SK
आनिचोलकप्रतिसंयुक्तं
SK
२६८. भगवान् श्रावस्तीयम् विहरति | तासान् दानि भिक्षुणीनाम् अनुमासं अनुमासं ऋतुर् आगच्छति | लोहितं शय्यासनं नाशीयति | एतं प्रकरणं महाप्रजापती गौतमी भगवतो आरोचेति | लभ्या भगवन् शयनासनगुप्त्यर्थं आनीचोलं धारयितुं | भगवान् आह | लभ्यं आनीचोलकप्रतिसंयुक्तं | यस्या एष ऋतुर् आगच्छति शोणितं स्रवति तया आनीचोलकं धारयितव्यं | लेण्टकखण्डानि | नापि क्षमति गाढं नापि क्षमति अतिदूरं प्रवेशयितुं यथा तेनैव कामरागम् विनोदयेत् | अथ खलु प्रशिथिलं व्रणमुखस्य प्रवेशयितव्यं | सा एषा भिक्षुणी अतिदूरम् वा प्रवेशेति गाढम् वा प्रवेशेति यथा तेनैव कामरागम् विन्दोदेति स्थूल्ऽ-अच्चयम् आसादयति | इदम् उच्यते आनीचोलकप्रतिसंयुक्तं || तृ ||
SK
भिक्षुणीप्रकीर्णक १६
SK
स्त्रीतीर्थप्रतिसंयुक्तं
SK
२६९. भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो स्त्रीतीर्थे आनीचोलं धोवन्ति | स्त्रियो दानि ओज्झायन्ति | सर्वम् इदम् तीर्थं रुधिरेण विट्टालितं | एतं प्रकरणं | पेयालं | यावद् भगवान् आह | तेन हि न क्षमति स्त्रितीर्थे आनीचोलकं धोवितुं | स्त्रीतीर्थप्रतिसंयुक्तं | सा एषा भिक्षुणी आनीचोलकं स्त्रीतीर्थे धोवति विनयातिक्रमम् आसादयति | इदम् उच्यते स्त्रीतीर्थप्रतिसंयुक्तं || फु ||
SK
भिक्षुणीप्रकीर्णक १७
SK
पुरुषतीर्थप्रतिसंयुक्तं
SK
२७०.भगवान् श्रावस्तीयम् विहरति | भगवता शिक्षापदं प्रज्ञप्तं | न क्षमति स्त्रीतीर्थे आनीचोलकं धोवितुं | तायो दानि भिक्षुणीयो पुरुषतीर्थे आनीचोलकं धोवन्ति | पेयालं | यावत् सा एषा भिक्षुणी आनीचोलकं पुरुषतीर्थे धोवति विनयातिक्रमम् आसादयति | इदम् उच्यते पुरुषतीर्थप्रतिसंयुक्तं || ग्रा ||
SK
भिक्षुणीप्रकीर्णक १८
SK
रजकतीर्थप्रतिसंयुक्तं
SK
२७१. भगवान् श्रावस्तीयम् विहरति | एवम् एव रजकतीर्थे कर्तव्यं | भगवान् आह | तेन हि न क्षमति रजकतीर्थे धोवितुं | अथ खु कुण्डालके वा कटाहके वा मल्लके वा दकानके वा उदकं गृह्य एकान्ते धोवितव्यं | यहिं पर्यादानं गच्छेय | अथ दानि बाहिरोदकं भवति यहिं निर्वाहो तहिन् धोवितव्यं | तानि लेण्टकानि शोषयितव्यानि यदा पुनो ऋतु नागच्छति तदा पुनो दातव्यानि | सा एषा भिक्षुणी रजकतीर्थे आनीचोलं धोवति विनयातिक्रमम् आसादयति | इदम् उच्यते रजकतीर्थप्रतिसंयुक्तं || ह्रा ||
SK
भिक्षुणीप्रकीर्णक १९
SK
उदकधाराप्रतिसंयुक्तं
SK
२७२. भगवान् श्रावस्तीयम् विहरति | अपराय दानि भिक्षुणीय रक्तचित्ताय अङ्गजातं उदके धारितं | तस्याशुचिर् मुक्तं | ताये दानि कौकृत्यं | कौकृत्येन भिक्षुणीनाम् आरोचयति | यावद् भगवान् आह | सा एषा भिक्षुणी उदकधारायाम् वा कुण्डिकधारायाम् वा उदकचोडेन वा आलुकवेण्टिकायाम् वा प्रणाल्याम् वा अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति | अथ दानि स्नायति तडागे वा प्रस्रवणे वा प्रणालियम् वा न दानि अग्रतो उदकधारां कृत्वा स्नायितव्यं यथा पृष्ठीय वा शीर्षेण वा उदकधारां प्रतिच्छेय तथा स्नायितव्यं | सा एषा भिक्षुणी अग्रतो मुखां उदकधारां कृत्वा स्नायति ताय च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति | इदं उच्यते उदकधाराप्रतिसंयुक्तं
SK
भिक्षुणिपरिकीर्णक २०
SK
उदकस्रोतप्रतिसंयुक्तं
SK
२७३. भगवान् श्रावस्तीयम् विहरति | अपराय दानि भिक्षुणीय रक्तचित्ताय उदकस्रोते अङ्गजातं धारितं | ताये अशुचिर् आगतो यथा उदकधाराय यावत् | तेन हि न क्षमति उदकस्रोते अङ्गजातं धारयितुं | उदकस्रोतप्रतिसंयुक्तं | या दानि तायो भवन्ति गिरिनदीयो शीघ्रस्रोतायो तहिं अङ्गजातं धारेति तेन च कामरागं विनोदेति थूल्ऽ-अच्च्यम् आसादयति | अथ दानि स्नायति न क्षमति अग्रतोमुखं स्रोतं कृत्वा स्नायितुं पृष्ठतोमुखं स्रोतं कृत्वा स्नायितव्यं | सा एषा भिक्षुणी अग्रतोमुखं स्रोतं कृत्वा स्नायति विनयातिक्रमम् आसादयति | इदम् उच्यते उदकस्रोतप्रतिसंयुक्तं || ऌ ||
SK
|| द्वितीयो वर्गः ||
SK
भिक्षुणीप्रकीर्णक २१
SK
विकृतिप्रतिसंयुक्तं
SK
