Commentary on the Verses of Mīmāṃsā

Mīmāṃsāślokavārttika · Mईमांसाश्लोकवार्त्तिक

Commentary on the Verses of Mīmāṃsā

Mīmāṃsāślokavārttika

Mईमांसाश्लोकवार्त्तिक

SK
Pअर्त् I
SK
०१ प्रतिज्ञासूत्र
SK
{१,१} वार्त्तिकारम्भे शिष्टाचारम् अनुविदधानो मङ्गलं तावत् करोति -- विशुद्धेति. दृष्टा हि शिष्टानां प्रवृत्तिः सर्वकार्येषु मङ्गलाचरणपूर्विका. मङ्गलं च देवतास्तुतिनमस्कारादि. अस्य च नियोगतः फलवत्कार्यान्तरारम्भसंयोगात् साक्षाद् अफलत्वाच् च फलवत्सन्निधावफलं तदङ्गम् इति न्यायेन कार्यान्तरशेषत्वे ऽवधृते सत्यारम्भस्य समाप्तिपर्यन्तत्वाद् अपेक्षिताविघ्नपरिसमाप्तिः फलम्. अपेक्षितविधेर् अनपेक्षितविधानं दुर्बलम् इति न्यायेन फलान्तरकल्पनाया दुर्बलत्वात्. अतो यथा साम्प्रदायिकम् अध्यायानध्यायादि स्वाध्यायाविघ्नार्थम् एवम् इदम् अपि. तद् अयम् अर्थः -- विशुद्धौ ज्ञानदेहौ यस्य स तथोक्तः. विशुद्धं च भगवतो ज्ञानं रागादिभिर् ज्ञानकारणानाम् अदूषितत्वाद्, देहश् चायोनिजत्वाद् विविधगर्भवेदनाविरहाच् च. त्रिवेदी च तस्य चक्षुर् इति गौणो वादः, असन्दिग्धाविपरीतस्पष्टवेदार्थप्रकाशकत्वात्. दिव्यं चातीन्द्रियार्थगोचरत्वात्. भौतिकं हि चक्षुः प्रत्युत्पन्नार्थविषयम्. इदं त्व् अनागतादिविषयं दिव्यम् इति. श्रेयसश् च हिताहितप्राप्तिपरिहारात्मनो भगवान् निमित्तम्. सोमार्धधारिणे, सोमकलाधारिणे. नम इति. यद्य् अपि विग्रहादिपञ्चकं देवताधिकरणे निराकरिष्यते, तथाप्याज्यादिस्तोत्रवत् प्रधानकर्मण एव देवतास्तुतेर् एवङ्कृतायाः फलम् इत्य् अदोष इति
SK
{१,२} विद्यागुरूणाम् इदानीं स्तुतिनमस्कारौ करोति -- अभिवन्द्येति. शिष्यधीपद्मिनीनां रवीन् इव विकासकान् गुरूनादौ वन्दे. ततो वार्त्तिकं करिष्ये. तेषाम् एव प्रसादेन दृष्टेनार्थतत्त्वोपदेशेनादृष्टेन च स्तुतिनमस्कारभुवा. गुर्वनुगमनादयो ऽपि ह्य् आचारप्रमाणका एव. वार्त्तिकग्रहणेन च दुरुक्तभङ्गम् अनुक्तवचनं च समाधत्ते. मीमांसाशब्देन न्यायशास्त्रम् इदम् अतो न्यायानुसारेणाधिकरणभङ्गाद्यदूषणम् इति दर्शयति. श्लोकपदेन च लाघवविकासं क्षिपाम इति दर्शयति. ततश् च सूत्रितप्रायम् इमम् अर्थम् अवहिता जिज्ञासवो भावयिष्यन्तीति तात्पर्यार्थ इति
SK
सम्प्रति लोकयात्रामाद्रियमाणो ये ऽत्यन्तपरार्थाः स्वोपकारम् अगणयन्तो ऽपि परोपकाराय यतन्ते सन्तस्तान् प्रत्याह -- तद् विद्वांस इति. असूयवो मत्सराः ततो ऽन्ये ऽनसूयव इति
SK
ये तु मध्यस्था गुणदोषनिरूपणेन दोषवन्तम् अपहाय गुणवन्तम् उपाददते, तान् प्रति परीक्षाविशेषार्थम् अर्थयते -- न चात्रेति. (मदीये प्रबन्धे ऽस्मिन् गुणदोष)वति युगपद् गुणदोषौ निरूपयन्तु भवन्तः. अन्यथा गुणानुपेक्ष्य दोषेषु निरूप्यमाणेषु दोषनिर्भावनैकमनसाम् असन्तो दोषाः प्रकाशेरन् इति
SK
इदानीं दुर्जनान् प्रति सदण्डम् आह -- कुतो वेति. ये वयं परस्थान् अपि दोषान् न मृष्यामः, ते कथं स्वग्रन्थेषु दोषानुपाददीमहि. न चास्माभिर् अनुपात्तान् दोषान् सूरयो ग्रहीतुम् अर्हन्तीति
SK
{१,३} सम्प्रति मत्सरा नूनं दूषयिष्यन्ति मन्निबन्धनम्. अतस् तद्दोषोद्भावनेन शुश्रूषूणाम् उत्साहभङ्गो मा भूद् इत्य् एवम् अर्थम् आह -- निर्दोषत्वेति. प्रसिद्धातिशयाव् अपि मोक्षस्वर्गौ प्रति नास्तिका विवदन्ते. वदन्ति च -- सुखदुःखे लौकिके स्वर्गनरकौ इति. मोक्षे च सद्भावतः प्रभृति विवादः. एके हि नास्ति मोक्ष इति वदन्ति. अन्ये पुनः सकलविषयोपरागरहितं संवेदनप्रवाहम् अपवर्गम् आहुः. अन्ये तदुपरमम्. अपरे सकलवैशेषिकात्मगुणोच्छेदलक्षणं निरतिशयम् अविषयपरिष्वङ्गजम् अनवसानम् आनन्दसन्दोहम्. अपरे च पूर्वे च भ्रान्तिसमुत्थैर् नानाविकल्पैः पारमार्थिकमोक्षस्वरूपम् अपलपन्त्य् एवेति
SK
अपि च यदि नाम शुश्रूषवो मन्निबन्धने दोषानुपलभन्ते, तथाप्य् अहम् अनपवाद्यः. न ह्य् अहं स्वतन्त्रः किञ्चिदभिदधे. आगमानुसारिणस् तु मे यथागमं वर्तमानस्य स्खलितम् अपि दैवाद् अवर्जनीयतयापन्नम् इत्य् उपेक्षणीयम् एव. न हि किम् अप्य् अभिमतं वस्तु निर्दोषं भवति. दोषांस् तु समाधाय गुणा उपजीवितव्या इत्य् आह -- आगमेति. सतां हि मार्गो ऽयम् आगमानुसारो नाम. तद् इह बहुलं गुणा एव. दोषास् तु कथञ्चित् सन्तो ऽप्य् अल्पत्वाद् असत्कल्पा इत्य् उपेक्षितव्या इति
SK
किञ्चास्तु तावद् अस्मादृशानां कविप्रवीराणाम् आगमानुसारिण्यो वाचः शोभन्त इति. अन्यस्यापि श्रद्दधानस्य त्रयीमार्गानुसारिणी यथाकथञ्चिदारब्धा क्लिष्टा अल्पसारापि वाग्वृत्तिः शोभते. अस्माकं तु बहुसारा अक्लेशनिर्मिता शोभतेतराम् इत्य् आह -- यथेति
SK
{१,४} ननु किमङ्गभूतायां मीमांसायां वार्त्तिकं प्रणीयते, वेदा एव साक्षाद् व्याख्यायन्ताम् अत आह -- मीमांसेति. वेदा एव संशयपूर्वोत्तरपक्षक्रमेण व्याख्यायमाना मनो हरन्तितरां, न तु मन्त्रब्राह्मणभाष्यप्रस्थानेन. मीमांसयैव तु ते तथाव्याख्यायन्त इति तत्रैव वार्त्तिकं कर्तुं मे तृष्णा वर्धत इति
SK
ननु मीमांसायाम् अपि चिरन्तननिबन्धनानि सन्तीति किं मुधा प्रयस्यते. अत आह -- प्रायेणेति. लोकायतं नाम नास्तिकानां तन्त्रम्. तद्भावमापादिता नानापसिद्धान्तसङ्ग्रहेण. तामास्तिकपथे कर्तुम् अयं यत्नः कृत इति. आशंसायां वर्तमाने ऽर्थे वा क्तो वर्णनीय इति
SK
इत्य् उपोद्धातः
SK
सूत्रतात्पर्यम् इदाणीं दर्शयति -- अथेति. इदं हि सूत्रं धर्माख्यम् अस्य शास्त्रस्य प्रतिपाद्यतया विषयभूतं प्रयोजनं वक्तुं कृतम्. आद्यम् इति प्रयोजनाभिधानस्थानम् इति दर्शयति. यद्य् अपि धर्मो ऽस्य प्रयोजनम् इति न कण्ठेनोक्तं, तथापि जिज्ञासाकर्मभूतो धर्म इत्य् आचक्षाणेनापुरुषार्थज्ञानस्यानिष्टत्वात् पुरुषार्थीभूतो धर्मः प्रयोजनम् इति सूचितम् इति सूत्रम् इत्य् उक्तम्. कृतपदेन च कृत्रिमम् इदम् अतः प्रमाणान्तरेण गुरुकुलवासावसाननिवृत्तिपरम् अपि व्याख्यायमानं न दोषम् आवहतीति दर्शयति. नित्ये{१,५} हि यावद्वचनं वाचनिकम्. पौरुषेयं तु प्रमाणान्तरबलेनान्यार्थम् अपि प्रतिभासमानम् अन्यपरतया प्रतिपाद्यत इति
SK
ननु किं प्रयोजनाभिधानेन. शास्त्रम् एव प्रणीयताम्. प्रयोजनाभिधानं हि शास्त्राद् बहिर्भूतं शास्त्रं प्रणेतुकामस्य न युक्तम्. किञ् चास्य प्रयोजनम्. प्रयोजनविशेषात् शास्त्रेषु शुश्रूषुप्रवृत्तिर् इति चेत्. तन् न. न हि प्रेक्षावतां पुंवचनाद् एवम् अयम् अर्थ इति विश्वासो युक्तः, विशेषतो हेतुदर्शनात्. अन्यार्थम् अपि शास्त्रं धर्मप्रयोजनतया श्रोतॄन् प्रवर्तयितुम् अयम् आहेति शङ्कमाना नाश्वसेयुः. अतो मन्दफलं प्रयोजनवचनम् अत आह -- सर्वस्येति. यद् अन्यदल्पायाससाध्यम् अपि किञ्चित् शास्त्रं लौकिकं वौदनपाकादि कर्म, तद् अप्य् अनुक्तप्रयोजनं नाद्रियन्ते. किं पुनर् मीमांसाम् इति युक्तः शास्त्रारम्भे प्रयोजननिर्देशः. यत् तु पुंवचनाद् अनाश्वास इति, तन् न. आप्तानाप्तविशेषात्. वक्ष्यति हि -- तच् चेत् प्रत्ययितात् इति भाष्यकारः. जैमिनिश् च अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् (१.३.७) इति. यत् तु विप्रलिप्समानो ब्रूत इति. तन् न. न ह्य् अस्य महर्षेर् अनृतवचनं सम्भवति. न चास्य विप्रलम्भे प्रयोजनं किञ्चिद् उपलभ्यते. यदि श्रोतारः प्रवर्तन्ताम् इति, किम् अस्य तैर् अफले ऽधर्मफले वा धर्मच्छलेन प्रवर्तितैः. प्रत्युताधर्म एवास्य शिष्यान् भ्रामयतो महान् दोष आपद्येत. न च परमधार्मिको ऽधर्मम् आचरतीत्य् उत्प्रेक्षितुम् अपि शक्यम्. न च तन्त्रकारस् तन्त्रप्रयोजने भ्राम्यतीति सम्भाव्यते. अत एवासम्भवद्भ्रमविप्रलम्भत्वाद् ऋषीणाम् अष्टकादिस्मरणानि श्रुतिमूलानीति स्मृत्यधिकरणे वक्ष्यते. सर्वपुरुषवचनाविश्वासे[१] पुनस् तद् अपि भज्येतेति[२]युक्तं प्रयोजनाभिधानम् इति
SK
__________NOTES__________
SK
[१] नानाश्वा [२] सू
SK
सर्वस्यैवेति काक्वा[३]मीमांसायां विशेषो यो ऽन्तर्णीतस्तमभिद्योतयति -- मीमांसाख्येति. शास्त्रान्तराणि हि[४]वाच्यैकविषयनिबन्धनानि{१,६}व्याकरणादीनि. मीमांसाख्या त्व् इयं विद्या बहूनि विद्यान्तराणि वेदतदङ्गादीन्य् उपायभूतान्याश्रिता. न ह्य् अस्यास्तैर् यथावदविज्ञातैर् अर्थः[५]शक्यनिर्णयः. तदियम् उपायतः स्वरूपतश् च प्रचिता श्रोतॄणां श्रवणेच्छाम् अपि कारयितुम् अनुक्तप्रयोजना सती न शक्येति युक्तं प्रयोजनाभिधानम् इति
SK
__________NOTES__________
SK
[३] क्वा यो विशेषो ऽन्त (KHA) [४] व्यक्तैक (KA) [५] र्थनिर्णय शक्यः. त (KHA)
SK
अपि च विद्यान्तराण्य् अनुक्तप्रयोजनानि निष्प्रयोजनानि मन्यमाना जिज्ञासवो यदि नाम न जानीरन् मन्दश्रद्धया वा प्रवर्तमाना न सम्यग् विद्युः, तथापि तेभ्यो ऽज्ञातदुर्ज्ञातेभ्यो ऽनर्थप्राप्तिस् तावन् न सम्भवति. मीमांसायां त्व् इहाज्ञाते दुर्ज्ञाते वा पूर्वोत्तरपक्षन्यायमार्गे विवेकाभावात् पूर्वपक्षम् एव सिद्धान्तं मन्यमानास् तदनुरूपं चेष्टेरन्. तत्र नित्यनैमित्तिकयोर् अकरणाद् असम्यक्करणाद् वा महान्तम् अनर्थं प्राप्नुयुः इति यत्नेनोपचरितव्या मीमांसेति श्लोकद्वयेनाह -- विद्यान्तरेष्व् इति. ननु तथा विद्यान्तरानभिज्ञे ऽपि दुष्यत्य् एव. तथा हि -- व्याकरणानभिज्ञो ऽपि तावद् यज्ञे ऽपशब्दं प्रयुञ्जानः प्रत्यवैति. श्रूयते हि तस्माद् ब्राह्मणेन न म्लेच्छितव्यं म्लेच्छो ह वा एष यदपशब्दः इति. उच्यते. को वाह न शास्त्रान्तरानभिज्ञाने ऽपि दोषो भवेद् इति. अल्पभूयस्त्वे तु विशेषः. मीमांसा हि सर्वशास्त्रगताज्ञानसन्देहविपर्ययव्युदासक्षमन्यायनिबन्धनात्मिका.[६]तद् अस्याम् अज्ञातायां न किञ्चिद् अपि ज्ञातं भवति. अतो महान्तम् अनर्थं प्राप्नोति.[७]अत एवाह महान् दोष इति || १४-१५ ||
SK
__________NOTES__________
SK
[६] तस्या (KA) [७] प्नुयात्
SK
यतश् च यत्नेनोपचरितव्या मीमांसा, तस्माद् युक्तं सूत्रकृतां स्वयं प्रयोजनाभिधानम् इत्य् आह -- तस्माद् इति. ननु[८]तथापि पाणिनिनेव{१,७} भाष्यकारादिभिः करिष्यमाणो यत्नः[९]कस्मान् न जैमिनिनोपेक्षितः, अत आह यद् इति. यत् तेन जैमिनिनोक्तं तद् एव भाष्यकारादयः कथं नाम वदेयुर् इति. इतरथा स्वच्छन्दाः को वेत्ति कीदृक् प्रयोजनम् अभिदध्युर् इति. तथा हि व्याकरणे सूत्रकृतोपेक्षितं प्रयोजनम् अनेकधा व्याख्यातृभिर् विकल्पितम्. तथा हि -- प्रथमं साधुशब्दज्ञाने धर्म इत्य् अभिधाय पुनः शास्त्रपूर्वे प्रयोगे ऽभ्युदय इत्य् उक्तम् इति. सत्यम् एवं, युक्तं तावत् प्रयोजनाभिधानम् इति || [१६] ||
SK
__________NOTES__________
SK
[८] नु यद्य् एवं पा (KHA) [९] त्नः जैमिनिना क्षेनोपीतः कस्माद् अतः
SK
अथैतेन प्रयोजनेनास्य शास्त्रस्यायं सम्बन्ध इत्य् अपि सूत्रकारस्य युक्तं वक्तुम्. अज्ञातप्रयोजनम् इवाविदितसम्बन्धम् अपि श्रोतुं नाद्रियन्ते शिष्याः. तस्मात् सह प्रयोजनेन अस्य सम्बन्धो वाच्य इति चोदयति -- सिद्धार्थम् इति
SK
परिहरति -- शास्त्रम् इति. यदैवास्य शास्त्रस्येदं प्रयोजनम् इत्य् उक्तं, तदैव तयोर् उपायोपेयलक्षणः सम्बन्धो ऽर्थाद् उक्त एव. न चैवम् अर्थप्राप्तम् अर्थं सूत्रकारा अक्षरैर् निबध्नन्ति, असूत्रत्वप्रसङ्गाद् इति
SK
ननु यदि नाम सूत्रकारेण प्रयोजनाद् भेदेन सम्बन्धो नोपात्तः, व्याख्यातृभिस् तु व्यज्यताम्. कथिते हि व्यक्तं सम्बन्धे श्रोतारः प्रवर्तन्ते. अत एव शास्त्रान्तरेष्व् अपि सम्बन्धः स्फुटम्[१०]उपदर्शितः. तथा हि शिष्यप्रश्नानन्तरं कणभुजा तन्त्रं प्रणीतम् इत्य् अर्थमालायाम् उक्तम् इत्य् आह -- सिद्धिर् इति
SK
__________NOTES__________
SK
[१०] स्पष्टम् इव द (KA, KHA)
SK
{१,८} अविस्पष्टीकृते तु सम्बन्धे व्याख्यातृभिर् असम्बद्धप्रलापी सूत्रकार इति शङ्कमानाः श्रोतारो ऽसङ्गतिम् एव शास्त्रप्रयोजनयोर् मन्वीरन्न् इत्य् आह -- यावद् इति
SK
परिहरति -- इहेति. एवं हि मन्यते -- तत्र नाम वार्त्तिककाराः क्लिश्नन्ति यन् न भाष्यकारेणोक्तम्. इह तु भाष्यकारेणैव धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा इत्य् आक्षिप्य सम्बन्धो वक्ष्यते अथवार्थवत् इत्यादिनेति न पृथक् सम्बन्धो ऽभिधानीयः सम्बन्धभाष्यविवरण[११]एव तु यतितव्यम् इति
SK
__________NOTES__________
SK
[११] ष्य ए (KA)
SK
कश्चित् पुनर् अत्रैवम् आह -- यथार्वाचीना व्याख्यातारो न पृथक् सम्बन्धम् अभिदधति तथा भाष्यकारस्यापि सम्बन्धवचनम् अयुक्तं, सूत्रकारेणैवाथशब्दं प्रयुञ्जानेनाध्ययनक्रियानन्तर्यलक्षणस्य शास्त्रसम्बन्धस्योक्तत्वात्. यथा अथातो धर्मं व्याख्यास्यामः इति शिष्यप्रश्नानन्तरं शास्त्रं प्रणयाम इति काश्यपेनोक्तम् इति. तं प्रत्याह -- न चापीति. अध्ययनज्ञानेच्छाक्रिययोर् ह्य् आनन्तर्यलक्षणं सम्बन्धम् अथशब्दो वदति. ते च क्रिये शास्त्राद्[१२]बर्हिर्भूते. सन्नन्तसामान्यमात्रेण जिज्ञासामीमांसयोर् ऐक्यं मन्वानानाम् अयं भ्रम इति
SK
__________NOTES__________
SK
[१२] पृथग्भू (KHA)
SK
न परम् अनुपात्तः सम्बन्धः, निष्प्रयोजनश् चेत्य् आह -- यो ऽपीतिद्वयेन. काणादे हि तन्त्रे क्रियानन्तर्यरूपः सम्बन्धो दर्शितः. एवं हि तत्र भाष्यकारेणोक्तं - को धर्म इत्यादिकान् शिष्येणोदीरितान् पञ्च{१,९} प्रश्नानपेक्ष्याह -- अथातो धर्मं व्याख्यास्यामः इति. गुरुपर्वक्रमात्मकश् च सम्बन्धो यथेहैव कैश्चिद् उक्तः ब्रह्मा महेश्वरो वा मीमांसां प्रजापतये प्रोवाच, प्रजापतिर् इन्द्राय, इन्द्र आदित्यायेत्येवमादि. पर्वाण्यवच्छेदाः गुरूणां पर्वाणि गुरुपर्वाणि गुरुपर्वणां क्रमो गुरुपर्वक्रम इति विग्रहः. न चात्र द्विविधो ह्य् अयं सम्बन्ध उपयुज्यते. न हि तस्य सम्बन्धस्य तद्रूपसदसद्भावयोः सतोः श्रोतुः शास्त्रे प्रवृत्तिनिवृत्त्योर् विशेष उपलभ्यते शास्त्रविषये वा ज्ञान इति विधिनिषेधयोः कार्ये प्रवृत्तिनिवृत्ती. ताभ्यां ते लक्षयतीति || २३-२४ ||
SK
यतो ऽयं सम्बन्धो निष्प्रयोजनः, तस्माद् ये सूत्रव्याख्यानाङ्गं सम्बन्धम् अभिधित्सन्ति, तैः सोपपत्तिकः सप्रयोजनश् च सम्बन्धो वाच्यः. यथात्र शाबरे भाष्ये कृतम् इत्य् आह -- तस्माद् इति. शास्त्रम् अवतार्यते ऽनेनेति अकर्तरि च कारके संज्ञायाम् (Pआ ३.३.१९) इति करणे घञ्. शास्त्रावतारश् चासौ सम्बन्धश् चेति शास्त्रावतारसम्बन्धः. स चोपायोपेयलक्षण इत्य् उक्तम् इति
SK
भाष्यम् इदानीम् अनुसन्धत्ते -- लोक इति. ननु यत्रैव भाष्यं सङ्गच्छते स एवार्थो व्याख्यातुम् उचितः. कथं षडर्थान् सम्प्रचक्षते. अत आह -- भाष्यकारानुसारेणेति. एतद् उक्तं भवति सर्वत्र भाष्यं सङ्गच्छत इति. कथं पुनर् अनेकार्थम् एकं वाक्यम्, अर्थैकत्वेन ह्य् एकवाक्यतां वक्ष्यति अर्थैकत्वाद् एकं वाक्यम् इति. अत आह -- प्रयुक्तस्येति. अयम् अभिप्रायः -- पुरुषप्रयुक्तम् इदं वाक्यम्. पुरुषास् तु प्रमाणान्तरेणार्थं विदित्वा बह्वभिप्रायम् अप्य् एकं वाक्यं प्रयुञ्जाना दृश्यन्ते. यथा श्वेतो धावति अलम्बुसानां यातेति. वैदिके त्व् अयं नियम एकम् एकार्थम् इति. यथाशब्दं हि तत्रार्थे सम्प्रत्ययः, प्रमाणान्तराभावात्. तद् उक्तं -
SK
बह्वभिप्रायम् अप्य् एकं पुरुषास् तु प्रयुञ्जते |
SK
{१,१०}इति. ननु च सान्निधानात् प्रथमसूत्रगताथशब्ददूषणम् एवास्य भाष्यस्यार्थो युक्तः कथं सर्वशास्त्रगतसूत्रव्याख्यानाङ्गत्वम् अत आह -- आदित इति. एवं हि मन्यते -- सर्वादौ प्रयुक्तम् इदं वाक्यम्. अतः सूत्रसमुदायस्यैवेदमाद् इमं स्थानम् इति न स्थानतो विशेषलाभः. प्रत्युत सूत्रेष्व् इति बहुवचनसाम्र्थ्यस्वरूपलिङ्गानुरोधेन सर्वसूत्रविषयत्वम् एव स्पष्टं प्रकाशत इति. ननु तत्र लोके ऽयम् अथशब्द इत्यादिभाष्यैकवाक्यतापन्नस्य भाष्यस्याथशब्ददूषणार्थत्वम् एव स्पष्टं[१३]प्रकाशते. न ह्य् अन्यथा तद् एकवाक्यतोपपद्यते. अत आह -- पृथग् इति. यत्नगौरवं प्रसज्येतेत्य् एवम् अन्तस्य तत्रेत्यादिकात् पृथक्कृ[१४]तस्य पञ्च व्याख्याविकल्पा भवन्ति. तदेकवाक्यतापन्नस्याथशब्ददूषणम् एवार्थ इति
SK
__________NOTES__________ [१३] ष्टम् अवगम्यते [१४] ग्भू
SK
षडर्थान् इदानीं सुखग्रहणार्थम् उद्दिशति -- सर्वव्याख्येति. ते च यथास्वम् अवसरे वक्ष्यन्त इति
SK
सर्वव्याख्यां तावद् विवृणोति -- साधारणीति. भाष्यकारेण हि द्विधा सूत्रव्याख्या कृता. एका सर्वार्था येयं लोक इत्यादिका. प्रतिसूत्रगता[१५]तु विशिष्टा. समासव्यासाभ्यां हि विदुषाम् अर्थाव् अधारणम् इष्टिम् इति
SK
__________NOTES__________
SK
[१५] गोचरा तु (KHA)
SK
अत्र भाष्यकारेण लोके येष्व् अर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्य् एव सूत्रेष्व् इत्य् अवगन्तव्यम् इति प्रवृत्तिर् उपदर्शिता. तथा नाध्याहारादिभिर् इत्यादिना निवृत्तिः. तद् इह प्रवृत्तिनिवृत्ती तावत् स्वरूपतो दर्शिते. प्रवृत्तिपुरस्सरी च निवृत्तिः. तथा प्रसिद्धानि पदानीति{१,११}पदान्य् अग्रे ऽभिधाय तदर्थान्य् एव सूत्रेष्व् इति पश्चात् सूत्राणि दर्शितानि. तद् इह सर्वत्र वार्त्तिककारः पदविन्यासविशेषेण तात्पर्यम् आह -- प्रवृत्तिर् इति. प्रवृत्तिनिवृत्ती शब्दौ प्रयुञ्जानो द्विधैव प्रवृत्तिनिवृत्तिभ्यां सूत्राणि प्रवर्तन्त इति भाष्यकृतोक्तम् इति दर्शयति. तयोश् च क्रमविशेषेण भाष्यकारस्यापि प्रवृत्तिपूर्विका निवृत्तिर् व्युत्पाद्येति दर्शयति. तथा पदसूत्रयोः पौर्वापर्यविवक्षया भाष्यकारस्यापि पदार्थपूर्वको वाक्यार्थो ऽभिमत इति[१६]सूचयति. तद् अयम् अर्थः -- येयं प्रसिद्धार्थग्रहणं कर्तव्यम् इति प्रवृत्तिः, सा तेषु पदेषु प्रसिद्धार्थो ग्रहीतव्य इति यावत्. या च वाक्यदोषाणाम् अध्याहारादीना निवृत्तिः, सा सूत्रेषु नैषाम् अध्याहारादिभिर् अर्थव[१७]र्णनं कार्यम् इति. अत्र भाष्यं सति सम्भव इति. तस्यार्थम् आह -- वेदवाक्याविरुद्धेष्व् इति. वेदवाक्याविरुद्धेषु पदेषु सूत्रेषु च प्रसिद्धार्थग्रहणप्रवृत्तिर् अध्याहारादिनिवृत्तिश् च, न तु सर्वेषु विरुद्धेष्व् अपि केषुचित् पदेषु सूत्रेषु च. तत्र विपरीते प्रवृत्तिनिवृत्ती. तद् इदं सति सम्भव इत्य् अनेनोक्तम्. एवं[१८]वेदाविरोधसम्भवे कार्यम् इदं नान्यथेति
SK
__________NOTES__________
SK
[१६] दर्शय [१७] र्थोपव [१८] सति वे (KHA)
SK
ननु युक्तं तावत् पदेषु प्रवृत्तिर् इति. कथं सूत्रसंश्रया निवृत्तिः यावता पदान्य् एव तु प्रधानतया प्रकृतानि एषाम् इति सर्वनाम्ना परामर्शम् अर्हन्ति. प्रधानगोचरतया व्युत्पत्तेः. न ह्य् एष दण्ड इष्टकाकूटे तिष्ठति प्रहरानेनेत्य् उक्ते इष्टकाकूटेनेति गम्यते, अपि तर्हि दण्डेनेति. दण्डविशेषणतयोपात्तत्वादिष्टकाकूटस्य. तद्वद् इहापि पदविशेषानि सूत्राणि न परामर्शार्हाणीति. अत आह -- अध्याहारस्येति. अयम् अर्थः -- यत्राध्याहारादयः प्रसजन्ति तत्रैव निषेधम् अर्हन्ति, प्राप्तिपूर्वकत्वात् प्रति षेधस्य. न चेह तौ पदेषु सम्भवतः. अध्याहारो नाम न्यूनवाक्यपूरणसमर्थाधिकपदाहरणात्मकः. स च न पदेषु सम्भवति, अपभ्रंशत्वेन न्यूनपदप्रयोगासम्भवात्. व्यत्यासो हि व्यवहितकल्पना. सा चान्यत्र स्थितस्यान्यत्र सञ्चारः. न चासौ नियतपौर्वापर्यप्रकृतिप्रत्ययात्मके पदे सम्भवति, पदनाशप्रसङ्गात्. अतः सूत्राण्य् एव सम्भवदध्याहारादिकानि{१,१२}एषाम् इति सर्वनाम्ना परामर्शम् अर्हन्ति. ननु विपरिणामगुणकल्पने पदधर्माव् एव. पदे हि प्रकृतिः प्रत्ययो वा विपरिणमति. यथा -- प्रतिगृह्णीयाद् इति प्रतिग्राहयेद् इति भवति. विप्रकर्ष इति च विप्रकर्षाद् इति भवति. गुणकल्पनापि पदगोचरा. सा यथौत्पत्तिकादिपदेषु वक्ष्यते. वाक्येषु तु नानयोः सम्भवः. न हि पदसमुदायो विपरिणमति. न च गौणो भवति. अतो न पदसूत्रयोः कश्चिद् विशेषः. उच्यते -- वाक्यं हि नाम न पदेभ्यो व्यतिरिक्तम् अन्यद् एव किम् अपि तत्त्वम्. अपि तर्हि पदान्य् एवैककार्यपरिष्वङ्गसमासादितसमन्वयानि. तद् इह युक्तं यत् पदधर्मो ऽप्य् अन्वेतीति. अतः प्रसजतः पदद्वारेण वाक्येषु विपरिणामगुणकल्पने इति प्रतिषेधाधारत्वोपपत्तिः. वाक्यधर्मयोस् तु पदमात्रे न कथञ्चित् प्रसक्तिर् इति न तन्निषेधो युक्तः. तस्माद् युक्तम् अध्याहारादिनिषेधार्थम् एषाम् इति सर्वनाम्ना सूत्राणाम् अभिधानम् इति
SK
अत्र भाष्यकारेण सर्वव्याख्याप्रयोजनम् अभिदधतोक्तम् एवं वेदवाक्यान्येवैभिर् विचार्यन्ते इति. तस्यार्थः -- साधारणव्याख्ययैव सूत्राणां व्याख्यातत्वान् न पुनस् तानि व्याख्येयानि. वेदवाक्यान्य् एव तैः परिज्ञातार्थैर् व्याखातव्यानीति. तद् अयुक्तम्. उक्तं हि --
SK
साधारणी विशिष्टा च सूत्रव्याख्या द्विधा कृता |
SK
इति. अतो विशिष्टव्याख्ययापि सूत्राणां स्पृश्यमानत्वात् कथं वेदवाक्यान्य् एवेत्यवधारणोपपत्तिर् इत्य् अत आह -- एवशब्द इति. यत्नगौरवपरिहारार्थो हि विशेषव्याख्याप्रत्यादेशः. गौरवं च पदच्छेदादिप्रपञ्चेन तार्किकवत् क्रियमाणायां व्याख्यायाम् आपद्यते. न चेह तथा करिष्यते. अतो ऽल्पस्य विशेषस्य सूत्रगतस्य वाच्यत्वाद् अवधारणं कृतम् इत्य् अदोष इति. अपरम् अपि इतरथा यत्नगौरवं प्रसज्येतेति भाष्यम्. तस्यायम् अर्थः -- वेदवाक्यान्य् एव तावद् व्याख्येयानि. यदि त्व् इदं व्याख्यानं वेदसूत्रोभयगोचरतया वर्ण्यते, ततो यत्नगौरवम् आपद्यत इति. तदाह -- अस्येति. भाष्यं व्याचक्षाणो व्याख्येया इत्य् अतः प्रकृतं व्याख्यानम् अस्येति{१,१३}परामृशति. यदीह वेदाश् च सूत्राणि च व्याख्यायन्ते, ततो व्याख्यानावृत्तौ यत्नगौरवं प्रसज्येत. द्रव्यभेदे ऽपि हि क्रियावृत्तिर् दृष्टा यथाष्टकृत्वो ब्राह्मणा भुक्तवन्त इति. अत्र चोदयति -- प्रसिद्धेति.[१९]स्वतःसिद्धम् एव ह्य् अविरोधे प्रसिद्धार्थग्रहणम् अध्याहारादिवर्जनं च किम् अनेनोक्तेनेति. परिहरति -- न दोष इति. न हि वेदवदप्राप्त[२०]विषयं भाष्यम् इति
SK
__________NOTES__________
SK
[१९] स्वरससि [२०] प्तार्थवि
SK
तथाप्य् अनुक्तसुज्ञानस्यार्थस्य पुनर्वचनं प्रयोजनापेक्षम् इव दृश्यत इति मन्वानं[२१]प्रति प्रयोजनम् आह -- व्याख्याङ्गत्वेति. यो नाम तन्त्रान्तरे ऽध्याहारादि स्वपरिभाषा वा गुणवृद्ध्यादिका दृष्टेत्य् अत्रापि[२२]तत् प्रयोजयति तस्य कृते शास्त्रस्वरूपम् अनेन निरूप्यते, अध्याहारादिवर्जितम् एव व्याख्यानं मीमांसायाम् उपपन्नम् इति
SK
__________NOTES__________
SK
[२१] नः प्रयो [२२] पि ताः प्र
SK
यस्य तु मन्दफलत्वाद् एवम् अप्य् अपरितोषः, तं प्रत्यन्यथा वर्णयति -- वृत्त्यन्तरेष्व् इति. केषाञ्चिद् धि भवदासादीनां वृत्त्यन्तरेषु शब्दानाम् अलौकिको ऽर्थ उपवर्णितः. ते ऽनेन भाष्येणोपालभ्यन्ते. यावद् धि पूर्वग्रन्थदोषोद्भावनेन स्वग्रन्थगुणवत्ताख्यापनेन वा विशेषो न प्रदर्श्यते,[२३]तावन् न श्रोतारः श्रोतुम् आद्रियेरन्. अत्युत पूर्वग्रन्थान् एवायम् अल्पान्तरं चोरयतीति वदद्भिर् असूयकैः शुश्रूषूणाम् उत्साहभङ्गो युज्येत. अतः प्रयोजनवान् एव परोपालम्भ इति
SK
__________NOTES__________
SK
[२३] दर्शितः ता (KHA)
SK
क्व पुनर्भवदासेनालौकिकार्थग्रहणं कृतं यद् एवम् उपालभ्यते. अत आह -- अथात इति. शब्दार्थाव् इह लोक्यते इति वृद्धव्यवहारो लोकः. तत्र पृथक्पदत्वम् एवाथातश् शब्दयोर् दृष्टम्. यथा -- भुक्तवानयम् अथ व्रजतीति.{१,१४}न भुक्तवानतो न व्रजतीति. न त्व् अनयोर् आनन्तर्यमात्रे दृष्टचरः संसर्गः. यो ऽपि च अथातः शेषलक्षणम् (JऐSऊ ३.१.१) अथातो ऽग्निम् अग्निष्टोमेनानुयजतीति संसर्गः, तत्रापि केवलातश्[२४]शब्दवेदनीयम् एवानन्तर्यम्. भवदासेन चोक्तम् --
SK
__________NOTES__________
SK
[२४] लाथातः श
SK
अथात इत्य् अयं शब्द आनन्तर्ये प्रयुज्यते[२५]|
SK
__________NOTES__________ [२५] वर्तते
SK
इति. तेनास्य पदसमुदायस्य तादर्थ्यं नर्ते परिभाषादिभिः[२६]सिध्यतीति. आदिशब्देन परैः सङ्गानं लक्षणां चाहेति
SK
__________NOTES__________
SK
[२६] षां सि
SK
अत्रेदानीं भाष्यं योजयति -- प्रसिद्धेति. भवदासेन ह्य् अतश् शब्दस्य हेत्वर्थत्वं प्रसिद्धम् अपलपितम्. अप्रसिद्धानन्तर्यगोचरत्वं च कल्पितम्. इदं च सति[२७]प्रसिद्धार्थसम्भवे न वृत्तिकारेण कार्यम् इति लोक इत्यादिग्रन्थेनोक्तम्. सम्भवति चात्र प्रसिद्धार्थग्रहणम्. न ह्य् अत्र पाणिनिनेव जैमिनिना वृद्धिरादैच् (Pआ १.१.१) इतिवत् स्वसंज्ञा प्रणीता. तद् इदं सति सम्भव इत्य् अनेनोक्तम् इति वेदितव्यम्. किं हि प्रसिद्धेनापराद्धं यत्[२८] स्वरससिद्धमुल्लङ्घ्याप्रसिद्धो ऽर्थः कल्प्यत इति
SK
__________NOTES__________
SK
[२७] ति सि (KHA) [२८] यद् उक्तं स्व (KA)
SK
अपि चैवं सत्यप्रसिद्धकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश् च वेदवाक्येषु यत्नगौरवं प्रसज्यत इति इतरथेत्यादिकेनोक्तम् इत्य् आह -- सूत्रार्थे क्लिश्यत इति. स्वमनीषाकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश् च वेदवाक्येषु वक्तुर् ग्रन्थकारस्य ग्रन्थसन्दर्भप्रणयनेन व्याख्यातुश् च तद्व्याख्यानेन श्रोतुश् च महतो ग्रन्थस्य श्रवणधारणाभ्यां महान् यत्न आपद्यत इति
SK
यस् तु मन्यते -- गुणवत्तरग्रन्थनिर्माणे श्रवणाद् एव श्रोतारः[२९]श्रोतुम्{१,१५}आद्रियन्ते किं गुणगणहारिणा दौर्जन्येनेति, तं प्रत्यर्थान्तरम् अवतारयति -- न व्याख्यास्यतीति. एष हि भाष्यकारः सूत्रोच्चारणानन्तरं वेदवाक्यान्य् उदाहृत्य संशयपूर्वोत्तरपक्षविभागेनार्थनिर्णये यत्नं करिष्यति, न सूत्रावयवविवरणादरम्. तत्र श्रोतॄणाम् आशङ्का जायेत किं स्विद् अयम् अज्ञतया सूत्राण्य् उपेक्षितवान्, आहोस्विद् अनर्थकत्वाद्, उत प्रसिद्धत्वाद् इति. तद् अयम् अकुशलो भाष्यकारः यत् सूत्रेषु भाष्यं कर्तुम् अभिप्रवृत्तस् तान्य् उपेक्षितवान् इति. इमं दोषं व्याख्याप्रत्याख्यानेन परिहरति. न वयम् अनभिज्ञाः, न चैतानि सूत्राण्य् अनर्थकानि, चोदनार्थपरतन्त्रत्वान् न व्याख्येयानीत्य् उपेक्षितानीति
SK
__________NOTES__________
SK
[२९] रः प्रपत्स्यन्ति किं (KHA)
SK
किं पुनश् चोदनार्थपरतन्त्रत्वे कारणम् अत आह -- प्रयास इति. किं पुनः सूत्रेषु न प्रयस्यते. अत आह -- फलवत्त्वेति तव्योन्तेन. फलवन्ति हि वेदवाक्यानि, फलवत्क्रतुप्रमितिप्रत्यासत्तेः. अफलानि सूत्राणि, तेषाम् अनासत्तेः. अत एव च सूत्रैः करणभूतैश् चोदनार्थ एवोपेतव्यः, न पुनर् उपायभूतानि सूत्राण्य् उपेक्षितव्यानि. तद् इदं वेदवाक्यान्य् एवैभिर्[३०]इति. भाष्यकारेणोक्तम् इति वेदितव्यम्. इह हि वेदवाक्यानां प्राधान्यम् उपदिशति यत् प्रधानविभक्त्या संयुज्य निर्दिशति विचार्यन्त इति. सूत्राणि करणविभक्त्या तृतीययैभिर् इति. ननु मा नाम साक्षादफलत्वात् केवलानि सूत्राणि व्याख्यायन्ताम्. उभयं तु व्याख्यायतां सूत्राणि च तैश् च वेदवाक्यानीत्य् अत आह -- नोभयम् इति. उभयव्याख्यायां मुधा यत्नगौरवम् आपद्यत इति. इदं तु इतरथेत्यादिकेनोततम् इति वेदितव्यम्. ननु सत्यं यत्नगौरवम्. न तु मुधा. न ह्य् अव्याख्यातः सूत्रार्थो ज्ञायते. न च तदनभिज्ञो वेदार्थं ज्ञातुम् ईष्टे, तदुपायत्वात् तस्य. अत आह -- पदार्थानाम् इति. एवं हि मन्यते -- सत्यं वेदार्थज्ञानोपायभूतानि सूत्राणि.{१,१६} न तु तान्य् अव्याख्यातदुर्ज्ञातार्थानि.[३१]पदार्थास् तावत् लोकप्रसिद्धा एव. तत्प्रसिद्ध्यैव च तत्पूर्वको वाक्यार्थो ऽपि प्रसिद्ध एवेति न किञ्चिद् व्याख्येयम् अवशिष्यत इति || ३८-३९ ||
SK
__________NOTES__________
SK
[३०] भिर् विचार्यन्ते इति द्रष्टव्यम्. इह (KHA) [३१] नानि
SK
अत्र च पक्षे भाष्यं सङ्गच्छतेतराम् इत्य् आह -- एवंशब्दादिक इति. सर्वव्याख्यायां हि विशेषव्याख्याया अल्पत्वाद् असत्त्वम् उपचरितम्. इह तु सर्वथैव सूत्रव्याख्या प्रत्याख्यायते इत्य् अवधारणयत्नगौरवपरिहारयोर् उभयोर् उपपत्तिर् इति. पक्षान्तराभिधित्सयेदानीम् इमम् अपि पक्षं दूषयति -- पदच्छेदादीति. यतः पदच्छेदादि न करोति, तस्मान् नायम् अभिनवो भाष्यकारः सूत्रार्थं विजानीत इति भवदासतन्त्रोपजीविभिर् एवैतत् प्रत्याख्यापितं बुभुत्सुजनोत्साहम् अपहन्तुम् इति || ४० || परमार्थतस् तु सूत्राणां तात्पर्यं ब्रवीत्य् एव न्यूनाधिकादिप्रत्यवेक्षणं च तत्र तत्र करोत्य् एवेत्य् आह -- ब्रवीत्य् एवेति. क्व पुनरतिरिक्तादीक्षते अत आह -- नन्व् अशक्तम् इति. चोदनासूत्र एव तावत् नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुं चोदनालक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. उभयविवक्षायां वाक्यभेद आपद्यते इति परिचोद्य तत् तु वैदिकेषु, न सूत्रेष्व् इति परिहरिष्यति. तथा यजुर् लक्षणानन्तरं कियद् एकं यजुर् इति यजुःपरिमाणज्ञापनार्थम् उक्तम् अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् (Jऐ २.१.४६) इति. अस्यार्थः -- यावन्ति पदान्य् एकप्रयोजनानि प्रविभज्यमानानि साकाङ्क्षाणि च, तावन्त्य् एकं वाक्यम् इति. उदाहरणं तु देवस्य त्वा सवितुः प्रसव इति मन्त्रः. अत्र हि सकलसवित्रादिविशेषणविशिष्टैकप्रधानभूतनिर्वापप्रकाशनं प्रयोजनम्. सर्वाणि च देवस्य त्व् एत्यादीनि[३२]निर्वपामीत्य्[३३]अतो विभक्तानि सन्ति साकाङ्क्षाणीति देवस्य त्वेत्य् उपक्रम्य निर्वपामीत्यन्तम् एकं वाक्यम् इति स्थिते{१,१७} अवयवप्रयोजनाभिधित्सया भाष्यकारेण पृष्टम् अथ किम् अर्थम् उभयं सूत्रितम् अयम् अर्थैकत्वाद् एकं वाक्यम् इति विभागे साकाङ्क्षम् इति[३४]चेति. तत्र प्रयोजनम् उक्तम्. भवति हि किञ्चिदेकार्थं न तु विभागे साकाङ्क्षम्. यथा -- भगो वां विभजतु. पूषा वां विभजतु. अर्यमा वां विभजतु इत्यादि. अत्र ह्य् एकविभागम् अभिवदन्तः सर्वे एकार्थाः सन्तो ऽपि नानावाक्यत्वं प्रतिपन्नाः. असति तु विभागे साकाङ्क्षम् इति विशेषणे एकार्थतामात्रेणैव सर्वेषाम् ऐकमन्त्र्यम् आपद्यते इति. तथा विभागे साकाङ्क्षम् इत्य् एतावत्युच्यमाने स्योनं ते सदनं करोमि. घृतस्य धारया सुशेवं कल्पयामीति, तस्मिन् सीदामृते प्रतितिष्ठ. व्रीहीणां मेध सुमनस्यमानः इत्य् अनयोर् एकवाक्यता विभागे साकाङ्क्षत्वाद् आपद्यते. तस्मिन् सीदेति विभक्तं[३५]सत् साकाङ्क्षं तद्वृत्तस्य पूर्वप्रकृतपरामर्शात्मनस् तेन विनानुपपत्तेः. सत्य् अपि च विभक्तसाकाङ्क्षत्वे प्रयोजनभेदाद् वाक्यभेदः. द्वे हि तत्र प्रयोजने. पूर्वस्य सदनकरणम् उत्तरस्य पुरोडाशप्रतिष्ठापनम्. एवम् उभयोः प्रयोजनम् उक्त्वान्त उपसंहृतं तस्मात् सम्यक् सूत्रितम् इति. तथा विशये प्रायदर्शनात् (Jऐ २.३.१६) इति सूत्रम्. तत्रोदाहरणापरिज्ञानाद् अगमकं सूत्रम् इत्य् उक्तम्. इह[३६]हि संशये प्रायदर्शनं हेतुर् निर्दिश्यते. तत्र न विद्मः कः संशयः, कुत्र वा संशयः, कस्यां[३७]प्रतिज्ञायां[३८]प्रायदर्शनं हेतुर् इत्य् एवम् आक्षिप्य वृत्तिकारमतेन समाहितम्. वृत्तिकारेण हि वत्सम् आलभेत वत्सनिकान्ता हि पशवः इत्य् उदाहृत्य विचारितं[३९]किं यागचोदनेयम् उतालम्भमात्रं वत्ससंस्कार इति. तद् इह मन्दाशङ्कानिराकरणार्थं सामान्यतोदृष्टेन पूर्वपक्षितम्. आलभतिः किल प्राणिद्रव्यसंयुक्तो यागसङ्गतो दृष्टः, यथा यो दीक्षितो यदग्नीषोमीयं पशुम् आलभत इति. तद् अयम् अपि प्राणिद्रव्यसंयोगाद् यजिमान् इति भवति मन्दाशङ्का. ताम् अपनेतुम् इदम् उक्तं विशये प्रायदर्शनाद् इति. अस्यार्थः -- वत्ससंस्कारैः समभिव्याहृतो ऽयम् आलभतिः. तद् अयम् अपि साहचर्याद् वत्ससंस्कार एवेति भवति मतिः. यथा अग्र्यप्राये लिखितो ऽग्र्य इति. ननु लिङ्गम् इदम्. लिङ्गं च प्रमाणप्राप्तम्[४०]अभिद्योतयति, न तु प्रापयति. तत् कुतः प्राप्तस्येदं लिङ्गम् इति वक्तव्यम्. उच्यते. न तावद् इह सोमेन{१,१८}यजेतेतिवद् यागः प्रत्यक्षः. न च दैक्षपश्वादिवद् अनुमीयते. तत्र हि द्रव्यदेवतासम्बन्धान्यथानुपपत्तिर् यागावगमे हेतुः. इह तु न द्रव्यं देवतासंयुक्तम् उपलभामहे, द्रव्यमात्रश्रुतेः. अतो दृष्टार्थ एवायं वत्ससंस्कार आलम्भः. स ह्य् आलभ्यमानो गां प्रस्तावयिष्यतीति बह्वेवञ्जातीयकं भाष्यकारेण व्याख्यातम् इत्य् ऊहनीयम्. अतः सूत्रव्याख्याप्रत्याख्याने सकलम् एवमादि भाष्यकारस्य विरुद्धम् आपद्यत इति. यत् तु प्रत्याख्याने कारणम् उक्तम् उपायभूतानि वेदार्थज्ञाने सूत्राणि, अतः किम् एभिर् व्याख्यातैः, उपेय एव तु वेदार्थ एभिः करणभूतैर् व्याख्यातव्य इति. तद् दूषयति -- न चेति. यत एव च तान्य् उपायभूतानि, अत एव सुतरां व्याख्येयानि. न ह्य् उपायानभिज्ञ उपेयम् अवधारयुतुम् अलम्. ननु च तान्य् अपि व्याख्यायमानानि साध्यानि भवेयुः. न चासिद्धम् असिद्धेनैव साध्यते. उच्यते. असिद्धम् अपि साधनम् अन्यसाधितं कार्ये व्यापार्यते, यथा द्रव्यदेवतोपपादितो यागः फलभावनायां, यथा चान्यतरासिद्धानि साधनानि साधनान्तरसिद्धानि[४१]साध्यं साधयन्त्य् एवेति || ४१-४२ ||
SK
__________NOTES__________
SK
[३२] त्येवमादी [३३] त्यान्तानि विभज्यमानानि स (KHA) [३४] ति अत्र [३५] क्तं सर्वं सा (KHA) [३६] दं (KA) [३७] स्यां च प्र (KHA) [३८] यां हे [३९] रयिष्यते किं (KA) [४०] माणान्तरेणप्राप्तार्थम् अ (KHA) [४१] साधितानि
SK
सत्यम् उपायानभिज्ञस्योपेयावधारणा नास्ति. उपायान्तराद् एव तु विदितवेदार्थस्य किं सूत्रव्याख्यया. अत आह -- नान्यत इति. ये ह्य् अन्यत एव विदितवेदार्थास् तेषाम् अर्थे नैतानि सूत्राणि जैमिनिना प्रणीतानि, भाष्यकारेण च व्याख्यातानि. अन्यतो ऽनभिज्ञांस् तु प्रति सूत्राणि प्रणीतानि भाष्यकारेण च व्याख्यातानि. न च ते ऽव्याख्यातम् एव सूत्रार्थम् उन्नयन्ति. न चानिर्णीतसूत्रार्था वेदार्थम् अवधारयन्तीति युक्तस् तदर्थो व्याख्याप्रयास इति || ४२च्द् ||
SK
यद् उक्तं[४२]पदार्थानां प्रसिद्धत्वात् इति, तन्निराचष्टे -- प्रत्याख्यानस्येति. प्रसिद्धपदार्थकत्वं हि वेदवाक्यानाम् अप्य् अव्याख्येयत्वम् आपादयति.{१,१९}तेष्व् अपि हि लोकप्रसिद्धान्य् एव पदानि पदार्थाश् च. वक्ष्यति हि य एव लौकिकाः शब्दास् त एव वैकिकास् त एव तेषाम् अर्थः इति. तद् इदम् उक्तं तुल्यार्थत्वाद् इति. तुल्या हि लोकवेदसूत्रेष्व् अपि पदार्था इति
SK
__________NOTES__________
SK
[४२] द् अप्य् उक्तं (KHA)
SK
अथैवम् उच्यते -- यद् अपि वेदवाक्येषु प्रसिद्धा एव पदार्थाः, तथापि वाक्यार्थेषु वचनव्यक्तिविशेषानवधारणाद् यथायथं संशयाः समुपनिपतन्तीति तन्निरासाय तत्र व्याख्यानं प्रवर्तत इति, तत् सूत्रेष्व् अपि समानम् इति तद्व्याख्याप्रत्याख्यानम् अयुक्तम् इत्य् आह -- वाक्यार्थ इति
SK
अपि चायं भाष्यकारः सूत्रव्याख्यां प्रत्याचक्षाणः स्पष्टम् एव न व्याख्येयानीत्याचक्षीत, एतावतैव प्रत्याख्याने सिध्यति यद् अयम् अध्याहारादिदोषदुष्टव्याख्यानिषेधं करोति, तद् अवगम्यते दोषापेता तु व्याख्यानेनन निवार्यत इत्य् आह -- न व्याख्यातव्यम् इति
SK
तद् एवम् अस्य प्रत्याख्यानपक्षस्य[४३]दृष्टव्याख्याविरुद्धत्वात्, पूर्वयोश् च सर्वव्याख्योपालम्भयोः फल्गुत्वाद् अनतिप्रयोजनत्वाद्, मध्यमस्योपालम्भस्य विशेषतो दौर्जन्यापादनाद्, न्यायाभासप्राप्तवेदवाक्यान्यथाकरणनिराकरणेन महाफला अनुक्तदुर्ज्ञाना च परिसंख्यैवास्य भाष्यस्यार्थ इत्य् आह -- अस्येति
SK
__________NOTES__________
SK
[४३] दु (KA)
SK
परिसंख्याविषयं तावद् आह -- वैदिकम् इत्य् अर्थेऽन्तेन. वेदवाक्यव्याख्यानार्थानि हि सूत्राणि. तद् इमानि प्रायेण यथाश्रुतगृहीतान्य् अपि वेदवाक्यार्थनिर्णयसमर्थन्यायकलापं समर्पयन्त्य् एव. क्वचिद् एव तेषां प्रतीघातो{१,२०}भवति. तद् यत्र वेदसूत्रयोर् यथाश्रुतगृहीतयोः परस्परविरोधो भवति तद्विषया परिसंख्येति. एवम् अवगते विषये स्वरूपम् आह -- तत्रेतिनेयमन्तेन. विरोधविषये ऽपि हि स्वरसतो यथाश्रुतगृहीतसूत्रग्रहणं प्रसक्तमनया वार्यते. यद् इदं प्रसिद्धार्थग्रहणमध्याहारादिवर्जनं च तद् वेदाविरोधे.[४४]विरोधे तु सूत्रमध्याहारादिभिर् व्याख्येयं, वैदिकम् एव वाक्यं यथाश्रुतं नेयम् इतीदम् अत्रोपदिश्यत इति. अथ किं सर्वदैव वेदवाक्यं यथाश्रुतं नेयं, नेत्य् आह -- विरोध इति. यत्र हि वेदवाक्ययोर् एवान्योन्यं विरोधो भवति, तत्र तयोर् एकमध्याहारादिभिर् नीयत एव. यथोपक्रमावगतदातृश्रुतिविरोधाद् उपसंहारस्था प्रतिगृहीतृश्रुतिः दातृगोचरा दर्शिता. एवं ह्य् उक्तं यावतो ऽश्वान् प्रतिगृह्णीयाद्[४५]इति प्रतिग्राहयेद् इति. इदं तु विपरिणामोदाहरणम्. अध्याहारादयस् तु वेदवाक्ये विस्तरभयान् न प्रपञ्चिता इति || ४७-४८ ||
SK
__________NOTES__________
SK
[४४] धे. वेदवि (KHA) [४५] त् प्र (KA)
SK
ननु चोभयत्र प्राप्तौ परिसंख्या भवति. यथोक्तं -
SK
तत्र चान्यत्रं च प्राप्तौ परिसंख्येति कीर्यते
SK
इति. न चेह विरोधाविरोधयोर् उभयोर् अपि यथाश्रुतसूत्रग्रहणं प्रसक्तम्. न हि जातु प्रधानान् अनुगुणं गुणं यथार्थम् उपादाय प्रधानम् अन्यथा नीयत इति सम्भवति. अपि च नित्यं वेदवाक्यम् अनित्यं सूत्रम्. अतो ऽपि च नास्य तेन सह स्पर्धा युक्ता. तेन वेदविरोधे यथाश्रुतसूत्रग्रहणं न प्रसक्तम्[४६]इति किं तन्निवृत्त्यर्थया परिसङ्ख्ययेत्य् अत आह -- यथेति. एवं हि मन्यते -- सत्यम् अयं न्यायः यद्वेदविरोधे सूत्रम् अन्यथा क्रियत इति.[४७]न्यायाभासेन तु भ्राम्यतः प्रति भाष्यकारो लोक इत्यादिभाष्येण परिसञ्चष्टे. एवं हि भ्रान्ताः श्रोतारो{१,२१} मन्वीरन् -- न सूत्रैः सह वेदवाक्यानां कश्चिद् विशेषः. यथा हि वेदो धर्मे प्रमाणम्, एवं वेदार्थनिर्णयो ऽपि नर्ते सूत्रेभ्यः सिध्यतीति नास्मान् प्रति वेदसूत्रयोः कश्चिद् विशेष इति. न च वेदसूत्रवाक्यानाम्[४८]अन्यः स्वगतो विशेषः. लौकिकास् तावत् पदपदार्था उभयत्र तुल्याः, वाक्यम् अप्य् आकाङ्क्षितयोग्यसन्निहितपदसमन्वयात्मकम् उभयं वैदिकं जैमिनीयं च. न हि तयोर् अन्यतरद् अप्य् अध्याहारादिकम् अपेक्षते. तद् एतद् आह -- वाक्यसामर्थ्येति || ४९-५० ||
SK
__________NOTES__________ [४६] म् एवेति (KHA) [४७] ति नान्या (KA) [४८] त्राणाम् अ
SK
ननु न विरुद्धार्थम् उभयं सम्भावयितुं शक्यते. अतो ऽन्यतरदन्याय्यम् इति स्थिते, गुणत्वात् सूत्रम् अन्यथा कार्यम् इति प्रागुक्तम् अत आह -- असम्भवाद् इति. विचित्राशया हि जिज्ञासवः. अतस् ते कदाचित् प्रधानगुणगोचरं[४९]बलाबलं जानन्तो वेदानुरोधेन सूत्रम् अन्यथा नयन्ति. कदाचिद् उद्भूताचार्यगौरवा एवम् आलोचयन्ति -- कथं हि न्यायसहस्रविज्जैमिनिर् अस्मदादिगोचराम् अनुपपत्तिं नाकलयतीति सम्भावयामः, ययैव तु तेन व्याख्यातं तथैव[५०]श्रुत्यर्थो युक्तः. अन्यथैकश्रुत्यनुरोधेन बहुश्रुतिविनाश एवापद्यत इति. तद् एवमालोचनाभेदाद् विकल्प इति
SK
__________NOTES__________
SK
[४९] रां बलाबलगतिं जा [५०] वार्थः श्रुतेर् युक्तः
SK
अथवा समसामर्थ्ययोर् उभयोर् विकल्पो भवति. इह पुनर्वेदार्थनिरूपणावस्थायां सूत्राणि प्रथमम् उपनिपतन्ति. तान्य् अनुपजातविरोधीनि तावद् यथाश्रुतग्राह्याण्य् आपतन्ति. तैश् च प्राथम्येनावरुद्धबुद्धिः श्रोता जघन्यस्थानोपनिपातिनीम् एव चोदनां बाधेत. मुख्यानुरोधेन हि जघन्यबाधो वक्ष्यते मुख्यं वा पूर्वचोदनाल् लोकवत् (Jऐ १२.२.२३) इति. तदाह -- प्राथम्येनेति. न्याय्याम् इति परिसंख्यायाः प्रयोजनं सूचयति. असत्यां हि परिसङ्ख्यायां न्यायाभासेन न्याय्य[५१]चोदनाबाधः प्रसज्येत. कथं पुनर्न्याय्या चोदना. उच्यते. गुणभूतानि सूत्राणि प्रधानभूतानि{१,२२}वेदवाक्यानि, तद्व्याख्याना[५२]र्थानि हि तानि. न च गुणानुरोधेन प्रधानम् अन्यथाकर्तुम् उचितम्. प्रधानम् अविगुणं कथं निर्वर्त्येतेति हि गुणाः क्रियन्ते. प्रधानवैगुण्ये तु किं गुणैः. अत एव वक्ष्यति अङ्गगुणविरोधे च तादर्थ्यात् (Jऐ १२.२.२५) इति. एष च न्यायः पूर्वस्य मुख्यानुग्रहन्यायस्यापवादकः. अत एव मुख्यदीक्षाकालबाधः प्रधानकालानुरोधेन दर्शितः. उक्तं हि पर्वणि दीक्षा पर्वणि सुत्येति. अतः सूक्तं न्याय्याम् इति
SK
__________NOTES__________
SK
[५१] य (KHA) [५२] नि हि (KA)
SK
एवं विकल्पनियमाभ्याम् उभयत्रप्राप्त्या परिसंख्यां प्रसाध्यात्रैव भाष्यं योजयति - तेनेति. वेदाविरोधग्रहणम् उपलक्षणार्थं न्यायाविरोधम् अप्य् उपलक्षयति. तद् अयम् अर्थः -- यद् इदं प्रसिद्धार्थग्रहणम् अध्याहारादिवर्जनं च, तदुचितप्राप्तम् अनूद्य सत्यविरोधसम्भव इति विधीयत इति. ननु चात्रापि पक्षे त्रयो दोषाः प्राप्नुवन्ति. तथा हि -- सति सम्भव इति विधिमुखेन प्रवर्तमानस्य नासतीत्यन्य[५३]निषेधार्थता वक्तव्या. तत्र स्वार्थहानिर् अस्वार्थकल्पनाचापद्यते. तथा विरोधाविरोधयोर् उभयोर् अपि यथाश्रुतसूत्रग्रहणं प्राप्तं, तद् बाध्यते. तत्र प्राप्तबाधः. अतः केन विशेषेणेयं परिसंखा प्रस्तुतेति. उच्यते. यदि सति चासति च विरोधे यथाश्रुतसूत्रग्रहणं कार्यम् इति सामान्यवचनम् अभविष्यत्, ततो दोषत्रयं पर्यहरिष्यत्. यदा तु न्यायाभासेन सामान्यवचनं कल्पयितुम् अभिप्रवृत्तः सति सम्भव इति प्रत्यक्षोपदेशं पश्यति, तदा सामान्यवचनम् अलब्धात्मकम् एवेति न प्राप्तबाधादिदोषत्रयप्रसङ्गः. अप्राप्तविधिर् एव तदा सति सम्भव इति. विनापि विधिना प्राप्स्यतः किं विधिनेति प्रयोजनालोचनायाम् अन्यनिवृत्तिः फलं विज्ञायते. परमार्थतस् तु अप्राप्तविधिर् एवायम्. यथा रशनामन्त्रे वक्ष्यति --
SK
__________NOTES__________
SK
[५३] स्य (KHA)
SK
अप्राप्तविधिर् एवायम् अतो मन्त्रस्य निश्चयः[५४]|
SK
__________NOTES__________
SK
[५४] यः | इ
SK
परिसंख्या फलेनोक्ता
SK
इति. तद् इदं विधीयते[५५]ऽर्थ इत्य् अनेनोक्तम् इति वेदितव्यम् इति
SK
__________NOTES__________
SK
[५५] त इ (KA)
SK
{१,२३} इदानीं विरोधविषये ऽध्याहारादिकल्पनां सूत्रेषूदाहरणैर् दर्शयिष्यन्न् अध्याहारोदाहरणं तावद् आह -- शेषभाजाम् इति. वक्ष्यति हि जैमिनिः अपि वा शेषभाजां स्यात् (Jऐ ६.४.३) इति.[५६]अत्र हि शेषकार्याणीडाप्राशित्रादीन्य् उदाहृत्य विचारयिष्यते -- यद्येषाम् अर्थेन गृहीतस्य हविषो दैवाद् अपचारो भवति, किं तदा हविरन्तरम् आगमयितव्यं,[५७]शेषाद् वावदेयं, कर्मलोपो वेति.[५८]तत्रोक्तम् अपि वा शेषभाजा स्याद् इति. न चानेन पूर्वपक्षो गृह्यते, अपि वाशब्दसम्बन्धात्. न च सिद्धान्तः, पूर्वपक्षाभावात्.[५९]अपि च अनन्तराधिकरणे प्रधानार्थावत्तहविर्नाशे शेषाद् अवदानेन पूर्वपक्षं परिगृह्य सिद्धान्तितं निर्देशाद् वान्यद् आगमयेत् (Jऐ ६.४.२) इति. द्रव्यान्तरोपादानेन तद् यदि द्रव्यान्तरागम एवानन्तर्याद् अत्रानुषज्यते, ततो न्यायान्तरविरोध आपद्यते. शेषकार्याणाम् एकदेशद्रव्यश् चोत्पत्तौ विद्यमानसंयोगात् (Jऐ ४.१.२८) इत्य् अनेनाधिकरणेनाप्रयोजकत्वस्य स्थितत्वात्. अथोत्तरपक्षातिक्रमेण शेषाद् अवदानं शेषभाजाम् अर्थेन स्याद् इति सम्बन्धः, तद् अप्य् अयुक्तम्. शेषस्य प्रतिपत्त्यन्तरसम्बन्धाद्, नष्टावयवप्रतिपत्तिसम्बन्धाभावाच् च. तेनोत्सूत्रम् एव द्रव्यान्तरागमेन पूर्वपक्षं परिगृह्य राद्धान्तितम् अपि वा शेषभाजां स्याल् लोप इति लोपपदाध्याहारं दर्शयिष्यति. तद् एष सूत्रार्थो भवति -- शेषं भजन्ते यानीडाप्राशित्रादीनि,[६०]तेषां द्रव्यान्तरप्रयुक्तिशक्तेर् अभावाद् विद्यमानशेषस्य प्रतिपत्त्यन्तरसम्बन्धाल् लोपः अकरणम् एव स्याद् इति
SK
__________NOTES__________
SK
[५६] त [५७] पादयि [५८] वा भवति. त [५९] क्षान्तराभा (KA) [६०] डादिकार्याणि ते
SK
विपरिणामम् उदाहरति -- विप्रकर्षाद् इति. अस्ति हि सवनीयः पशुः आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं[६१]सवनीयं पशुम् उपाकरोतीति अनुसवनं[६२]सवनीयाः पुरोडाशा निरुप्यन्त इति. सन्ति च सवनीयाः[६३]पशुपुरोडाशाः. तत्र[६४]तन्त्रिणो धर्माः प्रसङ्गिन उपकुर्वन्तीति स्थिते, पशुतन्त्रमध्यपातित्वं पुरोडाशानां प्रतिपादयितुं सूत्रं पशोश् च विप्रकर्षस् तन्त्रमध्ये{१,२४} विधानात् (Jऐ १२.२.३२) इति.[६५]तच् चैतद् यथाश्रुतगृहीतं न विवक्षितार्थाख्यानक्षमम्. विप्रकर्षो ह्य् अत्र प्रथमान्तः साध्यभूतो ऽवगम्यते. तन्त्रमध्ये विधानाद् इति पञ्चम्यन्तं हेतुभूतम्. तच् चायुक्तम्. विप्रकर्षो हि पशोः प्रातरादिकालत्रयसम्बन्धः. स च प्रत्यक्षवचनसिद्धो न साध्यः. एवं हि श्रूयते वपया प्रातस्सवने चरन्ति पुरोडाशेन माध्यन्दिने सवने अङ्गैस् तृतीयसवने इति. तन्त्रमध्यविधानम् अपि साध्यं न हेतुनिर्देशार्हम्. अतः प्रथमापञ्चम्योर् विपरिणामो वक्ष्यते. पशोर् विप्रकर्षात् प्रातरादिकालत्रय[६६]व्यापित्वात् पुरोडाशानां पशुतन्त्रमध्ये विधानम्. पशुर् हि पुरोडाशकालम् अपि व्याप्नोति. पुरोडाशास्तु स्वसवनसमाप्तेर् अव्यापकाः. अतः पशुतन्त्रमध्यपतिताः पुरोडाशा इति पश्वर्थम् अनुष्ठानं पुरोडाशेषु प्रसज्यत इति. इदं च वार्त्तिककारेण विपरिणतम् एवोदाहृतम् विप्रकर्षाद् इति. व्यवहितकल्पनाम् उदाहरति -- पदेनेति. वेदाधिकरणे ह्य् एवं वक्ष्यति -- पदसङ्घातात्मानो वेदाः. पदसङ्घाताश् च पुरुषकृता दृष्टाः, यथा नीलोत्पलवनाद्यर्थविषयाः. अत एते ऽपि कृत्रिमा इति. तद्विशेषप्रदर्शनार्थं चेदं सूत्रं लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् (Jऐ १.१.२६) इति. अत्र च सन्नियमाद् इति पदव्यवहितः प्रयोगशब्दो लोक इत्य् अस्यानन्तरं सम्बन्धनीयः. तद् अयम् अर्थः -- लोके शब्दप्रयोगः सन्नियमः सम्यङ्निबन्धनात्मको युक्तः, अर्थस्य चक्षुरादिसन्निकर्षात्. न तु वेदे, अतीन्द्रियार्थत्वाद् इति. इदं च विपरिणामव्यवहितकल्पनयोः साधारणम् अप्य् उदाहरणं विपरिणामस्योक्तत्वाद् व्यवधानमात्रोदाहरणत्वेनोक्तम् इति वेदितव्यम् इति
SK
__________NOTES__________ [६१] यं पशु [६२] नं पु [६३] याः पु [६४] तन्त्रध (KHA) [६५] तद् एतन् न यथाश्रुतं विवक्षिताख्या (KHA) [६६] यसम्बन्धात्
SK
सूत्रव्यवधानम् उदाहरति -- सूत्रेणेति. इदं हि समामनान्ते सोमेन्द्रं चरुं निर्वपेत् श्यामकं सोमवामिनः इति. तत्र सन्देहः. किं लौकिके सोमवमने सोमेन्द्रश् चरुः, उत वैदिक इति. तत्र पानव्यापच् च तद्वत् (Jऐ ३.४.३८) इति. अश्वप्रतिग्रहेष्टिवाक्यगताद्यविचारपूर्वपक्षातिदेशः कृतः. तत्र यावतो ऽश्वान् प्रतिगृह्णीयात् तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इत्य् उदाहृत्य विचारितं[६७]किं लौकिक ऽश्वप्रतिग्रह{१,२५}इष्टिर् इयम्, उत वैदिक इति. तत्र पूर्वपक्षसूत्रं दोषात् त्व् इष्टिर् लौकिके स्यात् (३.४.३४) इति. दोषनिर्घातार्था हीयम् इष्टिः दोषसंयोगेन[६८]श्रवणात्. एवं हि समामनन्ति वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातीति. स चायं दोषो लोके सम्भवति न वेदे, विहितत्वाद् अश्वदक्षिणाया ज्योतिष्टोमादौ. अतो लौकिक इति[६९]प्राप्त उक्तम् -- अर्थवादो वानुपपातात् तस्माद् यज्ञे प्रतीयेत (३.४.३५) इति. अस्यार्थः -- नेयं दोषनिर्घातार्थेष्टिः दोषाभावात्, न ह्य् अश्वप्रतिग्रहाद् वरुणग्रहणात्मनो दोषस्योपपातः प्रत्यक्षादिनावगम्यते. ततो ऽर्थवादमात्रं दोषसङ्कीर्तनम् इति फलकल्पनाया अभावाद् वैदिकत्वसामान्याच् च वैदिक इति स्थिते, पुनर्विचारितं - भवतु वैदिके, सा तु किं दातुः उत प्रतिग्रहीतुर् इति. तत्र पूर्वपक्षसूत्रम् -- अचोदितं च कर्मभेदात् (३.४.३६) इति. अस्यार्थः -- दानप्रतिग्रहकर्मभेदात्. इह च यावतो ऽश्वान् प्रतिगृह्णीयाद् इति प्रतिग्रहीतृश्रवणाद् अचोदितम् इष्टिकर्म दातुः अतः[७०]प्रतिग्रहीतुः ऋत्विज इष्टिर् इति प्राप्ते उक्तं - सा लिङ्गाद् आर्त्विजे स्यात् (३.४.३७) इति. अस्यार्थः -- ऋत्विजाम् अयम्[७१]आर्त्विजो यजमानः यो दक्षिणाया दाता. तत्र दातुर् इयम् इष्टिर् भवति. कुतः, लिङ्गात्. किं लिङ्गम्. अश्वप्रतिग्रहेष्टिवाक्यगतपूर्वोत्तरपदसामर्थ्यम्. तत्र हि प्रजापतिर् वरुणायाश्वम् अनयद् इति दातारं सङ्कीर्त्यान्ते प्रतिगृह्णीयाद् इति श्रुतम्. तच् च प्रथमावगतानुपजातविरोधिदात्रवरुद्धायां बुद्धाव् उपनिपतितं दातृगोचरम् एवावगतम्. अतः प्रतिग्राहयेद् इति विपरिणमति. तद् इह पानव्यापच् च तद्वत् (३.४.३८) इति सूत्रे सा लिङ्गाद् आर्त्विजे स्याद् अचोदितं च कर्मभेदात् अर्थवादो वानुपपातात् तस्माद् यज्ञे प्रतीयेतेति सूत्रत्रयव्यवहितो दोषात् त्व् इष्टिर् लौकिके स्याद् इति पूर्वपक्षो ऽतिदिष्टः. तद् अयम् अर्थः -- पानव्यापद् अपि तद्वद् भवितुम् अर्हति यथाश्वप्रतिग्रहेष्ट्य्[७२]आद्यपूर्वपक्षे[७३]ऽभिहितम्.[७४]कुतः, दोषश्रुतेः. एवं हि श्रूयते. इन्द्रियेण वा एष वीर्येण ?वृध्यते यः सोमं वमतीति. स चायम् इन्द्रियवीर्यसमृद्धिविगमो लौकिके रसायनार्थं पीते वान्ते[७५]सम्भवति न वैदिके.{१,२६} सर्वप्रकृतिविकृतिसोमेषु पानमात्रेण सोमप्रतिपत्तेः सिद्धत्वाद् इति पूर्वपक्षिते प्रतिविहितं - दोषात् तु वैदिके स्यात् (३.४.३९) इति. रसायनार्थं हि वमनायैव पानम्. वमनेन हि शुद्धकायस्य सम्यगाहारपरिणामपरम्परया स्थैर्यं भवति. सोमप्रतिपत्तिस् तु सम्यग्जरणान्ता इति मामेवाङ्गाभिमतिगा इति मन्त्रवर्णनाद् अवगतम्. अतस् तत्रैव वमनेन पानव्यापदि जातायां तन्निबर्हणार्थश् चरुः. तद् इदं सूत्रत्रयव्यवधाने ऽपि सूत्रेणेति समुदायापेक्षयैकवचनम् इति
SK
__________NOTES__________
SK
[६७] रयिष्यते (KA) [६८] गश्र [६९] ति पूर्वपक्षित उ [७०] तः ऋत्वि [७१] म् इत्य् आर्त्वि [७२] ष्टिवाक्याद्यविचारपू [७३] क्षो [७४] तः [७५] वमने (KA)
SK
सूत्रान्यथाकरणम् उदाहरति -- पश्व् इति. ज्योतिष्टोमे ह्य् अग्नीषोमीयसवनीयानुबन्ध्याः पशवः सन्ति. सन्ति चोपाकरणादयः पशुधर्माः. ते किम् अविशेषेण सर्वपश्वर्थाः उताग्नीषोमीयस्य सवनीयस्य वेति सन्देहः. तत्राविशेषात् सर्वार्थत्वे प्राप्ते विशेषप्रदर्शनार्थं सूत्रं तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् (३.६.१८) इति. इदं च यथाश्रुतगृहीतं विवक्षितविपरीतार्थम् इत्य् आपीतेन व्याख्यातं तुल्यः सर्वेषां पशुविधिः स्याद् यदि प्रकरणाविशेषो भवेत्. अस्ति तु प्रकरणे विशेषः आग्न्येयः पशुर् अग्निष्टोम आलब्धव्य इत्यादिभिर् हि सवनीयं प्रकृत्य धर्मा विहिताः, अतः सवनीयप्रकरणाम्नाता इति सवनीयार्था इति पक्षं परिगृह्य स्थानाद् अग्नीषोमीयार्था इति सिद्धान्तितम्. अग्नीषोमीयस्य हि स्थाने औपवसथ्ये ऽह्नि धर्मा विहिताः. अतस् तदर्था एव. यत् तु सवनीयानां प्रकरणम् इति, तन् न. ज्योतिष्टोमप्रकरणे हि पशवस् तद्धर्माश् चाम्नाता इति न[७६]प्रकरणतो विशेष-लाभः. उत्तरेद्युर् आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुम् उपाकरोतीति सवनीयानाम् उत्पत्तिः. पूर्वेद्युर् उत्पत्ताव् इह तदनुवादेनाश्विनोत्तरकालविधानासम्भवात् कालस्यानुपादेयत्वात्. काले हि कर्म चोद्यते न कर्मणि कालः. तत्र प्रकरणान्तराधिकरणन्यायेन कर्मभेदो भवेत्. एवं चादृष्टकल्पनागौरवं स्यात्. स्याद् एतत्. वपया प्रातस्सवने चरन्तीति पूर्वेद्युर् उत्पन्नकर्मोत्कर्षाद् इह तद्विपरिवृत्तौ न कर्मान्तरचोदना सम्भवतीत्यनुपादेयगुणपरत्वम् अध्यवसीयत इति. तन् न. अङ्गभूतो हि वपाप्रचारः. नासौ पूर्वेद्युर् उत्पन्नं साङ्गं प्रधानकर्मोत्क्रष्टुम् अर्हति प्रधानानाम् अनङ्गवशवर्तित्वात्. अतः आश्विनं ग्रहम् इत्य् एवोत्पत्तिवाक्यम्. एवं च[७७]{१,२७} तदनुवादेनाग्नेयम् अजम् इत्यादिनोपादेयगुणविधानं सम्भवतीति वाक्यद्वयम् अपि सम्भवतीति[७८]सिद्धम् एवोत्तरेद्युः सवनीयविधानम्. पूर्वं तु गुणविधानार्थम् इति. आह च --
SK
__________NOTES__________
SK
[७६] नात्र प्र [७७] च सति त (KHA) [७८] म्बन्धार्थम् अर्हतीति (KHA)
SK
गुणार्थौपवसथ्ये ऽह्नि सवनीयपुनश्श्रुतिः |
SK
उत्पत्तिः प्रक्रिया चैषाम् आश्विनग्रहणोत्तरा ||
SK
इति.[७९]अतः सिद्धं[८०]स्थानाद् अग्नीषोमीयार्था धर्मा इति.[८१]किम् इदं सूत्रान्यथाकरणं नाम. उच्यते -- व्यवधारणकल्पनेयम्. यत्रान्यथाप्रतिभासमानो ऽर्थः[८२]प्रकरणबलेनान्यथा वर्ण्यते सा व्यवधारणकल्पना. ननु नेयम् अध्याहारादिषु सन्निविष्टा. उच्यते. नायम् आदिशब्दो व्यवस्थितवचनः प्रकारवचनत्वात्. अध्याहारप्रकाराणां वाक्यदोषाणाम् एवमादीनाम् अपि युक्तम् एवोपवर्णनम् इति
SK
__________NOTES__________
SK
[७९] ति सि (KA) [८०] क्रमाद् अ
SK
[८१] किं पुनर् इदं [८२] माणान्तरब (KHA)
SK
वाक्यभेदम् उदाहरति -- अग्नय इति पादत्रयेण. वक्ष्यति हि ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् (३.७.३९) इति.[८३]इह च वरणभरणोपात्तानाम् ऋत्विजां लौकिकवैदिकसर्वकर्मार्थत्वेन पक्षं गृहीत्वा[८४]निर्देशाद् वा वैदिकानां स्यात् (१२.२.३) इत्य् अत्र यथाविनियोगं कार्यव्यवस्थोक्ता. तदेकवाक्यतयाग्निष्व् अपि तद् एव विचार्यत इति भवति मतिः. तद् अयुक्तं, विहारो लौकिकानाम् अर्थं साधयेत् प्रभुत्वात् (१२.२.१) इत्य् अत्र लौकिकवैदिकसर्वकर्मार्थत्वेन पूर्वपक्षं गृहीत्वा निर्देशाद् वैदिकानां स्याद् इत्य् अत्र यथानिर्दिष्टवैदिककर्मार्थत्वस्य प्रतिपादितत्वात्. अतः ते सर्वार्थाः प्रयुक्तत्वाद् इत्य् अतो विच्छिद्य अग्नयश् च स्वकालत्वाद् इत्य् अन्यत्र व्याख्यातम्. एवं हि तत्र पूर्वपक्षितं - यथा यस्य खादिरः स्रुवो भवतीति स्रुवस्य खादिरतानारभ्याधीता प्रकृतौ वा द्विरुक्तत्वात् (३.६.२) इत्य् अत्र प्रकृत्यर्थेति वर्णिता, एवम् अग्नयो ऽपि[८५]ते च प्रकृत्यर्था एवेति. अत्रोत्तरम् अग्नयश् च स्वकालत्वाद् इति. अस्यार्थः -- अग्नयः प्रकृतिविकृत्यर्थाः. कुतः स्वकालत्वात्. न हि ते प्रकृतिं विकृतिं वारभ्याम्नाताः, अनारभ्याम्नानात् अतो ऽगृह्यमाणविशेषत्वाद् उभयार्था एवेति युक्तम्. यच् चाग्नीनां सम्बन्धे होमहविश्श्रपणादि द्वारभूतं तत् प्रकृतिविकृत्यारुभयोर् अपि{१,२८}प्रत्यक्षश्रुतम्. अतो द्वाराविशेषात् प्रकरणाविशेषाच् च सर्वार्था एवाग्नय इति युक्तम्. तथा अभ्युदये दोहापनयः स्वधर्मा स्यात् (९.४.४१) अपनयो वार्थान्तरे विधानात् (९.४.४३) इति सूत्रद्वयम् एकवाक्यतया प्रतिभासमानं भित्त्वा व्याख्यातम्. तथा हि -- दर्शपूर्णमासयोर् दधिपयसी प्रधानभूते प्रदेयतयाम्नाते ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयो ऽमावास्यायाम् इति. तत्र तावद् देयधमीः कर्तव्याः. पुनश् च नैमित्तिकानुष्ठानान्तरम् आम्नातं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात् स त्रेधा तण्डुलान् विभजेद् ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर्वपेद् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधनि चरुं ये ऽणिष्ठाः तान् विष्णवे शिपिविष्टाय शृते चरुम् इति. तद् इह दधिपयसी देयधर्मान् अर्हतो न वेति विचारे नार्हतः चरुरत्र देयः च दधिपयसी, अत एव हि दधनि चरुं शृते चरुम् इत्यधिकरणत्वेन गुणभावश् चरुं प्रति दधिशृतयोर् आश्रित इति प्राप्ते, उक्तं - दोहापनये दधिपयसी अभ्युदये ऽपि स्वधर्मयुक्ते स्यातां पूर्वावगतप्रक्रान्तदेयापरित्यागात्. अधिकरणत्वं तु तयोः सम्प्रतिपन्नदेवताकत्वेन तण्डुलैः सह श्रप्यमाणयोर् अर्थाद् ज्ञातं न तद्गुणभावम् आपादयितुं क्षमते. दृष्टश् च प्रधानभूतस्याप्य् अधिकरणतया निर्देशः. यथा रुक्मपात्र्यां महार्हामणयः एको भागः स देवदत्तस्य रजतपात्र्यां प्रभूतं सुवर्णं यज्ञदत्तस्येति, सहैव पात्र्या भागो ऽवगम्यते. एवम् इहापि सहैव दधिपयोभ्यां चरुर् देवताभाग इति स्थितं दधिपयसोर्देयधर्माः कर्तव्या इति. अपनयो वार्थान्तरे विधानाद् इति तयोर् एवाभ्युदये दोहापनय इति सूत्रेण प्रतिज्ञातान् देयधर्मान् वाशब्देन[८६]वारयतीति सम्भाव्यमाने न्यायविरोधाद् अन्यत्र व्याख्यातं पशुकामेष्ट्याम् अभ्युदयेष्टिवाक्यसदृशशब्दान्तरविहितयोर् दधिपयसोर् देयधर्माणाम् अपनयो वार्थान्तरे चरुश्रपणार्थे विधानाद् इति. गुणकल्पनाम्[८७]उदाहरति -- गुणकल्पास् त्व् अमी कृताः औत्पत्तिकस् त्व् इति. गुणकल्पा इति. कल्पनं कल्पः गुणानां कल्पो गुणकल्पः. गौणो हि गुणाद् एवान्यवचनः शब्दो ऽन्यत्र कल्प्यते{१,२९}यथाग्निर् माणवक इति. ज्वलनजातिवचनो ऽग्निशब्दस् तज्जातीयां व्यक्तिं लक्षयति. ततस् तत्समवेतपैङ्गल्यादिगुणलक्षणया तद्गुणयोगिनि माणवके वर्तते. आह च --
SK
__________NOTES__________
SK
[८३] ति व [८४] त्वा यथा (KA) [८५] पि केवलं प्र (KHA) [८६] न निवा [८७] म् इदानीम् उ (KHA)
SK
अभिधेयाविनाभूतप्रतीतिर् लक्षणेष्यते |
SK
लक्ष्यमाणगुणैर् योगाद् वृत्तेर् इष्टा तु गौणता ||
SK
इति. तद् इहौत्पत्तिकसूत्रे ह्य् औत्पत्तिकशब्द उत्पत्तौ भव इत्य् अनया व्युत्पत्त्या शब्दार्थसम्बन्धानां त्रयाणाम् अनित्यताभिधानाद् विवक्षितनित्यत्वविपरीतवचन इति विवक्षितासम्भवेन गौणो गृहीतः. उत्पत्तिशब्दो ह्य् उत्पत्तिलक्षितोत्पद्यमानसमवेतसत्तागुणयोगात् शब्दार्थयोर् वर्तमानो गौणो भवति. अतश् च शब्दार्थस्वरूपाधीनः सम्बन्ध इत्य् उक्तं भवति. तत्स्वरूपनित्यत्वाच् च सम्बन्धो ऽपि नित्य इति विविक्षितसिद्धिः. तथादित्यानामयनादिषु सत्रेषु किं द्वादशाहिको विध्यन्त उत यावामयनिक इति सन्देहे अहर्गणसामान्याद् द्वादशाहिक इति प्रतिज्ञाय, गव्यस्य च तदादिषु (८.१.१८) इति गव्यस्य विध्यन्तो दर्शितः न. चायं गव्यशब्दः क्वचित् क्रतुभेदे प्रसिद्धः. न च विवक्षितगवामयनार्पणक्षम इति विवक्षितासम्भवाद् गौणो व्याख्यातः. एष च गोर् अवयवे तद्विकारे वा मुख्यः. तत्रैव गोपयसोर्यत् (Pआ ४.३.१६०) इति स्मरणात्. तद् अयं सम्बन्धविशेषवचनस् तदन्तर्गतलक्षितसामान्यसम्बन्धगुणयोगिनि गवामयने प्रयुक्तो गौणो जायते. गवामयने हि गावो वा एतत् सत्रमासतेत्यर्थवादोदितगोकर्तृकत्वावगमाद् भवति गोसम्बन्धः. तद् अयम् अर्थः -- आदित्यानामयनादिषु गवामयनस्य विध्यन्तो ऽयनसामान्यातिरेकाद् इति. तथा दर्शपूर्णमासयोः सन्ति काम्याः सामिधेनीकल्पाः एकविंशतिम् अनुब्रूयात् प्रतिष्ठाकामस्येत्यादयः. तत्रागमेन सङ्ख्यापूरणम् इति स्थिते आनीयमानास्व् ऋक्षु सन्देहः किं ता अन्ते निविशन्ताम् उत समिध्यमानवतीसमिद्धवत्योर् मध्य इति. तत्र यथावगतक्रमानुरोधेनागन्तूनामन्ते निवेश इति प्राप्ते, उक्तं समिध्यमानवतीसमिद्धवत्योर् मध्य इति. कुतः. एवं ह्य् आह इयं समिध्यमानवती असौ समिद्धवती यदन्तरा तद्धाय्येति धाय्यानां सामिधेनीनाम् अन्तरालत्वेन{१,३०} संस्तवादन्तराले विधानम् अवसीयते. तथा उष्णिक्ककुभोर् अन्ते दर्शनात् (५.३.६) इति लिङ्गम् उपदिष्टम्. तच् चायुक्तम् उष्णिक्ककुभोर् मुख्ययोर् अन्ते अभावात् त्रिष्टुभा परिदधातीति त्रिष्टुभो ऽन्ते दर्शनात्. तदभिप्रायम् इदम् आनीयमानासु च मध्ये सतीषु समिद्धवत्या जुहोतेन्ते (?) भवतः. ते च समाहृते त्रिष्टुभा समसङ्ख्ये इति सङ्ख्यासामान्यात् त्रिष्टुबन्ते भवति. एवम् अपि त्रिष्टुभो ऽन्ते दर्शनाद् इति वक्तव्यम्. सत्यम्. तथापि त्रिष्टुभो वा एतद् वीर्यं यद् उष्णिक्ककुभाव् इत्य् अर्थवादावगतत्रिष्टुप्कार्यत्वाद् उष्णिक्ककुभोः कारणे कार्योपचाराद् उष्णिक्ककुप्छब्दस्त्रिष्टुभि प्रयुक्तः. तथा ज्योतिष्टोमे द्वादश शतं दक्षिणेति समधिगते षोडशानाम् ऋत्विजां समो विभाग उत विषम इति संशये, विशेषाश्रुतेर् भागसाम्यम् उक्त्वा कर्मपरिमाणाद् दक्षिणापरिमाणं लोके तथा दर्शनाद् इति विशेषो दर्शितः. पुनश् च दर्शनाच् च विशेषस्य तथाभ्युदये इति लिङ्गम् उपदिष्टम्. अत्र चाभ्युदयशब्देनाभ्युदयसाधनत्वाद् द्वादशाहो लक्ष्यते. तत्र हि दीक्षाक्रमपरे वचने अध्वर्युर् ग्रहपतिं दीक्षयित्वे[८८]त्यादिके अर्धिनो दीक्षयति तृतीयिनो दीक्षयति इत्यादिभिः समाख्याभिर् ऋत्विजाम्(?र्धा/र्ध्या)दिभिः सम्बन्धो ऽनूदितः. स चायं ज्योतिष्टोमविकारत्वाद् द्वादशाहस्य प्रकृतौ भागवैषम्यम् अन्तरेणानुपपद्यमानो वैषम्ये लिङ्गम् इति. ननु च गुणकल्पा इत्य् उक्तम्. इह चौत्पत्तिकगव्यशब्दयोर् एवं कथिञ्चिद् गुणवादो दर्शितः उष्णिक्ककुप्शब्दे तूपचारः अभ्युदयशब्दे तु लक्षणा अतः कथं गुणकल्पा इति बहुचननम्. उच्यते -- जघन्यवृत्तिसामान्यात् लिङ्गसमवायाद् वा प्राणभृत उपदधातीतिवद् गुणकल्पा इत्य् उक्तम् इत्य् अदोष इति
SK
__________NOTES__________
SK
[८८] त्वा ब्रह्माणं दीक्षयतीत्य् एवमादि (KHA)
SK
यस् तूभयप्राप्तेर् मन्दत्वात् परिसंख्याम् अपि नानुमन्यते, तं प्रत्यर्थान्तरम् आह -- सूत्रकारेति. भाष्यकारो हो शिष्यानात्मानं च सूत्रकारप्रशंसया प्ररोचयति.[८९]अनेन खलु सूत्रकारेण प्रसिद्धैर् एव पदैः पदार्था अभिहिताः, न तु गुणवृद्ध्यादिवत् परिभाषा काचित् कृता. अतो ऽक्लेशेन गम्यार्थत्वाद् एतान्य् एव श्रोतुं व्याख्यातुं च युक्तानीति
SK
__________NOTES__________
SK
[८९] चयिष्यति (KA)
SK
{१,३१} ये तु स्तुतौ वास्तुतौ वा तावान् एवार्थ इति न स्तुताव् आद्रियन्ते, तान् प्रत्यथशब्ददूषणपरम् इदं भाष्यम् इत्य् आह -- भवितव्यम् इति. भवितव्यं तु तेनेत्य् अतः प्रागेकवाक्यताम् आपन्नेन, तत् तु वेदाध्ययनम् इत्य् अतो वा पूर्वम् एकवाक्यताम् आपन्नेनाथशब्ददूषणम् अनेन भाष्येण क्रियत इति
SK
प्रथमावधिना भाष्यं योजयति -- प्रसिद्धार्थपदैर् इति
SK
द्वितीयावधिना भाष्यं योजयति -- प्रसिद्धार्थम् इति. भवितव्यं तु तेनेति प्रसिद्धार्थं पदं युक्तम् इत्य् अर्थः. नन्व् अथशब्ददूषणव्यतिरिक्तेषु प्रसिद्धार्थपरिग्रहस्योक्तत्वाद् अथादिशब्दव्याख्यानम् अयुक्तम् इति चोदयति -- प्रसिद्धो ऽपीति
SK
परिहरति -- प्रदर्शनार्थम् इत्य् एके इति. अन्ये तु वदन्ति -- यद् अन्यद् भाष्यकारान्तरैर् अव्यामोहितं प्रसिद्धार्थं पदं तन् न नाम व्याख्यायताम्. इदं त्व् अथात इति पदद्वयं भवदासेनानन्तर्यार्थतया कल्पितम्. अतो ऽवच्छिद्याथशब्दमात्रस्यानन्तर्यार्थत्वं वच[९०]नीयम्. यथाष्टमादावथशब्दस्यानन्तर्यार्थता प्रसिद्धा अथ विशेषलक्षणम् (८.१.१) इति. तदाह -- केचिद् इति वदन्तेन. अपि च यत्नगौरवभयेनोभयत्र व्याख्या प्रत्याख्याता. अत्र च नाद्यापि वेदवाक्यानि व्याख्यायन्ते. यद्यत्र सूत्राण्य्{१,३२} उप्रेक्ष्येरन् निर्विषयम् एव भाष्यं स्याद् इति युक्तैव सूत्रव्याख्येत्य् आह -- न चेति || ६३-६४ ||
SK
__________NOTES__________
SK
[९०] र्ण (KHA)
SK
अथवा यत् प्रसिद्धार्थग्रहणम् उक्तं तद् एव[९१]वृत्ताभावाद् अथशब्दस्यानन्तर्यार्थत्वासम्भवाद् आक्षिप्यत इत्य् आह -- यद् वेति. अत्रैव भाष्यं योजयति -- यदीति. तत्रेत्यादिना भाष्यकारः प्रसिद्धार्थग्रहणम् आक्षिपति. प्रसिद्धार्थग्रहणे ह्य् आनन्तर्यम् अथशब्दार्थः, न च तद् वृत्तमन्त्रेण सम्भवतीति प्रसक्तम् अध्याहारादिकल्पनम् इति. अत्र च पक्षे भवितव्यम् इत्यादि सामान्यविशेषोत्तरतयाथशब्ददूषणवद् व्याख्येयम् इति
SK
__________NOTES__________
SK
[९१] वाथशब्दस्य वृ (KHA)
SK
अन्यथा परिहरति -- वेदाध्ययनेति. अयम् अभिप्रायः -- नाव्याख्यातदुर्ज्ञानत्वाद् अथशब्दो व्याख्यायते. किन् त्व् अथशब्दव्याख्यानमिषेणान्यद् एव भाष्यकारस्य विवक्षितम्. तच् चैतदथशब्दार्थे कथिते चोद्यपरिहारक्रमेण शक्यते दर्शयितुम्. तथाहि वेदाध्ययनानन्तरोपनिपातिनः स्नानस्य अधीत्य स्नायाद् इति स्मार्तस्याध्ययनविधिदृष्टार्थताबलेनोत्कर्षकल्पनाथशब्दव्याख्याने सत्य् उपपत्तिक्रमेणावतरतीति युक्तम् अथशब्दोपवर्णनम् इति
SK
अत्र भाष्यकारेण भवितव्यं तु तेनेत्यनेनाशब्द आनन्तर्यार्थ इति प्रतिज्ञाय तथाहीति प्रसिद्धपदार्थकत्वं हेतुर् उक्तः. तद् व्याचष्टे -- अनर्थक इति. आनन्तर्ये ह्य् अथशब्दार्थे भवति प्रसिद्धार्थता. आनर्थक्यान्यार्थत्वयोस् तु प्रसिद्धिबाधः. अतः श्रुतानन्तर्योपपादनाय किम् अपि वृत्तं गम्यते. नन्व् अधिकारार्थो ऽप्य् अथशब्दो दृष्टः यथा -- अथ शब्दानुशासनम् इति. अतः कथम् अन्यार्थत्वे प्रसिद्धिबाधः. उच्यते -- तत्र हि{१,३३}शब्दानुशासनम् एवोपरिष्टाद् अधिकरिष्यते इति युक्तम् अधिकारार्थत्वम्. इह तु जिज्ञासाधिकाराभावात् सूक्तम् अन्यार्थत्वे[९२]प्रसिद्धिर् बाध्यते इति
SK
__________NOTES__________
SK
[९२] र्थे प्र (KA)
SK
अत्र भाष्यम् अन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा प्राप्नोतीति. तदाक्षिप्य समादधाति -- विशिष्टेति. अयम्[९३]अभिप्रायः -- यद्य् अपि वेदार्थविचारात्मकविशिष्टलिङ्गविज्ञानाद् विशिष्टो वेदाध्ययनात्मको लिङ्गी विज्ञायते अनन्तरवृत्तः, तथापि सूत्रेण साक्षादनुपादानाद् इदं चोदितम् इति || [६८] ||
SK
__________NOTES__________
SK
[९३] म् अर्थः य
SK
पुनर् आक्षिपति -- आनन्तर्येति. अयम् अभिप्रायः -- न हि मन्वादिवददृष्टार्थोपदेशी जैमिनिः, अनेन चानन्तर्यम् उपदिष्टं, तद् यस्यानन्तर्यं दृष्टार्थं भवति तदानन्तर्यम् इति गम्यते. वेदाध्ययनम् एव वेदार्थविचारात्मिकायां धर्मजिज्ञासायां दृष्टार्थं, तेन विना तदनुपपत्तेः. अतस् तदाक्षिप्तम्. अतः असूत्रितोपालम्भो न युक्त इति
SK
कथं पुनर्दृष्टार्थतया वेदाध्ययनम् आक्षिप्यते अत आह -- येनेति || [७०] ||
SK
न च यत्किञ्चित्क्रियानन्तर्यार्थम् उपदेशः तस्यावर्जनीयत्वेन नित्यप्राप्तेर् इत्य् आह -- क्रियमाणेति
SK
ननु सङ्कल्पप्रयत्नादिभिर् अपि विना[९४]सा नोपपद्यत एवेति दृष्टार्थत्वेन वेदाध्ययनम् आक्षिप्यत इत्य् आशङ्क्याह[९५]- सङ्कल्पादिभिर् इति
SK
__________NOTES__________
SK
[९४] ना जिज्ञासा [९५] ङ्क्य परिहरति स (KHA)
SK
{१,३४} एवं वेदाध्ययनानन्तर्यम् उपपाद्योपसंहरति -- तस्माद् इति
SK
अपरम् अपि प्राग् अपि च वेदाध्ययनाद् इति भाष्यम्. तदाक्षिपति -- अन्यस्यापीति. यदैव नैतद् एवम् इत्यादिना वेदाध्ययनम् अतन्त्रीकृतं तदैवाध्ययनात् प्रागूर्ध्वं वान्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा प्राप्नोत्य् एवेति व्यर्थं प्राग् इति पुनर्वचनम् इति. अत्र[९६]परिहारभाष्यं तादृशीम् इत्यादि. तदाक्षिपति -- पूर्वेणेति. तत् तु वेदाध्ययनं तस्मिन् हि सति सावकल्पते इत्य् अनेनैव वेदाध्ययनप्राप्तेर् उक्तत्वात् किम् अनुक्तं वक्तुं पुनर् इदम् उक्तम् इति
SK
__________NOTES__________
SK
[९६] अत्रापरं प (KA)
SK
एवम् आक्षिप्याद्यचोद्यपरिहारं तावद् आह -- वक्ष्यमाणम्[९७]इति सार्धद्वयेन. अत्र हि नाद्यापि[९८]वेदवाक्यानि प्रमाणम् इति साधितम्. तानि च वाक्यानि विवरिष्यति जैमिनिर् इत्य् अपि नावगम्यते. ततो[९९]बुद्धादिवचनपाठानन्तरं चैत्यवन्दनादिधर्मजिज्ञासाप्रसक्तेः परिचोदना युक्तैवेति
SK
__________NOTES__________
SK
[९७] ति चोदनान्तेन [९८] पि चोदना प्र (KHA) [९९] बुद्धवाक्यादि (KA)
SK
एवमनभिज्ञस्य परिचोदनेति समाधायान्यथा समाधत्ते -- यद् वेति {१,३५}द्वयेन. अस्यार्थः - वेदमधीत्याथ धर्मजिज्ञासेतीदृशे ऽपि सूत्रे परिचोदनावकाशो ऽस्त्य् एव, उभयं हि विचक्षितं नानधीत्यानन्तरं नान्यत् कृत्वेति. तच् च वचोभङ्गिभेदेन वाक्यभेदाद् अयुक्तम् इति
SK
वाक्यभेदम् एव प्रपञ्चयति -- अधीत्यैवेति द्वयेन. एकं हि वेदम् अधीत्याथ धर्मजिज्ञासेति वाक्यम्. तद् यदि वेदम् अधीत्यैवेति विदधाति, तदानन्तर्याविधानाद् अन्यस्यापि स्नानसहधर्मचारिणी संयोगादिकर्मणो ऽनन्तरं धर्मजिज्ञासा प्राप्नोति. अथैतद्भयादानन्तर्यम् आश्रीयते ततो यो ऽधीत्य जिज्ञासते तं प्रत्यानन्तर्यमात्रविधानाद् अनधीतवेदस्य धर्मजिज्ञासा न वार्यत इति प्राग् अपि प्रसज्येत. उभयविवक्षा तु वाक्यभेदप्रसङ्गाद् अयुक्तैवेति. वक्ष्यमाणा[१००]लोचनेन तु नैतद् एवम् इति परिचोदनायां प्राग् अपि च वेदाध्ययनाद् इति भिन्नक्रमं योजनीयम्. अपि च प्राग् वेदाध्ययनाद् इति. अयम् अर्थः -- यद्य् अपि वेदार्थो विचारयितव्यः, तथापि प्रथमम् एव विचारयितुम् उचितः. सर्वं हि हानोपादानार्थं वस्तु प्रथमम् एव जिज्ञास्यते. ततो हीयेतोपादीयेत वा. यत् त्व् अविचारितासिद्धम् अर्थं प्रथमम् एवोपादाय भ्रष्टावसरं जिज्ञास्यते, तदबुद्धिपूर्वकम् आपद्येत. अस्यापि चोद्यस्य तादृशीम् इत्य् एतद् एवोत्तरम् इति वक्ष्यामः
SK
__________NOTES__________
SK
[१००] [?]णावलो (KA)
SK
परिहारभाष्यम् इदानीं समर्थयते -- बुद्धवाक्यादीति. तत् तु वेदाध्ययनम् इति वक्ष्यमाणालोचनेन वेदाध्ययनं वृत्तिम् इत्य् उक्तम्. तदनाकलय्य वक्ष्यमाणानालोचनेन नैतद् एवम् इति परिचोदितं तादृशीम् इत्य् अनेन{१,३६}प्रवर्तिष्यमाणानेकविधवेदार्थविचारात्मिका धर्मजिज्ञासेयम् इति जिज्ञासास्वरूपोपवर्णनेन परिहृतम्. अतः परिचोदनापरिहारत्वेनापुनरुक्तत्वम् इति. एवञ् च वक्ष्यमाणानालोचनेन चोद्योत्तरतया भाष्यं व्याख्यायालोचनपरिचोदनायाम् अपि एतद् एवोत्तरम् इति योजयति -- प्राग् इति. यत् तावद् उभयप्रतिपादनेन वाक्यभेदप्रसञ्जनं कृतं, तदानन्तर्यमात्रपरत्वेन परिह्रियते तत्परत्वे ऽध्ययनविधानासम्भवात्. प्राग् अपीति च चोद्यं परिशिष्यते. तस्यापि तादृशीम् इत्य् अनेनापाक्रिया, जिज्ञासासामर्थ्येन पूर्ववृत्तवेदाध्ययनलाभात्. नहीयम् अनुपात्तवेदेन शक्या कर्तुम्. अत एव यदुक्तमध्ययनात् प्राग् एव धर्मजिज्ञासा युक्तेति, तद् अप्य् अनेन परिहृतं भवति. तादृशीयम् अनेकविधविचारायत् ता या विचारसिद्धमध्ययनम् अन्तरेण कर्तुम् अशक्या. विचार्य त्व् अधीयानो विचारस्यानेककालसाध्यत्वाद् अध्ययनकालातिपाताद् व्रात्यताम् आपद्येत. न चैवम् अनधीतवेदस् तदर्थं यावदवधारयितुम् अलम् इत्य् अविचारितोपात्तवेदाध्ययनपूर्वकत्वं धर्मजिज्ञासायाः. यत् तूक्तम् अविचारितोपादाने ऽबुद्धिपूर्वकम् उपादानम् इति. केन वोक्तं बुद्धिपूर्वकम् उपादानम् इति. हितैषिणः पित्रादय एवैनं[१०१]कुमारम् अनाकलितपारलौकिककल्याणं प्रवर्तयन्ति. अपि च[१०२]सजातीयानहरहरविरतप्रवृत्तस्वाध्यायाध्ययनानुपलभमानः सामान्यतो जानाति नूनम् अस्मात् कर्मणः को ऽप्य् अभ्युदय एषां भविता कथम् अपरथा श्राम्यद्भिर् हितकामैः पित्रादिभिर् अमी प्रवर्त्यन्त इति. एवं विदितवतो ऽहम् अप्य्[१०३]अनुतिष्ठन् श्रेयः प्राप्स्यामीति चिन्तयतः स्वयम् अपि प्रवृत्तिर् उपपद्यत एवेति
SK
__________NOTES__________
SK
[१०१] माणवकम् अ [१०२] चायम् अपि स [१०३] प्य् एतदनुति
SK
अत्रापरम् अपि च नैव वयम् इह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः इति भाष्यं, तस्यार्थम् आह -- नैवेति. ये एते पूर्वकल्पिते वचोभङ्गी तयोर् एको ऽप्य् अर्थो नानेन सूत्रेण विवक्ष्यते[१०४]किन् तु वेदाध्ययनम्. अनन्तरम् उभयम् उपनिपतति,[१०५]यदर्थो विचारयितव्यः यच् चाधीत्य स्नायाद् इति{१,३७}स्मृतिवचनबलेन गुरु[१०६]कुलसकाशाद् अपवर्तनम्. तत्रासमावृत्तः कथं नाम वेदार्थं विचारयेद् इत्य् एवम् अर्थम् इदं सूत्रम् इत्य् अपिचेत्यादिकेनोक्तम् इति
SK
__________NOTES__________
SK
[१०४] धीयते [१०५] तितम् य (KHA) [१०६] रुस
SK
इदं च भाष्यं न्यूनं मन्यमानैः[१०७][१०८]कैश्चिद् अध्याहृत्य व्याख्यातं,[१०९]ततस् तम् उपन्यस्यति -- आनन्तर्यम् इति. अस्य हि सूत्रस्य गुरुकुलवासावसाननिवृत्तिपरत्वाद् अध्ययनम् आनन्तर्यं चोभयम् अपि न विवक्षितम्. भाष्यं तु यथाश्रुतम्[११०]अध्ययनविधान[१११]निषेधमात्रपरम्[११२]उपलभ्यते. अतो नापि परस्तादानन्तर्यं शिष्म इत्य् अध्याहृत्योभयवचनव्यक्तिनिषेधार्थतया व्याख्येयम् इति
SK
__________NOTES__________
SK
[१०७] नाः [१०८] केचित् [१०९] तवन्तः तद् उप [११०] तगृहीतम् अ [१११] नमात्रनिषेधप [११२] म् अवगम्यते
SK
ननु नानन्वितपदार्थो वाक्यार्थः. न चेह[११३]सूत्रे तादृश्[११४]आनां पदार्थानाम् अन्वयो दृश्यते, येन गुरुकुलवासावसाननिवृत्तिः प्रतीयेत. प्रत्युताध्ययनानन्तर्ययोर् एव श्रुत्या विधानम् उपलभ्यते. ततस् तद् एव युक्तम् अत आह -- न वार्यत इति. अनधीतवेदस्य सर्वक्रियास्वशक्तस्यानधिकाराद् धर्मजिज्ञासा दैवाद् एव वारिता, किं तन्निवृत्त्यर्थेनाध्ययनविधानेन. आनन्तर्यम् अपि न मन्वादिवददृष्टार्थम् उपदिश्यते. नचादृष्टार्थोपदेशी जैमिनिर् इत्य् उक्तम्. अतो दृष्टार्थाध्ययनानन्तर्यबलेन गुरुकुलवासावसाननिवृत्तिर् लक्षणयाश्रीयत इति
SK
__________NOTES__________
SK
[११३] वे [११४] शः प (KHA)
SK
एवम् अध्याहारपक्षम् उपन्यस्य दूषयति -- आनन्तर्येति. अयम् अभिप्रायः -- श्रुतार्थानुपपत्त्यैव हि लक्षणा भवति. यदि चानन्तर्यवचनव्यक्तिर् नाश्रिता, किं लक्षणाया बीजम्. तस्माद् आनन्तर्यवचनव्यक्तिम् आश्रित्यैव श्रौतार्थपरिग्रहे दृष्टार्थत्वप्रसक्तेर् लक्षणार्थो लक्षणया विषयीकृतो ऽर्थः स्नानाभावो विधीयते. यथाश्रुतभाष्यस्वरसभङ्गश् चैवं सति न भविष्यतीति
SK
{१,३८} केन पुनः सम्बन्धेनानन्तर्यम् उपदिष्टं स्नानाभावं लक्षयतीत्य् अत आह -- प्रतीतेति. अयम् अभिप्रायः -- विरोधिसद्भावो हो विरोध्यन्तरनिवृत्त्या व्याप्तः. तद् यदैव वेदाध्ययनानन्तरा धर्मजिज्ञासा प्राप्ता[११५]भवति, तदैवाध्ययनानन्तरकालस्य तया व्याप्तत्वात् तत्परिपन्थि स्नानं निवर्तते. न हि गुरुगृहादनावृत्तः स्नाति. न च समावृत्तो धर्मं जिज्ञासितुम् ईष्टे. यथैव गुरुणा विनाध्ययनं न सिध्यति, तथैवार्थज्ञानम् अपि. अतो ऽध्ययनानन्तरं धर्मजिज्ञासा कार्येत्युक्ते सत्य् आनन्तर्यस्वरूपे दृष्तार्थत्वप्रसक्तेः स्नानाभावलक्षणा युक्तेति
SK
__________NOTES__________
SK
[११५] प्रतीता भ
SK
ननु सत्यं विरोधिनोर् एकेनावरुद्धे परं निवर्तते. विरोध एव तु कुतः. अध्ययनानन्तरं हि अधीत्य स्नायाद् इति स्मृत्यनुमितश्रुतिबलेन स्नास्यति. ततः सन्दिग्धप्रयोजन[११६]वद्वेदार्थगोचरं विचारम् आरप्स्यते, अत आह -- विरोधो युगपद् इति. अयम् अभिप्रायः -- दृष्टार्थाध्ययनविधिबलेन ह्य् अध्ययने प्रवृत्तो न प्राङ्मीमांसाश्रवणाद् विरन्तुम् अर्हति. एको ह्य् उपनीतस्य माणवकस्य प्रणवादिर् आर्त्विज्यविचारावसानः शास्त्रार्थः. अतो युगपदुभयम् उपनिपतितम् इति युक्तो विरोध इति. ननु विरोधिनोः सहासम्भवाद् एको बाध्यताम्. अधीत्य स्नायाद् इति स्मृत्यनुमितश्रुतिबलेन न्यायप्राप्त[११७]दुर्बलधर्मजिज्ञासाबाधो युक्तः, अत आह -- दौर्बल्यं वेदबाधनाद् इति. एवं हो मन्यते -- स्वाध्यायो ऽध्येतव्यः इत्यधीतेन स्वाध्यायेनार्थं जानीयाद् इति विध्यर्थः. तद् यद्य् अध्ययनानन्तरं स्नायाद् इतीमम् आम्नायम् अतिक्रामेत्. तच् चायुक्तम्. स्मृत्यनुरोधेन प्रत्यक्षश्रुतवेदबाधप्रसङ्गाद्, मूलमूलिबलाबलविपर्ययप्रसङ्गाच् च. अतो बलवद्धर्मजिज्ञासानुरोधेन दुर्बलस्नानबाधो युक्त इति.
SK
__________NOTES__________
SK
[११६] वन्तं वेदा (KHA) [११७] प्तध
SK
कः पुनर्वेदः यो ऽधीत्यस्नानं बाधते. ननूक्तं स्वाध्यायो ऽध्येतव्य इत्य् अर्थज्ञानपर्यन्तः शास्त्रार्थो ऽनन्तरस्नानानुष्ठानेन बाधितो भवतीति.{१,३९}स्याद् एतद् एवं यद्य् अर्थज्ञानार्थम् अध्ययनं भवेत्. इदं त्वाचार्यकरणविध्यौपयिकं, अध्ययनविधावधिकाराश्रवणात्. आचार्यकरणविधिप्रयुक्त्या चानुष्ठानलाभे विश्वजिदादिवत् कल्पनानुपपत्तेः. अतः स्वयम् अधिकारविधुरो ऽपि विधिर् अधिकारवन्तम् आचार्यकरणविधिम् अनुरुध्य सिध्यति. आचार्यकरणविधौ त्वाचार्यकम् एव कामयमानस्याधिकारः. कथं पुनराचार्यकरणविधिर् अनङ्गभूतम् एवाध्ययनं प्रयोक्तुम् उत्सहते. प्रयाजादयो हि दर्शपूर्णमासप्रकरणाधीतास् तदङ्गभूता इति युक्तं यत् ताभ्यां प्रयुज्यन्त इति. अध्ययनं त्व् अनारभ्याधीतं न श्रुत्यादिभिः कस्यचिदङ्गतया शक्यम् अवधारयितुम्. सत्यम् एवम् एवैतत्. अनङ्गभूतम् एव तूपकारकम् अध्ययनम् आचार्यकनियोगस्य. अतस् तत् तेन प्रयुज्यते क्रतुनियोगैर् इवाधानम्. कः पुनर् आचार्यकरणविधेर् अध्ययनेनोपकारः. श्रूयताम्. उपनीयाध्यापनाद् आचार्यो भवति. न चाध्यापनम् अध्ययनम् अन्तरेण सम्भवति. अतो ऽध्यापनपरम् अध्ययनम्. स्वाध्यायो ऽपि भूतभव्यसमुच्चारेण भूतं भव्यायोपदिश्यत इत्यध्ययननिष्पत्त्यर्थः. अतश् चान्यपरत्वात् स्वाध्यायाक्षराणाम् अविवक्षितः प्रतीयमानो ऽप्य् अर्थः. न चाविवक्षितो ऽर्थो विचारं प्रयुङ्क्ते. अतः स्वाध्यायाध्ययनमात्रेणाचार्यकनियोगनिष्पत्तेर् अनारभ्या मीमांसा इति न स्नानस्मृतेः केनचिद् विरोधम् उपलभामहे.
SK
अत्राभिधीयते -- यत् तावदाचार्यकरणविधिप्रयुक्तम् अध्ययनम् इति. तत्र न विद्मः को ऽयम् आचार्यकरणविधिर् इति. यदि मतम् -- अष्टवर्षं ब्राह्मणम् उपनयीत तम् अध्यापयेद् इति, अविधिज्ञो देवानां प्रियः. नानेनाचार्यकं भावयेद् इति विधीयते. अपि तु अध्ययने अष्टवर्षो ब्राह्मणो ऽधिकारीति[११८]बोध्यते. ननु च नात्राष्टवर्षो ब्राह्मणो ऽधीयीतेति श्रूयते. किन् तु अष्टवर्षम् अध्यापयीतेति. सत्यम्. प्रयोजकव्यापारपरा अपि विधयः प्रयोज्यव्यापारपरा दृष्टाः यथावेष्टौ एतयान् नाद्यकामं याजयेद् इति अतिरात्रेण प्रजाकामं याजयेद् इति च. ननु चोपनयीतेत्याचार्यकरणे नयतेर् आत्मनेपदम् इत्युपनयनेनाचार्यकं निर्वर्तयेद् इति प्रत्येष्यते.[११९]नैवम्. नात्राचार्यकार्थम् उपनयनम् आत्मनेपदाद् अवगम्यते. अपि तु माणवकार्थाद् उपनयनाद् आनुषङ्गिकम् आर्चायत्वं वैश्वदेव्याम् इक्षार्थादिवद् दध्यानयनाद् वाजिनेज्या. अकर्त्रभिप्रायार्थं हि नयतेर् आत्मनेपदविधानम्. आचार्यकार्थत्वे तूपनयनस्य{१,४०}कर्तारम् एव क्रियाफलम् अभिप्रेयात्. अतो ऽष्टवर्षम् इति नायम् आचार्यकरणविधिः. अथ मतम् -- अनुमास्यामहे वयम् आचार्यकरणविधिम्. स्मर्यते हि --
SK
__________NOTES__________
SK
[११८] चोद्य (KA) [११९] मै (KHA)
SK
उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः |
SK
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ||
SK
इति. तद् अस्याः स्मृतेर् मूलभूता उपनीयाध्यापनेनाचार्यकं भावयेद् इति श्रुतिर् अनुमास्यते. तन् न. स्मार्तवाक्यसदृशं हि मूलम् अनुमीयते. यथाष्टकादिगोचरं[१२०]कर्तव्यतावचनम् उपलभ्याष्टका कर्तव्येति श्रुतिर् अपि कर्तव्यताविषयैवानुमीयते. न चेहोपनयनादिनाचार्यकं कुर्याद्[१२१]इति स्मृतिवचनम्. अपि तर्हि उपनीयाध्यापयितरि लौकिका आचार्यशब्दम् उपचरन्तीति लोकसिद्धम् एवाचार्यपदार्थं दर्शयति. तत् कथम् इतः सिद्धानुवादात् कर्तव्यताश्रुतिर् अनुमातुं शक्यते. न चाहवनीयादिवदलौकिकम् आचार्यकम्. आहवनीयशब्दो हि आधानपवमानहविरादिजन्यम् अलौकिकम् अतिशयविशेषम् अभिनिविशमानो ऽलौकिकार्थ इति युक्तम्. आचार्यशब्दस् तूपनीय वेददातरि उपचरितः.
SK
__________NOTES__________
SK
[१२०] र स्मार्तं क (KA)
SK
[१२१] भावयेद् इ (KHA)
SK
उपनीय ददद् वेदम् आचार्यः स उदाहृतः |
SK
इति स्मृतेः. एवं तु सान्दृष्टिकम् एव शिष्योपाध्यायवद्, नालौकिकम् आचार्यकम्. अपि चाप्रवृत्तप्रवर्तनं हि विधेर् अर्थः. स्वयम् एव चाचार्यके धनायन् यशस्यन् वा प्रवर्तत इति किं तद्विधानेन. अतः शून्यहृदयैर् व्यवहृतम् एवेदम् आचार्यकरणविधिप्रयुक्तम् अध्ययनम् इति. कथञ् चैष व्रतनियमादीतिकर्तव्यतावतो ऽध्ययनविधेः प्रयोजकः. अध्यापनं ह्य् अध्ययनम् अन्तरेणानुपपद्यमानं लौकिकेन रूपेणाध्ययनमात्रं प्रयुङ्क्ताम्. अतो ऽनन्यपरत्वात् स्वाध्यायाध्ययनविधेर् नाविवक्षितार्थतया शक्यं पूर्वपक्षयितुम्.
SK
यद् अप्य् उक्तम् उपनयनम् आचार्यकनियोगाङ्गम् इत्युपनीयाध्यापनेनाचार्यकं भावयेद् इति श्रुतिर् अनुमिता. अत्र च कत्वाश्रुतेर् आचार्यकभावनासमानकर्तृकम् उपनयनम् अवगम्यते. न च प्रयोगैक्यादृते समानः कर्ता भवति. न च तदङ्गाङ्गिभावादृते सम्भवतीत्याचार्यकरणविधौ सहाङ्गैर् अङ्गम् उपनयनम्. तच् च केन द्वारेणोपकुर्याद् इति चिन्तायाम् उपनेयासादनम् एवोपनयनस्वभावालोचनया द्वारम् अवधारितम्. उपनेयो ऽपि नाकिञ्चित्करो ऽङ्गम् इति{१,४१}तद्व्यापारापेक्षायाम् उपनयनं प्रक्रस्याध्ययनम् आम्नातम्. उपकारकं च तदध्यापनाविधेः. अतस् तद् एवोपनयनद्वारेणाध्यापनविधिना प्रयुज्यते. उक्तं च कथम् आचार्यकरणविधेः प्रयोजकत्वम् उपनयनद्वारकं हि तद् इति.
SK
अत्रोच्यते -- नैवम् अध्ययनविधिः शक्यते प्रयोक्तुम्, अनङ्गत्वाद् अनुपकारकत्वाच् च. यच् च समानकर्तृकत्वाद् उपनयनम् अध्यापनाङ्गम् इत्य् उक्तं, तन् न. विस्पष्टं हि वयम् अष्टवर्षं ब्राह्मणम् उपनयीतेति द्वितीयासंयोगाद् उपनीयमानद्विजकुमाराङ्गम् उपनयनम् अवगच्छामः. तस्य च तम् अध्यापयेद् इत्यध्ययनसम्बन्धाद् युक्तम् एव संस्कारार्हत्वम्. अतो माणवकद्वारेणाध्ययनविध्यङ्गम् उपनयनम् इति सत्य् अप्य् उपनीयाध्यापनेनाचार्यकं भावयेद् इति. विधाव् अनङ्गम् एवोपनयनं कृतार्थसंयोगेषु कालोपलक्षणार्थत्वस्य स्थितत्वात्. यथा दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति. न हि तयोर् अन्योन्यम् अङ्गाङ्गिभावः, उभयोर् अपि कृतार्थत्वात्, एवम् इहापि भवितुम् अर्हति. अस्तुवाध्यापनाङ्गम् उपनयनम्. तत् तु समीपप्रापणमात्रम्. अतस् तावन्मात्रम् आचार्यकरणविधिना प्रयुज्यताम्, अध्ययनाङ्गं तु विशिष्टमन्त्राद्युपेतम् अनेन प्रयुक्तम् इति न प्रमाणं क्रमते. न च फलचमसवदधिकारतो विशेषलाभः. तत्र हि यागाङ्गसोमभक्षणप्रकरणाम्नातो भक्षयतिस् तदङ्गम् एव भक्षणं विगाहते. न चेह तथा, अधिकाराभावात्. न च जुहूवद् एतद् भवितुम् अर्हति. सा ह्य् अनुज्झितक्रतुसम्बन्धेति दूरे ऽप्य् उद्दिष्टमात्रा सैव प्रतीयते. उपनयनं तु समीपप्रापणम् अनेकधा भिन्नम् इति न विशिष्टावगतौ किञ्चित् कारणम्. अस्तु वा विशिष्टोपनयनम् आचार्यकरणविधेर् अङ्गम्, प्रयुज्यतां च तत् तेन. न च तद्द्वारेणाध्ययनप्रयुक्तिः सम्भवति. अङ्गं हि तदध्ययनस्येत्य् उक्तम्. न चाङ्गम् आकृष्यमाणं प्रधानम् आकर्षति, प्रधानानाम् अनङ्गवशवर्तित्वात्. तस्मान् न कथञ्चिद्[१२२]आचार्यकरणविधेः प्रयोजकत्वम्. कस्माच् चाध्ययनविधिर्[१२३]आचार्यकरणविधिप्रयुक्त्या सिध्यति. कश्चित् क्वचिन् नियुक्त इति हि नियोगस्य स्वरूपम्. तद् अयं स्वयम् अनियुञ्जानो नियोगत्वाद् एव हीयेत. अनधिकारत्वात् अन्यम् उपजीवतीति चेत्. न. उक्ताधिकारत्वात्. उक्तम् अष्टवर्षो ब्राह्मणो ऽधिकारीति. यदर्थं हि यत् कर्म स तत्राधिकारी. माणवकार्यं चाध्ययनम् इति तम् अध्यापयेद् इति विधानाद् अवगम्यते,[१२४]अनन्यपरत्वाद् अस्य.{१,४२}न हीदम् अध्यापनस्वरूपविधानपरम्, अन्तरेणापि विधानं वृत्त्यर्थम् एव तु तत्र प्रवृत्तेः. अध्ययनविधिश् चाश्रुताधिकारो ऽधिकारिणम् अपेक्षते. न हि ज्ञायते केन स्वाध्यायो ऽध्येतव्य इति. अतो ऽपेक्षितविधिबलाद् अध्ययनाधिकृतपुरुषोपदेश एवायं तम् अध्यापयेद् इति. तद् अयम् अर्थः -- अष्टवर्षो ब्राह्मणो ऽधीयीतेति. अतः प्रयोजकव्यापारद्वारेण प्रयोज्यव्यापारपरम् इदम् इति वर्णितम् एवेति. अथ मतम् आत्मार्थम् अध्ययनं न माणवको बुध्यत इति न प्रवर्तत इति, यद्य् एवम् आचार्यार्थम् अपि न बुध्यत इति न प्रवर्तेतैव. आचार्य एवा[१२५]त्मार्थं प्रवर्तयतीति चेत्, तुल्यम् अस्य माणवकार्थत्वे ऽपि प्रवर्तकत्वम्. स ह्य् अस्य हितकामो जानाति चास्येयम् अभ्युदयकारिणी क्रियेति. तम् इमम् अविद्वत्त्वात् स्वयम् अप्रवृत्तम् अन्यो हितकामः प्रवर्तयिष्यति स्त्रियम् इव स्वाधिकारे निषादम् इव स्थपतीष्ट्याम्. अपि च आचार्यकरणविधिप्रयुक्तत्वे ऽध्ययनस्य नार्थाविवक्षायां किञ्चित् कारणम् उपलभ्यते. तद् यदि अध्ययनमात्रम् आत्मानुगुणतया प्रयुङ्क्ते न तु स्वाभाविकं शब्दानाम् अर्थपरत्वं विहन्ति,[१२६]स्वाध्यायाध्ययनस्वरूपमात्रेण चाचार्यकनियोगनि[१२७]ष्पत्तेर् अभिधाव्यापारस्यानन्यपरत्वात्. अतो नार्थाविवक्षायां किञ्चित् कारणम् अस्ति. अस्तु वा आचार्यकरणविध्यौपयिकत्वेन विध्यन्तराणाम् अर्थाविवक्षा, तथापि न मीमांसानारम्भेण पूर्वपक्षवर्णना शक्या कर्तुम्. आचार्यकरणविध्यर्थमात्रनिरूपणस्यापि मीमांसागतन्यायकलापाधीनात्मलाभत्वात्. तस्यापि स्वाध्यायशब्दवाच्यत्वाद् अविवक्षितार्थत्वम् इति चेत्. न. कल्पितस्य विधेर् अनधीतस्यास्वाध्यायशब्दवाच्यत्वात्. तस्य चाविवक्षितार्थत्वे ऽन्यार्थविवक्षा अन्यार्थविवक्षायां पुनस्तद्विवक्षेत्यनवस्था स्यात्. न च व्यवस्थासम्भवे ऽव्यवस्थितः शास्त्रार्थो युक्तो वर्णयितुम्. तद् वरं स्वाध्यायाध्ययनविधेर् अदृष्टार्थत्वं, न त्वाचार्यकरणविध्यर्थत्वेनाव्यवस्था. एवं हि स्वाभाविकम् अर्थपरत्वं शब्दानाम् अपलपितं न भवति. न चैकविध्यनुरोधेन कृत्स्नस्वाध्यायाप्रामाण्यप्रसङ्गः. भूयोविरोधे ह्य् अल्पमन्याय्यम् इति वक्ष्यति विप्रतिषिद्धधर्मसमवाये भूयसां स्यात् सधर्मत्वम् (१२.२.२२) इति. त्यजेद् एकं कुलस्यार्थे इति न्यायविदो वदन्तीति नाविवक्षितार्थतया पूर्वपक्षो युक्तः.
SK
__________NOTES__________
SK
[१२२] दध्यापनवि [१२३] र् अध्यापनविधि [१२४] अन्य (KHA) [१२५] वैनम् आचार्यार्थं (KHA) [१२६] न्ति अध्य [१२७] निवृत्ते (KA)
SK
{१,४३} यद् अपि चात्र राद्धान्तितं सत्य् अप्य् आचार्यकरणविधिप्रयुक्तत्वे ऽध्ययनस्य न तन्निवृत्तिर् एव प्रयोजनं, बहिरङ्गत्वात्. यद् एतदध्येतर्यर्थज्ञानं जायमानम् उपलभ्यते तद् एव तस्य प्रयोजनं न्याय्यम्. यत्कर्तृका हि या क्रिया सा तदर्थैवेति युक्तं, तथा[१२८]दर्शनात्. ननु प्रथमभावी प्रयोजकविध्यधिकारानुप्रवेशश् चरमभाव्यर्थज्ञानाद् बलीयान्. अतो नाध्येत्रर्थतामध्ययनस्यापादयितुम् उत्सहामहे. किं हि. प्रथमावगताचार्यकरणविध्यर्थत्वे पश्चाद्भाविन्यन्तरागता करिष्यति. नैवम्. प्राग् अप्य् अधिकारान्तरसम्बन्धानवगमाद् अश्रवणात्. अन्यप्रयुक्तया चानुष्ठानोपपत्तौ विश्वजिदादिवत् कल्पनानुपपत्तेः. अत आचार्यकरणविधिप्रयुक्तम् अध्ययनम् असति प्रयोजनसम्बन्धे दुःस्थितम् एव, सर्वविधीनाम् अधिकारपर्यवसायित्वात्. सो ऽयम् अधीतसाङ्गवेदस्यान्तरा मीमांसाध्ययनं चाधिकारो निष्पद्यते. स हि तदा विदितपदार्थो वाक्यार्थं बुध्यमानो मदर्थम् इदं कर्मेति जानाति. युक्तं चैतद्[१२९]यत् क्रत्वपेक्षितम् अर्थज्ञानं प्रयोजनतया सम्बध्यत इति. एवं च परप्रयुक्ताव् अप्य् अर्थपरत्वाविघाताद् युक्तैव तद्विचारार्था मीमांसेति. तद् इदम् अनुपपन्नम्. न हि नियोगार्थनिर्वृत्तेर् अन्यद् अस्ति प्रयोजनं सर्वविधीनां[१३०]येन परप्रयुक्तानुष्ठानो ऽपि विधिः प्रयोजनम् अपेक्षते. इतरथा हि नित्ये ऽपि तत्कल्पनाप्रसङ्गात्. स्याद् एतद् -- असत्याम् अपि विध्यपेक्षायाम् अर्थाज् जातम् अर्थज्ञानं न हीयेतेति अर्थज्ञानम् अर्थाज् जातं न नियोगतः प्रतिपन्नम् इति. तन् न. होमाद् अप्य् अर्थाज् जातस्य हविर्विकारादेः प्रयोजनत्वापत्तेः. क्रत्वपेक्षितम् अर्थज्ञानं नैवं हविर्विकारादीति चेत्. तन् न. असत्य् अर्थपरत्वे क्रत्वनुष्ठानाभावात् किं केनापेक्ष्येत. कर्तृ[१३१]फलप्रदत्वम् अपि क्रियाणां नैकान्तिकम्, ऋत्विक्कर्भसु व्यभिचारात्. अतः प्रयोजकविध्यर्थः स्वार्थो वाध्ययनविधिर् इति नार्थपरत्वे प्रमाणं पश्यामः. मध्ये चाधिकारकल्पना वृथैव, प्रवृत्त्यनङ्गत्वात्. भवन्ती व स्वनियोग एव पर्यवस्येत्. एवं हि तदाध्येत जानाति नित्यो हि विध्यर्थः सम्पाद्यो ममेति. एवं च नियोगनिर्वृत्त्यर्थम् अध्ययनं, तदर्थश् च स्वाध्याय इति नार्थपरत्वम्. अर्थस् तु प्रतीयमानो ऽपि पूर्वाद् इवापरो न विवक्षित इत्य् अविचारणीय एव. तस्माद् अविचारितमनोहरत्वाद् अस्य पक्षस्य यथावार्त्तिकम् एवाध्ययनविधिविचारो वाच्यः. स उच्यते. स्वाध्यायो ऽध्येतव्यः, स्वाध्यायम् अधीयीत इति{१,४४}च विधिर् अत्र श्रूयते. फलवद्व्यापारगोचरत्वं च स्वाभाविकं सर्वविधीनाम् इत्य् अपुरुषार्थात्मनो ऽध्ययनाद् उत्तीर्य पुरुषार्थात्मकं फलम् अभिलषति. अध्ययनम् अपि साध्यत्वाधीनं साधनत्वे निक्षिप्यते. तद् अयम् अर्थो जायते अध्ययनेन किम् अपि पुरुषाभिलषितं कुर्याद् इति. न च तदुपात्तम् इत्याम्नानसामर्थ्याद् विश्वजिदादिवत् स्वर्ग एव सकलाध्येतृजनसमीहितं फलं कल्प्यते. ननु च द्वितीयान्तस्वाध्यायपदसमभिव्याहृतम् अध्ययनं तत्प्रधानम् एवावगम्यते. ततश् चाध्ययनेन स्वाध्यायं संस्कुर्याद् इति वाक्यार्थो ऽवतिष्ठते. न च सक्तुवदसंस्कार्यः स्वाध्यायः, फलवत्क्रतुज्ञानोपायभूतत्वात्. अतो न फलान्तरकल्पनावकाशः. न. अविनियोगात्. न खलु स्वाध्यायस्यार्थज्ञाने विनियोजिका श्रुतिर् उपलभ्यते. अतो न तादर्थ्ये प्रमाणम् इति न संस्कारार्हत्वम्. भूतश् च स्वाध्यायः भव्यम् अध्ययनं, भूतस्य भव्यार्थतायां दृष्टार्थता. इतरथा कल्प्यम् अदृष्टम्. न च तद् युक्तम्. अतो विनियोगभङ्गेन स्वाध्यायेनाध्ययनं संस्कुर्याद् इति शास्त्रार्थो युक्तः. हुंफडादीनां चानर्थकानाम् अध्ययनाद् अव्यापकम् अर्थज्ञानम्. तेषाम् अदृष्टार्थम् अध्ययनं भवतीति चेत्. तदर्धजरतीयम् एकस्यैव विधेर् दृष्टादृष्टार्थत्वकल्पनात्. अत[१३२]एकरूपेणादृष्टार्थतैव युक्ता. ननु च रात्रिसत्रवदार्थवादिकम् एव फलं श्रुतत्वाद् युक्तम् आश्रयितुम्. श्रूयते हि यं यं क्रतुम् अधीते तेन तेनास्य क्रतुनेष्टं भवतीति क्रतुफलप्राप्तिर् अध्ययनस्य फलम्. अथोच्येत न प्रथमे गुरुसकाशाद् अध्ययने फलम् इदम्, अपि तर्हि धारणाद्यर्थ इति. तन् न. धारणाद्यर्थार्थवादस्यातिदेशतः प्रथमाध्ययनसम्बन्धात्. अतो रात्रिसत्रन्यायेनार्थवादगतम् एव विपरिणामेन फलम् उपकल्पयितुम् उचितम्. स्याद् एतद् एवं यद्य् अर्थवादाः स्वरूपतो ऽतिदिश्येरन्. न त्व् एतद् एवं, शास्त्रातिदेशनिराकरणात्. प्ररोचनामात्रम्[१३३]इहार्थवादोत्थापितम् अध्ययन[१३४]विधिनापेक्षितं सम्बन्धुम् इति नानाश्रयफलपदविपरिणामः शक्यते कल्पयितुम्. अतो नैषापि कल्पना युक्तेति विश्वजिदादिवत् स्वर्गफलतैव युक्ता कल्पयितुम्. अतः स्वर्गार्थं गुरुसकाशाद् अधीत्य स्नानस्मृतिबलेनानन्तरं स्नात्वा पश्चात् सन्दिग्धं प्रयोजनवन्तं वेदार्थं विचारयतु मा वा. सर्वथा तावदध्यय[१३५]नविध्यर्थो निष्पन्न इति न[१३६]कथञ्चिद् वेदविरोधम् उपलभामहे.
SK
__________NOTES__________
SK
[१२८] था लोके द [१२९] त् क्र (KHA) [१३०] नां यथोक्तं ये (KA) [१३१] त्रर्थत्व (KHA) [१३२] ऐकरूप्येणा (KHA) [१३३] त्रं ह्य् अर्थ [१३४] नस्य वि [१३५] यनमात्राद् एवाध्ययन [१३६] नात्र क (KA, KHA)
SK
{१,४५} अत्रोच्यते -- स्वाध्यायो ऽध्येतव्यः स्वाध्यायम् अधीयीतेति च विस्पष्टं स्वाध्यायस्याध्ययनकर्मत्वम् अवगम्यते. न च सक्तुवद् विनियोगभङ्गो युक्तः. सक्तवो हि भूतभाव्युपयोगरहिता न संस्कारम् अर्हन्ति. न च तथा स्वाध्यायः, भाव्युपयोगित्वात्. इह ह्य् अध्ययनानन्तरम् अक्षरग्रहणं, ततः पदावधारणं, ततः पदार्थस्मरणं, ततो वाक्यार्थ[१३७]ज्ञानं, ततो ऽनुष्ठानं, ततो ऽभ्युदय इति परम्परया पुरुषार्थ[१३८]प्रयोजनप्रतिलम्भेन विपरिवृत्त्याध्ययनमात्रान्[१३९]नादृष्टकल्पनावकाशः. यावद् धि विप्रकृष्टम् अपि दृष्टम् उपलभ्यते, तावत् तद् एवानुसरणीयम्. तद् इह ब्राह्मणवाक्येषु प्रधानवाक्यानां फलवत्कर्मावबोधनं फलम्, अङ्गवाक्यानां तु सन्निपत्योपकारकाराद् उपकारकदृष्टादृष्टार्थेतिकर्तव्यताप्रकाशनम्. अर्थवादानां च विध्यपेक्षितविषयप्राशस्त्यप्रतिपादनम्. उद्भिदादीनां च[१४०]नाम्नां गुणफलविधानम्. उपनिषदां तु साम्परायिकफलोपभोगोचितचेतनकर्तृप्रतिपादनद्वारेण सकलवेदप्रामाण्यप्रतिपादनम् इत्य् ऊहनीयम्. मन्त्राणां च केषाञ्चिदनुष्ठीयमानपदार्थप्रकाशनम्. येषां तु न दृष्टं प्रयोजनं तेषां क्रतुपुरुषार्थादृष्टकल्पना. न च तददृष्टार्थत्वेनान्यत्रापि दृश्यमानप्रयोजनपरित्यागो युक्तः. स्वाध्याया[१४१]ध्ययनविध्यध्यापितस्य[१४२]मन्त्रब्राह्मणस्य प्रयोजनकल्पनावसरे यथाशक्ति प्रयोजन[१४३]कल्पनैव युक्ता. तत्र हुमादीनां दृष्टप्रयोजनासम्भवे जपब्रह्मयज्ञादाव् अदृष्टार्थता. दृष्टं चैकप्रयोगविधिगोचराणां[१४४]दृष्टादृष्टप्रयोजनत्वं प्रोक्षणावघातादीनाम्. अतो नावश्यमैकरूप्यम्[१४५]एव सर्वत्रैवास्थेयम्. तद् एष पूर्वोत्तरपक्षसंक्षेपा[१४६]र्थः -- पारलौकिकादृष्टफलत्वाद् अध्ययनस्य नार्थज्ञानपर्यन्तो ऽध्ययनविध्यर्थ इति नावश्यम् अनन्तरं वेदार्थो मीमांसितव्यः. अतो न स्नानस्मृत्यध्ययनविध्योर् विरोधः. अविरुद्धं च न दुर्बलम् अपि बाधम् अर्हतीति पूर्वः पक्षः. सिद्धान्तस् तु - स्वाध्यायस्याध्ययन[१४७]संस्कार्यत्वावगमादधीतेन स्वाध्यायेन किं कुर्याद् इत्यपेक्षिते योग्यत्वेनार्थज्ञाने स्वाध्यायस्य विनियोगात्, तस्य चैहिकत्वाद् अनन्तरं दृश्यमानत्वाच् च न व्यवहितामुष्मिकादृष्टस्वर्गफलकल्पना युक्तेत्यधीतेन स्वाध्यायेनार्थं जानीयाद् इति करणीभूतस्य वेदस्यानुग्राहकापेक्षायां,{१,४६} योग्यत्वेनेतिकर्तव्यतांशोपनिपातिनी मीमांसाध्ययनानन्तरम् उपनिपतन्ती स्वकालोपनिपातिना स्नानेन विरुध्यत इति श्रुतिबलीयस्त्वेन युक्तः स्नानस्मृतेर् बाध इति सूक्तं स्नानस्य तेन बाधः स्याद् इति
SK
__________NOTES__________
SK
[१३७] र्थावधारणं त [१३८] र्थप्रति (KA) [१३९] त्राद् अदृष्टकल्पनानवका [१४०] तु
SK
[१४१] यवि [१४२] स्य हि म [१४३] नपरिक [१४४] णां नानाविधदृ (KHA) [१४५] प्यम् एवावसे (KA) [१४६] पः (KHA) [१४७] नकर्मत्वाव (KA)
SK
अत्र भाष्यं दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत, लक्षणया त्व् एषो ऽर्थः स्याद् इति. तदध्ययनदृष्टार्थताप्रतिपादनस्य पुनरुक्तत्वाल् लक्षणया त्व् एषो ऽर्थः स्याद् इति चाविज्ञायमानार्थत्वात् कैश्चिद् व्याख्यातृभिस् त्यक्तम्. तत् तावद् आह दृष्टार्थेति कैश्चिदन्तेन. स्वयं तु चिरन्तनलेख्येषु विद्यमानत्वात् समाधत्ते -- तद् उच्यत इति. अयम् अभिप्रायः -- पूर्वं हि न चाधीतवेदस्येत्यादिभाष्येण पूर्वकालतामात्रं क्त्वाप्रत्ययेनोच्यते, नानन्तर्यम्. न च तदध्ययनदृष्टार्थत्वे विरुध्यत इति स्मृत्या सहाविरोधो दर्शितः. इदानीं तु यद्य् अप्य् आनन्तर्यवचनः क्त्वाशब्दः, तथापि समस्तस्मृत्यर्थपरिग्रहे वेदविरोधाद् वरं लक्षणेति. पौर्वापर्यविशेष आनन्तर्ये उक्ते तदन्तर्गतपूर्वकालतामात्रम् अध्ययनस्य लक्ष्यते. एवं हि दृष्टार्थाध्ययनेन सहाविरोधो भवतीति
SK
अपरम् अपि स्मृत्या सहाविरोधप्रकारम् आह -- ग्रन्थेति. अधीत्येति इङो रूपे विरोधः नेण इति. इदं चान्वारुह्यवचनम् इति नातीवादरणीयं. इङो हि नित्यसहचरितो ऽधिशब्द एकदेशभूतः, न हि तस्य केवलस्य प्रयोगो दृष्टपूर्वः. अत इङो रूपे समुदायप्रासिद्धिः. इणस् त्व् अवयवप्रसिद्धिः. सा च समुदायप्रसिद्धेर् दुर्बला. स्वाध्यायाध्ययनाधिकारे चाधीत्येति श्रुतं तद्विषयम् एवावगम्यत इत्य् अतो ऽपि नाधिगमार्थ[१४८]कल्पना युक्तेति
SK
__________NOTES__________
SK
[१४८] र्थ इति (KA)
SK
{१,४७}अत्र भाष्यं न चेदं स्नानम् अदृष्टार्थं विधीयते इति. तद् व्याचष्टे -- यस् त्व् इति. यो हि श्रुतिस्मृत्योर् एवम् अविरोधो भवतीति गुरुगेहादनावृत्तस्याप्लवनमात्रम् अधीत्य स्नायाद् इति प्रयाजादिवत् प्रधानम् अदृष्टार्थं विधीयते. अथवा मन्त्राद्युपेतम् अध्ययनस्य प्रधानकर्मणः प्रोक्षणादिवददृष्टार्थं नरसंस्काररूपं स्नानं विधीयत इति मन्यते, तस्य वक्ष्यमाणम् उत्तरम् इति
SK
तद् इदानीम् उत्तरम् आह - इहेति[१४९]द्वयेन. ब्रह्मचारिणो हि न स्नायाद् इत्य् अस्नानादिनियम उक्तः. न च तत्र कस्यचिद् अवधित्वम् आश्रितम्. अतो ऽसौ कियन्तं कालम् इति भवत्य् अवसानापेक्षेति. यद्य् एवं ततः किम् अत आह -- तत इति. अपेक्षितविधौ दृष्टार्थत्वम्. इतरथादृष्टार्थं स्नानविधानम्. न च दृष्टे सम्भवति तद् युक्तम्. अतो ऽपेक्षावशादस्नानादिनियमनिवृत्तिम् एव अधीत्य स्नायाद् इति स्नानं लक्षयति. तद् धि अस्नानविरोधि स्नानं, विरोधिसत्ता च विरोध्यन्तरनिवृत्त्या व्याप्ता. अतः स्नानेनास्नाननियमनिवृत्तिलक्षणा युक्तैव. तत्सहचरिताश् च गुरुकुलवासादय इति तन्निवृत्त्या तेषाम् अपि निवृत्तिर् लक्ष्यत इति. ननु युक्तं विरोधिनोः सहासम्भवात् स्नानेनास्नाननिवृत्तिर् लक्ष्यत इति. गुरुकुलवासादिधर्मनिवृत्तौ (?कृ/कु)तो हेतुः. यच् चास्नानादिनियमसहचरितो गुरुकुलवासादिस् तन्निवृत्त्या निवर्त्यत इत्य् उक्तं तद् अयुक्तम्. प्रमाणान्तरगोचरे हि विषये तद् युक्तम्. यथा लोके भोजनकाले केवलस्थलपरिमार्जनोपदेशे स्थला(दी)नि परिमृज्यन्ताम् इति भवति तत्सहचरितनिखिलभोजनोपकरणशङ्खशुक्तिकादिपरिमार्जनोपदेशः. श्रुतिस्मृत्योस् तु यावदुपात्तमात्रविषयत्वात् सहचरितादिग्रहणम् अन्याय्यम्. उच्यते -- स्याद् एवं यदि श्रुतिमूलेयम् अधीत्य स्नायाद् इति स्मृतिः{१,४८}स्यात्. इयं तु न्यायमूला. न्यायश् च सकलब्रह्मचारिधर्मनिवृत्तौ समानः. कः पुनर् असौ. श्रूयताम्. ब्रह्मचारिधर्मा हि गुरुकुलवासादयो ऽध्ययनाङ्गम् अध्ययनसमाप्तौ समाप्यन्ते इष्टिसमाप्ताव् इव व्रतम् इति न्यायः. अतो ऽस्नाननियमनिवृत्तिमूलेन सकलाग्नीन्धनादिब्रह्मचारिधर्मपर्यवसानलक्षणा युक्तेति. इदं तु किन् तु लक्षणयेत्यादिभाष्येणोक्तम् इति वेदितव्यम्
SK
__________NOTES__________ [१४९] ति. ब्र (KA)
SK
प्रकरणार्थम् इदानीम् उपसंहरति -- तस्माद् इति. अयम् अर्थः -- यद् अध्ययनशब्दो ऽधिगमार्थ इति व्याख्यातं, यच् च स्नायादित्यस्नानादिनियमनिवृत्तिलक्षणार्थः स्नानशब्द इति, तथा अथातो धर्मजिज्ञासेति[१५०]धर्मजिज्ञासाक्रमवचनो ऽथशब्दो ऽध्ययनानन्तरोपनिपातिस्मार्तस्नानाभावलक्षणार्थ इति यद् उक्तं तत्र[१५१]च सर्वत्र दृष्टार्थत्वं हेतुर् इति
SK
__________NOTES__________
SK
[१५०] ति जि [१५१] त्र स
SK
अत्र चोदयति -- स्नात्वेतीत्यन्तेन. एवं ह्य् उक्तं दौर्बल्यं वेदबाधनाद् इति. एवं च वेदबाधो भवति यदि वेदार्थः सर्वथैवोपेक्ष्येत. यदि तु स्मृत्यनुरोधेनाध्ययनानन्तरं स्नात्वा सन्दिग्धं प्रयोजनवन्तं वेदार्थं बुध्यमानो जिज्ञासते, ततो न कश्चिद् वेदविरोधो दृश्यत इत्य् अविरोधिता स्नानस्येति. एवंवा[१५२]दिन उत्तरम् आह -- एवम् इति स्नानबाधनमन्तेन. अयम् अर्थः -- भवेद् अपि स्मृत्यनुरोधेनानन्तरं स्नानं यदि तावन्मात्रम् एव स्मृतं स्यात्. इह च[१५३]स्नानाद् उत्तरकालम् अपि नानाविधानि नित्यानि नैमित्तिकानि च कर्माणि स्मर्यन्ते. तद् यदि तान्य् अप्य् अनुरुध्यन्ते, ततो ऽत्यन्ताय वेदबाधः. न च तान्य् अप्य् अविचारितवेदार्थो यथावद् अनुष्ठातुम् ईष्टे. न चाविदुषो ऽधिकारो ऽस्ति. वक्ष्यति हि -- न चाविद्वान् विहितो ऽस्तीति. तदवश्यम् अनुरुध्यापि स्मृतिं कियत्य् अप्य् अध्वनि गत्वा पुनस् तद्बाधो वक्तव्यः. तद् वरम् अधीतवेदत्वेन विचारयोग्यत्वान्माणवकस्याध्ययनानन्तरम्[१५४]आगते काले{१,४९} प्रथमोपनिपातिनो विरोधिनः स्नानस्यैव बाधनम्. अतो ऽनधीतवेदत्वेन यावन्नित्यनैमित्तिककर्मणो ऽनुष्ठानायोग्यः, तावद् अकुर्वन्न् अपि तानि न प्रत्यवैति. अधीतवेदतया योग्यो ऽकुर्वन् प्रत्यवेयात्. न चाविद्वान् कर्तुं शक्नोति. न चाविचारयन् जानातीत्यध्ययनानन्तरम्[१५५]एव धर्मजिज्ञासा युक्तेति. इदं चोत्तरवि[१५६]भवाद् उक्तम्. परमार्थतस् त्व् अध्ययनविध्यर्थसम्पादनाय प्रवृत्तो न प्राङ् मीमांसाश्रवणाद् विरन्तुम् अर्हतीत्यध्ययनविधिबलप्रभावित एवायम् अर्थः. न हि प्रधानम् अनङ्गम् अनुष्ठितं पर्यवस्यति. वक्ष्यति हि साङ्गं प्रधानम् ऐकशब्द्याद् इति
SK
__________NOTES__________
SK
[१५२] वदतः [१५३] तु (KHA) [१५४] म् उपग (KA) [१५५] रं कर्म [१५६] वै (KHA)
SK
एवं स्मृतिबाधम् उपपाद्यात्रैवाधिकरणम्[१५७]उदाहरति -- सो ऽयम् इति. इतिरिवार्थे. पाठक्रमस्येव श्रुतिक्रमस्यायथमर्थाद् बाधो ऽवगम्यत इत्य् अर्थः. उक्तं हि क्रमकोपाधिकरणे क्रमकोपो ऽर्थशब्दाभ्याम् -- (५.४.१) इति. अत्र हि अग्निहोत्रं जुहोति यवागूं पचतीत्य् उदाहृत्य विचारयिष्यते -- किं हुत्वा पक्तव्यम्, उत पक्त्वा होतव्यम् इति. अत्र[१५८]पाठप्रामा[१५९]ण्याद् हुत्वा पक्तव्यम् इति पूर्वपक्षित उक्तं पाठक्रमस्यार्थक्रमात् कोपो बाधः. अर्थवशेन ह्य् अत्र पाठक्रमो ऽतिक्रमितव्यः. यथापाठक्रमानुष्ठाने ह्य् अर्थो न संवर्तेत. होमार्थो हि पाकः. स होमाद् उत्तरम्[१६०]अनुष्ठितो ऽनर्थकः स्यात्. होमश् च हवनीयादृते न सिध्येत्. तस्माद् आदौ श्रपणं ततो होम इति. तद्वद् इहापि यद्य् अप्य् अध्ययनानन्तर्यरूपक्त्वाश्रुत्या स्नानस्य क्रमो ऽवगतः, तथाप्य् अध्ययनदृष्टार्थतासामर्थ्येन बाधितव्य इति. तत्परिग्रहे ऽध्ययनविध्यर्थ एव बाधितः स्यात्. श्रुतिक्रमो ऽप्य् अर्थानुसारेण[१६१]बाध्यत एव, अर्थार्थत्वात् सर्वस्येति क्रमकोपाधिकरणे टीकाकारेणोक्तम् इति.{१,५०}अधिकरणान्तरमत्रैवोदाहरति[१६२]- गुणप्रधानयोर् इति. वक्ष्यति -- अङ्गगुणविरोधे च तादर्थ्यात् (१२.२.२५) इति. अत्र च प्रधानभूतसुत्याकालानुरोधेनाङ्गभूतदीक्षणीयाकालबाधो वक्ष्यते, प्रधानार्थत्वाद् अङ्गानाम्. प्रधानविरोधे सत्यानर्थक्यात्. एवम् इहाप्य् अध्ययनस्नानयोः क्रममधीत्यस्नायाद् इति स्मृतिर् उपदिशति. क्रमश् च क्रमवताम् अङ्गम् इत्य्[१६३]अविवादं सर्ववादिनाम्.[१६४]तद् यद्य् एष क्रमो ऽनुरुध्येत, ततः प्रधानभूतं दृष्टार्थम् अध्ययनम् एव बाधितं भवेत्. न च गुणानुरोधेन प्रधानबाधो युक्त इति
SK
__________NOTES__________
SK
[१५७] णार्थम् उ [१५८] त [१५९] धान्याद् [१६०] रकालम् अ [१६१] रोधेन बाधितव्य ए (KA) [१६२] रिष्यति (KA) [१६३] ति स [१६४] नाम् अविवादसिद्धम्
SK
एवं तावत् स्मृतेर् अत्यन्तबाधो भणितः. इदानीं[१६५]विरोधानुसारित्वाद् बाध्यबाधकभावस्य यावन्मात्रम् एव विरुध्यते तद् बाधितव्यम्. गुरुकुल[१६६]वासपरित्यागमात्रं च धर्मजिज्ञासापरिपन्थि, तदायत्तत्वात्[१६७]तस्याः, न मधुमांसादिसेवेति न[१६८]ते बाधितव्या इत्य् आह -- स्नानेति
SK
__________NOTES__________
SK
[१६५] नीं तु वि [१६६] लप [१६७] त्वाद् धर्मज्ञानस्य न [१६८] न बा
SK
तस्मात् स्मृत्येकदेशबाधो ऽयं न समस्तस्मृतेर्[१६९]बाध इत्य् आह -- तस्माद् इति
SK
__________NOTES__________
SK
[१६९] ति
SK
नन्व् एवं परित्यक्ताग्नीन्धनादिब्रह्मचारिधर्मः स्नातको जात इति स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः इति विधिप्राप्तं मध्वादिसेवनवद् धर्मजिज्ञासायाम् अविरोधि यत् स्नानं तद् अपि क्रियताम्[१७०]अत आह -- गुरुगेहेति. सकलब्रह्मचारिधर्मनिवृत्तौ हि स्नातकशब्दः प्रयुक्तः, नाग्नीन्धनादिकतिपयधर्मनिवृत्तौ. अतो यावद् गुरुगेह[१७१]निवृत्तिर् मध्वादिसेवासमुदायस्यांशो न समाप्यते, तावत् स्नातक एव न भवतीति न स्नानम्{१,५१} अस्नानादिनियमनिवृत्तिः पर्यवस्यति. स्नानं न प्राप्नोतीत्यर्थः. सकलब्रह्मचारिधर्मनिवृत्तिवाची स्नातकशब्द इति
SK
__________NOTES__________
SK
[१७०] म् इत्य् आह [१७१] हाद् विनि (KHA)
SK
व्याख्याय तद् एव प्रयोगानुसारेणाह -- गुरुगेहाद् इति. यावद् धि गुरुगेहान् न निवर्तते न निष्क्रामति, तावत् स्नातको न कथ्यते. अतो न स्नातकधर्मं लभत इति. यद्य् एवं तर्हि मा स्नातु, दारपरिग्रहं किन् तु न करोति. उपात्तदारो ऽपि[१७२]गुरौ निवसन् धर्मं जिज्ञासत एव,[१७३]अत आह -- तद् इति. गुरुगेहान्निष्क्रान्तस्य कृतमन्त्राद्युपेतस्नानस्य तत्र स्नानात् परो दारसङ्ग्रहो विहितः स्नातकः सदृशीं भार्यां विन्देत इति. तत् कथम् अकृतस्नानस्य भवेद् इति
SK
__________NOTES__________
SK
[१७२] हि [१७३] वेत्य् अत
SK
अत्र भाष्यं वेदम् अधीत्य स्नायाद् गुरुकुलान् मा समावर्तिष्टेति. तदसङ्गतार्थम् इव लक्ष्यते. कथं हि वेदम् अधीत्य स्नायाद् गुरुकुलान् मा समावर्तिष्टेति. तद् विच्छिद्य योजयति -- व्याख्यायेति. पूर्वं हि न चेदं स्नानम् अदृष्टार्थम् इत्यादिना भाष्येण स्मृतिवाक्यं व्याख्याय पुनस् तद् एव कीर्तितम् अस्याः स्मृतेर् अयम् अर्थ इत्य् उक्तं भवति
SK
नन्व् आनन्तर्याद् गुरुकुलान् मा समावर्तिष्टेत्यनेनैकग्रन्थो ऽवगम्यते. किं तत्परित्यागे कारणम्[१७४]अत आह -- समावर्तिष्टेति. न ह्य् आनन्तर्यम् एव सम्बन्धे कारणम्. अपि तर्हि, योग्यतापि. इह च विरोधाद् आनन्तर्ये ऽप्य् असम्बन्ध इति
SK
__________NOTES__________
SK
[१७४] म् इत्य् अत
SK
अथापनीतं कथं व्याख्येयम् अत आह -- अथशब्देनेति. पूर्वं हि गुरुकुलवासावसानबाधनार्थो ऽथशब्द इति व्याख्यातं गुरुकुलान् मा{१,५२} समावर्तिष्ट कथं वेदवाक्यानि विचारयेद् इत्यादिना भाष्येण. न च तत्र हेतुर् उक्त इति स्मृतिदृष्टार्थताप्रसङ्गेन मनसि विपरिवर्तमानो ऽभिहितः. अथशब्दो ह्य् आनन्तर्यपरत्वे ऽदृष्टार्थः स्याद् इति तत्परिहाराय गुरुकुलान् मा समावर्तिष्टेत्य् एवंअपरो व्याख्या[१७५]यत इति. यद् वा गुरुकुलवासनिवृत्तिमात्रं बाध्यते न कृत्स्नस्मृत्यर्थ इति, तत्रायं हेतुर् इत्य् आह -- तन्मात्रस्येति
SK
__________NOTES__________
SK
[१७५] ख्यात (KHA)
SK
एतद् एव विवृणोति -- स्मृतिप्राप्तम् इति. इदानीम् अधीते वेदे ऽधीत्य स्नायाद् इति स्मृतिप्राप्तं मध्वादिसेवनं प्रतिषेधयन् सूत्रकारो ऽदृष्टार्थोपदेशी स्यात् तेषां धर्मजिज्ञासायाम् अविरोधात्. न च तद् युक्तम् इति
SK
यस् तु स्मृतेर् अविरोधं वदन्न् एवम् आह -- स्मृतिवशाद् अनन्तरं स्नात्वा गुरुगेहं प्रविश्य धर्मो विचारयिष्यते तन् न कश्चिद् विरोधः स्याद् इति, तं प्रत्याह -- निवृत्येति. निर्गत्य हि पुनः प्रवेशो ऽदृष्टार्थः स्याद् इति. पूर्वं चेदम् उद्भाष्यम् एव परिचोद्यान्यथा परिहृतम्. इदानीं भाष्या[१७६]नुसारेणादृष्टार्थतया परिह्रियते इत्य् अपौनरुक्त्यम्
SK
__________NOTES__________
SK
[१७६] ष्यकारानु (KA)
SK
ननु कथं प्रवेशो ऽदृष्टार्थः स्यात्, तस्य हि विचारो दृष्टम् एव प्रयोजनम् अत आह -- निर्गम इति. कृतार्थस्य निर्गमो निस्सरणं दृष्टार्थं स्यात्. इतरथादृष्टार्थम्. अतो निर्गत्यप्रवेशो ऽदृष्टार्थ इति वदता निवृत्तेर् अदृष्टार्थत्वम् उक्तं भवति
SK
अतश् शब्दम् इदानीम् अनुसन्धत्ते -- अथेति. यदैवाथशब्देन दृष्टार्थम्{१,५३}आनन्तर्यम् उपदिष्टं, तदैव क्रियामात्रानन्तर्यस्यादृष्टार्थत्वाद् वेदग्रहणं वेदार्थनिर्णये हेतुर् इत्य् उक्तम्[१७७]एवेति किम् अतश् शब्देनेति
SK
__________NOTES__________
SK
[१७७] क्तं भवतीति कि
SK
परिहरति -- योग्यत्वम् इति. आनन्तर्योपदेशाद् वेदाध्ययनेन धर्मज्ञाने योग्यो भवतीति ज्ञायते, न तु तद्धेतुकैव[१७८]धर्मजिज्ञासेति
SK
__________NOTES__________
SK
[१७८] का ध
SK
अतश् चैवंविधः पुरुषो धर्मज्ञाने[१७९]योग्य इत्य् एतावद् एवाथशब्देनोक्तं स्यात्, न हेतुविशेष इत्य् आह -- लक्षणम् इति. न च हेत्वन्तराभावात् पारिशेष्यसिद्धम् अध्ययनं शक्यं वक्तुम् इत्य् आह -- जिज्ञासाया इति
SK
__________NOTES__________
SK
[१७९] नयोग्यो भवति इ
SK
धर्मफलार्थित्वाचार्यकयशःप्रभृति जिज्ञासाया हेतुत्वेन सम्भवति. तद्धेतुत्वे च धर्मजिज्ञासायाः शूद्राधिकारो दोष इति परिहारान्तरम् आह -- अतश् शब्द इति. अथशब्दो ह्य् आनन्तर्यम् उपदिशन् यद् वेदाध्ययनानन्तर्यम् उपदिशतीत्युक्तं, तद् वक्ष्यमाणातश् शब्दप्रतिपाद्यहेतुत्वबलेन. इतरथा त्व् अर्थान्तरवचनो ऽयम् अथशब्दः सम्भाव्येतेति
SK
अन्यथा पौनरुक्त्यम् आह -- स्नानबाधस्येति. यद्य् अप्य् अथशब्देन वेदाध्ययनं धर्मजिज्ञासाया हेतुर् इति प्रतिपादितं, तथापि हेत्वन्तरवचनत्वाद् अतश्शब्दो न पुनरुक्तः. स्नानबाधस्य हेतुत्वम् अतश्शब्दो वदति.[१८०]स्नानबाधहेतुम् आविष्करोति -- योग्यस्येति. अधीतवेदो हि{१,५४} नित्यनैमित्तिकानुष्ठानयोग्यो[१८१]जातो यद्य्[१८२]अविद्वत्तया नानुतिष्ठेत्, प्रत्यवेयात्. अतो ऽधीतवेदत्वान् नावस्थातुं लभ्यते झटिति विद्वत्तायां यतितव्यम् इति
SK
__________NOTES__________
SK
[१८०] दतीति (KHA) [१८१] ग्यो भवति य (KA) [१८२] द्य् असाव् अवि
SK
अत्र भाष्यं धर्मं जिज्ञासितुम् इच्छेद् इति. तत्र सन्धातुलिङ्तुमुनाम् इच्छार्थत्वात् पौनरुक्त्यम् आशङ्क्य विषयभेदात् परिहरति -- सन्वाच्येति. सन्वाच्या तावदिच्छा आन्तरं समानपदोपात्तं ज्ञानम् एव कर्म व्या[१८३]प्नोति. तत्कर्मिकेति यावत्. तावता च भागेन सैव गम्यते, न लिङादेर् अर्थो विध्यादिः.[१८४]इषिस् तु यद्य् अपीच्छावचनः, तथापी[१८५]च्छान्तरवचनत्वाद् अपुनरुक्तः. तथा हि -[१८६]सन्वा[१८७]च्येच्छाया बाह्यः पदान्तरोपात्तो वा धर्मः कर्म, ज्ञानेच्छा वा, धर्मज्ञानेच्छाद्वयं वा. कर्म[१८८]भेदप्रकटनम् इच्छाभेदस्फुटीकरणार्थम्. लिङ्तुमुनोस् तु विधिसमानकर्तृकत्ववचनत्वात् स्पष्टो विषयभेद इत्य् अपुनरुक्ततेति. किं पुनर् अत्रासूत्रितद्वितीयेच्छोपादाने भाष्यकारस्य प्रयोजनं, धर्मं जिज्ञासेतेत्य् एवं हि वचनीयम् अत आह -- सूत्रितेच्छेति. एवं हि मन्यते -- यथा शिष्यो बालः प्रेषणायाम् अयोग्यत्वाद् धर्मज्ञाने प्रवर्तयितुं सूत्रकारेणाध्येषितो धर्मजिज्ञासेति वदता, तथा तद्गतिम् अनुविदधानेन भाष्यकारेण सूत्रितेच्छा कथं निर्वर्त्येतेति द्वितीयेच्छा असूत्रितोक्ता. अत इच्छोपदेशेनापि कर्तव्यतोपदिष्टा भवेत्, तत्पूर्वभावित्वाद् इच्छायाः. न चेच्छा नेष्यते. बुभुक्षावत्. तथा हि एको बुभुक्षमाणो भुङ्क्ते. अन्यस् तु मन्दानलत्वाद् अबुभुक्षुस् ताम् अपि कामयत एवेति || ११५-११७ ||
SK
__________NOTES__________
SK
[१८३] प्रा [१८४] दिर् इति [१८५] विषयभेदाद् अपि (KHA) [१८६] तद्वाप्ये [१८७] त्तो धर्मो ज्ञा [१८८] र्म. इच्छाकभम[?] (KA)
SK
{१,५५} तत्र धर्मजिज्ञासासमासपदं विगृह्णता भाष्यकारेण धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छेत्य् उक्तम्. तदाक्षिपति -- प्रकृत्येति. यत्र हि तादर्थ्ये चतुर्थीसमासो भवति, तत्र प्रकृत्या विकृतिः समस्यमाना दृष्टा. यथा यूपाय[१८९]दारु यूपदार्व् इति. अप्रकृतिविकारयोस् तु न समासः यथा रन्धनाय स्थाली, अवहननायोलूखलम् इति. तथा[१९०]प्रकृतिविकृतिग्रहणं कर्तव्यम् इति[१९१]तादर्थ्यसमासे वार्त्तिककारेणोक्तम्. न च सामर्थ्यप्रदर्शनार्थं तत्. अतो ऽप्रकृतिविकारयोर् अपि यत्र सामर्थ्यं तत्र समासो भवत्य् एव. अतो धर्मजिज्ञासापदे ऽपि सामर्थ्यस्य विद्यमानत्वाद् युक्तस् तादर्थ्यसमास इति वचनीयम्. सामर्थ्यस्यैव प्रकृतिविकारभावम् अन्तरेणानुपपत्तेः. विग्रहवाक्यार्थाभिधानशक्तिर् हि सामर्थ्यम्. न च यथा रन्धनाय स्थालीति श्रूयमाणा चतुर्थी बाह्यनिमित्त[१९२]भूताया अरन्धनप्रकृतेर् अपि स्थाल्यास् तादर्थ्यम् अभिद्योतयति तथा[१९३]रन्धनस्थालीति समासः, मन्दत्वात् तादर्थ्यस्य. प्रकृतेर् एव तु दार्वादेर् यूपादिविकृतिभावापत्तेर् व्यक्तं तादर्थ्यम् इति यूपाय दार्व् इति विगृह्य कथितं यूपदारुसमासाद् अपि सुज्ञानम्. अत एव समासविधौ तादर्थ्यग्रहणं प्रकृतिविकृतिगोचरं व्याख्यातं तत्रैव तादर्थ्यस्य स्प[१९४]ष्टत्वात्. आह च --
SK
__________NOTES__________
SK
[१८९] पदार्वादाव् इति [१९०] था तादर्थ्यसमासे प्र [१९१] ति वा [१९२] त्ताया (KHA) [१९३] रन्धनायस्था (KA) [१९४] स्फुटत्वा
SK
बाह्यस्य हि[१९५]निमित्तस्य तादर्थ्यं नैव तादृशम् |
SK
__________NOTES__________
SK
[१९५] च (KHA)
SK
यादृशं प्रकृतेः स्पष्टं विकारं प्रति दृश्यते ||
SK
इति. तथा च नाप्रकृतिविकृत्योस् तादर्थ्यसमासो दृष्टचरः. अश्वधासादिषु षष्ठीसमासाश्रयणात्. वैयाकरणाख्यायां तु सत्य् अपि समासे ऽलुग्विधानाद् विभक्तिः श्रूयते इति युक्तम् एव वृत्तिविग्रहयोर् ऐक्यार्थ्यम् असत्य् अपि प्रकृतिविकृतिभावे. धर्मजिज्ञासापदसमासस् तु विवादास्पदीभूत एव. तस्माद् असमासो ऽयम्
SK
{१,५६} एवम् आक्षिप्य समादधाति -- सा हीति. नायं चतुर्थीसमासः. किन् तु अश्वधासादिवत् षष्ठीसमास एवायम्. तथा हि सा हि तस्य ज्ञातुम् इच्छेति षष्ठ्यन्तेन तदा विगृह्णातीति. ननु धर्माय जिज्ञासेति विग्रहवचनं तत् कथं व्याख्येयम् अत आह - धर्मायेति. नेदं विग्रहवचनं, किन् तु षष्ठ्यर्थविशेषप्रदर्शनम् इति
SK
अथ चोदयति -- प्राप्नोतीति. तादर्थ्यरूपार्थविवक्षायां हि चतुर्थ्य् एव प्राप्नोति. सम्बन्धसामान्यविवक्षायां तु तादर्थ्यवचनं कथम् इति
SK
परिहरति -- सम्बन्धमात्रेति. सूत्रकारेण हि सम्बन्धसामान्यविवक्षाया धर्मजिज्ञासेति षष्ठीसमासः प्रयुक्तः. निर्विशेषसामान्यानुपपत्तेस् तु विशेषाकाङ्क्षायां भाष्यकारेणैव तस्य सामान्यस्य तादर्थ्यरूपविशेषनिष्ठता वर्ण्यते, तेनायम् अपि न दोष इति
SK
अत्रापरं धर्मजिज्ञासास्वरूपप्रदर्शनार्थं कान्यस्य साधनानि कानि साधनाभासानीति भाष्यम्. तत्र साधनाभासपदं व्याचष्टे -- साधनाभासतेति. पूर्वपक्षस्यार्थो धर्मस्य साधनाभासम् इति. कथं पुनः पूर्वपक्षस्यार्थः साधनाभासः, अत आह -- अन्यसाधनम् इति. अन्यस्य हि साधनम् अन्यस्य साधनवदवभासमानं साधनाभासं भवतीति
SK
एतद् एवाभिव्यनक्ति -- क्रत्वर्थम् इति. क्रत्वर्थं हि पर्णमय्यादि{१,५७}पुरुषार्थस्यापापश्लोकश्रवणादेर् उच्यमानं साधनाभासं भवति. पुरुषार्थं च गोदोहनादि क्रतोर् उच्यमानं तदाभासं भवतीति. अत्र भाष्यकारेण को धर्मः कथंलक्षणः इति चोदनासूत्रेण व्याख्यातम् इत्य् उक्त्वा कान्यस्य साधनानीत्यादि शेषलक्षणेन व्याख्यातम् इत्य् उक्तम्. तद् अयुक्तम् इव दृश्यते, शेषलक्षणशब्दो हि तृतीयाध्याये प्रसिद्धः. न च तत्र साधनादि सर्वं व्याख्यायते, अतः कथम् इत्य् आशङ्क्याह -- शेषलक्षणेति. नायं तृतीयाध्यायविवक्षया शेषलक्षणशब्दः प्रयुक्तः, किन् तु परिशिष्टसकलशास्त्रविवक्षया. अत एवैकवचनम् इति
SK
अत्र भाष्यकारेण शास्त्रारम्भम् आक्षिपतोक्तम् -- धर्मः प्रसिद्धो ऽप्रसिद्धो वा स्यात्. यदि प्रसिद्धः, न जिज्ञास्यः. अथाप्रसिद्धः, नतराम् इति. तत्राभाववचनत्वान्नञः को ऽयम् आतिशायनिकः प्रत्ययः. न हि निषेधस्य स्वगतो विशेषः कश्चिद् अस्तीत्य् आशङ्क्याह -- प्रसिद्ध इति. सत्यम्. नाभावस्य स्वगतो विशेषः, तथापि निषेध्यतन्त्रत्वाद् निषेधस्य तदतिशयात् सो ऽप्य् अतिशेते इति. तद् इह प्रसिद्धे ज्ञानेच्छामात्रस्यैवाभावः, न ज्ञानस्य अप्रसिद्धे तु न ज्ञानं न चेच्छेति द्वयनिषेधाद् अतिशयो युक्तः. अशक्यत्वान् नेष्यते न ज्ञायते चेत्यर्थ इति
SK
अत्र परिहारभाष्यं धर्मं प्रति विप्रतिपन्ना बहुविदः. स हि निःश्रेयसेन पुरुषं संयुनक्तीति, तद् व्याचष्टे -- जिज्ञास्य इति. सन्दिग्धस्य हि प्रयोजनवतो निर्णयाय मतिमन्तो यतन्ते. तथा च धर्मः. तस्माद् अयम् अपि जिज्ञास्यत इति
SK
कीदृशः पुनर्धर्मे संशयः किन्निमित्तो वा, अत आह -- स्वरूपादिष्व् इति. पूर्वं तावद् धर्मस्य स्वरूपादिषु मध्ये प्रमाणस्वरूपाभ्यां द्वेधा{१,५८} विप्रतिपद्यते. विप्रतिपत्तिः क्रियते इति भावे[१९६]प्रत्ययः. वादिविप्रतिपत्तिश् च संशये निमित्तम् इति नैयायिकाः. तस्माद् एष संशयो भवति किं खलु धर्मे प्रमाणं, किंस्विद् योगिप्रत्यक्षम् उत चोदनेति. प्रमाणसंशयाद् एव तु स्वरूपसंशयः, किं यागादिर् धर्म[१९७]उत चैत्यवन्दनादीति. तद् अत्राद्यस्याध्यायस्य प्रथमपादे निर्णयः कार्य इत्य् आह -- पादेनेति. अत्र हि सम्भावितेतरप्रमाणनिषेधेन सम्भाविताप्रामाण्यनिषे[१९८]धेन च प्रामाण्यम् उपपादयिष्यते. तदुपपादनाच् च स्वरूपोपपादनम् अपि कृतं भवति. त्रिपाद्यां तु कथंलक्षण इत्य् अमुना प्रतिज्ञातः प्रमाणप्रकारो निरूप्यते. प्रामाण्यं त्व् इहैवोपपादितम्. अत एव पादावसाने इति प्रमाणत्वम् इदं प्रसिद्धम् इति वदति. अर्थवादाधिकरणे च सिद्धप्रमाण[१९९]भावस्य इति, प्रकारस्य तु तद्वतः प्रमाणाद् अनतिभेदात् कृत्स्नो ऽध्यायः प्रमाणलक्षणम् इत्य् आख्यायते इति
SK
__________NOTES__________
SK
[१९६] रूपम्. वा [१९७] आहोस्वित् चै [१९८] राकरणेन [१९९] णस्येति
SK
एवमाद्यपादप्रयोजनमुक्त्वोपरितनतन्त्रप्रयोजनम् आह -- स्थित इति द्वयेन. अज्ञानाम् एकमार्ग[२००]दृश्वनां चासंशयाद् बहुविदां वाक्यार्थनिर्णये संशयान् न मतिर् उपजायते. प्रथमं तावद् विध्यर्थवादमन्त्रनाम्नाम् अर्थे प्रयोजने संशयः स्तुत्याद्युपयोगप्र[२०१]तिपादनेनार्थवादाधिकरणाद्यैर् अपनेष्यते. पुनश् च द्वितीये यजति ददाति जुहोतीत्यादिनां चार्थभेदाभावाद् भेदसंशयः शब्दान्तराधिकरणादिभिर् इत्य् एषा दिक्. अतः सन्दिग्धप्रयोजनवत्त्वात्[२०२]परम् अपि शास्त्रं प्रणेतव्यम् इति
SK
__________NOTES__________
SK
[२००] र्गिणां चा [२०१] प्रदर्शनेना [२०२] त्वाद् अप (KHA)
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
प्रथमसूत्रं समाप्तम् ||०२चोदनासूत्र
SK
{१,५९} चोदनालक्षणो ऽर्थो धर्मः इति शास्त्रारम्भसूत्रम्. तद् व्याचष्टे -- धर्म इति. अयम् अभिप्रायः -- प्रथमसूत्रे हि विशेष[२०३]धर्मजिज्ञासा प्रतिज्ञाता, तदभिप्रायेण को धर्म इति पृष्टम्. विशेषश् च प्रमाणविशेषात् सिध्यति. पाषण्डागमे हि प्रमाणे चैत्यवन्दनादयः क्रियाविशेषा धर्मा भवन्ति. वेदागमे तु यागादयः. तद् इह सामान्यतः सिद्धधर्मोद्देशेन प्रमाणविशेषश् चोदना विधीयते. ततश् च धर्मविशेषसिद्धिः. यस् तु सामान्यात्मा धर्मस्य प्रीतिसाधनत्वं, सो ऽविवादसिद्ध एव सर्ववादिनाम्. न हीह केचिद् विवदन्ते यः प्रीतिसाधनं धर्म इति. तथा च नृगुणवादिनो यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः इत्य् आहुः. शुभा चित्तवासनेति सौगताः. पुण्याः पुद्गला इत्य् आर्हताः. सर्वे चैते प्रीतिसाधनतयैव तैर् धर्मा इष्यन्ते. अत एव चास्यां वचनव्यक्ताव् अर्थशब्दो ऽनुवाद इति वक्ष्यति लभ्यते ऽर्थानुवादेन इति. एषैव चात्र वचनव्यक्तिर् वार्त्तिककारस्याभिमता. इतरथा अर्थशब्दस्य विध्यनुवादयोर् असम्भवः इति वक्ष्यति.[२०४]ननु च स्वरूपविशेषे ऽपेक्षिते प्रमाणविशेष[२०५]विधानम् असङ्गतम्, अत आह -- स्वरूपादेर् इति. धर्मपदार्थस्येदं प्रमाणम् इत्युक्ते प्रमाणाधीनत्वात् प्रमेयसिद्धेर् अर्थाद् इदम् उक्तं भवति यच्चोदनाप्रवेदितं तद् धर्मस्वरूपम् इति. आदिशब्देन तदाभासम् उपादत्त इति. यस् तु विवक्षिततिरोधानमुक्तम् इति मन्यते, तं प्रत्याह -- स्वरूपम् इति. सामान्यतः सिद्धधर्मस्य स्वरूपविशेष इह सूत्र्यते इति
SK
__________NOTES__________
SK
[२०३] षजि (KA) [२०४] तीति [२०५] षाभिधान (KHA)
SK
नन्व् एवम् अन्यतरविधाव् अन्यतरस्याश्रौतत्वात् को धर्मः कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातम् इति भाष्यं नोपपद्यते, अत आह -- द्वयम् इति. एकत्र श्रुत्युपात्ते अपरम् अर्थाद् व्याख्यातं भवतीति{१,६०} प्रमाणविधाव् अर्थात् स्वरूपसिद्धिर् उक्ता. स्वरूपविधाव् अपि प्रमाणम् अर्थात् सिध्यतीत्य् आह -- स्वरूप इति. यश् चोदनालक्षणः स धर्म इत्युक्ते ऽर्थाच् चोदना धर्मे प्रमाणम् इत्य् उक्तं भवति. न ह्य् अप्रमाणकं वस्तु स्वरूपकॢ[२०६]प्त्यै प्रभवतीति
SK
__________NOTES__________
SK
[२०६] सिद्ध्यै प्र
SK
अत्र भाष्यकारेण चोदनेति क्रियायाः प्रवर्तकं वचनम्[२०७]इति चोदनापदार्थो व्याख्यातः. तद् अयुक्तं, प्रवर्तकस्य चोदनात्वात् प्रत्ययस्य लिङादेस् तत्त्वाद् अत आह -- किम् आदीति. अयम् अभिप्रायः -- सत्यं प्रत्ययमात्रस्य प्रवर्तनात्मको विधिर् अर्थः. न तु तावन्मात्रस्य प्रवर्तकत्वं, स्वव्यापरे हि पुरुषः कर्तृत्वेन नियुज्यते. अंशत्रयात्मिका च भावना तद्व्यापारः. अतः समानप्रत्ययोपादानश्रुतिबलप्रतिलब्धभावनापरिरम्भो विधिरातदीयनिखिलविशेष[२०८]णलाभाद् न नरं प्रवर्तयितुम् उत्सहते. सकलतद्विशेषणलाभश् च नर्ते वाक्यात् सिध्यतीति युक्तमुक्तं प्रवर्तकं वाक्यं चोदनेति.[२०९]एवं चावयवार्थः किम् इति साध्याकाङ्क्षां निर्दिश्यादिशब्देन साधनेतिकर्तव्यताकाङ्क्षे निर्दिशति. एतद् उक्तं भवति -- किं केन कथम् इत्य् अनेनात्मनापेक्षितैः साध्यादिभिः पूर्णः प्रत्ययः प्रवृत्तिपर्यन्ते विधौ समर्थः, तद्रहितस्य भावस्यानुष्ठानायोग्यत्वात्. तत्पूरणं चेदम् अनेनेत्थं कुर्याद् इति वाक्याद् इति वाक्यम् एव चोदनेति
SK
__________NOTES__________
SK
[२०७] म् आहुर् इति [२०८] षसम्पदो न (KA) [२०९] ष चा
SK
अत्र भाष्यकारेण चोदनायास् तदितरेषां च प्रमाणानां धर्मे प्रामाण्या[२१०]प्रामाण्यप्रदर्शनार्थम् उक्तं चोदना हि भूतम् इत्यादि. तद् अयुक्तं, सूत्रकारेण सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणत्वाद् भाष्यकारस्यापि तत्रैव तद्विवरणम् उचितम्.[२११]अतः किम् अत्राक्षेत्रे क्लेशेनात आह -- चोदनेति. अयम् अभिप्रायः -- चोदनालक्षण इति समासपदम्. समासश् च सति सामर्थ्ये भवति. विशेषणविशेष्यार्थवचनं च पदानां सामर्थ्यम्. न च व्यवच्छेदादृते{१,६१}पदानां विशेषणविशेष्यभावः. अतश् चोदनालक्षणत्वयोर् इतरेतरव्यवच्छेदात् चोदनैव प्रमाणं, प्रमाणम् एव चोदनेत्यवधारणद्वयम् अत्र विवक्षितम्. तच् चोपपत्तिसाकाङ्क्षम् इति मीमांसागोत्रानुसारी भाष्यकारो ऽनुपपत्तिकार्यं वचनं क्षणम् अप्य् अक्ष[२१२]ममाणः प्रतिज्ञासूत्र एव सम्भावनाप्रसिद्ध्यर्थम् अवधारणद्वये युक्तिलेशम् अस्पृशद् इति
SK
__________NOTES__________
SK
[२१०] ण्यप्र [२११] त (KHA) [२१२] सहमानः प्र
SK
तत्र प्रमाणम् एतेत्य् अवधारणायां तावद् युक्तिलेशम् आह -- सम्भाव्यत इति. एवंविधेष्व् अतीन्द्रियेष्व् अप्य् अर्थेषु शब्दस्य प्रामाण्यं सम्भाव्यते. अतः प्रतिज्ञायां सम्भावितं प्रामाण्यं हेतुनोपपादयिष्यत इति. चोदनैवेत्यवधारणे युक्तिलेशं दर्शयति -- इन्द्रियादेर् इति. वक्ष्यति हि सत्सूत्रेणेन्द्रियादेर् असामर्थ्यं तदनागतावेक्षणेन[२१३]भाष्यकृतेह कथितम् इति
SK
__________NOTES__________
SK
[२१३] न क
SK
कथं पुनः शब्दस्य प्रामाण्यं सम्भाव्यते, अत आह -- अत्यन्तेति. अर्थगोचरज्ञानजननशक्तिर् हि प्रमाणानां[२१४]प्रामाण्यम्. सा चैवं नाम शब्दानां व्यापिनी यदत्यन्तासत्य् अपि गगनकुसुमसंसर्गादौ धियम् उपजनयतीति युक्ता तेषु प्रामाण्यसम्भावनेति. नन्व् एवं तद्वद् एवाप्रमाण्यम् आपद्यत इति प्रामाण्यं साधयतो ऽप्रामाण्यम् आपतितम्, अत आह -- तेनेति. अयम् अभिप्रायः -- उत्सर्गो हि ज्ञानजननेन[२१५]प्रामाण्यम्. तत् पौरुषेयेषु शब्देषु वन्ध्यासुतो यातीत्यादिषु. तद् दोषाद् अपोद्येतापि. अपौरुषेये तु[२१६]शब्दे पुन्दोषाभावात् स्वयमदुष्टत्वाच् च प्रमाणतैवानपोदिता सेत्स्यातीति
SK
__________NOTES__________
SK
[२१४] प्रमाणत्वं सा (KHA) [२१५] ने प्रा [२१६] तु पु (KA)
SK
अत्र चोदना हि भूतम् इत्यादिभाष्ये[२१७]चोदनापदेन शब्दमात्रं विवक्षितम् इत्य् आह -- चोदनेति. कारणम् आह -- न हीति. विधायको हि{१,६२}शब्दो मुख्यश् चोदनापदार्थः. न चासौ भूतादिविषयः सम्भवतीति शब्दसामान्यं लक्षयतीति
SK
__________NOTES__________
SK
[२१७] ष्यं तद् इह चो (KHA)
SK
इतश् चैतद् एवम् इत्य् आह -- इन्द्रियेति. समानजातीययोर् एव स्पर्धार्हत्वात् शब्दमात्रम् एव प्रत्यक्षादिसामान्येन स्पर्धाम् अर्हति, न तद्विशेषः. भवति हि सम्प्रधारणा किं लौहमानीयताम् उत दारवम् इति. न तु किं लौहम् उत खादिरम् इति
SK
अत्र भाष्यकारेण लक्ष्यते येन तल्लक्षणम् इति लक्षणपदार्थो विवृतः. तद् इदं निमित्ताभिप्रायं प्रमाणाभिप्रायं वेत्य् आह -- निमित्तमात्रम् इति. प्रमाणं वेत्य् अत्रापि पक्षे शिष्यबुद्धिप्रथिम्ने प्रमाणविकल्पान् आह -- प्रमाणं वेति. प्रमाणं वेत्य् अत्रापि पक्ष इत्य् अर्थः. प्रमाणं हि कारकविशेषः. विवक्षातश् च कारकप्रवृत्तिः. अतो यद् एव शब्दादीनां वाक्यार्थज्ञा[२१८]नावसानानां मध्ये प्रकृष्टसाधक[२१९]तया विवक्ष्यते तत् प्रमाणम् इति. प्रमाणप्रसङ्गेन फलम् अपि दर्शयति -- पूर्वेषाम् इति. शब्दादीनां प्रामाण्ये वाक्यार्थज्ञानं फलम्. आन्तरालिकं तु करणव्यापारतया प्रतिपादयितव्यम्. वाक्यार्थज्ञाने तु प्रमाणे हानादिबुद्धिः फलम् इति विवेचनीयम् इति
SK
__________NOTES__________
SK
[२१८] ज्ञानानां (KHA) [२१९] न
SK
ननु प्रमाणपक्षे ज्ञानम् अपि लक्षणपदार्थः. तद् धि प्रमाणम्.[२२०]अतः कथं शब्दविशेषवाचिना चोदनापदेन सामानाधिकरण्यम् अत आह -- ज्ञान {१,६३}इति. अस्यार्थः - न[२२१]तावद् ज्ञानम् एव प्रमाणम् इति नियमः. विवक्षावशेन हि शब्दादीनां प्रामाण्यम् उक्तम् एव. अपि च यदि ज्ञानम् एव प्रमाणं तद्विवक्षया च लक्षणशब्दः प्रयुक्तः, तथापि चोदनाशब्देन तद्गोचरं ज्ञानं तत्कार्यं लक्ष्यते यदि तद्विवक्षया लक्षणशब्दप्रयोगः. अथ तु पदार्थज्ञानादिविवक्षया, तदा शब्दकार्यस्य[२२२]ज्ञानस्य यद् अपरं[२२३]कार्यं पदार्थज्ञानादि तच् चोदनापदेन लक्ष्यते. अस्ति हि कार्यकार्यस्यापि परम्परया सम्बन्धो लक्षणाबीजम् इति
SK
__________NOTES__________ [२२०] णं तत् क (KA) [२२१] नावश्यज्ञा [२२२] स्य य [२२३] परं प
SK
निमित्तार्थे तु लक्षणपदे शब्दे च प्रमाणे मुख्यार्थयोर् एव द्वयोर् अपि सामानाधिकरण्यम् इत्य् आह -- निमित्तेति
SK
अत्र चोदनैवेत्यवधारणे धर्मस्येन्द्रियादिगोचरत्वम् अपाकृतम्. तद् अयुक्तं, द्रव्यादिर् हि धर्मः. स चैन्द्रियिक एवेति प्रत्यक्षसूत्रे वक्ष्यते, अत आह -- द्रव्येति. अयम् अर्थः -- सत्यं द्रव्यादयो धर्माः. न तु स्वरूपेण किन् तु श्रेयस्साधन[२२४]तारूपेण. अतो न तदैन्द्रियिकम् इति न धर्मस्येन्द्रियगोचरत्वापत्तिः. आदिशब्देनाकृतेर् उपादानम् इति
SK
__________NOTES__________
SK
[२२४] नरू
SK
केन तर्हि रूपेणामी धर्माः यद् वेदवेद्यम् इति, तद् दर्शयति -- श्रेय इति त्वमन्तेन. श्रेयस्साधन[२२५]शक्त्यात्मना हि द्रव्यादयो धर्माः. न तद्रूपम् अमीषां वेदादृते शक्यते ऽवगन्तुम्. न हि गोदोहनेन पशुकामस्य प्रणयेत् इत्यादिश्रुतिम् अन्तरेण गोदोहनादयः श्रेयस्साधना इति प्रमाणान्तरं प्रक्रमत इति. प्रकृतम् अनैन्द्रियिकत्वं धर्मस्योपसंहरति तस्माद् इति
SK
__________NOTES__________
SK
[२२५] नत्वात्म (KHA)
SK
{१,६७} अत्र भाष्यकारेण नान्यत् किञ् च नेन्द्रियम् इतीन्द्रियमात्रम् अशक्तं धर्म इत्य् उक्तम्. न चैतावता चोदनैवेत्यवधारणोपपत्तिः. अनुमानादिशाक्तिप्रसक्तेर् अनिवारितत्वात्, अत आह -- प्रदर्शनार्थम् इति. यथा हि सूत्रकारेण सर्वप्रमाणानिमित्तत्वे विवक्षिते तत्प्रत्यक्षम् अनिमित्तम् इति प्रत्यक्षमात्रस्यानिमित्तत्वम् उक्तं, तथा तच्छीलम् अनुविदधानेन भाष्यका[२२६]रेण प्रदर्शनार्थम् इन्द्रियमात्राशक्तिर् उपवर्णितेति. नान्यत् किञ्चेति वा प्रमाणसामान्यनिराकरणाय भाष्यं छेत्तव्यम् इत्य् आह -- नान्यद् इति. कथं पूर्वस्माद् विच्छिन्नं नेन्द्रियम् इति व्याख्येयम् अत आह -- तद् इति. इन्द्रियपूर्वकं हि सर्वम्[२२७]इतरदिन्द्रियाशक्तावशक्तम् इति भावः. नान्यद् इति वा सर्वार्थं छित्त्वा किञ्चेति हेतुं पृष्ट्वा नेन्द्रियम् इति पूर्ववद्धेतुतया वक्तव्यम् इत्य् आह -- किञ्चेति
SK
__________NOTES__________
SK
[२२६] कृता प्र [२२७] म् इन्द्रि (KHA)
SK
नन्व् अनुमानम् एवञ्जातीयकेषु समर्थम्, अनुमीयते खल्व् अङ्गारेभ्यो भूतो ऽग्नीन्धनसंयोगः. तथाचेन्धनाग्निसंयोगाद् भविष्यदङ्गारावगमः. विप्रकृष्टश् च धूमाद् अग्निः. कुड्यादिव्यवहितश् च स्वरेण पुत्रः. गन्धाच् च सूक्ष्मद्रव्यावगमः. अतः कथं सर्वनिषेधसिद्धिर् अत आह -- यद्य् अपीति द्वयेन. सत्यं भूतादाव् अनुमानं समर्थं, न तु तद् विना सम्बन्धबोधम् उभवति. सम्बन्धश् च[२२८] क्वचित् सामान्यतो ऽवगम्यते, यथाग्निसामान्येन धूमसामान्यस्य.[६५]क्वचिद्विशेषतः, यथा रोहिणीकृत्तिकयोः. न च द्विधापि किञ्चिल्लिङ्गं नित्यातीन्द्रियेण धर्मेण सम्बद्धम् उपलब्धं, येनानुमानं भवेद् इति
SK
__________NOTES__________
SK
[२२८] न्धबोधश् च (KA)
SK
अत्र चोदयति -- नन्व् इति. शब्दो ऽपि नागृहीतसम्बन्धः प्रतिपादकः, बालानाम् अनवगतेः. अतः कथं शब्दमयी चोदना धर्मे प्रमाणं भविष्यतीति. परिहरति -- पदम् इति. ततः किम् अत आह -- न त्व् इति. [२२९]कस् तर्ह्य् असौ अत आह -- वाक्यार्थ इति
SK
__________NOTES__________
SK
[२२९] को ऽसौ
SK
ननु च न वाक्यम् अपि सकलवर्णपदोपसंहारातिक्र[२३०]मेण किञ्चिदतीन्द्रियं तत्त्वम्, अपि तर्हि संहत्यार्थम् अभिदधति पदान्य् एव. अतः कथम् अगृहीतसम्बन्धं वाक्यं वाक्यार्थस्य वाचकं भविष्यतीति, अत आह -- वाक्यस्येति. स्याद् अयं दोषो यदि वाक्यं वाचकम् इत्य् अभ्युपेयते, न त्व् एतद् एवम् इति. कुतस् तर्हि वाक्यार्थावगतिः, अत आह -- पदार्थानाम् इति. ते वा कथम् अगृहीतसम्बन्धास् तं गमयिष्यन्ति. न ह्य् अन्यस्य दर्शने ऽन्यकल्पना युक्ता, अतिप्रसङ्गात्. अन्यम् अपि तत्प्रतिबद्धं[२३१]विद्वान् अन्यम् अनुमिनोति इति प्रतिबन्धबलाद् उचितम् अत आह -- सम्बन्धेति. सम्बन्धदर्शननिरपेक्षाणाम् एव पदार्थानां वाक्यार्थे ज्ञातव्ये तद्भावभावेन तद्भूताधिकरणे हेतुत्वम् उपपादयिष्यत इति
SK
__________NOTES__________
SK
[२३०] रेकेण [२३१] न्धं वि
SK
अत्रापरं भाष्यं, नन्व् अतथाभूतम् अप्य् अर्थं ब्रूयाच् चोदना, यथा यत् किञ्चन लौकिकं वचनं नद्यास् तीरे फलानि सन्तीत्य् एवमादि. तद् अयुक्तम्. कथं हि यादृशतादृश[२३२]रथ्यापुरुषवाक्यम् उपमानं चोदनायाः. अपौरुषेयी हि सा. पुरुषाश्रया हि शब्दे दोषाशङ्का. अतः कथम् अतथाभावशङ्का.
SK
__________NOTES__________
SK
[२३२] शानुगुणर (KHA)
SK
अत्र केचिद् आहुः -- शब्दशक्तिनिरूपणद्वारेण प्रतिज्ञाक्षेपार्थम् इदं भाष्यम्. अत्र किल चोदनासूत्रेण कार्यरूपो वेदार्थ इति प्रतिज्ञातं[६६]तद् अनेनाक्षिप्यते. अर्थासंस्पर्शिनि हि शब्दे केयम् अर्थविशेषप्रतिज्ञा चोदनानाम्. सर्वे शब्दाः खलु न स्वभावतो ऽर्थं स्पृशन्ति. यद् एव हि यादृशम् एकदैकेन प्रयुक्तं वाक्यम् अर्थवद् आसीत्, तद् एव हि तादृशम् अपगतसकलकलाध्मातादिदोषम् अन्यदा भवति वितथम्. न चैतद् अवैलक्षण्ये युक्तम्. यदाहुः -- लक्षणयुक्तस्य बाधासम्भवे तल्लक्षणम् एव बाधितं भवतीति. न चार्थवतां[२३३]प्रत्यक्षादीनाम् एष धर्मो दृश्यते. न हि तिमिरादिदोषरहितं चक्षुः सम्यगसम्यक् च ज्ञानं जनयतीति दृष्टपूर्वम्. अपि च स्वाभाविके ऽर्थसम्बन्धे कथम् असत्य् अर्थे ज्ञानं जनयति.[२३४]तथा हि बाधितो ऽपि संसर्गः शतकृत्वः शब्दाद् अवगम्यते अङ्गुल्यग्रे हस्तियूथशतम् इति. न चेदम् अन्यत्र दृष्टम्. न हि चक्षुषा शुक्तौ रजतम् इति वेदितायां नेदं रजतम् इति बाधकोदये चक्षुर् एव पुनारजतम् इति बोधयति. शब्द एव तु निरङ्कुशः स्वगोचरम् अन्यगोचरं वा प्रमाणान्तरेण बाधितम् अपि बोधयतीति. नूनम् असमीक्षितपारमार्थिकार्थसद्भावो बोधयन्न् अप्य् अर्थम् अनर्थक इति[२३५]प्रतिजानीमहे. तद् इदम् उक्तम् - अर्था[२३६]संस्पर्शि यत् प्रमाणं तस्य बाधकोत्पत्तौ सत्यां न पुनः प्रतिपक्षविज्ञानं तन्निमित्तम् एवोपलभ्यते. शब्दे पुनः स्पष्टे ऽपि बाधकज्ञाने पुनः शब्दनिमित्तम् एव प्रतिपक्षविज्ञानम् उदेति अङ्गुल्यग्रे हस्तियूथशतम् इति. कथं तर्हि शब्दाद् अर्थावगतिः, सामयिकीति वदन्ति. यदाहुः --
SK
__________NOTES__________
SK
[२३३] ता [२३४] तीति बा (KHA) [२३५] ति जा [२३६] र्थ
SK
अना[२३७]गमश् च सो ऽभ्यासः समयः कैश्चिद् इष्यते |
SK
__________NOTES__________
SK
[२३७] भ्या (KA)
SK
अभ्यासात् प्रतिभाहेतुः सर्वशब्दः समासतः ||
SK
इति. इमं चाक्षेपम् अपनेतुम् इदं भाष्यं विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं च इत्यादि. तस्य चायम् अर्थः -- अर्थम् अवबोधयति अर्थासंस्पर्शि चेति चित्रम्. न हि प्रत्याय्यप्रत्यायकभावाद् अन्यः शब्दार्थयोर् अस्ति सम्बन्धः. स चेदम् अर्थम् अवबोधयति, कथम् अर्थासंस्पर्शी स्यात्. स्याद् एतत्. बाधकज्ञानसमधिगम्यम् अर्थासंस्पर्शित्वम्. उक्तं चेदं सत्य् अपि बाधकज्ञाने लौकिकेषु वाक्येषु शब्दाद् एव ज्ञानम् उत्पद्यते अङ्गुल्यादिवाक्येभ्य इति. मैवम्. अनभिज्ञो भवान् बाध्यबाधकभावस्य. अङ्गुल्यग्रे हस्तियूथशतम् इति प्रमाणान्तरदर्शनम् अत्र बाधितं, न पुनर्हस्तियूथशतम् इति. प्रमाणान्तरदृष्टं[६७]ह्य् अर्थं परस्मै प्रतिपादयितुं पुरुषाः प्रयुञ्जते वाक्यानि. ततश् च प्रमाणान्तरेणायम् अनेन दृष्ट इत्य् एतावच् च शब्दाद् अवगम्यते. अतो ऽत्र प्रमाणान्तरेण तस्यार्थस्य यद् दर्शनं तद् एव बाधितं भवति. हस्तियूथे तु शब्दो न प्रमाणम् इति तच्छब्दाद् अप्रसक्तम् एवेति न तद् बाध्यते. कथं तर्हि हस्तियूथसंसर्गावगमः. पदानां सन्निधानदोषात् पदार्थविवेकाग्रहणनिबन्धनो ऽयं भ्रमः. न पुनराभिधानिकः [?]संसर्गः. योग्यता हि[२३८]निबन्धनम् अन्विताभिधाने ऽभिहितान्वये वा. न चाङ्गुल्यग्रस्य करिधारणयोग्यता सम्भवति. तस्मान् नार्थासंस्पर्शी शब्द इति सूक्तम् अर्थविशेषप्रतिज्ञानं चोदनालक्षणो ऽर्थो धर्म इति.
