The Introduction to Yoga
Yogāvatāra
Yओगावतार
SKश्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम् / मृद्वासनोपविष्टः सश्रद्धो योगमारभेद् [योगी]
SKग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति / बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः
SKज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम् / प्रविवाच्ये देहे यत् तत्तथताज्ञानवज्रेण
SKसर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम् / निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव
SKस्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम् / येनापि पश्यतीदं तदपि तथैवावलोकयति
SKसो ऽनुपलम्भो ऽचित्तं तथताज्ञानं तत्कोटिञ्च / एवं तमसो ऽभ्यासात् प्रज्ञावेदितनिरोधमाप्नोति
SKताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते / अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम्
SK............दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः / प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य
SKसिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः
SK// योगावतारः समाप्तः //
SK// कृतिरियमार्यदिग् नागपादानामिति //