२७४. भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो नानाप्रकारेहि मोचयन्ति मूलकेन पलाण्डूकेबुकाये सोभञ्जनकेन लतिकाय | एतं प्रकरणं यावद् भगवन् | भगवान् आह | तेन हि न क्षमति विकृतीहि मोचयितुं | विकृतिप्रतिसंयुक्तं | सा एषा भिक्षुणी मूलकेन वा पलाण्डूय वा केबुकाय वा सोभञ्जनकेन वा लतिकाय वा इल्लादुकाय वा त्रपुसेन वा अल्लाबूय वा कक्षारुकेन वा अन्येन वा पुन केनचिन् मोचयति तेन च कामरागं विनोदेति थूल्ऽ-अच्चयम् आसादयति | इदम् उच्यते विकृतिप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक २२
SK
कर्मप्रतिसंयुक्तं
SK
२७५. भगवान् श्रावस्तीयम् विहरति | अपरस्य दानि भिक्षुस्य उत्क्षेपनीयं कर्म क्रियते | तहिं नास्ति कोचि परिकुशलो कर्मकारको | भिक्षुणीय कर्म कृतं | ताये दानि कौकृत्यं | किन् नु खलु लभ्या एतं कर्तुं उताहो न लभ्यं | कौकृत्येन भिक्षुणीनाम् आरोचयति | भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् भगवान् आह | अग्रपरिषा एषा | न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं | कर्मप्रतिसंयुक्तं न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं (!) | अथ दानि न कोचित् परिकुशलो कर्मकारको भवति लभ्यं भिक्षुणीये भिक्षुस्य उद्देशितुं | अथ दानि कर्मकरेन्तस्य विस्मरति लभ्या भिक्षुणीय अनुप्रदातुं | सा एषा भिक्षुणी भिक्षुस्य कर्म करोति विनयातिक्रमः | किञ्चापि भिक्षुः भिक्षुणीये कर्म करोति अनापत्तिः | इदम् उच्यते कर्मप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक २३
SK
कौशेयप्रतिसंयुक्तं
SK
२७६. भगवान् श्रावस्तीयम् विहरति | भद्रा दानि कापिलेयी कौशेयचीवरेण प्रावृता ज्ञातिकुलं गच्छति स्थूलवृषितो देवो ओवृष्टो कौशेयचीवरमोवृष्टं कायेश्लिष्टं स्फटिकप्रत्युष्टो विय कायोदृश्यति जनो सन्निपातितो भद्राये अङ्गयष्टिं पश्यितुकामो | सा दानि उत्कुटुका उपविष्टा अन्तेवासिनीहि परिवृता | एतं प्रकरणं | यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति कौशेयं | कौशेयप्रतिसंयुक्तं | कौशेयन् नाम जातिमं कर्त्तिमं च | सा एषा भिक्षुणी जातिमं प्रावरति | देशनागामीविनयातिक्रमः | कर्त्तिमं प्रावरति सम्वरगामीविनयातिक्रमः किञ्चापि भिक्षुर् उभयं प्रावरति अनापत्तिः | इदम् उच्यते कौशेयप्रतिसंयुक्तं
SK
भिक्षुणिप्रकीर्णक २४
SK
गण्डप्रतिच्छादनप्रतिसंयुक्तं
SK
२७७. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा नाम भिक्षुणी विहारस्याकाशतलके एकसंकक्षिकाय चङ्क्रमति | ताये दानि | स्तनावड्डाश् चङ्क्रमन्तीय उत्पतन्ति | जनेन उच्चग्घायति पश्यथ भणे श्रमणिका अलाबुतुम्बकेन विय नदीं तरतीति | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावद् भगवान् आह | तेन हि गण्डप्रतिच्छादनन् नाम कर्तव्यं | गण्डप्रतिच्छादनप्रतिसंयुक्तं | संकक्षिकाये उपरिटो ओसारयितव्यो यथा गण्डा प्रतिच्छन्ना भवेंसुः सा एषा भिक्षुणी गण्डप्रतिच्छादनं पटं न प्रावरति विनयातिक्रमम् आसादयति | न दानि क्षमति प्राकटे प्रदेशे एकसंकक्षिकाय आसादयति | न दानि क्षमति प्राकते प्रदेशे एकसंकक्षिकाय चङ्क्रमितुं | अथ दानि विहारस्य गुप्ते प्रदेशे चङ्क्रमति एकसंकक्षिकाय अनापत्तिः | इदम् उच्यते गण्डप्रतिच्छादनप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक २५
SK
स्त्रीअलङ्कारप्रतिसंयुक्तं
SK
२७८. भगवान् श्रावस्तीयम् विहरति | तायो दानि शाकियकन्यायो महाकुलेहि प्रव्रजिताः | अभिज्ञायो अलंकरितुं |
SK
या दानि कुमारियो वुह्यन्ति नववधुकायो वा आनीयन्ति तायो अलङ्करेन्ति गृहेण गृहन् नीयन्ति | अलङ्करितुं खज्जभोज्जं लभन्ति तेन वृत्तिं कल्पेन्ति | जनो दानि ओज्झायति | नेयं प्रव्रज्या अलङ्कारिका एताः | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं यावद् भगवान् आह | तेन हि न क्षमति अलङ्कर्तुं | स्त्रीअलङ्कारप्रतिसंयुक्तं | सा एषा भिक्षुणी शीर्षम् वा प्रसाधेति अक्षिणी वा अञ्जेति चूर्णकेन वा मुखं ओचूर्णेति तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति | अथ दानि अक्षिणीदुःखम् ति शिरोवेदना वा भवति | अर्धावभेदका वा लभ्या अक्षिणी अञ्जयितुं शीर्षम् वा मार्जयितुं | इदम् उच्यते स्त्रीअलङ्कारप्रतिसंयुक्तं ||तृ ||
SK
भिक्षुणी प्रकीर्णक २६
SK
उत्पलवापकप्रतिसंयुक्तं
SK