SK
__________NOTES__________
SK
[२३८] हि तन्निब (KA)
SK
इमौ त्वाक्षेपपरिहारौ न मृष्यामहे. तत्र यत् तावदुक्तं कार्यरूपो वेदार्थ इति चोदनासूत्रेण प्रतिज्ञातम् इति, तद् अयुक्तं, भाष्यविरोधात्. भाष्यकारो हि को धर्मः कथंलक्षण इत्य् एकेनैव सूत्रेण[२३९]व्याख्यातम् इत्य् उक्त्वा सूत्रम् अवतारयति. तत्प्रमाणस्वरूपयोर् एकं श्रौतम् अन्यदार्थम् इत्य् एव वक्तुं युक्तम्. उक्तं च तद् वार्त्तिककृता कार्यार्थताप्रतिज्ञानं पुनर् अशाबरम् अजैमिनीयं चेति. न हि चोदनासूत्रे तादृशः पदार्थानाम् अन्वयो दृश्यते. न च पदार्थान्वयनिरपेक्षो वाक्यार्थो युक्तः. कथं च प्रमाण[२४०]लक्षणे कार्यार्थताप्रतिज्ञानं सङ्गच्छते. ननु च प्रामाण्यम् एव कार्यार्थतां विना न सम्भवतीति प्रमाणलक्षणानुगुणैव कार्यार्थताप्रतिज्ञा. न ह्य् अकार्यार्थं वचः प्रामाण्यम् अर्हति. अनपेक्षालक्षणं हि तत्. न च सिद्धार्थं वचनम् अनपेक्षं भवति. तस्य हि साधकबाधकयोर् अन्यतरोपनिपातः सम्भवति. तत्र साधकसम्भवे ऽनुवादत्वम्, इतरत्र बाधितविषयत्वाद् अप्रमाणत्वम्. अत एव चापौरुषेयत्वम् अपि वेदवाक्यानाम्. प्रमाणान्तरप्रतिपन्नविषयता हि पौरुषेयता, न पुनः पदवर्णादिकार्यता. न चातीन्द्रियम् अर्थं पुरुषाः शक्नुवन्त्य् अवगन्तुम्. अतः कथम् अतीन्द्रियार्थान् शब्दान् निबन्धीयुर् इति प्रयोजनवदर्थविशेषप्रतिज्ञानम् इति.
SK
__________NOTES__________ [२३९] ण वक्ष्यत इत्य् उ [२४०] णज्ञानल (KHA)
SK
अत्र वदामः -- यत् तावत् सिद्धार्थत्वाद् अनुवादत्वम् इति, तद् अयुक्तम्. यदि प्रमाणान्तरसिद्धो ऽयम् अर्थ इति सिद्धम् अर्थं बोधयति, भवतु तत् सापेक्षत्वाद् अप्रमाणम्. भूतार्थम् अपि तु यद् ज्ञानान्तरागोचरतया स्वगोचरम्{१,६८}अवगमयति, न तत् सापेक्षम्. अथ मतं परिनिष्पन्नविषयाणि खलु प्रत्यक्षादीनि, तानि तादृशविषयविशेषे सम्भवन्तीति प्रमाणम् अनुवादीकुर्वन्ति इति. तन् न. न हि प्रमाणान्तरसम्भावनया प्रमाणम् अनुवादो भवति, अतिप्रसङ्गात्. दूरस्थो हि वह्निरनुमानाद् अवगतः शक्य आसीदता प्रत्यक्षयितुम् इति न तस्यानुवादत्वम् आपद्यते. यत् तु बाधितविषयत्वाद् अप्रमाणत्वम् इति, तद् अस्तु यदा[२४१]तु नैतद् एवम् इति विपर्ययः. अबाधितार्थं तु सिद्धार्थगोचरम् अपि किम् अप्रमाणं भविष्यति. तद् अपि बाधकसम्भावनयाप्रमाणम् इति चेद्, अस्तु तावत् पौरुषेयेषु. अपौरुषेयं तु सिद्धार्थम् अपि कथं बाध्यतया सम्भाव्येत. न ह्य् अदुष्टकारणजं ज्ञानं बाध्यते. शब्दे च न स्वाभाविका दोषाः. पुरुषो ह्य् अयथार्थज्ञानानुरोधेन शब्दं दूषयति. ननु सिद्धार्थम् अपौरुषेयम् इत्य् एवं दुर्भणम् इत्य् उक्तम्. किम् इदानीम् अतीन्द्रियार्थत्वम् अपौरुषेयत्वम्. हन्तैवं सुरभि गगनकुसुमम् इत्य् अपि वाक्यम् अपौरुषेयम् आपद्येत. तस्यापि न केनचिद् इन्द्रियेणार्थो ऽवगम्यते. स्याद् एतत्. असदर्थम् एवेदं वाक्यं, सदर्थं चातीन्द्रियार्थम् अपौरुषेयम् इति. वैदिकं वाक्यं कार्यार्थं कथं सदर्थं, तस्यापि न प्रमाणान्तरेणार्थो ऽनुभूयते. मानुभावि. न तु प्रतिक्षिप्यते, शब्दाद् अवगम्यते च. गगनकुसुमवाक्यं तु प्रमाणान्तरप्रतिक्षिप्तार्थम् एव, नास्तीति हि तदर्थम् अवगमयति. केन पुनः प्रमाणान्तरेणास्यार्थः प्रतिक्षिप्यते. न तावद् भावप्रमाणैः, भावविषयत्वेनाभावानवभासनात्. अभावस् तु प्रमाणम् अनभिमतम् एव भवताम्. नन्व् अस्ति तावद् नास्तीति ज्ञानं तत् प्रतिक्षेप्स्यति. तद् भोः किं प्रमाणम् अप्रमाणं वा. नाप्रमाणं प्रतिक्षेपायालम्. प्रमाणत्वे च षष्ठप्रमाणापत्तिः. ननु च गगनकुसुमम् अस्ति नास्तीति च व्याहन्यते. अतो व्याघाताद् गगनकुसुमवाक्यम् असदर्थम्. किम् अत्र व्याहन्यते. सदसत्त्वं हि वस्तुनः सिद्धस्य परस्परविरुद्धम् अवगम्यमानं व्याघातसंविदम् उपजनयति. न चेह परस्परविरुद्धसदसत्त्वावगमः, निस्स्वभावत्वाद् अभावस्य भवत्सिद्धान्ते. नन्व् अस्ति तावन् नास्तीति शब्दप्रयोगः. मा भूज् ज्ञानम् अतः स नभस्सुमनस्सत्तां प्रणोत्स्यति. न, अर्थनिबन्धनत्वाच् छब्दाना विरोधस्य. न च नास्तीति कश्चिद् अस्यार्थो दृश्यते. न चानर्थकः शब्दो ऽर्थान्तरं विरुणद्धि. ननु नायम् अनर्थकः, विविक्तं हि कुसुमेन गगनम् एव तस्यार्थः. विविक्तम्{१,६९}इत्य् अवाच्यम् अनधिकार्थत्वात्. गगनं तु गगनपदप्रवेदितम् इति पुनरुक्तं नास्तीति पर्यायतापत्तिश् च. दृश्यते प्रतियोगिनि कुसुमे केवलगगनोपलम्भो नास्तीत्य् उच्यत इति चेत्, स तर्हि नास्तीति कुसुमवद् गगनम् अपि न स्याद् एव. नास्तीति पदास्पदम् एवासद् इति लौकिका मन्यन्ते. तस्मान् नास्तीति ज्ञानं प्रमाणम् अप्रमाणं वा शब्दो वा नास्तीति गगनकुसुमं न प्रतिक्षिपतीति तद् अपि स्वशब्दाद् अवगतं सद् एव स्यात्. यदि तु तथाविधम् एव नास्तीति वक्तुम्[२४२]इच्छा, न शब्दप्रयोगं वारयामः. वस्तुसत्ता तु न निवारयितुं शक्यत इत्य् उक्तम्. अतः सदतीन्द्रियार्थं गगनकुसुमवाक्यम् अपौरुषेयम् आपन्नम् आयुष्मताम्. यथा[२४३]चेदम् असदर्थं, तथा वैदिकम् अप्य् अतीन्द्रियकार्यार्थम् असदर्थम्. न हि प्रमाणा[२४४]गोचरं वस्त्व् अस्तीति शक्यते वक्तुम्. न च कार्यं प्रत्यक्षादिगोचरम्. न च शब्दगम्यम्, अपदार्थस्यावाक्यार्थत्वात्. अगृहीतसम्बन्धस्य चापदार्थत्वात्. प्रमाणान्तरागोचरे च सम्बन्धस्य ग्रहीतुम् अशक्यत्वात्. प्रपञ्चयिष्यते चैतदौपत्तिकसूत्रे[२४५]इत्य् अलम् अनेनातिपरिस्पन्देन.
SK
__________NOTES__________
SK
[२४१] यत्र नै (KHA) [२४२] रि [२४३] यथा त्व् इदम् अनुपपन्न तथा (KHA) [२४४] णान्तरागो (KA) [२४५] वार्त्तिके इ
SK
अतः सिद्धम् इदं न कार्यार्थत्वाद् अपौरुषेयत्वम् इति. कथं तर्हि, पूर्वापरकोटिविरहात्. यस्य खलु न पूर्वापरकोटी प्रसंख्यायेते, तन्नित्यं यथा गगनम्. एवञ् च वेदाः[२४६]इति नित्याः. का पुनर् इयं नित्यता वेदानाम्. यदि नित्यवर्णपदारम्भः, समानो ऽयं लौकिकवाक्येषु. अथानुपूर्व्यनित्यत्वात् तान्य् अनित्यानि, तुल्यं तदनित्यत्वं वेदवाक्यानाम्. अतो न पुरुषप्रमाणगोचरागोचरार्थत्वाद् अन्यत् पौरुषेयापौरुषेयत्वं पुंवेदवचसाम्. वाच्यो वा विशेषः. स उच्यते. क्रमवन्ति हि पदानि वाक्यम् उच्यते. तद् यत्र स्वतन्त्र एव पुरुषः क्रमम् आरचयति तत् पौरुषेयम्. यत्र तु क्रमरचनायाम् अस्वतन्त्रः पुरुषः यथैव पूर्वपूर्वाध्येतृभिर् उक्तः क्रमस् तथैव विवक्षति, तदपौरुषेयम्. अनित्य[२४७]त्वे ऽपि च क्रमव्यक्तीनाम् अवान्तरजातितस् तत्त्वान्यत्वव्यवस्था शब्दाधिकरणे वक्ष्यते. पदनित्यत्वे चैष एव प्रकारस् तत्रैव दर्शयिष्यते. पूर्वापरकोटिविरह एव वेदे ऽपि कथम् इति यो मन्यते{१,७०}स वक्तव्यः. न तावत् पूर्वापरकोटी वेदानां प्रत्यक्षेणोपलभ्येते. न चानुमीयेते, विपरीतानुमानात्. एवं ह्य् अत्रानुमीयते अनागतः कालो न वेदशून्यः, कालत्वाद् इदानीन् तनकालवद् इति. एवम् अतीते ऽपि काले प्रयोगो दर्शयितव्यः. न च प्रागभावो वेदानां कैश्चिदुपलब्धः. जगदादौ वेदा महेश्वरेण प्रणीता इति चेद्, न. जगदादेर् अभावात्. नचार्वाचीन एव काले केनचिद् वेदाः सन्दृब्धा इति कर्तृस्मरणम् अस्ति. नचास्मर्यमाणो ऽपि जीर्णकूपादिवद् आसीत् कर्तेति युक्तं वक्तुम्. तत्र हि प्रयोजनाभावाद् उपपद्येतापि कर्तुर् अस्मरणम्. अदृष्टार्थनिर्मितेषु वेदेषु प्रत्ययिततरनिर्मातृस्मरणम् अन्तरेण के श्रद्दधीरन्. वक्ष्यति च --
SK
__________NOTES__________
SK
[२४६] इतीति (KHA) [२४७] न्यत्वे च (KA)
SK
वैदिको व्यवहारस् तु न कर्तृस्मरणादृते |
SK
इति. तद् एवं पूर्वापरकोटिविरहाद् एवापौरुषेयत्वं, न कार्यार्थतयेति व्यर्थं तत्प्रतिज्ञानम्. अव्यापकं च, मन्त्रार्थवादोपनिषदाम् अतादर्थ्यात्. ननु च तेषाम् अपि कार्यार्थता द्वितीये पादे वक्ष्यते -- विधिना त्व् एकवाक्यत्वात् -- (१.२.७) इति. इहापि च भाष्यकारेणोक्तं चोदना हि भूतं भवन्तम् इत्यादिशक्नोत्य् अवगमयितुमन्तेन. एतद् उक्तं भवति -- कार्यम् एव प्रतिपादयन्ती चोदना भूतादिकम् अप्य् अवगमयति, न तु प्रतिपादयति. तद् उक्तं शक्नोत्य् अवगमयितुम् इति. अत्रोच्यते -- न तावदर्थवादानां कार्यार्थता अर्थवादाधिकरणे उक्ता. अपि तु भूतार्थानाम् एव स्तुत्या विध्यन्वयो दर्शितः. चोदना हि भूतम् इत्यादिभाष्याभि[२४८]प्रायस् त्व् अनन्तरम् एव वार्त्तिककारेण व्याख्यातः. यस् त्व् अयम् अस्यार्थो वर्ण्यते चोदना हि भूतादिकं गमयति, न तु प्रतिपादयतीति. तन् न. यदि भूतादिकं गमयति. कथं न प्रतिपादयति. न हि गमकत्वाद् अन्यत् प्रतिपादकत्वम्. अथ कार्यपरत्वम् अनेन प्रकारेण वर्ण्यते, सर्वं हि पदजातं कार्यपरं न भूतादिस्वरूपे प्रमाणम् इति कथम् अनाद्यनन्तं विज्ञानम् आनन्दं ब्रह्मोपनिषद्भ्यः सेत्स्यति.[२४९]कस्मिंश् च कार्यार्थे प्रामाण्यम् उपनिषदाम्. ननु तासाम् अपि प्रतिपत्तिकर्तव्यतापरत्वम् एव.[२५०]अस्ति च ज्ञानविधानम् आत्मा ज्ञातव्य इति. तद् अयम् अर्थो भवति -- विज्ञानम् आनन्दम् आत्मानं जानीयाद् इति. नन्व् एवम् अस्वरूपपराच् छब्दात् कथम् आत्मरूपसिद्धिः. न ह्य् अन्यपरः शब्दो ऽर्थान्तरे प्रमाणं, प्रत्युत विपरीतम्{१,७१}अपि सम्भाव्येत. अतद्रूप एव हि तद्रूपज्ञानकर्तव्यतावचनं लोके दृश्यते. तथा अपितर्येव पितरं जानीयाद् इति. वेदे चानुद्गीथ एवोङ्कारे उद्गीथोपासनाविधानम् ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेति. स्याद् एतत्. प्रमाणान्तराद् एवात्मस्वरूपसिद्धिर् इति. केषां प्रमाणान्तरात्. संसारिणो हि न तावत् कार्यकरणसङ्घातातिरिक्तं सच्चिदानन्दं ब्रह्मापरोक्षम् ईक्षन्ते. ते हि देहम् एवात्मानं मन्यमानाः दुःखिनम् अनित्यं जडं च पुरुषं जानन्ति. ये पुनरपवर्तितनिखिलानाद्यविद्यानुबन्धोपदर्शितशरीरेन्द्रियादिप्रपञ्चाः समुत्खातसकलमितिमातृमेयमानविभागम् अपरिस्पन्दम् आनन्दं फलभूतं ब्रह्माधिरूढाः, ते किं केन[२५१]पश्येयुः. अतो न कथञ्चिदात्मस्वरूपं सिध्येत्. तस्माद् उपपत्तितो ग्रन्थतश् च न कार्यार्थता प्रतिज्ञातुं शक्यते.
SK
__________NOTES__________ [२४८] र्थस् त्व् अ [२४९] ति न कस्मिं [२५०] वावगम्यते. अ (KHA) [२५१] के प
SK
यच् च नन्व् अतथाभूतम् इत्य् अर्थासंस्पर्शितया शब्दानां प्रतिज्ञाक्षिप्यत इति, तद् अयुक्तम्. तथा हि -- को ऽयम् अर्थासंस्पर्शः. यदि तावत् संयोगाद्यन्यतमसम्बन्धाभावः, सो ऽनुज्ञायत एव. न ह्य् असौ शब्दार्थयोः संयोगादिलक्षणः सम्बन्धो ऽभ्युपेयते. अथार्थानवबोधकत्वं, कुतो ऽर्थसंवित्. समयाद् इति चेद्, नन्व् अयं सम्बन्धपरिहार एव प्रतिमर्त्यादिपक्षासम्भवात् समयो निराकरिष्यते. किं तन्निराकरणार्थम् अत्र प्रयस्यते. यच् चार्थासंस्पर्शितानिराकरणार्थमुक्तं प्रमाणान्तरदर्शनम् अत्र बाध्यते. न पुनर्हस्तियूथम् इति. तस्य को ऽर्थ इति न विद्मः. प्रमाणान्तरदृष्टार्थविषय एव लौकिकः शब्दः. स कथं प्रमाणान्तरबाधेन बाध्यते. स्यान् मतं - देशकालविशेषावच्छिन्नम् अर्थं प्रमाणान्तराणि बोधयन्तीदम् इदानीम् अत्र चेति. अतो नद्यादिविशेषफलसंसर्गबाधे तानि बाधितानि भवन्ति. शब्दस् तु देशकालानवच्छिन्नम् अर्थम् आचक्षाणो न संसर्गविशेषबाधे बाधितो भवतीति. तद् अयुक्तम्. य एव संसर्गो यदा वक्तुर् इष्टस् तम् एव तदानीं शब्दो ऽभिधत्ते, न संसर्गमात्रम्. न हि नानाविधानेकनदीतीरफलसंसर्गविशेषवर्ति सामान्यम् अस्ति, यः शब्दार्थः स्यात्. न चाविवक्षित एव संसर्गः शब्देनाभिधीयत इति साम्प्रतम्. वक्तृवाचकयोर् असंप्रतिपत्त्या व्यवहारासिद्धेः. नर्मदातीरे फलानि सन्तीति वा विशेषवचने कः परिहारः. तत्राप्य् आसन् भविष्यन्ति वेति चेत्. न. सन्तीति वर्तमानापदेशात्. अपि चात्यन्तासम्भावी[२५२]वन्ध्यासुतादिसंसर्गः{१,७२}कदा कुत्र वा भविष्यति, यः शब्दार्थबाधपरिहाराय घटिष्यते. संसर्गावगमापलापस् तु संविद्विरुद्ध एव. यदि तूच्यते -- सर्वम् एव लौकिकवाक्यम् अर्थे न प्रमाणं वक्तृज्ञाने ऽप्रामाण्यात्. एव ह्य् आह -- अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषो वेदेति भवति प्रत्ययः. नैवम् अर्थ इति. अतो न क्वचिच्छब्दार्थबाध इति. साधु परिहृतम् एवंवादिना शब्दानाम् अर्थासंस्पर्शित्वम्, अर्थे न प्रमाणं स्पृशति चार्थम् इति. अपि च मा नाम भवत्व् अर्थे प्रमाणम्. वक्तृज्ञाने तावत् प्रमाणम् एव. अतः स एव शब्दार्थ इति तद्बाधे ऽपि शब्दार्थबाधो दुष्परिहर एव. स्यान् मतं - न वक्तृज्ञाने शब्दो वाचकतया प्रमाणं, लैङ्गिकत्वात् संविदः, संवित्कारणको हि शब्दः कार्यभूतो ऽवगत्ः कारणभूतां संविदम् अनुमापयति, कार्याच् च कारणबुद्धिर् अनुमानम् इत्य् अविवादम्. आह च -- न प्रसिद्धकारणत्वात् संविद् इति. इदं तदर्थासंस्पर्शितापरिहाररहस्यम्. किम् अत्र वाच्यम् अपरं, शब्दो नार्थे न ज्ञाने वा प्रमाणं तस्मान् नार्थासंस्पर्शीति. अथोच्येत -- न मः शब्दो नार्थे प्रमाणम् इति. स्वाभाविको हि वृद्धव्यवहारे शब्दार्थयोर् अवधृतः सम्बन्धः. लोके तु क्वचिद् व्यभिचारदर्शनाद् वक्तृप्रमाणपरतन्त्रत्वाद् वाक्यानां वक्तृज्ञानपर्यवसानं, नार्थे निश्चयजनकत्वम्. वेदे तु वक्तुर् अभावान् नार्थे प्रामाण्यं विहन्यते. न हि तत्र प्रमाणान्तरपरतन्त्रः शब्दो वर्तत इति. तन् न. न हि क्वचिद् व्यभिचारदर्शनेन प्रमाणम् अनर्थविषयं भवति. न हि शुक्तौ रजतज्ञानं बाधितम् इति स्वगोचरम् अन्यगोचरं वा भवति. अर्थम् एव तु दोषाद् अन्यथा[२५३]स्थितम् अन्यथा बोधयतीति वृत्तिकारग्रन्थे वक्ष्यामः.
SK
__________NOTES__________
SK
[२५२] वितव (KHA) [२५३] था बो (KA)
SK
तद् इहापि सर्वं शाब्दम् अर्थविषयम् एव. किञ्चिद् एव तु दोषवशाद् विपर्येतीति युक्तं वक्तुम्. अपि च यदि पुंगिराम् अर्थे न प्रामाण्यं, कुतस् तर्हि विशिष्टा वक्तृधीर् अनुमास्यते. न ह्य् अनासादितार्थविशेषपरिष्वङ्गाः स्वरसेन संविदो[२५४]ऽप्य् अनुमीयन्ते. तदवश्यमासां विशेषम् अनुमित्सता अर्थविशेषपरिरम्भो वक्तव्यः. न चानारूढो बुद्धाव् अर्थो वक्तृबुद्धिं विशिनष्टि. यद् अप्य् एके मन्यन्ते -- पुंवाक्येषु तावत् क्वचिद् व्यभिचारदर्शनाद् अर्थे निश्चयो न जायते. न चानिश्चितो ऽर्थो ज्ञातो भवति. न हि ज्ञानम् अनिश्चयात्मकं किञ्चिद् अस्ति.{१,७३}तस्माद् अज्ञाते ऽपि वाक्यार्थे श्रोतुर् अयं विमर्शो भवति. अयम् आप्तो ऽन्योन्यान्वययोग्यार्थम् एव पदजातं ब्रवीति, तेन नूनम् अमुनामीषाम् अन्वयो ज्ञात इति वक्तुर् एवान्वयज्ञानम् अनुमिनोति. श्रोतुस् तु विमर्शमात्रम् इति. तद् अयुक्तम्. कथं हि श्रोता बुद्धावनारूढम् एवान्वयविशेषं वक्तृज्ञानविशेषणतया कल्पयति. ताल्वादिव्यापाराद् एवाप्तस्य प्रतीत्यान्वयमयं वाक्यं रचयतीत्यन्वय?धियम् अनुमिनोतीति चेत्. न. अन्वयज्ञानमात्रानुमानात्. विशिष्टान्वयज्ञानानुमानं तु वक्तरि नात्मीयविशेषज्ञानम् अन्तरेणोपपद्यते. यत् तु कथम् अनिश्चितो ऽर्थो ज्ञात इति. अत्र ब्रूमः -- त्रेधा खल्व् अपि वक्तारो निरूपिताप्तभावो निरूपितानाप्तभावो ऽनिरूपितोभयरूपश् च. सर्वत्र च शब्दान् निर्णय एव. परं निरूपिताप्तभावे सम्यग् एतद् अवगतम् अनेनेति वक्तरि निश्चय एव प्रतितिष्ठति. विपरीते विपर्येति. अनिरूपितान्यतररूपे ऽपि शब्दान् निश्चय एव. क्वचिद् व्यभिचारात् तावदागन्तुकः सन्देहः. न क्वचिद् अपि शब्दः संशयहेतुः. ननु तथाप्य् आप्तप्रमाणानुसारी शब्दान् निश्चय इति पूर्वम् उत्पन्नम्[२५५]अपि ज्ञानं व्यभिचार[२५६]दर्शनभूव संशयेन प्रतिबद्धं न प्रमाणम्, उत्तरकालं चाप्तप्रमाणानुसारिणि निर्णये ऽनुवाद इति कदा प्रमाणं भविष्यति. स्वकाल इति ब्रूमः. स्वकाले च तेनोत्पत्तिमता संशयात्मना चासाव् अर्थः परिच्छिन्नः. एतावच् च प्रमाणानां प्रामाण्यम्. अतः कथम् अप्रमाणं भविष्यति. यदि परं शाङ्केतव्यभिचारनिवृत्त्यर्थम् आप्तत्वेन दोषाभावमात्रम् आश्रीयते, सर्वप्रमाणसाधारणं चेदं शङ्कितदोषनिवृत्त्या औत्सर्गिकं प्रामाण्यम् इति. न च प्रमाणान्तराप्रतीतम् अपूर्वम् अर्थं प्रति[२५७]यतः श्रोतुर् अनुवादः शाब्द इति युक्तम्. न ह्य् आराच् चैत्रो ऽयम् इति निश्चिते पुनश् च कुतश्चिन् मैत्रसादृश्यात् सन्दिग्धे स एवायम् इति निश्चिते पूर्वं चैत्रज्ञानम् अप्रमाणं भवति. अतो वक्तृप्रमाणनिश्चयेन प्रमाणम् एवैतद् अभूद् इति श्रोता निश्चिनोति. तस्माद् द्वयम् अप्य् एतत् प्रमाणं यच् च शब्दाद् ज्ञानं, यश् च वक्तृप्रमाणानुसारी निश्चयः. प्रथमम् अपूर्वार्थपरिच्छेदात्.[२५८] परं तु शङ्कानिराकरणात्. उक्तं च वार्त्तिककृता --
SK
__________NOTES__________
SK
[२५४] दो व्यतिभिद्यन्ते (KA, KHA) [२५५] न्नं विज्ञा (KA) [२५६] रभुवा [२५७] ती (KA, KHA) [२५८] द् उत्तरं (KHA)
SK
प्रामाण्यस्थापनं तु स्याद् वक्तृधीहेतुसम्भवात् |
SK
इति. यद् अपि नानिश्चयात्मकं ज्ञानम् अस्तीत्य् उक्तम्. तद् अप्य् अस्मान् पराजित्य{१,७४}वक्तुम् उचितम्. प्रमाणं भ्रमः संशयः स्मरणं संवाद इति पञ्चधा ज्ञानं विभजामहे. तस्मात् सर्वम् एव शाब्दम् अर्थगोचरं प्रमाणम् अप्रमाणं च. दोषसदसद्भावनिबन्धनश् च प्रमाणेतरविभागः प्रत्यक्षादिवद् एव. यदाह -- यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः, स एवासमीचीनः प्रत्ययः नान्यः इति. न हीदम् अक्षजज्ञानमात्राभिप्रायं, स एवासमीचीनः प्रत्यय इति प्रत्ययमात्रपरिग्रहात्. पौरुषेयश् च शब्दः स्वयम् अदुष्टो ऽपि वक्तृदोषाद् एव दुष्यति. ननु च ज्ञानकारणम् एव दुष्टं ज्ञानं दूषयति. शब्दे च शब्दो ज्ञानकारणं न वक्ता. स हि शब्दव्यक्ताव् एवोपयुक्तः. दुष्टेनापि वक्त्राभिव्यक्तः शब्दो विगलितनि[२५९]खिलकलाध्मातादिदोष एव कथम् असमीचीनप्रत्ययोत्पादकारणं भविष्यति. न हि तिमिरादय इव चक्षुरादीनां दुष्टेनापि वक्त्रोच्चरितानां शब्दानां दोषा उपलभ्यन्ते. न. दोषवैचित्र्यात्. न ह्य् एकरूपा एव सर्वे दोषाः. कार्यदर्शनात् तु किञ्चिद् एव क्वचिद् दोषपक्षे निक्षिप्यते. तद् इह मणेर् इवारुण्यबोधे जपाकुसुमसन्निधानम् अनाकाङ्क्षितायोग्यपदसन्निकर्ष एव शाब्दे दोषः. तथाभूतोच्चारणेन दुष्टः पुमाञ् शब्दं दूषयति. ततः सिद्धो दोषसदसद्भावनिबन्धनः शाब्दे प्रमाणेतरविभागः. नन्व् अङ्गीकृते शब्दाद् अर्थबोधे यत् तदर्थासंस्पर्शितासिद्ध्यर्थम् उक्तं बाधिते ऽप्य् अर्थे शब्दनिब[२६०]न्धनम् एव ज्ञानम् उत्पद्यते इति. तत्र कः परिहारः शब्दाद् अर्थबाधपरिहारेण. तद् अस्माभिः परिजिहीर्षितम्. किम् अत्र दुष्परिहरम्. न हि बाधितविषया अपि द्विचन्द्रदिङ्मोहालातचक्रपीतशङ्खप्रतिबिम्बादिविभ्रमा न पुनराविर्भवन्ति. यावद्दोषभाविनो हि ते पुनर् अपि चक्षुषैवोपजन्यन्ते. तद् इहापि यावद् अयोग्यान्वयपदसन्निधानम् अयथार्थज्ञानोदय इति किम् अनुपपन्नम्. तस्मान्न् एताव् आक्षेपपरिहाराव् इति.
SK
__________NOTES__________
SK
[२५९] सकल (KHA) [२६०] मित्तम् एव (KHA, GA)
SK
अन्यथा वर्णयिष्यन्नाक्षेपभाष्याभिप्रायं तावद् आह -- नित्यत्वादेर् इति. अयम् अभिप्रायः -- बौद्धलोकायतिकयोर् इदं प्रत्यवस्थानम्. न हि ते नित्यान् वर्णान् पदानि वेदवाक्यानि वा मन्यन्ते. न चोन्मत्तप्रलपितप्रायाणि{१,७५}प्रजापतिवपोत्खननादीनि वाक्यानि विध्येकवाक्यतया प्राशस्त्य् अप्रतिपादनेन प्रमाणम् आहुः. अतो युक्तं यादृशतादृशरथ्यापुरुषवाक्योपमानं चोदनानाम्. तत्साधर्म्याद् वैतथ्यानुमानम् इति. अथवा नित्यत्वम् अभ्युपेत्य प्रसङ्गम् आपादयन्तीत्य् आह -- अभ्युपेत्येति. एवं हि मन्यते -- यदि नित्या वेदाः, सुतराम् अप्रमाणं भविष्यन्ति. पौरुषेयवाक्यं हि कदाचिद् गुणवद्वक्तृप्रणीतं प्रमाणं भवति. नित्यं तु कुतः प्रमाणं भविष्यतीति
SK
ननु पौरुषेयम् अपि न वक्तृगुणापेक्षया प्रमाणम्. अपि तु स्वभावादवे. कथं ह्य् उत्पन्नम् अविपर्यस्तम् असन्दिग्धं च ज्ञानम् अप्रमाणं भविष्यति. अतः किम् अपौरुषेयतया सुतराम् अप्रामाण्यम् आपद्यते, अत आह -- प्रमाणान्तरेति. प्रमाणान्तरदृष्टार्थगोचरं हि पुंवचः कथं स्वमहिम्ना प्रमाणं भविष्यति. न हि प्रमाणान्तरपरतन्त्रा स्मृतिः स्वतः प्रमाणं भवति. भवति चात्र प्रयोगः. न स्वतःप्रमाणं पुंवचः, प्रमाणान्तरप्राप्तार्थप्रापणात्. स्मृतिवद् इति
SK
ननु च निरपेक्ष एवाप्तपुरुषवाक्यमात्राद् व्यवहारः प्रतायमानो दृश्यते. स कथम्[२६१]अस्वतःप्रमाणाद् उत्पत्स्यते, अत आह -- नूनम् इति एवं हि मन्यते -- वक्तृगोचरार्थं हि पुंवचः. अतः स्वयम् अदृष्टे ऽप्य् अर्थे नूनम् अयम् अर्थो वक्त्रनुभूत इति वक्त्रनुभवपुरस्सरम् एवाप्तोक्तिनिबन्धना प्रामाणिकस्य मतिर् युक्ता. न पुनराप्तत्वम् अदृष्टेन रूपेण प्रामाण्यकारणम्. यस् त्व् अनपेक्षितप्रमाणान्तर एव पौरुषेयाद् व्यवहरति, स प्रतिहन्येतापीति
SK
__________NOTES__________
SK
[२६१] थं न स्व (KHA)
SK
{१,७६} कस्माद् एवं बुद्धिर् युक्ता, अत आह -- नात्मीयाद् इति दृष्टान्तेन. तद् एवं लोकवाक्येषु प्रमाणान्तरपरतन्त्रं प्रमाण्यम् उपपादितं चोदनास्वापादयति -- तथेति
SK
कथं पुनरुत्पन्नम् असन्दिग्धम् अविपर्यस्तं प्रमाणान्तरेण ज्ञानम् अप्रमाणं भविष्यति, अत आह -- तेनेति. यदा हि प्रमाणान्तरपरतन्त्रं सर्वशब्दानां प्रामाण्यम् इत्य् उपपादितं, वेदे चाभ्युपेतनित्यत्वे वक्तृप्रमाणान्तराभावः. तदा कथं प्रमाणं भविष्यति. न हि स्वतन्त्रम् अनियतनिमित्तं ज्ञानं प्रमाणं भविष्यति. न हि प्रतिभा ज्ञानम् उत्पन्नम् इत्य् एतावता प्रमाणम् इष्टम्. अतो वेदाद् उत्पन्नं ज्ञानम् अप्रमाणं, स्वातन्त्र्यात् प्रतिभादिवद् इति
SK
दर्शयितव्यं प्रयोगान्तरम् आह -- स्वर्गेति. प्रत्यक्षाद्यगतार्थत्वाद् इति हेतुसिद्ध्यर्थम् उक्तं स्वर्गयागादिसम्बन्धविषया इति. यो हि मन्यते -- भावना हि वाक्यार्थः. स च स्पन्दो वा प्रयत्नो वा. सर्वथा प्रत्यक्षादिभिर् अवगम्यत इत्य् असिद्धो हेतुर् इति. तं प्रत्युच्यते. कस्यचित् केनचित् क्रिया भावना, सा स्वरूपेण प्रत्यक्षापि साध्यसाधनसम्बन्धात्मना शब्दाद् एवावगम्यते. अत एव धर्मस्यातीन्द्रियत्वम् अपि सेत्स्यति. साध्यसाधनसम्बन्ध एव शब्दस्य विषयः. न ह्य् अनासादितयागस्वर्गादिसाध्यसाधनसम्बन्धविशेषो भावयेद् इति शब्दार्थः. अतः सिद्धं प्रत्यक्षाद्यगतार्थत्वाद् इति. अत्र च लोकायतिकप्रयोगे बुद्धवाक्यं दृष्टान्तः, तत्प्रयोगे लोकायतिकवाक्यम् इति द्रष्टव्यम् इति
SK
{१,७७} एतस्मिन्न् एव साध्ये[२६२]दृष्टान्तहेत्वन्तरम् आह -- यद् वेति. सिद्धं च नित्यानां वेदानाम् आप्ताप्रणीतत्वम् इति वेदानाम् एव वाप्रमाणत्वं नित्वत्वाद् व्योमादिवद् इति. ये च बौद्धा नित्यं व्योमेति सङ्गिरन्ते तेषाम् अयं प्रयोग इति
SK
__________NOTES__________
SK
[२६२] दृष्टान्तान्तरम् आह (KHA)
SK
इदानीं श्ववराहकलहन्यायेन नैयायिकादिमतानुज्ञया तावन्नास्तिकमतस्थ एव[२६३]वादी मीमांसकं प्रति प्रयोगम् आह -- यदि वेति. यद्य् अवश्यं वेदाः प्रमाणम् इति वक्तव्यं परं यथा वैशेषिकैर् उक्तं तद्वचनाद् आम्नायस्य प्रामाण्यम् इति तथोच्यताम्. यत् पुनर् इदं मीमांसकैर् उक्तं नित्या वेदाः प्रमाणं चेति. तदतिदूरम् अपभ्रष्टं चेति भावः. सर्वशब्देन च दृष्टार्थपुरुषोपदेशैर् मन्वाद्युपदेशैश् च सिद्धसाधनताशङ्कां निराकरोति. तद् अयम् अर्थो भवति -- दृष्टादृष्टार्था अपि वैदिक्यश् चोदना धर्मिण्यः. पुरुषाधीनप्रामाण्या इति साध्यम्. वाक्यत्वात् पुरुषोक्तिवद् इति. स्वतो वा न प्रमाणम् इति प्रतिज्ञाय ताव् एव हेतुदृष्टान्ताव् इत्य् आह -- स्वतो वेति
SK
__________NOTES__________
SK
[२६३] व मी (KA)
SK
प्रामाण्यं वा धर्मीति प्रतिज्ञाय नरापेक्षम् इति साधयितव्यम्. शब्दैः सम्बध्यमानत्वाद् अप्रामाण्यवद् इति हेतुदृष्टान्तौ वाच्याव् इत्य् आह -- प्रामाण्यं वेति. अत्रापि सर्वशब्दस्य[२६४]तद् एव प्रयोजनं, नरापेक्षप्रामाण्यवादिनां चाप्रामाण्यं तदपेक्षम् इति सिद्धम् एवेति
SK
__________NOTES__________
SK
[२६४] तद्वदे (KHA)
SK
अपि च यद् एव यत्कारणकं तस्यैव तद्विपर्ययाद् विपर्ययो दृष्टः,{१,७८} यथातेजःकारणकस्य धर्मस्य तद्विपर्यये जले शैत्यम्. एवं शब्दप्रामाण्यस्यापि वक्तृगुणविपर्ययाद् विपर्ययो दृश्यते. तस्माद् इदम् अपि तत्कारणकम्. अथवा यन् न यत्कारणकं तन् न तद्विपर्ययाद् विपर्येति, आलोकविपर्ययाद् इव घटः. न च तथा वक्तृगुणविपर्यये प्रामाण्यं न विपर्येति. तस्माद् तत्कारणकम् इति वीतावीतप्रयोगौ हृदि निधायाह -- न स्याद् इति. एषा च प्रयोगपरम्परा तार्किकाणां चित्तम् अनुरञ्जयितुं वार्त्तिककृता प्रणीतेति वेदितव्यम्. सर्वत्र चात्र प्रयोगार्थे नन्व् अतथाभूतम् इत्यादिभाष्यं सुव्याख्यानम् इति न प्रतिप्रयोगं विवृतम् इति
SK
यदि तु निराकृतस्वपक्षो मीमांसकः सिध्यतु तावन्नरापेक्षम्[२६५]एव वेदप्रामाण्यम् इति ब्रूयात्, स वक्तव्यः -- नैवं सिध्यति. प्रसिद्धे हि वक्तृगुणभावः सिध्यत्य् अपि. न च वेदानां प्रणेतुर् गुणसद्भावे प्रमाणम् अस्ति, प्रत्यक्षाद्यभावात्. आगमस्य च तत्प्रणीतत्य तद्गुणसद्भावे ऽप्रामाण्यान् नित्यप्रामाण्यस्य चानन्तरम् एव निराकृतत्वात्. सर्वं चेदम् अभिप्रेत्य नन्व् इति चोदितम् इत्य् आह -- एवं स्थित इति
SK
__________NOTES__________
SK
[२६५] म् एवेदं प्रा
SK
एवम् आक्षेपभाष्याभिप्रायम् उक्त्वा परिहारभाष्याभिप्रायं विवरिष्यन्नाक्षिपति तावत् -- तत्रेति. एवं हि भाष्यकारेणोक्तं - विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेति. तद् अयुक्तं, न हि प्रत्यय उत्पन्न इत्य् एव प्रमाणं भवति. यदि हि तथा स्याद्, बुद्धवाक्ये ऽपि मृषात्वेन मीमांसकः पक्षीकृते शक्यम् इदं वक्तुं. विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेति. तत्र मीमांसकाः प्रतिहन्येरन्. तस्माज् जात्युत्तरम् इदम्. जातिर् नाम वादिना स्थापनाहेतौ प्रत्युक्ते यः प्रतेषेधा[२६६]यासमर्थो हेतुः.[२६७]जात्युत्तरं{१,७९}च केचित् क्वचिद् विषयविशेषे साध्व् एव मन्यन्ते. एवं ह्य् आहुः -- दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति. तच् चायुक्तं, निग्रहस्थानद्वयापत्तेः. यो हि सन्तं दोषम् अनुक्त्वा अन्यम् असन्तं जल्पति, तस्य पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगाख्ये द्वे निग्रहस्थाने स्याताम्. तस्माद् अनुत्तरम् एवेदम् इति
SK
__________NOTES__________
SK
[२६६] धास (KHA) [२६७] तुः सा जातिः जा (KHA, GA)
SK
अत्रानन्तरम् आक्षिप्तभाष्यसमाधानम् उपेक्ष्यैव तावदौपोद्धातिकीं कथाम् अवतारयति -- सर्वविज्ञानम् इति. एवं हि मन्यते -- यदा हि सर्वसंविदाम् औत्सर्गिकं प्रामाण्यं, बाधकारणदोषाधीनं चाप्रामाण्यम् इति सिद्धं भविष्यति. वेदे चापौरुषेये तदुभयाभावाद् असन्दिग्धार्थप्रवेदनाच् च प्रामाण्ये सिद्धे यदि परं ज्ञानानुत्पत्तितो वैतथ्यम् आशङ्क्येत, तत्र विप्रतिषिद्धम् इदं ब्रवीति ज्ञानं जनयति वितथं न जनयतीति समञ्जसम् एवोत्तरं भविष्य[२६८]तीति. ननु[२६९]तथापि पराधीनं शब्दप्रामाण्यम् इति पूर्वपक्षिते तन्मात्रस्यैव स्वतःप्रामाण्यप्रतिपादनेन सिद्धान्तयितुम् उचितं, किं महाविषयविचारेण. उच्यते -- प्रासङ्गिकं सर्ववचनम्. अपि च यावज्ज्ञानस्वभावानुबन्धि प्रामाण्यम् इति सामान्यतो न साध्यते, तावत् तद्विशेषे क्वचित् साधितम् अपि प्रामाण्यं न प्रमाणं स्वतः शाब्दज्ञानं ज्ञानत्वाद् ज्ञानान्तरवद् इत्य् अभिभूयेतापि. यज्जातीयानुबद्धं हि यद्रूपं तज्जातीयान्तरम् अपि नातिक्रामति, औष्ण्यम् इवाग्निजातीयम्. अतो यदि ज्ञानजात्यानुबद्धं परतःप्रामाण्यं, तत् कथं शाब्दम् अप्य् अतिक्रामेत्. आह च --
SK
__________NOTES__________
SK
[२६८] ष्यति [२६९] नु प (KA)
SK
सामान्यानुगता शक्तिर् या काचन निरूपिता |
SK
तदन्वितो विशेषो ऽपि तद्द्वारव्यपदेशभाक् ||
SK
इति. सर्वज्ञानानुबन्धि स्वतःप्रामाण्यम् आगन्तुनाप्रामाण्येनापोद्यत इति साधिते निरपवादं वेदानां प्रमाण्यं सेत्स्यतीति सूक्तम् एव सर्ववचनम्. एषा चात्र मीमांसा -- किं प्रमाणत्वाप्रमाणत्वे द्वे अपि स्वतःसिद्धे, अपि वा परतः,[२७०]अप्रामाण्यं स्वतः[२७१]प्रामाण्यं परतः, विपर्ययो वेति पूर्वपक्षप्रतिक्षेपेणान्त्यपक्षपरिग्रहेण सिद्धान्तो भविष्यतीति
SK
__________NOTES__________
SK
[२७०] तः प्रामाण्यं वा परतो ऽप्रा [२७१] तः वि (KHA)
SK
{१,८०} तद् एवं वादिविप्रतिपत्त्या संशय्याद्यपक्षं गृह्णाति -- स्वतो ऽसताम् इति. सत्कार्यवादिनो हि सर्वम् एव कार्यजातं सदुत्पद्यत इति मन्यमानाः प्रामाण्याप्रामाण्यात्मकम् अपि द्वयं स्वत एवास्थिषत. एवं हि मन्यन्ते -- यत् स्वतो ऽसत् तन् न साध्यं, यथा शशविषाणम्. न च घटादयो न साध्याः तस्मात् स्वतः सन्त इत्य् आवीतहेतुः. अपि चोपादाननियमदर्शनात् कस्यचित् खलु घटादेर् विकारस्य किञ्चिद् एव मृदाद्युपादानकारणम् इति नियमो दृश्यते. तच् चैतदसदुत्पत्ताव् अन्याय्यम्, असत्त्वाविशेषेण हि सर्वं सर्वस्माद् उत्पद्येत. तत्रोपादाननियमो न स्याद् मृदेव घटस्य, कटस्य वीरणम् इति. तत्र सर्वार्थी सर्वत्र प्रवर्तेत, अविशेषात्. शक्तितो नियम इति चेद्, न. अविशेषात्. तत्रैतत् स्यात् -- यस्य भावस्य यद् उत्पत्तिशक्तिर् अस्ति ताम् अन्वयव्यतिरेकाभ्यां निश्चित्य यो यदर्थी स तदुपादत्त इति. तच् च नैवम्, अविशेषात्. वयं हि ब्रूमः शक्त्यात्मना विकार उपादाने ऽस्तीति. भवन्तो ऽपि विकारोत्पत्तिशक्तिर् उपादाने ऽप्य् अस्तीति. तद् अत्र वाचोयुक्तिमात्रं भिद्यते, नार्थविशेषः कश्चिद् उपलभ्यत इति. अपि च, उपादाननियमदर्शनाद् उपादाननिमित्तासमवायिभ्यस् त्रिभ्यः खल्व् अपि कारणेभ्यो भवतां कार्यम् उत्पद्यते. त्रिष्व् अपि च तन् नास्ति. असद् एवोत्पन्नं तत्. कुतो ऽयं कारणविधा[२७२]नियमः इदम् उपादानम् इदं नेति. यत्र कार्यं वर्तते तदुपादानम् इति चेद्, वृत्तिनियम[२७३]हेतुर् वक्तव्यः. तत् खलु सर्वस्माद् असद् एव जातम् इति किंकृतो वृत्तिनियमः. अस्ति स नामोपादानस्य को ऽप्य् अतिशयविशेषः यत् तत्रैव कार्यं वर्तत इति चेत्. स तर्हि शक्तिभेदो वक्तव्यः. निमित्तम्[२७४]असमवायि च[२७५]नोभयम् अनभ्युपगमात्. दण्डादयो हि घटस्य निमित्तकारणम्. असमवायिकारणं मृदवयवसंयोगविशेष इति वः सिद्धान्तः. स उपादानम् इति चेद्, न. व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः. स्याद् एतत्. उपादानकारणं शक्तिभेद इति. मैवम्. स ह्य् उपादानाद् व्यतिरिच्यते, न वा. व्यतिरेके उपादानस्य पूर्ववद् भावाद् अनुपादानत्वम्, तस्यापि ततो भिन्नस्य तत्त्वं दुर्भणम् एव. अव्यतिरेके तु वस्तुमात्रम् अनतिशयम्{१,८१}उपादानम् इति वस्तुत्वाविशेषात् सर्वोपादानत्वापातः. तस्माद् विकारोत्पत्तिशक्तिम् उपादानेषु सङ्गिरमाणैर् विकारा एवोपादने शक्त्यात्मना सन्तीति संगीर्यन्ते. वयम् अपि चाव्यक्तान् एव विकारानुपादानेषु संगिरामहे, न स्थूलान् इति नावयोर् विशेष इति. सत्त्वे कारकव्यापारानर्थक्यम् इति चेद् न. अभिव्यक्तिफलत्वात्. तत्रैतत् स्यात् -- सन्ति चेद् विकारा उपादानेषु तदर्थिनां कारकव्यापारो ऽनर्थकः स्यात्. ते हि तदा सताम् एवोत्पादनाय[?] नेहेरन्. तस्माद् असन्तो विकारा इति. तच् च नैवम्, अभिव्यक्तिफलत्वात्. सन्तो ऽपि हि विकाराः पूर्वम् अनभिव्यक्ताः कारकव्यापारैर् अभिव्यज्यन्ते. अतो ऽर्थवत्त्वं कारकव्यापाराणाम्. अभिव्यक्ताव् उत्पत्तिशब्दो ऽनर्थक इति चेद्, न. अभिव्यक्तिभेदात्. तत्रैतत् स्यात् -- यदि पूर्वं सन्त एव मृदादिषु घटादयो गृहोदरेष्व् इव दीपादिभिः कुलालादिव्यापारैर् अभिव्यज्यन्ते, को ऽयं विभागः दीपो घटम् अभिव्यनक्ति, कुलालस् तूत्पादयतीति. तच् च नैवम्, अभिव्यक्तिभेदात्. द्वेधा खल्व् अभिव्यक्तिः. एका अप्रतिबद्धाकारस्य वस्तुनो बोधनिमित्तस्य तन्निमित्तभावो येन प्रतिबध्यते तदुत्सारणं, यथा घटस्यान्धकारतिरोहितस्य तदुत्सारणम् अभिव्यक्तिः. अन्या तु प्रतिबद्धाकारस्याकारप्रतिबन्धकोत्सारणं, यथा मृदि घटाकारः पूर्वाकारेण प्रतिबद्धः तस्य पूर्वस्याकारस्य प्रोत्सारणं घटाभिव्यक्तिः. अभिव्यक्तिविशेष एवायम् उत्पत्तिशब्दः, ब्राह्मणविशेष इव कठादिशब्दोपचार इत्य् अनवद्यम्. स्यान् मतम् अभिव्यक्तिसत्त्वान् न प्रसङ्गपरिहार इति. न, असत्त्वात्. यो मन्वीत -- सत्कार्यवादिनो हि भावान्तरवदभिव्यक्तिर् अपि सतीति कारकव्यापारानर्थक्यप्रसङ्गो दुष्परिहर इति. स वक्तव्यः. न, असत्त्वात् स्याद् अयं दोषः यद्य् अभिव्यक्तिर् अपि सती घटादिवद् इष्यते. सा त्व् असती कारकव्यापारेण भाव्यत इति किम् अनुपपन्नम्. तदसत्त्वे ऽतिप्रसङ्ग इति चेद्, न. प्रसङ्गसाम्यात्. तत्रैतत् स्यात् -- यदि किलाभिव्यक्तिर् असती कुलालेन क्रियते, किम् अपराद्धं घटेन यन् न क्रियत इति. तच् च नैवं, तुल्यो ऽयम् आवयोर् अतिप्रसङ्गः. तवाप्य् अन्धकारतिरोहितस्य घटस्याभिव्यक्ताव् अभिव्यक्तिर् असती घटस् तु सन्नेवेति सिद्धान्तः. तत्र शक्यं प्रसञ्जयितुम् अभिव्यक्तिवद् घटो ऽपि जन्येत, तद्वद् वाभिव्यक्तिर् अपि सती स्याद् इति प्रसङ्गसाधारण्येनान्यतरो ऽपर्यनुयोज्यः. अतः सिद्धम् एवोपादानेषु सन्त एव सर्वे भावाः कारकव्यापारैर्{१,८२}अभिव्यज्यन्त इति, प्रामाण्याप्रामाण्ये स्वतस्सती एवेति सत्कार्यवादिनां सिद्धान्त इति. मतान्तरम् उपन्यस्यति -- अपर इति. एवं हि मन्यते -- सर्वं खल्व् अपि कारणाधीनात्मलाभं कार्यं तत्कारणगुणदोषाभ्यां शुद्धम् अशुद्धं च भवति. तद् यावदिन्द्रियादिज्ञानकारणवशाद् उत्पन्नौ गुणदोषौ न ज्ञानस्य स्वतो ऽवधार्येते, न तावत् प्रामाण्याप्रामाण्ययोर् अन्यतरन् निश्चीयते, नचानिश्चितयोर् व्यवहाराङ्गत्वं, तदर्थं च प्रमाणानुसरणम्. अतः कारणोत्पन्नगुणदोषावधारणाद् एव द्वयम् आहुर् इति सम्बन्ध इति
SK
__________NOTES__________
SK
[२७२] धाननि (KA) [२७३] मे [२७४] म् एवास [२७५] वा (GA)
SK
स्वतो द्वयम् इति तावन् निराकरोति -- स्वत इति. कारणम् आह -- विरोधाद् इति. इदम् अत्राकूतं - यत् तावद् उक्तम् असतः शशविषाणाद् व्यावृत्तं साध्यत्वं घटे दृश्यमानं सत्तां गमयतीति. तद् अयुक्तम्. अभावविरोधात्. असन्निकृष्टार्थविषयं ह्य् अनुमानं, तत् कुतो मृदि योग्यानुपलम्भनिराकृतसद्भावविषयं घटं विषयीकरिष्यति. उपादाननियमस् तु शक्तिभेदाद् उपपन्न एव. किञ्चिद् एव हि मृत्तन्त्वादि कस्यचिद् एव घटादेर् उत्पादने शक्तं न सर्वं सर्वस्येति, यो यदर्थी स तदुपादत्त इति किं नोपपद्यते. यदि मतं न कार्यकारणान्तरालपतितां परां शक्तिम् ईक्षामह इति. न, शक्तिसिद्धिम् अर्थापत्तिग्रन्थे वक्ष्यामः. यत् तूक्तं विकारा एव शक्त्यात्मना सन्तस् तदुत्पत्तिशक्तिर् वोपादानेष्व् अस्तीति नावयोर् विशेष इति. तन् न. महानयं विशेषः यद् विकारसत्ताम् अभावो बाधते, शक्तिं तु सूक्ष्माम् अर्थापत्तिः साधयतीति. ते ऽपि हि शक्त्यात्मना सन्तो न योग्यानुपलब्ध्या निराकर्तुं शक्यन्त इति चेत्, केयं शक्त्यात्मता. यतस् ते ऽसन्तो ऽपि जनिष्यन्त इति चेत्. तद् इष्टम्. अनभिव्यक्तिर् इति चेद्, न. साक्षस्याप्य् आलोके ऽनुपलम्भात्. नन्व् आलोके ऽपि नावृतम् उपलभ्यते. किम् इदानीम् आवृतो मृदि घटः. सत्यम्. केन. न तावद् उपादानं कार्यम् आवृणोति, नित्यावरणप्रसङ्गात्. मृदाकार आवृणोतीति चेत्. को ऽयं मृदाकारः. यदि तज्जातिः, सोपरिष्टाद् अप्य् अनुवर्तत इति नित्यावृतिर् एव[२७६]प्राप्नोति. प्राच्यो मृत्पिण्डसन्निवेश इति चेत्. स वा किम्{१,८३}उपरिष्टान् न भविष्यति, यन् न घटम् आवरिष्यति. हन्त सो ऽप्य् अनुत्पत्त्यविनाशधर्मासद्वादिभिर् इष्यत इत्य् अनिवार्यैव नित्यावृतिः. सूक्ष्माश् च मृदवयवसन्निवेशविशेषा न महान्तं घटम् आच्छादयितुम् उत्सहन्ते इति यत् किञ्चिद् एतत्. यत् तु त्रिभ्यो ऽपि कारणेभ्यः सदुत्पत्तौ किंकृतो विधानियम इति. शक्तिभेदकृत एव. किञ्चिद् एव तथा नाम शक्तं, यद् विकारभावम् अनुभवति. किञ्चित् तु बहिर् एव सत् तदुत्पत्तौ व्याप्रियते. स चायं शक्तिभेदः कार्यदर्शनसमधिगम्य एवेति नाप्रमाणकः. भेदाभेदौ तु न क्वचिद् आत्यन्तिकाव् इति नाप्रसङ्गातिप्रसङ्गौ. यत् तु पृष्टम् उपादाननिमित्तासमवायिनां का शक्तिर् इति. तदतिदूरम् अपभ्रष्टम्. शक्तिर् हि शक्तिर् एव, न कारणं, तद्वतो द्रव्यस्य कारणत्वात्. कारणवच् च कारणशक्तिर् अपि कार्यसिद्धिम् अनुधावतीति प्रमाणबलाद् उपपत्स्यते. कारकव्यापारानर्थक्यं च दुष्परिहरम् एव. अभिव्यक्त्यर्थो व्यापार इति. अत्र तूक्तो दोषः. अपि चाभिव्यक्तिसत्त्वे तुल्यम् आनर्थक्यम्. असत्त्वे च सर्वत्र प्रसङ्गः शक्यम् अनुमातुम्.[२७७]सर्वं हि विमतिपदं[२७८]कार्यम् असत्, कार्यत्वाद् अभिव्यक्तिवत्. कार्यं चाभूत्वा भवनात् तद्वद् एवाभूत्वा भवति, उपलब्धियोग्यत्वे सत्य् अनुपलम्भाद् अभिव्यक्तिवद् एव. यत् तु अभिव्यक्तौ प्रसङ्ग इत्य् उक्तम्. तद् अयुक्तम्. प्रत्यभिज्ञानं हि बलवदभूतप्रादुर्भावं घटस्य वारयति. विपरीतं च तत् सत्कार्यवादिनाम् इति किम् अनेनातिनिर्बन्धेन भ्रान्तभाषितेन. प्रकृते च विरोधात् कथं ह्य् एकज्ञानजात्यनुबन्धिनी प्रमाणत्वाप्रमाणत्वे भविष्यतः, विरुद्धधर्मावेशस्य भेदनिबन्धनत्वात्. अतो यथा नैकस्याग्नेः शीतोष्णत्वम्, एवं न ज्ञानस्य प्रमाणत्वाप्रमाण[२७९]त्वम् इति. सो ऽयं प्रकृताप्रकृतगोचरे तन्त्रेण विरोधो व्याख्यातव्यः. प्रामाण्याप्रामाण्यात्मकद्वयं न स्वतः, स्वभावविरोधात्. कार्यकारणात्मकत्वं च द्वयं न स्वतः सिद्धं, कार्यसत्ताया अभावविरोधाद् इति. परतो[२८०]द्वयम् इति निराकरणार्थम् आह - परत इति. कारणम् आह -- निःस्वभावत्वम् इति. एवम् उभयपराधीनवादी वक्तव्यः -- किं खलु कारणोत्पन्न-गुणदोषावधारणात् प्राग् ज्ञानं न जायत एव, जातम् अपि वा[२८१]रूपान्तरेणावतिष्ठत इति. न तावज्ज्ञानं{१,८४}जायते, संविद्धिरोधात्. जातं तु केनात्मनावस्थास्यते. न ह्य् एतद्राशिद्व-यातिरिक्तम् अस्ति राश्यन्तरं येनावतिष्ठेत. अन्यतरधर्मकम् एव तदुत्पन्नं प्रागनवधृततथाभावम् उपरिष्टाद् अवधार्यत इति चेद्. न. गुणावधारणाधीननिश्चयाभ्युपगमात्. तदवधारणाद् धि प्राङ् निश्चय एव नासीत्. कथं प्रामाण्यम् आसीद् इति शक्यते वक्तुम्. अथ पूर्वं[२८२]अपि निश्चिताकारम् एव ज्ञानं, किं गुणावधारणेन. दोषानाशङ्कमानस् तु तन्निराकरणार्थम् एव यतत इति युक्तम्.[२८३]एतच् च वक्ष्यत एवेति सूक्तं निःस्वभावत्वम् इति
SK
__________NOTES__________
SK
[२७६] व प्राच्यो (GA) [२७७] तुम् इति स [२७८] दास्पदं का [२७९] णस्वभावत्व (GA) [२८०] तो ऽपि द्व (KHA) [२८१] वा स्वरू (KA, KHA) [२८२] र्वम् एव नि (KA, KHA) [२८३] क्तम् एव. तच् च
SK
स्वतो न द्वयं विरोधाद् इति यद् उक्तं, तत् प्रकृतगोचरे विवृणोति -- कथम् इति. उक्तम् इदम् अस्माभिः नैकस्यां ज्ञानजातौ परस्परविपरीतयोः प्रामाण्याप्रामाण्यात्मनोः सम्भवः समावेशः सम्भवतीति. एकस् तु स्वभाव उपाध्यन्तरसन्निधानाद् अभिभूतो भवति, अप्स्व् इवाग्निसंयोगे शैत्यम्. तदपेक्षश् च तास्व् औष्ण्यभ्रमः. स्वाभाविकोभयवादिनस् तु नान्यानपेक्षस्य ज्ञानस्योभयात्मकता सम्भवतीति. परतो न द्वयं निस्स्वभावत्वप्रसङ्गाद् इत्य् एतद् विवृणोति -- किम् आत्मकम् इति. सर्वं हि जगद् राशिद्वये शक्यम् अन्तर्भावयितुं प्रमाणम् अप्रमाणं चेति. तद् अत्रोभयपराधीनत्ववादिनो ज्ञानम् उन्मुक्तोभयरूपं केन रूपेण निरूप्यत इति
SK
स्वतो न द्वयं विरोधाद् इत्य् अत्र किञ्चिद् आशङ्कते -- विज्ञानेति. एवं हि मन्यते -- यदि ज्ञानजातेर् एवायं स्वभावभेदो ऽभ्युपेयते, एकस्माद् एव वा ज्ञानव्यक्तौ, ततः स्याद् अपि विरोधः. यदा तु शीतोष्णस्वभावतोयतेजोद्रव्यवत् प्रमाणाप्रमाणज्ञानव्यक्तिभेदाभ्युपगमः, तदोभयोर् व्यधिकरणयोः कस्य केन विरोध इति. परिहरति -- तथापीति. अयम् अभिप्रायः -- तोयतेजसोर् हि भिन्नजातीययोः स्वभावभेदो युक्तः. ज्ञानव्यक्तयस् त्व् एकजातीयाः. तत्र[२८४]न तावद् आसां जात्यनुबन्धी स्वभावभेदो न्याय्यः. व्यक्त्यनुबन्धी तु तत्कारणाद् भवतीति युक्तं[२८५]वक्तुम्. तदनपेक्षत्वे तु प्रामाण्याप्रामाण्ययोः{१,८५} किं कुत्र भविष्यतीति दुरधिगमम्. समानं हि द्वयोर् अपि ज्ञानत्वम्. स्वाभाविके चोभयस्मिन् न बाह्यचिह्नापेक्षास्तीति[२८६]दुर्भणः प्रमाणाप्रमाणविवेक इति साधूक्तं स्वतो न द्वयं विरोधाद् इति. किं पुनर् उभयोः पराधीनत्वं स्वाभाविकत्वं वा चोदनाप्रामाण्यपरिपन्थि येन प्रयस्यता निरस्यते. नन्व् एवम् अपि चोदनानां स्वत एव प्रामाण्यं भविष्यति प्रथमपक्षे. द्वितीये ऽपि पराधीन उभयस्मिन् दोषाभावाद् अपौरुषेया वेदाः प्रमाणम् इति किम् उभयनिराकरणेन. अप्रामाण्यं स्वतः प्रामाण्यं परत इत्य् एतद् एव तु वेदप्रामाण्यपरिपन्थीति तन् निराकर्तुम् उचितम्. तच् च निराकरिष्यत एव. सत्यम्. आद्ययोर् अपि पक्षयोर् अप्रामाण्यम् आपद्यत एव. तथा हि -- स्वाभाविके तावद् उभयस्मिन्न् अन्यतरनिर्णयकारणं बाह्यम् अपश्यतां नैकत्रापि विश्वासो भवेत्. व्यवहारार्थं च प्रमाणानुसरणम्, अविश्वासे च तदभावात् फलतो ऽप्रमाणत्वम्. एवम् उभयपराधीनत्वे ऽप्य् असत्य् अप्य् अप्रामाण्यकारणे प्रामाण्यकारणस्याप्य् अभावात् तद्व्यवहारो न जायत इत्य् अप्रमाणम् एवेति साध्व् एवोभयनिराकरणम् इति
SK
__________NOTES__________
SK
[२८४] तन् न ता (GA) [२८५] क्तं त (KA, KHA) [२८६] दुर्लभः प्रा (GA)
SK
एवम् उभयं स्वतः परतो वेति निराकृते पूर्वपक्षान्तरम् आह -- तस्माद् इति[२८७]क्षमन्तेन. तेषां ज्ञानानां स्वाभाविकम् अप्रमाणत्वम्, परापेक्षं च प्रामाण्यम्. अयं चात्राभिप्रायः -- दृष्टव्यभिचारो हि जाते ऽपि विज्ञाने न तावन्निर्विचिकित्सं व्यवहरमाणो दृश्यते, यावद् गुणवद् इन्द्रियादिकरणत्वं संवादो वा न दृष्टः. व्यवहारफलं च प्रामाण्यम्, अतः स्वतो ऽप्रमाणम् एव पराधीनं प्रामाण्यम् इति. एष चात्र स्वतो ऽप्रमाणत्वे परतश् च प्रमाणत्वे न्यायो ऽभिधीयत इत्य् आह -- अत्रेति.
SK
__________NOTES__________ [२८७] ति ते (KA, KHA)
SK
स्वतो ऽप्रामाण्ये तावन्न्यायं दर्शयति -- अप्रामाण्यम् इति. न्यायस् तर्कः. स चानुमानम्. एष चात्र प्रयोगो भवति -- अप्रामाण्यं न कारणवद्, अवस्तुत्वात्. यद्यद्वस्तु तत्तन् न कारणवत्. यथा शशविषाणम्.{१,८६}कारणदोषत इति च कारणदोषाणाम् एव परैर् अप्रामाण्यकारणत्वेनाश्रयणाद् उक्तम्. यद् एव मीमांसका मन्यन्ते कारणदोषेभ्यो ऽप्रामाण्यं जायत इति. तन् न. अकारणकत्वाद् अवस्तुन इति. परापेक्षं प्रामाण्यम् इत्य् अत्र प्रयोगम् आह -- वस्तुत्वाद् इति. तेषां कारणानां गुणैः प्रामाण्यं जन्यत इत्य् अर्थः. प्रयोगश् च भवति -- प्रामाण्यं कारणवद् वस्तुत्वाद् घटवत्. न चाकार्यं नाम किञ्चिद् बौद्धानां वस्त्व् अस्ति, येनानैकान्तिको हेतुर् भवेत्. नभसो ऽप्य् आवरणाभावमात्रस्यावस्तुत्वात्. गुणैर् इति चानुवादमात्रम्. कारणगुणा हि प्रामाण्ये कारणम् इति मन्यन्ते. न पुनर् एते व्याप्ताव् अनुप्रवेशनीयाः. के पुनर् अमी गुणा[२८८]नाम, ये प्रामाण्यस्य कारणम्. न हीन्द्रियादिव्यतिरिक्ता गुणाः केचिद् उपलभ्यन्ते. यदि मतं - भेषजभेदैर् आहितातिशयविशेषा गुणा इति. तन् न. एवं हि तैर् अनाहितातिश[२८९]यविशेषाणां न प्रामाण्यं जायेत. अतो वक्तव्या गुणाः. त उच्यन्ते. विशुद्धिर् इन्द्रियादीनां गुणपदार्थः. वातादिधातूनां साम्यम् इति यावत्. साम्येन हि त इन्द्रियेषु वर्तमाना गुणा उच्यन्ते. तथा स्थिताश्[२९०]च प्रामाण्यं जनयन्ति. विषमं तु वर्तमानेषु धातुषु तद्दोषसमुत्थास् तिमिरादयो दोषा जायन्ते. शब्दे ऽपि वक्तुर् आशयविशुद्धिर् गुणः. विप्रलम्भाभिप्रायादयो दोषाः. तेषां च प्रामाण्याभावात्म[२९१]न्य् अवस्तुन्य् अप्रामाण्ये कारणत्वासम्भवान् न तज्जन्यम् अप्रामाण्यम्. प्रामाण्यं त्व् अर्थनिश्चयो वस्त्वात्मक इति युक्तं यद्गुणेभ्यो जायते ज्ञायते चेति. सर्वम् उत्पत्ताव् अनिश्चयात्मकम् अप्रमाणम् एव ज्ञानमा गुणसंवादज्ञानोदयात्, परतस् तु तद्वशेन प्रामाण्यं जायते तस्य. नन्व् इदानीम् असद् एवातिवृत्तं ज्ञानम् इति किं प्रमाणी[२९२]भविष्यति. यदा तावत्[२९३]तदासीत् तदा सहजेनाप्रामाण्येनाभिभूतम् उत्तरकालं च तदसद् एवेति किम् अन्यतः प्रामाण्यं भविष्यति. सत्यम् एवम्. अन्यद् एव गुणसंवादज्ञानोत्तरकालभाविप्रमाणम्. अवगते हि क्वचिदर्थे प्राग्दृष्टव्यभिचारो ज्ञानस्वभावालोचनेनाजातविश्वासो न तावन्निर्विचिकित्सं व्यवहरति यावदिन्द्रियादिगुणावधारणपुरस्सरम् एवम् एवैतद् इति न निश्चिनोति. गुणावधारणात् संवादज्ञानाद् वा प्रमाणे जाते ऽवगते च तस्य{१,८७}प्रामाण्ये व्यवहाराः प्रवर्तन्ते. तस्यापि न ज्ञानस्वभावालोचनेन प्रामाण्यं, तद्रूपस्याप्रामाण्यप्रतिबन्धात्. किन् तु गुणावधारणाद् एव. अतः सूक्तं गुणैः प्रामाण्यं जन्यत इति. यदाहुः -- निश्चयात्मकप्रामाण्योत्पादनं तु वस्तुरूपत्वात् संवादकारणगुणज्ञानकार्यत्वेन स्वध्यवसानम् इति तद् एवाश्रीयते इति
SK
__________NOTES__________
SK
[२८८] णाः ये [२८९] शयानां न [२९०] स् तु प्रमाणं ज (KHA) [२९१] त्मव [२९२] णं भ (KA) [२९३] वदा (GA)
SK
किञ् च इतश् च न स्वतः प्रामाण्यम् इत्य् आह -- प्रामाण्यं[२९४]हीति. अयम् अर्थः -- यदि ज्ञानस्वभावानुबन्ध्यौसर्गिकं प्रामाण्यम्, एवं सति प्रामाण्याभावस्यावस्तुनो ऽकृत्रिमत्वान् न पराधीनत्वम् इति सर्वज्ञानानाम् अपि प्रमाणत्वप्रसङ्गः.[२९५]स्वप्नादिज्ञानानाम् अपि ज्ञानत्वाविशेषात्, तन्मात्रानुबन्धित्वाच् च प्रामाण्यस्य. अप्रामाण्यस्य चावस्तुनो ऽकार्यत्वाद् इति
SK
__________NOTES__________
SK
[२९४] ण्यम् इति [२९५] ङ्गः, तदा स्व
SK
कथं नामाप्रामाण्यम् अकृत्रिमम्. दोषभावे हि तस्य भावः, तदभावे चाभावो दृश्यते. कामिली पीतम् इदम् इति शङ्खं जानाति, तद्[२९६]अपगमे शुक्लम्. अतो जानीमः यथादोषभावभाव्यप्रामाण्यं तत् कार्यम् इति, अत आह -- मत्पक्ष इति. अयम् अभिप्रायः -- नात्र दोषैर् अप्रामाण्यं जन्यते. सत्सु तु दोषेष्व् असन्तो गुणा न स्वकार्यं प्रामाण्यं जनयन्तीति नावस्तुनो ऽप्रामाणस्य हेतुमत्त्वप्रसङ्गदोष इति
SK
__________NOTES__________
SK
[२९६] दभावे शु (KHA)
SK
किं पुनः प्रामाण्ये कारणं, यदभावात् तस्यानुत्पत्तिः, अत आह -- इन्द्रियादीति कारणमन्तेन. आदिशब्देनार्थपुरुषादीनां ग्रहणम्. इन्द्रियपुरुषगुणाश् च व्याख्याता एव. अर्थस्यापि स्थूलत्वादयो गुणाः सूक्ष्मत्वादयो दोषा इति. समधिगतं तावदिन्द्रियादिगुणाः प्रामाण्ये{१,८८}कारणम् इति. कथं[२९७]तु तदभावः, अत आह -- तदसद् इति. ते एव विधे दर्शयति -- दुष्टत्वाद् इति. दोषा ह्य् आगन्तवो गुणानुत्सारयन्ति. इन्द्रियादीनाम् अन्यतमस्याभावे निराश्रया गुणा न भवन्ति, यथा नित्यवेदवादिनाम् असति कर्तरि तद्गुणा इति
SK
__________NOTES__________
SK
[२९७] किं तत्र तद
SK
यत एव दोषैर् गुणा निराक्रियन्ते, अत एव मीमांसकानाम् अयं भ्रमो दोषैर् मिथ्यात्वधीर् जन्यत इति. परमार्थेन तु गुणविरोधिनो दोषास्तानेव निवारयन्ति. अतः कारणाभावाद् असति प्रामाण्ये स्वाभाविकम् अप्रामाण्यम् अवतिष्ठत इत्य् आह -- अत एवेति
SK
अतः[२९८]सिद्धं शुद्धिपर्यायगुणावधारणाधीनं प्रामाण्यम्. स्वभावतश् च ज्ञानानाम् अप्रामाण्यं, शुद्ध्यभावेन तल्लक्ष्यते. असति हि शुद्धत्वे कारणाभावनिराकृतेन प्रामाण्येनानपोदितम् अप्रामाण्यं लक्ष्यत इत्य् उपसंहरति -- तस्माद् इति
SK
__________NOTES__________
SK
[२९८] तः शु (KHA)
SK
इतश् च दोषतो नाप्रामाण्यम् इत्य् आह -- अन्वयेति. अस्यार्थः -- त्रिविधम् अप्रामाण्यम् अज्ञानसंशयविपर्ययैः. तत्राज्ञानात्मकं तावदप्रामाण्यं कारणाभावमात्रसमधिगम्यम् एव, न दोषानपेक्षत इति मीमांसकैर् अभ्युपगन्तव्यम्. अतो दोषव्यतिरेके ऽपि कारणाभावमात्रान्वये ऽप्रामाण्यदर्शनान् न दोषतो ऽप्रामाण्यम् इति
SK
एवं च गुणाधीनप्रामाण्याभ्युपगमान् नित्यवेदवादिनां च पुरुषाभावाद्, अनाश्रयगुणासम्भवात्, कर्तृमद्वेदवादिनाम् अपि कर्तृगुणेषु{१,८९}प्रमाणासम्भवाद् असन्[२९९]मूलभूतेषु कर्तृगुणेषु न चोदनानां प्रामाण्यम् अवकल्पत इत्य् आह -- ततश् चेति
SK
__________NOTES__________
SK
[२९९] सत्सु मू (KHA)
SK
एवं तावत् परतः प्रामाण्येन कृतः पूर्वपक्षः. सिद्धान्तम् इदानीम् आरभते -- स्वत इति. कारणम् आह -- न हीति. अयम् अभिप्रायः -- न तावद् गुणज्ञानात् संवादज्ञानाद् वा प्राग् ज्ञानं न जायत एव. नवोत्पन्नम् अपि संशयात्मकम् अवभासते. न हि स्याद् वा घटो न वेति इन्द्रियसन्निकृष्टं घटं बुध्यामहे, अपि तर्हि घट एवायम् इति निश्चयात्मकम् एव ज्ञानम् उत्पद्यते. अत एव ज्ञानोत्पत्तेर् अनन्तरम् एव सर्वप्रमातॄणां व्यवहारप्रवृत्तिर् उपलभ्यते. भ्रान्तिसंविदितरजतो ऽपि हि सम्यग्रजतबोध इवार्थक्रियायै घटमानो दृश्यते. तद् अस्य संशयानस्य नोपपन्नम्. अतो जातो[३००]निश्चयः. किम्[३०१]अन्यत् प्रामाण्यं भविष्यति. सत्य् अपि संवादे गुणज्ञाने वा तावद् एव प्रामाण्यस्य तत्त्वं नाधिकं किञ्चिद् इति किं नस् तदुपेक्षणेन. तादृशस्यैव व्यभिचाराद् अस्ति परापेक्षेति चेद्, न. एवम् अपि ज्ञानस्यानपेक्षत्वाद्, विप्रलब्धपूर्वस्यापि निरपेक्षम् एव निश्चयात्मकं ज्ञानम् उत्पद्यते. प्रमाता तु विप्रलम्भकबुद्धिसादृश्यात् तथात्वम् आशङ्कते. साशङ्कस्यापि न प्रामाण्यशक्तिर् अवसीदति, पूर्ववत् प्रमेयपरिच्छेदात्. प्रमातुस् तु आशङ्का दोषदर्शनप्रभ[३०२]वा. तद् असौ तद्भावाभावयोर् अन्यतरनिश्चये निवर्तते, न संवादज्ञानम् अपेक्षते. सत्य् एव हि घटज्ञाने जाताशङ्कः किं घटज्ञानान्तरेण करिष्यति. न ह्य् अस्यास् तन्निवर्तकं, तस्मिन् सत्य् एव भावात्. अतः स्वाभाविकम् एव सर्वसंविदां निश्चयात्मकत्वम्. आशङ्का तु यदि नाम जातु जायते, एवम् अपि तन्निराकरणार्थम् अपवादसद्भावाभावाव् अनुसर्तव्यौ, न संवादगुणज्ञाने. तदु[३०३]पेक्षायां हि प्रामाण्यम् एव नावतिष्ठेत. गुणसंवादज्ञानयोर् अप्य् एवम् एव, सापेक्षत्वेन प्रथमज्ञाने प्रामाण्यशक्त्याधाना[३०४]शक्तेर् अप्य्[३०५]अनवस्थापाताद् इत्य् एतत् परस्तात् प्रपञ्चयिष्यत इति. एवं तावत् प्रकृताभिप्रायो व्याख्यातः. अपि{१,९०}च सर्वभावानाम् एव स्वकार्यजननशक्तिर् असती नान्येन क्रियेत. अभिव्यक्तिमात्रकरणात्. नन्व् आतुरस्य रोगापहृतशक्तेर् असत्य् एव भोजनादिशक्तिर् भेषजभेदैर् आधीयते. मैवम्. तिरोहिताभिव्यक्तेः. इतरथा पूर्वशक्तिविनाशापूर्वोत्पादधर्मिकल्पनाभिर् अतिगौरवं भवेत्. अत एव नष्टशक्तीनां भेषजभेदैर् अपि न प्रतीकारः. असती तु शक्तिस् तेषाम् अपि जन्येतैव, अविशेषात्. अतः सर्वे भावाः स्वहेतुभ्यः शक्तिमन्तो जाता एव कुतश्चिदागन्तुकाद् धेतोस् तिरोहितशक्तयः सामग्रीविशेषैर् अभिव्यक्तशक्तयः कार्यम् आरभन्ते. न चैवं ज्ञाने ऽप्य् अभिव्यक्त्यपेक्षा सम्भवति, अर्थावग्रहाद्, रूपान्तरेण ज्ञानस्यानिरूपणाद् उत्पत्ताव् एवा[३०६]र्थपरिच्छित्तेर् अवश्यम्भावाद् इति
SK
__________NOTES__________
SK
[३००] ज्ञा (KA, KHA) [३०१] म् अप्रमाणं भ [३०२] भावात् तद् असौ [३०३] द (GA) [३०४] न (KA) [३०५] व्यव (KHA) [३०६] व प (KHA)
SK
ननु स्वतःप्रामाण्यवादिनापि गुणवदिन्द्रियादिकारणिकैव प्रमाणोत्पत्तिर् आस्थेया. तद् यदि गुणाः प्रमाणोत्पत्तौ कारणम्. एवं सति तत्कार्ये ऽप्य् अर्थनिश्चये तदधीनतैव युक्ता. तदायत्तप्रामाण्याश्रयणाद्, अत आह -- आत्मलाभ इति. अयम् अभिप्रायः -- प्रमाणोत्पत्ताव् अपि न गुणा गुणा इत्य् एवापेक्ष्यन्ते; किन् तु दोषनिराकरणौपयिकतया. दोषा हि प्रमाणोत्पत्तिं विघ्नन्ति. ते गुणैर् उत्सारिता न तां विहन्तुम् उत्सहन्ते इति. अत एवासत्स्व् अपि वक्तृगुणेषु कारुणिकत्वादिषु वेदे दोषाभावमात्राद् एव प्रामाण्यं सिध्यति. अपि च कारणं नाम गुणः प्रमाणोत्पत्तौ. नैतावता प्रमाणकार्ये ऽप्य् अर्थनिश्चये तदपेक्षा युक्ता. आत्मलाभमात्र एव हि भावाः कारणम् अपेक्षन्ते, न कार्यनिष्पत्तौ. न हि मृत्पिण्डदण्डादिकारणापेक्षो जन्मनि घट इति उदकाहरणे ऽपि तस्य तदपेक्षा दृष्टा. लब्धात्मनस् तु स्वयम् एव कारणनिरपेक्षा प्रवृत्तिर् अवगता. अतः सर्वथा तावदर्थव्यवस्थापनायाम् अन्यान् अपेक्षम् एव प्रमाणम् इति सिद्धम् इति
SK
स्वतो ऽसती शक्तिर् अन्येन कर्तुं न शक्यत इति यद् उक्तं तत् प्रपञ्चयति -- जाते ऽपीति त्रिभिः. अयम् अभिप्रायः -- प्रामाण्यस्य ह्य् अन्यानपेक्षत्वम्{१,९१}एव निबन्धनम्. यदि जाते ऽपि विज्ञाने कारणगुणावधारणाधीनं प्रामाण्यं भवेत्, ततः शुद्धिज्ञानोत्पादः कारणान्तरात् प्रतीक्षितव्यः. तस्याः शुद्धेर् अपरिच्छिन्नाया असत्समत्वात् तस्यापि शुद्धिज्ञानस्य कारणशुद्धौ सत्यां तस्याः शुद्धेर् ज्ञाने च सति प्रमाणता भवति. एवम् एव मूलकारणशुद्धिज्ञानस्यापरापरशुद्धिज्ञानापेक्षायाम् अनवस्थापातान् न कथञ्चित् प्रामाण्यम् आपद्यत इति || ४९-५१ ||
SK
स्वतस् तु प्रामाण्ये नानवस्थेत्य् आह -- यदेति. कारणम् आह -- निवर्तत इति. अयम् अभिप्रायः -- अर्थनिश्चयस् तावज्ज्ञानस्वभावाद् एव सिद्धः. मिथ्यात्वशङ्का तु तद्धेतुभूतदोषाज्ञानाद् अयत्नेनैव निवर्तते. न हि दोषाणाम् अज्ञानं प्रागभावो यत्नसाध्यः. ननु नाज्ञानमात्राद् अभावः सिध्यति. सत्य् अपि[३०७]तस्मिन् भावात्. न च दोषाभावावधारणम् अन्तरेण प्रामाण्यं सिध्यति. सत्यं, तद् अपि त्व् अयत्नसाध्यम् एव, प्रायेण तावत् प्रमातॄणाम् अनाशङ्क एव ज्ञानोत्पत्तौ व्यवहारो दृश्यते. जाताशङ्कस्यापि प्रसिद्धा एव शङ्कानिराकरणोपायाः, दाहच्छेदादयः स्वर्णादाव् इति. तावतैव निश्चयोत्पादान् नातिदूरगमनम्. एतच् चोपरिष्टाद् वक्ष्यत एवेति
SK
__________NOTES__________ [३०७] पि भावात् तस्मिन् च न (KA)
SK
तस्माद् बोधस्वभावानुबन्धि ज्ञानानाम् औत्सर्गिकं प्रामाण्यं कारणदोषार्थान्यथात्वज्ञानाभ्याम् अपोद्यत इत्य् उपसंहरति -- तस्माद् इति. अर्थान्यथात्वज्ञानं{१,९२}च द्वेधा. नैतद् एवम् इति पूर्वावगतरूपोपमर्दनेन, तत्त्वप्रकाशनेन वा. हेतवो ज्ञानानाम् इन्द्रियादयः. तेषु वातादिसमुत्थास्तिमिरादयो दोषाः तज्ज्ञानेनोत्सर्गतः प्राप्नुवती प्रमाणतापोद्यत इति
SK
यत्पुनरप्रामाण्यम् अवस्तुत्वान् न कारणैर् जन्यत इत्य् उक्तं, तत् परिहरति -- अप्रामाण्यम् इति. यदि नाम त्रेधा भिन्नम् अप्रामाण्यं ततः किं जातम् अत आह -- वस्तुत्वाद् इति. अयम् अभिप्रायः -- त्रिविधं खल्व् अप्रामाण्यं ज्ञानाभावसंशयविपर्ययैः. तत्र संशयविपर्ययौ प्रति अवस्तुत्वाद् इति हेतुर् असिद्धः, ज्ञानात्मकवस्तुत्वात् तयोर् इति
SK
ज्ञानप्रागभावस् त्व् अवस्तुतया सिद्ध एव. न चास्माकम् अप्य् असौ दोषैर् जन्यते, ज्ञानकारणाभावाद् एव त्वदुक्तिवत् तत्सिद्धेः. अतस् तस्मिन्न् अकारणके साध्यमाने सिद्धसाध्यतैवेत्यभिप्रायेणाह -- अविज्ञान इति. न चाप्रामाण्यशब्द[३०८]वाच्यतामात्रेण संशयविपर्यययोर् अप्य् अकारणकत्वं शक्यम् अनुमातुम्, अज्ञानवद्, वाचो ऽपि गोशब्दवाच्यतया विषाणित्वाप[३०९]त्तेर् इति
SK
__________NOTES__________
SK
[३०८] ब्दा (KHA) [३०९] त्वानुमानापत्तेः (GA)
SK
नन्व् इयम् अनवस्था प्रामाण्य इव पराश्रये ऽप्रामाण्ये ऽपीष्यमाणे आपद्यत एव, पारतन्त्र्यं ह्य् अनवस्थाम् आपादयति. अतः को विशेषः, अत आह -- दोषत इति. अस्यार्थः -- स्वतःप्रामाण्यवादिनां मीमांसकानां दोषतो ऽप्रमाणत्वे नानवस्था भवति. दोषेषु ज्ञातव्येषु यथा गुणज्ञाने ऽनवस्थापादितेति
SK
{१,९३} स्वतःप्रामाण्यवादिनाम् इति चानवस्थापरिहारबीजम् उक्तं, तदुद्धाटयति -- साक्षाद् इति. अयम् अभिप्रायः -- सजातीयापेक्षायां ह्य् अनवस्था भवति. यथा[३१०]प्रामाण्यस्य प्रमाणापेक्षायाम् उक्तम्. अप्रामाण्यं तु स्वतः प्रमाणेन नैतद् एवम् इति साक्षाद् विपर्ययज्ञानेन यत्र तावदवगम्यते, तत्र लघुतरम् एव गृहीतम् इति न पराश्रयत्वमात्रम् अनवस्थाम् आपादयतीति. ननु स्वतःप्रामाण्ये पूर्वम् अपि ज्ञानम् उत्पन्नम् असन्दिग्धम् इति किम् अप्रमाणं भविष्यति येन परेण पूर्वं बाध्यते. तेनैव तु किं न परं बाध्यते, अत आह -- पूर्वेति. अयम् अभिप्रायः -- सत्यम्, उत्सर्गतः पूर्वस्यापि प्रामाण्यं प्राप्तम् एवापवादभूतेन तूत्तरेण बाध्यमानं तदप्रमाणं भवति. यत् तु तेनैव किं नोत्तरं बाध्यत इति. तन् न, न हीच्छामात्रेण बाध्यबाधकभावो व्यवस्थाप्यते. यद् धि यद्बाध[३११]कम् अवभासते तत् तस्य बाधकम् अभिधीयते. नचानागतोत्तरबाधकरूपेण पूर्वम् अवभासत इति नचानागतबाधेनेत्य् अत्रैव वक्ष्यति. उत्तरस्य तु पूर्वज्ञानबाधम् अन्तरेणोत्पत्तिर् एव न सम्भवति. उत्पन्नं च तत्. अतस् तद् एव पूर्वस्य बाधकम्. तच् च स्वत एव प्रमाणम् इति न काचिदनवस्थेति
SK
__________NOTES__________
SK
[३१०] प्रमाणस्य (GA) [३११] धमानम् अ (KA)
SK
नन्व् अस्तु साक्षाद् विपर्ययज्ञानेन परेण पूर्वस्य बाधः, उभयोर् अपि समानविषयोपनिपातात्. यत्र तूत्तरं कारणदोषविषयं भवति, तत्र विषयभेदान् न बाधो युक्त इति दुरुक्तं हेतूत्थदोषज्ञानात् प्रामाण्यम् अपोद्यत इत्य् अत आह -- दुष्टेति बाधो ऽन्तेन. अयम् अभिप्रायः -- यद्य् अपि दुष्टकारणबोधे विषयभेदः पीतशङ्खादिविभ्रमेषु, तथाप्य् अर्थात् तुल्यार्थतां प्राप्य बाधो भवत्य् एव. शङ्खे हि पीत इति विदिते परतश् च ज्ञानकारणदोषे ऽवगते ऽर्थात् पीतिमा शङ्खस्य प्रतिक्षिप्तो भवति. यत्कारणाधीनात्मलाभं हि यत् कार्यं, तत् तद्दोषे दुष्यति. एष च ज्ञानस्य दोषः यदन्यथास्थितस्यान्यथाप्रकाशनम्. अतः कारणदोषे ऽवगते ऽर्थान्यथात्वम् एवावगतं भवति. एवं च{१,९४}साक्षाद्विपर्ययज्ञानेन तुल्यत्वम् इति. अत्रैव वैदिकन्यायम् उदाहरति -- गोदोहनादिवद् इति. दर्शपूर्णमासयोः क्रत्वर्थेन चमसेनापां प्रणयने विहिते भवत्य् अपरो गुणफलसम्बन्धविधिः. यथा गोदोहनेन पशुकामस्य प्रणयेद् इति. अस्यार्थः -- गोदोहनेन पशून् भावयेद् इति. तद् इदं पुरुषाभिलषितपश्वर्थ[३१२]तया पुरुषार्थम् एव[३१३]सद् गोदोहनं क्रत्वर्थस्य चमसस्य बाधकम् इष्यते. तत्रापि च स्फुटो विषयभेदः. क्रतूपकारो हि चमसस्य साध्यः. पशवो गोदोहनस्यार्थाद् एव तुल्यार्थतया तत्रापि बाधो वक्ष्यते. गोदोहनं हि द्रव्यम्. न तत् क्रियाम् अनाश्रितम् उदासीनं फलं भावयितुम् अलम् इति यांकाञ्चित् क्रियाम् आश्रयतया समीहमानं सन्निहितं क्रत्वर्थमपां प्रणयनं गृह्णातीति तदाश्रितेन पशवो भावयितव्या इति शास्त्रार्थो ऽवतिष्ठते. एवं च तेनैव क्रत्वर्थमपां प्रणयनं सिद्धम् इति चमसो निवर्तते. नन्व् असाव् एव क्रतौ विनियुक्त इति कथं तत्परित्यागेन गोदोहनेन क्रतूपकारो भाव्यते. सत्यम्. पशुकामप्रयोगे तु क्रतुर् अपि गोदोहनम् एव स्वोपकारसाधनतयानुजानाति. कार्यार्थो हि स्वगुणं प्रत्यादरः, न स्वीयतया. तच् च कार्यं फलार्थत्वाद् एव गोदोहनाद् आसादितं क्रतुनेति किम् आदरेण स्वगुणे. आह च --
SK
__________NOTES__________
SK
[३१२] र्थं [३१३] व गो (GA)
SK
सर्वस्यैव हि कार्यार्थः स्वगुणग्रहणादरः |
SK
अन्यार्थगुणसिद्धे तु कार्ये ऽस्याः स्वगुणेन किम् ||
SK
इति. तद् इह यथा पुरुषार्थेनैव गुणेन भिन्नविषयो ऽपि क्रत्वर्थश् चमसो ऽर्थात् तुल्यार्थतया बाध्यते, एवम् अत्रापीति न दोष इति
SK
किम् एष एवोत्सर्गः यत् सर्वदा परेण पूर्वं बाध्यते. नेत्य् आह -- तत्रेति. यदि तत्र दुष्टकारणबोधे नैतद् एवम् इति विपर्यये वा परा बाधधीर् न भवति कारणदोषज्ञानं वा, तदा पूर्वस्य बाधो भवति न त्व् अन्यथेति. अथोभयोर् अन्यतरोद्भूतौ किं नाम भविष्यति, अत आह -- तदुद्भूताव् इति. तदा बाधके सापवादे प्रथमम् एव निरपवादम् औत्सर्गिकं प्रामाण्यं लभत इति
SK
{१,९५} ननु प्रमाणेन सता तृतीयेन बाधकं बाध्यते. तद् एव तु कथं प्रमाणम् अत आह -- स्वत इति. सर्वं खलु विज्ञानं जातं स्वत एव प्रमाणम् अविज्ञायमानदोषम्. तथा च तृतीयम्. अतस् तेन बाधकबाधने कृते भवत्य् आद्यस्य मानतेति. नन्व् असत्स्व् अपि[३१४]दोषेषु दोषाशङ्का यथा आदिमे जाता, एवम् अन्तिमे ऽपीति प्रामाण्यं नावतिष्ठते, अत आह -- दोषेति. अयम् अभिप्रायः -- जाते दोषज्ञाने सम्भाविता दोषाः प्रामाण्यं विघ्नन्ति. तृतीये तु दोषज्ञानं न तावदुत्पन्नम्. शङ्का तु नोत्प्रेक्षामात्रेण कर्तुम् उचिता, सर्वव्यवहारोच्छेदप्रसङ्गात्.
SK
__________NOTES__________
SK
[३१४] षाश
SK
अत एव च गीतासु नरं नारायणो ऽब्रवीत् |
SK
नायं लोको ऽस्ति कौन्तेय न परः संशयात्मनः ||
SK
इति. यस्य तु तृतीये विज्ञाने दोषज्ञानं बाधक[३१५]ज्ञानं वा जायते, तस्यास् तु चतुर्थज्ञाना[३१६]वसानो निर्णयः. न त्व् एतद् एवं, प्रायेण हि प्रथमज्ञानजन्मन्य् एव निरपवादो निर्णयो दृश्यते. क्वचित् तु बाधका[३१७]वसानस् तृतीयज्ञानोदयो ऽपि नातिप्रचुरः. नतरां चरुर्थज्ञानजन्म. सत्य् अपि तु तस्मिन् न स्वतःप्रामाण्यं विहन्यते इत्य् एवम् परतयैवेदम् अस्माभिर् उक्तम्. अस्तु चतुर्थज्ञानान् निर्णय इति वार्त्तिककारो ऽप्य् अत एव एवं त्रिचतुरज्ञानजन्मन इति वक्ष्यतीति. किं पुनः कारणम् अनुत्पन्ने दोषज्ञाने नाशङ्केति. न हि प्रयोजनानुवर्तीनि प्रमाणानि. दृष्टव्यभिचारस्य हि प्रमातुर् एकत्रापि नाश्वासो भवेद् यदि चैवम् उच्छिद्यन्ते व्यवहाराः. कामं प्रमाणतो हि ते परिनिस्तिष्ठन्ति. न तेभ्यः प्रमाणम् अत आह -- निष्प्रमाणिकेति. अयम् अभिप्रायः -- यावद् धि दोषाणाम् अभावो नावधार्यते, तावत् प्रमाणेतरसाधारणधर्मदर्शिनो भवत्य् आशङ्का प्रमाणवती. दोषाभावावधारणे तु जाते तानाशङ्कमानस्याभावविरोध एव.[३१८]अर्थेन्द्रियादयो हि ज्ञानकारणम्. तद्दोषा दूरत्वतिमिरादयः. तद् यथा दूरे सन्तस्तरवो वनम् इत्य् एकाकारतया परिगृहीताः सन्निकर्षे नाना दृश्यन्ते. तदा दूरत्वदोषाद् एकत्वबुद्धिर् उपजातेति निश्चीयते. नानात्वबुद्धेस् तु न कश्चिद् दोषो दृश्यत इति कथम् आशङ्क्यते.{१,९६} एवं सन्तमसे गव्यश्वभ्रमे स एव दोषः. दिवा तु गोज्ञाने न कश्चिद्दोषः सम्भाव्यत इति तत्प्रमाणम्. एवं चक्षुरादिदोषाणां तिमिरादीनाम् अभावे ऽवगते निष्प्रमाणिकैव दोषाशङ्का. यत्रापि सादृश्यचलत्वादयो विषयदोषा भ्रान्तिहेतवः, तत्रापि भेदकधर्मावधारणे निश्चलत्वे ऽवगते च न काचिद् दोषाशङ्केति न तत्समयभाविनो ज्ञानस्याप्रामाण्यम् इति
SK
__________NOTES__________
SK
[३१५] को वा
SK
[३१६] नान् निर्णयः (KA); नाद् ज्ञानोदयो निर्णयः (KHA) [३१७] काधीनस् तृ (KA) [३१८] आत्मे (KHA)
SK
एवं त्रिचतुरैर् एव ज्ञानैर् दोषाभावसिद्धेर् न ततो ऽधिका मतिः प्रार्थनीया प्रामाण्यसिद्धये, येनानवस्था भवेत्. यावद् एव तु तृतीयं चतुर्थं वा ज्ञानम् उत्पन्नं, तावद् एवैकं पूर्वम् उत्तरं वा निरपवादं स्वतःप्रामाण्यम् आपद्यत इत्य् आह -- एवम् इति
SK
समधिगतं तावत् सर्वप्रमाणानां स्वतःप्रमाणत्वं दोषतश् चाप्रमाणत्वम् इति. प्रकृतम् इदानीं वेदानां प्रामाण्यं यथा सिध्यति तथा प्रतिपादनीयम्. तदर्थं च वक्त्रधीना एव शब्दे दोषा न स्वाभाविका इत्य् आह -- शब्द इति. अयम् अभिप्रायः -- यदा वक्त्रधीनाः शब्दे दोषा इति समधिगतं भवति, तदा वेदे वक्तुर् अभावान् निराश्रया दोषा न सम्भवन्तीति निरपवादं प्रामाण्यम् उप[३१९]पन्नं भवति वेदानाम्. स्थितं चेदं यत् पराधीनः शब्दे दोष इति, स हि ना(?र्था/र्थ)संस्पर्शीति पूर्वम् उपपादितम्. पुरुष एव भ्राम्यन्न् अन्यद् अन्यथा बुद्ध्वा तथैव परस्मै[३२०]प्रतिपादयन् शब्दं दूषयति. क्वचिच् चान्यथैव ज्ञात्वा विप्रलिप्सयान्यथा वदति, तत्रापि तदधीनैव शब्दे दोषावगतिः. स्थानकरणादिदोषाद् वा कलाध्माताम्बूकृतैणीकृतादिदोषदुष्टः शब्दो लक्ष्यते. सर्वथा पराधीन एव शब्दे दोषावगमः, न पुनर् असुरभिगन्धवत् स्वभावदुष्टः शब्द इति. स इदानीं वक्त्रधीनो दोषो गुणवद्वक्तृप्रयुक्ते वा क्वचित् पौरुषेये वाक्ये न भवतीत्य् आह -- तदभाव इति
SK
__________NOTES__________
SK
[३१९] त्पन्नं (KA) [३२०] कथयञ् छब्दं (KHA, GA)
SK
{१,९७} ननु वक्तृगुणा वक्तर्य् एव दोषानुत्सारयन्ति, कथं तैर् निरस्तैः शब्दो निर्दोषो भवत्य् अत आह -- तद्गुणैर् इति. उक्तं वक्तृदोषा एव शब्दं दूषयन्तीति. स चेद् गुणैर् उत्सारितो दोषः, कः प्रसङ्गः शब्दे दोषाणाम्. न हि वक्तर्यनाश्रितानाम् एव दोषाणां शब्दे सङ्क्रान्तिः सम्भवतीति फलतः सङ्क्रान्तिवाचोयुक्तिर् इति. वक्त्रभावाद् एव वा निराश्रया दोषा नोत्सहन्ते भवितुं नित्यवेदवाक्य इत्य् आह -- यद् वेति. दोषाभावाच् च न स्वतःप्रामाण्यं वेदानां विहन्यत इति भावः
SK
नन्व् अङ्गीकृतं तावद् भवतापि पुंवाक्येषु गुणेभ्यो दोषाभाव इति. एवं च कुतो ऽयं विवेकः दोषनिराकरण एव गुणा व्याप्रियन्ते न तु प्रामाण्य इति, अत आह -- पौरुषेये इति. अयम् अर्थः -- सत्यं पौरुषेयवाक्येषु दोषाभावगुणात्मकम् उभयं दृश्यत एव. यथा तु गुणतो न प्रामाण्यं तथा प्रामाण्यं प्रागुक्तम् एव अनवस्था हि तथा स्याद् इति. अतो दोषाभावमात्रौपयिका गुणा न स्वरूपेण प्रामाण्य उपयुज्यन्त इति
SK
एतद् एवोपसंहरति -- तस्माद् इति. अप्रामाण्यस्य हि द्वयं कारणं कारणदोषज्ञानं बाधकप्रत्ययो वा. गुणनिराकृतेषु च दोषेषु पुंवाक्येषु नोभयम् अपि सम्भवति. न ह्य् असनतो दोषा ग्रहीतुं शक्यन्ते. न चादुष्टकारणजनितस्य ज्ञानस्य बाधकः प्रतितिष्ठति. अतो ऽप्रामाण्यस्य यत् कारणद्वयं तदसत्त्वाद् उत्सर्गतः प्रामाण्यम् अनपोदितम् इति
SK
असति चापवादे न प्रत्ययजनकत्वेनोत्सर्गतः प्राप्तं प्रामाण्यं पुंवाक्यानाम् अपनीयत इत्य् आह -- प्रत्ययोत्पत्तिर् इति. अत्र चोदयति -- दोषाभाव {१,९८}इति. यद्य् आप्तवाक्येषु गुणनिबन्धनो दोषाभावः, एवं तर्हि गुणज्ञानाधीन इव प्रामाण्ये ऽनवस्थैव. कः खल्व् अत्र विशेषः, गुणज्ञानाधीनं वा प्रामाण्यं तदधीनो वा दोषाभाव इति. यद् एव हि दोषाभावं ग्रहीतुं गुणज्ञानम् अपेक्ष्यते, तस्यैव हि गुणज्ञानाधीनो दोषाभावः, तस्याप्य् एवम् इति सैव पूर्वोक्तानवस्था. तथश् च प्रामाण्योत्खातिर् इति
SK
परिहरति -- तदेति. अयम् अभिप्रायः -- यदि ज्ञाता एव गुणा दोषानुत्सारयेयुः, एवम् अनवस्था भवेत्. न त्व् एतद् एवम् इति. कथं नाम व्याप्रियन्ते अत आह -- दोषाभावे इति. सन्मात्रतया गुणा दोषानुत्सारयन्ति.[३२१]अतो ऽसन्तो दोषा न ज्ञाता इति सहजं प्रामाण्यम् अवतिष्ठत इति
SK
__________NOTES__________
SK
[३२१] त
SK
तद् एवं तावद् गुणनिराकार्यदोषेष्व् अपि पुंवाक्येषु दोषपरिहार उक्तः. अकर्तृसन्दृब्धे तु वेदे निराश्रया दोषाः शङ्काम् अपि नाधिरोहन्तीत्यप्रामाण्यशङ्कापि नास्त्य्[३२२]एवेत्य् आह -- तत्रेति. प्रामाण्यस्यौत्सर्गिकस्याप्रामाण्यम् अपवादभूतं तन्निर्मुक्तिर् वेदे लघीयसी न पुंवाक्यवद् गुणापेक्षि[३२३]तया गुर्वीति भाव इति
SK
__________NOTES__________
SK
[३२२] स्तीत्या [३२३] क्ष (KA)
SK
यतः पुंवाक्येष्व् अपि न गुणापेक्षं प्रामाण्यम्, अतो न शब्दानां प्रमाणता वक्त्रधीना. तद्गुणापेक्षायां तु तदधीनता भवेत्. न चैतद् एवम् इति वर्णितम् एव. अतो यद् नैयायिकादिभिः प्रामाण्यसिद्ध्यर्थं वेदे वक्तुर् उपासनं कृतं महेश्वरेण वेदाः प्रणीता इत्य् आश्रितं तद् अयुक्तं, दोषाभावाद् एव तेषां स्वतः प्रामाण्यसिद्धेर् इत्यभिप्रायेणाह -- अत इति न युक्तमन्तेन.{१,९९}अप्रमाणत्वानुगुणैव दोषाशङ्काम् उपजनयन्ती कर्तृकल्पनेत्य् आह -- अप्रमाणत्वेति
SK
अत एव च यद् अपि नास्तिकैर् आप्ताप्रणीतत्वेनाप्रामाण्यप्रसञ्जनं कृतं, तद् अप्य् अत्र नित्ये वेदे दोषाय न जायत इत्य् आह - ततश्[३२४]चेति. अयम् अभिप्रायः -- पौरुषेयवाक्यम् आप्ताप्रणीतत्वेन दुष्यति. तद् धि तदप्रणीतम् अर्थादनाप्तप्रणीतं भवेत्. ततश् च तद्दोषदुष्टम् अप्रमाणं भवेत्. नित्यं तु यदि नामाप्ताप्रणीतम्, एवम् अपि निर्दोषम् एवेति न तस्याप्ताप्रणीतत्वेन प्रामाण्यं विहन्यते. पौरुषेयम् अपि हि नाप्ताप्रणीतत्वेनाप्रमाणम्, अपि तु अनाप्तप्रणीततया. सा च नित्ये नास्तीति किम् अप्रमाणं भविष्यतीति. ननु व्याप्तिबलेन परैर् आप्ताप्रणीतत्वेनाप्रामाण्यं साधितं बालादिवाक्यनिदर्शनेन यद् वाप्तेनाप्रणीतत्वाद् इत्य् अत्र. अतो हेतुदोषा एव विरुद्धासिद्धादयो ऽभिधीयन्ताम्. किं स्वगोत्रानुसारिणा वचनेन, अत आह -- प्रयोगाणाम् इति. न परमस्य प्रयोगस्य, सर्वेषाम् एव प्रयोगाणाम् उत्तरत्र प्रतिसाधनं वक्ष्याम एव चोदनाजनिता बुद्धिर् इत्यादिना. अतः प्रतिहेतुविरुद्धा अप्रामाण्यहेतवः संशयजनकतया नाप्रामाण्यं निश्चाययन्ति यदि तुल्यबलाः. अथ तु प्रामाण्यहेतवो बलीयांसः, ततस् तद्बाधिता नतरामात्मानम् अप्रामाण्यहेतवो लभन्त इति
SK
__________NOTES__________
SK
[३२४] त इति (KA)
SK
कथं पुनराप्ताप्रणीतत्वं न दोषाय, आप्तो हि प्रमाणेनार्थं प्रतिपद्य वाक्यम् आरचयति. तच् च मानान्तरसंवादाद् एव हि प्रमाणं भवति. आप्ताप्रणीतं ह्य्[३२५]असन्मूलप्रमाणान्तरं कथं प्रमाणं भविष्यतीत्य् अत आह -- पौरुषेयेति. अयम् अभिप्रायः -- वेदवाक्यं मूलान्तरानपेक्षम् एव स्वार्थे प्रमाणं, किं तस्य प्रमाणान्तरेण. पौरुषेये तु वचसि प्रमाणान्तरं मूलकारणम् इति तत् तदभावे दुष्यतीति
SK
__________NOTES__________
SK
[३२५] त्व (KHA, GA)
SK
{१,१००} यत् तु असन्मूलान्तराणाम् असम्भवत्संवादानां कथं प्रामाण्यम् इति, तद् अयुक्तम्. येनैव हि कारणेन प्रमाणान्तरमूला न चोदनाः, तेन येयम् असङ्गतिस् तासां प्रमाणान्तरैः, सैव सुतरां प्रामाण्यकारणम्. अत एव अर्थे ऽनुपलब्धे इति वक्ष्यति. अप्राप्ते शास्त्रम् अर्थवद् इति च. प्रमाणान्तरमू[३२६]लत्वे ऽनुवादत्वम् एवासाम् आपद्यते, न प्रामाण्यम्. न हि नो गन्तृमात्रं प्रमाणम् इत्यभिप्रायेणाह -- तेनेति.
SK
__________NOTES__________
SK
[३२६] प्राप्तविषयत्वे (KHA)
SK
यद् अपि तावत् प्रमाणान्तरगोचरार्थं पुंवचनं, तस्यापि प्रामाण्ये न संवादः कारणम्. किमङ्ग पुनः प्रमाणान्तरागोचरार्थानां वेदवाक्यानाम् इत्यभिप्रायेणाह -- अन्यस्यापीति. तद् अपि स्वत एव प्रमाणम् इति भावः. नन्व् एक एवार्थो ऽनेकेभ्य आप्तवाक्येभ्यो ऽवगम्यते. सर्वाणि च तानि प्रमाणानि. यथा -- अष्टवर्षं ब्राह्मणम् उपनयीत
SK
गर्भाष्टमे ऽब्दे[३२७]कुर्वीत ब्राह्मणस्योपनायनम्
SK
__________NOTES__________
SK
[३२७] वा
SK
इति च. अतः कथम् उच्यते प्रमाणान्तरागोचरार्थत्वम् एव प्रामाण्ये कारणम् इति, अत आह -- तुल्यार्थानाम् इति. एकार्थोपनिपातिनां हि व्रीह्यादीनां विकल्पो वक्ष्यते एकार्थास् तु विकल्पेरन् (१२.३.१०) इति. अतो ऽत्रापि प्रमातृभेदाद् व्यवस्थितविकल्प एव प्रमाणानां, शाखादिविकल्पवत्. न पुनरन्योन्यसंवादः प्रामाण्ये कारणम्. तथा हि -- गौतमीयगोभिलीये छन्दोगानां, याज्ञवल्कीयं वाजसनेयिनां प्रमाणं विकल्प्यत्वात्. विकल्पनीयत्वाद् एकैकं स्मृतिवाक्यम् एकैकस्य प्रमातुर् बोधकं न त्व् अन्योन्यसंवादात्[३२८]प्रामाण्यम्, धर्मद्रोणाध्यायिनाम् अपि नान्योन्यसंवादः प्रामाण्ये कारणम्. एकस्माद् धि तम् अर्थं विदितवतो ऽन्यदनुवाद एव. अन्यस्यैव तु तत् प्रमाणम्. एवं भिषग्विद्यास्व् अपि दर्शयितव्यम् इति
SK
__________NOTES__________
SK
[३२८] दःप्रामाण्ये कारणम्. ध (KHA, GA)
SK
{१,१०१} यत्र तर्हि प्रमातुर् एकस्यैवैकार्थगोचरा नानाप्रमाणैः परिच्छेदा जायन्ते तत्र कथम्. यथा कश्चिद् दूरे सन्तम् अग्निं प्रथमम् आप्तवाक्याद् अवगच्छति, पुनश् चोपसर्पन् धूमाद् अनुमिनोति, ततः पुनरत्यन्तम् आसीदन् प्रत्यक्षयति. तत्र हि सर्वाण्य् एव प्रमाणानि, परस्परसङ्गतार्थानि च. अतः कथं न संवादः प्रामाण्ये कारणम् इत्य् अत आह -- यत्रापीति. अयम् अभिप्रायः -- यदि तावदनधिकविषयाण्य् एव तानि सर्वाणि, तत एकम् एव तत्राद्यं प्रमाणम्. इतराणि त्व् अनुवादभूतानि. नचैतान्य् अनधिकविषयाणि. न ह्य् असाव् अर्थः पूर्वेण प्रमाणेन तथावगतः यथोत्तरैर् अवगम्यते, उत्तरोत्तरकालसम्बन्धातिरेकात्. अपि चाप्तवाक्यात् पर्वतो ऽग्निमान् इति सामान्यतो ऽवग[३२९]म्यते. पुनस् तदेकदेशविशेषो[३३०]धूमानुमानाद् अवगम्यते. असाधारणधूमदर्शनाच् च काष्ठादिभेदभिन्नः प्रत्यक्षेण च समुन्मी[३३१]लिताखिलविशेषो[३३२]विशदतरमयम् इत्य् अपरोक्षम् अवसीयते इत्य् अधिकाधिकविषयाणां न संवादतः प्रामाण्यम् इति
SK
__________NOTES__________
SK
[३२९] गते [३३०] षो ऽनु [३३१] दिता [३३२] षो ऽपि वि (KHA)
SK
संवादनिबन्धने च प्रामाण्ये ऽनवस्थापद्यत इत्य् आह -- सङ्गत्येति
SK
नन्व् अविसंवादि ज्ञानं प्रमाणम् अर्थक्रियास्थितिश् चाविसंवाद इति जातायाम् अर्थक्रियायां किं प्रमाणान्तरापेक्षया. यथाहुः --
SK
प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रियास्थितिः |
SK
अविसंवादनम्
SK
इति. प्रत्यक्षम् अनुमानं च द्वे एव प्रमाणे इति प्रतिज्ञाय न ह्य् आभ्याम् अर्थं परिच्छिद्य प्रवर्तमाणो ऽर्थक्रियायां विसंवाद्यते इति च. अतो ऽर्थक्रियावसानैव प्रमाणस्थितिर् इति न ज्ञानान्तरापेक्षायाम् अनवस्था. अत आह -- कस्येति. अयम् अभिप्रायः -- अर्थक्रियाज्ञानम् अपि[३३३]न तावदप्रमाणम्[३३४]अर्थक्रियां व्यवस्थापयितुम्{१,१०२}अलम् इति तत्प्रामाण्यार्थम् अपरापरार्थक्रियानुसरणेनानवस्थैव. यदि त्व् अनपेक्षितज्ञा[३३५]नान्तरम् एव तत् प्रमाणम्, एवं सति प्रथमम् अर्थज्ञानम् एव किम् अनपेक्षं न प्रमाणम् इष्यते. न ह्य् अनयोर् अवबोधरूपत्वे ऽसंशयात्मकत्वे च[३३६]कश्चिद् विशेषो दृश्यते. अपि च प्रमाणेनार्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायाम् अविसंवादं मन्यते. तत्रार्थक्रियास्थितेः प्रागविसंवादानवगतेर् न प्रांआण्यनिश्चय इति कथं प्रवृत्तिः. अप्रवृत्तस्य वा[३३७]कथम् अर्थक्रियास्थितिः. तद् इहोभयस्मिन्न् अन्योन्याधीने दुरुत्तरम् इतरेतराश्रय(त्व)म्. अथ सन्देहाद् एव प्रवृत्तो ऽर्थक्रियास्थित्या अविसंवादं बुद्ध्वा प्रामाण्यं मन्यते, कृतं तर्हि प्रमाणेन. अर्थक्रियार्थम् एव हि तद् अर्थ्यते. सा चेत् सन्देहाद् एव जाता, स एव साधीयान्. तस्यैव व्यवहारौपयिकत्वात्. अतो यद् अप्य् उक्तं हिताहितप्राप्तिपरिहारयोर् नियमेन सम्यग्ज्ञानपूर्वकत्वाद् अविदुषां तद्व्युत्पादनार्थं प्रमाणनिश्चयप्रणयनम् इति, तद् अप्य् अयुक्तम्. अतत्पूर्वकत्वात् तयोः. अपि चास्मिन् मते सकृज्जातविनष्टेषु विद्युदादिभावेषु न काचिदर्थक्रिया जातेति तज्ज्ञानं प्रमाणं न स्यात्. अथ[३३८]तत्रापि शब्दप्रयोगो ऽर्थक्रियेत्य् उच्यते, तर्हि निर्विकल्पके अप्रामाण्यप्रसङ्गः. तस्माद् अविसंवादि प्रमाणम् इति मन्यामह एव. अर्थक्रिया[३३९]स्थितिस् तु अविसंवाद इति न मृष्यामहे. अर्थान्यथात्वहेतूत्थदोषज्ञानाभ्याम् एव तूत्पन्नस्य ज्ञानस्य विसंवादः. तदभावाच् चाविसंवादः. तावता च प्रामाण्यम् इति सिद्धं न संवादापेक्षं प्रामाण्यम् इति
SK
__________NOTES__________
SK
[३३३] पि तावदप्र [३३४] णं नार्थ (GA) [३३५] प्रमाणान्त (KA) [३३६] वा [३३७] च (KHA) [३३८] थवा त (GA) [३३९] या तु अवि (KA)
SK
अपि च संवादापेक्षिणि प्रामाण्ये श्रोत्रजा बुद्धिर् इन्द्रियान्तरजन्याभिर् बुद्धिभिर् असंवादाद् अप्रमाणम् आपद्यते इत्य् आह -- श्रोत्रेति. यदि त्व् अस्याः श्रोत्रज्ञानान्तरसंवादाद्[३४०]एव प्रामाण्यम् इष्यते, तथा सति वेदे ऽपि तत्तद्वाक्योच्चारणानुगामिनी शतकृत्वो बुद्धिर् उत्पद्यत इति सापि नाप्रमाणम् इत्य् आह -- स्याच् चेद् {१,१०३}इति. प्रमाणान्तरजन्या तु संवादबुद्धिर् न परं वेदे, श्रोत्रे ऽपि प्रत्यक्षे च नास्तीत्य् उक्तम् एवेत्य् आह -- प्रमाणेति
SK
__________NOTES__________
SK
[३४०] दात् प्रा (KHA)
SK
तद् एवं स्थिते यद्य् एकेन्द्रियाधीनज्ञानसंवादात् श्रोत्रं प्रमाणम् इत्य् उच्यते; एवं सति वेदे ऽपि[३४१]तत्तद्वाक्योद्भावितबुद्धिसंवादाद् दुर्वारं प्रामाण्यम् इत्य् आह -- यथेति. पौनरुक्त्यं त्व् अत्रानवहिता मन्यन्ते इति, किं तदाक्षेपपरिहाराभ्याम् इति
SK
__________NOTES__________
SK
[३४१] तद्वा (KA)
SK
यत एते संवादापेक्षिणि प्रामाण्ये दोषाः, तस्माद् विमुच्य संवादग्रहणं यदुत्पन्नं दृढम् असन्दिग्धं ज्ञानान्तरेण च नैतद् एवम् इति न विसंवाद्यते. विज्ञानं विशिष्टविषयं ज्ञानम्, अधिकविषयम् इति यावत्. एतेन स्मरणं व्यवच्छिनत्ति. तद् धि पूर्वज्ञानाद् अविशिष्टम् अनधिकविषयत्वात्. तद् एव प्रमाणम् इत्य् आह -- तस्माद् इति
SK
क्व पुनः प्रमाणान्तरास[३४२]ङ्गतार्थं वचः प्रमाणं दृष्टं, येन वेदवाक्यानां प्रामाण्यम् आश्रीयते. पौरुषेयं हि सर्वं प्रमाणान्तरप्रतिपन्नार्थम् एव, अत आह -- न चेति. अयम् अभिप्रायः -- नानुमानसाध्यप्रामाण्यानि प्रमाणानि, येन क्व दृष्टम् इति पर्यनुयु[३४३]ज्यामहे. अनुमाने हि दृष्टान्तापेक्षा भवति. स्वत एव च प्रमाणानां प्रामाण्यम् इति न तेषाम् अनुमानेन प्रामाण्यं साधनीयम् इति. अनुमानेन च प्रामाण्यसाधने तस्याप्य् अनुमानान्तरापेक्षायाम् अनवस्थेत्य् आह -- सर्वस्येति
SK
__________NOTES__________ [३४२] गोचरार्थं (GA) [३४३] यो (KA)
SK
{१,१०४} अत्र चोदयति -- नन्व् इति. अयम् अभिप्रायः -- यथा अप्रमाणम् अप्रमाणतया ना[३४४]वसीयत इति परापेक्षम्, एवं प्रमाणम् अपि प्रमाणतया न प्रकाशत इति तद् अपि परापेक्षम् आपद्यते. न हि प्रमाणत्वेनागृहीतं प्रत्यक्षादि व्यवहाराय[३४५] कल्पते. तदर्थं च प्रमाणानुसरणं न व्यसनेनेति
SK
__________NOTES__________
SK
[३४४] नाध्यव
SK
[३४५] यावक (GA)
SK
परिहारति -- प्रमाणम् इति. अयम् अभिप्रायः -- यथा अविदितस्वरूपशक्तीन्य् अपि चक्षुरादीन्द्रियाणि परानपेक्षाण्य् एव कृतकार्याणि कार्यान्यथानुपपत्त्या पश्चाद् अवसीयन्ते, न चैतेषां ज्ञानं कार्यं प्रत्युपयुज्यते, तस्य निरपेक्षैर् एवेन्द्रियैः कृतत्वात्. एवं प्रमाणम् अपि प्रत्यक्षादि प्रत्ययान्तरग्रहणात् पूर्वं स्वकार्ये विषयपरिच्छेदे निरपेक्षम् एव संस्थितम् अतिक्रान्तं स्वरूपेणैव कदाचिद् गृह्येतापि यदि जिघृक्ष्यते. न तु तस्य ग्रहणं प्रामाण्य उपयुज्यते. यादृशं हि रूपम् अस्य प्रत्ययान्तरेणा[३४६]पि ग्रहीतव्यं तेनैव रूपेण तत् प्राग् अप्य् आसीद् एव. घटप्रत्यक्षेण हि घटो घटो ऽयम् इति निश्चिता[३४७]कारः प्रवेदितः. तावद् एव च तस्य प्रमाणत्वं, प्रमाणान्तरेणापि घटो ऽमुना परिच्छिन्न इत्य् एव प्रवेदनीयम्, नाधिकं किञ्चिद् इति जायमानम् अपि कृतकरम् एव तत् प्रमाणान्तरम्. अप्रमाणे तु पूर्वानवगतरूपज्ञा[३४८]नायार्थवत् प्रत्ययान्तरम् इति वक्ष्यति. संस्थितम् इति प्रमाणपर्यवसानं दर्शयति. कार्यान्तरनिष्पत्त्या हि प्रमाणं सन्तिष्ठते. संस्थिते चानर्थकं प्रत्ययान्तरम् इति
SK
__________NOTES__________
SK
[३४६] ण गृहीतं ते (KA) [३४७] तरूपः प्र (GA) [३४८] ज्ञापना (KA)
SK
यतश् च स्वरूपेण प्रत्ययान्तरैः प्रमाणम् अवसीयते, तच् च स्वरूपम् अवगतपूर्वम् एव, अतो ऽस्य प्रमाणस्य प्रत्ययान्तरेण ज्ञायमानत्वं न प्रामाण्य{१,१०५}उपयुज्यते. इदं हि तस्य प्रामाण्यं यत् स्वविषयप्रकाशनं, तच् च पूर्वस्माद् एव स्वस्माल्लब्धम् इत्य् अनर्थकं प्रत्ययान्तरम् इत्य् उक्तम् एवार्थं व्यक्तीकर्तुम् आह -- तेनेति
SK
अप्रमाणे तु प्रत्य[३४९]यान्तरम् अर्थवद् इति युक्तैव तत्र तदपेक्षेत्य् आह -- अप्रमाणम् इति.[३५०]अयम् अर्थः -- अप्रमाणं हि स्वरूपेणार्थं गृह्णाति. यादृशं हि ज्ञानस्य स्वरूपं तादृशम् एवार्थे ऽध्यारोपयतीति यावत्. इदं रजतम् इति[३५१]हि शुक्तौ रजताकारम् अप्रमाणं ताम् अपि तदाकारतया गृह्णाति. अत एव च तन्मिथ्या भवति. तच् चैतन्मिथ्यात्वम् एवात्मनो न तेनात्मना प्रवेदितम् इति तत्प्रवेदनाय युक्तैवान्यापेक्षा. असति हि मिथ्यात्वग्राहिणि प्रत्ययान्तरे न स्वार्थे ज्ञानस्वरूपारोपो मिथ्यात्वं निवर्तते. असत्यां च तन्निवृत्ताव् अप्रमाणाद् एव प्रामाण्यव्यवहारः प्रतायेत. अतस् तन्निवृत्तये ऽर्थवत् प्रत्ययान्तरम् इति
SK
__________NOTES__________
SK
[३४९] माणान्त [३५०] ति. अप्र (GA) [३५१] ति शु
SK
कस्मात् पुनः प्रत्ययान्तरैर् अगृहीतं मिथ्यात्वं न निवर्तते, अत आह -- न हीति. यादृशं ज्ञानं तथार्थो न भवतीति यो ऽयम् अर्थस्यातथाभावः नायं पूर्वेणाप्रमाणेनोपात्तः. अपरिच्छिन्न इति यावत्. प्रमाणेनैव हि तथात्वं, तस्य हि तथात्वम् अर्थस्य कार्यं, तच् च तेनैव प्रकाशितम् इति न तत्र परापेक्षा. अन्यथात्वं त्व् अर्थस्याप्रमाणाद् असिद्धम् इति तत्र प्रमाणान्तरं सावकाशम् इति.[३५२]आह -- अस्तु परतो मिथ्यात्वम्, एवम् अपि न प्रामाण्यं चोदनानाम्, अनुमानेन मिथ्यात्वावगमात्. उक्तं हि --
SK
__________NOTES__________
SK
[३५२] ति. अस्तु (KA)
SK
स्वर्गयागादिसम्बन्धविषयाश् चोदना मृषा |
SK
इति, अत आह -- तत्रापीति. अयम् अभिप्रायः -- न यतः कुतश्चित् परस्मान् मिथ्यात्वम्, अपि तु तत्राप्य् अर्थातथाभावे मिथ्यात्वे ऽन्यथात्वविषयैव{१,१०६} या धीः नेदं रजतम् इति वा शुक्तिर् इयम् इति वा सा कारणं, दुष्टकारणविषया वा. यथा वक्ष्यति -- यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः इति
SK
किम् एष मन्त्रः. अनुमानाद् अपि मिथ्यात्वम् अवसीयमानं न कदाचिद् अपि निग्रह[३५३]स्थानम् आपादयतीति, अत आह -- तावतेति. चकारो हेतौ. नायं मन्त्रः. किन् त्व् अनुमानान् मिथ्यात्वम् अवगन्तुम् एव न शक्यते, प्रतिहेतुविरुद्धत्वाद् अनुमानानाम्. नास्तिकानाम् अपि चाभ्युपेतस्वागमाप्रामाण्यप्रसङ्गाच् च. शक्यते हि तदागमानाम् अपि वाक्यत्वादिना मिथ्यात्वम् अनुमातुम्. चोदनाजनितासन्दिग्धाविपर्यासितज्ञानविरुद्धाश् च हेतवो न प्रामाण्यम् आच्छादयितुम् उत्सहन्ते चोदनानाम् इति तावतैव कारणद्वयेन मिथ्यात्वं गृह्यते, न[३५४]पुनः परोक्तदुरुक्तहेतुसङ्घातेनेति. ननु यद् अपि तदर्थान्यथात्वज्ञानं दुष्टकारणज्ञानं वा, तद् अपि नाप्रमाणं मिथ्यात्वं प्रतिष्ठापयति. प्रामाण्यं च पूर्वज्ञानविरोधात् तस्यापि दुरध्यवसानम् इति कथं पूर्वस्य मिथ्यात्वम् अत आह -- उत्पत्त्यवस्थम् इति. तद् इदम् उभयविधं मिथ्यात्वग्राहि ज्ञानम् उत्पत्त्यवस्थितं प्रमाणम् इति मीयते. यथा प्रमाणं भवति तेनात्मना मीयत इत्य् अर्थः. तत् खलूत्पत्तिदशाम् अधिरूढम् इति न तावदनुत्पत्तिलक्षणेनाप्रामाण्येन परिभूयते. निश्चयत्वात्मकत्वाच् च न संशयरूपेण. न चास्य बाधकान्तरम् उपलभ्यत इति प्रमाणम् एव. अतस् तेन शक्यते पूर्वस्य मिथ्यात्वम् आपादयितुम्. तस्यापि बाधकोदये प्रमाणेतरविभागो भणित एवेति सूक्तं द्वेधैव मिथ्यात्वम् इति
SK
__________NOTES__________
SK
[३५३] हम् आ [३५४] न प (KA)
SK
यतश् च द्वेधैव मिथ्यात्वम् अवगम्यते न प्रमाणान्तरेण, अतः परस्मा अपि मिथ्यात्वं प्रतिपादयितुकामेनैतद् एव मिथ्यात्वहेतुध्वयं वक्तुम् उचितम्. न त्व् अप्रमाणसाधर्म्यमात्रप्रयोजकं, यथा परैः कृतम् इत्य् आह -- अत इति
SK
{१,१०७} आगमविरोधश् चानुमानेनाप्रामाण्यं साधयताम् इत्य् आह -- चोदनेति. अयम् अभिप्रायः -- चोदनाजनितं ज्ञानं त्रिविधा[३५५]प्रामाण्यरहितं स्वतश् च प्रमाणम् इति स्थितम्. अतस् तेनैवाप्रामाण्यप्रतिज्ञा बाध्यते. तस्मिन् परिपन्थिनि न वाक्यत्वादीनाम् अप्रामाण्येन सम्बन्ध एव ग्रहीतुम् शक्यत इति
SK
__________NOTES__________
SK
[३५५] धदोषर
SK
अत्र किञ्चिद् आशङ्कते -- तन्मिथ्यात्वाद् इति. अयम् अभिप्रायः -- प्रमाणं सच्चोदनाजनितं ज्ञानम् अनुमानम् उपमृद्गाति. तद् एव तु तत्प्रतिहतं मिथ्या सत् कथं तद्बाधाय प्रभवतीति. परिहरति -- प्राप्तम् इति. अयम् अभिप्रायः -- मिथ्या सता चोदनाज्ञानेनानुमानं न बाध्यते. तदबाधितेन लब्धप्रतिष्ठेनानुमानेन मिथ्या क्रियते. अतस् तन्मिथ्यात्वाद् अनुमानप्रमाणता, तत्प्रामाण्याच् च तन्मिथ्यात्वम् (!)इतीतेरतराश्रयम् इति. यदि चोदनाज्ञानस्य बाधकान्तरं भवेद्, एवं तदापादितमिथ्यात्वं नानुमानबाधाय प्रभवतीति इतरेतराश्रयं च नाशङ्क्येत. न त्व् अतो भवदुक्ताद् अनुमानाद् अन्यत् किञ्चिद् बाधकम् अस्तीत्य् आह -- नेति
SK
ननु प्रमाणान्तरैश् चोदनार्थस्यापरिग्रहात् संवादाभावाद् एव चोदनाजनितस्य[३५६]ज्ञानस्य सिद्धं मिथ्यात्वम् इति नेतरेतराश्रयम् अत आह -- न चेति. उक्तम् इदं न संवादनिबन्धनं प्रामाण्यम् इति मा भूद् रसादिज्ञानाप्रामाण्याद् अभावो रसादीनाम् इति. कथं पुनस् तेषां संवादतः प्रामाण्ये ऽभावो रसादीनाम् इत्य् अत आह तेषाम् इति. तेषां रसादीनां जिह्वादिभिर् एव ग्रहणं नियतम्. अत इन्द्रियान्तरसंवादाभावाद् रसज्ञानाप्रामाण्ये रसादीनाम् अभावो भवेद् इति
SK
__________NOTES__________
SK
[३५६] स्य सि (KA)
SK
{१,१०८} यदि तु सजातीयज्ञानान्तरसंवादाद् रसज्ञानं प्रमाणम् इष्यते, तथा सति धर्मे ऽपि तादृग् वेदोत्थापितज्ञानसंवादः सम्भवतीत्य् आह -- तद्धियेति. इदं च संवादतः प्रामाण्यनिराकरणार्थं प्रागुक्तम्. इदानीम् इतरेतराश्रयप्रसञ्जनायोच्यत इति तात्पर्यभेदाद् अपौनरुक्त्यम् इति. यदि तूच्यते -- असिद्धम् एव नश् चोदनाप्रामाण्यं, कथं तयाप्रामाण्यपक्षो बाध्यत इति. तद् अयुक्तं. उत्पद्यते खल्व् अपि वेदवचनश्राविणां नास्तिकानाम् अपि धर्माधर्मविशेषविषयावबोधः. न च सन्दिह्यते स्याद् वा अग्निहोत्रात् स्वर्गो नवेति. न च विपर्ययः. तद् इदं तेषाम् अपि चोदनाजनितं ज्ञानं प्रमाणं एव. ज्ञानापह्नवस्तु सत्यवादिनाम् अयुक्त एव. न हि तत् सम्भवति विदितपदपदार्थसम्बन्धश् चोदनावाक्यान् नार्थं बुध्यत इति. अनृतं तु वदन्तो नानृतं वदेद् इति प्रतिषेधम् अतिक्रामन्तो महान्तम् अनर्थं प्राप्नुयुः. अतो न प्रद्वेषमात्रेणासिद्धवचनं युक्तं, तद् एतद् आह -- ममेति. यस् त्व् आह -- सत्यम् उत्पद्यते ज्ञानं, द्वेषाद् एव तदप्रमाणम् आचक्ष्महे. परस्परविरुद्धसिद्धान्ताः प्रायेण हि तार्किका द्वेषाद् एव किञ्चिदप्रमाणम् आतिष्ठन्ते. किञ्चिच् चास्मदीयम् इदं दर्शनम् इत्यनुरागेण प्रमाणम् इति.[३५७]अतः द्वेषाच् चोदनानां प्रामाण्यं बाध्यते. अन्यतश् च परिच्छेदान् नेतरेतराश्रयम् इति, तं प्रत्याह -- द्वेषाद् इरि. नाप्रमाणतेति सम्बन्धः. न द्वेषमात्रेणाप्रमाणता सिध्यति. तथा हि न किञ्चित् प्रमाणं नामावकल्पते. सर्वे हि वादिनः परस्परेण सिद्धान्तान् विगर्हयन्तो दृश्यन्ते. तत्र कतमत् प्रमाणतयाध्यवसीयते. अतो यथोक्तलक्षणम् एव सर्वं प्रमाणम् इति. स्यान् मतं - मा भूद् द्वेषाद् अप्रामाण्यम्. यावत् तु वादिप्रतिवादिनोः सम्मतिः सम्प्रतिपत्तिर् न भवति. न तावत् प्रामाण्यं प्रतितिष्ठति. न चाप्रतिष्ठितप्रामाण्यं प्रमाणं परबाधनाय प्रभवति. न च नश्चोदनाप्रामाण्ये सम्प्रतिपत्तिर्{१,१०९}अस्तीति कथम् अनुमानबाधः. अत आह -- असम्मतत्वाद् इति. स एवान्वयः. शेषं पूर्ववद् इति
SK
__________NOTES__________
SK
[३५७] ति. द्वे (KHA)
SK
यथा च द्वेषासम्मतिभ्यां नाप्रामाण्यम् एवं प्रामाण्यम् अपि नात्मेच्छाभ्यनुज्ञाभ्यां भवति, येनोभयथापि प्रसिद्धप्रामाण्येनाप्रामाण्यानुमानेन चोदनैव बाध्यत इत्यभिप्रायेणाह -- न चेति. अप्रामाण्यानुमानस्य हि प्रामाण्यं नास्तिकैर् इष्यते. अप्रमाणेषु हि वेदेषु दुःखप्रायो वेदवादिनां सिद्धान्तः परिहृतो भवतीति. प्राग्भवीयाद् धर्मानुग्रहाच् च तेषाम् इयम् अभ्यनुज्ञा[३५८]वेदाप्रामाण्यवादाः[३५९]प्रमाणम् इति. उभयं चेदं न प्रामाण्ये कारणम्. उक्तम् एव तु तत्र कारणम् इति. द्वेषाद् अप्रामाण्यं नेत्य् अत्रोदाहरणम् आह -- अग्नीति. यदि द्वेषाद् अप्रामाण्यं स्याद् अग्निदाहादिदुःखम् अप्रत्यक्षं भवेत्, तस्य ज्ञानस्याप्रत्यक्षत्वाद् अप्रत्यक्षविषयस्य चाप्रत्यक्षशब्दवाच्यत्वात्. न[३६०]चेयं दाहदुःखस्याप्रत्यक्षतेष्यते कैश्चित्. द्वेषतस् त्व् अप्रामाण्ये सा प्रसजेद् इति
SK
__________NOTES__________
SK
[३५८] ज्ञा यद् वे [३५९] दः (GA) [३६०] नेयं (KA)
SK
आत्मेच्छया न प्रामाण्यम् इत्य् एतद् दर्शयति -- न चेति. आभिलाषिकज्ञानस्य सर्वो हि प्रामण्यम् अभिलषति. तथा सति हि सर्व एवाशामोदकैर् अपि तृप्ता भवेयुः. न तु तस्य प्रामाण्यं कैश्चिद् इष्यत इति. अतः सिद्धं चोदनाविरुद्धम् अप्रामाण्यानुमानम् अप्रमाणम् इत्य् उपसंहरति -- तस्माद् इति तव्यमन्तेन. नन्व् एवं बौद्धादयो ऽपि स्वागमान् गृहीत्वा प्रत्यवतिष्ठेरन्, अत आह -- बौद्धादेर् इति. बौद्धादेर् आगमाद् वेदानाम् अन्तरं[३६१]विशेषो वक्ष्यत इत्य् अर्थः
SK
__________NOTES__________
SK
[३६१] रं व (KHA, GA)
SK
वक्ष्यमाणम् एवान्तरम् अनागतावेक्षणन्यायेन सूचयति -- पुरुषेति. बौद्धाद्यागमेषु प्रामाण्यापवादो ऽप्रामाण्यं सम्भवति. अतीन्द्रियम् अर्थं द्रष्टुं{१,११०}पुरुषाणाम् अशक्तेः. स्वयम् एव च तैः स्वागमानां पौरुषेयत्वम् आश्रितम् इति बुद्ध्वात्मानं समर्पितवन्तः कथम् अधुनातिक्रामन्ति. अपौरुषेयास् तु वेदा इति वेदाधिकरणे वक्ष्यामः. ततश् च दोषाभावाद् एवम् उक्तेन प्रकारेण स्वतःप्रमाणता वेदस्य सिद्धा भवतीति पौरुषेयत्वम् अपौरुषेयत्वं चान्तरं बौद्धाद्यागमानां वेदस्य चेति
SK
एवं तावदपौरुषेयत्वान् नित्या वेदाः स्वतः प्रमाणम् इत्य् उक्तम्. ये तु नैयायिकादयः प्रामाण्यसिद्ध्यर्थं कर्तृमत्त्वं वेदानां कल्पयन्ति, ये च मिथ्यात्ववादिनो मिथ्यात्वसिद्ध्यर्थम् एव, तेषां न तावद् अस्मर्यमाणकर्तृकल्पना प्रमाणवती. अपि चादृष्टकल्पनापि बह्वी विना युक्त्या प्राप्नोतीत्य् आह -- कर्तृमत्त्वे इति कल्प्यमन्तेन. सम्यग्वादिभिस् तावदीश्वरः कर्ता, तस्य चाप्रतिघातज्ञानादयो गुणाः --
SK
ज्ञानम् अप्रतिघं यस्य वैराग्यं च जगत्पतेः |
SK
ऐश्वर्यं चैव धर्मश् च सह सिद्धं चतुष्टयम् ||
SK
इति कल्पिताः. न च तत्कल्पनायां युक्तिर् अपि साधीयसी दृश्यत इति सम्बन्धपरिहारे वक्ष्यामः. एवं मिथ्यात्ववादिनाम् अपि दोषवत्कर्तृकल्पना निष्प्रमाणिकैव. तथा सति हि नाद्य यावद् वेदसम्प्रदायो ऽनुवर्तेत. महता खलु प्रयत्नेन शिष्याचार्यपरम्परया वेदान् धारयन्तो दृश्यन्ते, तदर्थं[३६२]चानुतिष्ठन्तः. तदनाप्तसन्दृब्धानाम् अनुपपन्नं, तथा सति हि जातबाधैर् अचिराद् एव हीयेरन्. अतो ऽस्मान् महाजनपरिग्रहाद् अवगच्छामः न कर्तृमन्तो वेदा[३६३] इति नतरां दोषवत्कर्तृका इति. मीमांसकैस् तु न किञ्चिद् दृष्टाद् अधिकम् इष्यते. शिष्याचार्यपरम्परया प्रतता हीदानीं वेदा दृश्यन्ते. ईदृशम् एव सर्वकाले{१,१११}मीमांसकैरिष्यते. अतो न काचिन्मीमांसकानाम् अदृष्टकल्पनेत्य् आह -- मीमांसकैर् इति
SK
__________NOTES__________
SK
[३६२] र्थांश् चानु [३६३] दा न (KHA)
SK
तद् अस्यैवम्भूतस्य नित्यस्य वेदस्य ज्ञानं चोत्पादयतः स्वरूपविपरीतत्वं विपर्ययः संशयश् च भाष्यकारेणैव व्यक्तं[३६४]निराकृताव् इत्य् आह -- एवम्भूतस्येति. अयम् अभिप्रायः -- एतावद् एव हि प्रामाण्यं यदुत्पन्नम् असन्दिग्धम् अबाधितं च प्रत्ययान्तरेण ज्ञानम् इति. चोदनाजनितम् अपि ज्ञानम् उत्पन्नं तावत्. संशयविपर्ययाव् अपि भाष्यकारेणास्य वारितौ. एवं ह्य् आह -- न च स्वर्गकामो यजेतेति वचनात् सन्दिग्धम् अवगम्यते भवति वा स्वर्गो न वेति. न चैष कालान्तरे देशान्तरे पुरुषान्तरे ऽवस्थान्तरे वा विपर्येति. तस्माद् अवितथम् इति. अतस् त्रिविधाप्रामाण्यविरहात्[३६५]प्रामाण्यं चोदनाजनितज्ञाना[३६६]नाम् इति
SK
__________NOTES__________
SK
[३६४] क्तम् एव नि [३६५] प्रमाणं [३६६] नम् इ
SK
नन्व् एवम् अपि कारणदोषाशङ्कायाम् अप्रामाण्यम् एवात आह -- निवारयिष्यत इति अभावतोऽन्तेन. पुरुषाश्रया हि शब्दे दोषा इत्य् उक्तम्. ते चापौरुषेयत्वप्रतिपादनेनैव वेदाधिकरणे निर्[३६७]आकरिष्यन्त एव. तच् चैवम्भूतस्येत्यनेन सूचितम् इह विवृतम्. वक्ष्यमाण एवार्थः पूर्वम् एवम्भूतशब्देनोक्त इति वेदितव्यम् इति. एवञ् च साक्षाद् अनुपजाताव् अपि संशयविपर्ययौ कारणदोषाशङ्कयापि न वेदे शङ्कितव्याव् इत्य् आह -- तेनेति
SK
__________NOTES__________
SK
[३६७] वारयिष्य
SK
एवं तावदाक्षिप्तं भाष्यम् उपेक्ष्यैव तदुपोद्धातभूतं स्वतःप्रामाण्यं प्रसाध्य वेदाः प्रमाणम् इति सिद्धान्तितम्. इदानीं यत् तु ब्रवीतीत्यादिभाष्यम् आक्षिप्तं, तस्याभिप्रायम् आह -- तथेति. अयं भाष्याभिप्रायः -- अतथाभूतप्रतिज्ञया चोदनानाम् अप्रामाण्यं प्रसाध्यते. तच् च[३६८]त्रिविधम् इत्य् उक्तम्.{१,११२}तद् इह तावत् संशयविपर्ययलक्षणम् अप्रामाण्यं नास्तीत्य् अनन्तरम् एव वक्ष्यामः. पारिशेष्याद् बुद्ध्यनुत्पत्तिलक्षणम् एवाप्रामाण्यम् आश्रित्यातथाभावः प्रतिज्ञात इत्य् आपतति. तत्रेदम् उत्तरं विप्रतिषिद्धम् इदम् अभिधीयते ब्रवीति च वितथं चेत्यादि. यदर्थं ज्ञापयति तद् ब्रवीती[३६९]त्य् उच्यते. तद् यदि चोदना ब्रवीति, कथम् असाव् अज्ञानात्मकेन वैतथ्येनाभिभूयते. एवञ् च व्याख्यायमाने न बुद्धवाक्यानां प्रामाण्यप्रसङ्गः. न ह्य् उत्पत्तिमात्रेण ज्ञानस्य प्रामाण्यम् आश्रितं, येनायम् उपालम्भो भवेत्. तेभ्यो हि ज्ञानम् उत्पन्नम् अपि पौरुषेयवाक्यजनितत्वेन कारणदोषाशङ्कया अप्रमाणं भवति. न चेह तथा, अपौरुषेयत्वस्य वक्ष्यमाणत्वात्. इहापि च ब्रवीतीति च कर्तृविभक्त्या चोदनास्वातन्त्र्यस्य सूचितत्वात्. चोदना हि स्वतन्त्रैवार्थं ब्रवीति, न तु तया कश्चित् पुरुष इत्य् अभिप्राय इति
SK
__________NOTES__________
SK
[३६८] त् तु (KHA) [३६९] ति चेत्य् उ
SK
अपरम् अपि यत् तु लौकिकं वचनं तच् चेत् प्रत्ययितात् पुरुषाद् इन्द्रियविषयं वा अवितथम् एव तत्. अथाप्रत्ययितात् पुरुषाद् अनिन्द्रियविषयं वा तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इति भाष्यम्,[३७०]अत्र प्रत्ययितपदं तावद् व्याचष्टे -- तथेति. अयम् अर्थः -- अत्र भाष्ये प्रत्ययितपदेन यथादृष्टार्थवादित्वम् अभिधीयते इति. इन्द्रियविषयं वेत्यनेन तु तस्यैव मूलसद्भावः प्रतिपाद्यत इत्य् आह -- इन्द्रियेति. तद् अयम् अत्र भाष्यार्थो भवति. यत् तु पौरुषेयवाक्यं निदर्शितं, तत्र विकल्प्य दूषणम् अभिधीयते. द्वेधा हि पौरुषेयं वाक्यं प्रत्ययितवाक्यम् अप्रत्ययितवाक्यं च. प्रत्ययितवाक्यं[३७१]च द्विविधं प्रमाणमूलं भ्रान्तिमूलं च. प्रत्ययो ऽस्य संजात इत्य् एतस्मिन्न् अर्थे हि तारकादिस्मृतेरितजन्तं प्रत्ययितशब्दम् अभियुक्ताः स्मरन्ति. द्वेधा च प्रत्ययः प्रमाणम् अप्रमाणं च. तद् एवम् एतावद् एव प्रत्ययितरूपम् अवतिष्ठते यद् असौ वदति तत्रावश्यं प्रत्ययो ऽस्य सञ्जातः. यथादृष्टार्थवादीति यावत्. अत एवेन्द्रियविषयं वेति सम्भवव्यभिचाराभ्यां विशेषणम् अर्थवद् भवति. इन्द्रियशब्देन च प्रत्यक्षद्वारेण सर्वप्रमाणान्य् उपलक्षयतीति. प्रमाणविषयविषयम् इति लुप्तमध्यमपदश्{१,११३}चायम् उष्ट्रमुखवद् बहुव्रीहिः. तद् यदि प्रमाणप्रतिपन्नविषयम् आप्तवचो दृष्टान्तः तदा साध्यविकलः तस्यावैतथ्यात्. अथाप्रमाणमूलम् अनाप्तवाक्यं वा तद् यदि नाम वक्तृदोषदुष्टम् अप्रमाणं, न तेनोपमानेन नित्यं वेदवाक्यं वितथम्. मिथ्यात्वहेतोः पुरुषदोषस्य तत्रासम्भवात्. पुरुषबुद्धिप्रभवम् इति चाप्रामाण्यबीजकथनम्. पुरुषबुद्धिप्रसूतं हि तत्. अतो यादृशं पुरुषेण बुद्धं[३७२]न तदनुरूपं तेन वाक्यं प्रयुक्तम् अनाप्तेन वा विप्रलिप्सुना. विप्रलम्भाभिप्रायैव हि तस्य बुद्धिः. आप्तस्यापि भ्रान्तिः. अनाप्तवाक्यं च वक्तुः प्रमाणमूलम् अपि श्रोतुर् अप्रमाणम् एव, विसंवादबाहुल्याद् अनाश्वासात्. अत एव च तस्य[३७३]सद् अपि द्वैविध्यं नोपदर्शितम् अस्माभिः. अन्यतरविधानुपातिनो ऽप्य् अनाप्तवाक्यस्याप्रामाण्यात्. अत एव वक्ष्यति शक्ये ऽप्य् असत्ये मिथ्यात्वम् इति
SK
__________NOTES__________
SK
[३७०] त [३७१] क्यम् अपि द्वि (KHA) [३७२] द्धं त (GA) [३७३] संविद्द्वै (KHA)
SK
अन्ये तु द्रष्टृत्वसत्यवादित्वे प्रत्ययितपदार्थ इत्य् आहुर् इत्य् आह -- द्रष्टृत्वेति. यथावस्थितार्थदर्शी यथादृष्टार्थवादी च पुरुषः प्रत्ययितपदेनाभिधीयत इति. एवं च प्रत्ययितस्याप्रमाणज्ञानासम्भवाद् अनर्थकम् इन्द्रियविषयं वेति विशेषणम् इत्य् अप्रत्ययितवचनविशेषणार्थम् एव[३७४]प्रयुक्तम्. ततश् चायम् अर्थो भवति -- अनाप्तोक्तिर् अपि सत्या भवति यदि दृश्यमानार्थवाद्यनाप्तो भवतीत्य् आह -- दृश्यमानेति
SK
__________NOTES__________
SK
[३७४] व यु (KA, KHA)
SK
इदं तु व्याख्यानम् अनुपपन्नम् इत्य् आह -- एवम् इति. अयम् अर्थः -- अत्र ह्य् अवैतथ्ये प्रत्ययितवाक्यम् इन्द्रियविषयं चेतरस्योदाहृतम्. यथाहुः -- प्रत्ययितस्य वचनम् अव्यभिचारिप्रमाणान्तरपूर्वकं यच् चोपलभ्यमानविषयम् अनाप्तस्येति. तद् अत्र प्रत्ययितेन्द्रियविषयप्रत्युदाहरणे एकाङ्गवैकल्याद् या प्रत्युदाहरणस्थितिः, साप्तत्वैन्द्रियकत्वयोर् एकैकाभावमात्र एव भवेत्. उभयाभावे तु द्व्यङ्गविकलं प्रत्युदाहरणम् आपद्येत
SK
{१,११४} यद्य् एकैकाभावमात्रे प्रत्युदाहरणम्, ततः किं जातम् अत आह -- अप्रत्ययितेति. अस्यार्थः -- प्रत्ययितप्रत्युदाहरणे अथाप्रत्ययिताद् इत्युच्यमाने प्रत्ययिताभावमात्रेण प्रत्युदाहरणं देयम्. तत्रैन्द्रियकस्येन्द्रियविषयस्यार्थस्य यत् प्रतिपादकं वाक्यं तस्याप्य् असत्यता भवेत्. प्रत्ययिताभावमात्रेण ह्य् असत्यता दर्शनीया. इन्द्रियविषयम् अपि चानाप्तस्याप्रत्ययितवाक्यम् एवेति किं नासत्यम्. यदि त्व् अनिन्द्रियविषयम् एवाप्रत्ययितवाक्यं प्रत्युदाह्रियते, तन् न. इन्द्रियविषयं वेत्य् अस्यानिन्द्रियविषयं वेत्य् अनेनैव प्रत्युदाहरणाद्, उभयप्रत्युदाहरणे[३७५]च द्व्यङ्गवैकल्यप्रसङ्गात्. एवम् इन्द्रियविषयप्रत्युदाहरणे ऽप्य् अनिन्द्रियविषयं वेत्य् अत्रेन्द्रियविषयाभावमात्रेणासत्यता दर्शनीया. तत्र प्रत्ययितभाषितम् अपि तथाविधं सदसत्यं प्राप्नोति, तस्याप्य् अनिन्द्रियविषयत्वात्. अप्रत्ययितस्याप्य् अनिन्द्रियविषयम् इत्युच्यमाने पूर्ववद् द्व्यङ्गविकलता. अनिन्द्रियत्वपक्ष इति. यदा प्रत्ययितवाक्यस्यानिन्द्रियत्वम् अनिन्द्रियविषयता भवति, तदा तस्याप्य् असत्यत्वं प्राप्नोतीत्यर्थः
SK
__________NOTES__________
SK
[३७५] णाभ्युपगमे द्व्य (KHA)
SK
किम् अतो यद्य् एवम् अत आह -- व्याहतेति. अयम् अर्थः -- एवं हि पूर्वापरविरुद्धार्थाभिधानेन ग्रन्थो व्याहतो भवति. उदाहरणवेलायां हि प्रत्ययितवाक्यम् अनिन्द्रियम् एव श्रोतुः प्रमाणम् इत्य् उदाहृतम् आप्तप्रत्ययात्. तद् इदानीम् इन्द्रियविषयप्रत्युदाहरणे ऽप्रमाणतयोच्यत इति व्याघातः. एवम् अनाप्तवाक्यम् अपि[३७६]श्रोतुर् इन्द्रियविषयं स्वप्रत्ययाश्रयणेन सत्यम् इत्य् उक्तम्. तत् प्रत्ययितप्रत्युदाहरणे मिथ्यात्वेनोच्यत इति पूर्वापरविरोधाद् अग्रन्थतापत्तिः. अयं चात्र वार्त्तिककारस्याभिप्रायः -- न तावत् प्रत्ययितशब्देन तथाभूतार्थद[३७७]र्शित्वम् उच्यते. यौगिको ह्य् अयं न सांविज्ञा(यि?नि)कः. प्रत्यभिज्ञायमानावयवार्थान्वयपरित्यागे कारणाभावात्. प्रत्ययो ऽस्य सञ्जात इति हि प्रकृतिप्रत्ययविभागम् अभियुक्ताः स्मरन्ति. द्वेधा च प्रत्ययः सम्यङ्मिथ्या चेति.{१,११५}अतो न यथार्थदर्शी प्रत्ययितः. किन् तु यथादृष्टार्थवादी. सत्यवादीति यावत्. एषैव हि सत्यवादिता यो वाङ्मनसयोर् विसंवादविरहः. अत एव सत्यनियमे साक्षिणां
SK
__________NOTES__________
SK
[३७६] पीन्द्रि (KA) [३७७] वादित्व (GA)
SK
सत्यं साक्ष्ये ब्रुवन् साक्षी[३७८]लोकान् आप्नोति पुष्कलान् |
SK
__________NOTES__________
SK
[३७८] क्षि
SK
इति फलं दर्शयित्वा व्यतिरेके दोषं दर्शयन्तो मानवाः पठन्ति --
SK
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्नार्यसंसदि |
SK
अवाङ्नरकम् आप्नोति प्रेत्य स्वर्गाच् च हीयते ||
SK
इति. अत्र हि दृष्टश्रुताभिधानं सत्यम् इतरद् असत्यम् इति गम्यते. अतः सत्यवादितैव केवलं प्रत्ययितपदेनोच्यते न साधुद्रष्टृत्वम् इति तस्यैवेन्द्रियविषयं वेति विशेषणं, नाप्रत्ययितवचसः, तद् धीन्द्रियविषयम् अप्य् अप्रमाणम् एव. न चेदम् अवैतथ्यमात्रप्रदर्शनार्थम्, अप्रामाण्यानुमानस्य दृष्टान्ते साध्यवैकल्यप्रदर्शनार्थत्वात्. तस्य च प्रामाण्यप्रतिपादनम् अन्तरेण कर्तुम् अशक्यत्वात्. अत एव[३७९]भाष्यान्ते तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इत्य् आह.[३८०]एवं हि तद् उपपद्यते. यदि पूर्वं प्रमाणतोक्तासीद् अनाप्तवाक्यं च श्रोतुः प्रमाणान्तरसङ्गतार्थम् अप्य् अप्रमाणं प्रागनिश्चयात् उपरिष्टाद् अनुवादाद् आप्तवाक्यम् अपि नार्थे प्रमाणम् इति चेत्, अयम् अपरो ऽस्य दोषः. न क्वचित् पुंवचः प्रमाणं, क्व साध्यविकलता प्रतिपाद्यते. न च दृष्टान्तदूषणाद् अर्थान्तरम् अस्य भाष्यस्य मनोहरम् उपलभामहे. तद् एवं तावन् न समुदायशक्त्या प्रत्ययितशब्दः साधुद्रष्टरि वर्तत इत्य् उक्तम्. स्याद् एतत् -- सञ्जातप्रत्यय एव प्रत्ययितः. प्रत्यय एव तु न सम्यक्त्वं व्यभिचरति, सर्वधियां यथार्थत्वात् अतो यथार्थविद् एव प्रत्ययित इति. तन् न. वक्ष्यते हि वृत्तिकारग्रन्थवार्त्तिके यथार्थायथार्थज्ञानविभागः. एवं तावत् प्रत्ययितपदार्थानुसारेण नायम् अर्थो भाष्यस्य. यदि[३८१]तु विकल्पवाचिवाशब्दानुपपत्त्यैवं व्याख्यायते प्रत्ययितविशेषणे हीन्द्रियविषयं वेत्य् अस्मिन् समुच्चयार्थो वाशब्दो भवेद्[३८२]इति. तन् न, अनेकार्थत्वान् निपातानाम्. दृष्टं हि निपातानाम् अनेकार्थत्वम्. न तु प्रत्ययितशब्दस्य साधुदर्शिवचनत्वम्. अपि च समानो ऽयमावयोर् अनुयोगः. तवापि हि प्रत्युदाहरणगतो वाशब्दः समुच्चयार्थ{१,११६}एव. न ह्य् अप्रत्ययितवाक्यमात्रम् अनिन्द्रिय[३८३]विषयमात्रं वा मिथ्या, भवत्सिद्धान्ते अप्रत्ययितेन्द्रियविषयानिन्द्रियविषयप्रत्ययितवाक्यसम्यक्त्वाभ्युपगमात्. अतो न कश्चिद् विशेषः. पूर्वापरविरोधमात्रम् अधिकम् एवंवादिभिः स्वीकृतम्. यदि तूच्यते न प्रत्ययितप्रत्युदाहरणम् अथाप्रत्ययिताद् इति. किन् तु प्रत्ययितवाक्यम् अनपेक्षं प्रमाणम् इत्य् उक्तम्, इतरच् च स्वप्रमाणापेक्षं, तद् एव तु अनिन्द्रियविषयम् अप्रमाणम् इति अथाप्रत्ययिताद् इत्यादिनोच्यत इति. तद् अयुक्तम्. यदैव हीन्द्रियविषयम् अनाप्तवाक्यं प्रमाणम् इत्य् उक्तं, तदैवार्थाद् इदम् उक्तं भवति विपरीतम् अप्रमाणम् इति किं तत्प्रदर्शनेन. यस्य तु प्रमाणोदाहरणे विशेषणद्वयम् उपात्तं, तस्यैव तद्व्यतिरेके[३८४]तत् कथनम् अर्थवत्. प्रत्ययिताभावमात्र एव तावदप्रामाण्यम्. अप्रत्ययितस्य ह्य्[३८५]अप्रतीतवादितयावधृतस्य वचनान् नैतद् एवम् इति विपर्ययः, कथञ्चिद् वा संशयो भवति. उभयथापि चाप्रामाण्यम् एव. यद्य् अपि चात्र न शब्दः स्वमहिम्ना संशयहेतुः, तथापि वक्तरि क्वचिद् व्यभिचारदर्शनाद् यथायथं संशयविपर्ययौ भवतः. तावता चाप्रमाणम् अनाप्तवचः. प्रत्ययितस्य त्व् अनिन्द्रियविषयम् अप्रमाणम् एव. तस्य हि निश्चयजनकं वचः स्वतःप्राप्तप्रामाण्यम् एवापवाददर्शनाद् अप्रमाणं भवति. एवंचोभयप्रत्युदाहरणोपपत्तिः. अतः सूक्तं परमते ग्रन्थव्याघात इति. यत इदं व्याख्यानम् अनुपपन्नम् अतः पूर्वव्याख्या साधीयसीत्य् आह -- तस्माद् इति. अस्यार्थः -- पूर्वेण तच् चेत् प्रत्ययितादित्य् अनेन प्रत्ययितवाक्यस्य सत्यतोच्यते. परेण तु इन्द्रियविषयं वेत्य् अनेन मूलसद्भावो दर्शितः. प्रत्ययितस्य वचो वक्तुर् एव प्रमाणमूलं प्रमाणं, न श्रोतुर् इन्द्रियविषयम् अनुवादप्रसङ्गाद् इति भाव इति
SK
__________NOTES__________
SK
[३७९] वान्ते (KA) [३८०] अत एव त (KHA) [३८१] दि वि (KA, GA) [३८२] वेत्. तद् अपि न, अ (GA) [३८३] यमा (GA) [३८४] ककथ [३८५] ह्य् अनूतवादितया (KHA), ह्य् अप्रत्ययिततया (GA)
SK
नन्व् एवं प्रत्ययितत्वेन प्रामाण्यं वदता भाष्यकारेण गुणत एव प्रामाण्यम् उक्तं भवति. गुणो हि प्रत्ययितत्वम् अत आह -- अप्रामाण्येति. दोषाभाव एवात्र प्रत्ययितत्वोपन्यासेनोपवर्णितः, न तु गुणाद् एव प्रामाण्यम् इति.{१,११७} कस्माद् एवं व्याख्यायते, अत आह -- गुणाद् इति. वर्णितम् इदं दोषाभावमात्रौपयिका गुणाः, न गुणतया प्रामाण्ये कारणम् अनवस्थाप्रसङ्गाद् इति. अतस् तदनुसारेणैव भाष्यव्याख्यानम् उचितम् इति
SK
ननु यदीन्द्रियविषयत्वं प्रत्ययितवाक्यस्य विशेषणम् एव न राश्यन्तरस्य, कथं तर्हि विकल्पार्थवाची वाशब्दः, अत आह समुच्चयेति पूर्वस्मिन्नन्तेन. पूर्वं तावत् समुच्चयार्थ एव वाशब्द इति. उत्तरस् तु विकल्पार्थ एवेत्य् आह -- उत्तरत्रेति. उभयोः प्रत्ययितेन्द्रियविषयविशेषणयोर् विकल्पेन प्रत्युदाहरणे दर्शयतीति
SK
ते एव प्रत्युदाहरणे दर्शयति -- शक्ये ऽपीति.[३८६]असत्ये असत्यवादिनि पुरुषे शक्ये ऽप्य् अर्थे यद् वाक्यं तस्य मिथ्यात्वं शक्यते ग्रहीतुम् इति शक्ये अन[३८७]तीन्द्रिये दृष्टार्थ इत्य् अर्थः. दृष्टसत्यो ऽपि प्रत्ययितो यदाशक्तिको भवति, प्रत्याय्यमानम् अर्थं ग्रहीतुम् असम्भावितशक्तिर् इति यावत्. तदा तद्वाक्यम् अपि मिथ्येति किं पुनस् तथाविधे ऽर्थे प्रत्ययितो वाक्यं प्रणयति. बाढम्. यदा भ्राम्यति यथा श्रुतिविरोधबाध्यस्मृतिसिद्धान्ते स्मृतिनिबन्धनकारः,[३८८] यथा च[३८९]दृष्टार्थसंव्यवहार एवाप्तः कुतश्चिद् भ्रमनिमित्तात् कम् अपि संसर्गम् आरचयति तद्[३९०]असम्भवत्प्रमाणं वचो मिथ्या भवति. विप्रलिप्सा तु तस्य न सम्भवति. न च न भ्रान्तिर् अपि, ब्रह्मर्षीणाम् अपि भ्रान्तिर् आशङ्क्यते, किम् अङ्ग पुनरर्वाचीनानाम् आप्तानाम् इति. अत्रापरं भाष्यम् अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात् इति. तत्र न विद्मः किं तद्वृत्तेन परामृश्यत इति. वाक्यं हि प्रकृतं, न तद् ज्ञातुम् अशक्यं सुज्ञानत्वात्. विषयस् तु समासान्तर्गतो न तावत् तदा निष्कृष्यपरामर्शम् अर्हति. विलिङ्गत्वाच् च. पुल्लिङ्गो हि विषयः नासौ{१,११८}नपुंसकलिङ्गतच्छब्दपरामर्शार्हः. तस्माद् व्याख्येयम् इदम्. तद् उच्यते. ज्ञातुम् इति सामान्यतो ज्ञानसम्बन्धोपस्थापितं ज्ञेयं तद् इति निर्दिशति. एतद् उक्तं भवति -- यत् तदिन्द्रियाणाम् अविषयभूतं ज्ञेयं, तत् पुरुषेण[३९१]नर्ते वचनाद् ज्ञातुं[३९२]शक्यम् इति समासान्निष्कृष्ट एव विषयार्थो ज्ञेयतया परामृश्यते. इदं च सर्वज्ञनिराकरणपरतया कैश्चिद् व्याख्यातं, तान् निराकरोति -- नानेनेति. अस्याभिप्रायः -- न तावद् इह सर्वशब्दः श्रूयते सर्वे अर्था ज्ञातुं न शक्यन्त इति. न च सर्वज्ञनिराकरणं क्वचिद् उपयुज्यते, धर्माधर्मज्ञाननिषेधमात्रेण चोदनैवेति प्रतिज्ञासिद्धेर् इति
SK
__________NOTES__________
SK
[३८६] असत्यवादिनि [३८७] ना (KA) [३८८] राः. (GA) [३८९] वा [३९०] वेदम् अस (KA) [३९१] णर्ते [३९२] तुम् अश
SK
अपि च न ज्ञातुं शक्यत इत्य् उक्त्वा वचनादृत इति पुनरपवादो भाष्यकारेणाश्रितः. अतो ऽवगम्यते अतीन्द्रियज्ञानम् एव भाष्यकारो वारयति, न तु सर्वज्ञानम्. अतीन्द्रियं हि वचनादृते ज्ञातुम् अशक्यम् इत्यभिप्रायेणाह -- वचनाद् इति. अपि च भावाभावात्मकस्य जगतः पूर्वो भागो भावप्रमाणैर् उत्तरो भागो ऽभावप्रमाणेनावगम्यते इति षड्भिः प्रमाणैः षोढा भिन्नं सर्वं प्रमेयम् अवगम्यत एवेति नायम् ईदृशः सर्वज्ञो निराकार्य एवेत्य् आह -- यदीति. नन्व् अवगतं तावद् नानेन सर्वज्ञो निराक्रियत इति. किं नामानेन क्रियते. पूर्वेण तावत् पौरुषेयापौरुषेयवाक्ययोर् मिथ्यात्वे हेतुसदसद्भावो दर्शितः. अंशे च साध्यविकलता. तद् एतावतैव पर्यवसिते किम्[३९३]अशक्यम् इत्यादिनाशङ्क्य निराक्रियते इति न ज्ञायते. उच्यते -- प्रत्ययितवाक्यम् अतीन्द्रियविषयम् अप्रमाणम् इत्य् उक्तम्. तत्रेदम् आशङ्क्यते किम् इदं प्रत्ययितवचनम् अतीन्द्रियविषयम् इति. अप्रतिहतदर्शनशक्तिर् एव ह्य् आप्तः, स खलु काष्ठाप्राप्तज्ञानप्रकर्षो धर्माधर्माव् अप्य् अपरोक्षम् ईक्षत एव, अतश् च न चोदनैवेत्यवधारणम् उपपद्यते. तत्रेदम् उत्तरम् अशक्यं हीति. नायम् एतावान् अतिशयः कस्यचित् पुरुषस्य यदतीन्द्रियं विषयं द्रष्टुं वचनम् अन्तरेण शक्नोतीति. इदं च सूत्रकारेणैव प्रत्यक्षसूत्रे{१,११९}वक्ष्यमाणम् अनागतावेक्षणेन भाष्यकृता प्रतिज्ञासमर्थनार्थम् उक्तम्, तद् एव तु[३९४]न्यायकथायाः क्षेत्रम् इति तत्रैव विस्तरेण[३९५]सर्वज्ञं निराकरिष्यामः
SK
__________NOTES__________
SK
[३९३] म् अनेनाश (KHA, GA) [३९४] त्व् अस्याः क [३९५] ण धर्मवन् निरा (KHA)
SK
नन्व् अस्तु षड्भिः प्रमाणैः षट्प्रमेयवित् सर्वज्ञः. एकेनैव तु चक्षुषासर्वगोचरं ज्ञानं जन्यत इति निराकार्यम्, अत आह -- एकेनेति. अयम् अभिप्रायः -- दिव्येन चक्षुषा सर्वं बुद्धो जानातीति ये वदन्ति, ते नूनं स्वयम् अपि चक्षुषा रसादीन् प्रतिपद्यन्ते. कथम् अपरथा स्वभावनियमं जानन्तो बुद्धचक्षुषः सर्वगोचरताम् आतिष्ठन्ते. एवं च सन्तु स्वयम् एव सर्वसंविदः. किं परप्रत्ययाश्रयणेनेत्य् उपालभमानो ऽतितुच्छतया नायं पक्षो निराकरणं प्रयोजयतीति दर्शयति. एष चानिराकरणच्छलेन निराकरणमार्ग एव वार्त्तिककृता दर्शितः शिष्यान् व्युत्पादयितुम्. इतरथा तु क्रियमाणो ऽसङ्गत एव भवेद् इति
SK
आह -- यद्य् अप्य् अर्वाचीनानां चक्षुर् न सर्वगोचरं, तथापि बुद्धचक्षुः सातिशयं दिव्यम् आसीत् सर्वगोचरम् इति किम् अनुपपन्नम्, अत आह -- यज्जातीयैर् इति. अस्यार्थः -- चक्षुरादिजातीयैर् हि प्रमाणै रूपादिजातीयस्य सम्बन्धस्य वर्तमानस्य चाद्यत्वे दर्शनम् उपलभ्यते, अतः कालान्तरे ऽपि तथैवाभूद् इति युक्तम्. एवं हि दृष्टानुसारिणी कल्पना कृता भवति. प्रयोगश् च भवति -- बुद्धचक्षुर् नातीतादिविषयं, चक्षुष्ट्वाद् अस्मदादिचक्षुर्वत्. अचक्षुर् वा, अतीतादिविषयत्वात् शब्दवद् इति
SK
नन्व् अवगतं तावत् प्रमातृभेदाद् दूरे दूरतरे च चक्षुः प्रकाशयतीति तत् काष्ठाप्राप्तप्रकर्षं सर्वं प्रकाशयिष्यति. ज्ञानस्यापि यथोत्तरं लोकशास्त्रयोर्{१,१२०}अतिशयो दृष्टः. तत् क्वचिद् आश्रये समासादितपरप्रकर्षं सर्वगोचरं भविष्यति. भवति चात्र सातिशयं काष्ठाप्राप्तम् अवगतं यथा वियति परिमाणम्. सातिशयं च ज्ञानम्. अतस् तेनापि क्वचिदाश्रये परिनिष्ठातव्यम्. एषा च ज्ञानस्य परिनिष्ठितिर्या सर्वविषयता महाविषयतयैव यथोत्तरम् अतिशयागमाद् इत्य् अत आह -- यत्रापीति सामर्थ्यमन्तेन. अयम् अभिप्रायः -- सत्यं च चक्षुषः प्रकर्षो ज्ञानस्य च, न तु स्वार्थम् अतिक्रम्य. उन्मीलितचक्षुषो हि[३९६]प्रतियतः यद्य् अपि नीलपीतादिभेदभिन्नम् अनेकम् अपि रूपं प्रकाशत इति नैकत्र रूपे चक्षुर् नियम्यते, नानादेशपरिमाणार्थपरिच्छेदाच् च न देशपरिमाणाभ्याम्. तथापि तु न स्वार्थम् अतिक्रम्य चक्षुषा किञ्चित् प्रकाश्यते इत्य् अस्ति नियमः. कश् चास्य स्वार्थः, येन सन्निकृष्यते. यथा रूपी रूपं रूपैकार्थसमवायिनश् च. रूपिणा तावद् द्रव्येण संयुज्यते भौतिकं हि तद् इति प्रत्यक्षसूत्रे वक्ष्यते. रूपतदेकार्थसमवायिभिश् च संयुक्तसमवायात् सन्निकर्षः. न चैतावता रसादिषु प्रसङ्गः, योग्यतासहिता प्राप्तिः सन्निकर्ष इति तत्रैव वक्ष्यते. योग्यता च कार्यदर्शनानुसारे[३९७]ण यथाकार्यम् अवतिष्ठते. अत एवातिदूरवर्तिनो ऽपि भावा न चक्षुषः स्वार्थाः. एवम् अजातातिवृत्तादयः. तद् एतेष्व् एव स्वार्थेषु चक्षुः प्रकर्षम् अनुभवेत्, न परविषये शब्दादौ. एवं श्रोत्रे ऽपि दर्शयितव्यम्. एतावांश् च स्वार्थे दृश्यते प्रकर्षो यदनतिदूरान् अतिसूक्ष्मभावप्रकाशनम्. तद् इह स्वार्थाव्यभिचारात् तदवच्छिन्नैव व्याप्तिर् अवगतेति न सर्वविषयप्रकाशनानुमानाय घटते. प्रतिहेतुर् वर्णित एव. ज्ञानस्यापि चायं स्वार्थो यत्रास्य कारणम् अस्ति. षोढापि च प्रमाणज्ञानकारणं विभक्तं तद् यत्रास्ति, तत्र यथायथम् अभ्यासवशाद् ज्ञानं प्रकृष्यत एव, इष्यते च. षड्भिः प्रमाणैः संक्षिप्तः सर्वज्ञ इत्य् उक्तम् एव. विस्तरेण तु सर्वे ऽर्थाः प्रत्यक्षम् ईक्ष्यन्ते इति नैष ज्ञानस्य प्रकर्षः सम्भवति, प्रत्यक्षकारणानां स्वविषयप्रकाशप्रकर्षनियमात्. तदधीनत्वात् तु ज्ञानस्य तन्नियमाद् एव नियमः. अतो न स्वार्थम् अतिक्रम्य प्रत्यक्षस्य सामर्थ्यं सम्भवति. भविष्यद्ग्रहणम् उपलक्षणं भविष्यत्य् अतीते वर्तमाने च. सविशेष[३९८]निखिलभुवनावलम्बिनि भावभेदे नो खल्व् अस्ति नाम भाजनम् एतावतो ऽतिशयस्य कश्चिद् यो देहस्यैवैकस्य कस्यचिल्लोमानि परमाणून् वा सङ्कलयितुम् अलम्. (प्राग् एव सर्वं?) नन्व् अवर्तमानम् अपि चक्षुषा प्रकाश्यत एव भ्रान्ताव्{१,१२१}इदं रजतम् इति. न च तत् स्मरणं, बाह्येन्द्रियापेक्षत्वात्. न च शुक्तिकैव तत्र प्रकाश्यत इति युक्तं वक्तुम्, अन्यतरप्रकाशस्यानन्यविषयत्वात्. इतरथानाश्वासात्. अतः क्वचिल्लब्धप्रकर्षेण चक्षुषैव सर्वम् अजातादि प्रकाशयिष्यते. अस्तु वा संयुक्तसंयोगात् सर्वार्थसन्निकर्षः. यद् एव हि किञ्चिच्चक्षुषा सन्निकृष्यते, तेनैव प्रणाल्या संयुक्तं सर्वम् इति संयुक्तसमवेतानाम् इवानिवार्यस् तत्संयोगिनां सन्निकर्षः. मैवम्. एवं हि न कश्चिद्[३९९]असर्वज्ञो[४००]भवेत्, सर्वस्य तथाविधसन्निकर्षाव्यभिचारात्. यत्त्ववर्तमानम् अपि चक्षुषो विषय इति, तन् न. शुक्तिर् एव हि भ्रान्तौ चक्षुषो विषयः प्राप्यकारित्वात्, असन्निहितरजतप्राप्त्यसम्भवात्. इतरथा त्व् अनपेक्षितार्था एवासन्निहितरजतादिविभ्रमा भवेयुः. नचैवम् अस्ति, निरधिष्ठानविभ्रमादर्शनात्. कथं तर्हि तैमिरिकस्य केशदर्शनं, न हि तत् किञ्चिद् ग्राह्यम् अपेक्षते. असत्केशारोपप्रवृत्तेः. न. तत्राप्य् आलोकांशानां तथा प्रतिभासात्, सूक्ष्मत्वाच् च तेषाम् अन्यद् अन्याकारतया गृहीतम् इति न लक्ष्यते. कथम् इदानीम् अन्याकारतया वेदनं, दोषेभ्य इति भाष्यकारो वक्ष्यति. समानं चेदम् इतरस्यापि. तवापि ह्य् अवर्तमानं रजतं वर्तमानतयावगम्यत इति समानो ऽनुयोगः. यदि दोषतः, को दोषः शुक्तौ रजतानुभवस्य. शुक्तिर् एव रजतानुभवस्य दोष इति चेत्, हन्तैवम् अर्थापेक्षिता चोपपादिता भवति. नेदं रजतम् इति च प्रसक्तताद्रूप्यनिवारणेन बाधकज्ञानम् इतीदम् एव साधु मन्यामहे यद् वर्तमानम् अवर्तमानरजताकारेणावसीयते, नो वर्तमानम् एव रजतं वर्तमानतया. तस्मात् सिद्धं सन्निहितवर्तमानविषयम् एव चक्षू रजतादीन् प्रकाशयतीति न तावच् चाक्षुषं प्रत्यक्षम् अनागतादीनाम् ईक्षणाय क्षमते इति.
SK
__________NOTES__________
SK
[३९६] हि यद्य् अ (KA) [३९७] रिणी य (KHA, GA) [३९८] षे (GA) [३९९] त् [४००] ज्ञो न भ (GA)
SK
स्याद् एतत् -- अस्तु चक्षुषो विषयनियमः प्राप्यकारित्वात्. मनस् तु सकलातीतादिविषयं किं नेष्यते इति मानसप्रत्यक्षगोचरा भविष्यदादयो भावा भविष्यन्तीति. तन् न. मनसो बहिरस्वातन्त्र्यात्. इतरथा त्वन्धाद्यभावप्रसङ्गात्. तस्यापि मनसो भावात्. कथं तर्हि प्रथमज्ञानप्रक्षयिणीन्द्रियव्यापारे{१,१२२}द्वितीयक्षणोपलब्धिः न चेन् मनो बहिः स्वतन्त्रम्. न, तत्रापीन्द्रियव्यापाराविरामात् तज्ज्ञानाविरामोपपत्तेः. का कथा स्वप्ने. तत्र खलु वर्तमानतया विविधान् संसर्गान् मनो दर्शयति. न, स्मृतित्वात्. तत्र च मनसो[४०१]ऽस्वातन्त्र्यस्य वक्ष्यमाणत्वात्. कथं वर्तमानाभासः. दोषात्. व्यक्तश् च दोषो निद्रा. यथा वक्ष्यति[४०२]निद्रा मिथ्याभावस्य हेतुर् इति. कथम् अननुभूते स्मृतिर् इति चेत्. वक्ष्यति अत्रजन्मन्य् एकत्रेति. नन्व् अवगतं प्रतिभासु मनसः स्वातन्त्र्यम्. केषाम्. यद्य् अर्वाचीनानां, न. तासां लिङ्गाद्याभासजत्वात्. प्रायः सहचरितहृदयप्रसादोद्वेगप्रभाविता हि प्रतिभा, न त्व् ऐकान्तिकहेतुका. अत एवानिश्चयात्मिका बुद्धिः. अथ लोकोत्तराणां, न. तासाम् अस्मदादिप्रतिभास्वभावानतिवृत्तेर् इति वक्ष्यामः. विमतिपदं च लोकोत्तरत्वं नास्मदादिभिः क्वचिद् आश्रयिष्यते. बाह्यलिङ्गादिनिरपेक्षे च बहिर्मनासि वर्तमाने सर्वस्यानपेक्षितोपायान्तरो मनोमात्रनिबन्धनः प्रसजन् सर्वबोधः केनापवर्तयितुं शक्यते. अदृष्टविशेषाल् लिङ्गाद्यनपेक्षं बहिर्वृत्तिर् इष्यत इति चेद्, न. इन्द्रियान्तरारम्भवैयर्थ्यात्. तत एव तत्तददृष्टविशेषाहितसंस्कारात् सर्वप्र[४०३]तीतिसिद्धेः. तद् अपि[४०४]वा व्यर्थम्, अकरणस्यैव वात्मनो ऽदृष्टविशेषाद् एव प्रतीतिक्रियासिद्धेः. अथ नादृष्टम् अनुपायम्[४०५]अर्थं साधयतीति माभूत् शरीरारम्भवैयर्थ्यम् इति. एवं तर्हि न लिङ्गाद्यनपेक्षम् अपि मनः क्वचिद् वर्तमानम् उपलब्धम् इत्य् अस्तु तद्[४०६]अपि बहिर्बाह्यापेक्षम्. अतो न मानसम् अपि प्रत्यक्षं भविष्यद् आदौ समर्थम् इति[४०७]सिद्धं, भावनाबलजम् अपि सर्वज्ञनिराकरणक्षेत्रे निराकरिष्यामः, अवगतविषयत्वाद् भावनायाः. तथा सति च भावनावैयर्थ्याद्, अधिकस्य च ततो ऽप्य् असिद्धेः.[४०८]अपि च भावनाबलजम् अक्षजं वा, न वा. न तावदक्षजम् इत्य् उक्तम्. सर्वाक्षशक्तिपरिक्षयस्यानन्तरम् एवोक्तत्वात्. अनक्षजं तु न प्रत्यक्षम्,[४०९]अन्वर्थत्वात् प्रत्यक्षशब्दस्य. अत एव न भविष्यति प्रत्यक्षस्य सामर्थ्यं दृष्टम् इत्य् आह -- भविष्यतीति. प्रत्यक्षस्य हि न भविष्यद्विषयता, तद्विषयस्य वा न प्रत्यक्षतेत्य् अभिप्रायः.{१,१२३}बाह्यान्तःकरण[४१०]जप्रत्यक्षनिराकरणे ऽप्य् अयम् एव भागो व्याख्येयः. न चाक्षुषस्य मानसस्य वा भविष्यदादौ सामर्थ्यम् इत्य् अर्थः. अपि च योगिज्ञानगोचरं सर्वम् अभ्युपयता कथं योगिना सर्वम् अनुभूयत इति वाच्यम्. यदतीताद्य् अपि वर्तमानतया योगिभिर् अवसीयत इति, एवं तर्ह्य् अतस्मिंस् तद्ग्रहो[४११]मिथ्या योगिज्ञानम्. अथ तु यथावस्थितम् एव सर्वं योगिनानुभूयत इत्य् उच्यते, एवं तर्हि नातीतादिविषयस्य प्रत्यक्षतोपपत्तिः. अनुमाने ऽपि प्रसङ्गात्. एवञ् च वर्तमानावर्तमानविषयं ज्ञानं प्रत्यक्षम्[४१२]इत्य् अर्धवैशसम्. स्यान् मतं - कल्पनाविरहः प्रत्यक्षत्वम्. अतीतादिविषयम् अपि योगिनस् तद्[४१३]रहितम्. अतः प्रत्यक्षम् इति. तन् न. पूर्वापरकालसम्बन्धस्याविकल्पेन ग्रहीतुम् अशक्यत्वात्. का चेयं कल्पना. यद्य् अभिलापिनी प्रतीतिः, श्रौत्रम् अप्रत्यक्षं भवेत्. अथाभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः, कल्पनासामान्यस्वसंवेदनम् अप्रत्यक्षं भवेत्. यद् अपि आहुः -- नैनम् इयम् अभिलापेन संसृजति. तथा[४१४]नृत्तेर् आत्मनि विरोधाद् इति. तद् अयुक्तम्. असत्य् अप्य् अभिलापसंसर्गे तत्संसर्गयोग्यस्य सामान्यात्मनस् तत्र निर्भासात्, तावता च कल्पनात्वानपायात् कल्पनापोढत्वानुपपत्तिः. अथान्यरूपारोपः कल्पना, योगिज्ञानम् अप्य् अजातादिषु वर्तमानरूपा[४१५]रोपेणैव वर्तत इति न कल्पनापोढम्. अपि चान्यथास्थितस्यान्यथाभानाद् भ्रान्तम् एव योगिज्ञानम् अभ्रान्तपदेन व्यावर्तितं कथं प्रत्यक्षम्. यथा हि तिमिरादिदोष[४१६]वशप्रभवं केशज्ञानं भ्रान्तम् इत्यभ्रान्तपदेन व्यावर्त्यते, एवं योगिनाम् अपि सर्वस्मिन् वर्तमानावभासं भ्रान्तम् एवेत्यभ्रान्तपदेन व्यावर्तितं न प्रत्यक्षं भवेत्. साक्षात्कारिता तु नानिन्द्रियजस्य ज्ञानस्य सम्भवतीति प्रत्यक्षसूत्रे वक्ष्यामः. अपि चार्थसामर्थ्यसमुद्भवं प्रत्यक्षं योगिज्ञानं चासद्[४१७]अजाताद्यर्थसमुद्भवं कथं प्रत्यक्षम्. एतद् अपि भविष्यत्त्वप्रतिपादनेनैव सर्वं दर्शितम् इत्य् अनुसन्धातव्यम्.