२७९. भगवान् श्रावस्तीयम् विहरति | तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो महाकुल प्रव्रजितायो उत्पलानि वापेन्ति विक्रीणन्ति च | तेन च जीविकां कल्पयन्ति | जनो दानि ओज्झायति | नेयं प्रव्रज्या उत्पलवापिका इयं | एतम् प्रकरणं यावत् पेयालं | यावद् भगवान् आह | तेन हि न क्षमति उत्पलानि वापयितुं उत्पलवापकप्रतिसम्युक्तं | सा एषा भिक्षुणी वापेति विक्रीणाति च तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति | अथ दानि चैत्यार्थाय वापेति भगवतः पूजाकर्माय वापेति अनापत्तिः | इदम् उच्यते उत्पलवापकप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक २७
SK
सुमनावापनाप्रतिसंयुक्तं
SK
२८०. भगवान् श्रावस्तीयम् विहरति | एवम् एव सुमनावापनाय कर्तव्यं यावत् इदम् उच्यते सुमनावापनाप्रतिसंयुक्तं ||ग्रा ||
SK
भिक्षुणीप्रकीर्णक २८
SK
उत्पलग्रन्थिका प्रतिसंयुक्तं
SK
२८१. भगवान् श्रावस्तीयम् विहरति | भगवता दानि शिक्षापदं प्रज्ञप्तं | न क्षमति सुमनां वापयितुम् ति | तायो दानि शाकियकन्यायो कोलितकन्यायो मल्लकन्यायो लिच्छविकन्यायो उत्पलानि ग्रन्थयित्वा विक्रीणन्ति | जनो दानि ओज्झायति | नेयं प्रव्रज्या कारिका इयं | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावद् आम भगवन् | भगवान् आह | तेन हि न क्षमति उत्पलानि ग्रन्थयितुं | उत्पलग्रन्थिकाप्रतिसंयुक्तं | सा एषा भिक्षुणी उत्पलदामाम् वामल्लिकादामाम् वा आरङ्गणदामाम् वा कृत्वा विक्रीणन्ति | तेन च जीविकां कल्पयन्ति विनयातिक्रमः | अथ दानि माल्योपहारो भवति जातिमहा वा बोधिमहा वा धर्मचक्रमहा वा आनन्दमहा वा राहुलमहा वा पञ्चवार्षिका वा | महापञ्चवार्षिका | जनो दानि आह | आर्यमिश्रिकाहि शोभापयितव्यं | किञ्चापि भिक्षुणी मुत्पलमालाम् वा मल्लिकामालाम् वा आरङ्गणमालाम् वा ग्रन्थयत्य् अनापत्तिः | इदम् उच्यते उत्पलग्रन्थिकाप्रतिसंयुक्तं || ह्र ||
SK
भिक्षुणी प्रकीर्णक २९
SK
सुमनाग्रन्थिकाप्रतिसंयुक्तं
SK
एवम् एव सुमनाग्रन्थिकाय नानाकरणं ग्रन्थिगुणं वा मालागुणम् वा पुष्पकञ्चुकम् वा कृत्वा विक्रीणाति | तेन जीविकां कल्पयति विनयातिक्रमः | इदम् उच्यते सुमनाग्रन्थिकाप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक ३०
SK
कर्तनाप्रतिसंयुक्तं
SK
२८२. भगवान् श्रावस्तीयम् विहरति | तायो दानि भिक्षुणीयो शाकियकन्यायो यावन् महाकुलप्रव्रजितायो संज्ञिकाः सूत्रं कर्तयित्वा विक्रीणन्ति | जनो दानि ओज्झायति | नेयं प्रव्रज्या पिचुकारिका इयं | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावद् भगवान् आह | तेन हि न क्षमति कर्तितुं | कर्तनाप्रतिसंयुक्तं | सा एषा भिक्षुणी कम्बलम् वा कर्पासम् वा क्षौमम् वा कौशेयम् वा शाणम् वा भङ्गम् वा अन्यम् वा कर्तयित्वा विक्रीणाति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति | अथ दानि भिक्षुणीये चीवरं परिश्रामणं वा क्षीनं वा भवति लभ्यं सी
SK
भिक्षुणीप्रकीर्णक ३१
SK
आचारविकोपनाप्रतिसंयुक्तं
SK
२८३. मनास्मि | ब्रह्मचर्यातो च्याविता | आह | केन | आह | सो मे देवरो परिपातेति | सो मे नयितुकामो | आह | उपविश माता याहि | वयं ते रक्षिष्यामः सा दान् आह गमिष्यामि आर्याये मूलं आर्या मे रक्षिष्यति | ताहि ताये नूपुराणि आबद्धानि कर्णिका आबद्धा वलयानि आविद्धानि अलङ्कृता रक्षोपरक्तेहि वस्त्रेहि परिहिता वावागुण्ठिता च | चतुहि पञ्चहि चेटिकाहि परिवृता | सो दानि मनुष्यो तान् द्वारे स्थित्वा अवलोकेति | यां वेलां निष्क्रमिष्यति ततो हं गृह्णीष्यामीति | तेन सा दृष्टा निष्क्रमन्ती | तस्य भवति अर्हति कुटुम्बिकभार्या एषा | न एषासा सा दानि भिक्षुणी | सा दानि भिक्षुणी उपाश्रयं गता भिक्षुणीहि दृष्टा | आहंसुः | आर्ये इयं सुदिन्ना प्रत्योधावित | आह | नाहं प्रत्योधाविता अपि तु मम देवरो प्रत्योधावयितुकामो | तस्य भयाद् आरक्षाभिप्राया एवं कृतं | पेयालं यावत् एतद् एव | भगवान् सर्वं पृच्छति | आम् भगवन् | भगवान् आह | एवञ् च नाम त्वं आचारं विकोपयसि | तेन हि न क्षमति आचारं विकोपयितुं | सा एषा भिक्षुणी त्यक्तमुक्तेन चित्तेन आचारं विकोपयति अभिक्षुणी भवति | अथ रक्षाभिप्राया आचारम् विकोपयति विनयातिक्रमः | न च अभिक्षुणी भवति | भिक्षुर् अपि अत्यक्तमुक्तेन चित्तेन रक्षार्थं आचारं विकोपयति अनापत्तिः | इदम् उच्यते आचारविकोपनाप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक ३२