SK
__________NOTES__________
SK
[४०१] नःस्वा [४०२] ति दोषो मि (KA) [४०३] प्रवृत्तिसि (KA), प्रतिपत्तिसि
SK
[४०४] पि बाह्यार्थं [४०५] यम् असमर्थं (KHA) [४०६] तर्हि इदम् अपि (KA) [४०७] ति भा [४०८] द्धेः. भा [४०९] असमर्थ (KHA) [४१०] णप्र (KA, GA) [४११] हाद् मि (KA) [४१२] क्षम् अप्रत्यक्षम् इ (KA, GA) [४१३] द्गृहीतम्. [४१४] थाप्रवृ (KA) [४१५] पेणैव [४१६] षज्ञानप्र [४१७] ञ्जाता (KHA)
SK
स्यान् मतं - सर्वम् एव प्रत्यक्षम् असन्निहितावभासं, ज्ञानार्थयोः कार्यकारणभावेनायौगपद्यात्. अतो नानेन योगिज्ञानं दुष्यतीति. यद्य् एवं किं तर्हि प्रकाशते. ज्ञानाकार एवार्थेनाहितः. एतावद् एवार्थस्य ग्राह्यत्वं यज्ज्ञानाकारार्पणहेतुत्वम्. यद्य् एवम् अर्थैकदेशो ऽपि नावसीयते इति दूरे सर्वज्ञानम्.{१,१२४}अथ ज्ञानाकारवेदन एवार्थवेदनाध्यवसानान् नार्थहानिः, कथम् अन्यवेदने ऽन्यवेदनाध्यवसायः. अविद्ययेति चेत्. अहो महानुभावः सर्वज्ञः, यस्येयमे तावती महाविषया अविध्या. वरम् एकदेशदर्शिन एवैषाम् अविद्यापि तावद्[४१८]अल्पीयसी. किञ् च, इदं सर्वं क्रमेणावसीयते युगपद् वा, न तावत् पूर्वः कल्पः. अनन्तानाम् उत्पा[४१९]दवतां पूर्वापरकोटिविरहिणां च क्रमेणानुभवितुम् अशक्यत्वात्. अत एव[४२०]न यौगपद्यम्, अनन्तानाम् अजातादिवृत्तप्रत्युत्पन्नानां यौगपद्यासम्भवात्. अपि च किम् इदं सर्वं नाम यद्विद्वान् सर्वज्ञो भवति, एकेन केनचिदुपाधिनावच्छिन्नमोदनादि सर्वशब्दवाच्यतया प्रसिद्धम्. न चैवम् अजातादयो ऽर्था इति कथं सर्वपदार्थः. आनन्त्यं सर्वतेति चेत्. नन्व् इयम् इयत्तानवधारणात्मिकैवेति कथं तद्विदः सर्ववित्ता. अतः सिद्धं न किञ्चित् कस्यचित् सर्वगोचरं प्रत्यक्षम् इति. यद् अपि प्रकर्षवतां काष्ठाप्राप्तिर् अवगता यथा वियति परिमाणस्येति ज्ञानम् अपि क्वचित् परिनिष्ठां गतं सर्वविषयं भवतीति. तद् अयुक्तं, प्रकर्षं खलु काञ्चित् काष्ठाम् अधिष्ठाय सङ्गिरामहे यद् विरमतीति. असम्भावनीय[४२१]परावस्था तु काष्ठा इति हेतुर् अनैकान्तिकः. न खलु कार्यद्रव्यं घटमणिकादि सातिशयपरिमाणं विदितम् अपीमां दशाम् अनुभवति, यतः परमसम्भावनीय एव महिमा. एवं तेनैव[४२२]निरवशेषब्रह्माण्डोदरपरिपूरणाद् अनवकाशम् इतरम्. अथ गुणधर्मो ऽयम् इत्य् उच्यते, तन् न. एवम् अपि पूर्वदोषानतिवृत्तेः. गुणो हि गरिमा. न तस्यैतावन्तम् अतिशयं पश्यामः, यतः परम् अपरं न सम्भवतीति. यदि खलु सर्वगुरुभिः सम्भूयैकं किञ्चित् कार्यम् आरभ्यते, एवम् एतत् सम्भवेद् अपि, न चैतद् अस्ति. यद् अपि नभसि परिमाणं निदर्शितं, तद् अयुक्तम्. परिमाणं नामावच्छेदः. तद् यद्य् अप्य् अस्त्य् आकाशे ततस् तद् अपि नासम्भावनीयपरावस्थम् इति साध्यविकलता. अथानन्तम् एव नभो ऽभ्युपगम्यते, कथं तर्हि तत्र परिमाणं निदर्श्यते, परिमाणाभाव एवास्यानन्त्यम्. अतो विरुद्धम् एवेदं परिमितम् अनन्तं चेति सूक्तं भविष्यति प्रत्यक्षम् असमर्थम् इति. इह च पूर्वभाग इन्द्रियाणां सर्वविषयत्वेनातिशयो वारितः.[४२३]उत्तरस्मिन्{१,१२५}प्रत्यक्षज्ञानस्येति विवेक इति. प्रत्यक्षागोचरे भविष्यद् आदौ सर्वस्मिंस् तद्व्याप्तलिङ्गदर्शनासम्भवाद् अनुमानम् अपि न सम्भवति. सादृश्यान्यथानुपपद्यमानार्थदर्शनासम्भवाच् च नोपमानार्थापत्ती. अभावो ऽपि न सर्वस्य कस्यचिद् एवावगम्यते, दृश्यादर्शनात्मको ह्य् अभावः. न तु सर्वं कदाचन दृश्यम्. शब्देनापि विस्तरेण सर्वार्थावधारणम् असम्भावनीयम् एवेत्यभिप्रायेणाह -- नानुमानादेर् इति
SK
__________NOTES__________
SK
[४१८] द्दवीय (GA) [४१९] म् उत्पत्तिमतां [४२०] वायौ (KHA) [४२१] यकप (KA, KHA) [४२२] व ब्र (KA) [४२३] इतर (GA)
SK
अत्र परैर् उक्तं - नन्व् इयम् असम्भावना नित्यवेदाभ्युपगमे ऽपि समाना. न हि सम्भवत्य् अकृत्रिमं नाम वाक्यं भवतीति सर्वागमानां कृतकत्वेनावगतेः. तद् यथेदम् आगमनित्यत्वम् असम्भावनीयम् आश्रित्याभ्युदयनिःश्रेयसार्थम् आरम्भो वेदवादिनाम्, एवम् इतरेषाम् अप्य् अदृष्टपूर्वसर्ववित्प्रामाण्येनेति न विशेषः. अत आह -- सर्वज्ञेति. अयम् अभिप्रायः -- सत्यम् इदम् उक्तं परैः. किन् तु सम्प्रधारणीयम् इदम् अस्ति अनयोः कल्पनयोस् तुल्यत्वं न वेति. येन कारणेन परैस् तुल्यत्वम् आपादितं तेन कारणेनेदं तुल्यत्वम् अस्ति नास्तीति सम्प्रधारणीयम् अस्माभिर् इति
SK
ताम् इदानीं सम्प्रधारणाम् अवतारयति -- सर्वज्ञ इति. अयम् अभिप्रायः -- साधकबाधकप्रमाणतुल्यत्वे हि तुल्यत्वं भवति. न चेह तद् अस्ति. सर्वज्ञो हि न तावद् अस्मदादिभिर् उपलभ्यते. अत एव नास्मज्जातीयैः, स्वभावनियमात्. एतद् एवाभिप्रेत्यादिशब्दः प्रयुक्तः. अन्येषाम् अप्य् अस्मद्विधानाम् असर्वविदां न सर्वविज्ञानं सम्भवतीत्यभिप्रायः. एतच् चोपरिष्टाद् विवरिष्यत एव. वेदानां च न तावत् कर्ताद्यत्वे दृश्यते, पूर्वकोटेर् अनवगमात्. न च सम्भाव्यते, अतीन्द्रियार्थत्वात्. वक्ष्यत्य् एतत् लोके सन्नियमात् (१.१.२६) इति. न चानुमीयते, अभावविरोधात्. असन्निकृष्टार्थविषयं ह्य् अनुमानं, वेदेषु चादृष्टार्थनिर्मितेष्व् अवश्यम् एव निर्माता स्मर्येत. अतो ऽदर्शनाद् अस्मरणाच् चावधृताभावस्य न कर्तुर् अनुमानं सम्भवति. एषैव च नित्यता{१,१२६} वेदानां यः कर्तुर् अभावः. अतः प्रमाणवती नित्यत्वकल्पना वेदानाम्. सर्वज्ञकल्पना तु न तथेति साधकबाधकतुल्यत्वाभावात् कथं तुल्यतेति. ननु नादर्शनमात्राद् अभावः सिध्यति सत्स्व् अपि विप्रकृष्टेषु सम्भवाद् अनेकान्तात्. अपि च व्यापकनिवृत्तेर् व्याप्यनिवृत्त्या व्याप्तत्वात् तथा व्याप्यनिवृत्तिर् अवधार्येतापि. अर्थाः प्रमाणस्य व्यापकाः. न च प्रमाणम् अर्थानां व्यापकम् अहेतुत्वाद् अतादात्म्याच् च. अतो न प्रमाणनिवृत्तिमात्रेणाभावः सर्वविदो ऽवगन्तुं शक्यते. अत आह -- निराकरणवद् इति. अयम् अभिप्रायः -- प्रमाणाधीना हि वस्तुव्यवस्थितयः. न केनचित् प्रमाणेन सर्वज्ञ इदानीं तावद् अवगम्यते. न च कालान्तरे ऽभूद् इति कल्पयितुं शक्यते यथा निराकर्तुम् अनुमानेन कालत्वाद् इदानीन् तनकालवद् इति. कारणाभावस्य च कार्याभावेन नियतत्वात् सर्वज्ञानकारणाभावेन तद्गोचरज्ञानकार्याभावानुमानाद्, ज्ञानकारणाभावस्य चानन्तरम् उक्तत्वात्. अतो न प्रमाणनिवृत्त्या सर्वज्ञे संशयो ऽपि दर्शयितुं शक्यते. निराकरणहेतुबलीयस्त्वेनाभावावगमाद् इति
SK
स्याद् एतत् -- नागमगम्यस्याभावः सर्वविदो ऽवगम्यते, तद्विरोधाद् एव, अत आह -- न चेति. कस्माद् आगमेन नावगम्यते. अत आह -- तदीय इति. आगमो हि तदीयो वा तस्मिन् प्रमाणं, नरान्तरप्रणीतो वा. न तावत् तदीयः, अन्योन्याश्रयापत्तेः. सिद्धे हि बुद्धस्य सर्ववित्त्वे तदागमः प्रमाणं, तत्प्रामाण्याच् च तत्सिद्धिर् इति. नरान्तरप्रणीतस् तु प्रमाणत्वेनानभिमत एवेत्य् आह -- नरान्तरेति
SK
स्याद् एतत् -- नित्यागमगम्य एव सर्वज्ञः, श्रूयते हि सर्ववित् सर्वस्य कर्तेति, अत आह न चेति. अयम् अभिप्रायः -- तात्पर्ये हि शब्दः प्रमाणं, न चैवम्परो नित्यागमो लब्धुं शक्यत इति. किम् परस् तर्ह्य् अत{१,१२७}आह -- नित्यश् चेद् इति. अयम् अभिप्रायः - यावान्[४२४]कश्चित् सिद्धानुवादो[४२५]वेदो दृश्यते, असौ विध्यन्तरार्थ इत्य् अर्थवादाधिकरणे वक्ष्यते. तद् अयम् अप्य् आत्मज्ञानविधिशेष एवेति न स्वरूपे प्रमाणम् इति तात्पर्ये को दोषः, अत आह -- तत्पर इति. न हि नित्यो वेदो नरविग्रहम् अनित्यं सर्वज्ञं प्रतिपादयितुम् अर्हति, नित्यानित्यसंयोगविरोधात्. तद् असाव् एवम्परो ऽनित्य एव स्याद् इति
SK
__________NOTES__________
SK
[४२४] वत् क [४२५] दो दृ (KA)
SK
अयं च नित्यागमगम्यत्वे दोष इत्य् आह -- आगमस्येति. यद्य् अङ्गीकृतो नित्य आगमः, किं सर्वज्ञकल्पनयेति. वृथात्वे कारणम् आह -- यत इति. नित्य एवागमो धर्मे प्रमाणं भविष्यतीति किं सर्वज्ञकल्पनान्तराश्रयणेनेति. इदं तु नित्यागमगम्यतानिराकरणं वेदवादिनाम् एव भ्रान्तिम् अपनेतुं, न नास्तिको वेदवेद्यं सर्वज्ञम् इच्छतीति
SK
यस् तु वदति -- किं नः सर्वज्ञग्रहेण. बुद्धागमसत्यता हि नः साध्या. सा चैवम् अपि सिध्यत्य् एव, इन्द्रियादिसम्बन्धविषये हि ज्ञानमात्रक्षणिकत्वादौ बुद्धः सत्यवादी दृष्टः. अतस् तेनैव दृष्टान्तेन श्रद्धेयार्थे ऽतीन्द्रियार्थविषये ऽपि बुद्धवचसः सत्यत्वम् अनुमीयते. एवं चैत्यवन्दनादीनाम् अपि धर्मत्वं सिध्यतीति, तद् एतद् उपन्यस्यति -- यो ऽपीति
SK
एतद् अपि दूषयति -- तेनेति.[४२६]इन्द्रियादिसम्बन्धविषये हि प्रमाणान्तरपारतन्त्र्येण सत्यता दृष्टेति व्याप्तिबलेनातीन्द्रियार्थे ऽपि पारतन्त्र्येण प्रमाणता भवतीति. पारतन्त्र्ये कारणम् आह -- प्रामाण्यम् इति. अयम् अभिप्रायः -- इन्द्रियादिसम्बन्धे विषये सत्यतेति ब्रुवाणेनार्थाद् इदम् उक्तं भवति इन्द्रियादितन्त्रं प्रामाण्यम् इति. स्वतःप्रामाण्ये तदपेक्षाया वैयर्थ्यात्. एतद् उक्तं{१,१२८}भवति -- नात्र मानान्तरम् अतन्त्रीकृत्य बुद्धवचनमात्रस्य सत्यतावगता. प्रमाणान्तरापेक्षायाः सर्वत्राव्यभिचारात्. अतो न क्वचिद् अपि स्वातन्त्र्येण प्रमाणता सिध्यतीति
SK
__________NOTES__________
SK
[४२६] ति प्र (KA, KHA)
SK
पारतन्त्र्यम् एव विवृणोति -- यथैवेति. सो ऽयं धर्मविशेषविरुद्धो हेतुर् इति
SK
न केवलं धर्मविशेषविरुद्धः, विरुद्धाव्यभिचारी चाय हेतुर् इत्य् आह -- यथा चेति. शक्यते हि वक्तुं बुद्धवचनम् अतीन्द्रिये[४२७]ऽन्यानवबुद्धे ऽर्थे न प्रमाणं, बुद्धवाक्यत्वात् क्षणिकादिवाक्यवद्[४२८]एव. तानि ह्य् अतीन्द्रिये ऽर्थे ऽप्रमाणान्य् एव. अयं चैक एव हेतुर् विरुद्धम् अर्थद्वयं न व्यभिचरतीतीदम् एवै[४२९]कवचनान्तविरुद्धाव्यभिचारिपदो[४३०]दाहरणम्. हेतुद्वयं तु नैकवचनान्तपदवाच्यम् इत्यनुमाने वर्णयिष्याम इति. न[४३१]च वाच्यं सत्यत्वम् अपि तावद् अयं हेतुः साधयतीति सिद्धो नः पक्ष इति. न हि वः सत्यतामात्रं साध्यं, श्रद्धेयार्थसत्यतायाः साध्यत्वात्. अत एवोक्तं श्रद्धेयार्थे ऽपि कल्पयेद् इति
SK
__________NOTES__________
SK
[४२७] ये ऽनवबु (KA, KHA) [४२८] वत्. ता [४२९] म् एव वि [४३०] दार्थोदा
SK
[४३१] न वा (KA)
SK
तद् अयम् अश्रद्धेये सत्यतां श्रद्धेये चासत्यतां साधयन् नेष्टसाधनाय वः प्रभवति. अस्माकम् एव तु श्रद्धेये सिसाधयिष[४३२]ताम् असत्यतां बुद्धवचसः साधयन्न् अयं हेतुर् अनुगुण इत्यभिप्रायेणाह -- अश्रद्धेयेति. विशेषविरुद्धताम् एव पूर्वोक्तां विवृणोति -- पूर्वेति. दृष्टान्तानुसारेण हि हेतुर् गमको भवति. तत्र वः पूर्वज्ञानानुवादिता दृष्टेति तद् व्यभिचारात् श्रद्धेयार्थस्यापि बुद्धवचसः{१,१२९}पूर्वज्ञानानुवादित्वम् एवायं साधयेत्. स्वातन्त्र्यं तु प्रमाणताया विशेषं विरुन्ध्याद् इति
SK
__________NOTES__________
SK
[४३२] षि (GA)
SK
अपि च य एव कश्चिद् वेदबाह्यः पाषण्डो ऽनेन हेतुना पौरुषेयागमानां सत्यत्वं सिसाधयिषति, तस्यैव सप्रतिसाधनो ऽयम् अन्योन्यदृष्टान्तोपदर्शनेन हेतुर् भवतीत्य् आह -- अपि चेति. बुद्धवचनम् अतीन्द्रियार्थं मिथ्या, अलौकिकार्थत्वे सति पुंवाक्यत्वाद् दिगम्बरागमवत्. सो ऽपि तत एव मिथ्या, बुद्धागमवद् इत्य् अन्योन्यसपक्षतेति
SK
अविशेषितेनैव वा पुंवाक्यत्वेन हेतुना धर्माधर्मातिरिक्ते ऽर्थे प्रामाण्यं प्रसज्यत इत्य् आह धर्मेति. अत्र च धर्माधर्मयोः प्रामाण्याभाव एव साध्यः. नातिरिक्तार्थे प्रामाण्यं, तस्य सिद्धत्वाद् इति. यद् अपि क्षणिकादिवाक्यं दृष्टान्ततयोक्तं, तद् अपि सांख्यादिषु प्रतिपक्षिषु जीवत्सु साध्यविकलम् इत्य् आह -- सांख्यादिष्व् इति. सर्वनित्यत्ववादिनो हि सांख्याः. ते यावन् न निर्जिताः, तावत् कथं क्षणभङ्गवाक्यं सत्यतयोपन्यस्यते. यथा चेदम् असत्, तथा शब्दाधिकरणे वक्ष्याम इति
SK
अलौकिकार्थवादिता वा पुंवाक्यत्वविशेषिता सत्यत्वानुमानं प्रतिहन्ति परस्परागमदृष्टान्तेनैवेत्य् आह -- अलौकिकेति. विशेषणविशेष्यभावव्यत्य[४३३]यो ऽतिरेक इति
SK
__________NOTES__________
SK
[४३३] त्यययोर् अति (KA)
SK
प्रतिहेतुप्रसङ्गेनेदानीं यद् अपि सर्वज्ञप्रसाधनार्थं परैर् अनुमानम् उक्तं सर्वज्ञो{१,१३०}ऽस्मीति बुद्धेन यद् उक्तं सत्यम् एव तत् तदुक्तत्वाद् यथा ज्योतिरुष्णमापो द्रवा इति, तद् अपि प्रतिहेतुविरुद्धम् इति सर्वज्ञदूषणम् एवोपसङ्क्रम्याह -- वदेद् इति. यो वादी पूर्वम् असङ्गत एवागत्यैवम्भूतं वक्ष्यमाणं यद् वदति तस्यापि एष वक्ष्यमाण एव भवदुक्तहेतुसदृशो भवन्तं प्रति मुक्तसंशयं हेतुर् भवति. प्रथमसङ्गतिर् अनैकान्तिकाशङ्कानिराकरणार्था. चिरसङ्गतो हि कदाचिन्मिथ्या भाषते इति
SK
प्रतिहेतुम् एव प्रयोगेण दर्शयति -- बुद्धादीनाम् इति
SK
कथं पुनर् अयं मुक्तसंशयः, अत आह -- प्रत्यक्षम् इति. बुद्धो ऽसर्वज्ञ इति वचसो मदुक्तत्वं प्रत्यक्षसिद्धम् असन्दिग्धम् एव. दृष्टान्ते चाग्न्युष्णत्वादिवाक्ये तत् प्रत्यक्षसिद्धम् एवेति सूक्तम् असंशयम् इति. सर्वज्ञो ऽस्मीति वचनं बुद्धोक्तं न वेति न निश्चेतुं शक्यम्. न खल्व् एतावद् अत्युद्धतानृतं प्रेक्षापूर्वकारी भाषत इति सम्भावयामः. सेयम् अस्य वचसो दृष्टान्तानां च क्षणिकादिवाक्यानां बुद्धोक्तता नासाधिता सिध्यतीति बौद्धेन साध्येत्य् आह -- त्वया साध्येति. किम् अतो यद्य् एवम् अत आह -- तेनेति. अयम् अभिप्रायः -- नानयोर् हेत्वोस् तुल्यतया संशयहेतुत्वम्. किन् तु अस्मदीयो हेतुः स्वयं सिद्धः, प्रसिद्धव्याप्तिकश् च, दृष्टान्तश् च न हेतुविकल इति सिद्धो नः पक्षः. तव तु सन्दिग्धासिद्धो हेतुः, दृष्टान्तश् च सन्दिह्यमानहेतुसद्भाव इत्यप्रसिद्धाङ्गकम् अनुमानं न साध्यसिद्धये प्रभवतीत्य् अयम् आवयोर् विशेषः सम्पद्यत इति
SK
किञ् च, अतिस्थवीयान् अयं सर्वज्ञवादः, येनात्यन्तप्रसिद्धैर् अपि प्रमेयत्वादिहेतुभिः शक्यते निराकर्तुम् इत्य् आह -- प्रत्यक्षेति. प्रमेयत्वादयो हि{१,१३१} प्रमाणान्तराविरुद्धा बुद्धे सिद्धाः शक्नुवन्ति तस्य सर्वज्ञतां वारयितुम्. न चात्र विपक्षे बाधकप्रमाणाभावाद् असिद्धा व्याप्तिर् इति वाच्यम्.[४३४]सर्वज्ञानकारणाभावेन सर्वज्ञासम्भवस्योक्तत्वाद् इति
SK
__________NOTES__________
SK
[४३४] च्यम्, प्रगेयत्वस्य सर्व (KA)
SK
नन्व् अस्तीयं चिरप्रवृत्ता बुद्धः सर्वज्ञ इति दृढा स्मृतिः, तद् अस्या एव बुद्धेर् द्रढिम्नः सर्वज्ञप्रमाणम् अनुमास्यामहे, अत आह -- न चेति. किम् इति नानुमीयते, अत आह विगानाद् इति. अविगीता हि स्मृतिर् मूलम् उपस्थापयति. सर्वज्ञस्मृतिं तु नास्तिका एव परस्परं विगायन्ति सर्वविद्भेदानाश्रयन्तः. वेदवादिनस् त्व् अत्यन्ताय सर्वज्ञं निराकुर्वन्[४३५]तीति. ननु समानम् इदं विगानं मन्वादिस्मृतिष्व् अपि, ता अपि नास्तिका विगायन्ति, अत आह -- छिन्नेति. अयम् अभिप्रायः -- स्मृतिर् हि पूर्वज्ञानकार्यतयावगता कारणभूतं[४३६]पूर्वविज्ञानम् अनुमापयति. असन्निकृष्टार्थगोचरं ह्य्[४३७]अनुमानं भवति. इह च सर्वज्ञानकारणाभावात्[४३८]छिन्नं पूर्वविज्ञानं स्मृतिमूलतया असम्भावितम् इति वैपरीत्यपरिच्छे[४३९]दाद् नानुमानावकाशः. वेदसंयोगस् तु त्रैवर्णिकानां सम्भवतीति स शक्यो मन्वादिस्मृतिमूलतया कल्पयितुम् इति. विगानं विवृणोति -- कैश्चिद् इति. इदं चान्वारुह्यवचनम्. यदि हि सर्वाविगानं भवेद्, एवम् अपि या काचित् कल्पना स्यात्. न चैवम् अस्ति, कैश्चिद् एव महाजनैकदेशभूतैर् बुद्धादिभिः सर्वज्ञतायाः परिग्रहाद् इति
SK
__________NOTES__________
SK
[४३५] त इति [४३६] तं वि [४३७] चा (GA) [४३८] वावच्छि [४३९] छेदेन ना (KA)
SK
छिन्नमूलतां विवृणोति -- सर्वज्ञ इति. स्मृतिद्रढिम्ना हि एकेन सर्वज्ञो ज्ञात इति कल्पनीयं, स एव तु सर्वज्ञं ज्ञातुं समर्थः यः सर्वविद् वेद्यं जानाति. यावद् ध्य् एतावद् एव सर्वम् इदं च बुद्धो जानातीति न जायते, न तावद् असौ सर्वज्ञ इत्य् अवधारयितुं शक्यते. न च बुद्धादर्वाचीनः सर्वविद्{१,१३२}इति नास्य सर्वज्ञानकारणम् अस्ति. न चानवगतं स्मर्तुं शक्यते. अतो ऽसम्भावितमूलैवञ्जातीयां स्मृतिर् अप्रमाणम् एवेति
SK
यदि तु बुद्धाद् अन्यो ऽपि कश्चिद् एकः सर्वज्ञः तेन च सर्वज्ञो बुद्ध इति ज्ञात्वा स्मृतं तत एषा स्मृतिपरम्परा प्रवृत्तेत्य् उच्यते, एवं सति तत्सर्वज्ञता विना सर्वज्ञे(न)नावगन्तुं शक्यते इति सर्वज्ञानन्त्यम् इत्य् आह -- कल्पनीया इति. अत्र कारणम् आह -- य एवेति
SK
एवं तावत् सार्वज्ञ्यं दुर्ज्ञानम् इत्य् उक्तम्. तदनवगमे च सर्वज्ञागमप्रामाण्यम् अपि न सिध्यतीत्य् आह -- सर्वज्ञ इति. सर्वज्ञप्रणीतता हि तदागमप्रामाण्यमूलं, तदनवगमे च न यादृशतादृशपुरुषवाक्यवत् सर्वज्ञागमप्रामाण्यम् अध्यवसातुं शक्यत इति
SK
दूषणान्तरम् आह -- रागादीति. अयम् अभिप्रायः -- आगमप्रणयनं हि रागाद् वा किञ्चिद् अनुग्रहीतुं द्वेषाद् वा निग्रहीतुं सम्भवति. बुद्धस् तु प्रक्षीणाखिलरागद्वेष[४४०]इति नास्यागमप्रणयने किञ्चित् कारणम् उपलभ्यत इत्य् अन्यप्रणीतैव धर्मातिदेशनेति वक्ष्यमाणेन सम्बन्धः. नन्व् अयं परमकारुणिकः तद्वश एव दुःखोत्तरान् प्राणिनो दृष्ट्वा दूरं दूयमानमानसो हिताहितप्राप्तिपरिहारोपायोपदेशान् प्रणयतीति किम् अनुपपन्नम् अत आह -- निर्व्यापार इति. अयम् अभिप्रायः -- प्रत्यक्षं हि तद् योगिनः सर्वविषयं ज्ञानम् इष्यते. तच् च कल्पनापोढम्. अतो यदा ध्यानस्तिमितलोचनो जगदखिलम् अविकल्पेन विलोकयमानो ऽवतिष्ठते, तदास्यास्मृतशब्दादिसम्बन्धस्य विवक्षाप्रयत्नताल्वादिव्यापारासम्भवान् न कथञ्चिद् अप्य्[४४१]अस्मृतस्य देशनाप्रणयनं सम्भवतीति कारुणिको ऽप्य् उपेक्षेतैवैत्यन्यप्रणीतैव देशना भवेद् इति. अपि च यावद् इदं{१,१३३}वृत्तम्, इदं वर्तिष्यत इति न प्रत्यवेक्षते, न तावदागमो निर्मातुं शक्यते. न चैतद् अप्य् अनुत्थितस्य सम्भवतीत्यभिप्रायेणाह -- ऋत इति. तद् इह कारणत्रयम् अप्य् अन्यप्रणीतत्वे देशनानाम् उक्तम् इत्य् अनुसन्धातव्यम्. स्याद् एतत्. व्युत्थायोपदेक्ष्यतीति, तन् न. व्युत्थितस्य अभिलापिनी प्रतीतिर् भ्रान्तिर् इति भ्रान्तभाषितम् अप्रमाणं भवेद् इति
SK
__________NOTES__________
SK
[४४०] षाभिनिवेश इ [४४१] प्य् उत्थितस्य (GA)
SK
स्याद् एतत् -- बुद्धानुभावाद् असत्येव तत्प्रयत्नविशेषे कुड्यादिभ्यो ऽपि देशना धर्मोपदेशा निर्गच्छन्तीति. तद् इदं नाश्रद्दधाना वेदवादिनो बुध्यामहे. वयं हि वस्तुस्वभावम् अनतिक्रामन्तो यज्जातीयो यतः सिद्धः ततस् तत्सिद्धिम् अनुजानीमहे. ग्रन्थसन्दर्भश् च विवक्षाप्रयत्नवाय्वीरणताल्वादिसंयोगविभागपूर्व[४४२]क एवावगत इति न ध्यानस्तिमितान्तःकरणयोगिसन्निधानाद् एव सिध्यतीति सम्भावयामः. तद् एतद् आह -- सान्निध्येति सार्धेन. (श्रद्दधानस्य कुत इत्य् अर्थः.?) अपि च, आप्तप्रत्ययानुसारी शब्दान् निर्णय इति न कुड्यादिनिस्सृताभ्यो देशनाभ्य आश्वासो भवेद् इत्य् आह -- कुड्यादीति
SK
__________NOTES__________
SK
[४४२] र्व एवागतः (KA)
SK
किञ् च बुद्धप्रणीतत्वे ऽपि नाश्वासः. एवं च संशेमहे -- किं बुद्धानुभावान्[४४३]निस्मृता इमा देशनाः, आहोस्वित् पिशाचादिभिर् दुरात्मभिर् अदृश्यैर् ईरिता इत्य् आह -- किन् त्व् इति. अदृश्यातिवाहिकायोनिजदेहाः पिशाचा इति पुराणेषु गीयते. तन्मतेनेदम् उक्तम् इति. एवं च संशयानेभ्यो देशना न प्रमाणं भवेयुर् इति भावः
SK
__________NOTES__________
SK
[४४३] वनि (GA)
SK
अन्यद्दर्शनं - बोधस्वभावः पुरुषो भवान्तरीयकर्मार्जितदेहेन्द्रियादिवशः{१,१३४}क्वचिद् एव किञ्चिच् च जानाति. निरवशेषिताशेषकर्माशयस् तु विगलितनिखिलकरणकलेबरादिप्रपञ्चः केवलीभूतो विश्वम् एव सूक्ष्मातीतादिभेदभिन्नम् अपरोक्षम् ईक्षते. तच् च केवले जीवे जातं[४४४]केवलज्ञानम् आचक्षते. एवंवादिभिश् च मुक्तात्मनाम् एव सर्वगोचरज्ञानम् आश्रितं, तद् एतदुपन्यस्यति -- एवम् इति
SK
__________NOTES__________
SK
[४४४] कैवल्य ज्ञा (GA)
SK
एतद् अपि दूषयति -- नर्त इति. अयम् अभिप्रायः -- सुभाषितम् इदं मुक्तो विश्वं जानातीति. सा खलु जीवानां तादृशी दशा स एष नेति नेतीति सकलभेदप्रपञ्चविलयनेनैव तावद् उपलभ्यते वेदान्तेष्व् इति तदतिरिक्तातीतादिज्ञातव्याभावात् कथं सर्वज्ञता. यदि त्व् अवधीर्य वेदान्तान् स्वागमप्रामाण्याश्रयणेन मुक्तानां तथाविधं ज्ञानम् इष्यते, तन्नासत्यागम् अप्रामाण्ये सिध्यति. न चासर्वज्ञप्रणीत आगमः प्रमाणं सम्भवतीति सर्वज्ञसिद्धावागमप्रामाण्यं, तत्सिद्धौ च सर्वज्ञसिद्धिर् इतीतरेतराश्रयं भवतीति. यदि तु क्वचित् तथाविधेन ज्ञानेन व्याप्तं लिङ्गम् उपलभ्य[४४५]ते, एवमनुमानेन ज्ञानसिद्धाव् इतरेतराश्रयपरिहारो भवेत्. न तु तस्य ज्ञानस्य लोके कश्चिद् दृष्टान्तो भवतीत्य् आह -- दृष्टान्त इति
SK
__________NOTES__________
SK
[४४५] भ्येत, ए (KA)
SK
एवं तावद् यैः पुरुषातिशयम् आश्रित्य तत्प्रत्ययेनागमप्रामाण्यम् आश्रितं, तान् प्रत्युक्तम्. इदानीं ये वदन्ति -- नित्य एवायम् आगमः कस्यचित् प्रथमम् आर्षज्ञानेनावबुद्धो भवतीति, तान् प्रत्याह -- नित्यागम इति. किं पुनर् अयं नित्यागमवाद एव निराक्रियते. अत्रापि शब्दैकप्रमाणकाव् एव धर्माधर्मौ. एतावांस् तु विशेषः. यद् एकस्यैव कस्यचिदृषेर् अपगतसकलकल्मषस्याभ्रष्टभवान्तरीयसंस्कारस्यादाव् एव वेदाः प्रादुर्भवन्ति. ते च तेनापरेभ्यः प्रतिपाद्यन्ते तैर् अप्य् अन्येभ्य इत्य् एवं शिष्याचार्यपरम्परया आभूतसंप्लवं तिष्ठन्ति. एवम् एव पुनः सृष्टाव् अप्य् आर्षदर्शनेनैव वेदसंव्यवहारः प्रवर्तते{१,१३५}इति न कश्चिद् विशेषः. तस्माद् वाच्यो निराकरणाभिप्रायः. स उच्यते -- तत् खलु सृष्ट्यादाव् ऋषेर् ज्ञानं ग्रहणं स्मरणं वा. ग्रहणम् अपि प्रमाणम् अप्रमाणं वा. न तावद् अप्रमाणाद् अर्थतथात्वनिश्चयः. प्रमाणं तु ना प्रत्यक्षं सम्भवतीति किं तन्निराकरणेन. यदि तु साक्षात्कारिप्रत्यक्षम् एतदृषीणाम् आश्रीयते, तथा सत्य् अनुच्चारितशब्दश्रवणाद् अतीन्द्रियदर्शनम् एवापतितम्. अत एवाहुः --
SK
अतीन्द्रियानसंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा |
SK
ये भावान् वचनं तेषां को ऽतिक्रामितुम् अर्हति ||
SK
इति. अतो निराकार्य एवायं सिद्धान्तः. एवं हि तुल्यन्यायतया धर्माधर्माव् अपि कश्चिद् अपरोक्षयेत्, ततश् च चोदनैवेति प्रतिज्ञाहानिः. अत एवोक्तम् -- अनया दिशेति. सर्वज्ञनिराकरणदिशेत्यर्थः. एतेन तुल्यताम् अनयोर् दर्शयति अयम् अपि सिद्धान्तपरिपन्थीति. स्मरणं तु परस्तान् निराकरिष्यत इति. अपि चेदम् आर्षदर्शनं कृतकाशङ्काम्[४४६]अप्य् आपादयतीति निराकार्यम् इत्य् आह -- न हीति
SK
__________NOTES__________
SK
[४४६] म् आपा
SK
ननु तद्वचनाद् एव निश्चयो भविष्यति, अत आह -- सर्वदेति. श्रूयते खलु अनृतवादिनी वाग् इति. जैमिनिर् अपि प्रायानृतवादितां वाचो वक्ष्यति -- प्रायात् इत्य् अत्र. अतो ऽद्यत्वे ऽनृतवादिबाहुल्यात् कालान्तरे ऽप्य् अविस्रम्भ इति
SK
अपि च, एतद् अकस्मात् प्रतिभानं स्वप्नवद् भ्रान्तिर् इत्य् अपि वक्तुं शक्यत इत्य् आह -- स्वप्नादीति. अर्थग्रहणं तुल्यन्यायतयार्थप्रतिभासस्यापि[४४७]शङ्क्यमानत्वात्[४४८]सशङ्कानां (कृते?) प्रामाण्यं न युज्यत इत्य् अर्थः
SK
__________NOTES__________
SK
[४४७] पि विश (KA) [४४८] सा (GA)
SK
{१,१३६} अयम् अपरो ऽस्मिन् दर्शने दोष इत्य् आह -- पुरुषेति. पुरुषस्य तावदतीन्द्रिय[४४९]दर्शनशक्तिर् अभ्युपगतैव यदनुच्चरितशब्दग्रहणम् अङ्गीकृतम्. सा चेद् अङ्गीकृता, किम् आगमनित्यताग्रहेण. एवं हि वरं यत् परैर् उक्तं पुरुषप्रत्ययाद् एवागमप्रामाण्यम् इति तद् एवाश्रितम् इति. एवं तावदनुच्चरितशब्ददर्शनं निराकृतम्. स्मरणम् इदानीं निराकरोति -- कल्पितम् इति. अस्यातिशयवतः पुरुषस्याद्यतनज्ञानेष्व् अदृष्टपूर्वं जन्मान्तरीयज्ञाननिबन्धनं वेदानां सृष्ट्यादौ स्मरणम् इति कल्पनामात्रं, न तु प्रामाणिकम्. जन्मान्तरे निबन्धनं कारणम् अस्येत्य् अर्थः. कः पुनर् अत्र दोषः यज्जन्मान्तरानुभूता वेदाः स्मर्यन्त इति. ग्रहणं ह्य् अनुच्चरितशब्दगोचरं न सम्भवति, न तु स्मरणम्. अद्यत्वे ऽपि हि तावच्चिरतरानुभूतानाम् आन्तरलिकानेकान्तरायपरम्परातिरोहिताना भावानां नानाविधानेकगद[४५०]वेदनाभिर् दूरं दूयमानमानसैर् अपि स्मरणं दृष्टम्. तद् भवान्तरीयस्मृतौ किम् अनुपपन्नम्. देहध्वंसे संस्कारानवस्थानम् इति चेद्, न. अतदाधारत्वात्. तत्रैतत् स्यात् -- अध्रियमाणेषु देहेषु किम् आश्रयाः संस्कारा भवन्ति न वा भवन्ति. कथं भवान्तरे फलं भावयितुम् उत्सहन्त इति. तन् न, अतदाधारत्वात्. नो खल्व् अपि भवान्तरीयपटुतरानुभवप्रभावितं भावनाबीजं शरीराधिकरणं, यद् अस्य नाशे नश्येत्. ज्ञानसमानाधिकरणत्वाद् आत्मनश् च[४५१]ज्ञानाधारत्वात्. आत्मापि परिगृहीतदेहान्तरो ऽपि स एवावतिष्ठत इति नाश्रयानुपपत्तिः. अपि चेदानीम् अपि पूर्वजातिस्मरः कश्चिद् उपलभ्यत एव, यो भवान्तरीयरहोवृत्तवृत्तान्तं सम्पादयति. देहनाशाच् च संस्कारनाशे तदनुपपत्तिः. जरामरणगर्भवासजन्मवेदनाश् च संस्कारोच्छेदहेतवः तस्यापि तुल्या एव. अतो ऽवश्यम् आश्रयणीयः को ऽपि प्राग्भवीयधर्मानुग्रहात् तस्य नाम भाजनम् अतिशयस्य यो ऽत्रामुत्र वा विदितम्[४५२]अप्य् अशेषेण स्मरतीति. अपि चेतिहासपुराणवेदवादा अपि जातिस्मरणसद्भावे प्रमाणम्. भवति हि गीतासु वासुदेववचनं -
SK
__________NOTES__________
SK
[४४९] यार्थद [४५०] र्भ [४५१] श् च परिज्ञा [४५२] म् अप्य् अविशे (KA)
SK
{१,१३७} बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |
SK
तान्य् अहं वेद सर्वाणि न त्वं वेत्सि परन्तप ||
SK
इति. पौराणिका अपि --
SK
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् |
SK
अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिस्मृ[४५३]ताः ||
SK
__________NOTES__________
SK
[४५३] र्ग (KA)
SK
इति पठन्ति. स्मरणाभिप्रायम् एवेदं वेदविनिस्सरणं पुराणेषु, तत्कृतकत्वानभ्युपगमात्. वेदवादाश् च भवन्ति देहान्तरप्रतिपत्तिकाले तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति. मानवे ऽपि विशिष्टकर्मफलतयैव जातिस्मरत्वं दर्शितम्. स्मर्यते हि[४५४]-
SK
__________NOTES__________
SK
[४५४] च (GA)
SK
वेदाभ्यासेन सततं सत्येन तपसैव च |
SK
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ||
SK
इति. तत्रैतत् स्यात्. अन्यार्थत्वा[४५५]वधृतवेदाभ्यासादिसमभिव्याहारात् पर्णमय्यादिफलार्थवादवदर्थवाद एवायं न फलकल्पनायै प्रभवति. तथा हि -- वेदाभ्यासस् तावद् धारणार्थ एव, प्रत्यक्षं हि गुण्यमानं न भ्रश्यतीति. यो ऽपि च अहरहः स्वाध्यायो ऽध्येतव्यः इति विशिष्टेतिकर्तव्यतायुक्तो ब्रह्मयज्ञविधिः, सो ऽपि यावज्जीवदर्शपूर्णमासाग्निहोत्रादिविधिवदुपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारप्रयोजन एवेति नासमीहितफलान्तरसम्बन्धम् अनुभवति. सत्यम् अपि शब्दार्थ[४५६]भेदभिन्नं स्वर्गादिमहाफलार्थम् अवगतम् एवेति न फलान्तरेण सम्बध्यते. तपांस्य् अपि नानाविधैनोनिब[४५७]र्हणार्थानि स्वर्गादिश्रेयो[४५८]न्तरार्थानि च चान्द्रायणादीन्य् अवधारितानीत्यनपेक्षाण्य् एवेति न जातिस्मरणफलकानि भवन्ति. अद्रोहो ऽप्य् अहिंसा भूतानां तत्तत्कालभेदेन फलार्थ एव विहितः. यदि व्रतं यदि निषेधः कस्य जातिस्मृतिः फलं भवेत्. तस्माद् वेदाभ्यासादी[४५९]नाम् अर्थवाद एव फलश्रुतिर् न फलकल्पनायां प्रमाणम् इति. तन् न. प्रत्येकं हि वेदाभ्यासादीनां फलान्तरम् अवगतं न समुच्चितानाम्. इह तु क्रय इवारुणादीनां सत्यादीनाम् एकत्र फल उपादीयमानानां साहित्यं विवक्षितम् इति न समुदितानां फलान्तरसम्बन्धो{१,१३८}नोपपद्यते. अत एव समुच्चयवचनम् उपपन्नं भवति. स्याद् एतत् -- एकेन स्मर्यमाणा वेदाः कृतकाशङ्कां जनयेयुर् इति. तन् न, अनेकेषाम् अपि तथाविधातिशयभाजामृषीणां भृग्वङ्गिरःप्रभृतीनां परस्परसंवादाशङ्कानिवृत्तेः. न चैवं वेदार्थे प्रसङ्गः, तस्यातीन्द्रियस्य भवान्तरे ऽप्य् अननुभूतस्य स्मृत्यनुपपत्तेः. स्याद् एतत् -- भवान्तरानुभूतस्मृतौ जन्मान्तरे कृतकर्माण इह फलं लभमाना अन्वयव्यतिरेकाभ्याम् एव कर्मफलसम्बन्धं जानीयुः. अतश् चोदनैकप्रमाणता व्याहन्येतेति. तद् अयुक्तम्. अनादौ खलु संसारे विपरिवर्तमानानाम् अनन्तानि कर्मिणां कर्माणि. तत्र जातिस्मरो ऽपि नैतावद् विवेक्तुं शक्तो ऽमुष्य नामेदं कर्मणः फलम् इति. न चावश्यमानन्तरभवानुष्ठितकर्मफलोपभोग एव संसारिणां, नानाजन्मसञ्चितेषु शुभाशुभफलेष्व् आनन्त्याद् अनवधृतपरिमाणेषु दुरधिगमः कर्मफलसम्बन्धविवेकः. तस्मान्नागमस्मरणे कश्चिद् विरोधो दृश्यत इति किं तन्निराकरणेन. अत्रोच्यते -- यदि नामेतिहासपुराणप्रामाण्याश्रयणेनायोनिजदेहा एव कृतादियुगभेदेषु केचिदृषयः स्मरन्ति वेदान् इति सङ्गिरन्ते. तद् अस्तु. नैवम् अपि नः काचित् सिद्धान्तहानिः. एकस्य कस्यचित् स्मरणम् एवास्माभिर् निरस्यते, तद् धि कृत्रिमत्वम् एवापादयतीति. अत एव वक्ष्यति -- एकस्य प्रतिभानम् इति. इहापि चास्येत्य् एकवचनेनैकस्यैव स्मरणं निराकरोति. बहवो ऽप्य् अयोनिजदेहाः स्मर्तार इति दुष्प्रतिपादम् एव. न खल्व् अयोनिजं नाम नराणां शरीरं सम्भवति, स्वभावनियमाविसंवादात्. विसंवादे वा सकलदृष्टादृष्टव्यवहारोच्छेदप्रसङ्गात्. योनिजदे[४६०]हास् तु सातिशया अपि साङ्गांश् चतुरो वेदान् स्मरन्तीति. नैवं सम्भावयामः, जन्मजरामरणवेदनापरिभवो हि महान् संस्कारनाशनिदानम् इति कथं महानयं ग्रन्थसन्दर्भो मात्रयाप्य् अन्यूनानतिरिक्तः केनचित् स्मर्येत. किञ्चिद् एव भवान्तरीयकम् अपि केचित् स्मरन्ते दृश्यन्ते इति यथादर्शनम् अस्तु जातिस्मरः, कल्प्यतां वा मानवानुमितजातिस्मरश्रुत्यन्यथानुपपत्तिबलाद् विशिष्टो योनिजविग्रहपरिग्रहो भृग्वादीनाम् ऋषीणां स्वर्गकामश्रुत्यन्यथानुपपत्तिकल्पितासाधारणातिशयदेहेन्द्रियादिपरिग्रहवत्. शास्त्रस्था हि वयं यथाशास्त्रम् आश्र[४६१]यामहे. न च शास्त्रसामर्थ्यादायातो ऽतिशयो ऽनुमानेन निराकर्तुं शक्यते आगमविरोधाद् एव. जन्मान्तरानुभूतं च न स्मर्यते इति{१,१३९}त्व् अतीन्द्रियार्थाभिप्रायम् एव तद् अस्तु. सर्वथा सिद्धम् इदम् एकस्यागमस्मृतिकल्पना न साधीयसीति
SK
__________NOTES__________
SK
[४५५] त्वाद् अव [४५६] र्थवदभिन्नं च स्व (KA) [४५७] र्हरणा [४५८] योर्थान्तराणि च [४५९] देर् अर्थ (GA) [४६०] शरीरास् तु [४६१] द्रि (GA)
SK
पुनर् अपि ग्रहणपक्षम् एवोपसङ्क्रम्य दूषणम्[४६२]आह -- ग्राह्यत्व इति. नन्व् आगमस्यातीन्द्रियो ऽर्थः न त्व् आगम इति कथं तुल्यत्वम् अत आह -- यो हीति. अनुच्चरितो ह्य् आगमो ऽतीन्द्रिय एवेति भावः
SK
__________NOTES__________
SK
[४६२] यति -- ग्रा (GA)
SK
ननु तुल्यत्वे ऽपि तावद् अस्मदादिभिर् आगमग्रहणम् आश्रितम्. को दोषः, अत आह -- पुमांस् तावद् इति. अयम् अभिप्रायः -- नात्र तुल्यत्वम्. अर्थप्रतिभाने हि पुरुषः स्वतन्त्रो भवति, तदनुसारित्वाद् अर्थनिश्चयस्य. आगमप्रतिभाने तु पुरुषो ऽर्थं प्रत्यागमपरतन्त्रः. आगमो ऽपि स्वरूपस्थितये[४६३]तत्परतन्त्र इति सापेक्षत्वाद् उभयाप्रामाण्यम् इति
SK
__________NOTES__________
SK
[४६३] ये पर (KA)
SK
नन्व् इदम् आगमपारतन्त्र्यं तवापि समानम्. न हि पुरुषप्रत्ययादृते तस्य याथात्म्यं शक्यं श्रद्दधातुम्, अत आह -- अनेक इति. अयम् अभिप्रायः -- एकपुरुषपारतन्त्र्यं दोषाय भवति, अनेकधा संशयोपजननात्. एवं हि तत्र संशयो भवति -- किम् अयम् अनेनागमो दृष्टः कृतो वा, दृष्टो ऽपि यथावस्थितो ऽन्यथा वेति. एवं संशयाना न क्वचिद् आश्वा[४६४]सयेयुः. अनेकपुरुषाधारे तु वेदे न तावत् कृतकाशङ्का, नाप्य् अन्यथात्वम् इति वक्ष्यति. अतो ऽव्याहतस्वातन्त्र्यो वेदः प्रामाण्यं लभते इति. अपि च येयं भवान्तरेष्व् अनुभूतानां भवान्तरे निरवशेषस्मृतिकल्पना, सापि वेदानां पारतन्त्र्यम् आपादयत्य्{१,१४०}एव. एवं हि तत्र शङ्क्यते -- कथं खल्व् अयं महान् ग्रन्थसन्दर्भो निश्शेषसंस्कारच्छिदा मरणेनान्तरितो ऽनेन स्मृतः. तद् अयम् अस्मान् विप्रलब्धुकाम एव स्वयं निर्मितम् आगमं स्मृतम्[४६५]अपदिशति. एवं च शङ्कमाना न स्वातन्त्र्येणागमप्रामाण्यम् अध्यवस्येयुः. अस्माकं तु ग्रहणस्मरणयोर् एकभवभावित्वान् नायं दोषो भवतीत्य् आह -- एकत्रेति
SK
__________NOTES__________
SK
[४६४] श्वासेयु. (GA) [४६५] म् इत्य् अप
SK
अथानेकपुरुषस्थत्वे को गुणः, अत आह -- अन्यथेति. बहुषु हि सम्प्रदायप्रवर्तकेषु या तस्य वेदस्यान्यथाकरणाशङ्का सा निवर्तते. एकेन हि विनाशितं वेदम् अन्यो नैतद् एवम् इति निवार्यान्यथा दर्शयति. अतो बहुसंवादाद् वेदस्य यथावस्थितस्वरूपावधारणं भवतीति. एकस्य प्रतिभानं तु कृतकवेदकल्पनाया न विशिष्यते, उभयत्रा[४६६]प्य् अविश्वासतुल्यत्वाद् इत्य् आह -- एकस्येति
SK
__________NOTES__________
SK
[४६६] त्रावि (GA)
SK
अतो न यथा वेदानाम् एकः कर्ता, एवं सम्प्रदायप्रवर्तको ऽपि नैकः पुरुष इत्य् उपसंहरति -- अतश् चेति. अद्यत्ववद् एव तु पुरापि बहवः सब्रह्मचर्यादिपरतन्त्रा नरा आसन्न् इत्य् आह -- बहव इति. एतच् च प्रयोगेण दर्शनीयम् इति
SK
एवं तावत् पुरुषातिशयकल्पना नापौरुषेयकल्पनया तुल्येति सम्प्रधारितम्. अतो यत् परैर् अनयोः कल्पनयोस् तुल्यत्वम् आपादितं, तदेककल्पनीयहानोपादानाभ्याम् एवेति सापहासम् आह -- एवञ् चेति
SK
{१,१४१} एतद् एव स्पष्टयति -- न हीति. अद्यवद् एव सर्वदा वेदव्यवहारः प्रतायते इति जैमिनेर् दर्शनम्. इदं च[४६७]दृष्टानुसारीति नालौकिकं किञ्चिज् जैमिनिना कल्पितं परैर् इवादृष्टपूर्वः पुरुषातिशयः. पौरुषेयानुमानदूषणं तु पूर्वम् उक्तम् एवेति. वेदाप्रामाण्यवादिनाम् एव[४६८]तु दृष्टहानिर् अदृष्टकल्पना चेत्य् आह -- अप्रामाण्येति. दोषो ह्य् अप्रामाण्ये निमित्तम्. स चापौरुषेये वेदे ऽदृष्टः कल्पनीयः. त्रिविधाप्रामाण्यशून्यस्य ज्ञानस्य दृष्टं प्रामाण्यं हातव्यम् इति. नन्व् अयं दृष्टबाधो भ्रान्तिष्व् अपि समानः. अथ तत्र बाधकसामर्थ्याद् विपर्ययः, सो ऽप्य् अत्रानुमानिको भवेद् इत्य् अत आह -- उत्पन्न इति.[४६९]अयम् अभिप्रायः -- उत्पन्नम् इदं ज्ञानं सम्यक्त्वसन्देहविपर्ययविरहाद् इत्य् उक्तं भाष्ये. अनुमानानाम् अप्य् आगम[४७०]विरोधः प्रतिहेतुविरोधश् चेत्य् उक्तम् एव. अतो विनैव कारणेन बलादयं बाधः कल्प्यते. भ्रान्तौ तु नैतद् एवम् इति स्फुटो विपर्यय इति
SK
__________NOTES__________
SK
[४६७] च दृष्टं दृष्टा (KA) [४६८] व दृ (GA) [४६९] ति. उ [४७०] मेन वि (KA)
SK
यत् तु स्वपरप्रत्यक्षासंवादी कथं शब्दः प्रमाणम् इत्य् उक्तं, तद् अयुक्तम्. यदा ह्य् अपौरुषेया वेदा इत्य् उपपादयिष्यामः तदास्याश् चोदनाबुद्धेः प्रत्यक्षेण सह विशेषं नोपलभामहे. उभयोर् अप्य् अदुष्टकारणजत्वात्. अतः किम् अत्र प्रत्यक्षसंवादेनेत्य् आह -- साधित इति. निर्दोषं च तज्ज्ञानजन्म चेत्य् अर्थः
SK
{१,१४२} अत्रापरं भाष्यं - नन्व् अविदुषाम् उपदेशो नावकल्पते इत्यादि. तस्याभिप्रायम् आह -- उपदेश इति. अर्थापत्तिर् इयं[४७१]भाष्यकारेणोक्ता. उपदेशो हि बुद्धम् अन्वादीनां उपलभ्यते. न चायम् अर्थम् अविदुषाम् उपदेश उपपद्यते. अतो दृष्ट उपदेशविषयो ऽर्थो मन्वादिभिर् इति कल्प्यते. मन्वादिग्रहणं प्ररोचनायै.[४७२]एवं हि जानाति -- एष खलु मीमांसको[४७३]ऽङ्गीकृत[४७४]म् अन्वाद्यागमसत्यत्वः, तद् अहम् एनं मन्वाद्युपदर्शनेनैव तावदङ्गीकारयामि यथातीन्द्रियाणाम् अर्थानाम् अस्ति तावद् द्रष्टेति. ततश् च स्वागमार्थदर्शनम् अपि बुद्धस्यानायासमुपपादयिष्यामीति
SK
__________NOTES__________
SK
[४७१] यं च भा [४७२] य [४७३] को ऽनङ्गी [४७४] तबाह्यागम (KA)
SK
अनुमानाभिप्रायं वेदं भाष्यम् इत्य् आह -- यद् वेति. उपदेशित्वं हि दृष्टार्थपूर्वतया व्याप्तम् अवगतं वैद्योपदेशादौ. तदतीन्द्रियार्थगोचरम् अप्य् अवगतं ताम् अनुमापयतीति. ननु च नात्र भाष्यकारेणोपदेशित्वं हेतुर् उक्तः, किन् तु अविदुषाम् उपदेशानुपपत्तिः. अतः कथम् अनुमानाभिप्रायवर्णनम्, अत आह -- व्यतिरेक इति. अयम् अभिप्रायः -- व्यतिरेकप्रधानवादिमतेन भाष्यकारेणात्र व्यतिरेकमुखेन हेतोर् गमकत्वम् उक्तम्. यो हि यन् न जानाति स तन्नोपदिशति, यथा चिकित्सको धर्माधर्मौ. न च तथा मन्वादयो ऽतीन्द्रियानर्थान्नोपदिष्टवन्तः. अतो ऽविद्वद्भ्यो व्यावृत्तम् उपदेशित्वं विद्वत्ताम् अनुमापयतीति
SK
एवम् उभयथा परिचोदनाभिप्रायम् उक्त्वा परिहारभाष्याभिप्रायम् आह -- अन्यथेति. अर्थापत्त्यभिप्रायेण परिचोदितः उपदेशो हि व्यामोहाद् अपि भवतीत्य् अनेन भाष्येणान्यथोपपत्तिप्रदर्शनेन तद्भङ्गः कथ्यते. व्यामोहेनाप्य् उपदेशोपपत्तौ नातीन्द्रियज्ञानं कल्पयितुं शक्यत इति. दृश्यते चाद्यत्वे ऽपि{१,१४३}व्यामुग्धानाम् अन्यथाशास्त्रार्थोपदेशः प्रबन्धरचना च निबन्धॄणाम् इति. यदा पुनरनुमानाभिप्राया परिचोदना, तदानुमानदोषो लिङ्गस्य व्यभिचारो ऽनेन कथ्यत इत्य् आह -- लिङ्गस्येति. बालो ऽज्ञः. तस्याप्य् उपदेशदर्शनेनानैकान्तिको हेतुर् इति
SK
अपरम् अपि असति व्यामोहे वेदाद् अपीति भाष्यं, तद् व्याचष्टे -- वेदाद् इत्य् उक्तमन्तेन. अयम् अभिप्रायः -- अनुमानदूषणम् एवेदम्. प्रथमं तावदनैकान्तिको हेतुर् इत्य् उक्तम्. इदानीं तु सिद्धसाध[४७५]नतोच्यते. यद् इदम् उपदेशाद् ज्ञानानुमानम् उक्तम्, अतः सिद्धं साध्यते. सत्यम्. वेदाद् विदितवताम् अतीन्द्रियार्थ[४७६]विषय उपदेशः. एवं हि वेद एवातीन्द्रिये ऽर्थे प्रमाणं, न स्वमहिम्ना पुरुष इति. कथं पुनः सिद्धसाधनम्. न हि बुद्धादीनाम् अतीन्द्रिया[४७७]र्थज्ञानं वेदात् सम्भवतीति न हि ते वेदाज् ज्ञापयितव्याः, तत्समीपे ऽनध्ययनात्. अतो वेदस्वरूपम् अविदुषां न वेदाद् ज्ञात्वोपदेशः सम्भवति, अत आह -- मन्वादेर् इति. अयम् अभिप्रायः -- सत्यं ने[४७८]दं बुद्धाद्यभिप्रायेण सिद्धसाधनत्वम् उच्यते, किन् तु उपदिष्टवन्तश् च मन्वादयः इति ब्रुवाणेन मन्वादय उपदर्शिताः. तेषां च वेदाद् एव ज्ञात्वोपदेश इति स्मृत्यधिकरणे वक्ष्यते. यथा वक्ष्यति --
SK
__________NOTES__________
SK
[४७५] ध्यतो (GA) [४७६] र्थ उ [४७७] यज्ञा [४७८] न बु (KA)
SK
भ्रान्तेर् अनुभवाच् चापि पुंवाक्याद् विप्रलम्भनात् |
SK
दृष्टानुगुण्यसाध्यत्वाच् चोदनैव लघीयसी ||
SK
इति. वेदविरुद्धार्थाभिधायिनां तु वेदाद् उपदेश इत्य् असम्भावनीय एव. यथा वक्ष्यति विरोधे त्व् अनपेक्ष्यं स्यात् इति. एतत् सिद्धसाधनं मन्वादिसम्बन्धितयेप्यत इत्य् अर्थः. अपरम् अपि पौरुषेयापौरुषेययोर् विशेषकथनार्थं भाष्यम् -- अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषो वेदेति भवति प्रत्ययः नैवम् अर्थ इति. विप्लवते खल्व् अपि कुतश्चित् पुरुषकृताद् वचनात् प्रत्ययः. न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणम् अस्तीति. अस्यार्थः -- पूर्वं हि{१,१४४}पुरुषवाक्योपमानेन नन्व् अतथाभूतम् इत्यादिना वेदवचसां मिथ्यात्वम् उपपादितम्. तत्र मीमांसागोत्रानुसारिणा स्वतःप्रामाण्ये स्थित्वा विप्रतिषिद्धम् इत्यादिना सिद्धान्तितम्. पुनश् च प्रत्ययितग्रन्थेनांशे दृष्टान्तस्य साध्यवैकल्यम् अंशे च हेत्वन्तराधीनं वैतथ्यम् इत्य् अनुमानदूषणम् उक्तम्. मध्ये च प्रासङ्गिकी कथा प्रवृत्ता. अधुना लोकवेदवाक्ययोः स नाम विशेषः कथ्यते येन निरपेक्षम् एव वेदवाक्यं प्रमाणं, सापेक्षं पौरुषेयं किञ्चिच् चाप्रमाणम् एव. एवञ् च यत् त्व् अथाभूतप्रतिज्ञायाम् अन्तर्णीतं प्रत्ययान्तरसापेक्षं सर्ववाक्यानां प्रामाण्यं, वार्त्तिककृता च प्रमाणान्तरदृष्टं हीत्यादिना विवृतं, तत् तावत् परिहृतं भवति. वाक्यत्वस्य च मिथ्यात्वहेतोर् अन्तर्णीतस्याप्रयोजकत्वं मिथ्यात्वे साध्ये दर्शितं भवति. यद्य् अपि च तत् पुरुषबुद्धिप्रभवम् अप्रमाणम् इत्य् अत्र पुरुषदोषायत्तम् अप्रामाण्यम् इत्य् उक्तं, तथापि प्रतिज्ञामात्रेण तदुक्तं न तूपपादितम्. अधुना तु भवत्य् आशङ्का -- कथं पुनर् इदम् अवगम्यते पुरुषाधीनम् अप्रामाण्यं न वाक्यस्वभावानुबन्धीति. तत्रेदम् उच्यते -- पुंवाक्यम् अपि किम् अपि वक्तृप्रमाणावधारणसमुत्सारिततदीयनिखिलदोषाशङ्कम् अप्य् अर्थे साक्षादनादधद् अपि निश्चयं तद्द्वारेण प्रमाणम् एव. यथाह -- एवम् अयं वेद, नैवम् अर्थ इति. वक्तृप्रमाणतिरोहितो ऽर्थे निश्चयः न स्वतन्त्र इति यावत्. वाक्यस्वभावानुबन्धिनि त्व् अप्रामाण्ये न किञ्चित् पुंवचः प्रमाणं भवेत्. अतो ऽवगच्छामः स्वभावतः प्रमाणम् एव वाक्यं पुन्दोषाद् अप्रमाणं भवतीति. तद् इदम् उक्तं विप्लवते खल्व् इति. अनाप्तवाक्याद् उपजातः प्रत्ययो विप्लवते. विविधं प्लवते, एवं नैवम् इति संशयात्मक इति यावत्. विपर्येति वा. तद् एवम् औत्सर्गिकं प्रामाण्यं वाक्यानां दोषैर् अपोद्यत इति दर्शितं भवति. न चात्र वक्तृगुणाः प्रामाण्ये कारणं दोषनिराकरणमात्रे व्यापारात्, इतरथा अनवस्थानाद् इत्य् उक्तम्. अतः स्वभावनिर्दोषाद् वेदवचसो जातं ज्ञानं कथम् अप्रमाणं भवतीति. एतच् चानागत एवास्मिन् वार्त्तिककृता सर्वम् उद्ग्राहितं शब्दे दोषोद्भव इत्यादिना. तद् इदम् उक्तं न तु वेदवचनस्येति. तद् अयं संक्षेपार्थः -- येयं प्रत्ययान्तरसापेक्षिता सा तदधीननिश्चयानां पुंवाक्यानां तथा नाम, अप्रमाणता च वक्तृप्रमाणतन्त्रत्वाद् अर्थनिश्चयस्य तद्दोषाद् अस्तु नाम. वेदवाक्येभ्यस् तु स्वतन्त्रपदार्थसामर्थ्यप्रभाविता वाक्यार्थबुद्धिर् न ज्ञानान्तरम् अपेक्षते, न चाप्रमाणम् इति
SK
{१,१४५}इमम् एवार्थम् अस्य भाष्यस्य व्याख्यास्यन्नाक्षेपं तावद् आह -- अन्यथेति. यो ऽयं वक्तृज्ञानपूर्वकः पुंवाक्येभ्यो ऽर्थनिश्चय उक्तः, सो ऽयुक्तः. तज्ज्ञानावधारण एव प्रमाणाभावात्. न ह्य् अव्यभिचरितस्वार्थगोचरज्ञानं पुंवाक्यं, यतस् तद् अवगम्यते. अनाप्तो ह्य् अन्यथा विजानन्न् अन्यथा विवक्षति. विवक्षाधीना च वाक्यनिष्पत्तिः. अतो विवक्षावशेनान्यथैव वाक्यं निष्पद्यते, अन्यथा च ज्ञायत इति नैकान्ततो वाक्याज् ज्ञानानुमानम् इति
SK
आस्त तावद् वाक्याज् ज्ञानानुमानं, विवक्षामात्रम् अपि ततो ऽवगन्तुं न शक्यत इत्य् आह -- भ्रान्तस्येति. विवक्षा हि तावदत्यन्तं वाक्यनिर्माणे सन्निहिता. तस्याम् अप्य् अन्यथा सत्यां कदाचिद् भ्रान्तस्यान्यथा वाक्यरचना दृश्यते. अतो यथाविवक्षम् अपि वाक्यं न प्रवर्तत एव. कथम् असत्यां विवक्षायां वाक्यरचनेति चेद्, न. विवक्षान्तरस[४७९]म्भवात्. कथम् अन्यविवक्षा अन्यनिर्माणे हेतुर् इति चेत् को दोषः. विवक्षा हि प्रयत्नद्वारेण वाक्यनिष्पत्तौ हेतुः, नादृष्टेन रूपेण. स च विवक्षान्तरप्रयुक्तेनैव कृतः कुतंश्चिद् वैगुण्यान् न सम्यक् परिनिष्पन्नः. ततो ऽशक्तिजन्यम् अन्यद् एव जातम्. यथा कश्चित् शुष्के पतिष्यामीति कर्दमे पतति. सूक्ष्मविवक्षास्तित्वं तु सूक्ष्मदृश एव प्रतिपद्यन्ते. विवक्षा हि वक्तुम् इच्छा. सा चेद् आत्मगुणान्तरं, तर्हि सुखादिवन्मानसप्रत्यक्षवेद्यं कथम् अज्ञायमानम् अस्तीति शक्यते वक्तुम्. अथाभिलाषात्मकज्ञानरूपा, तथापि कथं वाक्यान्तरप्रकाशे ऽन्यविवक्षास्तीति शक्यते कल्पयितुम् इति यत् किञ्चिद् एतत्
SK
__________NOTES__________
SK
[४७९] सद्भावात् (KA)
SK
एवम् आक्षिप्तं भाष्यं समादधाति -- वक्तृधीर् इति. अयम् अभिप्रायः -- द्विविधो हि वक्ता आप्तो ऽनाप्तश् च. तत्र य एवम् अवधारितो भवति {१,१४६}नायम् अन्यथाज्ञातम् अन्यथा वदति आप्त इति यावत्, तद्वाक्याद् एवं वेदेति वक्तृधीर् अवगम्यते. अन्यत्र त्व् अनाप्तवाक्ये विप्लुतिर् इति विप्लवत इत्यादिनोक्तम्. तत्रेदम् उक्तं[४८०]भवति -- यदा तावदाप्तवाक्याद् अनाशङ्कम् एव ज्ञानं जातं व्यवहारश् च प्रवृत्तः न च विसंवादो दृष्टः, तदा कल्याणम् एव. जाताशङ्कस्यापि वक्तुर् आप्तत्वम् अनुस्मृत्य[४८१]तज्ज्ञानपुरस्सरम् एवार्थे निश्चयो जायते. आप्तस्य च भ्रमो न तावद् आशङ्क्यते. स हि सुनिपुणो न तावत् प्रायशो भ्राम्यति. न चासम्यग्विदिते तस्यैतावती चेष्टा भवति यद् असौ परप्रतिपत्तये वाक्यं प्रणयति. तथापि वा संशयानस्य तत्परिप्रश्नाद् एव तत्प्रमाणनिश्चयो भवति. स एव निर्बध्यपृष्टो यदि त्रिचतुरज्ञानम् आत्मन उपदिशति, तावतैव स्वप्रमाणवदनाशङ्क्यव्यवहारसिद्धिः. विप्लवश् चानाप्तवाक्याद् विविधो व्याख्यात एवेति. एवं तावद् ज्ञानप्रत्ययविप्लवौ विषयव्यवस्थया व्याख्यातौ. इदानीं भाष्यतात्पर्यं दर्शयति -- तेनेति. यत् तावद् वाक्यत्वम् अतथाभूतत्वे हेतुतयोक्तं तस्यानेनाप्रयोजकत्वम् उच्यते. आप्तवाक्येषु हि गुणनिराकृतदोषेषूत्सर्गेण सत्यत्वं दृष्टम्. अत एव हि तज्ज्ञानानुसार्यर्थनिश्चयो भवति. इतरथा तस्यापि मिथ्यात्वं भवेत्. अनाप्तवाक्येषु तु तद्दोषाद् अपवादाद् अप्रामाण्यम्. एवं च स्वाभाविकसम्यक्परिच्छेदशक्तिर् अत्र वचसश् शब्दस्योच्यते. मिथ्यात्वं चौपाधिकं न वाक्यत्वेन प्रयुज्यते परप्रयुक्तव्याप्त्युपजीवि हि तत्, निषिद्धत्वप्रयुक्त इवाधर्मत्वे हिंसात्वम् इति
SK
__________NOTES__________
SK
[४८०] तत्रैतद् उक्तं [४८१] सृ
SK
वक्तृधीर् आप्तवाक्येषु गम्यत इत्य् उक्तं, तत्र कारणम् आह -- पदार्थेति. श्रोतुर् हि वक्त्रा पदार्थेषु विरचितेषु वाक्यार्थप्रत्ययो जायते. वक्तुश् च रचनाकृतिर् विवक्षापूर्विका. सा चाप्तस्याविज्ञाते[४८२]न सम्भवतीति पूर्वज्ञानम् अपेक्षते. अतः प्रतिबन्धबलेनाप्तवाक्यात् पूर्वविज्ञानम् अवगम्यत इति
SK
__________NOTES__________
SK
[४८२] तेन न (GA)
SK
{१,१४७}विवक्षावशत्वम् एव रचनाया दर्शयति -- विवक्षान्तरेति. पूर्वविवक्षाया यद् विवक्षान्तरागमेन रचनान्तरं दृश्यते पूर्वोत्तरपदोद्वापावापभेदेन, अतो विवक्षाधीना रचनेत्य् अवगम्यत इति
SK
एवञ् च यद् विवक्षाधीना रचना सा च ज्ञानपूर्विका, तेन कारणेन वाक्याद्[४८३]अर्थप्रत्ययोत्पादे श्रोतुर् जाते[४८४]ऽपि नूनम् अनेनायम् अर्थो वक्त्रा ज्ञात इति वक्तृज्ञाने मतिर् भवतीत्य् आह -- तेनेति. वक्तृप्रमाणपूर्वत्वाद् रचनाया न स्वतन्त्रो ऽर्थज्ञानमात्रान् निश्चय इति भावः. तद् इह तेनोत्सर्गापवादाभ्याम् इत्य् अत्र स्वाभाविकी वचसश् शक्तिर् इति भाष्यतात्पर्यम् उक्तम्. पदार्थरचनायत्त इत्य् अतः प्रभृति तेनार्थप्रत्यय इत्य् एवम् अन्तेनाप्तवचसां प्रत्ययान्तरापेक्षितेति भाष्याभिप्रायो विवृत इत्य् अनुसन्धातव्यम् इति
SK
__________NOTES__________
SK
[४८३] क्यार्थ [४८४] ते नू
SK
इतश् चाप्तवाक्यं तज्ज्ञानपरतन्त्रम् अवगम्यत इत्य् आह -- आप्तोक्तिर् इति. यदाप्तोक्तम् अर्थम् एको ऽनुतिष्ठति तं चापरो ऽनुयुङ्क्ते किम् अत्र ते प्रमाणम् इति, तदा असाव् आप्तोक्तिकारी तम् आप्तम् एव तत्र मूलतया दर्शयति य एवं[४८५]वादी स एवाप्त एतज् जानाति नाहम् इति. स्वातन्त्र्ये हि तज्ज्ञानप्रकाशनम् अनर्थकं भवेद् इति
SK
__________NOTES__________
SK
[४८५] वदति स
SK
किम् इदानीम् आप्तवाक्यम् अर्थे न प्रमाणम् एव,[४८६]नैवम् अपि तु आप्तवक्तृप्रमाणानवधारणाज् जाताशङ्कस्य वाक्यम् उदास्ते. यदा हि वक्तृधियो हेतुभूतम् अदुष्टम् इन्द्रियाद्यवधारितं भवति, तदा दोषाशङ्कानिराकरणात् प्रामाण्यम् एव{१,१४८}स्थाप्यते. तद् इहावगतिहेतुतया शब्दानां प्रामाण्यम् उपक्रान्तम् अप्रामाण्यशङ्कया शिथिलीकृतं वक्तृप्रमाणावधारणनिराकृतेषु दोषेषु दाढ्यर्थं लभते, तद् एतद् आह -- तज्ज्ञानेति. तज्ज्ञानान्तरितत्वात् वक्तृज्ञानान्तरितत्वात्. निश्चयजनने शब्दस्येत्य् अर्थः. तावच्छब्देनात्यन्ताप्रामाण्यं निराकरोति. कियतापि विलम्बनेन प्रामाण्यं प्रतितिष्ठतीति. नन्व् एवं वक्तृप्रमाणानुसारिणि निश्चये सत्यनुवाद एव शब्दः प्रागनिश्चयाद् अप्रमाणम् इति कदा प्रमाणम्. उक्तम् इदं स्वकाल एव तत् प्रमाणं, दोषाशङ्कानिराकरणमात्रे वक्तृज्ञानस्य व्यापार इति. श्रोत्रा हि प्रथमम् अविदितपूर्व एवार्थो ऽवगतः क्वचिद् व्यभिचारदर्शनेन जातायाम् आशङ्कायां तन्निराकरणेन तस्यैव प्रामाण्यं प्रतिष्ठाप्यते. अत एव स्थापनम् इत्य् उक्तम् इति
SK
__________NOTES__________
SK
[४८६] णं नैवम् अपि आ (KA)
SK
कथं पुनः प्रथमं शब्दा उदासते. स ह्य् अर्थः शब्देन[४८७]प्राक् प्रत्यायितो न वा. यदि नेत्य् आह कथम् एवं वेदेति वक्तृज्ञानम् उन्नीयते. प्रकारार्थो ह्य् एवंशब्दः. न च निराकारं विज्ञानम् अनाश्रितार्थपरिष्वङ्गे स्वरूपेण प्रकारवद् भवेत्. न च[४८८]श्रोतुर् बुद्धावनारूढो ऽर्थो वक्तृज्ञनम् एवम्भावेन विशिनष्टि. यदि तु पूर्वम् अप्य् अर्थप्रत्ययो ऽवगम्यते, ततः पारतन्त्र्ये कारणं वाच्यम्. उत्पद्यमानेनैव हि तेन स्वविषयपरिच्छेदः कृत इति किम् अन्यद् अपेक्षते. निश्चयार्थं वक्तृप्रमाणापेक्षेति चेद्, न. अनिश्चयज्ञानासम्भवात्. निश्चय एव हि ज्ञानं, तच् चेद् अस्ति कथं निश्चयो नास्तीति शक्यते वक्तुम्. अतो ऽनुपपन्नम् इदम् अर्थज्ञानगम्यैव वक्तृधीस् तत्प्रामाण्ये कारणम् इति. अत आह -- अर्थ इति. यत् तावद् उक्तम् अनवगते ऽर्थे नैवम्भावो भवतीति, तत्राभ्युपगमेनैवोत्तरम्. सत्यं पूर्वं प्रतीत एवार्थ इति. यत् तु प्रतीते ऽनिश्चयो न घटत इति. तन् न, जाताशङ्कस्य तदुपपत्तेः. यद्य् अपि न शब्दात् संशयः, तथापि व्यभिचारदर्शनात् संशयो जायत एव. यत् त्व् अनिश्चयात्मकं ज्ञानम् एव नास्तीति ज्ञानोत्पत्तौ निश्चय एव जायत इत्य् उच्यते. तन् न. संशयस्यापि ज्ञानत्वात्. अतो{१,१४९}जाते ऽपि[४८९]ज्ञाने कुतश्चिन् निमित्तात् संशयोत्पत्तौ वक्तृप्रमाणाश्रयत्वान् निश्चयस्यार्थज्ञानसमधिगम्यापि सैव वक्तृधीः पूर्वज्ञानप्रामाण्ये पूर्वभाग् भवतीति[४९०]तया समुत्सारितायां दोषाशङ्कायां प्रामाण्यस्याध्यवसानाद् इति
SK
__________NOTES__________
SK
[४८७] ब्दैः प्रा [४८८] ज्ञा (KA) [४८९] पि विज्ञा [४९०] वति तया
SK
एवं तावत् पुरुषवाक्येषु ज्ञानान्तरापेक्षया प्रामाण्यं क्वचिच् चौपाधिकम् अप्रामाण्यम् इत्य् उक्तम्. वेदवाक्ये तु स्वाभाविकत्वाद् एव वचसः सम्यगर्थपरिच्छेदशक्तेर् न मृषार्थता सम्भवतीति न तु वेदवचनस्येत्यादिनोक्तं, तद् एतद् आह -- अत इति. अस्तु नाम वक्तृदोषाशङ्कया पुंवचसाम् अप्रामाण्यं, स्वभावनिर्दोषं तु वेदवचो न तत्स्वभावम् अनुभवितुम्[४९१]अर्हतीति
SK
__________NOTES__________
SK
[४९१] वर्तितु
SK
वक्तृबुद्ध्यन्तरयोर् व्यवधानम् अपि वेदे नास्तीति पदार्थैर् एव केवलैर् नित्यनिर्दोषैर् वाक्यार्थः प्रतीयत इत्य् आह -- तद्बुद्धीति. अतः सिद्धं न वेदे प्रत्ययान्तरापेक्षा, न चायथार्थत्वम् इति. प्रकरणार्थम् उपसंहरति -- अत इति
SK
अन्यथा भाष्याभिप्रायम् आह -- अप्रमाणत्वेति. वेदानाम् अप्रमाणत्वसिद्धये यत् किञ्चन लौकिकं[४९२]वचनं दृष्टान्ततयोक्तं, तस्यानेन ग्रन्थेन दृष्टान्तस्य साध्यानासङ्गिता साध्यविकलतोच्यते इति
SK
__________NOTES__________
SK
[४९२] कं दृ (KA)
SK
कथं साध्यानासङ्गिता, अत आह -- तेषाम् इति. अयम् अभिप्रायः -- परमतेनेदं भाष्यकारेण परान् प्रत्युच्यते. तथा हि -- यदा{१,१५०} तावल्लोकायतिकाभिप्रायः प्रयोगः -- चोदना मृषा प्रत्यक्षाद्यगतार्थत्वाद् ईदृग्बुद्धादिवाक्यवद् इति, तदा बौद्धाभिप्रायेणेदम् उच्यते. साध्यानासङ्गी दृष्टान्त इति. तन्मते हि शब्दो नार्थे प्रमाणम्. तथा हि पदानि तावदर्थं स्मारयन्ति, न तु क्वचित् किञ्चिद् उपनयन्त्य् अपनयन्ति वा. वाक्यम् अपि व्यभिचारदर्शनान् नार्थे[४९३]प्रमाणम्. अतः कथं तत् साधनं भवेत्. वक्त्रभिप्राय एव तु प्रतिबन्धबलात् शब्दैर् बोध्यते. तथाहुः -- न त्व् एतेभ्यो ऽर्थसिद्धिस् तेषां तत्र प्रतिबन्धासिद्धेः वक्त्रभिप्रायं तु सूचयेयुर् इति. अतो यद् बुद्धादिवचसां कार्यं प्रतिपाद्यम् उक्तं, तत्र तेषां सम्यक्त्वम् एवाव्यभिचारात्. अर्थे तु तेषां व्यापारो नेष्यत एव. अतो न किञ्चिद् वेदवाक्यानां मिथ्यात्वे कारणम्[४९४]अस्तीति पूर्वत्र प्रतिपादितम् इति
SK
__________NOTES__________
SK
[४९३] र्थेन प्रतिबद्धम् अ (GA) [४९४] णम् इति (KA)
SK
पदार्थरचनायत्त इत्यादिना यत् प्रतिबन्धबलेन वाक्याद् वक्तृज्ञानानुमानम् उक्तं तद् दर्शयतीति यदि च यत्र पुंवाक्यं व्याप्रियते वक्तृज्ञाने तदतिरिक्ते ऽर्थ एव दृष्टान्ततयोच्यते, ततः सिद्धसाधनम् इत्य् आह -- स्वव्यापारेति. स्वविषयातिरेकेण वेदानाम् अपि मिथ्यात्वम् इष्यते. पूर्वपक्षार्थे मृषात्वाभ्युपगमाद् इति
SK
अत्रापरं भाष्यं - ननु सामान्यतो दृष्टम् अनुमानं भविष्यति, पुरुषवचनं वितथम् उपलभ्य वचनसामान्याद् वेदवचनं मिथ्येत्य् अनुमीयते इति. तस्याभिप्रायम् आह -- अज्ञात्वेति दृष्टमन्तेन. वाक्यत्वं मिथ्यात्वे न प्रयोजकम् इति यो ऽयम् अभिप्रायो भाष्यकारस्य, तम् अज्ञात्वाप्तानाप्तवाक्ययोः सम्यङ्मिथ्यात्वहेतुदोषसदसद्भावयोर् उक्तिमात्रं भाष्यकारेण कृतम् इति ज्ञानात् परः पूर्वपक्षवादी ननु सामान्यतो दृष्टम् इत्याद्य् अब्रवीत्. अतो नैवं चोदनीयं कथं हेतोर् अप्रयोजकत्व उक्ते पुनस् तेनैव हेतुना प्रत्यवस्थानम् इति.{१,१५१}अगृहीताभिप्रायस्य परिचोदनात्. एवं हि मन्यते -- भवतु यथातथा वा पुरुषवचसां मिथ्यात्वम्, एवम् अपि प्रतिबन्धसिद्धेर् हेतुर् गमक एवेति कृतकाकृतकवाक्ययोः सामान्यतोदृष्टम् इत्य् अन्वय इति. अत्र परिहारभाष्यं न, अन्यत्वाद् इति, तदाक्षिपति -- नान्यत्वाद् इति. कथम् अदूषणम् अत आह -- एतस्माद् इति. वेदवाक्यमिथ्यात्वे साध्ये पुंवाक्यं दृष्टान्त उक्तः. तत्र किम् अयं दोषः यद् अन्यत्वं नाम, प्रत्युत गुण एवायम्. अन्यत्वाद् एव हि दृष्टान्तो भवति. अनन्त्यत्वे साध्यसमत्वापत्तेः. न हि पक्ष एव सपक्षो भवति. पक्षस्य साध्यत्वात्, सपक्षस्य सिद्धत्वात्. सिद्धसाध्ययोश्[४९५]चैकत्वविरोधाद् इति
SK
__________NOTES__________
SK
[४९५]कत्र वि (KA)
SK
तस्माद् उपेक्ष्यैव तावद् ग्रन्थव्याख्यां भाष्यकाराभिप्रायम् अभिदध्महे इत्य् आह -- तस्माद् इति. तम् एवाभिप्रायं वर्णयति -- अभ्युपेत्येति वाक्यतान्तेन. अयम् अर्थः -- परमताभिप्रायेणापिचेत्यादि भाष्ये वक्तृज्ञान एव वाक्यं प्रमाणम्, अर्थे तु न तस्य व्यापार इत्य् उक्तम्. तद् अभ्युपगच्छामः. भवतु पुंवाक्यं बाह्य एवार्थे प्रमाणं न वक्तृज्ञाने. बाह्यार्थापेक्षयैव चाप्रामाण्यवादिनो दृष्टान्तो ऽस्तु नाम. तथापि दूषणम् उच्यते -- व्यवधाने ऽपीति. यद्य् अपि ज्ञानव्यवहिते ऽर्थे ऽप्रमाणम् एव पुंवाक्यं, तथापि तद्विषयप्रामाण्याभ्युपगमेनैव ब्रूमः साधारणानैकान्तिको हेतुर् इति. सत्येष्व् अप्य् आप्तवाक्येषु वाक्यत्वस्य हेतोर् दृष्टत्वाद् इतीदम् अत्र सामान्यतोदृष्टानुमानदूषणं भाष्यकारस्य मनसि विपरिवर्तते. अनेनैवाभिप्रायेण भाष्यम् अपि गमयितव्यम् इति भावः. नन्व्{१,१५२}अतीन्द्रियार्थवे सत्य् अपि वाक्यत्वाद् इति विशेषयिष्यामः. पौरुषेयवचनं सर्वम् अतीन्द्रियार्थम् अप्रमाणम् इति नानैकान्तिकत्वम् अत आह - अतीन्द्रियेति. अतीन्द्रिये ऽपि हि यदा कश्चिद् यदृच्छया अदृष्टपूर्वार्थे वाक्यं प्रणयति, यथेन्द्रो ऽस्तीत्य् एको वदति, अन्यो नास्तीति. तत्र द्वयोर् अन्यतरेण नियोगतः सत्येन भवितव्यम् इत्य् एकस्य वाक्यस्य सत्यता. न हीन्द्रसदसद्भावयोर् अन्यतरद् अपि प्रमाणान्तरेणावधारितम्. अतो ऽनाप्तवाक्यम् अपि क्वचिद् यदृच्छया प्रयुक्तम् अतीन्द्रियार्थविषयम् एव सत्यं दृष्टम् इति विशिष्टे ऽपि हेताव् अनैकान्तिकत्वम् एवेति
SK
एवं भाष्यकाराभिप्रायम् उक्त्वा तत्रैव भाष्यं योजयति -- नान्यत्वाद् इत्य् आभासोऽन्तेन. अथम् अर्थः -- यादृशं परैर् नैयायिकैः सामान्यतोदृष्टानुमानम् उक्तं, ततो ऽन्यद् इदम् अनैकान्तिकहेतुकं तदाभासम् उक्तम्. अतो ऽस्मात् सामान्यतोदृष्टाभासात् साध्यं न सिद्ध्यति इति. प्रमाणभूतात् सामान्यतोदृष्टाद् अस्य तदाभासस्यान्यत्वाद् इति भाष्यार्थ इति व्याख्यानान्तरम् आह -- विपक्षम् इति. अयम् अभिप्रायः -- वाक्यत्वहेतुर् आप्तवाक्येषु सत्येष्व् अपि दृष्ट इति विपक्षवृत्तिर् न साध्यं साधयतीति तद् एव दूषणं, योजनामात्रं तु भिद्यते. मिथ्यात्वे साध्ये विपक्षस्य सत्यत्वस्य ततो ऽन्यत्वात् तद्गामित्वाच् च हेतोर् इति भावः
SK
अन्यथा व्याचष्टे -- यद् वेति. यत् तद् वाक्यत्वस्याप्रयोजकत्वम् अपि चेत्यादि भाष्ये दर्शितं यद् अज्ञात्वा परेण सामान्यतोदृष्टानुमानम् उक्तं, तद् एव न अन्यत्वाद् इति भाष्यकारेणोद्धाटितम्. अन्यः खलु अप्रामाण्यस्य प्रयोजको हेतुर् विसंवादः, न वाक्यत्वम्. न चासौ वेदे सम्भवति, अपौरुषेयत्वात्. पुरुषाश्रयत्वाच् च शब्दे दोषाणाम्. अदुष्टकारणजनित्यस्य च ज्ञानस्य विसंवादासम्भवात्. नैतद् एवम् इति प्रत्ययविपर्यासो विसंवादः कथम् अदुष्टकारणजे भविष्यति. अन्यत्वान् मिथ्यात्वकारणस्येति भाष्यगमनिकेति{१,१५३}व्याख्यानान्तरम् आह -- विषयस्येति. पूर्वं हि परमतेन साध्यानासङ्गी दृष्टान्त इत्य् उक्तम्. सैवेयं साध्यानासङ्गिता विषयान्यत्वाद् उच्यते. अन्यो हि पुंवाक्यस्य विषयो वक्त्रभिप्रायः. न च तत्र मिथ्यात्वम् अभ्यभिचारात्. पूर्वं त्व् अर्थविषयव्यापारम् उपेत्यान्यत्वम् उक्तम्. अधुना पुनः परमत एव स्थित्वा साध्यानासङ्गितोच्यत इति
SK
अपरम् अपि न ह्य् अन्यस्य वैतथ्ये ऽन्यस्यापि वैतथ्यम् इति भाष्यम्. तस्यार्थं दर्शयति -- न हीति. न ह्य् अन्यस्येत्यादिना भाष्येण नान्यस्यान्यथात्वे ऽन्यस्य मृषार्थता भवतीत्य् उच्यत इति. एतद् एव विवृणोति -- विवक्षेति. विवक्षा हि वक्तुस् तत्रायथार्थगोचरत्वान् मृषार्था. न वाक्यं, तस्य तत्प्रतिपादनमात्रेण प्रामाण्यात्. तस्याश् च ततः प्रतिबन्धबलात् सिद्धेः. अतो न वाक्यं मृषार्थम् इति[४९६]सिद्धा साध्यानासङ्गितेति. प्रथमपक्षे[४९७]पि चैवं न हीत्यादि भाष्यं व्याख्यातव्यम्. नान्यस्यानाप्तवाक्यस्य मृषार्थत्वे ऽन्यस्याप्तवाक्यस्यापि तद् भवतीति. सत्ये विपक्षे पुंवाक्यत्वस्य भावाद् अनैकान्तिको हेतुर् इति. एवम् एव द्वितीये तृतीये च विसंवादस्य वैतथ्ये साध्ये ऽन्यस्य वाक्यत्वस्य वैतथ्यं साध्यं न सम्भवतीति व्याख्येयम्. चतुर्थे तु वार्त्तिकस्था व्याख्येति
SK
__________NOTES__________
SK
[४९६] ति सा [४९७] क्षे चैवं (KA)
SK
अन्यच् च न हि देवदत्तस्य श्यामत्त्व इत्यादि भाष्यं, तस्याभिप्रायम् आह -- श्यामत्व इति. यथा श्यामत्वे साध्ये पुंस्त्वम् अनैकान्तिकं गौरादिष्व् अभावाद्, एवं वाक्यत्वम् अपि सत्याप्तवाक्यस्य साधारणम् इति साधारण्यप्रदर्शनार्थं वेदं निदर्शनम् इति. अन्ये तु दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति मन्वाना विकल्पसमा नाम जातिर् इयं भाष्यकारेण नान्यत्वाद् इत्य् उक्तम्{१,१५४}इत्य् आहुर् इत्य् आह -- परोक्तेर् इति. धर्मान्तरविकल्पनात् साध्यधर्मविकल्पापादनं विकल्पसमा. सा चैवं दर्शनीया -- वाक्यम् एव किञ्चित् पुरुषवाक्याद् अन्यद् दृष्टं यथा वेदवाक्यम्. किञ्चिद् अनन्यद् यथा तद् एव. एवम् अन्यानन्यत्वयोर् अपि विकल्पनात्[४९८]सत्यमिथ्यात्वयोर् अपि वाक्यत्वाविशेषे विकल्पो भविष्यतीति नावश्यं वाक्यत्वान् मिथ्यात्वं सिध्यतीति. इयं च वाच्यानुक्तीतरोक्तिजनिग्रहस्थानद्वयापत्तेर् अवाच्यैव परमतेनोपन्यस्तेति[४९९]वेदितव्यं विकल्पसमम् उत्तरम् इति
SK
__________NOTES__________ [४९८] ल्पात् (GA) [४९९] ति परिवे
SK
एवं तावन् नान्यत्वाद् इति दूषणोक्तिर् इयम् इत्य् उक्तम्. इदानीं साधन वचनम् एवेदम् इति व्याख्यानान्तरम् आह -- यद् वेति. परेण हि मिथ्यात्वे साधिते सिद्धान्ती हेत्वन्तरेण सयत्वं साधयति. प्रमाणम् अनुमानम्. तदुपरिष्टाद् वक्ष्यत इति. कीदृशं पुनस् तत् प्रमाणम् इत्य् आह -- विरुद्धेति. यदि तुल्यबलत्वं, विरुद्धाव्यभिचारी नाम संशयहेतुः. अथ सिद्धान्तहेतुर् बलीयान्, ततो ऽनुमानबाधः. इह चानुमानबाध एव, सत्यत्वहेतोर्[५००]बलीयस्त्वाद् अन्यत्वाद् असत्यत्वहेतूनाम् इति भाष्यार्थ इति
SK
__________NOTES__________
SK
[५००] तुब
SK
तद् एव[५०१]सत्यत्वे प्रमाणम् उपन्यस्यति -- चोदनेति. इदं चैकान्तिकहेतुकम् अनुमानं सामान्यतोदृष्टाद् अनैकान्तिकहेतुकाद् बलवत्. अनैकान्तिकता च केवलस्य सविशेषणस्य च हेतोर् उक्तैव. अतो ऽनेनैव बलवता मिथ्यात्वानुमानं बाध्यत इति
SK
__________NOTES__________
SK
[५०१] सम्यक्त्वे प्र (KA)
SK
अस्मिन्न् एव साध्ये ऽपरम् अपि हेतुद्वयम् आप्तोक्तिनिदर्शनेनैव दर्शयति -- तथेति. देशकालादिभेदादौ बाधवर्जनाद् इत्य् अन्वयः. अत्र च{१,१५५}बाधवर्जनाद् इति हेतोर् लिङ्गाक्षबुद्ध्योर् अपि दृष्टान्तता सम्भवत्य् एव. साधारण्येन त्वाप्तोक्तिप्रत्ययो निदर्शित इति
SK
नन्व् इदम् अदुष्टकारणजनितत्वम् अनाप्ताप्रणीतोक्तिजन्यत्वं चासिद्धं, सर्ववाक्यानां कृतकत्वाद् अत आह -- अकर्तृकत्वेति. साधयिष्यते हि वेदानाम्[५०२]अकर्तृकत्वम्, अतो नासिद्धो हेतुर् इति. एवमादिसत्यत्वानुमानाभिप्रायेणेदम् अन्यत्वम् उक्तवान् भाष्यकृद् इत्य् आह -- एवम् इति. आदिशब्देन सम्बन्धाक्षेपोक्ता हेतवो ऽनुसन्धातव्याः.
SK
__________NOTES__________
SK
[५०२] म् अकृत्रिमत्वं
SK
भाष्यव्याख्याविकल्पाश् च षोढाद्यग्रन्थवत् कृताः |
SK
इति
SK
अत्रापरं सामान्यतोदृष्टस्यागमबाधप्रदर्शनार्थं भाष्यम् अपि च पुरुषवचनसाधर्म्याद् वेदवचनं मिथ्येत्य् अनुमानं, प्रत्यक्षस् तु वेदवचने प्रत्ययः इति. तद् यदि वाक्यगोचरप्रत्ययाभिप्रायं, तद् अयुक्तम्. अनाप्तवाक्ये ऽपि समानत्वात्. तत्स्वरूपप्रत्ययो ऽपि प्रत्यक्ष एव. न च[५०३]तन्मिथ्या. अर्थस् तु वेदवाक्यानाम् अतीन्द्रिय इति प्रत्यक्षसूत्रे वक्ष्यते. अतो नार्थाभिप्रायम् इदम्. अथ प्रत्ययस्वरूपाभिप्रायेण प्रत्यक्षतोच्यते, साप्य् अयुक्ता. शून्यवादे तस्याप्य् अनुमेयताया वक्ष्यमाणत्वात्. अतो व्याख्येयम्, अत आह -- प्रत्यक्ष इति. अयम् अभिप्रायः -- मुख्यप्रत्यक्षत्वासम्भवाद् गौणः प्रत्यक्षशब्दः. दृढं हि प्रत्यक्षं प्रथमं च स्वतःप्रमाणं परतो विसंवादाद् अप्रमाणम्. एतच् चतुष्टयान्यतम् अगुणविवक्षया प्रत्यक्षशब्द आगमिक एव प्रत्यये प्रत्युक्तः. सो ऽपि दृढः, संशयविपर्ययाभावात्. श्रीघ्रभावी च, मिथ्यात्वानुमानाद् दृष्टान्ताद्यपेक्षाविरहात्. उत्पन्नस्य चानुमानेन मिथ्यात्वसाधनात्. प्रामाण्याप्रामाण्ययोः स्वपराश्रयत्वं सर्वप्रमाणानां साधितम्. अतः प्रत्यक्षतुल्यो ऽयम् प्रत्ययः कथम् अन्यथा भवति. तद्[५०४]एतद् विपरीतार्थप्रतिज्ञानम्[५०५]अनेन विरुध्यत इति.{१,१५६} न चेह वेदप्रामाण्यम् अस्माकम् असिद्धम् इति प्रत्यवस्थातुं शक्यम्. नास्तिकानाम् अपि तच्छ्रवणे असन्दिग्धाविपर्यस्तज्ञानजन्मनो ऽविशेषान् नित्यागमजनितायाश् च संविदो दुष्टकारणजनितत्वासम्भवात्. पौरुषेयागमवादिभिस् त्व् आत्मात्मनैव बद्ध्वा समर्पित इति न ते परेषां मिथ्यात्वं साधयताम् आगमविरोधम् उद्भावयितुम् उत्सहन्ते. पुरुषाश्रयदोषाशङ्कया स्वागमानां[५०६]दूषितत्वात्. सर्वं चेदं भाष्योक्तम् एव वार्त्तिककृता प्राग् एवोद्ग्राहितं चोदनार्थान्यथाभावम् इत्यादिनेत्य् अनुसन्धातव्यम् इति
SK
__________NOTES__________
SK
[५०३] तदमिथ्या (KA) [५०४] द् एव त [५०५] ज्ञानेनैव वि (GA) [५०६] तदागमानां
SK
मुख्य एव वा प्रत्यक्षशब्दो व्याख्येय इत्य् आह -- ज्ञानाभावश् चेति. एवं मिथ्यात्ववादी वक्तव्यः -- त्रेधा खलु मिथ्यात्वम्. इह च न तावत् संशयविपर्ययौ स्त इति भाष्य एवोक्तम्. तद् यदि ज्ञानाभाव एव मिथ्यात्वं साध्यते, तत्र ते प्रत्यक्षविरोधः. प्रत्यक्षम् एव हि भवत्सिद्धान्ते ज्ञानम्. यदि[५०७]कामम् अस्यैव श्रोत्रियस्य तदनुमेयं[५०८]तत्त्वं, प्रत्यक्षम् एव वेदवाक्यश्रवणाद् उत्पन्नं ज्ञानं विलोकयमानः कथं तदभावात्मकं मिथ्यात्वमत्थ इति
SK
__________NOTES__________
SK
[५०७] दि परमस्यै (GA) [५०८] यं तत् प्र
SK
एवं तावदागमविरोधो ऽनेन भाष्येणोक्त इति व्याख्यातम्. इदानीम् अस्यैव तात्पर्यान्तरं दर्शयति -- यथैवेति. अयम् अर्थः -- एतद् अनेन भाष्येणोच्यते पुंवाक्यसाधर्म्याद् भवान् मिथ्यात्वं साधयति. तद् यथैवैतन् मिथ्यात्वं दृष्टं, तथैव वेदवाक्येनापि मिथ्या भवितवयम्. तच् च बाधकाधीनं मिथ्यात्वं दृष्टम् इति वेदे ऽपि तथैव भवेत्. न च तथा सम्भवतीति साधितम् एव. अतः प्रत्यक्षो[५०९]हि दृढो वेदवचने प्रत्ययः. नासौ क्वचिद् बाध्यते. अतो विशेषविरुद्धो हेतुर् इति
SK
__________NOTES__________
SK
[५०९] क्षे ऽपि दृ (KA)
SK
{१,१५७} एवं चोदनालक्षणत्वम् उपपाद्य भाष्यकारेणोपसंहृतं तस्माच् चोदनालक्षणः श्रेयस्करः इति. अत्र च यथासूत्रम् एव निगन्तव्ये श्रेयस्करपदप्रयोगे ऽभिप्रायम् आह -- धर्म इति. धर्मपदार्थम् एव व्याख्यातुं श्रेयस्करशब्दः प्रयुक्तः. तत्प्रयोगे हि चोद्यपरिहारक्रमेण श्रेयस्करो धर्म इत्य् आवेदितं भवतीति
SK
अत्र भाष्यकारेण एवं तर्हि श्रेयस्करो जिज्ञासितव्यः इति परिचोदनापूर्वम् उक्तं य एव श्रेयस्करः स एव धर्मशब्देनोच्यते इति. तत्र कस्यानेन प्रकारेण धर्मतोक्तेति न ज्ञायते. अतस् तद्विवेकार्थम् आह -- श्रेय इति. श्रेयश्शब्दो ऽयं पुरुषप्रीतौ प्रसिद्धः. तत्कारणानि च द्रव्यगुणकर्माणि चोदनासामर्थ्याद् अवगम्यन्ते. अतस् तेष्व् एव श्रेयस्करतया धर्मता भाष्यकारेणोक्तेति
SK
अत्रापरं भाष्यं - यो हि यागम् अनुतिष्ठति तं धार्मिक इति समाचक्षते इति. तस्यार्थः -- श्रेयस्करो धर्मः यत्कारणं चोदनावधारितश्रेयस्करत्वयागादिकर्तरि धार्मिकशब्दं लौकिका उपचरन्ति. तद् एवम् उपपद्यते यदि यागादिर् धर्मः, यो हि धर्मं चरति स धर्मिकः. अतो यागादेर् धर्मत्वम्. अत एव हि तच्चरितरि धार्मिकपदप्रयोगो घटते, नान्यथेति. तद् अयुक्तम्. नावश्यम् अयं प्रयोगो यागादीनां एव धर्मतां गमयति, नृगुणापूर्वादिधर्मत्वेनाप्य् अस्योपपत्तेः. यागादिकार्य् एव ह्य् अपूर्वाद्य् अपि करोति. तत् कुतो ऽयं विवेकः यागचरणाद् अयं धार्मिकः नापूर्वादिचरणाद् इति, अत आह -- अन्यद् इति. अयम् अभिप्रायः -- सत्यं, यागाद्यनुनिष्पादिन्यपूर्वसिद्धिर् इति न तु तद्यागादिसाध्यम् अपूर्वं प्रयोक्तृभिर् निर्दिश्यते. शक्तिरूपत्वात् तस्य. शक्तेश्{१,१५८}चातीन्द्रियत्वात्. अतस् तद्दर्शनेन तच्चरितरि धार्मिकपदप्रयोगो न घटते. तस्माद् यागादियोगाद् एव धार्मिकत्वसमाख्यानम् इति निश्चीयते. किं पुनर् यागादीनां स्वरूपम् एव धर्मः. यद्य् एवं पूर्वापरविरोधः. पूर्वेण तावदुकतं ताद्रूप्येण च धर्मत्वम् इति. अपरेण च
SK
फलसाधनरूपेण तदानीं[५१०]येन नास्त्य् असौ |
SK
__________NOTES__________
SK
[५१०] नीं नास्तीति (KA)
SK
इति. तद् अपि च रूपं यागादीनाम् अतीन्द्रियतया नापूर्ववत् प्रत्यक्षादिदृश्यम् यागादिस्वरूपाभिधाने त्व् अनन्ता[५११]एकस्य धर्मपदस्य शक्तयः कल्पनीया भवेयुः. कथं खल्व् एकयैव शक्त्यायं नानाजातीयेषु द्रव्यगुणकर्मसु वर्तते. स्याद् एतत् -- सकलानुगतप्रीतिसाधनत्ववचनाद् अदोष इति. न. तस्याप्य् अतीन्द्रियत्वाद् इत्य् उक्तम्. विशेषणमात्राभिधानप्रसङ्गाच् च. प्रीतिसाधनं हि नानभिधाय प्रीतिं शक्यते ऽभिधातुम् इति सैव पूर्वतरम् अभिधेया भवेत्. एवञ् च तन्मात्रोपक्षयिण्य् अभिधाव्यापारे न तद्वि[५१२]शिष्टाभिधानसिद्धिः. गवादिशब्दवत् सामशब्दवच् च. यत्र ह्य् अखण्डेन शब्देन विशिष्टो बोध्यते तत्र विशेषणम् एव शब्दस्य वाच्यम् इति सिद्धम्. अत एव सामशब्दो गीतिमात्रवचनो न सक्तां गीतिमाहेति वक्ष्यति. वार्त्तिककारेणाप्य् अपूर्वविशिष्टं कर्म धर्म इति निराकुर्वतोक्तं -
SK
__________NOTES__________
SK
[५११] न्तास् ता ए (GA) [५१२] शेषाभि (KHA)
SK
कर्मापूर्वविशिष्टं चेद् धर्म इत्य् अभिधीयते |
SK
विशेष्यं नाभिधां गच्छेत् क्षीणशक्तिर् विशेषणे ||
SK
इति. तद् इदं फलविशिष्टाभिधाने ऽपि समानम्. स्यान् मतं विधेयो धर्मपदार्थ इति. तन् न. एवं सति विधेर् अत्यन्तप्रत्यासन्ना भावनैव विधेयतया धर्मशब्दवाच्यताम् अश्नुवीत. सा हि त्र्यंशा विधीयते इति सिद्धान्तः. तद्वरम् अपूर्वम् एव धर्मपदवाच्यं तदन्वयव्यतिरेकानुविधानाद् धर्मपदस्य. तथा हि फलकाले ऽसत्य् अपि कर्मणि अपूर्वसत्तयैव धर्मवान् अयम् इत्य् उपचरन्तो दृश्यन्ते. सत्स्व् अपि यागादिषु वैगुण्याद् अलब्धापूर्वनिष्पत्तिषु न धर्मपदं प्रयुञ्जाना दृश्यन्ते. अतो वक्तव्यो धर्मपदार्थः.
SK
{१,१५९} स उच्यते -- धर्मशब्दो ऽयं पाचकादिवत् सभाग एव धृतिसाधने वर्तते. धृतिश् च प्रीतिपर्यायः. अयं च यथोपदिष्टानुगतपृषोदरादिमध्ये पठितः प्रकृतिप्रत्ययविभागेनोहितव्यः. तद् इह धृञा धृतिः,[५१३]मनिन्प्रत्ययेन च तत्साधनम् अभिधीयते. न चैवमाहारविहारादौ प्रसङ्गः. पङ्कजादिवद् योगरूढ्यभ्युपगमात् चोदनालक्षणश्रेयस्करमात्राभिधानात्. न च योगनिरपेक्षा समुदायशक्तिः, येन विशेषणमात्रे प्रसङ्गो भवेत्. न च भावनायां प्रसङ्गः, तस्या अतत्साधनत्वाद्, यागादीनाम् एव श्रेयस्साधनत्वस्य चोदनाप्रमाणकत्वात्. केवलरूढ्यभ्युपगमेनैवोपाधिद्वयस्याभिधानम् एष्टव्यम्. प्रतीतिसाधनत्वस्य विहितत्वस्य च प्रीतिसाधने विहिते च धर्मपदोपचारात्. प्रायिकं चैवाखण्डस्य विशेषणमात्राभिधानम्. असत्यां तु गतौ सर्वाभिधानम् एव. तुल्यवच् चेह धर्मपदात् प्रीतिस् तत्साधनं च विहितम् अवगम्यते इति किं न शब्देनोच्यते. यद् एतद् अपि रूपम् अदृश्यम् इत्य् उक्तम्. तन् न, वेदाद् अवगमात्. अभ्युदयसाधनं याग इत्य् एतावद् एव विदितवन्तो ऽपूर्वम् अगणयित्वैव यागादिकर्तृषु धार्मिकशब्दम् उपचरन्तो दृश्यन्ते. अतस् ताद्रूप्यमात्रेणैव ते धर्मा इति निश्चीयन्ते. अतः सिद्धम् अभ्युदयसाधनं विहितं धर्मपदार्थ इति. यत् तूक्तं विगुणे प्रयोगाभावान् न यागादिर् धर्म इति. तन् न. तथाविधस्याभ्युदयसाधनत्वाभावात् तस्य चाधर्मत्वात् कथं तत्र धर्मशब्दः प्रयुज्यते. फलकाले तु धर्मपदप्रयोगो ऽभ्युदयसाधनाभिप्राय एव. अस्ति हि तत् तदानीम् अपि. शक्तिरूपेणाध्रियमाणम् अपि स्वरूपेण. यथा चापूर्वं न धर्मपदवाच्यं तथा वक्ष्यत एवेति
SK
__________NOTES__________
SK
[५१३] प्रीतिः (GA)
SK
एवं तावल्लौकिकप्रयोगानुसारेण[५१४]यागादयो धर्मा इत्य् उक्तम्. अपि च येयं पश्वादिषु धर्मफलत्वप्रसिद्धिः तयापि यागादीनाम् एव धर्मत्वम् अवगम्यत इत्य् आह -- पश्वादीनीति. अयम् अर्थः -- पश्वादीनि तावद् धर्मफलतया प्रसिद्धानि. अतो यस्यैव तानि[५१५]फलानि स एव धर्म इति भवति मतिः. चित्रादिफलतया चैतानि शास्त्राद् अवगतानीति चित्रादयो धर्मा इति उपसंहरति -- तस्माद् इति. न केवलं लोके. वेदे ऽपि यागादिष्व् एव धर्मपदप्रसिद्धिर्{१,१६०}इति दर्शयता भाष्यकारेण दर्शितं यज्ञेन यज्ञम् अयजन्त देवाः. तानि धर्माणीति. तद् दर्शयति -- धर्माणीति. अस्याम् अपि श्रुतौ यज्ञसमानाधिकरणो धर्मशब्द इति तद्वचनो निश्चीयत इति. कथं पुनर् विलिङ्गो विसङ्ख्यश् च धर्मशब्दः यज्ञसमानाधिकरणतया निर्दिश्यते. तत्सामानाधिकरण्ये हि स धर्म इति भवेत्. एकस्यैव यज्ञस्य प्रकृतत्वात्, पुल्लिङ्गत्वाच् च तस्य, अत आह -- लिङ्गेति. समुज्झितलिङ्गसङ्ख्याविशेषो धर्मशब्द एवात्र भाष्यकृता दर्शितः. तद्वृत्तस्य प्रकृतग्राहित्वात्, अन्यस्य चाप्रकरणान् निश्चीयते यज्ञसमानाधिकरणो धर्मशब्द इति. लिङ्गसंख्ययोश् च छान्दसो व्यत्यय इति भावः. आद्यश् चात्र यज्ञशब्दो यज्ञसाधनलक्षणार्थः. इतरः श्रुत्यर्थ इति
SK
__________NOTES__________
SK
[५१४] कपदप्र (KHA) [५१५] नि स (KA)
SK
एवं तावद् भाष्यकारानुसारेण धर्मपदार्थो व्याख्यातः. मतान्तराणीदानीम् उपन्यस्य निरस्यति -- अन्तःकरणेति न दृष्टोऽन्तेन. साङ्ख्या ह्य् अन्तःकरणस्य मनसो वृत्तिविशेषं धर्मम् आश्रिताः. शाक्यास् तु चित्तस्यैव चित्तान्तरेण[५१६]भावितां शुभां वासनाम्. आर्हतास् तु कार्यारम्भकान् सूक्ष्मान् मूर्तिमतः पुद्गलान् धर्मम् आहुः. पुद्गलशब्दस् त्व् आर्हतैस् तेष्व् एव परिभाषितः. वैशेषिकास् त्व् आत्मनो विशेषगुणा धर्मा इति प्रतिपन्नाः. मीमांसकैकदेशिनस् त्व् अपूर्वजन्मन्य् एव धर्मशब्दम् उपचरन्ति. वर्णितश् च तेषाम् अभिप्रायः. अपूर्वजन्मनीति चापूर्वशब्दनिर्वचनम्. न पूर्वं जन्मास्येत्य् अर्थः. तद् धि न कर्मणः पूर्वं जायत एव, कृते कर्मणि तन्निष्पत्तेः. एतेषु सर्वेषु च लोके धर्मशब्दप्रयोगो न दृष्टः. लौकिकश् च प्रयोगः शब्दाद् अर्थावधारणे मूलम्. अतो न ते धर्माः. कथं पुनर् अन्तःकरणवृत्तेर् धर्मत्वं निराक्रियते. मीमांसकैर् अपि तद्धर्मत्वम् इष्यत एव. यागाद्यनीक्षणादिसङ्कल्पानां मानसानाम् एव धर्मत्वाभ्युपगमात्.{१,१६१}नैवम्. न मानसाः सङ्कल्पाः, आत्मकर्तृकत्वाद् उपनिषत्सु तथा दर्शनात्. श्रूयते हि -- य आत्मा अपहतपाप्मा विरजो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसङ्कल्पः इति. तथा स यदि पितृलोककामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीति. कृद्योगलक्षणा कर्तरि षष्ठी आत्मकर्तृकतां सङ्कल्पस्य दर्शयतीति न मनोवृत्तेर् धर्मत्वम्. चित्तानां च वास्यवासकभावानुपपत्तिः क्षणिकायुगपद्भुवां विज्ञानवादे ऽभिधास्यत एव. तद् उपेक्ष्यैव तावत् प्रयोगाभावान् न चित्तवासना धर्म इत्य् उक्तम्. पुण्याः पुद्गला इति यद्यणवः, न तेषु धर्मशब्दप्रयोगो लोके दृष्टः. अथान्ये ते, तर्हि प्रमाणाभावात् कुतः सेत्स्यन्ति. कुतस् तरां च तेषु धर्मशब्दप्रयोगो ऽलब्धसद्भावेषु. पुंगुणस् तु नित्यो वा वैभवादिवत्, कार्यो वा सुखादिवत्. नित्यत्वे अनुष्ठानवैयर्थ्यम्. कार्यं तु नापूर्वाद्यन्यतमम् आत्मसमवायिनं गुणभेदम् उपलभामहे. अपूर्वं तु यथा न धर्मस् तथोक्तम् एव. अप्रयोगाद् इति वक्ष्यति च. यद् अपि च कर्तृफलदाय्यात्मगुणः संयोगजो दृष्टः कार्यविरोधीति धर्मस्य लक्षणम् उक्तं, तद् अयुक्तम्. अधर्मसाधारण्यात्, स्मृतिहेतुसंस्कारसाधारण्याच् च. तयोर् अप्य् एवंलक्षणकत्वेन धर्मत्वप्रसङ्गात्. कर्तृफलदायीति चाव्यापकः. श्राद्धे त्व् अकर्तॄणां पित्रादीनां तृप्तिफलश्रुतेः. वैश्वानर्याश् च पितृकर्तृकाया एव पुत्रगामि फलम् इति वः सिद्धान्तः. वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इति हि विधाय आम्नायते यस्मिन् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति. शास्त्रफलं प्रयोक्तरि (३.७.१८) इत्य् उत्सर्गतः प्राप्तपितृगामिता पुत्रगामिफलश्रुत्यापोद्यते. अतः सिद्धं नान्तःकरणवृत्त्यादयो धर्मा इति. ननु श्रेयस्साधने तावद् धर्मपदप्रयोगो भवद्भिर् अपीष्यते. एते च श्रेयस्साधना इति कथं तेषु धर्मशब्दप्रयोगो न दृष्ट इत्य् उच्यते. अत आह -- न चेति. न तावद् एषां फलसाधनता प्रत्यक्षादिगम्या, अतीन्द्रियत्वात्. न च चोदनागम्या, यागादीनाम् एव तया फलसाधनतावगतेर् इति
SK
__________NOTES__________
SK
[५१६] ण शु (KA)
SK
{१,१६२}आह -- अस्त्व् अन्तःकरणवृत्त्यादयो न श्रेयस्साधनतयावगम्यन्त इति न धर्मा इति. अपूर्वं तु प्रीतिसाधनम् एव, अतिक्रान्ते कर्मणि तत एव फलसिद्धेः. यागसाधनवादिनो ऽपि हि अपूर्वं कृत्वेति व्याचक्षाणा अपूर्वसिद्धिम् अन्तर्भावयन्ति. परैर् अप्य् उक्तम् -- आरम्भात् स्वर्गः कर्मणा चारम्भः इति. आरम्भ इत्य् अपूर्वम् एव समाचक्षते. स ह्य् आरभ्यते. अतो ऽपूर्वं धर्म इत्य् एव न्याय्यं मन्यन्ते, अत आह -- न चेति. अयम् अभिप्रायः -- किम् इदम् अपूर्वं नाम. यदि तावत् कर्मशक्तिः फलशक्तिर् वा, नासौ साधनं साध्यं वा. शक्तेर् अकारकत्वात्, पुरुषाभिलषितफलानुषङ्गिकतया सिद्धत्वाच् च. यदि वस्त्वन्तरम् एवापूर्वम् उच्यते, तद् अप्य् अयुक्तम्. तस्य साध्यसाधनयोर् अन्यतररूपाननुप्रवेशितया प्रत्येतुम् अशक्तेः. न हि तत् स्वर्गस्य साधनं यागस्य च साध्यं शब्दाद् अवगच्छामः. नान्यतः प्रमाणात्, तदवेद्यत्वाभ्युपगमात्. अत एव न शब्दात्, प्रमाणान्तरागोचरे व्युत्पत्त्यभावात्. अपदार्थस्य चावाक्यविषयत्वात्. अतः साध्यसाधनभावाद् अन्यथापि[५१७]प्रमाणान्तरेण न वस्त्वन्तरभूतम् अपूर्वं शक्यावगमम्. एतद्रूपद्वयरहितस्य[५१८]तस्य रूपान्तरेण दर्शयितुम् अशक्यत्वाद् इति
SK
__________NOTES__________
SK
[५१७] प्रकारान्त (KA)
SK
[५१८] स्य रू (GA)
SK
अपि च यद्य् अपूर्वं यागस्य साध्यं स्वर्गस्य च साधनम् इष्यते, ततः श्रुतहानिर् अश्रुतकल्पना चेत्य् आह -- श्रुतसाधनेति. ताद्रूप्यं तेन भावना च वाक्यार्थः. सा च साध्यसाधनापेक्षिणी यथा स्वर्गयागाव् एव गृह्णाति तथा भावार्थाधिकरणे वक्ष्यते. इहापि च भावनापञ्जरप्रकरणे. अतस् तत् तावद् धेयम् अश्रुतं च. अतीन्द्रियस्यावस्तुनो गगनकुसुमादिसन्निभस्य साध्यसाधनत्वं कल्पनीयम् इत्य् अश्रुतकल्पनेति. अन्यतररूपानभ्युपगमे निस्स्वभावस्याभाव एव भवेद् इत्यभिप्रायेणाह -- व्यतिरेके त्व् अरूपतेति
SK
{१,१६३} इदं च प्रौढिप्रदर्शनार्थम् उक्तम्. न त्व् एतद्रूपद्वयरहितस्य धर्मशब्दवाच्यतोपपद्यत इति. अतो न तत्त्वान्तरम् अपूर्वम्. किन् तु फलं कर्तुम् अभिप्रवृत्तस्य यागादेर् एव शक्तिमात्रं, पश्वादेर् वोत्पत्ताव् अभिप्रवृत्तस्य शक्तिमात्रम् एव सूक्ष्मावस्था अपूर्वम्. न तत्त्वान्तरम्. न च कर्मशक्तिर् एव फलसाधनं, कर्माव् आन्तरव्यापारत्वात्. न चावान्तरव्यापारव्यवधिरकारणताम् आपादयति, काष्ठादीनां ज्वलनादिव्यापारव्यवधाने तत्प्रसङ्गात्. अतः कर्मैव शक्तं फलसाधनं न शक्तिर् इति शास्त्राद् अवगम्यमाने कथं शक्तेर् धर्मपदवाच्यतेत्यभिप्रायेणाह -- तस्माद् इति
SK
इतश् च फलसाधनशक्तिर् न धर्म इत्य् आह -- शक्तय इति. अस्यार्थः -- भावशक्तयः खलु साधारणशब्दैर् एव योग्यताशक्तिसामर्थ्यादिभिर् दृष्टाभिधानाः न विशेषतो भावशब्दैर् उपाख्यायन्ते. धर्मशब्दस् तु विशेषतो भावशब्दः. अन्यत्रैवञ् जातीयके ऽप्रयोगात्. न हि लौकिकानां द्रव्यादीनां शक्तयो धर्मपदेनोपाख्यायन्ते. अतो न यागादीनां शक्तयो धर्मपदेनोपाख्यायन्त इति सिद्धम् इति
SK
अत्रापरम् अर्थपदव्याख्यानार्थं भाष्यम् -- उभयम् इह चोदनया लक्ष्यते अर्थो ऽनर्थश् च. को ऽर्थः, यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः, यः प्रत्यवायाय श्येनो वज्र इषुर् इत्येवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्येवमर्थम् अर्थग्रहणम् इति. अस्य किलायम् अर्थः -- यदि चोदनालक्षणो धर्म इत्य् एतावद् उच्येत, अतो ऽनर्थस्य चोदनालक्षणस्य श्येनादेर् धर्मता भवेत्. अनर्थश् चासौ प्रत्यवायकरत्वेन. अतस् तन्निवृत्त्यर्थो ऽर्थशब्द इति. तद् एतद् आक्षिपति -- पुरस्ताद् इति. अस्यार्थः -- एकाङ्गविकलं हि प्रत्युदाहरणं भवति.[५१९] न द्व्यङ्गविकलम्. तद् यद् एव चोदनालक्षणपदेन न व्यावर्तयितुम् इष्टं, तदर्थग्रहणेन व्यावर्तनीयम्. अनर्थश् च चोदनालक्षणपदेन व्यावर्तितः. विधायकस्य वाक्यस्य चोदनात्वात्. तेन चानर्थहेतोः हिंसाया अलक्ष्यमाणत्वात्. प्राणवियोगफलो हि व्यापारो हिंसा. सा च न हिंस्याद् इति श्रुत्या निषिद्धेत्य् अनर्थः. स च निषेधलक्षितः न तु चोदनालक्षित इति चोदनालक्षणपदेनैव तद्व्यावृत्तिसिद्धेर् अनर्थकम् अर्थपदम् इति. पुरस्ताद् इति. चोदनेति क्रियायाः प्रवर्तकं वचनम् इत्य् अत्रेत्य् अर्थः
SK
__________NOTES__________
SK
[५१९] ति. तद् य (GA)
SK
स्याद् एतत् -- श्येनादयो ऽत्र भाष्यकारेण प्रत्युदाहृताः, ते च चोदनालक्षणा एवेति. तद् अयुक्तम्. यदि नाम श्येनादयश् चोदनालक्षणाः, न त्व् अर्थपदेन व्यावर्तयितुं शक्यन्ते. निषेधप्रमाणकत्वाद् अनर्थत्वस्य. तेषां च विधिविषयाणां निषेधागोचरत्वाद् इत्य् अभिप्रायेणाह -- चोदनेति. तद् इह यो ऽनर्थो हिंसा नासौ चोदनालक्षणा, निषेधलक्षणत्वात्. ये च चोदनालक्षणाः श्येनादयः, न ते ऽनर्था इत्य् उभयतःपाशा रज्जुर् इति
SK
स्याद् एतत् -- यदि नाम निषेधप्रमाणकम् अनर्थत्वं न. एवम् अपि श्येनादौ न सम्भवति, विधिविषयाणाम् अपि निषेधविषयत्वसम्भवादतिरात्र इव षोडशिनः. अत आह -- यद्य् अपीति. अयम् अभिप्रायः -- न तावद् विध्यवरुद्धे विषये निषेधः सम्भवति. यद्य् अपि क्वचिद् भवति, तथापि न तादृशान् निषेधाद् अनर्थत्वं विज्ञायते. केवलो हि निषेधो ऽनर्थत्वम् आपादयति, न विधिसहितः यथोदाहृत एव षोडशिनि. न ह्य् असाव् अनर्थः, अनुष्ठानविकल्पमात्रार्थत्वान् निषेधस्य, उभयथापि क्रतुफलसम्पदो ऽविशेषात्.[५२०]अतो यदि नाम श्येनो निषिध्येत नैवम् अप्य् अभिचारविधिना विहितो ऽनर्थत्वं प्रतिपद्यते. केवलनिषेधगोचरा एव कलञ्जभक्षणादयो ऽनर्थाः, प्रत्यवायहेतुत्वात्.
SK
__________NOTES__________
SK
[५२०] त् यदि (KA)
SK
{१,१६५}किं पुनस् तेषां प्रत्यवायहेतुत्वे प्रमाणम्. यदि निषेधः, तद् अयुक्तम्. नञर्थपर्यवसाय्य् एव हि निषेधविधिर् न निषेध्यस्यानर्थताम् आपादयितुं क्षमः. तावतैव निषेधविध्यर्थसिद्धेः. निषिध्यमानक्रियाकर्तुर् एव निषेधविधिष्व् अधिकारः. तस्यां च रागादिना प्रवृत्तः पुमान् अधिकारी लब्ध एवेति नाधिकार्यन्तरापेक्षा. एवञ् च न तद्विशेषणे ऽपि. अधिकारी हि नानवच्छिन्नो विशेषणेन बोद्धुं शक्यत इति तद्विशेषणापेक्षा. तत्र स्वर्गपुत्रादिश्रुतिषु कामाधिकारेषु काम्यपर्यन्तता सिद्धा. जीवनभेदनादिश्रुतिषु निमित्ताधिकारेषु निमित्तपर्यन्ततेति मीमांसाकृतधियो धीरा विभजन्ते. निषेधाधिकारेषु न तावत् प्रत्यवायपरिहारः साध्यतया श्रुतः. न च पिण्डपितृयज्ञवत् कल्पयितुं शक्यते. अधिकारिलाभात्. उक्तं हि -- निषिध्यमानक्रियाकर्तुर् एवाधिकारः इति. किं पुनस् तत्र विशेषणम्. भक्षयतिर् एव. नन्व् असौ विषयविशेषणम्. सत्यम्, विषयस्यैव विशेषणं गले पातिकया भक्षयतिर् अधिकारिविशेषणम् आख्यायते. यत्र खलु नञर्थे पुरुषो नियुज्यते स विषयः. न चासौ भक्षयतिनानवच्छिन्नो बोद्धुं शक्यत इति तद्विशेषणतयैव पर्युपयुक्तस्य भक्षयतेर् बलाद् अधिकारिविशेषणता सम्पत्स्यते. एषा हि तत्र वचनव्यक्तिः यो भक्षयेत् स नेति. एवञ् च सम्पन्नम् उभयं यश् च विषयो नञर्थः यश् च भक्षयति प्रवृत्तो ऽधिकारीति नाधिकार्यन्तरापेक्षायां प्रमाणम् अस्ति. न च किञ्चिद् अधिकारे हेतुतया सम्बद्धं साध्यतया सम्बध्यते. नियोगसिद्धिनान्तरीयकत्वात् फलसिद्धेः. इतरथा साध्यद्वयापत्तेः. एवं सर्वत्र. किम् इदानीं प्रत्यवायकराणि. निषिद्धानि महापातकोपपातकादीनि तथा नाम. न तु श्रुतिपरतन्त्राणाम् अशब्दार्थकल्पना मीमांसकानाम्. किम् इति तर्हि निषिद्धं न क्रियते, विहितं वा किम् इति क्रियते. विहितत्वाद् इति चेत्, समानम् इदं निषिद्धायां क्रियायाम्. तद् अपि निषिद्धत्वाद् एव न क्रियते. न हि विधिनिषेधाभ्याम् अन्यद् अस्ति नाम हेत्वन्तरं वैदिकेषु प्रवृत्तिनिवृत्त्योः. तस्मान् न किञ्चिन्निषिद्धानां प्रत्यवायकरत्वे प्रमाणं पश्यामः. कस् तर्हि दुःखहेतुः. किं नो विदितेन कारणेन. अस्ति तावद् दुःखहेतुः तद् एव हि नस् तत्र प्रमाणम्.
SK
अत्राभिधीयते -- निषेधश्रुताव् अर्थापत्तिर् एव निषिद्धानां प्रत्यवायकरत्वे प्रमाणं विधिश्रुताव् इव विहितानाम् अभ्युदयहेतुत्वे. तथा व्युत्पत्तेः. यथा{१,१६६}खल्व् अयं प्रवर्तितो ऽप्य् अनपेक्षितयोगक्षेमो न प्रवर्तते, एवं वारितो ऽपि न तावच् चिकीर्षितान् निवर्तते यावद् दुःखहेतुर् अयम् इति न प्रतिपद्यते. एष ह्य् आसम्भवाद् दुःखहेतुम् एव त्रिविधम् अहासीद् इति निषेधश्रावी दुःखहेतुर् अयं निषेधविषय इति प्रतिपद्यते. यत् त्व् अधिकारिलाभे न कल्पनाबीजम् इति. तन् न. हिताहितप्राप्तिपरिहारार्थिन एव सर्वत्राधिकारात्. नित्याधिकारेष्व् अप्य् उपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारार्थिन एव सर्वत्राधिकारसमर्थनात्. या तु विषयविशेषणता निषेधगोचराणां क्रियाणाम् उक्ता, साप्य् अयुक्ता. भावार्थविषयत्वाद् विधेः. जञर्थस्याभावार्थीभूतस्याविधिविषयत्वात्. अत्यन्तानुपाख्येयनञर्थवादिनां च सुतराम् अविधिविषयत्वं तदर्थस्य. अतो नात्र विध्यर्थः सम्पाद्यतयावगम्यते. किन् त्व् अनागतानुतिष्ठासितभावविरोध[५२१]फल एवात्र नञ्. एषा चात्र वचनव्यक्तिः यद् धन्यात् तन् नेति. वक्ष्यति च -- भाववारिका नञो वृत्तिर् इति. अतो येषाम् एव नात्यन्तम् अवस्त्वात्मा नञर्थः, तेषाम् एव तावत् तदर्थो ऽभिधीयत इति युक्तम् अभिधातुम् इति. अपि च यद् एतद् विषयविशेषणतयोपयुक्तस्य पुनरधिकारिविशेषणत्वकल्पनं, तद् अपि न चतुरश्रम् इव मन्यामहे. विषयविशेषणं हि सर्वम् अपूर्ववत् साध्यतयाग्नीषोमीयसौर्यादिषु समधिगच्छन्तो दृश्यन्ते एवं यागं कुर्याद् इति. अधिकारिविशेषणं तु सिद्धं यत् स्वर्गकामजीवनभेदनादिमान् इति. तत् कथम् एक एव भक्षयतिः सिद्धसाध्यभावम् अनुभवतीति सम्भावयामः. निर्दोषाश् च निषेधाधिकारा इति लोकशास्त्रविरुद्धम् अभिधीयमानं नास्तिक्यम् एवापादयति. दुःखोत्पत्तौ किं नो विदितेन कारणेनेति[५२२]निस्सरणोपायमात्रम्. नैवंविधेनोत्तरेण शिष्याणां भ्रान्तिर् आधातुम् उचिता. न तावद् अहेतुकानि दुःखानि, अभूत्वा भवनात्. न विहितहेतुकानि.[५२३]तेषां श्रुताश्रुतानेकविधाभ्युदयहेतुत्वात्. न चाविहिताप्रतिषिद्धहेतुकानि, तेषाम् अपि वर्जनीयत्वापत्तेः. को[५२४]हि प्रेक्षावान् दुःखहेतुं न परिहरति. पारिशेष्यान् निषिद्धानाम् एव दुःखहेतुत्वम् आस्थेयम्. कथं तदप्रमाणम् अभिधीयते. पारिशेष्यं प्रमाणम् अस्तु[५२५]न शास्त्रम् इति चेत्. एवञ्जातीयकेष्व् अनुमानस्याप्रवृत्तेः. अश्रुतफलानां च विहितानाम् अपि नित्यानां हेतुत्वसम्भवान् न पारिशेष्यलाभः. तस्मात् शब्दप्रमाणम् एव निषिद्धानां प्रत्यवायकरत्वं यथास्माभिर् उक्तम्.
SK
__________NOTES__________
SK
[५२१] धि [५२२] स्सारणमात्रम् [५२३] विहितानि [५२४] यो (KA) [५२५] त्र (GA)
SK
{१,१६७}यस् तु वदति -- ब्राह्मणहननादिषु निषेधाधिकारेषु ह्य् अर्थवादोपात्ता यातनाविशेषाः तं शतेन यातयाद् इत्यादयः साध्यतया श्रूयन्ते. तैश् च मिलितैव निषिध्यमानक्रियाधिकारिणं विशिनष्टि. अतः संवलिताधिकार एवायं, शतादियातनापरिहारकामो हननाभिप्रवृत्तो न कुर्याद् इति. दृष्टं चार्थवादोपात्तम् अधिकारिविशेषणं रात्रिसत्रे. तद् इहाधिकारिहेत्वपेक्षायाम् अगृह्यमाणे विशेषे तद् अपि हेतुतया स्वीक्रियत इति. तद् अयुक्तम्. अगृह्यमाणे विशेष एवं नाम. न चेह तदग्रहणम्. स्वपदवाक्यान्तरोपात्तयोर् महाविशेषात्. रात्रिसत्रे हि फलान्तराश्रवणाद् अर्थवादोपात्तप्रतिष्ठाब्रह्मवर्चसादीनां चागृह्यमाणविशेषाणां च युगपदुपस्थानात् सर्वार्थवादोपात्तफलार्थिन एवाधिकार इति युक्तं कल्पयितुम्.[५२६]एवं जातेष्टाव् अपि समस्तार्थवादोपात्तपूतादिविशेषाणाम् अगृह्यमाणविशेषत्वात् पुत्रजन्मनश् चाधिकारिविशेषणानुरूपेणाश्रयणाद् युगपद् एव सर्वविशेषणविशिष्टो ऽधिकारीति कथ्यते. इह तु न कलञ्जं भक्षयेद् इति समानपदोपात्तो भक्षयतिर् अधिकारिविशेषणतयावगत इति नाधिकारिहेत्वन्तरापेक्षा. एवं ब्राह्मणहननादिप्रतिषेधेष्व् अपीति न क्वचिद् आर्थवादिकफलविशेषणापेक्षा.[५२७]यदि तूच्यते -- नञर्थविशेषणतयैव धात्वर्थो ऽवगतो यावदधिकारिविशेषणतया कल्प्यते, तावदर्थवादोपात्तविशेषणान्य् उपस्थितानीति विशेषाग्रहणम्[५२८]इति. न, एवम् अपि विपरीतविशेषणापत्तेः. धात्वर्थो हि[५२९]यदा विषयविशेषणतयावगतः[५३०]पुरुषगुणतयावकल्प्यते. अर्थवादोपात्तानि त्व् अनन्यत्रोपयुक्तानीति तद्विशिष्टाधिकारिकल्पनैव न्याय्येति न संवलिताधिकारसिद्धिः. एवञ् च विषयविशेषणस्यैव भक्षयतेर् गलेपातिकयाधिकारिविशेषणत्वम् इत्य् उपेक्षितव्यम्. यद् अपि शतेन यातयाद् इत्यादिविध्युपनिबन्धनं साध्यत्वाम् आचक्षते, तद् अप्य् अयुक्तम्. अविधिविषयत्वात् फलानां साध्यभावस्य. वक्ष्यते च तस्य लिप्सार्थलक्षणेति. काम्यतयैव फलानि श्रुतिभिर् उपनीयन्ते, किम् अत्र विधिश्रुत्या. अत एव रात्रिसत्रे प्रतिष्ठाकाम इति विपरिणामाश्रयणं प्रतिष्ठादीनां साध्यतासिद्ध्यर्थं, न तु प्रतितिष्ठेयुर् इति विध्याश्रयणम् इति यत् किञ्चिद् एतत्. अतः सिद्धं निषेधप्रमाणकम् अनर्थत्वम् इति
SK
__________NOTES__________
SK
[५२६] नम्. ए [५२७] क्षा इति. य [५२८] षणाग्र [५२९] यावद्विष [५३०] वकल्प्य (GA)
SK
एवं श्येनादिस्वरूपाभिप्रायेण तत्फलाभिप्रायेण वा न प्रत्युदाहरणग्रन्थो घटत इत्य् उक्तम्. पूर्वापरिविरोधाद् अप्य् अयम् अग्रन्थ इत्य् आह -- चोदनेति. उभयम् इह चोदनया लक्ष्यते इति श्येनादीनां चोदनालक्षणत्वम् उक्तम्. पुनश् च कथं पुनर् असाव् अनर्थः. हिंसा हि सा. सा च प्रतिषिद्धेति यन् निषिद्धत्वम् उच्यते, तत् तेन चोदनालक्षणत्वप्रतिज्ञानेन विरुध्यते. विधायकं हि वाक्यं चोदना. अतः कथं तल्लक्षितस्य विधेयस्य निषिद्धत्वं पुनरभिधीयते इति. अपरम् अपि हिंसा हि सा. सा च प्रतिषिद्धेति भाष्यं, तद् दूषयति -- श्येनादाव् इति. यो ऽयम् उपदिष्टश् चोदनालक्षणः श्येनादिर् असौ हिंसेति समभिव्याहारो न युज्यत इति
SK
कथं न युज्यते, अत आह -- हिंसा हीति. न श्येनादयो हिंसा. फलं हि तेषां हिंसा. सा च स्वरूपेण भिन्ना. न तु त एव हिंसेति स्वरूपभेदम् एव दर्शयति -- सा हीति. अभिचारो हिंसा मारणम् इति पर्याया इति प्राणवियोजनात्मिकैव हिंसा. न तु तथा श्येनादिः, तस्यासिवद्धिंसायाः पृथक्त्वात्. यथा ह्य् असिना शत्रौ व्यापाद्यमाने छेदनम् एवासिजन्यं, हिंसा नासिः, एवं श्येनादिजन्यमायुर्भाग्यच्छेदनम् एव हिंसा न श्येन इति न तस्मिन् हिंसाभिधानम् उपपन्नम् इति
SK
अपरम् अपि कथं पुनर् असाव् अनर्थः कर्तव्यतयोपदिश्यते इति प्रश्नपूर्वकम् उक्तं नैव श्येनादयः कर्तव्या विज्ञायन्ते, यो हि हिंसितुम् इच्छेत् तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः इति. तद् अपि नोपपन्नम् इत्य् आह -- उपदेशेति. यदा हि नैव श्येनादयः कर्तव्यता विज्ञायन्त इति तेषां विधेयत्वम् अपह्नुतं,[५३१]तदा कथम् अविधेयेष्व् एवोपदेशाभिधानं तेषाम् उपदेश इति. विध्युपदेशशब्दयोः पर्यायत्वाद् इति भावः.
SK
__________NOTES__________
SK
[५३१] ह (GA)
SK
{१,१६९} स्याद् एतत् -- अविधेयेष्व् एव चोदनालक्षणत्वमात्रेणोपदेशवाचोयुक्तिः. कथम् अविधेयानां चोदनालक्षणत्वम् इति चेत्. क्रमवद् इति ब्रूमः. यथा खलु अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीति न तावत् क्रमो विधीयते. यागादिवद् अभावार्थीभूतस्याविधिविषयत्वात्. न च दध्यादिद्रव्यवत्. अकारकत्वात्. अकारकत्वं चामूर्तत्वात्. न चारुणादिगुणवद् द्रव्यावच्छेदेन कारकत्वम्, एकैकपदार्थावच्छेदकत्वेनानुपलक्ष्यमाणत्वाद् अनेकाश्रयत्वात्. न च संखादिवद् विधानम्, अपृथक्पदाभिधेयत्वात्. पृथक्पदाभिधेया हि संख्या तां चतुर्भिर् आदत्त इति सा विधीयेतापि. न चैवं क्रमः, प्रचयाद् अवगम्यत्वात्. अतः कथं विधिविषयो भवेत्. तथा वेदं कृत्वा वेदिं कुर्याद् इति पदार्थ एव कर्तव्यबुद्ध्या गृह्यते न तु क्रमः. कथं व अतद्गोचरो विधीयेत. अतो ऽविधेय एव क्रमः. अथ च नाचोदनालक्षणः. विध्यनुमतत्वात्. अनुमन्यते हि विधिरानुपूर्व्यम् अग्न्याधानादिब्राह्मणतर्पणावसानं पदार्थजातम् एकत्र कर्तर्य् उपसंहरन्. न ह्य् एकः कर्ता युगपदखिलम् उपपादयितुम् अलं विधिवितानम्. अतो विध्यभ्यनुज्ञामात्रेण विधानविनियोगशून्यो ऽपि क्रमः शास्त्रार्थ एव. एवं श्येनादयो ऽपि नियोगविषयतयावगताश् चोदनालक्षणाः, न तु विधीयन्ते. यद् धि नियोगसामर्थ्याद् एवोपादीयते तद् विधेयम् इति तन्त्रे व्यवहारः. कथं तर्हि विषयभावः.[५३२]यस्मिन्न् अर्थे स्थित्वा पुरुषो नियुज्यते नियुक्तो ऽस्मीत्य् अधिकारं बुध्यते स तु विषयः, न तु विषये नियोगो नियुङ्क्ते. आत्मन्य् एव नियोगात्. वक्ष्यति चापूर्वाधिकरणे -- आरम्भे हि पुरुषो नियुज्यते न कर्मणीति. अतः सिद्धम् अविधेया अपि चोदनालक्षणाः श्येनादय इति. एवं च उभयम् इह चोदनया लक्ष्यते इति श्येनादिस्वरूपाभिप्रायम् एव, श्येनस्य विधिविषयत्वेन चोदनालक्षणत्वात्. अविधेयत्वाच् च निषेधविषयत्वोपपत्तिः. अतो निषिद्धत्वाभिधानम् अपि युक्तम् एव. फलार्थिता हि श्येनानुष्ठाने निमित्तं, न विधिः. तदभिप्रायेण च तस्य लिप्सार्थलक्षणेति. अङ्गहिंसा त्व् अफलसाधनत्वाद् असत्यां फलप्रयुक्तौ विधिनैवानुष्ठाप्यते इति नास्पदं निषेधस्य.{१,१७०}इतिकर्तव्यता हि[५३३]सा. सा विधिनैवाङ्गीकृता कथं निषेधविषयो भवेत्. हिंसाहीत्य् अपि श्येनादिस्वरूपाभिप्रायम् एव. प्राणवियोगफलो हि व्यापारो हिंसा, तथा च श्येनादिः अतः सो ऽपि हिंसैव. न च खङ्गादौ प्रसङ्गः, अव्यापाररूपत्वात्. न च श्येनसम् अनन्तरं निधनं नोपलभ्यत इति श्येनो न हिंसा, तावतापि तत्फलत्वानपायात्. न हि खङ्गादिहते व्रणपरिपाकादिना चिराद् विपद्यमाने खङ्गाभिघातो हिंसेति न बुध्यते. अत एव खादकादयो ऽपि घातका इति मानवाः स्मरन्ति. अतो हिंसा श्येनो निषिद्धश् चानर्थश् च चोदनालक्षणत्वेन धर्मो मा भूद् इत्यर्थग्रहणेन व्यावर्तित[५३४]इति सर्वं समञ्जसम् एवेति. अत आह -- श्येनादेर् इति. अस्याभिप्रायः -- यत् तावदविधेया अपि क्रमवच्चोदनालक्षणाः श्येनादय इति. तद् अयुक्तं, दृष्टान्तासिद्धेः. न हि नः क्रमो न विधीयते. यत्रैव हि विधेर् अन्यतः पुरुषो न प्रवर्तते तद्विधेयम्. अप्रवृत्तप्रवर्तकत्वाद् विधेः. न च फलाद् अन्यत्र पुरुषो रागादिना प्रवर्तते. न ह्य् अस्य क्रमानुष्ठाने रागादयः प्रवर्तकाः. विधिर् एव तु निश्शेषशेषशेषिविषये प्रयोगे एकं कर्तारम् आयोजयन् नानाक्षिप्तानुपूर्व्यविशेषपरिग्रह आत्मानं लभत इति षोढाविभक्तपाञ्चमिकप्रमाणसहायस् तं तम् आनुपूर्व्यविशेषं शास्त्रार्थतया नियच्छति ||
SK
__________NOTES__________
SK
[५३२] यविभागः य (GA) [५३३] हिंसा वि [५३४] ते (GA)
SK
किम् इदानीं प्रयोगविधिप्रमाणक एव क्रमः. नन्व् असौ युगपद् उपसंहरति. तत्र च क्रमविरोधः. न. क्रमानुगुणयौगपद्यपरिग्रहात्. न खल्व् ईश्वरो ऽपि साङ्गं प्रधानम् एकत्र क्षण उपसंहर्तुं क्षमः. अत एकोपक्रमावसानत्वम् एव शेषशेषिणां प्रयोगविधिप्रमाणकं नैकक्षणभावित्वम्. अवधृतस्वरूपाणां प्रयोगो रच्यते. सक्रमकाश् च पदार्था अवधृता इति[५३५]तद्विरोधिन्य् एव यौगपद्यकल्पना. यत् तु असति विनियोगे नाङ्गत्वम् इति. तन् न. तार्तीयैर् एव श्रुत्यादिभिः किञ्चिद्विलक्षणर्विनियोगात्. अपि च अविनियुक्तम् अपि पश्वेकत्वम् अङ्गम् इच्छतां किम् अपराद्धं क्रमेण, यद् असाव् अनङ्गम् इत्य् आश्रितम्. औपादानिकं तस्याङ्गत्वम् इति चेत्, यदि नियोगाक्षेप उपादानं, नासाव् इह दण्डवारितः. अत्रापि हि क्रमं प्रति विध्याक्षेपो वर्णित एव. अभिधेया संख्या सोपादानतः शेषो भवतीति युक्तम्. न त्व् एवं क्रम इति चेत्, किम् अत्राभिधानेन.{१,१७१}यद् एव किञ्चित् कथञ्चिद् अवगतं तद् एव विध्यनन्यथासिद्ध्या तेनाक्षिप्यते. विरोधपरिहारश् चोक्तः.[५३६]अपि च वषट्कर्तुः प्रथमभक्षः इत्यादाव् अनन्यपराभिधानावगतत्वाद्[५३७]विधेर् नाविधेयता सिध्यति. तत्रैव हि विधीयते नान्यत्रेति चेत्. तदर्धजरतीयम्. यत् तु कर्तव्यता[५३८]बुद्धिविषयो नेति. तन् न. वेदं कृत्वा वेदिं कुर्याद् इति सक्रमपदार्थकर्तव्यतावगमात्. निष्कृष्यकर्तव्यता नावसीयत इति चेत् पदार्था वा किं तद्रहिताः कर्तव्यताधिया[५३९]गोचरीक्रियन्ते यद्विधेयतयेप्यन्ते. सर्वथा नः सक्रमकपदार्थविषयैवानुष्ठानसंवित्. पदार्थावच्छेदादेवारुणादिवन्नाकारकत्वम्. यत् त्व् एकैकपदार्थावच्छेदकतया नावगम्यत इति.[५४०]नैतावता अकारकत्वं शक्यते वक्तुम्. स्वभावो ह्य् अयं क्रमस्य यन् नानाश्रयत्वं द्वित्वादिवत्. न हि द्वित्वादयः संख्या एकैकत्र न समवयन्तीति नावच्छेदिका भवन्ति. अकारकं वा. अतः सिद्धं तावत् क्रमो विधीयत इति. एवं च न तन्निदर्शनेनाविधेयानाम् एव चोदनालक्षणत्वं श्येनादीनाम्. अपि च यदि श्येनादयो न विधीयन्ते, किम् अन्यद् विधेयम् इति न विद्मः. नन्व् अङ्गानि विधीयन्त इत्य् उक्तम्. रागादिभिस् तेषु नराणाम् अप्रवृत्तिविषयवात्. किं पुनस् तेषु रागादयो न प्रवर्तकाः. अप्रीत्यात्मकत्वाद् इति चेत्. समानम् इदं साधनेषु. तान्य् अपि बह्वायाससाध्यानि दुःखात्मकान्य् एवेति न नरं रञ्जयन्तितराम्. यदि तु प्रीतिसाधनत्वात् तेषु रागादयः प्रवर्तका इत्य् उच्यन्ते, अङ्गेष्व् अपि प्रसङ्गः. अननुगृहीतस्य साधनत्वानुपपत्तेः. अङ्गजन्यत्वाच् चानुग्रहस्य. एवं चाङ्गप्रधानद्वयस्याविधेयत्वाद् अविषयो विधिर् आपद्यते. अपि च विधिविषयाः श्येनादयो न विधीयन्त इति दुरधिगमम्. विधिविषयम् एव विधेयविदो विधेयं मन्यन्ते. अविधेयस्य विधिविषयभावानुपपत्तेः. नन्व् एतावद् एव[५४१]विधिविषयत्वं यत् तत्र विधिर् अवगम्यते. न पुनस् तस्य[५४२]कर्तव्यता. यथाहुः -- कर्तव्यताविषयो हि नियोगो न तत् कर्तव्यताम् आहेति. का पुनः कर्तव्यता. यागादयः. एषैव हि नियोगस्य कर्तव्यता यद्यागानुष्ठानम्. तत्प्रकाराश् चेतिकर्तव्यताः प्रयाजादयः. यद्य् एवं केन रूपेण यागादिषु विधिर् अवगम्यते. यदि यागं कुर्याद् इति, नन्व् इयम् एवासौ कर्तव्यतेति कथं न{१,१७२} यागादीनां कर्तव्यताम् आहेत्य् उच्यते. नन्व् आत्मन्य् एव प्रवर्तयतीत्य् उक्तम्. सत्यम्. न तु यागातिरेकि किञ्चित् कार्यं कार्यतयावगम्यते इति विधिविवरणे वक्ष्यामः. अतो विधेयाः श्येनादयः प्रियम्, अस्य भ्रातृव्यवधस्य साधनानीति नानर्थतया प्रत्युदाहरणम् अर्हन्तीति. यद् अपि तेष्व् एव हिंसाशब्दो मुख्य इत्य् उक्तं, तद् अयुक्तम्. अभिचारपर्यायो हि हिंसाशब्दः. सा च हिंसा फलं श्येनस्य अभिचरन् यजेतेति हि श्रूयते. न तु श्येनादय एवाभिचाराः. खादकादिषु घातकादिपदप्रयोगो गौणः. न चेह गौणहिंसापदाश्रयणे किञ्चित् कारणम्. श्येनशब्दे[५४३]तु फललक्षणाकारणं वक्ष्यामः. तस्मात् सूक्तम् अविधेये श्येनादौ न किञ्चिद् विधेयम् इति
SK
__________NOTES__________
SK
[५३५] तदविरो (KHA) [५३६] अत्रापि (GA) [५३७] त्वाद् नावि [५३८] तावि [५३९] यो (KA) [५४०] ति तन् न नै (GA) [५४१] वाद्वयस्य विधिविषयत्वात् यत् (KA) [५४२] स्य कर्तव्यताविषयो (GA) [५४३] ब्देन तु (GA)
SK
एवं तावदुपपत्तितः श्येनादीनां विधेयत्वम् उक्तम्. इदानीम् एतत् परित्यागे सिद्धान्तहानिर् अपीत्य् आह -- सर्वत्रेति हान्तेन. जानात्य् एवासौ मयैतत् कर्तव्यम् इति, उपायं तु न वेदेत्यादौ सर्वत्र भाष्यकारानुसारेणैवांशद्वयगामी विधिर् अवगम्यते. तद् इह श्येनाद्यविधेयपक्षे बाध्यत इति. अयं चापरः श्येनादीनाम् अविधेयत्वे दोष इत्य् आह -- ये चेति स्युरन्तेन. ननु[५४४]यथा ज्योतिष्टोमादयो न विधीयन्ते एवं न निषिध्यन्ते ते ऽपीति.[५४५]कस्माद् धर्मता न भवत्य् अत आह -- हिंसेति. यद्य् अपि ज्योतिष्टोमादयो न स्वरूपेण हिंसा, तथाप्य् अग्नीषोमीयादिपशुहिंसा तेषां साधनम्. सा चांशद्वयगामिन्य् अपि निषिद्धेत्य् उक्तम्. अतो निषिद्धाङ्गत्वेन प्रत्यवायहेतुत्वाद् अधर्मता ज्योतिष्टोमादीनाम् इति. अपि चांशद्वयाविधाने तदुत्खातिर् एवेत्य् आह -- न चेति. विधेर् अयं महिमा यत् स्वभावसाध्यो यागः फलाङ्गः, तथा वक्ष्यति जैमिनिः कर्माण्य् अपि फलार्थत्वात् (३.१.४) इति. तथेतिकर्तव्यतापि यत् फलसाधनाङ्गम् असाव् अपि विधिमहिम्नैव. सा विहिता सती पुरुषार्थात्मकसाध्यसम्बन्धमीहमाना फलवत्क्रत्वङ्गभावम् अनुभवतीति फलवत्सन्निधाव् अफलं तदङ्गम् इति{१,१७३}वक्ष्यते. अविधीयमानस्य यागस्याग्नेयादेः प्रधानस्याङ्गस्य वा प्रयाजादेर् यथाक्रमं न फलाङ्गता तत्साधनाङ्गता वापि सिध्यतीति
SK
__________NOTES__________
SK
[५४४] नु ये ज्यो [५४५] त (KA)
SK
स्याद् एतत् -- साधनत्वेन विहिता अपि न साध्यतया विधीयन्त इत्य् अविधेया इत्य् उच्यन्ते. अत एवाह -- नैव श्येनादयः कर्तव्या विज्ञायन्ते इति. नैव साध्यतया विधीयन्त इति यावद् इत्य् अत आह -- साधनत्वेनेति. विधानं ह्य् अनर्थत्वपरिपन्थि तद् यथातथा वा विहितस्य न सम्भवति. अतः किम् अवान्तरभेदाश्रयणेनेति. अन्वारुह्य चेदम् अस्माभिर् उच्यते. न तु साध्यतया विधानं सम्भवति, स्वयम् एव साध्ये पुरुषाणां प्रवृत्तेः. तद् एतद् आह -- साध्यत्वेनेति. सर्वं यागदानजपोपवासादीष्टसाधनतयैव विधीयत इति भावः
SK
अतो न श्येनादिनिवृत्तिर् अर्थशब्दस्य प्रयोजनम् इत्य् अन्यथा वर्णनीयम् इत्य् आह तेनेति. प्रयोजनवर्णनां प्रतिज्ञाय तद् उपोद्धातम् एव तावद् भाष्यकाराभिप्रायम् आह -- प्रवृत्तौ वेति. प्रवर्तिका निवर्तिका चोभय्य्[५४६]अपि चोदनेति भाष्यकारस्य हृदये लक्षणं व्यवस्थितं चोदनायाः. अतो निषेधचोदनालक्षणानां धर्मत्वं निवर्तयितुम् अर्थशब्द इत्य् अभिप्राय इति. कथं तर्हि प्रवर्तकं वाक्यं चोदनेति भाष्यम् अत आह -- प्रवर्तक इति. प्रवर्तकग्रहणं प्रदर्शनार्थम् इत्य् अर्थ इति
SK
__________NOTES__________
SK
[५४६] यम् अपि (GA)
SK
उदाहरणार्थत्वे कारणम् आह -- तात्पर्ये हीति. पूर्वापरसङ्गतो हि ग्रन्थो व्याख्येयः. यद्य् अपि प्रवर्तकैकपर एव पूर्वग्रन्थो भवेत्, अर्थशब्दस्येयं{१,१७४}व्याख्या चोदनालक्षणानर्थनिवृत्त्यर्थो ऽर्थशब्द इत्येवमात्मिका नोपपद्यते. अनर्थानां[५४७]प्रवर्तकवाक्यलक्षित नामचोदनालक्षणत्वापत्तेर् इति भावः. अर्थशब्दसहितस्य[५४८]वा चोदनापदस्यार्थो व्याख्यातः.[५४९]अर्थो हि प्रवर्तकवाक्यलक्षण एवेत्यभिप्रायेणाह -- अर्थग्रहणेति
SK
__________NOTES__________
SK
[५४७] नाम् अप्र [५४८] ब्दस्याहि [५४९] ख्येयः अ (KA)
SK
अथवा धर्मप्रमाणम् अत्र सूत्रकारेण सूत्रितं धर्मस्य प्रवर्तकम् एव वाक्यं प्रमाणम् इति. तच् चोदनालक्षणम् एव भाष्यकारेण वर्णितम् इत्य् आह -- धर्मेति. यदा चोभय्य् अपि चोदनेति स्थितं तदा विधिचोदनाभ्यस् तावद् विधेयानां ज्योतिष्टोमादीनाम् अर्थत्वेनावधारणं भवति. निषेधचोदनाभ्यश् च निषेध्यानां ब्रह्महत्यादीनाम् अनर्थत्वेन निर्णयः. उभयोर् उभाभ्याम् अर्थानर्थत्वे लक्षिते इति यावत्. तद् एतद् आह -- एवं सतीति. येन च विधिप्रमाणकम् अर्थत्वं, तेन तल्लक्षितानां ज्योतिष्टोमादीनाम् अत्रार्थग्रहणेन धर्मत्वम् उक्तम् इत्य् आह -- तेनेति
SK
विधेयार्थधर्मत्वे चोक्ते विपरीतानाम् अधर्मत्वम् अर्थसिद्धत्वान् न सूत्रकारेण सूत्रितम् इत्य् आह -- निषेध्यानाम् इति. एवम् उद्ग्रन्थम् एव भाष्यकाराभिप्रायम् उक्त्वा तदनुसारेणोभयम् इत्यादि भाष्यं योजयति -- तस्माद् इति. यस्माद् एवं भाष्यकाराभिप्रायः, तस्माद् उभयम् इहेत्यादिग्रन्थे विधेयप्रतिषेध्ययोर् यथाक्रमं यागादिब्रह्महत्यादिवर्गयोर् निदर्शनं कार्यम् इत्य् अर्थः. यदि ब्रह्महत्यादिवर्गस्यानर्थतया निदर्शनं कथं तर्हि श्येनाद्युपन्यासः. ते हि विधेयाः. तत एव चेष्टसाधनाः. महत् खल्व् इदम् इष्टं यः शत्रुवधः. न हि तादृशी{१,१७५}स्वर्गे ऽपि नराणां तृप्तिः सम्भवति यादृशी शश्रुवधे. अतः कथं ते ऽनर्थतयोदाह्रियन्ते, अत आह -- श्येनादीनाम् इति. अयम् अभिप्रायः -- यथावगतम् आयुष्मतां न स्वरूपेण श्येनादयो ऽनर्था इति. भाष्यकारेणापि न तत्स्वरूपम् अनर्थतयोदाहृतम्. किन् तु यत् तेषां फलं हिंसात्मकम् आयुर्भाग्यविच्छेदः, सो ऽपि विहितो निषिद्धश् च. स्वयं विहितत्वाद् अर्थात्मको ऽप्य् अनर्थानुबन्धीति तद् इदम् अनर्थत्वं श्येन उपचरितं, कारणे कार्योपचारात्. श्येनशब्द एव वा तत्फल उपचरितः कार्ये कारणोपचाराद् इति भावः. किं पुनरुपचाराश्रयणे कारणम् अत आह -- प्रतिषिद्धेति. भाष्यकारानुसारेणैवेदम् उपचाराश्रयणम्. एवं हि भाष्यकारो वदति -- प्रतिषिद्धा हि सेति. न हि श्येनादिस्वरूपाभिप्रायं प्रतिषिद्धा हीतीदम् उपपद्यते. ततस् तत्फलाभिप्राय एव श्येनाद्युपन्यास इति भाष्यकृता स्फुटीकृतम् इति
SK
इदं चापरं लिङ्गदर्शनम् इत्य् आह -- हिंसा हीति. कथं पुनर् असाव् अनर्थः इत्य् उक्त्वा यद् उक्तं हिंसा हि सेति, ततो ऽवगम्यते न श्येनादिस्वरूपमात्रम् अनर्थतया विवक्षितम् इति. वर्णितम् इदम् आक्षेपकाले न स्वरूपेण श्येनो हिंसेति. अतो हिंसा हीत्य् अत्र भाष्यकारेणैतत् स्फुटीकृतम्. तथा श्येनेनाभिचरन् यजेतेति हि समामनन्ति नाभिचरितव्यम् इत्य् अन्ते वक्ष्यते. अत्राप्य् अभिचारस्यैव श्येनफलस्य निषेधं दर्शयन्न् अनर्थतां स्फुटीकरिष्यतीति. श्येनादिस्वरूपाभिप्राये तु ग्रन्थे सर्वो ऽयम् उत्तरग्रन्थे न सङ्गच्छत इत्य् आह -- श्येनादीनाम् इति
SK
तत्र प्रतिषिद्धा हीत्य् एतत् तावद् अनुपपन्नम् इत्य् आह -- विहितत्वाद् इति. विहिता हिंसासाधनतया श्येनादयः. न तेषु प्रतिषेधो ऽवकाशं{१,१७६}लभत इत्याक्षेपे वर्णितम् एवैतत् प्रदर्शनार्थम् उक्तम्. अन्ये ऽप्य् आक्षेपोक्ता एवानुपपत्तिप्रकारा अनुसन्धेया इति. एवं तावद् विधिनिषेधात्मिका चोदनेत्याश्रित्योभयम् इत्यादिग्रन्थो व्याख्यातः. इदानीं प्रवर्तिका चोदनेत्य् अत्रापि पक्षे शक्यत एव भाष्यं व्याख्यातुम् इत्य् आह -- यदेति. उभयं विधायिकया चोदनया लक्ष्यते साध्यं साधनं चेत्य् अर्थः. कथं पुनः साध्यसाधनात्मकम् उभयं चोदनया लक्ष्यते. न हि साध्यं विधीयते, स्वयम् एव हि तत्र पुरुषाः प्रवर्तन्ते, अत आह -- साध्येति उभयोरन्तेन. अयम् अभिप्रायः -- सत्यम्. साध्यसाधनाङ्गगोचरम् एव विधेः प्रवर्तनम्. तथापि विधिप्रमाणकम् एव स्वर्गयागादीनां साध्यसाधनसम्बन्ध इति औत्पत्तिकसूत्रे (१.१.५) वक्ष्यते. यथा यागादीनां साधनभावश् चोदनालक्षणः, एवं स्वर्गादीनां यागादिसाध्यत्वावगतिर् अपीति तेन रूपेण ते ऽपि चोदनालक्षणा भवन्त्य् एव, यद्य् अपि तेषु स्वयं प्रवृत्तः पुरुषो न चोदनया प्रवर्त्यत इति. यदि साध्यसाधनाभिप्रायम् उभयत्वं, तर्हि अर्थो ऽनर्थ इति केन सम्बध्यते, अत आह -- द्विविधम् इति. अयम् अर्थः -- फलसाधनात्मकम् उभयं चोदनालक्षणम् इत्य् उक्तम्. तत्रेदम् उच्यते फलम् अर्थानर्थात्मकत्वेन द्विविधं क्रतूनाम् इति
SK
फलद्वैविध्ये कारणम् आह -- स्वर्गादीति हिंसाद्यन्तेन. तत्रोभयात्मके फले स्वर्गादिफलं तावत् ज्योतिष्टोमादीनाम् अनतिक्रान्तप्रतिषेधेनैवावाप्यते. तन् न निषिद्धम् इति यावत्. श्येनादिफलं तु हिंसाद्यतिक्रान्तप्रतिषेधेनावाप्यते. अतस् तत्सदसद्भावकारितः फलार्थानर्थविवेकः. अस्मिंश् च व्याख्याने को ऽर्थः इत्यादि भाष्यम् एवं व्याख्येयम् अर्थात्मकफलस्यापि यत् साधनं सो ऽप्य् अर्थ इति. अन्तर्णीयैतत् प्रदर्शितं को ऽर्थः यो निःश्रेयसाय ज्योतिष्टोमादिर् इति. एतद् उक्तं भवति -- अर्थात्मकफलस्य साधनस्य ज्योतिष्टोमादेर् धर्मत्वं वक्तुम् अर्थपदं प्रयुक्तम् इति. तद् उक्तं -
SK
{१,१७७} तस्यापि साधनं यत् तदर्थ एवाभिधीयते |
SK
वक्तुं तस्यैव धर्मत्वम् उक्तम् अर्थविशेषणम् ||
SK
इति. को ऽनर्थ इति तु श्येनादिफलपरो लक्षणया श्येनादिपदप्रयोगः, तस्य चार्थाद् अधर्मत्वम् उक्तम् इति वेदितव्यम् इति. ननु श्येनादिविधिसामर्थ्याद् एव श्येनादिफलम् आसाद्यमानं कथं प्रतिषेधातिक्रमेणावाप्यत इत्य् उच्यते, अत आह -- शास्त्रान्तरेति. अयम् अभिप्रायः -- सत्यं श्येनचोदनालक्षणं तत्फलं, तद् उद्दिश्य तद्विधानात्. क्वचित् किञ्चिद् विधीयत इति विधेः स्वरूपं, तत्र विधेयम् इवोद्देश्यम् अपि विधिर् विगाहत एव. यत् तु न हिंस्याद् इति शास्त्रान्तरं, तन्निरीक्षणेन श्येनादिफलस्य हिंसायाः प्रतिषिद्धत्वम् अवगम्यत इति
SK
ननु विधिस्पृष्टे प्रतिषेधो ऽनवकाशः. सत्य् अपि वा प्रतिषेधे नैवंविधस्यानर्थत्वम् इत्य् उक्तम्. तद् यदि चोदनालक्षणा हिंसा, कथं निषिद्धत्वाद् अनर्थः. चोदनालक्षणत्वे ऽप्य् अविधेयत्वम् इति तु भवद्भिर् एव निराकृतम्. अत एव क्रमो विधेय इत्य् आश्रितम्, अत आह -- फलांश इति वक्ष्यतेऽन्तेन. अयम् अभिप्रायः -- उक्तम् इदम् अस्माभिः किञ्चिद् विधातुं फलम् उद्दिश्यते इत्य् एतावती चोदनालक्षणता. न तु फलम् एव विधीयते, भावनायाः फलांशे प्रत्ययाविधायकत्वस्य वक्ष्यमाणत्वात्. वक्ष्यति हि -- जानात्य् एवासौ मयैतत् कर्तव्यम् इति उपायं तु न वेदेति. अतः स्वयम् एव कर्तव्येषु पुरुषाणां प्रवृत्तेर् न तद्विषयप्रवृत्तिज्ञापनं विधेः फलम्. साधनोपाययोस् त्व् अप्रवृत्तः पुरुषः प्रवर्त्यत इति तयोर् विधेयत्वम्. क्रमे तु न तावत् किञ्चिद् विधीयते. सो ऽपि चेन् न विधीयेत, कथं चोदनालक्षणो भविष्यति. जैमिनेर् अप्य् एतद् एवाभिमतम् इत्य् आह -- जैमिनिर् इति. लिप्सया प्रवृत्तिं लक्षयति, तया प्रवृत्तेः. अर्थशब्दः प्रयोजनवाची फले प्रवृत्तिः प्रयोजनलक्षणा न वैधीति दर्शितं भवतीति
SK
{१,१७८} यतश् चायं सूत्रभाष्यानुगतः सिद्धान्तः यत् फलं न विधीयत इति, तेन कारणेन न हिंस्याद् इति प्रतिषेधः श्येनफलोपनिपातिन्यां हिंसायां सामान्यतो ऽवतरन् विधिना न निवारित इति तस्यानर्थताम् आपादयतीत्यभिप्रायेणाह -- तेनेति
SK
एवं च निषेधेन श्येनफलस्यानर्थप्राप्तिहेतुत्वे बोध्यमाने ऽपि न श्येनः स्वरूपेणानर्थः, तत्फलम् एव तु हिंसानर्थ इत्य् आह -- अनर्थेति
SK
अत्रापरं परिचोदनाभाष्यं कथं पुनर् इत्यादि. तस्याभिप्रायम् आह -- परस् त्व् इति. अयम् अभिप्रायः -- सो ऽयं साधनफलयोर् विधेयाविधेयभेदो दर्शितस् तम् अविद्वान् उभयम् इत्यादिभाष्ये श्येनादेश् चोदनालक्षणत्वाभिधानात्[५५०]फलस्यापि विधेयतां मन्वानः, अथवा त्र्यंशभावनाविधानेन फले जातविधेयाभिमानः[५५१]श्येनफलस्यानर्थत्वम् आक्षिप्तवान्. अयं च भाष्यार्थः -- कथं य कर्तव्यतयोपदिश्यते सो ऽनर्थः. यद्य् अपि ग्रन्थात् कर्तव्यतोपदेशपर्यनुयोगो ऽवगम्यते, तथाप्य् अपौरुषेये उपदेशपर्यनुयोगासम्भवाद् उपदिश्यमानस्य कथम् अनर्थत्वम् इत्य् एव पर्यनुयोगार्थः. अत एवोक्तम् -- अनर्थत्वम् आक्षिपद् इति
SK
__________NOTES__________
SK
[५५०] णाभि (GA) [५५१] नस्या (KA)
SK
अत्र परिहारभाष्यं - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते इति. तच्छ्येनादिकर्तव्यतानिषेधपरम् इवोपलभ्यते. तच् चायुक्तम्. श्येनादिविधानस्य पूर्वोक्तत्वात्. अतो भित्त्वा योजयति -- नैवेति. अस्य श्येनफलस्य हिंसाया नैवेत्य् एतावतैव विधेयत्वं निराकार्यम् इत्य् अर्थः. किं तर्हि विधेयम्{१,१७९}इति तूपस्कृत्योत्तरग्रन्थयोजनेत्य् आह -- किम् इति. श्येनादयो यागाः कर्तव्याः, न तत्फलं हिंसेति
SK
अत्र च नैवेति भिन्ने कथं पुनर् अनर्थ इत्य् अस्य प्रश्नस्यापाकरणे ऽनुषक्तकर्तव्यतापदे फलस्य कर्तव्यतायां प्रतिषिध्यमानायां साध्यताप्रतिषेधभ्रमम् अपनेतुम् आह -- प्रश्नापाकरण इत्यर्थेन्तेन. नात्र फलस्य साध्यता प्रतिषिध्यते, तन्निषेधे श्येनभावनापरिसमाप्तेः. किन् तु विधेयतैव फलस्य प्रतिषिध्यत इति. अनुपयुक्ते च पूर्वोत्तरपक्षयोः स्थापनबाधने साध्यत्वस्येत्य् आह -- द्वये ऽपीति. यदि कथं पुनर् इति पूर्वपक्षवादिना साध्यत्वानुपपत्तिर् उक्ता भवेत्, एवम् उत्तरवादी नैवेति तन्निराकुर्यात्. न तु साध्यत्वस्य पूर्वपक्षे कश्चिद् उपयोगः. न च तन्निरासस्य सिद्धान्त[५५२]इति
SK
__________NOTES__________
SK
[५५२] न्तहानिर् इति (KA)
SK
अत्रोभयत्रानुपयोगतुल्यताम् एव दर्शयति -- अनर्थस्यापीति. न तावत् पूर्वपक्षवादिनः साध्यताप्रतिपादनम् उपयुक्तम्. अर्थत्वं हि तस्यापादनीयम्. अतो यद् एव तदनुगुणं तद् एव वक्तव्यम्. न च साध्यतामात्रानुबन्ध्यर्थत्वम्, अनर्थस्याप्य् अविधेयस्य सुरापानादेः साध्यतावगमात्. न च साध्यतानिराकरणं सिद्धान्त उपयुज्यते. अर्थत्वं हि तस्य फलस्य निराकरणीयम्. तदनुगुणं च विधेयतानिराकरणम् एव सिद्धान्तिना कार्यम्. किं साध्यतानिराकरणेन, असाध्यस्यापि विधेयस्य गोदोहनादेर् अर्थत्वाद् इति
SK
यच् चेदं श्येनादिफलाभिप्रायम् अविधेयत्वं न स्वरूपाभिप्रायम् इत्य् अस्माभिर् उच्यते, तद् भाष्यकारेण स्फुटीकृतम् इत्य् आह -- शतुर् इति. यो हि हिंसितुम् इच्छेत् तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः. श्येनेनाभिचरन् यजेतेति{१,१८०}हि समामनन्ति नाभिचरितव्यम् इति वदन् भाष्यकारो लक्षेणे शतुर् उत्पत्तिं दर्शयति, यो हि हिंसितुम् इच्छेद् इत्य् अभिचारप्रवृत्तपुरुषानुवादात्. तच् चेदम् अभिचरन् नाभिचरितव्यम् इति व्यक्तीकृतम्. लक्षणं च यद्वृत्तयुक्तं सिद्धवद् एवावगम्यते न विधेयतया. अतो न तावद् धिंसा विधीयते. तेषाम् उपदेशः इति च स्पष्टम् एव श्येनादीनां विधानम् उक्तम्. अन्यथा अविधेयस्योपदेशानुपपत्तेः, विध्युपदेशशब्दयोः पर्यायत्वाद् इति भावः. श्येनादय इत्यादिशब्दस्य प्रयोजनम् आह -- विधित्वम् इति. साधनानि तावद् विधीयन्ते. इतिकर्तव्यतापि हिंसात्मिका दैक्षपश्वादि(?का/गा) विधीयते.[५५३]एतेन फलांशस्थैव हिंसा न विधीयत इति दर्शितं भवति. विधित्वं विधिशक्तिर् इत्य् अर्थः
SK
__________NOTES__________
SK
[५५३] न्ते
SK
यतो ऽङ्गहिंसा विहितैव, अतः फलांशस्थैवावैदिकी हिंसा न हिंस्याद् इति निषिध्यते. अतश् चानर्थ इत्यभिप्रायेणाह -- तस्माद् इति.[५५४]सर्वस्वारफलस्येदानीं का वार्ता. मरणं तस्य फलं, न हिंसा. तच्[५५५]चानिषिद्धम् इति चेद्[५५६]न. असति भाग्यच्छेदे तदनुपपत्तेः. अतः फलांशोपनिपातिनीसर्वस्वारहिंसानर्थो भवेत्. उच्यते -- पूर्वापरीभूते हि यज्ञे तार्तीयसवनीयार्भवस्तोत्रकाले सर्वस्वदक्षिणापरिवृतो विपद्यते दीक्षितः. अतो विधिकोष्ठप्रविष्टैवासौ हिंसा. अन्यत्र तीर्थेभ्यः इति च तीर्थबहिर्भूतैव हिंसा निषिद्धा. इयं तु तीर्थमध्यगता विधिस्पृष्टैवेति नानर्थः. श्येनफलं तु चिरातिपन्ने श्येने तज्जन्यापूर्वविच्छिन्नभाग्येषु शत्रुषु विपद्यमानेषु जायते. अतस् तीर्थबहिर्भावाद् अर्थो न भवति. तेन क्रतुबहिर्भूता फलांशहिंसावैदिकी निषिध्यते. नान्तःक्रत्व् इति विवेकः इति. किं पुनः कारणं साधनोपायभूता न निषिध्यते. सामान्येन न हिंस्याद् इति शास्त्रं प्रवृत्तम्. अतो ऽङ्गसाधनहिंसयोर् अपि प्रतिषेधो भवेत्, अत आह -- अंशद्वय इति. साधनोपायांशद्वयगामिनी{१,१८१}हिंसा प्रतिषिध्यते इति ब्रुवाणस्य अविशेषेण यच्छास्त्रं तत् सन्दिग्धम् अन्याय्यत्वाद् विकल्पस्याराद् विशेषशिष्टं स्यात् (१०.८.१६) इति सूत्रम् उत्तरम्. शिरोवद् इति च सूत्रान्तरैकदेशः. अत्र ह्य् उभयत्रापि सामान्यशास्त्रस्य विशेषशास्त्रेण बाधो दर्शितः. पूर्वत्र तावद् यथा. ज्योतिष्टोमे श्रूयते -- वर्त्मनि जुहोतीति. अस्ति चानारभ्यविधिः यदाहवनीये जुह्वतीति.[५५७]अत्र संशयः -- किं ज्यौतिष्टौमिके होमे वर्त्माहवनीययोर् विकल्पः, उत बाध्यबाधकभाव इति. तत्र विकल्प इति प्राप्तम्. तथा हि -- न तावद् एकार्थयोः समुच्चयः सम्भवति. न च पाक्षिकानुग्रहसम्भवे आत्यन्तिको बाधः. आहवनीयो हि सामान्यशास्त्रेण वर्त्महोमम् अप्य् आस्कन्दतीति न तस्यात्यन्तबाधो न्याय्यः. अतो विकल्प इति प्राप्ते उक्तं - यद् एतद् अविशेषेणाहवनीयशास्त्रं तदाराद् विशेषशिष्टं स्याद् इति. दूरे विशेषशिष्टस्येत्य् अर्थः. विशेषशिष्टं वर्त्महोमं नास्कन्दतीति यावत्. कुतः. अन्याय्यत्वाद् विकल्पस्य. कथम् अन्याय्यता. लक्षणया हि सामान्यशास्त्रं विशेषशास्त्रेषु प्रवर्तते. तत् तेषु सन्दिग्धम् अयं वा विशेषो ऽस्य विषय इति, विशेषशास्त्रं तु निश्चितविषयम्. अतो वैषम्यान् न विकल्पः. अत एव सामान्यवचनः शब्दो दुर्बलः इति वक्ष्यति. तस्मात् सिद्धम् आहवनीयो बाध्यत इति. तथा क्वचित् पुरुषशीर्षम् उपदधातीति विशेषवचनसामर्थ्यात् शवशरीर[५५८]स्पर्शनं स्मृतिप्रतिषिद्धम् अपि क्रियत एव, सामान्यनिषेधदौर्बल्याद् इति शिरोवद् इत्य् उक्तम् इति. इदं त्व् इह वाच्यम्.[५५९]केयं साधनांशगामिनी हिंसेति. यदि श्येनादयः न, तेषाम् अहिंसात्वेनोक्तत्वात्. सत्यम्. प्रधानपशुहिंसैव तत्रोदाहरणम्. यथा वायव्यं श्वेतम् आलभेतेति. इदं च श्येनोदाहरणम् असत्सु भार्यापहारादिमन्युहेतुषु अनर्थतया दर्शयितव्यम्. आततायिवधे दोषाभावस्मरणात्. षट्स्वभिचरन् न पतेद् इति बौधायनाः पठन्ति. अन्यत्राप्य् उक्तं -
SK
__________NOTES__________ [५५४] {सर्वस्वारो नाम मरणकामकर्तव्यो यागविशेषः (१०.२.२३).} [५५५] च्चापि नि [५५६] त् तन् न. (GA) [५५७] होती (KA) [५५८] शिर [५५९] वक्तव्यम् (GA)
SK
नाततायिवधे दोषो हन्तुर् भवति कश्चन |
SK
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ||
SK
{१,१८२}इति. नन्व् असत्य् अपि निषेधे किमंशद्वयगामिनी हिंसानर्थो न भवतीत्य् अत आह -- निषेधेनेति
SK
अत्र कारणम् आह -- प्रत्यक्षादेर् इति. नानार्थत्वे प्रत्यक्षादीनि क्रमन्ते. न चाप्रमाणको ऽर्थः कल्पयितुं शक्यत इति. प्रत्यक्षाद्यशक्तिम् एव दर्शयति -- न हीति. न हि त्रिवृत्पानविरेकयोर् इव साध्यसाधनभावो हिंसाप्रत्यवाययोः प्रत्यक्षः, तदानीं प्रत्यवायादर्शनाद् इति
SK
नन्व् असत्य् अपि दोषदर्शने बाह्यहिंसानाम् अनर्थत्वदर्शनाच् चोदितास्व् अपि विचिकित्सा जायत एव, अत आह -- बाह्ये ऽपीति. अयम् अभिप्रायः -- नात्र विचिकित्सायां किञ्चित् कारणम्. शास्त्राद् एव बाह्ये ऽपि विचिकित्सा. अङ्गहिंसापि शास्त्रविहितैवेति निर्विचिकित्सम् अनुष्ठातव्येति. ननु प्रत्यक्षम् एव हिंस्यमानस्य दुःखितत्वम् उपलभ्यते. अतः कर्तुर् अपि ततो दुःखित्वम् अनुमास्यामहे. क्रियानुरूपं हि कर्तॄणां फलम् इति महाजनप्रसिद्धम्. यथा चाहुः --
SK
तथा च नारीष्व् अपि सिद्धम् एतत् करोति यो यल्लभते ऽप्य् असौ तत् |
SK
यत् कर्मबीजं वपते मनुष्यस् तस्यानुरूपाणि फलानि भुङ्क्ते ||
SK
इति. अतः क्रियानुरूप्येणैव हिंसानर्थकरीत्य् अनुमास्यते, अत आह -- हिंस्यमानस्येति स्यादन्तेन. अयम् अभिप्रायः -- यद् एतद् हिंस्यमानस्य दुःखित्वदर्शनं, तेन कर्तुः दुःखित्वानुमानम् अयुक्तम्. व्याप्तलिङ्गदर्शनाभावात्. न हि हिंस्यमानस्य दुःखिता कर्तुर् भविष्यता दुःखेन व्याप्तावगतेति. प्रत्यक्षदर्शनानुसारेण तु विपर्यय एव तावदनुमातुं शक्यते, तदानीं हि कर्तुः{१,१८३}स्फुटं सुखम् एवोपलभ्यते. अतः कालान्तरे ऽपि हिंसा सुखकरी, हिंसात्वाद् अद्यवद् इति शक्यते प्रयोगो वक्तुम् इत्य् अभिप्रायेणाह -- तदानीम् इति
SK
अत्र कश्चिद् अनुमानकुशल आह -- क्रियाविशेषाः खलु विषयानुरूपफलदायिनो दृष्टाः. यथा दानादयः शास्त्रोक्ताः. दानं हि सम्प्रदानापरनामानं विषयं सुखयतीति प्रत्यक्षम् अवगतम्. तच् च कालान्तरे दातुः परां प्रीतिमाधास्यतीति शास्त्राद् अवगम्यते. हिंसापि च क्रियाविशेषः. अतो यादृगस्या विषये हिंस्ये कर्मणि फलं दुःखात्मकं, तादृग् एव[५६०]कर्तुर् अनुमीयत इति, तद् एतद् उपन्यस्यति -- विषय इति
SK
__________NOTES__________
SK
[५६०] वक्तुर् अ (KA)
SK
अत्र दूषणम् आह -- य एवम् इति. एवंवादिनो हेतुर् अनैकान्तिकः. क्रियाविशेषाणाम् अपि गुर्वङ्गनागमनादीनां विषयानुरूपफलदायित्वाभावात्. दुःखफलत्वात् तेषाम्. विषये च गुर्वङ्गनादौ तदात्वे प्रीतिदर्शनात्. सुरापानस्यापि यदि पेया सुरैव विषयः, न तस्य दुःखम् अदुःखं वेति विषयानुरूपफलदायित्वम् एवम् आदीनां असिद्धम् इति विपक्षैर् एभिर् व्यभिचारिता हेतोर् इति
SK
विरुद्धश् चायं हेतुर् इत्य् आह -- विरुद्धेति. कथं विरुद्धता, अत आह -- यादृग् इति. दृष्टान्तानुसारेण हि हेतुर् गमको भवति. दानं चात्र दृष्टान्तः. अतो यादृशं दाने फलम् अवगतं, हिंसायाम् अपि तादृग् एव फलं भवेद् इति. तादृक्त्वम् एव फलस्य दर्शयति -- विधिगम्येति. दाने हि विधिगम्यफलावाप्तिर् अवगता. तद् इदं व्याप्तिबलेन हिंसायाम् अपि प्राप्नोतीति. विधिबलेन त्व् अर्थफलत्वम् एव हिंसाया अवगम्यते. अतो नानर्थत्वं सिध्यतीति सिसाधयिषितानर्थफलत्वविपरीतार्थफलत्वसाधनाद् विरुद्धो ऽयं हेतुर् इत्यभिप्रायेणाह{१,१८४}-- अदुःखेति. तथेति. विधिगम्यफलावाप्तौ सत्याम् अगुःखात्मतेत्य् अर्थः. न हि दुःखात्मके फले विधिः प्रमाणं भवतीति
SK
एवं तावद्धेतुदोषाव् उक्तौ. इदानीं दृष्टान्तदोषं दर्शयति -- न चेति. विषयानुरूपफलदायिता ह्य् अत्र साध्यते. दाने च सम्प्रदानं विषयः. न च दानं दातरि तदनुरूपं फलम् अभिनिष्पादयति, ततो विशिष्टतमस्य महतो ऽभ्युदयस्य दातरि निष्पत्तेः. अल्पा हि प्रीतिर् गां गृहीतवतो भवति. दातुस् तु तां पात्रसात्कृतवतः सवत्सरोमसम्मितानि तानि वत्सराणि स्वर्गो भवतीति शास्त्रानुसारेणावगम्यते. क्वचित् तु समद्विगुणसाहस्रानन्तानि फलान्य् अब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः इति साध्यहीनो दृष्टान्त इति. अपि चैकार्थेनैव साध्यपदेन पक्षसपक्षयोर् व्याप्तिः कथ्यते. इह च दृष्टान्ते दाने सम्प्रदानं विषयशब्दस्यार्थः. हिंसने तु हिंस्यमानं कर्म. न चैतद् युक्तम् इत्यभिप्रायेणाह -- सम्प्रदानम् इति वैषम्यमन्तेन. यदि तु वैषम्यपरिहारार्थं पक्षे ऽपि सम्प्रदानम् एव विषयशब्दस्यार्थो भवेत्, ततः सिसाधयिषितानर्थविपरीतप्रतिज्ञानाद् विरुद्धः पक्षो भवेद् इत्य् आह -- सम्प्रदाने इति. विरुद्धताम् एव स्फुटयति -- प्रीयत इति. अग्नीषोमदेवतासम्प्रदानको हि पशुयागः. तत्र चाग्नीषोमौ देवता[५६१]प्रीयते[५६२]इति विषयानुरूपफलप्रतिज्ञाने हिंसाकर्तुर् अपि प्रीतिकरी हिंसेति प्रतिज्ञातं भवेत्. एवञ् च नानर्थकरत्वं सिध्यति, प्रीतिफलस्यानर्थत्वासम्भवात्. अतो विरुद्धः पक्षो भवेद् इति. किं पुनर् इदं देवताधिकरणविपरीतविग्रहवत्त्वम् इहाभिप्रेत्य देवता[५६३]प्रीयत[५६४]इत्य् उच्यते. यद्य् अपि अनिराकरणात्मकं सम्प्रदानं देवता स्यात्, तथापि नासौ प्रीयते.{१,१८५}श्रुतिसमवायित्वात् कर्मसु. अत आह -- इति स्थितं तवेति. सत्यं, नायं सिद्धान्तः. तव तु साङ्ख्यस्य स्थितम् इदं[५६५]यद् देवता प्रीयत इति. अतस् ते पक्षो विरुद्ध इति
SK
__________NOTES__________
SK
[५६१] ते [५६२] ये [५६३] ताः [५६४] न्त (GA) [५६५] इयं दे (KA)
SK
पूर्वं तावद् उभयत्र सम्प्रदाने विषयशब्दार्थे दोष उक्तः. कर्मवचनत्वे दोषम् आह -- दृष्टान्त इति. यदि हि दाने कर्मैव विषयो भवेत्, ततस् तस्य दीयमानस्य गवादेर् न किञ्चित् फलम् इति न तदनुरूपफलसाधनं युक्तम् इत्य् अभिप्रायः. विरुद्धाव्यभिचारी चायं हेतुर् इत्य् आह -- जपहोमादीति. जपादयो हि क्रियाविशेषा न परेषां पीडानुग्रहयोर् वर्तन्ते. चोदितत्वमात्रेणैव[५६६] तु ते ऽर्थतयावगताः. अतस् तद्दृष्टान्तेनैव चोदिता हिंसा अर्थ इति शक्यते साधयितुम्. अतो विरुद्धाव्यभिचारिता. न चात्र विषयानुरूपम् एतत् फलम् इति शक्यते वक्तुम्. विषये फलादर्शनात्. जपस्य यदि तावज्जप्यमानं विषयः, किं तस्य फलम्. अन्यस्य तु न कस्यचित् पीडानुग्रहौ दृश्येते. अत एवोक्तं परपीडादिवर्जनाद् इति. एवंविधं दृष्टान्तम् आसाद्य चोदितत्वस्य हेतुत्वं सम्भवतीति विरुद्धाव्यभिचारी हेतुर् भवति. भवति च प्रयोगः -- दैक्षपशुहिंसा अर्थः, विहितत्वाज् जपादिवद् इति
SK
__________NOTES__________
SK
[५६६] ण तु (GA)
SK
अपि च विधिनिषेधप्रमाणकयोर् धर्माधर्मयोर् अनुमानोपन्यासो ऽतिदूरम् अपभ्रष्ट इत्य् आह -- विहितेति
SK
अपि च विषयानुरूपफलवादिना पीडानुग्रहनिबन्धनं धर्माधर्मत्वम् आश्रितम्. एवञ् च जपे शीधुपाने चान्यतराभावाद् उभयानुग्रहता न स्याद् इत्य् आह -- अनुग्रहाद् इति
SK
{१,१८६} गुरुदारगामिनां[५६७]च परानुग्रहाद् एव महान् धर्मो भवेद् इत्य् आह -- क्रोशतेति. गुरुदाराभिगामिनो हि ससाध्वसस्य हृदयं शब्दायत इवेति क्रोशतेत्य् उक्तम्. यदि ब्रूयाद् गुर्वङ्गनागामिनो हि ब्राह्मणम् इव घ्नतो हृदयक्रोशनम् उपलभ्यते. हिंसा च विषयानुरूपफलदायितयानर्थ इति स्थितम्. अतो ऽनर्थफलकर्मानुष्ठायिनाम् एव हृदयक्रोशनोपगम्यत[५६८]इति गुरुदाराभिगामिनो ऽप्य् अधर्मोत्पत्तिर् अवगम्यत इति. तत्रेदम् उत्तरं क्रोशता हृदयेनापीति. एवं हि मन्यते -- विषयानुरूपं चेत् कर्मणां फलम्, एवं सति क्रोशतापि हृदयेन गुर्वङ्गनागामी विषयस्याङ्गनाया महान्तम् उपकारं जनयतीति धार्मिको भवेत्. हृदयक्रोशनाद् अस्याधर्मो ऽप्य् अनुमीयत इति चेद्, न तर्हि विषयानुरूपं (फलं) क्रियाणाम् इति व्याप्त्यसिद्धिः. अतश् चानैकान्तिको हेतुः. विरुद्धार्थहेतुद्वयसमावेशे[५६९]च धर्माधर्मत्वसंशयो भवेत्. अतो न पीडानुग्रहनिबन्धनं धर्माधर्मत्वम् इति
SK
__________NOTES__________
SK
[५६७] राभिगा [५६८] शनाद् अवग [५६९] शाच् च ध (GA)
SK
अपि च अनुमानप्रधानस्यास्य वादिनो ऽनपेक्षितनिषेधशास्त्रस्य हृदयक्रोशने ऽपि न कारणम् उपलभामहे. अधर्मानुष्ठानबुद्ध्या हि तद् भवति. आनुमानिकधर्माधर्मवादिनश् च नाधर्मबुद्धौ किञ्चिन् निबन्धनम् अस्ति. शास्त्रानुसारेण हि तन्निश्चयः. उच्छास्त्रं प्रवर्तमानस्याधर्मम् आचरामीति हृत्कम्पो न जायते. इतरथा तु परोपकारित्वाद् अस्य हृदयस्य प्रसाद एव जायत इत्य् आह -- अनुमानेति
SK
ननु यद् एव स्वस्मिन् परस्मिन् वानुष्ठीयमानं पीडाम् आवहति, स एवाधर्मः. अत एवात्महिंसाप्य् अधर्मः. तद् इह यद् अपि परोपकारो दृश्यते, स्वस्य{१,१८७}तु हृदयक्रोशात् पीडोपलभ्यत इत्य् अधर्मत्वम्. एवञ् चाधर्मत्वे पीडोपपत्तिर् इत्य् अत आह -- पीडात इति. अनपेक्षितशास्त्रस्य प्रागधर्मज्ञानोत्पत्तिनिमित्ताभावात् किंकृता पीडेति वक्तव्यम्. अधर्मत्वबुद्धिकृतेति चेत्, तद् एव किन् निमित्तम्. सैव पीडा अधर्मत्वे निमित्तम् इति चेत्, तद् इह पीडाधर्मत्वयोर् एकतरस्यापि मूलान्तरासम्भवाद् दुरुत्तरम् इतरेतराश्रयम् अशास्त्रपरतन्त्रस्यापद्यत इति
SK
अपि च[५७०]यदि सत्य् अपि परोपकारे कर्तुर् उद्वेगदर्शनाद् गुर्वङ्गनागमनम् अधर्मः, तर्हि यस्यातो म्लेच्छादेर् उद्वेगो न जायते तस्याधर्मोत्पत्तिर् न स्याद् इत्य् आह -- एवमादाव् इति. शास्त्रज्ञस्यैव शास्त्रानुसार्युद्वेगो जायते. तदनभिज्ञस्य तदभावाद् अप्रमाणको ऽधर्मयोग इति
SK
__________NOTES__________
SK
[५७०] च स (KA)
SK
अतो विमुच्यानुग्रहपीडे तदभावं च धर्माधर्मज्ञानार्थिभिर् विधिनिषेधाव् एवानुसर्तव्याव् इत्य् उपसंहरति -- तस्माद् इति. अयम् अर्थः -- नानुग्रहो धर्मत्वे कारणं पीडा वा अधर्मत्वे, अनुग्रहाभावो वा पीडाभावमात्रं वा धर्माधर्मत्व इति
SK
अत्र वदन्ति -- नानुमानेन हिंसादीनाम् अधर्मत्वं साध्यते. किन् तु शास्त्रानुसारेणैव. निषेधशास्त्रेण हिंसायाः प्रत्यवायशक्तिर् अवगता. सर्वा च{१,१८८}तीर्थातीर्थगता हिंसैव. अतः कथं हिंसा सती काचित् प्रत्यवायं न जनयिष्यति. न हि दैक्षपशुहिंसाविधानं वस्तुनः शक्तिम् उत्सारयितुम् उत्सहते विद्यमानद्रव्य[५७१]गुणादिशक्तिमात्रोपदेशित्वात् शास्त्राणाम्. नैषां शक्त्यावापोद्वापयोर् व्यापारः. अतस् तद् एवेदं न हिंस्याद् इति शास्त्रोपदर्शितप्रत्यवायहेतुत्वं दैक्षपशुहिंसाक(?र्मे/र्मणी)ति[५७२]शास्त्रानुधावनेनैव हिंसादीनाम् अधर्मत्वं कल्प्यत इति. तद् एतद् उपन्यस्यति -- क्वचिद् इति त्रयेण. क्वचिद् बाह्यहिंसायां निषिद्धत्वात् प्रत्यवायहेतुत्वे हिंसायाः शक्तिर् बोधिता न विधानाद् अपगच्छतीति सम्बन्ध इति
SK
__________NOTES__________
SK
[५७१] व्यादि (KA) [५७२] स्त्राधाव (GA)
SK
एवम् उपन्यस्य निरस्यति -- एवम् इति द्वयेन. एवंवादिनो हि न सुरां पिबेद् इति निषेधशास्त्रात् सुरापानस्य प्रत्यवायशक्तिर् अवगतेति शूद्रो ऽपि तां पिबन् प्रत्यवेयात्. तथा वैश्यस्तोमेन वैश्यस्य यजमानस्य विधिनाभ्युदयसिद्धिर् दर्शितेति वैश्यस्तोमशक्त्यनुसारेण विप्रराजन्ययोर् अपि तत्फलं भवेत्. न चैतद् इष्यते. तथा कालभेदेन शक्तिभेदो दृष्टः. इष्ट्योर् दर्शपूर्णमासयोः पर्वणि शक्तेः पञ्चम्यां चाशक्तेः. अग्निहोत्रस्य सायंप्रातरनुष्ठितस्य फलसाधनत्वान् मध्याह्ने च तदभावात्. अतो यथाशास्त्रम् एव शक्तिसद्भावो ऽभ्युपेयत इति
SK
तस्मात् शास्त्रानुसारेणैव कर्मणां फलशक्तिर् आस्थेयेत्य् उपसंहरति. -- तस्माद् इति
SK
एवं साधनोपायांशद्वयातिरिक्तायां हिंसायां न हिंस्याद् इति प्रतिषेधाज्{१,१८९}जातं प्रत्यवायहेतुत्वज्ञानम् अन्यत्र तीर्थेषु यो दीक्षितः यद् अग्नीषोमीयं पशुम् आलभेतेत्यादिविधिना वार्यत इत्य् आह -- हिंसेति
SK
यत् तूक्तं न वस्तुशक्त्यावापोद्वापयोः शास्त्रस्य व्यापार इति, तद् इष्यत एव. केवलं शास्त्रानुसारेणैव तत्तत्क्रियाभेदव्यवस्थिता एव शक्तयो ऽवगम्यन्ते. अतो नातिप्रसङ्ग इत्यभिप्रायेणाह -- ज्ञानम् इति
SK
कथम् एकस्य कर्मणः शक्तिभावाभावाव् इति चेत्. लौकिकानि कर्माणि विदाङ् कुर्वन्तु भवन्तः. यथा तावद् एकम् एव भोजनं स्वस्थातुर् अकर्तृकं भिन्नशक्तिकं दृष्टम्. स्वस्थेन हि तत् क्रियमाणं रसलोहितमांसपरिणामपरम्परया शरीरं वर्धयति. आतुरेण तु क्रियमाणम् असम्यग्धातुपरिणामात् कृशी करोति. एवम् अदृष्टार्थेष्व् अपि कर्मसु भविष्यतीत्यभिप्रायेणाह -- व्यवस्था इति
SK
यथा भोजनत्वाभेदे ऽपि स्वस्थातुर् अकर्तृभेदनिबन्धनं[५७३]व्यक्तिभेदम् आश्रित्य तत्र शक्तिभेदः समाधीयते, एवम् इहापि हिंसात्वेनाभेदे ऽपि रूपस्येयम् अङ्गहिंसा इयं बाह्यहिंसेति व्यक्तिभेदावगतेर् उपपन्नः शक्तिभेद इत्यभिप्रायेणाह -- रूपाभेद इति
SK
__________NOTES__________
SK
[५७३] व्यवस्थाभे (KHA)
SK
यदि त्व् अवान्तरभेदम् अनङ्गीकृत्य रूपाभेदमात्रेणैकफलत्वम् इष्यते, एवं सति सर्वलौकिकवैदिकक्रियाणां क्रियात्वाद् एकफलत्वं स्यात्. तत्रेदं स्वर्गफलम् इदं पुत्रफलम् इत्याद्यसङ्करो न सिध्यतीत्यभिप्रायेणाह -- तथापीति. आस्तां तावन्महासामान्येनैकत्वात् फलसङ्करो भवतीति. यजित्वाद्यवान्तरसामान्याभेदाद् अपि चित्रादीनां कर्मणां फलतुल्यता भवेद् इत्य् आह -- यजित्वेति
SK
यदि तु तत्र व्यवस्थावान्तरभेदाश्रयाभिधीयते, सेहापि समानेत्य् आह -- भेदाद् इति. ननु विहिता नामाङ्गहिंसा. तथापि किं नानर्थः. न विधिनानर्थफलेन न भवितव्यम् इति राजाज्ञा. अत आह -- विधीनाम् इति. अयम् अभिप्रायः -- नेयं राजाज्ञा. शब्दशक्तिर् एव. विधिर् हि कर्तव्यताबुद्धेर् हेतुः. इष्टाभ्युपायं च कर्तव्यतया लोको बुध्यते. अतो ऽवश्यम् एव साक्षाद् व्यवहितो[५७४]ऽपि वा विधेयानां पुरुषार्थः फलम् इत्य् अवसीयते. साक्षात् प्रधानानां, व्यवहितो ऽङ्गानाम्. तस्मान् नातो विधेर् अनर्थफलत्वम् अवसीयते. विधिबलाद् अवगम्यमानं विधीनां फलम् इत्य् आहेति. अपि च, अनर्थकर्यङ्गहिंसेति नेदं सान्दृष्टिकम्. न चानर्थसमभिव्याहारो ऽस्याः श्रूयते. अतः कथम् अनर्थसाधनम् इत्य् आह -- न चैष्व् इति. नन्व् अश्रूयमाणो ऽपि कलञ्जभक्षणादिवत् कल्पयिष्यते, अत आह -- निषेधाद् इति. तत्र निषेधः कल्पनायां कारणं, नासाव् इह सम्भवति. अभावाद् एव विधानदर्शनाद् इति
SK
__________NOTES__________
SK
[५७४] तो वा (KA)
SK
अपि चाङ्गहिंसानां पुरुषार्थत्वे सिद्धे कदाचिद् अनर्थो ऽपि फलतया कल्प्यते. न च तासां पुरुषार्थः फलम्. प्रकरणे पाठात्. प्रकरणविधिविनियोगेन क्रत्वर्थत्वाद् इत्यभिप्रायेणाह -- न चेति. किं नाम[५७५]तत् कल्प्यम् अत आह -- कर्मोपकार इति. यत् खलु प्रकरणस्थं, ततः प्रधानकर्मोपकार एव कल्प्यते दृष्टो ऽदृष्टो वा. यथावघातस्य व्रीहीणां वितुषीभावो विध्यपेक्षितो दृष्टः. अदृष्टो वा यथा प्रयाजादिजन्य इति
SK
__________NOTES__________
SK
[५७५] मातः क (GA)
SK
{१,१९१} अतो नात्रानर्थकल्पनावसरो ऽस्तीत्य् आह -- कल्पनेति. नाङ्गहिंसासु फलम् अपेक्षितं, क्रतूपकारेण निराकाङ्क्षत्वाद् इति भावः. क्रत्वर्थे ऽपि चायं विशेषः यद् अयं पशुसंस्कार एव, न तु प्रयाजादिवदाराद् उपकारो ऽङ्गहिंसा, तत्पुरस्सरं विशसनादिसंस्कारानुष्ठानात्. अत एव संज्ञपने पशुर् व्रीहिवत् प्रधानतया श्रुतः पशुं संज्ञपयतीति. तद् एतद् आह -- क्रत्वर्थ इति. सन्निपत्योपकारप्रदर्शनेन[५७६]क्रत्वर्थतैव बलीयसीति दर्शितं भवति. आराद् उपकारकत्वे यावान् क्लेशो भवेद् न च तावान् अप्य् अस्तीति
SK
__________NOTES__________
SK
[५७६] नेनैव क्र
SK
संस्कारत्वे ऽपि चास्यायं विशेषः यद् अयं दृष्टार्थ एवावघातादिवत्. न तु[५७७]प्रोक्षणादिवददृष्टार्थः, क्रत्वपेक्षितैकादशावदाननिष्पत्तेः. दैक्षे हि पशौ हृदयस्याग्रे ऽवद्यति. अथ जिह्वायाः. अथ वक्षसः इत्यादिभिर् एकादशावदानसाध्यो याग उक्तः. न चासति हिंसासंस्कारे पशोर् एकादशावदाननिष्पत्तिः सम्भवति. अतो दृष्टार्थत्वाद् अङ्गहिंसाया नानर्थकल्पनावसरो ऽस्तीत्यभिप्रायेणाह -- दृष्टेति. एवं तावज्ज्योतिष्टोमोपायांशस्था हिंसा नाधर्म इत्य् उक्तम्. ये चाभिचारयज्ञाः श्येनादयः, तत्राप्य् एकाहानां ज्योतिष्टोमप्रकृतित्वाच् चोदकप्राप्ताङ्गहिंसा नाधर्म इत्य् आह -- अभिचार इति
SK
__________NOTES__________
SK
[५७७] च (KA)
SK
अतो ऽनङ्गभूतायाम् एव फलांशस्थायां हिंसायाम् एतद् अनर्थत्वम् इत्य् उपसंहरति -- तस्माद् इति. ननु च फलांशस्थापि हिंसा श्येनाद्युद्देशेन विधीयमाणा[५७८]कथम् अनर्थः अत आह -- उद्देशाद् इति. अयम् अभिप्रायः -- नात्र श्येनोद्देशेन फलं विधीयते, फलत्वेन हिंसाया एवोद्देशात्. फलं ह्य् उद्दिश्य साधनं विधीयते, न तु विपर्ययः. ननूद्देश्ययोर् अपि देशकालयोर् विधानम्{१,१९२}इष्यत एव. सत्यम्. अन्यतस् तयोर् अप्राप्तेः. फले तु रागतः प्रवृत्तः पुरुषो न विधिना प्रवर्त्यत इत्य् उक्तम् एवेति
SK
__________NOTES__________
SK
[५७८] नत्वात् क (KA, GA)
SK
कथं पुनस् त्र्यंशभावनाविधाने विधेयाविधेयभेदः शक्यते[५७९]वक्तुम्. अत एव भावनान्तर्गतत्वाद्[५८०]अनर्थत्वाक्षेपो निदर्शितः. तत्रोत्तरम् आह -- भावनेति. अयम् अभिप्रायः -- विधिर् हि हंस इवोदकात् क्षीरं विविच्य प्राप्तपरिहारेणाप्राप्तं गृह्णाति. तथा च वक्ष्यति -- तद्गुणास् तु विधीयेरन्न् अविभागाद् विधानार्थे[५८१]न चेद् अन्येन शिष्टाः (१.४.९) इति. अतो विशिष्टभावनाविधाव् अपि साधनेतिकर्तव्यतामात्रपरत्वात् फलांशान् निवर्तत इति. अतः सिद्धं न स्वरूपेण श्येनो धर्मः. नाप्य् अधर्मः. फलस्यैव त्व् अनर्थानुबन्धित्वात् तद्द्वारेणानर्थ इत्य् उपचर्यत इत्य् उपसंहरति -- अत इति
SK
__________NOTES__________
SK
[५७९] कर्तुम् (GA) [५८०] द् अर्थाक्षेपो दर्शि [५८१] ने ऽर्थे (KA)
SK
ननु च विधीनां पुरुषार्थफलत्वात् श्येनस्य च विधिविषयत्वात् तद्बलेनार्थात्मकम् एव फलान्तरं विश्वजिदादिवत् किं न कल्प्यते. अतः स्वरूपेण धर्मो भविष्यतीत्य् आह -- निराकाङ्क्षस्येति. अयम् अर्थः -- भ्रातृव्यवधेनैकेन स्वर्गाद् अपि प्रियतरेण निराकाङ्क्षस्य श्येनस्य न फलान्तरकल्पना सम्भवति. भावनाकाङ्क्षा हि तत्कल्पनाबीजम्. एका च भावनैकेनैव भाव्येन निराकाङ्क्षेति न भाव्यान्तरसम्बन्धं लभते. तथा च वक्ष्यति -- एकं वा चोदनैकत्वात् (४.३.१४) इति. अतः सिद्धम्{१,१९३}अनर्थफलस्य तद्द्वारेणानर्थत्वम् इत्य् आह -- तस्माद् इति. किं पुनः कारणं, फलानर्थानुबन्धित्वात् श्येनो न धर्म इत्य् अत आह -- फलत इति. ईदृशे कर्माणि लोके धर्मशब्दः प्रसिद्ध इति[५८२]
SK
__________NOTES__________
SK
[५८२] ति भावः || (KA)
SK
अत्र चोदयति -- ननु चेति. अयम् अभिप्रायः -- किं पुनः कारणं स्वतो न धर्मत्वं श्येनादेः, नाप्य् अधर्मतेति. इष्टाभ्युपायो हि चोदनालक्षणो धर्मः. तथा श्येनः फलस्यानर्थानुबन्धित्वे ऽपि. अतो धर्म इत्य् एवायं वक्तव्य इति. अत्रोभयरूपरहितः श्येन इत्य् अभिप्रेत्य सम्प्रधारणाम् अवतारयति -- फलम् इति. स्थितं तावत् श्येनफलं हिंसा. हिंसा च न धर्म इति. श्येनादिस्वरूपम् इदानीं लोकप्रसिद्ध्यनुसारेणावधारयामः धर्मो ऽधर्मो वेति
SK
तत्रान्यतरनिर्धारणाय पक्षद्वयम् उपन्यस्यति -- यदीति द्वयेन. लोकप्रसिद्धिर् हि नः सर्वशब्दार्थावधारणे मूलम्. तद् असाव् एव निरूपणीया. तत्र यद्य् अनिष्टानुबन्धरहितेष्टाभ्युपायश् चोदनालक्षणो धर्म इति लोकेनोच्यते, ततः श्येनादीनाम् अधर्मत्वेन वर्जनं, परम्परयानर्थानुबन्धित्वात्. यदि त्व् अनादृत्य परम्परयानर्थानुबन्धित्वम् आहत्य प्रीतिफलं लौकिका धर्मशब्देनोपचरन्ति चोदनासमधिगम्यं, तथा सति श्येनो ऽपि तादृशत्वाद् धर्मो भवेत्. कार्याकार्यानपेक्षयेति. यद् एव हि प्रीतिमात्रानुबन्धि तत् कार्यम् इति विवेकिनो बुध्यन्ते, विपरीतम् अकार्यम् इति भावः. प्रसिद्धिविभागकथनेनैव चात्र निर्धारणम् उक्तम्. यथाप्रसिद्धि तावद् धर्मशब्दो ऽभ्युपगन्तव्य इति स्थितम्. प्रसिद्धिश् चानिष्टाननुबन्धीष्टसाधनविषयैव धर्मशब्दस्येति श्येनादिवर्जनम् एवावसीयत इति
SK
{१,१९४} नन्व् एवम् अधर्म एवानिष्टानुबन्धित्वात् श्येनः फलद्वारेण, अत आह -- यदीति. अयम् अभिप्रायः -- अधर्मपदप्रयोगो ऽपि लौकिकानां सम्प्रधारणीयः किंविषय इति. तद् यदि चोदनार्थो ऽपि साक्षाद् व्यवधानेन वाप्रीतिहेतुर् अधर्म इति प्रसिद्धः, ततः श्येनो ऽप्य् अधर्मः. अथ वेदविहिते नाधर्मशब्दम् अप्रीतिकरे ऽपि परम्परया लोकः प्रयुङ्क्ते, ततो नाधर्मः. न च वेदविहितगोचरो ऽधर्मशब्दप्रयोगो लौकिकानां दृष्ट इति नाधर्मः स्वरूपेण श्येनादय इति भावः
SK
यस् तु वदति -- विहिता नामांशद्वयगामिनी हिंसा. तथापि प्रतिबद्धलिङ्गदर्शनेन तस्यानर्थहेतुत्वम् अनुमास्यामहे. तथा हि हिंसात्वम् अनर्थत्वेन प्रतिबद्धं बाह्यहिंसास्व् अवगतं, तद् धि विहितास्व् अपि दृश्यमानम् अनर्थत्वम् अनुमापययतीति. तद् एतद् उपन्यस्य दूषयति -- यस् त्व् इति. अयं चागमबाधो ऽनुमाने प्रपञ्चयिष्यत इति
SK
आगमानादरे त्व् अनवस्था भवतीत्य् आह -- तम् इति
SK
नन्व् आगमानुसारेण क्रतुगतानाम् अपि हिंसानाम् अधर्मत्वम् अवगम्यते. तथा हि -- सन्ति हि केचन मन्त्रार्थवादे[५८३]तिहासादयः ये क्रतुवर्तिनीम् अपि हिंसां निन्दन्ति.[५८४]यथा जपस्तुतौ
SK
__________NOTES__________
SK
[५८३] दाः ये [५८४] त
SK
विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः
SK
इति हिंसा[५८५]ङ्गत्वेनैव विधियज्ञनिन्दा स्मर्यते. अत आह -- गीतेति. अस्यार्थः -- प्रत्यक्षो ऽत्र श्रुतिबाधः. क्रतौ विधानदर्शन्तात् अन्यत्र तीर्थेभ्यः इति च श्रुतेः.[५८६]
SK
__________NOTES__________
SK
[५८५] साकरत्वे (GA) [५८६] स्मृ (KA)
SK
{१,१९५} यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयम्भुवा |
SK
यज्ञा हि भूत्यै लोकस्य तस्माद् यज्ञे वधो ऽवधः ||
SK
इति[५८७]च. अन्यपरतयार्थवादो व्याख्येयः. यथा वक्ष्यति -- न हि निन्दा निन्द्यं निन्दितुं, किं तर्हि निन्दितादितरं प्रशंसितुम् इति
SK
__________NOTES__________
SK
[५८७] ति. अ (KA)
SK
अत्रापरं भाष्यं - नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुं चोदनालक्षणो धर्मः नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. भिद्येत हि तदा वाक्यम् इति. एवं वाक्यभेदपरिचोदनां कृत्वा परिहारभाष्यम् -- उच्यते. यत्र वाक्याद् एवार्थो ऽवगम्यते तत्रैवम्. तत् तु वैदिकेषु न सूत्रेषु. अन्यतो ऽवगते ऽर्थे सूत्रम् एवम् अर्थम् इत्य् अवगन्तव्यम् इति. तदाक्षिपति -- शिष्यान् इति. अस्यार्थः -- अन्यतोविदितवेदार्थेभ्यो जिज्ञासुभ्यः सूत्राणि जैमिनिना न प्रणीतानि. अतस् तानि तेषां वेदवाक्यतुल्यानि उभयं च वेदसूत्रात्मकं वाक्यभेदादिदोषाद् असमर्थम्. न चाशक्तम् अर्थप्रत्यायने प्रमाणम्. अतो न वेदसूत्रयोः कश्चिद् विशेष इति न सूत्रेष्व् इति भाष्योक्तम् अनुत्तरम् इति
SK
अत्र परिहारम् आह -- प्रागुक्तेति. अस्यार्थः -- सत्यम्. वाक्यभेदादिना सूत्राणाम् अप्य् अशक्तिः शिष्यांश् च प्रत्यविशेषः. किन् तु या पूर्वं सति सम्भव इति परिसंख्योक्ता, तस्याः फलम् एतद् भाष्यकारेण प्रतिपाद्यते. एवं हि न्यायाभासभ्रान्ताः शिष्या भाष्यकारेण शिक्षिताः यद् विवक्षितासम्भवे वाक्यभेदादिभिर् अपि सूत्राणि गमयितव्यानीति. तद् इहैव तावच् चोदनासूत्रे प्रदर्श्यते यद् वाक्यभेदेनापि चोदनासूत्रार्थो बोध्यत इति. अनयेति. भाष्योक्तया प्रमाणान्तरप्रतिपन्नार्थविषयतया युक्त्येत्य् अर्थः. एषेत्य् अपि च भाष्योक्तैव वाक्यभेदगतिः प्रत्यवमृश्यते. यथाह -- भिन्नयोर् एव वाक्ययोर्{१,१९६}इमाव् एकदेशाव् इति. तद् अनेन शिष्यान् प्रत्यविशेषे ऽपि व्याख्यातॄणाम् एव व्याख्याप्रकारो भाष्यकारेणोक्त इति दर्शितम्. व्याख्याकारा हि चिरपरिचितन्यायसामस्त्यस्मरणक्षमा न्यायबलेन वाक्यभेदादिभिर् अपि सूत्राणि व्याचक्षत इति
SK
यतश् च प्रमाणान्तरानुसारेण वाक्यभेदादिभिर् अपि सूत्रेष्व् अवगतिः सम्भवति, तस्माद् आवृत्त्या वा तन्त्रेण वेदं सूत्रं व्याख्येयम् इत्य् आह -- तस्माद् इति. आवृत्तौ तावत् सकलम् एव सूत्रं द्विः पठितव्यम्. तत्रैकस्य चोदनालक्षणो धर्म इत्य् अत्र तात्पर्यम्. अपरस्य चार्थो धर्म इत्य् अत्र. अन्यपरत्वे ऽन्यतरसम्बन्धो ऽनुवादः. सूत्रभेदेन चोभयविधानात् तत्सिद्धेर् उभयानुवादोपपत्तिः. तन्त्रं चोदनालक्षणादीनां त्रयाणाम् अन्यतमम्. तदुपरिष्टाद् वक्ष्यते. तस्मिन् पक्षे न वाक्यभेदः. तथा हि -- त्रिपदम् इदं सूत्रम्. पदत्रयस्यापि चेतरेतरसम्बद्धो ऽर्थो वाक्यार्थः. तद् यद् एव त्रयाणाम् उभयसन्धानार्थम्[५८८]आवर्त्यते तद् एव वाक्यं भिनत्ति. तन्त्रेण तूभयसम्बन्धे न वाक्यभेदः. सकृद्वचनात्. सकृदुक्तस्यैव योग्यतयोभयसम्बन्धे शक्तिभेदात्. तद् इह धर्मपदं वा तन्त्रोच्चरितम् उभाभ्यां सम्बध्यते. सिध्यति चोभयं चोदनालक्षणो धर्मो ऽर्थो धर्म इति च. मध्यपदं वाद्यन्ताभ्याम्. एवम् अपि चेष्टं सिध्यति अर्थो धर्मः स चोदनालक्षण इति. आद्यम् एव वोत्तराभ्याम्. चोदनालक्षणो ऽर्थः स एव च धर्म इति. इदम् एकम् एव वाक्यं त्रयाणाम् अन्यतमस्य तन्त्रेणोभयसम्बन्धाद् द्व्यर्थम् इत्य् अवगन्तव्यम्. आह च --
SK
__________NOTES__________
SK
[५८८] सम्बन्धार्थ
SK
चोदनालक्षणादीनां तन्त्रेणैकस्य सङ्गतौ[५८९]|
SK
__________NOTES__________
SK
[५८९] तेः (GA)
SK
द्वाभ्यां सहार्थवाचित्वाद् द्व्यर्थम् एकं भविष्यति ||
SK
इति
SK
भाष्यकारेण भिन्नयोर् एव वाक्ययोर् इमाव् एकदेशाव् इति वदता सूत्रद्वयम्{१,१९७}एवेदं दर्शितम्. तद् उपन्यस्यति -- एकदेशेति. अर्थो धर्म इत्य् एकं सूत्रम्, अपरं चोदनालक्षण इति. तेन चोदनालक्षणावयवेनानुमितेनानन्तरसूत्रस्थेन धर्मपदेनैकं निष्पद्यते चोदनालक्षणो धर्म इति. तद् इदम् उक्तम् -- एकदेशानुमानाद् इति. नन्व् अर्थो धर्म इति चोदनालक्षणाचोदनालक्षणयोर् अन्यतरस्या[५९०]नुपादानात् तदपेक्षायाम् अचोदनालक्षणो ऽप्य् उपतिष्ठमानः केन वार्यते. एवं चोदनालक्षणो धर्म इत्य् अत्राप्य् अनर्थप्रसङ्गो दर्शयितव्यः. अत आह -- इतरेतरेति. एताव् एव चोदनालक्षणार्थशब्दाव् इतरेतरसमीप्यात् परस्परं सूत्रद्वये ऽपि विशेषणत्वेन वाक्यशेषतया कल्प्येते. अतो नाचोदनालक्षणानर्थावयवकल्पनेति. अनुवादत्वेन चात्र चोदनालक्षणार्थावयवसम्बन्धो भिन्नयोः सूत्रयोर् दर्शयितव्यः, यदर्थो धर्म इत्य् एकसूत्रेणोक्तं तच्चोदनालक्षण इति, यच्चोदनालक्षणो धर्म इत्य् अत्रोक्तं तदर्थ इति
SK
__________NOTES__________
SK
[५९०] रानु
SK
अपरम् अपि अथवा अर्थस्य सतश् चोदनालक्षणस्य धर्मत्वम् इत्य् एकार्थम् एवेति भाष्यम्. तदाक्षिपति -- विशिष्टेत्य् एवान्तेन. अर्थविशेषणविशिष्टचोदनालक्षणानुवादेन धर्मविधानं दर्शितम्. एवम् अपि विशेषणविशेष्योभयपरत्वेन वाक्यं भिद्यत[५९१]एव, यथैकत्वविशिष्टग्रहानुवादेन सम्मार्गविधौ. अतः केन विशेषेणा[५९२]थवेति परिहारान्तरम् उक्तम् इति. यतश् चायम् अपरिहारः, तस्मात् पूर्वोक्तम् एव पदत्रयतन्त्रत्वं वाक्यभेदपरिचोदनायाम् उत्तरम् इत्य् आह -- इतीत्य् अर्थशब्दयोरन्तेन. एतच् च तन्त्रत्रयं व्याख्यातम् एव. संज्ञाशब्देन धर्मपदम् उच्यते.[५९३]तद् धि चोदनालक्षणस्यार्थस्यालौकिकी संज्ञा भूवादीनाम् इव{१,१९८}धातुशब्दः. पूर्वाचार्याणां मतेन चैतद् उक्तम्. यद्य् अवश्यं[५९४]वाक्यभेदः[५९५]परिहर्तव्यः, ततस् तन्त्रेण द्व्यर्थम् एकं वाक्यं व्याख्येयम्. न च प्रकारान्तरेण वाक्यभेदपरिचोदना परिहर्तुं शक्यत इति
SK
__________NOTES__________
SK
[५९१] द्येतैव (GA) [५९२] ण परि [५९३] ते. सा हि चो (KA) [५९४] श्यम् अवा [५९५] दो वक्तव्यः
SK
अत्र चोदयति -- धर्म इति. अयम् अभिप्रायः -- द्वे किलात्र वचनव्यक्ती. चोदनालक्षणानुवादेन धर्मविधानं विपरीतं वा. तत्राद्ये तावत् पक्षे चोदनालक्षणत्वस्यार्थत्वव्यभिचाराद् युक्तम् एव विशेषणम्. यदा तु सामान्यतः सिद्धधर्मानुवादेन प्रमाणम् अनेन कथ्यते, तदा अर्थत्वं प्राप्तम् एव, अर्थस्यैव श्रेयस्साधनस्य धर्मत्वप्रसिद्धेः. सर्वे हि वादिनः प्रीतिसाधनं धर्म इत्य् अत्राविप्रतिपन्नाः, तद्विशेषेष्व् एव विवादः. मीमांसका हीष्टापूर्तयोर् धर्मत्वम् इच्छन्ति. सङ्घट्टवन्दनादौ सौगताः. सामान्यं तु प्रीतिसाधनं धर्मस्वरूपं सर्ववादिनाम् अविवादसिद्धम् एव.[५९६]एषैव च प्राग् अपि सामान्यसिद्धिर् उक्ता. अत एव च विशेष[५९७]सिद्धिजिज्ञासायां प्रमाणविशेषविधानं, तत एव तत्सिद्धेः. वेदागमे हि प्रमाणे यागादयो धर्माः. बुद्धागमे तु चैत्य् अवन्दनादयः. को धर्म इत्य् अत्रापि विशेषजिज्ञासयैव प्रश्नः. वक्ष्यति च विशेषस्य च जिज्ञासेति. तस्माद् एषैवात्र वचनव्यक्तिर् मुख्या. अत एवाद्ये प्रथमम् उक्त्वा सत्सूत्रेण च प्रत्यक्षादिनिराकरणाद् एषैव वचनव्यक्तिः सूत्रकाराभिमता लक्ष्यते. यो धर्मः स चोदनालक्षणः इति प्रतिज्ञाते ऽन्यलक्षणनिराकरणं सङ्गच्छते, नान्यथा. तस्माद् एषैवात्र वचनव्यक्तिः. अस्यां चार्थाव्यभिचाराद् अर्थविशेषणम् अनर्थकम् इति
SK
__________NOTES__________
SK
[५९६] व. प्रा (KA) [५९७] षमात्रजि (GA)
SK
परिहरति -- चोदनेति. अयम् अभिप्रायः -- सत्यम्. एषैव चात्र वचनव्यक्तिः. इयम् एव तु नासत्यर्थविशेषणे सिध्यतीति फलवदर्थग्रहणम्.{१,१९९}असति हि तस्मिन् वचनव्यक्त्यन्तरसन्देहो बह्वेत्. एवं हि तदा सम्भाव्यते, यश् चोदनालक्षणः स धर्म इति. अत्र तु वक्ष्यमाणो दोषः. नित्यानुवादभूते त्व्[५९८]अर्थग्रहणे नैवं वचनव्यक्तिः सम्भवति, अर्थग्रहणस्य विध्यनुवादयोर् असम्भवात्. विधौ तावद् वाक्यभेदाद् असम्भवः. अनुवादस्य चाप्राप्तेः. न हि चोदनालक्षणम् अर्थसम्बन्धं न व्यभिचरति अनर्थस्यापि तल्लक्षितत्वात्. अतो नानुवादः. न चैतत् परित्यागेन वाक्यार्थत्वम् अनर्थकत्वाद् वाक्यैकदेशस्य. अतो यतरस्मिन् पक्षे ऽर्थपदान्वयो घटते, ततरः पक्षो ऽवधार्येत. धर्मानुवादेन प्रमाणविधौ सम्भवति नित्यानुवादभूतो ऽर्थशब्द इति स एव पक्षो निश्चीयते. अतो विध्यनुवादसूचनार्थ एवार्थशब्दो न विशेषणम्. विशेषणाद् विना चैतद् इति च स्पष्टम् एव सूत्रार्थ इति दर्शयिष्यति
SK
__________NOTES__________
SK
[५९८] प्य् अ (GA)
SK
स्याद् एतत्. सम्भावितवचनव्यक्तिपरिग्रहे को दोष[५९९]इति, अत आह -- तथेति. चोदनालक्षणानुवादेन धर्मविधावधर्माणाम् अपि निषेधचोदनयानर्थसाधनत्वेन लक्षितानां ब्रह्महत्यादीनां चोदनालक्षणत्वाद् धर्मत्वं भवेत्. न चैतद् इष्टम्. अतो न विधेयार्थम् अपि विधिफलम् अर्थवद्[६००]अर्थपदग्रहणम्. अतो नेयं वचनव्यक्तिः साधीयसीति
SK
__________NOTES__________
SK
[५९९] षः अ [६००] र्थग्र (KA)
SK
अतस् तत्परित्यागेनात्र सा[६०१]नाम वचोभङ्ग्याश्रयणीया, यस्याम् अर्थश् च धर्मतया न त्यज्यते, एकश् च वाक्यार्थो भवति. सा च धर्मानुवादेन प्रमाणविधिः, तस्यां हि धर्मस्यार्थत्वाव्यभिचाराद् अर्थो न त्यज्यते. एक एव वाक्यार्थो भवति, सामर्थ्यलक्ष्यत्वाद् अर्थस्य. इयं चार्थानुवादाद् एव सिध्यति, [६०२]नान्यथेत्य् उक्तम् एवेत्य् आह -- तस्माद् इति
SK
__________NOTES__________
SK
[६०१] साधनाम् एव [६०२] न त्व् अन्य (GA)
SK
{१,२००} यद्य् एषैवात्र वचनव्यक्तिः, कथं तर्हि भाष्यकारः उभयम् इहेत्यादिग्रन्थेनार्थपदस्य विशेषणतां दर्शयति. विस्पष्टं हि तत्रोक्तं तत्रानर्थो धर्म उक्तो मा भूद् इत्य् एवम् अर्थम् अर्थग्रहणम् इति, यद् अपि चेदम् अथवेत्यादि भाष्यम् आक्षिप्तं तस्याप्य् अद्ययावन् न किञ्चित् समाधानम् उपलभामहे, अत आह -- विशेषणाद् इति. अनेन भाष्यद्वयम् अपि समाहितम्. यत् तावदुभयम् इहेत्य् उक्तं तदर्थविशेषणाद् विनैवार्थसामर्थ्यकारितम् एव भाष्यकारेण कथितम्. किम् इदम् अर्थसामर्थ्यकारितम् इति. एतद् उक्तं भवति -- यद् धर्मानुवादेन प्रमाणविधानाद्[६०३]एवानर्थानां हिंसादीनाम् अधर्मत्वेन वर्जनं भवति, प्रमाणानुवादेन च धर्मविधौ तेषाम् अपि धर्मतापद्येत. तद् इहानर्थो धर्म उक्तो मा भूद् इत्येवमर्थम् अर्थग्रहणम् इति वदता वचनव्यक्तिविशेषपरिग्रहार्थो ऽर्थशब्द इति दर्शितम्. आक्षिप्तभाष्यसमाधाने ऽप्य् अयम् एव ग्रन्थो व्याख्येयः. नेदम् अथवेति शब्दसामर्थ्यकारितं भाष्यकारीयम् उत्तरम्. तथा हि वाक्यभेदो भवति. इह तु विनैव विशेषणाद् अर्थसामर्थ्यकारितम् एवेदम् उच्यते. तच् च वचनव्यक्तिविशेषाश्रयणेन दर्शितम्. न चार्थाद् आपद्यमानो वाक्यभेदम् आपादयति. अशब्दप्रमाणकत्वाद्, वाक्यभेदस्य च शब्ददोषत्वात्. अतो ऽथवेत्यादिना धर्मोद्देशेन प्रमाणविधानम् अत्र भाष्यकृता दर्शितम्. तत्र चार्थशब्दस्यानुवादत्वाद्[६०४]वाक्यभेदः सुपरिहर एव. यद् एतद् अनर्थानां हिंसादीनां वर्जनम्, इदं धर्मानुवादेन प्रमाणविधानवचनव्यक्तेर् एवार्थसामर्थ्यकारितं फलं भाष्यकारेण कथ्यत इत्य् अर्थ इति
SK
__________NOTES__________
SK
[६०३] धाव् अनर्था (GA) [६०४] दकत्वा (KA)
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
चोदनासूत्रं समाप्तम्
SK
०३ निमित्तसूत्र
SK
{१,२०१} तस्य निमित्तपरीष्टिर् इति सूत्रम्. तस्यायम् अर्थः -- तस्य धर्मस्य यन्निमित्तं प्रमाणं चोदनाभिधानं, तत्परीष्टिः कर्तव्येति. पाक्षिकी च परीष्टिपदरूपसिद्धिः. तथा हि इषु गतौ इत्य् अस्माद् धातोः इषेर् अनिच्छार्थस्य इति युचि विहिते परेर् वा इति क्तिन्युचोर् विकल्पः स्मर्यते. तेन युज्विधौ पर्येषणेति भवति. क्तिनि तु परीष्टिर् इति. अत्र वदन्ति -- किम् इदम् अनवसर एव परीक्षाप्रतिज्ञानम्. चोदनालक्षणो ऽर्थो धर्म इति हि प्रतिज्ञातम्. अतस् तदुपपादनसमर्थहेतुवचनावसरे किम् अपरं निमित्तपरीक्षा प्रतिज्ञायते. न हि नैयायिकाः शब्दो ऽनित्य इति प्रतिज्ञाय तद् एतत् परीक्षामहे इति परीक्षाम् अवतारयन्ति, अपि तर्हि सहसैव कृतकत्वाद् इति हेतुम् अभिदधति. तद् इहापि चोदनासूत्रप्रतिज्ञातावधारणद्वयोपपादनाय सदौत्पत्तिकसूत्राभ्यां हेतुवचनम् उचितम्. किम् अन्तरा परीक्षाप्रतिज्ञानेन. यदि मतं - परार्थप्रतिज्ञास्वयं न्यायः यत् प्रतिज्ञानन्तरम् एव हेत्वभिधानं, स्वप्रतिपत्तौ तु न हेतुधर्मा योजयितव्या इति. तन् न. न हि जैमिनेर् अपि स्वप्रतिपत्तये शास्त्रनिर्माणम्, अन्यतो विदितवेदार्थः शिष्यहितार्थाय सूत्राणि प्रणीतवान्. अतो ऽत्रापि परार्थैव प्रतिज्ञा. अथो[६०५]च्यते -- द्वेधा हि परः, व्युत्थिताव्युत्थितभेदात्. तत्र व्युत्थितप्रतिपादने प्रतिज्ञानन्तरम् एव हेतुर् अभिधीयत इति न्याय्यम्.[६०६]उत्तरे तु परीक्षापुरस्सरम् एव हेत्वभिधानेन प्रतिपाद्यन्त इति. तन् न. लक्षणान्तरेष्व् अपि प्रसङ्गात्. भेदादिलक्षणेष्व् अपि यथास्वम् अर्थं प्रतिज्ञाय परीक्षाप्रतिज्ञानम् आपद्यते. न च तथा दृश्यते. कश् चैष न्यायः यद् विप्रतिपन्नाय प्रतिज्ञानन्तरम् एव हेतुर् उच्यते न शिष्येभ्य इति. प्रत्युत तान् एव प्रति लाघवाय प्रतिज्ञानन्तरम् एव हेतुर् वक्तुम् उचितः, किम् अन्तरा व्याक्षेपकरी प्रतिज्ञा निक्षिप्यत इति यत्किञ्चिद् एतत्. तस्माद् अयम् अत्र समाधिः -- इहाद्येन सूत्रेण शास्त्रस्य प्रयोजनं प्रतिज्ञातम्. द्वितीयेन च समस्तवक्ष्यमाणतन्त्रार्थसंक्षेपप्रतिज्ञानम्. अनेन तु सुखग्रहणार्थम् आद्याध्यायार्थप्रतिज्ञानम्. अथातः शेषलक्षणम्.[६०७](३.१.१) अथ विशेषलक्षणम् (८.१.१) इतिवद् ऋषिणा प्रणीतम्.{१,२०२}एतद् उक्तं भवति -- इहाध्याये धर्मप्रमाणं परीक्षिष्यामह इति. यद्य् अपि चोदनासूत्रेणापि समस्ततन्त्रार्थसंक्षेपे क्रियमाणे प्रमाणलक्षणार्थो ऽपि चोदनैव प्रमाणम् एवेति प्रतिज्ञात्ः, तथापि सङ्कीर्णे प्रतिज्ञाते पुनर् अनेन निष्कृष्याद्याध्यायार्थः प्रतिज्ञायते. अनिष्कृष्यमाणे हि प्रतिज्ञासङ्करेण[६०८]न ज्ञायते कस्य प्रतिज्ञाभागस्य सदौत्पत्तिकसूत्राभ्यां हेतुर् अभिधीयत इति. बह्व् एव हि तत्र प्रतिज्ञातं धर्मस्वरूपादि. अतस् तत्रापि हेत्वभिधानम् इदम् इति कश्चिद् भ्राम्येत्. अतस् तद्भ्रमापनुत्तये स्वयम् एव निर्धारणं दर्शयति. यो ऽयं तन्त्रार्थः संक्षिप्यास्माभिः प्रतिज्ञातः, तस्मिन् व्याख्यास्यमाने निमित्तपरीक्षैव तावद् इहाध्याये वर्तिष्यते प्रमाणपुरस्सरत्वात् प्रमेयसिद्धेः. तद् इह तावच् चतुर्विधा परीक्षा वर्तिष्यते -- किं चोदनैव उतान्यद् एवेति नियमः, चोदना वान्यद् वेति विकल्पः, उभयं वेति समुच्चयः, न चोभयम् इत्य् उभयापलापः. आह च --
SK
__________NOTES__________
SK
[६०५] त्रो (GA) [६०६] यः. (KA) [६०७] म् इति (GA) [६०८] रे न (GA)
SK
निमित्तान्वेषणा चेह चतुर्धैव करिष्यते |
SK
चोदनैवान्यद् एवेति यद् वान्यच् चोदनापि वा ||
SK
अथवा चोदनान्यच् च न चान्यन् नापि चोदना |
SK
इति. तद् एते नियमविकल्पसमुच्चयोभयापलापैश् चत्वारः पक्षा भवन्ति. भवति च प्रमाणविकल्पः. यथाराद् अवस्थितम् अग्निं कदाचिल् लिङ्गाद् अवैति. कदाचिद् आप्तोपदेशात्. न च समुच्चये ऽन्यतरवैयर्थ्यम्, ईश्वरमहर्षयो हि प्रत्यक्षेण धर्मम् अवयन्ति आगमेनेतर इति प्रमातृभेदाद् उभयोपपत्तिः. भाष्यकारेण तु प्रदर्शनार्थं किं चोदनैव उतान्यद् अपीति दर्शितम्. परीक्षमाणस्य हि चतुर्धैव प्रतिभा जायते. तद् इह प्रत्यक्षसूत्रे तावत् प्रत्यक्षादिनिषेधेन प्रतिपक्षनियमविकल्पसमुच्चयाः प्रत्युक्ताः. उभयापलापस् तु चोदनाप्रामाण्यसमर्थनेनौत्पत्तिकसूत्रे निरसिष्यते तत् प्रमाणम् अनपेक्षत्वाद् इति. तद् अयं निमित्तपरीक्षासंक्षेपो भवति -- प्रत्यक्षादिव्युदासेन चोदनैवेत्य् अवधारणसिद्धः, अभावाशङ्कानिराकरणेन च प्रमाणम् एवेति, शब्दार्थसम्बन्धवाक्यरचनापौरुषेयत्वप्रतिपादनेन च पुरुषानुप्रवेशसम्भाविताप्रामाण्यव्युदासः, तद्भूताधिकरणेन{१,२०३}च वाक्यार्थसंविन्मूलोपपादनम्, उपरिष्टात् तु मन्त्रार्थवादप्रामाण्यप्रकारकथनं, स्मृतिपादेन च मन्वाद्याप्तस्मृताचरितागृह्यमाणकारणकाष्टका होलाकादिपदार्थानां मूलवेदसद्भावोपपादनं, नामधेयपादेन चोद्भिदादिनाम्नां गुणपराणाम् एव नामधेयतयैव क्रियोपयोगकथनम् इति कृत्स्न एवाध्याये धर्मस्य निमित्तपरीक्षेति सूक्तं तस्य निमित्तपरीष्टिर् इति.
SK
अत्र भाष्यम् उक्तीमदम् अस्माभिश् चोदना निमित्तं धर्मज्ञाने इति तत् प्रतिज्ञामात्रेणोक्तम् इत्यादि. तद् अयुक्तम्, सोपपत्तिकप्रतिज्ञाभिधानात्. तथा हि -- चोदना हि भूतम् इत्यादिना चोदनाप्रामाण्योपपत्तिर् उक्तैव, नान्यत् किञ्चनेन्द्रियम् इति चान्याप्रामाण्योपपत्तिः. अतः कथम् उच्यते तत् प्रतिज्ञामात्रेणोक्तम् इति, अत आह -- प्रतिज्ञेति सार्धेन. अस्यार्थः -- यद्य् अपि भाष्यकारेणानागतावेक्षणेन सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणा स्वपक्षस्य युक्तिः प्रतिज्ञाव्यतिरिक्ता दर्शिता, तथापि न सूत्रकारेण काचिद् उपपत्तिर् उक्तेति तन्मतानुसारेण प्रतिज्ञामात्राभिधानम् इति
SK
समर्थनान्तरम् आह -- वृत्तिकार इति. अस्यार्थः -- यत् तु चोदना हीत्यादिना भूताद्यर्थप्रकाशनसामर्थ्यं चोदनायाः कृतं, तत् प्रामाण्यद्वारमात्रम् एव कथितम्. पारमार्थिकी युक्तिर् उपरिष्टाद् वक्ष्यते सूत्रकारेणैव. अतो वक्ष्यमाणयुक्त्यधिकम् एव तत् प्रामाण्यसम्भावनामात्रम् अभिहितम्. सम्भावितो हि प्रतिज्ञायां पक्षो हेतुना साध्यते, न त्व् असम्भावित इति स्वाभिप्रायेणापि प्रतिज्ञामात्राभिधानोपपत्तिर् इति
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
निमित्तसूत्रं समाप्तम्
SK
०४ प्रत्यक्षसूत्र
SK
{१,२०४} अत्रानन्तरं परीष्टिसूत्रप्रतिज्ञातां निमित्तपरीक्षाम् अवतारयितुं सूत्रम् -- सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तं विध्यमानोपलम्भनत्वाद् इति. तद् इदं वृत्त्यन्तरे ऽनिमित्ताद् अवच्छिद्य तत् प्रत्यक्षम् इत्येवमन्तं लक्षणपरं व्याख्यातम्. तद् एतद् उपन्यस्य दूषयति -- वर्ण्यत इति. अस्यार्थः -- धर्मस्य निमित्तं परीक्षितव्यमिति हि प्रतिज्ञातम्. अनन्तरं च प्रत्यक्षस्य लक्षणम् उच्यमानं न पूर्वप्रतिज्ञया सङ्गच्छत इति
SK
न परमसङ्गतिः, अनुपयोगो ऽपीत्य् आह -- लषणस्येति. लोकप्रसिद्धप्रमाणव्यवहारिणो हि मीमांसकस्य किं तल्लक्षणकरणेनेति भावः. द्व्यंशा हि पूर्वप्रतिज्ञा चोदनैव प्रमाणं प्रमाणम् एव चोदनेति तन्त्रार्थसंक्षेपप्रतिज्ञानम्. पुनश् च परीष्टिसूत्रेण निष्कृष्याद्यलक्षणविषयतया. न चान्यतरांशप्रसाधनेनापि लक्षणाभिधानम् उपयुज्यत इति. यदि तु नैयायिकादिप्रस्थानम् अनुविदधता प्रत्यक्षस्य लक्षणं प्रणीयते, तद्वद् एव हि तत्पूर्वकं त्रिविधम् अनुमानम् इत्यादिवदनुमानादेर् अपि लक्षणप्रणयनम् आपतितम् इत्य् आह -- किमर्थम् इति
SK
स्याद् एतत्. अप्रमाणम् एवानुमानादि प्रत्यक्षाद् अन्यत्वात् तदाभासवद् इति तल्लक्षणानभिधानम् इति, तद् अयुक्तम् इत्य् आह -- न तावद् इति. अयम् अभिप्रायः -- यद् एव किञ्चित् तदप्रामाण्यसिद्धये प्रमाणम् उपन्यस्यते, तत् तेनैव बाध्यते. अपि चानुमा(?न/ना)प्रामाण्यसिद्धये ऽनुमानम् उपन्यस्यते इति स्ववाग्विरोधः. तद् अलं नाप्रत्यक्षं प्रमाणम् इति पाषण्डजल्पितेनेति.{१,२०५}स्याद् एतत् -- सम्भवैतिह्ययोर् इवानुमानागमयोः प्रत्यक्षान्तर्भावाद् इतरेषां लक्षणानभिधानम् इति, तन् न. लक्षणवैलक्षण्याद् इत्य् आह -- नापीति वक्तुमन्तेन. स्याद् एतत् -- लक्षणवैलक्षण्यम् एवासिद्धं, सर्वेषां सत्य् एवेन्द्रियार्थसन्निकर्षे जायमानत्वाद् इति. तन् न. न हि चक्षुषा सन्निकृष्टधूमो ऽप्य् अविदितास्मृतव्याप्तिर् अनुमिमानो वह्निम् उपल(?भ्य/भ)ते. अत इन्द्रियलिङ्गशब्दसादृश्या(न)न्यथासिद्धबुद्धिसमुपलम्भकप्रमाणाभावा एव यथाक्रमं प्रत्यक्षादिप्रमाणोदये साधनम् इति साधनभेदाल् लक्षणवैलक्षण्ये सति नान्योन्यान्तर्भावोपपत्तिः. तद् इदम् आह -- न चेति
SK
न च वाच्यं सर्वादौ प्रत्यक्षलक्षणाभिधानाद् एव तत्पूर्वकत्वेनेतराणि लक्षितानीति पृथग्लक्षणानभिधानम् इति, तत्पूर्वकस्मृत्यादीनाम् अप्रामाण्यदर्शनेनाभाससङ्करप्रसक्तेर् इत्य् आह -- न चापीति
SK
न च सामान्यातिदेशलक्षणम् इव विशेषातिदेशलक्षणं प्रत्यक्षलक्षणोक्तिर् अनुमानादीनां पारमार्थिमं लक्षणम् आक्षिपति, तेन विना तदुपपत्तेः. सामान्यं तु नानाक्षिप्तविशेषम् आत्मानं लभत इत्य् आक्षिपत्य् अर्थविशेषम्. तद् एतद् आह -- प्रत्यक्षेति
SK
तत्पूर्वकत्वसिद्ध्यभ्युपगमेन चास्माभिः पूर्वं[६०९]स्मृत्या व्यभिचार उक्तः. तद् अपि प्रत्यक्षलक्षणोक्तेर् अनन्यथासिद्ध्यभावान् न सिध्यतीत्य् आह -- तदतद् इति. तच् चातच् च तदतदी. ते पूर्वे यस्येति बहुव्रीहिः. तद् अयम् अर्थः -- तद् वा प्रत्यक्षम् अन्यद् वा पूर्वम् अनुमानादीनाम् इति न प्रत्यक्षलक्षणाद् अवगम्यत इति.{१,२०६}यदि तु विनैव कारणेन प्रत्यक्षलक्षणोक्तेर् इतरेषां तत्पूर्वकत्वम् आश्रीयते, हन्त अतत्पूर्वकत्वम् अपि वाङ्मात्रेण शक्यम् आश्रयितुम् इत्य् आह -- तदुक्तेर् इति. तदपूर्वं यस्येति विग्रहो दर्शयितव्य इति
SK
__________NOTES__________
SK
[६०९] र्व (GA)
SK
सिध्यतु वा प्रत्यक्षलक्षणोक्तेर् अनुमानादीनां तत्पूर्वकत्वम्. यस् त्व् एषाम् अवान्तरलक्षणभेदः स्वरूपं च, संख्या चेयन्ति प्रमाणानीति, तत् सर्वं न सिध्यतीत्य् आह -- न चेति
SK
स्यान् मतं - प्रसिद्धान्य् एवानुमानादीनि प्रमाणानि, किम् अमीषां लक्षणकरणेनेति. तत् प्रत्यक्षे ऽपि समानम् इत्य् आह -- प्रसिद्धत्वाद् इति. अतो बहुषु प्रमाणेषु यद् एकलक्षणकरणं तद् अन्यपरिसंख्यार्थम् एव स्यात्. तद् एतद् आह -- तेनान्येति सूत्रमन्तेन. अभिमतप्रमाणपरिसंख्यानं चायुक्तम् इति भावः. मूढेन वा जैमिनिना प्रत्यक्षमात्रं लक्षितम् इत्य् अभ्युपगन्तव्यम् आपद्येत. एवं चात्मीयम् अज्ञानम् ऋषेर् आरोपितं भवेद् इत्य् आह -- मूढेन वेति नान्तेन. अपि च वाक्यभेदो नामागत्या क्वचिद् आश्रीयते यथाग्नयश् च स्वकालत्वात् इत्य् अत्र वक्ष्यते. न चेह सूत्रे किञ्चिद् अनुपपन्नं दृश्यते यद् भित्त्वा व्याख्यायत इत्य् आह -- सम्भवतीति
SK
लक्षणम् अप्य् एतद् अतिव्याप्तेर् अयुक्तम् इत्य् आह -- न चापीति. अतिव्याप्तिम् एव दर्शयति -- तदभासेष्व् इति. सर्वे हि मृगतृष्णादिविभ्रमाः{१,२०७}सूर्यरश्मितप्तोषरादिसंयुक्तनयनजन्याः. संशयाश् च स्थाण्वादिसंयुक्तनयनजन्मान इति प्रत्यक्षताम् अश्नुवीरन्. सेयम् अतिव्याप्तिर् इति. अल्पं चेदम् अस्माभिर् उक्तं तदाभासेषु तुल्यत्वाद् इति. एकं तु स्वप्नज्ञानं वर्जयित्वा सकलप्रमाणाप्रमाणसजातीयविजातीयज्ञानमात्रसाधारणम् इदं लक्षणम् इत्य् आह -- स्वप्नेति. लिङ्गशब्दसदृशादिसम्बद्धेष्व् एवेन्द्रियेष्व् अनुमानादिप्रमाणपञ्चकोत्पत्तिर् इति भावः
SK
स्वप्नज्ञानवर्जने कारणम् आह -- तद्धीति. बाह्येन्द्रियसम्प्रयोगाभावाभिप्रायेण चेदम् उक्तम्. स्वप्ने त्व् आत्ममनोदेहैः सङ्गतिर् अस्त्येवेति तद् अप्य् अनेन लक्षणेन व्याप्यत इति दर्शयितव्यम् इति. स्वप्नज्ञानातिरिक्तं तु यत् किञ्चिद् भ्रान्त्यादि, तत् केनचित् सम्प्रयोगे सत्य् एव जायत इति प्रत्यक्षम् आपद्येतेत्य् आह -- केनचिद् इति. यथा केनचित् सम्प्रयोगे भ्रान्त्यादिर् भवति, तथा पूर्वम् एवास्माभिर् विवृतम्. आदिशब्देन प्रमाणसंशययोर् उपादानम् इति
SK
ननु केनचित् सम्प्रयोगमात्रं न प्रत्यक्षकारणम् अभिप्रेतम्. अपि तर्हि ग्राह्येण. न च भ्रान्त्यादयो ग्राह्यसंयुक्तनयनस्य जायन्ते. किं तर्हि. अन्यसंयुक्तेन्द्रियस्यान्यार्थविषयाः. न चेदं ग्राह्यविशेषणम् अस्माभिर् एव केवलम् आश्रितम्. अपि तु वृत्तिकारेणापि प्रत्यक्षलक्षणपरं सूत्रं व्याचक्षाणेन. तन्मतं च भवद्भिर् उपरिष्टाद् वक्ष्यत एवेति नावयोर् विशेषम् उपलभामहे, अत आह -- ग्राह्येणेति. अयम् अभिप्रायः -- सत्यम् अभिमतं विशेषणं भवतो ऽपि. तत् त्व् अनुपात्तं न लभ्यते. वृत्तिकारमते तु व्यत्यस्तेन तद्वृत्तेन तदुपादास्यते.
SK
{१,२०८} यदाभासं हि विज्ञानं तत्संयोगे तद् इष्यते |
SK
इति वक्ष्यते. अतो भवन्मते ग्राह्यविशेषणानुपादानाद् ग्राह्यसम्प्रयोगजम् अन्यसम्प्रयोगजं वा ज्ञानं प्रत्यक्षम् आपद्येत. अतो ऽस्ति महान् वक्ष्यमाणेन विशेष इति
SK
यत एव यथावस्थितम् इदं सूत्रं न प्रत्यक्षं लक्षयितुं क्षमते, अत एव वृत्तिकारेणापि प्रासङ्गिकलक्षणकरणे व्यत्ययेन पठितम् इत्य् आह -- असामर्थ्यं चेति
SK
प्रकृतम् अतिव्यापकत्वं लक्षणस्योपसंहरति -- तेनेति
SK
पर इदानीं सत्सम्प्रयोगविशेषणोपादानसामर्थ्याद् एव ग्राह्यविशेषणाक्षेपं मन्वानः प्रत्यवतिष्ठते, तदाह -- सत्सम्प्रयोगनिर्देश इति. एवं हि मन्यते --
SK
सम्भवव्यभिचारौ हि विशेषणकराव् उभौ तद् यदि सम्प्रयोगमात्रजं ज्ञानं सूत्रकारस्याभिमतम् अभविष्यत्, तदा विशेषणोपादानम् अनर्थकम् आपत्स्य(?ते/त.) न ह्य् असम्प्रयोगजं प्रमाणम् अप्रमाणं वा ज्ञानम् अस्ति. अतो विशेषणोपादानसामर्थ्याद् एव ग्राह्यविशेषणम् अवगम्यते. अतो न किञ्चिद् दोक्ष्यतीति. एतद् एव[६१०]दूषयति -- एतद् एव हीति. एवं हि मन्यते -- नैवंविधेनोत्तरेण व्युत्थितो बोधयितुं शक्यते. तस्य ह्य् एतद् एव प्रतिपाद्यं यत् त्वन्मते[६११]विशेषणानर्थक्यं, लक्षणस्य चातिव्याप्त्यादिभिर् असिद्धिर् इति
SK
__________NOTES__________
SK
[६१०] द् अपि दू [६११] ते अवयवानामानर्थ (GA)
SK
उपेत्य वा ब्रूम इत्य् आह -- स्वप्नादीनाम् इति. उक्तम् एतद्{१,२०९}बाह्येन्द्रियव्यापारादिनिरपेक्षं स्वप्नज्ञानम् इति तन्मात्रं वर्जयित्वा सर्वम् एव प्रत्यक्षं प्राप्नुयाद् इति. आदिशब्देन चादृष्टमात्रोद्बोधितसंस्कारकारणिका स्मृतिर् अभिप्रेतेति. तस्माद् अनुपात्तम् एवात्र[६१२]समग्रं प्रत्यक्षलक्षणम् इति न तद् विधातुम् अनुवदितुं वा शक्यम् इत्य् आह -- तस्माद् इति. यत् प्रत्यक्षं तद् एवंलक्षणकम्[६१३]इति लक्षणविधिः. यद् एवंलक्षणकं[६१४]तत् प्रत्यक्षम् इति लक्षणानुवादः. न चानुक्तो ऽर्थो विध्यनुवादभाग् भवति, उभयोर् अपि साधारणत्वाद् अभिधानस्येति
SK
__________NOTES__________
SK
[६१२] व स [६१३] णम् इ
SK
[६१४] णं त (GA)
SK
एवं लक्षणपरतां प्रत्याख्यायानभिमतवचनव्यक्तिनिराकरणपुरस्सरम् अभिमतां सूत्रस्य वचोभङ्गिम् आह -- तेनेति द्वाभ्याम्. एतद् उक्तं भवति -- यद् एवंलक्षणकं तत् प्रत्यक्षम् इति नैष सूत्रार्थः. किं तर्हि. यल्लोकप्रसिद्धं प्रत्यक्षं तस्य सत्सम्प्रयोगजत्वं नाम धर्मो ऽस्ति. तद्धर्मकत्वाच् च विद्यमानोपलम्भनत्वं भवति. ततश् च भविष्यत्य् अविद्यमाने धर्मे ऽनिमित्ततेति
SK
ननु शाबरे ऽपि प्रत्यक्षम् अनिमित्तम्, एवं लक्षणकं हि तद् इत्य् उच्यते. तदलक्षणपरत्वे सूत्रस्यानुपपन्नम् अत आह -- एवम् इति. अयम् अभिप्रायः -- शाबरा अपि ये लोकप्रसिद्धलक्षणानुवादेनानिमित्तत्वं विदधति तान् अपि न मृष्यामहे, सम्पूर्णलक्षणाभिधाने सूत्रस्याशक्तेः. अतो लक्षणोक्तिर् इह लिङ्गविवक्षयैव. यथा धूमो लक्षणम् अग्नेः, एवं विद्यमानोपलम्भनत्वम् अनिमित्तत्वस्य. लक्ष्यते हि तत् तेनेति भाष्यकारस्याभिमतम् इति
SK
{१,२१०} यल् लिङ्गं यस्य च, तदुभयम् अपि व्यनक्ति -- यत इति. विद्यमानोपलम्भनत्वं नाम धर्मो लिङ्गम्. अनिमित्तता तु लिङ्गि. यदि तु तल्लिङ्गम् असिद्धम् इति कश्चिद् ब्रूयात्, तं प्रति सत्सम्प्रयोगजत्वहेत्वन्तरप्रसिद्धेन तेनानिमित्तताधिगन्तव्येति प्रसिद्धेनेत्य् उक्तम् इति
SK
कुतः पुनर् हेत्वन्तरस्यैव प्रसिद्धिः, अत आह -- प्रत्यक्षत्वम् इति. एतद् उक्तं भवति -- त्रय एते प्रयोगाः -- प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात्. विद्यमानोपलम्भनत्वं च सत्सम्प्रयोगजत्वात्. सत्सम्प्रयोगजत्वं च प्रत्यक्षत्वात्. अत्र च विद्यमानोपलम्भनत्वस्य व्यक्तम् एव पञ्चम्या हेतुत्वम् उपात्तम्. इतरयोस् तूपादानेनैव हेतुत्वं सूत्रितम् इति द्रष्टव्यम् इति. अयं च प्रत्यक्षं यज्जने सिद्धम् इत्य् अस्यैव प्रपञ्चो वेदितव्यः. तथा हि -- तत्रैव विद्यमानोपलम्भनत्वाद् अनिमित्तत्वम्, एवंधर्मकत्वोपात्तसत्सम्प्रयोगजत्वाद् विद्यमानोपलम्भनत्वं, प्रत्यक्षं यज्जन इति च प्रत्यक्षत्वाद् एवंधर्मकत्वम् उक्तम्. इदं हि तत्राकूतं प्रत्यक्षं सदेवंधर्मकं भवतीति. इदं त्व् इह वक्तव्यम्. किम् अनया प्रयोगप्रपञ्चरचनया. विमतिपदास्पदं हि प्रत्यक्षम् अनिमितं प्रत्यक्षत्वाद् इत्य् एतावतापीष्टं सिध्यत्य् एव. तत् तु शुष्कतर्कहेतोर् उद्भावकत्वान् न तथाश्रितम् इति समाधातव्यम्. एवं हि श्रुतिसाधारण्यमात्रेणानिमित्तत्वम् उक्तम् इति मन्वीरन्. न च श्रुतिसामान्यमात्रेणैव सर्वसाधर्म्यं भवति. न हि भवति गोपदास् पदं वाग् इति विषाणवती. विद्यमानोपलम्भनत्वाद् अनिमित्तत्वम् उच्यमानं चित्तं भावयति. कथं च[६१५]विद्यमानोपलम्भनम् अनागते निमित्तं भवति. कथं च सत्सम्प्रयोगजम् अविद्यमानोपलम्भनम्. वर्तमानसम्प्रयोगजं हि सत्सम्प्रयोगजम् अभिधीयते, सच्छब्दस्य वर्तमानवचनत्वात्. न चानागतेन धर्मेण वर्तमानः सम्प्रयोगः सम्भवति. सम्बन्धिद्वयाधारो हि सम्बन्धः. नासाव् अन्यतरस्मिन्न् अवर्तमाने वर्तत इति युक्तम् अभिधातुम्. एवं प्रत्यक्षशब्दो ऽपि प्रत्युत्पन्नेन्द्रियसम्प्रयोगाधीनवृत्तिर् नावर्तमानसम्प्रयोगजे वर्तितुम् अर्हतीति युक्तं क्रमाभिधानम्. प्रपञ्चरूचयश् च मीमांसका इति युक्तं प्रपञ्चाभिधानम् ||
SK
__________NOTES__________
SK
[६१५] हि (GA)
SK
{१,२११} इदं तु वाच्यम् -- अनैकान्तिकं सत्सम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे. सत्य् एव हि नदीपूरनयनसन्निकर्षे अतीता[६१६]दिवृष्टिविज्ञानं भवति. वर्तमान एव च मेघचक्षुस्सन्निकर्षो भविष्यद्वृष्टिविषयं विज्ञानं जनयति. अतो नायम् एकान्तः यत् सत्सम्प्रयोगजं ज्ञानं विद्यमानोपलम्भनम् इति. अपि च अपरोक्षनिर्भासम् अपि ज्ञानं वर्तमानसम्प्रयोगजम् अविद्यमानविषयं दृष्टम्. भवति हि वर्तमाने शुक्तिनयनसन्निकर्षे ऽतीतानागतव्यवहितरजतावग्रहः. उक्तं च भवद्भिर् अपि भवदासदूषणावसरे सकलप्रमाणाप्रमाणज्ञानसाधारण्यं सत्सम्प्रयोगजत्वस्य. स्यान् मतम् -- न तावदतीतानागतगोचरम् अनुमानं सत्सम्प्रयोगेण जन्यते, अविदितास्मृतव्याप्तेर् अभावात्. अस्ति हि तस्यापि नदीपूरजलदचक्षुस्सन्निकर्षः. न चातीतानागतवृष्टिपरिचयो भवति. शुक्तिरजतवेदने ऽपि पुरोवर्तिद्रव्यग्रहण एव सन्निकर्षः कारणम्. रजतानुभवस् तु दोषसाहाय्यात् प्राचीनज्ञानजन्मनः संस्काराद् यत्कारणं सन्निकृष्यते खल्व् अस्य नानार्थैर् इन्द्रियम्. न चासत्सु दोषेष्व् अविद्यमानप्रकाशनम् उपकल्पयति. अतो विषयादिदोषान्वयव्यतिरेकानुविधायिनो विभ्रमास् तम् एव स्वात्मनि कारणीकारयन्तीति. तन् न. कारणकारणस्यापि कारणत्वानपायात्. शुक्ति[६१७]नयनसन्निकर्ष एव हि संस्कारोद्बोधे कारणं भ्रान्तौ. अनुमाने च लिङ्गसन्निकर्षो व्याप्तिस्मरणे. अतः शक्यं तदुभयम् अपि परम्परया सत्सम्प्रयोगजम् इति वक्तुम्. अविशेषितं चेह सत्सम्प्रयोगजत्वमात्रं हेतुर् उक्तः. अतो दुष्परिहरम् अनैकान्तिकत्वं तादृशस्य.
SK
__________NOTES__________
SK
[६१६] तवृ (GA) [६१७] क्तिस
SK
अत्रोच्यते -- उक्तम् इदं लोकप्रसिद्धस्य प्रत्यक्षस्यायं धर्मः यत् सत्सम्प्रयोगजत्वं नाम विद्यमानोपलम्भनत्वसिद्धौ हेतुर् उक्तः. लोके च ग्राह्येणैव सति सम्प्रयोगे प्रत्यक्षम् इति सिद्धम्. न ह्य्[६१८]अन्यसम्प्रयुक्तचक्षुषो ऽन्यत् प्रत्यक्षम् इति दृष्टम्. तद् इह ग्राह्येणैव वर्तमानसम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे हेतुर् उक्तः. न च तद् अनुमानादिषु सम्भवति. न हि तत्र ग्राह्येण वृष्ट्यादिनेन्द्रियसन्निकर्षो वर्तते. लक्षणपक्षे तु यावच्छ्रुतमात्रपरतन्त्रत्वाद् आपद्येतैव भ्रान्त्यादि प्रत्यक्षम्. तत्रापि तु लोकपारतन्त्र्ये वृथा लक्षण[६१९]करणम् इति. ननु प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वाद् इत्य् अत्र को दृष्टान्तः.{१,२१२}यदि प्रत्यक्षम् एव, तन् न. पक्षसपक्षयोर् अभेदापातात्. तच् चायुक्तं सिद्धसाध्ययोर् भेदात्. साध्यो हि पक्षः सिद्धश् च सपक्षः. न चैकम् एव सिद्धसाध्यस्वभावम् इत्य् उपपद्यते. सिद्धं चास्मदादिप्रत्यक्षस्य धर्मे ऽनिमित्तत्वं, किं[६२०]तत्साधनेन. अत आह -- अस्मदादाव् इति. अयम् अभिप्रायः -- प्रत्यक्षविशेषं पक्षीकृत्य प्रत्यक्षान्तरं सपक्षीक्रियते इति न पक्षसपक्षयोर् एकता. नापि सिद्धसाध्यतेति
SK
__________NOTES__________
SK
[६१८] न्यत् सम्प्रयुक्तम् अन्यत् प्र (KA) [६१९] णम् इति (GA) [६२०] तत्र सा (GA)
SK
एवं स्वमतेन सूत्रं व्याख्यायेदानीं परपक्षोक्तान् दोषान् इह परिहरति -- प्रकृतेनेति. परपक्षे हि प्रकृतासङ्गतिर् उक्ता. सेह नास्ति. चोदनैव प्रमाणम् इति हि प्रतिज्ञातम्. तच् च प्रत्यक्षानिमित्तत्वप्रतिपादनेनैव[६२१] शेषाणाम् अप्य् अनुमानादीनाम् अप्रामाण्यदर्शनेनावधारितरूपं सिध्यतीति. कथं पुनः प्रत्यक्षानिमित्तत्वे सत्यनुमानादीनाम् अप्य् अनिमित्तत्वम्. न हि प्रत्यक्षम् अनागतातिवृत्तयोर् असमर्थम् इत्यनुमानेनापि[६२२]तथा भवितव्यम्. मेघोन्नतिनदीपूराभ्याम् अनागतातिवृत्ताया वृष्टेर् अननुमानप्रसङ्गाद् अत आह -- तद् इति. अयम् अभिप्रायः -- व्याप्तिसंवेदनाधीनजन्मत्वाद् अनुमानस्य नित्यपरोक्षेण च धर्मेण व्याप्तिसंवेदनासम्भवाद् अनुमानोदयाभावः. न च वृष्ट्यादौ प्रसङ्गः. तेषां दृष्टपूर्वकत्वेन व्याप्तिसंवेदनोपपत्तेः. आदिशब्देन धर्मसादृश्यम् उपादत्ते. एतच् चोपरिष्टात् प्रपञ्चयिष्यत एवेति
SK
__________NOTES__________
SK
[६२१] न शे (KA) [६२२] पि भ (GA)
SK
नन्व् एवम् अपि प्रत्यक्षवदितरेषाम् अप्य् अनिमित्तत्वं किं सूत्रैर् न निबद्धम् अत आह -- शक्यम् इति. एकलक्षणकरणे हीतरलक्षणासिद्धेः सर्वेषां लक्षणकरणम् आपादितम्. अनिमित्तत्वे तु प्रत्यक्षस्योक्ते तत्पूर्वकत्वाद् इतरेषाम् अप्य्{१,२१३}अनिमित्तत्वं शक्यावगमम् इति न पृथङ् निबध्यते. यथा वक्ष्यति -- प्रत्यक्षद्वारत्वाद् अनुमानादीनाम्[६२३]अप्य् अकारणत्वम् इति. लक्षणानुपयोगे[६२४]ऽपि यः पर्यनुयोगो दत्तः, सो ऽप्य् अत्र लक्षणानभ्युपगमाद् एव नास्तीत्य् आह -- न चेति
SK
__________NOTES__________
SK
[६२३] म् अका [६२४] गेनापि (KA)
SK
तथा ग्राह्यविशेषणानुपादानाद् अनुमानाद्यनुपसङ्ग्रहाच् च न्यूनं लक्षणं, सर्वसंविदां च सत्सम्प्रयोगेणाव्यभिचारात् सत्सम्प्रयोगनिर्देशो ऽतिरिच्यत इत्याद्य् अपि यद् उक्तं तद् अप्य् अत्र नाशङ्क्यत इत्य् आह -- न चेति. लक्षणकरणस्य हि न्यूनातिरेकादयो दोषाः नालक्षणे प्रसजन्तीति. एतद् ध्य् अत्र सर्वथा प्रतिपाद्यं यल्लोकप्रसिद्धं प्रत्यक्षं तद् एवंधर्मकम् इति. सम्पूर्णं तु प्रत्यक्षस्य स्वरूपम् अनेनाभिधीयतां मा वा. न नस् तत्र तात्पर्यम्. अतश् चान्यपरत्वात् सूत्रस्य लक्षणपक्षोक्ता मृगतृष्णादिसंविदाम् अपि प्रत्यक्षता नापद्यते इत्य् आह -- सर्वथेति
SK
ननु यदि लोकप्रसिद्धधर्मोपदर्शनेनानिमित्तत्वमात्रम् अत्र साध्यम्, एवं तर्हि प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वाद् इत्य् एतावद् एव वक्तव्यम्. किं सत्सम्प्रयोगजत्वाद्युपन्यासेन, अत आह -- अतीतेति सार्धद्वयेन. अयम् अर्थः -- सत्यम् एतावताप्य् अनिमित्तता प्रतिपादितैव.[६२५]किन् तु विद्यमानोपलम्भनत्वम् एवासिद्धं योगिनां मुक्तात्मनां चातीतानागतादिविषयज्ञानोत्पत्तेर् इति ये मन्यन्ते, तान् प्रति हेतुसिद्ध्यर्थं सत्सम्प्रयोगजत्वम् अपि हेत्वन्तरम् उपन्यस्तं, न पुनः प्रत्यक्षस्वरूपविवक्षया. तथा विद्यमानोपलम्भनत्वाद् इति हेतुम् अभिदधता अविद्यमानो[६२६]भविष्यद्धर्मो भविष्यत्त्वाद् एव न प्रत्यक्षेणानुभूयत इति यो हेतुर् अन्तर्णीतः, तस्यापि योगिम् उक्तात्मनां ग्राह्यैर् अर्थान्तरैर् भविष्यद्भिर् व्यभिचारिता मा भूद् इत्य् एतद् अर्थम् अपि सत्सम्प्रयोगजत्वस्योपादानम्. एतद् ध्य्{१,२१४}अनेनोच्यते -- सर्वम् एव प्रत्यक्षं सत्य् एवेन्द्रियसम्प्रयोगे जायते. अतो न किञ्चिद् भविष्यद्विषयम् इति नास्ति व्यभिचारः. असिद्धताव्यभिचारिते समाहृत्य मा भूताम् इति द्विवचनाभिधानम् इति.
SK
__________NOTES__________
SK
[६२५] ता भवति. कि [६२६] नो धर्मो (GA)
SK
इदं त्व् इह वक्तव्यं - निराकृतम् एव अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनाद् इत्य् अत्र योगिप्रत्यक्षस्यानागतादिविषयत्वम्. अत्र किं पुनर् उपन्यासेनेति. तत्रैके वदन्ति -- तत्र हि वचनादृते पुरुषाणाम् अतीन्द्रियानुभवशक्तिर् निराकृता. अत्र पुनर्वचनाद् एव प्रतीत्य चिरं भावयतो धर्माधर्मौ प्रत्यक्षौ भविष्यत इति प्रत्यवस्थानं निराक्रियत इति. तद् अयुक्तम्. सर्वं हि तदनागतावेक्षणेन भाष्यवार्त्तिककाराभ्याम् उक्तम्, इहैव सूत्रकारेण स्वयम् उक्तत्वात्. न चैष परेषाम् अपि सिद्धान्तः यद् अकस्माद् एव बुद्धस्य[६२७]वान्यस्य वा तद्भूमिम् अधिरूढस्याजातातिवृत्तप्रत्युत्पन्नसूक्ष्मव्यवहितविप्रकृष्टादयः साक्षाद् भावा भासन्त इति. अपि तर्हि आगमाद् एव सामान्यतो विदितान् धर्मांश् चिरं भावयतः स्फुटम् अविकल्पकाश् च प्रकाशन्त इति. भावनाबलजम् एव ज्ञानं दिव्यं चक्षुर् इत्य् आचक्षते. यत् तु भौतिकेनैव चक्षुषा सर्वम् अपरोक्षीक्रियत इति, तदतिस्थवीयः. प्रौढिप्रदर्शनपरतया तैर् उक्तम्. तादृशम् अपि चात्रैव निराकार्यम्, इहैव सूत्रकारेण निराकृतत्वात्. तस्माद् अत्रत्यम् एवानागतावेक्षणेन तत्रोक्तम् इत्य् उक्तम् एव. ननु च पूर्वपूर्वहेत्वसिद्ध्याशङ्कयोत्तरोत्तरहेतुप्रदर्शनम् इति यतो ऽस्ति तत्र धर्मो ऽयम् इत्यादिना प्रत्यक्षत्वमदोहेतुर् इत्य् एवमन्तेनोक्तम् इति गतार्थम् इदम्.
SK
__________NOTES__________
SK
[६२७] स्यान्य (GA)
SK
अत्रोच्यते -- प्रत्यवस्थानबीजम् इदानीं परेषाम् अभिधीयते. अविद्यमानोपलम्भनम् एव हि योगजधर्मबलेन योगिनां प्रत्यक्षम् इति हि ते प्रतिपन्नाः. अत एव अतीतानागते ऽप्य् अर्थे इत्यादिना हेत्वसिद्धिबीजम् उपदर्शितम्. पूर्वं त्व् असिद्ध्याशङ्कया हेतुक्रमाश्रयणम् इत्य् एतावद् एवोक्तम्. कथम् असिद्धिर् इत्य् अत्र न किञ्चिद् उक्तम्. योग्यर्थम् अभिधीयते इत्य् अत्रापि योगिनाम् अतिशयविशेषो ऽन्तर्णीतः. स एव अतीतानागतेत्यादिना प्रकटीकृतः. कः{१,२१५}पुनरतीतानागतादिविषयत्वे प्रत्यक्षस्य तेषाम् अभिप्रायः. श्रूयताम्. एवं हि मन्यन्ते -- यद् विद्यमानोपलम्भनम् अस्मदादिप्रत्यक्षं तेन मा नाम धर्मो ऽनुभूयताम्. भावनाबलभुवा तु सकलातीता[६२८]नागतादिविषयेण किं नानुभूयते. तदसिद्धेर् अनुपपन्नम् इति चेत्. न. अनुमानाद् उपपत्तेः. तत्रैतत् स्याद् -- न तस्य भावनाबलभुवः प्रत्यक्षस्यास्मदादाव् अदृष्टचरस्य सद्भावे किञ्चन प्रमाणम् अस्तीति. तच् च न. एवम् अनुमानाद् उपपत्तेः. विजातीयान्तरायपरिहारेण भाव्यमानेषु भावेषु[६२९]प्रज्ञाप्रसादाद् अतिशयो दृश्यते. तथा हि -- किम् अन्यत्. इह खलु नितान्तदुरधिगमम् आत्मानम् एव निर्धूतनिखिलकायकरणोपरागोपप्लवं विगलितसकलमितिमातृमेयमानविभागोद्ग्राहमयम्[६३०]अहम् इति विशदतरम् अवलोकयन्ते कृतिनः केचिद् इति वेदान्तवादिनो वदन्ति. न हि तदस्मदादिवेद्यं नेति योगिनो ऽपि न बुध्यन्ते. तद्वद् वा वयम् अपि विजानीमः. भवति चात्र कारणप्रकर्षो हि कार्यप्रकर्षेण व्याप्तो दृष्टः चित्रकारादिशिल्पप्रकर्ष इव चित्रादिकर्मप्रकर्षेण. प्रकृष्यते च कस्यचिद् योगिनो भावनाबलभुवः प्रत्यक्षस्य कारणम् इति स्वभावहेतुः. अथापि स्यात् कुतः कारणप्रकर्षो ऽवगम्यत इति. स्वभावहेतोर् एव. यो यदभिनिविशमानो ऽभ्यस्यति स तस्य प्रकर्षकाष्ठाम् आसादयति चित्रकारस्येव शिल्पम्. अभ्यस्यति च कश्चिद् अवहितो ध्यानम् इति साध्यान्वितहेतुप्रदर्शनम्. अतो ध्यानप्रकर्षात् तद्बलभुवो ज्ञानस्य प्रकर्षः. कश् च ज्ञानस्यापरः प्रकर्षः स्फुटाविकल्पकप्रकाशात्. यथाहुः --
SK
__________NOTES__________ [६२८] तादि (GA) [६२९] प्रतिज्ञा (KA) [६३०] यम् इ (GA)
SK
तस्माद् भूतम् अभूतं वा यद्यद् एवातिभाव्यते |
SK
भावनाबलनिष्पत्तौ तत्स्फुटाकल्पधीः फलम् ||
SK
इति. ननु जीवनाय शिल्पिनां शिल्पाभ्यासो युक्तः. न तु ध्यानाभ्यासस्य किञ्चिन्निबन्धनम् अस्ति. कथं नास्ति. करुणा हि ध्यानाभ्यासे निबन्धनम्. कश्चित् खलु भवान्तरीयात् संस्कारात् कारुणिको भवति.{१,२१६}स करुणाम् एवाभिनिविशते. अभ्यासातिशयाच् च सा तस्य प्रकर्षकाष्ठाम् आसादयति. स काष्ठाप्राप्तप्रकर्षकरुणो दुःखोत्तरान् संसारिणो दृष्ट्वा दूरं दूयमानमानसश् चिन्तयति कथम् एतान् उद्धरेयम् इति. ततः स पुरुषार्थसाधनम् अन्विच्छन् ध्यानाय प्रयस्यति. ततश् चिराभ्यासान् निष्पन्नध्यानो धर्माधर्माव् अप्य् अपरोक्षम् ईक्षते. अन्यन् मतं - संसारिणो हीन्द्रियाधीनज्ञानजन्मानः. प्राग्भवीयक[६३१]र्मार्जितदेहेन्द्रिया हि ते. अतो युक्तं यद्देहेन्द्रियानुविधायिसंवेदना भवन्तीति. यदा पुनर् अमी योगाभ्यासाद् एव प्रक्षीणनिखिलज्ञानकर्माशया भवन्ति, तदा देहेन्द्रियैर् विमुच्यन्ते. तदा नियामकाभावात् स्वयं च प्रकाशस्वभावत्वात् सर्वम् अतीतादि बुध्यन्ते. अतस् तान् प्रति विद्यमानोपलम्भनत्वम् असिद्धम् इति तत्प्रतिबोधनाय लोकप्रसिद्धं सद् इत्याद्य् अयं जैमिनिर् आहेति. तान् इन्दानीं प्रतिबोधयति -- न लोकव्यतिरिक्तम् इति. अयम् अर्थः -- तेषाम् अपि प्रत्यक्षं न लोकोत्तरं भवितुम् अर्हतीति
SK
__________NOTES__________
SK
[६३१] ध
SK
अत्र कारणम् आह -- प्रत्यक्षत्वेनेति. अयम् अभिप्रायः -- तद् योगिनां ज्ञानं प्रत्यक्षं नवा. यद्य् अप्रत्यक्षं न तर्हि प्रमाणं, प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानभ्युपगमाद् अनुमानलक्षणाभावाच् च. न चाप्रमाणम् अर्थव्यवस्थापनायालम्. अतः किं तद् अभ्युपगमेन. अथ प्रत्यक्षम्, अन्वर्थत्वात् प्रत्यक्षशब्दस्य अवश्यम् एव तेनेन्द्रियजन्मना भवितव्यम्. न ह्य् अनिन्द्रियजं प्रत्यक्षम् इति लौकिकानाम् उपचारो दृश्यते.
SK
ननु नेन्द्रियजत्वं प्रत्यक्षलक्षणम्, अपि तर्हि, कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति. अभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः कल्पना. तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभणाद्यनाहितविभ्रमम् अभ्रान्तं ज्ञानं प्रत्यक्षम् इति. इदं च लक्षणं योगिनाम् अपि ज्ञानं व्याप्नोत्य् एव. तद्[६३२]धि निर्विकल्पकम् अभ्रान्तम्. अत एव प्रत्यक्षं चतुर्धा विभजन्ते तच् चतुर्विधम् इन्द्रियजम् इन्द्रियजसमनन्तरप्रत्ययोद्भवं मानसं सर्वचित्तचैत्तानाम् आत्मसंवेदनं योगिज्ञानं चेति. यदि हीन्द्रियजत्वम् एव प्रत्यक्षलक्षणं स्यात्, त्रितयम् अप्रत्यक्षं स्यात्. मानसं च मीमांसकैर् अपि प्रत्यक्षम् इष्यत एव. अतः सर्वानुगतापरोक्षावभासित्वमात्रवचन एव प्रत्यक्षशब्दो{१,२१७}निश्चीयते. यथा गमेर्डोर् इति डोप्रत्ययान्तो व्युत्पादितो गोशब्दो ऽगच्छत्य् अपि प्रयोगदर्शनात् सर्वानुगतगोजातिमात्रवचनो निश्चीयते, एवं नष्टावयवार्थविभागः प्रत्यक्षशब्दो ऽपरोक्षावभासिनि समुदायशक्त्यैव[६३३]वर्तत इति. तन् न. अवयवान्वयाव्यभिचारात्. अवयवान्वयव्यभिचारे हि समुदायशक्तिर् आत्मानं लभते. न च प्रत्यक्षशब्दवाच्यम् इन्द्रियान्वयं व्यभिचरति. मानसे व्यभिचार इति चेत्. न. मनसो ऽपीन्द्रियत्वात्. अथ नास्ति मनो नामेन्द्रियम्, इन्द्रियजम् एव तु ज्ञानं धारावाहिकेषु सन्तन्यमानेषूत्तरक्षणग्राहिणो ज्ञानस्य कारणं मन इति गीयते. उत्तरं च मानसम् इति. तद् अयुक्तम्. अतीते हीन्द्रियज[६३४]ज्ञान उत्तरक्षणो ऽनुभूयते. स कथम् असम्बद्धेन तेनावभासयितुं शक्यते. अक्षवद् इति चेद्, न. प्राप्यकारित्वस्याक्षाणाम् इहैव वक्ष्यमाणत्वात्. अतो द्वितीयक्षणग्रहणम्[६३५]अपीन्द्रियजम् एवेति नास्ति व्यभिचारः. तस्यापीन्द्रियान्वयव्यतिरेकानुविधानात्. न हि निमीलितनयनस्य रूपबुद्धिर् अनुवर्तमाना दृश्यते. अतो ऽवयवान्वयाव्यभिचारान् न समुदायशक्तेर् आत्मलाभः. अतो ऽनिन्द्रियजं सद् योगिनां मुक्तात्मनां वा ज्ञानं न प्रत्यक्षम्. प्रत्यक्षं सन्नियतं विद्यमानोपलम्भनम्, अप्रत्यक्षं तु प्रमाणान्तरानभ्युपगमाद् एव निरस्तम्.
SK
__________NOTES__________
SK
[६३२] द् अपि (GA) [६३३] व प्रव (GA)
SK
[६३४] जे [६३५] ग्राहिण (KA)
SK
यच् च भावनाबलं योगिज्ञानजन्मनि कारणम् उक्तम्. तन् न, अवगतविषयत्वाद् भावनायाः. न चाकस्माद् एवावगतेर् उत्पत्तिः सम्भवति. सर्वोत्पत्तिमतां कारणवत्त्वात्. अथ प्रमाणान्तरावगतं भाव्यते किं भावनया, तत एव तत्सिद्धेः. किञ् च तत् प्रमाणं न तावदनुमानं, धर्माधर्मयोः पूर्वम् अग्रहणेन तद्व्याप्तलिङ्गदर्शनाभावात्. जगद्वैचित्र्यार्थापत्तेर् अपि किम् अपि कारणम् अस्तीत्य् एतावद् उन्नीयते. न तु कश्चिद् विशेषः. न चानिर्दिष्टविशेषविषया भावना भवति. योगशास्त्रेष्व् अपि विशेषा एव ध्येयतयोपदिश्यन्ते --
SK
ध्येय आत्मा प्रभुर् यो ऽसौ हृदये दीपवत् स्थितः
SK
इत्यादिभिः. तर्ह्य् आगमाद् अवगतं भावयिष्यते. यदि प्रमाणात्, तत एवावगतेः किं भावनया. हानोपादानार्थं हि वस्तु जिज्ञास्यते. ते च तत एव सिद्धे इति व्यर्था भावना. कारुणिको ऽपि धर्मागमान् एव प्रयत्नतः शिष्येभ्यो व्याचक्षीत. न भावना[६३६]परिखेदम् अनुभवेत्. अथ विप्रलम्भभूयिष्ठत्वाद् आगमानां प्रमाणम् आगमो न वेति विचिकित्समानो भावनया जिज्ञास[६३७]ते. तन् न.{१,२१८}ततो ऽपि तदसिद्धेः. भावनाबलपरिनिष्पन्नम् अपि ज्ञानम् अनाश्वासनीयार्थम् एव, अभूतस्यापि भाव्यमानस्यापरोक्षवत् प्रकाशात्. तथा तैर् एवोक्तं - तस्माद् भूतम् अभूतं वेति.
SK
__________NOTES__________
SK
[६३६] नाखे (GA) [६३७] स्य (KA)
SK
अपि च भावनाबलजम् अप्रमाणं गृहीतग्रहणात्. यावद् एव हि गृहीतं तावद् एव हि भावनया विषयीक्रियते. मात्रयापि त्व् अधिकं भावनया न गोचरयति. योगाभ्यासाहितसंस्कारपाटवनिमित्ता हि स्मृतिर् एव भावनेत्य्[६३८]अभिधीयते. सा च न प्रमाणम् इति स्थितम् एव. न च तदुत्तरकालं साक्षात्कारिज्ञानम् उदेतीति प्रमाणम् अस्ति. इन्द्रियसन्निकर्षम् अन्तरेणार्थसाक्षात्कारस्य क्वचिद् अप्य् अदर्शनात्. भवति चात्र[६३९]प्रयोगः -- योगिनां धर्माधर्मयोर् अपरोक्षावभासि ज्ञानं नास्ति इन्द्रियसन्निकर्षाभावाद्, अस्मदादिवत्. यच् च कारणप्रकर्षात् कार्यप्रकर्ष इत्य् उक्तं, तद् अयुक्तम्. कारणप्रकर्षानुपपत्तेः. भावनाप्रकर्षानुपपत्तिश् च वर्णितैव प्रयोजनाभावाद्, अनालम्बनत्वाद् अनधिकविषयत्वाच् च. न च तथाविधातिशयवतः कस्यचिद् अद्यत्वे दर्शनं, येन दृष्टत्वाद् अभ्युपगम्येत. नित्यनिर्दोषवेदान्तप्रमाणके तु ब्रह्मातिशये न किञ्चिद् अनुपपन्नम्. तत्रापि तु नानिन्द्रियजं प्रत्यक्षम् उपपद्यते. समुच्छिन्नसकलमितिमातृमेयमानप्रपञ्चा हि सावस्था. यत्रापि चाभ्यासात् प्रकर्षो दृश्यते तत्रापि स्मृतिर् एव प्रकृष्यते, न पुनरभ्यासतो ऽनिन्द्रियसन्निकृष्टम् अपि च वस्त्वपरोक्षं भवति. न ह्य् अभ्रान्तस्यासन्निहितम् अवर्तमानं च पुरःस्थितवदवभासत इत्य् उत्प्रेक्षितुम् अपि शक्यम् इत्य् अलम् अनेनेति.
SK
__________NOTES__________
SK
[६३८] ति गीय (GA) [६३९] त्र यो
SK
ननु च शेषहेतुप्रसिद्धये प्रत्यक्षत्वं हेतुर् इति पूर्वम् उक्तम्. कथम् इदानीं तेन विद्यमानोपलम्भनत्वं साध्यते, अत आह -[६४०]सत्सम्प्रयोगजत्वम् इति. अयम् अभिप्रायः -- नायं शास्त्रीयो हेतुक्रमः, येन तदतिक्रमे दोषो भवति. अतो व्याप्तिबलेन शक्यम् अनेनास्मदादिप्रत्यक्षवद् उभयं साधयितुम् इति यथेष्टाभिधानम् इति
SK
__________NOTES__________
SK
[६४०] सत्सम् इति (KA)
SK
अत्र सूत्रकारेण प्रत्यक्षत्वाभ्युपगमेन योगिप्रत्यक्षस्यानिमित्ततां प्रतिपादयता निमित्तत्वाभ्युपगमे वा न प्रत्यक्षत्वम् इत्य् अर्थाद् आवेदितम्. तत्{१,२१९}प्रयोगद्वयेन दर्शयति -- तेषाम् इति द्वयेन. ततस् त्व् एवेति. अवर्तमानविषयत्वाद् एवेत्य् अर्थः. यदि तु निराकृतस्वपक्षो बौद्धो ऽप्रत्यक्षशब्दवाच्यम् एव तत् प्रमाणान्तरम् इति ब्रूयात्, तदर्थं प्रमाणत्वनिराकरणम्. एतच् च सूत्रकारेणैव सत्सम्प्रयोगग्रहणसामर्थ्याद् एवोपात्तम् इति सद् इत्य् एतेन कथ्यते इत्य् उक्तम् इति || ३०-३१ ||
SK
अन्यन् मतं - सिद्धानां खलु धर्मानुग्रहवशेनानागतादिविषया प्रतिभैव जायते. सा चाद्यत्वे क्वचिद् अस्मदादीनाम् अप्य् उत्पद्यते यथा श्वो मे भ्रातागन्तेति. प्रायेण त्व् ऋषीणां तज्ज्ञानम् उत्पद्यत इत्य् आर्षम् इत्य् उच्यते. यथाहुः -- आर्षं सिद्धदर्शनं च धर्मेभ्यः इति. तन् निराकरोति लौकिकीति. अयम् अर्थः -- योगिनाम् ऋषीणां वा प्रतिभा नार्थनिश्चयाय प्रभवति, प्रतिभात्वाद् अस्मदादिप्रतिभावत्. अस्मदादीनां हि विसंवादभूयिष्ठा प्रतिभोपलभ्यत इति
SK
एवं तावद् विद्यमानोपलम्भनत्वस्य हेतोर् असिद्धिम् आशङ्क्य सत्सम्प्रयोगजत्वाद् इति यद् उक्तं तद् विवृतम्. इदानीं भविष्यत्त्वस्य हेतोर् अनैकान्तिकशङ्कानिराकरणार्थं यद् उक्तं तद् विवृणोति -- अविद्यमानेति. अयम् अर्थः -- यदि सत्सम्प्रयोगजं प्रत्यक्षम् इति नोच्येत, ततो ऽविद्यमाने ऽपि संयोगे योगिनां क्वचित् प्रत्यक्षं जायत इति तस्य भविष्यत्य् अपि धर्मे शक्तिर् अनिवारिता स्यात्. ततश् च भविष्यत्त्वस्य हेतोर् अनैकान्तिकत्वम्[६४१]इति सदित्यादि जैमिनिर् आहेति
SK
__________NOTES__________
SK
[६४१] त्वं स्याद् इति (GA)
SK
{१,२२०} ननु भविष्यत्त्वाद् धर्मो न प्रत्यक्ष इत्य् उच्यते, तद् यदासौ भविष्यंस् तदा मा नाम प्रत्यक्षो भवतु. यदा तु प्रवर्तते तदा किन् नाम न प्रत्यक्षेणानुभूयते, अत आह -- प्रत्यक्ष इति. अयम् अभिप्रायः -- अनुष्ठानार्थं हि प्रमाणम् अन्विष्यते. तदनुष्ठानात् प्राग् एवान्वेष्यम्. न चानुष्ठानात् प्राग् धर्मो ऽस्तीति कथं प्रत्यक्षो भवेद् इति. किम् इदानीम् अन्येनानुष्ठितो विद्यमानः प्रत्यक्षो[६४२]धर्मः नेत्य् आह -- अनुष्ठित इति. न प्रत्यक्ष इति सम्बन्ध इति. अत्र कारणम् आह -- फलसाधनरूपेणेति. भवेद् एतद् एवं यदि द्रव्यादयः स्वरूपेण धर्मा भवेयुः. फलसाधनरूपेण चैते धर्मा इति ताद्रूप्येण च धर्मत्वम् इत्य् अत्रोक्तम्. तच् च रूपम् अनुष्ठानकाले नास्ति. आमुष्मिकफलेष्व् अत्र फलस्याभावात्. ऐहिकफलेष्व् अपि चिरेण. निरन्तरयोर् हि साध्यसाधनयोः साधनं प्रत्यक्षं भवति मर्दनसुखयोर् इव. इह तु फलकाले साधनं चिरातिवृत्तं, साधनकाले फलम् अजातम् इति न फलसाधनं प्रत्यक्षम्. शक्तिस् तु सर्वभावानां नित्यपरोक्षैव. तेन न तद्विशिष्टो धर्मः प्रत्यक्षो भवतीति
SK
__________NOTES__________
SK
[६४२] क्षो ने (GA)
SK
प्रकृतम् इदानीं विद्यमानोपलम्भनत्वेन प्रत्यक्षस्य धर्मे ऽनिमित्तत्वम् उपसंहरति - अस्मद्[६४३]इति धर्मेन्तेन. ध्यायिनां प्रत्यक्षं विद्यमानोपलम्भनं सद् धर्मे न प्रमाणम् अस्मत्प्रत्यक्षवत्. वक्ष्यमाणहेत्वपेक्षया चशब्दः. नेष्यत इति वक्ष्यमाणेन सम्बन्ध इति. अयं च सूत्रकारेणोपपत्तिक्रमोक्त्या सर्वेषां चित्तं भावयितुं[६४४]हेतुक्रमो दर्शितः. शक्यते च प्रत्यक्षत्वमात्रेणैवानिमित्तता साधयितुम् इत्य् आह -- प्रत्यक्षत्वाद् इति
SK
__________NOTES__________
SK
[६४३] स्मत्प्रत्यक्षवदि [६४४] तुं क्र (KA)
SK
एवं सूत्रतात्पर्यं व्याख्यायेदानीम् अवयवाननुसन्धत्ते. तत्रापि{१,२२१}सच्छब्दम् आदौ चिन्तयति. अत्र भिक्षुणोक्तं सद्विशेषणम् अनर्थकम्, असता सम्प्रयोगाभावेनाव्यभिचारात्. यथोक्तं -
SK
सद् इत्य् असद्व्युदासाय न नियोगात् स गंस्यते |
SK
सम्प्रयोगो हि नियमात् सत एवोपपद्यते ||
SK
इति. एतद् अनभ्युपगमेन निराकृत्य कर्मधारयसमासम् एव दर्शयति -- अविद्यमानेति. अस्यार्थः -- नायम् अर्थः सूत्रस्य सता सम्प्रयोगः सत्सम्प्रयोग इति. किं तर्हि. संश् चासौ सम्प्रयोगश् चेति कर्मधारयो ऽयम्. सच्छब्दश् च विद्यमानवचनः. तद् अयम् अर्थो भवति -- विद्यमानसम्प्रयोगजं प्रत्यक्षम् इति. ततश् च यत् तेषाम् अविद्यमाने ऽर्थे इत्यादिना योगिज्ञानस्य प्रत्यक्षत्वनिराकरणम् उक्तं तद् एवं लभ्यते. वर्तमानार्थवाचिनो हि सच्छब्दस्यासद्[६४५]व्युदासः. स कथम् असति तस्मिन् सिध्येत्. अयं च सूत्रार्थः सतीन्द्रियार्थसम्बन्धे इति व्याचक्षाणेन भाष्यकारेणोक्त इति द्रष्टव्यम् इति
SK
__________NOTES__________
SK
[६४५] सौ प्रसादः. स (GA)
SK
नन्व् अयम् अर्थो निमित्तसप्तम्यैवात्र लभ्यते. न ह्य् असत्सम्प्रयोगो निमित्तं भवति. अत आह -- ससम्येति. अयम् अभिप्रायः -- सत्यम् अवर्तमानः सम्प्रयोगो नाक्षजे ज्ञाने कारणम्. अपि तु तम् अपि केचित् कारणतया मन्यन्ते. तद् इह सम्प्रयोग इत्य् एतावति श्रुते सति भाविन्य् अतीते चेति यथेष्टं कल्पयेयुः. अतस् तत्कल्पनानिराकरणार्थं व्यक्तम् एव जैमिनिना सद्विशेषणम् उपात्तम् इति
SK
व्याख्यातः सच्छब्दः. संशब्दम् इदानीम् अनुसन्धत्ते -- सम्यग् इति. सम्यक्प्रयोगः सम्प्रयोगः. तेन दुष्प्रयोगो निवारितो बह्वतीति. आह -- विशेक्ष्यति भवान् समा प्रयोगं, प्रयोगम् एव[६४६]तावदादौ भवान् व्याकुरुताम् अत आह -- प्रयोग इति. रूपादिसंवित्कार्योन्नेयम् इन्द्रियाणां व्यापारं प्रयोगापरपर्यायम् आचक्षत इति
SK
__________NOTES__________
SK
[६४६] वादौ व्या (KA)
SK
{१,२२२} कः पुनर् अत्र दुष्प्रयोगः यः संशब्देन व्यावर्त्यते, अत आह -- दुष्टत्वाद् इति. कथं पुनर् असौ दुष्टः. प्रयोगस्य ह्य् अत्यासत्त्यादयो दोषाः. न च ते शुक्तिसम्प्रयुक्तचक्षुषो भ्राम्यतो दोषा भवन्ति. विषय एव तु तत्र सादृश्यद् ऊषितो विपरीतख्यातिहेतुः. अत आह -- रजतेक्षणाद् इति. अयम् अभिप्रायः -- ज्ञानकारणं हि सम्प्रयोगः स दुष्टो ऽन्यदन्यात्मना भासयति, कारणदोषाविनाभावात् कार्यदोषस्य. अदुष्टस् तु सम्यग्ज्ञानं जनयति. सर्वकारणदोषाभावेन च तस्य सम्यक्त्वं भवति. यदा पुनर् इन्द्रियार्थयोर् अन्यतरद् अपि दुष्यति, तदा तदाश्रितः संयोगो ऽपि दुष्टो भवति. अतः संयोगस्य स्वदोषा अत्यासत्त्यादयो विषयदोषाश् च सादृश्यादयो दूषका भवन्ति. तद् इह शुक्तौ रजतम् इति गृह्यमाणायां कार्यदोषात् शुक्तिकायोगो दुष्ट इत्य् अवगम्यते. अतो ऽसौ सम्यगर्थवाचिना संशब्देन वार्यत इति. एवञ् चावयवव्याख्यायाम् आश्रीयमाणायां लोकसिद्धलक्षणानुवादेनाप्य् अनिमित्तत्वविधिर् न दुष्यतीत्य् आह -- एवम् इति
SK
तथा यद् अपि बौद्धैः प्राप्तिवचनं प्रयोगशब्दं मन्वानैः श्रोत्रचक्षुषोर् अप्राप्यकारित्वाद् अव्यापकं लक्षणम् इत्य् उक्तं, तद् अपि व्यापारमात्रवचनं प्रयोगशब्दं व्याचक्षाणैर् अस्माभिः परिहृतम् इत्य् आह -- ततश् चेति. व्यापारमात्रवाचित्वाद् अविरुद्धम् इत्य् उपरितनेन सम्बन्ध इति
SK
श्रोत्रचक्षुषोर् अप्राप्यकारित्वे बौद्धानाम् अभिप्रायम् आह -- प्राप्येति नोन्तेन. एवं हि तैर् उक्तं -
SK
सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञाने ऽधिकस्य च |
SK
इति. यदि चक्षुश्श्रोत्रे विषयं प्राप्य गृह्णीतः, यद् इदं दूरे शब्दो दूरे ऽर्थ इति सान्तरग्रहणं यच् च सुमहतां महीमहीधरादीनाम् अधिष्ठानाधिकपरिमाणानां{१,२२३}ग्रहणं तत् किलोभयम् अपि न स्यात्, प्राप्यकारिषु त्वगादिष्व् अदर्शनात्. तद् एतद् उक्तं भवति -- यत् प्राप्यकारि न तत् सान्तरम् अधिकं च वेदयति, यथा कायः न च तथा श्रोत्रचक्षुषी इत्य् आवीतहेतुः. उपालम्भे किलशब्दः. उभयस्यापि समाधास्यमानत्वाद् इति. आर्जवावस्थानं वा सम्प्रयोगो ऽभिमत इत्य् आह -- यदि वेति. आर्जवावस्थितस्य हि रूपादिज्ञानम् उत्पद्यते. तत्रैव सम्प्रयोगशब्दोपचारः. त्वगादिषु सम्प्रयोगशब्दार्थो ज्ञानहेतुर् उपलब्धः. तद् इदम् आर्जवावस्थानम् अपि तद्धेतुतया तथा व्यपदिश्यते. एवम् एव व्यापारे ऽपि दर्शयितव्यम् इति || ४१-४२ ||
SK
कार्यलक्षितयोग्यतालक्षणो वा यः शब्दार्थयोर् इव रूपादिचक्षुराद्योः सम्बन्धः सम्प्रयोग इत्य् आह -- योग्यतेति. अथवास्तु साङ्ख्यादिसिद्धान्तसिद्धः प्राप्तिरूप एव सम्बन्धः. नात्रापि किञ्चिद् दुष्यतीत्य् आह -- साङ्ख्यादीन् इति. निर्जित्य हि साङ्ख्यादीन् प्राप्तिपक्षो ऽत्र दूष्यते. न च ते निर्जेतुं शक्याः. अप्राप्यकारिपक्षे हि सूक्ष्मव्यवहितविप्रकृष्टादीनाम् अप्राप्तत्वाविशेषेण ग्रहणप्रसङ्गाद् इति भावः
SK
अनुमानेनापि श्रोत्रचक्षुषोः प्राप्यकारित्वम् अवगम्यते इत्य् आह -- तयोर् इति. तयोः श्रोत्रचक्षुषोर् इत्य् अर्थः. चक्षुश्श्रोत्रे प्राप्यकारिणी, बाह्येन्द्रियत्वात् त्वगिन्द्रियवद् इति. ननु च कर्णशष्कुली चक्षुर्गोलकं च शरीरस्थम् एवोपलभ्यते, कथं तत् प्राप्यकारीत्य् उच्यते. तद् एतद् एतेषां तावत् प्राप्यकारिवादिनां साङ्ख्यानां मतेन समादधाति -- केचिद् इति. एवं हि साङ्ख्या मन्यन्ते -- आहङ्कारिकयोः श्रोत्रचक्षुषोर् वृत्तिः शरीराद् बहिर् भवति अर्थदेशं प्राप्नोति. सा च कार्यदर्शनोन्नेया यथाकार्यम् अवतिष्ठत इति
SK
{१,२२४} नन्व् अधिष्ठानम् एवेन्द्रियं, तत्रोद्धरणपूरणादिनिग्रहानुग्रहदर्शनात्. इतरथा तदसम्भवात्. यदि ह्य् अधिष्ठानातिरिक्तम् अक्षं भवेत्, तर्ह्य् अधिष्ठानसंस्कारो ऽनर्थकः स्यात्, अत आह -- चिकित्सादीति. अयम् अभिप्रायः -- यदीन्द्रियम् अधिष्ठाने न सम्बद्धं भवेत्, ततो ऽधिष्ठानसंस्कारस् तस्योपकारको न स्यात्. अधिष्ठानाधारं तु तत्. अतस् तस्यैवाधारभूतस्याधिष्ठानस्य संस्कार आधेयस्येन्द्रियस्योपकारको भविष्यति गजाश्वपर्याणसंस्कार इवारोहकस्येति
SK
नन्व् एवम् अपि गोलकाधिकरणस्यैव तत्संस्कार उपकारको भवतु, तस्य त्व् असम्बद्धस्य भागस्य गोलकेन गोलकसंस्कारो नोपकारकः स्यात्. तेन च संस्कृते न प्रयोजनम्. तस्यैव प्राप्तत्वेन प्रकाशकत्वात्. अतो यत् प्रकाशकं तत् संस्कर्तुम् अशक्यम् असम्बन्धात्. यच् च शक्यं न तेन संस्कृतेन प्रयोजनम्, असम्बद्धस्य हि भागस्य प्रकाशयितुम् अशक्तेः, अत आह -- तद्देश इति. अयम् अभिप्रायः -- एकैवेन्द्रियवृत्तिर् अनुगताधिष्ठानदेशसम्बन्धा अर्थदेशं यावत् प्राप्ता, अतो ऽधिष्ठानदेश एव संस्कारः सर्वोपकारको भविष्यति. यथा पादयोः प्रयुक्तः संस्कारो दूरस्थस्यापि चक्षुष उपकारको भविष्यतीति
SK
अतो नायम् एकान्तः यदधिष्ठानदेशे संस्कारात् तद्वर्त्येवेन्द्रियमितीत्य् आह -- तस्माद् इति. निरन्तराधिकग्रहणम् उपपादयति -- बहिर् इति स्यादन्तेन. कार्यदर्शनबलेन हि तद्वृत्तिः कल्प्यमाना यथाकार्यम् अवतिष्ठत{१,२२५}इत्य् उक्तम्. अतो ऽधिष्ठानाधिकपरिमाणार्थदर्शनात् पृथ्वग्रा कल्पयिष्यते. निरन्तरदर्शनाच् च सन्तता. अतो यत्र यादृशं वृत्तिभागे पार्थवं पृथुत्वं भवति, तदनुरूपम् एवाधिष्ठानाधिकं महीधरादि गृह्यते. अमूर्ताया अपि वृत्तेर् औपाधिको व्योम्न इव भागव्यपदेशः. यद् एव तया प्रकाश्यते तदौपाधिकम् एव भागव्यपदेशं लभते इति. न च वाच्यं यदि वृत्तिर् गत्वार्थं प्रकाशयति किम् इति तर्हि नितान्तदूरवर्तिनो ऽपि भावान् न प्रकाशयतीति. यावति हि दूरे कार्यम् उपलभ्यते तावन्तम् एवाध्वानम् असौ सर्पतीत्य् अधिकदर्शनवत् कल्पनीयम् इत्य् आह -- दूरे ऽपीति
SK
नन्व् एवम् अपि यदीन्द्रियवृत्त्यार्थाः प्रकाश्यन्ते, सा तर्हि निर्गत्य गतास्त्य् एवेति किं न पिहितेन्द्रियस्यापि भावा भासन्ते, अत आह -- दीपप्रभेति. नावश्यं पिहितेन्द्रियस्य वृत्तिर् अस्ति कार्याभावात् तु सा दीपनाशे प्रभावन्निमीलयतो ऽपि नष्टेत्य् उन्नीयत इति
SK
अस्तु वा अधिष्ठानपिधाने ऽपि वृत्तिः. आत्मप्रयत्नानुगृहीता तु सा आत्मन्य् अर्थम् उपनयति. अधिष्ठानपिधाने ह्य् आत्मनः प्रयत्नोच्छेदात् प्रयत्नानधिष्ठितया तयानुपनीतो ऽर्थो नात्मनानुभूयत इत्य् आह -- अधिष्ठानेति
SK
विच्छिन्नबोधम् इदानीम् उपपादयति -- विच्छिन्न इतीति. विभोर् अप्य् आत्मनः प्राग्भवीयक[६४७]र्मार्जितं सकलभोगायतनं शरीरम् इति. तदपेक्षया विच्छेदबुद्धिः. कायेन्द्रिये तु शरीरविच्छेदाभावाद् अविच्छेदबोधो युक्त इति. शब्दे तु विच्छेदाधिकबोधो भ्रान्तिर् एवेति किं तदुपपादनेन.[६४८]तथा हि -- स्वदेश एव शब्दः श्रोत्रेण प्रकाश्यते. कुतस् तस्य विच्छेदः. कुतः विभोर्{१,२२६}अमूर्तस्य वृद्धिह्रासाव् इत्य् आह - शब्दे[६४९] त्व् इति. एतत् तु स्वमतेनोक्तम्. साङ्ख्यमते तु श्रोत्रवृत्तिः शब्ददेशं गच्छत्य् एव. तत्र शरीरापेक्षयैव विच्छेदबोधो वक्तव्यः. असम्भवं च शब्दाधिकरणे वक्ष्याम इति.
SK
__________NOTES__________
SK
[६४७] ध (GA) [६४८] न. स्व (KA) [६४९] शब्देति (KA)
SK
अयं च साङ्ख्यसिद्धान्तसिद्धो वृत्तिगमनपक्षो वार्त्तिककारेण प्राप्तिसाधारण्यमात्रेणोक्तः, न पुनरभिप्रेतः. न हीन्द्रियवृत्तिर् नाम काचित् प्रमाणेनावगम्यते. तथा हि -- आहङ्कारिकाणीन्द्रियाणीति कापिला मन्यन्ते. यथाहुः --
SK
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् |
SK
इति. कश् चायम् अहङ्कारः. यदि यो ऽयम् आत्मानं प्रकाशयति, स तर्हि ज्ञानमितीन्द्रियाणां कथं प्रकृतिर् भविष्यति. आत्माधारम् आन्तरं ज्ञानं कथं तेन बाह्येन्द्रियाण्यारब्धुं शक्यन्ते. अथ मतं तत्त्वान्तरम् अहङ्कार इति. तन् न. प्रमाणाभावात्. अपि च तत्त्वान्तरम् अपि तत् कापिलैर् विभुः सङ्गीर्यते. ततस् तन्मयानीन्द्रियाण्य् अपि विभूनि भवेयुः. न च विभूनां वृत्तिर् उपपद्यते. वृत्तिर् निर्गमनम्. न च तद् विभूनां सम्भवति. स्यान् मतम् -- न च ब्रूमो विभूनीन्द्रियाणि गच्छन्तीति, किं तर्हि. तदाधारा वृत्तिर् इति. केयं वृत्तिर् इति वक्तव्यम्. यदि श्रोत्रादीनां शब्दादिग्रहणयोग्यता, सा तर्ह्य् अमूर्ता शक्तिः कथं गच्छेत्. अपि च त्रीण्य् अन्तःकरणानि महानहङ्कारो मन इति कापिला मन्यन्ते. न च करणं करणान्तराणां प्रकृतिर् उपपद्यते करणत्वात् मनोवत्. अतो नाहङ्कारिकाणीन्द्रियाणि. न च तद्वृत्तिर् अमूर्ता प्राप्यकारिणीति प्रमाणवती कल्पना. तथा शब्दाधिकरणे वक्ष्यति श्रोत्रागमनपक्षे चेत्य् अत्र वृत्तिगमनप्रतिषेधम्. अतो भौतिकान्य् एवेन्द्रियाणि प्राप्यकारीणीति वक्तव्यम्.
SK
किं पुनर्भौतिकत्वे प्रमाणम् इन्द्रियाणाम्. दृष्टानुसारः. तथा हि -- बहिर्भूतानाम् एव यथायथं रूपाद्यभिव्यञ्जकत्वम् उपलब्धम्. तेजसा हि रूपं प्रकाश्यते यथा दीपेन. रसो ऽद्भिः. शुष्काणाम्[६५०]अपि द्रव्याणां सन्न् अपि रसो न व्यक्तम् उपलभ्यते यथार्द्राणाम्. न च शुष्केषु रसो नास्ति, यावद्द्रव्यभावित्वात्. अतो ऽद्भी रसो ऽभिव्यज्यते. पार्थिवं च किञ्चिद् द्रव्यं{१,२२७}गन्धस्याभिव्यञ्जकं दृष्टम्. यथा निम्बत्वक् चन्दनगन्धस्य. तत्कषायपरिषिक्तस्य हि चन्दनस्य स्फुटतरं गन्धो ऽभिव्यज्यते. न चाद्भिर् असाव् अभिव्यज्यते, केवलानाम् अनभिव्यञ्जकत्वात्. वायुनापि बहिः स्पर्शाभिव्यक्तिर् उपलब्धा, यथा हेमन्तशिशिरयोर् वियति विततानाम् अपां सूक्ष्मत्वाद् अनुपलक्ष्यमाणानां वापि वाते शीतस्पर्शो ऽवगम्यते. न चासौ वायोः. अनुष्णाशीतस्पर्शत्वाद् वायोः. अतो रूपाभिव्यञ्जकं चक्षुस् तैजसम्. आप्यं रसनम् अभिव्यञ्जकं च रसस्य. घ्राणं पार्थिवं गन्धस्य. वायवीयं त्वगिन्द्रियं स्पर्शस्य. श्रोत्रम् इदानीं किंप्रकृतिकम्. तद् अपि भौतिकम् इन्द्रियत्वात्. किं पुनर्भूतं तस्य प्रकृतिः. आकाश इति वदामः. तथा हि -- द्विविधं कार्यं सर्वभूतानां शरीरम् इन्द्रियं च. आकाशस्याप्य् अवकाशदानेन शरीरोपकारकत्वात् कार्यकारणत्वम्. अतस् तस्यापीन्द्रियेण कार्येण भवितव्यम्. तत्रेन्द्रियान्तराणां भूतान्तरप्रकृतित्वाद् आकाशम् एव श्रोत्रस्य प्रकृतिर् इति निश्चीयते. अपि च स्वगुणम् एव भूतान्तराणि व्यञ्जयन्ति. न च तेषां शब्दो गुणः, आकाशगुणत्वात्. अत आकाशम् एव तस्याभिव्यञ्जकम् इति युक्तम्. एवञ् च दृष्टानुसारिणी कल्पना कृता भवति. सन्ति हि देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धाद्यभिव्यक्तिशक्तयश् च बहिर् इति शरीरे ऽपि वर्तमानानां तेषाम् एव व्यञ्जकत्वानुमानं युक्तम्. एवञ् च प्राप्तिर् अपि स(?मि/म)र्थिता भवति. त्वग्घ्राणरसनानां हि स्थितम् एव प्राप्यकारित्वम्. श्रोत्रस्यापि कर्णच्छिद्रपरिमितनभसो धर्माधर्मोपगृहीतस्य स्वदेश एव विभुं शब्दं प्रकाशयतः प्राप्यकारित्वम् एव. तेजसो हि विसरणस्वभावस्य चक्षुषो निर्गतस्यार्थदेशप्राप्तिर् उपपन्नैव. अनुद्भूतरूपत्वाच् च तस्य रूपानुपलम्भः. अत एवाग्नितेजसः पृथ्वग्रादिकल्पना च तस्य कार्यदर्शनानुसारेण मूर्तत्वाद् उपपत्तिमती. सर्वत्र च यथाकार्यदर्शनं योग्यतासनाथा प्राप्तिर् इन्द्रियार्थयोः सम्बन्ध इति दर्शयितव्यम्. अतो न काचिद् अतिप्रसक्तिर् वक्तव्या यथा वक्ष्यति -- प्राप्तिमात्रं हि सम्बन्धः इति. अतः सिद्धम् इन्द्रियाणि भौतिकानि प्राप्यकारीणि चेति
SK
__________NOTES__________
SK
[६५०] णां सन्न् अ (GA)
SK
एवं तावत् सत्सम्प्रयोगशब्दाः विवृताः. पदान्वयम् अतः परम् अनुसन्धास्यामः. अत्र किल पुरुषस्य सम्प्रयोग इन्द्रियाणां बुद्धिजन्मेत्य् उच्यते.{१,२२८}तच् चायुक्तं, विभोः पुरुषस्य सर्वभावैर् एव सम्प्रयोगाव्यभिचारेण विशेषणोपादानवैयर्थ्यात्. इन्द्रियाणां च भौतिकानाम् अचेतनत्वात्. चेतना हि बुद्धिर् इति सर्वलौकिकाः परीक्षकाश् च मन्यन्ते. न पुनरिन्द्रियव्यापारो बुद्धिर् इति. साङ्ख्या हीन्द्रियवृत्तौ बुद्धिशब्दम् उपचरन्ति. तत्र तेषाम् एव परिभाषामात्रम्. अतो ऽत्र वक्तव्यं कीदृशो ऽत्र पदान्वय इत्य् अत आह -- पुरुषेन्द्रियशब्दाव् इति. अयम् अभिप्रायः -- किम् अत्र वक्तव्यम्. भाष्यकारेण पुरुषेन्द्रियशब्दौ व्यवहितकल्पनया व्याख्यातौ येनैवम् आह सतीन्द्रियार्थसम्बन्धे पुरुषस्य या बुद्धिर् जायते तत् प्रत्यक्षम् इति. कः पुनर् अयं पुरुषः यस्य बुद्धिजन्मना सम्बन्धः, अत आह -- पुरुष इति. नात्र तात्पर्यमन्यपरत्वात् सूत्रस्य. परमार्थतस् तु पुरुषो ऽत्रात्माभिप्रेतः य आत्मवादे प्रसाधयिष्यते. न शरीरं, तस्य भौतिकत्वेनाचेतनत्वाद् इति
SK
नन्व् एवम् अपि यन्नित्यम् आत्मानं मीमांसका मन्यन्ते, तन् न सिध्येत्. ज्ञानजन्मनि विकारापत्त्या चर्मवदनित्यत्वप्रसक्तेः. ज्ञानजन्मना त्व् अविकृतस्य पूर्वावस्थायाम् इवाप्रमातृत्वप्रसङ्गः, अत आह -- विक्रियेति. एवं हि मन्यन्ते -- न किञ्चिद् विकार्मात्रेण वस्तु नश्यति, तत्प्रत्यभिज्ञानात्. एतच् चात्मवाद एव भाष्यकारेण वक्ष्यते. अतो दुरुक्तं परैः
SK
बुद्धिजन्मनि पुंसश् च विकृतिर् यद्य् अनित्यता |
SK
अथाविकृतिर् आत्मायं प्रमातेति न युज्यते ||
SK
इति. अत्र बुद्धिजन्म प्रत्यक्षम् इत्य् उच्यते. तस्य को ऽर्थः. किं बुद्धेर् जन्मातिरिक्तम् अनतिरिक्तं वा, यद्य् अतिरिक्तं तद् वाच्यं कीदृशम् इति. न च स्वमते जन्मस्वरूपम् अभिहितम्. यदि वैशेषिकोक्तस्वकारणसमवायो जन्माभिधीयते, तस्य नित्यत्वेनाक्षानधीनत्वात् प्रत्यक्षशब्दाभिधेयत्वानुपपत्तिः. अनतिरिक्तत्वे तु पुनरुक्ततैव दोषः, अत आह -- बुद्धिजन्मेति. अयम् अर्थः -- नायं बुद्धिजन्मेति षष्ठीसमासः. किन् तु बुद्धिश् चासौ जन्म चेति कर्मधारयः. जन्मशब्दश् च कर्तरि मनिन्प्रत्ययान्तः. तेन जायमाना बुद्धिः{१,२२९}प्रमाणम् इत्य् उक्तं भवति. न पुनर्वैशेषिकादिवन्नित्यम् अत्यन्तभिन्नं समवायम् आचक्ष्महे. कारणदशाविशेष एव कार्यजन्मेत्य् उच्यते. नासाव् अत्यन्तं कार्यकारणाभ्यां व्यतिरिच्यते. अतः किम् अन्यदोषोद्भावनेनेति
SK
जायमानविशेषणोपादाने प्रयोजनम् आह -- व्यापार इति. कारकान्तराणि जनित्वा कियन्तञ्चित् कालं स्थित्वा स्वकार्येषु वर्तमानानि दृष्टानि. तद् बुद्धाव् अपि प्रमाणे मा भूद् इति जन्मविवक्षा सूत्रकारेण कृतेति.
SK
किं पुनः कारकान्तरसाधर्म्ये दुष्यति, अत आह -- न हीति. अयम् अभिप्रायः -- न किञ्चिद् दुष्यति. किन् तु नेन्द्रियादिवद् जाता सती बुद्धिः क्षणमात्रम् अप्य् आस्ते. अतः कथं तद्वद् एव स्थित्वा प्रवर्तत इति. न केवलं जाता नास्ते, किन् तु जायमानापि नोदास्ते. सा ह्य् उत्पद्यमानैव स्वार्थं प्रकाशयन्त्य् एवोत्पद्यत इति न क्षणान्तरं प्रतीक्षते. न ह्य् अर्थप्रकाशनाद् अन्यद् बुद्धे रूपम् उपलभ्यत इत्य् आह -- जायत इति. कारकान्तरवैधर्म्यप्रतिपादनेनात्र नित्यबुद्धिवादिनो निराकर्तुं बुद्धेर् अनतिचिरविनाशित्वम् उक्तम्. तत्र चायं हेतुः. यदीयम् उत्पत्तिमती तस्या विनाशेनावश्यं भवितव्यम्. न चाहैतुको विनाशः सम्भवति, उत्पत्तिमत्त्वाद् एव. न च प्रहारादिरस्या विनाशहेतुः, अमूर्तत्वात्. अतो ज्ञानान्तरेण वा नाश्यते, तज्जन्मना वा संस्कारेण. तच् चोभयम् अपि सहसैव निष्पन्नम्. अस्ति हीन्द्रियादिका सामग्र्यप्रतिबन्धा. सा किम् अपरं विज्ञानं न जनयति. स्मृतिहेतुर् अपि संस्कारो ऽनयैव जातमात्रया जनित इति कर्मवत् कार्यविरोधित्वाद् अपि तादात्विको विनाशो बुद्धेर् इति युक्तम्. न च सैवेति बुद्धेः प्रत्यभिज्ञानम् अस्ति. न च भेदानध्यवसायमात्राद् एकत्वसिद्धिः. अपि चार्थान्तरदर्शने स्फुट एवाशुतरविनाशो बुद्धेः, एवञ् च व्यवस्थितैकदर्शने ऽपि तद्वद् एव तदनुमानम्. अपि च तत्रापि व्यवहिते ज्ञानं निवर्तते, तच्चिरावस्थायित्वे ऽनुपपन्नम्. एवं हि व्यवहिते कुम्भे प्रत्यक्षज्ञानम् अनुवर्तेत. न चैवम्. स्मृतिस् तु परस्ताद् दृश्यते. सा प्रत्यक्षज्ञानव्याप्तत्वे{१,२३०} न स्यात्.[६५१]परोक्षापरोक्षयोर् एकगोचरयोर् एकदा विरोधात्. स्याद् एतद् अव्यक्तग्रहणम् अनवस्थायित्वाद्[६५२]विद्युत्सम्पाते रूपाव्यक्तग्रहणवद् इति. न. प्रतिषेद्धव्याभ्यनुज्ञानात्. यदि मन्यते बुद्धेर्[६५३]अनतिचिरानुवृत्तौ प्रकाशस्य गत्वरत्वाद् विद्युत्सम्पात इव न व्यक्तं भावाः प्रकाशेरन्, अतो नाशुतरविनाशिनी बुद्धिर् इति. तन् न. प्रतिषेद्धव्याभ्यनुज्ञानात्. एवं हि विद्युत्प्रकाशजनिते ऽव्यक्तबोध उत्पन्नमात्रापवर्गितां बुद्धेर् ब्रुवाणो निषेध्यम् एवाशुतरविनाशम् अभ्यनुजानाति.[६५४]अपि च विशेषाग्रहणे सामान्यमात्रग्रहणम् अव्यक्तग्रहणम्. न तु स्वगोचरे किञ्चिद् अव्यक्तं नामास्ति, विषयाभिरूपत्वाद् ग्रहणानाम्. विशेषाग्रहणं च तद्ग्रहणनिमित्ताभावाद् एव, न तु बुद्धेर् अनवस्थानात्. विद्युत्प्रकाशे[६५५]ऽपि यावदाशुतरविनाशिन्या धिया विषयीकृतं तद् व्यक्तम् एव. विशेषास् तु तत्र ग्रहणहेत्वभावाद् अगृहीता एव, न पुनरव्यक्तपरिच्छिन्नाः. न हि गृहीतम् अव्यक्तं नाम सम्भवतीति नानवस्थायित्वे ऽपि धियाम् अव्यक्तग्रहणापत्तिः. नित्यबुद्धिवादिनश् चायम् अभिप्रायः शब्दाधिकरणे भाष्यकारेण वक्ष्यत इति
SK
__________NOTES__________
SK
[६५१] भवेत् (GA) [६५२] त्वे [६५३] द्धेर् अचि
SK
[६५४] ति. वि [६५५] शे या (KA)
SK
ननु प्रमाणं नाम कारकविशेषः. न चाकुर्वत् क्रियां कारकं भवति. यदि तु बुद्धिर् जनित्वा न व्याप्रियते, कथम् असौ कारकं प्रमाणम् इति च सामान्यविशेषशब्दाभ्याम् अभिधास्यते, अत आह -- तेनेति. सत्यं, न व्यापारसम्बन्धम् अन्तरेण कारकत्वं भवति. जन्मैव तु बुद्धेर् व्यापारः, व्यापारान्तरासम्भवात्. तद् एव च विवक्षावशात् प्रमेत्य् उपचर्यते. जन्मना हि तस्याः प्रमाणत्वं भवति. अतस् तयैव क्रियया कारकं प्रमाणम् इति च सामान्यविशेषशब्दाभ्याम् अभिधानसिद्धिः. चशब्दात् प्रमाणं चेत्य् अर्थः
SK
अयं च जन्माव्यतिरेकपक्षो या बुद्धिर् जायते इति वदता भाष्यकारेणैव वर्णित इत्य् आह -- जम[६५६] चेति. अपरम् अपि जायमानावस्थाविशेषणोपादानस्य{१,२३१}प्रयोजनम् आह -- तच् चेति. बुद्धिः प्रमाणम् इत्य् एतावत्य् उक्ते भूता भविष्यन्ती वा प्रमाणम् इत्य् अपि केचित् सम्भावयेयुः, यथा सद्विशेषणोपादाने वर्णितम्. अतस् तदाशङ्कानिराकरणार्थं जायमानविशेषणोपादानम्. भूतभविष्यत्त्वादि(?त्यपादाने/त्यापादने) पञ्चमीति[६५७]
SK
__________NOTES__________
SK
[६५६] न्मेति (GA) [६५७] मी. अ (KA)
SK
अस्तु वा वैशेषिकसिद्धान्तसिद्धः स्वकारणे कार्यसमवायो व्यतिरिक्त एव जन्म, तथापि न किञ्चिद् दुष्यतीत्य् आह -- यदा त्व् इति. स खलु नित्यो ऽपीन्द्रियाधीनाभिव्यक्तिर् इति प्रत्यक्षम् अपेक्ष्यत इति
SK
अत्र भाष्यकारेण बुद्धिर् वा जन्म वेत्यादिना प्रमाणानियमो दर्शितः, तत्राभिप्रायम् आह -- प्रमाणफलभावस् त्व् इति. अयम् अभिप्रायो भाष्यकारस्य -- एकम् इदं सूत्रं नोभयम् उत्सहते कर्तुं यत् प्रमाणं च नियच्छति, अनिमित्ततां च विदधातीति. भिद्येत हि तथा वाक्यम्. तद् अत्रानिमित्ततामात्रम् एव विद्यमानोपलम्भनात् प्रतिपाद्यम्. प्रमाणं तु विवक्षावशेन बुद्ध्यादीनाम् अन्यतमं भविष्यति. करणं हि प्रमाणं, साधकतमं च करणं, विवक्षाधीनश् च साधकतमभावः. अतो यद् एव तु बाह्यापेक्षया फलं प्रत्यासन्नम् इति विवक्ष्यते तद् एव प्रमाणं भविष्यति. ततः परं चाभ्यर्हितत्वविवक्षया फलम् इति
SK
यथेष्टकल्पनाम् एव दर्शयति -- यद्वेति. असतीन्द्रिये ज्ञानोदयाभावात् तद् एव प्रमाणम्. सद् अपि चेन्द्रियम् असङ्गतम् अर्थेन न ज्ञानं जनयतीति तदर्थसङ्गतिः प्रमाणम्. सम्बद्धम् अपि चेन्द्रियम् अर्थेन मनसानधिष्ठितं न प्रमाणम् इति तन्मनस्संयोगः प्रमाणम्. सर्वस्मिन्न् अपि च सत्यसत्यात्ममनस्संयोगे ज्ञानानुदयात् स च प्रमाणम्. अथवा सर्वेषाम् एकतरापाये ऽपि न ज्ञानं{१,२३२}जायत इति सर्व एव संयोगः प्रमाणम्. आत्मना वा मनसो योग इति योजनीयम् इति
SK
एषु प्रमाणेषु फलं दर्शयति -- तदेति. इन्द्रियादिप्रामाण्यपक्षे ज्ञानं फलम् इत्य् अर्थः. ननु यदीन्द्रियादि प्रमाणं, तेन तर्हि सदा ज्ञानं जनयितव्यम् एव. न च तद् अस्ति, अस्ति खलु पिहितचक्षुषो ऽपि चक्षुः. न च तद् ज्ञापयति. संयुक्तं ज्ञापयतीति चेद्, न. व्यभिचारात्. संयुज्यते खल्व् अस्य नानार्थैर् नायनं तेजः. किञ्चिद् एव तु जापयति. अतो व्यभिचाराद् अकारणम् इन्द्रियादि ज्ञानजन्मनीति, अत आह -- तत्रेति. उक्तम् इदम् अस्माभिर् व्यापारवचनः प्रयोगशब्द इति. फलानुमेयश् चासौ व्यापारः. अतो यत्रैव फलम् उपलभ्यते तत्रैव व्यापारवत्त्वात् तेषां प्रमाणत्वम् इति. असति तु व्यापारे न फलम् उत्पद्यत इति नातिप्रसङ्ग इत्य् आह -- व्यापार इति
SK
नन्व् अस्तु व्यापारवाचिप्रयोगशब्दपक्षे ऽतिप्रसङ्गपरिहारः. प्राप्तिवचनत्वे ऽतिप्रसङ्गो दुष्परिहरः. अस्ति हि चाक्षुषस्य तेजसो नानार्थैः सम्प्रयोगः. न च तावद् ज्ञापयति, किञ्चिद् एव तु कदाचित्. अपि च का चेयं प्राप्तिः. यदि संयोगः, स च द्रव्येणैवेति रूपसंविन्न स्यात्. अथ तेनापि संयुक्तसमवायाद् अस्ति सन्निकर्ष इत्य् उच्यते, समानो ऽसौ रसादिष्व् अपीति ते ऽपि चक्षुषानुभूयेरन्न् इति सर्वात्मकार्थग्रहणम् इतीन्द्रियसंयोगप्रमाणपक्षे परैर् उक्तं यत् तत् परिहरति -- न चेति
SK
कः पुनः सर्वात्मना सम्बन्धो नास्तीति वदतो ऽभिप्रायः -- यदि गुणैः संयोगो न रसादिभिः सम्भवतीति, स तर्हि रूपेणापि गुणत्वाविशेषान् न स्याद् एव. संयुक्तसमवायस् त्व् अविशिष्टः सर्वेषाम् इत्य् उक्तम् एव, अत आह -{१,२३३} प्राप्तीति. अयम् अभिप्रायः - भवेद् अयं दोषः यदि प्राप्तिमात्रम् एवेन्द्रियार्थयोः सम्बन्धः प्रमाणम् आश्रीयत इति. स तु योग्यतासहायः. योग्यता च कार्यदर्शनोन्नेया. अतो यद् एव यदिन्द्रियसंयोगानन्तरम् अनुभूयते तत्रैव तत्सम्प्रयोगस्य योग्यत्वं, नेतरत्र, प्रमाणाभावात्. अत एव जिघृक्षितसूक्ष्मरूपादिग्रहणप्रसङ्गो ऽपि परिहर्तव्य इति किम् इति नाभ्युपेयते, अत आह -- मा भूद् इति. अयम् अभिप्रायः -- यो हि ज्ञानं प्रमाणम् इष्ट्वा सत्सम्प्रयोगं प्रमाणकारणम् आतिष्ठते न तु प्रमाणं, तेनापि प्राप्तेर् अविशेषात् त्वचा रूपावधारणं मा भूद् इति न प्राप्तिमात्रं सम्बन्धो ऽभ्युपगन्तव्य इति
SK
अथ तु प्रमाणनिष्पत्तौ योग्यतासहिता प्राप्तिर् इष्यते, शक्यं तत् फलनिष्पत्ताव् अपि वक्तुम् इति दोषप्रसङ्गपरिहारतुल्यत्वान् नैकः पर्यनुयोज्यो भवतीत्य् आह -- यथेति. नियता हि काचिद् एव स्वविषयेण रूपादिना चक्षुरादीनां सङ्गतिर् इति. योग्यत्वाद् इति. तत्रैव कार्यदर्शनयोग्यत्वाद् इत्य् अर्थः
SK
एवं तावदिन्द्रियार्थसम्बन्धप्रमाणपक्षे ऽतिप्रसङ्गपरिहारो ऽभिहितः. इदानीं द्व्याश्रयो योगः कथम् अक्षेणैव व्यपदिश्यत इति चोद्यं परिहरति -- योगस्येति. अस्यार्थः -- नेदम् अदृष्टपूर्वं यदनेकैर् अपि सम्बद्धम् एकेनैव व्यपदिश्यत इति. भवति हि डित्थडवित्थयोर् मातुर् डित्थमातेति व्यपदेश इति. आह -- अस्त्व् अन्यतराश्रयो व्यपदेशः. इह तु नियमेनैवाक्षेण व्यपदेशो दृश्यते नार्थेन. मातुस् तु डवित्थेनापि कदाचिद् व्यपदेशो भवत्य् अत आह -- अथवेति. असाधारणेन हि व्यपदेशो भवति. ज्ञानस्यासाधारणम् अक्षं, तदर्थम् एवाक्षाणां निर्माणात्. अर्थस् तु कार्यान्तरसाधारणः नासौ व्यपदेशहेतुर् इति
SK
{१,२३४} अत्र चेन्द्रियार्थसम्बन्धप्रमाणपक्षे विषयभेदो ऽपि प्रमाणफलयोर् नास्त्य् एव, सम्बन्धस्यार्थाश्रयत्वाद् ज्ञानस्यापि तद्विषयत्वाद् इति. आत्ममनस्सम्बन्धप्रमाणपक्षे तर्हि विषयभेदो भवेत्. स ह्य् आत्ममनआश्रयः ज्ञानं चार्थविषयम् इति शङ्कते तावत् -- संयोगे त्व् इति[६५८]फलयोरन्तेन. परिहरति -- नेति. कारणम् आह -- अर्थे हीति. अस्यार्थः -- यद्य् अप्य् आत्ममनस्सम्बन्धो नार्थाश्रयः, तथाप्य् अर्थे व्याप्रियते. ज्ञानम् अपि तद्विषयम् एवोत्पद्यत इति व्यापारतः समानविषयत्वम् इति
SK
__________NOTES__________
SK
[६५८] ति प (GA)
SK
अथ पुनराश्रयो विषयो ऽभिप्रेतः, तदुभयोर् अप्य् आत्मस्थत्वात् सुतरां समानविषयत्वम् इत्य् आह -- अथापीति
SK
अयम् एवात्ममनस्संयोगो ज्ञानोत्पत्तेः प्रत्यासन्नतया कारकान्तरेभ्यो विशिष्ट इत्य् अयम् एव प्रमाणम् इत्य् आह -- प्रकृष्टसाधनत्वाद् इति
SK
सर्वसंयोगप्रमाणपक्षे ऽपि पूर्वोक्तसमस्तदोषपरिहारो ऽनुसन्धातव्य इत्य् आह -- प्रमाण इति. इन्द्रियप्रामाण्यपक्षे ऽपि तस्यार्थप्राप्त्या ज्ञानस्य च तद्विषयत्वेन स्फुटं विषयसाम्यम् इत्य् आह -- प्रमाणम् इति
SK
एवं तावदिन्द्रियादिप्रामाण्यपक्षे प्रमाणफलयोर् विषयसाम्यम् उक्तम्. इदानीं ज्ञानप्रामाण्यपक्षे ऽप्य् एवम् एव दर्शयितव्यम् इत्य् आह -- प्रमाणेति.{१,२३५}सर्वसविकल्पकज्ञानानि विशेषणज्ञानपूर्वकाणि, यथा दण्ड्य् अयं गौर् अयं शुक्लो ऽयं गच्छत्य् अयं डित्थो ऽयम् इति. तद् इह विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं च फलम्. विशेष्यज्ञानसिद्ध्यर्थत्वाच् च विशेषणज्ञानस्य. तत्रापि व्यापारतः समानविषयत्वम् इति
SK
यदा तु विशेषणम् एव बोद्धव्यं प्रमित्सितं भवति, तदा तर्हि कः प्रमाणफलयोर् विवेकः, कथं वा समानविषयत्वम् अत आह -- विशेषणे त्व् इति. अयम् अभिप्रायः -- तत्रापि विज्ञानद्वयम् उपलभ्यते. आलोचनाज्ञानं हि तत्र विशेषणे निश्चयं प्रसूते. तादर्थ्याच् च समानविषयत्वम् इति विवेक इति
SK
आलोचनाज्ञानमात्रपर्यवसाने तर्हि को विवेकः, अत आह -- निश्चय इति. अयम् अभिप्रायः -- आलोचनाज्ञाने ऽपि हि तद् इदम् इति प्रत्यभिज्ञानात्मकम् ईदृशो ऽयम् इति वा निश्चयात्मकं ज्ञानान्तरं शब्दयोजनाशून्यम् अस्त्य् एव, यथा तिरश्चाम् अन्येषां वा अस्मृतशब्दानां वाचकरहितम् असाधारणं वस्तु प्रतिपद्यमानानाम्. अतो ऽस्त्य् एव ज्ञानद्वयप्रदर्शनात् प्रमाणफलविवेकः. यदा पुनरालोचिते ऽर्थे निश्चयो न जायत एव, तदा प्रमाणत्वम् एव नास्तीत्य् आह -- नासाव् इति. अर्थावधारणफलत्वात् प्रमाणत्वस्य, तस्य च तदानीम् अभावाद् इति
SK
विशेष्यज्ञान इदानीं का वार्ता. न तावदप्रामाण्यं, सर्वत्र प्रसङ्गात्. न चासति फले प्रमाणत्वम् अपि शक्यं समर्थयितुम्. अथ तद् एव प्रमाणं फलं चेति द्विरूपम् इष्यते, अस्तु तर्हि विशेषणज्ञानादिष्व् अपि द्विरूपत्वम् एव, किं भेदोपन्यासेन. युक्तं चैतद् एवम्. एवं हि प्रमाणफलयोर् अत्यन्तप्रत्यासत्तिर्{१,२३६}आश्रिता भवति. सैव चोपपत्तिमती. न ह्य् अन्यत्र साधनम् अन्यत्र साध्यं दृष्टम्. न हि परशौ खदिरं प्राप्ते पलाशे छिदा भवति, अत आह -- हानादीति. अयम् अभिप्रायः -- यत् तावद् इदम् अतिप्रत्यासत्तितृष्णयैकत्वं प्रमाणफलयोः, तदनन्तरम् एव निराकरिष्यामः. यत् तु विशेष्यज्ञानस्य फलान्तरं न दृश्यत इति. तन् न. अस्ति तत्रापि तदुत्तरकालभावि हानादि फलम्. अथ ज्ञानस्य ज्ञानम् एव फलम्, एवम् इहापि हानादिधीर् एव फल[ं] भविष्यतीति. अथोपकारादिस्मृतिव्यवहिता हानादिबुद्धिर् न फलम् इति किं मन्यसे, अस्तु तर्हीयम् एवोपकारादिस्मृतिः फलम् इत्य् आह -- उपकारादीति
SK
यस् तु विषयैकत्वम् इच्छता प्रमाणफलयोर् एकत्वम् आश्रितं, तदलौकिकम् अयुक्तं चेत्य् आह -- विषयेति
SK
यच् चेदम् उक्तं परशौ खदिराश्रिते पलाशे न छिदा दृश्यते इति. इदं वा किं दृश्यते यत् परशुच्छेदनयोर् एकत्वम् इति. अतो यत्र साधनं व्याप्रियेत तत्र फलं निष्पद्यते. तच् च पूर्वं प्रतिपादितम् एव, न तु साधनम् एव फलम् इत्य् अभिप्रायेणाह -- छेदन इति
SK
यदि तूच्यते -- साध्यसाधनयोर् विषयभेदो[६५९]न दृष्टः एकत्वं च, तदन्यतरस्मिन् नाश्रयितव्ये ऽस्मभ्यं विषयाभेदो रोचत इति. तन् न. शक्यम् इदम् इतरेणापि वक्तुम् इति सापहासम् आह -- भवत इति
SK
__________NOTES__________
SK
[६५९] दो दृ (GA)
SK
{१,२३७} यदि तूच्यते -- फलभूतस्यैव ज्ञानस्य करणत्वम् औपचारिकं कथञ्चित् कल्प्यते, न तु पारमार्थिकम्. पारमार्थिकं हि द्विरूपत्वम् एकस्य न सम्भवति. तदौपचारिकं करणत्वम् आश्रित्य तदुभयम् उपपादयिष्याम इति. एवं तर्हि भिन्नयोर् एव प्रमाणफलयोः कथञ्चिद् विषयैकत्वं किम् इति न कल्प्यते, तथा सत्य् उभयं पारमार्थिकं भविष्यतीत्य् आह -- करणत्वेति. तच् च कथञ्चिद् विषयैकत्वं पूर्वम् उक्तम् एव. परैर् इति. बौद्धापेक्षया स्वात्मनि परशब्द इति
SK
प्रकृतम् इदानीं प्रमाणफलविवेकम् उपसंहरति -- परिच्छेदेति. अर्थपरिच्छेदफले आत्ममनस्संयोगाद्यानन्तर्यविवक्षया प्रमाणम्. ज्ञाने च प्रमाणे पूर्वम् आलोचनादिज्ञानं प्रमाणम्. परं तु विशेषणादिज्ञानं फलम् इति प्रकरणार्थः. सर्वं चेदम् एवं सत्य् अनुवादत्वम् इत्य् एतत् पक्षाश्रयणेनोक्तम् इति द्रष्टव्यम् इति
SK
यदि तूच्यते -- नेदम् औपचारिकं करणत्वम्, अपि तर्हि द्विरूपम् एकम् एव ज्ञानं स्वसंवित्त्या विषयाकारेण च. तद् अत्र स्वसंवित्तिः फलं, विषयाकारः प्रमाणम्. यथाहुः --
SK
विषयाकार एवास्य प्रमाणं तेन मीयते |
SK
स्वसंवित्तिः फलं चात्र तद्रूपो ह्य् अर्थनिश्चयः ||
SK
इति. स तु विषयाकारः स्वयम् अनाकारस्य न स्वाभाविको ज्ञानस्य केवलम् अर्थेनाधीयत इति सौत्रान्तिकमतम् उपन्यस्य निरस्यति -- स्वसंवित्तीति. इदं नीलम् इति बहिर्विषयानुभवसमर्थम् एव ज्ञानं न स्वरूपानुभवक्षमं, स्वात्मनि क्रियाविरोधाद् इति विज्ञानवादे वक्ष्याम इति. यच् चेदम् उक्तं विषयाकारः प्रमाणम् इति. तन् न, प्रमाणाभावात्. विषयाकारो{१,२३८}नामार्थेन ज्ञानम् आधीत्यत इति न[६६०]नः प्रमाणं, तदधीनज्ञानवैचित्र्यानुपपत्तेः. यदि त्व् अयं विषयाकारो विषयस्थ एव, तदा तस्मिन् प्रमाणे भिन्नार्थत्वम् अपरिहार्यम् एवेत्य् आह -- प्रमाण इति
SK
__________NOTES__________
SK
[६६०] नास्ति नः (GA)
SK
अन्यन् मतं - स्वभावतः स्वच्छं ज्ञानम् अनादिवासनोपप्लावितानेकनीलाद्याकारम् आत्मानम् आत्मनैव गृह्णाति. तद् अस्य स्वाकारः प्रमाणं, विषयाकारः प्रमेयं, स्वसंवित्तिः फलम् इति. यदाहुः --
SK
यदाभासं प्रमेयं तत् प्रमाणफलते पुनः |
SK
ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम् ||
SK
इति. तद् एतद् उपन्यस्य दूषयति -- स्वाकारश् चेति. स्वसंवित्तिस् तावन्निषेध्यत इत्य् उक्तम्. यश् चायं स्वाकारः प्रमाणतया कल्पितः सो ऽपि स्वसंवित्तेर् अन्यो नावगम्यते. संविद्रूपतैव ज्ञानस्य स्वाकारः. तच् च फलम् एव किम् अन्यत् प्रमाणं भविष्यतीति. विषयाकारस् तु बहिर् एव[६६१]बाधिताकारसंवित्संविहितो नान्तर्वृत्तिम् अनुभवितुम् अर्हतीति नैवम् अपि समानविषयत्वम् उपपादयितुं शक्यम् इति भावः
SK
__________NOTES__________
SK
[६६१] वा (KA)
SK
अस्तु वा स्वसंवित्तेर् अन्यः स्वाकारः. स तु परिच्छिन्नो वा प्रमाणम् अपरिच्छिन्नो वा. न तावदपरिच्छिन्नः. अपरिच्छिन्नस्य सत्त्वायोगात्. परिच्छेदश् च न तेनैव तस्येत्य् अपरापराकारकल्पनायाम् आकारानन्त्यप्रसङ्ग इत्य् आह -- स्वाकारस्येति. असञ्चेतितस्य स्वाकारस्य न सत्ता सिध्यतीत्य् आह -- न चेति. इदं चानागतावेक्षणेन पूर्वम् अस्माभिर् उक्तम् एव. यश् चायं विषयाकारो ज्ञानाद् अभिन्नो ग्राह्य इति कल्पितः, तस्यापि स्वात्मनि{१,२३९}वृत्तिविरोधेन ज्ञानेन ग्रहीतुम् अशक्यत्वाद् अन्यस्य च ग्राहकस्यानुपलम्भनाद् अभावः स्याद् इत्य् अभिप्रायेणाह -- ग्राह्य इति. तद् एवं परपक्षे त्रितयम् एव मानमेयफलात्मकं लुप्यत इति दर्शितम् इति
SK
ननु भवत्पक्षे ऽपि सुखादिप्रत्यक्षेषु स्वसंवित्तिर् एव फलम् अभ्युपगन्तव्यम्, ज्ञानातिरिक्तानां सुखादीनाम् असम्भवात्. तान्य् अपि ज्ञानसमानहेतुकानि. ज्ञानं हि समनन्तरप्रत्ययाद् वासनासहायाद् भवति. सुखाद्य् अपि रूपादिज्ञानेभ्यो वासनासहायेभ्यः परिनिष्पद्यते. अतस् तद् अपि ज्ञानम् एव, कारणाभेदे कार्यभेदायोगात्. यथाहुः --
SK
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः |
SK
तत्सुखादि[६६२]किम् अज्ञानं विज्ञानाभिन्नहेतुजम् ||
SK
__________NOTES__________
SK
[६६२] क (GA)
SK
इति. एवं ज्ञानानां सतां ग्राह्यान्तराभावात् संवेदनत्वम् एव, अत आह -- मनसश् चेति. अयम् अभिप्रायः -- न सुखादिसंवेदनान्य् अपि विज्ञानान्तरविधाम् अतिवर्तन्ते. तान्य् अप्य् अन्तःकरणेन मनसेन्द्रियेण संयुक्तान्य् आत्मगुणान्तर्भूतान्य् एवात्मना प्रतिपद्यन्ते. अतो मातृमेयमानमितयस् तत्रापि भिद्यन्ते. यत् तु ज्ञानकारणत्वेन ज्ञानत्वम् उक्तं, तत्र किं समवायिकारणं सुखस्य ज्ञानमाहोस्विन्निमित्तम्. न तावत् पूर्वः कल्पः, तेषां ज्ञानवदात्मसमवायित्वात्. निमित्तत्वं तु सर्वार्थक्रियास्वविशिष्टं ज्ञानस्येति तासाम् अपि ज्ञानत्वापातः. तस्मान् न किञ्चित् स्वसंवेदनम् इति. यद् उक्तं परैः -- सर्वचित्तचैत्तानाम् आत्मसंवेदनं प्रत्यक्षम् इति, तत् प्रत्युक्तं भवतीति
SK
ननु समस्तो ऽयं प्रमाणफलप्रपञ्चो लक्षणाभ्युपगमेन भवता दर्शितः. तद् इह विषयविशेषो ऽपि दर्शयितुम् उचितः. यथान्यैः कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति प्रत्यक्षलक्षणम् उक्त्वा तस्य स्वलक्षणविषयत्वं दर्शितम् अत आह -- सम्बद्धम् इति. अयम् अभिप्रायः -- स नाम विषयं दर्शयतु[६६३]यस्य किञ्चिद्{१,२४०}व्यावर्त्यम् अस्ति, यथा बौद्धस्यैव सामान्यम्. अस्माकं तु सम्बद्धवर्तमानविषयं प्रत्यक्षं, न सामान्यविशेषयोर् अन्यतरद् अपि व्यावर्त्यम् इति किं विषयनिर्देशेनेति
SK
__________NOTES__________
SK
[६६३] ति (KA)
SK
नन्व् अत्र भाष्यकारेण प्रत्यक्षम् अनिमित्तम्, एवंलक्षणकं हि तत् इत्य् उक्तम्. अतो यद् एवंलक्षणलक्षितं तन्नामानिमित्तं भवतु. बौद्धादिलक्षितं तु किं निमित्तं न भवतीत्य् आशङ्क्याह -- लक्षणम् इति. एवं हि मन्यते -- बौद्धादिलक्षणलक्षितम् अपि यदि लौकिकं प्रत्यक्षं, तर्हि नियतं विद्यमानोपलम्भनम्. नो चेत् प्रत्यक्षम् एव न भवतीति सिद्धा सर्वस्यानिमित्ततेति
SK
ये च निर्विकल्पकप्रत्यक्षवादिनो बौद्धाः तेषां सुतरां धर्मे प्रत्यक्षस्यानिमित्ततेत्य् आह -- निर्विकल्पकेति. अत्र कारणम् आह -- साध्यसाधनेति. स्वर्गयागादिसाध्यसाधनसम्बन्ध एव धर्मः, नासाव् अविकल्प्य ग्रहीतुं शक्यत इति
SK
अत्र भाष्यकारेण प्रत्यक्षस्यानिमित्ततां प्रतिपाद्य तत्पूर्वकत्वाच् चानुमानादीनाम् अप्य् अनिमित्तत्वम् उक्तम्. तच् च तत्पूर्वकत्वासम्भवेनाक्षिपति -- कथम् इति. किम् इति न भवतीत्य् अत आह -- यदेति. एवं हि मन्यते -- इन्द्रियार्थसामर्थ्यमात्रजन्मा हि धीः प्रत्यक्षम्. सा च स्मृत्याक्षिप्तनाम् अजातिगुणद्रव्यकर्मविकल्परहिता. न हीन्द्रियाणि स्मर्तुं शक्नुवन्ति. नाप्य् अर्थः. यथाहुः -- न हीन्द्रियमियतो व्यापारान् कर्तुं समर्थं,{१,२४१}सन्निहितविषयबलेनोत्पत्तेर् इति. अतो नैवंविधप्रत्यक्षपूर्वकत्वम् अनुमानादीनाम् उपपद्यत इति
SK
ननु निर्विकल्पकप्रत्यक्षपूर्वकाणि किम् इत्य् अनुमानादीनि न भवन्ति, अत आह -- न चेति. अयम् अभिप्रायः -- लिङ्गादिविकल्पपूर्वकाण्य् अनुमानादीनि. न तेषां निर्विकल्पकाद् एवात्मलाभः सम्भवति. न च विकल्पसम्भिन्नानां ज्ञानानां प्रत्यक्षत्वम् उपपद्यते. आन्तरालिकविशेषणविशेष्यार्थस्मरणेनेन्द्रियार्थव्यापारख्यवधानात्. न च निर्विकल्पकोदये व्यापृतं सदर्थेन्द्रियं पुनः सविकल्पकोत्पत्ताव् अपि व्याप्रियत इति प्रमाणम् अस्ति, विशेषणादिस्मरणसमनन्तरम् सम्भवत् सविकल्पकं तद्भावभावात् तत्कारणकम् एव भवेत्. अपि च यदि तदिन्द्रियं पुनः सविकल्पकोत्पत्ताव् अपि कारणं, तत् प्राग् अप्य् आसीद् इति किं न सहसैवं सविकल्पकप्रत्ययान् अपि जनयेत्. अतो नेन्द्रियार्थसामर्थ्यजन्मानः सविकल्पकप्रत्यया इति न प्रत्यक्षम्. इन्द्रियव्यापारासत्तिमात्रेण तु प्रत्यक्षत्वे निमीलितनयनस्यापि विकल्पः प्रत्यक्षो भवेत्. यच् च नामाविकल्पकं प्रत्यक्षं न तल्लिङ्गादिविकल्पकम् इति न कथञ्चित् प्रत्यक्षपूर्वकत्वम् अनुमानादीनाम्. उपमाने ऽपि वनस्थस्य[६६४]गवयदर्शिनः[६६५]स्मृते नगरस्थे गवि यत् सादृश्यग्रहणं,[६६६]तद् अपि नाविकल्प्य भवतीति सम्बन्ध इति
SK
__________NOTES__________
SK
[६६४] स्थग [६६५] यसदृशस्मृ (GA) [६६६] श्यं त (KA)
SK
अर्थापत्तिर् अप्य् अतीन्द्रियेषु विषयेष्व् एव शक्ता श्रोत्रादिषु न परं प्रत्यक्षेण अन्येनापि प्रमाणेनाद्र्ष्टपूर्वेषु प्रवर्तते. सा कथं प्रत्यक्षपूर्विका भविष्यतीत्य् आह -- अर्थापत्तिर् इति. क्वचित् पूर्वदृष्टे ऽपि सन्निवेशविशेषविशिष्टे प्रवर्तते, यथा गृहाभावदृशः पुरुषस्य देवदत्तस्य बहिर्भावावगम इति प्राय इय् उक्तम्. ननु भवत्व् अतीन्द्रियविषया अर्थापत्तिः. यत् तु अनुपपद्यमानम् उपलभ्य प्रवर्तते तत् प्रत्यक्षपूर्वकं भविष्यतीत्य् अत आह -- प्रवर्तते{१,२४२}चेति. यो ऽपि दाहादिः शक्त्याद्यर्थापत्तेर् निमित्तं सो ऽपि यावत् कथम् इदं कदाचित् कार्यम् अकस्माज् जातम् इति न विकल्प्यते, न तावदर्थापत्तेर् निमित्तं भवतीति
SK
अपि च यत्र देशान्तरप्राप्त्या सूर्यस्य गतिम् अनुमाय गतिसाधनं लिङ्ग्य् अनुमीयते, तत्र कथं प्रत्यक्षपूर्वकत्वम् इत्य् आह -- यत्र चेति. लिङ्गं सूर्यगत्यादीति सम्बन्धः. लिङ्गि तु गतिसाधनम् अत्र दर्शयितव्यम् इति
SK
प्रत्यक्षपूर्वकत्वे च गृहीतग्राहित्वाद् अनुमानादीनाम् अप्रामाण्यं प्रसज्यत इत्य् आह -- प्रत्यक्षेति. नन्व् अन्यदा प्रत्यक्षं प्रमाणं भवति, अन्यदा चानुमानादीनि प्रमाणं भविष्यन्तीत्य् अत आह -- तैर् यदेति. यद्य् अनुमानादिप्रवृत्तिकाले न प्रत्यक्षं प्रवर्तते, तदा सो ऽर्थो ऽक्षस्य न गोचरो भवतीति कथं प्रत्यक्षपूर्वकत्वम्. प्रत्यक्षावगतिवेलायां तु गृहीतग्राहित्वेनाप्रमाणम् इत्य् उक्तम् एवेति
SK
अथोच्येत -- न ब्रूमः प्रमेयम् एवानुमानादीनां प्रत्यक्षेण गृह्यत इति प्रत्यक्षपूर्वकत्वम्. अपि तु लिङ्गादेर् अन्यतरस्यादौ प्रत्यक्षेण ज्ञानात्, तद् इदम् आशङ्कते -- अथ कस्यचिद् इति. सर्वस्य हि जातमात्रस्य प्रथमं किञ्चित् प्रत्यक्षं, ततो ऽनुमानादीति सदृशं तत्पूर्वकत्वम् इति. एतद् अपि दूषयति -- तदेति. अत्र हि भविष्यंश् चैषो ऽर्थो न ज्ञानकाले ऽस्तीति भविष्यत्त्वं धर्मरूपस्य प्रमाणान्तरेणाज्ञाने कारणम् उक्तम्. तन् न प्राप्नोतीत्य् अर्थः
SK
किम् इति न स्याद् अत आह -- वर्तमान इति. एवं हि मन्यते -- प्रमाणान्तरावेद्यतासिद्ध्यर्थं हि धर्मस्य प्रत्यक्षत्वं विनिवार्यते, न पुनः प्रत्यक्षमात्रेण{१,२४३}निवारितेन किण्चित् प्रयोजनम्. तावतापि चोदनैवेति प्रतिज्ञाया असिद्धेः. तद् यदि क्वचिद् एव प्रत्यक्षेण गृहीते ऽनुमानादीनि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वम् अनुमानादीनां, तदा प्रत्यक्षेण वर्तमान एव क्वचिद् अर्थे विज्ञाते अनुमानेनाविध्यमान एव धर्मो ऽवगम्यते. एवं प्रमाणान्तरैर् अपि. ततश् च भविष्यत्त्वेन प्रत्यक्षाग्रहणम् अकिञ्चित्करम् एव स्यात्. यदि प्रत्यक्षविषय एव तानि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वं भवति, तदा प्रत्यक्षाविषये तान्य् अपि न प्रवर्तन्त इति प्रमाणान्तरावेद्यता सिध्यति. चोदनैवेति च प्रतिज्ञातार्थः. लिङ्गाद् इति प्रदर्शनमात्रम्. तैर् अनुमानादिभिर् इत्य् अर्थः
SK
इष्टविघातका(?री/रि) चेदृशं तत्पूर्वकत्वम् इत्य् आह -- प्रत्यक्षेणेति
SK
एवं दूषितम् अन्येषां मतेन समर्थयते -- केचिद् इति. किं नामेदम् अत आह -- तत्पूर्वेति. एवं हि मन्यते -- नात्र तत्पूर्वकत्वं प्रमाणान्तराणाम् अनिमित्तत्वे हेतुर् उच्यते, किन् तु प्रत्यक्षानिमित्तत्वे प्रतिपादिते यत् तावत् तत्पूर्वकतया प्रामाण्यसम्भावनम् अनुमानादीनां, तत् तावन् नास्तीत्य् एतद् अनेन भाष्येणोक्तम् इति
SK
अत्र चानुमानाद्यनिमित्तत्वे हेत्वनभिधानाद् अपरितुष्यन् समाधानान्तरम् आह -- प्रत्यक्षेणेति. अयम् अभिप्रायः -- प्रत्यक्षदृष्टगोचराण्य् एवानुमानादीनि. तथा हि -- नागृहीते ऽग्नौ धूमस्य तद्व्याप्तिर् अवधारयितुं शक्यत इति धूमदृशापि नाग्निर् अनुमीयत एव. यावन्नगरे गौर् न प्रत्यक्षेणावसीयते, तावद् वने गवयं पश्यतापि नोपमातुं शक्यते. तद् यदि धर्मो ऽपि प्रत्यक्षेणावसीयते, कदाचित् ततस् तद्व्याप्तलिङ्गदर्शनाद् अनुमीयेत वा, उपमीयेत वा. न{१,२४४}त्व् असौ कदाचिद् प्रत्यक्ष इत्य् उपपादितम्. अयं चार्थो लिङ्गशब्दं प्रयुञ्जानेन वार्त्तिककारेण दर्शितः. न ह्य् असति व्याप्तिदर्शने धूमो ऽग्नेर् लिङ्गं भवति. न च व्याप्तिदर्शनम् असत्य् अग्निज्ञाने. एवमुपमाने ऽपि दर्शयितव्यम्. आदिशब्देन सदृशम् उपादत्त इति
SK
यच् चानुमितानुमानं न प्रत्यक्षपूर्वकम् इत्य् उक्तं तद् अप्य् अयुक्तम्. तत्रापि हि यावद् गतितत्साधनयोः प्रत्यक्षेण सम्बन्धो नावगम्यते, लिङ्गीयगतिसाधनं लिङ्गं च सम्प्रति दृश्यमाना देशान्तरप्राप्तिर् आदित्यस्य न तावदनुमानं प्रवर्तत इत्य् आह -- अनुमानेति
SK
अनुमाने सर्वत्र धर्मी धर्मविशिष्टः प्रमेयो भवति, न वस्तुसत्तामात्रम्. धर्मानुमाने तु धर्मो ऽस्तीति सत्तामात्रम् अनुमेयम् आपद्यते. न च तद् युक्तम् इत्य् आह -- सत्ता चेति. यदि त्व् इहापि धर्मविशिष्टः कश्चिद् धर्म्य् एको ऽनुमीयेत, तद्धर्मविशेषणासिद्धेर् अयुक्तम् इत्य् आशङ्कया सहाह -- धर्मेणेति
SK
एवम् उपपादितम् अननुमेयत्वं प्रयोगेण दर्शयति -- तस्माद् इति
SK
अनुपमेयत्वे ऽपि धर्मस्य प्रयोगम् आह -- अदृष्टेति. यस्य हि सादृश्यम् अस्ति तत् सदृशम्. अवयवसामान्यानुवृत्तिश् च प्रतियोगिनि सादृश्यम्. न चासाधारणस्य सामान्यानुवृत्तिः सम्भवति. तथा हि तस्यासाधारणतैव{१,२४५}न स्यात्. तद् अयम् ईदृश(?मे/ए)कः प्रयोगो भवति. धर्मो नोपमीयते अदृष्टसदृशत्वाद् असाधारणवत्. तथैव वा नानुमीयते नोपमीयते स्वयम् अनुपलम्भाद् गगनकुसुमवद् इत्य् ऊहनीयम्
SK
आह -- अस्तूपमानानुमानयोर् अनिमित्तत्वम्. अर्थापत्तिस् तु प्रायशो ऽतीन्द्रियार्थविषया दृष्टेति तयैव जगद्वैचित्र्यदर्शनप्रसूतया धर्मो ऽवगंस्यते इत्य् आह -- नन्व् इति. जगद्वैचित्र्यम् एव दर्शयति -- सुखीति. ईश्वरदरिद्रादिभेदेन हि सुखिदुःख्यादिभेदभिन्नं जगद् उपलभ्यते. तद् एवं जगतो वैचित्र्यम् असति कारणे ऽनुपपद्यमानं कारणम् अवगमयति, तच् च धर्माधर्माव् इति. ननु सुखदुःखयोस् तावद् यद् अनन्तरं दर्शनसद्भावः, तद् एव कारणम्. तत्रापि दृष्टम् एवासीद् इति किम् अदृष्टकल्पनया, अत आह -- दृष्टस्येति. सत्य् अपि च दृष्टे तन् न सम्भवति. अव्यभिचारि च कारणं कारणविदाम् इष्टम्. अतो ऽदृष्टकल्पनैव प्रसक्तेति भावः. न केवलं सति दृष्टे न भवति, असत्य् अपि भवत्य् एव. यद् यस्मिन्न् असति भवति तद् न तत्कारणकं घट इव शशविषाणाकारणक इत्य् आह -- तदभाव इति. व्यभिचारम् एव प्रपञ्चयति -- सेवाध्ययनतुल्यत्व इति
SK
एतद् एव निराकरोति -- स्याद् एवम् इति. निराकृते स्वभाववादे ऽदृष्टं कल्पयितुं शक्यते. न च स्वभाववादो निराकर्तुं शक्यते. कर्मशक्तिवैचित्र्यसिद्ध्यर्थम् अवश्याभ्युपगमनीय इत्य् आह -- कर्मशक्तेर् इति. अवश्यं हि फलवैचित्र्यसिद्ध्यर्थं कर्मणां शक्तिभेदो ऽङ्गीकरणीयः. न हि तत्र स्वभावाद् अन्यो हेतुर् उत्प्रेक्षितुम् अपि शक्यत इति
SK
अथ तत्र स्वभावो हेतुर् इष्यते, एवं तर्हि[६६७]सो ऽपि जगद्वैचित्र्यार्थम् एवास्तु. किम् अन्तर्गडुना कर्मशक्तिकल्पनया. तद् एतद् आह -- यथा चेति
SK
__________NOTES__________
SK
[६६७] र्हि तद् अपि (KA)
SK
अथोच्येत -- स्वभावो नामानपायी भवति, यथा शीतौष्ण्ये तोयतेजसोर्[६६८]इति. इह तु धनवानेवाकस्माद् दरिद्रः. न तत् स्वाभाविकत्व उपपन्नम् इति कल्पनीयम् अदृष्टम् इति, यद्विनाशाद् अस्य धनविनाशो जायत इति. अस्तु तर्ह्य् अनिर्धारितरूपा अदृष्टसिद्धिः, किम् अतिनिर्बन्धेन यस् त्व् अयं विभागः इदं धर्मफलम् इदम् अधर्मफलम् इति, स नावगन्तुं शक्यते. न च तस्मिन्न् अनवगते किम् अपि कारणम् अस्तीति ज्ञानं क्वचिद् उपयुज्यत इत्य् आह -- अधर्म इति
SK
__________NOTES__________
SK
[६६८] सोः. इ (GA)
SK
एतद् एव प्रपञ्चयति -- किन् न्व् इति. न केवलं धर्माधर्मफलविवेको न सिध्यति. धर्मफलानाम् अपि स्वर्गपुत्रादीनां कीदृशात् कर्मभेदतः सिद्धिर् इत्य् एतद् अपि न ज्ञायत इत्य् आह -- स्वर्गपुत्रादीति
SK
न च वाच्यं मा ज्ञायि कर्मफलविवेकः. अस्ति तावत् कारणसामान्यज्ञानम् इति. तावता च प्रवृत्त्यभावाद् इत्य् आह -- इतीति. प्रवृत्त्यङ्गस्य च ज्ञानस्य हानोपादानार्थिभिर् मूलं परीक्ष्यत इत्य् आह -- प्रवृत्तीति
SK
{१,२४७} उपसंहरति -- तस्माद् इति. सूत्रकारेणापि विशेषजिज्ञासैव प्रतिज्ञाता, उपरिष्टाद् विशेषाणाम् एव जिज्ञास्यमानत्वात्. स च विशेषो ऽनन्यप्रमाणक इत्य् उक्तम् इत्य् आह -- विशेषस्येति
SK
काणादास् तु जगद्वैचित्र्यात् सामान्यतः सिद्धेर् आगमेन विशेषतो ऽवगम्यते. तद् अयं द्वाभ्याम् एव प्रमाणाभ्यां परिनितिष्ठतीति वदन्ति, तत्राह -- गम्यमान इति. एवं हि मन्यते -- सामान्यावगतौ त्व् इह विशेषो न निर्धार्यते व्यभिचारात्. विशेषस् तु सिध्यन् नानालीढसामान्य एव सिध्यतीति किं पृथक् तत्र प्रसिद्ध्या. तस्माद् अकारणम् अर्थापत्तिः सामान्यसिद्धाव् इति
SK
ये तु वदन्ति -- नेयम् अर्थापत्तिः, किन् तु सामान्यतोदृष्टानुमानम् इदम्. कार्यसामान्यस्य कारणसामान्येन व्याप्तेः. अतो जगद्वैचित्र्यार्थापत्तिवादिनाम् इवानुमानम् एवेदम् इति. ते ऽप्य् अर्थापत्तिनिरासेनैव निरस्ता इत्य् आह -- यथेति. अयम् अर्थः -- जगद्वैचित्र्यार्थापत्तिर् इव सामान्यतोदृष्टानुमानं प्रवर्तत इति यानुमानस्योपमा कृता, सार्थापत्तिनिराकरणमात्रेणैव नेष्यते नानुमेष्यते नोपमेष्यत इति तु ये वदन्ति, तेषाम् उपमायाम् अभागी प्रतिषेध इति. यदि त्व् अनुमानम् अपि विशेषावधारणे शास्त्रापेक्षम् इत्य् उच्यते, तद् एव तर्हि सामान्यविशेषयोर् अपि निरपेक्षं प्रमाणम् आपद्यत इत्य् आह -- शास्त्रं चेद् इति
SK
एवं तावत् प्रत्यक्षेण लिङ्गाद्यन्यतमं गृहीत्वानुमानादि प्रवर्तत इति प्रत्यक्षपूर्वकम् इत्य् उक्तम्. इदानीं तु यद् उक्तं न लिङ्गादिप्रत्यक्षम् अविकल्पनात्, प्रत्यक्षस्य लिङ्गादिग्रहणस्य च सविकल्पकत्वाद् इति. तद् दूषयितुम् अनुभाषते -- प्रत्यक्षेति. एवम् अनुभाष्य दूषयति -- तन्नेति. कारणम् आह -- इष्टत्वाद् इति. अयम् अभिप्रायः -- नायम् एकान्तः निर्विकल्पकम् एव{१,२४८}प्रत्यक्षम् इति. तदुत्तरकालं हि यदनुपरतेन्द्रियव्यापारेण विकल्पोपकृतम् अर्थरूपम् अनुभूयते, तद् अपि प्रत्यक्षम् इत्य् उपरिष्टात् प्रपञ्चयिष्यामः. अतः सविकल्पकप्रत्यक्षपूर्वकत्वम् अनुमानादीनाम् उपपन्नम् इति
SK
अत्र कश्चिद् अपिशब्दम् असहमानः प्रत्यवतिष्ठते. एवं हि मन्यते -- सर्व एव सविकल्पकः प्रत्ययः, वाग्रूपानुविद्धबोधात्. न हि स नाम लोके प्रत्ययो दृश्यते यः शब्दानुगमाद् विना भवति. व्यवहारार्थं च प्रमाणम् अनुध्रियते. न च निर्विकल्पकेन कश्चिद् व्यवहारो ऽस्ति, सर्वव्यवहाराणां विशेषनिश्चयाधीनत्वाद् निश्चयस्य च विकल्पम् अन्तरेणाभावात्. यदि तूच्यते अस्ति बालानां तिरश्चां चाविकल्पः प्रत्ययः व्यवहारश् चेति. तन् न. तेषाम् अपि सूक्ष्मवाग् उपपत्तेः. त्रेधा हि वाचं विभजन्ते वैखरी मध्यमा सूक्ष्मा चेति. यथोक्तं -
SK
शब्दब्रह्मैव तेषां हि परिणामि प्रधानवत् |
SK
वैखरीमध्यमासूक्ष्मावागवस्थाविभागतः ||
SK
इति. किं पुनर् बालानां सूक्ष्मशब्दसद्भावे प्रमाणं, प्रत्ययत्वम् एव. प्रत्यया हि ते कथम् अशब्दा भविष्यन्ति अस्मदादिप्रत्ययवद् एव. कथम् अव्युत्पन्ना बालाः शब्देनार्थं योजयन्तीति चेद्, न. प्राग्भवीयशब्दवासनावशाद् उपपत्तेः. अस्ति हि तेषां भवान्तरीयशब्दवासना. सादृष्टवशाद् अभिव्यक्ता सती शब्दस्मरणम् उपकल्पयति. ततः सूक्ष्मशब्दसम्भिन्नम् अर्थं बाला अपि प्रतिपद्यन्ते इत्य् अतो ऽयुक्तो विकल्पस्यापीत्य् अपिशब्द इत्य् अत आह -- अस्तीति. अयम् अभिप्रायः -- अयम् अप्य् अनेकान्तः यः सविकल्पक एव प्रत्यक्ष इति. आलोचनाज्ञानम् अपि सविकल्पकात् पृथग्भूतम् अस्ति. प्रतीमो हि वयम् उन्मिषितचक्षुषः सहसा संमुग्धं द्व्याकारं परमार्थं वस्तु, यत् सामान्यं विशेष इति च पश्चात् परीक्षका विभजन्ते. यदि तु नादाव् उदीयते निर्विकल्पकं विज्ञानम् इत्य् उच्यते, ततः सविकल्पकम् अपि कथम् आत्मानं लभते. तद् धि सङ्केतकालभाविशब्दादिस्मरणपूर्वकम्. न चाकस्माद् एव तत्स्मरणम् आविरस्ति, निर्विकल्पकोद्बोधितप्राचीनभावनाबीजजन्मान्{१,२४९}अस्तु विकल्पा इति युक्तं यदात्मानं लभत इति. यद् अपि चाव्यवहाराङ्गत्वं निर्विकल्पकस्येत्य् उक्तम्. तद् अयुक्तम्. न हि व्यवहारार्थम् एव प्रमाणम् आश्रीयते. उपेक्षा हि प्रमाणफलम् इष्यत एव. अपि च सन्ति केचिद् व्यवहाराः ये निर्विकल्पकमात्राद् एव भवन्ति, यथाग्निना दह्यमानस्य सहसापसरणम्. तद् धि परामर्शानपेक्षम् एव झट् इति जायमानम् उपलभ्यते. तिर्यग्बालानां चाविकल्पकेनैव सर्वो व्यवहारः. न च तेषां सूक्ष्मशब्दसद्भावे प्रमाणम् अस्ति. प्रत्ययत्वस्यास्मदादिस्वसंवेद्याविकल्पकप्रत्ययेनानैकान्तिकत्वात्. कथं च तेषाम् अगृहीतसम्बन्धानां शब्दसम्भिन्नार्थबोधः. यद् उक्तं प्राग्भवीयवासनावशाद् उपपत्तिर् इति, तन् न. तस्याः प्रायेण मरणेनोच्छेदात्. भवान्तरानुभूतस्मरणे वा परस्ताद् अपि सम्बन्धग्रहणानर्थक्यम्. यो हि जातमात्रः सूतिकाशयन्ते शयानः कुमारको भवान्तरीयं स्मरति, स कथम् उपरिष्टान् न स्मरिष्यति. अथ मतं परस्ताद् अस्य संस्कारो नश्यतीति. तन् न. यस्य हि निधनेन योनियन्त्रपीडया च संस्कारो न विनष्टः, तस्य कथम् अकस्माद् एव द्वित्रैर् एव वर्षैः संस्कारनाशो भवति. तस्माद् अस्ति बालानाम् अविकल्पः प्रत्ययः, तन्मूलश् च व्यवहार इति सिद्धं निर्विकल्पकम् अपि प्रत्यक्षम् इति. आदिशब्देन च जातमात्रस्य बधिरस्य तिरश्चां च ज्ञानम् उपादत्त इति
SK
नन्व् अर्थेन्द्रियसामर्थ्यमात्रजं ज्ञानं निर्विकल्पकम्. न तत्रानुवृत्तिव्यावृत्ती प्रतिभासेते. न च ते अन्तरेण सामन्यविशेषौ प्रकाशेते. अतः कथं तद्विषयं निर्विकल्पकं भविष्यतीत्य् आशङ्क्याह -- न विशेष इति. एवं हि मन्यते -- सत्यम् आपातजं निर्विकल्पकं सामान्यविशेषौ न प्रकाशयति. किम् अत्रानिष्टम् आपादितम् इति. ननु यदि सामान्यविशेषौ न प्रतीयेते, किं नाम तेनावगन्तव्यम्. न हि तदतिरिक्तं वस्त्व् अस्तीत्य् अत आह -- तयोर् इति. अयम् अभिप्रायः -- व्यक्तिमात्रगोचरं निर्विकल्पकम्. अस्ति वा विशेषातिरिक्ता व्यक्तिः. बाढं, यो ऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिः. के पुनर् अमी विशेषाः. खण्डादयः, यैर् इतरेतरं व्यक्तयो विशेष्यन्ते. सामान्यं तु{१,२५०}स्वप्रकाशम् एव. इदं च निर्विकल्पकेन सामान्यविशेषयोर् अग्रहणं सामान्यम् इदं विशेषो ऽयम् इति च विविच्याग्रहणाद् उक्तम्. तयोर् अपि तु स्वरूपं प्रकाशत एव. तद् एतद् उपरिष्टाद् वक्ष्याम इति
SK
अद्वैतवादिनस् तु सन्मात्रविषयं निर्विकल्पकं प्रत्यक्षम् इत्य् आचक्षते, तद् एतद् उपन्यस्यति -- महासामान्यम् इति. एवं हि मन्यन्ते -- निर्विकल्पकं प्रत्यक्षं वस्तुस्वरूपं विदधाति न वस्त्वन्तरेभ्यो विविनक्ति. इदम् इति हि तत् प्रकाशते न पुनर् नेदम् इति. न चाप्रकाशमाने विवेके विशेषाः प्रतिभाता भवन्ति. अपि च गवाश्वयोर् इतरेतरव्यवच्छेदो विशेषः. तद् इह किम् एकव्यवच्छेदपूर्वको ऽपरस्य विधिः, आहोस्विदेकविधिपूर्वको ऽन्यस्य व्यवच्छेदः, अथ युगपदुभयम्. न तावद् व्यवच्छेदपूर्वको विधिः सम्भवति, निराश्रयव्यवच्छेदानुपपत्तेः. निर्ज्ञातस्वरूपं कुतश्चिद् व्यवच्छिद्यते. अनवगते तु किं कुतो व्यवच्छिद्यते. अत एव यौगपद्यम् अप्य् अनुपपन्नम्. विधिपूर्वकस् तु व्यवच्छेदो न क्षणान्तरम् अध्रियमाणे ज्ञाने सम्भवति. न हि तदेकं विधाय सहसा निरुद्धं क्षणान्तरे ऽन्यं व्यवच्छेत्तुम् उत्सहते. अपि च इतरेतराभावो विशेषः. स कथं प्रत्यक्षविषयो भविष्यति, षष्ठप्रमाणविषयत्वात्. अतः सन्मात्रग्राहि प्रत्यक्षम्. तद् अयम् अर्थः -- द्रव्यं सद् इत्य् एवमादिपर्यायवाच्यं महासामान्यम् अन्यैः प्रत्यक्षस्य ग्राह्यम् उच्यत इति. एवम् अनेन प्रकारेण सामान्यविषयत्वं प्रत्यक्षस्य तैर् आश्रितम् इत्य् आह -- सामान्येति
SK
नन्व् एवम् अप्य् अप्रतिभासमाना विशेषा न सन्त्य् एवेति कथं सामान्यम् अपि सेत्स्यतीत्य् अत आह -- विशेषास् त्व् इति. अनादिकालीनवासनोपप्लावितविचित्रविकल्पवतीभिर् बुद्धिभिर् विशेषाः प्रकाश्यन्ते. अतस् तदाश्रयः सामान्यव्यवहारो भवति. परमार्थतस् तु न तत् सामान्यम्. एकम् एव तु प्रत्यस्तमितसमस्तसामान्यविशेषादिप्रपञ्चं तत्त्वम् आस्थीयते वेदान्तविद्भिः. तथा च{१,२५१}सर्वविशेषोपसंहार उक्तं - सद् एव सोम्येदम् अग्र आसीत् नेह नानास्ति किञ्चनेति. के पुनस् ते विशेषाः ये सविकल्पकबुद्धिभिः प्रतीयन्त इति तत्स्वरूपं दर्शयति -- ते चेति. द्विधा खलु विशेषाः साधारणा असाधारणाश् चेति. साधारणा यथा द्रव्यत्वादयः.[६६९]तर्हि पृथिव्यादयः सदन्तरेभ्यो गुणकर्मभ्यो विशि[६७०]ष्यन्त इति विशेषा इत्य् उच्यन्ते. तान् एव तु बहुषु संश्रिता इति
SK
__________NOTES__________
SK
[६६९] यः स (KA) [६७०] शे
SK
आह -- द्रव्यत्वं हि नवसु पृथिव्यादिषु संश्रितम् असाधारणास् तु ये प्रतिद्रव्यम् अन्ये ऽन्ये च. के पुनस् ते. यदि खण्डादयः, तन् न. तेषाम् अपि साधारणत्वात्. खण्डमुण्डादीनाम् अपि[६७१]ह्य् अन्या अन्या व्यक्तयो भवन्ति. एवं रूपादिष्व् अपि दर्शयितव्यम्. अतो नासाधारणा नाम विशेषाः केचिद् अवगम्यन्ते. ये तु नित्यद्रव्यवृत्तयो ऽन्त्या विशेषाः, ते व्यावृत्तिबुद्धेर् एव हेतुत्वाद् विशेषा एवेति कैश्चिद् उक्तम्. तद् अयुक्तं, प्रमाणाभावात्.[६७२]तथा हि -- न तावद् अर्वाग्दृशाम् अस्मद्विधानां ते बुद्धिविषयाः. योगिनस् तु तान् पशन्तीति न नः प्रमाणं क्रमते. न चैवं तैर् अदृष्टपूर्वैः किञ्चिद् विदितसम्बन्धं लिङ्गम् अस्ति यतः प्रमास्यन्त इति वक्तव्याः प्रतिद्रव्यवर्तिनो विशेषाः. त उच्यन्ते. सत्यम् एकैकश आलोच्यमाना रूपादयो नासाधारणाः यावता गुणजात्यादिगणेनैकैका व्यक्तिः व्यक्त्यन्तरेभ्यो विशिष्यते सो ऽसाधारण एव. बहुसाधारण्ये ऽपि हि यद् एव किञ्चिद् यस्याम् एव व्यक्तौ न्यूनम् अधिकं वा भवति, तेनैवासाधारणव्यपदेशो भवति. तच् चैतद् आकृत्यधिकरणे असाधारणविशेषा व्यक्तिर् इति व्याख्यानावसरे वार्त्तिककारो वक्ष्यति.[६७३]तान् इमान् व्यावृत्त्यनुगमा[६७४]त्मनावस्थितानुभयविधान् अपि विशेषानकल्पयत्. गव्य् अश्वे वा प्रत्यक्षम् उत्पन्नं न विशिष्यते. विषयविशेषनिबन्धनो हि ज्ञानविशेषः. न चेद् विषयविशेषो निर्भासते दुरधिगमो ज्ञानविशेषः. अतः प्रत्यक्षज्ञानं सन्मात्रगोचरम् एवेति सिद्धम्. तद् एतद् आह -- तान् इति
SK
__________NOTES__________
SK
[६७१] ण्डा अपि (GA) [६७२] त्. न (KA) [६७३] तीति त [६७४] ता (GA)
SK
{१,२५२} एतन् निराकरोति -- तद् अयुक्तम् इति. अयम् अभिप्रायः -- किम् उन्मिषितचक्षुषो विचित्रान् भावानुपलभमानस्य बुद्धिर् विशिष्यते न वा. यदि नेत्य् आह, किम् अस्योत्तरेण. अथ विशिष्यते, सैव तर्हि विलक्षणाकारा बुद्धिर् उपजाता असंशयिता देशादिभेदे ऽप्य् अनुपजातव्यतिरेका एकत्वम् इव नानात्वम् अपि स्थापयति. कथं ह्य् एकबुद्धिगोचरयोर् नानात्वैकत्वयोर् एकं सत्यम् इतरच् चालीकं भविष्यति. यत् तु विदधाति वस्तुनः स्वरूपं प्रत्यक्षं न निषेधतीत्य् उक्तम्. सत्यम्. विदधद् एतद् भिन्नम् एव विदधाति तथा प्रतीतेः. नन्व् इतरप्रतिषेधाद् विना भिन्नं विधातुम् एव न शक्यते. मैवम्. न हीदम् इतरप्रतिषेधाद् वस्तुभिन्नं, किं तर्हि स्वरूपेणैव. अतस् तत् प्रकाशते. भिन्नं न प्रकाशत इति दुर्भणम्. अत एवेतरेतराभावस्य प्रत्यक्षतापत्तिर् इति यद् उक्तं तद् अपि प्रत्युक्तम्. न हि भिन्नं ग्रहीतुम् इतरेतराभावो ग्रहीतव्यः. सो ऽपि तत्रास्तु तावत्. न प्रत्यक्षेणावसीयते. पश्चात् तु प्रतियोग्यादिस्मरणपुरस्सरं भावविकल्पेनासाव् अध्यवसीयते. यो ऽपि विधिव्यवच्छेदयोः क्रमयौगपद्यविकल्पः, सो ऽप्य् असदर्थ एव. न ह्य् अत्र निर्विकल्पकोदयकाले व्यवच्छेदावगतिर् अस्ति. किं तत्क्रमादिपरिचोदनया. स्वरूपमात्रं तु वस्तुनः प्रकाशते. तच् चानुभवबलाद् एव विलक्षणम् इत्य् उक्तम्. ननु यदि स्वरूपभिन्नं वस्तु किं विशेषैः. न प्रयोजनवशाद् वस्त्व् आश्रीयते. किण् तु संविद्वशेन. सा चाविशिष्टा विशेषेष्व् इति विशेषाः कथं नाश्रीयेरन्. अपि च असत्सु विशेषेषु तद् भिन्नं स्वरूपम् एव न संवर्तते. यथा असत्सु चित्रावयवनीलादिषु चित्ररूपम्. न चैतावता तत् तेभ्यो भिन्नं भवति. न च तद्ग्रहणम् अन्तरेण गृह्यते. तद्वद् विशेषवशप्रभावितम् एव द्रव्यस्य भिन्नं रूपं तद्ग्रहणसमकालं चानुभूयत इति तन्निरपेक्षग्रहणप्रसङ्गो ऽपि न चोदनीयः. सर्वं चैतत् संचिद्बलाद् एवास्माभिर् अभिधीयते. न पुनर् अलौकिकं किञ्चिद् उपकल्प्यते. एतद् एवाभिप्रेत्य भिन्नरूपोपलम्भनात् इत्य् उक्तम्. किम् उक्तं भवति. रूपम् एव तद् यद् एतद् भिन्नम्. अतो युक्तं यदन्यव्यवच्छेदादिबोधनिरपेक्षेण प्रत्यक्षेणावसीयत इति. आह -- तत् तर्हि रूपं व्याक्रियताम् इदं नामेति, अत आह -- न हीति. अयम् अभिप्रायः -- नोपाख्या{१,२५३}वस्तुनः सत्त्वे कारणम्. अपि तर्हि, प्रख्या. अस्ति चात्र निर्विकल्पकदशायाम् अपि विलक्षणवस्तुसंविद् भिन्नरूपविषया सा इति च दर्शितम्. तच् च निर्विकल्पकप्रतिभातं रूपं पश्चात् तु द्वित्रादिभिर् विशेषैः परस्मा अप्य् अदूरान्तरेण दर्शयितुं शक्यम् एवेति
SK
किम् इदानीं व्यावृत्तरूपविषयम् एव[६७५]निर्विकल्पकं, नेत्य् आह -- निर्विकल्पकेति ग्रहणमन्तेन. सामान्यविशेषात्मनो ऽपि वस्तुनो ग्रहणम् इत्य् अर्थः. तथा हि -- यदायम् एकदा नानात्मनो गोपिण्डानुपलभते, तदास्य सहसैवाविकल्पकेन द्व्याकारा मतिर् आविरस्ति. एकव्यक्तिबोधे ऽपि चासावाकारो ऽवभासत एव. रूपं हि तद् व्यक्तेः, कथं तस्यां प्रकाशमानायां न प्रकाशेत. तथा दृष्टैकव्यक्तेर् अपरदर्शने स एवायं गौर् इति प्रत्यभिज्ञानम् उदेति. न च तददृष्टपूर्वे सम्भवति. आह च --
SK
__________NOTES__________
SK
[६७५] त्तविषयरूपम् एव
SK
तत्रार्थापत्तितः पूर्वं दृष्टेयम् इति गम्यते |
SK
नैव हि प्रागदृष्टे ऽर्थे प्रत्यभिज्ञानसम्भवः ||
SK
इति. ननु न विशेषः न सामान्यं निर्विकल्पकेनानुभूयत इत्य् उक्तम्. कथम् इदानीं द्व्यात्मकस्यापि ग्रहणम् इत्य् उच्यत इत्य् अत आह -- लक्षणाख्येयम् इति. अयम् अर्थः -- लक्षणाख्येयम् इदं निर्विकल्पकस्य रूपं सामान्यविशेषात्मकं वस्तु निर्विकल्पकेन विषयीक्रियत इति. तच् च निर्विकल्पकलक्षणकारैर् एव परीक्षकैर् आख्यायते. प्रमाता तु सामान्यम् इदं विशेषो ऽयम् इति च विवेकविधुरम् इदम् इति संमुग्धरूपम् एव वस्तूपलभते. शुद्धम् इति. अनुवृत्तिव्यावृत्तिपरामर्शरहितं गृह्यत इत्य् अर्थः. शुद्धवस्तुजम् इत्य् अत्रापि शुद्धशब्दस्यायम् एवार्थो द्रष्टव्यः
SK
शुद्धं गृह्यत इत्य् एतद् एव प्रपञ्चयति न [६७६]हीति. अयम् अभिप्रायः -- स्वरूपमात्रेण सामान्यविशेषौ निर्विकल्पकेन गृह्येते. नासाधारणतया.{१,२५४}सामान्यतया च व्यावृत्त्यनुगमविकल्पाभावात्. ननु किं तदन्यद् व्यावृत्तेर् अनुगमाच् च विशेषस्य सामान्यस्य च स्वरूपं यद् गृह्यत इत्य् उच्यते. स एव तयोर् आत्मा. कथं तदग्रहे तयोर् अग्रहणम् उपपत्स्यते. अहो विवेककौशलं तत्रभवताम्. अनुगमव्यावृत्तिधर्माणौ सामान्यविशेषौ न पुनरनुगतिव्यावृत्ती एवेति यत् किञ्चिद् एतत्
SK
__________NOTES__________
SK
[६७६] त्व् इ (GA)
SK
एवं निर्विकल्पकं व्याख्यायेदानीं तद्बलभाविनः सविकल्पकस्य प्रत्यक्षत्वप्रमाणत्वे दर्शयिष्यन् प्रत्यक्षतां तावद् आह -- ततः परम् इति. अस्यायम् अर्थः -- ततो निर्विकल्पकात् परं जातिगुणकर्मनाम् अभिर्यया बुद्ध्या विकल्प्य वस्तु गृह्यते यथा गौर् अयं शुक्लो ऽयं डित्थो ऽयम् इति, सापि प्रत्यक्षत्वेन सम्मतेति
SK
ननूक्तम् इन्द्रियार्थसामर्थ्यमात्रजं हि ज्ञानं प्रत्यक्षम् इति स्मृत्याकृष्टसमस्तनामजात्यादिबलभुवश् च विकल्पाः. न चेन्द्रियाणाम् अर्थस्य च स्मरणसामर्थ्यम् इत्य् अप्रत्यक्षं सविकल्पकम् इत्य् अत आह -- करणं चेति. अयम् अर्थः -- यदीन्द्रियाणि स्मृत्वार्थं विकल्पयन्तीत्य् अस्माभिर् उच्येत, तद् एवम् उपालभ्येमहि यत् तानि स्मर्तुं न शक्नुवन्तीति. न त्व् एतद् एवम्, इन्द्रियाणां करणत्वात्. कर्तरि चात्मनि स्मरणसमवायात्. अतस्[६७७]तत्स्मृत्याद्यशक्तिर् अदोष एवेति
SK
__________NOTES__________
SK
[६७७] तः स्मृ (KA)
SK
किम् आश्रितं तर्हि ज्ञानम् अत आह -- आत्मन्य् एवेति. आत्मा हि चेतयते. स च प्राग्भवीयधर्मोपार्जितेन्द्रियोपनीतम् अर्थं बुध्यते स्मरत्य् अनुसन्धत्ते चेति न किञ्चिद् अनुपपन्नम् इति
SK
{१,२५५} नन्व् एवम् इन्द्रियसम्प्रयोगस्य शब्दादिस्मरणेन व्यवहितत्वाद् अप्रत्यक्षम् आपद्येतेत्य् उक्तम्, अत आह -- तेनेति. अयम् अभिप्रायः -- नात्रेन्द्रियार्थसम्बन्धो विच्छिन्नः. विद्यमाने च तस्मिन् शब्दादि स्मरन्न् अपि येनैव जात्यादिना वस्तु विकल्प्य गृह्णाति तत्र प्रत्यक्षवान् नरो भवत्य् एव. स्मरणेनेन्द्रियाणाम् अदूषितत्वाद् इति भावः
SK
नन्व् इन्द्रियमात्रप्रभावितं प्रत्यक्षम् इत्य् उच्यते. तत्र शब्दादिस्मरणसहितानीन्द्रियाणि कारणम् इति कथं प्रत्यक्षशब्दवाच्यत्वम् अत आह -- तच् चैतद् इति. इन्द्रियाधीनं ज्ञानं प्रत्यक्षम् आख्यायते. गौर् अयम् इत्य् अपरोक्षाभासं ज्ञानम् अनुपरतेन्द्रियव्यापारस्य जायमानम् इन्द्रियाधीनम् एवेति तैर् इन्द्रियैर् व्यपदिश्यत एव, स्मृतिसहायानाम् अपि तेषाम् एव कारणत्वाद् इति भावः. ये त्व् अनपेक्षिताक्षव्यापारा एव गौर् अयम् इत्यादिस्मरणविकल्पाः ते ऽस्माभिर् अपि स्मृतिमात्रहेतुत्वान् न प्रत्यक्षतयेष्यन्त इत्य् आह -- तदसम्बन्धेति
SK
इन्द्रियसम्बन्धानुसारिणस् तु भूयांसो विकल्पाः प्रत्यक्षशब्दवाच्या एवेत्य् आह -- पुनर् इति
SK
यत् तूक्तं - यदीन्द्रियाणि विकल्पोदये कारणं किं न सहसैव जनयन्तीति, तत्राह -- न हीति
SK
अथास्फुटावभासमापातजं तत्रैन्द्रि(?य/यि)कं ज्ञानम् अस्तीत्य् उच्यते, तद् अत्रापि समानम् इत्य् आह -- यथेति
SK
यत् तूक्तं - किञ्चिद् दृष्टवतो निमीलितनेत्रस्यापि विकल्पः इन्द्रियव्यापारासत्तिमात्रेण प्रत्यक्षो भवेद् इति, तन् न. अनभ्युपगमाद् एवेत्य् आह -- यदि त्व् इति. अयम् अभिप्रायः -- नेन्द्रियव्यापारासत्तिरैन्द्रि(?य/यि)कत्वे कारणं, किं तर्हि, इन्द्रियव्यापारानुपरति. अत इन्द्रियसम्बन्धानुसाराभावात् तत्र प्रत्यक्षता न स्याद् इति
SK
नन्व् अनेकात्माक्षादिकारणं सविकल्पकं, कथं तदक्षेणैव व्यपदिश्यते अत आह -- असम्बन्धेति. अयम् अर्थः -- असाधारणं हि शब्दप्रवृत्तौ कारणम्. आत्मादि च कारणम् इन्द्रियासम्बन्धार्थेषु[६७८]विकलपेषु स्मरणानुमानादिषु तुल्यम्. अक्षम् एव त्व् अपरोक्षावभासिनः[६७९]सविकल्पक[६८०]स्योदये ऽसाधारणकारणम् इति तेनैव व्यपदिश्यते. कल्पन इति सविकल्पकज्ञान इत्य् अर्थः.
SK
__________NOTES__________
SK
[६७८] म्बन्धवि [६७९] नि [६८०] कोदये
SK
निर्विकल्पकप्रत्यक्षवादिनाम् अपीदं चोद्यं समानम् इत्य् आह -- निर्विकल्पकेति. यदि त्व् इन्द्रियजन्मनो हि निर्विकल्पकस्यानन्तरं सम्भवद् एतत् सविकल्पकं तत्कारण[६८१]कम् एव, इन्द्रियं तु निर्विकल्पकोत्पत्ताव् एवोपक्षीणव्यापारम् इत्य् उच्यते, तथापि परम्परयाक्षकारणत्वेन प्रत्यक्षं व्यपदेक्ष्यते. यथा कुसुमं पङ्कजम् इति. न हि तत् पङ्काज् जायते. किं तर्हि पङ्कभुवः कन्दात् केवलम्. इदं परम्परयाक्षजत्वम् अविशिष्टम् अनुमानादीनाम् इति तेषां प्रत्यक्षशब्दवाच्यतानिराकरणार्थं रूढिम् अप्य् एषिष्यामः. यथा पङ्कज[६८२]शब्द एव व्यवहितस्य योगस्य सौगन्धिकादिसाधारण्यान् नियामिका रूढिर् इष्यते. सेयं योगरूढिर् इति वार्त्तिककारीयैर् आख्यायते. तद् एतद् आह -- तत्पारम्पर्येति. इदं त्व् इह वचनीयम् -- रूढिश् चेद् आश्रिता किं योगाभ्युपगमेन. समुदायशक्त्यैव हि तदाश्वकर्णादिवत् क्वचिद् एव शब्दो वर्तिष्यते क्वचिच् च नेति किं{१,२५७}योगव्यसनेन. न व्यसनितया योगम् आश्रयामः, प्रतीतं तु योगं न हातुं क्षमामहे अवघात इव दृष्टम्. यथा तत्रैव नियमान्यथानुपपत्त्या दृष्टकल्पना, तथात्रापि प्रयोगनियमाय[६८३]समुदायशक्तिकल्पनेति किम् अनुपपन्नम्. नन्व् अप्रयोगाद् एवान्यत्राप्रयोगो भविष्यतीति. किम् इदम् अप्रयोगाद् अप्रयोग इति. यदि पूर्वपूर्वेषां प्रयोक्तॄणाम् अप्रयोगाद् उत्तरोत्तरेषाम् अप्रयोग इति. तद् अयुक्तम्. अप्रयोगाभावात्. प्रयोगमात्रे हि प्रवृत्तिहेतुता, अवयवयोः स्वार्थे प्रयोगो दृश्यत एव. समुदायस् तु नान्यः कश्चिद् यस्याप्रयोग इति शक्यते वक्तुम्. समुदायशक्तेर् अनभ्युपगमात् प्रयोगमात्राद् एव पङ्कजादिशब्दप्रवृत्तेः. प्रयुक्तो हि पङ्कशब्दः पङ्के. जनिः प्रादुर्भावे. तदतिरिक्तं वस्तु समुदायो नास्त्य् एव. कस्याप्रयोग इति वक्तव्यम्. अर्थान्वयो हि तथा प्रवृत्तौ हेतुः. स च सौगन्धिकादिष्व् अपि समान इति तेष्व् अपि पङ्कजशब्दप्रवृत्तिः. अतो ऽवश्यम् अन्यत्राप्रयोगार्थं रूढिर् आश्रयितव्या. यद् उक्तम् अन्यत्राप्रयोगस् तु रूढिम् आपादयतीति, तद् इष्यत एव. योगो ऽपि दृष्टो न हातुं शक्यत इत्य् उक्तम्. अश्वकर्णादौ त्व् अवयवानुगमाभावात् क्वचिद् एव रूढिर् आत्मानं लभते. अतो नेयं रूढिर् एव केवला नापि केवलयोगः. योगरूढिर् इति मन्यन्ते वृद्धा इति ||
SK
__________NOTES__________
SK
[६८१] णम् इ [६८२] ज ए (KA)
SK
[६८३] य श
SK
अथ व्यवधानाद् अकारणं योग इति मन्यसे, तथापि रूढ्यैव केवलया प्रत्यक्षशब्दः सविकल्पके वर्तिष्यते. भूम्ना हि तत्रैव लौकिकाः प्रत्यक्षशब्दम् उपचरन्ति. अल्पं निर्विकल्पक त्य् आह -- अनिमित्तैवेति
SK
यदि तूच्यते सत्यं वृद्धाः प्रयुञ्जते. लक्षणकारास् तु निर्विकल्पकम् एव प्रत्यक्षम् आतिष्ठन्ते. यथाहुः -- कल्पनापोढम् अभ्रान्तं प्रत्यक्षम् इति. अत आह -- वृद्धप्रयोगेति द्वयेन. अयम् अभिप्रायः -- लौकिको हि शब्दार्थ{१,२५८}सम्बन्धः. तेन परीक्षकैर् अपि यथालोकम् एव वर्तितव्यम्. अन्यथाकरणे तेषां लोकबाध एवेति
SK
अपि च कल्पनापोढवादिनाम् अपि कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षम् इष्टम् एव. यद् एवम् आहुः --
SK
कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनात्
SK
इति. एवं हि मन्यन्ते -- न कल्पना स्वसंवित्तिर् आत्मानं विकल्पयति, बहिरर्थविकल्पावभासित्वात्. असाधारणस्य च कल्पनात्मनो ऽपि कल्पनास्पदत्वात्. अत्राप्य् आहुः -- नैनम् इयम् अभिलापेन संसृजति तथा वृत्तेर् आत्मनि विरोधात् इति.