SK
पात्रप्रतिच्छादनाप्रतिसंयुक्तं
SK
२८४. भगवान् श्रावस्तीयम् विहरति | स्थूलनन्दा भिक्षुणी पिण्डचारम् अण्वन्ती | सा दानि अपरं महान्तं कुलं पिण्डाय प्रविष्टा | तंहि स्त्रियाय लोलगर्भो दारको | सा दान् आह | आर्ये इमं दारकं उज्झेहि | आह | उज्झेतु आर्या | अहं आर्याये किञ्चिद् दास्यामि | आह | नाहम् एनम् उज्झामि | आह | आर्याय अहं एत्तकं चैत्तकं च दास्ये | ताय लुब्धाय उक्तं | इह पात्रे देहि | सा तं प्रतिच्छादयित्वा निष्क्रमति | थेरो दानि महाकाश्यपो पिण्डचारं प्रविष्टो | थेरस्यापि समदानं | या प्रथमा भिक्षा लक्षति तां भिक्षुस्य वा भिक्षुणीये वा प्रतिष्ठाये ति | थेरेण दानि सा दृष्टा | आह | आहर पात्रं | सा संकुसायति प्रतिच्छादेति न दर्शयेति | थेरो आह | आहर पात्रं | सा महेशाख्येन शास्तृकल्पेन थेरेणाभिगर्जिता | ताय दानि भीताय थरथरापन्तीय पात्रं प्रणामितं | थेरेण दृष्टं | आह | हि हीयाय धर्मो | एतं प्रकरणं आयुष्मान् महाकश्यपो भिक्षुणाम् आरोचयति | भिक्षू भगवतो आरोचयेंसुः | भगवान् आह | शब्दापयथ नन्दां | सा दानि शब्दापिता | एतद् एव पृच्छीयति | यावद् आम भगवन् | भगवान् आह | दुष्कृतन् ते नन्दे नैष धर्मो नैष विनयो यावत् | एवञ् च नाम त्वं पात्रं प्रतिच्छादेसि | तेन हि न क्षमति पात्रं प्रतिच्छादयितुं | पात्रप्रतिच्छादनाप्रतिसंयुक्तं | न क्षमति भिक्षुणीय प्राकटेन पात्रेण पिण्डाय अटितुं प्रतिच्छादयित्वा अटितव्यं | यदा भिक्षां प्रतिच्छति तदा उग्घाटिय प्रतिच्छितव्यं | यदि भिक्षुं रथ्यायां पश्यति उग्घाटिय उपदर्शयितव्यं | सा एषा भिक्षुणी प्राकटेन पात्रेण अटति विनयातिक्रमम् आसादयति | भिक्षुं दृष्ट्वा न उग्घाटिय दर्शेति विनयातिक्रमम् आसादयति | इदम् उच्यते पात्रप्रतिच्छादनाप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक ३३
SK
वर्चकुटिप्रतिसंयुक्तं
SK
२८५. भगवान् श्रावस्तीयं विहरति | ता दानि भिक्षुणीयो ओनद्धवर्चे वर्चकुटीये उपविशन्ति | वर्चकुटीये स्त्रियाय लोलगर्भो प्रतिक्षिप्तो | चण्डालाश् चित्रघटकेहि उच्चारं छोरयन्ति | तेहि सो दारको दृष्टो | ते तं दारकं एकायां बाहायां गृहीत्वा ओज्झायन्ति | श्रमणिका वर्चकुटीयं प्रसूता हि | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावत् तेन हि न क्षमति ओनद्धवर्चे उपविशितुं | वर्चकुटीप्रतिसंयुक्तं | न दानि क्षमति भिक्षुणीय ओनद्धवर्चकुटिं कारापयितुं | अथ खु विवृतपादका कारापयितव्या | न क्षमति आगतोदकं कारापयितुं | निःसीमा कारापयितवया | सा एषा भिक्षुणी ओनद्धवर्चकुटीयं आगतोदकायम् वा उपविशति विनयातिक्रमम् आसादयति | इदम् उच्यते वर्चकुटीप्रतिसंयुक्तं ||
SK
भिक्षुणीप्रकीर्णक ३४
SK
जेन्ताकप्रतिसंयुक्तं
SK
२८६. भगवान् श्रावस्तीयम् विहरति | ताय दानि भिक्षुणीय शाकियकन्यायो लिच्छविकन्यायो मल्लकन्यायो जेन्ताके स्नायन्ति | कुलपुत्रकेहि अनुप्रविश्य ब्रह्मचर्यातो च्याविताः | एतं प्रकरणं भिक्षुणीहि श्रुतं | पेयालं | यावत् तेन हि न क्षमति भिक्षुणीये जेन्ताके स्नायितुं | अथ दानि गिलाना भवति लभ्या विहारे स्वेदयित्वा तैलेन अङ्गानि म्रक्षयित्वा स्नायितुं | सा एसा भिक्षुणी जेन्ताके स्नायति विनयातिक्रमम् आसादयति | इदम् उच्यते जेन्ताकप्रतिसंयुक्तं
SK
भिक्षुणीप्रकीर्णक ३५
SK
आरण्यकशयनासनप्रतिसंयुक्तं
SK
२८७. भगवान् श्रावस्तीयम् विहरति | तेन कालेन तेन समयेन भिक्षुणीनाम् आरङ्यकानि शयनासनानि न प्रतिक्षिप्तानि ग्रामान्तिकानि च अकृतानि | तेन खलु पुनः समयेन पञ्चमात्राणि भिक्षुणीशतानि महाप्रजापतीप्रमुखानि राजकारामे विहरन्ति | तायो दानि शाकियकन्यायो लिच्छविकन्यायो कोलितकन्यायो प्रासादिकायो दर्शनीयायो | तायो दानि कुलपुत्रकेहि ओचरितायो | तायो पुरिमं यामं प्रहाणम् उपविष्टा | कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति | ताः स्रत्ति वैहायसम् अभ्युद्गताः | ते कुलपुत्राः प्रत्योसक्किताः | तायो पुनो मध्यमयामं एवम् पश्चिमं यामं प्रहाणम् उपविष्टाः | कुलपुत्रकाश् च अल्लीना ग्रहेष्यामो ति | तंहि तदा नीयाः क्षिप्रसमापत्तिकाः | याहि च मिद्धम् अनोक्रान्तं ताः स्रत्ति वैहायसम् अभ्युद्गताः | यावन्त समापत्तिका याहि च मिद्धम् अवक्रान्तं तायो कुलपुत्रकेहि गृह्य विहेठिताः | एतं प्रकरणं | पेयालं | यावत् तेन हि न क्षमति आरण्यके शयनासने वस्तुं | अथ दानि चातुष्पथिका सर्वरात्रिका भवति उपासकोपासिका गच्छन्ति लभ्यं वस्तुं | तहिं पि न क्षमति प्रतिगुप्ते प्रदेशे वस्तुं | सा एषा भिक्षुणी आरण्यके शयनासने वासं उपगच्छति वर्षम् वा वसति विनयातिक्रमम् आसादयति | इदम् उच्यते आरण्यकशयनासनप्रतिसंयुक्तं || तृ ||
SK
भिक्षुणीप्रकीर्णक ३६४१
SK
भिक्षुणीप्रकीर्णक ३६, ३७
SK
२८८. यो भिक्षूणाम् आस्तारो अनास्तारो सो भिक्षुणीनां | यो भिक्षुणीनां आस्तारो अनास्तारो सो भिक्षूणां || ग्रा ||
SK
भिक्षुणीप्रकीर्णक ३८, ३९
SK
यो भिक्षूणाम् उद्धारो अनुद्धारो सो भिक्षुणीनां | ग्रा | यो भिक्षुणीनाम् उद्धारो अनुद्धारो सो भिक्षूणां
SK
भिक्षुणीप्रकीर्णक ४०, ४१
SK
यो भिक्षूणाम् अभिहारो अनभिहारो सो भिक्षुणीनां || ऌ ||
SK
यो भिक्षुणीनाम् अभिहारो अनभिहारो सो भिक्षूनां || ऌ ||
SK
|| चतुर्थो वर्गः ||
SK
भिक्षुणीप्रकीर्णक ४२४८
SK
भिक्षुणीप्रकीर्णक ४२, ४३
SK
२८९. यं भिक्षूणाम् आमिषं अकल्पियं | अकल्पियं तं भिक्षुणीनां ||
SK
यं भिक्षुणीनाम् आमिषं अकल्पियं कल्पियं तम् भिक्षूणां
SK
भिक्षुणीप्रकीर्णक ४४, ४५
SK
लभ्यं भिक्षुस्य भिक्षुणीय प्रतिग्रहयितुं स्थापयित्वा जतरूपरजतं अग्निकल्पियञ् च
SK
लभ्यं भिक्षुणीये भिक्षूणा प्रतिग्राहापयितुं स्थापयित्वा जातरूपं रजतं अग्निकल्पियञ् च || ण्क ||
SK
भिक्षुणीप्रकीर्णक ४६
SK
२९०. त्रीणि भिक्षुस्य अभिक्षुकरणानि | कतमानि त्रीणि | त्यक्तमुक्तेन चित्तेन शिक्षां प्रत्याख्याति [१] | संघो वासति वस्तुस्मिन् नाशेति [२] | स्त्रीलिङ्गम् वा सा प्रादुर्भवति [३] | इमानि त्रीणि भिक्षुष्य अभिक्षुकरणानि | तेन भिक्षुणा भिक्षुणीविहारं गन्तव्यं | न क्षमति भिक्षुणीनाम् एकपिटके एके पि विचारे वस्तुं | अथ खु च्छिन्नोपविचारे वस्तव्यं | यदास्य भूयो भिक्षु लिङ्गं प्रादुर्भवति तदा भिक्षुविहारम् आगन्तव्यं | सा एवास्योपसम्पदा तद् एव वर्षाग्रं || तृ ||
SK
भिक्षुणीप्रकीर्ंअक ४७
SK
त्रीणि भिक्षुणीये अभिक्षुणीकरणानि | कतमानि त्रीणि | त्यक्तमुक्तेन चित्तेन आचारं विकोपयति | [१] | संघो वासति वस्तुस्मिन् नाशेति | [२] | पुरुषलिङ्गं वास्य प्रादुर्भवति [३] | इमानि त्रीणि भिक्षुणीये अभिक्षुणीकरणानि | तथैव यथा भिक्षोः || फु ||
SK
भिक्षुणीप्रकीर्णक ४८,
SK
नास्ति भिक्षुणीये अतिरिक्तकर्म || ग्र ||
SK
भिक्षुणीप्रकीर्णक ४९
SK
रतनप्रतिसंयुक्तं
SK
२९१. भगवान् श्रावस्तीयम् विहरति | अपरं दानि कुलं राजकुलेन उपहतं | राजभटाः परिवारि वारिय रक्षन्ति | स्थूलनन्दा नाम भिक्षुणी पिण्डचारम् अन्वण्टी तंहि प्रविष्टा | सा स्त्री ताम् आह || आर्ये इदं कुलं राजकुलेनोपहतं उत्कचप्रकचो | इमम् आर्ये निष्क्रामेतु यदि जीवन्तीयो मुच्चिष्यामो अस्माकं भविष्यति आर्याये वृत्तिं दास्यामो आर्याये एतं भविष्यति | ताय तस्याः पात्रं उपनामितं इमंहि देहीति | नानाकाराणां रत्नानां पात्रं पूरयित्वा दिन्नं मुक्तायाः मणीनां स्फोटिकस्य मुसारगल्वस्य लोहिकायाः | सा दानि प्रतिच्छादयित्वा निष्क्रमति | भटेहि च दृष्टा ते दान् आहंसुः | आहर किम् इदं | सा संकुसायति न दर्शेति | थरथरापन्तीय भीतभीताय दर्शितं | भिक्षुणीहि श्रुतं | एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः | यावद् छब्दापिता | तद् एव पृच्छीयति | आह | आम भगवन् | भगवान् आह | तेन हि न क्षमति रतनं प्रतिच्छादयितुं | रतनप्रतिसंयुक्तं | एतं दानि महान्तं कुलं राजकुले नोफतम् भवति यावन् न लेख्यं कृतम् भवति | न सारज्यं कृतम् भवति | यदि किञ्चिद् ददन्ति लभ्यं निष्कासयितुं | अथ दानि लेख्यं कृतम् भवति रक्षा वा कृता भवति भटेहि परिवारितम् भवति | आह | इमं गृहं राजकुलेनोपहतं यदि तावज् जीवन्तीयो मुच्यामः अस्माकं भविष्यति आर्याया एव भविष्यतीति न क्षमति निष्कासयितुं | वक्तव्यं | भगवता शिक्षापदं प्रज्ञप्तं न क्षमति निष्कासयितुं | अथ दान् आह | चैत्यस्य देमः संघस्य वा देमः आर्याये एव देमो ति गृह्णीतव्यं | गृह्णीत्वा न क्षमति प्रतिच्छादयित्वा निष्कासयितुं | प्राकटं कृत्वा निष्कास्यितव्यं | अथ पृच्छीयति कस्येदन् ति चैत्यस्य संघस्य ममेति | यदि मुच्यते नन्दं भद्रं | अथाछिद्यति दातव्यं | सा एषा भिक्षुणी रतनपूर्णपात्रं प्रतिच्छादेति विनयातिक्रमम् आसादयति | इदम् उच्यते रतनप्रतिसंयुक्तं || ह्रा ||