SK
तेषाम् अतः स्वसंवित्तिर् नाभिजल्पानुषङ्गिणी इति च. तद् इदं कल्पनास्वसंवेदनं प्रत्यक्षं नोपपद्येत. तद् अपि हि निर्विकल्पकप्रत्ययान्तरिताक्षव्यापारम् एव. अथ तत्र रूढ्या प्रत्यक्षशब्दो वर्तत इत्य् उच्यते, तद् गोत्वादिबहिर्विषयप्रकाशे ऽपि समानं, न परं स्वसंवित्ताव् इत्य् अभिप्रायेणाह -- कल्पनेति. यदि मतम् अस्ति तत्रेन्द्रियजं निर्विकल्पकज्ञानं समनन्तरप्रत्ययः. तद् एव मन इत्य् आचक्षते. यथाहुः -- तच् चतुर्विधम् इन्द्रिय(?ज)म् इन्द्रियजं समनन्तरप्रत्ययोद्भवं मानसम् इति. मनो ऽपि चेन्द्रियम् इति मनोधीनतया प्रत्यक्षं भविष्यतीति. तद् गोत्वादिबोधे ऽपि समानम्. तद्बोधे ऽपि वयं मनोव्यापारम् आतिष्ठामह एव. मनःस्वरूपे तु विवदामः. तत् तावद् अन्यद् एवेत्य् आह -- मन इति
SK
नन्व् आन्तरं मनः कथं बहिर्विषयबोधे वर्तिष्यत इति, तत् तावद् आशङ्कते -- स्वसंवित्ताव् इति. परिहरति -- लोक इति. अयम् अभिप्रायः -{१,२५९}सत्यम् इष्टं कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षम् इति भवद्भिः. लौकिकास् तु विपरीतं मन्यन्ते. अयं गौर् इति पररूपनिरूपणं सविकल्पकं लौकिका मन्यन्ते न पुनर् अहं गौर् इत्य् आत्मनिरूपणम्. यद् अपि बाह्येषु मनो न वर्तत इति. सत्यम्. बहिरिन्द्रियानपेक्षं न प्रवर्तते. गोत्वादयस् तु संयुक्तसमवायेन चक्षुषा सन्निकृष्यन्त इत्य् अस्ति तेषु मनोव्यापार इति तन्निबद्धम् अक्षव्यपदेशं लभत इति भावः. अतो ऽवश्यं स्वसंवेदने कल्पनाप्रत्ययं प्रत्यक्षम् आचक्षाणैर् मनो वा अक्षम् अभ्युपगन्तव्यं रूढिर् वा परिभाषा वा. सर्वथा वयम् अपि प्रत्यवस्थातुं शक्ता इत्य् अभिप्रायेणाह -- तस्माद् इति
SK
सुखादिस्वसंवेदने ऽपि मन एवाक्षम् आश्रितं भवद्भिः. तद्वद् इहापि जातिविकल्पो भविष्यतीत्य् आह -- मनसस् त्व् इति
SK
अथ समाने ऽपि मनोधीनत्वे स्वकीयकल्पनापोढलक्षणानुसारेण किञ्चिद् एव प्रत्यक्षम् आश्रीयते. तथा सतीच्छानुसारेण व्यवस्थायाम् इष्यमाणायां वयम् अपि यथाशयं किञ्चिद् एव प्रत्यक्षं वक्ष्याम इत्य् आह -- तदधीनत्वेति
SK
पारिशेष्याद् अपि प्रत्यक्षान्तर्भाव एवास्याः सविकल्पकधियो युक्त इत्य् आह -- लिङ्गादीति. ननु सति प्रामाण्ये पारिशेष्यं भवति, न त्व् इयं प्रमाणम् अत आह -- बाधकेति
SK
इदं त्व् इह वक्तव्यम् -- सत्यं नेयम् अप्रमाणं, मृगतृष्णादिज्ञानवद् व्यवहाराविरोधात्. न च प्रमाणम् असदर्थगोचरत्वात्. निर्विकल्पपरिप्लावितस्वलक्षणप्रापकतया स्मृतिर् इत्य् आख्यायते. न च स्मरणं प्रमाणम् अत आह -- न चेति. पूर्वदृष्टार्थविषयं स्मरणं भवति. न च निर्विकल्पकेन सामान्यदर्शनम्{१,२६०}अस्ति, अप्रत्यक्षविषयत्वात् तस्य भवत्सिद्धान्ते. अस्माकम् अपि स्वलक्षणान्तरसम्भेदः पूर्वम् अदृष्ट एव. न चासदर्थत्वं, वक्ष्यमाणन्यायेन जात्यादीनां स्थास्यमानत्वात्. अतो नागृहीतग्रहणाद् अप्रामाण्यं नासदर्थतया वेति, अतः प्रमाणं सत् पारिशेष्यात् प्रत्यक्षे ऽन्तर्भवतीत्य् उपसंहरति -- तस्माद् इति. भवन्तो ऽपि वाङ्मनसविसंवादेनैवास्याः बुद्धेर् अप्रामाण्यम् आचक्षते. सर्वव्यवहाराणां सविकल्पकाधीनत्वाद् इत्य् आह -- व्यवहार इति
SK
ननु किम् इदं नाप्रामाण्यं च युज्यत इति. विशिष्टावगाहिनो हि विकल्पाः. भिन्नं च विशेष्याद् विशेषणम्. अभेदे विशेषणविशेष्यानुपपत्तेः. अतो ऽर्थान्तरभूतैर् जात्यादिभिर् विशिष्टे वस्तुनि गृह्यमाणे अतस्मिंस् तद्ग्रहणाद् भ्रान्तिर् एव सविकल्पकज्ञानम् इत्य् आह -- जात्यादीति
SK
परिहरति -- नैतद् इति. कारणम् आह -- स्थितम् इति. पररूपेण हि परस्मिन् निरूप्यमाणे भ्रान्तिर् भवति. न च जात्यादीनां पाररूप्यं, तेषाम् अनतिभेदाद् इति भावः
SK
नन्व् अभेदे विशेषणविशेष्यभावानुपपत्तिर् उक्ता, अत आह -- यदि हीति. न विशेषणम् एकान्ततो जात्यादि विशेष्याद् भिद्यते, सर्वदैव तदाकारावबोधाद् इत्य् अर्थः
SK
नन्व् अत्यन्तभिन्नम् एव लाक्षादिरूपं स्फटिकादि स्वाकारेण विशिष्टं बोधयद् दृष्टं, तद्वद् एव हि जात्यादिविशिष्टबोधो ऽपि भवन् मिथ्या स्याद् इति, अत आह -- स्फटिकादाव् इति. अयम् अभिप्रायः -- उक्तम् अस्माभिः{१,२६१}सदैव जात्यादिविशिष्टं वस्तु गृह्यते. कस्यचित् कदाचिद् विवेकानवगमात्. अतः कथं मिथ्या भविष्यति. लाक्षोपहितं तु स्फटिकं कश्चिद् एवाव्युत्पन्नो ऽजातविवेको ऽरुणम् इति बुध्यते. अतस् तज्ज्ञानं भ्रान्तिर् भवति. तदैव हीतरे दृष्टविवेका जानन्ति नेदम् अरुणम् औपाधिको ऽयम् अरुणभ्रम इति. अव्युत्पन्नो ऽपि चोपाधिविगमे जानात्य् एव यथा नेदम् अरुणम् इति. अतो युक्तं भ्रान्तित्वं बाधोत्पादाद् इति
SK
जात्यादितद्वतां तु परस्परविवेको न दृष्टपूर्वः. अतो न भ्रान्तित्वं युक्तम् इत्य् आह -- न हीति. ननु भवत्व् एवं जातौ. न हि तया निर्मुक्तं वस्तु कदाचिद् उपलभ्यते. गुणकर्मभ्यां तु वियुक्तवस्तुबोधो दृष्ट एव. ध्रियमाण एव हि द्रव्ये कुतश्चित् कारणात् पूर्वगुणविनाशो गुणान्तरोत्पादश् च दृश्यते. एवं कर्मण्य् अपि दर्शयितव्यम्. अतः कथं तयोर् अव्यतिरेकः, अत आह - तद्विमोकेनेति. अयम् अभिप्रायः -- यद्य् अपि तद्विमुक्तं वस्तु दृश्यते, तानि तु तद्विमुक्तानि न जातु दृश्यन्ते. यच् च नाम यतो भिन्नं तत् ततो विमुक्तम् अपि कदाचिद् उपलब्धं मणेर् इवौपाधिको ऽरुणिमा. न चेह तथा. अतो व्यापकनिवृत्त्या व्याप्यस्यात्यन्तभेदस्य निवृत्तिः. कथम् इदानीं पूर्वापरयोर् गुणकर्मणोर् नाशोत्पादौ. प्रत्यभिज्ञायते हि तद् एवेदम् इति द्रव्यं, गुणकर्मणी च विनष्टे. तद् इदम् अभेदे नोपपद्यते. न नोपपद्यते, स्थित्युत्पत्तिविनाशात्मकम् एव नो वस्त्व् इति रुचकाद्युदाहरणे वक्ष्यामः. तद् इह वस्त्व् अपि गुणकर्मनाशे नश्यत्य् एव. रूपं हि तद् वस्तुनः, कथं तद्विनाशे न नशतीति शक्यते वक्तुम्. तयोर् अपि नात्यन्तिको विनाशः, वस्त्वात्मना विद्यमानत्वात्. जाताव् अपि चैषैव गतिः. तत्रापि हि स्थित्युपत्तिविनाशा दृश्यन्त एव. वियुक्तबोधो ऽपि दृशयते. दृश्यते हि विनष्टपिण्डवियुक्ता पुण्डान्तरे जातिः. सा कथं ततो भिन्ना भविष्यति. अथ तत्र कथञ्चिद् भेदम् आश्रित्य समाधिर्{१,२६२}अभिधीयते, शक्यो ऽसौ गुणकर्मणोर् अपि वक्तुम् इति केन विशेषेण जाताव् अभेदम् आश्रित्य गुणकर्मणोर् भेदं वर्णयाञ् चक्रुः. अतो यदा जात्यादयो दृश्यन्ते, तदा[६८४]पिण्डाद् अभेदेनैवावगम्यन्त इत्य् अभेदो ऽपि तेषाम्. यैव तु काचिद् अनुपपत्तिर् आपाद्यते सानेकान्तवादिनां नासज्यत इत्य् अस्तु तावद् इदम् इति
SK
__________NOTES__________
SK
[६८४] त्र
SK
यदि तु जात्यादिबोधविधानुविधायिनः स्फटिकादाव् अपि चारुणादिबोधा भवेयुः, कस् तेषाम् अपि प्रामाण्यं वारयेद् इत्य् आह -[६८५]तत्रापीति
SK
__________NOTES__________
SK
[६८५] अ (GA)
SK
एवं जात्यादीनाम् अभेदं प्रतिपाद्येदानीम् ऐकान्तिकभेदवादिनः काणादान् प्रत्याह -- न चापीति. एवं हि मन्यन्ते -- भिन्नयोर् एव जात्यादितद्वतोः समवायलक्षणः सम्बन्ध इति. तथा च पठन्ति -- अयुतसिद्धानाम् आधाराधेयभूतानाम् इहप्रत्ययहेतुर् यः सम्बन्धः स समवायः इति. तदयुतसिद्धयोः सम्बन्धित्वासम्भवाद् अनुपपन्नम् इति. कथं पुनर् अयुतसिद्धानां सम्बन्धित्वम्[६८६]अनुपपन्नं भवतीत्य् अत आह -- नानिष्पन्नस्य सम्बन्ध इति. अयम् अभिप्रायः -- केयम् अयुतसिद्धः. किं[६८७]युतसिद्ध्यभावमात्रम्, अथवा[६८८]पृथक्सिद्धिः. यदि युतसिद्ध्यभावः, कस्य केन सम्बन्ध इति सिद्धयोर् हि सम्बन्धिनोः सम्बन्धो भवति, नासिद्धयोः. अथापृथक्सिद्धिः, तत्राप्य् एतद् एवोत्तरं नानिष्पन्नस्य सम्बन्ध इति. अपृथङ्निष्पन्नयोस् तादात्म्याद् इति भावः. अथैतद्दोषपरिहारार्थं पृथङ्निष्पत्तिर् इष्यते, तथा सति युतसिद्धिर् एवापद्यत इत्य् आह -- निष्पत्ताव् इति
SK
__________NOTES__________
SK
[६८६] त्वं न सम्भव [६८७] यदि यु (KA) [६८८] थापृ
SK
किं पुनर्[६८९]अनिष्टम् आपादितम्. नन्व् इष्यत एव जातितद्वतोर् असम्बद्धयोर् एव कियान् अपि कालभेदः. तां च तयोर् अवस्थां योगिनः पशन्ति नान्ये. न{१,२६३}तावता रज्जुघटयोर् इव तयोर् युतसिद्धयोर् एव सम्बन्धः संयोगः स्याद् इति वाच्यम्. न हि नः पृथक्सिद्धिर् युतसिद्धिलक्षणम्. अपि तर्हि. भिन्नाश्रयत्वं पृथग्गतिमत्त्वं च. द्वयोर् अन्यतरस्य वा युतसिद्धिः तदभावो ऽयुतसिद्धिः. च न जातेस् तदुभयम् अस्तीत्य् अयुतसिद्धयोः समवाय एव सम्बन्धो भविष्यति, अत आह -- तथा च सतीति. अयम् अभिप्रायः -- न तावत् पृथक्सिद्धे जातिव्यक्ती वयम् उपलभामहे. योगिगम्यश् च जात्यादिरहितः क्षणो दुस्साध एव. उपेत्यापि ब्रूमः. हेत्वभावात् सम्बन्धो न स्याद् इति. न हि रज्जुघटयोर् इव पृथक्सिद्धयोर् देवदत्तादिजातिव्यक्त्योः संयोजको दृश्यते. समवायस् तु न तावत् सम्बन्धहेतुः, सम्बन्धरूपाभ्युपगमात्. अथापि तद्धेतुः, नैवम् अपि युतसिद्धौ सम्बध्नाति. ननूक्तं युतसिद्धिर् एव जातेर् नास्तीति भिन्नाश्रयसमवायाभावाद् अपृथग्गतिमत्त्वाच् चेति. न, युतसिद्धिशब्दस्य पृथक्सिद्धिमात्रवचनत्वात्, नञा तदभावमात्रम् अयुतसिद्धिर् आख्यायते. सा चेत् पृथक्सिद्धिर् अस्ति कथम् अयुतसिद्धिर् भविष्यति. अथापि पारिभाषिको ऽयुतसिद्धिशब्दः, तथापि व्यक्तेः स्वावयवसमवायित्वाज् जातेश् च व्यक्त्याश्रयत्वाद् भिन्नाश्रयाश्रयित्वम् अस्तीति युतसिद्धिप्रसङ्गः. न च युतसिद्धिसम्बन्धे समवायो हेतुः. न च हेत्वन्तरम् अप्य् अस्तीति सूक्तं न सम्बन्धे हेतुः कश्चिद् इति. सम्बन्धहेत्वभावाच् च षड् अपि द्रव्यादयः पदार्थाः असम्बन्धा भवेयुर् इत्य् आह - षण्णाम् इति
SK
__________NOTES__________
SK
[६८९] र् इदम् अनि (GA)
SK
अपि च, अयं समवायः सम्बध्य वा समवायिनौ सम्बन्धाति असम्बध्य वा. न तावद् असम्बध्य, असम्बद्धस्य सम्बन्धहेतोर् अदृष्टत्वात्. सम्बन्धस् तु सम्बन्धहेत्वन्तरम् अन्तरेण न सम्भवति, न च तद् उपलभ्यते. अतः समवायिभ्यः समवायस्य वियोगाद् विश्लेषात् समवायिनाम् अपि परस्परविश्लेषः स्याद् इत्य् आह -- समवायेति. सम्बन्धहेत्वन्तरकल्पनायां त्व् अव्यवस्था स्याद् इत्य् आह -- तत्कॢप्ताव् इति
SK
{१,२६४} यदि तु समवायिनोर् आत्मरूपं स्वरूपम् एव समवायः नासाव् अन्येन सम्बन्धनीय इत्य् उच्यते, एवं तर्ह्य् अङ्गीकृतो ऽभेदवाद इति धर्मधर्मिणोर् एव स्वरूपं समवायो ऽस्तु यद्य् अवश्यं समवायनाम्ना प्रयोजनं, किं समवायान्तरग्रहेणेत्य् आह -- अथेति
SK
अत्र कारणम् आह -- न हीति. उक्तम् इदं व्यतिरिक्तस्य सम्बन्धहेत्वन्तराभ्युपगमे ऽनवस्था. अभेदे तु परम् उभयवादिसिद्धयोर् धर्मधर्मिणोर् एवाभेदो ऽभ्युपगन्तव्यः. किं समवायग्रहेणेति
SK
नन्व् अस्तु जात्यादिधर्माणाम् अभेदः, धर्म्य् एव तु भिन्नो नोपलभ्यते यः सविकल्पकज्ञानैर् विषयीक्रियते, तत् तावद् उपन्यस्यति -- नन्व् इति. एवं हि मन्यन्ते -- नायं धर्मी धर्मेभ्यो ऽतिरिक्तो ऽङ्गुलीभ्य इवाङ्गुष्ठो दृश्यते. न चास्य व्यवस्थापने प्रत्यक्षं प्रक्रमते. तस्येन्द्रियजत्वादिन्द्रियाणां पञ्चानां पञ्चसु रूपादिषूपक्षीणत्वात्. षष्ठस्य च मनसः स्वातन्त्र्येण बहिर्विषयव्यवस्थापने ऽसामर्थ्यात्. यथाहुः --
SK
क्षीणानि चक्षुरादीनि रूपादिष्व् एव पञ्चसु |
SK
न षष्ठम् इन्द्रियं तस्य ग्राहकं विद्यते बहिः ||
SK
इति. अतो रूपादिसङ्घातमात्रम् एवेदं बहिर् उपलभ्यते न तत्त्वान्तरं वृक्षसङ्घात इव वनबुद्धिर् इति
SK
अत्र परिहारम् आह -- आविर्भावेति धर्म्यन्तेन. अयम् अभिप्रायः -- प्रतीमो हि वयं विष्फारिताक्षा रूपादिवद् एकं द्रव्यं न च विपर्येति तत्{१,२६५}कथम् अन्यथा भविष्यतीति. यत्त्वभेदेन नोपलभ्यत इति. सत्यम्, केन वा धर्मेभ्यो ऽत्यन्तभेदो धर्मिण उपेयते. ग्राहकाभावस् तु रूपादिवदन्वयव्यतिरेकाभ्यां दर्शनस्पर्शनयोर् एव सामर्थ्यप्रदर्शनेन परिहर्तव्यः. अपि च यदि धर्मातिरिक्तो धर्मी न स्यात् को ऽयम् आविर्भावतिरोभावधर्मकेषु रूपादिष्व् अनुगतः प्रत्यभिज्ञायते. प्रत्यभिजानीमो हि वयम् अग्निसंयोगप्रच्यावितप्राच्यरूपम् उपजातरूपान्तरं सो[६९०]ऽयं घट इति घटम्. न च तदत्यन्ताभेदे घटते स्थित्युत्पत्तिविनाशानाम् एकत्रापातात्. अतो ऽस्ति धर्मेभ्यो भिन्नं तेष्व् अनुगतं, धर्मिरूपं यद्वशाद् एवं विभाग इति. अपि चात्यन्ताभेदपक्षे धर्मग्रहणम् अन्तरेण धर्मी न ज्ञायेतैव. दृश्यते च धर्मग्रहणात् प्राग् एव सन्तम् असादौ धर्मिज्ञानम् इत्य् आह -- यत्र वेति. अतः सिद्धम् अस्ति धर्मि धर्माश् च तदनतिरेकिणो जात्यादय इति
SK
__________NOTES__________
SK
[६९०] स घ
SK
तद्विशिष्टबोधे पररूपनिरूपणाभावान् नाप्रामाण्यं सविकल्पकज्ञानाम् इत्य् आह -- अत इति
SK
अस्तु वात्यन्तभेदः, तथापि न मिथ्येत्य् आह -- यस्यापीति द्वयेन. अयम् अभिप्रायः -- नान्यरूपसंवेद्यतामात्रेण मिथ्यात्वं, किन् तु पुनर् अन्यथासंवेदनेन. बाधकप्रत्ययेनेति यावत्. इह च सर्वेषां सर्वदा च तद्रूपा बुद्धिर् इति भावनाया इव धात्वर्थविशिष्टबोधो न मिथ्येति
SK
नन्व् एवं कायचक्षुर् गोचरो धर्मी भिद्यते ग्राहकभेदाद् रूपादिवत्. तानि वा तद्वद् एव सत्य् अपि ग्राहकभेदे न भिद्येरन् अनेकेन्द्रियग्राह्यम् एकं[६९१]सद्{१,२६६}दृष्टं सत्त्वम् इति चेत्, न. विकल्परूपस्येन्द्रियेणाग्रहणात्. अपि चेन्द्रियाणां सङ्कीर्णविषयत्वे ऽक्षानेकत्ववैयर्थ्यम् अपि. एकम् एव हि तदेन्द्रियं नानाविषयान् परिच्छेत्स्यतीति किम् इन्द्रियभेदेन. तद् उक्तं -
SK
__________NOTES__________
SK
[६९१] कं सत्त्व (GA)
SK
नैकं रूपाद्यभेदो वा दृष्टं चेन् नेन्द्रियेण तत् |
SK
अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्ने ऽपि शक्तिमत् || PS १.२१च्-२२द् (च्f. NR १३१,२७-२८)
SK
इति, अत्राह -- न चानेकेति. यत् तावद् उक्तं ग्राहकभेदाद् भेद इति. तद् अयुक्तं, भिन्नशरीरस्थचक्षुर् ग्राह्यस्याभिन्नत्वेन हेतोर् अनैकान्तिकत्वाद् इति
SK
यदि तु चक्षुष्ट्वेनैकत्वाद् इन्द्रियभेद एव तत्र नास्तीत्य् उच्यते, तद् इहापीन्द्रियत्वेन समानम्. अतो बुद्धिभेदनिबन्धन एव भेदो न ग्राहकभेदनिबन्धन इत्य् अभिप्रायेणाह -- जात्यभेदाद् इति. अत एव भिन्नेन्द्रियग्राह्यापि सत्ता एकबुद्धिविषयतया न भिद्यत इत्य् आह -- तुल्येति. सर्वेन्द्रियैर् हि सत्तागुणत्वयोर् ज्ञानम् इति भावः
SK
रूपाद्यभेदो वेति यद् उक्तं तत्राह -- बुद्धिभेदाद् इति. सिद्धसाधनत्वं वा द्वयोर् अपि प्रयोगयोर् इत्य् आह -- एकेति. सद्रूपेण रूपादीनाम् एकत्वं रूपादिरूपेण च धर्मिणो नानात्वम् इत्य् अर्थः
SK
अक्षानेकत्ववैयर्थ्ये परिहारम् आह -- क्वचिच् चेति. न क्वचिद् धर्मिणि त्वक्चक्षुषोः सङ्करो दृष्ट इत्य् एकम् एवाक्षं युक्तम् इत्य् अर्थः. अत्र कारणम् आह -- दार्ढ्येति. यदि हि सङ्करदर्शनाद् एकत्वम् आश्रीयते, तद्दार्ढ्यदौर्बल्यभेदेन व्यवस्था नोपपद्येत. दृढे हि चक्षुषि दुर्बले च श्रोत्रे रूपम् उपलभ्यते. एवं बलवति{१,२६७}श्रोत्रे दुर्बले च चक्षुष्य् अपि शब्दः श्रूयते. सेयं चक्षुश् श्रोत्रयोर् विषयव्यवस्था नाक्षैकत्वे घटत इति
SK
नन्व् इयं व्यवस्थानुपपन्नैव, सर्वत्रैव प्रसङ्गात्. यदि हीन्द्रियान्तरम् इन्द्रियान्तरविषये न प्रवर्तते, क्वचिद् अपि न प्रवर्तेत. प्रवृत्तौ वाव्यवस्थया सर्वत्रैव प्रवर्तेत अतिक्रमदर्शनाद् अत आह -- यथा हीति द्वयेन. नेदम् अदृष्टान्तं पक्षीक्रियते यत् क्वचिद् व्यवस्था क्वचित् सङ्कर इति. सङ्कीर्यते हि मनश्चक्षुरादिभिः रूपादिबोधे. सुखादिसंवेदने च व्यवतिष्ठते. अतः कार्यदर्शनानुसारिणौ व्यवस्थासङ्करौ नानुपपन्नौ. न त्व् एकत्र व्यवस्थादर्शनात् सर्वत्रैव सङ्करो निर्वर्तते. क्वचिद् वा दृष्ट इति सर्वत्रैव प्रसजतीति || [१६०] ||
SK
किं पुनर् अनयोर् व्यवस्थासङ्करयोर् मनसः कारणम् अत आह -- श्रोत्रादेर् इति. उपहतश्रोत्रादिर् अपि शब्दादि स्मरति इत्य् अत आन्तरे स्मृतिसुखादाव् अन्यनिरपेक्षं, वर्तमानं च रूपादि न जानाति. अतस् तत्र बहिःकारणापेक्षं मनः.[६९२]अतः क्वचित् सङ्करः क्वचिच् चासङ्कर इति व्यवस्था सिध्यतीति
SK
__________NOTES__________
SK
[६९२] नः क्व (KA)
SK
एवं कार्यव्यवस्थया व्यवस्थासङ्करौ प्रतिपाद्येदानीम् अक्षैकत्वे दोषम् आह -- एकम् इति. नन्व् एकत्वे ऽपि शक्तिभेदाद् व्यवस्था सेत्स्यति, अत एकम् एव सर्वशरीरव्यापि त्वगिन्द्रियं कल्प्यतां, शक्तयस् तस्य देहभागेषु भिन्ना भवन्तु किम् इन्द्रियभेदेनात आह -- कल्प्यत इति. शक्तिभेदो वा कल्प्यते इन्द्रियभेदो वा. को विशेषः. नन्व् इन्द्रियकल्पनायां{१,२६८}शक्तिमद्भेदो ऽप्य् अपरः कल्पनीय इति गौरवम्. अस्तु वा प्रमाणवन्त्य् अदृष्टानि कल्प्यानि सुबहून्य् अपि, सन्ति देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धादिप्रकाशनशक्तयश् चेति वर्णितम्. यत् तु सकलशरीरव्यापिन एकस्यैव वायवीयस्य त्वगिन्द्रियस्य रूपादिप्रकाशनशक्तिकल्पनं तदत्यन्तापरिदृष्टम् अप्रमाणकम् इति भावः. इन्द्रियं भवेद् इति. इन्द्रियस्थाने शक्तिः कल्पनीयतया निपतेद् इत्य् अर्थः
SK
एवं दार्ढ्यदौर्बल्यभेदेन कार्यव्यवस्थां प्रतिपाद्याक्षानेकत्वं समर्थितम्. इदानीं व्यवस्थानाश्रयणे दोषम् आह -- शृणुयाद् इति. यदि नेन्द्रियाणि व्यवस्थितविषयाणि भवेयुः, बधिरो ऽपि चक्षुष्मान् शब्दं शृणुयात्. चक्षुषो ऽपि तद्विषयव्यापारात्. अतो नैकत्र सङ्करदर्शनेन सर्वत्र तत्कल्पना कार्या. तद् इदं दार्ढ्यदौर्बल्यभेदेनेत्य् अस्यैव व्यतिरेकप्रदर्शनम्. व्यवस्था तावद् दृश्यते. यदि तु सर्वत्रैव सङ्करः स्याद् अयं दोषः स्याद् इति. मनस इदानीं यथा हि मनस इत्य् अनेन निदर्शितयोर्[६९३]व्यवस्थासङ्करयोर् उक्तयोर् व्यतिरेके दोषं दर्शयिष्यन् सङ्करव्यतिरेके तावद् आह -- मनसो वेति. अयम् अर्थः -- यदि मनो बहिर्विषयवेदने स्वतन्त्रं भवेत्, तत्राप्य् अयम् एव दोषः बधिरः शब्दं शृणुयाद् इति. तस्यापि मनसो भावात्. अयं च वर्तमानस्य चाज्ञानाद् इत्य् अनेन यो बहिर्विषयवेदने मनसः सङ्करो दर्शितः तस्य व्यतिरेक इति
SK
__________NOTES__________
SK
[६९३] तस्य व्यव (KA)
SK
अन्तर्विषयवेदने च यन्मनसः स्वातन्त्र्यम् उक्तं तद्व्यतिरेके दोषम् आह -- न स्मरेद् इति. यदि ह्य् आन्तरे ऽपि बहिर्विषयवेदनवन्मनो बाह्यापेक्षं भवेद्, बधिरः शब्दं न स्मरेत् श्रोत्राभावात्. अथासत्य् अपि कारणे{१,२६९}स्मृतिः स्याद्, एवम् एव वर्तमानोपलब्धिर् अपि भवेत्. अयं च श्रोत्रादेर् उपघाते ऽपीत्य् अनेनोक्ताया आन्तरेषु मनसो व्यवस्थाया व्यतिरेक इति
SK
परतन्त्रं बहिर्विषयवेदने मन इत्य् उक्तम्. किं पुनः कारणं बाह्यबोधे मनो व्याप्रियत इति. सन्ति चक्षुरादीन्य् एव तत्र कारणानि अत आह -- स्मृतिश् चेति वेलायामन्तेन. अयम् अभिप्रायः -- एवंवादिना[६९४]मन एवाक्षिप्यते. तत्र चैतद् एव तावद् वक्तव्यम्. आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्[६९५]च मनसो लिङ्गम् इति. अस्ति खल्व् आत्मा. सन्निकृष्यते च नानार्थैर् नायनं तेजः. किञ्चिद् एव तु ज्ञायते न सर्वम्. तत् कस्य हेतोः कारणवैकल्येन कार्यप्रतिबन्धो दृष्टः यथा सत्सु तन्तुषु पटो नोत्पद्यते तन्तुसंयोगानाम् अभावात्. एवम् इहाप्य् अस्ति तदन्यद् ज्ञानकारणं यस्मिन्न् अव्याप्रियमाणे न ज्ञानम् उत्पद्यते व्याप्रियमाणे च भवति. तच् च मन इत्य् उच्यते. अपि च श्रोत्रादिभिः शब्दाद्युपलब्धिकाले यदि मनो न व्याप्रियते, कथम् उत्तरकालं स्मरणम् उपपद्येत. मनो हि स्मृत्युत्पत्तौ कारणम्. तद् यदि शब्दाद्युपलब्धिवेलायां मनो व्यापृतं भवति, ततः पूर्वम् असाव् अर्थो मनसा प्रकाशित इति परस्ताद् अपि स्मर्यत इत्य् उपपन्नं भवति. बाह्येन्द्रियमात्रकारणके तु पूर्वज्ञाने तेषां स्मृतिसमवाये व्यापाराभावात् स्मृतिर् न स्यात्. न ह्य् अकारणिका ज्ञानोत्पत्तिः सम्भवति. अतो ऽस्ति बहिर्विषयबोधे मनोव्यापारः. सुखादिसंवेदनं चासत्त्वे मनसो नोपपद्येतेति. अपि चासत्त्वे मनसो यद् इदं पूर्वानुभूतानां सर्वेषाम् अस्मरणं तन्नोपपद्यते. किञ्चिद् एव तु कदाचित् कश्चित् स्मरतीति दृश्यते. तद् एवम् उपपद्यते यद्य् अस्ति किञ्चिद् अन्तःकरणं, तदात्मसंयोगविशेषेण हि तदा स्मृतिर् व्यवतिष्ठते. न च संस्कारोद्बोधानुद्बोधकृता व्यवस्था. अनुग्राहको हि करणानां संस्कारः न स्वतन्त्रः करणम्. इतरथा तु स एवान्तःकरणम् आपद्येतेत्य् आह -- न चेति
SK
__________NOTES__________
SK
[६९४] ना यदि म (GA) [६९५] वे म (KA)
SK
आह -- सेत्स्यत्य् अयं बाह्यान्तःकरणविवेकः. करणसद्भाव एव तु किं कारणं, बोधस्वभावो हि पुरुषः. तदयम् अन्यनिरपेक्ष एव शब्दादीन्{१,२७०}भोत्स्यते, अत आह -- बोधेति. यदि ह्य् अयं बोध[६९६]स्वभावो ऽन्यनिरपेक्षो बुध्यते, युगपद् एव विश्वं जानीयात्. अतो ऽवश्यमस्य नियामकानि कारणान्य् अभ्युपगन्तव्यानीति
SK
__________NOTES__________
SK
[६९६] स्वरूपो ऽन्य
SK
प्रकृताव् इदानीं व्यवस्थासङ्करौ[६९७]ग्राह्यग्राहकशक्तिद्वारेणोपवर्णिताव् उपसंहरति -- तस्माद् इति. कार्यद्वारेण हि ग्राह्यग्राहकशक्तयः. ताभ्यो व्यवस्थासङ्करसिद्धिर् इति
SK
__________NOTES__________
SK
[६९७] रौ ग्राहक (KA)
SK
ननु कार्यानुसारेणेन्द्रियभेदे वर्ण्यमाने नीलादिभेदभिन्नानेकदर्शनात् तदनुसारिणीन्द्रियकल्पना न व्यवतिष्ठेतैव, अत आह -- चक्षूरूपादीति. नानाविधम् अपि हि रूपं विष्फारिताक्षा बुध्यन्त इत्य् अवान्तरभेदम् अनादृत्य रूपमात्रप्रकाशकम् एव चक्षुर् इति निश्चीयते. एवं श्रोत्रे ऽपि दर्शयितव्यम्. अतो नेन्द्रियानन्त्यम्. चक्षूरूपादीति. चक्षुरादिभेदो रूपादिभेदवशेनेति. आदिशब्दस्य प्रत्येकम् अभिसम्बन्ध इति
SK
सुखग्रहणार्थम् इदानीं व्यवस्थासङ्करौ संक्षिप्य दर्शयति -- तस्माद् इति. स्पर्शवद्द्रव्यपरिमाणं मूर्तिः. असर्वगतद्रव्यपरिमाणं वा, तद्विशिष्टानि भूम्यप्तेजांसि द्रव्याणि द्वाभ्यां दर्शनस्पर्शनाभ्याम् उपलभ्यन्ते. रूपादिपञ्चकं वैकैकशश् चक्षुरादिभिः. एवं द्रव्यान्तरगुणान्तरकर्मणां जातेश् च यथादर्शनं व्यवस्थासङ्कराव् अनुसन्धातव्याव् इति
SK
{१,२७१} एवं तावद् अस्ति धर्मी ग्राहकभेदे चाभिन्नः. जात्यादयश् च तदनतिरेकिणो धर्मा इति पररूपनिरूपणाभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् उक्तम्. इदानीम् अशब्दरूपाणाम् एव भावानां सविकल्पकज्ञानेषु शब्दाकारेण निरूप्यमाणत्वाद् अस्ति पाररूप्यम् इति ये वदन्ति, तेषां मतम् उपन्यस्यति -- नन्व् इति. अयम् अर्थः -- यद्य् अपि जात्यादिरूपो धर्मी, तथापि तेषाम् एव शब्दातिरिक्तानाम् अभावात् तद्रूपेण वस्तुनि निरूप्यमाणे शब्दात्मनैव निरूपणम् आपद्यते. ततश् चाशब्दात्मनां शब्दात्मना निरूपणे पुनर् अपि पाररूप्यम् आपन्नम् इति मृगतृष्णादिज्ञानवद् एव पञ्च विकल्पा मिथ्या स्युर् इति
SK
परिहरति -- न शब्देति. कारणम् आह -- प्राग् इति. बुद्धिर् एवात्र शब्दाकारा नास्तीति भावः
SK
अत्र चोदयति -- नन्व् इति द्वयेन. अयम् अर्थः -- किम् इदं प्राग् शब्दाद् यादृशी बुद्धिर् इत्य् उच्यते. न हि शब्दार्थसम्बन्धज्ञानात् प्राग् गोत्वशुक्लत्वादिरूपेण गवाकारादिभावविषया बुद्धयो भवन्ति. शब्दसम्बन्धोत्तरकालम् एव तद्रूपा बुद्धिर् उत्पद्यते. तद् यदि शब्दातिरेकिणो जात्यादयः सन्ति तेषां च तद्रूपत्वं, ततः प्राग् अपि शब्दसम्बन्धाद् अशब्दज्ञो ऽपि तद्रूपं लक्षयेत्. न च लक्षयति. अतः शब्दान्वयव्यतिरेकानुविधानाच् छब्दस्यैव तद्रूपत्वम् इति निश्चीयत इति
SK
{१,२७२} परिहरति -- यथेति. यथैव हि रूपरसगन्धस्पर्शशब्दा एवाक्षजायां बुद्धौ विभक्ता भासन्ते विनापि शब्दम्, एवं गोत्वादिजातयो गमनादीनि कर्माणि प्राग् अपि शब्दान् निर्विकल्पकेनापि विलक्षणेन रूपेण प्रतीयन्त एव. सम्बन्धग्रहणोत्तरकालं तु केवलं संज्ञासंज्ञिसम्बन्धग्रहणम् एवाधिकं नापरं किञ्चित्. यदि तु शब्दादयो न सन्तीत्य् उच्यते, कस्याध्यास इति वक्तव्यम् इति
SK
सिध्यत्य् अपि शब्दात्मकता यदि शब्दसम्भेदात् प्राग् गोत्वादयो न प्रतीयन्त एव. न त्व् एतद् अस्ति, अगृहीतसम्बन्धस्यापि तद्बोधोत्पादाद् इत्य् आह -- न चेति
SK
परस्ताद् अपि नाभेदोपचारो ऽस्तीत्य् आह -- श्रुतीति. कारणम् आह -- विवेकाद् इति. द्वाभ्याम्[६९८]इन्द्रियाभ्यां द्वाव् अर्थशब्दौ गम्येते इत्य् अर्थः
SK
__________NOTES__________
SK
[६९८] भ्यां द्वा
SK
अन्यतरधर्मनिष्कर्षमात्रे तु शब्दस्य व्यापारः, न स्वरूपारोप इत्य् आह -- अनन्तेति
SK
स्याद् एतत् -- उपायः शब्दो ऽर्थबोधे. उपायधर्माश् चोपेये ऽध्यारोप्यमाणा दृष्टा दर्पणादिधर्मा इव मुखादौ, अत आह -- न चेति. अनैकान्तिको हेतुर् इति भावः
SK
{१,२७३} अत्रापरे वदन्ति -- न वयं जात्यादीन् अपलपामः. किं तर्हि. गौर् अयम् इति सामानाधिकरण्येन शब्दरूपानुविद्धबोधाद् रूपसमारोपम् आचक्ष्महे इति. तान् प्रत्याह -- नित्यम् इति. अयम् अभिप्रायः -- यदि शब्दरूपानुविद्ध एव सर्वदा गोत्वादिबोधः रूपान्तरं तु तेषं कदाचिद् अपि न दृष्टं, कथं तर्हि शब्दरूपात् तद्रूपभेदसिद्धिः, असति भेदे कुत्र किम् अध्यस्त्यत इति
SK
अभेदाभ्युपगमे च पाररूप्याभावान् न सविकल्पकज्ञानानां मिथ्यात्वम् इत्य् आह -- यद्य् अभेद इति. पारमार्थिके तु स्वरूपभेदाभ्युपगमे ऽध्यारोपवाचोयुक्तिर् अनर्थिका. न ह्य् असङ्कीर्णस्वभावं वस्तु वस्त्वन्तरात्मना भ्रान्तिवर्जितैर् आरोपयितुं शक्यते. न च सर्वदा सर्वेषां भ्रान्तिः सम्भवति, तद् एतद् आह -- भेदश् चेद् इति. अतो भ्रान्त्यैवेयम् अध्यासकल्पना तद्वादिनाम् इत्य् आह -- भ्रान्त्येति
SK
भ्रान्तौ बीजम् आह -- शब्देनेति. गृहीतो ह्य् अर्थो न शब्दम् अन्तरेण निर्देष्टुं शक्यत इति भावः. तथापि किम् अत आह -- गौर् इति. त्रयाणाम् अपि वाच्यवाचकज्ञानानां समानो निर्देशः गौर्[६९९]इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इति. वाच्यं च स च बुद्धिश् च वाच्यतद्बुद्धयः. तद्वादिनां पुरुषाणां गौर् इति समानो निर्देशः प्रतीयत इत्य् अर्थः
SK
__________NOTES__________
SK
[६९९] गोर् अर्थो (KA)
SK
तथापि किं जातम् अत आह -- निर्देशेति. अयम् अर्थः -- एवं हि श्रोता विकल्पयति यतो ऽयं वक्ता त्रिष्व् अपि समानं शब्दं प्रयुङ्क्ते, अतो{१,२७४}ऽस्यानुभवस् त्रिष्व् अपि समान एव. तद्वच् च स्वयम् अपि सविकल्पकज्ञानप्रमेयम् अर्थं बुध्यमानस् त्रिगोचरस्य ज्ञानस्य वक्तृस्वरूपताम् अध्यवस्यति. यादृशं वक्त्रा प्रतिपन्नं तादृग् एव प्रतिपद्यत इति यावत्. एवं पूर्वपूर्ववक्त्रनुसारेणोत्तरोत्तरेषां श्रोतॄणां निर्देशसाधारण्याद् अध्यासभ्रम इति
SK
यदि निर्देशसाधारण्याद् भ्रान्तिः, अर्थाध्यास एव किं न शब्दबुद्ध्योः प्रतिपाद्यते. समानं हि भ्रान्तिबीजम् अत आह -- भ्रान्तीति. उपायो ह्य् अर्थस्य जडात्मनः स्वयम् अप्रकाशस्य मतिश्रुती. उपायपूर्विका चोपेयस्थितिर् इति तत्पूर्वम् अर्थं बुध्यमानास् तदध्यासं मन्यन्ते. श्रुतिश् च श्रूयत इति शब्दो ऽभिधीयते. मत्यध्यासश् च पूर्वम् अनुपक्षिप्तो ऽपि कैश्चिद् आश्रितः. स च शब्दाध्यासनिराकरणेनैव तुल्यन्यायतया निराकृतो भविष्यतीत्य् उपन्यस्तः. एवं बौद्धगन्धिवैयाकरणा मन्यन्ते -- जात्यादिर् अर्थो व्यतिरेकाव्यतिरेकविकल्पदूरीकृतनिरूपणः.[७००]शून्याङ्कुरजन्मादौ तु बाह्या[७०१]सम्भवाद् अशक्यो ऽभ्युपगन्तुम्, अतो ज्ञानाकार एवार्थ इति. तद् अपि ज्ञानात् प्राग् एवार्थरूपोपलम्भात् तद्द्वारेणैव ज्ञानावधारणान् निराकृतं वेदितव्यम्. विकल्पपरिहारस् त्व् आकृतिग्रन्थे वक्ष्यते. शून्यादौ तु बाह्यार्थसम्भवो निरालम्बनवाद इति
SK
__________NOTES__________
SK
[७००] राकरणः (KA) [७०१] ह्यार्थसं (GA)
SK
निपुणं तु चिन्तयतां त्रिष्व् अपि विलक्षणा बुद्धिर् उपजायत इत्य् आह -- गोत्व इति. उभयोर् ज्ञानम् अनाकारम् अनुमीयत इत्य् अर्थः
SK
अयम् अपरः शब्दाध्यासे दोष इत्य् आह -- यदि चेति. शब्देन सहाभेदरूपेणेत्य् अर्थः. अक्षादौ शब्दे ऽध्यस्यमाने शब्दैकत्वात् तद्रूपत्वाच् चार्थस्य देवनादेर् एकत्वं प्रसज्यत इति
SK
{१,२७५} नन्व् अस्त्य् एवानक्षनिवृत्त्या त्रिष्व् अप्य् एकत्वं, न. शब्दात् प्रागनवगतेः. अगृहीतसम्बन्धस्य च शब्दस्याप्रत्यायकत्वात्. तद् एतद् आशङ्कया सहाह -- स्याद् इति. अध्यासवादी स्वाभिप्रायेण चोदयति -- गवादिष्व् इति. इतरश् च[७०२]स्वमतत्वेनोत्तरम् आह -- नेति. कारणम् आह -- एकेति. दृश्यते हि प्राग् एव शब्दान् निर्विकल्पकेनाप्य् एकं रूपम् अनुगतम् इति प्राग् एवोक्तम् इति
SK
__________NOTES__________
SK
[७०२] वस्तुत्वे (GA)
SK
विभीतकादिषु नैकरूपानुगमो ऽस्तीत्य् आह -- त्रय इति. शब्द एवात्र साधारणो गवादिजातिशब्दविलक्षणो नार्थ इति
SK
किं पुनर् अत्राप्य् एकशब्दवाच्यतया शाबलेयादिवदेकधर्मान्वयो नेष्यते. अत आह -- परस्परेति. अयं च विविक्ताकृतिबोधो ऽध्यासपक्षे न युक्तः. शब्दरूपस्याविभागाद् इत्य् आह -- तदध्यास इति
SK
ननु न वर्णः शब्दः. किं तर्हि. स्फोटः. तद् इह भिन्नार्थप्रत्ययावसेय एव भिन्नः स्फोट इत्य् आशङ्कते -- भिन्नाः स्युर् इति. तत्र परिहारम् आह -- नेति. कारणम् आह -- अर्थ इति. संशयो ह्य् अर्थ उच्चरिते शब्दे भवति. स शब्दभेदे न भवेद् इति भावः. यदि संशयः ततः किम् अत आह -- न सामान्याद् इति. सामान्यदर्शननिबन्धनो हि संशयः. स शब्दभेदे ऽनुपपन्न इति. शब्दसादृश्यात् तर्हि संशयो भविष्यतीत्य् अत आह -- रूपाभेद इति. अयम् अभिप्रायः -- न वर्णातिरिक्तः पदस्फोटो ऽस्तीति वक्ष्यामः. वर्णा एव हि पदं, ते चाभिन्नरूपाः प्रतीयन्त इति
SK
{१,२७६} दुर्भणः शब्दभेद इति दूषणान्तरम् आह -- भवत्यादाव् इति
SK
अयं चापरो दोष इत्य् आह -- शब्देति कथमन्तेन. अभिन्ना हि शब्दस्य निष्पन्नरूपता नामाख्यातयोर् इति. इदं च नोपपद्यत इत्य् आह -- कथं चेति. कः पुनर् मूर्तो ऽर्थः. न तावज् जातिः अमूर्तत्वात्. व्यक्तिस् त्व् अध्यासवादिभिर् अपि नापलपितैव. सा च मूर्तैवेति. को दोषः. सत्यम्. इदं तु परिणामविवर्तवादिनः प्रत्युक्तम्. परिणामवादिनो हि वाग् एवार्थात्मना परिणमतीति मन्यन्ते, त उपालभ्यन्ते. कथम् अमूर्तस्य मूर्तः परिणामः. मूर्तानां हि मृदादीनां मूर्तो घटादिपरिणामो भवतीति युक्तम्. एवं विवर्तवादे ऽपि वाच्यम्. मूर्तं हि मुखम् आदर्शे विवृत्तं युक्तं यद् मूर्तम् उपलभ्यते. अमूर्तविवर्ते तु कथं मूर्तनिर्भासा बुद्धिर् इति
SK
तथा यच् चेदं गवाश्वादयो जातिशब्दाः शुक्लादयो गुणशब्दा इति विभज्यन्ते, तद् अपि वाच्यरूपानपेक्षणे नोपपद्यत इत्य् आह -- गवाश्वेति ||
SK
विशेषणविशेष्यभावो ऽपि बाह्यार्थानपेक्षया न व्यवतिष्ठत इत्य् आह -- वृक्षप्लक्षादीति
SK
सामानाधिकरण्यं च नीलोत्पलादिषु शब्दबुद्ध्योर् इवार्थबुद्ध्योर् अपि नाध्यास उपपन्न इत्य् आह -- सामानाधिकरण्यम् इति. अपि च{१,२७७}एकत्रोपसंहृते बुद्धी समानाधिकरणे भवतः. तद् इहाध्यासवादिनां कुत्रैकत्रोपसंहारो वाच्यः. न तावद् असाधारणे, तस्यापि कल्पनीयत्वाद् इत्य् आह -- एकत्रेति. अस्मन्मते तु वाच्यभागानुप्रवेशद्वारेणास्त्य् एकत्रोपसंहार इति विवेचनीयम् इति
SK
यदि त्व् असाधारण एव वस्तुत्वसामान्यगोचर उपसंहार इष्यते, ततः सर्वेषाम् एव गवाश्वादिशब्दानां वस्तुगोचरत्वाविशेषात् सामानाधिकरण्यं प्राप्नोतीत्य् आह -- वस्तुमात्र इति. इह वस्तुत्वाभ्युपगमम् अनापाद्यैव वार्त्तिककृता दोषबाहुल्याद् अतिप्रसङ्गो ऽभिहित इति
SK
अभ्युपगम्याप्य् असाधारणोपसंहारं व्यक्त्यानन्त्यान् नीलोपलपदप्रयोगो न स्यात्, दृश्यते चासाव् इति दूषणान्तरम् आह -- न चेति
SK
न चानेकनीलोत्पलव्यक्तिसाधारणी नीलोत्पलत्वजातिर् भवद्भिर् इष्यते यत्र शब्दो वर्तेतेत्य् आह -- न चेति. न केवलं नेष्यते, युक्तिश् च तदभ्युपगमे न भवतीत्य् आह -- शब्दार्थयोर् इति. द्वौ ह्य् अत्र नीलोत्पलशब्दाव् अध्यस्येते. अतः श्रुतशब्दभागानुगतौ द्वाव् एव शब्दाध्यासरूपाव् अर्थौ गम्येते. न हि शब्दद्वयाध्यासे प्रत्याय्यैकत्वं सम्भवतीति
SK
यदि सहप्रयोगमात्रात् सामानाधिकरण्यम् इत्य् उच्यते, स तर्हि पर्यायशब्दयोर् अपि कदाचिद् अव्युत्पन्नबोधार्थे प्रयोगो दृष्ट इति तयोर् अपि सामानाधिकरण्यं स्याद् इत्य् आह -- शब्दद्वयस्येति
SK
{१,२७८} अपि च नानवगतसम्बन्धं पदं प्रत्याययति. न चानवगते ऽर्थे सम्बन्धो ऽनुभवितुं शक्यते. तद् इहाध्यासवादे सम्बन्धानुभववेलायां कीदृशो ऽर्थः प्रत्येतव्य इति वाच्यम् इत्य् आह -- न चेति. न केनचिद् रूपेण प्रत्येतुं शक्यत इति भावः
SK
किम् इति न शक्यते, अत आह -- तदानीम् इति. शब्दरूपो ह्य् अर्थः. न चाव्युत्पन्नस् ताद्रूप्यावधारणे समर्थः. तद् इहाध्यासात् सम्बन्धबुद्धिः ततश् चाध्यास इति तत्रेतरेतराश्रयम् इति भावः. असाधारणेन च सम्बन्धग्रहणं नाशङ्कन्नीयम् एव, पिण्डान्तरे ऽप्रयोगप्रसङ्गाद् इत्य् आह -- न चेति
SK
तद् इदानीं सम्बन्धानपेक्षस्यैव शब्दस्यात्माध्यासशक्तत्वं बलाद् आपतितं, तत्र च प्रथमश्राविणो ऽपि तद्रूपार्थबोधप्रसङ्ग इत्य् आह -- तत्रेति ||
SK
न च वाक्यं तवापि शब्दो नित्यम् अर्थेन सम्बद्धः तत् किमर्थे स्मरणं नादधातीति. मम ह्य् अस्ति वाच्यं व्यतिरिक्तं तद्, येन वाच्यवाचकसम्बन्धो ऽवगतः स शब्ददर्शनाद् अर्थं स्मरति. यस् त्व् अस्येदं वाच्यम् इति न जानाति न तस्यार्थस्मरणम् इति नानुपपन्नं किञ्चिद् इत्य् आह -- ममेति. भवतस् तु वाचकरूपातिरिक्तवाच्यरूपाभावात् प्रथमश्रवणे ऽप्य् अध्यस्तरूपता स्याद् इति पूर्वेण सम्बन्ध इत्य् आह -- भवत इति
SK
न त्व् एतद् अस्तीति व्यतिरेकेण दर्शयति -- यथेति
SK
{१,२७९} यतश् च गृहीतशब्दो ऽपि नार्थं प्रतिपद्यते, ततो नैव वाचकाधीनं वाच्यम् इत्य् आह -- तस्माद् इति. प्रमाणान्तरावगतार्थरूपस्मारकत्वात् तु श्रुतेर् एव तत्पारतन्त्र्यं युक्तम् इत्य् आह -- स्मारकत्वाद् इति
SK
उपसंहरति -- तेनेति
SK
प्रवृत्तिनिवृत्त्युपदेशेषु कुर्याद् न कुर्याद् इत्य् एवमादिषु शब्दस्यातदात्मकत्वात् तदात्मकार्थबोधो ऽनुपपन्न इत्य् आह -- प्रवृत्ताव् इति
SK
पर्यायशब्देषु च शब्दभेदाद् अर्थ(?भेदोप/भेदा)पत्तिर् इत्य् आह -- करहस्तादीति
SK
अपि चायम् अध्यासः सादृश्याद् वा भवति शुक्ताव् इव रजतस्य, उपरागाद् वा मणाव् इव जपारुणिम्नः. न चैतद् उभयम् अपि शब्दाध्यासे सम्भवति. दूरस्थेनानुरागासम्भवात् सादृश्यानवगतेश् चेति. तद् एतद् आह -- आत्माध्यास इति सार्धेन. यद् अपि विवर्तवादिनां प्रत्यवस्थानं दूरस्थम् अपि चन्द्रादि जले विवर्त(?म् उ/उ)पलभ्यते, तद्वच्छब्दो ऽपि प्रत्येष्यत इति. तद् अयुक्तम्. अरूपस्य प्रतिबिम्बासम्भवाद् इत्य् आह -- दूरस्थेति
SK
{१,२८०} ननु यद् इदम् उक्तं दूरस्थत्वाच् छब्देनानुरागो न सम्भवतीति. तद् अयुक्तम्. वैभवेन शब्दस्य सर्वत्र सन्निधानाद् अत आह -- शब्देति
SK
किञ्चायम् अनुरागः समानेन्द्रियग्राह्येणैव दृष्टः यथा चाक्षुषस्य मणेर् अरुणिम्ना चाक्षुषेणैव. न हि त्वचा स्फटिके ऽनुभूयमाने चाक्षुषो ऽरुणिमा तम् अनुरञ्जयति. एवं श्रौत्रः शब्दो न चाक्षुषम् अर्थम् अनुरञ्जयितुं शक्नोतीत्य् आह -- न चेति
SK
एवं तावद् अशब्दात्मनः शब्दात्मकतया वेदने पाररूप्यप्रसञ्जनेन यत् सविकल्पकज्ञानानां मिथ्यात्वम् उक्तं तन्निराकृतम्. अध्यासवादिनां तु सविकल्पकज्ञानमिथ्यात्वेनानुमानादीनां प्रामाण्यं दुर्लभम् इत्य् आह -- अनुमानेति. न केवलम् अनुमानादीनां प्रामाण्यं न सिध्यति, सर्वनिरूपणानाम् एव तु विकल्पाधीनत्वात् सर्वलोकवेदव्यवहारोच्छेदप्रसङ्ग इत्य् आह -- निरूपणस्येति. निरूपणं निर्णय इति
SK
ननु सर्वं मिथ्यैव वाचो ऽतिरिक्तं वाङ्मयत्वाद् विश्वस्य, तद् यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्य् एवमोङ्कारेण सर्वा वाक् सन्तृण्णा ओङ्कार एवेदं सर्वं वाग् एव विश्वा भुवनानि जज्ञिरे इति श्रुतेः. अत आह -- तथास्त्व् इति. सर्वमिथ्यात्वे प्रतिज्ञाया एव मिथ्यात्वाद् न सर्वमिथ्यात्वं सिध्यतीति
SK
{१,२८१} अपि चायम् अध्यासापरनाम्ना बाह्यापलापः. बाह्यापलापो माहायानिकः पक्षः. स च शून्यवादोत्तरेणैव निराकार्य इत्य् आह -- शून्यवादेति. बुद्धिग्रहणं बुद्ध्यध्यासनिराकरणार्थम्. इदं च प्राग् अपि व्याख्यातम् इति
SK
प्रकरणार्थम् उपसंहरति -- तस्माद् इति. भिन्नैकत्वादिबुद्धिभिर् इति. अनुगतव्यावृत्तिबुद्धिभिर् इत्य् अर्थः
SK
एवं तावत् प्रमाणान्तरप्रतिपन्नार्थगोचरः शब्दः न तत् तन्त्रम् अर्थरूपम् इत्य् उक्तम्. इदानीं तु यद्य् अपि शब्दोपायको ऽर्थो ऽसति शब्दे नावगम्यते, तथापि न तस्य स्वरूपनाशो भवति. न हि चक्षुरादेर् अभावे रूपादिपञ्चकं न प्रतीयत इति तद् असद् भवति. तद् एतद् आह -- शब्दाभ्युपायक इति द्वयेन. इह चोपायापेक्षत्वेनासत्त्वं निराकृतं, न हि दीपेन्द्रियादीनाम् इत्य् अत्र हेतोर् अनैकान्तिकत्वम् उक्तम् इति विवेक इति || २१७-२१८ ||
SK
नन्व् अस्तु शब्दातिरिक्तम् अर्थरूपम्. तत् तु सम्बन्धग्रहणात् प्राक् शब्दाकारेण नावगतम्. उत्तरकालं तु तदाकारम् अवगम्यत इत्य् अतदाकारस्य तदाकारप्रतीतेर् मिथ्यात्वम् अत आह -- सम्बन्धस्येति. नित्यो हि वाच्यवाचकसम्बन्ध इति पूर्वम् अपि तच्छब्दवाच्यशक्तिर् आसीद् एव. परस्तात् त्व् अभिव्यक्ता.{१,२८२}एतावच् च तदानीम् अपि शब्दाकारत्वं न तदात्मता. अतो नातदाकारं तदाकारतया गम्यत इति कुतो भ्रान्तिः. शब्दसम्बन्धमात्रेण चेदं शब्दाकारत्वम् उच्यते. न तु शब्दात्मकतया, नित्यं यदि च गोत्वादीत्य् अत्र शब्दात्मकत्वम् अङ्गीकृत्य भ्रान्तित्वं निराकृतम् इति विवेकः. अरूपता अशब्दरूपतेत्य् अर्थः. कथं पुनर् इदम् अवगम्यते सम्बन्धग्रहणात् प्राग् अपि तद्रूपम् आसीद् इति, अत्राह -- युगपद् इति. न हि युगपद् एव सर्वे शब्दासम्भिन्नम् अर्थं बुध्यन्ते. यदैव ह्य् एको ऽशब्दाकारम् अर्थं प्रत्येति, तदैव व्युत्पन्नो गौर् अयम् इति विकल्पयति. अतो नातद्रूपस्य तद्रूपतया ग्रहणम् इति
SK
अत्र चोदयति -- तदाकार इति.
SK
यथैव ह्य् अतदाकारो न सर्वैर् अवगम्यते |
SK
तदाकारो ऽपि न तथा सर्वैर् इति कथं तथा ||
SK
इति. परिहरति -- द्वये सतीति. परीक्षास्वरूपं दर्शयति -- किन् न्व् इति
SK
निर्णयम् आह -- सदसद्भावयोर् इति. तदाकारत्वम् अस्ति नास्ति चेति नोपपद्यते, विद्यमानस्य तु शक्त्यशक्तिभेदाद् उपलम्भानुपलम्भौ युक्तौ. शक्तिसदसद्भावाव् अपि तदाधारभेदाद् उपपन्नाव् एवेति विद्यमानैव तदाकारता अशक्तैर् नानुभूयत इति निर्णय इति
SK
अत्रैव दृष्टान्तम् आह -- यथेति. रूपस्य ग्रहणे ग्रहीतृभेदात् शक्ताशक्तत्वं यथेत्य् अर्थः. एतच् च सम्बन्धपरिहारे ऽभिधास्यत इत्य् आह -- इत्यभिधास्यत इति. इतिर् इदम् अर्थे. शक्ताशक्तत्वे विभजते -- तेनेति. येनेयं{१,२८३}शक्तितो व्यवस्थोपपत्तिमती तेन शब्दोपायकस्य ग्रहीतुः शब्दाकारा धीर्नेतरस्येति विवेकः
SK
अत्र चोदयति -- देवदत्तादीति. तुशब्दः पूर्वोक्तनिवृत्तौ. नित्यस् तु स्याद् इतिवत्. यद् एतद् उक्तं प्राग् अपि शब्दाकार एवासाव् अर्थ इति तदव्यापकं, देवदत्तादीनां कल्पनास्वसम्भवात्, तत्र ह्य् आदिमान् सम्बन्धः. अर्थो ऽपि देवदत्तादिर् अनित्यः. अतः पूर्वापरयोः कोट्योः प्रसंख्यानात् ताद्रूप्यं शब्दरूपत्वम् अनित्यम्. अतो ऽवश्यम् एव तत्रातदाकारं तदाकारतया कल्प्यत इति मिथ्यात्वम् इति
SK
परिहरति -- तत्रापीति. देवदत्तशब्दो ऽपि देवा एनं देयासुरित्याशिषा लब्धम् अर्थं निजयैव शक्त्या वदति. एवं चैत्रादिशब्दा अपि नक्षत्रग्रहादिनिमित्ता गवाश्वादिशब्दवन्नित्यसम्बन्धा एवेति तद्वद् एव नातदाकारता तद्रूपप्रत्ययं प्रतीति देवैर् दत्तो यो ऽर्थः स तस्यार्थः अतस् तदर्थरूपप्रत्ययं प्रति ग्राह्यग्राहकयोर् वाच्यवाचकयोर् औत्पत्तिक्य् एव शक्तिः, नियोगमात्रं तु यदभिनवे पिण्डे तदनित्यम्. न च तदनित्यतया शब्दार्थसम्बन्धस्यानित्यता भवति. शब्दस्यातदर्थत्वाद् इति
SK
यत्र तर्हि पिण्डे नियोगवशाद् एव देवदत्तादिशब्दा अ(?न)न्वर्था एवम् वर्तन्ते. डित्थादिशब्दाश् चानुगमशून्याः तत्र कथं सत्यत्वं, तत्र हि शब्दात्मनैवार्थो विकल्प्यते न त्व् अर्थसमवायि किञ्चिद् विशेषणम् अस्ति. सैव च नामकल्पनेत्य् उच्यते. अन्वर्थत्वे तु यथासम्भवं कर्मादिकल्पनैव दर्शयितव्या. अतः पुनर् अपि नामकल्पनं मिथ्येत्य् आपतितं तद् इहैकेषां मतेनाभ्युपगमेनैवोत्तरम् आह -- तत्रेति
SK
{१,२८४} स्वमतेन परिहारम् आह -- यदा त्व् इति. सत्यम् अतद्रूप एवासौ पिण्डः परस्ताद् अपि न शब्दाकारेणावसीयते. किन् तु तदवस्थैव संज्ञा, यादृशो ऽसाव् अर्थः पूर्वम् अवगतस् तादृशस्यैव तस्य स्मरणे हेतुः. अतो नान्यद् अन्याकारेण प्रतिपन्नम् इति कुतो मिथ्यात्वम्. कथं तु नामकल्पनायां डित्थो ऽयम् इति सामानाधिकरण्यबुद्धिः. अर्थसमवायिना हि विशेषणेन नीलोत्पलादिषु सामानाधिकरण्यं दृष्टम्. एकान्तभिन्नगोचरयोस् तु शब्दार्थबुद्ध्योः कथं सामानाधिकरण्यम् इति वक्तव्यम्. अतो भ्रान्तिर् एवेयम्. मैवम्. उक्तं हि -- नात्र शब्दाकारं वस्तु चकास्तीति. डित्थो ऽयम् इति नायम् अर्थः डित्थशब्दात्मको ऽयम् इति. न हीयम् ईदृशी प्रतिपत्तिर् इति. अपि तर्हि डित्थ इति नामास्येति. अतो न नामकल्पना भ्रान्तिर् इति
SK
अन्यन् मतं - प्राग् अपि नामनियोगान् नामाकारग्राह्यशक्तिर् अर्थस्यासीद् इति. अत्यन्तासत्या गगनकुसुमवद् भावयितुम् अशक्यत्वात्. नियोगे तु कृते ऽसौ शक्तिर् अभिव्यज्यते परम्. अतः प्राग् अपि तद्रूपसद्भावे ऽस्ति प्रमाणम् इति न पाररूप्यं, तद् एतद् आह -- नियोगाद् इति
SK
एतद् एव प्रपञ्चयति -- सर्वाकारेति. अस्ति हि सर्वशब्दपरिच्छेद्य[७०३]ताशक्तिर् अर्थस्य. यत्र हि डित्थडवित्थयोर् अन्यतमः शब्दो नियुज्यते स एव तं गमयति. शब्दो ऽपि सर्वाकारार्थविज्ञानसमर्थ एव यत्रैव नियुज्यते तम् एव गमयति. तद् एवम् अनियमप्रसक्तौ नियममात्रं नियोक्त्रा पित्रादिना क्रियत इति
SK
__________NOTES__________
SK
[७०३] द्यश (GA)
SK
{१,२८५} एवं तावत् सर्वप्रकारं पाररूप्ययुक्तिर् उत्सारिता. इदानीं स्मृतिसङ्करेणाप्रामाण्यसम्भावनां वारयति -- तत्रेति सार्धेन. शब्दार्थसम्बन्धं स्मरतो ऽपि वा प्रमातुर् या बुद्धिर् भवति नासाव् अप्रत्यक्षं, चक्षुषा सन्निकृष्टे ऽर्थे या बुद्धिर् भवति सा प्रत्यक्षं तदानीम् अपि चक्षुस्सन्निकर्षो ऽनुपरत एव. एवं स एवायं गौर् इति पूर्वगृहीतानुसन्धानाद् अपि जायमाना नेयम् अप्रत्यक्षं, प्रत्यक्षकारणस्य चक्षुषो ऽनुपरतत्वात्. तद् अत्र शब्दार्थसम्बन्धस्मरणपूर्वगृहीतानुसन्धानाभ्यां प्रत्यक्षत्वं न वार्यत इति प्रतिज्ञातः (?)परस्ताद् उपपादयिष्यत इति. न चात्र तेनेन्द्रियार्थसम्बन्ध इत्य् अनेन गतार्थत्वं तत्र स्मरन्न् अपि स्वधर्मेण विकल्पयन्नरः प्रत्यक्षवान् इति प्रतिज्ञातं केवलं, न तूपपादितम्. अत्र शब्दाध्यासनिरासपर्यन्तेन सन्दर्भेण स्वधर्मविकल्पः प्रसाधितः. इदानीं तु स्मरन्न् अपीत्य् अस्यार्थः प्रपञ्च्यते. तेन तद् ग्रहणकवाक्यम्. उत्तरस् तु तत्प्रपञ्च त्य् अनवद्यम्. इदं चानवहितानां चित्तम् अनुरञ्जयति नेतरेषाम् इति. कथं पुनः स्मृतिसम्भेदेनाप्रामाण्यम् अत आह -- विविक्ता एवेति
SK
विवेकम् एव दर्शयति -- स्मर्येते इति. शब्दसम्बन्धौ हि स्मर्येते अतस् ताव् अप्रत्यक्षौ न त्व् अर्थस्य प्रत्यक्षता वारयितुं शक्यत इति
SK
नन्व् अर्थो हि पूर्वगृहीत एव गृह्यते. स एवायम् इति च प्रतिसन्धीयते. अतः कथं प्रत्यक्षो भविष्यतीत्य् अत आह -- गृहीतम् अपीति. व्यतिरेकेण आधिक्येनेत्य् अर्थः
SK
{१,२८६} आधिक्यम् एव दर्शयति -- व्यक्तीति. पूर्वं हि व्यक्त्यन्तरे जातिर् अवगता इदानीं व्यक्त्यन्तरे ऽवगम्यते. तथा पूर्वेद्युर् अवगता अपरेद्युर् अवगम्यते निर्विकल्पकक्षणे ऽवगता सविकल्पकक्षणे ऽवगम्यत इत्य् अधिकपरिच्छेद्याभावाद् अस्ति मितेर् अवसरः. कालश् च यदिन्द्रियसम्बन्धार्थगोचरो ऽवगम्यते तदिन्द्रियजन्मनैव प्रत्यक्षेणावगम्यत इति तत्सम्बन्धस्य प्रत्यक्षत्वम् उपपन्नम् इति. तदप्रत्यक्षवादिनां तु चिरक्षिप्रादिप्रत्यया अनालम्बनाः स्युः. ननु त एव कालस्य लिङ्गम् अस्तु विषयस् त्व् अमीषाम् अभिधातव्यः. यदि द्रव्यादयः, न, तत् स्वरूपमात्रे ऽनुत्पादात्, तद्गोचरत्वे कालानुमानासम्भवात्. स्वांशपर्यवसानस्य च विज्ञानवादे निराकरिष्यमाणत्वाद् न स्वांशालम्बनत्वम्. अतो यद् अमीषाम् आलम्बन (?स/तत्) प्रत्यक्षाद् अवसीयत एव. कालेति. आदिशब्देनावस्थाभेदो गृह्यत इति. ननु न केवलम् अधिकं गम्यते किन् तु प्रागवगतम् अपीति कथं प्रामाण्यम् अत आह -- यः पूर्वेति. सविलपके हि शब्दार्थस्वरूपसम्बन्धकालसम्बन्धाः प्रथन्ते. तत्र शब्दादिर् अंशो ऽस्मृतिविषय इति मा नाम प्रमाणविषयो भवतु. इदानीन् तनी तु वस्तुनः सत्ता न पूर्वम् अवधृतेत्य् अस्ति तत्र प्रमाणावसर इति स्थितं प्रामाण्यम् इन्द्रियव्यापारानुविधानाच् च प्रत्यक्षत्वम् इति. एकं चेदं पूर्वविज्ञानजनितसंस्कारप्रत्युत्पन्नेन्द्रियादिकारणकं ग्रहणस्मरणात्मकं प्रत्यभिज्ञानाभिधानं प्रमाणम् इति वेदितव्यम् इति
SK
नन्व् इदं भवत्य् अधिकविषयं, स्मरणोत्तरकालं भवत् कथं प्रत्यक्षम्. न हि निर्विकल्पस्य प्रत्यक्षस्यैष धर्मो दृष्टः. अत आह -- न हीति. न हि स्मरणात् प्राग्भाविता प्रत्यक्षलक्षणम्. अपि तर्हीन्द्रियजत्वम्. तच् चात्राप्य् अविशिष्टम् इति भावः
SK
{१,२८७} यदि स्मरणेनेन्द्रियप्रवृत्तिर् एव वार्यते तदा दूष्यते. ततस् तदुत्तरकालं जायमानं सविकल्पकं प्रत्यक्षं भवेद् अपि. न त्व् एतद् अस्तीत्य् आह -- न चेति
SK
यतः स्मृत्या नेन्द्रियं विरुध्यते न वा दूष्यते. तेन प्रागूर्ध्वं वा स्मृतेर् यद् इन्द्रियार्थसम्बन्धाद् ज्ञानं जायते सर्वं तत् प्रत्यक्षम् अभ्युपगन्तव्यम् इत्य् आह -- तेनेति
SK
ननु विदितशब्दार्थसम्बधाः सत्येवेन्द्रियार्थसम्बन्धे केचिद् एव तम् अर्थं जात्यादिना विकल्पयन्ति नापरे. अतस् तावत्सामग्रीकस्यैव कस्यचिद् अभावाद् अप्रतिबन्धककारणविशेषा भ्रान्तिर् एव सविकल्पकप्रत्यय इत्य् अत आह -- विमनस्का इति द्वयेन. अयम् अभिप्रायः -- न व्युत्पत्तीन्द्रियसम्प्रयोगमात्रजं ज्ञानं सविकल्पकं, तद् अपि सर्वसाधारणं मनःप्रणिधानाद्य् अपेक्षते. अतो यदि नाम कस्यचिद् विमनस्कस्य दूरसूक्ष्मसादृश्यादिविषयदोषाद् व्यामूढस्य नामुको ऽयम् इति विशदतरम् अवभासो भवति, नैतावता कुशलस्य सूक्ष्मसादृश्यादिविवेकचतुरस्यापि विभ्रमेण भवितव्यम् इति युक्तम् इति
SK
अत्रैव दृष्टान्तम् आह -- यथा षड्जादीति द्वयेन. तत्संस्कृतेति. षड्जाद्यभ्याससंस्कृतेत्य् अर्थः
SK
{१,२८८} यथा षड्जादिष्व् अकुशलस्यापि विविक्ताकारबोधो भवति विना षड्जादिशब्दप्रयोगम्, एवं गोत्वाद्यविदितास्मृतशब्दैर् विविक्तम् उपलभ्यत एवेत्य् आह -- ते हीति
SK
नानाजातिगुणादिसङ्कीर्णं तु तदशब्दज्ञस्य विजातीयपिण्डविविक्तम् अवभासते. शब्दस्मरणसंस्कृतानां तु पिण्डविविक्तजात्यादिमात्रं निर्भासत इत्य् आह -- सङ्कीर्णम् इति
SK
यत एव स्मरणतन्त्रा विकल्पाः, अतो यदा यच्छब्दस्मरणमाविरस्ति तेनैव तदा वस्तु विकल्प्यते. यथा चक्षुष्मदादिना रूपादि नेतरेण, चक्षुष्मतापि बधिरेण रूपमात्रं न शब्दः अनुपायत्वाद् इति. तद् एतत् सर्वम् आह -- यथेति द्वयेन. विवेकहेतूनाम्. शब्दानाम् इत्य् अर्थः
SK
अतः सिद्धं सविकल्पकम् अपि प्रत्यक्षम्. यावत् तु विवेकोपाया न शब्दा बुद्धा भवन्ति तावन्निर्विकल्पकं न तु तद् एवेत्य् आह -- तेनेति
SK
{१,२८९} अतो यत् कल्पनापि स्वसंवित्ताव् इष्टा नार्थे विकल्पनाद् इति बौद्धैर् उक्तं तत् परधर्मविकल्पे ऽनुमन्यामहे न स्वधर्मजात्यादिविकल्पनेष्व् इत्य् आह -- तस्माद् इति
SK
अतो लिङ्गलिङ्गिसामान्ययोस् तत्सम्बन्धस्य च सविकल्पकप्रत्यक्षवेद्यत्वाद् उपपन्नम् अनुमानादीनां प्रत्यक्षपूर्वकत्वम् इत्य् आह -- प्रत्यक्षत्वम् इति ||
SK
किं पुनः प्रयस्यता सविकल्पकस्य प्रत्यक्षत्वं साध्यते. निर्विकल्पकद्वारेणापि बौद्धादीनाम् इवानुमानादिव्यवहारो घटिष्यते अत आह -- सर्वं चेति. यथा न निर्विकल्पकपूर्वकम् अनुमानाद्यात्मानं लभते, तदनुमाने ऽभिधास्यत इति
SK
अत्र चोदयति -- नन्व् एवम् इति. यदीन्द्रियव्यापारानुपरममात्राज् जात्यादिविकल्पानां प्रत्यक्षत्वम्, एवं तर्हि विस्फारिताक्षो दूराद् उष्णो ऽयम् इति वह्निं विकल्पयति. तद् अपि प्रत्यक्षम् आपद्यते इन्द्रियव्यापाराविरामाद् इति
SK
परिहरति -- प्रत्यासन्नेति. अयम् अभिप्रायः -- अग्निसंवेदन एव तत्रेन्द्रियव्यापार उपक्षीणः. अग्नित्वाद् एव व्याप्तिबलेनानुमानिकोष्णविकल्पो जायते. गोत्वे तु नेन्द्रियव्यापारतः प्रत्यासन्नम् अर्थान्तरं प्रत्यक्षत्वेन{१,२९०}सम्मतं किञ्चिद् अस्ति येन तद् एव प्रत्यक्षं नेतरद् इत्य् उच्यते. अतो गोत्वम् एव प्रत्यक्षम् इति
SK
यद् अपि तत्रापि दूराद् गोमहिषादिसंशये शब्दविशेषादिना गोत्वादिनिश्चयो भवति, सो ऽक्षसम्बन्ध आनुमानिक एव न तु प्रत्यक्ष इत्य् आह -- तत्रेति
SK
अपि च संवित्पराहतम् एवारादुष्णविकल्पस्य प्रत्यक्षत्वम्. अपरोक्षा हि बुद्धिः प्रत्यक्षं, तद् यदा स्पर्शेन्द्रियेणोष्णम् अनुभूयते तदा त्व् अपरोक्षाकारा बुद्धिर् इति भवति प्रत्यक्षं, चक्षुषा वह्नौ प्रकाशिते भवन्ती परोक्षावभासित्वान् न प्रत्यक्षम् इत्य् आह -- स्पर्शनेनेति
SK
अतः स्वेन्द्रियानुसारेणैव प्रत्यक्षता. इन्द्रियान्तरं त्व् असत्कल्पम् एवेत्य् आह -- तस्माद् इति
SK
कथं पुनः समानजन्मनोर् उष्णाग्निविकल्पयोर् एकं प्रत्यक्षम् इतरच् चानुमानिकम्, एवं हि प्रत्यक्षं लक्षयतालौकिकम् एव प्रत्यक्षं लक्षितं भवेद् अत आह -- एवम् इति. नेदम् अलौकिकं यत्र ह्य् अपरोक्षावभासबुद्धिः तत् प्रत्यक्षम् इति लक्षणाद् विनापि लौकिका मन्यन्ते. अक्षसम्बन्धो ऽपि{१,२९१}चापरोक्षावभासौपयिकतयैव लक्षणकारैर् अपि प्रत्यक्षलक्षणत्वेनाश्रीयते न स्वरूपेण. अतो यत्राग्नावक्षसम्बन्धफलम् अपरोक्षावभासित्वम् अनुस्रियते तस्य प्रत्यक्षता नेतरस्येति सिद्धम्
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
प्रत्यक्षसूत्रं समाप्तम्
SK
शुभं भूयात्
SK
Pअर्त् II ०५औत्पत्तिकसूत्र
SK
{२,१} अत्र भाष्यकारेण प्रत्यक्षाद्यनिमित्तत्वे प्रतिपादिते सदुप्लम्भकप्रमाणप्रत्यस्तम(?य/याद् अभा)वप्रमेयतां धर्मस्याशङ्क्य तन्निराकरणपरतयौत्पत्तिकसूत्रम् अवतारितम् अभावो ऽपि नास्ति यतः औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् इति. तच् च चोदनैवेत्य् अवधारणं चाक्षिपति -- प्रत्यक्षादाव् इति. अयम् अर्थः -- भावगोचरनिखिलप्रमाणाभावे ह्य् अभावः प्रमाणम्. न चेह तथा, लोकप्रसिद्धेर् एवाभावात्. न च सा न प्रमाणं, ब्राह्मणादिवर्णविवेकस्य तदधीनत्वात्. इतरथा तदभावात्. न खलु सुनिपुणम् अपि विलोकयमाना वयं क्षत्रियादिविलक्षणं ब्राह्मणशब्दवाच्यं पिण्डानुगतम् अपरं रूपम् अपरोक्षम् ईक्षामहे. तदवश्यं वर्णविवेकाय लोकप्रसिद्धिः स्वतन्त्रा प्रमाणम् आस्थेया. अपि च सकलशब्दार्थावधारणम् एव तदायत्तं, ताम् अन्तरेण प्रमाणान्तरासम्भवात्. अतो निषिद्धे ऽपि प्रत्यक्षादौ नाभावश(ङ्का). न च चोदनैवेत्य् अवधारणोपपत्तिर् इति
SK
{२,२} प्रसिद्धिम् एव दर्शयति -- धार्मिकेति ह्यन्तेन. अनुग्रहकारिणि हि लौकिका धार्मिकशब्दं प्रयुञ्जाना दृश्यन्ते. पीडाकारिणि चाधा(र्मिकशब्दम्). यश् च धर्मम् आचरति स धार्मिकः. तद् यद्य् अनुग्रहो धर्मः तद् एवम् उपपद्यते नान्यथेति. एतद् एव भगवतो व्यासस्याप्य् अभिमतम् इति दर्शयति -- तथेति प्रयोजनमन्तेन. निर्(विषय)प्रयोगासम्भवात् तद्विषयम् इदमा प्रतिनिर्दिशति. तद् अयम् अर्थः -- विशिष्टविषये पुण्यपापपदद्वये आचण्डालं मनुष्याणां विद्यमाने तेनैव धर्माधर्मप्रमितिसिद्धेर् अनर्थकं शास्त्रम् इति. नन्व् एवं पुण्यपापप्रमाणकौ धर्माधर्माव् उक्तौ, न लोकप्रमाण(कौ). नैवम्. तत्प्रयोगस्यैव लोकायत्तत्वात्. तस्माद् अयम् अनुपालम्भ इति
SK
एवम् आक्षिप्य समादधाति -- निर्मूलेतीत्यन्तेन. अयम् अर्थः -- प्रसिद्धिर् हि प्रज्ञानम्. तच् च (ज्ञा)नद्रढिमा. न च निर्मूलं ज्ञानम् आत्मानं लभते प्राग् एव ज्ञानद्रढिमा. तद् एवं निर्मूलायाः प्रसिद्धेर् अभावात् कुतः सा प्रवृत्तेति प्रमाणैर् अन्विष्यत इति. ननु च कार्यद्रढिम्ना मूलं कल्पयिष्यते, स्मृतिद्रढिम्नेव श्रुतिर् अत आह -- प्रत्यक्षादीति. सत्यम्. समूला प्रसिद्धिः प्रत्यक्षादिमूलतया प्रत्यक्षसूत्रे निवारिता चोदना (मूलं) भविष्यत्य् एवेति
SK
ननु सन्निकृष्टार्थगोचरम् एव सर्वं प्रमाणम्. अतः प्रसिद्धेः प्रमाणान्तरागोचरार्थत्वं गुणः न दोषाय, अत आह -- न चेति. न च प्रत्यक्षादीनि परित्यज्य लोको नाम प्रमाणगणे प्रमाणम् उपसंख्यायते. वर्णविवेकसम्बन्धावधारणयोस् तु प्रत्यक्षादिप्रमाणत्वं वनसम्बन्धपरिहारयोर् अभिधास्याम इति.{२,३}अपि च भवेद् अपि प्रसिद्धिः प्रमाणं, यदि व्यवस्थितैव प्रसिद्धिः स्यात्. सा त्व् अव्यवस्थिता. तथा हि -- संसारमोचका नाम नास्तिका बाह्यहिंसाम् एव धर्मम् आहुः. अन्ये तु तपः (?प्र/प्रा)जापत्यादि पीडात्मकत्वात् परपीडावत् अधर्म.......स्तु विधिनिषेधप्रमाणकौ तद्विपरीतौ धर्माधर्मौ सङ्गिरन्ते(?.) तद् एवं म्लेच्छार्याणां परस्परविगानान् न लोकप्रसिद्धत्वं धर्माधर्मयोर् उपपद्यत इत्य् आह -- संसारेति सार्धेन
SK
नन्व् अनुमानाभाससङ्करेण प्रमाणम् अप्रमाणीभवति. न हि प्रत्यक्षाभाससङ्करात् प्रत्यक्षम् अप्रमाणं भवति. अथ तत्र कारणदोषसदसद्भावनिबन्धनः प्रमाणतदाभासविवेकः, सो ऽत्राप्य् अविशिष्टः. अत्रापि स्मृतिकारैर् विवेकोपायो दर्शित एव. आचारश् चैव साधूनाम् इत्यादिना. साधवश् चार्याः. स्वाभाविककृष्णमृगचरणोपलक्षितार्यावर्तनिवासिनश् चार्यशब्दवाच्याः. अतस् तदाचारो धर्मो ऽन्यो ऽधर्म इति विवेको भविष्यति, अत आह -- न चेति. शास्त्रसदसद्भावनिबन्धनो ह्य् आर्यम्लेच्छविभागः तद(नाश्रयेण) त्व् आर्यम्लेच्छविभागो दुर्भणः. अत एव शास्त्रस्था वा तन्निमित्तत्वात् (१.३.९) इति वक्ष्यतीति. अस्तु तर्हि शास्त्रमूलार्थप्रसिद्धिः प्रमाणम् अत आह तन्मूलेति. न स्वतन्त्रायाः प्रसिद्धेर् एव प्रामाण्यं सिध्यतीत्य् अभिप्रायः
SK
अतः सकलभावप्रमाणनिराकरणात् शङ्किताभावनिराकरणेन चोदनैव धर्माधर्मयोः प्रमाणम् इत्य् उपपन्नम् इत्य् आह -- तस्माद् इति. पश्यताम् इति. षष्ठी चानादरे (२.३.३८) इत्यनादरे षष्ठीति
SK
{२,४} अत्र भाष्यकारेण औपत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तम् इत्य् उक्त्वा (कथम्) इति प्रश्नानन्तरम् उपदेशो हि भवतीति सौत्रम् उपदेशपदं व्याख्यातं, तत्र न ज्ञायते केनास्य सम्बन्ध इति योग्यपदान्वयं दर्शयति -- उपदेश इति. तस्य धर्मस्योपदेशो ज्ञानं प्रमाणम् इति. ननूपदेशो ग्रन्थसन्दर्भात्मा, ज्ञानं चार्थावग्रहः. कथम् अनयोः सामानाधिकरण्यम् अत आह -- ज्ञायत इति. भावसाधनो हि ज्ञानशब्दो नोपदेशशब्देन सामानाधिकरण्यं लभते. अयं तु ज्ञायते ऽनेनेति करणसाधन इति युक्तं सामानाधिकरण्यम् इति
SK
कथं पुनर् उपदेशो धर्मे प्रमाणम् अत आह -- औत्पत्तिकेति. बाधकारणदोषाधीनं ह्य् अप्रामाण्यम्. तत्र सम्बन्धौत्पत्तिकत्वप्रतिपादनेन तद्द्वारा पुरुषानुप्रवेशाभावात्, पुरुषाश्रयत्वाच् च शब्दे दोषाणां कारणदोषनिवारणं तावत् कृतम्. तन्निराकरणेन सहाप्रामाण्यम् अनपोदितम् इत्य् अव्यतिरेकपदप्रयोजनम् आह -- अबाध इति. अव्यतिरेकपदेनाबाधः प्रतिपाद्यते न हि देशकालयोर् उभयोर् अपि चोदनाजनितं ज्ञानं विपर्येतीति. तद् एवं बाधकारणदोषनिराकरणे कृते ऽनपोदितम् औत्सर्गिकं प्रामाण्यम् इति तत् प्रमाणम् इत्य् अनेनोक्तम् इति दर्शयति -- स्वत इति
SK
अत्र चार्थे ऽनुपलब्ध इत्य् उच्यते. तद् अयुक्तम्. उपलब्धार्थविषयम् अपि प्रमाणं भवत्य् एव. अनुभूतिर् हि प्रमाणं प्रत्युत्पन्नेन्द्रियलिङ्गादिजनिता च संविदनुभूतिः. अत एवोन्मीलि(ताक्ष)स्यैकभावगोचराणां धारावाहिकसंविदां प्रामाण्यम् उपपन्नं भवति. अन्यथा तन् न स्यात्. न हि तत्रानवगतं किञ्चिद् अनुभूयते. देशकालान्तरसम्बन्धो ऽनुभूयत इति चेद्, न. एकदेशस्थे ऽपि भावात्.{२,५}कालस् तु परोक्षः. न च परोक्षापरोक्षसम्बन्धो ऽपरोक्षो भवति, तरुमरुत्संयोगवत्. अतो (ऽवगतार्थम्) अनधिकार्थम् अपि ग्रहणं इति वाच्यम्. न चैवं स्मृतित्वापातः. स्मृतिर् हि पूर्वानुभवप्रभावितभावनावशलब्धसिद्धिर् नाधिकम् अपेक्षते (?ग्रहण + त्व) नेन्द्रियसापेक्षम् इत्य् उक्तम्. अत एव गृहीतम् अपि पुनर्गृह्यमाणं दृश्यत इति लौकिका व्यपदिशन्ति, न तु स्मर्यत इति. अतो न विद्मः किमर्थे ऽनुपलब्ध इत्य् अनेन निरस्यत इति (अत आह -) सर्वस्येति. अयम् अर्थः -- अनुपलब्धार्थविषयम् एव सर्वं प्रमाणम्. अन्यथा स्मृतित्वापातात्. न हि ग्रहणस्मरणयोर् गृहीतागृहीतगोचरयोर् गृहीतागृहीतगोचरगतो विशेष उपलभ्यते. यत् तु कारणभेदाद् भेद इत्य् उक्तम् सत्यम्. स्वरूपभेदौपयिकः कारणभेदः. स्वरूपं तु गृहीतागृहीतविषयत्वाद् एव भिन्नम्. अनुभूतिर् ग्रहणम् इति चेद्, यद्य् अपि सो ऽनुभूतिः अनुमानादिषु स्मृतित्वप्रसङ्गः. अतो ऽअवश्यं गृहीतागृहीतागोचरत्वम् एव ग्रहणस्मरणयोर् भेदः. किम् इदानीं धारावाहिकसंविदो न प्रमाणम्. न हि का .......क्तम्. अत्रोच्यते. तत्राप्य् उत्तरोत्तरकालाकलितभावप्रत्याकलनाद् उपपन्नम् एवाधिकगन्तृतया प्रामाण्यम्. न च वैशेषिकादिवत् परोक्षं कालम् आचक्ष्महे. प्रत्यक्षम् एव हि .....वर्तमानकालसम्बन्धान् भावानुपलभामहे. कथम् अरूपं प्रत्यक्षम् इति चेत्. आकाशवद् भविष्यति. न हि रूपि प्रत्यक्षम् इति नः प्रत्यक्षलक्षणम् अपि तर्हि संविद् एव परोक्षापरोक्षनिर्भासोदीयमानेदं प्रत्यक्षम् इदम् अप्रत्यक्षम् इति विभजते. तद् एवं विस्फारिताक्षस्य व्यक्तानुपलक्षितोत्तरोत्तरसूक्ष्मक्षणभेदभिन्नैकभाववि....कापरोक्षनिर्भासावभासोदयात् उपपन्ना प्रत्यक्षता प्रमाणता च. अतः प्रमाणान्तरानुपलब्धस्वगोचरप्रत्याकलनाद् उपपन्नम् उपदेशप्रामाण्यम् इति सूक्तम् अर्थे ऽनुपलब्ध इति. अत्र भाष्यम् उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति. तत्र चोदना विधिपदपर्यायः शब्दविशेषो भाष्यकारस्याभिमतः इत्य् आह -- चोदनेति. एतद् उक्तं भवति -- विधायकशब्द उपदेश इति
SK
अत्र चोदयति -- वाक्यान्तर इति द्वयेन. अयम् अर्थः -- यद् इदं शब्दविशेषस्य विधेर् धर्मे प्रमाणत्वम् आश्रितम्, अनेन वाक्यान्तरम् अपि हि{२,६}वर्तमानोपदेशकं धर्मप्रमितौ प्रमाणम् एव. श्रेयस् साधनं हि धर्मः. स च श्रेयसः स्वर्गादेः साधनेन यागादिना साध्यसाधनसम्बन्धः सर्वाख्यातेषु सम्भवति. स्वर्गकामो यजेतेत्य् अतो ऽपि हि यागेन स्वर्गः सिध्यतीति गम्यत एव. यथा लोके ओदनं पचतीति पाकौदनयोः साध्यसाधनसम्बन्धबुद्धिः. स्याद् एतत् -- आख्यातम् अन्तरेण साध्यसाधनसम्बन्धो न सिद्ध्येत्, तदर्थो विधिर् इति. तन् न. अनाख्यातवाक्यप्रयोगासम्भवात्. प्रयोजनाय हि वाक्यम् उच्चार्यते. निराकाङ्क्षं च वचः प्रयोजनक्षमम् आकाङ्क्षानिवर्तनं चाख्यातादृते न सम्भवति. इतरथा विधेर् अप्य् असम्भवात्. स्तुत्यापि ह्य् आख्यातम् एव खादिरादिवाक्येषु विधायकं परिकल्प्यते. अथोच्येत -- अनुष्ठितो यागादिर् धर्मः, न चानुष्ठानं (प्रव)र्तकादृते सम्भवति. न च विधिम् अन्तरेणान्यः प्रवर्तयतीति. तन् न. इच्छानिबन्धनत्वात् प्रवृत्तेः. अनिष्टेषु विधिशतेनाप्य् अप्रवृत्तेः. अतो ऽनेनेदं सिध्यतीति संविदि वोपायार्थी स तत्र प्रवर्तत इति. न चाधर्मवर्जनार्थो विधिः. प्रतिषेधाद् एव नञस् तत्सिद्धेः. रागादिप्राप्तकर्तव्यतानुवादेन नञ् एव निषेधाधिकारे निवर्तकः. एषा हि तत्र वचनव्यक्तिः यद्धन्यात् तन् नेति. अतो ऽनर्थको विधिप्रामाण्यप्रतिपादनप्रयासः. अपौरुषेयः शब्दः धर्मे प्रमाणम् इत्य् एतावद् एव वचनीयम् इति
SK
परिहरति -- विधाव् इति. अयम् अभिप्रायः -- सत्यम् इच्छातः प्रवृत्तिः. इच्छैव तु प्रेक्षावतां पुरुषार्थसाधनविषया. न च विधिना विना पुरुषार्थसाधनत्वं यागादीनां शक्यते ऽवगन्तुम्. अत एवौदुम्बरादीनां सत्य् अपि फलपदसम्बन्धे विधिविरहात् फलार्थत्वं नेत्य् औदुम्बराधिकरणे वक्ष्यते. ननु लौकिकपाकौदनादिवत् साध्यसाधनसम्बन्धसिद्धिर् उक्ता.{२,७}सत्यम् उक्ता. अयुक्ता सा. लोके प्रमाणान्तरावगतेः सिध्यत्य् अपि. न तु वेदे. प्रमाणान्तराभावात्. ननु स्वर्गकामपदसमभिव्याहारः प्रमाणं, न. तस्य श्रुत्या बाधात्. इह हि यजत इति साध्याकाङ्क्षिणी भावनावगता सती समानपदोपादानश्रुत्युपनीतयो ...........र्धात्वर्थसम्बन्धनिराकाङ्क्षा सती न व्यवहितकर्तृविशेषणत्वोपयुक्तस्वर्गादिभाव्यसम्बन्धम् अनुभवति. सन्निकृष्टालाभे हि विप्रक्र्ष्टो ऽपि वैदिको भवति न सन्निकृष्ट, ..........च्यते. लभ्यते चेह धात्वर्थः सन्निकृष्ट इति न विप्रकृष्टफलपदसम्बन्धो युक्त इति
SK
कृतिविधौ तर्हि कथं पुरुषार्थसाध्यसिद्धिर् अत आह -- विधाव् इति. अयम् अभिप्रायः -- विधिर् हि चेतनप्रवर्तनात्मकार्थे फले व्यापारे शक्यते पुरुषं प्रवर्तयितुम्. अतः समानप्रत्ययोपात्तविध्यवरुद्धा भावना विधेः प्रवर्तनाशक्तिर् मा व्याघानीति सन्निहितम् अप्य् अपुरुषार्थत्वादय............र्वम् अतिक्रम्य व्यवहितेनापि पुरुषार्थेन स्वर्गादिना साध्येन सम्बध्यते. धात्वर्थस् तु साध्यत्वात् प्रच्यावितो भावनायाम् एव साधनाकाङ्क्षिण्यां साधनतया निव........तमावाक्यार्थो भवति यागेन स्वर्गं कुर्याद् इति. अतः पुरुषार्थसाधनस्य यागादेर् धर्मत्वसिद्धिर् इति युक्तम् उपदेशप्रामाण्यप्रतिपादनम् इति.
SK
इदं त्व् इह वक्तव्यम् -- का(र्य)विधौ पुरुषार्थः साध्यो लभ्यते. विधिर् हि शब्दभेदो वा लिङादिः, तद्व्यापारातिशयो वा, को ऽपि तदर्थभेदो वा. सर्वथा च न युज्यते. शब्दे हि प्रवर्तयितरि पुरुषार्थसम्बन्धे प्रमाणम् अस्ति. आप्ते हि बुद्धिपूर्वकारिणि प्रवर्तके हितकार्ययं मामफले न प्रवर्तयतीति बुद्ध्वा भवति प्रवृत्तिविषयव्यापारफलवत्ता(ध्य)वसायः. शब्दस् त्व् अचेतनो नास्मिन् प्रवर्तयत्य् अपि पुरुषार्थफलप्रतिलम्भः. न हि प्रबलपवनाभिहतो ऽवटे निपतत् फलं प्रतिलभते. अपि च प्रमाणं शब्दः. प्रमाणानां प्रमेयोपदर्शनाद् अन्यत्र व्यापारः. प्रत्यक्षं हि रूपादीन् उपदर्शयति न तु प्रवर्तयति. त्रेधा हि प्रामाणिकाः प्रमाणफलं विभजन्ते. हानम् उपादानम् उपेक्षा चेति. तद् इदं प्रमाणानां प्रवर्तकत्वे नोपपद्यते. तदा ह्य् उपादानम् एवैकं प्रमाणफलम् आपद्येत. कण्टकप्रत्यक्षेण हि कण्टकेषु प्रवर्त्यमानो जिहासन्न् अपि तान्{२,८}मृद्नीयात्. स्याद् एतत् -- शब्दप्रमाणधर्मो ऽयं न प्रमाणान्तराणाम् इति. न, प्रमाणत्वाविशेषात्. एवं हि प्रयोगो भवति. शब्दो न प्रवर्तकः प्रमाणत्वात् प्रत्यक्षादिवत्. अस्तु वा प्रवर्तकः. नियमेन .......प्रवृत्तिप्रसङ्गः. न च लिङादिश्राविणो नियमेन प्रवर्तमाना दृश्यन्ते. प्रथमश्रुताद् अप्रवृत्तेः. अविदितसमयत्वाद् अप्रवृत्तिर् इति चेत्, किम् इदानीं सम्बन्धसंविदपेक्षया यदि शब्दः प्रवृत्तेः कारकः. न हि कारकाणि स्वरूपसंविदम् अप्य् अपेक्षन्ते. (प्राग् एव समयसंविदं?) मृत्सलिलप्रच्छन्नं हि बीजम् अविदितस्वरूपसामर्थ्यम् अपि स्वकार्यम् अङ्कुरम् आरभमाणं दृष्टम्. एवम् एव शब्दव्यापारो विधिर् इत्य् अपि निरसनीयम्.
SK
स्यान् मतम् -- अभिधेय एव लिङादीनां व्यापारो विधिः. अतो न पूर्वोक्तदोषप्रसङ्गः इति. न, अनिरूपणात्. स खलु प्रेषणादिलक्षणो वा स्याद्, अन्यो वा. न तावद् प्रेषणादिलक्षणः शब्दे सम्भवति. अचेतनत्वात्. न चान्यस् तत्समर्थाचरणलक्षणः, तस्य कारीषादिवदनिरूपणात्. कारीषस्य हि वह्नेः शीतापनोदनो ऽध्ययने दृष्ट(?मु/उ)पकारः. न शब्दे तथा सम्भवति. प्रमाणान्तराभावात्. शब्दस्य चागृहीतसम्बन्धस्याप्रत्यायकत्वात्. यदि ब्रूयाद् व्यापारान्तरकल्पने स्याद् अयं दोषः, कॢप्त एव तु लिङादीनाम् अभिधाभिधानलक्षणो व्यापारः शब्दान्तराणाम् इव स्वार्थप्रकाशनान्यथानुपपत्तिप्रमाणकः प्रवृत्तिहेतुत्वप्रतिलब्धप्रवर्तनापरनामा विधिर् इति प्रतिब्रूयाद् एनम्. स खलु व्यापारभेदो ऽभिधेयो वा स्याद् अनभिधेयो वा स्यात्. अनभिधेये अशब्दा.......स्यभावनासमभिव्याहारानुपपत्तिः. किञ् च सर्वशब्दानाम् एवानुमानेन स्वार्थगोचरो व्यापार उन्नीयते. न च तथावगतः. प्रवृत्तिहेतुभाव......पाराः प्रवर्तयन्तीति चेद्, विशेषहेतुर् वाच्यः. यद्य् अर्थविशेषगोचरता विशेषहेतुः, स तर्ह्य् अर्थभेदो विधिः, तदन्वयव्यतिरेकानुविधानात्. प्रवृ.......वर्थभेदः. यदि भावना न, तस्या वर्तमानापदेशेष्व् अप्य् अविशेषात्. अन्यश् चेत् नैनम् उपलभामहे प्रमाणाभावात्. अभिधीयत एव लिङादिभिर् आत्मीयम् अभिधानम् इति चेत्. ..........सर्वशब्देभ्यः प्रवृत्तिप्रसङ्गः शक्यते वारयितुम्. न च कार्योन्नेयम् अभिधानम् अभिधीयत इति साम्प्रतम्. अनन्यलभ्यं हि शब्दाभिधेयम् उपागमन् धीराः. किञ् च यदि व्यापारस्वरूपाभिधानं स ................प्रवर्तकत्वप्रसङ्गः. सोपश्लेषो विशेष इति चेद्, न. स्वरूपाभिधानप्रसक्तेः. न ह्य् अनभिधाय विशेषणं विशेष्याभिधानं सम्भवति. अपि{२,९}चाभिधाभिधानाभ्युपगमेन प......विशेषहेतोर् अभावात्. अस्तु तर्ह्य् अर्थभेदो विधिः. कः. कार्यम्. किं पुनः कार्यम्. कार्यम् एव हि कार्यम्. न हीदं रूपान्तरेणानुभूयते. ननु न क्रियातिरेकि कार्यं प्रमाणान्तरैर् अवगम्यते. सत्यम्. अत एव शब्दप्रामाण्यसिद्धिः. अन्यथा प्रमाणान्तरगोचरत्वेन सापेक्षत्वाद् अप्रामाण्यं चोदनायाः. अपि च कालत्रयविपरिवृत्त्यर्थगोचराणि मानान्तराणि. कार्यं च परामृष्टकालभेदं स्वप्रमाणाद् अवगम्यत इति न प्रमाणान्तरगोचरः. कारकव्यापारो हि यागादिः कालत्रयावच्छेद्यो नाधिकारः. यद्य् एवम् असत्कार्यं कालत्रयापरामर्शात् शशविषाणवद् आपद्येत. न. कालेनानेकान्तात्. कालो हि न तावत् कालान्तरपरिच्छिन्नः. न च नास्ति कालः. कालान्तरावच्छेदे त्व् अनवस्थापातः. अलब्धकालान्तरसम्बन्धो ऽपि कालः प्रमाणसामर्थ्याद् अस्तीति चेत्. समानं हि कार्ये ऽपि. तद् अपि स्वप्रमाणेभ्यो लिङादिशब्देभ्यः कालानवच्छिन्नम् अवगम्यमानं कथम् असद् भविष्यति. प्रमाणसम्बन्धो हि सत्ता, न कालसम्बन्धः. कार्यम् एव तु मनसि वर्तमानं नियुङ्क्त इति नियोग इत्य् उच्यते.
SK
ननु नियोगो नियुक्तिः. स च नियोक्तृव्यापारः. न च वेदे नियोक्तास्ति अपौरुषेयत्वात्. शब्दस्य चानियोक्तृत्वान् न तद्व्यापारो नियोगः. अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः. याथात्म्यवेदनायां तु लिङ् एव पठितव्यः. सा ह्य् अस्य प्रमाणम्. किम् आत्मकस् तर्ह्य् अयम्. उक्तं कार्यात्मेति. न च द्रव्याद्यनात्मकत्वाद् अभावः, तद्वद् एव कार्यम् अपि तद्विभक्तम् एव देशकालनरावस्थान्तराविपर्ययात् स्वसंवित्संवेद्यं नास्तीति शक्यते ऽवगन्तुम्. उदीयते खल्व् अपि लिङादिश्राविणां कार्यसंवित्. न चेयम् अनालम्बना, न च स्वांशालम्बनेति विज्ञानवादे वर्णितम्. अतो निर्विषया संविदात्मानम् अलभमाना स्वविषयभूतं कार्यम् उपकल्पयति. न च प्रतिभामात्रम् इदम् इति वाच्यम्. अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा. न चेयम् अनियतनिमित्ता, शब्दनिमित्तत्वात् तदनन्तरम् उत्पत्तेः. कथम् अनन्यगोचरे कार्यात्मनि व्युत्पत्तिः. तदभावे वा शब्दात् प्रतिपत्तिः कल्प्यताम्. लिङादीनां सकलेतरशब्दविलक्षणः को ऽपि महिमा, यदविदितसम(?या/या अ)पि स्वार्थं गमयन्ति. अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुर् इति प्रसिद्धिः.{२,१०}तदन्यम् अपि लिङादिशब्दश्रवणानन्तरं चेष्टाविशिष्टम् उपलभ्याकलयति नूनम् इतः सकाशाद् अस्य कार्यसंविदासीत् कथम् अपरथा प्रवर्तत इति. नन्व् एवं क्रियाम् एव कार्यतया अज्ञासीद् इति परस्यापि तद्गोचराम् एव कार्यधियम् उन्नयति. न. वर्तमानापदेशेषु सत्य् अपि क्रियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात् प्रवृत्तावहेतुत्वात्. एतद् एव फले ऽपि दर्शयितव्यम्. अतो निर्मुक्ताखिलफलादिविकल्पम् अव्यभिचरितप्रवृत्तिसम्बन्धं कार्यमात्रं लिङादिभ्यः प्रयोज्यवृद्धेनावगतम् इति व्युत्पद्यमानो जानाति. न हि कार्यावगतिर् भवति प्रवृत्तिश् च नेति सम्भवति. अतः कार्यम् एव कार्यविधिर् इत्य् आचार्याः प्रतिपेदिरे. ननु च प्रेषणादयो लिङर्थाः. न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषाम् अनुपलब्धेः. वेदे च व्यभिचारात्. (ननु तर्)हीष्टाभ्युपायता लिङादीनाम् अर्थो भविष्यति. सर्वो हि समीहितोपायम् आकलय्य तत्र तत्र प्रवर्तत इति परम् अपि चेष्टमानम् उपलभ्य जानाति नूनम् इष्टो .......मव्यापारः शब्दश्रवणानन्तरं चायं चेष्टत इति शब्देनेष्टाभ्युपायता प्रतिपादिता भवति. स एव विधिः. प्रवर्तनारूपो हि सः. प्रवृत्तिहेतुं धर्मं च प्रवदन्ति ...... . अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तम् अप्रवृत्तप्रवर्तनं नियोज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीनाम् अर्थो विधिर् इति युक्तम्. हि ........त्य जैमिनिनोक्तम् उपदेश इति. भाष्यकारेण च उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् इति विवृतम्. पुरुषार्थोपायं किलानवगतम् अवगमयन् शब्दान्तरे दूरम् उत्क्र्ष्टो लिङादिशब्दो ऽविशिष्ट इत्य् उक्तम्. अतो लोकवेदतन्त्रान्तरानुगतो ऽयम् एव सिद्धान्त इति कैश् चिद् उन्नीतम्.
SK
तद् इदम् अनुपपन्नम्. तथा हि -- संविद् एव तावत् परिपन्थिनी. न हि लिङादिश्रवणसमनन्तरम् इष्टाभ्युपायो ऽयं व्यापार इति भवति मतिः. अपि तर्हि, प्रवर्तनावगतिः. ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात्. तन् न. एवं सति यस्य पर्णमयी जुहूर् भवति इत्य् अत्रापि विधित्वप्रसङ्गः. तरति मृत्युम् इत्य् अत्रापि. भवति हि तत्रापि पर्णमयता अपापश्लोकश्रवणस्य अश्वमेधो वा ब्रह्महत्यातरणस्य साधनम् इति प्रतिपत्तिः. यदि मतम् -- अस्येदं भवतीत्य् अन्वयमात्रम् अत्रावगम्यते न व्यतिरेकः, न च तम् अन्तरेण साध्यसाधनसम्बन्धो{२,११}ऽवगम्यते इति. कथं तर्हि स्वर्गकामो यजेतेत्य् अत्रापि स्वर्गयागयोः साध्यसाधनसंवित्. न हि तत्रापि सति योगे स्वर्गो भवति असति नेति मतिः. यागेनेति हि तृतीया साधनभावम् अवगमयतीति चेद्, न. तृतीयाश्रवणात्. विधेर् अयं महिमा यदतृतीयान्तो ऽपि यजिः करणतया निर्दिश्यते. स चेद् अन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते. अपि च यत्र स्पष्टम् इष्टाभ्युपायत्वम् अवगम्यते यागस्य यथेष्टाभ्युपायो ऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः. किञ् च तद्द्वेषीति तत्कारि चायम् एवं ब्रुवाणो दृश्यते. तथा हि प्रतिभा विधिर् इति निरस्यतैतद् उक्तं -
SK
न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी |
SK
समान्यस्मिन्
SK
इति. तद् इदं तवापि समानम् इति वर्णितम्. अपि च एवंवादिना साधु समर्थितं विधाव् अनाश्रिते इति. अत्र हि विध्यधीना यागादेर् इष्टाभ्युपायता न तु सैव विधिर् इति दर्शयति. तस्माद् अतिकुशलैर् उपदेशापदेशयोर् अविशेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वम् अतीन्द्रियम् अन्यदेवेति पूर्वोक्तम् एव साधीयः.
SK
अत्र वदामः -- नैवम् अपि यागस्वर्गयोः साध्यसाधनसम्बन्धसिद्धिः. नियोगो हि तदा साध्यः. न च साध्यद्वयम् एकत्र समवैति, समत्वाद् असम्बन्धात्. ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः. अत एव साध्यविवृद्धिर् इयं न तु स्वर्गो ऽपि स्वतन्त्रतया साध्यः. निरपेक्षं च साध्यद्वयम् एकत्र विरुध्यते, नानुगुणम्. यथाह -- नियोगसिद्धौ सर्वं तदनुगुणम् इति. केन नेष्यते. तस्माद् अविरोध इति. तद् असत्. किं हि स्वर्गसिद्धिम् अन्तरेण नियोगस्य न सिध्यति. न हि नित्याधिकारेषु नियोगः साध्यान्तरम् आकाङ्क्षति. कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः. कमिसाध्यत्वागवतिः. तथा हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टाधिकारिसाध्यो नियोगो ऽवगम्यते. स कथम् असिध्यति स्वर्गे सिध्येत्. अतः स्वर्गसिद्धिर् अवगम्यत इति नः साध्यस्वर्गविशिष्टो ऽधिकारी.{२,१२}कस् तर्हि. काम्यस्वर्गविशिष्टः. अतः स्वर्गं कामयमानः पुरुषो नियोगं साधयिष्यति. अन्यदिच्छतो ऽन्यत्र क्रिया नोपपद्यत इति चेद्, न. नियोगसामर्थ्याद् उपपत्तेः. नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्गम् अपि कामयमानम् आत्मन्य् आकर्षतीति किम् अनुपपन्नम्. अपि च सिध्यन्न् अपि स्वर्गो यागात् सिध्यतीति न नः प्रमाणम्. स्वर्गयागौ हि युगपदरुणैकहायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयम् अनुभवतः. न चारुणिम्न इव द्रव्यावछेदशक्तिर् यजेर् अपि स्वर्गसाधनशक्तिर् अवधृता प्रमाणान्तरेण. ननु किम् अत्र प्रमाणान्तरेण. स्वर्गे याग एव प्रमाणम्. स हि स्वर्गकामं यागे नियुङ्क्ते. न चाकामोपाये कामी नियोक्तुं शक्यते. उक्तोत्तरम् इदम्. किं हि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फले ऽपि नरं प्रवर्तयति. तस्य ह्य् अनुपाये कामिनं नियुञ्जानस्य किम् इव हीयेत. यागे नियोगो नियुङ्क्ते इति वदता नूनम् इदम् अवधीरितम्. आरम्भे हि पुरुषो नियुज्यते न कर्मणीति. तस्मान् न स्वर्गयागयोः साध्यसाधनसम्बन्धसिद्धिः. यद् अपि च क्रियादिकार्ये व्यभिचाराद् अनुपाधिके व्युत्पत्तिर् इत्य् उक्तं, तदयुक्तम्. प्रतीतविषयत्वाद् व्युत्पत्तेः. न हि क्रियादिव्यभिचारात् शशविषाणं लिङाद्यर्थ इति शक्यते वक्तुम्. यद् अपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद् वेदे ऽन्यदविनाशि कार्यं लिङाद्यर्थ इति प्रत्येष्यते. लोके तु संमुग्धेनापि व्यवहारसिद्धेर् न शब्दार्थतत्त्वनिरूपणम्. बहव एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते. वेदे तु स्वर्गकामो यजेतेति क्रियात्मनः कार्यस्य भङ्गुरत्वाद् आमुष्मिकस्वर्गादिफलसाधनाशक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यम् उपेयते. वाक्यशेषाच् चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्य् अपि वाक्यशेषे ऽवगम्यते. नित्याधिकारेष्व् असत्य् अपि फलपदसमभिव्याहारे तथाविधम् एव कार्यं लिङादीनाम् अर्थो भविष्यतीति. तद् इदम् अन्यद् एवाभ्यस्तम् अन्यच् चोपनिपतितम्. क्रियाकार्ये (विष्पन्न?) स्थायिकार्यं प्रतिपद्यते. न च क्रियायाः फलसाधनताशक्तेर् अशब्दार्थः सन् युक्तः कल्पयितुम्. कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपम् इति कल्पयितुम् उचितम्. न च पूर्वावगतशब्दार्थान्यथाकरणम्. न हि कर्मण्य् अनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद् विपरिवर्त्य करणम् अभिधत्त इति युक्तम् अभिधातुम्. सर्वशब्देष्व् अनाश्वासप्रङ्गात्. अत एव{२,१३}तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद् गुणवादः क्वचिल्लक्षणा क्वचिद् विनियोगभङ्ग इति तन्त्रे व्यवहारः. न तु विनियोगभङ्गाद् अभिधानम् एव शब्दानाम् अन्यथा नीयते. अपि च श्रुतकर्मफलसम्बन्धानुपपत्तेर् अनवगतपूर्वम् अपूर्वं कार्यं लिङर्थम् उपयता साधु श्रुतम् उपपादितम्. किं हि लिङापराद्धं यत् तस्यालौकिकम् अर्थम् अतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते. ननु नाद्यापि लिङर्थो निश्चीयते. अयम् एव हि निर्णयसमयः. अत्र च श्रुतफलपदान्तरसमभिव्याहारोपपत्तये ऽतीन्द्रियम् एव कार्यम् इति निश्चीयते. अतो न किञ्चिद् विरोत्स्यत इति. किम् इदानीं स्वर्गकामो यजेतेति श्रुतेर् अप्रतीतिर् एव, लिङर्थे संशयो वा. अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुपपत्तिर् इत्य् एतद् एव दुर्भणम्. संशयस् तु पक्षद्वयावलम्बी. न चालौकिके क्रियातिरेकिणि कार्ये लिङादयो निरूपितप्रयोगाः. न चात्यन्तापरिदृष्टापूर्वार्थगोचरः संशयो दृष्टचरः. यवादिषु त्व् आर्यम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगोचरः संशयो युक्त एव. अत एवात्र न वाक्यशेषान् निर्णयः. सन्दिग्धे हि स वर्णितः. न च लिङर्थे संशयः. किन् तु लोके व्युत्पत्त्यनुसारेण क्रियात्मन्य् एव कार्ये निश्चयः. यद् अप्य् उच्यते कर्मफलसम्बन्धोपपत्तये ऽन्यत् कार्यम् उपलभ्यत इति. केन वा कर्मफलसम्बन्धो दर्शितः. न ह्य् अयं वैनियोगिकः. नियोग एवात्र प्रमाणम्. स चेत् तदधीनसिद्धिः दुरुत्तरम् इतरेतराश्रयम्, सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणताम् आह. तत्सिद्ध्या च नियोगात्मलाभ इत्य् अलम् अनेनापि.
SK
यथावार्त्तिकम् अनुसन्धास्यामः. एवं हि वार्त्तिककृता भावार्थाधिकरणे उक्तं लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारो ऽभिधात्मिका भावना विधिर् इति. द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकाम् अर्थात्मिकां च. तत्रार्थात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागादिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचारप्राप्ततत्तद् इति कर्तव्यतावती तत्र तत्र सिध्यति. शब्दात्मिका तु लिङादिशब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवादोदितप्राशस्त्येति कर्तव्यतावतीति विवेचनीयम्. कथं पुनरभिधा शब्दात्मिका. शब्दव्यापारो हि सः. न. व्यापारतद्वतोर् अनतिभेदाद् उपपत्तेः. द्रव्यम्{२,१४}एव हि पूर्वावस्थातः प्रच्युतं पराम् अवस्थाम् अप्राप्तं पूर्वापरीभूतं व्यापारशब्दवाच्यम्. कथं लिङादीनाम् अभिधा पुरुषकर्मिका. न हि ते पुरुषम् अभिदधति भावनावचनत्वात्. सत्यम्. भावनैव तैर् अभिधीयमाना न स्वरूपमात्रेण वर्तमानापदेशवद् अभिधीयते. किन् तु कुर्याद् (इति) प्रवृत्तिविषयतया. न च शब्दशक्तयो ऽनुयोक्तुम् अर्हन्ति. तथा हि -- लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानम् उपलभ्य ततः प्रवृत्तिहेतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत् सर्ववादिसिद्धम् अविवादम्. प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः. तत्र क्रियाफलादीनां व्यभिचाराद् अप्रवृत्तिहेतुत्वात्, प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात्, कर्मफलसम्बन्धानुपपत्तेश् च सकलेतरप्रकारासम्भवाद् अविवादसिद्धम् अभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनाम् अभिधानम् एव प्रवृत्तिहेतुर् इति साम्प्रतम्. सा च प्रवर्तनेति स्थितम्. सा च प्रवर्त्यकर्मिका. प्रवर्त्यश् च पुरुष इति युक्तं पुरुषकर्मत्वम् अभिधायाः. लिङादिव्यापारो ऽप्य् अभिधेयप्रत्ययहेतुत्वाद् अभिधेत्य् उच्यते. पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते. न च सर्वाभिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्याद् इत्य् उक्तम्. शक्तिर् हि कार्यदर्शनसमधिगम्या. तद् यतः प्रवृत्तिदर्शनं तद्व्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात्. न च शब्दान्तरेभ्यः प्रवृत्तिर् उपलभ्यत इति न तदभिधायास् तथात्वप्रसङ्गः. यश् चाभिधाया अनभिधाने दोषः उक्तः, सो ऽभिधानपक्षाभ्युपगमेनैव परिहृतः. यत् तु कार्योन्नेयत्वाद् अनभिधानत्वम् उक्तं तद् अप्य् अयुक्तम्. किं हि कार्यम् अनुपपद्यमानं प्रवर्तनाम् अवगमयति. न तावद् भावनावगतिः, वर्तमानापदेशेष्व् अपि प्रसङ्गात्. अतो ऽनन्यप्रमाणत्वाद् उपपन्नम् अभिधेयत्वम् अभिधायाः. यत् तु अनन्यप्रमाणके व्युत्पत्त्यसम्भव इत्य् उक्तम्. न, अर्थापत्तिप्रमाणकत्वात्. नन्व् अर्थापत्त्या प्रवर्तनापदेशसाधारणम् अभिधाया रूपम् उन्नीयते. न च तावन्मात्रं प्रवर्तना लडादिभ्यो ऽपि प्रवृत्तिसंवेदनप्रसङ्गात्. असाधारणस् तु को ऽपि विशेषो लिङ्प्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरो व्युत्पत्तिविरहः. मैवम्. प्रवृत्तिहेतुत्वेनार्थापत्तितस् तदवगमात्. तथा हि -- यत्र तावत् लिङादिभ्यः प्रवृत्तिर् उपलभ्यते, तत्र मया प्रवर्तितव्यम् इत्य् अन्तःसङ्कल्पमूलात्मा लिङ्प्रवृत्तिविशेष उन्नीयते. अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्श्राविणो वक्तारं निर्दिशन्ति. तद् अवसीयते प्रवृत्तिहेतुर् अभिहितो लिङा. स च नर्ते वापारात् सिध्यतीत्य् उक्तम् एव. न च किम् आत्मको लिङ्व्यापार{२,१५}इति वाच्यम्. अन्तःसङ्कल्पमूलात्मा ह्य् असाव् इति वक्ष्यति. नासाव् उदासीनः कदाचिद् अवगम्यते. प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिर् आसीद् इति स्वयम् अपि प्रवर्तितव्यम् इति प्रतिपद्यमान एव हि लिङर्थं प्रतिपद्यते. नोदासीनम् आख्यातान्तरवत्. नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति. अस्य त्वयम् एवात्मा यत् प्रवृत्तिधियं जनयति. अपर्यनुयोज्यत्वाद् वस्तुस्वरूपाणां नामाख्यातविभागवदुपपत्तेः. सो ऽयम् एवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दादृते तम् अर्थं बुध्यत इत्य् अनन्यप्रमाणकत्वम्. न तु प्रवर्तनास्वरूपम् एवान्यतो नावगतं, येन मतान्तरवद् व्युत्पत्तिविरहश् चोद्येत. सम्प्रति तु न जातेर् इव व्यक्तिम् अन्यतः प्रवर्तनां प्रतिपद्यामह इति शाब्दीम् अभिदध्महे. न चाभिधा नाभिधीयत इति वाच्यम्. अभिधाशब्दवदुपपत्तेः. यद् एव हि शब्दश्रवणानन्तरम् अनन्यलभ्यं बुद्धौ विपरिवर्तते तदभिधेयम्. तथा च लिङादीनाम् अभिधानम् इति किं नाभिधीयते. उक्तं हि लिङादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति. न च लिङादीनाम् अभिधात्मनो व्यापाराद् अन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुम् इति. अत एव नानवस्था. न हि प्रवर्तनावत् तदभिधानम् अपि शब्दाद् अवगम्यते, यत् तद्गोचरम् अपरम् अभिधानम् उपेयते. न च लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयम् एव तद्व्यापारवैलक्षण्यात्. लिङुपश्लेषे हि विशेषके विशेषणाभिधानम् आपादितम्. स्वगते तु विशेषे तदनवकाशम् एव. सर्वे शब्दव्यापाराः खल्व् अपि स्वरूपेणैव व्यतिभिद्यन्ते. अत एव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधिविभक्तेः क्रियाकालादिवन्नाभिधाभिधानम् अनुपपन्नम्. अतो लिङादीनाम् अभिधा प्रवर्तना सो ऽयं विधिः. आह च --
SK
अभिधां भावनाम् आहुर् अन्याम् एव लिङादयः |
SK
इति. तद् अनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः. तथा चावगतानुष्ठीयत इति विधिशक्तिम् उपक्रान्ताम् अवसीदन्तीम् उत्तभ्नाति फलवत्ता, न तु सैव विधिर् इति. अत एवापुरुषार्थेषु सागरं तरेद् इत्य् एवमादिषु विध्यवगतिः. तथा तत्र न स्याद् इतरथा तत्र न स्यात् अपुरुषार्थत्वात्(?). लिङ्व्यापारस् तु तत्राप्य् अविशिष्टः, निर्वाहिकायास् तु फलवत्तायाः प्रमाणाभावाद् न{२,१६}निर्वहति. तदभावश् चानाप्तवाक्यत्वात्. वेदे त्व् अपौरुषेयत्वान् न पुरुषदोषाशङ्कापीत्य् उपपादितम्. विधौ तु तम् अतिक्रम्येति प्रपञ्चितश् च विधिर् अपि मनाग् इत्य् उपरम्यते इति
SK
(अपौरुषेयत्वात्?) अनपेक्षत्वाद् इति सूत्रावयवं व्याचष्टे -- स्वप्रत्ययेति. अनाप्तवाक्ये हि दृष्टव्यभिचारित्वात् तज्जनितात् प्रत्ययात् प्रत्ययान्तरं स्वीयम् अर्थावधारणायापेक्षते. न च तत्राप्य् अनाप्तवचः प्रमाणम् अनुवादत्वात्. आप्तोक्तीनां तु प्रमाणविषयगोचराणां प्रामाण्यात् तस्यैवाप्तस्य नरस्यापेक्षा किम् अयम् अर्थो ऽनेन प्रमाणेनोपलब्धो न वेति. न चेयम् उभय्य् अप्य् अपेक्षा चोदनांसु सम्भवति, अपौरुषेयत्वस्य वेदाधिकरणे वक्ष्यमाणत्वात्. तत उपपन्नं चोदनायाः प्रामाण्यम् इति
SK
अत्रानन्तरं वृत्तिकारमतारम्भभाष्यं - वृत्तिआरस् त्व् अन्यथेमं ग्रन्थं वर्णयाञ् चकार तस्य निमित्तपरीष्टिः इत्येवमादिम् इति. तत्रादिशब्दे तावद् द्वैविध्ये साध्वसाधुविवेकार्थम् आह -- आदिशब्द इति. मकारान्तो ऽयमादिशब्दः न लुङन्त इति. कारणम् आह -- लिकीति. सामान्यविवक्षायां तु नपुंसकलिङ्गता. अत्र च प्रथमम् एव ग्रन्थात्मके विशेषे ऽवगते न सामान्यविवक्षा युक्तेति. भित्त्वा तु वाक्यं सामान्यविवक्षायां क्लेशो भवतीति. अपरम् अपि वृत्तिकारमतेन परीष्टिसूत्रव्याख्यानार्थं भाष्यं न परीक्षितव्यं निमित्तम् इति. तद् अयुक्तम्. सूत्रे नञो ऽश्रुतत्वात्, अत आह -- नञ् इति. इदं हि सूत्रं विधिनिषेधशून्यम् अपरिपूर्णं नञध्याहारेण परिपूर्यते. प्रसिद्धस्यधर्मनिमित्तस्य परीक्षाविधेर् अयोग्यत्वाद् इति व्याख्याते तु नञध्याहारेण परीष्टिसूत्रे प्रत्यक्षसूत्रम् अवतारयितुं भाष्यकृतोक्तं - ननु व्यभिचारात् परीक्षितव्यं निमित्तं शुक्तिका हि रजतवत् प्रकाशते यतः इति. एवं ह्य् अत्र{२,१७}परिचोदितं - न प्रसिद्धत्वं निमित्तापरीक्षायां हेतुः, प्रसिद्धतरस्य प्रत्यक्षस्य शुक्तिरजतवेदने व्यभिचाराद् इति. तद् अयुक्तं, न हि प्रत्यक्षं व्यभिचरति अपि तर्हि तदाभासम्. न चाभासव्यभिचारे प्रमाणव्यभिचारपरिचोदना युज्यते. अत आह -- सङ्कराद् इति. प्रत्यक्षतदाभासयोर् अक्षजत्वेन सादृश्यान् मोहाद् आभासव्यभिचारे ऽपि प्रत्यक्षव्यभिचारं चोदयतीति
SK
तद् एव प्रपञ्चयति -- प्रमाणेति. वक्ष्यमाणपारमार्थिकप्रत्यक्षलक्षणाज्ञानाद् व्यभिचारात् परीक्षा कार्येति चोदयति. एतत् परिचोदनोत्तरतया प्रत्यक्षसूत्रम् उपवर्णितं नैतद् एवम्. यत् प्रत्यक्षं न तद् व्यभिचरति. यद् व्यभिचरति न तत् प्रत्यक्षम्. किं तर्हि प्रत्यक्षम्. तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्. यद्विषयं ज्ञानं तेनेन्द्रियाणां पुरुषस्य सम्प्रयोगे यद् बुद्धिजन्म तत् सत्प्रत्यक्षम्. न चेदृशस्य व्यभिचारो ऽस्ति. तद् इदं वार्त्तिककारो दर्शयति -- नैतद् इति. परीष्टिसूत्रेणापरीक्षा प्रतिज्ञाता प्रत्यक्षसूत्रेणोपपाद्योपसंहृतेति
SK
कथं पुनर् एवंलक्षणके ऽपरीक्षा सिध्यतीत्य् अत आह -- तत्रेति. तत्र हि प्रत्यक्षलक्षणे. यद् अनेवंलक्षणकं तद् अयथार्थम्. प्रत्यक्षं तु यथार्थम् एव. अयथार्थाशङ्का तु परीक्षायां हेतुर् इति युक्तम् अपरीक्ष्यत्वम् इति. किं पुनर् अयथार्थज्ञानम्. शुक्तौ रजतम् इति. सा खलु दोषवशाद् अन्याकारेणावभासत इति भवति तद्गोचरज्ञानम् अयथार्थम्. तद् इदम् अयुक्तम्. न हि शुक्ती रजतम् इति भासते. किं तर्हि इदम् इति शुक्तिरजतसाधरणात्मना पुरोवर्ति द्रव्यं गृह्यते. अनन्तरं च सदृशदर्शनोद्बोधितप्राचीनरजतानुभवप्रभावितभावनाबीजजन्मा दोषवशाल् लुप्ततदवमर्शा रजतम् इति स्मृतिर् उदेति. तद् एते द्वे एव ग्रहणस्मरणात्मके विज्ञाने. तद्गोचरयोश् च दोषवशाद् एव भेदकधर्मानवधारणम्. भेदाग्रहणाद् एव विभ्रमव्यवहारः, न पुनर् अन्यस्यान्यथाभासनात्. इदम् इह भासत इति प्रतीतिसाक्षिकम्. अतः कथं रजतरूपरूपितस्य शुक्तिर् आलम्बनम्. इदम् एव ह्य् आलम्बनस्यालम्बनत्वं यदात्माकारज्ञानजननम्.{२,१८}अतो नातदाकारस्य तदालम्बनम् इति ज्ञानम् एव साकारम् इति बलाद् आपतितम्. न खलु रजतम् इति शुक्तेर् आकारः. रजतं तु नासन्निहितम् अक्षजज्ञानालम्बनम् इति युक्तम्. अतो बाह्यरहितं निरालम्बनम् एव ज्ञानम् इति बलाद् आपन्नम्. एवञ् च मुधैव निरालम्बनानुमानप्रत्याख्यानप्रयासः. अपि च दोषनिबन्धनो विभ्रमः. दोषाश् च स्वकार्ये शक्तिविघातहेतवः. अतो युक्तं तद्वशेन भेदकधर्मानवधारणं, न पुनर् अन्यस्यान्यथा भानम्. अपि च एवम् अयं विपरीतख्यातिवादी वक्तव्यः रजतधियः शुक्तिगोचरायाः किं निबन्धनम् इति. न तावद् इन्द्रियं प्राप्यकारित्वाद्, असन्निहितरजतप्राप्त्यसम्भवात्. अन्यप्राप्तौ चान्यप्रकाशने ऽतिप्रसङ्गात्. प्रमाणान्तरं त्व् असम्भवाद् अनुपन्यसनीयम्. अतो ग्रहणकारणाभावात् स्मृतिर् इयम् इति निश्चीयते. अस्ति हि स्मृतेः कारणं पूर्वानुभवप्रभावितोभयवादिसिद्धा भावना. नन्व् असति तत्परामर्शे स्मरणम् अपि नोपपन्नम्. न नोपपन्नम्. अनुभूतविषयं हि ज्ञानं स्मृतिः. न तद् इति परामर्शः. तस्माद् इदं रजतम् इति ग्रहणस्मरणयोर् उभयोर् अपि यथार्थत्वाद् यथार्थायथार्थज्ञानविभागो दुर्भणः.
SK
अत्र वदामः -- यदि द्वे अप्य् एते यथार्थे, न तर्हि भ्रान्तिः. अयथार्थज्ञानं भ्रान्तिर् इति लौकिका मन्यन्ते. स्मरामीत्य् अग्रहो भ्रान्तिर् इति चेत्. तन् न. भाष्यकारो हि स एवासमीचीनः प्रत्यय इति प्रत्ययम् असमीचीनं दर्शयति. अपि च को ऽयम् अग्रहः. ग्रहणाभाव इति चेत्. अभावो नाम न कश्चिद् आयुष्मतां यो भ्रान्तिर् इत्य् उच्यते. ननु स्मरणम् एव स्मरामीत्य् उल्लेखशून्यम् अग्रहणम् आचक्ष्महे न तत्त्वान्तरम्. एवं तर्हि रजतम् इति स्मृतिर् भ्रान्तिः. न च तद् युक्तम्. मिथ्या भ्रान्तिर् इति पर्यायौ, न स्मृतिर् मिथ्या, यथावस्थितार्थविषयत्वात्. पूर्वानुभूतदेशकालाग्रहो भ्रान्तिर् इति चेत्. न. अन्यानवभासो ऽवभासान्तरं मिथ्याकरोति, सर्वमिथ्यात्वप्रसङ्गात्. न ह्य् एकस्मिन् भासमाने सर्वं भासते. अतो यद्य् अपि रजतस्य देशकालौ न स्मर्येते, रजतं तु यथावस्थितं स्मृत्या विषयीकृतम् इति न भ्रान्तिः. अथ सापेक्षत्वात् स्मृतेर् अप्रामाण्यम्, अतो भ्रान्तिर् इति चेत्. यद्य् एवं सर्वस्मृतीनां भ्रान्तित्वापातः, अविशेषात्. न च स्मरन् भ्राम्यतीत्य् उच्यते. अथ मतं - गृह्यमाणस्मर्यमाणयोर् विवेकाग्रहो भ्रान्तिर् इति, उक्तम् अस्माभिः नाग्रहो नाम कश्चिदृते ग्रहणस्मरणाभ्याम्. तयोश् च न ग्रहणं भ्रमः, प्रमाणत्वात्. न च{२,१९}स्मृतिः. व्यभिचाराद् अतिप्रसङ्गाच् च. विवेकाग्रहे च विभ्रमे सर्वसंविदां भ्रान्तित्वप्रसङ्गः. अवश्यं हि येन केनचिद् विवेको न गृह्यते. स्यान् मतं - व्यवहारविसंवादो मिथ्यात्वम् इति, तन् न. तद्धेतोर् अभावात्. यदि खल्व् इदम् इति ग्रहणं रजतम् इति देशकालानवच्छिन्नं रजतस्मरणं, को व्यवहारहेतुः. नो खलु रजतपदाद् अनधिष्ठानं रजतं स्मरन् रजतम् इति व्यवहरत्य् अत्रेदम् इति तद्विद्वान्. यो यदर्थी स तदुपादित्सया चेष्टते. अनधिष्ठानं तु रजतं जानतो न व्यवहारहेतुम् उपलभामहे. अपि च को ऽयं नियमः स्मृतरजतस् तदर्थी शुक्ताव् एव प्रवर्तत इति. यदि ह्य् अयं ताम् एव रजतं जानीयात्, ततस् तत्र प्रवर्तत इति युक्तम्. इतरथा लोष्टादाव् अपि प्रवर्तेत. न ह्य् अयं शुक्तेर् इव रजतं ततो ऽपि विविनक्ति. अवश्यं स्थूलो ऽपि विवेको जिघृ(?क्षि/क्ष)तो नानुभूयते. अथोच्येत -- ज्ञानद्वयम् अप्य् एतद् विवेकाग्रहणात् सत्यरजतसंविदो भिन्नम् इति नावभासते. सा च व्यवहारहेतुतयावगता. ततो ऽत्रापि प्रवर्तत इति. अहो दुरूहम् इदम् ऊहितम्. इदं तु ब्रूमः -- किम् इह सत्यरजतसंविदो विवेको नावभासते, तदभेदो वा भासते इति. पूर्वस्मिन् कल्पे पूर्ववत् प्रवृत्त्यभावः. उत्तरस्मिन् विपरीतख्यातिवादः. संवित्ती भिन्ने अभिन्ने भासेते वस्तुनी चेति न विशेषः. अथ सत्यरजतबोधतुल्यतां मन्यते न तत्त्वं, न तर्हि तद्वद्भावे तद्व्यवहारः. न हि गवा सदृशं गवयं जानन् गौर् अयम् इति व्यवहरति. व्यवहारविसंवादे च भ्रान्तिहेताव् अतदर्थिनो व्यवहाराभावाद् भ्रान्त्यभावः. तस्यापि शब्दप्रयोगो ऽस्तीति चेद्, न. निर्विकल्पकभ्रान्तौ तददर्शनात्. स्वतन्त्रस्मृतं च रजतम् अप्रसक्तं कथं शुक्तौ निषिध्यते नेदम् इति. प्राप्तिपूर्वको हि प्रतिषेधो भवति. स कथम् असत्यां प्राप्तावात्मानं लभते. ननु नात्र किञ्चिद् बाध्यते. किन् त्व् अनवगतो विवेको ऽवगम्यते नेदं रजतम् इति. को ऽर्थः. शुक्तेर् विविक्तं रजतम् इति. अहो व्याख्यानकौशलं तत्रभवतां यत् संविदो ऽप्य् अन्यथा व्यवस्थिता अन्यथा व्याख्यायन्ते. रजतव्यवहारो बाध्यत इति चेद्, न. तस्याप्य् अप्रसक्तेर् उक्तत्वात्. अप्रसक्तव्यवहारस्य बाधविरहप्रसङ्गात्. व्यवहारबाधो ऽपि न राजाज्ञया. अपि तर्हि, प्रसक्तताद्रूप्यनिवारणेन. अतो ऽन्यद् अन्याकारेण प्रसक्तं बाध्यत इति साम्प्रतम्. अपि च स्पष्टीकृता ताद्रूप्यप्रसक्तिर् इदं रजतम् इति. नन्व् अनालम्बनता प्राप्नोतीत्य् उक्तम्. सत्यम्. यद् अन्यथासन्तम् अन्यथा प्रतिपद्यते तन्निरालम्बनं ज्ञानम्{२,२०}इष्यते. किम् इहाद्भुतं बाह्यानालम्बनता हि यत्नतो नः प्रतिषेध्या, सर्वत्र देशान्तरादिगतबाह्यालम्बनताभ्युपगमात्. कथम् असन्निहितं ज्ञानम् उत्पादयतीति चेत्. किम् अयं प्रत्यक्षधर्मः सर्वज्ञानेष्व् आरोप्यते. प्रत्यक्षं हि सन्निहितवर्तमानगोचरं, न ज्ञानान्तराणि. न चेदं प्रत्यक्षम् आभासत्वात्. यद् अप्य् उक्तं - कथम् अन्यसम्प्रयुक्तम् इन्द्रियम् अन्याकारस्य ज्ञानस्य हेतुर् इति. उक्तम् अत्र भाष्ये -- दोषो मिथ्याज्ञानस्य कारणम् इति. तद्भावे हि मिथ्याज्ञानं भवति. असति तस्मिन् सम्यग्ज्ञानदर्शनात्. ननु दोषाः कार्यं विघ्नन्ति, न कार्यान्तरं जनयन्ति. न. स्वप्ने मनोदोषाद् अवर्तमानस्यापि वर्तमानवद् भानात्, कारणाधीनात्मलाभं हि कार्यं तद्दोषे दुष्यतीति नानुपपन्नम्. एष च ज्ञानस्य दोषो यद्य् अन्यगोचरस्यान्याकारत्वम्. अतः सन्निहितम् असन्निहितरजताकारेणावलम्बते दुष्टकारणजं ज्ञानम् इत्य् उभयालम्बनस्य ज्ञानालम्बनत्वम्. आत्मेन्द्रियमनोर्थसन्निकर्षो हि ज्ञानस्य हेतुः. सो ऽसत्सु दोषेषु सम्यग्ज्ञानहेतुः, सत्सु तु विपरीतज्ञानहेतुर् इति सूक्तो यथार्थायथार्थज्ञानविभाग इति. किं पुनः प्रत्यक्षस्य लक्षणं येन तद् यथार्थम् अत आह -- यदाभासम् इति. यदाकारं ज्ञानं तेनेन्द्रियाणां सम्प्रयोगे यत् पुरुषस्य बुद्धिजन्म तत् प्रत्यक्षम् इष्यते. कथं तदयथार्थं भविष्यतीति
SK
ननु लक्षणपरत्वे सूत्रस्यातिप्रसक्तिर् उक्ता. न चाप्य् एतेन सूत्रेण प्रत्यक्षं लक्ष्यत इति वदता कथम् इदानीं लक्षणपरतया सूत्रं वर्ण्यते. अत आह -- सम्पूर्णेति. यथावस्थितं सूत्रम् आभाससङ्कराद् अलक्षणम्. वृत्तिकारमते तु व्यत्यस्तं शक्नोति लक्षणं लक्षयितुम् इति, कथं पुनः सम्पूर्णम् अत आह -- तत्सतोर् इति. यथाश्रुते हि सूत्रे इन्द्रियसम्प्रयोगजत्वमात्रं प्रत्यक्षलक्षणम्. तच् चाभासे ऽप्य् अविशिष्टम् इत्य् अतिप्रसज्यते. व्यत्यस्तेन तु तदा बुद्ध्याकारपरामर्शनाद् भासमानाकारेन्द्रियसम्प्रयोगे या बुद्धिः सा प्रत्यक्षम् इत्य् उपस्कारे शुक्तिरजतज्ञाने भासमानेन्द्रियसम्प्रयोगाभावान् न प्रत्यक्षम् अतिप्रसज्यत इति. उत्कृष्टस्य सच्छब्दस्यार्थम् आह -- शोभनार्थ इति. ननु पूर्वं{२,२१} वर्तमानार्थतया सम्प्रयोगविशेषणार्थः सच्छब्दो व्याख्यातः. कथम् इदानीं शोभनार्थ इत्य् उच्यते. युक्तं च सम्प्रयोगविशेषणम्. अविशिष्टे हि तस्मिन्न् अनागतादिसम्प्रयोगजं योगिप्रत्यक्षम् अनिराकृतं स्याद् इति प्राग् एवोक्तम्. तद्वृत्तेनापि व्यवहितप्रठितेन समासो दुष्प्रतिपादतरः. पुनर् अपि चेदृशं यत् तत्सम्यक्प्रत्यक्षम् इति तदपेक्षा विद्यत एवेति व्यत्यये ऽपरितुष्यन् प्रकारान्तरम् आह -- यद्वेति. द्वयोर् अपि तत्सतोर् अत्राध्याहारः. तत्र भासमानाकारपरामर्शार्थो ऽध्याहृतस् तच्छब्दः. परस् तु प्रत्यक्षरूपपरामर्शार्थः. सच्छब्दस् तु सम्प्रयोगसन्निधिपठितस् तद्विशेषार्थ एव. अध्याहृतस् तु शोभनार्थ इति विवेचनीयम् इति
SK
ननु च आभासलक्षणाकथनान् न प्रत्यक्षतदाभासविवेको दर्शयितुं शक्यते, अत आह - अर्थापत्त्येति. ईदृशं प्रत्यक्षम् इत्युक्ते अर्थाद् अनीदृशम् आभासं भवतीति. अत्र भाष्यकारेण कथं तदतद्योगजत्वविवेको ऽवगम्यत इत्य् आशङ्क्योक्तं बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति तदन्यसम्प्रयोगे. विपरीतस् तत्सम्प्रयोगे इति. तद् अयुक्तम्. किं हि कारणं यदुत्तरेण पूर्वं बाध्यते, पूर्वेणैव जघन्यम् उत्तरं बाध्यत इति युक्तम् अत आह -- बाधकेति. तद् धि बाधकं यदन्याबाधकम् आत्मानम् एव न लभते. तथाचोत्तरम्. अतस् तत् पूर्वं बाधत इति युक्तम्. जघन्यम् अपि पूर्वानपेक्षं बलवद् इति षष्ठे वक्ष्यते. यत्र पूर्वापेक्षम् उत्तरं, तत्र पूर्वं बलवद् इति तृतीय उक्तम् इति
SK
किं पुनरुत्तरेण मिथ्या सतः पूर्वस्य बाधः प्रमाणस्य वा. प्रमाणस्य बाधे ऽतिप्रसङ्गः. मिथ्यात्वं तु नर्ते बाधात् सिध्यति, तदधीनो बाध इति इतरेतराश्रयम् अत आह -- स चेति. न खलु पूर्वमिथ्यात्वावधारणाद् उत्तरस्य जन्म, अपि तर्हि. तन्निरपेक्षम् उत्तरं स्वकारणाद् एवोत्पन्नम्. अतो नोत्पत्ताव् अन्यापेक्षत्वम्. न च कार्यकॢप्तौ. अवबोधरूपत्वाद् अवबोधस्य. तस्य च स्वगोचरप्रकाशने ऽन्यानपेक्षणात्. अतो नान्योन्याश्रयत्वम् इति. यदि तर्हि पूर्वानपेक्षम् उत्तरम् इति तद् बाधकं, पूर्वं वा किम् उत्तरम् अपेक्षते येन बाध्यते.{२,२२}तद् अपि हि निरपेक्षम् एव, अत आह -- न चेति. यद्य् अपि तदुत्तरानपेक्षं, तथाप्य् अनागतोत्तरबाधकात्मकत्वेनानवभासान् न बाधकम् इति
SK
यत्र तर्हि नैतद् एवम् इति न बाधकोदयः, अपि तर्हि निमित्तेदाषज्ञानं, तत्रेतरेतराश्रयम् अपरिहार्यम्. निमित्तदोषेण तत्रोत्थाप्यो बाधः. स च पूर्वाप्रमाणत्वे शक्यत उत्थापयितुं, तदुत्थापनाच् च तदप्रमाणम् इति नावकल्पते, अत आह -- निमित्तेति. प्रायेण हि शङ्खादिषु पीतादिविभ्रमाः पित्तादिदोषेभ्यः समुत्पन्नाः पश्चाद् बाध्यन्ते. नेदं पीतं शुक्लो ऽयम् इति हि सम्प्रतिपत्तिः सम्भवति. अतो न तत्र निमित्तदोषबोधमात्रान् मिथ्यात्वम्. यत्र तु ज्ञाते ऽपि निमित्तदोषे तद्रूपप्रत्ययानुवृत्तेः पश्चाद् अबाधनम् एव, यथा दिङ्मूढस्य जानतो ऽपि निमित्तदोषाद् दिङ्मोहो न निवर्तते. तत्रापि नरान्तरविपर्ययाद् अन्यतः परिच्छेदान् नेतरेतराश्रयम् इति
SK
यत्र तर्हि न नरान्तरादिषु विपर्ययः तत्र कथं यथा जात्यादिविज्ञाने. न च तत् सत्यं, तेषां व्यतिरेकाव्यतिरेकविकल्पाक्षमत्वाद् अत आह -- सर्वेषाम् इति. यद् धि देशान्तरादिषु न विपर्येति तदबाध्यं सम्यग् एवेति. ननु तत्राप्य् अनुपपत्तेर् बाधिका धीर् उत्पाद्या, कथं सम्यक्त्वम् अत आह -- न हीति. प्रत्यक्षो ह्य् अविकलकरणस्य पिण्डात् पिण्डान्तरेषु पूर्वरूपावमर्शः. स कथं यौक्तिकेन बाधेन बाध्यते. यस्य ह्य् अव्युत्पद्यमानस्य बलवता मुखं निरुध्यते न तदात्मानं लभते. उक्तं च स्वयूथ्यैर् अपि -- न प्रत्यक्षविरुद्धकारणविषयम् अनुमानम् आत्मानं लभते अग्नाव् इव शैत्यानुमानम् इति
SK
अयम् असाव् इतरेतराश्रयस्य व्यक्तो विषय इत्य् आह -- जात्यादिष्व् इति. अत्र हि जात्यादिज्ञानमिथ्यात्वाद् बाधकबुद्ध्युदयः. तदुदये तन्मिथ्यात्वम्. न च व्यक्तोदिता शुक्तिरजतज्ञानादिष्व् इव बाधिका धीर् अस्तीति.{२,२३} यदि तर्हि बाधकज्ञानम् अन्तरेण न कारणदोषमात्रान् मिथ्यात्वम् अवगम्यते, कथम् उच्यते यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्यय इति भेदेन. तदा हि मिथ्यात्वप्रत्यय एवासमीचीनतायां हेतुर् उक्तः स्यात्. तस्माद् वक्तव्यो विषयः. स उच्यते -- येन तर्हि प्राग् एकश् चन्द्रो ऽवधारितः सम्प्रत्यङ्गुलीनिपीडितलोचनो द्वौ पश्यति. तस्य प्राचीनज्ञानानुसारेण जातविचिकित्सस्याधुना च व्यक्तं कारणदोषम् अवगतवतो भवति निर्णयः. यथा पूर्वज्ञानम् अदुष्टकारणजम्. इदं च व्यक्तावगतकारणदोषप्रभवम्. कारणदोषनियतश् च कार्यदोषः. तस्माद् असमीचीनम्. तद् इह पूर्वानुभवो विचिकित्सोदयहेतुः. कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्. एवं बाह्यागमानाम् अपि कारणदोषावधारणाद् एव मिथ्यात्वावधारणम्. न हि तदर्थाः साक्षाद् बाध्यन्ते. पौरुषेयत्वात् कारणदोषाशङ्कयैव मिथ्यात्वं भवतीति युक्तम् एव द्वैविध्यम्
SK
ननु मा बाधि जात्यादिज्ञानम्. प्रमाणत्वं तु तस्य कथं, प्रमाणतदाभाससाधारणं हि ज्ञानत्वम्. अतो व्यभिचारदर्शनात् संशयो युक्तः. वृत्त्यादिविकल्पाश् चाप्रामाण्यम् अनापादयन्तो ऽपि तद्वत् प्रामाण्यं विघ्नन्ति. अत आह -- स्वत इति. यदि ज्ञानत्वानुबन्धिनी प्रमाणत्वाप्रमाणत्वे द्वे अपि स्यातां, स्याद् एवानिर्णयः. स्वतस् तु प्रमाणम् इत्य् उपपादितम्. अतो जात्याद्यस्तित्वबोधाद् अनपोदितो निर्णयो युक्तः. स चायं बोधो न परम् अस्माकम् एव. ये ऽपि तु जात्यादीन् अपलपन्ति, तेषाम् अप्य् अस्ति. ते ऽपि हि न तद्बोधम् अनपलपन्तो जात्यादीन् अपलपितुम् अर्हन्तीति
SK
इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
वृत्तिकारग्रन्थव्याख्या ||
SK
{२,२४} अत्र भाष्यकारेण ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः इत्याक्षेपपुरस्सरं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति बाह्यार्थसद्भावः प्रतिपादितः. तस्य प्रकृतवेदार्थविचारोपयोगं दर्शयति -- प्रमाणत्वेति चतुर्भिः. सर्वो ह्य् अयं मीमांसाप्रपञ्चो बाह्यार्थाश्रय एव. यथा तावच्चोदनैव धर्मे प्रमाणं, योगिप्रत्यक्षबुद्धागमाद्यप्रमाणम् इति चोदनासूत्रे प्रतिज्ञातं, तदसति बाह्ये चोदनापदार्थे दुःस्थितम् एव. प्रमाणत्वोपन्यासेनैव तत्परिकरप्रथमपादोक्तसम्बन्धौत्पत्तिकत्वशब्दनित्यत्ववाक्यार्थप्रतिपत्तिमूलसद्भावापौरुषेयवेदवाक्यरचनादिपरिग्रहः. अप्रमाणत्वोपन्यासेन च प्रत्यक्षसूत्रनिर्दिष्टान्याप्रमाणत्वकारणोपादानम् इति दर्शयितव्यम्. तथा यद् अपि चोदनासूत्र एव श्रुत्यार्थेन च पुण्यपापापरनाम्नोर् धर्माधर्मयोः स्वरूपं प्रतिज्ञातं, तद् अपि नासति बाह्ये ऽर्थे शक्यं दर्शयितुम्. तत्र हि विधिनिषेधात्मकचोदनाप्रमाणकं पुण्यपापयोः स्वरूपम् इति वर्णितम्. आदिशब्देन पुण्यपापोभयरूपरहितम् अशुभेभ्यो निवर्तनम् उपादत्ते. यदर्थसाधनं वस्तु तद्विपरीतं वा तत् पुण्यपापपदयोर् अस्पदम्. अशुभेभ्यो निवर्तनं तु न सुखाय न दुःखायेत्य् उभयरूपरहितम्. एतद् अपि चोदनासूत्रस्थेनार्थपदेन प्रतिपादितम्. तत्फलम् इति च त्रिविधस्य पुण्यपापोदासीनात्मनो वेदप्रमेयस्येष्टानिष्टात्मकं फलम् उपादत्ते. एतद् अपि स्वरूपप्रतिज्ञान्तर्गतम् एव. न ह्य् अनाश्रितफलसम्बन्धं धर्मादिस्वरूपम् अनुभवितुं शक्यम् इति. तद् एवं{२,२५}तावद् बाह्यार्थसिद्धेर् अस्ति प्रथमपादोक्तसमस्तोपयोगः. तथा वक्ष्यमाणोपयोगो ऽपि. न हि विध्यर्थवादमन्त्राणां साध्यसाधनसम्बन्धविधिविधेयस्तुतुविहितस्मृतिरूपार्था अर्थवादपादगोचरा बाह्यार्थं विना सिध्यन्ति. औदुम्बराधिकरणे हि औदुम्बरो यूपो भवत्य् ऊर्जोपरुध्या इत्य् अत्र विध्यभावान् न फलपदस्म्बन्धः सिध्यत्य् औदुम्बरत्वस्येति वक्ष्यते. तथार्थवादाधिकरणे ऽर्थवादानां स्तुत्युपयोगो दर्शितः. एवं हि तत्रोक्तम् आम्नायस्य क्रियार्थत्वादानर्थक्यम् अतदर्थानाम् (१.२.१) इति. अस्यार्थः -- यानि हि क्रियां क्रियासम्बद्धं वा किञ्चिदर्थं प्रतिपादयन्ति, तानि सन्तु प्रमाणम्. यानि त्व् अक्रियार्थानि सो ऽरोदीद् यदरोदीद् इत्यादीनि तानि न कञ्चिद्धर्मं प्रमिमते इति पूर्वपक्षिते उक्तं विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः (१.२.७) इति. अस्यायम् अर्थः -- विधेयानां स्तुतिरूपेणार्थेनार्थवादाः प्रमाणं स्युर् इति. कथं पुनः स्तुत्यर्थता. न ह्य् अनपेक्षिता स्तुतिर् अर्थवादानाम् अर्थो भवितुम् अर्हति. न. अपेक्षितत्वात्. अपेक्ष्यते खल्व् अपि शब्दभावनापरनामधेयेन विधिना स्तुतिः. स हि पुरुषं प्रवर्तयन् प्रवृत्तिविषयप्राशस्त्यज्ञानम् अपेक्षते. अर्थवादाश् च स्वाध्यायविध्यध्यापितास् तद्बलेनैवाप्रयोजनसम्पदो न पर्यवस्यन्ति. तत्रैव किं कर्तव्यम् इत्य् अपेक्षिते तच्छक्तिनिरूपणायाम् अक्षरग्रहणादिक्रमेण कथञ्चित् प्ररोचनायां बुद्धाव् उत्पन्नायां तत्कार्यत्वम् अर्थवादानां निश्चीयते. विधिर् हि प्ररोचनाम् अपेक्षते, ते च तां शक्नुवन्ति कथञ्चिदुत्पादयितुम् इत्य् अनन्यप्रयोजनतया मनसि विपरिवर्तमानास्त एव तत्प्रयोजनतया निश्चीयन्ते. तद् एष शास्त्रार्थो भवत्य् अर्थवादैर् एव प्ररोचितं कर्माभ्युदयाय घटत इति. विधिस्वरूपं च प्राग् एवोक्तम् इति नेह प्रतन्यते. मन्त्रार्थो ऽपि मन्त्राधिकरणे वक्ष्यते. तत्र बर्हिर्देवसदनं दामीत्यादिमन्त्रानुदाहृत्य विचारितं - किम् अमी उच्चारणमात्रादेवादृष्टार्थाः, उतार्थप्रकाशनार्था इति. तत्र तदर्थशास्त्रात् (१.२.३१) इत्याद्युपपत्तिभिर् अदृष्टार्थतया पूर्वपक्षितं यम् एव ह्य् अर्थं मन्त्रः प्रकाशयति तत्रैवायं ब्राह्मणेन विनियुज्यमानो दृश्यते. यथा प्रथममन्त्रः उरु प्रथस्वेति पुरोडाशं प्रथयतीति. यदि चायम् अर्थपरः, लिङ्गेनैव तत्र विनियोगे सिद्धे विनियोगानर्थक्यम्. अतो ऽविवक्षितवचना मन्त्राः इति पूर्वपक्षिते अभिहितम् -- अविशिष्टस् तु{२,२६}वाक्यार्थः (१.२.४०) इति. यथा हि ब्राह्मणवाक्यानाम् अर्थः प्रतीयमानो नाविवक्षितो भवति तथा मन्त्राणाम् अपि. ते ऽपि ह्य् अनुष्ठानौपयिकम् अर्थं प्रकाशयन्तः किम् अविवक्षितवचना मन्त्रा भविष्यन्ति. दर्शपूर्णमासादयो ह्य् अनुष्ठानकाले ऽस्मृतानुष्ठानासम्भवाद् अनु(ति)ष्ठासितस्वपदार्थस्मृतिहेतुम् अपेक्षन्ते. मन्त्राश् चार्थवादवद् एव स्वाध्यायाध्ययनविधिबलप्रतिलब्धाध्ययनसंस्कारसम्बन्धात् किंस्विद् अस्माभिः कर्तव्यम् इत्य् अपेक्षमाणा विलम्बन्ते. तत्राशक्तिके विनियोगासम्भवात् तच्छक्तिनिरीक्षणायां क्रत्वपेक्षितानन्यसाधितविहितस्मृतिप्रयोजना निश्चीयन्ते. यथाहुः --
SK
अनुष्ठाने पदार्थानाम् अवश्यम्भाविनी स्मृतिः |
SK
अनन्यसाधनानन्यकार्यैर् मन्त्रैर् नियम्यते ||
SK
इति. यत् तु विनियोगानर्थक्यम् उक्तं, तन् न. अर्थवादार्थत्वाद् वाक्यस्य. प्रथनं हि तत्र श्रूयते. ईदृशम् इदं प्रथनं प्रशस्तं यत् क्रियमाणम् अनेन मन्त्रेण क्रियत इति. सो ऽयं विध्यर्थवादमन्त्राणाम् अर्थो नासति बाह्ये ऽर्थे सिध्यति. तथा उद्भिदा यजेत पशुकामः इत्य् उदाहृत्य विचारितं किम् अयं गुणविधिः उत कर्मनाम् अधेयम् इति संशय्य, प्रवृत्तिविशेषकरतया गुणविधिर् इति पूर्वपक्षितम्. गुणं हि विदधतां प्रवृत्तिविशेषकरत्वम्. इतरथा नाममात्रम् अनर्थकम्. शक्नुवन्ति चोद्भेदनक्रियायोगवशेन किञ्चित् खनित्राद्यर्थम् अभिधातुम् इति गुणविधय इति प्राप्ते उक्तं - न गुणविधयः. कर्मसमानाधिकरणा ह्य् एते, तृतीयानिर्देशात्. कर्म खल्व् इह उद्भिदा यजेत पशुकामः इति पशुभावनाकरणत्वेनाभिहितं यजेत पशुकाम इति. किम् उक्तं, यागेन पशून् भावयेद् इति. अत उद्भिदा यागेनेति व्यक्तम् एव सामानाधिकरण्यम्. गुणविधौ तु यागस्योद्भित्त्वाभावाद् उद्भिद्वता यागेनेति मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्. तत्र च लक्षणैव दोषः. नन्व् एवं व्रीहिभिर् यजेतेत्य् एवमादाव् अपि भावनाकरणेन यजिना समभिव्याहृता व्रीह्यादिशब्दाः कर्मनाम् अधेयतां प्रतिपद्येरन्. न. तेषां निरूढार्थत्वात्. अज्ञातसन्दिग्धार्थस्य हि पदस्य प्रसिद्धसामानाधिकरण्याद् एवार्थो निश्चीयते. निरूढं तु स्वार्थान् न प्रच्यावयितुं शक्यते. आह च --
SK
पदम् अज्ञातसन्दिग्धं प्रसिद्धैर् अपृथक्श्रुति |
SK
निर्णीयते निरूढं तु न स्वार्थाद् अपनीयते ||
SK
{२,२७}इति. अतः पशूनाम् उद्भेदनं प्रकाशनम् अनेन कर्मणा क्रियते इति योगाद् उद्भिच्छब्देन कर्माभिधीयते. गुणफलसम्बन्धविधानेनाम्नातानाम् अप्य् उपयोगो ऽस्तीति नानर्थक्यम्. अतः सिद्धं कर्मनाम् अधेयतयैवञ्जातीयकानां क्रियोपयोग इति. चित्रादिशब्दानां नामधेयत्वहेतवो विस्तरभयान् नानुक्रम्यन्ते. क्वचित् कर्मणः प्रापकशब्दान्तराभावाद् गुणविधित्वम् एव. यथा आग्नेयो ऽष्टाकपाल इत्य् आग्नेय इति सगुणकर्मविधायिनः शब्दस्य. न हि तत्र द्रव्यदेवतासम्बन्धविधानात् प्राक् कर्मणो रूपम् अवगम्यते यस्याग्नेयशब्दो नामधेयं भवेद् इत्येवमादि नामधेयपादोक्तम् आदिशब्देनानुक्रान्तं वेदितव्यम् अध्यायान्तम्. यावत्स्मृतिपादोक्तार्थो ऽप्य् अनेनैवानुक्तान्तो वेदितव्यः.
SK
प्रत्यक्षवेदोपयोगप्रतिपादनप्रसङ्गेन चार्थवादाद्युपयोगानन्तरं नामधेयपादार्थो ऽनुक्रान्तः. तत्रादिशब्देनानुक्रान्तः स्मृतिपादार्थः. तथा हि -- अश्रूयमाणवेदानष्टकादीन् उदाहृत्य तेषां धर्माधर्मत्वसंशये, धर्मस्य शब्दमूलत्वादशब्दम् अनपेक्ष्यं स्यात् (१.३.१.) इति पक्षं परिगृह्य वेदमूलतया सिद्धान्तितं - सर्वाः स्मृतयो हि नासति पूर्वज्ञाने आत्मानं लभन्ते. पूर्वज्ञानं च मूलभूतं विभ्रमो वा स्यात्, प्रत्यक्षानुभवो वा, पौरुषेयागमजन्यं वा, विप्रलम्भो वा, चोदनाजनितं वा. तत्र तावद् भ्राम्यताम् आप्तानां मन्वादीनां स्मृतिनिबन्धनप्रणयनम् अयुक्तम्. ते हि तावद् ऋषयो भ्राम्यन्तीत्य् एतद् एव दुर्भणम्. भ्राम्यतां तु यन्महाप्रबन्धरचनं तत् स्मृतिभ्यश् चाद्ययावदार्यैः पश्यद्भिः परि(?ग्रह/गृह्यते) इति नैतद् उत्प्रेक्षितुम् अपि शक्यम्. अनुभवश् चातीन्द्रियगोचरः प्रत्यक्षसूत्रे निराकृतः. पुरुषवाक्यम् अप्य् असम्भवन्मूलम् अप्रमाणम् एव. विप्रलम्भो ऽपि भ्रान्तिवन्निराकार्यः. चोदना तु सम्भवद्वेदसंयोगिनां त्रैवर्णिकानां स्मृतिमूलं भवतीति तत्कल्पनैव लघीयसीति. नन्व् एवम् अग्निहोत्रादिचोदनावदष्टकादिचोदना अपि किं नोपलभ्यन्ते. नेदम् अनुपपन्नम्. विप्रकीर्णानेकशाखाश्रया हि श्रुतयः क्रतुपुरुषार्थोपदेशसङ्कीर्णाः प्रमाद्यद्भिर् अद्यतनैर् न विविच्योपलभ्यन्त इति किं नोपपद्यन्ते. अतो यद् अश्रूयमाणम् अप्य् अष्टकादिधर्मस्य निमित्तं चोदनेति सिद्धम् अष्टकादयो धर्मा इति. तद् एवं प्रत्यक्षश्रुत्यविरुद्धाभ्यः श्रुत्यनुमानम्. प्रत्यक्षश्रुतिविरोधे तु न श्रुतिर् अनुमातुं शक्यत इति विरोधाधिकरणे{२,२८}उक्तम्. उपरिष्टाच् चाचारप्रामाण्यं स्मृत्या च सह बलाबलपरीक्षेत्यादि दर्शयितव्यम्. सर्वेषु च भेदादिलक्षणेषु स्वप्रमाणगणैः शब्दान्तरादिभिः सिद्धान्तस्थिति(?ः/र्) सति बाह्ये ऽर्थे न सम्भवति. सोमेन यजेत दाक्षिणानि जुहोति हिरण्यमात्रेयाय ददातीति यागहोमदानभावनानां शब्दभेदाद् एव भेदो वक्ष्यते. तथा च समिधो यजतीत्येवमादीनां पञ्चानां प्रयाजानाम् असत्य् अपि शब्दभेदे ऽभ्यासानर्थक्यप्रसङ्गाद् भेदो दर्शितः. तिस्र आहुतीर् जुहोतीति पृथक्त्वनिवेशित्वात् संख्याया आहुतीनां भेदो दर्शितः. अथैष ज्योतिर् एतेन यजेतेति ज्योतिष्टोमाज् ज्योतिर् इति संज्ञान्तरेण कर्मभेदः. वैश्वदेव्याम् इक्षा वाजिभ्यो वाजिनम् इति च उत्पत्तिशिष्टश्रौताम् इक्षाविरोधाद् वाजिनं वैश्वदेवे कर्मणि निवेशम् अलभमानं स्वाश्रयं यागान्तरम् उपकल्पयति. सो ऽयं वाजिनगुणाद् भेदः. कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोतीति नैयमिकाग्निहोत्रात् प्रकरणान्तरेण कौण्डपायिनहोमस्य भेदः. तद् एवं षोढा कर्मभेदो द्वितीये. अन्यदुपोद्धातादिना.
SK
तृतीये तु पारार्थ्यलक्षणस्य शेषत्वस्य षोढैव विनियोगसिद्धिर् उक्ता. यथा तावदरुणिम्नः तृतीयाश्रुत्या क्रियाङ्गभावे सामान्यतो ऽवगते अरुणया क्रीणातीति क्रियाविशेषलाभो वाक्यात्. लिङ्गविनियोगस् तु -- यथाप्रकरणाम्नानसामर्थ्यावधृतसामान्याङ्गभावस्य बहिर्मन्त्रस्य सामर्थ्यापरनाम्नो लिङ्गाद् बर्हिर्लवने विनियोगः. प्रकरणविनियोगस् तु -- इष्टिप्रकरणाम्नातानां प्रयाजादीनां साध्याकाङ्क्षिणाम् उपकाराकाङ्क्षिण्या तया सह सम्बन्धः. उभयाकाङ्क्षालक्षणम् एव हि प्रकरणम् आचक्ष्महे. क्रमविनियोगस् तु -- प्राकृतोपकारनिराकाङ्क्षायां विकृतौ सन्निधिसमाम्नातानाम् अङ्गानाम्. न हि तत्र प्रकरणविनियोगः सम्भवति. उभयगामिनी ह्य् आकाङ्क्षा प्रकरणम्. अनाकाङ्क्षा चेह विकृतिः प्राकृतोपकारद्वारपरिप्राप्तपदार्थपरिष्वक्ता वैकृतम् एव त्व् अङ्गानां सन्निहितसमाम्नानम् अनर्थकं मा भूद् इति तत्सन्निधिपाठाद् एव तेषां तत्र विनियोगो निश्चीयते. समाख्याविनियोगस् तु -- आध्वर्यवसमाख्यातेषु पदार्थेष्व् अध्वर्योर् अनेनामी कर्तव्या इति.
SK
चतुर्थे ऽपि श्रुत्यादिभिर् एवावधृताङ्गाङ्गिभावानां दध्यानयनाम् इक्षादीनां प्रयोज्यप्रयोजकत्वे वक्ष्येते. यद् धि श्रुत्यादिभिर् यच्छेषतयावगम्यते तत् तेन{२,२९}प्रयुज्यत इति स्थापितम्. तद् इह प्रयुक्तिलक्षणे ऽपि श्रुत्यादिर् एव प्रमाणगणः, शेषलक्षणे ऽपि शेषिणां शेषाणाम् उभयेषां वा क्रमनियमः किञ्चिन्मात्रविशेषभिन्नश्रुत्यादिभिर् एव क्रियते. यथा तावद् अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति इति क्त्वाश्रुत्या क्रमनियमः. अग्निहोत्रं जुहोति यवागूं पचति इति पाठाद् अन्यादृशे ऽपि क्रमे ऽवगम्यमाने ऽर्थात् क्रमनियमविपर्ययः. होमोत्तरकालं हि पाकः क्रियमाणो ऽनर्थकः स्यात्. होमो ऽपि नासति हविषि सं(प्र)वर्तत इत्य् अर्थात् पाकोत्तरकालम् एव निश्चीयते. तद् इदं लिङ्गम् एवार्थ इति नाममात्रभिन्नं, सामर्थ्यम् एव हि भावानां लिङ्गम् इति निश्चीयते. इहापि द्रव्यक्रिययोः शक्तिनिरीक्षणाद् एव क्रमनियमावधारणम्. पञ्चानां तु प्रयाजादीनां समिधो यजतीत्येवमादीनां पाठात् क्रमनियमः. बहूनां हि पदार्थानां युगपदेकेन कर्त्रानुष्ठातुम् अशक्तेर् अवश्यम्भाविनि क्रमे ऽवगमाधीनत्वाद् अनुष्ठानस्य क्रमेण तूच्यमानेषु तथैवावगमाद् अनुष्ठाने क्रमापेक्षायां स एव क्रमो निश्चीयते. प्रतीतहानाप्रतीतोपादानयोर् अनुपपत्तेः. अयम् अपि पाठापरनाम्ना स्थानेनैव क्रमनियमः. स्थानात् क्रमनियमो यथा -- साद्यस्के कर्मणि सह पशूनालभते इत्य् अग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयस्थाने सहोपलम्भे चोदिते कः प्रथमं प्रयुज्यताम् इत्य् अपेक्षायां स्थानात् सवनीयो बुद्धो भवन् प्रथमं नियम्यते. तस्य तदनुष्ठानस्थानम्. सो ऽयम् अनुष्ठानसादेश्यलक्षणः क्रमः. पूर्वं तु पाठसादेश्यलक्षणः. द्वेधा च तार्तीयक्रमो विभक्तः. यथोक्तं -
SK
तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः |
SK
पाठानुष्ठानसादेश्याद् विनियोगस्य कारणम् ||
SK
इति. प्रवृत्त्या च क्रमनियमो यथा -- सप्तदश प्राजापत्यान् पशूनालभते इति चोदितेषु पशुषु चोदकप्राप्तानां प्रोक्षणादीनां यत्रक्वचिद् एकस्मिन्न् एकस्यानुष्ठाने द्वितीयादिषु किं प्रथमप्रवृत्त्यैव अथानियम इति संशये नियमकारणाभावात् प्रथमप्रवृत्तेश् चानियमात्मकत्वाद् अनियमः इति पक्षं परिगृह्य प्रथमप्रवृत्त्यैव नियमो दर्शितः. प्रयोगवचनबलेन हि पशूनां यौगपद्यम् अवधारितम्. तच् चावर्जनीयाद् विलम्बनान् न व्यवधानान्तरम् अङ्गानाम् अनुजानीते. साङ्गेषु हि पशुषु युगपदनुष्ठातव्यतया चोदितेष्व् अपीश्वरेणापि तथा सम्भावयितुम्{२,३०}अशक्तेः अवर्जनीयव्यवधानं तु विधेर् अनुमतं भवति. तत्र च वैषम्यकारणाभावात् सर्वेषां सदृशम् एवाङ्गव्यवधानम्. प्रथमपदार्थकर्त्रानुष्ठिते तदैवाङ्गान्तरानुष्ठानाय तेनैव प्रधानेन चोद्यमाने कर्तरि प्रयोगवचनप्रमाणकयौगपद्यबलेन पश्वन्तरैर् आकृष्यमाणे तत्पदार्थमात्रस्य पश्वन्तरेष्व् अनुष्ठानं स पशुः प्रतीक्षते. तदन्ते च द्वितीयपदार्थानुष्ठानाय कर्तारम् आकर्षति. एवं सप्तदशानां पशूनां षोडशभिर् एकैकस्य व्यवधानं विध्यनुमतम्. व्यवधानविशेषस् तु विशेषाग्रहणान् नाश्रयितुं शक्यम्. अतो द्वितीयादीनाम् अप्य् अनुष्ठानं तत एवारभ्येति सिद्धान्तात् क्रमनियमः. अयं च प्रकरणान्तर्गत एवाकाङ्क्षैकप्रमाणकत्वाद् एकैको ऽपि पशुर् अव्यवधानेन पदार्थानुष्ठानम् आक्षिपति. पदार्थश् च तत्सन्निधावात्मनो ऽनुष्ठानम्. अत उभयाकाङ्क्षया क्रमनियमो जायमानः प्राकरणिको भवति. मुख्यक्रमेण चांशानां क्रमनियमो यथा -- सारस्वतौ भवत इति युगपदुत्पन्नयोः स्त्रीपुंदेवतयोः कर्मणोर् याज्याक्रमेणानुष्ठाने ऽवगते ऽङ्गेषु क्रमापेक्षायां मुख्यक्रमेणैव क्रमो नियम्यते. न ह्य् अङ्गानां प्रधानकालाद् बहिर्भावो ऽस्ति. साङ्गं प्रधानम् ऐकशब्द्याद् इति वक्ष्यति. सो ऽयं वाक्येनैव क्रमनियमः. साङ्गं हि प्रधानम् एकवाक्यचोदितम् एकोपक्रमावसानम् इति प्रधानक्रमेणैवाङ्गानां क्रमनियमो जायते. अत्रापि श्रुत्यादिर् एव प्रमाणगणः.
SK
एवमधिकारविचारादाव् अपि शेषशेषिप्रपञ्चार्थत्वात् शेषलक्षणोक्तान्य् एव श्रुत्यादीनि सिद्धान्तस्थितिहेतुतया दर्शयितव्यानीति. यथा तावदाद्य एव स्वर्गकामो यजेतेति यागस्वर्गयोः कः शेषः को वा शेषीति चिन्तायां द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः (६.१.१) इति स्वर्गस्य यागशेषतया लिङ्गबलेन पूर्वपक्षः परिगृहीतः. तद् धि भूतस्य द्रव्यस्य सामर्थ्यं यद् भाव्यं कर्म निष्पादयति. द्रव्यं च स्वर्हः, स्रक्चन्दनवासस्सु तत्प्रयोगात् सूक्ष्माणि वासांसि स्वर्ग इति यथा. अतो द्रव्यम् एव कर्मार्थं, कामपदसम्बन्धश् च साधनविषयतया दर्शयितव्यः. यो हि यदर्थी स तत्साधनम् अपि कामयत एवेति लिङ्गबलेन पूर्वपक्षिते विधिश्रुतिबलात् सिद्धान्तितम्. विधिर् हि चेतनप्रवर्तनात्मकः. न चानर्थे पुरुषः प्रवर्तयितुं शक्यते इति यागार्थे स्वर्गे कर्मासाधकम् आपद्यते. यथोक्तम् असाधकं तु तादर्थ्यात् (६.१.२) इति. अतो विधेः प्रवर्तनाशक्तिर् मा व्याघानीति कर्मैव स्वर्गार्थम्.{२,३१}न च द्रव्यं स्वर्गः. अन्वयव्यतिरेकाभ्यां प्रीतिवचनत्वावगमात्. तद् एव हि द्रव्यम् अप्रीतिकरं न स्वर्गशब्देनोपचरन्तो दृश्यन्ते इति प्रीत्यन्वयव्यतिरेकानुविधायित्वात् स्वर्गपदं तद्वचनम् इति निश्चीयते. न च सर्वस्येष्टतमा प्रीतिर् अन्यनिष्पत्तये भवतीति साम्प्रतम्. अतो यद् एव किञ्चित् प्रीत्या समभिव्याहृतं तत् तदर्थम् एवेति लिङ्गम् अपि विपरीतम्. अतः सिद्धं यागः स्वर्गार्थ इति सिद्धश् चाधिकार इति. परस्ताद् अपि शेषभूतस्यैव कर्तुस् तत्राधिकारो दर्शयिष्यत इति श्रुत्यादिबलेनैवाधिकारलक्षणे ऽपि सिद्धान्तस्थितिः.
SK
उत्तरषट्के तु शेषा एव किं सर्वत्रोपदेशेनैव सम्बध्यन्ते, अथ यथा प्रकृति व्यवतिष्ठन्त इति श्रुत्यादिबलेनैव निर्णेष्यन्ते. औपदेशिके हि धर्मसम्बन्धे नातिदेशः सिध्यति, पारिप्लवा हि तदा धर्मा भवेयुः. तद् इहातिदेशोपोद्धातेनैव सप्तमाद्ये यज्यपूर्वप्रयुक्तत्वं विचारितं यज्युद्देशेन धर्मविधानात् यजेश् च सामान्यवचनत्वात् सर्वत्रेति प्राप्तम्, न च दर्शपूर्णमासपदं नियामकं, परिसंख्यानाद् विशिष्टोद्देशेन विशिष्टानुवादाद् इति प्राप्ते निरूपितं - नात्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति यागोद्देशेनाङ्गानि विधीयन्ते, किं तर्हि, साङ्गप्रधानविशिष्टापूर्वभावनैव चोद्यते. पश्चात् त्व् एकभावनापरिगृहीतानाम् अङ्गानां प्रधानानां चारुणैकहायनीवत् परस्परान्वयसिद्धिः. भिध्यन्ते च शब्दान्तरादिभिः प्रतिप्रकरणम् अपूर्वभावनेति कुतो धर्मसङ्करः. सेयं श्रुत्यादिप्रमाणकविनियोगपरामर्शाद् एव व्यवस्था सिध्यति. यदा ह्य् अपूर्वभावनान्वयगर्भो विनियोगो धर्माणां न यागसामान्योद्देशेनेति सिद्धं भवति, तदा व्यवस्था सिध्यति. तत्सिद्ध्या चाश्रुतेतिकर्तव्यताकेषु सौर्यादिषु विध्यन्तापेक्षायां सामान्यातिदेशसिद्धौ प्रत्यक्षवचननामाव्यक्तचोदनातदवयवद्रव्यदेवतासामान्यबाहुल्येन विशेषातिदेशसिद्धिः. यथेष्टौ समानम् इतरत् श्येनेनेति श्येनवैशेषिकाणां वाचनिको ऽतिदेशः. मासम् अग्निहोत्रं जुहोतीति कुण्डपायिनामयने होमनाम्ना नित्याग्निहोत्रधर्मातिदेशः. एकाहाहीनसत्राणाम् अव्यक्तचोदनाचोदितत्वेन सोमसादृश्यात् तद्धर्मातिदेशः इत्यादि दर्शयितव्यम्. सर्वश् चायम् अतिदेशः श्रुत्या विनियोगानुसारेणैव शेषाणां सिध्यतीति तत्प्रमाणगणकारित एव. ऊहो ऽपि षोढा विभक्तः. प्राकृतोपदेशानुसारेणैव मन्त्रादीनां सिध्यतीति सो ऽपि श्रुत्यादिप्रमाणक एव. सो ऽपि ह्य् अपूर्वार्थो धर्मविनियोग इति सिद्धे सेत्स्यति. अत{२,३२}एवापूर्वप्रयुक्तिर् आद्ये साधिता. बाधो ऽपि श्रुत्यादिप्रमाणानुसारेणैव. तत्रापि प्राकृतशास्त्रातिदेशात् सर्वानुष्ठानेन पूर्वपक्षिते उपकारप्रधानत्वाद् अतिदेशस्य तदभावे ऽन्यतो वा तल्लाभे प्रतिषेधेन वा बाधो वक्ष्यते. यथा कृष्णलचराव् अवघातस्य, खलेवालीशराभ्यां यूपबर्हिषोर् इत्यादि दर्शयितव्यम्. एतद् अपि प्रकृताव् एवोपकारपर्यन्तश्रुत्यादिविनियोग इति निर्णीयते. (?सिध्यति) एतावांस् तु विशेषः -- प्रकृतौ पदार्थपरिग्रहपुरस्सर्युपकारकल्पना, प्राक् तदसिद्धेः. विकृतौ तु प्रकृतिपरिकल्पितोपकारसन्दर्शनेन तत्परिग्रहपुरस्सरं पदार्थपरिग्रहः. स एव हि विधिनापेक्ष्य्ते. स तु प्रकृतावसिद्धो (ऽपि) कल्पयित्वा गृह्यते. विकृतौ च प्रकृतिसिद्ध एवोपादीयत इति. अत एव शास्त्रपदार्थयोर् अनतिदेशः, तयोर् विध्यनपेक्षितत्वाद् इति. तन्त्रावापलक्षणे ऽपि विशेषा एव प्रधानानां किं तन्त्रेणोपकारका उतावृत्त्येति शेषाणाम् एव विचार्यमाणत्वात् तत्प्रमाणगणानुसारी निर्णयो दर्शयितव्यः. तत्र हि देशकालफलादीनां तन्त्रसम्बन्ध आग्नेयादीन् प्रति प्रयाजादीनां तन्त्रानुष्ठाने हेतुर् भविष्यति. स च श्रुत्यादिप्रमाणक एवेति तत्रापि स एव प्रमाणगणः. प्रसङ्गलक्षणे ऽपि पश्वर्थानुष्ठितानां प्रयाजादिशेषाणां पशुतन्त्रमध्यपातिपुरोडाशोपकारकत्वं देशादितन्त्रनिबन्धनम् एवेति पूर्ववत् प्रमाणगणः. अत एव भाष्यकारेण प्रथमसूत्रे दशाध्याय एव शेषलक्षणशब्दः प्रयुक्तः. यो ऽपि वचनव्यक्तिभेदेन पूर्वपक्षसिद्धान्तविभागः यथा स्वर्गकामो यजेतेति स्वर्गकामो यागं कुर्याद् इति पूर्वः पक्षः यागेन स्वर्गं कुर्याद् इति सिद्धान्त इति, सो ऽपि नार्थशून्यासु बुद्धिषु सिध्यति. कर्मभ्यश् च दर्शपूर्णमासकारीर्यादिभ्यः परलोके इहलोके भवत्स्वर्गवृष्ट्यादिफलसम्बन्धो बाह्याश्रय एव, असति तस्मिन् द्वैविध्यानुपपत्तेः. अतः सर्वम् इदं बाह्यार्थसिद्धाव् असत्याम् अयुक्तम् आपद्येतेति तदुपपादनाय धर्मार्थिभिर् मीमांसकैर् लोकप्रसिद्धैः प्रत्यक्षादिभिः प्रमाणैः पूर्वोत्तरपक्षविभागेनार्थस्य सदसद्भावयोर् यत्नः कार्यः. पूर्वपक्षविशुद्धा हि बुद्धिः सिद्धान्तकरी भवति. अतो ऽनुमानेनैवार्थापह्नवपूर्वपक्षं कृत्वा प्रत्यक्षेण तत्सद्भावसिद्धान्तो दर्शयितव्यः. सर्वश् चायं प्रयासः सकललौकिकवैदिकक्रियां{२,३३}प्रति तत्सिद्ध्यर्थम् इति यावत्. अन्यथा सर्वार्थक्रियाणाम् उच्छेदो भवेत्. अतः प्रयोजनवद् बाह्यार्थप्रतिपादनम्. अक्रियाङ्गस्य तु प्रतिपादितस्याप्य् अनर्थ(त्व)म् एवेति क्रियां प्रतीति युक्तम् एवेति
SK
अत्र चोदयति -- यदेति. ज्ञानमात्रपक्षे हि बौद्धानाम् इव सर्वो ऽयं प्रमाणादिव्यवहारः सिध्यत्य् एव. ते हि वदन्ति --
SK
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना |
SK
लोके संवृतिसत्यं च सत्यं च परमार्थतः ||
SK
इति. अतस् तद्वद् एव व्यवहारसिद्धौ किं पारमार्थिकार्थप्रतिपादनव्यसनेनेति
SK
अत्र दूषणम् आह -- संवृतेर् इति. सत्यम्. संवृतिसत्येन सर्वम् इदं बौद्धैर् आश्रीयते. न त्व् एतद् युक्तम्. सत्यभेदानुपपत्तेः. यः खल्व् अयं सत्यभेदो बौद्धैर् आश्रितः संवृतिसत्यं परमार्थसत्यम् इति, नायम् उपपद्यते. संवृतेः सत्यत्वाभावात्. मिथ्यापर्यायो हि संवृतिशब्दः. कथं तस्य सत्यशब्दसमभिव्याहारः. न ह्य् अयम् अक्षशब्द इव विभीतकादीनां संवृतिपरमार्थयोः साधारणः सत्यशब्दः. अतः सत्यभेदानुपपत्तिर् इति. विरोधम् एव व्यनक्ति -- सत्यं चेद् इति
SK
विरोधाद् एव च मृषार्थपरमार्थयोः सामान्यम् अपि सत्यत्वं नाभ्युपगन्तुं शक्यम्. समानानां भावः सामान्यम्. कुतस् तस्य विरोधिनोर् अवकाशः. न हि भवति धर्माधर्मयोर् धर्मत्वम् अधर्मत्वं वा सामान्यम् इत्य् आह -- सत्यत्वम् इति विरोधादन्तेन. अन्यमात्रयोर् अपि तत्परामर्शाभावाद् दुरुपगमं सामान्यं वृक्षसिंहयोर् इव वृक्षत्वम्. किं पुनर्विरोधिनोस् तत् स्याद् इत्य् आह -{२,३४}न हीति. अत्र चाक्षादिवत् साधारणशब्दता पूर्वं सत्यशब्दस्य निराकृता इह गवादिवत् सामान्यशब्दतेति विवेचनीयम् इति
SK
अतो लोकं वञ्चयितुं मिथ्यापर्यायो ऽपि संवृतिशब्दो बौद्धविदग्धैर् अनुद्वेगकरतया मिथ्यात्व एव विवक्षिते स्वनास्तिक्यपरिजिहीर्षया प्रयुक्तो लालायाम् इव वक्त्रासवशब्द इत्य् आह -- तुल्यार्थत्व इति संवृतिरन्तेन. वक्ष्यमाणेनेतिकरणेन सम्बन्ध इति. कल्पनावाचोयुक्तिर् अपि स्वनास्तिक्यपरिहारार्थम् एव तैर् आश्रितेत्य् आह -- कल्पनेति चेति. कल्पनामात्रकल्पितेन बाह्येन सर्वलौकिकव्यवहार इत्य् अपि निर्वस्तुके जगत्य् अभिन्नस्य चिन्मात्रस्य कल्पनाया भेत्तुम् अशक्यत्वाद् दुर्भणम्. क्वचिद् धि भिन्नम् एव किञ्चिद् रूपान्तरं कल्पनास् पदं भवति शुक्ताव् इव रजतरूपम्. यस्य तु न किञ्चिद् भिन्नम् अस्ति, तत् केन रूपेण कल्प्यताम्. तद् एतद् आह -- कल्पनापीति
SK
ननु त्रिधैव तत्त्वं विभजामहे सत्यम् असत्यम् संवृतिसत्यं चेति. संवृतं हि नात्यन्तम् असद् भवति, व्यवहाराविसंवादात्. नापि सद् एव, प्रमाणान्तरविरोधाज् जात्यादिवत्. अतो न संवृतिः प्रमाणं नाप्रमाणम् इति विधान्तरम् एवेदम् इति युक्तस् तदाश्रयतया व्यवहार इत्य् अत आह -- तस्माद् इति. यतः खलु संवृतिर् मिथ्याज्ञानं न वस्तुकॢप्त्यै प्रभवति, तस्माद् यत् परमार्थतो नास्तीति निरूप्यते न तत् संवृत्या तद्रूपं भवितुम् अर्हति. नास्त्य् एव तत्. यत् तु तावद् व्यवहाराविसंवादि तद् अस्त्य् एव, न ह्य् असतः सर्वदा व्यवहारहेतुभावः सम्भवति. यद् एवार्थक्रियाकारि तद् एव च परमार्थसद् इति वः सिद्धान्तः. अतः कथम् अर्थक्रियाकारित्वे सत्य् अपि जात्यादीनाम् असत्यत्वम्. तस्माद् यदि व्यवहाराङ्गतया बाह्यम् अस्ति, तत् तर्हि परमार्थत एवास्ति.{२,३५}तद् एव सत्यम् इत्य् उच्यते. अन्यत् तु संवृतिर् मिथ्येति. न तु सत्यद्वयकल्पनात्मानं लभते. तन्त्रेण तद्वृत्तस्य पूर्वापराभ्यां सम्बन्धः. परमार्थत इति च नास्तीति पूर्वेण सम्बध्यत इति
SK
अपि च स्वप्नावगता अप्य् अर्थाः केचिच्छोकहर्षादिव्यवहारहेतवो दृश्यन्ते. अतस् ते ऽपि सांवृता एव. तद्वच् च बाह्यार्थाभ्युपगमे स्वप्नादिभोगतुल्य एव शुभाशुभकर्मफलोपभोगो भवेत्. अतस् तन्निवृत्त्यर्थम् अपि परमार्थसत्ये बाह्ये प्रयस्यते इत्य् आह -- स्वप्नादीति
SK
कः पुनः स्वप्नतुल्यत्वे दोषः, अत आह -- न हीति. किम् इति न प्रवर्तते अत आह -- यादृच्छिकत्वाद् इति. न हि स्वप्नसुखं मे भवतीति विद्वांसः प्रयस्यन्ति. यादृच्छिकं हि स्वप्नसुखम् अगणितसाम्परायिकैहिकनिमित्तं, न तत् प्रयस्यतो भवतीति बुद्ध्वा विद्वद्भिस् तूष्णीम् उदासीनैर् एवास्येत, न क्वचित् प्रयत्नः क्रियेतेत्य् अर्थः
SK
अतो ऽवश्यं पारमार्थिकीं फलप्राप्तिम् इच्छद्भिर् उपपत्त्या बाह्यवस्तुविषया प्रतिपत्तिर् विधातव्येत्य् अस्ति विचारस्य प्रयोजनम् इत्य् उपसंहरति -- परमार्थेति
SK
अत्र भाष्यकारेण बाह्यार्थसद्भाव एव पूर्वपक्षपुरस्सरं प्रतिपादितः, न तु ज्ञानसद्भावः. तत् कस्य हेतोः. अस्ति हि तत्सद्भावविप्रतिपत्तिर् अपि. माध्यमिका हि ज्ञानम् अप्य् अपलपन्ति. अतस् तन्निराकरणम् अपि युक्तम्. यत्{२,३६}पुनस्तदुपेक्ष्यैव बाह्यार्थापलापो निराक्रियते, तत्र कारणं वक्तव्यम् अत आह -- तत्रेति त्रयेण. अस्यार्थः -- योगाचारा हि ज्ञानमात्रम् अर्थशून्यं पारमार्थिकं मन्यन्ते. माध्यमिकास् तु ज्ञेयाभावाद् अकर्मकज्ञानानुत्पत्तेर् ज्ञानस्याप्य् अभावम् इच्छन्ति. तत्र द्वयोर् अपि वादिनोस् तावद् बाह्यार्थशून्यत्वं साधारणम्. अर्थनिवृत्त्यधीनत्वात् ज्ञाननिवृत्तेः. अतो द्वयोर् अपि साधारणो बाह्यार्थापलाप इति स एव निराक्रियते. अपि च तन्मूलो ज्ञानापह्नवः. ततस् तस्मिन् निराकृते निराकृत एवेति बाह्यार्थसद्भावे पूर्वोत्तरपक्षविभागेन भाष्यकृता प्रयत्नः कृतः. आद्यस् तत्रशब्दो वाक्योपन्यासार्थः. द्वितीयस् तु पूर्वोक्तदर्शनभेदपरामर्शार्थः. तत्र मतभेदे इत्य् अर्थः
SK
ननु बाह्यार्थापह्नवो द्विधैव बौद्धैर् आश्रितः प्रमाणतः प्रमेयतश् च. तथा हि -- एवं तैर् उक्तं - न तावदणवो ऽतीन्द्रियाः प्रमाणविषयाः. न तत्समूहः, तस्य तदतिरेकिणो ऽभावात्. नावयवी. तस्यावयवव्यतिरेकेणानुपलम्भात्. अव्यतिरेके च तन्मात्रापातात्. एवम् आन्त्यावयवेभ्यो विकल्प्य अवयवी निराकार्यः. ते त्व् अतीन्द्रिया एव. अतो न किञ्चन ग्राह्यम् अवतिष्ठते इति. तद् एतत् परित्यागे किं कारणं, यत् प्रमाणत एव बाह्यापह्नव उपन्यस्यते निरस्यते चेति. अत आह -- बाह्यार्थेति सार्धेन. अयम् अर्थः -- यद्य् अपि द्वेधा बाह्यार्थापह्नवो बौद्धैर् आश्रितः, तथापि प्रमाणाश्रित एव मूलभूतत्वाद् इह विचार्यते. प्रमाणमूला हि प्रमेयस्थितिः. तद् यदि प्रमाणम् अनुगुणं, किं वस्तुविकल्पैः. न तद्बलेन तदनुपपत्तिं परिहृत्यार्थो व्यवस्थाप्यते. अथ तु{२,३७}प्रमाणम् एवार्थं प्रत्याचष्टे, किं प्रमेयविकल्पैः कृतकरैर् इति. इह शाबरे तन्त्रे. इदानीम् अस्मिन्न् अवसरे. प्रमाणस्थ एव बाह्यापह्नवो विचार्यत इति
SK
ननु यदि प्रमाणस्थो विचारयितव्यः, ततः प्रत्यक्षस्य मुख्यत्वात् तदनुसारेणैव विचारो युक्तः. बौद्धैर् अपि प्रत्यक्षसामर्थ्याद् एवैकं तत्त्वम् आश्रितम्. नैकस्मिन्न् आकारे भासमाने द्वैतम् आत्मानं लभते इति हि मन्यन्ते. अनुमानं तु भ्राम्यतः प्रत्युक्तम् इति किं तत्पुरस्सरीक्रियते अत आह -- प्रस्तुत इति. एवं हि मन्यते -- यद्य् अपि प्रत्यक्षशक्तिनिरूपणम् एव बाह्यार्थसदसद्भावयोः प्रधानं, तथापि परैर् अनुमानम् अपि बाह्यापह्नवे दर्शितम् इति तद् अपि निराकार्यम्. अनिराकृते हि तस्मिंस् तत्रैव केचिद् आस्थां प्रतिबध्नीयुः. अत्र चायम् एवोपन्यासक्रमो युक्तः यत् प्रथमम् अनुमानम् उपन्यस्यते, ततस् तस्य प्रत्यक्षेण बाधम् उपन्यस्य तस्मिंश् चोक्ते पुनः प्रत्यक्षशक्त्यपेक्षणेन पूर्वोत्तरपक्षावा(?दाव् ए/द ए)व प्रत्यक्षशक्तिनिरूपणेन निर्णये कृते ऽनुमानस्योपन्यासो ऽनवसर एव स्याद् इति
SK
अनुमानभाष्यम् इदानीं प्रकृतसङ्गतिदर्शनार्थम् अवतारयति -- तत्रेति इत्यन्तेन. सङ्गतिम् आह -- अस्येति दुर्लभ इत्यन्तेन. अयम् अर्थः -- यत् सूत्रकारेण तत्संयोगजं प्रत्यक्षम् उक्तं तदाक्षेपेणैव सङ्गच्छते. काल्पनिको ह्य् अयम् इन्द्रियार्थसम्प्रयोगः, इन्द्रियादेर् अभावात्. काल्पनिकश् च सकलमिथ्याज्ञानसाधारण इति तदतद्योगजत्वविभागो न युक्त इति सूत्रोक्ताक्षेप इति
SK
{२,३८} स्वोक्ताक्षेपेण वा सङ्गतिर् इत्य् आह -- मिथ्यात्वम् इति. यद् एतद्वृत्तिकारग्रन्थान्त उक्तं - यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनप्रत्ययः नान्यः इति तदनेनाक्षिप्यते. सर्वमिथ्यात्वे विशेषणोपादानवैयर्थ्यम् इति
SK
भाष्यतिरोहितम् अनुमानम् इदानीं विस्पष्टम् उपन्यस्यति -- स्तम्भादीति. स्तम्भादिप्रत्यय इति धर्मिनिर्देशः. मिथ्येति धर्मवचनं, प्रत्ययत्वाद् इति हेतुः. तथाहीति दृष्टान्तवचनम् इति
SK
अत्र भाष्यं सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः इति. तद् यथाश्रुतं सर्वेषाम् अनालम्बनत्वं साधयति. तत्र चांशे सिद्धसाधनता स्यात्, विभ्रमाणाम् अनालम्बनत्वात्. यद्विज्ञानम् अन्यथा सन्तम् अन्यथा बुध्यते ऽर्थं तन्निरालम्बनम् इष्यत एव. तथा सर्वस्मिन् पक्षीकृते स्वप्नज्ञानस्यापि तदन्तर्भावाद् दृष्टान्ताभावः. सर्व एवेति चैवशब्दानुपपत्तिश् च. स हि विभक्तप्रतिषेधे दृष्टः. यथेदं देवेभ्य इदं ब्राह्मणेभ्य इति विभक्ते भवति वचनं सर्वम् एवेदं ब्राह्मणेभ्य इति. तत्र विभागप्रतिषेधपर एवकारो दृश्यते. सर्वस्मिंस् तु पक्षे सर्व इत्य् आचक्षीत, नैवकारं प्रयुञ्जीत. अतो जाग्रद्बुद्धिविवक्षयैव भाष्यं व्याख्यातव्यम् इत्य् आह -- सिद्धसाधनेति सार्धेन. नन्व् एवम् अप्य् अविशेषितनिरालम्बनत्वोपादाने ऽभ्युपगमविरोधः. स्वांशालम्बनत्वं ज्ञानानां बौद्धैर् इष्यत एवात आह -- स्वांशेति. अत एव कारणाद् बाह्यविशेषणविशिष्टम् अनालम्बनत्वं साधनीयम् इत्य् अर्थः
SK
{२,३९} अपरम् अपि भाष्यं प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने. जाग्रतो ऽपि स्तम्भ इति वा कुड्य इति वा प्रत्यय एव भवति, तस्मात् सो ऽपि निरालम्बनः इति. तस्यार्थम् आह -- प्रत्ययस्येति. प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने इत्य् एतावता भागेन तावत् साध्येन निरालम्बनत्वेन व्याप्तं प्रत्ययत्वं हेतुर् निर्दिश्यते. दृष्टान्तवचनम् इति यावद् इति. ननु न प्रत्ययत्वाद् इति हेतुर् उपात्तः, कस्य व्याप्तिर् निर्दिश्यते. अत आह -- हेतुश् चेति. यद्य् अपि प्रत्ययत्वस्य न व्यक्तं पञ्चम्या हेतुत्वम् उपात्तं, तथापि उपनयनाख्येन साधनवाक्यावयवेन जाग्रतो ऽपीत्यादिना हेतुः प्रदर्शित एव. यदैव हि साध्यान्वितं प्रदर्शितं प्रत्ययत्वं पुनः प्रतिज्ञार्थ उपनीयते, तदैव तद् अत्र हेतुर् इति प्रदर्शितं भवत्य् एव. साध्यान्वितस्यैव पक्षस्थस्य हेतुत्वाद् इति. कः पुनर् अयम् उपनयः. साधनवाक्यावयवविशेषः. पञ्चावयवं हि साधनवाक्यं प्रतिज्ञा हेतुर् उदाहरणम् उपनयो निगमनं चेति. तत्र साध्यनिर्देशः प्रतिज्ञा. यथा अनित्यः शब्द इति. उत्पत्तिधर्मकत्वाद् इति हेतुः. उत्पत्तिधर्मकं स्थाल्यादि द्रव्यम् अनित्यं दृष्टम् इत्य् उदाहरणम्. तथा चोत्पत्तिधर्मकः शब्द इत्य् उपनयः. स ह्य् उदाहरणापेक्षंस् तथेत्य् उपसंहारो न तथेति वा साध्यस्योपनय इति वर्णितम्. किम् उक्तं भवति. द्वेधा हि हेतुः साध्यं साधयति उदाहरणसाधर्म्याद् वैधर्म्याद् वा. तत्र साधर्म्यं प्रदर्शितम्. वैधर्म्यं तु यथा -- तस्याम् एव प्रतिज्ञायां तस्मिन्न् एवोत्पत्तिधर्मकत्वाद् इति हेतौ अनुत्पत्तिधर्मकम् आत्मादि द्रव्यं नित्यं दृष्टम्. न च तथा शब्दो ऽनुत्पत्तिधर्मक इति. तत्र यो ऽयं द्विविधोदाहरणापेक्षः साधर्म्योदाहृते तथेति वैधर्म्योदाहृते न तथेति साध्यस्य शब्दस्य सम्बन्धितयोत्पत्तिधर्मकत्वस्योपसंहारवचनम् उपनयः, स चोदाहरणापेक्ष एव. उदाहरणद्वैताद् एव तदुपसंहारद्वैतं भवति. वैधर्म्योदाहरणेन च विरुद्धनिवृत्त्या साध्यसम्बन्धित्वेन हेतोर् उपसंहारः. यथात्मादि द्रव्यं नित्यम् अनुत्पत्तिधर्मकम्, न च तथा शब्दः इत्य् अनुत्पत्तिधर्मकत्वप्रतिषेधेनोत्पत्तिधर्मकत्वम् उपसंह्रियते. प्रकृते तु साधर्म्योदाहरणे{२,४०}तथैवेति हेतोर् उपसंहार उपनयो वेदितव्यः. निगमनं तु हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम्. तस्माद् उत्पत्तिधर्मकत्वाद् अनित्यः शब्द इति. निगम्यन्ते ऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकत्रार्थ इति निगमनम्. समर्थ्यन्ते सम्बध्यन्ते इति यावत्. असति हि तस्मिन्न् अनभिव्यक्तसम्बन्धानाम् अर्थप्रतिपादकत्वं न स्यात्. सति तु तस्मिन् सर्वेषाम् अवयवानां तात्पर्यदर्शनात् परस्परसम्बन्धः स्फुटो भवति. निगमनं सङ्गमनं सम्बन्धनम् इति यावद् इति
SK
ननु नाव्यावृत्तो विपक्षाद् धेतुर् भवतीति वैधर्म्यदर्शनेन हेतोर् व्यतिरेको दर्शयितव्यः. न चात्र तथा दर्शितः, साधर्म्यमात्रवचनात्. अत आह -- विपक्षेति. निरालम्बनत्वे हि साध्यमाने सालम्बनत्वं विपक्षः. न च सर्वानालम्बनत्ववादिनस् तद् अस्तीति किं तद्व्यतिरेकप्रदर्शनेनेति. ननु प्रत्यये पक्षीकृते तस्मिन्न् एव हेतौ प्रतिज्ञार्थैकदेशो हेतुर् अत आह -- सामान्यस्येति. सामान्यविशेषात्मका हि प्रत्ययाः. तत्र विशेषे पक्षीकृते सामान्यं हेतुर् इति न प्रतिज्ञार्थैकदेशतेति
SK
अत्र सिद्धान्तभाष्यं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति. अनेन किल सुपरिनिश्चितत्वेन जाग्रद्धियां सालम्बनत्वं साध्यते. न च सुपरिनिश्चितत्वं बाह्यालम्बनसम्बद्धं परान् प्रति प्रसिद्धम्. अतो नानेनासिद्धावयवेनानालम्बनानुमानं पराणुद्यते, सप्रतिसाधनं वा भवति. तस्योभयप्रसिद्धावयवत्वात्. अस्य च तद्विपरीतत्वात्. अतो{२,४१}जात्युत्तरम् एवेदं भाष्यकारेण दत्तम् इत्य् आक्षिपति -- जाग्रज्ज्ञान इति द्वयेन. वैधर्म्यविकल्पसमयोश् च स्वरूपं शब्दे वक्ष्यामः. सत्य् एव प्रत्ययत्वे सुपरिनिश्चितासुपरिनिश्चितधर्मान्तरविकल्पनात् साध्यधर्मविकल्पापादनेन विकल्पसमता. तथा साधर्म्ये वादिना प्रयुक्ते निरालम्बनानां स्वप्नज्ञानानाम् असुपरिनिश्चितत्वदर्शनात् साध्येषु जाग्रज्ज्ञानेषु सुपरिनिश्चितत्वेन वैधर्म्यात् प्रत्यवस्थानेन वैधर्म्यसमता. प्रपञ्चस् तु पश्चाद् भविष्यतीत्य् उक्तम् इति || २८ --२९ ||
SK
एवम् आक्षिप्तं भाष्यम् एकेन[७०४]मतेन समादधाति -- दुष्टत्वाद् इति. एवं हि मन्यन्ते -- दुष्टसाधनप्रयोगे दुष्टम् एवोत्तरं देयम् इति, एवं हि तदा वादी प्रतिबोधितो भवति यथा भवान् मदीयं दूषणं दुष्टं मन्यते तथाहम् अपि[७०५]त्वत्साधनम्, अतो ऽसौ स्वसाधनान् निवर्तते इति. इदं तु समर्थनं नोपपद्यते. निग्रहस्थानद्वयप्रसक्तेः. पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगात्मकनिग्रहस्थानद्वयम् एवंवादिनो भवेत्, यः सन्तं दोषम् अनुक्त्वान्यम् असन्तं जल्पति. न चैवंवादिनः स्वसाधनदूषणावगमो भवति. परम् एव तु दुष्टदूषणप्रयोगेणोपालभते. अतः पाशुपतोत्तरतुल्यम् एकजातीयकं वर्जनीयम् इत्य् अन्यथा समाधानम् आह -- प्रतिज्ञेति. नानेनानुमानम् उपन्यस्यते. किन् तु परोक्तानुमानस्य प्रत्यक्षविरोधो वर्ण्यते. असन्निकृष्टे ऽर्थे ऽनुमानं प्रमाणम्. इह तु सुपरिनिश्चिताभिर् जाग्रद्बुद्धिभिर् निश्चितसद्भावस्य बाह्यस्य प्रत्याख्यानानुमानं प्रत्यक्षेण मुखनिरोधान् न जायत एवाग्नाव् इव शैत्यानुमानम्. यदि परं बाह्यस्य प्रयोगमात्रपर्यवसितम् एव साधनवचनम्, अनुमिमानस्यापि स्फुतो बहिर्विषयबो(?धे/धो) जायत एव. तथाविधस्यापि मिथ्यात्वे कः समाश्वासः. नन्व् एवम् अनुमानम् अनाश्वासनीयम् एव, न. तदभावात्, उक्तम् एतत् प्रत्यक्षे परिपन्थिनि न तत्प्रतिपक्षम् अनुमानम् आत्मानं लभेत श्रौत इव विनियोगे लैङ्गिकः. साधनवाक्ये त्व् अयोग्यान्वयपदसन्निकर्षाद् वन्ध्यासुतवाक्यवत् संसर्गज्ञानं भ्रान्तिर् एव. न तु कस्यचिद् लैङ्गिकं स्तम्भादिष्व् अभावज्ञानम् उत्पद्यते. ननु व्याप्तं प्रत्ययत्वम् अनालम्बनत्वेन. व्याप्याच् च ज्ञातसम्बन्धस्य व्यापकज्ञानं नोत्पद्यत इति{२,४२}हठ एवायम्. न. व्याप्तिभङ्गात्. संविदन्न् एव हि व्याप्तिम् अबाधितेन प्रत्यक्षेण सर्वदेशकालादिभाविना न प्रत्ययत्वप्रयुक्तं मिथ्यात्वम्, अपि तु पूर्वोक्तहेतुद्वयप्रयुक्तम् इति निश्चिनोति. तद् इदम् उक्तम् -- अन्यतस् तु स्वप्नप्रत्ययस्य मिथ्याभावो विसंवादाद् अवगम्यते इति
SK
__________NOTES__________
SK
[७०४] केषां म [७०५] त (KHA)
SK
कथं पुनर् अत्र प्रत्यक्षबाधः. प्रत्यक्षं हि ग्राह्यम् अन्तरेणात्मानम् अलभमानं तन्मात्रम् अवस्थापयति न बाह्यम्. किं हि तस्य बाह्येन विना न सिध्यति. ग्राह्यश् च स्वांशो बौद्धैर् अभ्युपगत एव. अतो न बाह्यापह्नवे प्रत्यक्षत्वादिविरोधः. अत आह -- शक्ष्याम इति द्वयेन. अयम् अभिप्रायः -- शून्यवादे हि प्रत्यक्षस्य स्वांशगोचरत्वं निराकरिष्याम एव. तन्निराकरणे च बाह्यविशेषणोपादानम् अनर्थकम् एव, तद्व्यतिरिक्तग्राह्यान्तरासम्भवात्. अतो ऽनालम्बनपक्षो ग्राह्यमात्रनिवारण एव भवति. प्रत्यक्षादेः स्वांशनिराकर(णा)द् बाह्य एव विषयो ऽवशिष्यते. अतो बाह्यविशेषणेन विना ग्राह्यमात्रापह्नवे भवति प्रत्यक्षादिभिः पक्षबाधः. सत्य् अपि कथञ्चिद् बाह्यविशेषणे प्रत्यक्षादेर् अपि बाह्यविषयावशेषात् तन्निषेधं कुर्वाणस्य वादिनस् तैः प्रत्यक्षादिभिः पक्षबाधनं भवेत्. पूर्वं तु प्रत्यक्षग्रहणम् उपलक्षणार्थं सर्वप्रत्यक्षादिविरोध एव त्व् अनालम्बनानुमानस्य दर्शयितव्य इति
SK
यत् तु सुपरिनिश्चयेन बाह्यालम्बनसम्बन्धः प्रसिद्धः. किं तदुपन्यासेनेत्य् उक्तम्, अत आह -- सुनिश्चयेनेति. उक्तम् इदम् अस्माभिर् नायम् अनुमानप्रयोग इति, किन् त्व् अनुमानेन जाग्रत्प्रत्यक्षधियां स्वप्नधीसामान्यं मन्यमानस्य तद्वैषम्यप्रदर्शनार्थं सुपरिनिश्चितत्वाभिधानम्. सुपरिनिश्चिता एते{२,४३}प्रत्यया बलीयांसः. नैषु परिपन्थिष्व् अनुमानम् आत्मानं लभते. एतस्माद् अनुमानाद् इत्य् अर्थः
SK
एतद् एव प्रपञ्चयति -- दुष्टज्ञानेति. दुष्टेनासुपरिनिश्चितेन गृहीतो ऽर्थः प्रतिषेधम् अर्हति नेतर इति. गृहीतमात्रबाधे तु बहवः साधनदोषा भाष्यकारेणान्तर्णीताः. तान् प्रतिपादयिष्यन् पक्षाभावं तावद् आह -- गृहीतेति. यदि गृहीतमात्रं मिथ्येत्य् उच्यते, तदा यो ऽयं निरालम्बनाः प्रत्यया इति स्वपक्षः सो ऽपि गृहीतत्वान् मिथ्या स्यात्. अतः शक्यं वक्तुं पक्ष एवास्मिन् भवत्साधने नास्तीति
SK
अपि च, निरालम्बनत्वेन विशिष्टाः प्रत्ययाः साध्यन्ते. तद् इह विशेषणविशेष्यभेदावग्रहस्यापि मिथ्यात्वान् न विशेषणविशेष्ययोर् विवेकः सिध्यति, तदभावाच् च वक्तुं शक्यम् अप्रसिद्धविशेषणविशेष्यः पक्षो ऽप्रसिद्धान्यतरो वेति. तद् एतद् आह -- अग्राह्यत्वाच् चेति. अन्यतरस्य वा असिद्धिर् वक्तव्येत्य् अर्थः.