SK
भिक्षुणीप्रकीर्णक ५०
SK
यथावृद्धिकाय
SK
२९२. भगवान् श्रावस्तीयम् विहरति | नदीये अजिरावतीये पारे उभयतो सांघिकं भक्तं | तहिं भिक्षवो गच्छन्ति नावाय | भिक्षुणीयो न लभन्ति अभिरुहितुं | भिक्षू आहंसुः | मा भगिनीयो अभिरुहथ | भगवता शिक्षापदं प्रज्ञप्तम् | न क्षमति भिक्षुस्य भिक्षुणीय सह एकनावाम् अभिरुहितुं ति | ते दानि भिक्षू ओसरन्तिकाय उत्तरन्ति | एकभिक्षुणापि नावा पलिगुद्धा भवति द्विहि त्रिहि एवं पलिगुद्धा भवति | यदा ते भिक्षू उत्तरिताः तदा भिक्षुणीयो एकनावापरिपूरकेन तारिताः | तासां वर्षाग्रं परिग्राहन्तीनां अकालिभूतं | अथ खो महाप्रजापती गौतमी सायाह्नसमये परिकिलन्तेहि महाभूतेहि भगवतो पादवन्दीकां उपसंक्रान्ता | भगवान् जानन्तो येव पृच्छति | केन भे गौतमि परिकिलन्तानि महाभूतानि | अथ महाप्रजापती गौतमी भगवतो तद् एव सर्वम् आरोचेति | भगवान् आह | तेन हि अष्टाहि भिक्षुणीहि यथावृद्धिकाय उपवेष्टव्यं | शिष्टाहि यथागतिकाय | एते दानि भवन्ति भक्ता वा तर्पणा वा यवागुपाना वा परं वार्षिका वा महापञ्चवार्षिका वा अष्टानां भिक्षुणीनां आसनानि स्थापयितव्यानि यथावृद्धिकाय | अष्ट वा निर्मुष्टिका हस्ताः प्रतिकृत्य्ऽ एव गन्तव्यं | ता एता भिक्षुणीयो अष्टानाम् आसनानि स्थापयित्वा निषीदन्ति विनयातिक्रमम् आसादयन्ति | तेन भगवान् आह |
SK
अष्टाभिर् भिक्षुणीभिर् यथावृद्धिकाय उपवेष्टव्यम् उ शिष्टाभि यथागतिकाय
SK
|पञ्चमो वर्गः ||
SK
भिक्षुणीप्रकीर्णक
SK
(चोन्च्लुदिन्ग् सुप्प्लेमेन्त्)
SK
२९३. परिवासो [१] | लशुनं [२] | छत्त्रं [३] | यानं [४] | तथैव शस्त्रकर्माणि [५] | उपानहो [६] | शय्या [७] | निषद्या [८] | नवमं प्रेक्षणं [९] | इमे नव पदा प्रकीर्णकातो समुद्धृताः |
SK
सर्वे अन्ये नव पदा अनूना प्रतिषितव्या पुन तहिं | यत्रासि परिवासो सत्त्वविकृतिन् तहिम् समोदहे | यत्रासि उपानहो वृक्षविकृतिम् तहिं समोदहेत् | यत्रासि लशुनं काष्ठविकृतिं तहिं समोदहे | यत्रासि शय्या निर्दिशेत् तहिं पुष्पविकृतिं | यत्रासि यानं फलविकृतिं निर्दिशेत् तहिं विज्ञः | यत्रासि सहनिषद्या एकोर्त्तकं तहिं समादिशेत् छत्रं | यत्रासि आपत्तिं तत्र निर्देशेद् विज्ञः | यत्रासि शस्त्रकर्म निर्दिशेत् तहिं अन्द् आपत्तिः | यत्रासि विशोकदर्शनं आपत्तिप्रतिकर्म तत्र निर्दिशेद् विज्ञः | एतावता उद्धाराः प्रकीर्णके ये च ओवृषाः वर्गं समुद्धरिय द्वादशमं | नव पदानि पुनर् एव भिक्षुणीनां प्रकीर्णके सर्वं प्रतिक्षिप्तं भिक्षुप्रकीर्णकतो वर्गास् त्रयोदश कार्याः | अन्ये च पञ्च वर्गायुतका यथा भिक्षुणीसूत्रे | आरण्यकं | जेन्ताकं वर्च कठिनं उद्धरित्वा अवशेषा तथैव कार्याः | अभिसमाचारिका धर्माः | तं सर्वं सङ्कले पुन वर्गा अष्टादश प्रकीर्णके स्वयंभुना निर्दिष्टा | भिक्षुणीसूत्रे उभेसूत्रे संकलेत्वान शिक्षापदसंग्रहो यथाभूतं | पञ्चशतानि अनूनानि अपरे च पदा चतुस्त्रिंशत् |
SK
समाप्तं भिक्षुणीप्रकीर्णकं आर्यमहासांघिकानां लोकोत्तरवादिनां ||
SK
भिक्षुप्रकीर्णक १-२३
SK
२९४. प्रकीर्णकोद्दानं | तत्र उपसंपदा [१] | अनुपसम्पदा [२] | उपसम्पाद्यो [३] | अनुपसम्पाद्यो [४] | कर्म [५] | कर्मवस्तु [६] | तर्जनीयं [७] | निघर्षणीयं [८] प्रव्राजनीयं [९] | प्रतिसारणीयं [१०] ||
SK
|| प्रथमो वर्गः ||
SK
उद्दानं | उत्क्षेपनीयं कर्म [११] | परिवासदानं [१२] | मानत्वदानं [१२] | आह्वयनं [१४] | स्थानार्हं कर्म [१५] | अस्थानार्हं कर्म [१६] | निषृतवर्तं [१७] | स्थलस्थवर्तं [१८] | नानासम्वासवर्तं [१९] | पाराजिकाय आपत्तीये [२०] | शिक्षाये [१२] | दिन्नवर्तं [२२] | तस्य पापेयसिक शमथ [२३] | दिन्नवर्तं ||
SK
|| द्वितीयो वर्गः ||
SK
भिक्षुप्रकिर्णक २४-५४
SK
उद्दानं | चोदनावस्तु [२४] | कारणावस्तु [२५] | नाशनावस्तु [२६] | नानासम्वासवस्तु [२७] | अर्थसामीची [२८] | सम्मुतिप्रतिसंयुक्तं [२९] | वस्तुप्रतिसंयुक्तं [३०] | विहारवस्तुप्रतिसंयुक्तं [३१] | नवकर्मिकप्रतिसंयुक्तं [३२] | शय्यासनप्रतिसंयुक्तं [३३] | सामीचीकर्मप्रतिसंयुक्तं [३४] ||
SK
|| तृतीयो वर्गः ||
SK
उद्दानं | पोषधप्रतिसंयुक्तं [३५] | छन्ददानप्रतिसंयुक्तं [३६] | पारिशुद्धिप्रतिसंयुक्तं [३७] | वर्षोपनायिकाप्रतिसंयुक्तं [३८] | प्रवारणाप्रतिसंयुक्तं [३९] | अस्तारो अनस्तारो [४०] | उद्धारो अनुद्धारो [४१] चीवरप्रतिसंयुक्तं [४२]
SK
|| चतुर्थो वर्गः ||
SK
उद्दानं | ग्लानप्रतिसंयुक्तं [४३] | भैषज्यप्रतिसंयुक्तं [४४] | उपाध्यायप्रतिसंयुक्तं [४५] | सार्धेविहारिप्रतिसंयुक्तं [४६] | आचार्यप्रतिसंयुक्तं [४७] | अन्तेवासिप्रतिसंयुक्तं [४८] | श्रामणेरप्रतिसंयुक्तं [४९] | पात्रप्रतिसंयुक्तं [५०] यवागुप्रतिसंयुक्तं [५१] | यूषप्रतिसंयुक्तं [५२] | पानकप्रतिसंयुक्तं [५३] | सौवीरकप्रतिसंयुक्तं [५४] |
SK
|| पञ्चमो वर्गः ||
SK
भिक्षुप्रकीर्णक ५५-८४
SK
२९५. उद्दानं | अकर्माणि विनीतानि [५५] | अन्तरायिकप्रतिसंयुक्तं [५६] | अनन्तरायिकप्रतिसंयुक्तं [५७] | भिक्षुणीप्रतिसंयुक्तं [५८] | अन्तोवुस्तं [५९] | अन्तोपक्वं [६०] | आमधान्यप्रतिग्रहप्रतिषेधः [६१] | आममांसप्रतिग्रहप्रतिषेधः [६२] | उद्गृहीतप्रतिगृहीतं [६३] ||
SK
|| षष्ठो वर्गः ||
SK
उद्दानं || गुरुपरिष्कारो [६४] | मृतपरिष्कारो [६५] | उन्मत्तकसम्मुतिप्रतिसंयुक्तं [६६] | दृष्ट्वा त्रिकर्मप्रतिसंयुक्तं [६७] | श्रद्धादेयविनिपातनाप्रतिसंयुक्तं [६८] | उपानहप्रतिसंयुक्तं [६९] | पादुकप्रतिसंयुक्तं [७०] | अष्टनप्रतिसंयुक्तं [७१] | वृन्तप्रतिसंयुक्तं [७२] | दण्डशिक्यप्रतिसंयुक्तं [७३] |
SK
|| सप्तमो वर्गः ||
SK
उद्दानं | लशुनप्रतिसंयुक्तं [७४] | पात्रनिकुब्जना [७५] | सम्मुतिप्रतिसंयुक्तं [७६] | गन्ठीपाशकप्रतिसंयुक्तं [७७] | कायबन्धनप्रतिसंयुक्तं [७८] | वीडाप्रतिसंयुक्तं [७९] | यानप्रतिसंयुक्तं [८०] | सहशय्या [८१] | सहनिषद्या [८२] | सहभोजन [८३] | भक्तोपधानप्रतिसंयुक्तं [८४] ||
SK
|| अष्टमो वर्गः ||
SK
भिक्षुप्रकिर्णक ८५-१२१
SK
उद्दानं | उद्दिश्य कृतप्रतिसंयुक्तं [८५] | मानुषमांसप्रतिसंयुक्तं [८६] | चर्मप्रतिसंयुक्तं [८७] कतकप्रतिसंयुक्तं [८८] | अञ्जनप्रतिसम्युक्तं [८९] | अञ्जनीप्रतिसंयुक्तं [९०] | अञ्जनिशलाकाप्रतिसंयुक्तं [९१] | छत्रप्रतिसंयुक्तं [९२] | व्यञ्जनप्रतिसंयुक्तं [९३] | वालवीजनीप्रतिसंयुक्तं [९४] ||
SK
|| नवमो वर्गः ||
SK
उद्दानं | शस्त्रकर्म [९५] | वस्तिकर्म [९६] | मुण्डकर्म [९७] | केशारोपणप्रतिसंयुक्तं [९८] | नापितकुञ्चीरप्रतिसंयुक्तं [९९] | संघभेदः संघसामग्री [१००] | पञ्चशतानि नयसंगीतिः [१०१] | सप्तशतानि नयसंगीतिः [१०२] | विनयसमुत्कर्षो [१०३] ||
SK
|| दशमो वर्गः ||
SK
२९६. उद्दानं | क्षेपनप्रतिसंयुक्तं [१०४] | महासमाजविहरणप्रतिसम्युक्तं [१०५] | गन्धमाल्यप्रतिसंयुक्तं [१०६] | आदर्शप्रतिसंयुक्तं [१०७] | वृक्षारोहणप्रतिसंयुक्तं [१०८] | ज्योतिः प्रतिसंयुक्तं [१०९] | कांसभाजनप्रतिसंयुक्तं [१०१] | कायप्रतिसंयुक्तं [१११] | सम्मीलीप्रतिसंयुक्तं [११२] | परिणामनाप्रतिसंयुक्तं [११३] ||
SK
|| एकादशमो वर्गः ||
SK
उद्दानं | सत्त्वविकृतिप्रतिसंयुक्तं [११४] | वृक्षविकृतिप्रतिसंयुक्तं [११५] | काष्ठविकृतिप्रतिसंयुक्तं [११६] | पुष्पविकृति[प्रति]सम्युक्तं [११७] | फलविकृतिप्रतिसंयुक्तं [११८] | एकर्तुविकृति[प्रति]सम्युक्तं [११९] | आपत्तिप्रतिसंयुक्तं [१२०] | अनापत्तिप्रतिसंयुक्तं [१२१] ||
SK
|| द्वादशमो वर्गः ||
SK
भिक्षुप्रकीर्णक १२२-१४१
SK
उद्दानं | समथो [१२२] | शमथवस्तु [१२३] | दमथो [१२४] | दमथवस्तु [१२४] | अनुज्ञातप्रतिक्षिप्तप्रतिसंयुक्तं [१२६] | मुखतैलकप्रतिसंयुक्तं [१२७] | मुखचूर्णकप्रतिसंयुक्तं [१२८] | कुच्चप्रतिसंयुक्तं [१२९] | कङ्कत प्रतिसंयुक्तं [१३०] | वीजनीप्रतिसंयुक्तं [१३१] |
SK
|| त्रयोदशमो वर्गः ||
SK