SK
दूषणान्तरम् आह -- वक्तृश्रोत्रोर् इति. पञ्चधा स्ववाग्विरोधः. अभिधोच्चारणधर्मधर्म्युभयोक्तिभिः. तद् इदम् उभयोक्त्या स्ववाग्विरोधः. द्वयोर् अपि विशेषणविशेष्ययोर् निरालम्बनत्वप्रत्यययोर् यद् वक्तुः श्रोतुश् च ज्ञानं जायते, तद् अपि प्रत्ययत्वाद् अनालम्बनम् इति पक्षो न सिध्यतीति, तत्सालम्बनत्वे चानैकान्तिकत्वान् न प्रत्ययानाम् अनालम्बनत्वं भवेत्. सो ऽयम् उभयोक्त्या स्ववाग्विरोध इति
SK
{२,४४} दूषणान्तरम् आह -- सम्भवो न चेति. एवं हि विकल्पनीयम्. किं निरालम्बनत्वं धर्मिणो भिन्नम् अभिन्नं वा. न तावद् अभिन्नं विशेषणम् अर्हति. न च भेदग्राहिणो ज्ञानस्य मिथ्यात्वाद् भेत्तुम् अर्हतीति. उपसंहरति -- तस्माद् इति
SK
बौद्धानां प्रत्यवस्थानम् आह -- निरालम्बनतेति. एवं हि मन्यन्ते -- वस्तुनि व्यतिरेकादिविकल्पो युक्तः नावस्तुनि. यथाहुः -- वस्तुन्य् एष विकल्पः स्याद् इति. न चालम्बनप्रतिषेधो वस्तुनः किं तद्व्यतिरेकादिप्रश्नेनेति
SK
दूषणा[७०६]न्तरम् आह -- यदीति त्वमन्तेन. यदि तावद् अवस्तु, कथं तद् अस्मान् प्रतिबोधयितुम् इच्छा भवतः. स्वयं वा तद्विषया बुद्धिः. न ह्य् अवस्तु बुद्धिविषयो भवति. तद्विषयत्वे च वस्तुत्वापातात्. अर्थक्रियालक्षणत्वाच् च सत्त्वस्य. तल्लक्षणत्वाच् च वस्तुत्वस्येति. यदि तूच्यते - यद्य् अपि निरालम्बनत्वं नाम न किञ्चित् परमार्थतो ऽस्ति. तथापि तत्सत्त्वं कल्पयित्वानुमानव्यवहारः क्रियते प्रतिमायाम् इव देवतात्वम् आराधनादिव्यवहार इति. तद् अयुक्तम्. असतः कल्पनायोगात्. अन्यत्र प्रसिद्धसद्भावा हि विष्ण्वाद्या देवता युक्तं[७०७]यद् अन्यत्र कल्प्यन्ते. अत्यन्ताप्रसिद्धसद्भावं त्व् अनालम्बनत्वं न गगनकुसुमादिवत् कल्पनाम् अर्थति. तद् एतद् आशङ्कया सहाह -- कल्पितेति
SK
__________NOTES__________
SK
[७०६] णम् आ [७०७] क्ता (KHA)
SK
{२,४५} अपि च केयं कल्पना. यदि ज्ञानं, किं तेन ज्ञायते. यदि निरालम्बनत्वम्, तत् तर्हि कल्पना ज्ञानोत्पत्तौ व्याप्रियमाणा कथम् अवस्तु भविष्यति. अर्थक्रियाकारित्वम् एव हि वस्तुत्वं, ज्ञानोत्पादनम् अपि चार्थक्रियेत्यभिप्रायेणाह -- कॢप्ताव् इति. अत्र चोदयति -- कथम् इति. यद्य् अवस्तु न साध्यं, कथं तर्हि भवताम् अपि मेघाभावेन वृष्ट्यभावः साध्यत इति. परिहरति -- वस्त्व् इति. भवेद् एवं यद्य् अभावो न वस्तु स्यात्. स वस्त्व् इत्य् अभावपरिच्छेदे वक्ष्यते. यद्य् अपि चाभावो न वस्तुशब्दवाच्यः लोकविरोधात्, तथापि नासौ निस्स्वभावः. प्रख्यायते ह्य् असौ स्वसंवेद्येन भावातिरेकिणा रूपेण. अतो ऽर्थक्रियाया एव घटिष्यत इति न किञ्चिद् अनुपपन्नम् इति
SK
किञ् चेदम् अपि चात्र विकल्पनीयं - यो ऽयं धर्मिणो निर्देशकः प्रत्ययशब्दः स किं भावे कर्तरि करणे वा व्युत्पद्यते, कर्मणि वा. पूर्वोक्तेषु तावत् कल्पेषु विरोधः, अकर्मकप्रत्ययासम्भवात्. न हि प्रतीतिर् अस्ति प्रत्येतव्यं नास्तीति सम्भवति. तदनवष्टब्धस्य (?कृ/त)द्रूपस्याप्रकाशात्. एवम् एव कर्तृकरणयोर् अपि वाच्यम्. यदि ज्ञानम् एवार्थप्रकाशे तज्जन्मनि वा कर्तृत्वेनोपचर्यते करणत्वेन वा विवक्षाधीनत्वात् कारकाणां, तथापि तयोः प्रत्याय्येन कर्मकारकेण विनानुपपत्तिः. सो ऽयं स्ववाग्विरोधः. प्रत्यय इत्य् उक्तमात्र एव तत्स्वभावपरामर्शात् प्रत्येतव्याभावः प्रतिषिध्यते माता मे वन्ध्येतिवन्मातृत्वेन वन्ध्यात्वम्. अतो न प्रत्यये पक्षीकृते निरालम्बनत्वं साधयितुं शक्यम्. कर्मव्युत्पत्तौ सिद्धसाधनम् एव. तद् एतत् सर्वम् आह -- तथेति ||
SK
सिद्धसाधनं विवृणोति -- प्रत्याय्यस्येति. न खलु जडो रूपादिः किञ्चिन्नालम्बत इति
SK
{२,४६} कर्तृकरणपक्षे त्व् अयम् अपरो दोषः यद्धर्मधर्मिवचनयोः शब्दयोर् अपि निरालम्बनत्वं प्रतिज्ञायेत. प्रतीते हि कर्ता करणं वा प्रत्ययः. यथा च कर्तृकरणत्वे विवक्षावशाद् ज्ञाने भवतः, तथा शब्द इति. अत एव वक्ष्यति --
SK
शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितम् |
SK
इति. किञ् चेदं शब्दयोर् अनालम्बनत्वम् अन्यद् अतो ऽभिधेयाभावात्. तदभावे च पक्षाभावः प्रसज्यत इत्य् आह -- कर्तृत्व इति
SK
भावादिषु विरोधः स्याद् इति यद् उक्तं तद् विवृणोति -- प्रत्याय्येन चेति. कर्त्रादिभावो हि न प्रत्याय्यभेदम् अन्तरेण सम्भवति. अतस् तत्प्रवृत्तिनिमित्ते प्रत्ययशब्दे स्ववचनविरोधः. स चायम् अस्माभिः प्राग् एव विवृतः. वाशब्दो ऽनन्तरविवृतकर्मव्युत्पत्त्यपेक्षयेति
SK
यदि त्व् अविभक्तावयवो रूढिरूपेण प्रत्ययशब्द उपादीयते, तदर्थश् च पक्षीक्रियते, तथापि वस्त्व् अन्तरग्राहकस्यैव वस्तुतो ऽस्माकं प्रत्ययत्वेन प्रसिद्धेः स्ववचनविरोध एव भवेत्, तद् एतद् आह -- अथापीति. तथापीति. तथापि स्ववचनविरोध इति पूर्वेण सम्बन्ध इति. कथं स्ववचनविरोधः. अत आह -- ग्राहकम् इति
SK
वस्त्वन्तरस्यैव हि ग्राह्यस्य ग्राहकम् आत्मधर्माख्यं वस्त्व् एव प्रत्यय इति नः प्रसिद्धम्. अतः कथं तस्यासति ग्राह्ये सिद्धिर् इति दूषणान्तरम् आह -- तम् अभ्युपेत्येति. एवम् अयम् असाधनवादी वक्तव्यः किं याद्र्शो ऽस्माभिः प्रत्यय{२,४७}इष्यते स तथाविध एवाभ्युपेत्य भवता पक्षीक्रियते, न वा. तत्राभ्युपगमे तावदभ्युपेतविरोध इति. अपि चैवं सति चाप्रसिद्धविशेष्यः पक्षो भवति, त्वन्मते बाह्यार्थग्राहिप्रत्ययानभ्युपगमाद् इत्य् आह -- विशेष्यस्येति. अतादृशे तु स्वाभिमते पक्षे ऽस्माकम् अप्रसिद्धविशेष्यः पक्ष इत्य् आह -- अस्माकम् इति
SK
किञ् च यादृगात्मधर्मः प्रत्ययो ऽस्माकम् अभिमतः, स पक्षो भवदभिमतो ऽथवा स्वतन्त्रः. पूर्वस्मिन् कल्पे भवतो ऽप्रसिद्धविशेष्यता. उत्तरस्मिन्न् अस्माकम् इति पूर्ववद् एव दर्शयितव्यम् इत्य् आह -- आत्मधर्मेति. यदि त्व् अनिर्धारितविशेषं प्रत्ययमात्रं पक्षीक्रियत इत्य् उच्यते, तन् न. तथाविधस्यानिरूपणाद् इत्य् आह -- न चेति
SK
ननु शक्यम् इदम् अन्येष्व् अपि पक्षीकृतेषु वक्तुं यथा -- किम् आकाशगुणः शब्दः स्वतन्त्रं वा द्रव्यं पौद्गलाख्यं वा नित्यतया पक्षीक्रियत इति. अथ तत्राविवक्षितविशेषं शब्दार्थसामान्योपलक्षितं रूपं पक्ष इत्य् उच्यते, तद् इहापि समानम् इत्य् अत आह -- शब्देति. यथा शब्दार्थसामान्यरूपेणान्येषां पक्षाणां निरूपणं भवति, नैवम् इह भवतः सम्भवति. असाधारणरूपातिरेकिणः सामान्यात्मनो वाच्यस्य भवताम् अनिष्टत्वाद् इति
SK
एवं तावद् धर्मी विकल्प्य दूषितः. धर्मम् इदानीं निरालम्बनत्वं विकल्प्य दूषयति -- निरालम्बनतेति. सर्वथा निरालम्बनत्वे साध्ये ऽप्रसिद्धविशेषणः पक्षो भवति. न हि सर्वथा निरालम्बनत्वं नाम किञ्चिद्{२,४८}अस्ति. सर्वत्र देशकालान्तरावस्थितबाह्यालम्बनाभ्युपगमात्. यश् च स्वप्नप्रत्ययो दृष्टान्ततयोक्तः, सो ऽपि न सर्वथा निरालम्बनः. सर्वत्र यथाकथञ्चिदालम्बनसिद्धेर् वक्ष्यमाणत्वात्. अतो दृष्टान्ताभावो ऽप्य् एवं सत्यापद्येतेति
SK
यदि तु न सर्वथा निरालम्बनत्वं साध्यते. किन् तु सालम्बनस्यैव केनापि प्रकारेण निरालम्बनत्वम् अपीत्य् उच्यते, तदा रसादिज्ञानानां रूपाद्यालम्बनशून्यतया सिद्धसाधनम् इत्य् आह -- केनचिद् इति
SK
ननु यदाकारा बुद्धिस् तन् नालम्बते इति साधयिष्यामः न सिद्धसाधनं भविष्यतीति, तद् एतदाशङ्कते -- अथेति. एतद् अपि निराकरोति -- स्वाकारस्येति. अभ्युपगतो हि भवद्भिः स्वाकारो बुद्धेर् आलम्बनं यदाभासं[७०८]प्रमेयं तद् इति वदद्भिः. अतस् तदालम्बनाभावो ऽभ्युपेतेनैव विरुध्यत इति
SK
__________NOTES__________
SK
[७०८] कारं प्र (KHA)
SK
ननु किम् आपाद्य दूषणोद्भावनम्. बाह्यानालम्बनत्वं हि नः पक्षः. तथा च भाष्योपस्कारे वर्णितम् एव. अतो नाभ्युपेतबाध इत्य् अत आह -- बाह्येति. अयम् अभिप्रायः -- विकल्पनीयम् इदं बाह्यानालम्बनत्वम्. किं बाह्यम् इत्य् अनेन रूपेण नालम्बत इत्य् एवं साध्यते, वस्तुतो वा बाह्यं नालम्बत इति. पूर्वस्मिन् पक्षे सिद्धसाधनम्. परस्मिन् दोषो वक्ष्यते. स्तम्भादिधियो हि स्तम्भाद्याकारतयैव स्वविषयम् आलम्बन्ते न बाह्यतयेति
SK
{२,४९} यदि तु स्तम्भानालम्बनत्वम् एव साध्यते, ततस् तद्रूपसंवेदनस्य दृष्टत्वात् संविद्विरोध एवेत्य् आह -- तथेति
SK
अत्र चोदयति -- द्विचन्द्रादिष्व् इति. एवं हि मन्यन्ते -- समानो ऽयम् अनालम्बनत्वाभिमतेषु द्विचन्द्रादिबोधेषु संविद्विरोधः. तत्रापि द्वाव् एव चन्द्रौ भासेते. तदपह्नवे स्फुट एव संविद्विरोधः. अतः केन प्रकारेण तेषाम् अनालम्बनत्वं भविष्यतीति. परिहरति -- नेन्द्रियेति. अयम् अभिप्रायः -- यदि वयं प्रतिभासविपर्यासाद् अन्यथात्वं ब्रूमः, तत एवम् उपालभ्येमहि. न त्व् एवम्. यद् एव विज्ञानम् इन्द्रियाप्राप्तम् अर्थं प्रकाशयति तदनालम्बनम् इति नः सिद्धान्तः. तथा च द्विचन्द्रादिज्ञानम्. ततो ऽनालम्बनम् इत्य् उच्यते. न पुनर्द्विचन्द्रादिप्रतिभासापह्नवेन, अतो न नः संविद्विरोधः, नचानालम्बनत्वस्याप्रसिद्धिर् इति
SK
नन्व् एवं संवेदनानपह्नवे यथावभासम् अर्थस्य सत्त्वात् सदसद्विवेको न स्याद् अत आह -- सर्वत्रेति. अस्यार्थः -- इदं सद् ग्राह्यम् इदम् असद् ग्राह्यम् इति नायम् अर्थ इदम् अर्थं प्रकाशयति इदं नेति. किन् तर्हि. जायमानायाम् एवार्थगोचरायां संवित्ताव् इन्द्रियार्थसंयोगसदसत्त्वतो ऽयं विभागः. यद् इन्द्रियसम्प्रयुक्तम् अर्थं प्रकाशयति तत् सद् ग्राह्यम्. विपरीतम् अन्यत्. न च यथावभासम् अर्थस्य सत्त्वम्. बाधकदर्शनात्. अतो यद् देशान्तरस्थम् इन्द्रियाप्राप्तम् अर्थं गृह्णाति तद् असद् ग्राह्यम्. तस्यार्थो नास्तीत्य् उच्यते. क्वचिद् धि किञ्चित् प्रतिषिध्यते. न स्वरूपेणैव किञ्चित्. चेदं रजतम् इति नायम् अर्थः{२,५०} रजतं नास्तीति. अस्ति हि तद् देशान्तरादिषु. किन् तु इह नास्तीति यत्रेन्द्रियेण न प्राप्यते, इदम् अस्तीत्य् अपि यद् एव यत्रेन्द्रियेण प्राप्यते तद् उच्यते. इह घटो ऽस्तीति प्रतीतिः न पुनर् घटो ऽस्तीति
SK
न चैष विभागो बौद्धस्य सम्भवतीत्य् आह -- भवत इति. न च बौद्धस्येन्द्रियादीनि सन्ति यत् प्राप्त्यप्राप्तिनिबन्धनं भावालम्बनालम्बनप्रतिषेधौ युज्येते इति
SK
दूषणान्तरम् आह -- बहिर्भावेति साध्यतेन्तेन. न ह्य् अनालम्बनज्ञानवादिनां बहिर्भावो नाम कश्चित् सिद्धः, येन विशिष्टम् अनालम्बनत्वं बुद्धेः साध्यत इति. किम् इति न साध्यते, अत आह -- नैष इति. पक्षप्रज्ञापनार्थं हि साधनवचनं, नचाप्रसिद्धपदार्थविशिष्टः पक्षो ज्ञापयितुं शक्यत इति
SK
किं पुनः पक्षो न ज्ञायते. अज्ञाते विशेषणविशेष्ये च विशिष्टो न ज्ञायते. तच् चोभयम् अपि प्रसिद्धम् एवेति किं विशेषणविशेषणाप्रसिद्ध्या, अत आह -- यथेति. विशेषणाप्रसिद्धाव् एव किम्. न तावत् पक्षसिद्धिः, तथाविधम् अन्यो बोधयितुं न शक्यत इति चेत्, समानम् इदं तद्विशेषणाप्रसिद्धाव् अपीति तद्विशेषणाप्रसिद्धौ पक्षो न ज्ञायत इति सूक्तम् इति
SK
एतद् एव प्रपञ्चयति -- नाप्रसिद्ध इति. प्रतिज्ञावाक्यार्थो हि{२,५१}पक्षः, स च पदार्थपूर्वकः. अतो बाह्यादिपदार्थासिद्धौ पक्षो न सिध्यतीति
SK
दूषणान्तरम् आह -- पर्युदास इति. (?न/ना)व्यतिरिक्तालम्बनः प्रत्ययः, (व्यतिरिक्तं नालम्बते) इति हि द्वाव् अर्थौ सम्भवतः पर्युदासप्रतिषेधाभ्याम्. पर्युदासे हि नामयोगान्नञो ऽव्यतिरिक्तालम्बनः प्रत्यय इत्य् अर्थो भवति. निषेधे तु आख्यातयो(गाद्) व्यतिरिक्तं नालम्बत इति. उभयथा हि सिद्धसाधनम्. प्रमेयत्वादिना हि जगतो न भेदम् आतिष्ठामहे. अतः स्तम्भादिज्ञानात् प्रमेयत्वादिनाव्यतिरिक्तं भवति. अत एवाभेदाद् व्यतिरिक्तं च न भवतीति सिद्धसाधनम् इति
SK
किञ् च, इदम् अपि चात्र विकल्पनीयं किम् अत्यन्तभिन्नेन स्तम्भादिना निरालम्बनत्वं साध्यते, कथञ्चिद् भिन्नेन वा. पूर्वस्मिन् कल्पे तावत् सिद्धसाधनम् एवेत्य् आह -- यदीति. सिद्धसाधनम् इत्य् अतीतेन सम्बन्ध इति. कथञ्चिद् भिन्नेन तु निरालम्बनत्वे साध्यमाने प्राक् कल्पितेन पक्षविरोधः. इष्यते हि कथञ्चित् कल्पनामात्रकल्पितं भवद्भिर् अपि बाह्यालम्बनम्. अतस् तन्निषेधे भवति प्राक्कल्पितेन पक्षबाधः. तद् एतद् आह -- कथञ्चिद् इति
SK
अन्यथा सिद्धसाधनं दर्शयति -- वस्त्व् इति. बुद्धिर् हि वस्त्वाद्याकारेण जडरूपा न किञ्चिदालम्बत इति सिद्धम् एव. असाधारणेन तु प्रकाशात्मना{२,५२}बाह्यम् आलम्बते. तत्राविशेषितोपादाने शक्यं सिद्धसाधनं दर्शयितुम् इति. ननु ग्राहकाद् ग्राह्यम् अभिन्नम् इतीदम् अत्र नः साध्यं, तत्र किं नानाविकल्पैः. अत आह -- ग्राहकाद् इति. न तावन्निरालम्बनाः प्रत्यया इत्य् अयम् अर्थः ग्राहकाद् ग्राह्यम् अभिन्नम् इति. एवं सत्य् अपि यद् द्विशक्तिकत्वं ज्ञानस्येष्टं ग्राह्यग्राहकशक्तिकं ज्ञानम् इति तद् विरुध्यते, ग्राह्यापलापात्. यद्य् अपि न बौद्धैर् आश्रयातिरेकिणी शक्तिर् इष्यते, तथापि शक्तिभेदद्वारेण द्व्यात्मकत्वम् एव दर्शयतीति द्रष्टव्यम् इति
SK
यदि तु सर्वप्रकारासम्भवान् निरालम्बनबुद्ध्युत्पत्तिमात्रम् एव प्रसाध्यते, तत्रापि च सिद्धसाधनम् एव. उत्पद्यते हि निरालम्बनाः प्रत्यया इत्य् उक्ते निरालम्बनत्वबुद्धिः. न त्व् इयम् अर्थक्रियायै समर्था, अनर्थकत्वाद् इत्य् अभिप्रायेणाह -- निरालम्बनेति
SK
नचानर्थकत्वम् एवास्या न सिद्धम् इति वाच्यम्. तत्सत्यत्वे हेतोर् अनैकान्तिकत्वप्रसङ्गात्. अतो मृगतृष्णादिज्ञानवद् एवात्मांशपर्यवसायिनी बुद्धिर् इयम् अभ्युपगन्तव्या. अस्माकम् अपि सर्वमिथ्यात्वग्राहिप्रत्ययमिथ्यात्वं सिद्धम् एवेत्य् आवयोर् अविवादात् सिद्धम् अनालम्बनबुद्धेर् अनर्थकत्वम् इत्य् आह -- सम्यक्त्वम् इति
SK
एवं चोत्पन्नायाम् अप्य् अर्थशून्यायाम् आत्मांशपर्यवसायिन्यामनालम्बनबुद्धौ चैत्रादिप्रत्ययानां पक्षीकृतानां धर्मतया निरालम्बनता न गृहीता साधनोत्थितया धियेति, नानाविषयत्वात् प्रतियोगिना निरालम्बनत्वेनानिराकृता{२,५३}सती चैत्रादिस्वरूपपर्यालोचनयालम्बनप्राप्तिः केन वारयितुं शक्या. स मानविषयोपनिपातिनोर् हि विरुद्धार्थगोचरयोः प्रत्यययोर् बाध्यबाधकभावो भवति, यथेदं रजतं नेदं रजतम् इति चानयोः. न चेह तथा. चैत्रादिप्रत्यया हि स्वविषयं स्थापयन्ति. न च तन्निरालम्बनबुद्धिः प्रतिक्षिपति, अर्थाभावात्. स्वांशगोचरा हि सा. अतो ऽस्याः स्वांशो विषयः. चैत्रादिप्रत्ययानां च चैत्रादय इति स्पष्टो विषयभेद इति किं केन बाध्यत इत्य् उच्यते. तद् एतद् आह -- चैत्रादीति द्वयेन || ६५ -- ६६ ||
SK
किञ्च यत् तत् पूर्वम् उक्तं कर्तृत्वे करणत्वे वा प्रत्ययत्वे शब्दो ऽपि प्रत्ययशब्दवाच्य इति, तद् यदि तथैव प्रत्ययशब्दो ऽप्य् अत्र प्रतीतिकर्तृकरणत्वात्मना प्रत्ययत्वेनोपादीयते, तत्संवित्त्यालम्बनत्वं चैत्रादीनां वार्यते, चैत्रादयः प्रत्ययशब्दसंवित्त्यालम्बना न भवन्तीति. ततस् तस्याचेतनत्वेन तत्संवित्त्यालम्बनत्वं चैत्रादीनां नास्ति अंशे सिद्धसाधनम् एवेत्य् आह -- यदीति
SK
अथ तु बुद्ध्युत्पादनशक्तिविरहस्तस्यानालम्बनत्वम् इत्य् उच्यते प्रत्ययशब्दो निरालम्बन इति, किम् उक्तं भवति. न किञ्चिद्विषयां बुद्धिम् उत्पादयितुं शक्यत इति. ततस् तेनाशक्तेन पक्षो न बोधित इति साध्यं न सिध्यतीत्य् आह -- बुद्ध्युत्पादनेति. साध्यासिद्धौ कारणम् आह -- साधनस्येति ||
SK
{२,५४} पूर्वाभ्युपगमविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- न चेति त्रयेण. न तावदनभिधायकेषु पदेषु साधनवाक्यं प्रयोगम् अर्हति. न चाभिधानम् अर्थसम्बन्धादृते पदानां सम्भवति. न च सम्बन्धो भेदम् अन्तरेण. न च भेदः शब्दार्थगतभेदं बोधयन्त्या धिया विना (?न) सम्भवति. तद् अत्र साधनं प्रयुञ्जानेन भिन्नौ शब्दार्थाव् अभ्युपगन्तव्यौ. तथा सति प्राश्निकाः सभ्या गृह्णन्ति च सावयवं साधनवाक्यं पृथक् च पक्षहेतुदृष्टान्तान् वादिप्रतिवादिनौ चेति. यावद् इदं नावस्थाप्यते न तावद् व्युत्थित प्रतिपादनाय साधनस्य प्रयोगो भवति. एतच् च सर्वम् अभ्युपेत्य निरालम्बनत्वे साध्यमाने भवति पूर्वाभ्युपगतविरोध इति || ६९ -- ७१ ||
SK
आप्ततमत्वाभिमतबुद्धाभिप्रायविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- धर्मेति भेदोन्तेन. यावद् धि धर्माधर्मौ भिन्नौ परमार्थौ न सिध्यतः शिष्यश् चोपदेश्यः आत्मा चोपदेष्टा, तावन् न धर्माधर्मोपदेशो घटत इति. उपदिष्टाश् च चैत्यवन्दनादयः शिष्येभ्यो धर्मत्वेन बुद्धैः. अतश् चेष्टादर्शनेन सर्वम् अनुमतं बुद्धानाम् इति तेषाम् आशय उन्नीयते. अतस् तद्विपरीतवचने भवति तदभिप्रायविरोध{२,५५}इति. अपि च क्वचित् सूत्रविशेषे स्फुटम् एव तैर् बाह्यार्थो ऽभिमतः यदाश्रित्य सौत्रान्तिकेन बाह्यार्थसद्भावो ऽसङ्गीकृतः, अतस् तदीयागमविरुद्धो ऽप्य् अयं पक्ष इत्य् आह -- स्फुटम् इति || ७२ -- ७३ ||
SK
तथा सर्वलोकप्रसिद्धमहीमहीधरोदधिनिषेधाल् लोकविरुद्धो ऽपीत्य् आह -- सर्वेति. अपि च सर्वज्ञानानाम् अनालम्बनत्वे कृत्स्नसाधनज्ञानमिथ्यात्वात् सर्वसाधनाभावो वा यथेष्टं पक्षादिन्यूनत्वं वा शक्यम् आपादयितुम् इत्य् आह -- कृत्स्नेति. यदि तु न साधनज्ञानं मिथ्येत्य् उच्यते, ततः पक्षादिप्रत्ययैर् एव हेतोर् अनैकान्तिकत्वम् इत्य् आह -- तेषाम् इति || ७४ -- ७५ ||
SK
यदि पक्षादिग्राहिव्यतिरिक्ता एव प्रत्यया निरालम्बनत्वेन प्रतिज्ञायन्ते, ततस् तद्व्यतिरेक[७०९]ग्राहिणः प्रत्ययस्य पक्षाद्यविषयत्वान् मृषात्वम् आपद्यत इत्य् आह -- तदन्यस्येति. अभ्युपगमे दोषम् आह -- तन्मिथ्येति. तदन्यप्रत्ययमिथ्यात्वे हि यत् तेन पक्षादिप्रत्ययव्यतिरेकग्राहिणा गृहीतं तन्मिथ्येति सर्वमिथ्यात्वम् आपद्यत इति
SK
__________NOTES__________
SK
[७०९] कि (KA)
SK
कथं न सिध्यत्य् अत आह -- स्तम्भेति. व्यतिरेकग्राहिप्रत्ययमिथ्यात्वे हि न स्तम्भादिज्ञानेभ्यः साधनज्ञानस्य कश्चिद् विशेषः. तद्वद् एव तु साधनज्ञानम् अपि मिथ्या भवेद् इति. एतद्दोषपरिहारार्थं तु व्यतिरेकग्राहिप्रत्ययव्यतिरिक्ता{२,५६}एव प्रत्यया यदि पक्षीक्रियन्ते, ततो व्यतिरेकग्राहिप्रत्ययव्यतिरेकग्राहिणस् तद्व्यतिरेकान् मिथ्यात्वप्रसक्तौ सर्वपूर्वासिद्धिः, पुनर् अपि तदन्यविशेषणे ऽनवस्था. यत्रैव तु परः क्वचिद् अवतिष्ठते तन्मिथ्यात्वात् पूर्वपूर्वाभावो दर्शयितव्य इत्य् आह -- यावद् इति. किञ्चाद्यपक्षात् प्रभृति य एते तदन्यप्रतिज्ञादिभिः पक्षा दर्शिताः, तेषु सर्वेषु विरुद्धाव्यभिचारित्वम् अनुमानविरोधो वेत्य् आह -- विरुद्धेति || ७७ -- ७८ ||
SK
कथम् एतद् उभयम् इत्य् आह -- इत्थम् इति. इत्थं वक्ष्यमाणप्रकारेण. अत्र प्रतिसाधनं वक्तव्यम् इति. तद् एव प्रतिसाधनं दर्शयति -- बाह्येति. बाह्यार्थालम्बना बुद्धिर् इति धीर् धर्मिणी. सम्यग् इति साध्यो धर्मः, बाधकापेतबुद्धित्वात्, स्वप्नज्ञानादिबाधबुद्धिवत्. इदं च प्रसिद्धावयवत्वेन निरालम्बनानुमानाद् बलवद् इति तस्यानुमानबाधो भवति. यदि तुल्यबलत्वम् एव मन्यते, ततो विरुद्धाव्यभिचारित्वम् इति विवेको दर्शयितव्यः. (स्वार्थिकस् त्व् इति?) यदि तु स्वप्नादिबाधबुद्धिर् अपि मिथ्येति ब्रूयात्, ततस् तेषाम् अबाधितत्वाद् असत्यत्वे दृष्टान्ताभाव इत्य् आह -- सापीति || ७९ -- ८० ||
SK
किञ्च भिन्नं ज्ञानमात्रं क्षणिकम् इति या बुद्धयः ताः सम्यङ् मिथ्या वा, सत्यत्वे तावदनैकान्तिकत्वम् इत्य् आह -- विज्ञानेति. तन्मिथ्यात्वाभ्युपगमे{२,५७}तु सविशेषणपक्षीकृतज्ञानाभावात् पक्षबाध इत्य् आह -- तन्मिथ्येति
SK
एवं चासति ज्ञाने शून्यताप्रमाणार्थ इति को बद्धः को वा मुक्तो भवेत्. तद् एतद् आह -- तथेति. मोक्षयन्तो ऽपि प्रव्रज्यादिर् एवं सति विफलस् तपस्विनाम् इत्य् आह -- तत इति
SK
यदि तूच्यते -- सविकल्पकेन ज्ञानमात्रपक्षो व्यवस्थाप्यते सर्वविकल्पानां मिथ्यात्वाद्, निर्विकल्पकेन त्वात्मानं लभत इति. तद् अयुक्तम्. न हि ज्ञानमात्रं विश्वं क्षणिका भावा इत्य् आदि निर्विकल्पकेन कस्यचित् प्रतिभाति. अनुमानेन त्य् एवञ्जातीयका अर्थाः साध्यन्ते. तच् च सविकल्पलत्वान् मिथ्यैवेति ज्ञानास्तित्वादिपक्षो दुर्लभः. अतो युक्तं मोक्षयत्नस्य वैफल्यम् इत्य् आह -- विकल्पेति सार्थेन. अत्र च निर्विकल्पकसत्यत्वे स्तम्भादिधियाम् अपि तथाविधानां सत्यत्वापत्तेर् न बाह्यार्थाभावः सिध्यतीति वक्तव्यम्. तदुपेक्ष्यैवोत्तरविभवात् परिहारान्तरम् उक्तम् इति
SK
अपि च योगिभ्यो ऽर्वाचाम् अस्मदादीनां सर्वम् एव ज्ञानं कल्पनास्पदम् इति मिथ्याज्ञानम् एव. न हि प्रधानं जगत्कारणं पञ्चविंशतितत्त्वम् इत्यादिज्ञानेभ्यो ज्ञानमात्रं जगत् क्षणिकाः सर्वे भावा इत्यादिप्रत्ययानां कश्चिद्विशेषो दृश्यते.{२,५८}सर्वस्य सविकल्पकत्वेन मिथ्याभ्युपगमात्. अतो गृह्यमाणविशेषेषु तीर्थकरप्रवादेषु यो ऽयं साङ्ख्यादिसिद्धान्तपरिवर्जनेन बौद्धसिद्धान्त एकस्मिन् पक्षपातः, तत्र न कश्चिद्धेतुर् उपलभ्यते. न च कल्पनास्पदत्वा[७१०]विशेषे ऽपि अर्थसदसद्भावकृतम् इन्द्रियसान्निध्यविप्रकृष्टकृतं वा सम्यङ्मिथ्यात्वं सम्भवति. सर्वकल्पनानाम् असदर्थत्वात्. सर्वबाह्यापलापे चास्य विभागस्य दुर्लभत्वात्. तद् एतद् आह -- सर्वं चेति द्वयेन
SK
__________NOTES__________
SK
[७१०] त्व (KHA)
SK
अपि च बुद्धीनां मिथ्यात्वं मृगतृष्णादिज्ञानेषु बाधकेन व्याप्तम् उपलब्धम्. न च जाग्रद्बुद्धयो बाध्यन्ते. अतो व्यापकनिवृत्त्या व्याप्यनिवृत्तिर् इत्य् अभिप्रायेणाह -- मृषात्वम् इति
SK
विनापि बाधकं मृषात्वाभ्युपगमे क्षणभङ्गादिप्रत्ययमिथ्यात्वाद् अव्यवस्थेत्य् आह -- बाधाद् इति. अपि च सम्यङ् मिथ्येति च प्रतियोगिसापेक्षम्. किञ्चिद् धि सम्यगपेक्ष्येतरन्मिथ्या भवति, मिथ्या च किञ्चिद् अपेक्ष्य परं सत्यम्. तव तु सर्वमिथ्यात्वाभ्युपगमे किंकृतः सम्यङ्मिथ्यात्वविभागः. अस्माकं तु जाग्रज्ज्ञानम् एव सत्यं प्रतियोग्य् अपेक्ष्य स्वप्नादिज्ञानं मिथ्या भवतीति युक्तं, तद् एतद् आह -- प्रतीति
SK
न केवलं स्वप्नादिज्ञानानां प्रतियोग्यभावान् मिथ्यात्वं न सिध्यति, जाग्रज्ज्ञानानाम् अपि शोभनाभिधानसत्यप्रतियोग्यभावान् मिथ्यात्वं न सिध्यतीत्य् आह -- न चेति
SK
{२,५९} जाग्रज्ज्ञानप्रतियोग्यपेक्षया स्वमते स्वप्नादिधियां मिथ्यात्वम् उक्तम्. तत्रैवोपपत्तिम् आह -- स्वप्नेति. स्वप्नादिप्रत्ययविधर्माणो हि जाग्रत्प्रत्ययाः. सर्वलोकप्रसिद्धा हि ते. स्वप्नस् तु कस्यचिद् एव निद्राक्रान्तान्तःकरणस्य भवति. अतो यथा तद्बाधके प्रत्यये सार्वलौकिके स्वप्नादिप्रतियोगित्वम् एवम् अन्येषाम् अपि जाग्रत्स्तम्भादिज्ञानानां तत्प्रतियोगित्वं, तदपेक्षया च स्वप्नादिधियां मिथ्यात्वम् इति
SK
अत्र चोदयति -- योगिनाम् इति. सत्यं प्रतियोगिसापेक्षं मिथ्यात्वं, जाग्रद्बुद्धीनाम् अपि भावनाबलनिष्पन्नप्रतियोगिज्ञानापेक्षया मिथ्यात्वं भविष्यति. सत्या हि सा विगलितनिखिलकल्मषस्य स्फुटाविकल्पप्रकाशा जायते. अतो युक्तं तदपेक्षया सांसारिकज्ञानानां मिथ्यात्वम् इति
SK
ननु कस्यचिद् एव भावनाप्रकर्षकाष्ठाप्राप्तस्य योगिनो जाग्रद्बुद्धिपरिपन्थिनी बुद्धिर् आविर्भवति. तास् तु सर्वलोकप्रसिद्धा एवेत्य् उक्तम्. अतः कथम् एकदेशभुवा ज्ञानेन सार्वलौकिकाः प्रत्यया बाध्यन्ते, अत आह -- प्राप्तानाम् इति. अयम् अभिप्रायः -- तावद् एव हि संसारिणो न बाधं मन्यन्ते, यावन् न बुद्धभूमिम् अधिरोहन्ति. प्राप्ततद्भूमयस् तु सर्व एव प्राणभृतो बाधं मन्यन्ते. अतो न बह्वल्पविषयतया कश्चिद् विशेष इति सिद्धं योगिज्ञानेन प्रतियोगिना जाग्रद्बुद्धीनां मिथ्यात्वम् इति
SK
अत्र दूषणम् आह -- इहेति
SK
{२,६०} न तावद् वयम् अद्यत्वे कस्यचिज्जाग्रद्बुद्धिपरिपन्थिनं प्रत्ययम् उपलभामहे. योगिनस् तु किं भविष्यति न वेति न नः प्रमाणं क्रमत इति. विनैव तु प्रमाणेन योगिज्ञाने प्रतियोगिनीष्यमाणे शक्यम् अस्माकम् अपि वक्तुम्. अस्मदीयानां योगिनां त्वद्[७११]उक्तप्रतियोगिनी विपरीता वा बाधबुद्धिर् भविष्यति स्वाच्छन्द्ये हि नियामकाभावाद् इत्य् आह -- योगिनाम् इति
SK
__________NOTES__________
SK
[७११] नु (KA)
SK
बौद्धोक्तज्ञानमात्रपक्षविधर्मविविधविषयोपदर्शनेन प्रतियोगिनी साक्षाद् एव वा नैतद् एवम् इति प्रतिक्षेपात् तद्विषयविपरीतेति. न चैवम् आवयोर् अविशेष इति वक्तव्यम्. अनुमानेन हि वयं योगिबुद्धीनाम् ईदृशत्वम् उपपादयामः. य एव हि कश्चित् प्रमाता गृहीतस् तेनैव दृष्टान्तेन योगिनाम् अपि बहिर्विषयबोधो ऽनुमीयते. सर्वस्याद्यतनस्य ग्रहीतुर् बहिर्विषयबोधात्. ज्ञानमात्रं तु निर्मुक्ताखिलनीलादिविभागम् अवयन्ति योगिन इत्य् अदृष्टान्तः, तद् एतद् आह - ईदृक्त्वेति. भवति चात्र (प्रयोगः.) योगिनस् त्वदुक्तविपरीतबुद्धिमन्तः, बोद्धृत्वाद् अद्यतनबोद्धृवद् इति
SK
ननु योगिनां जाग्रद्बुद्धिप्रतियोगिनी बुद्धिर् उत्पद्यत इति न प्रमाणं क्रमत इति यद् उक्तं[७१२]तद् अयुक्तम्, कथम् अनुमाने जीवति तदप्रमाणकम् इति शक्यम् अभिधातुम्. एवं ह्य् अत्रानुमीयते -- जाग्रद्बुद्धयः सप्रतियोगिन्यो बाध्या वा, बुद्धित्वान्मृगतृष्णादिबुद्धिवद् इति, तद् एतद् आह -- अथेति. प्रतियोगिताबाध्यत्वे प्राग् एव व्याख्याते इति
SK
__________NOTES__________
SK
[७१२] क्तं क (KHA)
SK
एतद् अपि दूषयति -- इष्टम् इति (बाध्य)त्वमन्तेन. सत्यं जाग्रद्बुद्धीनां हि मृगतृष्णादिबुद्धयः प्रतियोगिन्यः, एतदपेक्षयासां सत्यत्वावगतेः.{२,६१}अतः सिद्धसाधनं, बाध्यत्वम् अपि सिद्धम्. बुद्धिरूपेण हि सत्यबुद्धयो ऽपि न मिथ्याबुद्धिभ्यो भिद्यन्ते. अतः तासु बाध्यासु ता अपि बाध्या भवन्तीति वाक्प्रवृत्तिर् इति. अन्यथा सिद्धसाधनं दर्शयति -- ग्राह्येति. सत्यबुद्धीनां ग्राह्याद् अन्यद् ग्राह्यान्तरं मिथ्याबुद्धीनां, तस्मिन् बाध्यमाने सर्वेषां ग्राह्यत्वेनाभेदात् सत्यधीग्राह्यम् अपि बाधितम् एव भवति. अपि च यान्य् एव योगिज्ञानानि जाग्रद्धियां बाधकानीष्यन्ते, तैर् एव हेतोर् अनैकान्तिकत्वम् इत्य् आह -- बाधकैर् इति. तदन्यविशेषणोपादाने च पूर्ववद् अनवस्था वाच्येत्य् आह -- तदन्यत्व इति
SK
विशेषविरुद्धश् चायं हेतुर् इत्य् आह -- मिथ्येति सार्धेन. स्वप्नादिबुद्धीनां हि मिथ्याभूताः संसारिबुद्धयः प्रतियोगिन्यो दृष्टा इति प्रतिबन्धबलेन बुद्धित्वेन हेतुना जाग्रद्बुद्धीनां मिथ्याधीप्रतियोगित्वम् एव साध्यते. तत्र यः प्रतियोगिनीनां धियां सत्यत्वं विशेष इष्टः, स बाध्यते. तथा रागादिक्षयनिमित्तासौ योगिनाम् अधिगतिर् इति यः प्रतियोगिन्या योगिबुद्धेर् विशेष इष्टः, तस्य सर्वस्य बाधाद् भवति विशेषविरुद्धो हेतुर् इति. अयं च धर्मविशेषबाधाद् विरोधो ऽनुसन्धातव्य इति
SK
दूषणान्तरम् आह -- महाजनस्येति. अयम् अभिप्रायः -- शक्यते हि प्रतिसाधनं वक्तुं, जाग्रद्बुद्धयः सत्याः इदानीं महाजनस्याबाधात् पराभिमतयोगिबाधबुद्धिवद् इति. इदं च यदि बाध्यत्वानुमानेन तुल्यबलं ततः सप्रतिसाधनम्. अथ तु प्रसिद्धावयवत्वेन बलवत् ततो ऽनुमानबाध{२,६२}इति प्राग् अप्य् उक्तम् एव. सर्वथा तावत् परसाधनं प्रतिबध्नातीत्य् अत्र तात्पर्यम्. योगिज्ञानेन बाधाद् धेतोर् असिद्धिर् मा भूद् इति इदानीम् इत्य् आह. योगिनां बाधबुद्धेर् अप्य् अनागताया महाजनेनाबाधाद् व्याप्तिसिद्धिर् इति
SK
मूलसाधने च ये धर्मादिविकल्पैर् दोषा उक्ताः, ते ऽप्य् अत्रानुमाने ऽनुसन्धातव्या इत्य् आह -- पूर्वेति. एवं पुनस् तत्पातनिकां कृत्वा तत्रैव दूषणान्तरम् आह -- तस्य चेति. तस्य च पूर्वसाधनस्याधुना दोषान्तरम् अभिदध्महे. धर्मधर्मिणौ विकल्प्य दूषितौ. हेतुर् अपि तस्योभयसिद्धो नास्ति, साध्याभेदात्. न हि प्रत्यय एष साध्ये स एव हेतुर् वाच्यो भवति, प्रतिज्ञार्थैकदेशत्वात्. अतो हेतुशून्यं साधनम् इति. ननु सामान्यस्य हेतुतया पक्षैकदेशत्वं प्रतिक्षिप्तम् अत आह -- सामान्यम् इति. उक्तम् इदम् अस्माभिर् उभयसिद्धो हेतुर् नास्तीति. भिन्नाभिन्नं हि प्रत्ययत्वं तवासिद्धम्, अत्यन्ताभिन्नं च न नः किञ्चिद् अस्तीति सिद्धं नोभयसिद्धो हेतुर् अस्तीति
SK
सारूप्यान्यनिवृत्तिरूपं तु सामान्यम् उपरिष्टान् निषेत्स्यत इत्य् आह -- सारूप्येति
SK
उपसंहरति -- तस्माद् इति. यदि तु मा भूत सामान्यं, विशेष एव{२,६३}हेतुर् उच्यते, तद् अयुक्तम्. अपक्षधर्मत्वाद् अन्वयाभावाच् चेत्य् आह -- विशेषयोर् इति. द्वाव् अत्र विशेषौ परिप्लवेते पक्षस् तत्तुल्यापरनामा सपक्षश् च. पूर्वत्र हेतोर् अन्वयाभावः. परत्रापक्षधर्मत्वम्. पूर्वं तु विशेषस्यैव हेतुत्वे साध्याभेदाद् अवाच्यत्वम् उक्तम्. इदानीं विकल्प्य दूषणान्तराभिधानम् इति. ननु माभूत् सामान्यविशेषात्मको हेतुः, बुद्धिर् एव त्व् अर्थशून्या हेतुर् भविष्यति. उत्पद्यते हि नः प्रत्ययत्वाद् इत्युक्ते ऽनर्थिका काचिद् बुद्धिः. सर्व एवायं हेत्वादिव्यवहारो बुद्धिमात्रप्रभावित एवेति सौगता मन्यन्ते. अत आह -- न चेति
SK
अत एव दोषद्वयान् नार्थशून्या बुद्धिर् हेतुर् भवति. न हि सा बुद्ध्यन्तरं धर्मः. न हि क्षणिका साध्यान्वयभाजनम् इत्य् अप्रसिद्धाश्रयश् चायं हेतुर् विशेष्यग्राहिप्रत्ययनिरालम्बनत्वेन तदप्रसिद्धेर् इत्य् आह -- आश्रयेति. अप्रसिद्धविशेष्यं पक्षम् आचक्षाणैर् एवास्माभिर् हेतोर् आश्रयासिद्धताप्य् उक्तप्रायैवेत्य् अर्थः. तथा निरालम्बनता चेह सर्वथा यदि साध्यते विशेषणाप्रसिद्ध्यर्थं यो विकल्पः कृतः, तेनैव हेतोर् विरुद्धत्वं दृष्टान्ते च साध्यहीनता द्वे एते बोधिते. सर्वथा निरालम्बनत्वे हि साध्ये तथाविधस्य कस्यचिद् असिद्धेर् व्याप्तिबलेन यथाकथञ्चिन्निरालम्बनत्वं सिसाधयिषतः सर्वथा निरालम्बनत्वविरुद्धं प्रत्ययत्वहेतुः साधयतीति विरुद्धत्वं, स्वप्नादिज्ञानानाम् अपि सर्वथा निरालम्बनत्वाभावात् साध्यहीनो दृष्टान्तः. तद् एतद् आह -- तथेति. साध्यहीनतां प्रपञ्चयति -- स्वप्नेति
SK
{२,६४} किम् इति नेष्यते, अत आह -- सर्वत्रेति. अस्ति हि सर्वज्ञानेष्व् एव देशान्तरादिस्थम् आलम्बनम्. यद् एव हि क्वचिद् देशे काले वा दृष्टं तद् एव देशान्तरादौ प्रतीयत इत्य् एतद् एवानालम्बनत्वम्. न तु सर्वथा ग्राह्याभाव इति. ननु यद् एव क्वचिद् देशे काले वाननुभूतपूर्वं, तद् अपि स्वप्नज्ञाने प्रकाशते. अतः कथं तस्य देशान्तरादिस्थबाह्यालम्बनत्वम् अत आह -- जन्मनीति. अयम् अभिप्रायः -- पूर्वानुभूतगोचरा हि मनोमात्रसहाया स्वप्नस्मृतिः. दोषवशाच् च प्रत्युत्पन्नबोधः. न चेह प्रतिनियमः यद् एकत्र जन्मन्य् अनुभूतम् एव स्वप्ने ऽवसीयत इति, जन्मान्तरानुभूतम् अपि कुतश्चिद् अदृष्टाद् मनसि विपरिवर्तमानम् अलम् एव भवितुं गोचरः स्वप्नादिधियाम्. अतो ऽस्ति तावद् विभ्रमाणाम् अपि कथञ्चिद् अवस्थितं बाह्यालम्बनम्. एकत्रापि जन्मनि कालान्तर इत्य् अर्थः
SK
एवम् अन्तःकरणजन्मनः स्वप्नविभ्रमस्यालम्बनम् उक्तम्. बाह्येन्द्रियजन्मनां विभ्रमाणाम् इदानीं बाह्यम् आलम्बनं दर्शयति -- अलातेति धियोऽन्तेन. अलातचक्रज्ञाने शीघ्रभ्रमणदूषितम् अलातम् एवालम्बनम्. गन्धर्वनगरविभ्रमे तु सन्निवेशविशेषावस्थितान्य् अभ्राण्य् एव दूरत्वात् पूर्वावगतगृहाकारेणालम्ब्यन्ते. तद् इह पूर्वदृष्टगृहाण्य् अभ्राणि च तत्सन्निवेशविशेषभ्राञ्ज्यालम्बनम्. तद् इह द्विप्रकारो विषयदोषो विभ्रमे कारणम्. मृगतोयज्ञाने पूर्वानुभूततोयमूषरं च सूर्यरश्मितप्तम् एवालम्बनम्. उभयं हि विगाह्य भ्रान्तिर् आत्मानं लभते, तदन्यतरापाये ह्य् अभावात्. इह चान्तःकरणविषयदोषाभ्यां विभ्रमः. पिपासादूषितान्तःकरणस्य हि सूर्यरश्मितप्तमूषरं तोयसदृशं तद्वदाभाति. शशविषाणबुद्धेस् तु मानसाद् एव कुतश्चिद् भ्रमनिमित्ताज्{२,६५}जायमानाया. गवादिद्रव्यान्तरगतं विषाणम् आत्मा च शशस्य कारणम्. उभयभावभावित्वाद् एकतरापाये ऽपि चापायाद् इति. ननु शशविषाणं नास्तीति बुद्धेर् न किञ्चिद् आलम्बनं न तावत् शशो विषाणं वा तत्संयोगो वास्यालम्बनम्. प्रतिषेधरूपत्वान् नाभावः. स्वतन्त्रानिर्भासात्. तथा हि -- न वयं शशविषाणं नास्तीत्युक्ते स्वतन्त्रम् अभावम् अवगच्छामः. अतो ऽवश्यमात्मालम्बनम् एवेदं नास्तीति ज्ञानं वक्तव्यम्, अत आह -- मौण्ड्यम् इति. अस्य शृङ्गस्य निषेधे शशशिरोमौण्ड्यं कारणम्. एतद् उक्तं भवति -- यद्य् अपि स्वतन्त्रो ऽभावो न प्रतीयते, भावाश्रयस् तु प्रतीयत एव. अतः शशमूर्धवर्तिनो ऽवयवा उपर्युपरि हीयमाना दीर्घदृढसन्निवेशरूपे(?णा/ण)परिणता मौण्ड्यापरनामानः शृङ्गाभावात्मना ज्ञायन्ते. यद् धि यथा निर्भासते तत् तथेइवालम्बनम्. अभावो ऽपि पराधीन एवानुभूयमानस् तथैवालम्बनं भविष्यति. ज्ञानं तु सद्रूपं नास्या नास्तीतिबुद्धेर् आलम्बनं भवितुम् अर्हति. आह च --
SK
भावरूपं च विज्ञानं नास्तीति कथम् उच्यते |
SK
इति. यत् तर्ह्य् अनाश्रितविषयं शून्यशब्दाज् ज्ञानम् उत्पद्यते तदनालम्बनं भवेत्, सर्वाभावस्य प्रत्येतुम् अशक्यत्वाद्, विशेषाप्रकाशाच् च. अत आह -- वस्त्व् इति. अयम् अभिप्रायः -- न स्वतन्त्रं शून्यज्ञानम् उत्पद्यते किञ्चिद् धि केनचित् शून्यम् अवसीयते. गृहं चैत्रेण जगद् वन्ध्यासुतेन. अतः केवलगृहाद्यालम्बनम् एव शून्यज्ञानं नानालम्बनं स्वांशालम्बनं वेति
SK
एवम् अङ्गुल्यादिवाक्यजनितशाब्दविभ्रमाणाम् अपि सन्निधिदोषदूषिता एव पदार्थाः कारणम् इत्य् आह -- कारणत्वम् इति. यस् तर्ह्य् अत्यन्ताननुभूतपूर्वः{२,६६}प्रधानादिर् अर्थो बुद्ध्या साङ्ख्यादिभिः कल्प्यते, तत्र न किञ्चिज् ज्ञानस्यालम्बनम् उपलभ्यते. विषाणादिर् हि क्वचिद् अदृष्टः क्वचित् तूपलभ्यत इति युक्तम्. स्वरूपासतस् तु कथं कुत्र वा कल्पनम् अत आह -- अत्यन्तेति. पृथिव्यादि सूक्ष्मम् एव हि तैः प्रधानम् इति कल्प्यते. स्थूलस्य हि जगतो नाकस्मान् निष्पत्तिर् उपपद्यत इति प्रधानं कल्प्यते. न च तदन्यत् परमाणुभ्यो घटत इति कथञ्चित् सूक्ष्मरूपावस्थिताः पृथिव्यादय एव प्रधानबुद्ध्या गृह्यन्ते. सो ऽयं सूक्ष्मरूपतया तेषाम् अग्रहणात् तद्व्यतिरिक्तः प्रधानभ्रमः. परमार्थतस् तु तत्स्थाने प्रधानपरिकल्पनाद् एव तदालम्बनं प्रकल्प्यत इति. अतः प्रकृतं विपरिणतं प्रकल्पनं तस्येति परामृश्यत इति
SK
नन्व् अत्र प्रकरणे ऽवर्तमान एवार्थो बुद्ध्या विषयीक्रियत इत्य् उक्तम्. तद् अयुक्तं, कथं हि वर्तमानाया बुद्धेर् अवर्तमानम् आलम्बनं भविष्यति. न ह्य् अवर्तमानघटविषयं वर्तमानघटज्ञानम् उपलब्धम् अत आह -- एष इति. यद् एव तद् वर्तमानार्थत्वम् इन्द्रियसन्निकृष्टार्थविषयत्वं च. अयं प्रत्यक्षप्रमाणधर्मो न ज्ञानान्तराणाम्. न तु विभ्रमाः प्रत्यक्षं, तदाभासत्वाद् इति
SK
ननु किम् इदं प्रत्यक्षधर्म इति. न ह्य् अत्र वैदिको विधिर् अस्त्य् एवन्धर्मणा प्रत्यक्षेण भवितव्यम् इति. यथा त्व् अवर्तमानं न ज्ञानं जनयितुं क्षमम् इति प्रत्यक्षं वर्तमानविषयम्, एवम् आभासम् अपि तथा भवितुम् अर्हति. कथं हि तत्रावर्तमानेन ज्ञानम् उत्पादयितुं शक्यम् असतः करणत्वायोगात्. तद् एतद् आशङ्कते तावत् -- कथम् इति. परिहरति -- कुत इति. अवर्तमानं ह्य् अर्थक्रियान्तरेष्व् असमर्थं दृष्टं, ज्ञानं तु जनयत्य् एव. भूतभविष्यन्त्योर् अपि वृष्ट्योर् अनुमानोदये कारण[७१३]भावात्. प्रत्यक्षं त्व् इन्द्रियसन्निकर्षानुविधायि. न चात्रावर्तमानेनेन्द्रियं सन्निकृष्यत इति भवति वर्तमानविषयम्. दोषसहायेभ्यस् त्व् इन्द्रियेभ्यः प्राचीनानुभवजनितसंस्कारवशेनावर्तमानम् एव वर्तमानम् इव भासत इति न नोपपन्नम्. ननूक्तम् असतः कारणत्वानुपपत्तिर् इति. शक्तिमद् धि{२,६७}कारणम्. नचासतः शक्तिसमवायः सम्भवति. न. सत्त्वात्. यदि तदेकान्तम् असद् भवेद्, न ज्ञानं जनयेत्. अस्ति तद् देशान्तरादिषु रजतादीति न तस्य शक्तिसमवायो ऽनुपपन्नः. सन्निधानं तु तस्य नास्तीति क्वचिद् एवावर्तमानम् आख्यायते. यत् तर्हि नास्त्य् एव स्वरूपतः यथा वृष्ट्यादि, तत् कथं ज्ञानस्य कारकम् अतीतम् अनागतं वा. तत्रापि सामान्यानुमानात्. तेनात्मना सत एव कारकत्वम्. अथ वा यदा तावत् तदासीत् यदा तावच्छक्तिमता कारकीभूतेनात्मनि ज्ञानं जनितं, तेनापि संस्कारः, तद् एवं परम्परया विषयशक्तिर् आत्मनि सङ्क्रान्ता. स चात्मा नित्य इति सदाश्रया शक्तिः कार्याण्य् आरभते. तयैव चात्मसमवायिन्या शक्त्या स्मृत्यादिज्ञानेषु जायमानेष्व् अतीतानागतार्थाः कारणम् इत्य् उच्यते याग इव विनष्टो ऽपि शक्तिद्वारेण. भवतु तावद् अतीतस्मरणे, अनागता(व)बोधे तु कथम्. तत्राप्य् अगृहीतपूर्वस्य सम्बन्धाग्रहणेनानुमातुम् अशक्यत्वाद् अवश्यं पूर्वानुभवो ऽभ्युपगन्तव्यः. अतस् तत्रापि परम्परया कार्यशक्तिसङ्क्रान्तेर् उपपन्नं कारकत्वम्. नन्व् अन्य एव पूर्वानुभूतो विशेषो ऽन्यश् चायं यः सम्प्रति भविष्यत् तया ज्ञायते. अतः कथम् अन्याहितशक्त्यान्यस्य कारकत्वम्. न. सामान्यात्मनैकत्वात्. तस्यैव च रूपस्यानुमेयत्वाद् इति
SK
__________NOTES__________
SK
[७१३] णा (KHA)
SK
नन्व् एवम् अपि न तावद् यथाप्रतिभासं भवद्भिर् अर्थो ऽभ्युपगतः. सन्निहितो हि प्रतिभासविषयः. न चासौ तथेष्यते. प्रतिभासविसंवादिवस्त्वभ्युपगमे न किञ्चित् प्रमाणं पश्यामः. तथा सति हि स्वांशालम्बनत्वं कल्पितं बाह्यालम्बनत्वं वा न कश्चिद् विशेषः, अत आह -- बाह्येति. अयम् अभिप्रायः - ज्ञानस्य[७१४]बाह्यविषयसदसद्भावगोचरो ऽयम् आवयोर् विवादः. न च बाह्यसद्भावे प्रतिभासविसंवादः. भ्रान्तिज्ञानेष्व् अपि बहिर् एव विषया भासन्ते. इदं तोयम् इति मृगजलज्ञानं नाहं तोयम् इति. अस्ति च तद्देशान्तरे.{२,६८} न हि बाधकेनापि बहिर्विदितस् तोयसद्भावो बाध्यते. न हि तत् तोयं नास्तीति भवति मतिः. किन् तु इदं न तोयम् इति. किम् उक्तं भवति. इह तोयं नास्तीति. तद् इह क्वचिद् एव तोयसंयोगो वार्यते न तोयम्. अतः सन्निधिबाधे कः प्रतिभासविरोधः. नन्व् एवम् अपि सन्निधिज्ञानम् एवासत्सन्निध्यालम्बनत्वेन निरालम्बनं भवेत्. न. सन्निधिर् इत्य् ऊषरसंयोगस् तोयस्यापदिश्यते सो ऽपि क्वचित् प्रसिद्ध एवेह प्रतिषिध्यत इति न किञ्चिद् अनालम्बनम्. अतो यथाप्रतिभासम् एव सर्वम् इदम् उपदर्शितम् इति न क्वचित् प्रतिभासविसंवाद इति
SK
__________NOTES__________
SK
[७१४] स्थ (KHA)
SK
किम् इदानीम् अनालम्बनं नाम, न किञ्चित् तत्रभवतां, यद्य् एवम् अपह्नुतः सत्यमिथ्यात्वविभागः. अत आह -- तस्माद् इति ज्ञानमन्तेन. बाह्यम् एवान्यथासन्तम् अन्यथाप्रतिपद्यमानम् अनालम्बनं ज्ञानम् आचक्ष्महे. नासद् ग्राह्यम्. तद् एवं मिथ्योच्यते इति. अभावालम्बनस्य तर्हि ज्ञानस्य किम् आलम्बनं, न तावद् भावः, विरोधात्. नाभावः, तस्य भावाद् विविक्तस्यास्वतन्त्रस्यानिर्भासात्. अतो बलाद् अनालम्बनम् एवापतितम् अत आह -- अभावेति
SK
अत्र कारणम् आह -- भावेति. सत्यं न स्वतन्त्रो ऽभावो ऽवसीयते, भावधर्मो ह्य् असौ कथं स्वतन्त्रो ऽपनीयेत. अतस् त्वदुक्ताद् एव स्वतन्त्रानिरूपणात् कारणात् सदात्मनावस्थिते गवादौ वस्त्वन्तराभावात्मना यज् ज्ञानम् उत्पद्यते तदभावालम्बनम् उच्यत इति, इदं च प्राग् अप्य् उक्तम् अधुनोपपादितम् इति विवेकः. बौद्धानां तु सर्वसंविदाम् आत्मपर्यवसायित्वाद् अर्थसन्निध्यसन्निधिकृतविशेषाभावाच् च द्वयम् अपि निरालम्बनत्वम् अभावालम्बनत्वं च दुर्निरूपं, द्वयहेतोर् अभावात्. सति हि हेतौ सहेतुकं सद् एतन्निरूपयितुं शक्यते, न त्व् एतद् अस्तीत्य् आह -- भवताम् इति. भवन्मत इत्य् अर्थः
SK
{२,६९} तद् एवं तावद् दृष्टान्ते साध्यहीनता विवृता. इदानीं विरुद्धो हेतुर् इति दूषणान्तरम् आह -- प्रतिज्ञेति. यथा धर्मधर्मिबोधकप्रत्ययनिरालम्बनत्वान् न धर्मो धर्मी नोभयम् इति प्रतिज्ञादिदोषो ऽभिहितः, तथा समस्तव्यस्तयोर् धर्मधर्मिणोर् व्याप्तिबलेन स्वरूपस्वविशेषौ विघ्नन् विरुद्धो ऽपि प्रत्ययत्वं हेतुर् इति
SK
दृष्टान्तो ऽपि न केवलम् साध्यहीनः सर्व एव तु दृष्टान्तदोषास् तद्वचनाभावप्रभृति योजयितव्याः. न ह्य् एकस्मिन् ज्ञानमात्रे वस्तुनि दृष्टान्तवच(सः) साध्यांशो निरालम्बनत्वं, हेत्वंशः प्रत्ययत्वं, तस्य चासाध्यांशेन व्याप्तिः दृष्टान्तधर्मितद्धर्मता च साध्यसाधनयोर् इति सर्वम् इदम् उपपद्यते. अतो यथेष्टम् एव दृष्टान्तस्य तेन तेन वचनादिना न्यूनत्वं शक्यं वक्तुम् इत्य् अभिप्रायेणाह -- दृष्टान्तेति
SK
वैधर्म्यदृष्टान्तन्यूनश् चायं प्रयोग इति केचिद् अनुयुञ्जत इत्य् आह -- केचिद् इति. द्वेधा हि दृष्टान्तवचनसमयः. केचिद् व्याप्त्या साधर्म्य उक्ते ऽपि वैधर्म्यवचनं कार्यम् इति मन्यन्ते. तद् इदम् एकेषां मतेन परिचोदितम् इति केचिद् इत्य् उक्तम् इति. ननु च विपक्षाद् हेतुं व्यावर्तयितुं वैधर्म्यवचनं, न चेह विपक्षानुवृत्तिः सम्भवति. साधनभाष्यस्य तदन्तरेण हेतोर् विपक्षाद् व्यावृत्त्यसिद्धेः. अ(?न्ये तु/न्यैस् तु) हेतोः साध्येन व्याप्तिं दर्शयितुं दृष्टान्तवचनम्. तद् यदि सम्यक् साधर्म्यवचनाद् एव व्याप्तिर् अवगता, न सहभावमात्रं, न च विपरीतान्वयः, तदा किं वैधर्म्यवचनेनेति साधनभाष्यव्याख्यानावसरे वर्णितम्. उक्तं च परैर् अपि न वा तदभावात् तत्रावृत्तेर् इति. अतो{२,७०}वैधर्म्यस्यावचनम् इत्य् अदोषः. अत आह -- तदभावेति. तदभावाद् अवृत्तिर् इति यद् एतद् तवाभिधानं तस्यात्र प्रकृतसाधने ऽवसरो नास्तीति
SK
कथम् अनवसरो ऽअत आह -- विधिरूपेति. तदभावाद् अवृत्तेर् इति यद् उक्तं तस्यायम् अर्थः -- भावे प्रतिज्ञाते विधिरूपेणाभावो विपक्षो भवति. तदभावे च विपक्षे ऽभावस्य निस्स्वभावत्वान् न हेतोर् वृत्तिः सम्भवतीति न वैधर्म्यं वचनीयम् इति. एतद् अपि बौद्धा वक्तुम् अशक्ता एव. न हि तेषां क्वचिद् अपि प्रत्यक्षवद् विधिरूपेण हेतुः प्रकाशकः. व्यतिरेकप्रधानवादिनो हि ते. सर्वत्र साध्यान्वितहेतुसंविदो दुर्लभत्वात्. अतो विपक्षव्यावृत्तिमुखेनैव सर्वत्र हेतोर् गमकत्वम् आश्रितम्. न चासति वैधर्म्यवचने विपक्षव्यावृत्तिः शक्यते दर्शयितुम्. अतः सर्वत्रैव त्वन्मते वैधर्म्यदृष्टान्त एव वाच्यः. तद् एतद् उपेत्यापि तावद् उच्यते. भवतु विधिरूपप्रतिज्ञास्वभावस्य विपक्षत्वात् तदभावाद् अवृत्तिः. आलम्बनाभावात्मकत्वे तु निरालम्बनत्वे वस्तुनि साध्ये प्रतिज्ञाते वस्त्वात्मकं सालम्बनम् एव विपक्षः. तत्र च हेतोर् वृत्तिसम्भावनायां व्यतिरेको[७१५]वक्तुम् उचित एव. अतो वैधर्म्यन्यूनता सूक्तेति
SK
__________NOTES__________
SK
[७१५] के (KHA)
SK
विधिरूपप्रतिज्ञायाम् अपि वैधर्म्यस्य प्रयोजनाभावमात्रम्. अवस्त्वात्मके तु विपक्षे वैधर्म्यस्य प्रयोगः सम्भवत्य् एव. क्रियते चानुमानकुशलैः. अतो ऽवश्यं वाच्यं वैधर्म्यं, यन् नोच्यते तन् नोचितम् इत्य् आह -- तत्रेति. तद्वृत्तेन विधिरूपप्रतिज्ञा परामृश्यते. हिशब्दो हेतौ. यस्माद् अवस्तुविपक्षे प्रयोगः सम्भवति, तस्मात् सर्वत्रैव वैधर्म्यं वाच्यम्. तद् इहानवसरं प्रतिज्ञायोत्तरश्लोके पूर्वोत्तरार्धाभ्यां हिशब्दद्वयेन हेतुद्वयम् उक्तम् इति प्रयोगसम्भवम् एव दर्शयति -- यस्मिन्न् इति. शब्दो ऽनित्यः कृतकत्वाद् इत्य् उक्ते यद् अनित्यं न भवति तत् कार्यम् अपि न भवति यथा खपुष्पम् इति शक्यम् एव वैधर्म्यवचनम्.{२,७१}सर्वाभावस्यावस्तुनि शक्यनिदर्शनत्वात्. भावो हि तत्र निदर्शयितुम् अशक्यः. विनाशाख्यक्रियासामान्यं चानित्यत्वम् इति विधिरूपप्रतिज्ञा दर्शयितव्येति
SK
तद् एवं तावद् अवस्तुविपक्षे ऽपि प्रयोगसम्भवो दर्शितः. अत्र तु प्रकृतसाधने वस्तुन आलम्बनाभावस्य साध्यत्वं वस्तुनश् च सालम्बनस्य विपक्षता. वस्तुनि च हेतुवृत्तेः सम्भवाद् विपक्षाद् व्यतिरेकः प्रयोजनवत्त्वाद् वाच्य एवेत्य् आह -- अत्र त्व् इति वाच्योन्तेन. यस् त्व् अत्रापि व्यतिरेकं दर्शयति तेनावश्यं[७१६]यन्निरालम्बनं न भवतीति नञात्मनः प्रतिषेधद्वयात् सालम्बनविधिर् एव प्रदर्शितो भवति. न च सर्वस्मिन्न् एवासति वस्तुन्य् आलम्बनविधिः शक्यो वक्तुम्. सेयम् उभयतःपाशा रज्जुः. वैधर्म्यवचने वस्तुत्वापातः. अवचने वाच्यावचनम् इति. तद् एतद् आह -- यश् चेति चिदन्तेन
SK
__________NOTES__________
SK
[७१६] श्यं निरा (KHA)
SK
यदि तर्हि सर्वथैव वैधर्म्यं वाच्यं सर्वज्ञनिषेधे का वार्ता. तत्रापि ह्य् अवस्तुनि साध्ये वस्त्वात्मनः सर्वज्ञविपक्षाद् धेतुर् व्यावर्त्यः. तथा च तदभ्युपगमप्रसक्तिर् अत आह -- एवम् इति. एवं हि तत्र साध्यते बुद्धप्रत्यक्षम् असर्वविषयं, प्रत्यक्षत्वाद् अस्मदादिप्रत्यक्षवत्. सर्वविषयं तु न प्रत्यक्षं शब्दवद् इति. एवं तावद् व्यापकं वैधर्म्यं मन्वानानाम् अनुयोगो दर्शितः. न त्व् एवं मन्यामहे. वक्ष्यति हि --
SK
व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यम् अपेक्ष्यते |
SK
इति
SK
{२,७२} अनैकान्तिकाशङ्कानिराकरणं तु तदुक्तेः प्रयोजनम् इह विपक्षाभावाद् एव तन् न सम्भवतीति किं तद्वचनेनेत्य् आह -- वैधर्म्येति. एतद् इति. प्रकृतसाधनम्. अदूषणम्. अविद्यमानदूषणम् इत्य् अर्थः
SK
साधु तर्हि साधनम् आपन्नं सम्प्रतिपत्तिर् एवोत्तरम् अत आह -- सर्वथेति. येषां हि साध्यसिद्धाव् उपायान्तराणि प्रतिज्ञाहेतुदृष्टा(?न्तानि/न्ताः) सन्ति, ते वादमार्गेष्व् अधिकृताः. सौगतास् तु न कथात्रये. अतो न नाम वैधर्म्यवचनन्यूनता दूषणम्. अनुपायस्य हि कथं साध्यसिद्धिर् भविष्यति. वयं हि साधर्म्यात् साध्यसिद्धिं मन्वाना वैधर्म्यं नाद्रियामहे. सर्वापलापवादी तु वादे नाधिकृत एव. प्रदर्शनमात्रं हि वादग्रहणम्. तिस्रो हि कथा भवन्ति. वादो जल्पो वितण्डा चेति. शिष्यविषयो हि वाहः. व्युत्थितं तु शिष्यमाणम् अर्थं प्रतिपादयितुं जल्पवितण्डे. तयोः स्वपक्षस्थापनाहीनं वचनं वितण्डा. तद् अत्र त्रये ऽपि शून्यवादिनो ऽनधिकृता इति
SK
सर्वपूर्वोक्तदोषपरिहारेणेदानीं बौद्धः प्रत्यवतिष्ठते -- नन्व् इति. सालम्बनवादिनं हि भवन्तं प्रतिबोधयितुम् इदं साधनम्. ततस् त्वं प्रसिद्धैर् एव हेत्वादिभिः साध्यं बुध्यमानः किं मां प्रति बहुप्रकारं प्रतिज्ञादि विकल्प्य दूषणमात्थ ब्रवीषीति
SK
मीमांसकः प्रक्षीणनिखिलकुहेतुजालम् एवंवादिनम् अपहसति -- विप्रलिप्सुर् इति. न्यायवित् किलासि. किम् अस्मान् विप्रलब्धुम् एवंविधं भाषसे. किं खलु कथास्व् अप्य् उभयसिद्धस्य साधनत्वम् इति नाश्रौषीर् इति
SK
{२,७३} ननु परासिद्धस् तावद् हेतुः प्रयुज्यमानो दृष्टः. शब्दो ऽनित्यः कार्यत्वाद् इति. न हि मीमांसकस्य शब्दकार्यत्वं सिद्धम्. अथासिद्धम् अपि व्यापारानन्तरदर्शनादिभिः साध्यत इत्य् उच्यते, स्वासिद्धे ऽपि तथाकरणे को दोषः, अत आह -- यो ऽपीतिद्वयेन. परासिद्धे हि स्वयंसिद्धे प्रसाधनं प्रतीकारो भवति. स्वतोसिद्धे तु प्रतिक्रियैव नास्ति. तस्मिन् साध्यमाने पूर्वाभ्युपगमविरोधो भवति. असाधितेन त्व् असता न साध्यं साध्यत इति
SK
अत्र चोदयति -- परेति. परप्रतिपादनार्थं हि साधनवचनम्. न चासौ[७१७]परो ऽसिद्धेन प्रतिपादयितुं शक्यते. अतः परासिद्धो न साधनम् इति युक्तम्. स्वासिद्धस्य तु किंकृतम् असाधनत्वम् इति न विद्म इति
SK
__________NOTES__________
SK
[७१७] चासिद्धौ प (KA)
SK
ननूभयसिद्धो हेतुर् इति भवद्वृद्धैर् अपि भाषितं तत् परित्यक्तम्, अत आह -- द्वयोर् इति. नायम् अदृष्टाय वृद्धोपदेशो दृष्टानुसारेण परासिद्धप्रतिषेधपरत्वम् एवास्य निश्चीयते इत्य् आह -- प्रत्येष्य(न्ती)ति. स्वसिद्धैर् हेत्वादिभिः परः साध्यं वक्ता तु स्वयम् असिद्धं कथं शक्नोत्य् अत आह -- वदेद् इति
SK
{२,७४} प्रत्यक्षपरिदृष्टं हि साधनवाक्यं वक्तृप्रयुक्तं तद्दर्शनेन भवति काचित् प्रयुक्तिशक्तिकल्पना. किं तद्विशेषावधारणेन. तव तु साप्य्[७१८]अप्रतिज्ञानार्थिनः साधनशक्तिपरीक्षैव युक्ता किम् अनेन कथं वक्त्रा साधनं प्रयुक्तम् इति. एतद् एव प्रपञ्चयति -- गृहीतम् इति
SK
__________NOTES__________
SK
[७१८] प्रज्ञा (KHA)
SK
पुरुषाधीने हि निर्णये तत्प्रत्ययानुसारित्वान् निर्णस्यय तज्ज्ञानकारणानुसरणम् उचितं, नात्रानुमान इत्य् आह -- यत्रेति
SK
अत्रापि तु पुरुषाधीने निर्णये प्रतिज्ञामात्राद् एव तदनुसारी निर्णयो भवेत्, न साधनापेक्षा स्याद् इत्य् आह -- यदि चैवम् इति
SK
न त्व् एतद् अस्तीति व्यतिरेकेण दर्शयति -- यतस् त्व् इति. अस्यैव साधनस्यैवेत्य् अर्थः. किम् इदानीं वाक्यम् अनपेक्षितार्थम् एव, नेत्य् आह -- त(त्स्मृतीति). साधनस्मरणार्थम् एव वाक्यम्, अतस् तच्छक्तिर् एव चिन्तनीया. किं पुरुषनिरूपणेन. न ह्य् अयम् अप्राप्तप्रत्ययानुसारी निश्चय इति
SK
अतो यथा स्वार्थानुमाने न वक्तारम् अपेक्षते, एवम् इहापि भवान् नापेक्षेतैवेत्य् आह -- तस्माद् इति. यतः स्मारकं वाक्यम् इत्य् अर्थः
SK
{२,७५} यदि तु सर्वप्रमाणेष्व् एव पुरुषापेक्षेष्यते सा तर्हि प्रत्यक्षेणार्थम् उपल(?भ्य/भ)मानस्य प्राप्नोति. न च मत्प्रसिद्धा युक्तिः साध्यं वा यत् प्रत्यक्षेण परिच्छिद्यते. तत्रास्ति यथात्र साध्यस्य निरालम्बनत्वस्य प्रत्ययत्वस्य हेतोः सिद्धिम् इच्छसीत्य् आह -- यच् चेति
SK
तस्मात् स्वयंसिद्धेनापि परासिद्धेन साध्यार्थप्रतिपत्तिर् न साहसास्पदम् इत्य् आह -- तस्माद् इति
SK
परिहरति -- सत्यम् इति द्वयेन. अयम् अभिप्रायः -- स्याद् एतद् एवं यदि मत्प्रतिपत्तिमात्रफलम् एव साधनवचनं भवेत्. तथा हि -- किं साधनवचनेनापि अवधायकत्वं बुध्यध्वम् इत्य् एतावद् उपदिश्येत, सिद्धश् चायं भवतां ज्ञानमात्रं जगद् इति, तदा कुतः पुनर् इदम् अवगतम् इति पर्यनुयुक्ते त्वम् एव जानासीति नैवंविधम् उत्तरम् उपपद्यत इति
SK
कथं नोपपद्यते अत आह -- स्वयम् इति. ज्ञानकारणम् अनुयुक्ते तद् एव वक्तव्यं न मत्प्रसिद्धिः. एवं हि मत्प्रसिद्धिवचनम् उपपद्यते यद्य् अगृहीतेन मत्प्रसिद्धेन वा हेतुना साध्यम् एतद् भवान् स्वयं प्रतिपन्नः. प्रतिपन्न इति कर्तरि रूपम्. न त्व् एतद् उभयम् अप्य् अस्तीति
SK
{२,७६} किञ् च भवदीयपरार्थानुमानलक्षणानुसारेणापि स्वप्रतिपत्तिप्रकाशनफलम् एव साधनवचनं येनैवम् उक्तम्. परानुमानं तु स्वदृष्टार्थप्रकाशनम् इति, अतो ऽवश्यं स्वज्ञानकारणम् अवस्थापनीयम् इत्य् अभिप्रायेणाह -- न चेति. स्वनिश्चयहेतोः प्रतिपादनाद् अन्यत्र साधनवचनं न प्राश्निकान् सभ्यान् प्रति व्याप्तियते. ते हि प्रतिपाद्याः. व्युत्थितस् तु यदि वैयात्याद् उपपादितम् अपि न बुध्यते, किम् अत्र विधेयम्. प्राश्निकप्रश्ननिश्चयात् तु तत्त्वम् इत्य् अनादृत्य प्रतिवादिनं प्राश्निकपदं प्रयुक्तवान् इति
SK
अपि च परबुद्धेर् अप्रत्यक्षत्वान् मत्प्रसिद्धत्वम् अपि भवतां दुरधिगमम् एवेत्य् आह -- मत्प्रसिद्धत्वम् इति. किञ् च विदितपूर्वम् अर्थं विवक्षित्वा साधनवाक्यं प्रयुज्यते. तव त्वजानतः किंकृता विवक्षा. न चातत्पूर्वा वाक्यनिष्पत्तिः सम्भवतीति आह -- कथम् इति. जिज्ञासमाने ऽपीति. न तावद् अहं जिज्ञासमानः व्युत्थितत्वात्. अतस् त्वन्निग्रह एव मम सर्वथा विधेयः. यद्य् अपि जिज्ञासुर् अहं, तथापि भवतो विवक्षाकारणं नोपलभ्यते पूर्वविज्ञानाभावाद् इति. यत एव स्वासिद्धं वक्तुम् अशक्यम्, अत एव वृद्धेर् अपि भवदीयैर् उभयसिद्धहेतुत्वं भाषितं न परसिद्धिपरम् इत्य् आह -- इतीति
SK
यदि तु मत्प्रसिद्धिमात्रेण हेतुत्वं भवेत्, तेन तर्हि यथा त्वं मत्प्रसिद्धेन हेतुना मम साध्यज्ञानम् आधातुम् इच्छसि. एवम् अहं मत्प्रसिद्धैर् अप्य् अमीभिर् भवदसिद्धैर् हेत्वादिभिस् तत्तन्न्यूनतोद्भावनेन नानाविधैर् दूषणैस् तवाज्ञानम् आधातुम् इच्छामि. मत्प्रसिद्धा अपि हेत्वादयः तवासिद्धा इति ते भवति दूषणम्{२,७७}को विशेषः यत् स्वयम् असिद्धं साधनम् उच्यते न दूषणम्. अतो ऽनभिज्ञस्य परार्थानुमानप्रयोगानुपपत्तिर् इत्य् अभिप्रायेणाह -- तेनेति
SK
या चेयं भवतो मृष्टाशा स्वासिद्धैर् हेत्वादिभिः किल मया साध्यं बोद्धव्यम् इति, साप्य् अयुक्ता. तवैव ह्य् अतत्साधनात्. साध्यं बुध्यमानस्य ममापि प्रतिघातो भवेत्. साध्यसाधनयोर् इतरेतरप्रतिघातावगमाद् इत्य् आह -- यथेति चतुर्भिः. निगदव्याख्यानाः श्लोका इति
SK
हेतुप्रतिज्ञाविरोधाख्यम् अपि निग्रहस्थानम् आपद्यते इत्य् आह -- विस्पष्टश् चेति. अक्षपादेन हेतुप्रतिज्ञाविरोधो[७१९]निग्रहस्थानम् इत्य् उक्तम्. उदाहृतं च, शब्दो नित्यः सर्वस्यानित्यत्वाद् इति. नित्ये हि शब्दे न सर्वानित्यत्वं सर्वानित्यत्वे वा न तदन्तर्गतस्य नित्यत्वम् इति हेतुप्रतिज्ञयोर् इतरेतरविरोधो निग्रहाधिकरणम् इति, तद् इदं भिक्षुणा दूषितम्. उक्तं च नायं हेतुः वैधर्म्यवचनत्वात्. यदाह --
SK
__________NOTES__________
SK
[७१९] धे (GA)
SK
दृष्टान्तो ऽभिहितो ह्य् एष वैधर्म्येणासुशिक्षितैः |
SK
इति. हेतुर् हि पक्षधर्मो भवति. न च सर्वस्यानित्यता शब्दधर्मः, कथम् असौ हेतुः वैधर्म्यदृष्टान्तस् त्व् असौ नित्यत्वस्य. न हि ततो ऽन्यः साध्यविपक्षभाग{२,७८} भवति. इह च नित्यता साध्या, तद्विपक्षो ऽनित्यता. तद् युक्तं सर्वं वैधर्म्यदृष्टान्त एवेति. तद् अत्रेदम् आकूतं - यन्नित्यं न भवति तत् सर्वं, नायं सर्वमतो ऽसर्वत्वान् नित्यः शब्द इति. असर्वत्वं हेतुः, अतः सर्वस्यानित्यत्वम् अहेतुर् इति न हेतुसाध्ययोर् विरोध इति. पुनश् चोक्तं - वैधर्म्यवचनम् अपि नेदं समञ्जसमभावनियमस्य विपरीतत्वात् हेत्वभावे ह्य् अत्र सर्वत्वे साध्याभावस्यानित्यत्वस्य प्रदर्शनं कृतम्. साध्याभावे तु वैधर्म्यदृष्टान्ते हेत्वभावो दर्शयितव्यः. व्याप्तिविपर्ययस्यानुमाने वक्ष्यमाणत्वात्. तद् इहानित्यत्वस्य सर्वत्वाद् इति वक्तव्ये सर्वस्यानित्यत्वाद् इति वचनं सुशिक्षितत्वाद् वैधर्म्यवचनस्येति. तद् एतद् अयुक्तं, हेताव् अस्मिन् विवक्षिते ऽक्षपादेन हेतुसाध्ययोर् विरोधो ऽभिहितः. यत्त्वपक्षधर्मत्वान् न हेतुर् इति, तद् दूषणान्तरं भविष्यति. असर्वत्वं वा कथं हेतुः, तद् अपीह सर्वान्तर्गतेर् असिद्धम् एव. अतः कृत्वाचिन्तामात्रेणेदं नैयायिकैर् उक्तं हेताव् अस्मिन् विवक्षिते हेतुप्रतिज्ञयोर् विरोध इति. मा भूद् वा तदुदाहरणम्. इह तु विस्पष्टो विरोधः, यम् एतम् अदृष्ट्वा परैर् बौद्धैर् उक्तं न प्रतिज्ञाहेतुर् विरोधो दूषणम् इति. किलशब्दो ऽरुचौ. अत्रोदाहरणं विस्पष्टत्वाद् विरोधस्येति
SK
अत्र चोदयति -- नन्व् इति. संसारावस्थायाम् अनुमानानुमेयव्यवहारः. अत्र च हेत्वादयो लोकप्रसिद्धा एव. लोक इति लौकिकसंवृतिसत्यम् अपदिशति. अतः संवृतिसत्यसिद्धेन हेत्वादिना साध्यसिद्धिर् आसीद् एव प्राक्, परमार्थावस्थायां तु सर्वाभावम् आचक्ष्मह इत्य् अवस्थाभेदाद् अदोष इति ||
SK
परिहरति -- यो ऽधुनेति. यदि हि तद्बाधकबलेन नास्तीत्य् उच्यते, प्राग् अपि नासीद् एव. बाधकेन तत्प्राग् अपि प्रतिक्षिप्तं रजतम् इव शुक्ताव् अवगतिक्षणाद् आरभ्य. अतः प्राग् अप्य् असतः कथं साधनत्वम् इति
SK
{२,७९} प्राक् साधनत्वाभ्युपगमे वा परमार्थास्तित्वम् आपद्यत इत्य् आह -- साधनेति. कारणम् आह -- सिद्धिर् इति
SK
किम् इति न युज्येत, अत आह -- न दृष्टेति. नात्यन्तम् असतः साधनत्वं दृष्टं शशविषाणवद् इत्य् अनुमानम् अन्तर्णीतं, क्वचिद् दृष्टस्यापि रूपस्यान्यत्रोपचरितस्य परमार्थोपायता नास्ति. किम् उतात्यन्तासतो हेत्वादेर् इत्य् आह -- बाष्पादिनेति
SK
उपसंहरति -- तस्माद् इति
SK
ननु वर्णात्मना असत्यानाम् अपि रेखादीनां परमार्थवर्णोपायता दृष्टा, अतो नैकान्तिको ऽसत्यत्वं हेतुर् अत आह -- ये ऽपीति. विपक्षवृत्तिर् हि हेतुर् अनैकान्तिको भवति. न च परमार्थोपायेषु रेखादिष्व् असत्यत्वम् अस्ति, स्वरूपसत्यत्वात्. तेन च रूपेण वर्णबोधोपायत्वात्. तद्दर्शिनो हि स्मृतसङ्केतस्य वर्णा बुद्धौ भवन्तीति
SK
ननु भवन्तु स्वरूपसन्तः. वर्णात्मना तावदसत्या एव, अत आह -- वर्णेति. सर्वे हि भावाः स्वरूपेण सन्तः पररूपेणासन्तः. केनचिद् विशेषेण रेखोदाहरणम् इति
SK
{२,८०} न चैष प्रकारो ऽत्यन्तासतां हेत्वादीनां सम्भवतीत्य् आह -- स्वरूप इति. असत्यम् अपि केनचिद् रूपेण सद् एव रूपान्तरेण भवति. न हि निस्स्वभावम् इति नाप्य् असत्यतेत्य् उक्तम् इति
SK
एतद् एव स्फुटयति -- हेत्वादीनाम् इति. अत्र च बाष्पादीनाम् इवाग्न्यादाव् उपायत्वं हेत्वादीनां, न परमार्थेन तु लेख्यवद् इत्य् आह -- तेनेति. हेतुत्वाभावप्रतिपादनपरम् इदम् इति
SK
अत्र चोदयति -- उपायानाम् इति. किम् इदं निस्स्वभावत्वम् उपायानाम् आपद्यते. संवृत्यात्मका हि ते. तेन च रूपेण सन्त एवेति
SK
परिहरति -- संवृत्येति. सांवृतं हि रूपं वाङ्मात्रनिर्मितं, न परमार्थोपायो भवतीति
SK
अपि च, परमार्थाल् लोकस्य संवृतिसत्यस्य भेदे न हेतुर् अस्ति, तद्भेदग्राहिणो ऽपि ज्ञानस्य मिथ्यात्वाद् इत्य् आह -- परमार्थेति. अपि च यदि परमार्थो ऽपि लौकिकोपायगम्यः, न तर्हि परमार्थः, लौकिकोपायगम्यत्वाद् बाष्पादिवाग्निर् अवगम्यमान इत्य् आह -- लौकिकेति. पूर्वं च सत्यभेदो निराकृतः. इदानीं सांवृतस्य परमार्थोपायतेति विवेकः. नन्व् असत एव श्रुत्यादिप्रपञ्चात् प्रपञ्चविलयात्मनो ब्रह्मणो निरूपणं वेदान्तविद्भिर् इष्यते. यथाहुः --
SK
{२,८१} भेदप्रपञ्चविलयद्वारेण च निरूपणम् |
SK
इति.
SK
विद्यां चाविद्यां च यस् तद्वेदोभयं सह |
SK
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते ||
SK
इति. किम् उक्तम्. विद्यारूपं च ब्रह्म, अविद्यारूपं च श्रुत्यादि. तदुभयम् अपि यः सह वेद सो ऽविद्योपलक्षितं मृत्युं तीर्त्वा विद्यारूपेणोपलक्षितं ब्रह्मानन्दं प्रतिपद्यत इति. तद् एवम् अविद्यात एव विद्याप्राप्तिर् इष्यते इति. किम् अपराद्धम् एवं ब्रुवाणैर् अस्माभिः. नैष नः सिद्धान्तः यद् असन्न् एव श्रुत्यादिप्रपञ्चो ब्रह्मणि प्रमाणम् इति. तेषाम् अपि प्रत्यक्षादिप्रमाणसिद्धानाम् अशक्यापह्नवत्वात्. यथा हि सो ऽयम् इति प्रत्यक्षसिद्धः प्रत्यगात्मा, एवं तेष्व् इति तद्वद् एव सम्यञ्चो भवितुम् अर्हन्ति. तस्य च पूर्वोत्तरकर्मनिरोधानुत्पादाभ्यां विगलितभोगभोगायतनस्य कैवल्यं मोक्षम् आचक्ष्महे, न प्रपञ्चविलयम्. एकम् एवाद्वितीयम् इत्यादिवेदान्तास् त्व् अर्थवादान्तरवद् विषयवैराग्यप्रतिपादनपरतया कथञ्चिद् गमयितव्याः. स एष नेति नेतीतिकरणेन स्पष्टम् एव बहिर्विषयसद्भावम् उपदर्शयति. एष इत्य् अपरोक्षनिर्दिष्टस्य ब्रह्मणो विषयविवेकमात्रं कथयति न तदभावम्. श्रुत्यादिषु चाविद्यावादो ब्रह्मणः प्रशंसार्थः. अपशवो ऽन्ये गोश्वेभ्यः इतिवत् पश्वन्तरेष्व् अपशुवादः. अतो न क्वचिदपरमार्थस्य परमार्थोपायता. अस्तु वा नित्यनिर्दोषवेदान्तसिद्धम् अप्रपञ्चं ब्रह्म. न तु क्षणिकसंवेदनप्रवाहात्मकं द्वैतं कुतश्चित् प्रमाणाद् अवगच्छाम इत्य् अलम्बनेनापि
SK
प्रत्यवस्थानान्तरम् इदानीं बौद्धस्योपन्यस्यति -- नन्व् इति. एवं हि मन्यन्ते -- यद्य् अपि बाह्यो हेत्वादिर् अर्थो नास्ति, तथापि बुद्ध्यारूढेनैव हेत्वादिनानुमानानुमेयव्यवहारः सेत्स्यति. अनादिवासनोपप्लाविता हि हेत्वादिविकल्पविभागा भवन्ति हेतुर् अयं दृष्टान्तो ऽयम् इत्यादयः. विकल्प इति सविकल्पिकां बुद्धिम् आचक्ष्महे. अतो वासनाभेदाद् बुद्धिभेदः, तद्भेदाद् धेत्वादिभेद इत्य् उक्तं भवति. अवश्याभ्युपगम(?नियम/नीय)श् चायं भवद्भिर् अपि. बुद्धिनिबन्धनो धर्म्यादिभेदः. न ह्य् अनित्यः शब्दः कृतकत्वाद् इति{२,८२}परस्परं धर्मिणो वा भिन्नयोर् हेतुसाध्ययोर् अवगतिर् अस्ति. अतो ज्ञानभेदनिबन्धन एवात्र भिन्नत्वव्यवहारः. सर्वत्रैव च ज्ञानम् एव भेदनिबन्धनम्. सुदूरम् अपि गत्वा युक्तिभिर् अनुसंहितो भेदो ज्ञान एव पर्यवस्यति. अतो ऽस्तु तन्निबन्धन एव सर्वत्र भेदः. देशादिभेदाद् अपि हि भेदं ब्रुवाणस् तद्भेदं पर्यनुयुक्तो ज्ञानभेदम् एवालम्बते. तावतापि व्यवहारसिद्धौ किं प्रकारान्तरेण भेदो ऽनुस्रियत इति. अत्राप्य् अग्निधूमादौ कृतकानित्यत्वविलक्षणः स्फुटो भेदावग्रहो भवति. तत्रापि न जातिभेदो निबन्धनम् इति वाच्यम्. सो ऽपि चाग्निधूमशब्दनिर्मित एव. न हि संवृतिकल्पनाद् अन्येन प्रकारेण जातिभेदम् उपलभामहे. अतः शब्दभेदे ऽर्थविकल्पविलासिता एवाग्नित्वादय इति. इदं च बाह्यनिराकरणपरतयानास्थयोक्तम्. न शब्दभेदो ऽपि विज्ञानभेदाद् विना सम्भवति. सो ऽपि ज्ञानमात्रप्रभावित एवाभ्युपेत्य बाह्यहेत्वादिविकल्पविभागार्थम् उक्त इति
SK
अयम् एवास्मदीयतन्त्रकाराणां सिद्धान्त इत्य् आह -- न्यायविद्भिर् इति. न्यायविद्भिर् हि दिङ्नागाचार्यैर् इदम् उक्तं सर्व एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वम् अपेक्षत इति
SK
एतद् अपि दूषयति -- अस्तीति. नासतः शशविषाणादेः शब्दनिबन्धनः तज्जनितबुद्धिनिबन्धनो वा भेदो दृष्ट इति दुरुक्तम् इदम् अपरेषां बुद्ध्यारूढेनानुमानानुमेयव्यवहार इति
SK
अपि च अस्तु बुद्धिशब्दभेदनिबन्धनो हेत्वादिभेदः, तयोर् एव तु कथम् अकस्माद् उद्भवः. न ह्य् अकारणिका कार्योत्पत्तिः सम्भवति. न च शून्ये जगति{२,८३}तयोः कारणम् उत्प्रेक्षितुम् अपि शक्यत इत्य् आह -- निर्वस्तुक इति. यश् चायं शब्दभेदो हेत्वादिभेदहेतुतयोपवर्णितः, सो ऽपि तदभावाद् अनुपपन्न इत्य् आह -- शब्देति
SK
किञ् च यद्य् अविद्यमान एव बुद्धिमात्रकल्पितः साध्यादिभेदो ऽनुमानव्यवहाराय कल्प्यते, ततो दूषणव्यवहारो ऽपि तद्वद् एव स्यात्. उत्पद्यते खल्व् अस्मिन् साधने हेत्वादिन्यूनतोक्तिमात्राद् एव दूषणबुद्धिर् इत्य् आह -- यदि वेति द्वयेन
SK
शक्यते च वदितुम् एवम् अपि सर्व एवायं दूष्यदूषणव्यवहारो बुद्ध्यारूढेन दूष्यदूषणन्यायेन, न बहिः सदसत्त्वम् अपेक्षत इत्य् आह -- यश् चेति
SK
नन्व् एवम् अप्य् आवयोर् अविशेष एव, यथा हि नो दूषणज्ञानम् उत्पन्नम् एवं भवतो ऽपि साधनज्ञानम्. अतः कथं विजयसे अत आह -- बुद्धीति. अयम् आवयोर् विशेषः बुद्धिमात्रव्यवहारिणो भवतो मदुक्तदूषणं सिद्धम् इति न ते पक्षः सिध्यति. त्वदुक्तं तु साधनम् अस्माकम् असिद्धम् इति न साध्यं प्रतिपद्यामह इति
SK
कथं साधनम् असिद्धम् अत आह -- बाह्येति. बाह्यार्थव्यवहारिणो हि वयं, न त्वम् इव ज्ञानैकशरणाः. तत्र कथम् असति बाह्ये बुध्यामह इति
SK
{२,८४} पुनर् अपि परश् चोदयति -- नन्व् इति. यथा हि मे साधनम् असिद्धम्, एवं दूषणम् अपीति न दुष्टं साधनम् इति
SK
मीमांसकस् तु पाशुपतो ऽयम् एवंवादी यद् विहाय साधनम् अभावाद् दूषणस्याप्य् अदुष्टत्वम् आतिष्ठत इति सापहासम् आह -- नेदानीम् इति
SK
यश् च वासनाभेदनिबन्धनो विकल्पप्रविभागो वर्णितः, सो ऽपि तद्भेदनिमित्ताभावाद् अनुपपन्न इत्य् आह -- न चेति. ननु ज्ञानभेदाद् एव वासनाभेदो भविष्यति, कथं निमित्ताभावः. न, तद्भेदस्यैव निर्निमित्तत्वाद्, वासनानिबन्धने तु तद्भेदे ऽन्योन्याश्रयत्वम् इत्य् आशङ्कया सहाह -- ज्ञानेति. ननु स्वभावभिन्नम् एव ज्ञानं वासनाभेदनिबन्धनं भविष्यति, कथम् अन्योन्याश्रयत्वम् अत आह -- स्वच्छस्येति. स्वच्छस्य हि ज्ञानात्मनः स्वयम् अनुपलभ्यमानभेदस्यानादिवासनोपप्लावितनीलाद्याकारकलुषितत्वम् एव भेदकारणम् इति बौद्धैर् आश्रितम्, अतो दुरुत्तरम् इतरेतराश्रयम् इति
SK
नन्व् अनादित्वाद् एव बीजाग्कुरवद् इतरेतराश्रयपरिहारो भविष्यत्य् अत आह -- प्रमाणम् इति. प्रसिद्धात्मनोर् हि बीजाङ्कुरयोर् अनादित्वाद् भवति दोषपरिहारः. वासना त्व् अस्ति भिन्ना चेति न किञ्चित् प्रमाणं क्रमते. यो हि{२,८५}बहिर्देशसम्बद्धं प्रत्यक्षम् अर्थम् अवजानीते, स कथं वासनाम् अनुजानाति. तदनुज्ञाने वा किम् अपराद्धं भावान्तरैर् इति. अपि च पूर्वानुभवप्रभावितं स्मरणहेतुसंस्कारम् एव वासनाम् आचक्ष्महे. तद् असौ सत्य् अपि ग्राहकं ज्ञानम् एव विविधम् उपकल्पयति. यत् तु विचित्रा बहिर्भावा भासन्ते तत् कस्य हेतोर् इति न ज्ञायत इत्य् आह -- कुर्याद् इति
SK
न ग्राह्यभेदे वासना कारणम् इत्य् अत्रोपपत्तिम् आह -- संवित्त्येति. स्मृतिहेतुर् हि वासना. न चानुभूतात् स्मृतिर् अधिकं मात्रयापि गोचरयति. न च बहिरत्यन्तासन्तो भावाः क्वचिद् अपि गृहीतपूर्वा इति न तान् वासना स्मारयितुं प्रभवतीति. किञ् च, अतश् च वासना नोपपद्यते यत् कारणं क्षणिकानि ज्ञानानि निरन्वयविनाशीनि परस्परम् असहितानि चेत्य् आह -- क्षणिकेष्व् इति. यथा तावत् क्षणिकानां निरन्वयविनाशिनां च न वासना, तथोपरिष्टाद् वक्ष्यतीति
SK
असाहित्यान् न वासनेत्य् उक्तार्थम् एव प्रपञ्चयति -- पूर्वेति. साहित्याभ्युपगमे ऽपि समवायाद्यन्यतमलक्षणसम्बन्धाभावाद् वासना नोपपद्यते. न ह्य् असम्बन्धः कालागरुधूमो ऽगारं वासयतीत्य् आह -- साहित्येति
SK
क्षणिकत्वान् न वासनेत्य् उक्तम्, अत्र कारणम् आह -- क्षणिकत्वाद् इति. व्यापारनिबन्धनो हि वास्यवासकभावः कारकविशेषत्वात् तस्य. न च क्षणिकं पूर्वम् उत्तरं वा तयोर् एव व्याप्रियत इति सम्भवति. ननु जन्मैव बुद्धेर्{२,८६}अर्थपरिच्छेदे व्यापार इत्य् उक्तम्, तद्वद् वासनायाम् अपि भविष्यति. न, दुष्टत्वाद् उपपत्तेः. दृश्यते खलूत्पद्यमानै(?र् ए)व बुद्धिर् अर्थं परिच्छिन्दन्ती. न ह्य् असौ क्षणम् अप्य् उदास्ते. न चार्थपरिच्छेदाद् अन्यत्र व्याप्रियत इति युक्तम्. जन्मनैव व्यापारेण कारकत्वं, न ज्ञानान्तरं वासयन्ती जायमाना बुद्धिर् दृश्यत इति कथं वासनायां जन्मना कारणत्वम्. न च जन्मापि किञ्चिद् बौद्धा मन्यन्ते यन्निबन्धनः कारणभावो भवेत्. अस्माकं तु समवायिकारणदशाविशेषः को ऽपि कार्यस्य जन्मेति मतम्. स च जायमानान्नात्यन्तभिन्न इति युक्तं क्रियाकार(?का/क)भाव इति. निरन्वयविनाशित्वान् न वासनेत्य् उक्तम्. तत्र कारणम् आह -- विनश्यद् इति. यद् धि स्वलक्षण एव निरुद्धं न केनचिद्रूपेणान्वेति न तत् तदीयं वा रूपं वास्यत इति सम्भवति. तथा वासकम् अपि यन्निरन्वयविनष्टं तत् केनात्मना परं वासयति. अवस्थिता एव हि भावा गृहादयो ऽवस्थितैर् एवागरुधूमादिभिर् वास्यन्त इति दृष्टम्. अयं चावीतहेतुर् उन्नेतव्य इति
SK
अत्र चोदयति -- अवस्थित इति. अवस्थान्तरोपजननापाययोस् तदभिन्नस्यावस्थावतो नाशोत्पादाभ्याम् अवस्थितत्वानुपपत्तिः. अवस्थितत्वे वा पूर्वावस्थायाम् इवोत्तरत्रापि अवासनाप्रसङ्ग इति. अस्मन्मते तु भङ्गुरम् उत्तरं पूर्वं च ज्ञानं, नावस्थितः कश्चिद् एको ज्ञाताप्रच्युतप्राच्यरूपः. तद् इह भङ्गुरपक्षे पूर्वसादृश्यात् ततो भिन्नस्योत्तरस्य युक्तैव वासना. एषैव तु वासना यत् पूर्वसारूप्यम् उत्तरस्य. यथा लाक्षारसोपसिक्ते बीजपूरकुसुमे फलं तद्रूपं जायमानं तत्त्वान्वितम् इत्य् उच्यते. यत् तु व्यापारविरहाद् अकारकत्वम् उक्तं, तद् अयुक्तम्. न व्यापारतः कारकत्वम्, अपि तर्हि पूर्वभावात्. भावातिरेकिणो व्यापारस्यानुपपत्तेः. यच् चेदं पूर्वस्योत्तरकारणत्वम् इदम् एव वासकत्वं पूर्वेणोत्तरं{२,८७}वास्यत इति. को ऽर्थः. स्वरूपं जन्यत इति. अतो भङ्गुरवादिनाम् एव वासनोपपत्तिमती न स्थिरवादिनाम् इत्य् आह -- भङ्गुर इति
SK
तद् इह स्वमतसाधनम् उपेक्ष्यैव तावत् परमतदूषणम् अभिधीयते. दूषिते हि तस्मिन् सुखेन सिद्धान्तो ऽभिधीयते. तत्र यत् तावदुक्तं सद्रूपज्ञानजनकत्वम् एव वासनेति. तद् अयुक्तम्. यदि हि पूर्वज्ञानम् उत्तरस्य जनकं भवति, ततो ऽनुरूपं विरूपं वा जनयति, न तदुत्तरस्य जनकम्. अनुत्पन्नस्यासतो जनकत्वायोगात्. एवं विनष्टस्यापि, अजातातिवृत्तयोर् अनतिभेदात्. न च निष्पन्नस्य क्षणम् अप्य् अवस्थानम् अस्तीति कदा जनयिष्यतीति जनकत्वानुपपत्तौ दूरोत्सारितम् अनुरूपजननम्. न हि निरन्वयविनष्टस्य किञ्चिद् अनुरूपं सम्भवति, धर्मान्वयो हि आनुरूप्यम्. न पूर्वधर्मान्वय उत्तरज्ञाने ऽस्ति, तदुपगमे निरन्वयविनाशायोगात्. न च समानधर्मताम् अन्तरेणास्ति स प्रकारो येनानुरूप्यं भवतीति. तद् एतत् सर्वम् आह -- नैतद् अस्तीति सार्धतृतीयेन. ननु पूर्वभावितैव कारकत्वम् इत्य् उक्तं किं क्षणान्तरावस्थानेन. न च व्यापारकारणभावः येन तत्सम्बन्धार्थं क्षणान्तरावस्थानम् इष्यते तदभावाद् इत्य् उक्तम् एव. मैवम्. न हि पूर्वभावितामात्रं कारणत्वम् इष्यते. मा भूद् गवाश्वस्यापि पौर्वापर्यमात्रात् कार्यकारणभाव इति पौर्वापर्यनियमे तु कार्यकारणत्वम्.[७२०]न चासौ क्षणिकेषु सम्भवति. व्यापारस् तु प्रत्यक्षादिप्रमाणको नापह्नोतुं शक्यत इति
SK
__________NOTES__________
SK
[७२०] णकत्वम् (KA)
SK
{२,८८} दूषणान्तरम् आह -- यदीति सार्धेन. यद्य् अपि ह्य् आनुरूप्याद् वासनेत्य् उच्यते यदा तर्हि गोबुद्धेर् अनन्तरं हस्तिबुद्धिर् उत्पद्यते तत्रैव वैलक्षण्याद् वासना न स्यात्. ततो ऽपि परस्ताद् गोज्ञानं निर्बीजं न सम्भवेद् इति. प्रदर्शनार्थं च गोहस्तिज्ञान उक्ते सर्वम् एव विलक्षणाद् विलक्षणज्ञानं न स्याद् इत्य् आह -- सर्वम् इति
SK
एवं तावद् आनुरूप्यवासनापक्षो निराकृतः. इदानीं पुनर् अपि ज्ञानातिरिक्तवासनापक्षम् एवोपसङ्क्रम्य दूषणान्तरम् आह -- बाह्येति. बाह्यार्थवादिनां हि पूर्वज्ञानजनिता आत्मस्था वासनाः किञ्चिद् एव सदृशदर्शनाद्यपेक्ष्य लब्धोद्बोधाः कार्यं जनयन्ति क्रमेणेति युक्तम्. ज्ञानमात्रवादिनस् तु न किञ्चिद् वासनानां कार्यजनने ऽनुग्राहकम् अस्ति यद् अपेक्षया विलम्बन्ते. अतो युगपद् एव सर्वाः सर्वं कार्यम् आरभेरन्न् इति न क्रमेण जानानि दृश्येरन्. एकदैव विश्वज्ञानम् उत्पन्नम् इति क्षणान्तरे न किञ्चित् स्यात्. न चासां किञ्चिद् रूपम् अन्वेति यत् पुनः कार्यं जनयेत्. निरन्वयविनाशित्वान् न क्वचिद् अन्यत्र वासनानां पारार्थ्यं यथास्माकम् आत्मनि, संस्कार्यान्तराभावात्. अतः पारार्थ्येन वशीकाराभावाद् अपि न क्रमो युक्तः. पारार्थ्येन ह्य् अस्माकम् इव बोद्धुर् अवधानाद्यपेक्षया स्मृतिक्रम इव ज्ञानक्रमो भवेद् अपि. न त्व् एतत् सर्वम् अस्तीति कार्यक्रमानुपपत्तिर् इति
SK
किञ्चैता वासनाः क्वचिद् आश्रिता न वा. यद्य् आश्रिताः, ज्ञानातिरिक्तस्य{२,८९}कस्यचिदभावात् तदाश्रिता वाच्याः. तत्रैकज्ञाननाशे सकलतदाधारवासनाविनाशः. कारणविनाशाद् एव कार्यारम्भ इति वः सिद्धान्तः, प्रकारान्तरकारणत्वायोगात्. विनश्यद् एव हि कारणं कार्यं जनयतीति युगपन्नश्यन्तीभिर् वासनाभिः सकृद् एव सर्वाकारज्ञानम् उत्थापितं तथावस्थितं च एकदैवैकक्षणे विनष्टम् इति क्षणान्तरे न किञ्चिद् भवेद् इत्य् आह -- विनाश इति द्वयेन
SK
यदि त्व् आश्रयभूतज्ञानविनाशे ऽपि शक्तिर् वासना न नश्यन्तीत्य् उच्यते, ततः क्षणिकत्वसिद्धान्तहानिः. स्थिरस्य च क्रमयौगपद्याभ्याम् अर्थक्रियानुपपत्तेः कार्यानारम्भप्रसङ्ग इत्य् आह -- यदीति
SK
यदि तु स्वतन्त्रा एव ज्ञानवद् वासनाः प्रवृत्ता इत्य् उच्यते, ततो ज्ञानवासनयोर् इतरेतरकार्यकारणभावानुपपत्तिर् इत्य् आह -- वासनेति
SK
किम् इति न स्याद् अत आह -- कुर्याताम् इति. सदृशम् एव हि तदा ज्ञानवासने कार्यम् आरभेयातां ज्ञानं ज्ञानं वासना वासनां न पुनर् अन्योन्यम् इति. ननु विजातीयकारणोपनिपाताद् विसदृशकार्योत्पादो भविष्यत्य् अत आह -- नान्य इति. द्वयातिरिक्तवस्त्वभावाद् इति भावः
SK
अतः संवृतिसत्यरूप इव वासना कल्पिता न परमार्थतः{२,९०}काचिदस्तीत्य् आह -- तस्माद् इति. न चैवञ् जातीयकं कस्मैचित् कार्याय घटत इति प्राग् एव वर्णितम् इत्य् आह -- न चेति
SK
स्वमत इदानीं वासनाम् उपपादयति -- यस्य त्व् इति. अवस्थितो हि ज्ञाता यज्ज्ञानाभ्यासेन वासनाधारो भवति तद् युज्यते. क्षणिकं तु न वासयितुं शक्यम्. न च तदासना प्रयोजनवती, क्वचिद् उपयोगाभावात्. न च वासितः पूर्वावस्थातो ऽत्यन्तं भिद्यते, येनान्यत्वं प्रतिपद्यते. न च प्राग्वदविशिष्टः, येन वासना न स्यात्. न चावस्थान्तरोत्पादे ऽवस्थितत्वानुपपत्तिः, पूर्वापरयोर् अवस्थयोर् अनुगतस्य बोद्धुः प्रत्यभिज्ञानात्. तद् इहावस्थातद्वतोर् अभेदविवक्षायां पूर्वज्ञानाहितसंस्कारः पुमान् एव वासना भवेत्. भेदविवक्षायां तु तदाधार इति
SK
यत्त्वानुरूप्यवासनापक्षे लाक्षोपसिक्तं बीजपूरकुसुमम् उपवर्णितं, तत् तद्रूपसङ्क्रान्तेर् उपपन्नम्, न तु ज्ञानस्य किञ्चिद्रूपं ज्ञानान्तरं सङ्क्रामति निरन्वयविनाशित्वाद् इत्य् उक्तम् एवेत्य् आह -- कुसुमेति तस्यान्तेन. प्रकरणार्थम् उपसंहरति -- इत्य् अवासनेति
SK
किञ्चेयं वासना तत्त्वदर्शिभिर् बौद्धैर् वस्तुतो वर्णितेति नेदं सम्भावयामः. असतीम् एव तु युक्त्यानुपेतां युक्तिशून्यां वासनां विकल्प्य विषयेष्व् आस्थां{२,९१}निवर्तयितुम् अर्थनिराकरणम् उक्तम् एकम् एवाद्वितीयम् इत्याद्युपनिषद्भिर् इव. तत्रैव त्व् अर्वाचीनानां भ्रान्त्या सिद्धान्तावग्रह इति निराकृतं वादिनम् आश्वासयतीति -- युक्त्येति
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
निरालम्बनवादः समाप्तः ||
SK
००४ शून्यवाद
SK
अथ शून्यवादः
SK
अत्र भाष्यं - शून्यस् तु. कथम्. अर्थज्ञानयोर् आकारभेदं नोपलभामहे. प्रत्यक्षा च नो बुद्धिः. अतस् तद्भिन्नम् अर्थरूपं नाम न किञ्चिद् अस्तीति पश्यामः इति. तत्र यः शून्यो येन च शून्यः तदुभयानुपादानात् शून्यस् त्व् इति प्रतिज्ञावचनम् असङ्गतार्थम्. यदि तु पूर्वसाधनवाक्यगतप्रत्ययशब्दानुषङ्गेण शून्यः प्रत्ययः तद्भिन्नम् अर्थरूपं नाम न किञ्चिद् अस्तीति चोत्तरग्रन्थानुसारेणार्थेन शून्य इति व्याख्यायते, ततस् तेनैव गतार्थत्वम् अत आह -- एवम् इति. अयम् एवात्र प्रतिज्ञार्थः प्रत्ययो ऽर्थेन शून्य इति. न च गतार्थत्वं, प्रत्यवस्थानहेतुभेदात्. स एव निरालम्बनवादी नास्तिकः प्रत्यक्षादिविरोधदूषितस्वसाधनो दूषणपरिहारेणेदानीं प्रत्यवतिष्ठते. बाह्यार्थग्राहिज्ञानाश्रयणेन हि प्रत्यक्षादिविरोधो ऽभिहितः. तत्रेदम् उच्यते. न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तम् असम्बन्धात्. असम्बन्धप्रकाशने चातिप्रसङ्गात्. एकरूपोपलब्धेश् च ज्ञानप्रवृत्तिविषयासिद्धेः. एकं हीदं नीलम् इति नीलं प्रकाशते. तद् एकम् एव युक्तम्, विभागानवगमे तदभ्युपगमायोगात्. तद् इदम् उक्तम् अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति. अत एवायम् अनादिकालीनवासनोपप्लावितनिखिलनीलाद्याकारप्रकाशः. नात्र केनचिद् बाह्यम् अवस्थाप्येत, येन तदपलापे प्रत्यक्षादिविरोधो भवेत्. अतः स एवायं पक्षो दूषणपरिहारेण पुनर् अनुप्राणितः. तद् एतत् प्राग् अप्य् उक्तं -
SK
प्रत्यक्षबाधने चोक्ते पश्चात् तच्छक्त्यवेक्षणात् |
SK
इति
SK
{२,९२} अत्र पूर्वपक्षं विवक्षन् संवित्परीक्षां तावद् अवतारयति -- यत् तावद् इति. यद् यादृशं बाह्यार्थग्राहि प्रत्यक्षं मन्यमानेन भवता मीमांसकेन प्रत्यक्षविरोधादिदूषणं निरालम्बनसाधनस्योच्यते, तद् इदानीं परीक्ष्यताम्. प्रत्यक्षपरीक्षामुखेन चात्र संविन्मात्रपरीक्षैवोपक्षिप्ता. सर्वसंविदाम् एव बहिर्विषयत्वानभ्युपगमात्. मुख्यतया तु प्रत्यक्षपरीक्षोपन्यास इति
SK
कीदृशी पुनर् इयं परीक्षेति तत्स्वरूपं दर्शयति -- प्रवर्तितुम् इति. किम् इदं प्रत्यक्षं बाह्ये प्रवर्तितुं शक्तम् आहोस्वित् स्वांशपर्यवसायीतीदृशी परीक्षा. परीक्षा च संशय्य पूर्वोत्तरपक्षबलनिरूपणम् अभिधीयते. तद् अनेन प्रथमस्य परीक्षापर्वणः स्वरूपम् उपन्यस्तम् इति वेदितव्यम् इति
SK
आह -- वक्ष्यति भवान् संवित्परीक्षाम्. किम् अस्याः प्रयोजनम् इति वक्तव्यम्. अप्रयोजनस्य हि सन्दिग्धस्य काकदन्तवदपरीक्षणीयत्वाद् अत आह -- तद् यदीति. अयम् अभिप्रायः -- सर्वपूर्वाक्षेपेणायं वाद उद्भवति. सर्वाक्षेपेषु च पूर्वाधिकरणस्यैव प्रयोजनम्. यथा वक्ष्यति -- आक्षेपे पूर्वाधिकरणस्येति. तद् यदि बाह्यार्थग्राहि प्रत्यक्षम् उपपादयितुं शक्ष्यामः, ततो दूषणसिद्ध्या बाह्यार्थपरं वक्ष्यामः. यदि त्व् आत्मांश एव सर्वसंविदां ग्राह्यो भविष्यति, ततो दूषणबाधनात् साधनसिद्धौ नास्तिकस्य बाह्यापलापः सेत्स्यति. तदियं बाह्यार्थसिद्धाव् एव परीक्षोपयुज्यत इत्य् अवतार्यत इति
SK
सा पुनर् इयम् अनाश्रया संविच्छक्तिपरीक्षेति नास्तिकैकदेशिनः प्रत्यवतिष्ठन्ते.{२,९३}ते हि ग्राह्यवैधुर्यदुःरिथताः संविदो ऽपि न सन्तीति वर्णयाम्बभूवुः. अतः शून्ये संसारे किं कुत्र प्रवर्तितुं शक्तम् अशक्तं वेति परीक्ष्यते. अत आह -- तत्रेति. अयम् अभिप्रायः -- नायम् उभयापलापः शक्यो वक्तुम्. सर्वप्राणिनामविगानसिद्धत्वान् नीलाद्याकारप्रतिभासस्य. इदं तु चिन्तनीयं सर्वसंविदाम् एवौपाधिको नीलिमा स्वाभाविको बाह्यस्येति. तुच्छे तु संसारे निर्बीजप्रतिभासो नावकल्पते. अतः परीक्षणीयम् इदं किं ज्ञानम् एवानादिवासनोपप्लावितनीलाद्याकारम् आत्मगोचरम् एवेदं प्रकाशते, परमार्थसन्तं वा बाह्यम् अर्थं प्रतिपादयितुं समर्थम् इति. यदि तत् तावद् उपस्थापयति, अतस् तद्बलभुवा प्रमाणान्तरेण तद् अपि सिध्यतीति. नीलपीतादिदीर्घादीति विविधाकारोपन्यासेन पूर्वपक्षबीजं दर्शयति. नायं व्यवस्थितैकस्वभावो नीलादिर् आकारो दृश्यते, अव्यवस्थितस्यापि दीर्घादेर् औपाधिकस्य दर्शनात्. तात्त्विके वाव्यवस्थानुपपत्तिर् इति. एतच् चोपरिष्टाद् व्यक्तीकरिष्यतीति
SK
नन्व् एवम् अस्तु यथाप्रतिभासम् उभयं, तथापि कः परीक्षावसरः. न हि प्रत्यक्षसिद्ध एवोभयस्मिन् परीक्षा युक्ता. अत आह -- न चेति. अयम् अभिप्रायः -- सिध्यत्य् उभयं यदि ज्ञानज्ञेययोर् आकारभेदो दृश्यते. तदा हि विविक्ताकारम् उभयं भासमानं न नेति शक्यम् अपलपितुम्. एक एव तु नीलादिर् आकारो भासते. अतः कथम् उभयम् अविवादसिद्धं भवति यन् न परीक्ष्येत. सूक्ष्मः खल्व् अयं पण्डितैर् उपवेदनीयो ऽर्थो न्यायः येनैकत्राकारे भासमाने ऽन्यद् अवस्थाप्यते. नायम् अपरीक्षकाणां सिध्यति. तद् इदम् उक्तम् अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति भाष्ये. अतो न प्रत्यक्षैकप्रमाणिका द्वैतसिद्धिर् इति परीक्षावतरणीया. यथा च नोभयं प्रत्यक्षं तथोपरिष्टाद् वक्ष्याम इति. नन्व् एवम् आकारभेदानवसाये ज्ञानार्थयोर् अन्यतरस्य यस्यैवायम् आकारो दृश्यते तस्यैवायम् अभ्युपगन्तुम् उचितः, किम् अत्र परीक्षणीयम् अत आह -- न चेति. भवेद् एवं यदि ज्ञानार्थयोर् अन्यतरस्यायम् आकार इति विशदतरम् अवगम्येत. न त्व् अन्यतरस्य धर्मता तस्य विस्पष्टा. अतो ज्ञानं वा नीलम् अर्थो वेति युक्तैव परीक्षेति
SK
{२,९४} नन्व् असत्य् अप्य् आकारभेदावगमे द्वयोर् अन्यतरसिद्ध्यैवार्थाद् इतरत् सिध्यति. तथा हि -- न तावज् जडस्यासति प्रकाशान्तरे प्रकाशः सिध्यतीति ततस् सिद्धिः. अकर्मकज्ञानानुत्पत्तेश् च ज्ञानाद् ज्ञेयसिद्धिर् इति द्वैतवाद एव साधीयान् किं परीक्षयात आह -- गृह्यमाणस्येति. अयम् अभिप्रायः -- यद् एतन् नीलम् इत्य् अत्र ग्रहणे साक्षात्कारिणि प्रकाशते, तस्यैवास्तित्वं नेतरस्येति सौगता भ्राम्यन्ति. अप्रत्यक्षसिद्धेर् अप्रमाणकत्वात्. तथा हि -- न तावदान्तरज्ञानाद् बहिर्ज्ञेयसिद्धिः, असम्बन्धात्. असम्बन्धप्रकाशने चातिप्रसङ्गात्. ज्ञेयाच् च ज्ञानसिद्धेर् अप्रमाणकत्वम् अनन्तरम् एव वक्ष्यामः ग्राहकं निष्प्रमाणकम् इति. अतः प्रत्यक्षावभासिनोर् एवोभयोर् आत्मलाभः सम्भवतीति. न चाकारभेदोपलम्भो ऽस्तीत्य् उक्तम्, अतो न स्फुटा द्वैतसिद्धिर् इति परीक्षा प्रतिपादयितव्येति भावः. यतश् च गृह्यमाणस्यास्तित्वं, तस्माद् एकम् एवेदम् आकारवद् वस्त्व् इदं नीलम् इति गृह्यते तद् एकम् एवापद्यते, न तु तत्त्वान्तरम् आकर्षतीत्य् अभिप्रायेणाह -- तस्माद् इति
SK
एवञ् च परेषु भ्राम्यत्सु नापरीक्ष्यनिरूपणं कर्तुं शक्यम्. तद् यदि नः परीक्षमाणानां परोक्ताभिर् युक्तिभिर् ज्ञानम् एवाकारवद् इति समर्थनम् अभविष्यत् ततस् तन्मात्र एव प्रत्यक्षप्रमा क्षीणेति नार्थो ऽवकल्पिष्यते. अथ तु बाह्यम् एव वस्त्व् इदम् इति प्रतिभासानुसारेणाकारवद् इति समर्थ्यते, ततस् तत् तावत् प्रत्यक्षगृह्यमाणम् अस्तीति स्थिते तत्सिद्ध्यन्यथानुपपत्त्यैव वक्ष्यमाणप्रकारे(ण) बुद्धिसिद्धौ मम द्वैतं सिध्यतीत्य् अभिप्रायेणाह -- अत इति द्वयेन
SK
{२,९५} एवं तावत् प्रत्यक्षपरीक्षां प्रस्तुत्य तत्स्वरूपप्रयोजनारम्भाक्षेपसमाधानाद्य् उक्त्वा पूर्वपक्षं ग्रहीतुकामो मीमांसकः स्वगोत्रानुसारेण स्वयम् आलोचयति -- किम् इति स्यादन्तेन. इदानीं पूर्वपक्षं गृह्णाति -- ज्ञानम् आकारवद् इति. कथं पुनर् इदम् इति विस्पष्टे परप्रकाशे प्रत्यगात्मन्य् आकारवत्त्वम् अभिधीयत इति सिद्धान्ताभिप्रायेण पृच्छति -- कुत इति. अयं च कथम् इति भाष्यप्रश्नानुसारेण प्रश्नो व्याख्यातव्य इति. पुनर् अपि अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति भाष्याभिप्रायेणैव ज्ञानस्याकारवत्तायाम् उपपत्तिम् आह -- एकम् इति. अयम् अभिप्रायः -- एकम् एव हि नीलाद्याकारं तत्त्वम् अधिगतवन्तो वयम्. अतस् तन्मात्रम् एवाश्रयामः, न पुनर् उभयम् आश्रयितुम् उत्सहामह इति
SK
नन्व् अस्त्व् एकम् आकारवत्, तथापि कुतो ऽयं निश्चयः ज्ञानम् आकारवन्न् आर्थ इत्य् अत आह -- तद् यदीति. यदि बाह्यम् एव वस्त्वाकारवद् इष्यते, ततस् तस्य जडस्य प्रकाशायोगाद् ग्राहकान्तरं कल्पनीयम् आपद्येत. ज्ञानं तु प्रकाशस्वभावम् अनपेक्षितप्रकाशान्तरम् एव साक्षात्कारि प्रकाशत इति नानुपपन्नम्. अतो ज्ञानम् एवाकारवद् इत्य् अभिप्रायः
SK
ननु प्रमाणबलाद् आपतन्ती ग्राहकान्तरकल्पना युक्तैवात आह -- तेनेति. अयम् अभिप्रायः -- भवेद् एवं यदि प्रमाणवती कल्पना भवेत्. निष्प्रमाणं तु निराकारं वस्तु ज्ञानाभिधानम् आकारवतो बाह्यात् कल्पनीयं भवेत्. बाह्यं हि तेनाविदितप्रति(?ब/सम्ब)न्धं न तत् तावद् अनुमापयति, अतिप्रसङ्गात्. न च नित्यपरोक्षज्ञानवादिनः क्वचिद् अपि बुद्ध्या व्याप्तिसिद्धिः. अपि च अर्थो{२,९६}ज्ञानानुमाने लिङ्गम् अर्थधर्मो वा. पूर्वस्मिन् कल्पे व्यभिचारी हेतुः, असत्य् अपि ज्ञाने ऽर्थभावात्. अज्ञातस्य च लिङ्गतानुपपत्तिः एकदेशदर्शनाद् इत्य् अभ्युपगमात्. ज्ञातस् तु नासति ज्ञानज्ञाने लिङ्गं भवति, अगृहीतविशेषणस्य जातत्वायोगात्. ज्ञातो हि लिङ्गं न स्वरूपेण, व्यभिचाराद् इत्य् उक्तम्. किञ्चेदं ज्ञातत्वम् अन्यद् अतो ज्ञानसम्बन्धात्. तदवश्यं ज्ञानं जिज्ञासमानस्यापन्नम् अग्रे ज्ञानसंवेदनं ज्ञानम् अज्ञानं वा ज्ञातस्य. ननु न ब्रूमः स्वरूपेणार्थो लिङ्गं ज्ञानविशिष्टो वा. व्यक्तस् तु विषयो लिङ्गम्. ननु सा व्यक्तिबुद्धिर् एव विषयस्य, तदसिद्धौ तदुपाधिको व्यक्तो विषयः कथं हि सेत्स्यति. न व्यक्तिबुद्धिर् अर्थात्मेति चेत्, स बुद्धिजन्मा न वा. न तावत् तज्जन्मा, असम्बद्धया बुद्ध्यार्थे धर्मान्तराधानायोगात्. अतज्जन्मनश् चातल्लिङ्गत्वात्, हेतुतद्वतोर् असति तादात्म्ये ऽप्रतिबन्धात्. यथाहुः -- स किं वा बुद्धिजन्मापि न बुद्धिं गमयेत् प्रतिबन्धाभावात् इति. अर्थधर्मश् चाज्ञातुर् अपि साधारणः अविशेषात् परबुद्धिम् अप्य् अनुमापयेत्. उक्तं च -- अर्थात्मनश् च साधारणत्वाद् अन्यबुद्धेर् अप्य् अनुमानप्रसङ्गः इति. स्याद् एतत्. नेदम् अनुमानम्, अर्थापत्तिस् तु. साचागृहीतसम्बन्धस्यापि जायत एवेति. तन् न तावत् प्रमाणान्तरम्. यथाहुः -- तद् द्विविधं सम्यग्ज्ञानं प्रत्यक्षम् अनुमानं चेति. प्रमाणस्य सतो ऽत्रैव शब्दादेर् अन्तर्भावात् प्रमाणे एवेति च. अस्तु वा प्रमाणान्तरम्. कयानुपपत्त्यार्थो ज्ञानं गमयति. स हि स्वकारणसामग्रीतो लब्धात्मा. किं तस्यासति ज्ञाने नोपपद्यते. अस्ति खल्व् असाव् अज्ञातो ऽपि. सत्यं, ज्ञातता तु तस्यानुपपन्ना. नासाव् अन्या ज्ञानसम्बन्धाद् इत्य् उक्तम् एव. अर्थधर्मत्वे चातिप्रसङ्गो वर्णितः. स प्रमाणान्तरे ऽपि समानः. परस्परस्याप्य् अर्थगतानुपलभ्यमानधर्मदर्शिनः परबुद्ध्यर्थापत्त्युपपत्तेः. अपि च प्रमाणान्तरप्रतीघातो ऽनुपपत्तिः. तत्र केन प्रमाणेन ज्ञातो विषयः प्रतिहन्यते, यज्ज्ञानकल्पनयोपपद्येत. अतो नाप्रत्यक्षा बुद्धिः सिध्यतीति. यस् तु वदति सत्यम् अप्रत्यक्षा धीर् न सिध्यति. तद्वद् एव त्व् अर्थो ऽपि प्रत्यक्षसिद्ध एव. एकस्मिन्न् एव हि प्रतिभासे मेयमातृप्रमाप्रकाशः नीलम् अहं जानामीति. अतः प्रत्यक्षबलसिद्धम् एव द्वैतम् इति. तदुपरिष्टान् निराकारष्यामः न चोपलब्धिर् अस्तीहेति. अतो ऽर्थाकाराभ्युपगमे निष्प्रमाणकं वस्त्वन्तरं कल्पनीयम् इति सूक्तम् इति
SK
{२,९७} स्याद् एतत्. अप्रकाशात्मन्य् अर्थे ऽप्रमाणिका वस्त्वन्तरकल्पना भवेत्, अन्यथार्थप्रकाशासम्भवात्. अर्थम् एव तु प्रकाशस्वभावम् एषिष्यामः, न वस्त्वन्तरं कल्पयिष्याम इत्य् अत आह -- तस्येति. अयम् अभिप्रायः -- एकम् एव वस्तु ग्राह्यग्राहकाकारम् इति नः प्रतिज्ञा. तद् यद्य् अर्थ एव तादृशो भवताश्रीयते, सिद्धो नः पक्षः, अद्वैतसिद्धान्तसिद्धेः. संज्ञामात्रे त्व् आवयोर् विसंवादो भवेद् न वस्तुनि. उभयोर् अप्य् एकत्वाभ्युपगमात्. कथं पुनर् अत्र संज्ञामात्रे विसंवादः. अर्थवादी हि स्थिरम् अर्थम् अनुजानाति. ज्ञानवादी तु क्षणिकम्. सत्यम्. अन्याऽय विशेषः तत्त्वं तावद् एकम् एवापद्यते. एतद् एवात्र निरूपणीयम्. अन्यत्त्वेतद् यत् स्थिरम् अस्थिरं वेति
SK
एतद् एव विव्र्णोति -- ग्राह्येति. नन्व् अस्त्य् अयं विशेषः बाह्यो ऽर्थो ज्ञानम् आन्तरम् इति. अतः कथं न वस्तुभेदः. अत आह -- बाह्येति. अयम् अभिप्रायः -- नायं बाह्यान्तरविवेकः पारमार्थिकस् तत्त्वाभेदे सिध्यति. भेदे हि तथा भवेद् एकं बाह्यम् एकम् आन्तरम् इति. अभिन्ने तु तत्त्वे किम् अपेक्ष्य किं बाह्यं किम् आन्तरं वा भविष्यति. अतो मृषैवायं ज्ञानमात्रनिर्मितः परिकल्पः कल्पनम् इति
SK
ननु बौद्धानाम् अपि स्वच्छाकारम् एकम् एव ज्ञानम्. अतः कथम् अस्मिन् नीलादिरूपं ग्राह्यग्राहकाकारशबलं विभक्तम् इदं नीलम् अहं जानामीति निरूप्यते. न हि स्वच्छस्य नीलादिता सम्भवति. न चैकस्य ग्राह्यग्राहकता नीलम् अहं जानामीति, स्वात्मनि क्रियाविरोधात्. अत एव न प्रविभागः इदं जानामीति. अतः प्रतिभासानुगुणो ऽर्थाकारपक्ष एव न्याय्यः, अत आह -{२,९८} मत्पक्ष इति सार्धद्वयेन. अयम् अर्थः -- यद्य् अपि स्वच्छो ज्ञानात्मा एक एव, तथाप्य् अनादौ संसारे यानि पूर्वज्ञानानि तान्य् एव प्रसूतिः प्रसवो यासां वासनानां ताभिः नीलपीतादिविचित्रज्ञानहेतुत्वाद् विचित्राभिः आत्मानुरूपेण तस्य स्वच्छस्य ज्ञानात्मन उपप्लवात्. उपप्लवो भ्रान्तिज्ञानं, किम् उक्तं भवति. यादृशी वासना तादृशं स्वानुरूपं विभ्रमं जनयति. नीलवासना नीलं, पीतवासना पीतम् इति यावत्. एवं च स्वानुरूप्येणोपप्लवाद् ज्ञानात्मनि नीलादिरूपं तावत् प्रकाशते. तच् च ग्राह्यग्राहकाकारशबलं तदाकारवासनोपप्लवाद् एव. ग्राह्यग्राहकाकारशबलैर् हि पूर्वज्ञानैस् तदाका(?र/रा) एव वासना आहिताः. अतो नीलाद्याकारवत् तदाकारप्रकाशो नानुपपन्नः. विभक्ताकारवासनावशाद् एव च विभक्तप्रतिभासो वर्णनीयः. एवं च वासनावशाद् एव नीलादिरूपं ग्राह्यग्राहकाकाररूषितं प्रविभक्तम् इवेदं नीलम् इत्य् उपपन्नम् इति न पारमार्थिकं बहिःसन्तम् आश्रयभूतम् अपेक्षते. एकस्मिन्न् एव हि तत्त्वे त्रितयं समाप्तं प्रमितिः प्रमाता प्रमेयं चेति. यथाहुः --
SK
अविभक्तो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः |
SK
ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते ||
SK
इति. आह -- सन्तु तावद् वासनानिबन्धनाः संविदां नानासमुल्लासाः. तद्वैचित्र्यम् एव कुतः. ननूक्तं विचित्रज्ञानहेतुत्वाच् चित्राभिर् इति. न, अन्योन्याश्रयापत्तेः. तथा हि -- वासनाभेदाद् ज्ञानभेदस् तद्भेदाद् वासनाभेदः इति दुरुत्तरम् इतरेतराश्रयम् इति. अत आह -- अन्योन्येति. अयम् अर्थः -- नेदम् इतरेतराश्रयम्. अनादिर् अयं वासनाज्ञानयोः कार्यकारणभावः बीजाङ्कुरयोर् इव. नात्रान्यतरस्यापि पूर्वकोटिः प्रसङ्ख्यायते. अतो वासनातो ज्ञानं ततो वासनेति किम् अनुपपन्नम्. शक्तिर् इति वासनाम् अपदिशति. सा हि ज्ञानशक्तिर् इति प्रसिद्धा. अयं चानादितयेतरेतराश्रयपरिहारः अनादौ संसार इत्य् अत्र सूत्रितो ऽत्र विवृत इत्य् अनुसन्धातव्यम् इति
SK
{२,९९} एवं तावदुपपादितं ज्ञानम् आकारवद् इति. इदानीं तत्रैव कारणान्तरम् आह -- अनेकेति द्वयेन. कल्पनागौरवं हि द्वैतवादिनाम् आपद्यते, नास्माकम् एकत्ववादिनाम् इति भावः. ननु तवापि शक्तिकल्पनया द्वैतम् एव, असत्यां हि तस्यां पूर्वोक्तविभागानुपपत्तिर् अत आह -- शक्तिमात्रस्येति. अयम् अभिप्रायः -- न वासना नाम काचिद् वस्तुतो ज्ञानातिरेकिण्य् अस्ति या द्वैतम् आवहति. संवृतिसत्यकल्पिता हि सा. न च काल्पनिकं वस्तु द्वैत्म् आपादयति. अपि च बहिर्वस्तुवादिनाम् अपि तद् उपेत्य तत्समवाय्य् अन्यः शक्तिभेदः कल्पनीय एव तत्तत्कार्यभेदोपपादनाय. तद् इयं शक्तिकल्पना साधारणी. ज्ञानवादिनस् तु ज्ञानशक्तिकल्पनैव केवलेत्य् अस्ति विशेषः. एतच् च पारमार्थिकं शक्तिभेदम् अभ्युपेत्योक्तम्. न च तथा सौगता मन्यन्ते, चिन्मात्रं तु सद् इत्य् अभ्युपगमाद् इति. इतश् च ज्ञानम् आकारवद् इत्य् आह -- तस्माद् इति ज्यायस्यन्तेन. उभयोर् अपि द्वैताद्वैतवादिनोः सिद्धं ज्ञानम् अतस् तस्यैवाकारकल्पना न्याय्या सिद्धाश्रयत्वाद् इति. तस्माद् वस्तुभेदाद् आकृष्येत्य् अर्थः. तव त्व् अस्माकम् अर्थासिद्धेर् आश्रयान्तरकल्पनापुरस्सरी तदाकारकल्पना स्याद् इत्य् आह -- भवत इति
SK
अत्र कारणम् आह -- तदसिद्धावशक्तत्वाद् इति. नीलादिर् हीदं नीलम् इति क्वचिद् आश्रितो दृश्यते. नासाव् आश्रयम् अन्तरेणोपपद्यते. तद् यदि ज्ञानाश्रय इष्यते सिद्धाश्रयो भवति, इतरथा साध्याश्रय इति विशेष इति. अपि चैवम् अर्थाकाराश्रयणे तेन विज्ञानेन विप्रकृष्टता नीलादेर् आकारस्यापद्येत.{२,१००}ततश् च तेन तत्प्रकाशायोग इत्य् अभिप्रायेणाह -- तेनेति. अनेन च संवेदनाद् इति बौद्धोक्तो हेतुर् अन्तर्णीतः. एवं हि तेनोक्तं नानात्मनः संवेदनं भवति नीलवित्तौ पीतवत्. आत्मभूतस्य तु स्वात्मवद् एव प्रकाशो नानुपपन्नः. तद् इदम् उक्तम् अनर्थान्तरत्वे तु नीलादेर् अनुभवात् तदात्मभूतः प्रकाशते, तथा नीलाद्यनुभवः स्याद् इति. तथेति यथा[७२१]ज्ञानात्मेत्य् उक्तं भवति. अतः संवेदनाद् एव तु भासमानस्य नीलादेस् तत्संविदश् चाविवेकः सिद्ध इति. अपरम् अपि ग्राह्यलक्षणयोगाद् इति बाह्यापलापे बौद्धोक्तं हेतुम् उपन्यस्यति -- प्रत्यासन्नम् इति. अयम् अभिप्रायः -- मम हि ज्ञानात्मभूतम् एकान्तप्रत्यासन्नं नीलादि युक्तं यद् ग्राह्यतां प्रतिपद्यते. असम्बद्धस्य तु ग्राह्यलक्षणायोगः. नन्व् इयम् एवार्थस्य ग्राह्यता यत् ततो ज्ञानस्योत्पत्तिः तत्सारूप्यं च. बाह्यनीलाद्याभासं हि ज्ञानम्. तत्स्वरूपं तावत् ततश् चोत्पद्यते कदाचित् ज्ञान कार्यव्यतिरेकात्. यथोक्तं - सत्सु समर्थेष्व् अन्येषु हेतुषु ज्ञानकार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयति. स बाह्यो ऽर्थः स्याद् इति. सौत्रान्तिकमते सन्ति खल्व् आलोकेन्द्रियमनस्कारादयः. ते च ज्ञानहेतवः. न च ज्ञानं जायत इति दृष्टम्. तद् इदं बाह्यार्थसन्निकर्षादेवोत्पद्यत इति तत्सिद्धिः. एवं चोत्पत्तिसारूप्याभ्याम् एवार्थवेदनम् इत्य् उच्यते (?अर्था ग्रा/अर्थो गृ)ह्यत इति च. अत उत्पत्तिसारूप्ययोर् एव ग्राह्यलक्षणत्वाद् ग्राह्यो ऽर्थो नापह्नोतुं शक्यते. मैवम्. एवं सत्यनन्तरम् एव विज्ञानं तुल्यविषयं विषयः प्राप्नोति ज्ञानानां तत्सारूप्यात् तदुत्पत्तेश् च समनन्तरप्रत्ययाधीनजन्मत्वाद् उत्तरेषाम्. अपि च नार्थज्ञानयोः सारूप्यं, ज्ञानप्रतिभासिनः स्थूलाकारस्य परमाणुष्व् अभावात्. एकश् चायम् आकारो ज्ञानसन्निवेशी. बहूनि च सञ्चितानि रूपादीनि. कथम् अनयोः सारूप्यम्. न चापि स्थूल एको विषयो ऽवयव्य् अस्ति, तस्यावयवेभ्यो ऽव्यतिरेकात्, तन्नानात्वे नानात्वापत्तिः. एकावयवकम्पे च सर्वावयविकम्पप्रसङ्गः. एकावृत्तौ चाभेदात् सर्वावृत्तिः न वा कस्यचिद् इत्य् अविकल्पोपलम्भप्रसङ्गः. अवयवस्यावरणं नावयविन इति चेद्, न. अभेदे तदनुपपत्तेः. भेदे वा तदावरणे ऽप्य् अनावृतत्वात् प्राग्वद् अस्य दर्शनप्रसङ्गः. कस्माच् च भिन्नो ऽवयवज्ञानाधीनज्ञानः, न खलु घटसंवित् पटसंविदम् अपेक्षते. वस्तुस्वभावाद् इति चेद्, न. अन्यतमानुपलम्भे ऽनुपलम्भप्रसङ्गात्. कतिपयावयवप्रतिपत्तौ{२,१०१}वा (?दर्शने) अङ्गुल्यग्रदर्शने ऽपि स्थूलोपलम्भप्रसङ्गः. अतो नास्ति कश्चित् स्थूल एको ऽर्थः यो ज्ञानं सरूपयति. किञ् च इदम् एकेन वा केनचिदात्मना ज्ञानार्थयोः सारूप्यं सर्वात्मना वा. एकदेशसारूप्ये नीलम् अपि पीतसंविदः सरूपम् उभयोः क्षणिकत्वाद् असाधारणत्वाच् चेति तद् अपि ग्राह्यं भवेत्. एवं च सर्वः सर्ववित् स्यात्. अतदुत्पत्तेर् अग्राह्यत्वम् इति चेद्, न. प्रमाणाभावाद् नीलबुद्धिर् नीलपतीताभ्यां सदृशी नीलादेवोत्पद्यत इति न नः प्रमाणं क्रमते. अपि च नीलाद् अप्य् उत्पत्तौ न प्रमाणम् इत्य् अनन्तरम् एव वक्ष्यामः. समं च सारूप्यम् इति न ग्राह्येतरविवेकः. सर्वात्मना तु सारूप्यम् आतिष्ठमानो जडत्वम् अप्य् अर्थस्य बुद्धावादध्यात्. एवं चान्ध्यम् एव जगतः. यथाहुः --
SK
__________NOTES__________
SK
[७२१] थात्मज्ञा (KHA)
SK
एकदेशेन सारूप्ये सर्वः स्यात् सर्ववेदकः |
SK
सर्वात्मना तु सारूप्ये ज्ञानम् अज्ञानतां व्रजेत् ||
SK
इति. न च तदधीना ज्ञानोत्पत्तिः, उपादानविशेषाभावाद् एव कार्यव्यतिरेकसिद्धेः. कार्यदर्शनबलेन हि वयं समनन्तरप्रत्ययम् एव वासनापरनामानम् उत्तरबुद्धीनां कारणम् आचक्ष्महे. तत्कार्यव्यतिरेके तदभावम् उन्नयामः. न हि समग्रं च कारणं कार्यं च न भवतीति सम्भवति. अत उपादानम् एव तन्नामदशाम् अनुपगतं यन् न कार्यम् आरब्धवद् इति किम् अर्थग्रहणेन. यथोक्तं - यथाकथञ्चित् तस्यार्थरूपम् उक्त्वावभासिनः |
SK
अर्थग्रहः कथं सत्यं न जाने ऽहम् अपीदृशम् ||
SK
इति. सिद्धः सत्स्व् अपि हेत्वन्तरेषु कार्यव्यतिरेकः. तस्मान् नोत्पत्तिसारूप्ये ग्राह्यलक्षणम्. न चागृह्यमाणो ऽर्थः सिध्यतीति सिद्धं -
SK
नान्यो ऽनुभाव्यो बुद्ध्यास्ति त(?स्य/स्या) नानुभवो ऽपरः |
SK
ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ||
SK
इति. ग्राह्यलक्षणायोगात् तावन् नान्यो ऽनुभाव्यो ऽस्ति. अत एव तस्या नानुभवो ऽपरः. तेनापि तद्ग्रहणानुपपत्तेः. अतः स्वप्रकाशा धीर् एवैका मोदत इति सिद्धम्. यस् त्व् असम्बद्धस्यैव ज्ञानेनार्थस्य प्रकाश्यताम् आतिष्ठते, सो ऽसम्बद्धेनापि दीपेन घटस्य प्रकाश्यताम् आतिष्ठत इति विवृतं हेतुद्वयम्. सहोपलम्भनियम उपरिष्टाद् विवरिष्यत इति
SK
{२,१०२} अपरम् अपि ज्ञानस्यैवाकारवत्तायां कारणम् आह -- इतश् चेति. युष्माकं मीमांसकानां तज्ज्ञानं प्रकाशकम् इति सिद्धान्त इति. कस्य प्रकाशकम् अत आह -- स्वयम् इति. बाह्यस्य जडात्मनः स्वयं प्रकाशहीनस्य तदुपायतया सम्मतं, अन्यथा तत्प्रकाशायोगात्
SK
किम् अतो यद्य् एवम् अत आह -- न चेति. यद् धि यस्य प्रकाशकं तद् गृहीतम् एव प्रकाशयति. तद् यदि ज्ञानम् अर्थस्य प्रकाशकम् एतद् अपि नागृहीतं तत् प्रकाशयेत्. अतो ऽवश्यं ग्रहीतव्यम्. न च तदनाकारं ग्रहीतुं शक्यम्, न चार्थज्ञानयोर् आकारभेदोपलम्भः. अतो ऽवश्याभ्युपगन्तव्यं ग्रहणस्य ज्ञानस्यैवायम् आकार इति साम्प्रतम् इत्य् अभिप्राय इति. तदधीनप्रकाशत्वाद् इति ज्ञानाधीनः प्रकाशः प्रतिभासो यस्येत्य् अर्थः
SK
एवं तावदवश्यग्राह्यतया ज्ञानस्यैवाकारः अवश्यग्राह्यता च प्रकाशकतयेत्य् उक्तम्. इतरश् चावश्यग्राह्यतेत्य् आह -- उत्पन्नेष्व् इति द्वयेन. द्वेधा ह्य् उत्पन्नं वस्तु न गृह्यते प्रकाशकाभावात् प्रतिबन्धाद् वा. यथान्धकारतिरोहितो घटः कुड्यादिप्रतिबन्धाद् वा यथा लोके. स एव चैतद् उभयम् अपि ज्ञाने सम्भवति. अतो ग्रहणकारणासम्भवाद् उत्पद्यमानम् एव ग्रहीतव्यम्. एवं च तस्यैव साकारत्वापत्तिर् इत्य् उक्तम् एवेति
SK
{२,१०३} यदि त्व् अर्थप्रकाशात् प्राग् ज्ञानं नोत्पद्येतैव, ततो ऽसतो ग्रहणासम्भवान् न गृह्येत, न त्व् एवं भवद्भिर् अपीष्यते. उत्पन्नायाम् एव बुद्धाव् अर्थस्य ज्ञातत्वाभ्युपगमात्. ततः प्रागुत्पन्नस्याग्रहणकारणाभावादाव् अश्यकं तादात्विकं ग्रहणम् इत्य् आह -- प्राक् चार्थेति अस्यान्तेन. यदि तूत्प(?न्नं/न्न) प्रतिबन्धं च केनापि न गृह्यत इत्य् उच्यते नित्यासंवेद्यतैव तर्ह्य् आपद्येत. ततश् चाभाव एव ज्ञानस्य भवेद् इत्य् अभिप्रायेणाह -- न चेद् इति
SK
किं पुनः कालान्तरे न ग्रहणम् इत्य् अत आह -- किम् इति. अगृह्यमाणे विशेषे प्रागग्रहणं परस्ताच् च ग्रहणम् इत्य् अनुपपन्नम् इति
SK
ननूत्पन्नस्यापि संविदन्तरापेक्षया ग्रहणम् इति किं नोपपद्यते अत आह -- ज्ञानेति. युक्तं यदप्रकाशको ऽर्थः प्रकाशाय ज्ञानान्तरम् अपेक्षते. ज्ञानं तु स्वयम् एव प्रकाशरूपम् इति किं तस्य प्रकाशान्तरापेक्षया. अतः सहसैव प्रकाशेतेति. तुल्यजातीयान्तरापेक्षायाम् अनवस्था. यथाहुः -- ज्ञानान्तरेणानुभवे हीष्टा इति. न च ज्ञानं न ज्ञायत एवेति साम्प्रतम्. अभावप्रसङ्गात्. उत्तरकालं च स्मृतिदर्शनात् सहैव हि विज्ञानेन पूर्वदृष्टम् अर्थं स्मरन्तो दृश्यन्ते ज्ञातो ऽसाव् अर्थो मयेति. न चाज्ञातस्य ज्ञानस्य स्मृतिर् उपपद्यते. उक्तं च परैः -- तत्रापि च स्मृतिः इति. एवं चापरापरज्ञानापेक्षायाम् एकविषयसंवित्ताव् एवायुः पर्यवस्येत् न विषयान्तरसञ्चारो जायेत. तत्र च दृष्टं ज्ञानम्. यथाहुः --
SK
विषयान्तरसञ्चारस् तथा न स्यात् स चेष्यते |
SK
इति. तद् एतत् सर्वम् अभिप्रेत्याह -- तस्येति
SK
{२,१०४} इतश् च प्राग् ज्ञानं ज्ञायते ज्ञानाकारश् च नीलादिः, येन ज्ञानपुरस्सरम् एवावगतपूर्वं निरुद्धम् अर्थं स्मरन्तो दृश्यन्ते ज्ञातो मयातिक्रान्तो ऽमुको राजेति. यदि ह्य् अर्थस्याकारो भवेत्, असत्य् अर्थे सता कथं धीर् अनुरज्येत. अतो बुद्धिर् एव तदाकारम् अर्थम् आलिख्योपजायत इति युक्तम्. यदि चातीते काले ज्ञानपुरस्सरम् अर्थो नोपलक्षितो भवेत्, कथम् इदानीं तथा स्मर्येत. यथावगतग्राहिण्यो हि स्मृतयः कथं मात्रयापि पूर्वानुभूतम् अतिक्रामन्ति. तस्माज् ज्ञानाकारो नीलादिः ज्ञानपूर्वकश् चार्थानुभव इत्य् आह -- ज्ञानेति द्वयेन. तत् पुनर् इदं परस्परविरुद्धम् इवोभयं साध्यम् उपलभ्यते. तथा हि. ज्ञानपूर्वम् अर्थो ऽनुभूयत इत्य् अर्थम् अङ्गीकरोतीति लक्ष्यते. ज्ञानाकारसाधनेन च निराकरोति इति तद्विषयम् अनृतम्. मैवम्. नात्र ज्ञानपुरस्सरम् अर्थो ऽवसीयत इति तात्पर्यम्. एवं तु मन्यते -- अङ्गीकारयामि तावद् एनं श्रोत्रियम् अनुभवानुभवपुरस्सरीम् अर्थस्थितिम्. एष हि छान्दसो द्वैतसिद्धिम् एवम् अप्य् अविगुणां मन्यमानो ऽभ्यनुजानाति तावत् प्रथमं ज्ञानसंवेदनम्. ततो ऽनाकारोपलम्भासम्भवाद् एकाकारोपलम्भाच् चानायासम् एवार्थापलापं वक्ष्याम इति च. तथा भाष्यकारेणापि -- ननूत्पन्नायाम् एव बुद्धौ अर्थो ज्ञात इत्य् उच्यते इति छद्मनैवार्थाभ्युपगमो दर्शितः. वार्त्तिककारेणापि तथैवानुविहितम्. अतो न दोष इति
SK
इतश् च ज्ञानानुविधाय्यर्थः. तथा हि भवन्ति वक्तारः -- नीलो ऽयम् अर्थः तद्रूपानुभवाद् इति. ज्ञाननिरपेक्षे त्व् अर्थनिश्चये नैतद् उपपद्यते. तद् एतद् आह -- वक्तार इति
SK
अतः सिद्धं बुद्धिज्ञानपुरस्सरम् अर्थज्ञानम् इत्य् उपसंहरति -- तस्माद् इति.
SK
{२,१०५} अत्रैके वदन्ति -- किम् इदम् अनिष्टम् आपाद्यते ज्ञानम् अनुभूयत इति. प्रतीमो हि वयम् एकस्यां संविदि त्रितयं प्रमाता प्रमितिः प्रमेयं चेति, नीलाद्याकारं प्रमेयं प्रमितिम् अनाकारां प्रमातारं च. तथा हीदृशीयं प्रतीतिः नीलम् अहं जानामीति. तद् इह नीलपदास्पदं प्रमेयं मितिर् ज्ञानाद्युपात्ता. प्रमाता तूत्तमपुरुषेणोपात्तः. किं पुनर् अत्र त्रितये प्रमाणम्. प्रत्यक्षम्. साक्षात्कारिणी हि प्रतीतिः प्रत्यक्षम्. अस्ति चास्याम् अर्थवित्तौ त्रितयस्य साक्षात्कारः. तत्रापि मातृमेययोः पराधीनः प्रकाशः. न मितेः, स्वयम्प्रकाशत्वात्. इतरयोस् तु न स्वयम्प्रकाशत्वं, सतोर् अपि स्वप्नादौ तददर्शनात्. अस्ति खल्व् अयं पुरुषः, स्वापे जागरायां च प्रत्यभिज्ञानात्. एवम् एव विषयाः. न च तदा प्रकाशन्ते. तत् कस्य हेतोः, यदि विषयाणाम् आत्मनश् च स्वयम्प्रकाशता संविदस् तु स्वापादाव् असम्भवाद् एवाप्रकाशः, नाप्रकाशत्वात्. अपि च मेयमातृगोचरा फलभूता संविद् अवगम्यते न तु तस्या अपि भिन्ना संविदपरा, यद् असाव् अपि परायत्तप्रकाशाश्रीयते. तद् इह स्वप्रकाशा संवित्. तद्गोचरौ मातृमेयौ. संविद्गोचरत्वाविशेषे ऽपि नात्मनः कर्मभावः, गन्तृवदुपपत्तेः. यथा खलु समाने ऽपि त्रियाफलसंयोगविभागभागित्वे ग्रामादेः कर्मभावो, न गन्तुः. एवं प्रमाणफलसंवित्तिसम्बन्धाविशेषे ऽप्य् आत्मनः कर्तृता. तत् कस्य हेतोः. परसमवायिक्रियाफलभागिता हि कर्मता. सावयवानां गन्तव्यानां च देहे[७२२]गतिसमवायाद् आत्मनि ज्ञानसमवायात्. तत्रासौ ग्रामः कर्म. तथा च विषया इति ते तथा. अतो निराकारैव संवित् स्वमहिम्ना सिध्यन्ती मातृमेयाव् अपि व्यवस्थापयति. किम् इदानीं प्रमत्तवचस्सत्यं पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायत इति. न, बुद्ध्यपदेशात् तस्याश् चानुमेयत्वात्. अस्ति वा बुद्धिसंविदोर् भेदः. अस्तीति ब्रूमः. का तर्हि बुद्धिः, का च संवित्. आत्ममनस्संयोगो बुद्धिः. बुद्धिर् ज्ञानम् इत्य् अनर्थान्तरम्. फलभूता संविदनुभवादिपदास्पदम्. तया चात्ममनस्संयोगः कारणभूतो ऽनुमीयत इति किम् अनुपपन्नम्. अदूरविप्रकर्षाद् अन्यतरत्रान्यतरपदप्रयोगः. नन्व् एवं संविदि[७२३]संवेद्येषु च संवेद्यमानेषु संवेद्यद्वयोपलब्धिप्रसङ्गः. न चैवम्, एकाकारसंवेदनात्. उक्तम् अत्रैक एवाकारः संवेद्यः अनाकारा संवित् प्रकाशत इति. किम् इदानीम् असंवेद्यैव{२,१०६}संवित्. न ब्रूमो ऽसंवेद्येति. संवि(?भक्त/त्त)यैव हि संवित् संवेद्यते न संवेद्यतया. केयं वाचोयुक्तिः. इयम् इयं नास्याः कर्मभावो विद्यत इति. स्वयम्प्रकाशत्वात्. न चैवम् असंवित्. न, अतन्मूलत्वात् संवेद्यभावस्य सर्वभावानां, सा हि सर्वभावानां सिद्धिः न चासञ् चेतीता सिध्यतीति कथं ते ऽपि सिध्येयुः. अतः संवित्प्रकाश एव द्वैतं साधयतीति किं सिद्धसाधनेन. संविदुपारूढो हि नीलादिर् अद्वैतम् आपादयति. संविदैव त्व् अनाकारसंविदितया व्यतिरेचितो नीलादिर् नाद्वैताय घटत इति सिद्धं प्रमाता प्रमितिः प्रमेयं चेति. तान् प्रत्याह -- न चेति. अयम् अभिप्रायः -- श्रोत्रियदृष्ट्यैव तावद् बुद्धिर् अनुमेयेति लक्ष्यते. यद् एवम् आह -- ज्ञाते त्व् अनुमानाद् अवगच्छतीति. यत् तु ज्ञानाभिप्रायं तद् न संविदभिप्रायम् इति. तन् न. पर्यायत्वाद् अनयोः. चेतना बुद्धिः ज्ञानं संविद् इत्य् अनर्थान्तरम् इति लौकिका बुध्यन्ते. न चात्ममनसोः संयोगश् चेतना, रूपादितुल्यगुणत्वात्. तच् चेतनात्वे च मनसश् चैतन्यप्रसङ्गः. तस्यात्ममनसोः साधारणत्वात्. अचेतना बुद्धिर् इत्य् अलौकिकम्. यथाहुः -- बुद्धिश् चेतनैव हि गम्यते. इति. अतो यैवासाव् अनाकारा संविद् भवताभिमता सैव तावद् बुद्धिः, तदभिप्रायम् एव बुद्ध्यनुमेयत्वाभिधानम्. न त्व् अनाकारा संविदपरोक्षम् अनुभूयते बुद्धिश् चानुमीयत इति साम्प्रतम्. तद् अयम् अर्थः -- यासौ लौकिकी बुद्धिर् नासाव् अनाकारा अपरोक्षम् उपलभ्यते. तस्मात् प्रत्यक्षबुद्धिवादिनायम् आकारो ज्ञानसन्निवेशी वाच्यः. यथास्माभिर् उक्तम्. यथावार्त्तिकं वा सिद्धान्तः अर्थ एव प्रत्यक्षो न बुद्धिर् इति. तत्र चोक्ता बुद्ध्यनुमाने लिङ्गानुपपत्तिः. अतो ऽसिद्धम् अनिराकाराया बुद्धेर् अनुपलम्भात् संविद् एव द्वैतं साधयतीति
SK
__________NOTES__________
SK
[७२२] ह [७२३] दि संवेद्यमा (KHA)
SK
अपि चैवं सहोपलम्भनियमात् त्रयस्याभेदापत्तिर् इत्य् आह -- विवेकबुद्ध्यभावाच् चेति. त्रयाणां विवेकबुद्ध्यभावाद् एकस्यैव ज्ञानस्याकारवत्तया बोधः प्रसज्यत इति वक्ष्यमाणेन सम्बन्धः. ज्ञानग्रहणम् उपलक्षणार्थम्. एकम् एव तत्त्वम् आकारवद् भवेद् इति विवक्षितम्. यो हि मेयमातृप्रमासु सहोपलम्भम् आतिष्ठते तस्यान्यतरविविक्तान्यतरबुद्ध्यभावाद् अभेद एव त्रयस्यापद्येत,{२,१०७}भेदे नियमायोगात्. भिन्नानां हि घटादीनाम् अनियतः सहोपलम्भः. ते हि सहभावेन विवेकेन चोपलभ्यन्ते. अतो ऽनियमव्याप्तो भेदो नार्हति व्यापकविरुद्धोपलब्धौ भवितुं धूम इवाग्निना व्याप्तो ऽनग्नौ. भिन्नावभासाद् भेद इति चेद्, न. अनेकान्तात्. तत्रैतत् स्याद्, एकदापि हि त्रितयम् अनुभूयमानं भिन्नम् एवावभासते घटकुड्यादिवदतो भिद्यत इति. तन् न. अनैकान्तिकत्वाद् भेदोपलम्भस्य भेदे. उपलभ्यते खलु द्विचन्द्रादिबोधे ऽभिन्नश् चन्द्रः. न चैकस्माद् भिद्यते. तत् कस्य हेतोः. सहोपलम्भनियमाद् एव. स हि मुख्येन नियतसहोपलम्भः, तन् न ततो भिद्यते. तद् अनियतसहोपलम्भा एव भावा भेदेनावसीयमाना भिद्यन्ते नेतरे. यथाहुः -- न भिन्नावभासित्वे ऽप्य् अनर्थान्तररूपत्वं नीलस्यानुभवात् तयोः सहोपलम्भनियमाद् द्विचन्द्रादिवद् इति. ननु भिन्नयोर् अपि रूपालोकयोः सहोपलम्भनियमो दृष्टः. अनालोकोपलम्भा न रूपबुद्धिर् यतः. तन् न, केवलस्यापि क्वचिद् आलोकस्य दर्शनात्. रूपस्य च प्राणिविशेषेष्व् अनालोकस्य. सन्ति हि केचित् प्राणिनः ये ऽन्धकार एव रूपम् आलोकयन्ते. आलोके तु प्रतिहन्यन्ते. मातृमेयसंवेदनानि तु सहैवोपलभ्यन्त इति न भेदम् अर्हन्ति. न हि नीलाद् भिन्नं पीतं तेन सह नियमेनोपलभ्यते. अतः सहोपलम्भनियमाद् अभिन्नं त्रयम् आपद्यते इति. ननु चायम् उपालम्भो ऽस्तु सहोपलम्भनियमवादिनाम् एकेषां मीमांसकानाम्. ये तु विषयवित्तिपुरस्सरीं बुद्धिसंविदम् आतिष्ठन्ते, तेषाम् असिद्धः सहोपलम्भनियमः. सदैव हि विषयसंवेदनोत्तरकालम् एव संविद् उपलभ्यते. यथाहुः --
SK
पूर्वं संगृह्यते पश्चाज्ज्ञानं तज्ज्ञाततावशात् |
SK
इति. तान् प्रत्याह -- सेति त इत्यन्तेन. अयम् अभिप्रायः -- इदं तावदविवादं साकारं वस्तु दृश्यत इति. साकारदर्शनं चेदम् अप्रत्यक्षे संवेदने नोपपद्यते, विषयः सन्मात्रतया न प्रकाशते यतः. तथा सति नित्यप्रकाशापत्तेः. अतो विषयोपलम्भसत्तयैव विषयप्रकाशः, न तत्स्वरूपसत्तया. विषयोपलम्भसत्ता चासिद्धा न सत्तानिबन्धनव्यवहाराय घटत इति तत्सिद्धिर् आस्थेया. न च वित्तेर् अन्या सिद्धिर् भावानां तद् यद्य् उपलम्भो विदितो ऽसिद्धः, तदसिद्धौ विषयासिद्धिः, येन स एव तत्सिद्धिर् इति विश्वम् अस्तमितम्. अतो ऽस्मात् साकारस्यैव वस्तुनो दर्शनाद् अनुपपद्यमानाद् अवगम्यते यद् अस्ति सहोपलम्भ इति. अन्यथा तद्दर्शनायोगात्. यथाहुः --
SK
{२,१०८} अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति |
SK
इति. अतः सिद्धं सहोपलम्भनियमाज् ज्ञानस्याकारवत्तया बोधः नास्ति तत्त्वतो भेद इति
SK
आह -- यद्य् उपलम्भासिद्धाव् उपलभ्यो ऽपि न सिध्यति, अस्तूपलम्भासिद्धिः. उपलम्भान्तरेण तु सिद्ध उपलभ्यं साधयिष्यति. एवम् अपि सहोपलम्भनियमासिद्धिर् इत्य् उपलम्भसिद्धिपूर्वकत्वाद् उपलभ्यसिद्धेः. उपलभ्यसिद्धिपुरस्सरी तूपलम्भसिद्धिः प्रतिक्षिप्ता, सिद्धेर् असिद्धौ साध्यासिद्धेः. सिद्धिसिद्धिपूर्विका तु साध्यसिद्धिः किं नेष्यते. अतो ऽसिद्ध एवायं हेतुर् अत आह -- न हीति. अस्यार्थः -- नेयम् ईदृशी कल्पना सम्भवति यदनाकारा संविदादाव् अनुभूयते ततश् च पश्चात् साकारो ऽर्थ इति. निराकारबुद्ध्यनुपलब्धेर् उक्तत्वात्. इतश् च नैवं कल्पना युक्ता. कथं हि स्वोपलम्भकाले संभिन्नो ऽर्थः स्वोपलम्भोपलम्भावसरे संवेद्येत, यो ह्य् उपलभ्यमान एव न सिद्धः सो ऽन्योपलम्भावसरे ऽनुपलभ्यमान एव सेत्स्यतीति सुव्याहृतम्. अपि च अन्येन संवेदनोपलम्भे सो ऽप्य् असिद्धस् तत्साधनाय न प्रभवतीत्य् अपरापरापेक्षायाम् अनवस्था. एकासिद्धौ सर्वासिद्धिः. क्वचिद् वा स्वप्रकाशे ऽन्ये ऽपि तथा स्युर् अविशेषात्. अतः स्वात्मानं विषयाकारं च युगपज्ज्ञानम् उपलभत इति सिद्धः सहोपलम्भनियमः. एकव्यापारे क्रमायोगात्. एकः खल्व् अयं संविदः स्वात्मनि विषयाकारे च व्यापारः, प्रकाशात्मा नायं क्रमभावी न सम्भवतीति
SK
ननु मा भूद् अनाकाराया बुद्धेर् उपलम्भः. सापि त्व् आकारवत्य् एवोपलप्स्यते अर्थश् च. तस्माद् द्वयोर् आकारवत्त्वं भविष्यति. ततश् चोपलभ्यत इति किम् अनुपपन्नम् अत आह -- आकारेति. अस्यार्थः -- यो ऽयं ज्ञानार्थयोर् आकारवत्त्वभेदः यद्य् अयं ज्ञातः स्यात्, तथा(?सी/स)ति ज्ञात्वा भाषितुम् अपि शक्येत.{२,१०९}नीलपीतभेदवत्. न चैवं भाषितुं शक्यम् ईदृशो ज्ञानाकार ईदृशो ऽर्थाकार इति, नीलाद्याकारमात्रज्ञानाद् इति. एवं हि सर्वं समञ्जसं भवति. यदि बुद्धिग्रहणात् प्राग् एव साकारो ऽर्थः सिध्यति, ततो हि तत्सिद्ध्यन्यथानुपपत्त्या ज्ञानम् अपि कदाचित् सिध्येद् इति सिध्यति द्वैतम्. अत्र पुनरगृहीतायां बुद्धाव् अर्थो (?नु/न) सिध्यतीति साकारस्य च दर्शनाद् इत्य् अत्र साधितम्. अतो न कथञ्चिद् द्वैतसिद्धिर् इत्य् अभिप्रायेणाह -- प्राग् इति
SK
अन्यन्मतं - सत्यम् आकारवद् ज्ञानं, किन् तु अर्थेनायम् आकारो ज्ञान आधीयते. अयम् एवार्थज्ञानयोः ग्राह्यग्राहकभावः, यद् अर्थस्य ज्ञाने स्वाकारसमर्पणम्. कथम् अपरथा क्षणिकत्वाद् अतीतो ऽसमसमयभाव्यर्थो ज्ञानालम्बनं भवेत्. यथाहुः --
SK
भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः |
SK
हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ||
SK
इति. एतद् दूषयति -- न चेति. किम् इति नैवम् अत आह -- न हीति. अर्थाकारो ह्य् अर्थधर्मः. न च धर्मः स्वाश्रयं हातुम् आश्रयान्तरं वोपगन्तुं[७२४]प्रभवति, स्वरूपहानापत्तेर् इति
SK
__________NOTES__________
SK
[७२४] न्तुं शक्तः प्र (KHA)
SK
अपि च प्रमाणान्तरप्रसिद्धे ऽर्थस्याकारवत्त्वे भवेद् अप्य् एवम्. न च तस्याकारस्येत्थम्भावे ऽर्थधर्मत्वे प्रमाणम् अस्ति, हेत्वन्तरसम्भवे ऽपि कार्यानिष्पत्तिः कारणान्तरवैकल्यं सूचयतीति तु निराकृतम् उपादानविशेषाद् एव कार्यसिद्धेर् उक्तत्वाद् इत्य् अभिप्रायेणाह -- इत्थम् इति. ये तु वदन्ति -- मा नामार्थाकारो ऽर्थं हातुम् आश्रयान्तरं वोपगन्तुं प्रभवति. अर्थस्यैव प्रतिबिम्बम् इदं शुद्धादर्शप्रतीकाशे स्वच्छे ज्ञानात्मनि दृश्यत इति. तान् प्रत्याह -- तदीयेति. एतस्माद् एवेति. अर्थाकारत्वे प्रमाणाभावाद् इत्य् अर्थः
SK
{२,११०} तान् एव प्रसिद्धप्रतिबिम्बोदाहरणेन प्रतिबोधयति -- निश्चन्द्रेति. तम् इति योग्यतया चन्द्रः प्रतिनिर्दिश्यते. खे च जले चेत्य् अर्थः
SK
न चैष न्यायो ऽत्र सम्भवतीत्य् आह -- विज्ञानेति
SK
अपि चास्तु रूपवत्सु प्रतिबिम्बकल्पना, अरूपाणां तु शब्दादीनां प्रतिबिम्बकल्पना न कथञ्चित् सम्भवतीत्य् आह -- शब्देति. अपि च नीलाद्याकारा संविद् उपलभ्यते. तत् किम् अपराद्धम् अनया, यत् ताम् अनादृत्यायम् आकारो ऽर्थधर्मतयाभ्युपगम्यते प्रतिबिम्बवच् च दर्शनम् इत्य् अभिप्रायेणाह -- ज्ञाने (चे)ति
SK
यस् तु वदति -- नार्थाकारो ज्ञाने सङ्क्रामति. न चार्थस्थः प्रतिबिम्बो दृश्यते. किन् तु ज्ञानम् अर्थेनायोगोलकम् इवाग्निना संस्पृष्टम्. अतो ऽयसीव भास्वराकारो मोहाद् अर्थाकारो ज्ञाने दृश्यत इति. तं प्रत्याह -- बह्येति. अयस् तेजसोर् हि सन्निकर्षाद् युक्तो मोहाद् अविवेकभ्रमः. बाह्याभ्यन्तरदेशौ तु ज्ञानार्थाव् असम्पृक्तौ. ततः कथम् अनयोर् मोहाद् अविवेकभ्रम इति
SK
अपि च कश्चिद् एकः सम्मूढो भवति जगतस् तु सम्मोहकल्पना सम्मोह एव. न चात्र कश्चित् कदाचिद् असम्मूढो दृश्यते. सर्वस्य विवेकादर्शनात्.{२,१११}अतो न सम्मोहकल्पना युक्तेत्य् आह -- असम्मूढस्येति. यदि तु ज्ञानार्थयोर् विविक्तयोर् अदर्शने ऽपि सम्मोहः कल्प्यते, तर्हि द्वयोर् एव नावतिष्टेत. एवं हि यथेष्टम् एव तत्त्वानि प्रसङ्ख्याय सम्मोहो ऽभिधीयतां, किं विशेषाद् इत्य् आह -- कल्प्यमान इति
SK
अन्यद् दर्शनं - नार्थाकारो मोहाज् ज्ञाने ऽवगम्यते. किन् तु सांसर्गिको ऽयम् आकारश् चूर्णहरिद्रयोर् इवारुणिम् एति. तद् अप्य् अत एव बाह्याभ्यन्तरदेशत्वाद् अनुपपन्नम् इत्य् आह -- संसर्गेति. तद् एव प्रकटयति -- देशभेदाद् इति. अपि च, अमूर्तं ज्ञानं मूर्तो ऽर्थः कथम् अनयोः संसर्गधर्म आकारो भवेत्. घटाकाशादाव् अदर्शनाद् इत्य् आह -- मूर्तामूर्ततया तथेति
SK
नन्व् असत्य् अप्य् एकदेशत्वे एककालतया संसर्गो भविष्यतीत्य् अत आह -- त्रैलोक्येनेति. त्रैलोक्यं हि ज्ञानेन समकालतया संस्पृष्टं संसर्गजन्माकारं प्रतिभासयेत्. न चैवम् अस्ति. तस्माद् अतिव्याप्तेर् नैककालतया संसर्ग इति. नन्व् आर्जवावस्थानं ज्ञानार्थयोः संसर्गो भविष्यतीति अत आह -- न चेति. निर्मुखस्यार्जवाभावाद् न ज्ञानेनार्थस्यार्जवावस्थानम्. सर्वतोदिक्पदार्थबोधेन सर्वतोमुखत्वे वा सर्वार्थसंसर्गप्रसङ्गात् सर्वाकारोपलब्धिः. न हि सर्वतोमुखं कस्यचिद् एकस्याभिमुखं युक्तम् इति
SK
अपि च, येनैवार्थेन ज्ञानस्य संसर्गः कल्प्यते, सर्वथैव तेन संसर्गः कल्पयितव्यः, निर्भागत्वात्. एवं च चक्षुषैकत्र भावे ऽनुभूयमाने तेनैव तद्गतरसाद्युपलब्धिप्रसङ्गः, तद्गतसूक्ष्माकारोपलब्धिश् चेत्य् आह -- सर्वथेति
SK
{२,११२} ननु यद् एव तदर्थस्य ज्ञानं प्रति विषयतयावस्थानं सो ऽनयोः संसर्गो भविष्यतीत्य् अत आह -- न चेति. अत्र कारणम् आह -- विषय(त्व)म् इति. अयम् अभिप्रायः -- संसर्गाकारवादिना हि प्राग् एवाकारोपलम्भनात् संसर्गो वक्तव्यः. न च विषयत्वम् आकारोपलम्भनात् प्राग् अस्ति. अतः कथं तन्निबन्धनाकारा संविद् भवति
SK
किम् इति न स्याद् अत आह -- न हीति. संवेद्यमान एव हि भावो विषय इति विषयविदः. अत उपलम्भोत्तरकालम् एव विषयभावान् न तन्निबन्धन आकारबोधः शक्यते ऽङ्गीकर्तुम् इति. एवं तु कल्प्यमान इतरेतराश्रयं प्राप्नोतीत्य् आह -- विषयेति. नीलत्वविषयत्वेन संसर्गात् तदाकारो निष्पद्यते. तदाकारनिष्पत्त्या च तस्य विषयभाव इति दुरुत्तरम् इतरेतराश्रयम् इति
SK
दूषणान्तरम् आह -- द्वयोर् इति. अयम् अभिप्रायः -- यदि ज्ञानार्थयोर् द्वयोर् अप्य् आकारशून्यं स्वरूपम् अवगतं स्यात्, पुनश् च कदाचित् संस्पृष्टत्वेनाकारसंवित्तिः, तदा भवेद् अपि संसर्गधर्माकारकल्पना. न चैवम् अस्तीति वक्ष्यामः
SK
न चार्थस्य ज्ञानाद् विविक्तस्य सद्भावो गृहीतपूर्वः. न च ज्ञानस्योपरि गृह्यते येन चूर्णहरिद्रयोर् इव विविक्तगृहीतयोर् अनयोः संसर्गः कल्प्यत इत्य् आह -- न चेति. कारणम् आह -- न हीति. संसर्गधर्मत्वे ह्य् आकारस्य{२,११३} प्रथमं द्वयोर् अप्य् अनाकारबोधेन भवितव्यम्. न चाकारशून्यं ग्राह्यम् अस्तीति पूर्वम् उक्तम् इति
SK
उपसंहरति -- तस्माद् इति. किं पुनर् इदम् अर्थस्य सद्भावो न गृहीत इति. ज्ञानवैचित्र्यानुपपत्तिर् एव ह्य् अर्थस्य सद्भावे प्रमाणम्. स्वच्छाकारस्य हि ज्ञानस्य न कारणान्तरम् अन्तरेणाकारसम्बन्धस् तद्वैचित्र्यं चोपपद्यते. अतो ऽस्ति कश्चिज् ज्ञानातिरिक्तो हेतुर् येनेदं वैचित्र्यम् आधीयत इत्य् अभ्युपगन्तव्यम्. न चेन्द्रियाण्य् एव तत्र कारणम् इति युक्तं, तेषाम् एकरूपत्वेन कार्यवैचित्र्यानुपपत्तेः. न च समनन्तरप्रत्ययाद् एव केवलाद् विचित्राकारदर्शनम् उचितं, विसदृशप्रत्ययानन्तरम् एव हि वयम् एकान्तविसदृशं प्रत्ययम् उपादीयमानम् उपलभामहे. तत् तद्धेतुकत्वे ऽनुपपन्नम्. यथाकार्यदर्शनं तु विचित्रा एव हेतवः कल्प्यन्त इति युक्तम्. ते चार्थशब्दवाच्याः. एवञ् च प्रसिद्धसद्भावो ऽर्थः ज्ञानं चाविवादसिद्धम् एवेति प्रसिद्धसद्भावयोर् न्याय्य एव संसर्गः, अत आह -- ज्ञानवैचित्र्येति
SK
किम् इति न कल्पना, अत आह -- तद् इति. यदि वैचित्र्यम् अर्थाधीनतया विदितप्रतिबन्धं भवेद्, एवम् अर्थम् अनुमापयेत्. अत्यन्तापरिदृष्टपूर्वेण त्व् अर्थेन न क्वचिद् वैचित्र्याधानं दृष्टम् इति न तद्दर्शनेन तदनुमानं युक्तम्. कार्यदर्शनबलेन कुतश्चिद् एव समनन्तरप्रत्ययविशेषात् किञ्चिदाकारं ज्ञानं जायत इति न नोपपन्नम्. विलक्षणा हि ते उपादानविशेषा विलक्षणशक्तय इति न किञ्चिद् दुष्यतीति कार्यदर्शनबलानुसारिण्याम् एव च कारणव्यवस्थायां सुष्वा(?)पादाव् अप्य् आकाराभावसिद्धिः. कार्याभावेन कारणाभावानुमानात्. भवति तु तास्व् अपि दशासु स्वच्छसंवित्सन्तानः परस्ताज् ज्ञानदर्शनाद्, अनुपादानकारणस्य तस्यानुपपत्तेः. कथम् अनाकाराद् आकारवतो निष्पत्तिर् इति चेत्, कथं विसदृशाद् विसदृशस्योत्पत्तिः. तत्रापि शक्तिभेद एव कार्यदर्शनबलानुमेयो निबन्धनम्. कश्चिद् एवेह मूर्धादावन्ते प्रत्ययभेद{२,११४} आविरस्ति, यः परस्तान्मूर्च्छोच्छेदे नीलाद्याकारप्रत्ययम् उपजनयति. स तस्यायम् अचिन्तनीयो महिमा कार्यदर्शनप्रमाणको न मीमांस्यत इति सूक्तम् अर्थसद्भावो न गृहीत इति. अपि च यदि साकारो ऽर्थः तदधीनं च ज्ञानानां वैचित्र्यं, कथं तर्हि मूर्छादाव् अन्तिमेन निराकारेण ज्ञानेन परस्ताद् भाविनो ज्ञानजातस्याकारो वैचित्र्यं वोपपद्यते. न हि तद् उभयम् अप्य् अर्थजन्यं, सत्य् एव तस्मिन्न् अभावात्. मूर्छायाम् अपि ह्य् अर्थ आसीद् एव. न च तेनासाव् आकारो दर्शितः. अतो व्यभिचारिणः समनन्तरप्रत्ययविशेषाद् एव निराकाराद् अपि वैचित्र्याकारयोर् उत्पत्तिर् अभ्युपगन्तव्या. एवञ् च सर्वत्रैव तथाभ्युपगन्तुम् उचितम्. किम् अर्थग्रहेण. पठन्ति च. अर्थग्रहः कथं सत्यम् इति. तद् एतद् आह -- निराकारेणेति
SK
अपि च, साकारा नीलादयो विषया ज्ञानं सरूपयन्तु निराकारस् तु गगनकुसुमशशविषाणवन्ध्यासुतादिविषयः कथं बुद्धावाकारम् आदध्यात्. न हि तत्र विषयाकारो नाम कश्चिद् अस्ति. बलात् तत्र बुद्धिर् एव साकारेति वक्तव्यम्. तद् व्यापकम् अस्तु. किम् अर्धजरतीयेनेत्य् अभिप्रायेणाह -- निराकाराद् इति. अपि च पूर्वानुभूतेषु स्मर्यमाणेषु असम्बन्धस्वभावेषु[७२५]स्वप्नादिबोधे चात्यन्तानन्ताननुभूतस्वशिरश् छेदादिविषये विषयाकाराभावाद् अनाकारस् तद्वादिनां ज्ञानम् आपद्यत इत्य् आह -- स्मृतीति
SK
__________NOTES__________
SK
[७२५] स्वापादि (KA)
SK
अत्र कारणम् आह -- न हीति. सता ........ सतेति भावः. कथं तर्हि तत्राकारासम्बन्धः अत आह -- केवलेति. वासनेति. समनन्तरप्रत्ययम् एवोपादानापरनामानम् उपादत्ते. न तु ज्ञानातिरेकि.........पूर्वं चिरन्तनबौद्धमतेन वासनाभेदो वर्णित इति वेदितव्यम् इति. एवञ् च जाग्रद्बुद्धिष्व् अपि वासनाहेतुक एवाकारप्रतिभासो युक्त आश्रयितुं, किम् अर्धजरतीयेनेत्य् अभिप्रायेणाह -- इतीति
SK
{२,११५} किञ् च, अन्वयव्यतिरेकाभ्यां ज्ञानाकारकल्पनैव साधीयसीति दर्शयति -- अन्वयेति. एवंशब्दो युक्त्यन्तरोपन्यास इति. कथम् अवगम्यते, अत आह -- न हीति वदन्तेन. अस्यार्थः -- असत्य् अपि बाह्ये स्वप्नादौ ज्ञानमात्रान्वयाद् एवाकारान्वयो दृश्यमानो ज्ञानप्रभावित एवावसीयते. न त्व् एवमर्थवादिनो ज्ञानापेतम् अर्थस्याकारान्वयं दर्शयितुं शक्ताः. असति ज्ञान आकारप्रतिभासायोगाद् इति. अतः सिद्धं तावद् वासनानिमित्त एवायं ज्ञानाकारो नार्थसंसर्गधर्म इति. यदि त्व् अवश्यं सांसर्गिको ऽयम् आकारो वक्तव्यः, परमस् तु स्वभावनिराकाराणां ज्ञानानां वासनासंसर्गनिबन्धनत्वेनाकारस्य संसर्गवाक्प्रवृत्तिर् इत्य् आह -- तस्माद् इति
SK
प्रत्यूढः संसर्गधर्मपक्षः. अन्यन्मतं - नीलादिर् आकारो भासते. न चायं ज्ञानार्थयोर् अन्यतराश्रयतया निर्धारयितुं शक्यते. तद् अयम् अगृह्यमाणे विशेषे एक एव द्वयं साकारयतीत्य् आश्रीयते लाक्षाराग एव सन्निहितं मणियुगलम्. तद् एतद् उपन्यस्य दूषयति -- द्वयोर् इति. कथम् अप्रमाणम् अत आह -- देशभेदाद् इति. अन्तःस्थं हि ज्ञानं बहिरर्थः. नानयोः सन्निकर्षो ऽस्तीति नेदम् उभयम् एकम् आकारम् उपजीवितुम् उत्सहते. मणियुगलं तु सन्निहितम् एको लाक्षारागो ऽनुरञ्जयतीति न नोपपन्नम् इति. ननु भिन्नदेशयोर् अपि कुतश्चित् संसृष्टयोर् एकाकारोपजीवनं भविष्यतीत्य् अत आह -- असंसर्गाद् इति. उक्तम् इदं नानयोः कदाचित् संसर्गो गम्यते मणेर् इव प्रमाणाभावाद् इति. अपि च पृथगवधारितसद्भावस्य द्वयस्य साधारण आकारो भवेत्, न त्व् अत्र विभक्ताकारं द्वयम् उपलभ्यते. सर्वदैवैकाकारोपलम्भात्. उक्तं च -- अर्थज्ञानयोर् आकारभेदं नोपलभामहे इति. तद् एतद् आह -- द्वयोर् इति
SK
{२,११६} अन्यद् दर्शनं - विभक्ताकारम् एवेदम् उभयम् अत्यन्तसुसदृशत्वेन त्व् आकारविवेको न लक्ष्यते नीलोत्पलवन इव कादम्बकानाम् इति. एतद् उपन्यस्य दूषयति -- एवम् इति. सादृश्याद् अविभक्तता न स्याद् इत्य् अन्वय इति. कारणम् आह -- भेद इति. निर्ज्ञातभेदयोर् हीन्दीवरकादम्बयोः सादृश्याद् अविवेकाभिधानं युक्तम्. पृथगनवगतपूर्वस्य त्व् अर्थस्य खपुष्पतुल्यस्य सादृश्याद् अविवेक इति महान् अयम् अविवेक इति. सर्वे चैते बाह्यार्थवादिबौद्धैकदेशिपक्षा उपन्यस्य दूषिता इति वेदितव्यम् इति
SK
इतश् च ज्ञानस्याकार इत्य् आह -- तथेति. द्विचन्द्रादिविभ्रमेष्व् अन्यथार्थे व्यवस्थिते ऽन्याकारा बुद्धिर् उपजायते. तच् चार्थनिबन्धनत्वे त्व् आकारस्य नोपपद्यते. कथं ह्य् अन्याकारो ऽर्थो ह्य् अन्याकारां धियम् उपजनयेत्. तदवश्यम् असत्य् अप्य् अर्थे भासमान आकारो ज्ञानस्यैव वक्तव्यः. अतः सर्वत्रैव तथावधारणं युक्तम् इत्य् अभिप्रायः
SK
किञ्च यद् एतद् विरुद्धानेकलिङ्गत्वम् एकस्य नक्षत्रं तारका तिष्यो दारा इत्यादिषु तदर्थाकारत्वे नोपपद्यते विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वेनार्थभेदापत्तेः. भिन्नान्य् एव तु विचित्रवासनानिबन्धनानि विचित्रार्थज्ञानानि जायन्त इति युक्तम्. तद् एतद् आह -- नक्षत्रम् इति
SK
यथैकस्याम् एव प्रमदातनौ येयं परिव्राट्कामुकशुनां कुणपं कामिनीभक्ष इति कल्पना भवति, साप्य् एकात्मत्वाद् एकस्यार्थस्यार्थवादिनां नोपपद्यत{२,११७} इत्य् आह -- परिव्राड् इति. अत्र नार्थनिबन्धनेत्य् अनुषञ्जनीयम् इति. इदं चापरं बाह्यार्थवादिनां नोपपद्यत इत्य् आह -- दीर्घेति. एकैव हि प्रदेशिन्यङ्गुष्ठमध्यमाङ्गुल्यपेक्षया दीर्घह्रस्वतयावगम्यते, तच् चैतद् एकात्म्ये तस्यार्थवादिनां नोपपद्यते. पूर्वं च प्रमात्रपेक्षयानेकाकारसंविदुक्ता. अत्र तु न केवलं भिन्नानां प्रमातॄणाम् एकत्रानेकाकारबुद्धिः, एकस्यापि तूपाधिभेदाद् अनेकाकारबोधो दृश्यत इत्य् उक्तम् इति
SK
न केवलम् औपाधिको नानाकारः प्रत्ययः. किन् तु घटो ऽयं पार्थिवो ऽयम् इत्यादिर् एकत्रैवार्थे युगपदनेकेषां ग्राहकाणां विकल्पो दृश्यते. तच् चेदं पारमार्थिकार्थसद्भावे नोपपद्यते तस्यैकात्मत्वात्. एको ऽर्थ एकात्मक इति सर्वैर् एव स तथावगम्यते. न चैवम्. अतो बुद्धिमात्रविलसितम् एवेदम् अनेकाकारत्वम् इति साम्प्रतम्. तद् एतद् आह -- घटत्वेति. अत्र च प्रातिलोम्येनान्त्यसामान्यात् प्रभृति परसामान्यं यावदुपन्यासः कृत इत्य् अनुसन्धातव्यम्. ज्ञेयता तु न सामान्यं ज्ञानसम्बन्धोपाधिकत्वात्. अयम् अपि च प्रतीतिप्रकारो दृश्यत इति प्रदर्शनार्थम् उक्तम्. यद्य् अपि चात्र घटत्वादीनां दीर्घत्वादीनाम् इव विरोधो न दृश्यते, तथाप्य् एकात्मकत्वाद् एकस्य निर्भागस्यार्थात्मनो नानाकारप्रतिभासो ऽनुपपन्न इत्य् उक्तम् इति
SK
किम् इति न स्याद् अत आह -- नेति. न तावद् एकत्रार्थ एकात्मन्य् अनेकाकारत्व एवं न्याय्यः. यथाहुः --
SK
अन्यथैकस्य भावस्य नानारूपावभासिनः |
SK
सत्यं कथं स्युर् आकारास् तदेकत्वस्य हानितः ||
SK
इति. नतरां विरुद्धाकारसम्भवः. स च प्राग् एवोक्तो ऽनुसन्धातव्य इति. ज्ञानवादिनस् तु नानाप्रत्यया नानाप्रकारा भवन्तीति युक्तम् इत्य् आह -- प्रत्ययानाम् इति. किं पुनर् एषां तथात्वे कारणम् अत आह -- शक्त्यनुसारतः.{२,११८}शक्तिर् इति समनन्तरप्रत्ययम् एवापदिशस्ति, तदधीनत्वाज् ज्ञानकार्यनिष्पत्तेः. तदतिरिक्ता तु शक्तिर् अप्रमाणिकैवेति न बौद्धैर् इष्यत एवेति
SK
अतः सिद्धं तावद् भासमान आकारो ज्ञानस्यैव न त्व् अर्था(?क्षेपः/पेक्षः) अर्थनिरपेक्षम् एव तु स्वरूपेण यादृशं ज्ञानं यदि तदनुसार्यर्थो ऽभ्युपगन्तुम् इष्यते सो ऽस्तु नाम. न पुनर् यथार्थं ज्ञानं नाम किञ्चिद् अस्तीत्य् आह -- निरपेक्षम् इति
SK
अस्तु तर्हि ज्ञानानुसार्य् एवार्थः, न, एवम् अपि द्वैतहानिर् इत्य् अत आह -- इत्थम् इति. अयम् अभिप्रायः -- गलजिह्विकयेदम् अस्माभिर् उक्तं तथार्थ इति. न तु ज्ञानाकारत्वे ऽर्थो नाम कश्चित् सिध्यति, आकारभेदानुपलम्भात्. अतो न विज्ञानतन्त्रत्वे ऽर्थकल्पना शक्यते कर्तुम्. अर्थेनानारोपिताकारा धीर् एव स्वात्मन्य् एवोपयोक्ष्यते. स्वात्मानम् एव प्रकाशयति न त्व् अर्थविषया. यद्य् एवं सर्वसंविदाम् अनर्थकत्वात् किंकृतः प्रमाणेतरविवेकः. अर्थक्रियाकारिप्रत्ययसदसद्भावकृत इति ज्ञात्वा शाम्यतु भवान्.[७२६अ]व्यवहारसंवादापेक्षया हि प्रमाणं तद्विसंवादाद् अप्रमाणम् इति सांव्यवहारिकी प्रमाणस्थितिः. पारमार्थिकं तु प्रमाणं चिन्तामयीम् एव प्रज्ञाम् अनुशीलयन्तः केचिद् एव कृतिनो निर्धूतनिखिलनीलाद्युपरागम् अभिमुखीकुर्वन्तीतिइइ तत् तुरीयं प्रत्यक्षम् आचक्षते
SK
सिद्धान्तम् इदानीम् आरभते -- नेति. अस्यार्थः -- एकं हि ज्ञानं ग्राह्यग्राहकम् इति वः सिद्धान्तः. न चैकस्योभयात्मकत्वे कश्चिद् दृष्टान्त इति. तत् पुनर् इदं पूर्वापरयोर् अनवहितस्येव भाषितम्. तथा हि -- न तावद् ग्राह्यग्राहकाकारं ज्ञानम् इति बौद्धैर् इष्यते. अपि तर्हि प्रलीनग्राह्यग्राहकोद्ग्राहं चिन्मात्रम् एव स्वयंप्रकाशम् इति. उक्तं हि --
SK
{२,११९} ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते |
SK
इति. बौद्धगन्धिमीमांसकैर् अप्य् उक्तं - संवित्तयैव हि संवित् संवेद्यते न तु संवेद्यतया नास्याः कर्मभावो विद्यते इति. दृष्टान्ताभाववचनम् अपि चासमर्थम्. न हीदानीम् अनुमानतो बौद्धस्य प्रत्यवस्थानं, येन दृष्टान्ताभाववचनेनोपालभ्यते. निरालम्बनानुमानस्य प्रत्यक्षबाध उक्ते सम्प्रति प्रत्यक्षशक्तिपरीक्षयैव प्रत्यवस्थितं न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तं ग्राह्यलक्षणायोगादित्यादिभिः. अतः किं दृष्टान्ताभाववचनेनोपालभ्यते. अत्रोच्यते -- एवं हि मन्यते. अवश्यम् अयं ग्राह्यग्राहकभावः संविदो बौद्धैर् अभ्युपगन्तव्यः, कथम् अन्यथा सैव सिध्यति. न ह्य् अग्रहणकर्मणः कस्यचित् सिद्धिर् अस्ति. ननु स्वप्रकाशः प्रकाशः किम् अस्य प्रकाशान्तरेण. स्वप्रकाश इति को ऽर्थः. स्वयम् एव प्रकाशते न तु प्रकाशान्तरम् अपेक्षत इति. किं पुनर् इदं प्रकाशत इति प्रकाशाद् अर्थान्तरवचनं, न वा. यद्य् अर्थान्तरवचनम्, अस्ति तर्हि संविदो ऽप्य् अपरः प्रकाशः. अन्यथा प्रकाशत इत्य् अनधिकार्थम् अवचनीयम् एव. स्वरूपं हि संवित्पदेनैवोपात्तम्. अतः प्रतीतिकर्मतैव संविदः प्रकाशतेपदार्थो घटः प्रकाशत इतिवत्. स्याद् एतत्. कर्तृप्रतिनिर्देशो ऽयं नातः कर्मभावो ऽवसीयत इति. नैवम्. एवम् अपि प्रकाशतेपदार्थस्य कर्तृभावो वाच्यः. नासाव् असति प्रकाशभेदे सिध्यति, अद्वितीयस्य भेत्तुम् अशक्यत्वात्. अतो नाप्राप्तस्य सिद्धिर् अस्ति. न चापि कर्मणः प्राप्तिर् अस्तीति सत्याः संविदो ऽवश्यं प्राप्यकर्मता भावान्तरवद् वक्तव्या नान्या गतिर् अस्ति. नन्व् अर्थः कर्म, आत्मा कर्ता, संवित्तु फलं, तत् कथं कर्मेत्य् उच्यते. न. फलस्याप्य् अप्रतीतिकर्मणः सिद्ध्यसम्भवात्. अन्यथा मातृमेययोर् अपि स्वप्रकाशापातात् किं तत्सिद्ध्यर्थं संविदभ्युपगमेन. न प्रयोजनतः संविदं सङ्गिरामहे, अपि तु प्रतीतितः. प्रतीमो हि वयं मातृमेयगोचरां फलभूतां संविदम्. न ततो ऽपि भिन्नाम् अपराम् इति तावत्य् एव व्यवतिष्ठामहे. मैवम्. निराकृतम् इदं नानाकारा धीर् उपलभ्यत इति. न हि नः संवित्प्रकाशवदर्थप्रकाशो ऽपि भासते, नीलाद्याकारमात्रप्रकाशात्. नन्व् अप्रकाशात्मानो घटादयः प्रकाशान्तरम् अपेक्षन्ताम्. संविदस् तु तद्रूपायाः किम् इति प्रकाशान्तरापेक्षया. न, अतद्रूपत्वात्. संविदो ऽपि हि न स्वात्मप्रकाशात्मत्वं, अर्थप्रकाशो ह्य् असौ.{२,१२०}वक्ष्यति च - ईदृशं वा प्रकाशत्वं तस्येति. अतो ऽवश्याभ्युपगन्तव्यः संवित्सिद्धये प्रकाशभेदः. किम् इदानीम् असिद्धैव संवित् संवेद्यं साधयति संविदन्तरसिद्धा वा. न तावत् पूर्वः कल्पः. अप्रसिद्धा ह्य् असती न संविद् व्यवहाराय घटत इत्य् उक्तम्. संविदन्तराधीनायां तु सिद्धाव् अव्यवस्थापात इत्य् उक्तम्. सत्यम्. न संविदन्तराधीनसिद्धिः संवित् संवेद्यं साधयति. स्वरूपसत्य् एव तु. कथम् अधीविषया सतीति चेद्, न धीविषयभावः सत्ता. किन् तु सामान्यम् उत्पत्त्युत्तरकालभावि तद्वताम्. अतो मृत्सलिलप्रच्छन्नबीजादिवदविदितस्वरूपसामर्थ्यैव संविद् विषयं व्यवस्थापयति. स च व्यवस्थितः सत्यां जिज्ञासायां संविदं संविदन्तराधानेन साधयति. नन्व् इयं विषयसामर्थ्येन संवित्सिद्धिः प्रत्युक्ता वस्त्वन्तरं प्रकल्प्यं स्यात् इत्य् अत्र यथा न प्रत्युच्यते तथानन्तरम् एव वक्ष्यामः
SK
यावज्जिज्ञासितज्ञानाद् अव्यवस्थापि नापतेत् |
SK
इति. अत एव सहोपलम्भनियमो ऽपि परैर् उक्तो ऽस्मान् प्रत्यसिद्ध एव. विषयवित्तिकाले संविदो ऽनुपलम्भात्. विषयमात्रम् एव हि इदं नीलम् इति नश् चकास्ति, नाहं नीलम् इति. संवित्प्रकाशे च तथा प्रकाशानुपपत्तिः. न हि स्वगोचरा संवित् परनिरूपणात्मिका भवति, स्वपरवेद्ययोर् इदम् अहङ्कारयोर् अविशेषापत्तेः. अयं स्वात्मानम् अहम् इति प्रतिनिर्दिशति परम् इदम् इति. न त्व् अभेदेनेदङ्कारम् अहङ्कारं चोभयम् एकत्र प्रयुङ्क्ते. अतो नास्तीदं नीलम् इत्य् अत्र संविदुपलम्भ इत्य् असिद्धो हेतुः. स्वप्रकाशसंविद्वादिनाम् एव त्व् अयम् उपालम्भ इत्य् उक्तम्.
SK
स्याद् एतत्. अज्ञातो ज्ञापकहेतुः कथं ज्ञापयतीति. नायं दोषः. अज्ञातस्यापि चक्षुषो ज्ञानजननोपलब्धेः. ननु चक्षुर् अङ्कुरस्येव बीजं ज्ञानस्य कारकम् एवेति युक्तम् अज्ञातस्यापि जनकत्वम्. मैवम्. ज्ञानहेतोर् एव ज्ञापकत्वसमाख्यानात्. अपि च न ज्ञानं ज्ञापकहेतुः ज्ञानत्वात्. ज्ञानस्य हि जनका धूमादयो ज्ञापकाः न ज्ञानम् एवेति कथम् अज्ञापकस्य ज्ञापकधर्मा आपाद्यन्ते. स्वरूपसत्यैव संविदा विषयः साध्यते. सा तु पश्चाज्ज्ञानान्तरेण साध्यत इति. असति तु ग्राह्यत्वे संविद् एव न सिद्ध्येद् इत्य् आपाद्य ग्राह्यग्राहकत्वम् एकत्वे दूषणम् उच्यते नैकत्राद्वितीये तत् सिध्यतीति. यद् अपि च संवेदनम् असत्यभेदे नीलसंवेदनयोर् अनुपपन्नम् इति. तद् अप्य् अनेनैव निराकृतम्.{२,१२१}विपरीतम् इदम् उच्यते -- ऐकात्म्ये संवेदनम् इति, भेदाश्रयत्वाद् ग्राह्यग्राहकभावस्य, स्वप्रकाशत्वनिषेधाच् च. एकं हि तत्त्वम् अविभागं नात्मनि वर्तितुम् अर्हति. स्वात्मनि क्रियाविरोधात्, न ह्य् अङ्गुल्यग्रम् आत्मनात्मानं स्पृशति सूच्यग्रं वा विध्यति. कर्मकर्तारो हि तद्धर्मभेदाश्रयणेनैवोभयथा विवक्ष्यन्ते केदारादयो लवनादौ न त्व् एकान्तम् एकात्मानः. आत्मनो ऽपि ग्राह्यग्राहकभावम् अनन्तरम् एव समाधास्यतीति सिद्धं नैकस्य ग्राह्यग्राहकभाव इति. यत् तु भेदे ग्राह्यलक्षणायोग इति. तद् यद्य् उत्पत्तिसारूप्याभिप्रायेण तदनुमन्यामह एव उक्तदोषत्वाद् एवंविधस्य ग्राह्यत्वस्य. यत् तु ज्ञानोत्पत्तौ सञ्चे(?द्य/त्य)ते तद् ग्राह्यं, कथम् अनात्मभूतम् असम्बद्धं सञ्चेत्यते. एवं ह्य् एकम् एव ज्ञानं विश्वं गोचरयेद्, असम्बन्धाविशेषात्. अस्ति वा ऐकात्म्ये नीलसंवेदनयोः सम्बन्धः. नन्व् असौ भेदाधिष्ठानः कथम् एकत्राविभाग आस्पदं लभते. स्याद् एतत्. ऐकात्म्ये ऽपि किं सम्बन्धेन, स ह्य् एकात्मा स्वप्रकाश एवेति. मैवम्. उक्तो हि स्वात्मनि वृत्तिविरोधः. तस्माद् भिन्नम् एव संवेदनान् नीलं ग्राह्यलक्षणम् उपनिपततीति तद्ग्रहे भेदम् आतिष्ठामहे. अभेद एव तूक्तेन प्रकारेण ग्राह्यलक्षणायोगः. यदा तु ज्ञानार्थयोः सारूप्यनिराकरणार्थं स्थूलानुपपत्तिश् चलाचलोपलम्भादिभिर् आपादिता, तां वनोपन्यासावसरे परिहरिष्यामः. सारूप्येण तु ग्राह्यताम् अनातिष्ठन्तो नेह स्थूलसिद्धाव् आद्रियामहे. तद् एकप्रकाराभिहतम् एव हेतुत्रयम्. कथम् इदानीम् असम्बद्धं प्रकाशते. तत्प्रकाशे वा नातिप्रसङ्गः. नासम्बद्धं प्रकाशते. इन्द्रियाणि हि प्रकाशकानि. तानि च प्राप्यकारित्वाद् अर्थेन सम्बद्धान्य् एवार्थविषयम् आत्मनि ज्ञानं जनयन्ति. तैश् चासन्निहितम् अवर्तमानं वा न प्राप्यत इति नातिप्रसक्तिः. ज्ञानं तु न प्रकाशकं प्रकाशत्वात्. प्रकाशकं च नासम्बद्धं प्रकाशकं प्रदीपवद् इति तत्प्रकारजुषाम् इन्द्रियाणाम् इष्ट एव सम्बन्धः. तत् किम् असम्बन्ध एव ज्ञानार्थयोः. यद्य् एवं कथं घटस्य ज्ञानं नासम्बन्धः. विषयविषयिभावो ऽपि सम्बन्ध एव. स चास्ति ज्ञानार्थयोः. संयोगस् तु नेष्यते समवायो वा. को ऽयं विषयार्थः. येयं प्रतीतिकर्मता. प्रतीतिर् इति हि क्रिया. अस्याम् आत्मा कर्ता. इन्द्रियाणिकरणम्. अर्थः कर्म. तद् येयम् अर्थस्य प्रतीतौ कर्मकारकता तद् एव तस्य विषयत्वं तच् च रूपं प्रतीतेः प्रागभूतं परस्तान् निष्पद्यत इत्य् अवश्यम् आश्रयणीयम्. अन्यथा ज्ञाताज्ञातयोर् अविशेषापत्तेः.{२,१२२}तद् एव ज्ञातता(?ति/दि)पदास्पदं ज्ञानज्ञाने लिङ्गं, कथं पुनस् तदप्रतीतायां प्रतीतौ प्रतीयते. ज्ञानविशिष्टता हि ज्ञातता. सा कथम् अज्ञाते विशेषणे ज्ञायते. अज्ञाता वा लिङ्गम् अनुपपद्यमाना वा न ज्ञानं गमयति. न ह्य् अज्ञातं लिङ्गम् अनुपपद्यमानं वा लिङ्गिनम् उपपादकं वोपस्थापयति. तद् इतरेतराश्रयं, ज्ञानज्ञाततयोर् इतरेतराधीनसिद्धित्वात्. स्वरूपमात्रेण त्व् अर्थो न लिङ्ग(?म् इ/म् अ)तिप्रसङ्गाद् इत्य् उक्तम् एव. भवेद् एवं यदि ज्ञानप्रतीतौ ज्ञातः प्रतीतो भवेत् तदुत्पत्तौ तु स प्रतीत इत्य् उच्यते. अतः स्वयं सिद्धो ज्ञानं साधयति. यत् तु ज्ञानविशिष्टता ज्ञाततेति. तन् न. तत्कर्मता हि सेत्य् उक्तम् एव. तत्कर्मभावश् चार्थस्य न तत्प्रतीतौ सम्भवति. किन् तर्हि. तदुत्पत्तौ. तद् अयम् उत्पत्त्यैव ज्ञानस्याप्राप्तपूर्वो विषयः सम्प्रति प्राप्तो ज्ञानम् उपकल्पयति. एष हि प्राग् ज्ञानोत्पत्तेः सुस्वापादावन्ध इवासीत्, न कञ्चिद् विषयम् अज्ञासीत्. तत् केयम् आकस्मिकी विषयाणां प्राप्तिर् इति चिन्तयति -- न हि कदाचिद् भुवाम् अकस्माद् भावः सम्भवति. अहेतुसापेक्षस्य गगनवन्नित्यभावापत्तेः. अभावो वा तत्कुसुमवद् इति भवितव्यम् अस्य कदाचिद्भवतो ऽर्थसन्निकर्षस्य केनापि कारणेन. न ह्य् असौ तथाविधः स्वरूपेणैव, नित्यतथात्वापत्तेः. नेन्द्रिय वशेन. तेष्व् अपि सत्सु सुस्वापादावदर्शनाद् अर्थतथात्वस्य जागरायां चाव्याप्रियमाणेषु. अस्तु तर्हि तद्व्यापार एव तथात्वे हेतुर् अर्थस्य. न, सत्य् अप्य् अभावात्. अस्ति खल्व् अस्य नानार्थैः सन्निकृष्यमाणानाम् इन्द्रियाणाम् असाधारणो व्यापारः. किञ्चिद् एव तु कदाचिज्ज्ञातं भवति. एवम् एवात्ममनसोर् अपि सतोर् अर्थतथात्वादर्शनाद् अहेतुत्वं तथात्वेन. नन्व् अव्यभिचारी मनसो योगस् तद्भावे हेतुर्भविष्यतीति. कस्य इन्द्रियाणाम् आत्मनो वा. तन् न तावदिन्द्रियाणाम्. यद् एव हि किञ्चिद् बहिरिन्द्रियं चक्षुरादि कार्यदर्शनवशान् मनसा संयुक्तम् इत्य् अवगतं तद् एव किञ्चिज् ज्ञापयति. नेतरत् तदिन्द्रियमनोयोगहेतुकत्वेन युज्यते ज्ञातत्वस्येति तद्योगो न हेतुत्वेन कल्प्यते. आत्मन्य् अपि मनोयुक्ते कस्य हेतोः किञ्चिद् एव ज्ञातं नापरम्. येनेन्द्रियं सन्निकृष्यते चक्षुरादि तदात्ममनोयोगाज् ज्ञातं भवतीति चेद्, न. उक्तव्यभिचारत्वात्. चक्षुस्सन्निकृष्टम् अपि हि किञ्चिद् एव कदाचिज्ज्ञातं भवति नापरं, तदसति विशेषे नावकल्पते.
SK
अपि च ज्ञानकर्मता ज्ञातत्वं चेतना ज्ञानम् इति चानर्थान्तरम् इति लोकसिद्धम्. तद् यद्य् आत्ममनोयोगश् चेतना, तस्योभयसाधारण्याद् मनश् चैतन्यप्रसङ्गो{२,१२३}वर्णितः. न ज्ञानं चेतना, अपि तु संवेदनम् इति चेत्. अस्ति वानयोर् विशेषः. नन्व् एवं नीलं जानाति संवेत्तीति च सह प्रयुज्येत, अर्थभेदेनापर्यायत्वाद् इति नात्ममनस्संयोगो ज्ञानम्. अतो न तत्प्रभावितं भावानां ज्ञातत्वम्. सो ऽयम् अहेतुकः प्राप्यकर्मभावो ऽर्थस्य ज्ञाततात्माजन्यो नावकल्पते. हेत्वभावेन कार्याभावप्रतिबद्धेन तदनुमानात्. सेयं प्रत्यक्षादीनाम् अनुमानविरोधानुपपत्तिः. तानि ह्य् अर्थं प्रापयन्ति. हेत्वभावानुमानं च तत्प्राप्तिं प्रतिक्षिपति. सेयम् अनुपपत्तिर् ज्ञानकल्पनया समाधीयते. अस्ति कश्चिदात्मसमवायी ज्ञानसंवेदनादिपदपर्यायवाच्यो जानातिधातूपादानः क्रियाभेदो यस्मिन्न् अर्थानां प्राप्यकर्मतेति. ननु ज्ञानं गुणः गुणकाण्डेर् पाठात् न तु क्रिया. अतः कथं तस्यार्थः कर्मेत्य् उच्यते. न हि विभोर् आत्मनः स्पन्दसमवायः सम्भवति. न चापरिस्पन्दात्मिका क्रिया, पञ्चानाम् अपि कर्मणां स्पन्दात्मकत्वात्. न. धात्वर्थमात्रस्य क्रियात्वात्. वक्ष्यति च -- क्रिया धात्वर्थमात्रं स्यात् इति. बुध्यत इत्यादिभ्यश् च शब्देभ्यः क्रियाप्रत्यय एवोपजायमानो दृश्यते पूर्वापरीभावावगतेः. अतो युक्तैव ज्ञानकर्मता विषयाणां ज्ञानाकारवादिनाम्. अपि चावश्यम् अप्राप्तपूर्वस्य नीलादेः प्राप्तिर् वक्तव्या. अन्यथा प्रागिवोत्तरकालम् अप्य् अप्रतिभासमाने विषयाकारे आन्ध्यम् एव जगतो भवेत्. भासते विषयाकारो न केनचित् प्राप्यत इति चेत्, कस्य भासते. यदि न कस्यचित्, किंकृतो व्यवहारभेदः. एको हि नीलं विद्वांस् तदुपाददानो दृश्यते. नापरो विद्वान्. सो ऽयं स्वतन्त्रे नीले किंकृतो विशेषः. न हि स्वतन्त्रो भासमानः सर्व(?स्या/स्य) स्यान् न वा कस्यचिद् वनवह्निर् इवानुपलभ्यमानः केनापि. अतो ऽवश्यम् अस्य क्वचित् सन्ताने प्राप्तिर् वक्तव्या. तथा च यदाभासं प्रमेयं तद् इति पठन्ति. न चाप्रमाकर्मणः प्रमेयता सम्भवति. अस्त्य् अयं प्रमेयादिविभागः, किन् तु भ्रान्तिपरिकल्पितः. तथा चोक्तम् -- अविभक्तो ऽपि बुद्ध्यात्मा इति. सत्यम् उक्तम्. अयुक्तं तु तत्. एवं हि न किञ्चित् पारमार्थिकं नाम भवेत्. चिन्मात्रतापि हि प्रतीतिवशाद् एवाश्रीयते. तद्वद् एव तु विषयाकारो ऽपि भासमानः कथम् अपारमार्थिको भवेत्. तद्विपर्यस्तत्वे वा कथं संवित्स्वरूपम् अविपर्यस्तं भवेत्. उभयत्रापि बाधादर्शनात्. अतः संविद् एवात्मनो भिन्नम् अर्थम् इदम् इति दर्शयन्ती नान्यथा वक्तुं शक्यत इति सिद्धम् इदम् इति बहिः प्रसिद्धो विषयो ज्ञानं साधयतीति.