उद्दानं | स्तूपप्रतिसंयुक्तं [१३२] | स्तूपवस्तुप्रतिसंयुक्तं [१३३] | स्तूपगृहप्रतिसंयुक्तं [१३४] | स्तूपरामप्रतिसंयुक्तं [१३५] | स्तूपपुष्किरिणीप्रतिसंयुक्तं [१३६] | चेतियप्रतिसंयुक्तं [१३७] | चेतियालङ्कारप्रतिसंयुक्तं [१३८] | नटनर्तकप्रतिसंयुक्तं [१३९] | साहरणाप्रतिसंयुक्तं [१४०] | आपदाप्रतिसंयुक्तं [१४१] ||
SK
|| चतुर्दशमो वर्गः ||
SK
भिक्षुप्रकिर्णक (Eन्द्)
SK
वर्गोद्दानं |
SK
उपसम्पदा [१] | वा उत्क्षेपश् [२] | चोदना च [३] | पोषधो [४] | ग्लानश् च [५] | अकर्माणि [६] | गुरुकं [७] | लशुनोद्दिश्य [८, ९] | शस्त्रकर्म [१०] | च क्षेपः [११] | सत्त्व [१२] | समथः [१३] | स्तूपवर्गेण पूर्यते [१४] ||
SK
समाप्तो भिक्षुप्रकीर्णकविनयः आर्यमहासांघिकानां लोकोत्तरवादिनां ||
SK
ये धर्मा हेतुप्रभवा | हेतुन् तेषान् तथागतो ह्य् अवदत् | तेषाञ् च यो निरोध | एवंवादी महाश्रमणः ||
SK
श्रीः || श्रीः || श्रीः || .......थ || थ || थ........ ||
SK
ऽफग्स्प द्गे ऽदुन्फल्छेन् पै ऽजिग् र्तेन्लस् ऽदस्पर्स्म्रबै द्गे स्लोङ्गि ऽदुल्ब सिल्बु र्द्zओग्स्सो ||
SK
Aद्देन्द १ (प्. इइइ) Pआचत्तिक-Dहर्म १४१ zउ Bहि-विन् (Mआ-L), २५१
SK
Fओल्. ७१ब् अथाह आर्ये कहिं दानन् दातव्यं | यहिंचित् तं प्रसीदति | अथाह | कहिं दानं दिन्नं महाफलं भवति | वक्तव्यं संघे दिन्नम् महाफलं | अथाह | कहिं दानि संघो शीलवान् गुणवान् भद्रको शिक्षाकामो वक्तव्यं | नास्ति संघो दुःशीलो नाम | अथ दान् आह | कहिं दानि अभियुक्ता भिक्षुभिक्षुणीयो वा क्रियायां वा | खण्डप्रलुग्गे वा उद्देशे स्वाध्याये योगे मनसिकारे कहिं वा शीघ्रं परिसमाप्येत् | चिरं च दृश्येत सम्पक्वो परिभुंज्येत | लभ्यं सम्यग्मती कर्म दातुं | अमुकंहि भिक्षू वा भिक्षुणीयो वा अभियुक्ता इत्य् आदि | सा एषा भिक्षुणी सांघिकं लाभं आत्मनो परिणामयेन् निःसर्गिक | सांघिकं लाभं पुद्गलस्य परिणामयेत् पाचत्तिकं || गणलाभं गणस्य परिणामयेत् पाचत्तिकं | पर्षलाभं परिलाभं परिषाय परिणामयेत् पाचत्तिकं | पौद्गलिकं पुद्गलस्य परिणामयति विनयातिक्रमः | भिक्षुर् अपि गणलाभं गणस्य परिणामयति विनयातिक्रमः | तेन भगवान् आह |
SK
या पुन भिक्षुणी जानन्ती गणलाभं परिणतं गणस्य परिणामयेत् पाचत्तिकं || लृ ||
SK
उद्दानम् |
SK
ओवादो [१(१३२)] गण्डञ् च [२(१३३)] | उपगतवुस्ता द्वे च [३(१३४), ४(१३५)] | उद्वाहो [५(१३६), ६(१३७)] | भित्ति (तिरो-कुड्यं) [७(१३८)] हरितम् उदकम् [८(१३९), ९(१४०)] गणस्य परिनामयेत् [१०(१४१)]
SK
चतुर्द्दशमो वर्गः || ः ||
SK
Aद्देन्द १ (प्. इव्) वर्गावशेषाः देशना च विहारो च भिक्षुणीनाञ् च ये दश प्रणीतसम्मतम् मात्रं | यावत् वासादना इह छदना सहशय्या च | सम्विधानञ् च वुच्चति | निषद्या ऊनविंशो च | अरण्यायां च शाटिका द्वाविंशति शुद्धेकेहि उद्धारा भिक्षुणीनां प्रवुच्चति | देशनाम् उद्धरित्वान संचिन्त्यं समोदहे पुनो चात्र ||
SK
अथ पुनो विहारं उद्धरिय भणेय को कुच्चं | आसादनं | अपनेत्वा समोदहे चीवरं पुनो तत्र विज्ञप्तिम् उद्धरित्वान अपरिहता चतु निर्दिष्टा | अपकर्षिय स्नानं | भीषणां समोदहे | तत्र छादना उद्धरित्वान उदकहास्यं च निर्दिष्टं | उत्क्षिप्य ऊनविंशति निर्दिष्टं | अङ्गुलिप्रतोदो उद्धरिय अरण्यवासं | समोहो पुनो भवति तत्र एव तावता च |
SK
Aद्देन्द १ (प्. व्) उद्धारा ते भूषाः | पण्डितेन विज्ञेयाः | वर्गं समुद्धरित्वा सप्तमकं | यते ते भूषाः पुरिमा च सप्त वर्गाः | सप्तति शिक्सापदा समाख्याताः | अन्ये च सप्त वर्गाह् | युतं यन् भिक्षुणीसूत्रे तं सर्वम् संकलेत्वान शतं भवति | पिण्डेनैकचत्तालं पाचत्तिका निर्दिष्टाः भिक्षुणीसूत्रे || उद्दिष्टा आर्यमिश्रिकायो एकचत्तालं शतं शुद्धपाचत्तिका धर्माः |
SK
तत्रार्यमिश्रिकायो पृच्छामि कच्चित् थ परिशुद्धाः | द्वितीयं पि तृतीयं पि पृच्छामि | कच्चित् थ परिशुद्धाः | परिशुद्धा अत्रार्यमिश्रिकायो | यस्मात् तूष्णीम् एवम् एतद् धारयामि || ः ||
SK
२५२. भगवान् श्रावस्तीयम् विहरति | अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रेति | एकम् इदं गौतमि समयं तथागतो इहैव श्रावस्तीयं विहरति |

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bhikṣuṇīvinaya (sa_bhikSuNIvinaya.htm).

Source
Bhikṣuṇīvinaya — Reader · Sutraya