SK
{२,१२४} यत् तूक्तम् अर्थस्थो धर्मः परेणापि ज्ञातो ज्ञानं गमयेद् इति. तद् अयुक्तम्. अर्थो हि ज्ञातो ऽनुपपद्यमानो ज्ञानकल्पनायां हेतुर् उक्तः. न चासौ सर्वस्य तथा भवति. यस्यैव तु ज्ञानम् उत्पन्नं तस्यासौ ज्ञात इति प्रतीतिसाक्षिकम् एव. यथा यस्यैव गमनं तस्यैव देशान्तरप्राप्तिर् भवति असत्य् अपि गतिज्ञाने. किम् आत्मकः पुनरर्थस्थो धर्मः. उक्तं कर्मकारकतेति. ननु कर्मशक्तिर् अप्रत्यक्षसिद्धा कथं ज्ञानं गमयति. न कर्मशक्त्या ज्ञानं कल्पयामः. कर्मणा त्व् अर्थेन, स तु प्रत्यक्षसिद्ध एव. तस्य चाप्रत्यक्षायाम् अपि शक्तौ कारकान्तरवत् प्रत्यक्षतोपपत्तिः. कारकान्तरशक्तयो ऽपि ह्य् अप्रत्यक्षा एव. न चैतावता तेषाम् अप्रत्यक्षभावः. अतः प्रत्यक्षादिप्रमाणप्राप्तो विषयो ज्ञानकल्पनायां हेतुः. प्राप्तिश् चार्थस्याभूतपूर्वावस्था सर्वस्य स्वसंवेद्येत्य् एके. अन्ये तु हानादिव्यवहारयोग्यतैवार्थस्य प्राप्तिर् इत्य् आहुः. सैव हि ज्ञातत्वम्. तद् एव हि ज्ञानफलम्. क्रियाफलभागिता च कर्मत्वम्. सर्वथा सिद्धं ज्ञाताद् अर्थाज् ज्ञानानुमानम्. ये ऽपि प्रत्यक्षैव संवित् स्वात्मानं विषयवदवस्थापयतीति मन्यन्ते, तैर् अपि ज्ञानोत्पत्तेः प्रागभूतः परस्ताद् भाव्यर्थगतो धर्मभेदो ऽभ्युपगन्तव्यः. न तु ज्ञानप्रत्यक्षतैवार्थप्रत्यक्षता. न ह्य् अन्यस्मिन् प्रत्यक्षे ऽन्यत् प्रत्यक्षं भवति, अतिप्रसङ्गात्. यदि संवित्प्रत्यक्षतैवार्थप्रत्यक्षता भवेद्, अनुमेयादीनाम् अप्य् आपद्येत. अनुमानसंविदो ऽपि प्रत्यक्षत्वात्. अतो ऽवश्यं स्वगत एवार्थस्य विशेषो वक्तव्यः, येन प्रत्यक्षेतरते व्यवतिष्ठेते. अतः सिद्धं नाप्रमाणिका ज्ञेयसिद्धौ ज्ञानकल्पनेति द्वैतसिद्धिः. सर्वसंविदां त्व् आनर्थक्ये विषयाकारप्रत्यभिज्ञा निर्निबन्धनैव भवेत्. एव हि पूर्वेद्युर्दृष्टम् अर्थम् अपरेद्युः प्रत्यभिजानाति. तज्ज्ञानेन सह निरुद्धस्याकारस्य नोपलभ्यते. अन्यः खल्व् अयम् अद्य भुवो ज्ञानस्याकारः. अन्यश् चासौ यः प्राङ् निरूपितनिरुद्धः. कतरद् अत्र प्रत्यभिजानीमः. प्रमाणेतरविभागो ऽपि सर्वसंविदाम् आनर्थक्ये ऽनुपपन्नः. न चार्थक्रियाकारिज्ञानसदसद्भावनिबन्धनो ऽसाव् इति युक्तम्. स्वप्नपरिदृष्टेष्व् अप्य् अर्थेषु (?का/क्व)चिदर्थक्रियाकारिज्ञानोदये प्रामाण्यप्रसङ्गात्. बाध्यते स्वप्नज्ञानम्[७२६]अनन्तरम्, अतो न प्रमाणम् इति चेत्, जाग्रज्ज्ञानम् अपि योग्यवस्थायां बाध्यत एवेति कथं प्रमाणम्. अथ तच्चिरेण बाध्यत इत्य् उच्यते, नैतावता विशेषेण सत्यम् इत्थ्यात्वे भवतः. न हि मायासुवर्णज्ञाने चिरेण विसंवादो दृश्यत{२,१२५}इति तत् प्रमाणम्. अतो यत् प्रमाणं तत् प्रमाणम्, अप्रमाणं चाप्रमाणं न त्व् अर्धजरतीयम् उपपद्यते. अतः सिद्धं ज्ञानाद् भिन्न एवार्थो ग्राह्यलक्षणानुयायी ज्ञानं च साधयतीति. दृष्टान्ताभाववचनम् अपि नानुमानदूषणार्थं, किन् तु स्वाभिप्रेतानुमानदूषणपरिहाराय. एवं ह्य् अत्रानुमानम् अन्तर्णीतं नाविभागं द्व्यात्मकम् अविभागत्वाद् अन्यतरांशवद् इति. यदि च कश्चित् कदाचिद् अग्न्यादिषु दर्शनाद् अनैकान्तिकतां ब्रूयात्, तदर्थम् इदम् उक्तं न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिद् अस्ति ते इति. तच् चैतद् उपरिष्टात् प्रपञ्चयिष्यतीति
SK
__________NOTES__________
SK
[७२६] म् अन्त (KHA) [७२६अ] च्f. PVइन् १.१००,१४-१९
SK
नन्व् अग्न्यादीनाम् एकात्मनाम् एव प्रकाश्यप्रकाशकता दृष्टा. अतो ऽनैकान्तिको हेतुर् अत आह -- अग्नीति. अयम् अर्थः -- ये ऽग्न्यादयः प्रकाशकतया प्रसिद्धाः ते घटादीनां न स्वात्मन इति, न प्रकाशरूपाः प्रकाशात्मनः स्वरूपस्येति. किं पुनः स्वात्मनः प्रकाशस्य न ते प्रकाशकाः. न हि ते ऽप्रकाशिताः सिध्यन्ति. न च तत्सिद्ध्यर्थम् अपरसजातीयापेक्षा दृश्यते. न हि प्रदीपः प्रदीपान्तरम् अपेक्षते. अत आह -- अनपेक्षणाद् इति. अयम् अभिप्रायः -- न ते स्वप्रकाशाय स्वात्मानम् अपेक्षन्ते, स्वात्मनि वृत्तिविरोधात्. स्वस्य स्वस्मिन् प्रकाशायोगाद् इति
SK
किम् इदानीम् अप्रकाशिता एव प्रकाशन्ते, नैवम् अपि. केन तर्हि प्रकाश्यन्त इत्य् अत आह -- ग्राह्यत्वम् इति. चाक्षुषेण हि तेजसा प्रकाशितास्ते गृह्यन्ते. तत् तेषां ग्राहयितृ न ग्रहीतृ. इन्द्रियचैतन्यप्रसङ्गात्. नन्व् एवं तेजसस् तेजोन्तरापेक्षायां सजातीयापेक्षेत्य् अनवस्था. मैवम्. उक्तात्र नायनस्य तेजसः कार्यदर्शनानुसारिणी रूपसिद्धौ शक्तिसिद्धिः. बहिस् तेजसो रूपप्रकाशकत्वदर्शनाद् देहे ऽपि वर्तमानं तद् एव रूपस्य प्रकाशकं भूतान्तराणां तैजसस्य च. न चेह सजातीयापेक्षा. अवान्तरजातिभेदात्. अत एवान्धस्य{२,१२६}प्रदीपादयो न बुद्धिविषयाः. स्वप्रकाशत्वे च तेषाम् अन्धस्यापि धीगोचरा भवेयुर् इति. अक्षम् अपि रूपरूपिरूपैकार्थसमवायिना प्रकाशकं न स्वात्मनः, तद्ग्रहणकाले बुद्धेर् एवान्यथानुपपत्तिप्रमाणिकाया ग्राहकत्वम् इत्य् आह -- अक्षेति
SK
बुद्धिस् तु बुद्ध्यन्तरवेद्येत्य् अनन्तरम् एवोपपादितम् इत्य् आह -- तस्याम् इति. अत्र चोदयति -- नन्व् इति. आत्मनो हि ग्राहकान्तराभावाद् अवश्यम् एकस्योभयरूपता वक्तव्या. न ह्य् असाव् अन्येन गृह्यते. ग्राहकानन्त्यप्रसङ्गात्. अतस् तद्वद् एवैकस्यैव ज्ञानात्मनो ग्राह्यग्राहकभावो नानुपपन्न इति
SK
परिहरति -- कथञ्चिद् इति. अयम् अभिप्रायः -- निर्भागं हि ज्ञानम् इति वः सिद्धान्तः. न चैवंविधस्य द्वैरूप्यम् उपपन्नम्. आत्मा तु केनचिदात्मना ग्राहकः. केनचिदात्मना ग्राह्य इति किं नोपपद्यते. तथा हि -- अस्यार्थसंयुक्तेन्द्रियसंयुक्तमनस्संयोगिनः प्रत्ययो नाम धर्मभेदो जायते. स चास्मात् कथञ्चिद् धर्मरूपेण भिन्नः. तेन चायं ग्राहकः. यत् तस्य पृथिव्यादिद्रव्यान्तरसाधारणं द्रव्यादिरूपं तद् ग्राह्यम्. ज्ञानस्य तु नैवंविधः कश्चिद् विभागो बौद्धैर् इष्यते. अतः कथं तस्य द्वैरूप्यम् इति
SK
नन्व् एवम् अपि तावद् अत्यन्तभेदो ग्राह्यग्राहकयोर् अनिष्ट एव, अभेदस्यापि धर्मधर्मिणोर् इष्टत्वाद् अत आह -- यस् त्व् इति. अत्यन्तभेदो हि घटाग्न्यादीनाम् अप्य् अस्माभिर् नेष्यते एव. द्रव्यादिरूपेणाभेदात्. अतः कथञ्चिद् भिन्नयोर् एव सर्वत्र प्रकाश्यप्रकाशकत्वम् इत्य् आत्मनो ऽपि नानुपपन्नम् इति. यदि तर्हि प्रत्ययांशो{२,१२७}ग्राकहः द्रव्यांशो ग्राह्यः, कथं तर्हि भाष्यकारः प्रत्यगात्मनि चैतद् भवति न परत्रेति प्रत्यगात्मवृत्तिताम् आत्मनो मन्यते. नन्व् एवं परगोचर एवाहंप्रत्ययो भवेत्. परं हि प्रत्ययात्मनो द्रव्यादिरूपम् अत आह -- प्रत्यासत्तीति. येयम् आत्मनः प्रत्यगात्मवृत्तिता भासते नायं दोषः. सर्वम् एव हि नो ऽनेकान्तेन परत्र प्रवर्तते. आत्मा त्व् अत्यन्तप्रत्यासन्नग्राह्यग्राहकधर्मकः प्रत्यगात्मवृत्तितया भासते. अत्यन्तप्रत्यास(?न्नो/न्नौ) हि नरस्य जलाजलात्मानौ तयोर् असौ साधारणो ग्राह्यग्राहक इत्य् अभिधीयते इति न कश्चिद् दोष इति
SK
अपि च, अहम् इति यो ऽयम् अस्मत्प्रयोगः तत्सम्भिन्ना विशदतरम् आत्मगोचरा संविदुत्पद्यमाना दृश्य(?न्ते/ते.) ज्ञानं तु न स्वगोचरं जातु जायमानम् उपलब्धम्. अतो नात्मद्र्ष्टान्तेन ज्ञानस्योभयरूपता वक्तुं शक्या. न हि तद् अहं नीलम् इति कदाचिद् उत्पद्यमानं दृश्यते. सर्वदेदम् प्रयोगसम्भिन्नबोधात्. अत उपपन्नैवात्मकर्तृकात्मनि संवित्तिः न तु ज्ञान इत्य् आह -- अस्मत्प्रयोगसम्भिन्नेति. अत्रैके वदन्ति कुमारस्वामिवादिनः -- नात्मास्मत्प्रयोगसम्भिन्नबोधवेद्यः. न हि वयं कार्यकारणसङ्घातातिरेकिणम् अयम् अस्मीति पुरुषं बुध्यामहे. पृथिव्यादिद्रव्यानुभव एव स्वप्रकाशः स्वम् आत्मानं स्वप्रकाश्यम् आत्मानं मेयं च द्रव्याद्यवस्थापयति. न हि विषयवित्ताव् अप्रतिसंहिते पुरुषे स्वपरवेद्ययोर् अतिशयः सिध्यति. अतो विषया न बोद्धर्यनवभासमाने भासन्ते. नासौ तेषु. अत एव विषयवेदनोपरमे जडाकाशादिवदात्मनो ऽवस्थानं सङ्गिरन्ते. यदा खल्व् अयं पुरुषः प्रक्षीणाशेषकर्माशयो मुच्यते, तदा ज्ञानकारणानाम् इन्द्रियादीनाम् अभावाद् असति विषयवेदने चिद्रहितः खवद् अवतिष्ठते. निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणम् एव हि मोक्षं मन्यन्ते. न चैवम् अपुरुषार्थत्वं, दुःखोपरमस्यापि पुरुषेणार्थ्यमानत्वात्. संसारिणो हि दुःखेनोद्विग्ना अत्यन्ताय तदुच्छेदम् अभिसन्दधाना गृहेभ्यः प्रव्रजन्तो दृश्यन्ते. न नु सुखम् अप्य् आत्मनो वैशेषिको गुणः. तस्योच्छेदाद् अपुरुषार्थत्वम् अपि भवेत्. मैवम्. सुखम् अपि संसारिणो नानाविधानेकदुःखसङ्कुलं नातिचिरम् अनुवर्तत इति महान्तस् तद् अपि दुःखपक्ष एव निक्षिपन्तो मोक्षायोत्तिष्ठन्ते. अतो नास्ति{२,१२८}विषयवेदनोपरमे नरस्य चैतन्यम्. अत एवायम् अहरहस्सुखापे सन्मात्रतयावतिष्ठते. न पुनः किञ्चिज्जानाति. तत्र चानुभवे स्वप्नपरिचितानाम् इवार्थानाम् उपरिष्टात् स्मरणं भवेत्. न चैतद् अस्ति. अतो नानवभासमानेषु विषयेषु बोद्धा प्रख्यायते. न च विषयवित्ताव् अस्मत्प्रयोगसम्भेदः इदम् प्रयोगसम्भेदाद् इति नास्मत्सम्भेदे विषयानवग्रहाद् आत्मग्रहः. नापि विषयवित्ताव् आत्मग्रहे अस्मत्प्रयोगसम्भेद इत्य् असमञ्जसम् अस्मत्प्रयोगसम्भिन्नेति. अत आह -- ज्ञानस्येति. अयम् अभिप्रायः -- अस्मत्प्रयोगसम्भिन्नो ऽस्ति बोधो न वा. यदि नास्ति, जितम् अनुत्तरा गुरवः. सतस् तु किम् आलम्बनम् इति वक्तव्यं शरीरम् इन्द्रियाणि वा. न तावच्छरीरं, ज्ञातृगोचरत्वात्. अहं जानामीति ज्ञातारम् अहंप्रत्ययो ऽवलम्बते. न च शरीरं चेतयते भौतिकत्वाद् भूतानां चाचेतनत्वात्, कारणगुणपूर्वकत्वाच् च कार्यगुणानाम्. अत एव नेन्द्रियाणि ज्ञातॄणि. न च ज्ञानं, प्रत्यभिज्ञानात्. अयं हि पूर्वेद्युर् दृष्टम् अर्थम् उत्तरेद्युः प्रत्यभिजानानः पूर्वापरसाधारणम् आत्मानम् अनुसन्दधाति अहम् इदम् अदर्शम् इति. तत् तु ज्ञानगोचरत्वे ऽनुपपन्नम्. अन्यो हि तदा यः पूर्वेद्युर् दृष्टवान्, अन्यश् चायं यो ऽद्य पश्यति, क्षणिकत्वाज् ज्ञानानाम्. अतः --
SK
बुद्धीन्द्रियशरीरेभ्यो भिन्नो ऽहङ्कारगोचरः |
SK
संवित्सामर्थ्यसिद्धत्वान् न जहात्य् उक्तरूपताम् ||
SK
इति. तद् इदम् उक्तं - ज्ञानस्यैव च कर्तरीति. ज्ञानकर्तुर् हीयम् अस्मत्प्रयोगसम्भिन्ना संवित्तिः, न चान्यो ज्ञानस्य कर्तेत्य् उक्तम्. अतः संविद्बलादेवोभयरूपतात्मनः सिध्यति
SK
न त्व् एवमात्मैवात्मानं ज्ञानं जानाति जातुचित् | तद् धीदं नीलम् इति यत् सर्वदा परगोचरम् ||
SK
यत् तु न कार्यकरणसङ्घातातिरेकिणं प्रतिपद्यामहे इति. किम् एवं देहाद्यालम्बनो ऽहंप्रत्ययः. तत् तावत् प्रत्युक्तम् एव. न चानालम्बनो ऽयम्, अत्रत्यसिद्धान्तात्. तद् अयम् अनालम्बनम् आत्मानम् अलभमानः स्वगोचरं ज्ञातारम् आकर्षति. स प्रतीतिबलसिद्धोभयरूपः पुरुषो न नोपपद्यते. देहेन्द्रियादिसङ्कीर्णस् तु न विविच्योपलक्षयितुं शक्यते अयं नामासौ पुरुष इति. न चैतावता न गृहीतो भवति. न हि क्षीरोदकसंसर्गे विवेकेनागृहीते इति{२,१२९}न गृहीतम् उभयम्. एवम् इहापि संमुग्धबुद्धः पुरुषः प्रत्याहारादिकं योगम् अभ्यस्यद्भिर् नित्यनैमित्तिकमात्रानुष्ठायिभिर् अकुर्वद्भिर् निषिद्धं भोगप्रक्षीणाशेषकर्माशयैर् अयम् अस्मीति विविच्यापरोक्षीक्रियते. न त्व् अयं विषयवित्ताव् अप्य् अयं नामेति विविच्यते. ये ऽपि विषयवेदनावसर एव नरो गृह्यते इत्य् आस्थिताः, तैर् अप्य् अस्य विवेको दर्शयितुम् अशक्य एव. अतो नायं दोषः विवेको नावगम्यत इति. न त्व् अयं विषयवेदनावसरे ज्ञायते. न हि तदा तदतिरेकिणः कस्यचित् प्रतीतिर् अस्तीत्य् अनन्तरम् एव वक्ष्यते न त्व् अत्रेत्य् अनेन. संविद् एव तावत् तदा नावभासते, यदायत्तो भावानां भेदः प्राग् एव संवेत्ता. यत् त्व् एवं स्वपरवेद्ययोर् अनतिशय इति. तन् न. यस्य हि ज्ञानम् उत्पन्नं, तस्य विषया भासन्ते इत्य् उक्तम् एव. अतः कथम् उत्पन्नज्ञानेन संविदितम् अन्यो ऽनुभवेत् तेन वा ज्ञातं तदन्यः. न हि बोद्धृसंवेदनकृतः स्वपरवेद्ययोर् भेदः, येनैवम् आपद्येत. एतावतैव ह्य् एकस्यासौ वेद्यः, नापरस्य, यत् तस्य ज्ञानम् उत्पन्नम्. एवम् अपि भवेद् एतद् यद्य् असत्यां बोद्धृवित्तौ विषया न विदिता भवेयुः. तद्वित्तिर् एव वा विषयवेदनं भवेत्. न त्व् एवं, केवलविषयावग्रहात्. अन्यगोचरज्ञानस्यान्यविषयत्वासम्भवात्. एवं चासत्यां विषयवित्तौ पुरुषो न प्रकाशत इत्य् अपि दुरुक्तम्. एवं ह्य् उपरतकरणग्रामस्य मोक्षो मरणम् एव शब्दान्तरेणानुज्ञातो भवेत्. न खल्व् अपि ज्ञानात्मनः पुरुषस्य सदसत्त्वयोर् अस्ति विशेषः. तद् अयम् अपवर्गदशायां प्रकाशत एव. केन पुनर् अयं तदा प्रकाश्यते. न केनचित्. स्वप्रकाश एवेत्य् एके. न त्व् एवं, स्वप्रकाशत्वनिषेधाद् अविभागस्य. तदापि त्व् अयं धर्मधर्मित्वविभागाश्रयणेन प्रत्ययात्मना ग्राहको द्रव्यादिरूपेण ग्राह्य इति वाच्यम्. किम् अस्ति तदा धर्मधर्मिभेदः. को दोषः. श्रुतिविरोधः. श्रूयते हि एकम् अद्वितीयम् इति. न. व्यतिरिक्तग्राह्यनिषेधात्. अन्यथा ह्य् आत्मभेदो ऽपि न सिध्येत्. न चासौ नेष्यते, मुक्तेतराविभागापत्तेः. अपि च अर्थावग्रहनिवृत्त्यर्था एवं विसंवादा इति तत्र तत्रोक्तम्. अतो ऽपवर्गे ऽपि ग्राह्यग्राहकाकार एवात्मा. श्रूयते च जानात्य् एवायं पुरुषो ज्ञातव्यं तु न वेदेति. न हि तदा ज्ञातुर् ज्ञप्तेर् विपरिलोपो विद्यते. न तु विभक्तम् अस्त्य् अन्यद् यतो द्वितीयं जानीयाद् इति. तस्माज् जानातिपदप्रयोगाद् अवगच्छामः यद् अस्ति मोक्षे ऽपि कर्मभावः पुरुषस्येति. जानातेर् अकर्मकस्याप्रयोगात्. इयांस् तु विशेषः यद् अयं भूतेन्द्रियवशो विषयोपरागात् तच्छयाभेदान्{२,१३०}प्रतिपद्यमानो ऽविभक्तज्ञानशक्तिर् आभासते. निजैव त्व् अस्य चितिशक्तिः. सा असति विषयोपराग आत्मगोचरैवावतिष्ठते. कथम् अकरणिका ज्ञानोत्पत्तिर् इति चेद्, मैवम्. तदानीम् अपि मनसो भावात्. नित्यं हि तदात्मवद् उपेयते. आह च --
SK
प्रत्याहारादिकं योगम् अभ्यस्यन् विहितक्रियः |
SK
मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते ||
SK
इति. न चैवं विषयवेदनप्रसङ्गः, मनसो बहिरस्वातन्त्र्यात्. विषयवित्तीनां च सुखदुःखहेतुत्वेन कर्मजन्यत्वाद् असति कर्मसंस्कारे ऽनुपपत्तेः. आत्मज्ञानं च न कर्मजन्यम् इति विगलितनिखिलकर्माशयस्यैव निष्पद्यते. केवलज्ञाननिराकरणे ऽपि विषयवेदनान्य् एव प्रत्युक्तानि नात्मज्ञानम्. आह च --
SK
निजं यत्त्वात्मचैतन्यम् आनन्दो ऽध्यक्ष्यते च यः |
SK
यच् च नित्यविभुत्यादि तेनात्मा नैव मोक्ष्यते ||
SK
इति. सुस्वापे ऽपि त्वात्मसंविद् अस्त्य् एवेति केचित्. अत एव सुषुप्तप्रतिबुद्धः सुखम् अहम् अस्वाप्सम् इत्य् आत्मानं प्रतिसन्धत्ते. अथ वा तत्र कर्माशयानुवृत्तेस् तत्परतन्त्रं मनो न केवलम् आत्मानं प्रकाशयति, न विषयवित्तिविरहात्. अतो न विषयसंवेदन एवात्मसंवेदनम्. अपि चैवं मेयमातृगोचरायाम् एकस्यां संविदि भासमानयोः किंकृतः कर्मकर्तृभावः. एवं हि तद्द्विकर्मकं ज्ञानं भवेत्. यत् तूक्तं परसमवायिक्रियाफलभागिता कर्मतेति, तद् अयुक्तम्. यद् एव हि ज्ञानोत्पत्तावाप्यते तत् प्राप्यं कर्म. तथाचात्मेति कथम् अस्याकर्मत्वम्. अपि च केयं क्रिया, यत्समवायात् तत्फलभागितया आत्मनः कर्तृत्वम्. किं पुनस् तत्. उक्तम् आत्म(म)नोयोग इति. नन्व् अस्य मनस्य् अपि समवायात् तस्यापि कर्तृत्वप्रसङ्गः. तत्फलसम्बन्धश् चोभयोर् अप्य् अविशेषाद् आपद्यते. तत्र चोक्तो मनश् चैतन्यप्रसङ्ग इति सिद्धं न विषयवित्तेर् एव त्रयसिद्धिर् इति. यच् चास्मिन् दर्शने दुःखोपरतिर् एव मोक्ष इत्य् उक्तम्. तद् अप्य् अयुक्तम्, आनन्दश्रुतेः. श्रूयते हि विज्ञानम् आनन्दं ब्रह्म आनन्दं ब्रह्मणो रूपम् इति च. तद् एतत् प्रेयः पुत्राद् इति च. न च दुःखनिवृत्तिर् एवानन्दः, अश्मादौ प्रसङ्गात्. स्याद् एतत्. प्रत्यग्वृत्तिर् उपलभ्यमाना दुःखाभावात्मना सुखम्. न चात्मा किञ्चित् प्रत्यग् जानाति अचेतनत्वाद् इति नासौ दुःखायते सुखायते वा. मैवम्. एवम् अपि देहिनो भिन्नावयवसंयोगी सुखदुःखसाधनजन्मा{२,१३१}युगपत् सुखदुःखभोगो न स्यात्. दुःखायमान एव ह्य् एकत्र भागे परत्र सुखायते. तद् दुःखनिवृत्तौ सुखे ऽनुपपन्नम्. प्रदेशान्तरे दुःखाभावः सुखम् इति चेद्, न. स्वसंवेद्यत्वाद् आह्लादविशेषस्य, प्रदेशान्तरे दुःखाभावे च सुखे नरकान्तरे दुःखाभावान् नरकान्तरे सुखित्वप्रसङ्गः. तत् तावद् दुःखनिवृत्तिः सुखम्. न चास्याम् आनन्दवादो गौणः, प्रमाणाभावात्. न ह्य् आनन्दश्रुत्यर्थे मुख्ये गृह्यमाणे किञ्चिद् अनुपपन्नं, येन गौणतया व्याख्यायते. अतो विज्ञानम् आनन्दं ब्रह्मेति प्रतिजानीमहे. असञ्चेतितस् त्व् आनन्दो ऽप्य् असत्कल्प एवेति सिद्धम् अन्तरेणैव विषयवेदनम् अस्मत्प्रयोगसम्भिन्नायां संवित्तावात्मा प्रकाशत इति
SK
यथा चास्मत्प्रयोगसम्भिन्नसंवित्संवेद्य आत्मा द्विरूपो नैवं ज्ञानम्. न हीदं नीलम् इति ज्ञाने करणानाम् इन्द्रियाणां ग्राहकस्यात्मनो ज्ञानस्य वाकार उपलभ्यते, नीलमात्रप्रकाशाद् इति न पूर्ववदात्मवदभिन्नत्वे ऽपि नीलज्ञाने तद्बुद्धेर् ग्राह्यत्वम्. नीलम् एव तु तया गृह्यते. सा तु ततो ज्ञाताद् अवगम्यत इत्य् उपपादितम् एव, तद् एतद् आह -- न त्व् इति. दृष्टान्तार्थं करणग्राहकयोर् उपादानम्. यथेदं नीलम् इत्य् अत्र करणम् इन्द्रियं ग्राहकः पुरुषो न ज्ञायते, एवं ज्ञानम् अपि. कर्मैव तु केवलम् अत्रावगम्यते. न च कर्तृकरणक्रियम् इति
SK
स्याद् एतत्. ज्ञानसंवित्तिर् एवेयम् इदं नीलम् इति. पररूपनिरूपणाकारत्वं तस्या वासनानिबन्धनम्. अनादिर् हि वासना संसारिणां, तद्वशेन स्वात्मानम् अपि परम् इव निरूपयति परेषाम् इव परं देहम् आत्मतया अहम् इति. अत आह -- अन्याकारेति. अयम् अभिप्रायः -- संविन्निष्ठा हि नो वस्तुव्यवस्थितयः.{२,१३२}संविच् चेदम् इति बहिर्विषयप्रकाशात्मा जायमाना दृश्यते. यदि त्व् इयम् एवंरूपाप्य् अन्यविषया ज्ञानविषयेष्यते, एवं तर्हि ज्ञानाकारा संवित्तिर् अर्थविषयास्माभिः कस्मान् न कल्प्यते. (न चासति बाधके परगोचरत्वं भ्रान्तिर् इति युज्यते कल्पयितुम्. वासना च प्राचीनज्ञानजन्मात्माश्रयः संस्कारो ऽभिधीयते. नासाव् अस्ति नास्तिकानां, नैरात्म्यसिद्धान्तात्. नापि ज्ञानम् आधारो वासनायाः, क्षणिकत्वात्. नापि समनन्तरप्रत्ययो वासना, तस्य तथात्वेनाप्रसिद्धेः. असाव् अपि स्वगोचरो न परं परगोचरतया दर्शयितुं शक्नोति. अतद्रूपत्वात् ताद्रूप्यनिष्पत्त्ययोगात्. इतरथानुभवरूपतापि तस्य न स्यात्. अनुभवाकारतां ह्य् उत्तरस्य समनन्तरप्रत्ययो वितनुते. तत् कस्य हेतोः. स्वरूपानुरूपकार्यारम्भस्थितेः. अत एव नात्मगोचराद् इदम् इति परसंवेदनोत्पत्त्युपपत्तिः. परत्राहम् मानकल्पना तु भ्रान्तिः, ज्ञातृगोचरत्वाद् अहङ्कारस्येत्य् उक्तम् एव. न त्व् इह बाह्यालम्बनत्वे ज्ञानस्य किञ्चिद् अनुपपन्नं येनात्मगोचरतावश्यं कल्प्यत इति सिद्धं बाह्यालम्बनम् एव ज्ञानम् इति)
SK
{२,१३३} एवं तावद् अन्यतराग्रहणे ऽन्यतरो न गृह्यत इत्य् उक्तम्. तद्वद् एव द्वयोर् अप्य् अग्रहणम् इति समाहृत्य दर्शयति -- यथा चेति. अस्यार्थः -- यथा ग्राह्यग्रहणे ग्राहको न गृह्यते ग्राहकग्रहणे च ग्राह्यः. एवं च द्वयोर् अप्य् अग्रहणं भवेत्. न तु ग्राहकमात्रस्य वा ग्राह्यमात्रस्य वा. पूर्वं त्व् अन्यतराग्रहणदृष्टान्तेनेतरस्याग्रहणम् आपादितम्. इदानीं समाहृत्योभयोर् उच्यत इति प्रयोगभेद इति
SK
एतच् च ग्राह्यमात्रस्य ग्रहणं ग्राहकरहितं स बहिर्देशसम्बद्धः इत्यादिना भाष्येणोक्तम् इत्य् आह -- स इति. अयं च भाष्यार्थः -- स एव केवलो बाह्यार्थः प्रत्यक्षम् अवगम्यते. न पुनर्ग्राहक इति
SK
आञ्जस्येन त्व् अर्थाकारो नीलादिर् इत्य् एतत्सिद्धये बहिर्देशसम्बन्धो हेतुतया लक्ष्यते, तन्नानुमन्यामह इत्य् आह -- परम् इति. न हि परस्य बहिर्देशो नाम कश्चित् सिद्धः यो ऽर्थसाकारत्वे हेतुतयोपन्यस्येत. सर्वस्य ज्ञानाकारत्वेनाभ्युपगमात्. अतो बहिर्देशस् तत्सम्बन्धश् च बौद्धं प्रति साध्य एव, न हेतुर् इति
SK
तस्माद् यथोक्त एव भाष्यस्यार्थ इत्य् आह -- तस्माद् इति. अस्यार्थः -- बहिर् इत्यादौ भाष्ये इदंशब्देनेदं नीलम् इति विकल्पस्थेन निष्कृष्टं ग्राहकांशात् प्रत्यक्षादेः प्रमाणगणस्य संवेद्यम् उदाहृतं नीलादिमात्रम्. एतद् उक्तं भवति. न स्वगोचरं ज्ञानं बहिःप्रकाशाद्, इदम् इति{२,१३४}परनिरूपणात्. स्वगोचरे हि नेदम् इति प्रकाशो भवेत्, किन् त्व् अहम् इति. तद् इह बहिर्देशसम्बन्धोपन्यासेन परगोचरतैव संवित्तेर् उच्यत इति
SK
तथा केवलग्राहकसंवित्तिर् अपि सत्यम् पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इत्य् अत्रोक्तेत्य् आह -- नेति. अत्र हि पूर्वम् उत्पन्नापि बुद्धिर् न प्राग् अवगम्यते, किन् तु पश्चाद् इति वदता ग्राह्याकारविनिर्मुक्तस्यैव ग्राहकस्य संवित्तिर् उक्तेति
SK
प्राग् बुद्धेर् अग्रहणसिद्ध्यर्थं भाष्यकारेणोक्तं भवति हि कदाचिद् एतद् यज्ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यते इति. तस्यार्थः -- ज्ञातपूर्वो ऽर्थः कदाचिद् अस्मर्यमाणो ऽज्ञातवद् अभिधीयते. ज्ञानमात्रं तु तद्गोचरं स्मर्यते. एवं हि वक्तारो भवन्ति -- अस्याः श्रुतेर् अर्थो मया गुरुणा व्याख्यायमानो ज्ञातः, इदानीं प्रस्मृतवान् अस्मि. ज्ञानं त्व् एतद्गोचरं पूर्वं जातं स्मरामीति. यथा चास्या बुद्धेर् अग्रहणे हेतुत्वं तत्फलाभिप्रायेण परस्ताद् वक्ष्यति फलत्वाद् ग्रन्थवर्णने इत्य् अत्र. तस्माद् अपि केवलं ग्राहकस्मरणाद् ग्राह्याकारविविक्तग्राहकबोधः सेत्स्यतीत्य् आह -- नेति
SK
अभेदे तु ग्राह्यग्राहकयोर् ग्राहकवद् ग्राह्यस्यापि स्मरणं भवेद् इत्य् आह -- तस्माद् इति. तस्माद् ग्राहकाद् इत्य् अर्थः. यतस् तु ग्राहकमात्रस्यैव स्मृत्यात्मको निर्भासो भवति न ग्राह्यस्य, अतो ऽवगच्छामः यदनुभवकाले ऽप्य् एषा बुद्धिर् एव केवला गृहीता कथम् अन्यथा केवला स्मर्येत. तद् एतद् आह -- ग्राहकेति. ग्राहकमात्रस्य स्मृतिनिर्भासात् कारणात् तत्र ग्राहकग्रहणकाले केवला बुद्धिर् गृह्यते इत्य् अर्थः
SK
{२,१३५} कस्माद् एवम् अत आह -- तद् इति. तत् स्मरणम्. अत्यन्ताविनाभावाद् ग्राह्यग्राहकयोर् एकाकारं न जायत इत्य् अर्थः. तद् एवम् अन्यतरांशान्वये ऽन्यतरविवेकात् सिद्धो ग्राह्यग्राहकयोर् भेद इत्य् आह -- अन्वयेति
SK
अत्र चोदयति -- ग्राह्येति. अयम् अर्थः -- यद् एतद् भवता ग्राह्यग्राहकयोर् अभेदम् अभ्युपेत्यान्यतरग्रहणे ऽन्यतरग्रहणम् आपाद्यते, तद् अयुक्तम्. न हि यद् यतो न भिद्यते तदवश्यं तद्ग्रहणे गृह्यते. न हि शब्दाद् अभिन्ना नित्यानित्यादयो धर्माः शब्दग्रहणे गृह्यन्ते. अभेदे ऽपि तु यस्यांशस्य यदा योग्यता स तदा गृह्यते नेतर इति किम् अनुपपन्नम्. ग्राह्यांशश् च ग्राहकांशसद्भावाद् ग्रहणयोग्यः, न ग्राहकांशः, तदतिरिक्तग्राहकान्तराभावात्. अतो न ग्राह्यग्रहणे ग्राहकग्रहणप्रसक्तिर् इति
SK
स्याद् एतत्. ग्राह्यांश एवास्य ग्राहको भविष्यतीति. तन् न, कर्मणः कर्तृभावानुपपत्तेर् इत्य् अभिप्रायेणाह -- ग्राह्येति. अपि च ग्राह्यग्राहकभावम् एकस्य ज्ञानस्याभ्युपेत्य भवतोभयग्रहणम् आपाद्यते. यदि च ग्राह्यांशो ऽपि ग्राहको भवेद् द्वैरूप्यम् एव हीयेत. ग्राहकैकस्वभावत्वापत्तेर् इत्य् आह -- ग्राहकेति
SK
अथ वा ग्राह्यांशस् तावद् ग्राह्य एव, यदि च ग्राहको गृह्येत, ततो ग्राह्यैकात्मत्वं भवेद् इत्य् आह -- ग्राहक इति. अत्यल्पं चेदम् अस्माभिर् उच्यते उभयग्रहणे एकरूपतेति. सापि तु न सिध्यत्य् एव. ग्राह्याभावे ग्राहकाभावात् तदभावे ग्राह्याभावाद् इत्य् आह -- न स्याद् इति
SK
{२,१३६} एवं तावद् ग्राहकान्तरवर्जनाद् ग्राहको न गृह्यत इत्य् उक्तम्. अपि चोद्भवाभिभवौ भावानां ग्रहणाग्रहणकारणतया सिद्धौ. अतो य एवांशो यदोद्भूतो भवति, तदा स एव गृह्यत इति न नोपपन्नम् इत्य् आह -- उद्भवेति. अत्रैव दृष्टान्तम् आह -- यथेति
SK
रात्रौ हि दीपप्रभादीनां रूपमात्रम् उपलभ्यते, न स्पर्शः. अभिभूतत्वाद् इत्य् आह -- दिवेति. स्पर्शरूपयोश् च नक्तन्दिवम् अभिभवे चन्द्रमसः शीतस्पर्शः प्रबलं च तारणं तेजः कारणम् इति. एवं तावदभिभवे कारणान्तरसन्निधानाद् अभिभूतस्याग्रहणम् उक्तम्. इदानीं स्वयम् अपि सूक्ष्मत्वाद् अभिभूतं न गृह्यते इत्य् उदाहरणेन दर्शयति -- गन्धवद् इति. यदा खलु वायुना प्रेर्यमाणाः सूक्ष्मा द्रव्यभागा घ्राणेन्द्रियगोचरा भवन्ति, तदा तेषु वर्तमानेष्व् अपि गन्धमात्रम् एवोपलभ्यते न द्रव्यम् अभिभूतत्वात्. सा पुनर् इयं द्रव्यसङ्क्रान्तिर् अयुक्तेति मन्यन्ते. यदि खलु तिलादिषु चम्पकादिद्रव्यम् एव सङ्कामेद् एवं मृद्यमानेषु तेषु चम्पकगन्धो नश्येत् पुष्पस्थ इव. चम्पकादिद्रव्येषु मृद्यमानेषु तद्गन्धस्य नाशो दृष्टः. एवं तिलस्थकुसुमावयवमर्दने ऽपि भवेत्. यः खलु स्थूलेष्व् एव कुसुमेषु मृद्यमानेषु नश्यति, स कथं सूक्ष्मावयवस्थं न नङ्क्ष्यतीत्य् उत्प्रेक्ष्यते. अतश् चम्पकादिसन्निधानाद् गन्धान्तरम् एव तिलादिषु जायते इति मन्यते. एवम् अप्स्वग्निसंयोगाद् गुणान्तरागमो वक्तव्यः. नाग्निसङ्क्रान्तिर् अनुपलम्भनात्. स्पर्शमात्रम् एव हि तत्राग्नेर् वयम् उपलभामहे, नाग्निम्. अपि चायं तपस्वी द्रव्यसङ्क्रान्तिम् आतिष्ठमानः सुराघ्राणे पतेत्. सुरात्रसरेणूनां घ्राणोदरेण वक्त्रसञ्चारात्. अत आत्मवधायैवेयं द्रव्यसङ्क्रान्तिर् आश्रिता भवेत्. अत्राभिधीयते -- न तावत् स्वाश्रयपरित्यागेनाश्रयान्तरं गन्धो गच्छतीति सम्भावयामः. गुणानाम् अस्वतन्त्रत्वात्. आश्रयपारतन्त्र्यम् एव हि तल्लक्षणम्. गुणान्तरम् अपि न तावत् सन्निहितेष्व् आकाशानिलादिषु कुसुमसम्पर्काज्{२,१३७}जायते इति वाच्यम्. तेषु गन्धस्यात्यन्ताभावात्. नापि नासिकायाम् एव गन्धान्तरं जायत इति वक्तव्यम्. अतिदूरत्वेन कुसुमासंसर्गात्. अतः कुसुमावयवा एव दृष्टतद्गन्धसम्बन्धावायुना प्रेर्यमाणा घ्राणोदरं यावदागता गृह्यन्त इति प्रमाणवती कल्पना. यो ऽपि मर्दने गन्धनाश उक्तः, सो ऽप्य् अयुक्तः. सूक्ष्मा हि तत्र कुसुमावयवाः सङ्क्रान्ताः. न ते मृद्यन्ते. अतो गन्धो न नश्यतीत्य् उक्तम्. यो ऽपि गन्धाघ्राणे सुरापानदोषो ऽभिहितः, नासौ. पानं हि सुराया निषिद्धं, नाघ्राणम्. अल्पस् तु तदाघ्राणे दोषः. न च सुरां जिघ्रन् पिबतीत्य् उच्यते. अतो न सूक्ष्मावयवानां नासिकासन्निधानमात्रात् सुरापानापत्तिर् इति सिद्धं गन्धवद् एव द्रव्यं तत्र वर्तते सूक्ष्मत्वात् तु नोपलभ्यत इति
SK
एवं दृष्टान्तेष्व् अभिभूतस्याग्रहणम् उक्त्वा प्रकृते योजयति -- नेति. यथा दीपप्रभादिषु गुणान्तरसंवित्तिर् नास्ति, यथा च गन्धवद्द्रव्यवृत्तौ द्रव्यस्य, एवं ग्राह्यांशबुद्धौ ग्राहकांशबुद्धौ वाकारान्तरसंवित्तिर् न भविष्यतीति
SK
इदं चापरं ग्राह्याद् अभिन्नम् एव न गृह्यत इत्य् आह -- ग्राह्याद् इति. अस्ति कश्चिद् धर्मभेदः यो ग्राह्यात् शब्दाद् अभिन्नो ऽपि नोपलभ्यते नित्यत्वादय इव शब्दग्रहण इति
SK
इदं तु चिन्तनीयम् -- कस्येदं प्रत्यवस्थानं ग्राह्यांशो ग्राहकांशेनेत्यादि. न तावद् बौद्धस्य. स ह्य् अविभक्तस्यैव बुद्ध्यात्मनो ग्राह्यग्राहकसंवित्तिभेदभिन्नस्य ग्रहणम् आतिष्ठते. यदाह --
SK
अविभक्तो ऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः |
SK
ग्राह्यग्राहकसंवित्तिभेदवान् इह लक्ष्यते ||
SK
{२,१३८}इति. अतस् त्र्याकारस्यैव ज्ञानस्यानुभवात् कथम् अन्यतरांशाग्रहणेन प्रत्यवतिष्ठते. भ्रान्तिकल्पितं तु ग्राह्यादिविभागं बौद्धा मन्यन्ते, न त्व् अप्रतिभानम् एव तेषाम्. अतः कस्येदं प्रत्यवस्थानम् इति. सत्यम्. नात्र बौद्धश् चोदयिता. पार्श्वस्थवचनम् इदम्. एवं हि कश्चिद् अत्र पार्श्वस्थो वदति -- किम् इदं ग्राह्यग्राहकभावम् अभ्युपेत्यैव भवता द्विरूपग्रहणम् आपाद्यते. न हि ग्राहकस्य ग्राहकान्तरं विद्यते तद्ग्रहणे च द्वैरूप्यहानिः तच् चाभ्युपेतम् एवेति कथं तद्विपरीताभिधानं मीमांसकस्य. दृष्टा चाभेदे ऽप्य् उद्भवाभिभवादिकृता ग्रहणाग्रहणव्यवस्थेति. स एवेदानीं बौद्धाभिप्रायेणाह -- अभेदम् इति. ग्राह्यग्राहकयोर् हि पारमार्थिको भेदो नेष्यत एव. एकरूपस्यैव तु बुद्ध्यात्मनस् तथा प्रकाशाभ्युपगमात्. अतो यो ऽयं बुद्ध्यात्मनः प्रकाशः स एव तयोर् इति किम् इति तद्ग्रहणे न गृहीतं भवति. अपि च, अभेदम् अभ्युपेत्यास्मान् प्रति प्रसङ्गो गीयते कथम् अभेदे ग्राह्यग्राहकव्यवस्थेति. तच् चायुक्तम्. कथं ह्य् अभिन्नस्य तत्त्वस्य किञ्चिद् अगृहीतं नाम सम्भवति. यदि त्व् अभेदो नाभ्युपेयते, नायं प्रसङ्गो गातुं शक्यते. भिन्नत्वाद् एवाग्रहणोपपत्तेर् इति
SK
पूर्वपरिचोदनाम् इदानीम् उपसंहरति -- तस्माद् इति. यद् धि ग्रहणयोग्यं तद् गृह्यते यस्य च ग्राहकसद्भाव उद्भवो वा तद् ग्रहणयोग्यम्. अतः पूर्वोपन्यस्तस्य ग्राह्यग्राहकात्मनो द्वयस्य किञ्चिद् एव ग्रहीतुं शक्यं नेतरद् इति ग्रहणशक्त्यभावान् नोभयं चोदनीयम् इति
SK
अत्र परिहारम् आह -- कुत इति. अयम् अभिप्रायः -- न तावद्भ्रान्तिकल्पितो ग्राहकादिविभागः, बाधविरहात्. तथापि वा भ्रान्तित्वे संविद्रूपे ऽपि तत्प्रसङ्गाद् अभावात्मतापत्तिः. तद् अयं वास्तवो ग्राह्यादिविभागो नैकस्मिन्न् अद्वितीये ज्ञानात्मनि सम्भवतीति प्रथमम् उक्तं नैतद् अस्तीत्यादिना.{२,१३९}पुनश् च अभिन्नत्वं यदा चेष्टम् इत्यादिना एकस्यैव द्वैरूप्यम् अङ्गीकृत्योभयग्रहणप्रसक्तिर् आपादिता. तत्र नैष परिहारो घटते अयोग्यत्वाद् अभिभूतत्वाद् अन्यन् न गृह्यते इति. न ह्य् एकस्मिन् ज्ञानात्मनि योग्यायोग्यत्वविभाग उद्भवाभिभवात्मत्वं वा सम्भवति. अतो ऽवश्यम् अभिन्नत्व इष्टे ऽन्यतरसंवित्तौ द्व्याकारग्रहणेन भवितव्यम् इति
SK
किं पुनर् एकस्योद्भवाभिभवात्मत्वं न सम्भवतीत्य् अत आह -- एकेति. एवं हि ग्राह्यग्राहकाभिधानं तत्त्वम्. तत्र यदि ग्राहकांशो ऽभिभूतः कथं तदभिन्नो ग्राह्यांशो नाभिभूत इति शक्यते वक्तुं, विरुद्धधर्माध्यासेन भेदापत्तेर् इति. एवं चोभयाभिभवे ग्राह्यांशस्यापि ग्राह्यत्वं न स्याद् इति न किञ्चित् तत्त्वं सम्भवेद् इत्य् आह -- तथेति
SK
एवम् अयोग्यतापि विकल्पनीया किम् उभयम् अयोग्यम् एकं वा. यद्य् उभयं न किञ्चिद् गृह्यत इति शून्यतैवापद्येत. यदि त्व् एकम् अयोग्यम् इतरन् नेत्य् उच्यते तद् एकत्राद्वितीये नोपपन्नम् इत्य् आह -- अयोग्यतेति. ये पुनर् अत्र दृष्टान्ता उक्ताः प्रदीपप्रभादिषु रूपादयः, तत्रोद्भवाभिभवाभिधानं युज्यते. रूपादीनां परस्परभेदेन तत्रोद्भवाभिभवोपपत्तेः. भिन्नं हि स्पर्शाद् रूपं, तद्रात्रौ रूपोद्भवे ऽभिभूतस्पर्शो न गृह्यत इति किम् अनुपपन्नम्. तद् एतद् आह -- दृष्टान्ता इति. आदिशब्दाद् योग्यायोग्यभेदो ऽपीति. स्वरूपभेदानुविधाय्य् उद्भवाभिभवादिभेदो ऽपीत्य् अर्थः
SK
ननु नास्ति रूपादीनां पारमार्थिको भेदो महान् खल्व् अयं क्लेशः यद् द्रव्याद् एव तेषां भेदो ऽभिधीयते. परस्परभेदास् तु क्लेशतरेणोपपाद्यन्ते. अत एकम् एव द्रव्यादिरूपं ग्राहकभेदाद् रूपादिभेदभिन्नम् आभासते मुखम्{२,१४०}इवादर्शभेदाद् इति मन्यन्ते. अतस् तत्राप्य् अभेद एवोद्भवादिव्यवस्था दृष्टेति न कश्चिद् विशेषः. अत आह -- यदापीति. अयम् अभिप्रायः -- यदि तावद् अस्मत्सिद्धान्तो रूपादाव् आश्रीयते, ततस् ते द्रव्यात् परस्परतश् च भिद्यन्त एव. अथ मतान्तरेण, तथापि न तावद् एकस्योद्भवाभिभवाव् अपि सिध्यतः. अतो ऽस्मन्मते ऽपि हि यथैकम् एव मृद्रूपं घटशरावादिपरिणामभेदभिन्नम् एवम् एकम् एव द्रव्यरूपं रूपादिभिः परिणामभेदैर् भिद्यत इत्य् आश्रयणीयम्. यत् तु एकस्यैव द्रव्यरूपस्य ग्राहकभेदाद् भेद इति, तदतिस्थवीयः. युक्तं हि मुखेषु प्रत्यभिज्ञानाद् औपाधिकभेदाश्रयणम् आदर्शभेदाश्रयणेन. न त्व् इह तथेति वरं परिणामवाद एव. तत्र च नैकस्योद्भवादिव्यवस्था लोके दृश्यते. यस् त्व् अयम् आकस्मिको रूपस्य स्पर्शात्मना परिणामः पुनस् तस्यैव रूपात्मना, स निर्निमित्तो न वक्तुम् उचितः. एकस्यैव च द्रव्यस्यैकं रूपं दिवा गुणान्तरोद्भवेनाभिभूतं यद् नक्तं पुनर् बुध्यते, तन् नोपपन्नम्. परिणामे न हि दध्यात्मना परिणतं क्षीरं पुनः क्षीरात्मना परिणतं दृश्यते. अतः स्वभावाद् एव द्रव्यात् परस्परं च रूपादयो भिद्यन्ते इत्य् एतद् एव साम्प्रतम्. यथा चासत्य् अपि देशादिभेदे भेदः सिध्यति तथानन्तरम् एव वक्ष्यति. तदुपेक्ष्यैव तावत् परिणामवादम् अभिदध्महे नैवम् अप्य् एकस्योद्भवाभिभवाव् इति
SK
यद् अपीदम् अपरम् उक्तम् ग्राह्याद् अभिन्नम् अपि किञ्चिन् नानुभूयते शब्दादौ नित्यत्वादीति, तदनुभाष्य दूषयति -- अभिन्नेति. यथा हि बुद्धिभेदनिबन्धनो रूपादीनां भेदः, एवं कृतकत्वादिधर्माणां शब्दाद् धर्मान्तरेभ्यश् च धीभेदकृतं भेदम् अभिदधाना न दण्डेन वारयितुं शक्या इति
SK
किं पुनर् एषां भेदे कारणम् अत आह -- न हीति. द्रव्यगुणकर्माण्य् एव तावद् भिद्यन्त इति किम् अत्र कारणम् अन्यद् अतः प्रत्ययभेदात्. स चायम् अविशिष्टः कृतकत्वादिधर्मभेदे ऽपीति तत्कारणकस् तेषां भेद इति. ननु{२,१४१}नामीषां देशभेदो वा मूर्तिभेदो वा दृश्यते. अतः कथं ते भिन्नाः, अत आह -- न चेति. न नः पारिभाषिको भावानां भेदः. संविदेकशरणा हि वयम्. सा च भिन्ना भेदम् अभिन्ना चाभेदं व्यवस्थापयति. न तु देशतो मूर्तितो वा भेद इति इयत्तैव परिभाष्यत इति
SK
कीदृशी पुनर् इयं कृतकता, या बुद्धिभेदभिन्नावगम्यते अत आह -- कारकाणाम् इति. यो ऽयं कार्यद्रव्याणां घटादीनां कारकैः कुलालादिभिः सम्बन्धः, सा कृतकता. कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्व् अतल्भ्याम् इति स्मृतेः. सेयम् ईदृशी कृतकता कथं शब्दाद् अभिन्नेत्य् उच्यते. अन्यो हि तदा शब्दो गकाराद्याकारः. अन्या चेयं कृतकता तस्य तत्कारकैः सम्बन्ध इति. अनित्यता तु सावयवानां घटादीनां तावद् अवयवविभागात्मिकेत्य् आह -- विभाग इति
SK
निरवयवानां तु बुद्ध्यादीनाम् अवयवविश्लेषात्मकानित्यत्वासम्भवाद् यो ऽयम् आत्मनो ऽपरिणामरूपेणावस्थानं तन्नाशित्वम् इत्य् आह -- बुद्धीति. नाशित्वम् अनित्यतेति नित्यतायाः स्वरूपं दर्शयति -- नित्यत्वम् इति. वस्तुत्वस्य सत्तातः केचिद् भेदं मन्यन्ते, तत् तु नेष्यत इत्य् आह -- वस्तुत्वम् इति. सत्तैव वस्तुत्वं नापरं किञ्चिद् इत्य् आकृतिग्रन्थे वक्ष्यत इति
SK
प्रमेयताज्ञेयते अपि प्रमाणज्ञानसम्बन्धात्मिके शब्दाद् भिन्ने एवेत्य् आह -- प्रमाणेति. ज्ञानत्वं प्रमाणेतरज्ञानसाधारणम् इति भेदेन ज्ञानसम्बन्धप्रभाविता ज्ञेयतोक्तेति. सर्वत्र चात्रासत्य् अपि देशादिभेदावसाये केनापि स्वसंवेद्येनात्मना भेदो ऽवसीयत इत्य् आह -- सर्वत्रेति
SK
{२,१४२} अतो यथैवास्मन्मते बुद्धिभेदमात्रप्रभावितो रूपादीनां भेद इष्यते असत्य् अपि देशादिभेदे, तथैवैतेष्व् अपि शब्दादिधर्मभेदेषु भेदो ऽस्तीत्य् उपसंहरति -- तस्माद् इति
SK
नन्व् एवम् अपि तावद् अत्यन्तभेदो नैषाम् इष्यते, कथञ्चिद् भेदात्. अतः सिद्धम् अभिन्नस्योद्भवादय इति. न सिद्धम्. अत्यन्तभिन्नता हि नास्माभिः कस्यचिद् इष्यते, सर्वस्य सदाद्यात्मनाभेदात्. अस्ति तु केनापि रूपेण भेद इति तदाश्रयणेनैव विरुद्धधर्मसम्बन्धः समाधीयते. न चैतद् बौद्धसिद्धान्ते ज्ञानस्य सम्भवतीत्य् अभिप्रायेणाह -- अत्यन्तेति
SK
किं पुनः कारणम् अभिन्नस्यापि शब्दात् कृतकत्वादेर् अग्रहणम् इति. भेदस्यापि विद्यमानत्वाद् इति चेद्, हन्तैवम् अभेदो ऽपि वास्तव इति किन् न शब्दग्रहणे गृह्यते, अत आह -- सर्वं चेति. यद् एतत् कृतकत्वादिधर्मजातम् उपन्यस्तं तत् सत्य् अपि शब्दाभेदे क्रियाहेत्वाद्यपेक्षया गृह्यते. न हि वस्त्व् अस्तीत्य् एव ग्रहणं भवति. अपि तु ग्रहणेतिकर्तव्यतासापेक्षम्. कृतकत्वस्य च क्रिया कुलालादिव्यापारः. तद्धेतुश् च कुलालादिः. जिघृक्षा च ग्रहणकारणम्. अतस् तदसंवित्तावभेदे ऽपि शब्दान् न ग्रहणं कृतकत्वादीनाम्. अत्यन्ताभेदे तु ग्रहणादिव्यवस्था न सिध्येत्. न चासाव् अस्माभिर् इष्यत इति
SK
न चायं धर्मधर्मिकृतो भेदो ज्ञाने सम्भवति. अद्वितीयत्वात् तस्य. नापि क्रियाहेत्वादितुल्यम् अपेक्षणीयान्तरम् अस्ति यत्कृता ग्रहणाग्रहणव्यवस्था{२,१४३}भवेत्. ज्ञानातिरिक्तवस्त्वन्तराभावाद् इत्य् आह -- ज्ञान इति. अन्यत्रानपेक्षेत्य् असहमानः प्रत्यवतिष्ठते -- परस्परेणेति. अयम् अभिप्रायः अपेक्षार्थ एव तावद् दुष्प्रतिपादः. अभिन्ने तत्त्वे किं केनापेक्ष्यते. उपेत्यापि ब्रूमः. य एव कश्चिद् अपेक्षिष्यते ग्राहको वा ग्राह्यो वा, स एव सन्निहितः. अत्यन्ताभेदात् तयोः. अतो नाग्रहणकारणम् अन्यतरस्यापीति द्व्यात्मकग्रहणप्रसङ्गः
SK
अत्र चोदयति -- नन्व् इति. यद् एतद् अपेक्षाम् अभ्युपेत्य भवतोच्यते सन्निहित इति, तद् अयुक्तम्. न हि नो नीलादिग्रहणे ग्राह्यम् इदं ग्राहको वायम् इति बुद्धिर् उत्पद्यते. अतो ग्राह्यग्राहकत्वेनानवगमात् कथं तयोः सन्निधानम् अपेक्षा कथम् उच्यत इत्य् अपेक्षाभ्युपगमो न युक्त इत्य् अर्थः
SK
परिहरति -- मा भूद् इति. यद्य् अपि ग्राह्यो ऽयं ग्राहको ऽयम् इति वा न विकल्प्यते, तथापि तावद् एकात्मनः सर्वेणैवात्मना गृहीतत्वाद् यद् एवापेक्षितं तद् एव लभ्यत इति युक्तम् एव वक्तुम्. अन्यो ऽयं ग्राह्यो ऽयं ग्राहको ऽयम् इति शब्दविकल्पः. अन्यच् च ज्ञानरूपम्. तच् चेत् समग्रं गृहीतं, किम् अपरम् अपेक्षणीयं यदग्रहणाद् उभयांशबोधो न भवेद् इति. एवम् अपि चेद् उभयात्मकं न गृह्यते, कथं द्व्यात्मकं भविष्यति. अतः सिद्धं न द्व्यात्मकं ज्ञानम् इत्य् अभिप्रायेणाह -- एवम् इति
SK
एवं तावद् यद् उक्तं सत्य् अपि द्व्यात्मकत्वे न द्व्यात्मकं गृह्यत इति, तन् निराकृतम्. इदानीं द्व्याकारम् एव ज्ञानं गृह्यत इति यद् बौद्धैर् उक्तं तद् दूषयितुम् उपन्यस्यति -- उत्तरोत्तरेति. एवं हि बौद्धा मन्यन्त -- स्वसंवेद्यैज्ञानस्य द्विरूपता. तद् धि जानामि घटम् इत्य् एवोत्पद्यते. तत्र जानामीति{२,१४४}ग्राहकांशः. घटम् इति च ग्राह्यांशः. तद् एवं स्वसंवेद्ये ऽपि ज्ञानस्य द्विरूपत्वे यो नाम मूढो न सम्प्रतिपद्यते, तत्प्रतिबोधनार्थम् उत्तरोत्तरविज्ञानविशेषनिर्देशो बौद्धैर् अभिमतः. एवं हि निर्दिशन्ति घटज्ञानं जानामीति. तद् इह पूर्वेण विषयाकारेण ग्राहकाकारेण च रूषितो द्वितीयज्ञानस्य ग्राहकाकारः प्रचितो निर्भासते. तदाद्यस्य द्विरूपत्वे घटते. त्व् आद्यं ग्राह्याकारमात्रं वा ग्राहकाकारमात्रं वा भवेत्, ततो द्वितीयाद्य् अपि तद्गोचरं तदाकारम् एव भवेत्. तत्राद्यस्य ग्राह्यमात्रत्वे द्वितीयम् अपि ज्ञानं घट इत्य् एवोत्पद्यते. तत्र शब्दत्रयेण निर्देशो नोपपद्येत घटज्ञानं जानामीति. न ह्य् अनातुराणाम् अनर्थको नाम निर्देशो भवति. एवं च तृतीयादिज्ञानेषु चतुष्टयादिभिर् निर्देशो दर्शयितव्यः. तस्माद् उत्तरोत्तरज्ञानविशेषाद् अवगम्यते अस्ति ग्राहकाकारसंवित्तिर् अपीति. यद् अपि चेदम् अपरं द्व्याकारवेदने कारणम् उक्तं -
SK
स्मृतेर् उत्तरकालं च न ह्य् असाव् अविभावितः |
SK
इति. यथा खल्व् अयं स घट इति ग्राह्यं स्मरति, एवं घटज्ञानम् अज्ञासिषम् इति जानातिवाच्यं ग्राहकांशम् अपि. न चानवगतपूर्वार्थविषया स्मृतिः सम्भवतीति पूर्वानुभवप्रतिबन्धात् स्मरणाद् आनुमानिकी पूर्वं ग्राहकाकारसंवित्तिः कल्प्यत इत्य् आह -- स्मरणाद् इति
SK
तद् एव प्रपञ्चयति -- एकाकारम् इति सार्धेन. इदं च प्राग् एव व्याख्यातम् इति. यदि तु ग्राहकाकारो गृह्यते इत्य् आश्रीयते, तदाकारप्रचयदर्शनम् उपपन्नं भवेद् इत्य् आह -- ग्राहकेति
SK
कथम् उपपन्नम् इत्य् अत आह -- जायत इति. पूर्वं हि घटं जानामीति ज्ञानं ग्राह्यग्राहकाकारम्. तत्र तस्मिन्नेव विषयभूते. यत् परं घटज्ञानं जानामीति ज्ञानम्. तस्यात्मीयश् च ग्राहकाकारः. पूर्वौ च{२,१४५}स्वविषयभूतप्राप्यज्ञानस्थौ ग्राह्यग्राहकाकाराव् उपप्लुतौ भवतः. एवं त्र्याकारवेदनम् उपपन्नं भवतीति
SK
अनेनैव प्रकारेण तृतीयादिष्व् अपि ज्ञानेष्व् आकारवृद्ध्या पूर्वपूर्वेभ्यो भिन्नता सिध्यति. इतरथा तु पूर्वस्य केवलग्राह्याकारत्वे स्वाकारसमर्पणेन विषयभावाद् उत्तरम् अपि तत्सदृशं घटात्मकम् एव भवेद् इत्य् अयुक्तम्. एवं केवलग्राहकाकारत्वे पूर्वस्योत्तरस्यापि ताद्रूप्यान् न वैलक्षण्यं सिध्येत्.
SK
निराकारत्वपक्षे ऽपि तुल्यतैव प्रसज्यते |
SK
निराकारत्वसामान्यात् प्राचीनोत्तरसंविदोः ||
SK
इत्य् अभिप्रायेणाह -- परेष्व् इति. एवं तावद् उत्तरोत्तरविज्ञानविशेषाद् इत्य् एतत् प्रपञ्चितम्. स्मरणाच् चानुमानिकीत्य् एतद् इदानीं प्रपञ्चयति -- ग्राह्येति. इदं च प्राग् एव व्याख्यातम् इति
SK
आकारप्रचये तावत् परिहारम् आह -- नेति. अयम् अर्थः -- नोत्तरोत्तरविज्ञानेषु प्रचयान्विता आकारा दृश्यन्ते, नीलाद्याकारमात्रप्रतिभानात्. सर्वदा हि नो विषय एवेदम् इति बहिर् निर्भासते. कदाचिद् एव तूद्भूतजिज्ञासस्यानाकारज्ञानप्रतिभानम् इति वर्णितमसकृत्. अतो न ज्ञानारूढम् आकारद्वयं दृश्यत इति संवित्प्रमाणकम् अहं नीलम् इत्य् अनवगतेः. कस् तर्हि घटं जानामीति जानात्यर्थः. नावश्यं विषयबोधेषु जानातिः प्रवर्तते. घटो ऽयम् इत्य् एव प्रतीतेः. यदा तु ज्ञानम् एव जिज्ञासितं भवति तदार्थस्य ज्ञाततावशेन ज्ञानम् अपि प्रतीयेत. तत्र चायं जानातिप्रयोगः. न वैतावता ज्ञानम् एव द्व्याकारं भवति, विदिते बहिर्विषयाकारे पृथग् एवेदम् अनाकारज्ञानम् इति. यद्य् अनाकारस्यैव ज्ञानस्य संवेदनं, कथन् तर्हि नीलाकारं पीताकारं ज्ञानम् इति व्यपदेशो ऽत आह -- विषयेति. अयम् अभिप्रायः -- न तावज् ज्ञानम् आकारवत्तया दृश्यते, बहिराकारत्ववेदनाद् इत्य् उक्तम्. यस् तु नीलाकारं ज्ञानम् इति व्यपदेशः, न तेनाकारवत्ता ज्ञानस्य सिध्यति. विषयो हि नीलादिव्यपदेशभाजनम्. तद्व्यपदेशेनैव च ज्ञानं व्यपदिश्यते न तु तन्नीलम्.{२,१४६}कस्य हेतोः परव्यपदेशेन व्यपदिश्यत इति चेद्, न. तं विना व्यपदेष्टुम् अशक्यत्वात्. न हि तद्व्यपदेशम् अन्तरेण निरूपयितुं शक्यम् ईदृशं नामेदं ज्ञानम् इति, स्वयम् अनाकारत्वात् संविदाम् इति
SK
यत् तु निराकारत्वपक्षे सर्वसंविदां तुल्यतैव प्रसज्यत इत्य् उक्तं, तद् अयुक्तम्. अनाकारत्वे ऽपि ग्राह्यभेदप्रमाणकत्वाद् भेदस्य, ग्राह्या हि विषयाः संवित्तौ प्रमाणम्. ते च भिन्ना दृश्यमाना भिन्ना एव संवित्तीर् अवस्थापयन्तीति. अतस् तद्भेदसिद्धये तत्समवेताकारान्तराभ्युपगमो न युक्त इत्य् आह -- तस्माद् इति. ग्राह्यभेदनिबन्धनस् तत्प्रमाणक इत्य् अर्थः
SK
नन्व् अस्तु ग्राह्यभेदो भेदे प्रमाणम्. अनाकाराणां तु केनात्मना भेद इत्य् एव दुष्प्रतिपादम् अत आह -- निराकारत्वेति. अयम् अभिप्रायः -- किम् इदम् अनाकारत्वं संविदाम्. यदि निरस्वभावत्वं, तन्नेष्यते विषयवशोन्नीयमानप्रकाशस्वभावत्वात्. अथ नीलाद्याकारविरहः, न. आकाशकालात्मदिक्कर्मसु तदभावे ऽपि भेदाभ्युपगमात्. अतो यथा नीलाद्याकारा एव भावा आकारवत्त्वेनाभिन्ना अपि परस्परेण भिन्ना भासन्ते, एवम् अनाकारत्वेनाभिन्नान्य् अपि ज्ञानानि ग्राह्यभेदोन्नीयमानेनात्मना भेत्स्यन्ते स्वभावाद् एवेति
SK
स्मरणाच् चानुमानुकीति यद् उक्तं तद् इदानीम् उपन्यस्य दूषयति -- स्मृतेर् इति. मिथ्यैवैतद् बौद्धैर् गीयत इत्य् अर्थः. कथं मिथ्या अत आह -- तदैवेति. तदैव खल्व् इदं ग्राहकाकारं ज्ञानं संवेद्यते. घटो हि तत्र स्मर्यते. तत्स्मरणान्यथानुपपत्त्या च तत्कारणभूतं ज्ञानम् अर्थापत्त्या कल्प्यते. नूनं मया घटो ज्ञातः, कथम् अन्यथा स्मर्यते. तत्रैव चार्थापत्तिवेद्ये[७२७]ज्ञाने ऽज्ञासिषम् इति पदप्रयोगः, न तु ज्ञानम् अपि पूर्वं गृहीतम् इति
SK
__________NOTES__________
SK
[७२७] द्ये ज्ञासि (KHA)
SK
{२,१४७} यत् पुनर्द्व्याकारवेदने पूर्वम् उक्तम् अभेदं चाभ्युपेत्यायम् इत्य् अत्र कथम् एकस्मिन् गृह्यमाणे परो न गृह्यत इति. तद् दूषयति -- गृहीतम् इतीति. यद् अस्माभिर् अंशद्वयाग्रहणे निमित्तम् अनुयुक्तो भवान् किम् उभयात्मकं न गृह्यत इति, नानेनास्माकं वाक्यप्रवृत्तिमात्रम् एव भवतो ऽभिमतं यथा तथा वा तावद् अभ्यधास्त्वम् इति. अपि तु अग्रहणकारणं वा त्वया वक्तव्यम्. वास्तवं वाग्रहणं, न त्व् अभेदाद् द्व्यात्मकं गृहीतम् इति वाक्प्रवृत्तिमात्रेणास्माभिर् मुच्यस इति
SK
परमार्थतस् तु ग्राह्यग्राहकाकारवेदनं नास्तीत्य् उक्तम् एवेत्य् आह -- ग्राह्येति. स्याद् एतत्. मा नाम प्रत्यक्षेण द्व्यात्मकं गृह्यताम्. अनुमानेन तूभयाकारवेदनं साधयामः. ग्राहकात्मा गृहीतो ग्राह्याभेदात्, तदात्मवद् इत्य् अत आह -- प्रत्यक्षेति. अयम् अभिप्रायः -- प्रत्यक्षं ज्ञानम् इति वः पक्षः. न चास्मिन् पक्षे ऽनुमानेन ग्रहणसाधनं युक्तम्. यदि हि द्व्याकारं ज्ञानम् उत्पन्नं भवेत्, तथैव प्रकाशेत. अतो नैषा द्व्याकारोपलब्धिर् आनुमानिकी प्रत्यक्षज्ञानपक्षे स्यात्. न च प्रत्यक्षेण द्व्याकारं ज्ञानं कैश्चिद् उपलभ्यत इति न द्व्याकारता ज्ञानस्येति
SK
यदि त्व् एकाकार एव ज्ञाने द्व्याकारता कल्प्यते, एवं सत्यप्रमाणकत्वाविशेषात् सहस्राकारतैव किं न कल्प्यते इत्य् आह -- एवेति
SK
अत्र चोदयति -- ग्राह्येति. अयम् अभिप्रायः -- यद् एतद् अन्यतरांशग्रहणे ऽभिन्नत्वाद् अपरस्यापि ग्रहणम् आपादितं भवता तद् अयुक्तं, अभेदे हि सत्य्{२,१४८}एतत् स्यात्. न तु ग्राह्यग्राहकांशयोः परस्परम् अभेदः. ज्ञानं हि तत्राभिन्नम् अंशौ च परस्परं भिन्नाव् एव. अतो यथैन्द्रवायवादिग्रहाः परस्परं भिन्ना अपि ज्योतिष्टो(?म/माङ्ग)त्वेन न भिद्यन्त इति मीमांसका मन्यन्ते, एवं ज्ञानस्यापि स्वात्मनाभेदे ऽप्य् अंशयोः परस्परं भेदान् न ग्रहणसङ्करपरिचोदनावकाश इति निराकृतस्वपक्षस्य बौद्धस्य प्रत्यवस्थानम् इति. सिद्धान्तवादी तु -- न तावद् अयम् एकान्तवादी बौद्धो भिन्नाभिन्नत्वम् अभ्युपेत्य ग्राह्यग्राहकयोर् भेदम् अभिधत्त इति सम्भवति, तन् नूनम् ऐकान्तिक एवानेन ग्राह्यग्राहकयोर् भेदो ऽभिहित इति मन्वान आह -- सिद्ध इति. इतरः स्वाभिप्रायम् आविष्कर्तुं परपक्षनिषेधं तावद् आह -- नेति. कारणम् आह -- ज्ञानत्वाद् अभेदतः. अयम् अर्थः -- नैवम् अपि भवत्पक्षसिद्धिः, ज्ञानत्वेनांशयोर् अभेदाद् इत्य् उक्तम् एवेति
SK
इतर इदानीं सिद्धान्तहानिम् आपादयंस् तम् एवंवादिनं निगृह्णाति -- भिन्नेति. साङ्ख्या हि प्रकृतिविकारयोर् अत्यन्तभेदम् अनिच्छन्तो विकारात्मना प्रकृतौ भेदं तदात्मना च विकाराणाम् अभेदं सङ्गिरन्ते. तद् यथा साङ्ख्यमतेन भिन्नाभिन्नात्मकं वस्तु परिकल्प्यते, तथा कथं त्वया भ्रान्तचित्तेन बुद्धशासनम् उक्त्वा भिन्नाभिन्नत्वम् एकस्य ज्ञानात्मनः परिकल्पितम्. अस्माकं त्व् अनेकान्तवादिनाम् उपपन्नो ज्योतिष्टोमे तथाभ्युपगम इति
SK
भवतस् तु यदि ग्राह्यग्राहकात्मकं द्वयं ज्ञानात्मनैकं, ततो भिन्नत्ववागनुपपन्ना, नोचेद् एकत्वम् इत्य् आह -- एकम् इति
SK
एवं चात्र भवन्मताश्रयणेनैकात्म्यम् आपादयितुं शक्यम् इत्य् आह -- एकेति. ग्राह्यग्राहकाव् एकात्मानौ, एकरूपात् ज्ञानात्मनो ऽभेदात्. तदात्मवद् एव. ग्राह्यग्राहकयोर् मिथः परस्परम् एकत्वेन कारणेन ज्ञानं ग्राह्यात्मकं ग्राहकात्मकं वा भवेद् इति
SK
{२,१४९} तत्र चैकात्मकत्व आपन्ने ग्राह्यग्राहकयोर् अन्यतरस्यापाये जाते परस्यापीतरविधुरस्यानुपपत्तेर् अंशद्वयासत्त्वम् एव ज्ञानस्य भवेत्. एवं च निःस्वभावम् अभावात्मकं ज्ञानम् आपन्नम् इति शून्यता प्रमाणार्थयोः स्याद् इत्य् आह -- तत्रेति
SK
एवं तावद् अभिन्नात्मनो ज्ञानाद् अभेदाद् अंशयोर् अभेद आपादितः. इदानीं भिन्नाभ्यां वाप्य् अंशाभ्याम् अभिन्नत्वात् ज्ञानात्मनो भेदम् आपादयति -- भिन्नाभ्याम् इति. एवं चात्यन्तभेदे ग्राह्यग्राहकयोः सिद्धं द्वैतम् इत्य् अभिप्रायेणाह -- ततश् चेति
SK
एवं द्वैतसिद्धौ यदि ज्ञानम् इति संज्ञामात्रम् एव ग्राह्यग्राहकयोः कर्तुम् अभिमतं भवताः, तदभ्युपगच्छाम एवेति सोपहासम् आह -- तयोर् इति. अथवा किं पारिभाषिकेण ज्ञानशब्देन, अस्माकम् इवैक एवायं ज्ञानशब्दो ऽक्षादिवत् साधारणतयार्थज्ञानयोर् व्युत्पत्तिभेदेन वर्तत इत्य् आह -- अथापि वेति. यदि ज्ञायत इति ज्ञानं कर्मणि ल्युडन्तो ज्ञानशब्दो ऽनुशिष्यते, ततो ऽर्थो ज्ञानम्. अथ तु ज्ञप्तिर् ज्ञानं ज्ञायते ऽनेनेति वा भावकरणयोर् व्युत्पाद्यते, ततो धीर् एव ज्ञानम् इत्य् उभयज्ञानतोपपत्तिर् इति
SK
सर्वथापि हि ज्ञानशब्दव्युत्पत्तौ वस्तुभेदस् तावत् सिद्ध एव. शब्दस् तु यथारुचि ज्ञानार्थयोर् अन्यतरत्र प्रवर्तताम्. नात्र नो विप्रतिपत्तिर् इत्य् आह -- सर्वथेति
SK
{२,१५०} अत्रापरे बौद्धा वदन्ति -- सत्यम् अस्ति ग्राह्यग्राहकयोर् भेदः. नैवम् अपि बहिरर्थः सिध्यतीति, ज्ञानस्यैवातीतस्योत्तरज्ञानग्राह्यत्वात्. अत एवेदम्भावः, परगोचरत्वात् संविदः. कथम् अतीतं ग्राह्यम् इति चेद्, न. हेतुत्वस्यैव ग्राह्यत्वात्. यद् एतद् उत्तरज्ञानजनने स्वाकारसमर्पणेन पूर्वस्य हेतुत्वं तद् एव तस्य ग्राह्यत्वम्. यथाहुः --
SK
भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः |
SK
हेतुत्वम् एव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ||
SK
इति. अयं च सौत्रान्तिकवैभाषिकयोः साधारणः श्लोकः. तद् एतद् उपन्यस्यति -- अथेति. यद्य् अपि ग्राहकाद् भिन्नं ग्राह्यं, तथापि ज्ञानान्तरम् एव तदतीतं न त्व् अर्थ इति. एतद् अपि दूषयति -- ज्ञानत्व इति. तस्य ग्राह्यत्वाभिमतस्य ज्ञानस्य ज्ञानत्वे युक्तिर् न काचिद् अस्तीति भाव इति. यदि तु पूर्वोक्तया कर्मव्युत्पत्त्या ज्ञानं तद् इष्यते तद् अस्माभिर् इष्यते इत्य् आह -- पूर्वेति
SK
ज्ञानं ज्ञानम् इत्य् अनुगतं तु रूपं न द्वयोर् ग्राह्यग्राहकयोर् अवगम्यत इत्य् आह -- ज्ञानम् इति. अक्षादिवत् साधारणशब्दताम् अभ्युपगच्छामः न त्व् आकृतिशब्दताम् इति. उपेत्यापि ब्रूमः. तत् खलु सामान्यं पूर्वोत्तरयोर् अनुयायि ताभ्यां भिन्नम् अभिन्नं वा. न तावद् भिन्नं तैर् उपेयत इत्य् आह -- व्यतिरिक्तम् इति
SK
अयं चापरो व्यतिरेके दोष इत्य् आह -- व्यतिरेक इति. तयोः पूर्वोत्तरयोर् ग्राह्यग्राहकयोः. ज्ञानसामान्याद् व्यतिरेके इष्टे, तस्मिंस् ताभ्यां भिन्न इति यावत्. तयोर् ज्ञानात्मकता न स्यात्, तेनैव रूपेण ज्ञानत्वाभ्युपगमाद्{२,१५१}इति. किम् अतो यद्य् एवम् अत आह -- तद्रूपेति. ज्ञानरूपरहितत्वे सत्यज्ञानात्मनो वस्तुनो ऽभावात् पूर्वोत्तरयोर् ज्ञानयोर् अभाव एवापद्यत इति
SK
अपि च तत्सामान्यं ताभ्यां सम्बध्यमानं प्रत्येकं कार्त्स्न्येन सम्बध्यते भूतकर्मगुणवत्, व्यतिषज्य वा मालागुणवत्. पूर्वस्मिन् कल्पे भेदः. उत्तरस्मिन् सावयवत्वम् इति वैशेषिकादिवद् दोषप्रसञ्जनं कर्तव्यम् इत्य् आह -- ताभ्याम् इति
SK
वैशेषिकादिवद् इत्य् एतद् विवृणोति -- यथेति. यथैव वैशेषिकादीनां परैर् बौद्धैर् एव जात्यादाव् एते दोषा उक्ताः, तथैवैषां बौद्धादीनाम् अपि भिन्नयोः पूर्वोत्तरज्ञानयोर् अभिन्नस्य ज्ञानसामान्यस्य सङ्गतौ सम्बन्धे एते दोषा इति
SK
यदि तु ताभ्याम् अव्यतिरिक्तं सामान्याम् इष्यते, ततो यो ऽसौ भिन्नाभ्याम् अभिन्नत्वात् प्राग् भेद आपादितः स एवापद्यत इत्य् आह -- ताभ्याम् इति. अपि च किम् आत्मकं तत् सामान्यम् इत्य् अपि चिन्तनीयम् एव. तत्रास्मदभिमतसामान्याश्रयणे तावदुक्तः प्रसङ्गः. सादृश्यरूपम् अपोहरूपं च सामान्यं परस्तान् निराकरिष्यत इत्य् आह -- सादृश्येति
SK
अपि चात्रापोहरूपसामान्याभ्युपगमे ऽधिको दोष इत्य् आह -- वस्त्वन्तरस्येति. एतद् एव विवृणोति -- नेति. अज्ञाननिवृत्त्या ज्ञानं ग्रहीतव्यम्. न च ज्ञानमात्रवादिनो ऽज्ञानं नाम किञ्चिदपोह्यम् अस्तीति
SK
{२,१५२} न चात्यन्तासत एवापिहो घटते इत्य् आह -- अपोह इति. अयम् अभिप्रायः -- यदि ज्ञानाभावमात्रम् अज्ञानं तत् तर्ह्य् अवस्तुरूपं कथम् अपोहक्रियाकर्म भविष्यतीति. अपोह्यत्वाभ्युपगमे वा अभावस्यापि वस्त्वन्त(?रा/रता)पत्तिर् इत्य् आह -- वस्त्वन्तरम् इति. कारणम् आह -- अपोह्यत्वाच् च वस्तुतेति. चशब्दो हेताव् इति
SK
अतो ऽवश्यं ज्ञानाभावस्यानपोह्यत्वाद् अज्ञाननिवृत्तौ ज्ञाने इष्यमाणे ज्ञानाद् अन्यदज्ञानम् अर्थ एव ते प्रसज्यत इत्य् आह -- तेनेति. अत्र किञ्चिदाशङ्क्ते -- कल्पितम् इति. ज्ञेयादिशब्देषु हि बौद्धैर् उक्तम् --
SK
अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते |
SK
इति. तद् इहापि समानम्. अज्ञानकल्पनया तदपोहेन ज्ञानशब्दो वर्तिष्यते. तेन नापोह्याभावो न च वस्त्वन्तरतापत्तिर् इति. एतद् अपि दूषयति -- नेति. यद् एव हि क्वचिद् दृष्टं तद् एवान्यत्र कल्प्यते. अत्यन्तासतस् तु ज्ञानाद् अन्यस्याबुद्धिविषयस्य कल्पना केति
SK
तद् एवं कल्पनीयान्तराभावाद् अज्ञानाकारा बुद्धिर् एवाज्ञानतया कल्पनीयापन्नेत्य् आह -- बुद्धिर् इति. तत्र चायं दोष इत्य् आह -- ततश् चेति
SK
किम् अतो यद्य् एवम् अत आह -- न चेति. न ज्ञानान्तरापोहेन ज्ञानम् एव ग्रहीतुं शक्यत इति. अत्रैव दृष्टान्तम् आह -- वृक्ष इति. न हि वृक्षार्थो वृक्षापोहेन प्रत्येतुं शक्यत इति
SK
{२,१५३} अपि च यासाव् अज्ञाननिर्भासा बुद्धिर् अज्ञानतया कल्पिता, तस्या ज्ञानत्वं न भवेत्. न हि यद्रूपं यदपोहेन प्रतीयते तत्रैव तद् भवति. वृक्षत्वस्यावृक्षेष्व् अपोह्येषु घटादिष्व् अभावाद् इत्य् आह -- अपोह्य इति
SK
एवञ् च तस्याज्ञानत्वाभिमतस्य ज्ञानत्वाभावाद् अर्थत्वम् एवापन्नम्. अतो ऽज्ञानवाचोयुक्त्यार्थ एवाभिमत इत्य् अभिन्नार्थत्वम् इत्य् आह -- ततश् चेति. किञ् चैवम् अपि चायम् अज्ञानापोहवादी वक्तव्यः किम् आलम्बनो ऽयम् अज्ञानप्रत्यय इति. न तावद् बाह्यालम्बनं किञ्चिद् भवद्भिर् ज्ञानम् इष्यते. न चास्य स्वांशालम्बनत्वं ज्ञानान्तरालम्बनत्वं वा सम्भवतीत्य् अनन्तरम् एव वक्ष्यतीत्य् अभिप्रायेणाह -- अज्ञानेति. तन् न तावद् ज्ञानमात्रवादिनाम् अज्ञानं नाम किञ्चिद् अस्ति यद् अस्यालम्बनं स्याद् इत्य् आह -- नेति. अत्र चोदयति -- नन्व् इति. अस्यार्थः -- वस्त्वात्मकं हि ज्ञानातिरिक्तम् अस्माभिर् निषिद्धम्. अभावात्मकं त्व् अज्ञानं किम् अज्ञानप्रत्ययेन नावलम्ब्यत इति
SK
परिहरति -- भाव इति. अयम् अभिप्रायः -- येन तावदाबालम् आस्थविरं च प्रसिद्धा महीमहीधरोदधिप्रभृतयो ग्राह्या अपलपिताः, तस्य किम् इति सूक्ष्मन्यायवेदनीयो भावो ग्राह्यो भविष्यति तन्मते च सर्वोपाख्यानविरहलक्षण इति. अपि च यद् भावधियां स्वांशपर्यवसाने कारणम् उक्तं, तदभावबुद्धेर् अप्य् अविशिष्टम्. अतः कथम् असौ बाह्याभावालम्बनं स्याद् इत्य् आह -- स्वांशेति
SK
{२,१५४} तदवश्यं पारिशेष्याद् अज्ञानप्रत्ययस्यापि ज्ञानान्तरं वा स्वांशो वा ग्राह्यो ऽभ्युपगन्तव्य इत्य् आह -- तेनेति. अस्तु तद् एव ग्राह्यं, को दोषो ऽत आह -- स्वरूपेति. ज्ञानान्तरं स्वात्मा वा ज्ञानस्य ज्ञानस्वभावत्वान् नाज्ञानप्रत्ययेन विषयीकर्तुं शक्यते. स्वरूपविपरीतस्याग्राह्यत्वाद् यदाकारो हि प्रत्ययस् तदाकारम् एव ग्राह्यम् अवस्थापयति. अज्ञानाकारश् च प्रत्ययः कथं ज्ञानम् आलम्बनीकर्तुं शक्नोति. स्वरूपविपरीतं न ग्राह्यम् इति
SK
एतद् एव दर्शयति -- यथेति. अतः सिद्धं न ज्ञानमात्रत्वे ऽपोह्यम् अस्तीत्य् आह -- तेनेति. एवं चासत्य् अपोह्ये ऽपोहस्वरूपस्याप्य् अभावान् न तेनात्मनापि ग्राह्यग्राहकयोर् ज्ञानयोर् ज्ञानात्मना समानत्वम् इत्य् आह -- ग्राह्यग्राहकयोर् इति. एवञ् चोभयोः साधारणरूपाभावाद् ग्राह्यग्राहकयोर् अन्यतरत्र ग्राह्ये ग्राहके वा ज्ञानत्वम् अभ्युपगन्तुं युक्तम् इत्य् आह -- तस्माद् इति
SK
तथापि को निश्चयः ग्राहकं ज्ञानं न तु ग्राह्यम् इत्य् अत आह -- अत्रेति. उभयसिद्धं हि ग्राहकस्य ज्ञानत्वं ग्राह्यस्य त्व् अस्माकम् असिद्धम् इति. एवं तावद् ज्ञानं ग्राहकम् अर्थो ग्राह्य इति साधितम्. अथ वा किं नो ऽनेन व्यसनेन. तत्त्वभेदो हि नो द्वैतानुगुणतया साध्यः. स तावत् सिद्धः. सिद्धे च तस्मिन् यथारुचि व्यपदेशो ऽस्तु नामेत्य् आह -- वस्त्व् इति
SK
यथारुचि व्यपदेशम् एव दर्शयति -- ज्ञानम् इति. उभयं वा ज्ञानशब्दे वाच्यम् अस्तु अर्थो ज्ञानं च. अर्थ एव वा ज्ञानशब्दवाच्यः न ज्ञानम्{२,१५५}इत्य् अर्थः. ग्राहक एव वार्थशब्दवाच्यो ऽभिधीयताम्. नैवम् अपि काचित् पक्षक्षतिः. सिद्धत्वाद् द्वैतस्येत्य् अभिप्रायेणाह -- ग्राहक इति. भाष्यकारेण त्व् अतीतबुद्धेर् ग्राह्यत्वनिराकरणार्थं क्षणिकत्वं कारणम् उक्तं येनैवम् आह -- अर्थविषया हि प्रत्यक्षबुद्धिः, न बुद्धिविषया. क्षणिका हि सा, न बुद्ध्यन्तरकालम् अवस्थास्यते इति. तद् उपन्यस्यति -- बुद्ध्योर् इति. अतीता हि पूर्वा बुद्धिर् नासाव् उत्तरया ग्रहीतुं शक्यते. तत्काले ऽसत्या वर्तमानवद् ग्रहीतुम् अशक्यत्वाद् ग्राह्यस्य चेदं नीलम् इति वर्तमानवद्भासाद् इति. अतः क्षणिकत्वात् कारणाद् बुद्धेः ग्रहीतुम् अशक्यत्वात् अस्मन्मताश्रयणेनार्थात्मकतैव बुद्धेर् उपेयेत्य् आह -- अर्थ इति. यदि तूच्यते मा भूद् अतीताया बुद्धेर् ग्राह्यत्वं, सहभाविनोस् तु ज्ञानयोर् ग्राह्यग्राहकत्वं न नोपपन्नम् इति. तदयुक्तं सहभावानुपपत्तेः. कथं हि समनन्तरप्रत्ययाधीनात्मलाभम् उत्तरं तेन सहोत्पद्यत इति सम्भावयामः. सहत्वे ऽपेक्षानुपपत्तेः. अस्तु वा जन्मयौगपद्यं ज्ञानयोः. एवम् अपि न मानमेयता सम्भवति. हेतुत्वम् एव हि ग्राह्यत्वम् उक्तम्. न चासति पौर्वापर्ये तत् सम्भवति, सहजन्मनोर् अन्योन्यनिरपेक्षत्वात्. तद् इदम् आह -- अन्योन्येति. कथं निरपेक्षम् अत आह -- क्रियेति. यदि हि ज्ञानयोः कश्चित् क्रियाकारकसम्बन्धो भवेत्, एवम् अपेक्षा भवेत्. न चासौ सहोत्पत्तौ सम्भवति. स्वाकारार्पणेन हेतुत्वं निराकृतम् एवेति. ननु तवाप्य् अर्थज्ञानयोः कार्यकारणभावे क्रियाकारकसम्बन्धः कः, अत आह -- अर्थेति. येन व्यापारेण बुद्धेः प्रमाणत्वं सा मितिः कश् चासौ. यद् एतद् बुद्धिजन्मेति प्रत्यक्ष उक्तम्. तद् अस्यां मितौ यार्थविज्ञानयोः सङ्गतिः. सानयोः कार्यकारणभावः. सा हि बुद्ध्यर्थाभ्यां सहिताभ्यां भाव्यते. यावद् धि नार्थो धीविषयः, तत्कर्म भवति. बुद्धिश् च जन्मनि कर्त्री. न तावन् निर्विषया{२,१५६}अकर्तृका चोत्पत्तिः सम्भवति. तद् अनेन क्रियाकारकसम्बन्धेनास्ति ज्ञानार्थयोः कार्यकारणभावः. तद् एतदर्थस्य बुद्धेर् उत्पत्तौ कर्मकारकत्वम् एतद् एवास्य ज्ञानकारणत्वम्. अत्रेति. मीमांसकसिद्धान्त इत्य् अर्थः. न चैष प्रकारो बौद्धमते सम्भवति, युगपज्जन्मनोर् जानयोर् जन्मन एवाभावाद् ज्ञानातिरिक्तस्य यौगपद्ये चान्यतरोक्ताव् अन्यतरस्य कारणत्वासम्भवाद् इत्य् अभिप्रायेणाह -- नेति. अपि च, इदं कार्यम् अयं हेतुर् इत्य् अपि नियमो यौगपद्ये दुरधिगमः अनपेक्षत्वाविशेषात्. न खलु सव्येतरविषाणयोर् युगपज्जन्मनोः शक्यम् अवगन्तुम् इदं कार्यम् इदं कारणम् इत्य् अगृह्यमाणे विशेषे, तद् एतद् आह -- नियम इति. नन्व् अगृह्यमाणे विशेषे उभयस्योभयं कारणं भविष्यतीत्य् अत आह -- द्वयम् इति. यदि पूर्वम् उत्तराधीनात्मलाभम्, उत्तरं च पूर्वाधीनं, ततो दुरुत्तरम् इतरेतराश्रयम् इति
SK
नन्व् अत्रापि तद्भावभावितैव कार्यकारणभावे चिह्नम्. अस्ति च युगपज्जन्मनोर् अपि विज्ञानयोस् तद्भावभावः, पूर्वज्ञानसम्भवक्षण एवोत्तरस्य भावात्. अतः कुतो यौगपद्ये न हेतुहेतुमत्ता, अत आह -- तद्भावेति. सत्यम्. तद्भावभाविता कार्यकारणत्वे लक्षणं न पुनः पौर्वापर्यरहिता. तन्नियमसहितम् एव तु तद्भावभावहेतुकं कार्यकारणभावे लक्षणम् आहुः. न च यौगपद्ये पौर्वापर्यं, नतरां नियम इत्य् अकार्यकारणतेति
SK
परस्परसहितम् उभयं कार्यकारणलक्षणं न त्व् अनपेक्षितम् इत्य् अत्रैव निदर्शनम् उपन्यस्यति -- गवाश्वस्येति. न खलु कदाचिद् अश्वात् पूर्वं गवि जाते{२,१५७}पश्चाज्जायमानो ऽश्वः पौर्वापर्यात् तत्कारणको भवति. तथैकसन्तानक्षणभाविनः सन्तत्यन्तरजस्य क्षणस्य न तद्भावमात्रात् तत्कार्यत्वम् असति पौर्वापर्ये. एवं घटेन सहोत्पद्यमानेषु रूपादिषु नान्योन्यं कार्यकारणभाव इष्यते. न ह्य् अवयविद्रव्यस्य रूपे ऽवयवी कारणम्, अश्वादिरूपाणाम् एव प्राक् सतां क्रमेण तत्र कारणत्वात्. एतौ च स्वमतपरमतभेदेन व्याख्येयौ दृष्टान्तौ. आवयोर् एव तद्भावभावितामात्रं न कार्यकारणत्वे लक्षणम् इत्य् उक्तं भवतीति. तस्माद् यो यस्मिन् नियमेन पूर्वम् अवस्थिते जायते, स तत्कारणको नान्य इत्य् आह -- तस्माद् इति
SK
यत् पुनर् अत्र परैर् यौगपद्ये ऽपि कार्यकारणभावो दृश्यत इति प्रदीपप्रभादिसिद्धवन्निदर्शनम् उक्तं, तन् न. न सिद्धं, तत्रापि सूक्ष्मस्य कालभेदस्य विद्यमानत्वात्. प्रदीपकार्या हि प्रभा नासौ प्रदीपेन सहैव निष्पद्यते. एकदा प्रदीपे जाते ऽनन्तरम् एव निष्पद्यते प्रभा. तस्माद् न क्वचिद् अपि यौगपद्ये कार्यकारणभाव इत्य् आह -- हेत्व् इति. यद्य् अस्ति कालभेदः कस्मान् न लक्ष्यते, अत आह -- दुर्लक्ष इति. यथा निरन्तरम् उपर्युपरिभावेन स्थिते पद्मपत्रशते भिद्यमाने कालभेदो दुर्लक्षः, एवं प्रदीपप्रभयोर् अपि. यथा च तत्र ना(न)न्तरिता सीची भिन्नत्तीति तत्र कालभेदे प्रमाणम्, एवं नानिष्पन्ने प्रदीपे तत्तेजो विसरतीति समानम् उभयत्रापि प्रमाणं कालभेदे. तुलान्तनमनोन्नम् अनयोस् तु न परस्परं कार्यकारणभावो द्वयोर् अप्य् एकहेतुत्वात्. तोलयिता हि तत्र सहभुवोर् द्वयोर् अपि कारणम्. कक्ष्यासूत्रसन्निवेशविशेषो वा. सूत्रं हि तत्र मध्ये भवत् समं तौ धारयति. एकतरत्र भवद् विषमं प्रवर्तयति. न च पुनरुन्नामहेतुर् नामः न च नामहेतुर् उन्नाम इति न क्वचित् सहजन्मनोः कार्यकारणभाव इति
SK
{२,१५८} यथा च पूर्वोत्तरज्ञानयोर् यौगपद्येन कार्यकारणभावः एवं ज्ञानभागयोर् अपि ग्राह्यग्राहकात्मनोः कार्यकारणभावो निराकार्यः. न चाकारणभूतस्य ग्राह्यता सम्भवतीति यौगपद्ये प्रसङ्गेन भागाव् उपसङ्क्रम्य दर्शयति -- भागयोर् इति. मानमेयत्वनिराक्रियेत्य् अर्थः. यदि तूच्यते मा भूद् यौगपद्ये पूर्वम् आलम्बनम् उत्तरस्य, क्रमेणैव तु भविष्यति. कथम् असतो ऽतीतस्यालम्बनत्वम् इति चेद्, न. शक्त्यर्पणद्वारेणोपपत्तेः. पूर्वं हि ज्ञानम् उत्तरस्मिन् वासनापरनामानं शक्तिम् अर्पयति. ततस् तद्रूपं तज्जायमानं तदालम्बनम् इत्य् आख्यायते, अत आह -- न चेति
SK
किम् इति न भ(?वः/वेत्.) अत आह -- ग्राह्यम् इति. शक्त्यर्पणेन हि पूर्वस्य ग्राह्यत्वे ग्राह्यम् अतीतं भवेत्. अतीतम् एव हि तद्वासनावशाद् उत्तरेणालम्ब्यते स्मृत्य् एव पूर्वज्ञानम् इति. भवत्व् अतीतं ग्राह्यं को दोषः अत आह -- ताद्रूप्यम् इति. ताद्रूप्यम् अतीतरूपत्वं वर्तमानावभासिनो ग्राह्यस्य संविद्विरुद्धम् अप्रमाणकं भवेत्. कथं ह्य् अतीतम् अबधितया बुद्ध्या वर्तमानतया गृह्येत. तथावागृह्यमाणम् अतीतं भवेद् इति. कथं ताद्रूप्यम् अप्रमाणकम् अत आह -- अतीतेति. अयम् अभिप्रायः -- पूर्वज्ञानाहितवासनावशेन जायमानम् उत्तरं स्मृतिरूपम् एव भवेत्. स्मृत्या च स इत्य् अतीतत्वानुविद्ध एव स्वगोचरो ऽनुभूयते. न चेह तथानुभूयते, प्रत्युत्पन्नवद् इदम् इति संवेदनात्. अतः कथम् असंवेद्यम् एव ताद्रूप्यं प्रमाणवद् भविष्यति. एतच् च ज्ञानातिरिक्तवासनाभ्युपगमेनोक्तम्. न तु ज्ञानमात्रवादिनां तदतिरिक्ता वासना च काचिद् अस्ति. न चोपपद्यते, अनाधारवा(सना)नुपपत्तेः. न चातीतम् असद् वासनाधारः सम्भवति. न चोत्तरम् अनागतम्, असत्त्वाद् एव. न च परस्य जन्मकालं यावत् पूर्वम् अवतिष्ठते येन तस्मिन् वासनाम् आधाय नश्यतीति शक्यते ऽवगन्तुम्. क्षणिकत्वात्. न च सन्तानिभ्यो ऽतिरिक्तः सन्तानो नाम कश्चिद् अस्ति यो वासनाधारो भवेत्. न चानाधारैव शक्तिर् आत्मानं लभेत.{२,१५९}भणितश् चायं वासनाभङ्गो निरालम्बनानुमाननिराकरणावसर इत्य् अलम् अनेनेति. अत्र चोदयति -- स्वप्ने न स्याद् इति. यद् उक्तं भवतातीतत्वानुविद्धस्मृत्यानुभूयत इति. तन् न. स्वप्ने प्रत्युत्पन्ननिर्भासात्. न च न स्मृतिः स्वप्न इति साम्प्रतं प्रत्युत्पन्नकारणान्तराग्रहणात्. न हि तत्रेन्द्रियलिङ्गादि ज्ञानकारणं किञ्चिद् उपलभ्यते. न चाकारणिका ज्ञानोत्पत्तिः सम्भवति. अतो ऽवश्यं स्मृतिर् एव सेति वक्तव्यम्. स्मृतिर् अपि च वर्तमानवन्निर्भासत इति तद्वद् इहापि भविष्यतीति. परिहरति -- विपर्ययाद् इति. सत्यम्. अतीतत्वेन स्वप्ने बोधो न भवति. किन् तु विपर्ययाद् असौ तथावभासः. (?विपर्ययज्ञानं हि) तद्विपर्ययश् चान्याकारवस्तुगोचरो ऽन्याकारो युक्त एवेति नानेन प्रमाणज्ञानानां तुल्यत्वम् अवगन्तुं शक्यत इति. कीदृशः पुनः स्वप्ने विपर्ययः. तद् दर्शयति -- तत्रेति
SK
कथं पुनर् इदम् अवगम्यते विपर्ययो ऽसाव् इति. अत आह -- बाधेति. बाधकं हि तत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति. तज्जानीमो ऽवर्तमानम् एव तत्र वर्तमानतया भासत इति. एतावच् च विपर्ययस्य तत्त्वं यद् अन्यादृशस्यान्यथाप्रकाशनम् इति सूक्तं विपर्ययाद् इति. न चायम् एवम्प्रकारो विपर्ययो जाग्रज्ज्ञानेषु शक्यवचनः. सुपरिनिश्चिता हि तत्र जाग्रद्धियः इत्य् उक्तम् इत्य् अभिप्रायेणाह -- नेति. एवम् उपपादितम् अतीतविषया न प्रत्यक्षबुद्धय इति. इदानीं प्रयोगेण दर्शयति -- तस्माद् इति. अतीतो न प्रत्यक्षविषयः, अतीतत्वात्. जन्मान्तरानुवृत्तवद् इति. न च योगिप्रत्यक्षेणानैकान्तिकत्वं, तन्निराकरणाद् इति. तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरम् आह -- तद्रूपेति. अतीतो ऽर्थो न प्रत्यक्षबुद्धिविषयः, तद्रूपत्वेनाज्ञानात्. यन् न स्वरूपेण संवेद्यते तन् न प्रत्यक्षधीविषयः यथा भाव्यर्थ इति
SK
{२,१६०} अस्तु वातीतस्य ग्राह्यत्वं, तथापि सौत्रान्तिकान् पराजित्य तद् वक्तुं युक्तं यज्ज्ञानम् एवातीतं ज्ञानेनालम्ब्यते न त्व् अर्थ इति. ते हि सदृशापरापरोत्पत्तिरूपेण सन्तन्यमानेषु भावेष्व् अतीतक्षणालम्बनम् एव ज्ञानम् आस्थिताः. वरं तद् एव युक्तम् आश्रयितुम्. तथा हि -- न तावदत्यन्तम् अलौकिकी ग्राह्यग्राहकसिद्धिर् उक्ता भवतीत्य् अभिप्रायेणाह -- अतीतेति. किञ् च, एतद् अप्य् अतीतगोचरत्वे ज्ञानस्य विकल्पनीयं यत्तच्छक्त्यर्पणद्वारेण ग्राह्यतया कल्पितम् अतीतं ज्ञानं, तत् किं ग्राह्यैकस्वभावम् आहोस्विद् ग्राहकैकस्वभावम् उभयस्वभावं वेति. सर्वथा नोपपद्यत इत्य् अभिप्रायेणाह -- अतीतम् इति. तत्र ग्राह्यैकस्वभावत्वे तावदर्थ एव शब्दान्तरेणाभ्युपगतो भवतीत्य् अभिप्रायेणाह -- ग्राह्येति. ग्राह्यैकस्वभावं हि ज्ञानं जडात्मकम् अर्थ एव शब्दान्तरेणोपपादितो भवतीति
SK
अपि च शक्त्यर्पणे नोत्तरग्राह्यतेष्यते. न च ग्राह्यमात्रात्मनो ऽसंचेतितस्य शक्त्यर्पणं सम्भवति. अननुभूयमानस्य स्मृतिबीजाधानानुपपत्तेर् इत्य् अभिप्रायेणाह -- स्वेति. शक्त्यर्पणाभावम् एव प्रयोगेण दर्शयति -- यथेति. नोत्पद्यविनष्टाद् दृष्टासंविदिताच् छक्त्यर्पणं, दृढत्वेनाज्ञानाद् एव पटुतरम् अननुभवाद् इति यावत्. पठन्ति हि वस्तुधर्मो ह्य् एषः यदनुभवः पटीयान् स्मृतिबीजमाधत्ते इति. यदनेवंविधं न तेन शक्त्यर्पणं, यथानागताद् अननुभूतपूर्वात् तथाविधाद् एव तु सन्तानान्तरजाद् इति. उक्तो ग्राह्यमात्रे प्रसङ्गः.{२,१६१}ग्राहकैकस्वभाव इदानीं दर्शयति -- केवलेति. यत् खलु ग्राहकैकस्वभावं तत् खलु कथम् उत्तरस्य ग्राह्यं भविष्यति. तथा सति स्वभावनाशाद् अभावापत्तेर् इत्य् अभिप्रायः
SK
किञ् चेदं ग्राहकैकस्वभावत्वं दुरधिगमम् इत्य् आह -- किम् इति. ग्राह्यापेक्षं हि ग्राहकत्वं तदेकस्वभावस्य. न तावत् स्वात्मा ग्राह्यो न ज्ञानान्तरं, तस्याप्य् एवम् एव ग्राहकैकस्वभावत्वाद् इति. उभयाकारतायां दूषणम् आह -- द्व्याकारता निरस्तैवेति. नैतद् अस्तीत्यादिना निषिद्ध इत्य् अर्थः. अपि च, द्व्याकारत्वे पूर्वज्ञानं तदैव स्वकाल एव संवेदेत. तत्रास्य स्वसंवित्तये बोधकान्तरज्ञानापेक्षा न युक्तेत्य् आह -- संवेद्येतेति
SK
अपि च यदि पूर्वज्ञानं द्व्याकारम्, एवं सति परस्यापि तद्भुवस् तथात्वाद् आत्मांश एव प्रमा पर्यवसितेति किम् अतीतविषयतयेत्य् आह -- द्व्याकारेति. ग्राह्यैकस्वभावत्वे च पूर्वस्यायम् अपरो दोष इत्य् आह -- पूर्वेति.
SK
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः |
SK
इति स्थितिः
SK
अथ कथं पूर्वस्य ग्राह्यमात्ररूपत्वे तज्जन्मनश् चोत्तरस्य ग्राहकत्वं भविष्यतीति. यदि तु पूर्वं ग्राहकाकारमात्रम् एवं सति नोत्तरस्य विषयो भवेत्, सारूप्यनिबन्धनत्वाद् विषयविषयिभावस्य. पूर्वोत्तरयोश् च पूर्वं ग्राहकाकारमात्रम् उत्तरं तु द्व्याकारम् इति वैरूप्यम् इति न पूर्वविषयतोत्तरस्य (?न){२,१६२}सिध्येत्. तद् एतद् आह -- ग्राहकेति. पूर्वं च केवलग्राहकत्वे ग्रहणकतया विषयभावो निराकृतः. इह तु वैरूप्याद् इति विशेष इति. यच्छक्त्यर्पणद्वारेण पूर्वस्यालम्बनत्वम् उक्तं, तत् तावत् प्रत्युक्तम् एव. तत्रैव स्मृत्वा पुनर् अपि किञ्चिद् वदति -- न चेति. केनचिद् व्यापारेण कश्चित् कञ्चिद् अर्पयति. न च विज्ञानस्य शक्त्यर्पणं प्रति कश्चिद् व्यापारो दृश्यते. क्षणिकत्वाद् व्यापारकालं यावदनवस्थानाद्, व्यापारान्तरानभ्युपगमाच् चेति
SK
किञ् चायं शक्त्यर्पणस्याभावो बौद्धपक्षे निरालम्बनवाद एव प्रपञ्चेन साधित इत्य् आह -- शक्त्यर्पणस्येति. इदानीं यत् तत् पूर्वम् उक्तं न पूर्वोत्तरज्ञानयोर् हेतुसाध्यत्वम् इति, यच् च वास्यवासकभावनिराकरणम्, उभयत्र प्रयोगम् आह -- सन्तानेति. क्वचिद् एकस्यां सन्ततौ विमतिपदास्पदीभूतायां न ज्ञानयोर् हेतुहेतुमत्ता, ज्ञानत्वात्, सन्तानान्तरज्ञानवत्. सन्तानान्तरज्ञानानि न सन्तानान्तरहेतुमन्ति, तेषां तत्रानारम्भकत्वात्. एवम् एव वास्यवासकभावनिराकरणे ऽपि प्रयोगो दर्शयितव्यः. इह च ज्ञानान्य् एव धर्मीणि समानायां सन्तताव् अहेतुभूतानीति साध्यो धर्मः. ज्ञानत्वाद् इति हेतुः. सन्तानान्तरज्ञानवद् इति दृष्टान्त इति
SK
ग्राह्यग्राहकयोर् उपपादितं भेदं प्रयोगेणेदानीं दर्शयति -- तस्माद् इति. यत एव न कथञ्चिद् ज्ञानस्य स्वगोचरत्वं, तस्मात्. यद् रूपस्य ग्राहकं तत् तु अतो ग्राह्याद् भिन्नं, तत्संवित्ताव् असंवित्तेः. यन् न तत्संवित्तौ संवेद्यते तत् ततो भिन्नं, रसादिग्राहकवत्. तत्संवित्ताव् असंवित्तिश् च प्राग् एव साधितेति नासिद्ध्याशङ्का. रसादिग्राहकं यथेति चास्य भिन्नम् इति वक्ष्यमाणेन सम्बन्ध इति
SK
{२,१६३} एवम् एव ग्राह्यं पक्षीकृत्य ग्राहकाद् भेदो दर्शयितव्य इत्य् आह -- ग्राह्यम् इति. अत्रापि रसादिग्राहकम् एव दृष्टान्तः. यथा हि तद्रूपग्राहकानुभवे ऽननुभूयमानं ततो भिद्यते, एवं तद्ग्राह्यम् अपि रूपं, तद् अपि स्वग्राहकपरामर्शे न परामृश्यत एव. तद् अपि न स्मरामीत्य् अत्र दर्शितम् इति. एवम् ऐकैकश्येन ग्राह्यग्राहकयोर् भेदं प्रसाध्येदानीम् उभयोर् अपि समाहृत्य दर्शयति -- द्वयम् इति. ग्राह्यग्राहकद्वयं परस्परभिन्नम्. इतरेतरपरामर्श इतरेतरापरामर्शाद् रसादिवत्. यथा रूपरसादयो ऽन्योन्यपरामर्शे ऽपरामृश्यमानाः परस्परेण भिद्यन्ते, एवम् एतद् अपि द्वयम् इति
SK
प्रकारान्तरेणेदाणीं ग्राह्यग्राहकयोर् भेदं दर्शयति -- एकेति. ग्राह्यं ग्राहकाद् भिन्नं तेन सहैकरूप्येणाज्ञानात्. यद् येन सहैकरूप्येण न ज्ञायते तत् ततो भिद्यते यथा सन्तानान्तरबुद्धिः. न चासिद्धो हेतुः, नीलादिरूपत्वाद् ग्राह्यस्यानाकारस्य च ग्राहकस्य संवेदनात्. एवम् एव ग्राहकं पक्षीकृत्य हेतुर् दर्शयितव्य इति. प्रयोगान्तरम् आह -- ज्ञानम् इति. ज्ञानं धर्मि, न स्वांशं गृह्णातीति साध्यं, ज्ञानोत्पत्तेर् इति हेतुः. तद् धि समनन्तरप्रत्ययाद् उत्पद्यत इति बौद्धा मन्यन्ते. यद् ज्ञानाद् उत्पद्यते न तत् (?पा/स्वां)शं गृह्णाति. यथा ज्ञानस्य स्वशक्तिः. स्वशक्तिर् इति ज्ञानज(?न्याद्/न्यां) वासनाम् अपदिशतीति
SK
एवम् एव ग्राह्यत्वप्रतिषेधप्रयोगो दर्शयितव्य इत्य् आह -- ग्राह्येति. ज्ञानं स्वांशेन न गृह्यत इति दर्शयितव्यम्. ताव् एव हेतुदृष्टान्ताव् इति. न च साध्यविकलो दृष्टान्तः. द्वयहीनवासनाभ्युपगमात्. बौद्धानां हि स्वांशं न गृह्णाति. न च तेन गृह्यते. एतच् च चिरन्तनबौद्धाभिप्रायेण ज्ञानातिरिक्तवासनापक्षे{२,१६४}स्थित्वोक्तम् इति द्रष्टव्यम्. न तूपादानापरनाम्नो विशिष्टात् समनन्तरज्ञानाद् अन्यां काञ्चिद् वासनामर्वाचीना मन्यन्ते. तन्निरासो ऽपि चास्माभिर् उक्त एवेति. अन्यथा ग्राह्यग्राहकयोर् भेदं दर्शयति -- चैत्रेति. चैत्रज्ञानं धर्मि. तच् चैत्रोद्भूतो यो ज्ञानांशो ग्राह्यस् तस्य बोधकं न भवतीति साध्यम्. ज्ञानत्वात्. यद् यद् ज्ञानं न तत् तद्बोधनं यथा देहान्तरोद्भवम् इति. ग्राह्यग्राहकशक्तिनिराकरणं चैतेनैव प्रकारेण दर्शयितव्यम् इत्य् आह -- एतयैवेति. एषा चात्र दिक्. न ज्ञानं द्विशक्तिकं, ज्ञानोत्पत्तेः, स्वशक्तिवत्. तथा न ज्ञानं द्विशक्तिकं, ज्ञानत्वाद् अन्यतरांशवत्. अन्यतरांशो हि ज्ञानम् एव. न चासौ द्विशक्तिकः, द्वैविध्याभ्युपगमात्. इतरथा चातुर्विध्यप्रसङ्ग इति
SK
ननु शक्यम् अनेनैव प्रकारेण (?ना/आ)त्मनो ऽपि वस्तुत्वाद् घटवद् द्विशक्तिकत्वं वारयितुम् अत आह -- प्रमाणेति. दर्शितं ह्य् अस्मत्प्रयोगसम्भिन्नबोधबोध्यत्वाद् आत्मनो द्विरूपत्वम्. न तदनुमानेन वारयितुं शक्यते, प्रत्यक्षबाधकप्रसङ्गाद् इति भावः. ज्ञाने तु नात्मवद् द्विशक्तिकत्वं शक्यते कल्पयितुं, प्रमाणान्तराभावाद् इति. एतद् अप्य् उक्तम् इत्य् आह -- न त्व् अत्रेति. यत एवम् एकस्य द्विरूपत्वम् अनुपपन्नम्, अतो ऽवश्यम् एव ज्ञानाद् भिन्नं नीलादि ग्राह्यम् एष्टव्यम्, एवञ् च प्रमाणबलाद् आपद्यमानो वस्तुभेदो न कल्पनागौरवम् आपादयतीति
SK
यद् उक्तम् अनेककल्पनाया एककल्पना ज्यायसीति, तत् परिहृतं, न खलु प्रत्यक्षसिद्धो ऽर्थः कल्पनीयः. न च तद्बलभाविनी ज्ञानकल्पना शक्यते वारयितुम्. प्रमाणवन्ति सुबहून्य् अप्य् अदृष्टानि कल्पनीयान्य् एव. अत एवोभय{२,१६५}सिद्धत्वाद् ज्ञानस्याकारकल्पना न्याय्येति यद् उक्तं तद् अपि प्रत्याख्यातम्. यदि हि वयम् आकारं दृष्ट्वा कस्यायम् इति तदाश्रयम् अन्विच्छेम तदोभयसिद्धत्वाद् ज्ञानाकारो ऽयम् इत्य् उच्येतापि. प्रतिष्ठिताश्रयम् एव तु प्रत्यक्षसामर्थ्याद् आकारम् अवगच्छन्तो नास्याश्रयान्तरमीहामहे. न चैवास्माकम् असिद्धे ऽर्थाकारे ज्ञानम् अपि सिद्धं येनोभयसिद्धं भवेत्. न हि तन्निराकारम् अनुभूयते. प्रत्यक्षेणार्थ एव हि ज्ञातस् तस्य प्रमाणं भविष्यति. स चेद् अनिष्टो नास्य कल्पनायां प्रमाणम् अस्तीति कथम् उभयसिद्धत्वं, तद् एतद् आह -- तस्माद् इति. आदिशब्देन शक्तिमात्रस्य भेद इति यद् उक्तं तदुपादत्त इति. उक्तदोषपरिहारप्रपञ्चम् अतः परमारभमाणः यत् तावद् उक्तम् उपायत्वाद् ज्ञानम् एव प्रथमम् अवगन्तव्यम् उपायाधीनसिद्धित्वाद् उपेयानाम्, न च तदाकारम् अन्तरेण प्रतीयत इति ज्ञानाकार एवायम् इति, तत् तावत् परिहरति -- उपायेति. सत्यम् अर्थसिद्धाव् उपायो ज्ञानं, न त्व् अवश्यम् उपायग्रहणाधीनम् उपेयावधारणम्. न हि चक्षू रूपपरिच्छेदोपाय इति ततः पूर्वम् अनुभूयते. यत् तूपायत्वात् प्रथमम् अवगन्तव्यम् इति, तत् तैर् एव चक्षुरादिभिर् अनैकान्तिकम् इति नोपायस्य सतो ज्ञानस्य पूर्वानुभवं साधयितुम् अलम् इति
SK
यत् पुनर् उक्तम् -- उत्पन्नस्य सतो ऽप्रतिबद्धस्य ज्ञानस्य नाग्रहणकारणम् अस्ति अतो ग्रहीतव्यम् इति, तद् अनुभाष्य परिहरति -- यद् अपीति. अयम् अभिप्रायः -- सत्यं ज्ञानम् उत्पन्नम् अप्रतिबद्धं केनचित्. न त्व् एतावतैव ग्रहीतव्यं भवति, ग्राहकाभावेनाग्रहणोपपत्तेः. न तावद् इदम् आत्मनात्मानं ग्रहीतुं शक्यम् इत्य् उक्तम्. अन्यच् च, ज्ञानं तदा नोत्पन्नम् एव अर्थापत्तिर् हि सा. सा च पश्चाद् एव भविष्यतीत्य् अतः सतो ऽपि ज्ञानस्य ग्रहणकारणाभावाद् अग्रहणं युक्तम् एवेत्य् आह -- तेनेति
SK
{२,१६६} यदि स्वकाले नावगतं, कथं तर्हि पश्चाद् अवगम्यते. अत आह -- नान्यथेति. अस्ति हि खलु पश्चाद् ज्ञानावधारणे प्रमाणम् अर्थापत्तिः. ज्ञातार्थान्यथानुपपत्तिप्रभवा सा प्रागज्ञाते ऽर्थे न जायते, पश्चादुपजायत इति युक्तम् एव प्रमाणसद्भावाद् उत्तरकालम् एव ग्रहणम्. परिचोदनापरिहारश् चोक्त एवेति नेह प्रतन्यत इति
SK
नन्व् अस्तु तावत् परस्तात् प्रमाणसद्भावः, पूर्वम् अपि त्व् अप्रतिबन्धस्य कस्माद् अग्रहणम् अत आह -- न चेति. न ह्य् अप्रतिबन्धम् इत्य् एव वस्तूपलभ्यते. अप्रतिबन्धस्याप्य् अनुपलम्भनात्. कारणसामग्रीविशेषसमवधानसम्पादितं हि भावानां ग्रहणम्. तदप्रतिबन्धानाम् अपि तदभावे न भवति. किम् अनुपपन्नम् इति
SK
का पुनर्ज्ञानग्रहणे सामग्री. यदि ज्ञानं, किम् अ(?न्य/स्य) ज्ञानान्तरेण. नन्व् इदम् एव स्वभावतो ज्ञानं प्रकाशात्मकम्, अप्रकाशात्मनां तु भावान्तराणाम् अप्रतिबद्धानाम् अप्य् अस्तु प्रकाशान्तरापेक्षा. अत एवोक्तं न चाप्रकाशरूपत्वम् इति. अतो नोत्पन्नस्य ज्ञानस्याग्रहणे कारणम् उपलभामहे -- अत आह -- व्यापृतम् इति. सत्यम् प्रकाशकं ज्ञानं, तथापि नात्मानं प्रकाशयति अर्थसंवित्तौ व्यापृतत्वात्. न हि बहिर्विषयप्रकाशने व्यापृतः प्रदीपः आत्मानम् अपि प्रकाशयति. तत्प्रकाशने चक्षुषो ऽपेक्षणात्. अतो युक्तम् एव प्रकाशात्मनो ऽपि स्वबोधायान्यापेक्षणम् इति
SK
अथ वा प्रकाशकं ज्ञानम् इत्य् एव कुतः, अर्थापरोक्षीभावो हि तस्य तथात्वे प्रमाणम्. ततश् चार्थानुभवस्वभावम् एव तत् सिध्यतीति न स्वात्मानम् अपि प्रकाशयतीत्य् आह - ईदृशम् इति. एवम् अपि स्वात्मानं प्रकाशयेद्{२,१६७} यद्य् अर्थवद् ज्ञानात्मापि ज्ञानजन्मन्य् अनुभूयते, न त्व् असाव् अनुभूयते इत्य् उक्तम् एवेत्य् अभिप्रायेणाह -- न चेति. न च यद् एकस्य प्रकाशकं तेन सर्वस्यैव प्रकाशकेन भवितव्यम्. न हि चक्षुरादीनीन्द्रियाणि प्रकाशकान्य् अपि विषयतः सङ्कीर्यन्ते, व्यवस्थाया उक्तत्वात्. एवम् इहापि बाह्यस्य प्रकाशकं ज्ञानं, नात्मन इति न नोपपन्नम् इत्य् आह -- सतीति सार्धेन. प्रकाशकपदोपचारस् तु कथञ्चित् प्रकाशे कर्तृभावम् आश्रित्य वक्तव्यः. अन्यथा हि प्रकाशानन्त्यं भवेद् इत्य् उक्तम् एवेति
SK
यत् तूक्तं -
SK
तस्य तस्यापि चान्येन संवित्तावस्थितिर् भवेत् |
SK
इति, तद् दूषयितुम् अनुभाषते -- अन्येनेति सार्थेन. एवं हि परैर् उक्तं - यदि किल ज्ञानान्तरेण ज्ञानं जायते, ततस् तस्य तस्य ज्ञानस्य स्मरणात् पूर्वानुभवकल्पनायाम् अनवस्था भवेत्. एकेन तु ज्ञानेन विषयाकारे स्वाकारे च प्रवेदिते सर्वम् एव ग्राह्यग्राहकाकारस्मरणं तत्रैव स्यात्. तथा चानवस्था परिहृता भवति. तस्मान् न ज्ञानान्तरेण वेद्यं ज्ञानम् इति
SK
एवम् अनुभाषिते दूषणम् आह -- तत्रापीति. यद् एतद् उच्यते तत्र तत्र स्मरणदर्शनेन सर्वत्रानुभवकल्पनायाम् अनवस्थेति, तद् अयुक्तम्. स्मृत्यसिद्धेः. गृहीतविषया हि स्मृतिर् भवतीति नागृहीतं ज्ञानं स्मर्तुं शक्यम्. गृहीतस्मरणे तु यावद्ग्रहणम् एव स्मरणव्यवस्थानान्नानवस्थेति वक्ष्यते. भवति हि{२,१६८}कदाचिद् एतद् द्वित्राणि ज्ञानान्य् अनुभूतपूर्वाणि स्मर्यन्त इति. विज्ञानसन्तानस्मरणं त्व् अलौकिकम् एवेति
SK
यदि त्व् अर्थज्ञाततान्यथानुपपत्त्या ज्ञानम् अवगम्य पुनस् तज्ज्ञाततावशेन तद्विषयं ज्ञानान्तरं कल्पयति, पुनश् चानेनैव क्रमेण यावच्छ्रमं ज्ञानानि ज्ञातानि. ततो यावज्ज्ञातस्मरणाद् नानवस्थेत्य् आह -- घटादाव् इति सार्धेन. यत् तु प्रागनवगतानाम् एव ज्ञानानां स्मरणम् उच्यते, तद् वन्ध्यासुतादिस्मरणतुल्यम् अशक्यम् एव वक्तुम् इत्य् आह -- तदेति
SK
यत् तु भिक्षुणा सिद्धवत् तत्रापि स्मृतिर् इत्य् उक्तं, तद् भ्रान्तभाषितम् एव. अस्ति च भ्रान्तौ निबन्धनम्. अर्थो हि तत्र स्मर्यते. तत्स्मरणान्यथानुपपत्त्या च तस्य प्राग् ज्ञातत्वम् एव कल्प्यते. ततो ऽपि प्राचीनज्ञानकल्पना. तद् इह संसर्गमोहितधियां ज्ञाने ऽपि स्मृतिविभ्रमः. न त्वाद्यज्ञानस्मरणम् अप्य् आशङ्क्यम्. प्राग् एव सन्तानस्मरणं, तद् एतद् आह -- स्मृतिभ्रान्तिर् इति. अर्थस्मृतेः खल्व् इयं तज्ज्ञानादिप्रमाणता विलसति, यद् एतज्ज्ञाने ऽपि स्मृतिभ्रमो भवति. अर्थस्मृत्या हि ज्ञाने प्रमीयमाणे स्मृतिविषयार्थसन्निकर्षाद् ज्ञाने ऽपि स्मरणम् इति भ्राम्यति. आदिशब्देन चात्र ज्ञानज्ञानम् उपादीयत इति
SK
स्मृत्यापि ज्ञानप्रमायां यावच्छ्रमं तद्ग्रहणाद् विषयान्तरसञ्चारोपपत्तिर् इत्य् अभिप्रायेणाह -- यावद् इति. अयम् अभिप्रायः -- न तावन्ति ज्ञानानि जायन्ते यदि तु ज्ञातुम् इष्यन्ते यावच्छ्रमं तद्बुद्धिर् भविष्यति यावन्ति ज्ञानानि बुध्यमानो न श्राम्यति. स्मृत्यनुसारेणापि तावद् भोत्स्यते{२,१६९}इत्य् अभिप्रायं विवृणोति -- तत्प्रबन्ध इति. यावच्छ्रमं तावद् बुद्धयो ज्ञायन्ते, ततो महत्य् अपि बुद्धिप्रबन्धे ज्ञाते श्रमाद् वा विषयान्तराभिलाषेण वान्यसम्पर्काद् बुद्धिज्ञानाद् विच्छेदो भवति. यथा विषयेष्व् एव रमणीयेषु गीतादिष्व् अनुभूयमानेषु विषयान्तराभिलाषात् पूर्वविषयविच्छेदो भवतीत्य् अनुपपन्नं विषयान्तरसञ्चारो न स्याद् इति
SK
किञ् च यद् एतद् उक्तं तत्रापि च स्मृतिर् इति, तत् किं प्रथमज्ञानाभिप्रायेण, उत तत्र तत्रेति वीप्साम् अभिप्रेत्य. पूर्वस्मिन् कल्पे नानवस्था. एको हि प्रथमः प्रत्ययः. अतः का तद्ग्रहणे ऽनवस्था, तद् एतद् आह -- तत्रेति
SK
यदि तु संवित्प्रवाहम् एवाभिप्रेत्य तत्रापि स्मृतिर् इत्य् उच्यते, तन् न तावद् अस्तीत्य् उक्तम्. उपेत्यापि ब्रूमः. यदि बहून्य् एव परस्ताद् ज्ञानानि स्मर्यन्ते, ततो ग्रहणकारणत्वात् स्मृतेस् तत्सिद्धये ग्रहणान्य् अपि कल्पयिष्यामः. कथम् अपरथा गृहीतविषया स्मृतिर् भविष्यति. न त्व् एवम् अपि ज्ञानान्तरनिरपेक्षम् एव ज्ञानम् अवसीयत इति युक्ता कल्पना, स्वसंवित्तिप्रतिषेधात्. अतो वरं प्रमाणबलादायातः संवित्प्रवाहः, न पुनः स्वसंवित्तिकल्पनेत्य् अभिप्रायेणाह -- स्मरणम् इति. पूर्वं च घटादौ गृहीत इत्य् अत्र यद्य् एवं स्याद्, एवं सति तत्रापि स्मृतिर् इत्य् उपपद्येत. तथा नानवस्था, यावदवगतस्मरणात्. न त्व् एतद् अप्य् अस्तीति तद् दर्शितम्. इदानीं तु यद्य् उत्तरोत्तरविषयाः स्मृतयो दृश्यन्ते ततस् तद्दर्शनाद् ग्रहणप्रवाहकल्पनैव प्रमाणवती, न स्वसंवित्तिकल्पनेति विवेक इति
SK
यदि तूच्यते, सत्यम् अस्त्य् अयं ग्रहणप्रवाहः. किन् त्व् आद्यज्ञानगोचराण्य् एव तानि ग्रहाणि. ज्ञानम् एव हि तत्राद्यं नार्थः. ज्ञानम् एव विषयाकारेण{२,१७०}स्वाकारेण च निरूप्यते. तद्विषयं च तत्स्मरणम् अन्यत्. एवम् एवापरम् इति न किञ्चिदर्थविषयज्ञानम् इत्य् आशङ्कया सहाह -- अथेति. अयम् अभिप्रायः -- सारूप्येण हि विषयभावः. तद् यदाद्यविज्ञानविषयम् एकम्, एवं सति तत् तावत् ततो ऽविलक्षणं प्रथमवद् घट इत्य् एव भवेत्. एवं तृतीयाद्य् अपीति नोत्तरोत्तरबुद्धयो भिद्येरन्. अर्थवादिनस् तु प्रथमम् अर्थविषयं घट इति ज्ञानं, द्वितीयं तु ज्ञानविषयं, तृतीयज्ञानं तु ज्ञानज्ञानविषयम्. अनाकारत्वे ऽपि चाकारवताम् इव स्वाभाविकः संविदां भेद इत्य् उक्तम् एवेत्य् आकारप्रचयदर्शनम् उपपद्यते ज्ञानेषु जिज्ञासितेषु, न तु बौद्धस्येति विपरीतप्रसङ्गो ऽभिहितः. एतच् च प्रथमज्ञानस्य स्वसंवित्तिम् अभ्युपेत्योच्यते. प्राङ् निराकृतो ऽप्य् अयं ज्ञानविषयत्वपक्ष इदानीं दूषणान्तराभिधित्सया पुनरुपक्षिप्त इति
SK
अयं चापरो विज्ञायते न विषये बुद्धीनां दोष इत्य् आह -- विज्ञानेति. अयम् अर्थः -- यस्य सर्वा बुद्धयो विज्ञानविषयाः, तस्य घटज्ञानं घटज्ञानज्ञानं वा विज्ञानविषयत्वान् न भिद्यत इति
SK
अविशेषम् एव दर्शयति -- स्मरन्न् इति. एष हि ज्ञातपूर्वम् अर्थं कदाचित् प्रस्मृतवान् विज्ञानम् अनाकारं स्मरति अर्थं च सर्वदा साकारं घट इति, तन्नोपपद्यते. प्रस्मृतार्थविषयविज्ञानस्मरणं ह्य् अनाकारम् एव दृष्टम्. एवं स घट इत्य् अपि स्मृतिविज्ञानं विज्ञानविषयम् एवेति तद् अप्य् अनाकारम् एव भवेत्. साकारत्वे वा प्रस्मृतार्थविज्ञानस्मृतेर् अपि साकारत्वप्रसङ्गो ऽविशेषात्. अतो यो ऽयं घटविषयस्य स्मृतिविज्ञानस्य प्रस्मृतघटविज्ञानविषयस्य च स्मृतिविज्ञानस्य विशेषः, स विज्ञानविषयत्वे बुद्धीनां न भवेत्. अतः काचिद् विज्ञानविषया काचिदर्थविषयेति साकारानाकारभेदसिद्धिर् इति
SK
{२,१७१} यद् अपि प्राग् ज्ञानस्य संवेदनम् इत्य् अत्र कारणम् उक्तं ज्ञानप्रष्ठेन परामर्शदर्शनं, तद् अपि न युक्तम्. न ह्य् अयं ज्ञानप्रष्ठेन परामर्शो ज्ञानस्य ग्राह्यताकृतः. किन् त्व् अर्थस्थितौ ज्ञानम् अभ्युपाय इति तदनुसार्यर्थकथनं ज्ञातो ऽसाव् अर्थो मयेति. तद् इदानीम् एव च स्मृतेस् तत्र ज्ञानानुमानम्. न तु प्राग् एव ज्ञानपुरस्सरम् असौ ज्ञातः. यदा तु कश्चित् तथाविधार्थसदसद्भावयोः पर्यनुयुङ्क्ते, तदा ज्ञानोपायत्वाद् अर्थस्य ज्ञानपुरस्सरम् अर्थस्थापनं भवत्य् आसीद् असाव् अर्थः यस्मान् मया पूर्वम् अवगत इति. अतो नानेन ज्ञानस्य पूर्वोपलब्धिः शक्या कल्पयितुम्. तद् एतद् आह -- ज्ञानप्रष्टेनेति
SK
यत् तूक्तं ज्ञानाकारपक्षे प्रत्यासन्नं सम्बद्धं ग्राह्यं भवति, इतरथासम्बन्धम् अतिदूरवर्ति च ग्राह्यम् अभ्युपगतं भवतीति. तत् परिहरति -- प्रत्यासन्नेति. अयम् अभिप्रायः -- यथा कथञ्चिन्नैकात्म्ये ग्राह्यग्राहकभावः सम्भवतीत्य् उक्तम्. तदा किं कुर्मो ऽसम्बन्धम् असन्निहितं च ग्राह्यम् अनुजानीमो न खलु दूरदेशा(?न्दी/दि)वार्ताभ्यो हृदयम् अनुविपरिवर्तमाना भावा न गृह्यन्त इति शक्यते वक्तुं संविद्विरोधाद् इति. एवं तावद् असम्भवाद् आसत्तिसम्बन्धौ न स्याताम् इत्य् उक्तम्. न वा हीयेत. न हि देशाविभाग एव सर्वत्र सम्बन्धः. विषयविषयिभावो ऽपि हि सम्बन्ध एव. अस्ति चासौ ज्ञानार्थयोः. ज्ञानोत्पत्तौ तदवाप्तेर् इदम् एव च तस्य सन्निधानम् अर्थेन यदुत्पन्ने तस्मिन्न् अर्थो भासत इत्य् अभिप्रायेणाह -- विषयेति. किं पुनर् इदम् अर्थो भासत इति. न ज्ञानाद् अन्यदर्थस्य भासनम्. संवित्तौ वा कथं विषयाकारो भासते. एवं तर्हि नास्ति तदभावे चान्यानवभासनाद् अभाववाद एव. तदवश्यास्थेयम् इदं ज्ञानोत्पत्ताव् अभूतपूर्वो भावानां को ऽपि भेदः सकलप्रमातृप्रत्यात्मवेदनीयः. ते तु भावा ज्ञानाकारा बहिर् वेत्य् अन्यद् एतत्. ये ऽपि फलभूताम् अर्थसंविदं स्वप्रकाशाम् आहुः, तैर् अपि को ऽप्य् अनिर्वचनीयो ऽर्थगतो दर्शयितव्य एव. कथम्{२,१७२}अन्यथा संवित्प्रकाशे ऽर्थः सिध्येत्. न ह्य् अन्यप्रकाशे ऽन्यत् सिध्येद्, अतिप्रसङ्गात्. अन्या च संविदान्तरा, अन्यो बहिरर्थः. सो ऽपि भासत इति चेत्, तद्वद् एव तर्हि सो ऽपि स्वप्रकाश एव. संविदायत्तो न स्वप्रकाश इति चेद्, नन्व् इदम् एवास्माभिर् जिज्ञास्यते किम् अस्य संविदायत्तत्वम् इति. स्वरूपं तावत् स्वकारणसामग्र्यायत्तम् एव. प्रकाशो ऽपि तस्य संविद् एव न तदायत्तः. तदवश्यम् अप्राप्तपूर्वस्य काचित् फलोत्पत्ताव् अस्ति प्राप्तिर् इत्य् आस्थेयं यदायत्तो ऽस्य संवेदनं नान्यस्येति विवेकः. सैव चास्माभिर् ज्ञाततादिपदैर् अभिधीयते. अतः सिद्धं विषयत्वेनापि प्रत्यासत्तिसम्बन्धौ स्त इति
SK
यो ऽपि मिथ्याज्ञानेष्व् अर्थाकारसम्भव उक्तः, तम् अनुभाष्य परिहरति -- अर्थेति. अयम् अर्थः -- यो ऽयं द्विचन्द्रादिबोधेष्व् अर्थाकारासम्भव उक्तः, सो ऽयुक्तः. तथा हि. सम्यग्ज्ञानेषु तावन्नार्थाकारासम्भवः. केषुचित् तु मिथ्याज्ञानेषु देशान्यथात्वमात्रेण कालान्यथात्वमात्रेण वार्थाकारसम्भवो ऽस्माभिः कृतः निरालम्बनवादे वर्णित इति यावत्. अतो न क्वचिद् अर्थाकारासम्भवः तत् पुनर् इदं प्रतिभासविपरीतम् अभिधीयते. देशान्तरादिस्थो ऽर्थो भासते, अन्यत्र स्थितश् चार्थो ऽन्यत्रालम्ब्यत इति संविदनुसारेण हि भवन्तो बहिरर्थम् अवस्थापयन्ति. सा च देशान्तरादिगोचरा कथम् अन्यत्रार्थम् आलम्बत इति शक्यते वक्तुम्. एवं हि स्वांशालम्बनत्वेन किम् अपराद्धं येन तन्निराक्रियते. मैवम्. उक्तम् अस्माभिर् निरालम्बनवाद एव बाधकानुसारिणी हि मिथ्यात्वकल्पना. बाधकं च देशादिसंसर्गम् एव वारयति, न हि बहिर्वस्तुसत्ताम्. तद् धि न द्वौ चन्द्राव् इति चन्द्रद्वित्वं निषेधति, न द्वित्वं चन्द्रं वेति कथं तौ बहिर्भासमानावपहास्यामः. अतो नेह संविद्विपरीतं किञ्चिद् इति
SK
स्याद् एतत्. कथम् अतीता अर्था असन्तो ज्ञानावलम्बनम् इति. उक्तपरिहारत्वात्. उक्तं हि प्रत्यक्षधर्मो वर्तमानसन्निहितविषयता ज्ञानान्तराणां{२,१७३} नेति निरालम्बन एव, तद् एतद् आह -- प्रत्यक्षाद् इति. यत् तावल्लैङ्गिकम् अतीतादिगोचरं ज्ञानं तत् प्रत्युत्पन्नलिङ्गादिजनकम् असतीष्व् एव वासनासु भवति. यत् त्व् अन्यज्जाग्रत्स्मृति ज्ञानं स्वप्नज्ञानं वा, तद् भवन्तीषु वासनासु भवति प्रत्युत्पन्नकारणान्तराभावाद् इति
SK
ये ह्य् अत्यन्ताननुभूता अर्था अनुभूयन्ते, तत्र वासनादिकारणान्तरासम्भवान् नास्ति ज्ञानाकारत्वाद् अन्या गतिर् अत आह -- य इति. अयम् अभिप्रायः -- तवापि तथाविधानुभवे किं कारणं, बौद्धो ऽपि वासनाम् एव ज्ञानकारणं मन्यते. न चात्यन्ताननुभूतपूर्वे ऽर्थे वासना सम्भवति, अर्थज्ञानाहितसंस्काराभिधानत्वाद् वासनाशब्दस्य. स्याद् एतत्. न ज्ञानजन्मा संस्कारो वासना. किन् तु ज्ञानम् एव किञ्चिद् अनवगतपूर्वार्थसंवेदनकार्योन्नेयशक्तिभेदम् इति. तन् न. लोके तथानवगमात्. ज्ञानयोनिर् एव संस्कारो वासनेति लौकिका मन्यन्ते, न ज्ञानम् एव. अपि च, समनन्तरज्ञानम् अतदाकारं, तत् कथं तदाकारां धियम् उपजनयितुम् अलं
SK
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः |
SK
इति वः सिद्धान्तः. यदि त्वयम् अपि कार्यकारणभावो नेष्यते, अस्तु तर्हि कादाचित्कम् अप्य् अनपेक्षम् एव ज्ञानम्. किं समनन्तरप्रत्ययाधीनव्यसनेन. अतो ऽवश्याश्रयणीया काचिज्ज्ञानाद् भिन्ना वासना, योद्भूता सती विसदृशसन्तानतिरोधानेन सदृशम् एव ज्ञानम् आरभत इति भवद्भिर् अप्य् आस्थेयम्. न चात्यन्ताननुभूतेषु सा सम्भवतीति तुल्यत्वम् आवयोः. न चाप्य् अनुभविष्यत इत्य् आत्यन्तिकवासनासम्भवप्रकटनार्थं, न तु भविष्यतो ऽनुभवस्य कश्चिद् वासनायाम् उपयोग इति
SK
यदि तु अनादृत्यैव वासनां ज्ञानोत्पत्तिर् आश्रीयते, एवन् तर्हि यच्चिरन्तनैर्{२,१७४}बौद्धैर् वासनायां निमित्तत्वम् आश्रितं तद् विरुध्यत इत्य् आह -- विनेति
SK
तत्रापि तु वासनाभ्युपगमे तस्याः संवित्कारणत्वाद् असाव् अननुभूतो ऽप्य् अर्थ इह जन्मनि क्वापि जन्मान्तरादाव् अनुभूत इत्य् अभ्युपेय इत्य् आह -- वासनेति
SK
किम् अतो यद्य् एवम् अत आह -- एवं चेति. अभवनम् अभावः. दुःस्वप्ने ऽनुभूयमानस्य संसर्गस्य न कस्यचिद् अत्यन्ताभाव इति. किं पुनस् तद्भावे प्रमाणम् अत आह -- अन्यथेति. ज्ञानं हि कार्यं न तावदकारणकं निष्पद्यते. न चास्य प्रत्युत्पन्नेन्द्रियादिकारणं किञ्चिद् उपलभ्यते. स्वप्ने न चेद् वासनापि कारणं न स्याद् एव. न चासौ पूर्वज्ञानम् अन्तरेण भवति. तद् यदि नेहासाव् अर्थो ज्ञातः, नूनं जन्मान्तरे ऽनुभूत इति
SK
ये तर्ह्य् अत्यन्तासम्भावनीयज्ञानार्थाः स्वशिरश् छेदादयः, ते ऽसम्भवद्वासनाः कथम् अवसीयन्ते. अतस् तत्र ज्ञाना(कार)कल्पनैव साधीयसी नार्थाकारकल्पना, अत आह -- दुष्टत्वेनेति. अयम् अभिप्रायः -- यदा न कथञ्चित् स्वसंवेदनं ज्ञानम् इत्य् उक्तं तदा य एवैते पृथिव्यादयो ऽर्था बहिरवस्थिता गृह्यन्ते, तेष्व् एव कुतश्चित् कारणदोषाद् दुष्टं विज्ञानम् अन्यथास्थितम् आकारं गृह्णाति. अदुष्टं तु यथावस्थितम्. न क्वचिद् अपि ज्ञानाकारानुभवः. तन्निबन्धनम् इति. पृथिव्यादिनिबन्धनम् इत्य् अर्थः. पृथिव्यादिसूक्ष्माण्य् एव हि स्थूलारम्भे कारणम्. एतेन कल्पनानिबन्धनत्वं प्रधाननिबन्धनत्वं च निराकरोति. न तावत् कल्पनानिबन्धनत्वम् अबाधितत्वात्. न प्रधाननिबन्धनत्वम् अप्रमाणकत्वात्. दृश्यते तु सूक्ष्मतरादिक्रमेण पृथिव्यादीनाम् एव कार्यद्रव्येष्व् आरम्भकत्वम्{२,१७५}इति तद् एव द्व्यणुकादिक्रमेणाश्रीयते. शिरश्छेदश् चान्यगोचरो ऽवगतः स्वसम्बन्धितयावगम्यत इत्य् अन्यथा व्यवस्थानम् इति
SK
तांस् तु पृथिव्याद्यर्थानपास्य न क्वचिद् अर्थान्तरे शब्दात्मके ज्ञानात्मके वाकारकल्पना युक्तेत्य् आह -- तान् इति. कारणम् आह -- नेति. पृथिव्याद्युपष्टम्भशून्यं न किञ्चिज्ज्ञानम् आत्मानं लभते. किञ्चिद् धि पृथिव्यादिद्रव्यगोचरं, किञ्चिद् धि रूपादिगुणविषयं, किञ्चिद् गवादिसामान्यगोचरम्, अन्यच् चोत्क्षेपणादिकर्मगोचरम् अवगतम् इति
SK
अपि च यदि सर्वो ऽयं ज्ञानम् अनुभासमान आकारो ज्ञानस्यैवान्ये च पृथिव्यादयो भावाः कल्पिताः, एवन् तर्हि सर्वसंविदाम् एवात्यन्तासन्नर्थ इति केन विशेषेणायं स्वप्नादिभ्रमाणाम् अत्यन्तासन्नर्थ इष्यते येनैवम् उपालभ्येमहि कथम् अत्यन्तासन्न् अर्थः स्वप्नादिविज्ञाने ऽवसीयते इति तद् एतद् आह -- विज्ञानस्येति. अत्र स्वप्नादिज्ञान इत्य् अर्थः
SK
अतः सिद्धं भ्रान्तिज्ञानान्य् अप्य् अर्थम् एवान्यथा स्थितम् अन्यथा कल्पयन्ति, न पुनरात्मानम् अवस्यन्तीत्य् आह -- तस्माद् इति
SK
यदि तर्हि सर्वसंविदाम् एव बाह्यालम्बनत्वं, किं तर्हि बाधकेन बाध्यते अत आह -- ततश् चेति. बाधकेन न बाह्यं प्रतिक्षिप्यते, किन् तु बाधके सतीयं वाचोयुक्तिर् भवति यद् अन्यथा सत्य् अप्य् अर्थे ऽयम् आकारो दुष्टकारणजनितया धिया प्रतीयते न त्व् अनर्थिकेयं धीर् इति
SK
{२,१७६} एवं तावद् वासनानिबन्धनेषु स्वप्नादिविभ्रमेषु अर्थाकारो दर्शितः. बाधकप्रत्ययार्थश् च व्याख्यातः. एतद् एवेन्द्रियविभ्रमेषु द्विचन्द्रादिविषयेष्व् अतिदिशति -- द्विचन्द्रादाव् अपि त्व् एवम् इति. यत् तूक्तं नैकत्रार्थे लिङ्गानेकत्वं सम्भवतीति. तत्र परिहारम् आह -- तारकादीति स्यादन्तेन. अयम् अभिप्रायः -- तारकादिमताव् अपि स्त्रीत्वादिप्रत्ययो भ्रान्तिर् एव. प्राणिधर्मत्वाल् लिङ्गभेदानाम् अप्राणिष्व् असम्भवाद् भ्रान्त्यैवान्यत्र दृष्टम् अन्यत्रारोप्यते. अतो ऽन्यत्र दृष्टम् एव स्त्रीत्वादि तारकादिमताव् आलम्बनम् इति. कथं पुनस्तारकादिषु स्त्रीत्वादिप्रत्ययो भ्रान्तिर् इत्य् उच्यते. न ह्य् अत्र द्विचन्द्रादिबोधेष्व् इव बाधको दृश्यते. तम् अन्तरेण तु भ्रान्तिवादिनाम् एव भ्रान्तिर् आपाद्येत, अत आह -- कथम् इति. अयम् अभिप्रायः -- सत्यम्. न भ्रमस् तारकादिषु, वास्तवानाम् एव स्त्रीत्वादीनां सम्भवात्. ते हि स्त्रीपुन्नपुंसकलिङ्गेभ्यस् तारका तिष्यो नक्षत्रम् इति शब्देभ्यः प्रतीयन्ते. न च प्रतीयमाना न सन्तीति युक्तं वक्तुम्. यत् तु प्रमाणान्तरान् नावगम्यते, नायं दोषः. शब्दैकप्रमाणकत्वात्. न चैकप्रमाणावगतो ऽर्थः प्रमाणान्तरेणानवसीयमानो ऽसन् भवति. अतो येयं शब्दमात्राद् उपजाता प्रतीतिस् तयैव स्त्रीत्वादयः संविदिता इति पारमार्थिका एवेति. अयम् अपि तु शब्दैकप्रमाणकत्वपक्षो ऽतितुच्छ एव. न खलु पदतद्भागानाम् अगृहीतसम्बन्धानां प्रतिपादकत्वम् अस्ति. न च प्रमाणान्तरावेद्येन वस्तुना सम्बन्धो ग्रहीतुं शक्यः. अतो मन्द एवायम् अपि पक्ष इत्य् अपरितुष्यन् परिहारान्तरम् आह -- दृष्टैर् इति. न तारकादाव् अदृष्टपूर्वं लिङ्गं, दृष्टैर् एव कैश्चिद् रूपैरिङ्गनात्. वक्ष्यमाणान्य् एव दृष्टानि रूपाणि लिङ्गम् इति यावद् इति. किं पुनर् दृष्टं रूपं येनात्मना स्त्रीत्वादीनीष्यन्ते अत आह -- संस्त्यानप्रसवस्थानैर् (इति.) सत्त्वरजस्तमसां गुणानां यथोत्तरम् उपचयः संस्त्यानप्रसवस्थानानि. ते च गुणाः प्राण्यप्राणिसद्भावसाधारणा एव सर्वेषु तद्रूपप्रत्यभिज्ञानात्.{२,१७७}सुखदुःखमोहादिभेदवन्तो हि सर्वे भावाः आश्रयतया जनकत्वेन च प्राणिनः आश्रयतयाप्राणिनः जनकतया रमणीयादिभावव्यवस्थिता हि विषया अप्रार्थिनो ऽपि सुखयन्ति दुःखयन्ति मोहयन्ति च. सुखादयश् च सत्त्वादिधर्माः, तद्दर्शनात् त्रैगुण्यं सर्वभावानाम् अवसीयते. तद् यदा सत्त्वोपचयः संस्त्यानाभिधानो ऽवगम्यते तदा पुंस्त्वं प्रतीयते. रजसस् तूपचये प्रसवे गम्यमाने स्त्रीत्वं, तमस उपचये स्थाने नपुंसकत्वम्. सा चोदासीनावस्था भावानां न कस्यचित् कार्यस्य सवित्री स्वरूपावस्थानमात्रं, तच् चैतद्रूपं दृष्टम् एव सर्वभावेषु. प्राणिनो हि पुमांसः सत्त्वोत्कटा दृश्यन्ते. रजोमय्यो नार्यः. तमोमयाः षण्डाः संमुग्धनिरुद्धाखिलचेष्टाः. एवं तिष्यादीनाम् अप्य् आपेक्षिकः सत्त्वादीनाम् उपचयो दर्शयितव्यः. अल्पप्रकाशनक्षत्रान्तरापेक्षया हि पटुप्रकाशः पुमान् इति तिष्यो लक्ष्यते. यदा तु तस्यैव रजस उद्भवो लक्ष्यते तदा स्त्रीत्वेन तारकेति. तमसस् तूपचये नक्षत्रम् इति नपुंसकत्वेन. एवम् एव तटस् तटी तटम् इत्यादिष्व् अपि गुणोपचयापचयात्मा लिङ्गभेदो ऽनुसन्धातव्यः. एवञ् च सर्वत्रैव पारमार्थिकं लिङ्गत्रयम् उपपन्नं भवति. बाधविरहो ऽप्य् अत एवेति सिद्धं नानर्थकास् तारकादिषु लिङ्गप्रत्यया इति. अत्रैव वृद्धानुमतिं दर्शयति -- यथेति. पतञ्जलिना हि किं पुनर् इदं लिङ्गम् इति पृष्ट्वा बहुधा विकल्प्य प्राण्यप्राणिषु दर्शनाद् अविपर्यया(?चो/च् चो)भयत्र यथोक्तम् एव लिङ्गम् उपवर्णितम् इति
SK
एवञ् चोपपन्नं लिङ्गत्रयम् अपीत्य् आह -- तेनेति. नन्व् अस्त्व् एवमात्मको भिन्नाधिकरणो लिङ्गभेदः, एकाधिकरणं तु लिङ्गभेदं न मृष्यामहे यस्य हि यत् स्वरूपम् उचितं तेनैव तन्नित्यं व्यपदिश्येत. अत आह -- अपेक्षेति. तत्तद्भावभेदापेक्षया हि तस्य तस्य गुणस्योपचये लक्ष्यमाणे नैकत्रापि लिङ्गभेदावसायो ऽनुपपन्नः पुत्रादिभाव इवैकस्य पुंस इति.
SK
तत् पुनर् इदम् उक्तप्रकारं लिङ्गस्वरूपं नानुमन्यामहे पारमार्थिकम् अप्राणिषु लिङ्गम् अनुपलभमानाः. प्राण्यवान्तरजातिम् एव तु लिङ्गं सङ्गिरामहे. पश्यामो हि वयं नराश्वमहिषगोवराहादिभेदभिन्नानेकप्राणिगणसाधारणं{२,१७८}स्त्रीत्वादिभेदभिन्नं विविधम् अवान्तराकारम् अप्राणिम्यो व्यावृत्तं यमानन्दसाध(?ना/न)स्तनवदनादिसन्निवेशविशेषा दर्शयन्ति. न च ते अप्राणिष्व् इति न लिङ्गभेदं प्रतिपद्यामहे. किम् इदानीम् अप्राणिषु लिङ्गावगमो भ्रान्तिर् एव. ननु साप्य् असति बाधकोदये दुर्भणैव. सत्यम्. गौणस् त्व् अप्राणिषु लिङ्गवादः प्रस्तरैककपालयोर् इव यजमानवादो माणवक इव ज्वलनवादः. न ह्य् असौ भ्रान्तिः, अभ्राम्यताम् एव तथावभासात्. कः पुनर् गुणः यतो ऽप्राणिषु गौणो लिङ्गवादः. पैङ्गल्यादयो ह्य् अग्निगुणा माणवके वर्तमाना गुणवादहेतवः. न त्व् इह तथा प्राणिगुणाः केचिद् अप्राणिषु दृश्यन्ते यद्वशेन गुणवादः समाश्रीयते. मैवम्. इहापि गुणावगतेः. उपचयापचयधर्माणौ हि स्त्रीपुमांसौ, अतस् तद्धर्मविवक्षया स्त्रीलिङ्गादिशब्दप्रयोगो ऽप्राणिष्व् अपि यथेहैव प्रकृते वर्णितम्. अपेक्षाभेदतश् चाविरोधः समान एव. अत्यन्तापचयविवक्षया च नपुंसकलिङ्गशब्दप्रयोगः, तद्रूपत्वात् तज्जातेः. स्याद् एतत् -- नाप्राणिषु गौणावगतिर् अतः कथं गौणत्वम् इति. अस्ति वा प्राण्यप्राणिनोः समानाकारा बुद्धिर् आयुष्मताम्. शब्दसल्लापमात्राद् एव हि नो वाक्स्रुगादिषु स्त्रीत्वादिमतिराविर् अस्ति. न तु प्राणिष्व् इव तेष्व् अप्य् अनुस्यूत आकारो दृश्यते. अतः शब्दसंव्यवहारमात्रसिद्ध्यर्थम् अप्राणिषु लिङ्गानुशासनम्. किं पुनर्लिङ्गानां वाचकम्. न तावद् एतद् अत्रोपयुज्यते, तत्सद्भावमात्रस्य प्रकृतौपयोगिकत्वात्. यदि तु प्रयोजनम् अभिधीयते श्रूयताम्. ये तावदप्राणिवाचिनः स्त्रीलिङ्गतया स्मर्यन्ते, तेष्व् अनुशासनकारैर् एवेयं स्त्री अयं पुमान् इदं नपुंसकम् इति गुणवादेनैव स्त्र्यादिशब्दाः प्रयुक्तास् तद्वचनपदान्तरसमभिव्याहारसिद्ध्यर्थम्. ते तु स्वभावतः स्वार्थमात्रम् अभिदधति. गुणवाद एव स्मर्तॄणाम् अत्यन्तं निरूढतया लिङ्गे ऽपि वाचकभ्रान्तिम् एव जनयति. एषा च निर्भागपदेषु स्थितिः वाक्स्रुवादिषु. सभागेषु तु तारकादिशब्देषु प्रत्ययभागः स्त्रीत्वम् अभिधाय प्रकृत्यर्थे तदसम्भवाद् गौण्या वृत्त्या तत्समभिव्याहारं लभते. गुणवादसमाधानं चोक्तम् एव. ये ऽपि नक्षत्रम् इत्यादिषु प्रत्ययविकारविशेषास् तेष्व् अपीयम् एव स्थितिः. विकाराणां नपुंसकलिङ्गे ऽनुशासनादम्भावादीनाम्, अतो ऽम् (७.१.२४) इति यथा. ये प्राणिवाचिनो ऽश्वो ऽश्वेत्य् एवमादयः, तेषां स्त्रीप्रत्ययान्तेषु तावत् स एव प्रत्ययः स्त्रीत्वम् अभिदधाति. स च{२,१७९}सम्भवत्स्वार्थो मुख्ययैव वृत्त्या प्रकृत्या समभिव्याह्रियते. अश्व इत्यादाव् अपि प्रत्ययविकाराद् एव लिङ्गविशेषावगतिः. प्रातिपदिकवाच्या एव स्त्रीत्वादयः प्रत्ययेन द्योत्यन्ते इति नानुज्ञायते. प्रत्ययोपजनापाययोर् एव लिङ्गावगतेः सदसद्भावदर्शनात्. प्रकृतेश् चान्वयव्यतिरेकनिर्धारितस्वार्थमात्रवचनत्वात्. अतः स्त्रियाम् अभिधेयायां (?धात्वा/टाबा)दयः इत्य् एतद् एव साम्प्रतम्. वार्त्तिककारेण च स्त्रीत्वाद् अन्यत्र दृष्टं स्याद् इति वदता प्राणिषु दृष्टं लिङ्गम् अभिदधतां शब्दानां गौण्यैव वृत्त्याप्राणिवाचिप्रकृतिसमभिव्याहारो ऽभिहित इति वेदितव्यम्. न पुनर् अन्यत्र दृष्टारोपेण भ्रान्तिर् उक्ता. अतो बाधकाभावो ऽपि न परिचोदनीयः. गौणे तद्दर्शनात्. अतस् तारकादिमतौ तथा स्त्रीत्वाद् अन्यत्र दृष्टं स्याद् इत्य् अयम् एव परिहारः साधीयान्. परयोस् तु कथञ्चिच्छब्दपरमतत्वोपन्यासाभ्याम् एवासाधुता प्रकटितेत्य् अवधातव्यम् इति
SK
यत् पुनर् उक्तम् -- एकस्याम् एव प्रमदातनौ कथं परिव्राजकादीनां कुणपादिप्रत्ययाः सदर्था भविष्यन्तीति. तत् परिहरति -- कुणपादीति. अस्यार्थः -- नानाकारं वस्तु नानाकारम् एवानुभूयत इति नानुपपन्नम्. यस् तु कश्चिद् एव व्यवस्थया कञ्चिद् आकारं प्रतिपद्यते न सर्वं सर्वः, तत्र सहकारिवासनासदसद्भावो निबन्धनम्. परिव्राजकादीनां हि कस्यचिद् एव काचिद् वासना कुतश्चिद् अभ्यासाद् हृदयम् अनुविष्टोद्भूता सती कञ्चिद् एवाकारम् एकस्याम् एव प्रमदातनौ दर्शयति. परिव्राजको हि देहाद् विविक्तम् आत्मानम् अभ्यस्यंस् तद्वासनावासितान्तःकरणो मृतशरीरवत् कुणप इत्य् एवं कामिनीं चिन्तयति. कामुकस् तु कामाभ्यासाहितवासनासहायो देहात्मनोर् विवेकम् अपश्यन् देह एवाहङ्कृतः कामिनीति. श्वानस् तु जात्यनुबन्धिपिशिताशनाभ्यासातिशयाहितवासनासनाथाः पृथुलनितम्बोर् उस्थलप्रस्तनशालिनीं कबलयितुम् अभिलषन्ति कामिनीम् इति वासनाव्यवस्थानुसारिणी संविद्व्यवस्थैकविषया परिव्राजकादीनाम् इति
SK
आह -- किम् अपराद्धम् अस्माभिर् वासनानिबन्धनं नीलाद्याकारोपप्लवं विज्ञाने वदद्भिः. भवद्भिर् अपि वासनैवाकारदर्शनहेतुतया वर्णिता. अत आह -{२,१८०}स्वेति. अयम् अभिप्रायः -- न वासना (ना)मान्या काचित् समनन्तरप्रत्ययरूपेति भणितम् असकृत्, यस्यैव च प्राचीनप्रत्ययजनितस्य संस्कारस्य तेनैव प्रत्ययेनानुकारः सादृश्यं स एव वासनेति चौरिका मन्यन्ते, स च संस्कारो बह्वाकारे वस्तुन्य् एकस्याकारस्याभ्यस्तपूर्वस्य निर्धारणे कारणं भवति इति युक्तम्. न त्व् अननुभूतम् एवाकारम् असन्तं वासना दर्शयतीति साम्प्रतम्. यथा भवन्तो मन्यन्त इत्य् अस्ति महानावयोर् विशेष इति
SK
दीर्घादिप्रत्ययो ऽप्य् एकगोचरो ऽपेक्षाभेदाद् एव परिहर्तव्य इत्य् आह -- तथेति. दीर्घह्रस्वबोधे भिन्नोपाध्यपेक्षा. घटपार्थिवादिभेदे तु कालाद्यपेक्षा एको ऽपि हि कदाचिद् घट इति तम् अर्थम् बुद्ध्यते कदाचित् पार्थिवो ऽयम् इति. भिन्नकालाद्यपेक्षया बोधवैचित्र्योपपत्तिर् इति
SK
अपि च, इयम् अपूर्वा युक्तिः यत् किलानेकाकारात्मकं भासते, तस्माद् अनाकारम् एव वस्तु ज्ञानाकार एवायम् इति. एवं हि प्रतीतिभेददर्शनाद् अनेकाकारकल्पनैवाश्रयितुम् उचिता. न त्व् अनाकारकल्पनेत्य् आह -- नेति
SK
स्याद् एतत्. सन्त्व् एकस्मिन्न् अप्य् अविरुद्धानेकाकाराः, कथं तु विरुद्धानाम् अनेकेषां सम्भवो ऽत आह -- संवित्तेर् इति. इदम् अनेन विरुध्यत इति संवित्साक्षिकं तद् यत्रैव भवतो विरुद्धाभिमानः तत्र संविद्बलाद् अविरोधम् एव वक्ष्याम इत्य् अभिप्रायः. एतच् चान्वारुह्यवचनम् अपेक्ष्य, भेदात् त्व् अविरोधो दर्शित एवेति. भवेद् अप्य् अनेकाकारदर्शनाद् एकस्यानाकारकल्पना यद्य् एकम् एकाकारम् इत्य् अत्र{२,१८१}युक्तिर् भवेत्. ताम् अन्तरेण त्व् इदम् ईश्वराज्ञातुल्यम् एव भाषितं भवेत्. तच् चायुक्तम् इत्य् अभिप्रायेणाह -- एकाकारम् इति
SK
संविदेकाधीनता हि वस्तूनां व्यवस्थितिः. अतो यद् एव येनात्मना संविदा व्यवस्थाप्यते तत् तेनैव रूपेणाभ्युपेतव्यम् इत्य् आह -- तथा हीति. किञ्चैकत्वे ऽपि वस्तुनो नास्माकम् एकान्तवादः येनैवम् उपालभ्येमहि कथम् एकम् अनेकाकारम् इति. तद् अपि ह्य् एकानेकात्मकम् एवानेकान्तवादिनाम् अस्माकम् इत्य् आह -- न चेति
SK
अतः सिद्धं देशकालावस्थोपाधिसद्भावनिमित्तैः प्रत्ययैर् विद्यमाना एव वस्त्वाकारा उद्भवाभिभवात्मकाः पृथग् भेदेन गृह्यन्त इत्य् उपसंहरति -- तस्माद् इति. देशादयश् चाकारोद्भवाभिभवद्वारेण प्रत्ययानां निमित्तम् इति
SK
ये तर्हि युगपद् एव ग्रहीतॄणां घटत्वाद्याकारा निर्भासन्ते तत्र कथम्. न हि त आपेक्षिकाः, स्वाभाविकत्वाभ्युपगमात्. उक्तं च घटत्वपार्थिवद्रव्येति. तत्र कः परिहारः अत आह -- युगपद् इति. यद्य् अप्य् अत्र नौपाधिकत्वान् न चोद्भवाभिभवौ, तथापि नानाकारे वस्तुनि यो यस्य वस्तु(?नि/नः) (?यो) यस्य वस्तुभागस्य शब्दं स्मरति, स तं विकल्प्यामुको ऽयम् इति जानाति नेतर इति व्यवस्थासिद्धिर् इति
SK
अत्रैव दृष्टान्तम् आह -- नित्यम् इति. रूपादयो हि घटे नित्यं सन्त{२,१८२}एव, तथापि न सर्वे सर्वैर् अनुभूयन्ते ग्राहकाणां चक्षुर् आदीनां विषयव्यवस्थानाद् इति || २२३ |
SK
एवं दृष्टान्ते दर्शयित्वा दार्ष्टान्तिके योजयति -- एवम् इति
SK
ननु बहिर् देशम् अर्थं तावदिन्द्रियाणि न प्राप्नुवन्ति अप्राप्यप्रकाशे नैवानवस्था. अतो न बहिस्सतो ऽर्थस्य कथञ्चिद् अवगतिर् उपपद्यते, अत आह -- तस्माद् इति. अयम् अभिप्रायः -- सिद्धं तावत् प्रतीतिबलाद् बाह्यालम्बनं ज्ञानम् इति, स बाह्यो ऽर्थात्मा प्राप्यैवेन्द्रियैः प्रकाश्यत इत्य् उक्तम्. प्राप्यकारिता चोपपादिता यदि कृतं न निर्वहति कामं, तथापि नानालम्बनं ज्ञानं, सविद्विरोधात्. अप्राप्यकारिणाम् एवेन्द्रियाणां कञ्चित् कार्यवशोन्नीयमानम् अतिशयं वक्ष्यामः, यद्बलेनाप्राप्तम् अपि बाह्यम् अर्थं प्रकाशयन्ति, न पुनः स्वांशालम्बनं ज्ञानम् इति कल्पना प्रमाणवतीति
SK
यद् अप्य् उक्तं वक्तारश् चापि दृश्यन्ते इति, तत् परिहरति -- वदन्तीति. यद् एतल्लौकिका वदन्ति नीलो ऽयम् अर्थो यतस् तद्रूपा मतिर् उत्पद्यते इति, ते ऽपि न ज्ञानाकारपरिचयपुरस्सरो ऽर्थसम्बोध इति तथा वदन्तीति
SK
कथं नाम वदन्ति अत आह -- ग्राहकत्वेनेति. विदिते खलु नीले ऽन्येनोत्थापिताशङ्कः स्वयं वा जातविचिकित्सः प्रमाणतथात्वनिश्चयपुरस्सरम् अर्थतथात्वं निश्चिनोति, नेदम् अन्यादृशं हि ज्ञानं नो ऽर्थानां ग्राहकं तद् यथार्थं समर्पयति तथासौ तदुपाधिकत्वात् तस्य. इह च प्रथमं{२,१८३}तावज्ज्ञानेन नीलं समर्पितम्. तथैव चाद्ययावदनुवर्तमानं ज्ञानम् अस्ति यन्नीलम् एव प्रकाशते. तस्मान् नीलम् एवेदम् इत्य् उपायतया पश्चाद् अपि ज्ञातं ज्ञानं पुरस्सरीकरोतीति नानेन ज्ञानस्य पूर्वग्रहणम् आपादयितुं शक्यत इति
SK
एवं तावत् परीक्षिता प्रत्यक्षशक्तिः. निर्णीतं च यथा बाह्य एव प्रवर्तितुं शक्तम् इति. एवं चानुमानस्य प्रत्यक्षबाधे सिद्धे लैङ्गिकं तावद् बाह्यासत्त्वम् अप्राप्तं बाह्यार्थवादिभिः. अतश् च तदभावद्वारिकां ज्ञानानुभवकल्पनाम् अतिक्रम्य तैर् बाह्य एव यत् प्रयत्यते तद् युक्तम् इत्य् आह -- लैङ्गिकेति
SK
स्याद् एतत् -- बहिस्सन्तम् एवार्थं लौकिका बुध्यन्ते, परीक्षकास् तु युक्तितो ऽवस्थापयितुम् अशक्नुवन्तः स्वांशालम्बनत्वं संविदां प्रतिपद्यन्ते अत आह -- यथेति. अयम् अर्थः -- यथा तस्यार्थस्य लोके बुद्धिर् उत्पद्यते, परीक्षकैर् अपि तथैव वाच्यम्. अयथार्थं ज्ञानं हि वदन्तो न परीक्षका एव भवेयुः. इदं तु परीक्षकाणां तत्त्वं यत् प्रमाणशरणत्वम्, असति तस्मिंस् तत्त्वहानिर् एव तेषाम् इति. लौकिकाश् च नान्तराकारवद् बाह्यं वस्तु बुध्यन्त इति. प्रतीतिम् एवानु(?सा/स्मा)रयति -- न यादृग् इति. अन्तराकारो यादृग् अवगम्यते न तादृशो बाह्यार्थः स ह्य् अयम् इदम् इति पररूपेण निरूप्यत इत्य् उक्तम्. अन्तराकारस्य त्व् अहम् इति निरूपणं भवेद् अस्माकम् इवात्मन इति
SK
अत्र भाष्यं ननूत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवद् इति यद्य् उच्येतेत्य् एवमादि, तदाक्षिपति -- उत्पद्येति. अयम् अभिप्रायः -{२,१८४}तद् बाह्यापलापवादिना वक्तव्यं यत् तदभावानुगुणम्, इह चोत्पद्यमानाया बुद्धेर् अर्थस्य च ग्रहणम् आचक्षणो नार्थाभावं दर्शयतीति नेदं पूर्वपक्षवादिनो वक्तुम् उचितम् इति. स्याद् एतत्. नेदं पूर्वपक्षानुगुणतयोच्यते, किन् त्व् इदम् अर्थान्तरभूतम् अपरम् एव बुद्धावागतं सिद्धान्तिनो ऽसम्मतम् इत्य् एतावतैवोच्यते सिद्धान्तान्तरम् अस्य दूषयितुम् अत आह -- कथम् इति. पूर्वपक्षानौपयिकम् अर्थान्तरं ब्रुवाणस्य सिद्धान्तान्तरदूषणं निग्रहस्थानम् इति भावः
SK
एवम् आक्षिप्य समादधाति -- बाह्येति. इदम् अनेन ग्रन्थेन बाह्यार्थवादिनं पूर्वपक्षवादी मीमांसकं ब्रूते -- किं भवान् बाह्यार्थग्रहणसमये ज्ञानस्य प्रतिबन्धाभावं नेच्छति येनार्थाकारो ऽयम् इति ब्रवीति. कथं ह्य् अप्रतिबन्धस्याग्रहणं भविष्यति. कथं चानाकारस्य ग्रहणम्. अतो ज्ञानाकारकल्पनैव साधीयसीत्य् अभिप्रायः
SK
अत्रोत्तरं भाष्यं तन् न. न ह्य् अज्ञाते ऽर्थे कश्चिद् बुद्धिम् उपलभते. ज्ञाते त्व् अनुमानाद् अवगच्छतीत्यादि. तस्याम् अभिप्रायम् आह -- उत्तरम् इति. अस्यार्थः -- विदितपूर्वपक्षवाद्यभिप्रायः सिद्धान्तवादी वदति. सत्यम् उत्पत्तौ बुद्धेर् अप्रतिबन्धः, ग्राहकाभावात् तु तदानीम् अग्रहणं, तदभावश् च तत्कारणस्य लिङ्गस्य ज्ञाततादिपदास्पदस्याभावाद् इति. अन्यथोत्पद्यमानैवेत्यादिभाष्याभिप्रायम् आह -- अन्येति. अन्यतर्केषु स्थित्वेदं भाष्यकारेणोच्यते उत्पद्यमानैवेत्यादि. एतद् उक्तं भवति -- बाह्यार्थवाद्येकदेशिमतोपन्यासो ऽयं भाष्यकारेण कृतस् तन्निराकरणार्थम् इति
SK
एकदेशिमतम् एवोपन्यस्यति -- ते(ष्व् इति.) तर्कान्तरेष्व् अर्थज्ञानकाल एव ज्ञानम् अवगम्यत इतीष्यते. एवं हि मन्यन्ते स्वप्रकाशम् एव विज्ञानम्{२,१८५}आत्मानं विषयं च व्यवस्थापयतीति. एतच् चास्माभिः प्राग् एव प्रपञ्चितम् इति. यद्य् एवं किम् अस्य निराकरणे प्रयोजनम्. एवम् अपि द्वैतं सिध्यत्य् एवात आह -- तथेति. यदि हि समसमयम् उभयम् उपलभ्यत इत्य् आश्रीयते, ततो बुद्धेर् अनाकाराया बोद्धुम् अशक्यत्वाद् एकाकारोपलम्भाच् च एकम् एव साकारं भवेत् सहोपलम्भनियमाच् चाभेदः परोक्तो नापाकर्तुं शक्यते. तत्रार्थनाश एवापद्येत. न ह्य् अभ्युपगममात्रेणार्थः सिध्यतीत्य् एतन् मतनिराकरणं भाष्यकारेणोपदिश्यत इति
SK
अपरम् अपि -- ननूत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते पश्चाद् ज्ञातो ऽर्थ इति भाष्यं, तदाक्षिपति -- नन्व् इतीति. परिचोदना हि नामानिष्टापादनेन भवति. न चेदम् अनिष्टं मीमांसकस्य यद् उत्पन्नायां बुद्धाव् अर्थो ज्ञात इति. तस्माद् अनुपपन्ना परिचोदनेति. पूर्वं बुद्धिर् भवति पश्चाद् ज्ञातो ऽर्थ इति च पौर्वापर्याभिधानं पूर्वोक्तेन युगपदुपलम्भेन विरुध्यते इत्य् आह -- पौर्वापर्येति. उत्पद्यमानैवासाव् इत्यादिना भाष्येण युगपद् ज्ञानार्थयोर् उपलम्भो ऽभिहितः. तत् कथम् इदानीं पौर्वापर्यम् अभिधीयते इति
SK
यदि तूच्यते -- पूर्वम् उत्पद्यमानैव बुद्धिर् ज्ञायते ज्ञापयति चार्थम् इत्य् उक्तम्, इह च बुद्ध्युत्पत्तिसमये ऽर्थो ज्ञायते इत्य् उच्यते. उत्पन्नायां त्व् असौ ज्ञातः सहैव ज्ञानेनातिक्रान्त इति यावत्. क्षणिकत्वेन हि धर्मेणासौ युक्तः कथम् अद्य यावदवस्था(?प्य/स्य)ते. अयं चार्थो ज्ञात इति निष्ठार्थभूतकालाश्रयणेन भाष्यकारेणोक्तः. अतो न कश्चित् पूर्वापरविरोध इति, तथाप्य् उक्तस्यार्थस्य पुनर्वचनम् अनर्थकं भवेत्. एवम् अपि प्रकारान्तरेण स एवार्थज्ञानयोर्{२,१८६}युगपदुपलम्भो ऽभिधीयते. स चोक्त एव. न चास्य प्रकारान्तरवचनस्य स्वरूपेण कश्चिद् उपयोगः तद् एतद् आह -- क्षणिकत्वेनेति
SK
एवम् आक्षिप्य समादधाति -- अत्रापीति. अयम् अर्थः -- यथोत्पद्यमानैवासाव् इत्य् अत्र न पूर्वपक्षिणा स्वसिद्धान्तस्थित्या पूर्वपक्षितम्, एवम् इहापि न बौद्धः स्वसिद्धान्तम् उक्तवान् यदुत्पन्नायां बुद्धाव् अर्थस्य ज्ञातताम् आह. एवं हि परमतम् एवाभ्युपगतं भवेद् इति. केनाभिप्रायेण तर्हीदम् उक्तम् अत आह -- वाक्याद् इति. अयम् अर्थः -- यदा परेण सिद्धान्तिना इदम् उक्तं न पूर्वं बुद्धिर् ज्ञायत इति, तदास्य तद्वाक्यश्राविणो भ्रान्तिर् जाता यद् अयं सिद्धान्ती बुद्धेः पूर्वं ज्ञानं प्रतिषेधति, तद् अस्य मन्ये बुद्ध्युत्पत्तिर् अपि न प्रागनुमता. न हि भवति स्वप्रकाशं सूत्पन्नम् अपि न गृह्यते. तद् एवं परस्य सिद्धान्तिनो वाक्याज् जातविभ्रमः सिद्धान्तिमतम् एवान्यथा बुद्ध्वा ननूत्पन्नायां बुद्धाव् इतीदृशं पृच्छति स्म. श्रुतं मया प्राग् वो मीमांसकानां बुद्ध्युत्पत्तिः सम्मता. तत् किम् इत्य् एवं यन् न प्राग् बुद्धम् इति
SK
पूर्वपक्षवाद्यभिप्रायम् एव विवृणोति -- सहेत्य् अदर्शनमन्तेन. इयं किलास्य बौद्धस्य मृष्टाशा सहैव ज्ञानस्योत्पत्त्युपलम्भौ, उत्पन्नानुपलब्धस्यासम्भावनीयत्वात्. तद् इहैतावद् एव विमतिपदं किं नो बुद्धेर् उत्पत्त्युपलम्भाव् अर्थवित्तेः प्रागूर्ध्वं वा आहोस्वित् सहैवार्थवित्त्येति. एष च मीमांसकः पश्चादर्थवित्तेर् ज्ञानस्यावबोधम् आह. तन् नूनम् एतस्य ज्ञानं पश्चाद् एवोत्पद्यते. कथम् अपरथा प्रकाशस्वभावस्याग्रहणम्. तद् एनम् इतः पक्षाभासाद् व्यावर्तयामीति प्राक् तावदुत्पत्तेर् अपकर्षणं करोति. न हीदं शक्यते वक्तुं{२,१८७}यदनुत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञातो भवतीति, अतिप्रसङ्गात्. एवं च प्रागुत्पन्नस्य तदैव संवित्तिर् इति सुसाधम् एव. प्राग् च तत्संवित्तौ सिद्धायां ध्रुवम् आपन्नं बाह्याभ्यन्तराभिमतयोस् तत्त्वयोर् विवेकादर्शनम्. अर्थ एव हि प्राग् बुद्धेः साकारे तत्सामर्थ्याद् अनाकारा संवित्तिः. अतो विविक्ताकारता सिध्यति. इतरथा त्व् आकारविवेकस्यानुपलब्धत्वाद् अद्वैतं सिद्धम् एवेति. युगपद्ग्रहणपरिचोदनाप्य् एवम् अभिप्राया शक्या वर्णयितुम् इत्य् आह -- तस्माद् इति
SK
एतद् एव विवृणोति -- युगपद् इति. ज्ञानेन सह युगपद् गृह्यमाणे ऽप्य् अर्थे नार्थस्याकारो लक्ष्यते. उक्तं हि नाकारविवेको लक्ष्यते इति. अपि चैवं सहोपलम्भनियमो बौद्धस्यानिवारितप्रसरो ज्ञानाद् भिन्नं साकारम् अर्थं निराकरोतीत्य् उक्तम् एवेति. यत एव प्राक् समकालं वा ज्ञानानुभवे ऽर्थनाशो भवति, तस्माद् अर्थसंविद एव प्राग्भाविता भाष्यकारेण सिद्धान्तावसरे यत्नेन साध्यत इत्य् आह -- तस्माद् इति
SK
एवं तावद् ननूत्पन्नायाम् इत्यादिभाष्याक्षेपपरिहारौ वर्णितौ. अयम् अपरो ऽस्योत्तरग्रन्थः -- सत्यम्. पूर्वं बुद्धिर् उत्पद्यते न पूर्वं ज्ञायते. भवति हि कदाचिद् एतद् यज्ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यते इति. तस्य यथाश्रुतगृहीतस्य तावदर्थम् आह -- यस् त्व् इति. यो ऽस्याः परिचोदनायाः सिद्धान्तग्रन्थः स प्राग् एव निरूपितः केवलग्राहकग्रहणप्रतिपादनावसरे. एवं हि तत्रोक्तं -
SK
न पूर्वं ज्ञायते बुद्धिर् इत्य् अत्रैतद् वदिष्यते |
SK
ग्राहकस्यैव संवित्तिर् लक्ष्यते ग्रहणे क्वचित् ||
SK
{२,१८८}इति. तद् इदम् उक्तं भवति हि कदाचिद् एतद् यद् ज्ञातो ऽर्थः सन्नज्ञात इत्य् उच्यत इति. अर्थाकारविविक्तं ज्ञानमात्रम् एव स्मर्यत इति यावत्. उक्तं च न स्मरामीति. एवम् उक्तार्थं भाष्यम् आक्षिपति -- न त्व् एतद् इति सार्धेन. सत्यम्. पूर्वं बुद्धिर् उत्पद्यते न तु पूर्वं ज्ञायते इति प्रतिज्ञायाम् अयं हेतुर् उक्तः यत् किल ज्ञातो ऽप्य् अर्थः कदाचिद् अज्ञातवन् न स्मर्यते, तस्मान् न पूर्वं बुद्धिर् ज्ञायते इति. इदं च बालप्रलपितप्रायम्. किं खल्व् अत्र केन सम्बध्यते यज्ज्ञातो न स्मर्यते तत्र पूर्वं बुद्धिर् न ज्ञायत इति, तस्मान् न तावद् एतस्यां प्रतिज्ञायां साक्षात् साधनम् इति
SK
तत् किं हेयम् एवेदं भाष्यं, नेत्य् आह -- अत इति. सत्यम्. नेदम् अस्यां प्रतिज्ञायां साक्षात् साधनं, किन् त्व् अनेन ग्रन्थेन फलद्वारेण प्रतिज्ञानिराकरणम् उक्तम्. पूर्वपक्षवादिनाप्य् अत्र ज्ञानस्य पूर्वोपलब्ध्या बुद्ध्याकारो वाञ्छितः. तद् अनेन निराक्रियते. यदि बुद्धिः साकारा भवेत् सा तर्हि तथैव स्मर्येत. न चैवं केषुचिद् अवसरेषु, केवलग्राहकस्मरणात्. अतः किं मुधा मुग्धैः प्रागुपलब्धौ प्रसय्स्यते. एवम् अपि हि धीरनाकारैव यद् असाव् आकारवियुक्ता स्मर्यते न पूर्वं ज्ञायत इति. किम् उक्तं भवति. नानेन प्रकारेण सिसाधयिषितं बुद्धेः साकारत्वं सिध्यति, अनाकारस्मरणात् कदाचिद् इति
SK
अत्रापरं भाष्यम् अपि च कामम् एक(रूप)त्वे बुद्धेर् एवाभावो न त्व् अर्थस्य प्रत्यक्षयेति. तद् अयुक्तम्. कथं हि द्वैतसिद्धान्ती ज्ञानापलापम् आह. एवम् अपि हि न तस्य पक्षः सिध्यति. न चासति ज्ञाने निष्प्रमाणिका अर्थसिद्धिर् अवसातुं शक्यते. अतो व्याख्येयम् एतद् अत आह -- कामम् इति. नात्र बुद्ध्यभावे तात्पर्यं, किन् तु नासत्य् अर्थे बुद्धिः सिध्यतीत्य् एवं परम् इदम्. वरम् एकरूपत्वे बुद्धिर् अपह्नुता यद् असौ प्रत्यक्षार्थसामर्थ्यसमधिगम्या. यदधीना बुद्धिर् न तस्यैव प्रत्यक्षसिद्धस्यार्थस्य तामादायाभाववर्णनम् इति. अपरम् अपि न चार्थव्यपदेशम् अन्तरेण बुद्धेः रूपोपलम्भनम्. तस्मान् नाव्यपदेश्या बुद्धिः. अव्यपदेश्यं च नः प्रत्यक्षं तस्माद् अप्रत्यक्षा बुद्धिर् इति भाष्यम्. तद् व्याचष्टे -- न चेति. बुद्धयो हि नार्थरूपाद् विना निरूप्यन्ते. न हि जातु नीलरूपाद् इयं नामेति विविच्य बुद्धिर् उपलभ्यते. अर्थाकारेणैव तु नीलादिना व्यपदिश्यते नीलज्ञानं पीतज्ञानम् इति. एवञ् च नित्यपररूपनिरूप्या बुद्धिः कथं प्रत्यक्षप्रमेयं भविष्यतीति. न हि मृगजलज्ञाने ऊषरं जलत्वेन ज्ञायमानं प्रत्यक्षप्रमेयम् इष्यते, भ्रान्तिविषयत्वात्. तस्याश् चाप्रत्यक्षत्वात्. अर्थस् तु नित्यं स्वरूपेण संवेद्यमानः प्रत्यक्ष इति युक्तम् अव्यपदेश्यं च नः प्रत्यक्षम् इति पररूपाव्यपदेश्यम् इति भाष्यार्थ इति
SK
एवं तावत् सतापि पररूपेण निरूप्यमाणं न प्रत्यक्षम् इत्य् उक्तम्. त्वन्मते चायम् अपरो दोषः, यदसद्ग्राह्यानुसारेणैव तद् ज्ञानं संवेद्यते, स्वभावस्वच्छत्वात् ज्ञानस्य, नीलाद्याकारेण ग्राह्यता वासनोपप्लवात् कल्पितैव यतस् तद् एतद् आह -- असद् इत्य् उपप्लवादन्तेन. अतो न कथञ्चिज्ज्ञानम् एव प्रत्यक्षप्रमेयं पारमार्थिकं वक्तुं शक्यत इत्य् आह -- तेनेति
SK
अत्रापरम् अपि च, नियतनिमित्तस् तन्तुष्व् एवोपादीयमानेषु पटप्रत्ययः इतरथा तन्तूपादाने ऽपि कदाचिद् घटबुद्धिर् अविकलेन्द्रियस्य स्याद् इति भाष्यं, तदाक्षिपति -- निमित्तेति. यद् एतन् निमित्तानां तन्त्वादीनां नियतत्वं कार्येषु{२,१९०}किञ्चिद् एव निमित्तं किञ्चिद् एव कार्यम् उपजनयति नापरम् इति, तदुभयोर् अपि ज्ञानबाह्यार्थवादिनोः समानम्, उभयोर् अपि निजशक्त्यनुसारित्वात् कार्यसिद्धेः. निजयैव हि शक्त्या किञ्चिद् विज्ञानं तन्त्वाद्याकारं किञ्चिद् एव तु पटाद्याकारं ज्ञानं जनयति तन्तव इव पटम्. न चात्रान्यतरः शक्यो ऽनुयोक्तुम् इति भावः
SK
तुल्यताम् एवानुयोगस्य विवृणोति -- तन्त्वर्थैर् इति द्वयेन. निगदव्याख्यानौ ग्रन्थाव् इति
SK
यदि तु सामर्थ्यनियमम् आश्रित्यार्थानां तन्त्वादीनां कार्यव्यवस्थोच्यत इति, तज्ज्ञानानाम् अपि ज्ञानान्तरारम्भे न दण्डवारितम् इत्य् आह -- अर्थेति
SK
अतो दोषपरिहारसाम्ये नान्यतरः शक्यो ऽनुयोक्तुम् इत्य् आह -- तस्माद् इति
SK
अत्र परिहारम् आह -- देशेति. अयम् अभिप्रायः -- यद् अपि यस्य कारणं तद् अपि कदाचिद् एव कार्यम् आरभमाणं दृष्टं न सर्वदा बीजम् इवाङ्कुरम्. न हि तत् कुसूलाधिकरणम् अङ्कुरम् आरभते, किन् तु देशविशेषं क्षेत्रादिं कालविशेषं च ग्रीष्मादिं निमित्तविशेषम् उदकादिम् आसाद्य कदाचिद् एव देशादिव्यङ्ग्यत्वात्{२,१९१}कारणशक्तीनाम्. नैतद् ज्ञानवादिनां सम्भवतीति वक्ष्यते. अतः कस्यहेतोर् उत्पन्नमृत्पिण्डविज्ञानस्यापि कदाचिद् एव घटप्रत्ययो न सर्वदा. कस्माच् चोत्पन्नव्रीहिबीजपरिचयस्यापि ज्ञातुर् भाव्यङ्कुराकारपरिचयः. न हि तत्र दण्डोदकादि किञ्चिद् अस्ति कारणशक्तीनां व्यञ्जकं, यदपेक्षया कारणानि विलम्बन्ते. स्यान् मतं - मा भूवन् बाह्या देशादयः. तज्ज्ञानान्य् एव च कारणानाम् अनुग्राहकाणि भविष्यन्तीति. तन् न, क्षणिकत्वेनानुग्राह्यानुग्राहकयोः साहित्यासम्भवाद् इति
SK
न केवलं कारणशक्तीनां व्यञ्जकान्य् अर्थवादिनां सन्ति, शक्तयो ऽपि कार्यार्थापत्तिप्रमाणिकाः प्रतिपटादिकार्यं तन्त्वादीनां व्यवस्थिताः प्रसिद्धा इत्य् आह -- शक्तयो ऽपीति
SK
भवतस् तु बौद्धस्य (?ना/न वि)ज्ञानाद् भिन्ना अभिन्ना वा पारमार्थिकी शक्तिर् निरूप्यते येन कार्यारम्भव्यवस्था घटत इत्य् आह -- भवत इति. संवृतिसद्भावम् उत्सृज्येति. संवृत्या यः सद्भावस् तम् उत्सृज्य न पारमार्थिकी शक्तिर् अस्ति. न च संवृतिसत्तया व्यवस्थायाः सिद्धिर् इत्य् उक्तं निरालम्बनवाद इति
SK
अपि च शक्तिर् इति वासनाम् एव भवन्तो गायन्ति. सा च पूर्वानुभवयोनिर् न तत्सदृशज्ञानान्तरोपजननाद् अन्यत्र समर्थेत्य् अभिप्रायेणाह -- वासनेति. ननु वासनानुसारेणैव निमित्तानां तन्त्यादीनां कार्यविशेषनियतत्वं भविष्यति शब्दवासनानाम् इवार्थबुद्धौ भवन्मते, अत आह -- निमित्तेत्य् एतदन्तेन. वासनाया इति हेतौ पञ्चमी. यद् एतद् वासनाहेतुकं निमित्तनियतत्वं{२,१९२}तद् वासनाया एवाभावाद् अयुक्तम्. तदभावश् च क्षणिकत्वेनासाहित्याद् वास्यवासकयोर् अनाश्रित(?त्वा/वा)सनाभावा(द् आ)श्रयानुपपत्तिश् चोक्ता. दुर्लभम् इति वक्ष्यमाणेन सम्बन्ध इति. अपि चेयं वासना न परस्य कस्यचिद् अनुग्रहे वर्तते. अस्थिरानुग्राह्यानुग्राहकत्वान् उपपत्तेः. अतः स्वतन्त्रैव कार्यम् आरभमाणा सर्वान् प्रत्यारभेताविशेषाद् इत्य् अभिप्रायेणाह -- अपारार्थ्याद् इति. एवं तावत् शक्त्यभावाद् एव न तत्कृता कार्यव्यवस्थेत्य् उक्तं, ये ऽपि चास्माकं देशकालादयः कारणशक्तीनां व्यञ्जकत्वेनाभिमताः, ते ऽपि तन्नियामका न सन्तीत्य् आह -- देशेति
SK
सर्वं चेदम् अभिप्रेत्यापिचेत्यादि भाष्यकारेणाभिहितम् इत्य् आह -- मत्वैतद् इति. एवं चेत् परिहृतं पर्यनुयोगतुल्यत्वम् इत्य् उपसंहरति -- तस्माद् इति. एवं चानुमानदूषणात् प्रत्यक्षस्य च स्वस्मिन् वर्तितुम् अशक्तेर् न तावद् भवद् अभिमताभ्याम् आद्याभ्यां प्रमाणाभ्यां बाह्यशून्यता सिध्यतीत्य् आह -- एवम् इति
SK
आगमस् त्व् अनुष्ठाननिष्ठो नैवञ्जातीयके प्रमाणम् इत्य् आह -- आगमस्येति. न बाह्यसद्भावे अभावे चेत्य् अर्थः. उपमानं तु सिद्धवस्तुनः सादृश्यविषयं न वस्तुसदसद्भावयोर् व्याप्रियते, न च किञ्चिच्छून्यं नाम ज्ञानातिरेकि सिद्धं यच्छून्यतया ज्ञानम् उपमीयते गृहेणेव प्रोषितचैत्रेण शून्यं{२,१९३}मन्दिरान्तरम् इत्य् अभिप्रायेणाह -- नोपमेति. अर्थापत्त्या तु तत्तद्भावभेददर्शनानुपपत्तिप्रभवया पृथिव्यादयो भावा व्यवस्थाप्यन्त एवेति सा परिपन्थिन्य् एव शून्यतायाम् इत्य् आह -- अर्थापत्तिर् इति
SK
एवं चापन्नं षष्ठप्रमाणगोचरत्वं शून्यताया इत्य् आह -- तस्माद् इति. एवं तावन् न प्रमाणानुसारेण शून्यता सिध्यतीत्य् उक्तम्. इदानीं यत् तद् उक्तं तत्रास्तां यः प्रमेयतः इति, तदुपन्यस्य दूषयति -- एवम् इत्य् उपेयमन्तेन. अयम् अर्थः -- न तावज्ज्ञानालम्बनाः परमाणवः अतीन्द्रियत्वात्. तत्सद्भावे प्रमाणाभावाच् च. न तत्समूहः, तदतिरिक्तस्यानिरूपणात्. अवयविनश् च वृत्तिविकल्पातिरिक्तादिपरिचोदनादूरीकृतनिरूपणत्वात्. अतो बाह्यस्याण्वादेः ग्राह्यस्यासम्भवाद् एव पारिशेष्यसिद्धम् आत्मालम्बनत्वं सर्वसंविदाम् इति प्रमेयाश्रया च शून्यता यैर् उच्यते, तैर् अपि वादिभिर् यथोक्ताद् आन्तरस्य ग्राह्यस्यासम्भवात् स्वात्मनि वृत्तिविरोधाद् इदम् इति च पररूपनिरूपणाद् अवश्यम् एवान्यस्य ज्ञानाद् ग्राह्यत्वं बलाद् उपेयम् अनालम्बनज्ञानासम्भवाद् इति. (?द्वयोर् अपि समानो निराकरणमार्ग इत्य् आह) स्वांशवदण्वादयो ऽपि ग्राह्य न सम्भवन्तीत्य् उक्तम् अत आह -- ग्राह्या इति. अयम् अभिप्रायः -- यत् तावदणूनाम् अग्राह्यत्वं तद् अस्माकम् अपि सिद्धम् एवेति किं तन्निराकरणेन. समूहो ऽपि वनादितुल्यो ऽनभ्युपगमनिराकृत एवेति. यस् तु समूहापरनाम् आवयवी स यथा सत्यः, तथा वनोपन्यासावसरे प्रतिपादयिष्याम इत्य् आह -- सत्य इति
SK
{२,१९४} एवं तावद् बाह्यसिद्धिर् उक्ता. इदानीं यत् तन्माध्यमिकमते बाह्यज्ञेयाभावाद् ज्ञे(?या/यज्ञा)नाभावो ऽपीत्य् उक्तं, तच् च बाह्यसिद्धिप्रतिपादनेन परिहृतम् इत्य् आह -- इतीति. बाह्याभावकृता मतौ संवृतिकल्पना नास्तीत्य् अर्थः. य एव तु ज्ञानज्ञेयात्मकस्योभयस्य तत्त्वं परमार्थतो जानन्ति मीमांसकाः, तेषाम् एव चेदं धर्मविचारणे धुरि समर्थम् इत्य् आह -- उभयेति. अयम् अभिप्रायः -- धर्मो रथो ऽस्यावयवो युगापरपर्यायो धूर्विचारः. तेन हि धर्मरथो घटितः, तद्वहनाय चेदं ज्ञानज्ञेयात्मकम् उभयं तत्त्वतो ज्ञातं क्षमं भवति. संवृतिकल्पितं तु न धुरं वोढुं क्षमम् इति धर्मरथो ऽवसीदेत्. न ह्य् असमर्थाभ्यां धुर्याभ्यां धूरुह्यते. न हि परमार्थतो ऽसतोः संवित्संवेद्ययोः सामर्थ्यम् अस्ति. अतो यद् उक्तं यदा संवृतिसत्येनेति, दूषितं च संवृतेर् न तु सत्यत्वम् इति तद् एवात्रोपसंहृतम् इत्य् अनुसन्धातव्यम् इति
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
शून्यवादः समाप्तः ||
SK
शुभं भूयात्
SK
Pअर्त् III
SK
००५ अनुमानपरिच्छेद (AMP)
SK
{३,१} अत्रभाष्यकारेण विज्ञानवादान्ते अतो न व्यभिचरति प्रत्यक्षम् इति प्रत्यक्षाव्यभिचारित्वम् उपसंहृत्य अनुमानं ज्ञातसम्बन्धस्येत्यादिनानुमानलक्षणं प्रणीतम्. तस्य तात्पर्यं दर्शयति -- प्रत्यक्षेति. अयम् अर्थः. वृत्तिकारग्रन्थे हि तेन व्यभिचरति प्रत्यक्षम्. तत्पूर्वकत्वाच् चानुमानाद्य् अपि इति प्रत्यक्षव्यभिचारपूर्वकम् अनुमानादीनाम् अपि व्यभिचारात् परीक्ष्यत्वम् उक्तम्. तत्र प्रत्यक्षाव्यभिचारित्वे प्रतिपादिते व्यभिचारिकारणप्रभवत्वेन तावद् व्यभिचारशङ्का प्रत्युक्ता. यदि परं स्वरूपाश्रयो व्यभिचारस् सम्भवति. सो ऽपि वक्ष्यमाणलक्षणकेषु नाशङ्कनीय एव. न हि प्रतिबुद्धदृशः प्रतिबन्धकसंविद्विदितव्यभिचाराः. सकलव्यवहारोच्छेदप्रसङ्गात्. एवम् इतरेष्व् अपि यथास्वम् अवसरे वक्ष्यामः. तस्माद् अनुमानाद्य् अपि लोकप्रसिद्धं न परीक्षितव्यम् इति.
SK
इयं च सर्ववक्ष्यमाणप्रमाणलक्षणभाष्यतात्पर्यव्याख्या साधारणी वार्तिककारेण कृता. सर्ववक्ष्यमाणप्रमाणप्रपञ्चस्य हीदम् एव साधारणं स्थानम्. अनेन च श्लोकेन समर्थितारम्भावसरः प्रपञ्चो विशेषतो व्याख्यास्यत इति. तद् एतद् उक्तं भवति. नात्र नैयायिकादिवदलौकिकं प्रमाणानां{३,२}स्वरूपम् उपदर्शयितुं लक्षणानि प्रणीतानि. लोकप्रसिद्धप्रमा(णा)व्य[७२८]भिचारित्वान्मीमांसकानाम्. किन् तु शङ्कितव्यभिचारापादितपरीक्षाप्रत्याख्यानार्थं लोकप्रसिद्धम् एव स्वरूपम् उपदर्श्यते. अतो न प्रमाणलक्षणे सङ्गतिः प्रत्यक्षादिलक्षणस्याशङ्कितव्येति
SK
__________NOTES__________
SK
[७२८] व्यवहारि
SK
इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्याद् अनुमानलक्षणम् अनुसन्धास्यति. तत्र च ज्ञातसम्बन्धस्येत्य् उच्यते. तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति. न तावत् पुरुषस् सम्बन्धी समुदायो वा. अनुपादानात्. न ह्य् अनुपात्तान्यपदार्थको बहुव्रीहिर् भवति. ननु बुद्धिसम्बन्धोपस्थापितः पुरुषस् समुदायिद्वयाक्षिप्तस् समुदायो वा विशेष्यते. बुद्धिर् हि स्वशब्दाद् अवगता तद्वन्तम् अन्तरेणात्मानम् अलभमानोपस्थापयति स्वाश्रयम् इति नानुपादानदोषः. नैतद् एवम्. गम्यमानस्याविशेषणात्. न खलु धूमशब्दार्थाविनाभावाद् अवगतो ऽग्निर् ज्वलतीति विशेष्यते. वक्ष्यति च --
SK
गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् | इति. स्यान् मतम्. सत्यम्. अनुपात्तं न विशेष्यते. उपात्त एव त्व् इह सम्बन्धी. तथा हि अयम् अत्र पदान्वयः. अनुमानम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति. अतः कस्यैकदेशस्येत्य् आकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते. ननु दर्शनोपसर्जनत्वाद् एकदेशो न विशेषणम् अर्हति. न ह्य् उपसर्जनं पदं पदान्तरेण सम्बध्यते. न हि भवति पुरुषं प्रत्युपसर्जनीभूतस्य राज्ञः ऋद्धस्य राजपुरुष इति विशेषणम्. उच्यते. नोपसर्जनत्वाद् असम्बन्धः. आकाङ्क्षितं हि पूरणसमर्थम् उपसर्जनेनापि सम्बध्यत एव. अत्रैकदेशदर्शनाद् इत्य् उक्ते ऽस्ति कस्यैकदेशस्येत्य् आकाङ्क्षा. अर्थसम्बन्धे ऽप्य् आकाङ्क्षैव हेतुः. उपसर्जनसंज्ञा तु उपसर्जनं पूर्वम् (२.२.३०) इति पूर्वप्रयोगसिद्ध्यर्थैव. अत एव हि कस्य गुरुकुलम् इति व्यवहारोपपत्तिः. तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम्. अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यम् अप्रधानस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः, यथा राजपुरुषश् शोभन इति. अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनाद् इति. नोपपन्नम्. उक्तं हि गुरुणैव -- नोपसर्जनं पदं पदान्तरेण सम्बध्यते ऋद्धस्य राजपुरुष इतिवत् इति. न च परिहृतम्. उपसर्जनविशेषणे{३,३}हि ऋद्धी राजानं विशिष्यात्. यत् तूक्तम् -- आकाङ्क्षा सम्बन्धे हेतुः इति तद् अयुक्तम्. आकाङ्क्षावतो ऽप्य् अयोग्यस्य पदान्तरानन्वयात्. इह च दर्शनोपसर्जनत्वाद् अन्वयायोग्यत्वम् उक्तम्. अथोच्येत एकवाक्यतायाम् अयं दोषः एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् अनुमानम्. अतः पर्यवसिते वाक्ये कस्येइकदेशस्येत्य् आकाङ्क्षायां वाक्यगतम् एकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति. तन् न. आकाङ्क्षावाक्यस्याश्रवणात्. स एवानुपात्तान्यपदार्थदोषः. यत्र तूपादानं तत्रोपसर्जनत्वाद् अयोग्यत्वम् उक्तम्. अपि च वाक्यभेद एवात्र दोषः. यच् च दर्शनं दृश्यप्रधानम् इत्य् उक्तं, तद् अप्य् अयुक्तम्. उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य. न च वास्तवं गुणप्रधानभावम् आश्रित्य पदान्तरसम्बन्धो दृष्टः. राजपुरुषे ऽदर्शनात्. ननु शाब्दम् एवैकदेशस्य प्राधान्यं गम्यते. कृद्योगलक्षणा हीयं कर्मणि षष्ठी. न. अश्रवणात्. न हि समासे षष्ठी श्रूयते. न चाश्रूयमाणा स्वार्थम् अभिधत्ते. किन् तु निषादस्थपतिवल्लक्षणया तदर्थो ऽवगम्यते. श्रुत्या तु दृश्यावच्छिन्नं दर्शनम् एव प्रधानतयावगम्यते. उत्तरपदार्थप्रधानानुशासनम् अप्य् अत एव. समासात् तथैवावगतेः. न च वास्तवं प्राधान्यम् उपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः. कस्य गुरुकुलम् इति नित्यसापेक्षत्वाद् गुरुशब्दस्य नासामर्थ्यं दोषः न ह्य् अनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थो ऽवगम्यते. सम्बन्धिशब्दत्वात् तस्य. अतो ऽपेक्षितार्थान्तर एवासौ वृत्ताव् अनुप्रविशतीति न दोषः. न त्व् एवम् एकदेशशब्द इति वैषम्यम्. अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः.
SK
अत आह -- प्रमातेति. अयम् अभिप्रायः -- सत्यम्. एकदेशो नान्यपदार्थः. किन् तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते. गम्यमानम् अपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव. न हि नमः पिनाकपाणय इत्य् अन्यपदार्थानुपादानं दोषाय. अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथम् आहृत्यानुपात्ते सोमरसे वर्तते. अथ सोमं क्रीणाति अभिषुणोति पावयति.{३,४}धारया गृह्णातीति प्रकरणावगतस् सोमरसो ऽन्यपदार्थ इत्य् उच्यते. इहापि बुद्ध्यविनाभावावगतस्य प्रमातुर् बहुव्रीह्यर्थत्वं नानुपपन्नम्. पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यद् उक्तं तद् एव दुर्लभलब्धम् इव मन्वानैः कैश्चिद् वल्गितम् इत्य् उपेक्षणीयम् एव. सिद्धान्ते हि गम्यमानाया एव व्यक्तेर् गावौ शुक्लो गौर् इति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति. मञ्चाः क्रोशन्तीति च. आह च --
SK
जातेर् अस्तित्वनास्तित्वे न हि कश्चिद् विवक्षति |
SK
नित्यत्वाल् लक्ष्यमाणाया व्यक्तेस् ते हि विशेषणे ||
SK
इति. धूमो ऽयं ज्वलतीति न भवति. अनभिधानात्. न हि लोकः पर्यनुयोक्तुम् अर्हति. यस् तु वैयात्याद् धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः. नन्व् एवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापकैकदेशदृशो व्याप्यस्मृतिर् अनुमानम् आपद्येत. न त्व् एतद् इष्टम्. व्याप्याद् धि व्यापकज्ञानम् अनुमानम्. ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्याद् अपि विशिष्टैकदेशलाभः. तत्र हि ज्ञातसम्बन्धस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते. सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा. उच्यते. उक्तम् अस्माभिर् नेदम् अलौकिकं किञ्चित् प्रमाणानां स्वरूपम् उपवर्ण्यते. लोकप्रसिद्धम् एव त्व् अपरीक्षाप्रतिपादनार्थं स्वरूपम् अनूद्यते, लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानम् अनुमानम् इति प्रसिद्धम् इति. अस्त्य् अपि हि विशेषणे विशिष्टैकदेशो लभ्यते. अपि चासन्निकृष्टे ऽर्थ इति वदति. न च व्यापकदृशस् साहचर्यमात्रात् व्याप्यस्मृतिर् असन्निकृष्टविषया. पूर्वप्रमाणानधिकार्थाविषयत्वात् स्मृतेः. व्याप्याद् एव त्व् अनुभूतपूर्वनियमाद् व्यापकविशिष्टः पर्वतादिर् अवगम्यते. अत उपपन्नो विशिष्टैकदेशलाभ इति. यत् तु ज्ञातसम्बन्धस्यैकदेशस्येत्य् अत्र षष्ठ्या विशेषप्रतिपादनम् उक्तम्. तद् अयुक्तं व्यापकाद् अपि षष्ठ्युत्पत्तेः. भवति हि कृतकत्वम् अनित्यताया हेतुर् इति व्यवहारः. व्यापिका चानित्यता कृतकत्वस्य. तस्माद् अविशेषितोपादाने ऽपि व्याख्यानतस् सम्बन्धविशेषाद् (एक)देशविशेषलाभो नानुपपन्नः. भवति हि व्याख्यानतो विशेषप्रतिपत्तिर् न तु सन्देहाद् अलक्षणम् इति सूक्तं प्रमाता ज्ञातसम्बन्ध इति.
SK
{३,५} व्याख्यानान्तरम् आह -- एकदेशीति. एकदेशौ हि नैकदेशिनम् अन्तरेण स्याताम् इति आक्षिप्तस्यैकदेशिनो युक्तम् अन्यपदार्थत्वम्.
SK
नन्व् एवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस् तस्यैकदेशस्य दर्शनाद् इत्य् उच्यमाने स एव दर्शनोपसर्जनत्वाद् एकदेशस्यैकदेशिनः सम्बन्धस् सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते. भवेद् एतद् एवम्. यद्य् एकदेशव्यतिरेकजनिता षष्ठी स्यात्. इयं त्व् एकदेशदर्शनव्यतिरेकजनिता षष्ठी तद् अपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्य् एव. कः पुनर् अत्रैकदेशी ज्ञातसम्बन्धः पक्षस् सपक्षो वा. न तावत् पक्षः ज्ञायमानसम्बन्धत्वात्. न च सपक्षः सिद्धत्वेनाननुमेयत्वात्. नैष दोषः. व्याप्तिर् हि न सकृद्दर्शननिर्ग्राह्या. भूयोभिस् तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिर् अवधारिता. न पुनर् अत्रायम् इदानीं वा धूमवान् अग्निमान् इति. अतः पक्षैकदेशिनो ऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः. सामान्यतो गृहीते ऽपि देशादिभेदेन प्रत्यक्षप्रत्यभिज्ञानवन्नानुमानप्रत्यभिज्ञानम् अनुपपन्नम् इति न प्रमेयाभावः. एकदेश्यैकदेशौ चाश्रयाश्रयिणाव् अभिमतौ. न पुनर् अवयवावयविनाव् इति द्रष्टव्यम् इति
SK
कर्मधारयसमासो वायम् इत्य् आह -- कर्मधारयेति. अयम् अर्थः -- ज्ञातश् चासौ संबन्धश् चेति कर्मधारयो ऽयम्. अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता. कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनाव् एकदेशौ. न हि भूधराधारस्य धूमस्यैकदेशो गिरिः. आधेयम् एव तु धूमस् तदेकदेशतया मन्यते. उच्यते. भवत्याधारांशे ऽप्य् एकदेशवाचोयुक्तिः. यथा अवयव्याधारेष्व् अवयवेषु च समूहिष्व् इति निरवद्यम्
SK
द्वयं वान्यपदार्थ इत्य् आह -- द्वयं वेति. सम्बन्धगरहणकाले परस्परसम्बन्धम् उपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धम् उच्यते, तस्य च स मुदायिनाव् एकदेशौ. यथा चैतद् एवं तथा प्राग् एवोक्तम् इति. किं{३,६}पुनः कर्मधारयपक्षे द्वयान्यपदार्थत्वे वा प्रमेयम्. न तावत् सम्बन्धसमुदायाव् एव. तयोः पूर्वम् एवावगतत्वात्. अधुना च धर्मधर्मिविभागेनानवगमात्. न चान्य एकदेशी. तस्यानुपादानात्. न चैकदेशाभ्याम् आक्षेपः. सम्बन्धसमुदायनिराकाङ्क्षत्वात्. न च स्वतन्त्रैकदेशदर्शनात् स्वतन्त्रैकदेशान्तरे ज्ञानम् अनुमानं, सिद्धत्वात्. वक्ष्यति हि न धर्ममात्रं, सिद्धत्वाद् इति. अत्राभिधीयते -- अयम् अत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिद् एकदेशदर्शनात् तत्रैवैकदेशान्तरे बुद्धिर् अनुमानम् इति. कुत एतत्. असन्निकृष्टग्रहणात्. न हि स्वतन्त्रैकदेशो ऽसन्निकृष्टः. क्वचिद् एव पर्वतादाव् एकदेशो ऽसन्निकृष्टो भवति. तत्रानवगतपूर्वत्वाद् इति किम् अनुपपन्नम् इति.
SK
कः पुनर् अत्र सम्बन्धो ऽनुमानाङ्गम् इष्यते. अविनाभावस् तादात्म्यतदुत्पत्तिनिमित्तक इति केचित्. एवं हि तैर् उक्तम्.
SK
कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् |
SK
अविनाभावनियमो ऽदर्शनान् न न दर्शनात् ||
SK
इति. न हि विपक्षसपक्षयोर् अदर्शनाद् दर्शनाद् वाविनाभावसिद्धिः. तेनानियतस्यापि तत्र वृत्तेः सम्भवात्. किञ्चिद्विपक्षव्यावृत्त्या च सर्वविपक्षव्यावृत्त्यसिद्धेः. सर्वविपक्षाणां च युगपद् ग्रहीतुम् अशक्तेः. किन् तु अग्न्यादौ सति धूमादेर् भावाद् असति चाभावात् तदायत्तस्वभावो धूमादिर् इति विदिते तदविनाभावस् सिद्ध्यति. तत्कार्यस्य तम् अन्तरेणात्मलाभाभावात्. तद् अत्राग्नौ दर्शनम् इतरत्रादर्शनं तदुत्पत्तौ हेतुः. ततो ऽविनाभावसिद्धिः. तादात्म्ये ऽपि तत्सिद्धिः तं विना भवतस् तादात्म्यानुपपत्तेः.
SK
नन्व् एवंविधान्वयविरहिणो गन्धान् न रूपरसादयो ऽनुमीयेरन्. न च खलु तस्य रूपम् आत्मा. न च कारणम् इति कथं ततस् तत्सिद्धिः. श्रूयतां यथा सिद्ध्यति. रसाद् एव हि स्वहेताव् अग्नाव् इव धूमाद् अनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिर् इति नानुपपत्तिः. यथाहुः --
SK
एकसामग्र्यधीनस्य रूपादेर् रसतो गतिः |
SK
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ||
SK
{३,७}इति. ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणत्वाद् अवगतिः. न तु रूपरसाव् एककारणकौ. कारणरसा हि कार्ये रसम् आरभन्ते. कारणरूपाणि च कार्ये रूपम्. तत् कुतस् समानकारणता. नैककारणतयैकसामग्र्यधीनत्वम्. किन् तु रसाद् रसहेतुर् अनुमीयमानः प्रवृत्तिरूपजननशक्तिरूपोपादानकारणसहकृतो ऽनुमीयते. तथाविधस्यैव कारणत्वात् प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः. तद् इदम् अनुपपन्नम् यत् तावत् कार्यं कारणेन विना न भवतीति ततस् तज्ज्ञानम् उक्तम्. तद् अयुक्तम्. कथं हि कारणेन विना कार्यम् एव न भवति इत्य् एतद् एवावसेयम्. तद् विना भवतो नित्यं सत्त्वम् असत्त्वं वा स्यात्. ततश् च कार्यतैव हीयेत. उक्तं हि तैः --
SK
नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात् |
SK
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ||
SK
इति. अपेक्षातः कादाचित्कत्वम् अनपेक्षं तु सदसद् वा स्यात्. गगनशशविषाणवद् इति चेत्. यद्य् एवम् अन्यो ऽयं कार्यकारणभावात् स्वभावनियमः यदनपेक्षं तन्नित्यं सदसद् वा भवतीति. यच् च रसाद् रूपावगतिर् एकसामग्र्यधीनत्वाद् इत्य् उक्तम्. तद् अप्य् अयुक्तम्. यद्य् अपि प्रवृत्तिशक्तिरूपोपादानकारणसहकृतो रसहेतुर् अवगतः स्वकार्याद्, रूपं तु कुतो ऽअवगम्यते. प्रवृत्तिसामर्थ्यात् कारणाद् इति चेत्. ननु नादो रूपस्य कार्यं नात्मेति कथं तदवगमे हेतुः. प्रवृत्तिशक्तेः कारणस्य कार्याव्यभिचाराद् इति चेत्. न. तर्हि कार्यतदात्मनोर् एवाविनाभावः कारणे ऽपि (?भावाद्/भवेत्). भवत्व् इति चेत्. न. अग्नेर् अपि धूमानुमानप्रसङ्गात्. अस्त्व् इति चेत्. अतन्त्रं तर्हि कार्यत्वम् अनुमाने. स्यान् मतम्. न प्रवृत्तिसामर्थ्यात् कारणाद् रूपानुमानम्. अपि तर्हि रूपवद्रूपकारणसहकारिणा रसकारणेन रसो जन्यते. सहकारिकारणम् अपि सविशेषणं कारणम् एवेति रसाद् इतरेतरानुगृहीतं कारणचक्रम् अनुभास्यत इति. तन् न. कार्यकारणयोर् अयौगपद्याद् रूपकारणस्य तद्वत्तानुपपत्तिः. पारिशेष्याद् (?दूष्याद्) रूपम् एव सहकारीति वाच्यम्. तत्र च वृथा तत्कारणानुमानपरिश्रमः. रूपं सहकारीत्य् अपि नानिर्णीतरूपरसाविनाभावो ऽनुभवितुम् उत्सहते. प्राग् एव तु तन्निर्णये वृथारूपतद्धेत्वोस् सहकारित्वकल्पना.{३,८}अपि चानुभवविरुद्धम् एवेदम्. न खलु रसम् उपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर् लौकिकानाम्. अपि तर्हि रूपरसयोस् साहित्यनियमात् सहसैव रसाद् रूपम् अनुमीयते. अपि च कार्यकारणभूतयोर् एव बहुलम् अनुमानव्यवहारो दृश्यते इत्य् अनादृत्यं कार्यत्वम् अव्यभिचारे. तादात्म्यम् अपि मेयाभावप्रसङ्गाद् धेयम् एव. किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयम् अवशिष्यते. निर्भागत्वात्. ऐकात्म्ये ऽपि वस्तुनः काल्पनिको भेद इति चेत्, न तावन्निर्भागं वस्तु, भागावग्रहाणां देशादिभेदे ऽप्य् अबाधितानां सम्यक्त्वात्. काल्पनिकभेदाश्रयत्वाच् चानुमानस्य वास्तवम् ऐकात्म्यम् अनङ्गम्. वृक्षव्यवहारो ऽनुमीयत इति चेद् कथम् अनात्मव्यवहारश् शिंशपात्वाद् अनुमीयते. तादात्म्ये वृक्षवदननुमानप्रसङ्गात्. व्यवहारयोग्यतायाम् अप्य् एवम् एवेति यत् किञ्चिद् एतत्. एवम् एव वैशेषिकादिसमयसिद्धा अपि कार्यकारणभावादयस् सम्बन्धप्रकाराः प्रत्युक्ता वेदितव्याः. ते ऽपि ह्य् अनियताननुमानोत्पत्तिकारणम्. अस्तु तर्हि नियमो वानुमानाङ्गम्. न. प्रमाणाभावाद् अनवगतेः. न तावदापातजं प्रत्यक्षम् अस्यावधारणक्षमम्. ईक्षते खल्व् अयं विस्फारिताक्षस् सहसा महानसे धूमम् अग्निना सहितम्. न तु जानाति नियतो ऽयम् अनेनेति. दुरधिगमो हि सर्वभावानां स्वभावनियमः. न तम् उन्नेतुम् उत्सहन्ते झट् इति महान्तो ऽपि. न हि निर्विकल्पकागोचरे विकल्पः प्रमाणम्. तत्पुरस्सरत्वात् तस्य. स्याद् एतत्. देशादिभेदेष्व् अव्यभिचारात् स्वभावनियमो ऽवधार्यत इति. केनावधार्यते सर्वदर्शनानाम् अन्वयमात्रे व्यापारात्.
SK
अथ पूर्वपूर्वज्ञानजनितभावनासचिवम् अन्तिमम् अनेनायं नियत इति भवत्य् आलोचनाज्ञानम्. ततो विकल्पाः प्रवर्तिष्यन्त इति. नैतद् एवम्. इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम्. न च सहभावदर्शनाद् अन्यत्र बहिर् इन्द्रियव्यापारः. न च बहिर् विषयवेदने तन्निरपेक्षम् अन्तःकरणं प्रवर्तते. अपि च निरूपितरूपा अपि भावा देशादिभेदेष्व् अन्यथाभवन्तो ऽनुभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुम् उचितं प्रामाणिकानाम्. तदाहुः --
SK
देशकालादिरूपाणां भेदाद् भिन्नासु शक्तिषु |
SK
भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ||
SK
{३,९}इति तस्माद् वक्तव्यो ऽनुमानाङ्गभूतस् सम्बन्धः. अत आह -- सम्बन्ध इति. व्याप्तिर् हि साहित्यनियमम् अपदिशति. तद्दर्शिनो ह्य् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् उत्पद्यते, अतस् सामान्यवचनो ऽपि सम्बन्धशब्द उपरितनसमभिव्याहाराद् अत्रानुमानलक्षणग्रन्थे विशेषपरो भवति. उपरि चास्यावधारणे प्रमाणं वक्ष्यत इति
SK
यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो द्व्याश्रय इत्य् उभयानुमाने लिङ्गं स्याद् अत आह -- व्याप्येति
SK
अत्र कारणम् आह -- यो यस्येति द्वयेन. सः -- समन्यूनदेशकालो हि व्याप्यो भवति. पूर्वं तावद् यत्रोभयोर् अपि धर्मयोर् व्याप्यव्यापकत्वं. यथा परस्ताद् उदाहरिष्यते. उत्तरस् तु यथा धूमादिः, स हि प्रायेणाग्निदेशकालवर्त्ती भवति. सत्य् अपि चाग्नावभवंस् ततो देशकालाभ्यां न्यूनो भवति. यावन्ताव् अग्नेर् देशकालौ तावन्तौ नास्येति न्यूनत्वं. अत एव चासाव् अग्नेर् व्यापको न भवति. सकलतदीयदेशकालाव्याप्तेः. व्यापकस् तु समाधिकदेशकालः. अत्रापि पूर्वोक्त एव पूर्वः. उत्तरस् तु यथाग्नेर् एव धूमस्य. स हि तस्य देशकालौ तावद् व्याप्नोत्य् एव. असत्य् अपि धूमे भवन् देशकालाभ्याम् अधिको ऽप्य् अभिधीयते. यतश् चानयोर् ईदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता, तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यद् असौ तं विनापि न भवत्य् एव. न ह्य् असाव् अग्निर् इव धूमस्याग्नेर् देशकालाव् अतिक्रम्यापि भवति. येन तं विनापि भवस् तं न गमयेत्. अग्निस् त्व् अनेवंविध इति नासौ धूमस्य गमको भवति. ननु चायं विशेषो{३,१०} ज्ञातसम्बन्धशब्दान् नावगम्यते. स हि सम्बन्धज्ञानमात्रम् अङ्गतया दर्शयति, न व्याप्यताम् इति कुतो विशेषलाभः. उक्तम् अत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थम् इदं भाष्यम्. लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानम् अनुमानम् इति सिद्धम्. न ह्य् अन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयम् इति
SK
ननु व्यापकाद् अपि व्याप्यसंवित्तिर् दृष्टा. अनित्यत्वाद् इव कृतकत्वस्य. भवति हि भावानाम् अनित्यत्वात् कृतकत्वानुमानम्. व्यापकं चानित्यत्वं कृतकत्वस्य. अतो व्यापकं गम्यं व्याप्यं गमकम् इत्य् अव्यापकम् अत आह -- व्यापकत्वेति. अयम् अभिप्रायः. सत्यं व्यापकस्य गमकत्वम्. न तु व्यापकत्वगृहीतस्य. तेन हि रूपेण गृहीतो ऽसौ व्याप्याद् देशकालाधिक्ये ऽपि न विरुध्यते. न चाधिकदेशकालः प्रतिपादको भवति. तं विनापि भावाद् इत्य् उक्तम् एव. ननु व्याप्यतापि तस्यास्ति. अस्तु नाम, वस्तुतस् तत् तु रूपं न गृहीतम् इति कथं गमकत्वम्. अवगते तु ताद्रूप्ये तेनैव गमकत्वं न व्यापकतया. अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तम् इति
SK
व्याप्यत्वम् अङ्गं न व्यापकत्वम् इत्य् एतद् एवासङ्कीर्णोदाहरणेन दर्शयति -- विस्पष्टेति. यत्र व्याप्यव्यापकभावो न सङ्कीर्यते, तत्र विस्पष्टम् एवैतद् उपलक्षितम्. यथा व्याप्यं गमकं व्यापकं गम्यम् इति. गोविषाणित्वयोर् हि व्याप्यं गोत्वं व्यापकं विषणित्वम् अनुमापयति न तु विषाणिता गोत्वम्. व्यापिका हि सा. मितौ -- अनुमाने. गोविषाणित्वयोर् अयं गम्यगमकविवेको दृष्ट इत्य् अर्थः
SK
{३,११} एवम् असङ्करे गम्यगमकविवेकाद् यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वम् एव गमकत्वे कारणम् इति निष्कृष्यत इत्य् आह -- तेनेति
SK
ननु व्याप्तिर् अनुमानाङ्गम् इत्य् उक्तम्. कस्य पुनर् इयं संयोगिनस् समवायिनस् सम्बन्धिसम्बन्धिनो वा. न ह्य् अत्र व्यवस्थाम् उपलभामहे. सर्वेषाम् अप्य् अनुमापकत्वात्. तद् यदि संयोगी व्याप्यः. रसाद् रूपानुमानं न स्यात्. अथ समवायी धूमाद् अग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश् च पित्रोर् ब्राह्मणत्वात् पुत्रस्य ब्राह्मणत्वानुमानम् इत्यादि दर्शयितव्यम्. अपि च व्याप्तिर् इत्य् अन्वयो ऽभिधीयते. उपश्लेष इति यावत्. न चासौ भूमौ प्रतिष्ठितेनाग्निना गगनगतस्य धूमाग्रस्य सम्भवति. न च भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानः ऋक्षोदयो ऽन्वेति. व्याप्तिश् च कस्यचित् केनचिद् भवन्ती देशतो वा स्यात् कालतो वा. पूर्वस्मिन् कल्पे भाविनस् सवितुर् उदयस्याद्यतनार्कस्यैवोदयात् अष्टौ यामानतिक्रम्यानुमानं न स्यात्. परस्मिन् धूमाद् अग्न्यनुमानम् इत्यादि पर्यनुयोक्तव्यम्. अत आह -- तेनेति द्वयेन. येन खल्व् अपि विवक्षितावान्तरविभागं व्याप्यतामात्रम् अनुमानाङ्गम् तेन कारणेन यस्यैव संयोगादीनाम् अन्यतमस्य, येनैव तेषाम् अन्यतमेन, यादृशी उपश्लेष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति. न ह्य् उपश्लेषो व्याप्तिः. उक्तं हि -- सम्बन्धनियमो ऽसाव् इति. स चानुपश्लिष्टेनापि भवति. यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्य् उच्यते. किम् अत्रोपश्लेषेण. न चात्र देशादीनाम् अन्यतमविवक्षा. यावति हि देशे काले वा वर्तमानस्य यस्य व्याप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्य् एव देशादौ वर्तमानस्य स व्याप्यांशस् तादृग् एव, गगनादिवर्त्तिधर्म्यन्तरे दृष्टान्तधर्म्यपेक्षया साध्यधर्मिणि दृष्टस् सन् प्रतिपादको भवति.{३,१२} नियमो ह्य् अनुमानाङ्गम्. स च सर्वेषाम् अविशिष्ट एव किम् अवान्तरविभागेन. देशे यावतीत्य् अनतिदूरम् अधिरूढस्य धूमादेर् दूरतरवर्त्तिनो ऽपि नदीपूरस्य व्याप्तिं दर्शयति. शङ्कुच्छायायाश् च नितान्त(दूर)वर्तिना ऋक्षोदयेन. यावति काल इति च भाविनस् सवितुर् उदयानुमानादाव् अपि व्याप्तिं दर्शयतीति
SK
नन्व् अस्यां व्याप्तौ न किञ्चित् प्रमाणम् अस्तीत्य् उक्तम् अत आह -- भूयोदर्शनेति. कथं पुनर्भूयोदर्शनगम्या व्याप्तिः. किं हि तत्र प्रत्येकम् एव भूयांसि दर्शनानि प्रमाणम् आहोस्विद् दर्शनसङ्घातः पूर्वतनदर्शनाहितसंस्कारसचिवम् अन्तिमं प्रमान्तरं वा भूयोदर्शनप्रभवम्. तत्र न तावत् प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिर् इत्य् अवसितम् एव. नो खल्व् अस्य सहसाग्निधूमाव् अग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिर् आविरस्ति. न चाननुभूतम् अविकल्पकेन सविकल्पकेनापि विषयीक्रियते. न चानेकदर्शनारब्धो दर्शनसमुदायः कश्चिद् अस्ति, तस्य दर्शनातिरेकेणाभावात्. निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात्. पुरस्तनानेकदर्शनाहितसंस्कारसहायम् अन्तिमं तु दर्शनं कतरत् प्रमाणम् इति चिन्तनीयम्. न तावत् प्रत्यक्षम्. तद् धि द्वेधा विभक्तम्. आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम्. न तावत् पूर्वं व्याप्तेर् अवधारणे समर्थम् अप्रतिसन्धानात्. व्याप्तेश् चायम् अनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात्. न च तदनपेक्षम् उत्तरम् आत्मानं लभते. यच् चेदं संस्काराणां साचिव्यम्, इदम् अपि न चतुरश्रम्. संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रम् आदधति. न पुनरर्थान्तरग्रहणाय कल्पन्ते. प्रत्यक्षे च व्याप्तिप्रमाणे कथम् अतद्विषयाणां व्याप्तिसिद्धिः. भवति हि यथायथं दृष्टानुमितश्रुतेभ्यः कर्मफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम्. न च तत्तत्कर्मनियमस् तस्य तस्य पश्वादेः फलस्यापरोक्षम् ईक्ष्यते अतीन्द्रियत्वात्. यच् चेदम् अध्वरे{३,१३}वितते वैदिकाद् अङ्गात् प्रधानाच् चापूर्वानुमानम्, तद् अपि न स्यात्. व्याप्त्यवधारणे प्रमाणाभावात्. मेघाभावाच् च वृष्ट्यभावानुमानम् इत्यादि दर्शयितव्यम्. अतो न तावत् प्रत्यक्षा व्याप्तिः. न चानुमानिकी. प्रमाणाभावाद् एव तदधीनात्मलाभस्य तस्यानुपपत्तेः. शब्दस् त्व् अनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति. उपमानम् अपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनस् सत्तां प्रमिणोति. अर्थापत्तिर् अप्य् अन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा. न च सहितावधारितयोर् असत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम.
SK
ननु कार्यता नोपपद्यते. कथं हि कार्यम् असति कारणे भवति. भूयोदर्शनसमधिगम्यं च कार्यत्वम् इति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः. कथम् इदानीम् अकार्यकारणभूतेषु व्याप्तिस् सेत्स्यति. भूयांसि दर्शनान्य् एवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिम् अन्तरेण न सम्भवति स्वरूपं, तावच् च कारणसामग्रीकं हि वस् सिद्धम्. स्वगोचरप्रकाशनम् अपि स्वत एव विषयस्यापि स्वप्रमाणपरिच्छिन्नस्य न किञ्चिदनुपपन्नं पश्यामः. न चासौ प्रमाणान्तरेण प्रतिहन्यते. यन्नोपपद्येत. न च भावस्वरूपा व्याप्तिर् अभावेन प्रमीयत इति साम्प्रतम्. तत्रासाव् अभावप्रमाणिका न स्याद् एव.
SK
स्यान् मतम् -- केयम् अन्या धूमस्याग्निना व्याप्तिर् अनग्निनिवृत्तेः. सा चाभावरूपत्वाद् अभावेन प्रमीयत इति युक्तम् एव. तन् न. वस्तुरूपत्वात्. वस्तुरूपो हि स्वभावो धूमादेः केनचिन् नियतः. इतरया व्यावर्तते खल्व् अयं शशविषाणाभावाद् अपीति शशविषाणेनापि नियम्येत. कथम् असता नियम्यत इति चेत्. को दोषः. व्यावृत्तिर् हि नियमः, सा चास्तीति किं शशविषाणस्य सत्त्वासत्त्वाभ्याम्. यदि मतं विपक्षव्यावृत्तिर् नियम इति. को यं विपक्षो नाम. यो हि येन नियम्यते तस्य तत्परिपन्थी विपक्षः. व्याप्यते च शशविषाणेन तदभावान् निवृत्तो धूम इत्य् अनग्निर् इव तदभावो ऽपि विपक्ष एव. अपि चाशेषविपक्षाणाम् उपलब्ध्ययोग्यत्वान् न तेभ्यो निवृत्तिर् अभावेन शक्यते ऽवगन्तुम्. योग्यप्रमाणाभावो{३,१४}ह्य् अभावे प्रमाणम् इति वक्ष्यते. अतो न किञ्चिद् व्याप्तौ प्रमाणम्. मानसम् इति चेत्. न. बहिरस्वातन्त्र्यात्. तत्रैतत् स्याद् -- यद्य् अप्य् बहिरिन्द्रियाण्य् अतीतानागतादिभिर् भावभेदैर् व्याप्तिं ग्रहीतुम् असमर्थानि, मनस् तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिद् इति तद्बलभाविना प्रत्यक्षेण व्याप्तिर् ग्रहीष्यत इति. तच् च नैवं, बहिरस्वातन्त्र्यान् मनसः. नो खल्व् अपि बहिर्विषयबोधे मनस्स्वतन्त्रम् इति वर्णितम्. तथा हि. मनसस् सार्धम् इत्य् अत्र. स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वस् सर्वदर्शी स्यात्. संस्कारतो व्यवस्थेति चेत्. न. स्मृतिहेतुत्वात्. तत्रैतत् स्यात् -- यद्य् अपि केवलम् अस्वतन्त्रं मनो बहिर्विषयावधारणे, तथापि पूर्वपूर्वानुभवजनितसंस्कारसनाथं बहिर् अपि वर्तीष्यते चक्षुराद्यनुगृहीतम् इव रूपादौ. अतो नाव्यवस्था. तच् च नैवम्. स्मृतिहेतुत्वात्. स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभावितास् संस्कारा नोत्सहन्ते मनसो बहिरवग्रहे ऽनुग्रहम् आधातुम्. स्मृतिविषयान्तराणाम् अपि ग्रहणप्रसङ्गात्. अस्ति हि तत्रापि स्मृतिहेतुस् संस्कारः. स चेद् ग्रहणे क्वचिन् मनसस् सहायी भवतीति किं न स्मृतिविषयान्तराण्य् अपि ग्राहयतीति यत् किञ्चिद् एतत्.
SK
यस् तु वदति -- साहित्यम् अग्निधूमयोस् सम्बन्धः. स च प्रथमसमधिगमसमय एव संविदितः. अनवच्छिन्नदेशकालश् चाग्निधूमयोस् सम्बन्धो भासते. न हीदानीम् अत्र वा तयोस् सम्बन्ध इति भवति मतिः. अपि तर्हि सन्निहितवर्तमानयोर् एवेदन्तया प्रतिभासमानयोर् देशकालौ सम्बन्धश् च तयोर् विशेषणम् इमौ सम्बद्धाव् इति. नेदानीम् अत्र वा सम्बन्ध इति. तद् एवम् अनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति. स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती. किम् इदानीम् अनङ्गभूतम् एव भूयोदर्शनम्. नानङ्गम्. अङ्गं त्व् औपाधिकाशङ्कानिराकरणेन. वह्निर् हि धूमेन संयुक्तस् संवेदितो ऽपि कदाचिद् विधूमो दृश्यते. तत्रार्द्रेन्धनादिर् उपाधिर् अनुप्रविशति. न तु स्वाभाविको ऽग्नेर् धूमेन संबन्ध इति निश्चीयते. तद्दर्शनाच् च धूमे ऽपि भवति शङ्का. कदाचिद् औपाधिकः पावकेनास्यापि संबन्ध इति. सा भूयोदर्शनेन निवर्त्यते. बहुशो ऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिद् उपाधिर् उपलभ्यते. प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर् नास्तीति निश्चीयते. तद् एवं{३,१५}धूममात्रानुबन्ध्यग्निर् इति सिद्धं भवति. ततश् चानौपाधिकस्य न व्यभिचाराशङ्केति. स वक्तव्यः किम् इदानीं साहित्यमात्रम् अनुमानाङ्गं तन्नियमो वा. यदि साहित्यमात्रं तत् तर्हि प्रथमदर्शन एव समधिगतम् इति पुनर्धूमदर्शिनो ऽविदितव्याप्तेर् अप्य् अनुमानं स्यात्. अथ तन्नियमः, तस्यैवेदं प्रमाणम् अनुस्रियते कुतस् सिध्यतीति. न हि प्रथमदर्शिनो ऽयम् अनेन नियत इति मतिर् आविर्भवन्ती दृश्यते. अनवच्छिन्नदेशकालतयावगतस् संबन्धः स्वाभाविको भवति, ततो नियम इति चेत्. स तर्हि तथाविधः प्रथमम् एवावगत इति भूयोर् दर्शनं नापेक्षेत. तथा दृष्टस्याप्य् अग्नेर् धूमसंबन्धो व्यभिचरति. तद्दर्शनाच् च धूमे ऽपि व्यभिचाराशङ्का जायते. तन्निराकरणायासकृद्दर्शनापेक्षेति चेत्. यद्य् अनवच्छिन्नस्यापि देशतः कालतो वा कदाचित् कस्यचिद् वियोगो दृश्यते. कस् तर्हि इतरत्रापि समाश्वासः. नन्व् इयम् आशङ्का भूयोदर्शनेन निराक्रियत इत्य् उक्तम्. कथं निराक्रियते. यदा शतशो ऽपि धूमवान् अग्निर् अवगतो विधूमो दृश्यते. न चात्र प्रतिनियमः इयद्भिर् दर्शनैर् अव्यभिचारः सिध्यति इति.
SK
ननु धूमस्याप्य् अग्निसंबन्धे न कश्चिद् उपाधिर् उपलभ्यते अग्नेर् इव धूमसंबन्धे. अतः कथम् असौ सत्य् अपि धूमे न भविष्यति. न. देशादेर् एवोपाधित्वेन शङ्क्यमानत्वात्. अग्नौ धूमसंबन्धव्यभिचारम् उपलभ्याशङ्कते -- कदाचिद् धूमस्याप्य् अग्निसम्बन्धे देशकालाद्युपाधिः स्याद् इति. दृष्टं हि क्वचिद् देशे खर्जूराणां पिण्डखर्जूरफलत्वम्. वृश्चिकदंशनस्य च मरणकारणत्वम्. तद्देशान्तरे न भवति. तद्वत् धूमो ऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिद् इति शङ्कमाना न तस्य नियमम् अग्निनाध्यवस्यन्ति शतांशेनापि. विपक्षाद् व्यावृत्तिश् शङ्क्यमाना अनुमानोदयं प्रतिबध्नातीति कतरच् चेदं प्रमाणम्, अनौपाधिको ऽग्निर् धूममात्रानुबन्धीति. न तावत् प्रत्यक्षम्. साहित्यमात्रोपक्षीणत्वात्. नानुमानम्. तस्यासत्यां व्याप्तावसम्भवात्. व्याप्तिसिद्ध्यर्थं चापरापरानुमानकल्पनायाम् अनवस्थापातात्. प्रमाणान्तराणि निराकृतपूर्वाण्य् एव. अतो व्याख्येयम् अनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद् व्याख्यायते.
SK
{३,१६} इदं तावत् प्रमाणाभाववादी वक्तव्यः. किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा. त्रेधा हि परीक्षकैर् अप्रामाण्यं विभक्तम्. प्रकारान्तरासम्भवात्. न तावदाद्यः पक्षः. संविद्व्यवहारविरोधात्. दृश्यते हि बहुलं धूमम् अग्नाव् उपलभमानो ऽयम् अनेन नियत इत्य् अवधारणपुरस्सरं ततो ऽग्निम् अनुमाय तदनुरूपं व्यवहरमाणः. तन्नासत्यां व्याप्तिसंवित्ताव् उपपद्येत. व्यवहारदर्शनाद् एव संशयविपर्ययौ निराकार्यौ. ताभ्याम् एवंविधव्यवहारासम्भवात्. अतो न तावद् अप्रामाण्यम्. प्रामाण्यं तु षोढा विभज्यते. तद् यथायोग्यं कस्यचित् कस्याञ्चित् व्याप्तिसंवित्तौ व्यवस्थापयामः. यथैव तावद् धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य. न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितम् एव.
SK
ननु प्रथमदर्शने ऽनवगमात् प्रत्यक्षासम्भवो ऽप्य् उक्त एव. अत एव भूयोदर्शनावगम्यत्वम्. ननु तान्य् अपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोर् असम्भवात्. सत्यम्. न प्रत्येकं व्याप्तिर् अवगम्यते. न च दर्शनानि संहन्यन्ते. प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नतत्त्वम् एव परीक्षमाणस्य, शब्दतत्त्वम् इव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणतम् एव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद् विविक्तम् इव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य. न ह्य् एतत् सर्वम् आपातान् न प्रतिभातम् इति परस्ताद् अपि भासमानम् अन्यथा भवति. न च प्रमाणान्तरत्वम् आपादयति. ननूक्तं न स्मृतेर् अन्यत्र संस्कारा व्याप्रियन्त इति. केन वा संस्काराणां स्मृतेर् अन्यत्र व्यापार उपेयते. स्मारयन्त एव तु ते पूर्वपूर्वावगतम् अग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुम् अभिप्रवृत्तस्येन्द्रियस्य सहायीभवन्ति. आन्तरालिकस्मृतिव्यवहितम् अपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षम् इति वर्णितम्. इन्द्रियसम्बन्धफलापरोक्षाव् अभासानुसारात्. न च यत् सहसा न प्रतिभाति तत्पशाद् अपि प्रतिभासमानं प्रत्यक्षतां जहाति. यथोदाहृतेष्व् एव तावत् ब्राह्मणस्वम्.
SK
ननु न तावद् आपातजं प्रत्यक्षं व्याप्तौ प्रमाणम् इति भणितम्. तत्पूर्वकं च सविकल्पकम् इति कथं तस्यापि प्रामाण्यम्. अस्ति वा ब्राह्मणादिप्रत्यक्षे{३,१७}निर्विकल्पकावस्थायां वृद्धादाव् इव नरान्तरविविक्ताकारप्रतिभासः. येन परस्तात् सविकल्पकं प्रवर्तते. यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणो ऽयम् इति प्रत्यक्षं जायते, एवम् इहापि बहुशो ऽग्निधूमदर्शिनो ऽन्तिमे दर्शने निर्विकल्पकावृत्तधूमस्वलक्षणस्याग्निना नियतो ऽयम् इति धूमस्वभावगोचरं प्रत्यक्षम्, एतावद् एव सविकल्पकस्य निर्विकल्पकपूर्वत्वम्, यत् तज्जन्मपूर्विका प्रवृत्तिः, संज्ञादिस्मरणार्थं हि तत् प्रथमम् अर्थ्यते. तच् चेह व्यक्तिदर्शन एव पूर्वसंस्कारोद्बोधात् सिद्धम् इति नावश्यमनयोस् समानविषयता. अत एव तैलविविक्तविलीनाज्यबोधे तैलम् इदम् इति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पकप्रत्यक्षत्वसिद्धिः. न हि तत्रासङ्कीर्णा घृताकारा संविद् आसीत्. तैलम् इदम् इति विपर्ययात्. अतः परस्ताद् एव सहकारिवशात् निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतम् इदम् इति सविकल्पकं प्रत्यक्षम् आविरस्ति. एवम् इहापीति न दोषः. किं पुनर् इह सविकल्पकेन विषयीक्रियते. नियतो ऽयम् अनेनेति नियमः. अस्य हि बहुलं धूमम् अग्नाव् उपलभमानस्यानग्नौ च व्यतिरेकम् अन्ते भवति विमर्शः -- अपि स्याद् व्याप्तो ऽयम् अनेनेति. कथम् अपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृणदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतो ऽग्निम् एवानुधावत्यनग्नौ च न भवति. ततः परं च यथाग्निर् धूमभास्वरत्वादिपरित्यागेनापि (?दु/कु)कूलालातादौ वर्तमानोष्णत्वम् अजहत् तन्नियतो भवति. एवम् अग्निना धूम इत्य् अपरोक्षनिश्चयो जायते. यत् तु देशान्तरादौ व्यभिचार इति, तन् न तावद् दृष्टपूर्वं नापि श्रुतम् इति नाशङ्काम् अधिरोहति. एवम् अपि तु शङ्कमानस्य सर्वप्रमाणेष्व् अनाश्वासः क्वचिद् व्यभिचारदर्शनात्. यत् त्व् अवधारितो ऽपि स्वभावनियमो देशान्तरादाव् अन्यथा भवति वृश्चिकादेर् इति. तन् न. अवान्तरजातिभेदात्. न हि यद् येन नियतम् अवगतम् अबाधितं च तदन्यथा भवति. अवान्तरजातिभेदात् तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद् व्यभिचारः.
SK
ननु अनुमानम् एव किं नेष्यते. यद् औपाधिकं तद् व्यभिचरति. अग्निर् इव धूमम्. न च तथा धूमो ऽग्निम् इत्य् अनौपाधिक इति. भवत्व् एवम्.{३,१८}अव्यवस्था तूपस्थिता. अर्थापत्तिस् तर्हि भवतु. इदम् एव चाग्नौ दर्शनम् अनग्नौ चादर्शनम् अनुपपद्यमानम् अग्निना नियमं प्रतिपादयति. किम् अत्र नोपपद्यते. दर्शनं तावत् तत्र भवतीत्य् एतावतैवोपपन्नम्, न हि यद् एकत्र भवति तेनान्यत्र न भवितव्यम्. अन्यत्र भवतो ऽदर्शनम् अनुपपन्नम् इति चेत्. न. विप्रकृष्टानाम् अन्येषाम् अप्य् असन्निकर्षाद् अदर्शनोपपत्तेः. सन्निहितेष्व् अनग्निष्व् अदर्शनम् अनुपपन्नम् इति चेद् अभावाद् उपपत्तेः. तेषु ह्य् असौ नास्त्व् एव, कथम् उपल(?भ्यते/भ्येत). तत्र सताप्य् अन्यत्रापि न भवितव्यम् एवेति किम् अत्र प्रमाणम्. अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणम् अपरोक्षं जायत इत्य् एवं समर्थनीयम्. नन्व् एतद् एव न विद्मः. कीदृशो ऽसौ वस्तुनः स्वभावो ऽवधार्यत इति. उक्तम् असकृद् धूमो ऽग्निना नियत इति. एतद् उक्तं भवति -- यदा यत्र धूमस् तदा तत्राग्निर् इति.
SK
ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धो ऽस्तु प्रत्यक्षः. अनागतादिसम्बन्धस् तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात्. न. सन्निहितरूपमात्रोपलम्भात्. रूपम् एव तु तादृशं धूमादीनां यद् एवम् उन्नीयते, स्थिरम् इव रूपं कुड्यादीनाम्. अस्ति हि तेषु विध्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः. सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपम् अप्रत्यक्षं भवति. अप्रत्यक्षे हि तस्मिन् नेदं रजतम् इति पूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात्. स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्बाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते. कालान्तरसम्बन्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालम् अपि व्याप्नोतीति भवति समानविषयताम् आसाद्य बाधः.
SK
ननु यद् वस्तुनो रूपं तत्परानपेक्षम् अवगम्यते, अग्नेर् इवोष्णत्वम्. न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपम् अवगम्यत इति कथं वस्तुरूपत्वम्. मैवम्. सम्बन्धो ह्य् असौ, कथम् अनवगते प्रतिसम्बन्धिन्य् अवसीयते. यथाह --
SK
नियमो नाम सम्बन्धः स्वमतेनोच्यते ऽधुना |
SK
इति. अतो यद् एतद् अग्निना धूमस्य नियतत्वं भावात्मकम् इदं तत्प्रत्यक्षेणावगम्यत इति किम् अनुपपन्नम्. यथा चानग्निनिवृत्तिर् न नियमः तथा वर्णितम् एव. विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर् व्याख्याय परेभ्यः प्रतिपाद्यते.{३,१९}ननु नियम्यत्वम् अपि कर्मकारकत्वं, तच् च शक्तिरूपं कथं प्रत्यक्षम्. न. कारकान्तरप्रत्यक्षवद् उपपत्तेः. कारकान्तरशक्तयो ऽपि हि न प्रत्यक्षाः, अतो ऽसत्य् एव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षम् एषितव्यम्. एवम् इहापि नियम्यः प्रत्यक्षो भविष्यतीति किम् अनुपपन्नम्. अतस् सिद्धं तावत् प्रत्यक्षत्वम्. आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमाद् अनेनैव कर्मणेदं फलं व्याप्तम् इति शास्त्राद् अवगम्यते. नियतसाध्यत्वावगमात्. मेघाभाववृष्ट्यभावयोश् च स्वतन्त्राभावप्रतीत्यसम्भवाद् भावयोर् एव कथञ्चिद् व्याप्तिसंवेदनम्. मेघाभावो नाम नभस एवावस्थाविशेषः. जलधरनिरोधनिर्मुक्तस्य निर्वातस्तिमितमहार्णवप्रतीकाशम् आकाशस्य वपुस् संलक्ष्यते. वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावः. तच् च रूपम् उभयस्यापि प्रत्यक्षसमधिगम्यम् एवेति तद् एव तत्र व्याप्तिप्रमाणम्. एवम् अन्यत्रापि दर्शयितव्यम् इति. भवतु तावद् अन्यद् व्याख्यास्याम इति समधिगतं तावद् व्याप्तेस् स्वरूपं प्रमाणं च. इदं तु चिन्तनीयम्. कस्य केन व्याप्तिर् इति. न ह्य् एकत्र विदिताव् अग्निधूमविशेषौ प्रदेशान्तरे दृश्येते. यत् तयोर् एकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर् भवेत्, अतो वाच्यं व्याप्तेर् अधिकरणम्. अत आह -- सामान्येति. सत्यं न विशेषयोर् व्याप्तिः, सामान्यात्मनोर् एव तु कस्यचिद् धर्मिणो धर्मयोस् तत्तद्भेदपरित्यागेन व्याप्तिर् अवगम्यते धूमाकृतिर् अग्न्याकृत्या नियतेति. अतो न कश्चिद् दोष इति. इदं तु प्रायिकम्, स्थायिनोस् तु विशेषयोर् अपि क्वचिद् व्याप्तिर् भवत्य् एवेत्य् आह -- क्वचिद् इति
SK
अत्रैवोदाहरणम् आह -- कृत्तिकोदयम् इति. यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिः कथ्यते -- अनन्तरम् उदेष्यति रोहिणीति, तस्मिन्न् अनुमाने विशेषस्यैव विशेषेण व्याप्तिः. न हि तयोस् सामान्यम् अस्ति. व्यक्तिभेदे प्रमाणाभावात्. प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति. कथम् अन्या भविष्यति. अतस् सिद्धं विशेषयोर् एवात्र व्याप्तिर् इति.
SK
यदि तर्हि व्याप्तिर् अनुमानाङ्गम्, अस्ति खल्व् असौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्व् इत्य् अतः क्रताव् अपि हिंसात्वाद् अधर्मत्वम् अनुमीयते. तत्र{३,२०}दैक्षपशुहिंसादीनाम् अधर्मत्वं प्रसज्येतेत्य् अत आह -- व्याप्तेश् चेति द्वयेन. अयम् अभिप्रायः -- सत्यम् आपाताद् भवति भ्रमः, यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वम् इति. न त्व् एतद् एवम्. निर्ज्ञातेन ह्य् अधर्मत्वेन हिंसात्वं व्याप्यते. न च शास्त्रादृते तज्ज्ञानोपायस् सम्भवति. न च हिंसात्वमात्रम् अनर्थसाधनम् इति शास्त्रम् अस्ति. विशेषहिंसाया विहितत्वात्. विध्यवरुद्धविषये च प्रतिषेधानवकाशात्. प्रतिषेधम् अन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात्. अतः परिहृत्यापवादविषयम् उत्सर्गो ऽभिनिविशत इति हिंसान्तराणि न हिंस्याद् इति प्रतिषेधो ऽवलम्बते. एवं च यद्य् अपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोस् साहित्यम् अवगतं, तथापि न हिंसात्वम् अधर्मत्वप्रयोजकम्. किन् तु निषिद्धत्वम्. असत्य् अपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादाव् अधर्मत्वसिद्धेः. अतो य एवास्मिन् सत्य् एवास्य भवितुं शक्तिर् अस्ति इत्य् अनेन रूपेण निरूप्यते. व्याप्यतयावगम्यत इति यावत्. स एव धर्मः प्रयोजक इत्य् उच्यते. परप्रयुक्तव्याप्त्युपजीविनस् तु हिंसात्वादयः, न तैर् अधर्मत्वादिव्यापकांशो ऽवधारयितुं शक्यते. न हि बाह्यहिंसा हिंसेत्य् एवाधर्मः, किन् तु निषिद्धेति. अतो न क्वचिद् विहितानां दैक्षपश्वादिहिंसानाम् अधर्मत्वम् इति
SK
ये त्व् एवंजातीयकान् अप्य् अप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैः प्रतिहेत्वादिदोषैश् चिरं भ्राम्यन्ति. शक्यते हि प्रतिहेतुर् दर्शयितुं, दैक्षपशुहिंसा धर्मः विहितत्वाद् अग्निहोत्रादिवद् इति. प्रयोजके हि हेताव् एवंजातीयका दोषा नास्पदं लभन्ते. अप्रयोजके तु सुलभा एव. तद् एतद् आह -- ये त्व् इति. विस्रब्धम् इति क्रियाविशेषणम्. यथा विश्वासो भवति तथा प्रयुञ्जत इत्य् अर्थः
SK
{३,२१} प्रतिहेत्वादिदोषैर् भ्राम्यन्तीत्य् उक्तम् तान् एव दोषानुपन्यस्यति -- तेष्व् इति. प्रतिहेतुस् तावद् अस्माभिर् उक्त एव. आगमविरोधो ऽप्य् एवंवादिनाम् आपद्यत एव, आगमैकप्रमाणत्वाद् धर्माधर्मयोः. क्वचिद् इष्टविघातः क्वचिद् अलौकिकविवाद इति
SK
आगमविरोधोदाहरणं तावद् आह -- निषिद्धत्वेनेति. इदं चानागतावेक्षणन्यायेन प्राग् एवास्माभिर् व्याख्यातम् इति
SK
इष्टविरोधोदाहरणम् आह -- हेतुद्वयेति. बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तिमत्त्वेन वा प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वाद् अनयोः. ज्ञानत्वाद् एव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुः, धर्मधर्मिस्वरूपस्वविशेषयोर् अपि प्रतिक्षेपात्. सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच् चालोकिकविवादो ऽप्य् अत्रैव दर्शयितव्यः, न हि सर्वविज्ञानानि मिथ्येत्य् एवंविधं विवादं लौकिकास् सहन्ते. सहसैव ह्य् एवंविधविवादश्राविणाम् उद्वेगो जायते. यथा -- अचन्द्रश् शशीत्यादौ. अतो ऽयम् अलौकिको विवादः. तथा चोक्तम् --
SK
सर्वलोकप्रसिद्ध्या च पक्षबाधो ऽत्र ते ध्रुवम् |
SK
इति
SK
अपरम् अप्य् आगमविरोधस्योदाहरणं दर्शयति -- त्रैवर्णिकेति. सन्ति खलु स्वर्गकामो यजेतेत्य् एवं विहितानि सोमादीनि कर्माणि. तेषु किं{३,२२}चतुर्णां वर्णानाम् अधिकारः, उतापशूद्राणां त्रयाणाम् इति संशये चतुर्णाम् इति प्राप्तम्, चत्वारो ऽपि हि वर्णाः स्वर्गं कामयन्त इति स्वर्गकामपदेनाभिधीयन्ते. स्वर्गकामश् चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम् -- अपशूद्राणाम् अधिकार इति. विद्याग्निसाध्या हि ते क्रतवः. अनग्निर् अविद्वांश् चान्तिमो वर्णः. कथम् असौ वैतानिके कर्मण्य् अधिक्रियते. ननु श्रुत्यर्थावगताधिकारसामर्थ्याद् एव शूद्रस्याप्य् अग्निविद्ययोर् आक्षेपो भविष्यति. न. अविधानात्. त्रैवर्णिकस्यैव अष्टवर्षं ब्राह्मणम् उपनयीत वसन्ते ब्राह्मणो ऽग्रीनाद् अधीत इत्य् एवमादिभिर् अग्निविद्ये विहिते. न चानियमेनैव ते शूद्रस्यापि भविष्यत इति शक्यते वक्तुम्. को हि प्रतिलब्धविद्याग्निसम्बन्धस् त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालवयोवस्थम् उपनयनमाधानं वा जधन्यवर्णस्योपकल्पयितुम् उत्सहते. अतस् त्रैवर्णिकत्वप्रयुक्तम् एव यागादीनां स्वर्गहेतुत्वम्. न मनुष्यत्वमात्रेण शूद्रसमवायिना प्रयुज्यते. तद् यदि कश्चिद् अनुमानकुशलः प्रयुङ्क्ते शूद्रकृतो यागः स्वर्गहेतुः मनुष्यकृतत्वात् त्रैवर्णिकाचरितयागवद् इति. तस्यागमविरोधः. नन्व् आगमविरोध उदाहृत एव, किं पुनस् तदुदाहरणेन. उच्यते. पूर्वम् अधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितः, व्यक्तम् एव दैक्षपशुहिंसा विधीयमानत्वाद् अर्थसाधनम् इत्य् एतद् अवगम्यते, कथम् असाव् अधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात्. इह तु शूद्रकृतस्य यागादेः स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते. किन् तु त्रैवर्णिकाधिकारलाभाद् अर्थाद् इतरनिरास इति विशेषः
SK
अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भनार्थम् उदाहरणान्तराणि दर्शयति -- कृतेति द्वयेन. प्रयत्नानन्तरज्ञानसदृशाः प्रत्ययानवस्थानादयो ऽभिमताः तैश् शब्दगोचरैस् तस्य विनाशिता न प्रयुज्यते. कृतकत्वादिप्रयुक्ता ह्य् असौ. न च कृतकत्वम् एव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम्. आकाशादिभिर् व्यभिचारात्. यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता,{३,२३}किम् इदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश् च महीमहीधरोदधिप्रभृतयः. सत्यम्. सर्वम् एव सावयवं विनाशधर्मकम्, महीमहीधरादयो ऽपि समासादितस्वावयवसंयोगविभागविशेषा भागशो नश्यन्त्य् एव. निरन्वयम् तु विनाशं न कस्यचिद् अभ्युपगच्छामः. एवं महाभूमेर् अप्य् आवापोद्वापभेदान् नाशो दर्शयितव्यः. तथा यद् अपि वैशेषिकैर् जातिमत्त्वाद् ऐन्द्रियकत्वाच् च शब्दानित्यत्वम् अनुमितं, तद् अप्य् अयुक्तम्. एतद् धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनम् एव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते. किम् इदं वस्तुसन्मात्रनिबन्धनम् इति, परमार्थसन्निबन्धनम् इत्य् उक्तं भवति. परमार्थसन्त एव घटाकाशात्मादय इन्द्रियविषया जातिमन्तश् च, न भ्रान्तिसंविदिताः शशविषाणादय इवेति
SK
एवम् अप्रयोजकस्यासाधकत्वम् उक्तम् उपसंहरति -- तस्माद् इति. अयम् अर्थः -- य एव निषिद्धत्वादिर् अर्थो यस्याधर्मत्वादेस् साधनशक्तियुक्तत्वेनावगतः. अस्मिन् सत्य् अमुना भवितव्यम् इतीदृश्या शक्त्यावधार्यत इति यावत्. नियम्यशक्तिर् एव हि साधनशक्तिर् इत्य् आख्यायते, नियतावगतो हि नियामकं शक्नोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वाधिः. निषिद्धत्वेनान्वेतुम् अभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद् धि हिंसात्वम् अप्य् अन्वितम् इति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति
SK
एवं तावत् सर्वप्रकारो ऽनुमानाङ्गभूतस् सम्बन्धपदार्थो व्याख्यातः. इदानीम् एकदेशदर्शनाद् एकदेशान्तरे बुद्धिर् इति व्याख्येयम्. तत्र चैतद् एव तावद् वक्तव्यम्. स्वतन्त्रैकदेशदर्शनात् तथाविधैकदेशान्तरे ज्ञानम् अनुमानम् इत्य् आपद्येत. तच् चायुक्तम्. स्मरणं हि तत्, कथम् अनुमानं भवेत्.{३,२४}अथैकदेशदर्शनाद् एकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते. तन् न. अनुपात्तत्वात्. न ह्य् अत्रैकदेशी केनचिच्छब्देनोपात्तः. अतस् तदनुपादानान् न्यूनं लक्षणम् इत्य् आशङ्क्याह -- उपात्त इति. यद्य् अपि स्वशब्देन नैकदेश्युपात्तस् तथाप्य् एकदेशशब्दाभ्याम् एवार्थाद् आक्षिप्यत इति न न्यूनत्वदोष इति
SK
अर्थाक्षेपे कारणम् आह -- अपरार्थ इति. न हि धूमादिस्वरूपमात्रम् अपरार्थीभूतम् एकदेशपदास्पदं भवति. न च परस्परापेक्षयैकदेशवाचोयुक्तिर् उपपद्यते. न ह्य् अग्न्यैकदेशो धूम इति कस्यचित् प्रतिपत्तिर् अस्ति. न चागृहीते ऽग्नौ तदेकदेशतया धूमो ऽवगन्तुं शक्यते. गृहीते च तस्मिन्न् अनुमेयाभावः. अत एकदेशत्वानुपपत्त्यैव तदाश्रयः कश्चिद् एकदेश्य् अवगम्यत इति सिद्धम् इति
SK
नन्व् आक्षिप्यताम् एकदेशशब्दाभ्याम् एकदेशी. तद् एकत्वं तु कुतो वगम्यते. अतः क्वचिद् एव धूमं दृष्ट्वा क्वचिद् एकदेश्यन्तरे ऽनुमानं न स्यात्. ऐकाधिकरण्यं त्व् एकदेशयोर् न सिध्यति, अनुपादानाद् इत्य् अत आह -- स एवेति. पूर्वप्रकृतम् एकदेशवान् इति विवक्षितैकसङ्ख्यम् एकदेशिनं प्रत्यवमृशति स एवेति. स खल्व् एक एवैकदेशी गम्यगमकरूपः उभयात्मकत्वात्. तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तः, यद्द्विरूपत्वम् अर्हति. नन्व् एकत्वं नैकदेशिनो ऽनुपात्तं लभ्यत इत्य् उक्तम्. न. ज्ञातसम्बन्धस्येत्य् एकवचनेनैवोपादानात्. एकदेशिनि ह्य् अन्यपदा(?र्थैकस्यै/र्थे ए)कत्वम् एकवचनेनोपात्तं, प्रमातृपक्षे ऽपि प्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्य् आक्षिप्ते द्वितीयापेक्षाक्षणे ऽपि स एव बुद्धौ विपरिवर्तमानस् तदाश्रयत्वेनावगम्यते नान्यः. तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच् च. यथा देवदत्तस्यैकत्र करे कङ्कणम् अङ्गुलीयकं करान्तर इति न भिन्नः कराश्रयो ऽवगम्यते. अपि तर्हि देवदत्त एक एव. अतस् सिद्धम् एक एवैकदेशी गम्यगमकरूप इति
SK
{३,२५} उभयात्मा सन् गम्यगमक इत्य् उक्तम्. ताव् एवोभयात्मानौ दर्शयति -- असिद्धेनेति. यदि ह्य् असाव् एकदेश्यसिद्ध एव स्यात् सिद्धो वा, तदा न द्विरूपतां लभते. स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धो ऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वाद् उभयोपपत्तिर् इति. आह -- अस्त्व् अर्थाद् उपात्त एकदेशी. स चैको गम्यो गमक इति. स तु कथं प्रमातृभिर् उपादातव्य इति. न च तदुपादानप्रकारः कश्चिद् भाष्यकारेणोपात्तः. अतः पुनर् अपि न्यूनत्वम् इत्य् अत आह -- आत्त इति. तत्र नाम विशेषोपादानम् आश्रीयते, यत्र विशेषविवक्षा. न त्व् इह विशेषो विवक्षितः. स ह्य् एकदेशी प्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्याम् उपात्तो भवतु. उभयथानुमानव्यवहारदर्शनाद् इति
SK
तम् एवोभयथा व्यवहारं दर्शयति -- अनित्य इति. निगदव्याख्यातो ग्रन्थः
SK
एकदेशी गम्यो गमको भेदाभेदाभ्याम् उपात्त इति दर्शितम्. कियति पुनर् अनुमानस्य व्यापार इति भवति संशयः. भवति हि विशिष्टार्थप्रतीताव् अपि विशेषणमात्रपर्यवसायि प्रमाणम्. यथा शब्दः. स खल्व् आकृतिविशिष्टायां व्यक्तौ धियम् आदधाति, अथ चान्वयव्यतिरेकाभ्याम् आकृतिमात्रपर्यवसायीति निश्चीयते. तद् इहापि यदि तद्वद् एव विशेषणमात्रपर्यवसायि प्रमाणम् इष्यते, ततस् सिद्धसाध्यत्वम्. सिद्धं हि सम्बन्धज्ञानकाले ऽग्निमात्रम्. किं तदनुमानेन. यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टम् एवानुमानं गोचरयतीतीष्यते. तत्र सम्बन्धग्रहणाभावाद् अ(न)नुमेयत्वम्. न ह्य् अग्निमद्विशेषेण पर्वतादिनान्वितो धूमो दृष्टः. न च समस्ताग्निमत्साधारणं{३,२६}सामान्यं किञ्चित् समस्ति. तद्भावे ऽपि पुनर् अपि सिद्धसाध्यतैव. अत एवाहुः --
SK
अनुमाभङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनः |
SK
विशेषे ऽनुगमाभावस् सामान्ये सिद्धसाध्यता ||
SK
इत्य् अत आह -- एकदेशेति. अयम् अभिप्रायः -- दण्ड्यादिशब्दवद् विशिष्टविषयम् एवानुमानम्. न च सम्बन्धग्रहणाभावः. सकलोपाधिपरित्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमाद् इत्य् उक्तम् अस्माभिः. असत्य् अपि सामान्ये केनचिद् एकेनोपाधिनानन्तानाम् अपि भावानां सम्बन्धो गृह्यत एव. यद्य् अपि धूमवान् अग्निमान् इति सामान्यतो ऽवगतम्, तथाप्य् अयम् असाव् इति विशेषरूपेण प्रत्यभिज्ञानात् प्रमाणविषयत्वम् अप्य् उपपन्नम् इत्य् उक्तम् एवेति. कस्मात् पुनर्विशेषणमात्रपर्यवसाय्य् एव प्रमाणं नेष्यते, अत आह -- न हीति
SK
असम्भवम् एव दर्शयति -- न धर्मेति. धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धम् इति भवतैवोक्तम् इति. एवम् एव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्य् आह -- तथेति
SK
धर्मधर्म्युभयेष्व् एवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्य् आह -- एकदेशस्येति
SK
{३,२७} एतद् एव विवृणोति -- अनित्यत्वादय इति. पक्षैकदेशो हि लिङ्गं बह्वति. न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथम् अपक्षधर्मो लिङ्गं भविष्यति. एवं ध्वनिमात्रे ऽपि स्वतन्त्रे पक्षीकृते न कृतकत्वस्य तेनानुगमश् शक्यो दर्शयितुम्. न हि यत्र यत्र कृतकत्वं तत्र तत्र ध्वनिर् इति नियमस् सम्भवति. तथोभयस्य ध्वन्यनित्यत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्य् अनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति. समधिगतं तावद् धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वम् इति
SK
अथ कस्माद् धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्य् अत आह -- सम्बन्ध इति. मिताव् इति साधनवाक्यम् अपदिशति. न खलु परीक्षकस् साधनवाक्ये सम्बन्धवाचिना केनचिन् नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते. न ह्य् एवं प्रयुज्यते, अग्निपर्वतयोर् अस्ति सम्बन्धः धूमवत्त्वाद् इति. नापि पर्वतस्याग्निर् इति. देशम् एव त्व् अग्न्यादिना विशिष्टम् अनुमिमाना दृश्यन्ते. यद् एवं प्रयुञ्जते, अग्निमान् पर्वत इति. सम्बन्धो ऽपि नानुमीयत इत्य् अतीतेन सम्बन्ध इति. न परं प्रतिज्ञायां नोपादीयते, उदाहरणे ऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते. न हि भवति दर्शनं, यत्र यत्र धूमस् तत्र तत्राग्निसम्बन्ध इति. भवति तु यो यो धूमवान् स सो ग्निमान् इति देश एव निदर्शनं, तद् एतद् आह -- न चापीति. इहेति मितिं प्रत्यवमृशति. एतद् उक्तं भवति -- न साधनवाक्ये सम्बन्धस् साध्यतयोपादीयते नापि दृष्टान्ततया निर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुम् उचितम् इति
SK
{३,२८} अपि चायं सम्बन्धस् साध्यमानस् सन्मात्रतया वा साध्यते, केनचिद् वा धर्मेण विशिष्टः. न तावद् वस्तुसत्तामात्रम् अनुमानस्य विषयः. न च पर्वतादिवत् सिद्धसाध्यरूपम् आकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत्. तस्मान् न कथञ्चित् सम्बन्धस् साध्य इत्य् आह -- न चेति. नन्व् असति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते. नास्ति नाम स प्रकारः, यदसम्बन्ध्यमान एवाग्निना पर्वतस् तद्विशिष्टो भवतीत्य् अत आह -- तस्माद् इति व्यान्तेन. न(नु) सत्यम् असति सम्बन्धे विशिष्टो न भवति, न त्व् एतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्व् अर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनः स्वतन्त्रस्येति. अत्रैव दृष्टान्तम् आह -- यथेति. दण्ड्यादिशब्दा हि दण्डादिविशिष्टम् एवाभिदधानास् सम्बन्धम् अप्य् अर्थाद् उपाददते, न त्व् अभिदधति. तद्वद् इहापि पर्वतो ऽग्निमान् इति साध्यमाने ऽर्थगृहीतो ऽग्निसम्बन्धः, न पुनस् स एव साध्यते. यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवम् अत्रापि विशिष्टे साध्यमाने नुनिष्पादी भवतीत्य् अर्थः.
SK
इदं तु चिन्तनीयम्. कथं दण्ड्यादिशब्दा विशिष्टवचना इति. मत्वर्थीयप्रत्ययान्ता हि ते. स चास्यास्मिन् नास्तीति सम्बन्धे स्मर्यते, अतस् सम्बन्ध एवात्र प्रत्ययार्थः. स च प्रधानः. प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन इति स्मृतेः. इदं हि भेदेनैवोभयोर् अभिधाने प्राधान्यप्रतिपादनार्थं वचनम्. प्रधानं च शब्दार्थः. अतस् सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम्. अपि च नागृहीतविशेषणा विशेष्यते बुद्धिर् उत्पद्यत इति विशिष्टाभिधित्सायाम् अवश्यम् भावि प्रथमतरं विशेषणाभिधानम् आपतति तत एव विशिष्टावगाहसिद्धेर् न तद्यावच्छब्दस्याभिधानशक्तिर् उपकल्पयितुं{३,२९}शक्यते. अत एवाकृतिविशिष्टव्यक्त्यभिधानम् आकृत्यधिकरणे निराकरिष्यते. किञ् च -- कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मरति. कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धो ऽभिधीयते. यदि तद्धिताभिधेयो न स्यात्. अभिधेयनिष्कर्षे हि तयोः स्मरणं, यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः, तदभिधाने त्वतलाव् इति. तद् यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयः, तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोर् अनुशासनम् उपपद्यते. यथा गोशब्दाभिधेयं सामान्यं गोत्वम् इति त्व् अप्रत्ययेन निष्कृष्यते. अतस् सम्बन्ध एव दण्ड्यादिशब्दानाम् अभिधेय इति साम्प्रतं कथम् उच्यते नान्तरीयकस् सम्बन्ध इति.
SK
अत्राभिधीयते -- न तावत् स्मृत्यनुसारेण सम्बन्धवाच्यत्वम् अध्यवसातुं शक्यते. शब्दानुशासनमात्रं हि तद् अस्यास्त्य् अस्मिन्न् (५.२.९४) इति, न पुनरर्थानुशासनम्. अपि च वृत्तिविग्रहयोर् अन्यथान्यथा गुणप्रधानभावो दृश्यते. यथा चित्रगुर् इति चित्राभिर् गोभिर् विशिष्टो देवदत्तादिर् एव वृत्तौ प्रधानतयावगम्यते. विग्रहे तु चित्रा गावो यस्येति गवाम् एव देवदत्तादिर् विशेषणतया गुणभूतः. ताश् च प्रधानम्. वेदे ऽपि रथन्तरसामा सोम इति. तद् यद्य् अपि स्मृतिकारेण त(द् अ)स्येति विग्रहे सम्बन्धः प्रधानतया षष्ठ्या निर्दिष्टः, तथापि गोमदादितद्धितवृत्तौ तद्वान् एव प्रधानं भवति, तथा प्रतीतेः. गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानः. पाणिनेर् अपि भगवतस् सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुम् अभिमता. वृत्तौ विगृह्यमाणायाम् अवर्जनीय एव षष्ठीप्रयोगः. तावता च तदर्थः प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिर् उपजायते. अतो न तावत् स्मृत्यनुसारेण सम्बन्धस्य वाच्यता.
SK
यत् तु प्रथमतरं विशेषणम् अभिधेयम् इति. सत्यम्. न त्व् इह सम्बन्धो विशेषणम्. दण्डो हि दण्डिनो विशेषणं न सम्बन्धः. स च प्रकृत्या प्रथमम् अभिहित एव. अत एव नानेकाभिधानशक्तिकल्पनादोषः. निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीताव् अपि विशेषणमात्रम् अभिधीयत इति युक्तम्. तत्र ह्य् एकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति. दण्ड्यादिशब्दास् तु भागवन्तः. तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यांभिन्नौ{३,३०}विशेषणविशेष्याव् अभिधीयेते इति किम् अनुपपन्नम्. अतः प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टः पुरुषो दण्डिशब्देनाभिधीयते. नन्व् असति सम्बन्धे दण्डो विशेष्टुम् एव नरं न शक्नोति. सत्यम्. न त्व् एतावता सम्बन्धो वाच्यो भवति. न हि पृथिव्याम् अनवस्थिता गावो न तद्वन्तं विशिंषन्तीति पृथिव्य् अप्य् अभिधीयत इति युक्तम् अभिधातुम्. यत एव त्व् असति सम्बन्धे विशिष्टावगतिर् अनुपपन्ना, अत एव सम्बन्धो ऽप्य् अर्थाद् अन्तर्भाव्यते. न त्व् अभिधीयते. यत् तु सम्बन्धाभिधाने त्वतलोर् अनुशासनम् असति सम्बन्धवाच्यत्वे ऽनुपपन्नम् इति, तद् अयुक्तम्. न ह्य् अभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हि यस्य गुणस्य हि भावाद् इति त्व् अभिधेयनिष्कर्षार्थम् एव स्मरणम्. इतरथा त्व् अनेनैव गतार्थत्वात् कृत्तद्धितसमासेष्व् इत्य् अवचनीयम् आपद्येत. अतः प्राक् प्रतीते एकनिमित्तसम्बन्धिविशिष्टे ऽपरस्मिन् सम्बन्धिन्य् अभिहिते ऽर्थगृहीतस् सम्बन्धो नाभिधेयपक्षे निक्षिप्यते. सर्वयौगिकानाम् अपि चैषैव दिग् दर्शयितव्या. आह च --
SK
सर्वत्र यौगिकैश् शब्दैर् द्रव्यम् एवाभिधीयते |
SK
न हि सम्बन्धवाच्यत्वं सम्भवत्य् अतिगौरवात् ||
SK
इति. अतो ऽनुमेयान्तरासम्भवाद् विशेषणविशेष्यभूतौ धर्मधर्मिणाव् एवानुमानसमधिगम्याव् इति || ३२ -- ३३ ||
SK
उपसंहरति -- विशेषणेति गम्याव् इत्यन्तेन. स चायम् अङ्गाङ्गिभावः कैश्चिद् विकल्पेनाश्रितः. एवं हि मन्यन्ते. सर्वथा हि धर्ममात्रे धर्मिणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति न विशिष्टप्रमायाम्. विशिष्टता तु कदाचित् कस्यचिद् यथाभिप्रायं भवतु नाम, न किञ्चिद् दुष्यति. सर्वथा तावत् धर्मिण एव पर्वतादेर् अग्न्यादिधर्मस् तद्धर्मेणैव धूमादिनावगन्तव्यः. स तु धर्मो विशेषणभूतो विशेष्यभूतो{३,३१} वावगन्तव्य इति न कश्चिद् विशेषः. उभयथापि स्वतन्त्रानुमानाभावाद् इत्य् आह -- अङ्गेत्य् अवधार्यते ऽन्तेन || ३४ -- ३५ ||
SK
अत्र दूषणम् आह -- अत्रेति. अयम् अभिप्रायः -- लौकिकानि हि प्रमाणानि लक्षणकारैर् अपि यथालोकम् एवानुगन्तव्यानि. न तु विपरीतम्. न ह्य् अग्निः पर्वतविशिष्ट इति लोको बुध्यते. अपि तु पर्वतो ऽग्निमान् इति. तथा स्वयम् अनुमानेन प्रतिपन्नम् अर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मिणा विशिष्टम् एव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्न्यनुमान एव धूमवत्त्वाद् अग्निमान् इति. तच् चेदम् अग्नौ देशेन विशिष्टे नुमीयमाने नोपपद्यते. विशेषणतया हि पर्वतविशिष्टो ऽग्निर् इति धर्मिण्य् उपात्ते धूमवत्त्वाद् इति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते. धर्मधर्मितयावगतस्य हेतुत्वम्. न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धम् अर्हति, गुणानां परस्परासम्बन्धात्. अतो ऽस्मात् परार्थहेतुप्रयोगविशेषाद् एव लौकिकानाम् ईदृशी प्रतिपत्तिर् उन्नीयते. यत् स्वयम् अपि धर्मविशिष्टम् एव धर्मिणं बुध्यते न विपरीतम् इति
SK
यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटः केन तर्हि प्रसज्यत इत्य् अत आह -- प्रधानत्वाद् इति. ध्वनिविशिष्टम् अनित्यत्वं कृतकत्वाद् इत्य् उच्यमाने ऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुस् सम्बध्येत न ध्वनिना गुणभूतेन. सर्वस्य ह्य् एकवाक्यगतस्य प्रधानान्वय एव युक्तः. प्रधानसम्बन्धे च हेतोर् अपक्षधर्मत्वम्. न हि कृतकत्वम्{३,३२}अनित्यत्वस्य धर्मः, किं तर्हि ध्वनेः. अतो धर्म्य् एव धर्मविशिष्टः स्वयं प्रमातृभिर् अवगम्यते. तथैव परस्मै प्रतिपाद्यत इति युक्तम् इति. यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोस् सम्बन्धो वाक्याद् अवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धः कल्पयिष्यते. हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद् धर्मिणैव सम्बन्धो भविष्यतीत्य् अत आह -- तत्रेति. अयम् अभिप्रायः -- सत्यम् एवं धर्मिणा सम्बन्धः सिध्यति. किं त्वयम् एव क्लेशो यद्वाक्यस्वरसभङ्गो नाम. अत एवाह -- कल्प्यो ऽसाव् इति. अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति भावः
SK
ध्वनेः कृतकत्वाद् इति वा पुनर्धर्म्युपादानेन हेतुर् विशेषणीयः, न चैवं प्रयोक्तारः प्रयुञ्जाना दृश्यन्त इत्य् अभिप्रायेणाह -- ध्वनेर् इति. यस् तु वदति धर्मिण्य् अपि विशिष्टे साध्ये ऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वम् इत्य् उक्ते ध्वनिर् एव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वाद् इति तं प्रत्याह -- अन्वयस्येति. अन्वयोपदर्शनकाले हि भेदेनैव धर्मम् उपाददते. यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वम् इति न तत्र प्रधानसम्बन्धाशङ्का. अतः प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने यो गुणभाव आसीत्. नासौ दृष्टान्तवाक्ये दुष्यति. हेतुस् त्व् अविशिष्ट एव तार्किकैः प्रयुज्यत इत्य् उक्तम्. तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति. यस् तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेर् अनित्यत्वम् इति. एवं च कृतकत्वाद् इत्य् अस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धः स्फुटो भवति. धर्मसम्बन्ध एव यथावद् विभक्तिविपरिणामेन स्यात्. स चान्याय्य इति स वक्तव्यः. निराकृतो ऽयं पक्षो वार्तिककृतैव --
SK
सम्बन्धो ऽप्य् अनुपादानान् नाम्ना षष्ठ्य् अपि वा मितौ
SK
इति. षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत्. तस्य च साध्यता निराकृतैव. विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता अधर्मस्येदानीं{३,३३}निराक्रियते. किम् अत्र सम्बन्धसाध्यत्वं पुनर् उपक्षिप्यते. तदलम् अनेन बालभाषितेनेति
SK
अपि च अग्नेर् देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणाम् असम्भवो ऽपीत्य् आह -- अग्नेर् इति. दूषणान्तरसमुच्चये चकारः. एतद् इति वक्ष्यमाणलक्षणप्रतिनिर्देश इति. तान् एव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते -- विशिष्टेति
SK
इदानीं विभज्य तान् एव दर्शयति -- यो ऽग्निर् इतीत्यन्तेन. निगदव्याख्यातो ग्रन्थः. विवेकस् तु पक्षाणां प्रणिहितैर् अवगम्यत इति. इहचाद्ययोर् द्वयोः पक्षयोस् सिद्धसाध्यता दोषः. सिद्धो हि क्वचिद् अग्निः, दृष्टपूर्वो ऽपि पूर्वदेशाधिकरणस् सिद्ध एव किं तत् प्र(सा)धानेन. परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्य् आह -- इह त्व् इति. सिद्धसाध्यता सुप्रकाशैव || ४० -- ४२ ||
SK
विरोधं प्रपञ्चयति -- व्याप्तिर् इति. यत् तावत् यो ऽग्निः सो ऽनेन युक्त इत्य् उक्तं तद् अयुक्तम्. न ह्य् अनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात् सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्य् अत्राभावेन विरुध्यत इति
SK
{३,३४} यो दृष्टो ऽनेन सो ऽथवेति यद् उक्तं तद् दूषयति -- नापि पूर्वस्येति. दृष्टस्याप्य् अग्नेर् अनेन देशेन व्याप्तिर् न विद्यत इत्य् अर्थः. यो ऽयं स देशमात्रेणेत्य् अत्र दूषणम् आह -- नापीति देशैरन्तेन. न ह्य् एष पुरःस्थितो वह्निः सर्वैर् देशैर् विशेष्यते सर्वत्र तस्याभावाद् इति. पूर्वेण वाप्य् अयम् इत्य् अत्र विरोधम् आह -- पूर्वेणेति. पूर्वेण देशेनास्याग्नेर् विशेष्यता नास्त्य् एव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र. पूर्वानुभूतस्य त्व् अग्नेर् देशमात्रेण सम्बन्धः पुरःस्थितवह्नेः सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति
SK
एवं सप्तसु पक्षेषु निराकृतेष्व् अष्टमः पक्षो ऽवशिष्यते एतद् देशविशिष्टो वा यो ऽयम् अग्निर् इति तन्निराकरोति -- एतद् इति. अयं पुरःस्थितो ऽग्निर् अनेन देशेन विशिष्ट इति नैतत् साधयितुं शक्यम्. न ह्य् अप्रत्यक्षदेशो वह्निर् अयम् इति निर्देष्टुं शक्यः, नितरां विशिष्टतया साधयितुम्. यस् तु वदति स्मृत एव वह्निर् अनेन विशिष्टः साध्यत इति, स वक्तव्यः. स्वदेशकालवर्त्त्य् एव स्मरणेन विषयीकृतः कथम् असाव् अनेन देशेन विशेष्टुं शक्यः. तद् एवंवादिना नापि पूर्वस्येत्य् अपि नालोचितम्. अनवच्छिन्नस्मृताव् अपि च धर्मो धर्मिणो विशेषणम् इति नेदं युक्तिसाध्यम्. धर्माणां धर्मिविशेषणतयैव सर्वदावगतेर् इत्य् अलम् अनेनेति. देश एव तु पूर्वावगतो विशेष्यताम् अर्हतीत्य् अभिप्रायेणाह -- अग्नेर् इति || ४४ -- ४५ ||
SK
यदि चाग्निर् विशेष्यो भवेत् ततस् तस्यैवायम् आद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात्. इह त्व् आदौ पर्वत एव ज्ञायते. कथम् असौ पश्चात् प्रत्येष्यमाणस्याग्नेर् विशेषणं भवतीत्य् आह -- तज्ज्ञानेति. तद्वृत्तेनाग्निं निर्दिशति. अग्नेर् ज्ञानकाले हि स एव देशो बुद्धः, नाग्निः, अतः कस्य{३,३५}देशो विशेषणं भवति. प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति कीदृग्धर्मो ऽयम् इति. तथा च देश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निर् इति. ननु देशो ऽपि प्रत्यक्षावगत एवेति कथम् असाव् अनुमानस्य विषयो भविष्यतीत्य् अत आह -- देशस्येति. स्वरूपमात्रम् एव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वम् इति. अतो धर्म्य् एव धर्मविशिष्टः प्रमेयः न धर्मो धर्मि विशिष्ट इत्य् आह -- तस्माद् इति || ४६ -- ४७ ||
SK
एवं च देश एवाग्निविशिष्टः प्रमेयो ऽवतिष्ठते. स हि धर्मी, तदाश्रयत्वाद् अग्नेः. न त्व् अग्निः, अतदाश्रयत्वाद् देशस्येत्य् आह -- सा देशस्येति. अन्ये तु पूर्वावगतधूमम् अप्य् अग्निविशिष्टम् अनुमानस्य प्रमेयं मन्यन्ते. तद् अपि साध्व् एवेत्य् अभिप्रायेणाह -- धूमस्यान्यैश् च कल्पितेति. सा प्रमेयतेति सम्बन्धः. अत्र चोदयति -- नन्व् इति. विशिष्टो ऽनुमानस्य विषय इत्य् उक्तम्. नागृहीतविशेषणन्यायेन लिङ्गम् अपि शब्दवद् विशेषणमात्रपर्यवसाय्य् एव युक्तम्. शब्दो हि विशेषणमात्र एव वर्तत इत्य् आकृत्यधिकरणे वक्ष्यत इति
SK
परिहरति -- नैवम् इति. कारणम् आह -- न हीति. अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानम् इष्टम्. लिङ्गं तु पूर्वावगतप्रतिबन्धबलेन प्रतिबन्धकधियम् उपकल्पयति. तद् यावतैव प्रतिबद्धम् अवगतं तावत्य् एव प्रतिबन्धके धियम् आदधाति. सर्वोपाधिपरित्यागेनाग्निमन्मात्रेण धूमवत्त्वं प्रतिबद्धम् अवगतम् इत्य् अग्निमत्त्वम् एवानुमापयतीति न कश्चित् दोष इति. न च विशेषणमात्रम् अनुमेयं सिद्धसाध्यत्वाद् इत्य् उक्तम् इत्य् अभिप्रायेणाह -{३,३६}न चेति. विशेष्यो ऽपि पर्वतादिस्वरूपेणावधारितः सो ऽपि नानुमेय इत्य् आह -- विशेष्य इति
SK
अतो विशिष्टत्वेनैव रूपेणाज्ञानात् तस्यैवानुमेयत्वम् इत्य् आह -- विशिष्टत्वेनेति. अत्र चोदयति -- नन्व् इति. धूमो ऽप्य् अग्निविशिष्टो ऽनुमीयत इत्य् उक्तं, तद् अयुक्तम्. प्रतिज्ञार्थैकदेशत्वाद् इति
SK
परिहरति -- नैतद् इति. सामान्यविशेष्यात्मा हि धूमः, तत्र विशेषात्मना पक्षीकृतस्य सामान्यात्मना हेतुत्वम् इति न पक्षैकदेशतेति. समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपम् एव किम् अस्येति न ज्ञायते. तद् यदि धूमतज्ज्ञानादीनाम् अनुमानत्वम् इष्यते, ततः प्रमाणफलयोर् विषयभेदः स चायुक्तः. अत एव भिक्षुणा एकम् एव ज्ञानं प्रमाणफलरूपम् इति प्रत्यक्षम् उक्त्वा तद् एवानुमाने ऽप्य् अतिदिष्टं पूर्ववत् फलम् अस्येति. यदि त्व् अनुमेयज्ञानम् एव प्रमाणम् इष्यते ततो ऽप्य् अतिरिक्तफलाभावः. अतो वक्तव्यम् अनुमानस्य स्वरूपम् इत्य् अत आह -- धूमतज्ज्ञानेति. यत् तावत् भिक्षुणा प्रमाण(?फल)म् एव फलम् इत्य् एकविषयत्वलाभाद् आश्रितं, तत् प्रत्यक्षवद् इहापि प्रतिषेद्धव्यम्. न हि साध्यसाधनयोर् अभेदं लौकिका मन्यन्ते. को हि वृक्षच्छिदया सार्धं परशोर् एकत्वम् आतिष्ठते. विषयभेदपरिहारस् तु प्रत्यक्षोक्त एवेहाप्य् अनुसन्धातव्यः. यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात् समानविषयत्वम् उपपादितम्. एवम् इहापि धूमादिप्रमाणपक्षे तद्व्यापाराद् एव पुरोदितं विषयैकत्वम् अतिदेष्टव्यम्. अतो धूमस् तज्ज्ञानं वा सम्बन्धस् तत्स्मरणं वा प्रमाणम् अस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति. यत् तु बुद्धेः{३,३७}प्रमाण(?फल)त्वे फलाभाव इत्य् उक्तम्. भाष्यकारो हि बुद्धिर् एव प्रमाणम् इति दर्शयति यत् कारणम् असन्निकृष्टे ऽर्थे बुद्धिर् इति वदति. न च फलाभावः, हानादेर् एव फलत्वात्. न च सजातीयम् एव फलम् इति राजाज्ञा. उपयोगाद् धि सजातीयम् असजातीयं वा फलं भवत्य् एव. अस्तु वा सजातीयम् एव फलं हानादिबुद्धिः फलं भविष्यति. उपकारादिस्मृतिर् वेत्य् अभिप्रायेणाह -- प्रमेयधीर् इति
SK
यदि भाष्यकारः प्रमेयधियः प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमः अत आह -- प्रत्यक्षेति. उक्तम् अस्माभिर् विवक्षाधीनं प्रमाणत्वम् इति. तद् यदा धूमादीनाम् एव प्रकृष्टसाधनत्वम् अवगम्यते, तदा तद् एव प्रमाणम्. भाष्यकारेणापि बुद्धिर् वा जन्म वेत्यादिना प्रत्यक्षानियमं दर्शयता सर्वत्रैवानियमस् तुल्यया दर्शित एव. अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति
SK
तच् चेदम् अनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थं चेति. यदाहुः --
SK
अनुमानं द्विधा स्वार्थं त्रिरूपाल् लिङ्गतो ऽर्थदृक्
SK
परार्थम् अनुमानं तु स्वदृष्टार्थप्रकाशकम् ||
SK
इति. तद् इदं द्वैविध्यम् अनुपपन्नम् इत्य् अभिप्रायेणाह -- अनुमानेति. अस्यार्थः -- गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यः परेभ्यो ऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वम् अस्माभिः प्रतिपादितः पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यः. इदम् अत्राकूतम्. स्वयम् अनुमानेन गृहीतम् अर्थं परं प्रतिपादयितुं साधनवाक्यम् एव प्रयुज्यते. परस् तु ततो वाक्यात् त्रिरूपं लिङ्गम् अनुसन्धाय स्वयम् एव साध्यं वस्तु{३,३८}बुध्यते, तद् अस्य स्वार्थम् एवानुमानम्. वक्तुर् अपि स्वयम् अर्थं प्रतिपन्नवतः स्वार्थानुमानम् एव, कतरद् अत्र परार्थानुमानम् इति न विद्मः. वचनं परार्थम् इति चेत्. न. अननुमानत्वात्. वचनं परार्थम् इति तु मृष्यामहे. यद् वदति दर्शनस्य परार्थत्वाद् इति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वाद् अनर्थदृक् च. त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इति वस् सिद्धान्तः, अतः कथं वचनम् अनुमानम्. अथानुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्याद् अनुमानं परार्थम् इत्य् उपचर्यते, ततः प्रत्यक्षप्रतिपन्नम् अप्य् अर्थं बोधयद् वचः परार्थम् इति प्रत्यक्षम् अपि परार्थम् आपद्येत. यदि तु स्वलक्षणविषयत्वात् प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान् न प्रत्यक्षं परार्थम् इत्य् उच्यते. तद् अयुक्तम्. एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते. यो हि प्रत्यक्षविरुद्धम् अर्थं प्रतिजानीते नाग्निर् उष्ण इति, स वचनेन तं प्रत्यक्षविषयम् अर्थं प्रतिपाद्य निराक्रियते. प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत, अतः प्रत्यक्षविषयम् अपि शब्दो वदतीत्य् अभ्युपगन्तव्यम्. एवं च प्रत्यक्षविषयवचनपरार्थतया कः प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिः. अतो यथोदितः पक्ष एव वाच्य इत्य् उक्तवान्.
SK
इदं तु वक्तव्यम् -- को ऽयं पक्षो नाम, तद् उच्यते, प्रतिज्ञार्थः पक्षः. का प्रतिज्ञा. साध्यसमर्पकं वचनम्. यदाहुः -- साध्यनिर्देशः प्रतिज्ञेति. अतः साध्यः पक्ष इत्य् आचक्ष्मह इति वाच्यः पक्ष इत्य् उक्तम्. तद्वचनम् इदानीम् उपन्यस्यति -- तत्रेति. तत्र पक्षे धर्मिणं प्रथमम् उद्दिश्य साध्यधर्मो ऽग्न्यादिर् विधीयते. यो ऽयं पर्वतः सो ऽग्निमान् इत्य् उक्तं भवति. इदं तु पक्षवचनं प्रतिज्ञापरनामानम् एके नानुमन्यन्ते. वदन्ति च किम् अनेनानर्थकेन, अन्तरेणापि पक्षवचनम् अपेक्षितं सिध्यत्य् एव. हेतुर् हि साध्यसाधकः. न पक्षस्य वचनम्. न ह्य् अयम् आगमिको ऽर्थः, हेतुवचनानर्थक्यप्रसङ्गात्. आप्तानुसारेण पक्षवचनाद् अर्थनिश्चये हेत्वभिधानम् अनर्थकं स्यात्. वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत्. हेत्वधीने तु निर्णये तच्छक्तिर् एव निरूपयितुम् उचिता, किं प्रतिज्ञावचनेन. हेतोश् च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम्. अतो यत् कृतकं तद् अनित्यं शब्दश् च कृतक इत्य् उदाहरणोपनयमात्राद् एव साध्यसिद्धेर् अनर्थिका प्रतिज्ञा. हेतोर् एव तु त्रैरूप्यं दर्शयितव्यम्. तच् च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतम् अतिविस्तरेण.
SK
{३,३९} यदि तु विवादम् आवेदयितुं प्रतिज्ञावचनम् इत्य् उच्यते. तन् न. अव्यापकत्वात्. यो हि मन्यते -- यदा खल्व् अयं शब्दो नित्य इति प्रतिजानीते तदेतरो ऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति. तच् च नैवम्, अव्यापकत्वात्. नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम्. वादे असम्भवात्. शिष्यविषयो हि सः. स च तत्त्वम् एव बोधयितव्यः, अतो हेतुशक्तिम् एव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम्. जल्पे स्याद् इति चेद्, न. अन्यथासिद्धेः. तत्रैतत् स्यात् -- जल्पे खलु विवादम् आजिहीर्षुः प्रतिज्ञां प्रणयतीति, तच् च नैवम्. अन्यथासिद्धेः, असत्य् अपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिम् अनित्यम् अनुमिनोतीति, यत् कारणं, यत् कृतकं तद् अनित्यं यथा घट इत्य् उक्त्वा कृतकत्वं ध्वनेर् उपनयति शब्दश् च कृतक इति. ततो जल्पः प्रवर्तिष्यत एव. वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव. न हि वैतण्डिकस्य किञ्चित् परनिग्रहाद् अन्यद् साध्यम् अस्ति. यद् असौ प्रतिज्ञावचनेन क्वचिद् अर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत्. अतः प्रतिज्ञावचनं कथात्रये ऽप्य् अनुपयुज्यमानम् उपेक्षणीयम् इत्य् आक्षिपन्ति.
SK
अत्राभिधीयते -- स्वदृष्टार्थप्रकाशनं परार्थम् अनुमानम् इति भवद्भिर् एवोक्तम्. स्वयं च कुतश्चिद् धेतुविशेषात् किञ्चित् केनचिद् धर्मेण विशिष्टम् अवगतम् इति परस्मा अपि तथैव कथ्यत इति युक्तम्. असत्यां तु प्रतिज्ञायाम् अनाश्रयहेत्वादय आकाशपतिता इव भवेयुः. ननु नायं पक्षवचनपुरस्सरम् अज्ञासीत् साध्यम् इति कथं परस्मै तथा कथयति. मैवम्. यद्य् अपि शब्दो ऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वाद् अस्या बुद्धेर् अस्त्य् एवात्र प्रमातुर् विशिष्टो विकल्पः, उच्चारणं तु परार्थम् इति तन्मात्रं स्वप्रतिपत्तौ नासीत्. परस् तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्य् उच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रम् अधिकम्. यत् तु वादे ऽनुपयोग इत्य् उक्तम्, तन् न, सुतराम् उपयोगात्. जल्पवितण्डे हि विजिगीषमाणयोर् द्वयोः प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत. अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरम् एव{३,४०}प्रतिज्ञावचनेन साध्यत इति युक्तम्. न हि न शब्ददारिद्र्यं, यद् एनं तत्त्वं बुभुत्समानम् उपसन्नम् अविशदवचनेन परिक्लेशयाम. न चैव जल्पे ऽनुपयोग इति. उक्तम् इदम् असति हि प्रतिज्ञावचने ऽनाश्रया हेत्वादयो न प्रवर्तेरन्न् इति. गुणभूता हि ते प्रधानभूतसाध्यापेक्षायां सम्बध्यन्ते. तच् च नासति साध्यनिर्देश उपपद्यते. निर्दिष्टे हि साध्ये कुत इत्य् अपेक्षायां हेतुः सम्बध्यते. ततः कथम् अयम् अव्याप्तो ऽस्य साधक इत्य् अपेक्षिते व्याप्तिवचनम्. इतरथा त्व् ऐकार्थ्याभावाद् एकवाक्यतैव न संवर्तेत. तथा हि -- यत् कृतकं तद् अनित्यम् इत्य् उक्ते कृतकत्वम् अनित्यतया सम्बद्धम् इत्य् अनूदितम्. पुनश् च शब्दः कृतक इति शब्दस्य कृतकतया सम्बन्धो ऽनूदितः. परस्परसम्बन्धे तु न प्रमाणम्. असम्बद्धम् इदं वाक्यद्वयम् इत्य् आशङ्क्येत, कृतकं तावद् अनित्यं शब्दो ऽपि कृतक इति स्वरूपानुवादमात्रम् उभयोर् इति शङ्का जायेत, अर्थान्तरं वापद्येत. यथा चानित्यत्वधर्मा कृतकस् तथा शब्दात्मको ऽपीति, तद् अत्र सर्वे कृतकाश् शब्दात्मान इति साधुसम्पादितम् आपद्येत. अतः प्रधानवाक्यावयवप्रतिज्ञा यद् अपह्नूयते तन् नास्तिकानाम् एव सर्वापलापवादिनां शोभते नेतरेषाम्. सा हि सर्वव्यवहाराणां सारः. यद् आहुः --
SK
सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता |
SK
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ||
SK
इति सूक्तो वादिवचनप्रकारो धर्मिणम् उद्दिश्य साध्यधर्मो विधीयत इति || ५३ --५४ ||
SK
नन्व् एवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद् धर्मान्तरव्युदासो भवेत्. ततश् चानित्यश् शब्द इत्य् उक्ते ऽनित्य एवेत्य् अवधारणाद् अम्बरगुणत्वादयो ऽपि तद्धर्मा न भवेयुः. एवं च हेतोर् अपि प्रतिक्षेपात् साध्यसिद्धिर् अपि दुर्लभैव. असत्य् अवधारणे नित्यो ऽपि स्याद् इति नेष्टसिद्धः. अथ कथम् एको नित्यो ऽनित्यश् चेत्य् अर्थात् प्रतिपक्षप्रतिक्षेपः. सत्यम्, अत एव तन्निवृत्त्यर्थम् अवधारणे क्रियमाणे इतरनिवृत्तिर् अपि भवेद् अत आह -- नियम इति. साध्यधर्मविवक्षापेक्षयैव नियमः कल्प्यते, न{३,४१}पुनरविरोधिनो ऽपि धर्मान्तरात्. अतो ऽग्निमान् इति साध्यमाने ऽग्न्यभावमात्रम् एव निराकृतं भवति, न पुनः धर्मान्तरम्. यथा शुक्लः पट इत्य् उक्ते तद्विरोधिनस् तदभावस्यैव निवृत्तिर् भवति, नाविरोधिनां सूक्ष्मत्वादिधर्माणाम् इति. अत्र चासन्निकृष्टे ऽर्थ इत्य् उच्यते तस्य को ऽर्थः. यद्य् अनवगतपूर्वम् एवार्थम् अनुमानं गोचरयतीति, तन् न. सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धो ऽवगत एव. अन्यथा नियम एवावधारितो न स्यात्. न चात्र देशकालसम्बन्धो ऽधिक इति वक्तव्यम्. धूमस्य हि देशादिसम्बन्धो भासते नाग्नेः. धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात्. अत एव कैश्चित् स्मरणाभिमाननिरासार्थम् असन्निकृष्टपदं व्याख्यातम्. स्मरणं हि सन्निकृष्टावमर्शोल्लिखितम् एव प्रायशो भवति, स इति हि तत् प्रवर्तते. न चैवम् अनुमानम्. अतो नेदं स्मरणम्. नन्व् असत्य् अपि तदुल्लेखे स्मरणम् उत्पद्यत एव. यथा प्रमोषे. मैवम्. ग्रहणकारणाभाषाद् धि तत्रानुभवाकारप्रवृत्तम् अपि ज्ञानं स्मृतिर् इत्य् आस्थितम्. न ह्य् असन्निहितरजताद्यवभासकारणत्वम् इन्द्रियाणां प्राप्यकारिणां सम्भवति. स्मृतिहेतुस् तु प्राचीनानुभवप्रभाविता भावना समस्तीति स्मृतिर् एव प्रमुषिततदवमर्शा सेत्य् आश्रितम्. इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलाद् उत्पद्यमानं लैङ्गिकज्ञानम् अनुभवाकारप्रवृत्तं न तद्भावाद् उत्तारयितुं शक्यम्. अनुभूतिश् च नः प्रमाणम्. अतः प्रमाणम् अनुमानम् इत्य् आख्यायते. यद्य् एवम् अस्तु तर्हीदम् एवासन्निकृष्टपदस्य प्रयोजनम्. न. फलाभावेनाप्रामाण्यप्रसङ्गात्. अधिकपरिच्छेदफलं प्रमाणं भवति. परिच्छेदमात्रस्य तु फलत्वे स्मृताव् अपि प्रसङ्गः. सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते. स्यान् मतम् -- अनपेक्षं हि नः प्रमाणम्. अपेक्षते च स्मरणं ग्रहणम्. अतो न प्रमाणम् इति. तन् न. लैङ्गिके प्रसङ्गात्. तद् अपि ह्य् एकदेशदर्शनादिसापेक्षम् एव. स्वविषयग्रहणापेक्षं स्मरणं नेदम् इति चेन् न. इहापि तदपेक्षणात्. लैङ्गिकम् अपि हि प्राचीनाग्निज्ञानसापेक्षम् एव. न ह्य् अनवगताग्नेर् अविदितसम्बन्धस्याग्निर् अत्रेति मतिराविर् अस्ति. न च ग्रहणं प्रमाणम् एवेति राजाज्ञा. भ्रान्ताव् अपि प्रसङ्गात्. विपरीतावग्रहो ऽपि ग्रहणम् एव. न च प्रमाणम्. न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैर् अस्माभिर् उक्तम् एव. अपि च अर्थे ऽनुपलब्ध इति सूत्रयता सूत्रकारेण{३,४२}सर्वम् अनुपलब्धार्थविषयम् एव प्रमाणम् इति सूत्रितम्. एतद् अपि तद्व्याख्यानावसरे वर्णितम् एव. अतो व्याख्येयम् असन्निकृष्टार्थग्रहणम् अत आह -- असन्निकृष्टेति. अस्यार्थः -- द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा. तदुभयजिहासयेयम् असन्निकृष्टवाग् इति. किं पुनस् तन्निराकरणम् अत आह -- प्रमितस्येति. व्यवहारार्थं ह्य् अप्रमितपरिच्छेदाय प्रमाणम् अपेक्ष्यते न व्यसनेन. स च सकृत्प्रमाणव्यापाराद् एव सिद्ध इति न प्रमाणान्तरापेक्षेति || ५५ -- ५६ ||
SK
किं पुनः प्रमितस्य प्रमाणान्तरापेक्षा न जायेत. अत आह -- ताद्रूप्येणेति. वर्णितम् इदं - द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति. तत्र तावत् ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत्. पूर्वपरिच्छेदाद् एव तदर्थसिद्धेः. वैपरीत्यपरिच्छेदे तु प्रमाणान्तरम् अनवकाशम् एवेति तदुभयनिराकरणार्थम् असन्निकृष्टग्रहणम् अर्थवत्. नन्व् एवम् अप्रमाणम् एवानुमानं सन्निकृष्टविषयत्वाद् इत्य् उक्तम् एव. न. अधिकारविषयत्वात्. यद्य् अपि पूर्वावगतो धर्मः स्मृतिविषयः. धर्मी च गिरिर् अनुभवसिद्धः, तथापि विशिष्टम् अनुमानेन विषयीक्रियत इति वर्णितम् असकृत्. नन्व् अग्निविशिष्टो ऽपि सम्बन्धसमय एव संविदितः. एवं ह्य् अनेन व्याप्तिग्रहणकाले ऽवगतं धूमवन्मात्रम् अग्निमद् इति. तद् अस्य धूमवन्मात्र एवापेक्षा. विदिते तु तस्मिन्न् अग्निमत्ता प्रमितपूर्वैवानुभूयते. सत्यम्. किन् तु धूमवान् अग्निमत्तया प्रमितपूर्वो ऽपि सम्प्रत्यनुमानेन प्रत्यभिज्ञायते. प्रत्यभिज्ञानं चेदं प्रमाणम् एव प्रत्यक्षप्रत्यभिज्ञानवत्. पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातः. सम्प्रत्ययम् असाव् अग्निमान् इति विशेषतो ऽनुमानेन प्रत्यभिज्ञायत इति किम् अनुपपन्नम्. अवश्यं चैवम् अभ्युपगन्तव्यम्, अन्यथा कथम् अग्निमान् इति विदित्वा व्यवहाराय घटते. एष हि पक्तुकामो ऽग्निमत्ताम् अनुमायाग्नये धावतीति पश्यामः.{३,४३}तत् कस्य हेतोः, न यदि पूर्वानुभवाद् अद्य विशेषः, अवागमत् खल्व् अयं धूमवान् अग्निमान् इति, न चाग्नये धावतीति. कथम् अनाश्रयप्रतिपन्ने ऽग्नौ व्यवहरतीति चेत्. न. प्राग् अपि धूमवदाश्रयत्वेनावगमात्. पर्वतमधुना प्रत्यक्षेण विशेषतो ऽवगम्याग्नये व्यवहरतीति चेत्. किम् अस्याग्न्यर्थिनः पर्वतप्रत्यक्षेण. तद् अयम् अग्निमत्तया बोध एव पूर्वबोधाद् विलक्षणो ऽभ्युपगन्तव्यः. यत् कृतो व्यवहारविशेष इत्य् अगृहीतविषयत्वाद् अनुमानं प्रमाणम् इति वक्तव्यम्. तद् इदम् असन्निकृष्टग्रहणेनोक्तम्. ये तु स्मृत्याशङ्कानिराकरणम् अस्य प्रयोजनम् आहुः, तेषां बाधितविषयम् अप्य् अनुमानम् आपद्येत. न हि तन्निराकरणम् अवयवान्तरेण लक्षणग्रन्थे कृतम् उपलभ्यते. अतो ऽसन्निकृष्टग्रहणम् एवोभयविधसन्निकृष्टार्थनिराकरणार्थम् इति साध्वी व्याख्येति
SK
वैपरीत्यपरिच्छिन्ने परम् अनवकाशम् इत्य् उक्तम्. तत्र कारणम् आह -- मूल इति. व्याप्तिस्मरणादि ह्य् अनुमानस्य मूलम्, तद् यावद् उत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद् विप्रकृष्टसाधनस्योत्पत्तिर् एव निरुध्यत इत्य् अनन्तरम् एव वक्ष्यत इति. कथं पुनर् अनुमानं बाध्यते. तद् अपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते. बाधे वा न क्वचिद् आश्वासो भवेत्. आभासो बाध्यत इति चेत्, कथम् आभासत्वम्. यदि बाधाद् एवेतराश्रयं तर्ह्य् अस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधः. न तु ततो ऽपि जघन्यैर् अपरैर् बाध्यते, तत् कस्य हेतोः अत आह -- प्रत्यक्षादेर् इति स्यादन्तेन. अयम् अभिप्रायः -- न प्रमाणं नाम क्वचित् बाध्यते. अवधारणात्मकं ह्य् एवैतद् इति ज्ञानं प्रमाणम्. तद् यत्र कस्यचिद् अर्थस्य केनचिद् आत्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधो ऽभिधीयेत. तद्द्विविधो हि बाधः प्राप्तबाधश् चाप्राप्तबाधश् चेति. प्राप्तबाधो हि यथा -- शुक्तिकारजतज्ञाने. तत्र हि पूर्वोपमर्दनेनैवोत्तरम्{३,४४}आत्मानं लभत इति तत् तस्य बाधकम्. उत्तरं च देशादिभेदे ऽप्य् अबाधितं स्वभावतश् च प्रमाणं पूर्वम् आभासीकरोति. तद् एवं प्राप्तबाधे तावद् येनोत्तरेणार्थो ऽवधारितः. त्रिविधम् अप्य् अप्रामाण्यम् अवधारितपदेन व्युदस्यति. न ह्य् अज्ञातस् सन्दिग्धो विपर्यस्तो वार्थो ऽवधारितो भवतीति त्रिविधम् अप्य् अप्रामाण्यं यस्य नास्तीत्य् उक्तं भवति. तद् एवमात्मना ज्ञानेन पूर्वम् आभासीकृतम् इति तत्राभास एव बाध्यत इति नातिप्रसङ्गः. अप्राप्तबाधे तु यावत् क्लिष्टसाधनम् अनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद् विशेषविषये प्रवर्तितुम् आरभते तावत् प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थो ऽवधारितो भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति. न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखम् उत्पत्तुम् अर्हति. तद् एवमप्राप्तबाधे परम् अनुत्पन्नम् एव प्राप्तिसम्भावनया तु बाध्यत इत्य् उच्यते श्रुत्य् एव लिङ्गम् इति न क्वचित् प्रमाणबाधः. यत् तु जघन्येन मुख्यबाधो न युक्त इति. तन् न. न हि प्रत्यक्षादीनां विनियोगप्रमाणानाम् इव पारदौर्बल्यनियमः. यद् एव तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तद् एव बाधकम् अभिदध्महे. इतरच् च बाध्यम् अत एव तेनैव तस्य बाधं ब्रूमः. प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य. अतस् सर्वप्रमाणाविरुद्धम् एव पक्षम् अभिधास्यामः. न चानाश्वासः. आभासबाधात्. स्वतः प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात्. तद् इदम् अवधारितपदेनोक्तम् इति. ननु च बलवतापि नावश्यं दुर्बलं बाध्यते. असति हि सम्भवे बाधस् सम्भवति. अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयम् उपपादयिष्यते विनात्यन्तिकबाधाश्रयणेन, अत आह -- विकल्पादेर् इति. नात्रोक्ता विकल्पादयस् सम्भवन्ति. न तावत्परस्परविरुद्धं रूपद्वयम् एकत्र समुच्चीयते. न हि श्रावणो ऽश्रावणश् च नित्यो ऽनित्यश् चेति सम्भवति. न च विकल्पः. विधिनिषेधविषयत्वात् तस्य सिद्धे वस्तुन्य् असम्भवात्. न च विषयव्यवस्था, वर्णात्मनाम् एव नित्यानित्यत्वसाधनात्. अतो ऽसम्भवाद् एव बाधम् अभिदध्मह इति. एवम् उपपादितो बाध उदाहरणैर् दर्शयितव्यः. तत्र प्रत्यक्षबाधम् एव तावद् दर्शयति अग्राह्यतेति. इमं तु प्रत्यक्षबाधं न बुध्यामहे. स्वगोचरविपरीतार्थं हि प्रमाणं{३,४५} प्रत्यक्षेण बाध्यत इति युक्तम्. न च ग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात् तलः. तस्य च प्रत्यक्षागोचरत्वात्. शब्दो हि प्रत्यक्षः न ग्राह्यता. अत एव ह्य् अश्रावणतापक्षो ऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते. अत्रोच्यते. सत्यम्, नेन्द्रियविषयो ग्राह्यता, ग्राह्यस् तु तद्विषयः. तद् इह ग्राह्यापलापस्यैव प्रत्यक्षविरोधो दर्शितः. निरालम्बनानुमानस्येति यावत्. प्रत्ययस् त्व् अग्राह्यपदाद् उपपन्नस् तस्यैवाभावम् अभिधत्ते. कश् च ग्राह्यस्य भावो ऽन्यद् अतो भावात्. इयं हि शशविषाणस्याग्राह्यता यन् न भवति. तदभावाद् एव तत्राग्राह्यताभिधानप्रत्ययौ. तद् अनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिद् अनुपपन्नम् इति || ५८ -- ५९ ||
SK
अनुमानविरोधोदाहरणम् आह -- तेषाम् इति. तेषाम् एव शब्दादीनाम् अश्रावणत्वाद्यनुमानविरुद्धं यो ह्य् अश्रावणम् अनित्यं वा शब्दं पक्षम् इच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति. इदं तु प्रत्यक्षविरोधम् अन्ये मन्यन्ते. तान् निराकरोति -- न हीति. शब्दो हि प्रत्यक्षः न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्याम् उच्यते. कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्याम् इति स्मृतेः. स च न प्रत्यक्षेण समधिगम्यः. अपि च अतीन्द्रियं श्रोत्रं, कथं तत्सम्बन्धश् शब्दस्य प्रत्यक्षो भविष्यति. न ह्य् ऐन्द्रियानैन्द्रियाधारस् सम्बन्धः प्रत्यक्षो भवति वायुवनस्पत्योर् इव. अतो नायं प्रत्यक्षविरोध इति
SK
किंप्रमाणिका तर्हि श्रावणता. अत आह -- सेति. अबधिरादिषु शब्दोपलब्धेर् बधिरादिषु चानुपलब्धेर् अन्वयव्यतिरेकौ दृश्येते. तथा हि श्रोत्रोपघातमात्रेण चक्षुरादिमतो बधिरस्य शब्दबुद्धिर् न दृश्यते. श्रोत्रे च दृढे चक्षुरादिष्व् असम्भवे ऽपि शब्दग्रहणं दृष्टम्, अत आभ्याम् अन्वयव्यतिरेकाभ्याम् इदं श्रावणत्वं गम्यत इति. नन्व् एवं कथम् अनुमानविरोधः, न ह्य्{३,४६}अन्वयव्यतिरेकाव् अनुमानम्, तत्प्रभवस् तु मानसःश्रावणत्वविकल्पः, अतो मानसप्रत्यक्ष एवायम् इति कश्चित् भ्राम्यति स वक्तव्यः. न बहिर्विषयबोधे मनः स्वतन्त्रम् इति वर्णितम् असकृत्. यद् यदीयन्वयव्यतिरेकाव् अनुविधत्ते तत्तत्कारणकम् इति सर्वकार्येषु समधिगतम्, अनुविधत्ते च शब्दज्ञानं श्रवणम् इति तत्तत्कारणकम् इति. इदम् एव च शब्दस्य श्रावणत्वम्. यत् तु ज्ञानस्य श्रवणजन्यत्वम् अतो ऽनुमानम् एवेदम्. नन्व् अन्यत्राप्य् अन्वयव्यतिरेकानुविधायिनः कथं तत्कारणकत्वम् अवगन्तव्यम्, यन् न मानसं प्रत्यक्षम् आश्रीयते, श्रूयताम्. पश्यामो हि वयं कुम्भकारव्यापारानन्तरं कुम्भसम्भवम् उदीक्षमाणाः कार्यकारणभावं चक्षुषैव. इदं हि कुम्भस्य तत्कार्यत्वं या तदनन्तरसम्भूतिः. स च कुम्भस् तत्सम्भवश् चोभयं चाक्षुषम् एवेति किम् अत्र मनसा. अतो यद् यस्मिन् सति भवति, असति च न भवति, तत्तत्कारणकम् इति प्रत्यक्षतो विदितव्याप्तेर् अनुमानम् उपपन्नम् एव. एवं च प्रयोगः -- श्रवणप्रमाणप्रकाश्यश् शब्दः तस्मिन् सत्य् एवोपलभ्यमानत्वात्. यद् एवं तत्तत्प्रकाश्यं सन्तमस इव घटः प्रदीपप्रकाश्य इति. इदं च प्रत्यक्षपूर्वकार्थापत्तिपूर्वकम् अनुमानं तया श्रावणत्वसिद्धेः. इदं च सिद्धसर्वांगत्वाद् अश्रावणत्वानुमानाद् बलवत्. यावद् धि गुणत्वस्याश्रावणत्वेन व्याप्तिर् ग्रहीतुम् इष्यते, तावच्छीघ्रजन्मना श्रावणत्वानुमानेन व्याप्तिसंविदं प्रतिबन्धता तस्योत्पत्तिर् एव निरुध्यते. एवम् एवानित्यत्वानुमानम् अपि. यत् कृतकत्वादिहेतुकं तद् अप्य् असिद्धिव्यभिचारादिदोषान् न शीघ्रम् उपजायत इति सिद्धावयवैश् शीघ्रजन्मभिर् नित्यत्वानुमानैर् बाध्यते. यथा देशकालादिभिन्ना गोशब्दबुद्धयस् समानविषयाः गौर् इत्य् उत्पद्यमानत्वात् सम्प्रत्युत्पन्नगोशब्दबुद्धिवद् ह्य् अस्तनोच्चरितो वा गोशब्दो ऽद्याप्य् अस्ति गोशब्दत्वाद्, अद्योच्चरितगोशब्दवद् इत्यादिभिर् इति
SK
शब्दविरोधप्रकारम् इदानीं प्रतिजानाति -- त्रिधेति. प्रतिज्ञाविरोधादयो हि शब्दविरोधतया प्रसिद्धा इति ते तथाभिधीयन्ते. न त्व् एते शब्दविरोधाः. यत्र हि क्वचिद् अर्थे प्रतिष्ठितेन शब्देन प्रतिज्ञान्तरं बाध्यते, तत्र शब्दविरोधो भवति. न च स्ववाग्विरोधे शब्दस्य क्वचिद् अर्थे प्रतिष्ठास्ति व्याहताभिधानात्. पूर्वसञ्जल्पविरोधे ऽपि पूर्वापरन्यायबलाबलानुसार्य् एव निर्णय{३,४७} इति न शब्दविरोधः. न हि तत्र शब्दप्रमाणतो ऽर्थः न्यायगम्यत्वात्. लोक प्रसिद्धिस् तु न शब्दो न प्रमाणान्तरम्. अपि अतु प्रत्यक्षाद्यन्तर्गतैवेति तद्विरुद्धपक्षप्रदर्शनेनैव प्रदर्शितेति न शब्दविरोधे ऽन्तर्भावयितुम् उचिता. न ह्य् अचन्द्रश् शशीति पक्षश् शब्देन विरुध्यते. न हि चन्द्रशब्दश् शाङ्कयोस् सम्बन्धं शब्दो वदति येनातद्वाच्यपक्षस्य शब्दविरोधो भवति सम्बन्धवाच्यत्वे हीतरेतराश्रयं भवेत्. अभिधानात् सम्बन्धः सम्बन्धाच् चाभिधानम् इति. तस्मान् नैते शब्दविरोधाः. पूर्वोत्तरशब्दसामर्थ्यपरामर्शेन त्व् एकपरित्यागेनेतरपरिग्रहाच् छब्दविरोधतया प्रसिद्धा इति तन्त्रान्तरप्रसिद्धिविभागस् त्रिधा शब्दविरोध इत्य् उच्यते. परमार्थेन तु वेदार्थवचनविपरीतार्थप्रतिज्ञैव शब्देन विरुध्यते. तत्र हि प्रतिष्ठितं शब्दस्य प्रामाण्यं शक्नोति विपरीतप्रतिज्ञो वारयितुम्. तच् चानन्तरम् इहैव वक्ष्याम इति
SK
तान् एव त्रीन् प्रकारान् दर्शयति -- प्रतिज्ञेति. तत्र प्रतिज्ञाविरोध एवैकस् त्रिधा भिद्यत इत्य् आह -- यावद् इति सार्धेन. अयम् अर्थः -- प्रतिज्ञाविरोधो हि स्ववाग्विरोधः. स च त्रेधा भिद्यते. उच्चारणधर्मधर्मिभेदात्. यावज्जीवम् अहं मौनीति पक्षः प्रतिज्ञयैव बाध्यते. न ह्य् अनुक्ता सती प्रतिज्ञा भवति. उक्तिमात्रेण च मौनं बाध्यते. अतः प्रतिज्ञाशरीरान्तर्गतेनोक्तिमात्रेण बाधाद् भवति प्रतिज्ञया बाधः. सर्ववाक्यमृषात्वपक्षस् तु धर्मोक्त्या बाध्यते. सर्वमृषात्वे हि प्रतिज्ञावचनम् अपि मृषेति नेतरन्मृषा भवेत्. तदमृषात्वे वा न सर्वमिथ्यात्वम्. तद् इह प्रतिज्ञान्तर्गतधर्मसंसर्गासम्भवपरामर्शात् पक्षबाध इति धर्मोक्तिविरोधाभिधानम्. पूर्वत्र त्व् अविशिष्टमुक्तिमात्रम् एव मौनं बाधते इत्य् उक्तिमात्रेणेत्य् उक्तम्. आत्मबाधनम् इति. धर्मबाधनम् इत्य् अर्थः. धर्म एवायुक्त आत्मानं बाधत इति यावत्. वन्ध्या मे जननीति पक्षो धर्म्युक्त्या बाध्यते. जननीत्वे ह्य् उद्दिष्टमात्रे न{३,४८}वन्ध्यात्वम् आस्पदं लभते. न च गौणो जननीशब्द इत्य् अपि वक्तव्यम्. अहं यतो जात इति विशेषणात्. एवं विशेषिते पक्षे धर्म्युक्तिविरोध इत्य् उक्तं भवति. एतच् चाभ्युपगमवादेनोक्तम्. न तु श्रुतिस्मृत्यतिरेकीणि जल्पाकवचनानि गौणत्वादिभिस् समीकर्तुं शक्यन्ते. सर्वदूषणोच्छेदप्रसङ्गात्. प्रमादाज्ञानजान्य् एव हि दूषणानि भवन्ति. तेषु कथञ्चित् समाधीयमानेषु न किञ्चिद् दूषणं नाम भवेद् इति || ६२ -- ६३ ||
SK
पूर्वसञ्जल्पविरोधम् उदाहरति बौद्धस्येति. अनित्यश् शब्द इति बौद्धेनोक्ते कथं क्षणिकाद् अगृहीतसम्बन्धाद् अर्थप्रत्यय इत्य् अनुयुक्तेन तेनैव यदा पुनर् उच्यते नित्यस् तर्हीति तदा तस्य पूर्वाभ्युपगमविरोधः. यद्य् अपि चात्र न्यायबलाबलानुसारी बाध्यबाधकभावः, तथाप्य् एवंविधा पूर्वापरविरुद्धा प्रतिज्ञैवात्मानं न लभत इति न न्यायावतारम् अपेक्षते. सम्भावितो हि प्रतिज्ञायाम् अर्थो न्यायेन साध्यते. असम्भाविते तु नायापेक्षा नास्त्य् एव, स्वरसभङ्गुरत्वात्. अतश् शब्दविरोध एवैनम् अन्तर्भावयति. शब्दसन्दर्भ एव हि तादृशः पूर्वापरविरुद्धः पक्षं विनाशयतीति तेषाम् अभिप्राय इति. सर्वलोकप्रसिद्धिविरोधस्योदाहरणम् आह -- चन्द्रेति. अत्रापि महाजनविपरीतार्थश् शब्दसंसर्गः स्वरसाद् एव भज्यते न प्रमाणं यावदपेक्षत इति शब्दबाध उदाहृत इति
SK
उपमानविरोधोदाहरणम् आह -- ज्ञातेति. येन हि नगरे गवाकारो दृष्टः सम्प्रति चारण्ये गवयाकारः, तं प्रति गौर् गवयसदृशो न भवतीति पक्ष उपमानेन विरुध्यत इति.{३,४९}परोक्षे गवि सादृश्यम् उपमेयम्. प्रत्यक्षे तु प्रत्यक्षम् एव. अत एव ज्ञातगोगवयाकारम् इति क्रमो विवक्षित इति
SK
अर्थापत्तिविरोधम् इदानीं विवक्षन् भाष्यकारानुसारेणाभावपूर्विकायास् तावदुदाहरणम् आह -- गेहेति
SK
प्रत्यक्षपूर्विकाम् उदाहरति -- अग्नाव् इति. अदाहक इति. अतच्छक्तियुक्त इत्य् अर्थः. अनुमानपूर्विकाम् उदाहरति -- शब्दे चानभिधायक इति. शब्दश्रवणानन्तरम् अर्थप्रतीतिं चेष्टयानुमाय तत्र शब्दः कारणम् इत्य् उन्नीयते. अतस् सर्वकारकाणां क्रियाविनाभावाद् अभिधाभिधानो व्यापारः, तदनुपपत्त्या चार्थापत्त्या तच्छक्तिसिद्धिर् इति
SK
तथेन्द्रियापलापपक्षो ऽपि प्रत्यक्षपूर्विकयार्थापत्त्या विरुध्यत इत्य् आह -- श्रोत्रेति. यद्य् अपि प्रत्यक्षपूर्विकोदाहृतैव तथापि पक्षदोषोद्भावनच्छलेनेन्द्रियापलापपक्षस्याप्य् अयं दोष इति विवक्षता पुनस्तद्विरोधो ऽभिहितः. अत्रैवादिशब्देनोपमानपूर्विकया विरोधो दर्शयितव्यः -- यथा गवयोपमिताया गोस् तज्ज्ञानग्राह्यशक्त्यपह्नव इति. अर्थापत्तिपूर्विकया विरोधम् उदाहरति -- शब्देति. अर्थाभिधानान्यथानुपपत्त्या हि वाचकशक्तिम् अर्थापत्त्या प्रमाय पुनस्तदनुपपत्त्यार्थापत्त्यन्तरेण शब्दनित्यत्वम् अवगम्यत इति
SK
शब्दपूर्विकार्थापत्तिविरोधम् उदाहरति -- श्रुतार्थापत्तिबाध इति. किं पुनर् अर्थापत्तिः प्रपञ्चेनोदाह्रियते, तद्विरोधप्रतिपादनं हि ययाकयाचिद् एकयापि सिध्यत्य् एव. तथा च प्रमाणान्तरविरोधेषु प्रपञ्चो न दर्शितः. अर्थापत्तिवद् वा प्रमाणान्तरविरोधो ऽपि प्रपञ्चेन वाच्यः. सत्यम्. षोढा भिन्नैर् एव षड्भिर् अत्र विरोधो वार्तिककारस्य विवक्षितः, तत्प्रदर्शनार्थम् एव षट्प्रमाणप्रसूतार्थापत्तिर् उदाहृता. तेनैव तु मार्गेण प्रमाणान्तरेष्व् अपि प्रपञ्चो दर्शयितव्यः.{३,५०}यथा तावत् प्रत्यक्षबाध एवानुभूतिस्मृत्यनुमानादिभिः षष्ठवर्जं षोढा भिद्यते. स्वेद्यमानस्य वादिनो ऽनुष्णो वह्निर् इति प्रतिज्ञा अनुभवस्थेनैव प्रत्यक्षेण विरुध्यते. अनासन्नाग्नेस् तु सैव प्रतिज्ञा स्मृतिस्थेन प्रत्यक्षेण विरुध्यते, यदा खल्व् अयं वादकाले ऽनुष्णो वह्निर् इति प्रतिजानाति तदैनम् इतरः स्मारयति किं न स्मरसि पूर्वानुभूतम् अग्नेर् उष्णत्वं यद् एवम् आत्थेति, स तत् स्मृत्वा ततः प्रत्यक्षान्निवर्तत इति भवति स्मृतप्रत्यक्षबाधः.
SK
अनुमितप्रत्यक्षबाधस् तु यत्राप्तमुखे चेष्टाविशेषादर्शनेन तदवगततिक्तादिर् असनिवारणं प्रतिज्ञायते, मुखवैरूप्येण हि तस्य तिक्तानुभवो ऽनुमीयते अतस् तद्विपरीतपक्षस्यानुमितप्रत्यक्षबाधः.
SK
श्रुतप्रत्यक्षबाधस् तु यत्र केनचिद् अर्थे कस्मिंश्चिद् अपह्नुते साक्षिभिर् दृष्टो ऽयम् अर्थ इति साक्षिप्रत्यक्षेण बाधो ऽभिधीयते. न चैष शब्दबाधः. न ह्य् अत्र तैर् अर्थो ऽभिधीयते. किन् तु दर्शनम्. अतस् तद्दर्शनानुसार्य् एव निर्णयः. दर्शनं तु तैः स्वशब्देन प्रत्याय्यत इति शब्दावगतप्रत्यक्षविरोध एवायम्.
SK
उपमानं तु प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयम् इत्य् अन्यतस् सिद्धस्य सादृश्यं गोचरयति. यथा दात्रादिप्रत्यभिज्ञायां यादृशी स्वात्मनि चेष्टा दृष्टा तां परत्रापि दृष्ट्वोपमिनोति ममेवास्यापि दात्रादिप्रत्यभिज्ञा प्रत्यक्षम् उत्पन्ना, कथम् अन्यथा पूर्वेद्युर् अर्धकृतकर्मसमापने परेद्युः प्रवर्तते. इह च चेष्टया तदनुरूपं परगोचरम् अनुमाय स्वज्ञानसादृश्यं तत्रोपमीयते. यद्य् अपि चात्रानुमानावगतप्रत्यक्षबाध एव शक्यो दर्शयितुम्, तथापि स्वज्ञानसादृश्यपरिच्छेदे शक्यं दर्शयितुम् इति तदवगतप्रत्यक्षबाधो ऽभिधीयते. प्रत्यक्षसत्तैवोपमानेन प्रमीयते. अर्थापत्त्यवगतप्रत्यक्षबाधस् त्व् एवं दर्शयितव्यः. यदा हि बहुषु गच्छत्सु तोयार्थिषु तटाकम् एकस् तदाहरणाय प्रस्थितो विलम्बते तदा तद्विलम्बनान्यथानुपपत्त्या तदीयं तोयप्रत्यक्षम् अर्थापत्त्या प्रमीयते. तत्र तद्विपरीतो निस्तोयतटाकपक्षो ऽर्थापत्तिसिद्धेन प्रत्यक्षेण बाध्यते. अभावेन तु भावरूपं प्रत्यक्षं नावगम्यत इति तदनवगतप्रत्यक्षविरोधो नेहोदाह्रियते. षोढा विभक्तम् अनुमानबाधमतःपरम् अनुसन्धास्यामः -- धूमावगतवह्निप्रतिषेधे तावत् प्रत्यक्षपूर्वानुमानबाधः. धूमानुमिताद् एव बह्नेर् उष्णत्वे ऽनुमिते तद्विपरीतपक्षो ऽनुमितानुमानेन बाध्यते. यत्र तु देवस्य त्वेति निर्वपति{३,५१}इति प्रतीतविनियोगान् मन्त्रशेषे ऽनुमिते तद्विपरीतः पक्षो गृह्यते, तत्रागमानुमानबाधः.
SK
नित्ये तु कर्मणि प्रवृत्ते व्रीहीणाम् अपचारे तत्सदृशेषु नीवारेषूपमितेषु व्रीहिभिर् यजेतेति चोदना नीवारविषयत्वेनानुमीयते. व्रीह्यवयवा हि तद्विषयतया ज्ञातसम्बन्धास्ताम् अनुमापयन्ति. न हि तस्याः स्वरूपेण व्रीहयो विषयभूताः, तदवयवास् तु चूर्णीभूता व्रीहिशास्त्रार्थः. ते च नीवारेष्व् अपि सन्तीति व्रीह्यवयवसामान्योपमितनीवारगामिनी व्रीहिचोदनानुमीयते. तद् इहातद्गोचरत्वपक्षस्योपमानपूर्वकानुमानबाधः.
SK
अर्थापत्तिपूर्वकानुमानबाधस् तु श्रावणत्वपक्षे ऽभिहित एव. यत्र दूराद् वृक्षाभावं विदित्वा तच्छायाभावो ऽनुमीयते तत्राभावपूर्वकानुमानेन छायासद्भावपक्षो बाध्यते. प्रत्यक्षशब्दबाधस् तु त्रिधा दर्शित एव. अन्यो ऽपि श्रुतिस्मृतिभ्यां दर्शयितव्यः. अष्टकादीनाम् अधर्मत्वपक्षस् तु कर्तृसामान्यानुमितशब्दविरुद्धः स्मृत्यधिकरणे दर्शितः. शक्यं ह्य् अष्टकादयः शब्दमूलाः शास्त्रस्थार्यावर्तनिवासिकर्तृकत्वाद् अग्निहोत्रादिवद् इत्य् अनुमातुम्. आगमिकशब्दबाधस् तु यत्र शाखान्तरगतश्रुतिविषयविवादे स्मृतिनिबन्धनकाराणां वचनेन श्रुतिसद्भावो निश्चीयते, तत्र ह्य् आप्तागमावगतनित्यागमविरोधो विपरीतपक्षस्य सम्भवति. उपमितशब्दविरोधस् तु मन्वादिस्मृतिभ्यो ऽर्थापत्त्या वैदिकं किम् अपि मूलम् अस्तीति कल्पिते स्मार्तवाक्यसदृश एव मूल उपमिते र्थवादमूलत्वपक्ष उपमितशब्देन बाध्यते. विश्वजिदफलत्वपक्षस् तु श्रुतार्थापत्तिसिद्धशब्दविरुद्धः. अभावेन तु शब्दभावो ऽवगन्तुं न शक्यत इति शब्देयत् तावधारणे तस्य व्यापारः तत्राभावावधारितविधिकार्त्स्य्ने ज्योतिष्टामे प्राकृतेतिकर्तव्यताप्राप्तिपक्षो बाध्यते. यथा वक्ष्यति -- कृत्स्नविधानाद् अपूर्वस् सोम इति. व्रीह्यभावे तु नीवाराणाम् अग्राह्यतापक्षः प्रत्यक्षजोपमानविरुद्धः. अनुमानपूर्वकोपमानबाधस् तु यदा ह्य् आदित्यस्य देशान्तरप्राप्त्या गतिम् अनुमाय संवत्सरादिमध्यान्तेषु तस्यास् सादृश्यम् उपमीयते. यादृश्य् एकत्र संवत्सरादौ तन्मध्ये वान्ते वा सूर्यगतिः तादृशी वत्सरान्तेष्व् इति तत्र गतिवैसादृश्यपक्षो ऽनुमानपूर्वकोपमानेन बाध्यते. पूतीका न सोमसदृशा इति तु पक्षश् शब्दपूर्वकोपमानविरुद्धः. सामपूतीकयोर् हि सादृश्यं न प्रत्यक्षम्. न{३,५२}चानुमेयम्. शब्देनैव तु सोमांशुजातत्वं पूतीकानां प्रतिपादयता कार्यकारणयोर् औचित्येन सारूप्यं प्रतिपादितम् इति शब्दावगतकार्यकारणप्रभवत्वात् पूतीकानां सोमसादृश्योपमानस्य तद्विपर्ययः शब्दपूर्वकोपमानविरुद्धो भवति. ज्योतिष्टोमिका हि धर्मास् सत्राहीनेषु न भवन्तीति पक्ष उपमानोपमानेन बाध्यते. ज्योतिष्टोमोपमानेन हि ते द्वादशाहं गच्छन्ति द्वादशाहोपमानेन च सत्राहीनाव् इति. यदा त्व् आत्मेन्द्रियसादृश्यविशिष्टानि परेन्द्रियाण्य् उपमीयन्ते तत्र तन्निषेधो ऽर्थापत्त्युपमानेन बाध्यते. वेदकारनास्तिता शशशृङ्गाद्यभावसदृशी न भवतीति पक्षो ऽभावपूर्वकोपमानेन बाध्यते. द्वयोर् अप्य् अभावेनाभावे ऽवगते सादृश्यम् उपमीयते. अर्थापत्तिविरोधस् तु षड्विधो वर्णित एव. अभावविरोधं त्व् अनन्तरम् एव वक्ष्यामः
SK
अभावविरोधम् इदानीम् उदाहरति -- शशशृङ्गादीति. अयं च प्रत्यक्षाभावविरोधः. यदा त्व् अमुं राशिं सूर्यो गतो न वेति चिन्त्यमाने गणितकुशलेन गणितानुमानाभावान् न गत इत्य् अवगते भ्रान्तो गत इति वदति. तत्रानुमानाभावविरोधः. चैत्यवन्दनादिधर्मत्वपक्षस् तु श्रुत्याद्यागमाभावविरुद्धः. पूर्ववन्तो दर्वीहोमा इति तूपमानाभावेन विरुध्यते, न हि तेषां केनचित् कर्मणा सादृश्यं कथञ्चिद् अवगम्यत इति. पलालकूटकुञ्जरयोस् तु सादृश्यास्तितापक्ष उपमानाभावेन विरुध्यते. तथा शब्दे श्रोत्रदेशम् अनागच्छति श्रोत्रे च शब्ददेशं ध्वन्यागमनमात्रेणैव शब्दश्रवणोपपत्तेर् यो ऽर्थापत्या शब्दश् शब्दान्तरम् आरभते ततः क्रमेणान्त्यः श्रोत्रेण गृह्यते इत्य् अन्यथानुपपत्त्या प्रतिजानाति तत्प्रतिज्ञा अर्थापत्त्यभावेन बाध्यते. अभावाभावस् त्व् एवं दर्शयितव्यः -- यदा हि कर्त्रभावेन वेदानां दोषाभावो वगतो भवति तदा दोषवत्पक्षस्याभावाभावेन बाध इति
SK
एवं तावद् धर्मसम्बन्धबाधः षोढा प्रपञ्चितः. धर्मधर्म्युभयस्वरूपस्वविशेषबाधमतःपरं वक्ष्याम इति संक्षिप्य सुखग्रहणार्थं श्रोतृबुद्धिसमाधानार्थं{३,५३}च वृत्तवर्तिष्यमाणयोस् सङ्कीर्तनं करोति -- एवम् इति सार्धेन. श्रुत्यर्थाक्षिप्तयोर् इति. स्वरूपं तावत् सर्वत्र श्रुत्यर्थ एव. तद्विशेषो ऽप्य् अर्थाक्षिप्तः. धर्मधर्मिणोर् हि स्वरूपं येन विशेषेण व्याप्तं तम् आक्षिपति. तच् चानन्तरम् एव वक्ष्यत इति. श्रुत्यर्थश् चाक्षिप्तश् चेति विग्रह इति
SK
तत्र धर्मस्वरूपबाधो वर्णित एवेति तम् अकृत्वैव तद्विशेषणबाधम् उदाहरति -- तृणादीति. यो हि तृणादिविकारदर्शनाद् अग्निमद्धिमं साधयति तस्याभावेन तावद्धर्मस्वरूपबाधो भवत्य् एव. तद्विशेषणम् अप्य् उष्णत्वम् अर्थाक्षिप्तं प्रत्यक्षावगतेन शैत्येन बाध्यते. न च वाच्यम् अनुष्णो ऽपि वह्निः प्रभासु दृष्ट इति कथम् अर्थाक्षिप्तो विशेष इति. प्रभास्व् अप्य् एवं वह्निर् उष्ण एव, अभिभूतत्वात् तु स्पर्शो न गृह्यते, न पुनरुष्णतां जातु जहाति, स्वाभाविकी हि सा तस्य. न च हिमे ऽप्य् अभिभूतत्वाद् अग्रहणम् इति वाच्यम्. तद्विपरीतशैत्योपल्म्भात्. हेतूपन्यासस् तु पक्षदोषाभिधानावसरे तद्बीजमात्रप्रदर्शनार्थं सो ऽयम् अभावेन धर्मविशेषबाध इति
SK
धर्मिणस् तु द्विप्रकारो ऽपि बाधो ऽनुक्त एवेति उभयथा तद्बाधोदाहरणम् आह -- अधर्म इति सार्धेन. हिंसा किलाधर्म इति सामान्यतो ऽवगतम्. तद् यदा विहितो ऽधर्मो दैक्षपशुहिंसादिर् यद् दुःखं करोतीत्य् अनूद्य तदल्पम् इति साध्यते, तदापि विहितत्वेनाधर्मतैव बाध्यते तद्विशेषो ऽपि दुःखनिमित्तत्वं यदर्थाक्षिप्तं तद् अपि तेनैव बाध्यते. न हि विहितं नाम किम् अपि दुःखस्य निदानं भवति. पुरुषार्थैकसाधनत्वाद् विधेः. सो ऽयम्{३,५४}आगमेन धर्मिस्वरूपस्वविशेषबाधः. न चात्र श्रुत्युपात्त एव स्वविशेष इति चोदनीयम्. अर्थाक्षिप्तस्याल्पतया विधानार्थम् अनुवादाद् इति
SK
उभयस्योभयविरोधम् उदाहरति -- अयथार्थेति. यदा हि सर्वज्ञानानि मिथ्येति साध्यते तदा धर्मधर्मिग्राहिणोर् अपि ज्ञानयोर् मिथ्यात्वात् तद्विशेषणग्राहिणोश् च मिथ्यात्वाद् भवत्य् उभयस्यैवोभयबाध इति. अयं च धर्मोक्त्योभयबाध इति शब्दबाध एव निवेशनीय इति समधिगतं तावद् उभयोः स्वरूपबाध इति
SK
कौ पुनस् तद्विशेषाव् अर्थाक्षिप्तौ बाध्येते. अत आह -- क्षणिकेति. बाध्येते इति विपरिणम्य सम्बन्धो दर्शयितव्य इति. तत्र चैकदेशदर्शनाद् इत्य् उच्यते. तत्र च दर्शनग्रहणम् अतिरिच्यते. एकदेशाद् इत्य् एव वक्तव्यम्. तद् धि लिङ्गं न पुनर्दर्शनम् अतो व्याख्येयम् एकदेशदर्शनाद् इत्य् अत आह -- दर्शनाद् इति. अयम् अर्थः. नैकदेशस् सत्तामात्रेण लिङ्गम्. किन् तु स्वप्रतिपत्तौ ज्ञातः परप्रतिपादने च ज्ञापितः. तद् इदम् उभयम् उपादातुं दर्शनग्रहणम्. शक्नोति चोभयम् उपादातुम्, णिज्भावाभावयोर् अपि निर्देशसाधारण्यात्. स्वप्रतिपत्तौ तावद् एकदेशे दृष्टे बुद्धिर् अनुमानम् इत्य् अर्थः. परार्थप्रयोगे तु णिजन्तदर्शनपदम् एकदेशं दर्शयित्वा या बुद्धिर् जायते सानुमानम् इत्य् उक्तं भवति. तद् इदं तत्रोच्चरितदर्शनपदम् अर्थद्वये व्याख्येयम्. अनेन च यत्रैकदेशे वादिप्रतिवादिनोर् अकस्योभयोर् वा संशयो ऽधीर्विपर्ययो वा भवति सो ऽसिद्धाभिधानो हेत्वाभासो व्युदस्यते. न ह्य् असौ तादृशः परस्मै दर्शयितुं शक्यते.{३,५५}स्वयं वा दृष्टो भवति. अधीरज्ञानम् इत्य् अर्थः. तत्र द्वयविपर्यस्तोदाहरणम् आह -- शैत्याद् इति. वह्निशब्दयोर् द्वयोर् अपि शैत्यचाक्षुषत्वे वादिप्रतिवादिनोर् विपर्याद् असिद्ध इति || ७५ -- ७६ ||
SK
अन्यतरासिद्धोदाहरणम् आह -- कृतकत्वेति. यदा वैशेषिको याज्ञिकं प्रति शब्दो ऽनित्यः कृतकत्वात् गुणत्वाद् वेति हेतुं प्रयुङ्क्ते, तदासौ स्वरूपेण तस्यासिद्धो भवति. यदा तु स्वयम् एवंप्रकारं हेतुं परं प्रति वदति तदा तस्यासिद्धिः. यथा नित्यः शब्दः द्रव्यत्वाद् आकाशवद् इति. न हि वैशेषिकाश् शब्दं द्रव्यम् अभ्युपगच्छन्ति गुणत्वाभ्युपगमात्. एवंप्रकार इति. परासिद्धप्रकार इत्य् अर्थः
SK
सन्दिग्धासिद्धम् उदाहरति -- बाष्पादीति स्यादन्तेन. यदा हि धूमो बाष्पादिभावेन सन्दिह्यते द्वाभ्याम् एकेन वा किंस्विद् अयं रजसामुद्गमो बाष्पो वा धूमो वेति तदा द्वयोर् अप्य् अन्यतरस वा सन्दिग्धासिद्धो भवति. एवं तावत् सन्देहविपर्ययाभ्याम् असिद्धतोदाहृता. अज्ञानेन त्व् अप्रसिद्धार्थपदप्रयोगे दर्शयितव्या. त्रिधेति. वादिप्रतिवाद्युभयैस् त्रयः प्रकारा इति. एवं तावत् स्वरूपतो हेतुर् असिद्धो भवतीत्य् उक्तम् इत्य् आह -- एवम् इति
SK
आश्रयासिद्धताप्य् एतैर् एव ज्ञानादिभिर् वादिप्रतिवाद्युभयापेक्षैस् त्रिधा भिद्यत इत्य् आह -- एत एवेति
SK
ननु स्वरूपासिद्ध्या हेतुर् दुष्येत् आश्रयासिद्ध्या तु कस् तस्य दोषः अत आह -- ज्ञाते ऽपीति. अयम् अभिप्रायः -- न स्वरूपेण हेतुर् गमकः, अपि तु{३,५६}पक्षधर्मतया ज्ञातः. न चाप्रसिद्धाश्रयस् तद्धर्मतया ज्ञातुं शक्यते. शैत्यचाक्षुषत्वयोर् अपि पक्षधर्मत्वासिद्ध्यैवाहेतुत्वम्. सिद्धं हि स्वरूपेण जले शैत्यं रूपरूपिरूपैकार्थसमवायिषु च चाक्षुषत्वम्. शब्दा(दौ) हि पक्षधर्मतया तु तयोर् असिद्धत्वम् इति तद्धर्मरूपाभिप्रायेण स्वरूपासिद्धवचनम्. अत आश्रयासिद्धाव् अपि पक्षधर्मत्वासिद्धेर् अहेतुत्वं युक्तम् एवेति
SK
ताम् इदानीम् आश्रयासिद्धिम् उदाहरति -- सर्वत्रेति असिद्धान्तेन. यदा हि बौद्धं प्रति सर्वत्र कार्योपलम्भाद् आत्मनस् सर्वगतत्वं मीमांसकास् साधयन्ति, तदान्यतरासिद्धाश्रयो हेतुर् भवति. बौद्धस्यात्मनो ऽसिद्धेर् इति. यस् तु प्रमाणगतिम् अजानानो लौकिकः कश्चिद् आत्मनि संशेते, तस्मिन्न् एव हेताव् उच्यमाने सन्दिग्धाश्रयो हेतुर् इत्य् आह -- लौकिकादेर् इति. आत्मनि संशय इत्य् अर्थः. आदिशब्देन सतीर्थिकानाम् अपि येषाम् आत्मनि संशयः त उपाद्रियन्ते. एवं संशयविपर्ययाभ्याम् आश्रयासिद्धिर् उक्ता. अज्ञानेनाप्य् आश्रयासिद्धिर् अप्रसिद्धपदप्रयोगे दर्शयितव्या. यस्य हि पक्षवचनश् शब्दो न प्रसिद्धस् तं प्रत्येवंजातीयके हेताव् उच्यमाने ऽज्ञानेनाश्रयासिद्धिर् इति
SK
ननु यद्य् अन्यतरासिद्ध्या हेतुर् दुष्यति, एवं तर्ह्य् अमूर्तत्वाद् आत्मा निष्क्रिय इत्येवमादेर् अपि हेतुत्वं न स्यात् दिगम्बराणाम् आत्मनो ऽमूर्तत्वासिद्धेः. मूर्तं हि ते शरीरपरिणामम् आत्मानं मन्यन्ते. अकर्तृकत्वान् नित्यो वेद इति च बौद्धानां तदसिद्धेर् अहेतुः. शब्दो ऽनित्यः कृतकत्वाद् इति मीमांसकानाम् असिद्धेः. तद् एव हेतुर् नाम न कश्चित् व्यवतिष्ठते. अत आह -- वाङ्मात्रेति. अयम् अर्थः -- नासिद्धो ममेति वाङ्मात्राद् धेतुर् असिद्धो भवति. तथा सति न कश्चिद् अनुमानव्यवहारः प्रकल्पेत. द्वाभ्यां तु वादिप्रतिवादिभ्याम् असत्त्वेनावधारितो{३,५७}सिद्धोभवति, तस्यैव तथाविधस्यासिद्धतावचनं वादिनो दूषणं भवति नासिद्ध इति वाक्प्रवृत्तिमात्राद् इति
SK
ननु किम् इदं द्वयोर् असिद्धो ऽसिद्ध इति, न हि विवदमानयोर् एकत्रार्थे सम्प्रतिपत्तिर् भवति, न हि जन्मसहस्रेणापि बौद्धो वेदानाम् अकर्तृकत्वं मन्यते, मीमांसको वापि कण्ठगतप्राणो ऽपि कृतकतां शब्दस्य. तद् एवमादाव् उभयसम्प्रतिपतेर् अभावान् न हेतुभावो ऽवतिष्ठते. अत आह -- इतरद् इति, अयम् अभिप्रायः -- न द्वयोर् असंप्रतिपत्तिर् इत्य् एतावतैव साधनदूषणयोर् अनवकॢप्तिः. यदि वादिना प्रयुक्ते साधने प्रतिवादिना चासिद्धत्व उद्भाविते वादिना तत्साधनं साध्यते, ततो भवति साधनम्. यदि तु परमार्थोपपत्त्यभिधानेन प्रतिवादिना निराक्रियते ततस् तस्य दूषणं सिध्यति. तत्प्रमाणतस् सिद्धिर् एवात्रोपयुज्यते नोभयाभ्युपगमः. द्वाभ्यां यो ऽसत्त्वतो ज्ञात इत्य् अपि प्रमाणसिद्ध्यभिप्रायेणोक्तम्, नाभ्युपगममात्रापेक्षया. यद् धि प्रमाणेन साध्यते बाध्यते वा तत्र प्रायेणोभयसम्प्रतिपत्तिर् दृष्टेति. असत्त्वतो ज्ञातापेक्षयेतरच्छब्दः. यद् वादिना सत्त्वेन ज्ञातं भवति प्रतिवादिना च वैपरीत्येन, तद्वादिना साध्यमानं साधनं भवति. एतच् च जल्पन्याये स्थित्वोक्तम्. वादे तु द्वयोर् अपि सम्प्रतिपत्तिर् भवत्य् एवेति. न चैवम् अन्यतरासिद्धिर् अदूषणम्, यावत् तु यादी न साधनं साधयति, तावद् अन्यतरासिद्ध्या निगृह्यते, साधिते तु तस्मिन् दूषणं परिहृतं भवतीति
SK
दर्शितं तावदसन्निकृष्टैकदेशशब्दयोर् व्यावर्त्यं, ज्ञातसम्बन्धपदस्येदानीं व्यावर्त्य दर्शयति सन्देहेति वचनान्तेन. सन्देहविपरीतहेत्वोर् हि न संबन्धो ज्ञातो भवति, न हि साधारणस् संशयहेतुः प्रमेयत्वं नित्यत्वेन ज्ञातसम्बन्धम् इति शक्यते वक्तुम्, धटादिष्व् अनित्यतयापि ज्ञातसम्बन्धत्वात् नापि कृतकत्वं नित्यतया, तेष्व् एवानित्यतया सम्बन्धसंवित्तेः. अतस् तज्जातीयम् उभयं न ज्ञातसंबन्धम् इति ज्ञातसंबन्धपदेन व्युदस्यति. अत्र चासन्निकृष्टपदात् प्रभुति प्रातिलोम्येन वार्तिककृता लक्षणग्रन्थे विशेषणोपादानफलम् उक्तम् उ,{३,५८} तत् कस्य हेतोः. प्रतीतिक्रमानुसारेण. प्रभाता हि प्रथमं पक्षं प्रत्येति, ततो हेतुम् अपेक्षते, ततो दृष्टान्तवचनम्, अतो ऽसत्पक्षनिराकरणार्थं प्रयुक्तम् असन्निकृष्टपदम् एव तावद् उपवर्णितम्. ततो हेतुपदम् एकदेशदर्शनाद् इति, ततो ज्ञातसम्बन्धस्येति दृष्टान्तवचनम्. दृष्टान्ते हि हेतोस् सम्बन्धो ज्ञायते. अत एव दृष्टान्तदोषा अपि साध्यहेतुविकलत्वादयो ऽनेन निराक्रियन्ते. तद्वैकल्ये ऽपि स्वयं सम्बन्धो ज्ञातुं परस्मै प्रतिपादयितुं शक्यत इति. कियन्तः पुनस् संशयहेतवः, अत आह -- त्रय इति
SK
तान् एव त्रीन् प्रकारान् दर्शयति -- सन्न् इति. साध्यतदभावयोस् सन् साधारणो ऽभिधीयते. यथा प्रमेयत्वं नित्यानित्यत्वयोः. द्वाभ्यां साध्यतदभावाभ्यां व्यावृत्तो ऽसाधारणः क्षितेर् एव गन्धवत्त्वम्. व्यावृत्तं हि तत् सकलसजातीयविजातीयद्रव्यान्तरगुणकर्मभ्यः. द्वौ विरुद्धार्थसम्बन्धाव् इति. यौ विरुद्धाव्यभिचारीति परैर् अभिहितौ, तौ चानन्तरम् एवोदाहार्याव् इति नेह व्याख्यायेते इति
SK
तत्र साधारणं तावदुदाहरणैः प्रपञ्चयति -- प्रमेयेति. एते च धर्मास् साध्यतदभावयोस् साधारणा इत्य् अर्थः
SK
केषु पुनस्साध्येषु तेषां साधारण्यम् अत आह -- नित्येति नित्येष्वन्तेन. कथं पुनर्वैषम्ये यथासङ्ख्यम् अत आह -- द्विरनित्यतेति. अनित्यता स्वस्थाने द्विः पठितव्या. अतो यथासङ्ख्योपपत्तिः. तद् अयम् अर्थः -- यदा नित्यश् शब्दः प्रमेयत्वाद् इति प्रयुज्यते तदा प्रमेयत्वं साध्यतदभावयोर् दृष्टम् इति साधारणत्वान् नैकान्ताय प्रभवति. अतो नैकान्तिकम् इत्य् उच्यते. अत एव च संशयहेतुः. संशयो हि सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश् च भवति. यथा स्थाणुपुरुषयोर् आरोहपरिणाहसामान्यदर्शनाद्{३,५९}भेदकधर्मानवधारणाश् च विशेषस्मृत्यपेक्षः किंस्विद् अयं स्थाणुर् आहोस्वित् पुरुष इत्य् अनवधारणज्ञानात्मकस् संशयो जायते. एवं प्रमेयत्वम् अपि नित्यानित्ययोस् सामान्यं विदितवतस्तद्विशेषणस्मरणापेक्षस् तयोर् एवानिर्धारणात्मकः प्रत्ययस् संशयापरनामा जायत इति प्रमेयत्वं संशयहेतुः. अयं च कृत्स्नोभयव्यापीसंशयहेतुः. तथायत्नोत्थश् शब्दः अनित्यत्वाद् इत्य् अयम् अपि साधारण एव. अयत्नोत्थेषु केषुचिद् विद्युदादिषु गतत्वाद् यत्नोत्थेषु च सर्वेषु घटादिषु वृत्तेः. तद् अयं सकलविपक्षव्यापी सपक्षैकदेशगत इति वेदितव्यम्. तथा यत्नोत्थश् शब्दः अनित्यत्वाद् इति, यत्नोत्थेषु सर्वेष्व् एवानित्यता दृष्टा. तदभावे ऽपि क्वचिन् मेघादौ दृष्टा, न व्योमादौ इति, सकलसपक्षव्यापी विपक्षैकदेशवर्ती चायं साधारण इत्य् अवसातव्यम्. उभयैकदेशगतस् तु यथा नित्यश् शब्दः अमूर्तत्वाद् इति. अमूर्तता हि न सर्वनित्यव्यापिनी व्योमादिषु भावाद् अणुषु चाभावाद् अनित्यम् अपि न सर्वं व्याप्नोति घटकुड्यादिष्व् अभावात् कर्मादिषु भावात्. सर्वत्र चात्र द्वयवृत्तित्वम् एव हेतोस् संशये कारणम् अवृत्त्यंशस् तु सन्न् अपि न कारणम् इत्य् अतन्त्रम्. अत एव साधारणस्य चतुर्धा विभागं वदन्ति ये तेषाम् असाव् अनुपयोग्य् एव साधनदूषणयोर् इत्य् उपेक्षणीयम्, न हि साधनवचनकाले तथाविधं हेतुं परित्यजतो वादिनस् सपक्षविपक्षयोर् अवृत्त्यंशः क्वचिद् उपयुज्यते. अण्वापि हि मात्रया विपक्षे वर्तमानो हेतुर् अत्याज्य एव. दूषणवादिनो ऽपि विपक्षवृत्तिमात्रं वचनीयम् इति किं तदवान्तरविशेषाश्रयणेन. वार्त्तिककारेणापि सर्वसाधारणेषु द्वयवृत्तित्वम् एव संशयकारणम् इति दर्शयितुम् उदाहरणप्रपञ्चो दर्शितः, न पुनश् चातुर्विध्यम् अभिप्रेत्य. यथाह --
SK
न त्व् एकस्योपयोगो ऽस्ति दूषणोद्भावनं प्रति |
SK
त्यज्यते साधने चैवं साधारण्याद् विशेषतः || इति
SK
प्रपञ्चितस् साधारणः, असाधारणम् इदानीं संशयहेतुम् उदाहरति -- नित्या भूर् इति. गन्धो हि पृथिव्याः स्वासाधारणो गुणः, न तां विहाय नित्यम् अनित्यं वा भावान्तरम् आश्रयतीत्य् असाधारण इति गीयते.{३,६०} आह -- अस्त्व् असाधारणं गन्धवत्त्वं, कथं तु संशयहेतुः, युक्तं हि पक्षद्वयाव् अलम्बी साधारणो द्वयोर् अनवस्थाधियम् आदधानो यत्संशयहेतुर् इति, असाधारणस् तु द्वाभ्यां व्यावृत्तो नैकत्रापि धियम् उपजनयितुम् अलम् इति कथम् अस्य संशयहेतुभावः, अत आह -- निश्चयेति. हेतोर् हि निश्चयजनने ऽन्ययव्यतिरेकाव् अङ्गम् अन्यतरापीये ऽपि न निश्चयाय हेतुः पर्याप्तो भवति. तद् यथा साधारणो ऽन्वयसनाथो ऽपि विनाकृतो व्यतिरेकेण न निश्चयाय प्रभवति, एवम् एवासाधरणो ऽपि निश्चयस्यैकेनान्वयनाम्नाङ्गेन विकलस् तम् अकुर्वन् संशयहेतुतां प्रतिपद्यत इति
SK
ननूक्तं साधारणो द्वयगामी द्वये बुद्धिं जनयन् संशयए हेतुर् इति. असाधारणस् तु न किञ्चिद् ज्ञापयतीति नासाव् एकाङ्गविकलतामात्रेण संशयहेतुर् इति युक्तम् अत आह -- साधारण इति द्वयेन. अयम् अभिप्रायः -- साधारणो ऽपि नोभयत्र बुद्धिजननात् संशयहेतुः, किन् तु विरुद्धोभयप्रतिपादनमुखेन, विरुद्धे ह्य् उभयस्मिन् प्रतिपादिते तयोर् एकत्र समवायासम्भवाद् व्याघाताद् एव संशयो भवति. तच् चासाधारणे ऽप्य् अविशिष्टम्, असाधारणो ऽपि ह्य् उभयस्माद् व्यावृत्तेस् तदभावं गमयन् द्वयाभावासम्भवाद् एव संशयं जनयति. न हि सम्भवति नित्यम् अनित्यं च वस्तु न भवतीति, धर्मद्वन्द्वैर् एव हि नित्यानित्यत्वादिभिस् सर्वं जगदवस्थितम्. अत उभयाभावो विरुध्यते. न चोभयभावः, विरोधाद् एव. नचान्यतरपरिग्रहो ऽविशेषात्. तम् इमं सङ्कटम् आसाद्य प्रामाणिकस् संशेते. अयं चात्रावयवार्थः -- यथा प्रमेयत्वादिस् साधारणो दृष्टस् सन् बुद्धिद्वयनिमित्तकः. बुद्धिद्वयं संशये निमित्तम् अस्थास्तीति बहुव्रीहिः, निमित्तशब्देन च बुद्धिद्वयस्य निमित्तमात्रतां कथयति. साध्यतदभावविषयं हि बुद्धिद्वयं निमित्तीकृत्य विरुद्धैकानवाप्तेर् एव साधारणेन संशयो जन्यते. न हि परस्परविरुद्धाभ्यां नित्यानित्यत्वाभ्याम् एकश् शब्दो व्याध्यते, धर्मिभेदनिबन्धनौ{३,६१}हि विरुद्धधर्माध्यासो दृष्टः. यथा नित्यं व्योम अनित्यं कार्यद्रव्यम् इति. अतो ऽस्मात् प्रतीति???आताद् एव साधारणेन संशयो जन्यते. स चायम् असाधारणस्यापि समानः. सो ऽपि हि यत्र नित्ये ऽनित्ये वा नास्ति तदभावं प्रतिपाद्य तन्मुखेन द्वयसत्त्वविरोधम् आपादयन् संशयकारणं भवतीति. इदं चासाधारणस्य संशयहेतुत्वं नानुमन्यन्ते. अव्यवस्थया ह्य् उभयस्मिन् मनसि विपरिवर्तमाने संशयो भवति. न चासाधारणेन किञ्चिद् बुद्धावाधीयते, तस्य केनचिद् अन्वयाभावात्. अपि च परिमितेष्व् एव भावेषु संशयो दृष्टः. निवृत्तिमुखेन तु संशयजनने सर्वतो निवृत्तेनासाधारणेन सर्वतोमुखस् संशयो जन्येत. न च सर्वविषयः संशयो दृष्टचरः. तस्य बुद्धाव् अनारोहात्. न च क्वचिन् निवृत्तिमात्रेण सर्वत्राभावश् शक्यते ऽवगन्तुम्, यन्मुखेन संशयो भवेत्. न ह्य् अनुवृत्ताव् अदृष्टायां व्यावृत्तिस् सिध्यति. अग्नाव् अनुवर्तमानो हि धूमो दृष्टव्यतिरेको ऽग्निनियतस्वभावत्वेनावगतो ऽर्थाद् अदृश्यमानेभ्यो ऽनग्निभ्यो व्यतिरिच्यत इत्य् अवगम्यते. यस् तु न केनचिद् अन्वितस् तस्य कथम् अनुपलब्धियोग्यात् सर्वतो व्यतिरेकः प्रतीयेत. ततो नानेन प्रकारेणासाधारणस्य संशयहेतुत्वम्. यदि त्व् असाधारणधर्माणो भावा नित्यानित्यभावभाजो दृष्टा इति क्षितिम् अपि तद्धर्मिकाम् उपलभ्य नित्या वा स्याद् अनित्या वेति संशयो भवतीत्य् उच्यते. एवं तर्ह्य् असाधारणधर्मत्वाद् एव बहुसाधारणात् संशयो नासाधारणात्, अन्यो ह्य् असाधरणधर्मः अन्यथा च बहुसाधारणी तद्वत्ता. तद् यद्य् असौ संशयकारणं जाता किं जातम् असाधारणस्य. हन्तैवं साधारण एव संशयहेतुर् अभ्युपगतो भवतीति सिद्धम्. नासाधारणस्य संशयहेतुत्वम्. अन्यन् मतम् -- अनध्यवसायहेतुर् एवायम् इति. अस्ति किलानध्यवसायो नाम ज्ञानस्य प्रकारः. सो ऽनेन जन्यते. भवति हि तादृग्धर्मदृशः किम्भूतस्यास्य धर्मो ऽयम् इत्य् अनध्यवसिताव् अभासप्रत्ययः. न चैव प्रमाणम्, अनिश्चयात्मकत्वात्. न च संशयः पक्षद्वयासंस्पर्शात्. सो ऽयम् एवंविधान् अध्यवसायो ऽसाधारणेन जन्यत इति. न त्व् एतद् घटते. न ह्य् अनध्यवसायो नाम कश्चिद् ज्ञानस्य प्रकारः, यम् अयं जनयेत्. अध्यवसायाभावो ऽनध्यवसायः. स च प्रागभावरूपत्वान् न जन्यः. अथान्यमात्रवचनो नञ् अग्राह्यणादिवद् इष्यते ततो ऽध्यवसायाद् अन्यस् संशय{३,६२}एव तच्छब्दवाच्यो भवेत्. न च तद्धेतुर् असाधारण इति फणितम् एव. अथाधर्मादिवद् विपरीतवचनो नञ्, एवं सति विपर्ययवाच्यो ऽनध्यवसायशब्दो भवेत्, न च विपरीतावग्रहो ऽसाधारणेन जन्यत इति. यदि तु न मे ऽस्मिन् वस्तुन्य् अध्यवसायो ऽस्तीत्य् अध्यवसायाभावावधारणम् एवानध्यवसायः, स तर्हि प्रमाणाभावेनैवाध्यवसायाभावो ऽवगम्यते. तत्र हेतोर् न व्यापारः. अतो जिज्ञासामात्रहेतुर् असाधारण इति समर्थनीयम्. भवति हि तद्दर्शिनः कीदृग्धर्मो ऽयम् इतो धर्माद् भावो भवेद् इति जिज्ञासा. यद्य् अपि चासौशुद्धधर्मिदर्शनाद् अपि कदाचिद् भवत्य् एव तथापि धर्मद्वारेणापि तावद् भवत्य् एवेति न तद्धेतुत्वम् अनुपपन्नम्. आह च --
SK
तेनाज्ञानम् असिद्धेभ्यो जिज्ञासानन्यगामिनः |
SK
सामान्यात् संशयो युक्तस् तथा स प्रतिसाधनात् || इति.
SK
यत् त्व् इहासाधारणस्य संशयहेतुत्वम् उक्तं तत्परमतम्. ज्ञातसम्बन्धपदस्य हि व्यावर्तनीयम् अत्र दर्शयितुम् अभिप्रेतम्, तत् संशयहेतुत्वे ऽप्य् असाधारणस्य घटत एव. भवतु तावद् अयं यस्य कस्यचिद् धेतुः. सर्वथा ज्ञातसम्बन्धपदेन व्युदस्यत इति तात्पर्यम्. शाक्यास् तु संशयहेतुम् असाधारणं मन्यन्ते, उदाहरन्ति च शब्दानित्यत्वे साध्ये श्रावणत्वम्. यथोक्तम् --
SK
अनैकान्तिकम् एवैनं शाक्याः प्रायेण मन्वते |
SK
उभयस्मान् निवृत्तत्वाद् उभयत्रानुवृत्तिवत् ||
SK
इति. इदं च वार्त्तिककृतैव प्रदेशान्तरे स्वयम् उपन्यस्य यथोक्तदूषणैर् दूषितम् एवेति
SK
किं पुनरुदाहृतानां स्वाभाविकम् एव संशयहेतुत्वं नेत्य् आह -- सन्दिग्धेति
SK
कारणम् आह -- निर्णयस्येति लब्ध्वान्तेन. क्व द्र्ष्टम् अत आह -- निष्क्रियेति. अमूर्तता हि नित्यत्वे साध्ये नित्यानित्यव्योमकर्मसाधारणी संशयहेतुर् आसीत्, सैव तु निष्क्रियत्वे साध्ये लब्ध्वान्वयव्यतिरेकौ हेतुतां{३,६३}प्रतिपद्यते. व्याप्तं ह्य् अमूर्तत्वं निष्क्रियत्वेन. न ह्य् अमूर्तं गगनम् आत्मा वा परिस्पन्दते. न चैवं तद्वतां रथादीनाम् अमूर्तत्वं दृष्टम् इति
SK
असाधारणस्य निर्णये हेतुत्वं दर्शयति -- क्षित्येकदेशेति. गन्धविशेषदर्शिनो हि विदितव्याप्तेः क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति
SK
द्वौ विरुद्धार्थसम्बन्धाव् एकत्रैकदेशिनि संशये हेतुर् इत्य् उक्तम्. तत्रोदाहरणम् आह -- यत्रेति. यत्र हि न साक्षात्कारिज्ञानविषयो वायुः अरूपत्वाद् इत्य् एकस् साधयति. अपरो ऽपि स्पर्शात् तद्विपर्ययम्. तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैर् अभिहितम्. तत्र तुल्यबलोभयहेतुसन्निपातात् संशयः. द्वयोर् अपि साधनयोः प्रसिद्धावयवत्वाविशेषात्. अरूपं ह्य् अरूपिसमवेतम् अप्रत्यक्षम् इति काणादा मन्यन्ते. तथा च वायुः. अतो न प्रत्यक्षः. कर्मस्वरूपम् अपि रूपैकार्थसमवायाच् चाक्षुषम् आचक्षते. एवं स्पर्शो ऽपि वायोः प्रसिद्ध एव. प्रसिद्धव्याप्तिकश् चापरोक्षत्वेन. अतस् तुल्यबलत्वम्. ततश् च संशयः, विरुद्धयोर् एकत्रोपानपातासम्भवात्, समुच्चयानुपपत्तेः, सिद्धे च वस्तुनि विकल्पासम्भवात् बाध्यबाधकम् आवस्यापि तुल्यकक्ष्यत्वात्. अतो ऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयः. तादात्म्यात्. तस्य बलाबलविशेषे त्व् अनुमानविरोधो वर्णित एव. यथा सर्वज्ञो ऽस्तीति बुद्धवचनं सम्यक् तदुक्तत्वाद् क्षणभङ्गादिवाक्यवद् इत्य् एकेनोक्ते ऽपरः प्रब्रवीति बुद्धो ऽसर्वज्ञ इति मद्वचनं सम्यक् मदुक्तत्वात् यथा ज्योतिर् उष्ण?आपो द्रवा इति. अत्र मदुक्तत्वम् उभयोर् अपि सिद्धम्. बुद्धोक्तता तु न नः प्रसिद्धा, अतो ऽप्रसिद्धाङ्गकत्वात् पूर्वं साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते. यत् तु विरुद्धाव्यभिचारीति द्वयोर् एकवचनान्तम् अभिधानं त???????न्यामहे. विरुद्धाव्यभिचारी संशये हेतुर् इति शाक्या वदन्ति. न??कस्य संशयहेतुत्वम् अन्यतरपरिच्छेदात्. न च समुदायाभिप्रायम् एकवचनम्. तस्य विरुद्धत्वाव्यभिचारिपदानास् पदत्वात्. स ह्य् अंशाभ्यां व्यभिचार्य् एव. द्वौ तु विरुद्धाव्यभिचारिणाव् इति वक्तव्यम्. न त्व् एकवचनेन. यदि प्रतिहेतु{३,६४}विरुद्धम् अर्थम् एकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्य् उच्यते. तद् अस्तु. न त्व् एकः संशये हेतुर् इत्य् उक्तम्. अत एव वार्तिककारेण द्वौ विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्नां संशयहेतुभावो दर्शितः. इहापि विरुद्धाव्यभिचारितेत्य् एतावद् एवोक्तम्. न तु विरुद्धाव्यभिचारी संशयहेतुर् इति. तद् अत्र योग्यतयानयोर् विरुद्धाव्यभिचारितेति व्याख्येयम्. द्वौ विरुद्धाव्यभिचारिणाव् इति यावद् इति
SK
इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरम् एके वर्णयन्ति. अपरे पुनस् समुदायस्यांशाभ्यां साधारणपक्षनिक्षेपम्. अन्ये तु समस्तम् इदं मिलितम् उभयं नैकत्राप्य् अनुगतम् इत्य् अनन्वयम् असाधारणम् एवास्थिषत इत्य् आह -- केचिद् इति. अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता. यदाह --
SK
साधारण्यान् न नैतस्य भेदः कश्चन विद्यते |
SK
अंशाभ्यां समुदायो हि साधारणपदे स्थितः ||
SK
इति. न च वाच्यं द्वयस्यानन्वयाद् असाधारण एवायम् इति. यदि ह्य् एकेन द्वयं प्रयुज्येत ततो भवेद् अप्य् एवं, प्रत्येकम् अन्वितौ दृष्टौ द्वाभ्यां प्रयुक्तौ नानन्विताव् इति शक्यते वक्तुम्. अपि चासाधारणत्वे संशयहेतुभावो नोपपद्येतं. तस्य निराकृतपूर्वत्वात्. अतस् साधारण एवायम् इति. वयं तु जात्यन्तरम् एव साधीयो मन्यामहे. यथा हि न द्वयम् एकेन प्रयुक्तम् इति नासाधारणत्वम्. एवं साधारणत्वम् अपि न स्याद् एव. किं खल्व् अत्र साधारणम्. एकैकस्यैकैकेन व्याप्तस्यैकैकेन प्रयोगात्, अंशतस् साधारणस्य च समुदायस्याप्रयोगात्. अत एव चात्र साधारणाद् भेदेन प्रतिहेतु विरुद्धयोस् संशयहेतुत्वम् उक्तम्. इतरथा तेनैव गतत्वान् न पृथगुपादीयेत. संशयजननप्रकारो ऽपि चात्र भिद्यत एव. साधारणो ह्य् उभयदृष्टस् तु प्रतीतिमादधानस् संशयहेतुर् इमौ त्व् एकैकश्येनोभयम् उपस्थापयन्तौ संशयहेतू इति वार्तिककारेणापि साधारणपदे स्थित इत्य् उक्तम्, न साधारण एवेति
SK
{३,६५} कथं पुनर् एवंजातीयके विषये निर्णयः, अत आह -- प्रतिज्ञेति निर्णयान्तेन. पक्षबाधोक्तैः प्रत्यक्षादिभिः प्रमाणैर् यस्य साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयः कार्यः. यथेहैव तावत् उदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षम् अनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते. न हि नस् त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद् वायुप्रत्यक्षं विशिष्यते. न हीहानधिष्ठानं स्पर्शमात्रम् अनुभूयते. अपि तु तदधिकरणं द्रव्यम् अपि. न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतस् संविद् विशिष्यते. अतो ऽक्षसम्बन्धफलानुसारात् प्रत्यक्षो वायुर् इति निश्चीयते. क्वचिच् चागमेन विषयापहारो भवति. यथा शुचि नरशिरःकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवद् इति पाशुपतेनोक्ते ऽन्यो ऽशुचीति साधयति, प्राण्युद्भूतत्वाद् उच्चारादिवद् इति. तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहाराद् उत्तरेणार्थनिर्णयो भवति. शुचीतरविवेके ह्य् आगम एव शरणम्. तस्मिन् परिपन्थिनि न शुचित्वानुमानम् आत्मानं लभते. स्मरन्ति हि --
SK
नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलम् आविशेत् |
SK
इति. रुद्रो हि महाव्रतं चचार स एतच्छवशीर्षम् उपदधारेति त्व् अर्थवादमात्रं न शवशिरोधारणविधिः. अत्र च प्रत्यक्षादीन्य् एव यथास्वम् अर्थं साधयन्तीति साधनपदेनोच्यन्त इति. कथं पुनः प्रत्यक्षादीन्य् एव प्रतिज्ञाबाधनायोत्सहन्ते. तेष्व् अपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वाद् अत आह -- बाधवर्जनाद् इति. न तावत् तेषु बाधो दृश्यते, कदाचिद् बाधसम्भावना तु न तेषां प्रामाण्यम् उत्सारयतीति
SK
अत्र भिक्षुणा पक्षधर्मस् तदंशेन व्याप्तो हेतुर् इत्य् एकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुर् इति दर्शितम्. अत एव विरुद्धाव्यभिचारिणोर् न हेतुत्वम् अनेकत्वात् तयोर् इति. न चैतत् घटते. न हि प्रतिहेतु{३,६६}विरुद्धयोर् अनेकत्वं संशयहेतुत्वे हेतुः, अपि तर्हि परस्परविरुद्धार्थोपप्लावकत्वम् एव. विरुद्धौ हि द्वाभ्यां द्वाव् अर्थाव् एकत्रोपप्लाविताव् इति तत्र संशेरते, न तु हेत्वनेकत्वात्. संशयहेत्वोर् अपि प्रत्येकम् अवगतयोर् उभयसमावेशाद् एव क्वचिन् निर्णयो दृष्टः. यथा ऊर्ध्वताकाकवत्त्वयोः. केवला ह्य् ऊर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति. काकनिलयनसहकृता तु सैव स्थाणुर् अयम् इति निश्चाययति. तद् अत्रैकस्यैव संशयहेतुत्वं द्वाभ्याम् एव तु निर्णय इत्य् अप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वम् एव संशयहेतुः. यथा खल्व् एक एव साधारणस् सपक्षविपक्षयोर् वर्तमानस् संशयहेतुर् भवति. एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्याम् उभयवृत्तिर् एव संशये कारणम् इति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तम् इत्य् आह -- क्वचिद् इति. ननु युक्तं तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वः. सत्यम्. यस् तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुः, ऊर्ध्वतासनाथा तु निर्णायिकेत्य् एतावद् एव विवक्षितम् इत्य् अदोष इति. अपि च अविरोधिनोः प्रत्येकं संहतयोर् अपि क्वचिद् अर्थे साध्ये हेतुभावो दृश्यते. यथैकस्मिन्न् एव शाब्दस्य ज्ञानस्यानुमानत्वे न्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोः, शक्यते हि ताभ्याम् ऐकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम्. द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्ये ऽनेकहेतवः प्रयुज्येरन्. प्रयोक्तारस् त्व् एकम् एव साध्यं किञ्चान्यद् इतश् चेति नानासाधनैस् साधयन्तो दृश्यन्ते. तस्माद् विरोधनिबन्धन एव संशयः, न तु नानात्वनिबन्धन इत्य् अभिप्रायेणाह -- प्रत्येकम् इति. पूर्वं तु प्रत्येकं संशयहेत्वोर् एव मिलितयोर् निर्णयहेतुत्वम् उक्तम्. अत्र तु प्रत्येकं गमकाव् अपि संहतौ च गमकाव् इति प्रतिपादितम् इति
SK
तस्माद् विरुद्धार्थाव् एव भिन्नौ संशयहेतुत्वेन दर्शनीयौ. यथास्माभिर् उक्तं न तु भिन्नतामात्रेणेत्य् आह -- तस्माद् इति. व्याख्यातस्त्रिप्रकारो{३,६७}पि संशयहेतुः विपरीतप्रकारान् प्रतिजानाति - षढा विरुद्धताम् आहुर् इति. धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैः षट्प्रकारां विरुद्धताम् एके ब्रुवत इत्य् अर्थः. अन्ये तूभयविरोधयोः प्रत्येकपक्षानतिरेकात् चातुर्विध्यं प्रतिपन्ना इत्य् आह -- चतुर्धा वेति. वयं तु इष्टविघातमात्रेणैकम् एव प्रकारं सङ्गिरामह इत्य् आह -- एकधापि वेति. पूर्वोक्तपक्षद्वयनिवृत्ताव् अपि वाशब्दः. अपि वा शेषभाजां स्याद् इति पक्षबाध एव विरुद्धत्वे कारणं किम् अवान्तरभेदोपन्यासेनेति. त्रिष्व् अपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धताम् आहुर् इत्य् आह -- श्रुत्यर्थोक्तस्येति. धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास् तु प्रायेणार्थोक्ताः. ते च स्वरूपस्वविशेषाः प्रतिज्ञार्थशब्देनोपादीयन्ते. सर्वे हि ते वक्तुर् अभिप्रेताः. न तु धर्मादिविशेषास् साक्षात् प्रतिज्ञायाम् अन्तर्गताः. तद् अस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर् विरुद्धता भवतीति. तत्पुनर् इदं विप्रतिषिद्धम् इव मन्यामहे. कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर् विरुद्धो भवति. स हि प्रतिज्ञार्थं विरुणद्धीति विरोद्धेति वक्तुम् उचितः, बाधक इति वा. न चायम् एव प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत् प्रसिद्धत्वादस्य. प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम्. अतो बाधक इत्य् एवायं वक्तव्यः. वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्य् उक्तम् इति वेदितव्यम् इति. तत्र धर्मस्वरूपबाधेन तावद् विरुद्धताम् उदाहरति -- नित्यत्वे इति
SK
धर्मविशेषबाधस् त्व् एवं प्रयुक्ते भवतीत्य् आह -- बाध इति. तम् एव प्रयोगं दर्शयति -- अर्थवद् इति पादत्रयेण. स्वरूपाभिधानवादिनो ह्य् आहुः -- गौर् अयम् इति शब्दाकारविशिष्टो ऽर्थो ऽवगम्यते. न च विशेषणम् अनभिधाय विशिष्टो ऽभिधातुं शक्यत इति स्वरूपम् एव तावद् आदौ शब्दो{३,६८}भिधत्ते ततो विशिष्टम्. अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेः. स्वरूपं तु न कदाचिद् व्यभिचरति सम्बन्धावधारणात् प्राग् अपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम्. अतः स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधानोत्तरकालं तु विशिष्टाभिधानम् अपि भवतु नामेति. एवं प्रसाध्यान्ते प्रयोगम् आहुः -- शब्दस्वरूपं सम्बन्धावधारणात् प्रागर्थवद् विभक्तिसम्बन्धात्, अगृहीतसम्बन्धो ऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति. यदा च विभक्तियोगः तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात् पश्चाद् इति. कथं पुनर् एवं प्रयुज्यमाने धर्मविशेषबाधो भवत्य् अत आह -- स्वरूपेणेति चाश्रित इति. यदा हि स्वरूपेणार्थेनार्थवत्त्वं प्रथमम् आश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थाद् इदम् अवगम्यते -- स्वरूपार्थवत्त्वम् अस्य सिषाधयिषितम् इति. एवं च भवत्य् अर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति. कथं पुनस् स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते. अत आह -- अस्वरूपेति. विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वम् अविनाभावबलेन शब्दस्यावगमयति, सम्बन्धग्रहणात् पश्चाद् अर्थान्तरस्य दर्शनात्. अतो व्याप्तिबलेन तद् एव विभक्तिमत्तया साध्यते. अतो ऽर्थवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुर् अयं विरुणद्धीति भवति धर्मविशेषबाध इति
SK
धर्मिस्वरूपबाधोदाहरणम् आह -- इहप्रत्ययेति. यदा हि समवायं धर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकस् साध्यते, इहप्रत्ययहेतुत्वं च हेतुर् उच्यते इहायं घट इति संयोगो दृष्टान्तः, तदा धर्मिस्वरूपबाध इत्य् अभिप्रायः
SK
{३,६९} कथं पुनर् अत्रोदाहरणे धर्मिस्वरूपबाधः, अत आह -- अत्रापीति. अत्राप्य् उदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद् धेतोर् विरुद्धता भावति. इहप्रत्ययहेतुत्वं ह्य् असमवायात्मन एव दृष्टम् इति ताद्रूप्यं विरुन्ध्याद् इति धर्मिस्वरूपबाध इति
SK
अस्मिन्न् एव च धर्मिविशेषबाधो ऽपि दर्शयितव्य इत्य् आह -- यच् चेति. समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते. सो ऽप्य् अस्य विशेषः संयोगवद्भेदापत्तेर् बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुर् इति
SK
उभयस्वरूपबाधायाम् उदाहरणम् आह -- नित्यम् आत्मास्तितेति. यदा कश्चित् सौत्रान्तिकं प्रत्येवं साधयति -- आत्मा नित्यः निरवयत्वात् व्योमवद् इति, तदा धर्मधर्मिद्वयस्य बाधनं भवति. सौत्रान्तिकस्य ह्य् अवयवाभावो व्योम्न्यभावेनैव सम्बद्धो ऽभिमत इत्यात्मनो ऽपि तद्वदभावं गमयेत्, आवरणाभावमात्रं हि नभः, न पुनस् तत्त्वान्तरम् इति बौद्धा मन्यन्ते. अतो ऽनवयवत्वाद् आत्मनः स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधाद् उभयबाध इति
SK
उभयविशेषबाधस् त्व् एवं साध्यमाने भवतीत्य् आह -- तदेति. यदा हि परार्थाश् चक्षुरादयस् सङ्घातत्वात् शयनादिवद् इति साध्यते, तदोभयविशेषबाध इत्य् अर्थः. कथं पुनर् अत्रोभयविशेषबाधः, अत आह -- शयन इति. शयनीये{३,७०}हि खट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वाद् इति हेतुर् व्याप्तो दृष्ट इति संहतपारार्थ्यम् एव साधयेत्. आत्मानं च प्रति पारार्थ्यं साधयितुम् अभिमतम्, तन् न सिध्येत्. सो ऽयं तावत् पारार्थ्यस्य धर्मस्य यो विशेषो ऽभिमत आत्मपारार्थ्यं स तावद् बाध्यते. चक्षुरादेर् अपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सो ऽप्य् अनेनैव हेतुना बाध्यते. संहतात्मकत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस् तन्निदर्शनेन चक्षुरादयो ऽपि भौतिका भवेयुः. आहङ्कारिकाणीन्द्रियाणीति कापिलास् सङ्गिरन्ते, तेषां चायं प्रयोगः. तद् अयम् अर्थः -- संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर् यस्मिन् शयने तत्रात्मपारार्थ्यम् असिद्धम् इति धर्मविशेषबाधनं तावद् भवति. धर्मिविशेषबाधो ऽपि भौतिकव्याप्त्या सूत्रितो ऽनन्तरम् एव विवरिष्यत इति न केवलम् आत्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनो ऽपि संहतता प्राप्नोतीत्य् आह -- असंहतेति. अनेन चानिष्टान्तरापत्तिर् आपादितेति वेदितव्यम्. एतद् उक्तं भवति. नानेन हेतुनासंहतरूपात्मार्थता सिध्यति. प्रत्युत संहततैवात्मनो भवेद् इति
SK
धर्मिविशेषबाधं विवृणोति -- अनाहङ्कारिकत्वम् इति. व्याख्यातचरं चेदम्
SK
एवं तावद् ज्ञातसम्बन्धपदव्यावर्तनीयो विरुद्धः प्रपञ्चितः. इदानीं तद्व्यावर्त्या एव दृष्टान्ताभासा दर्शयितव्याः. तैर् हि नानुमानाङ्गसम्बन्धो ज्ञापयितुं शक्यते. अतस् ते ऽपि ज्ञातसम्बन्धपदेनैव व्यावर्त्यन्ते. इदं चास्माभिः प्राग् एवोक्तम्. अन्यत्राप्य् आह --
SK
ज्ञातसम्बन्धवाचा च त्रयो ऽत्रानियतादयः |
SK
हेतुदृष्टान्तयोर् दोषा भाष्यकारेण वारिताः ||
SK
{३,७१}इति. अतस् तन्निराकरणार्थं दृष्टान्तवचनम् एव तावद् अवतारयति -- गमकस्येति. व्याप्तिप्रदर्शनाय द्विविधो दृष्टान्तस् तावद् साधनवाक्ये दर्शयितव्यः. साध्यः पक्षः तत्साधर्म्यवैधर्म्याभ्यां यो दृष्टान्तः स प्रतिपाद्यत इत्य् अर्थः
SK
तत्र साधर्य्यदृष्टान्तप्रकारम् आह -- तत्रेति. अस्यार्थः -- उदाहरणसाधर्म्याल् लिङ्गस्य प्रसाधकत्ववचनं हेतुः. यदाहुः --
SK
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः |
SK
इति. साध्यस्य प्रज्ञापनवचनम् इति यावत्. तस्य चार्थो लिङ्गम् एव. तच् चोद्दिश्य साध्योपादानं साधर्म्यदृष्टान्त इष्यते. यो यो धूमवान् स सो ऽग्निमान् इति यावद् इति. किम् एवम् उपादीयमाने सिध्यत्य् अत आह -- उद्देश्य इति. उक्तं व्याप्तिप्रदर्शनाय दृष्टान्तवचनम् इति. एवं चोपादीयमान उद्देश्यो धूमादिर् व्याप्यतया कथितो भवति. इतरश् चोपादेयो ऽग्न्यादिर् व्यापकतयेति व्याप्त्यानुगुण्यात् सफलम् एवम् उपादानम् इत्य् उद्देश्योपादेययोर् व्याप्यव्यापकत्वं भवतीत्य् उक्तम्
SK
कीदृशं तु तयोस् स्वरूपम् अत आह -- यद्वृत्तेति. यद्वृत्ततद्वृत्ताभ्यां यत्तत्परिनिष्पन्नानां यो य इत्यादिशब्दानाम् उपादानम्, तद् अयम् अर्थो भवति. यद्यद् यद्वृत्तेन संयुक्तं प्रथमं प्रयुज्यते प्रधानं च तदुद्देश्यं, तत्तद्वृत्तयुक्तं च पश्चात् प्रयुज्यमानं स सो ऽग्निमानेवेति चैवकारेण युक्तं तदुपादेयम्. सर्वेष्व् एव च ग्रहव्रीह्यादिसम्मार्गावघातादिषूद्देश्योपादेयेष्व् अयम् एव विवेक इति वेदितव्यम् इति
SK
{३,७२} किं पुनर् एवं प्रयोगनियमे प्रयोजनम्, विवक्षापरतन्त्रा हि शब्दाः, ते यथा तथा वा प्रयुक्ता यथाभिप्रायं वर्तिष्यन्त एव. अत आह -- वदतीति. न वक्त्रभिप्रायपरतन्त्राः शब्दाः, स्वाभाविक्यैव तु शक्त्या केचिद् एव क्वचिद् एवार्थे वर्तन्ते, अतो न विवक्षानुसारेणेष्टसिद्धिर् भवतीति वाच्य एव दृष्टान्तवचनविन्यासप्रकार इति
SK
यदि तर्हि स्वतन्त्राश् शब्दाः अतथास्थिते ऽप्य् अर्थे शब्दानुसारिणीष्टसिद्धिर् भवेद् अत आह -- साध्यहेतुत्वम् इति. अयम् अभिप्रायः -- नार्थशक्तिश् शब्दशक्तिम् अनुरुध्य प्रवर्तते, न च शब्दशक्तिर् अर्थशक्तिम्, अतो न यथा वक्त्रभिप्रेतार्थानुसारिणी शब्दशक्तिः, एवं न शब्दानुसारिण्यर्थव्यवस्थेति, अर्थादीनां कृतकत्वानित्यत्वादीनां व्याप्तिशक्त्यनुरोधाद् एव साध्यहेतुभावो भवति न शब्दानुरोधाद् इति
SK
वक्त्रनपेक्षया स्वशक्त्यैव शब्दे ऽर्थम् आचक्षाणे यत्तावद् आपद्यते तद् दर्शयति -- तत्राज्ञानाद् इति सार्धद्वयेन. यदा हि दृष्टान्तं वक्तुम् अनभिज्ञो वक्ता साध्यहेत्वोस् सहभावमात्रं विवक्षति. यथा -- शब्दो ऽनित्यः कृतकत्वाद् इति प्रयोगे, यथा घटे कृतकत्वनाशित्वेस् त इति. विपरीतावग्रहेण वा न हेतोर् व्याप्यतां विवक्षति. सत्याम् अपि विवक्षायां कुतश्चिद् भ्रमनिमित्तात् न व्याप्तियोग्यं शब्दं वदति. सहभावमात्रम् एव तु पूर्ववद् वदेत्, विपरीतं वा भ्रान्तः यथा नाशिता कृतकत्वेन व्याप्तेति, तदा तावन् न केवलम् इष्टं न सिध्यति अनिष्टम् एव तु व्याप्तिविपर्ययाद् आपद्यते. इष्टस्य{३,७३}कृतकत्वस्य हेतुत्वं न स्यात्. अनिष्टस्यैव तु नाशित्वस्य भवेद् इत्य् एवंजातीयकानिष्टप्रयोगनिवारणाय युक्तो दृष्टान्तप्रयोगनियम इति. एतद् एवोपसंहरति -- तस्माद् इति. हेतुत्वसम्मतः कृतकत्वादिव्याप्यत्वरूपेण वाच्य इत्य् अर्थः
SK
अर्थानां शब्दतन्त्रत्वे यद् भवति तद् दर्शयति -- यदेतिपादरहितद्वयेन. अस्यार्थः -- यदा हि व्याप्तिशक्त्यनुसारेणैवार्थानां साध्यहेतुत्वं तदा यद्य् अपि वक्त्रा न सहभावमात्रं दर्शितं, किन् तु सम्यग् एव दृष्टान्तवचनम्, अर्थास् तु न तदनुरूपव्याप्यव्यापकभावेनावस्थिता इति दृष्टान्ताभासता भवेद् इति वक्ष्यमाणेन सम्बन्ध इति. यथा -- नित्यो ध्वनिर् अमूर्तत्वाद् इति प्रयोगे कर्मवत् परमाणुवद् घटवद् व्योमवद् इति दृष्टान्तेषु यथासङ्ख्यं परमार्थतस् साध्यहेतूभयव्याप्तिशून्यतया. कर्म खल्व् अनित्यम् इति तत् साध्यभूतया नित्यतया शून्यं, हेतुस् त्व् अमूर्तत्वाद् इति तत्र विद्यत एव. परमाणवस् तु मूर्ता इति तेषु हेतुशून्यता, साध्यं तु नित्यत्वं तेषु विद्यत एव. घटे तु न साध्यं नित्यत्वं नाप्य् अमूर्तत्वं हेतुर् इत्य् उभयशून्यता. व्योम्नि तु दृष्टान्ते व्याप्तिशून्यताम् उत्तरत्र स्वयम् एव विवरिष्यति. अत्रैव च व्योमवद् इति दृष्टान्ते तदसद्वादिनं सौत्रान्तिकं प्रति प्रयुज्यमाने धर्म्यसिद्ध्या दृष्टान्ताभासता भवतीत्य् आह -- तदसद्वादिनम् इति
SK
व्याप्तिशून्यतां विवृणोति -- तत्सद्भावे ऽपीति. यद्य् अपि च{३,७४}व्योम्नः सद्भावो भवेत्, तच् च हेतुसाध्यद्वययुक्तं नित्यत्वाद् अमूर्तत्वाच् च. तथापि कर्मादिष्व् अमूर्तेषु अनित्येष्व् आलोच्यमानेषु हेतोर् व्याप्तिर् नास्तीति ईदृशस्यापि दृष्टान्तस्य वर्जनम् एव. अयम् अपि न साध्यसिद्धये समर्थो यत इति
SK
व्याख्यातः साभासस् साधर्म्यदृष्टान्तः. वैधर्म्यदृष्टान्तमतः परं व्याख्यास्यति. तत्रैतद् एव तावत् प्रथमं वक्तव्यम्. किं सर्वदैव साधर्म्यवद् वैधर्म्यवचनं कार्यं न वेति. तत्र तावद् व्यतिरेकप्रधानवादिनस् सर्वदा वाच्यम् इति ये वदन्ति. तान् प्रत्याह -- व्याप्त्या साधर्म्य उक्त इति. एवं हि मन्यते -- व्याप्तिप्रज्ञापनाय हि दृष्टान्तवचनम्, सा चेत् साधर्म्यवचनेन ज्ञापिता किं वैधर्म्यवचनेन. साधर्म्यं चावश्यम् एव वचनीयम् अन्वयप्रज्ञापनाय, तत्प्रधानत्वाद् अनुमानस्य. व्यतिरेकस्यापि तन्मुखेनैव सिद्धेः. इतरथा दुरधिगमत्वात्. अतो यदि व्याप्त्या सहितं साधर्म्यम् उक्तं, अलं वैधर्म्यवचनेनेति. कदा तर्हि वैधर्म्यं वाच्यम् अत आह -- सहभावित्वदृष्ट्येति पादत्रयेण. यदा हि वक्त्रा सम्यग् एव दृष्टान्त उक्ते परः श्रोता जानाति -- यथा हेतुसाध्ययोस् साहित्यमात्रम् अनेनोक्तं न व्याप्तिर् इति, तदा साध्याभावे हेत्वभावं ज्ञापयितुं वैधर्म्येणेष्टसाधनम् इति वक्ष्यमाणेन सम्बन्ध इति. यदा खल्व् अभ्यस्तवैधर्म्यस् तम् एवापेक्षते न साधर्म्यदृष्टान्तं तदा च वैधर्म्येणेष्टसाधनम् इत्य् आह -- तं वा नापेक्षते यदेति. यदा वा वक्ता सुशिक्षितवैधर्म्यस् साधर्म्यं वक्तुम् अजानानस् तेन साधर्म्यदृष्टान्तेन सहभावमात्रम् एव शुद्धं व्याप्तिहीनं कथयति, तदापि पर्यनुयुक्तेन तेनैव वैधर्म्येणेष्टसाधनं कार्यम् इत्य् आह -- वक्ता वेति
SK
यदा वा भ्रान्तो विपरीतम् अन्वयं दर्शयति, तदापि तत्समाधानेच्छया पूर्वविपरीतज्ञानोपमर्दनेन वैधर्म्येणेष्टसाधनम् इत्य् आह --{३,७५}विपरीतान्वयम् इति. नन्व् अन्वयवैपरीत्ये स एव यथावत् प्रतिपाद्यतां किं वैधर्म्यवचनेन. सत्यम् एवम् अपीष्टं सिध्यत्य् एव, किन् तु भ्रान्तैर् इदम् अस्माभिर् उक्तं साध्याभावे हेत्वभावो विवक्षित इति वैधर्म्येणापि तावद् इष्टसाधनं भवत्य् एवेति. यत् तु तत्पूर्वं साहित्यमात्रम् उक्तं तद्वैधर्म्य एवोपयुज्यते तस्यैवेष्टं साधयतो ऽनुग्रहे वर्तते इत्य् आह -- साहित्यमात्रम् इति
SK
एवं तावद् वैधर्म्यवचनस्यावसरो दर्शितः, तद्वचनप्रकारम् इदानीं दर्शयति -- व्याप्यव्यापकभावो हीति
SK
वैपरीत्ये कारणम् आह -- धूमभाव इति. यदा हि धूमभावो ऽग्निभावेन व्याप्तो भवति तदानग्निर् अग्न्यभावस् ततो धूमात् प्रच्युतस् सन्नधूमे धूमाभाव एव भवतीत्य् एवं तावद् व्याप्तो भवति. यो हि यस्मिन् सति भवति असति च न भवति स तन्नियतस् तद्व्याप्त इत्य् उच्यते. यथा धूमो ऽग्नाव् एव भवन्नग्निना व्याप्त इति सिद्धो ऽभावयोर् व्याप्तिविपर्यय इति
SK
यत एव चाभावयोर् ईदृशो व्याप्यव्यापकभावः अत एव भावयोर् अभिमतव्याप्तिसिद्धिर् इत्य् आह -- तथानग्नाव् इति. अनग्नाव् अग्न्यभावे धूमाभावेन व्याप्ते धूमस् तत्र विरोधिव्याप्तेर् अलब्धावकाशो ऽग्नाव् एव भवतीत्य् एवं तद्व्याप्यता तस्य सिध्यति. तथेति. यथा भावव्याप्त्यपेक्षयाभावव्याप्तिः एवम् अभावव्याप्त्यपेक्षया भावव्याप्तिर् इत्य् अर्थः. न चैवम् इतरेतराश्रयता, बीजाङ्कुरवदनादितयोपपत्तेर् इति
SK
{३,७६} किं पुनरभावयोर् व्याप्तिविपर्ययाश्रयणे प्रयोजनम् अत आह -- व्यापकौ त्व् इति. यदा हि य एव भावो व्यापकस् तदभाव एव व्यापकतया वैधर्म्यदृष्टान्त उच्यते तदा ततो व्याप्याद् धूमादेर् नैव विपक्षस्यानग्न्यादेः प्रच्युतिः कथिता भवेत्. तत्कथनार्थं च वैधर्म्यवचनं (स) प्रयोजनं भवेत्. न हि यत्र धूमस् तत्राग्निर् इतिवत् यत्र धूमाभावस् तत्राग्न्यभाव इति कथ्यमाने व्याप्याद् धूमाद् अनग्नेर् विपक्षस्य निवृत्तिर् दर्शिता भवतीति. अतो धूमेनाग्निं सिषाधयिषता वैधर्म्यदृष्टान्तेनाग्निधूमाभावयोर् व्याप्तिविपर्ययो वाच्य इत्य् आह -- तस्माद् इति वाच्यो ऽन्तेन. यत्राग्निर् नास्ति तत्र धूमो नास्तीत्य् एवं यद्वृत्ततद्वृत्ताभ्याम् उद्देश्योपादेयभावो दर्शयितव्य इत्य् अर्थः. स चानग्निर् अधूमेन व्याप्त उच्यमानो नान्यथा वाच्यः, किन् तु साधर्म्योक्तेनैवोद्देश्योपादेयप्रकारेणेत्य् आह -- न चान्यथेति. प्रकारश् चानन्तरम् एवोक्त इति || १२४ -- १२५ ||
SK
अन्यथावचने दोषम् आह -- अनग्न्यधूमसाहित्य इति. यथैव साधर्म्यदृष्टान्ते स्वशक्त्या शब्दो ऽर्थं वदति नार्थशक्तिम् अनुरुध्यत इति साहित्यमात्रवचने व्याप्तिविपर्यये वा नेष्टं सिध्यतीत्य् उक्तम्, एवम् इहापि भवतीति भावः
SK
एवं (?तद्व/ताव)द् इहाप्य् अर्थो न शब्दवशवर्तीति यत्रार्थो दृष्टान्तरूपो द्वाभ्यां हेतुसाध्याभावाभ्याम् एकेन वा तयोश् शून्यो भवति तत्रापि न प्रस्तुतोपकारो भवति अन्यद्वानिष्टं प्रसज्यत इत्य् आह यत्रापीति. सम्यक् प्रयुक्ते ऽपि वाक्ये ऽर्थस्यातदायत्तत्वान्नेष्टसिद्धिर् इति भावः. अत्रोदाहरणम् आह -{३,७७}यद् इति. नित्यो ध्वनिर् अमूर्तत्वाद् इत्य् अत्रैव प्रयोगे यदैवं वैधर्म्यम् उच्यते यन्नित्यं न भवति तदमूर्तम् अपि न भवति यथा परमाणुर् इति तदा साध्याभावशून्यो दृष्टान्तः. परमाणोर् नित्यतया तदभावस्य तत्र दर्शयितुम् अशक्यत्वात्. बुद्धिवद् इति तु दृष्टान्ते हेत्वभावशून्यता. बुद्धेर् अमूर्ततया तदभावस्य वक्तुम् अशक्यत्वात्. खवद् इति तूभयाभावशून्यता, नित्यामूर्ते तस्मिन्न् उभयाभावो दुरधिगमो यत इति
SK
एवं साधर्म्यदृष्टान्तवद्व्याप्तिवैकल्ये ऽप्य् आभासता दर्शयितव्या. तत्सिद्ध्यर्थं हि विपक्षाद् धेतोर् व्यतिरेकः कथ्यते. यस्य तु विपक्षैकदेशाद् अपि व्यतिरेको नास्ति, नासौ साध्येन व्याप्तो भवतीत्य् असत्यां व्याप्ताव् अनर्थकं तादृशस्य वैधर्म्यस्य वचनम् इत्य् अभिप्रायेणाह -- साध्येनेति
SK
यतश् चैवञ्जातीयको न साध्येन व्याप्यते तेन क्वचिद् अभावयोस् साहित्ये दृष्टे ऽपि न सर्वत्र गम्यगमकभावो भवतीत्य् आह -- तेनेति. यद्य् अपि यन्नित्यं न भवति तदमूर्तम् अपि न भवति, यथा घटः कुड्यं वेति, क्वचिद् अभावयोस् साहित्यं शक्यते दर्शयितुम्. तथापि न सर्व(ः) शब्दादि(ः) नित्यतया विशिष्टो ऽनेन हेतुना गम्य इष्यते. किञ्चिद् ध्य् अमूर्तं नित्यम् आकाशादि, किञ्चिद् अनित्यं कर्मादीति भावः
SK
किम् इति नेष्यते अत आह -- सहदृष्टिर् इति. विपक्षैकदेशनिवृत्त्या हि सहभावमात्रं हेतोस् सिध्यति. न च तन्मात्रसम्बन्धो ऽनुमानाङ्गम्. किं तर्हि, व्याप्तिः. न चासाव् एतावता साहित्यमात्रेण सिध्यतीति. एतद् एवोदाहरणेन दर्शयति -- मूर्तानित्यत्वयुक्ते ऽपीति. इदं च प्राग् एव व्याख्यातम् इति
SK
अत्र बौद्धा वदन्ति -- किम् इदं -
SK
{३,७८} व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यम् अपेक्ष्यते |
SK
इत्य् उच्यते, न हि शतांशेनापि हेतोर् विपक्षाद् व्यतिरेके शङ्क्यमाने गमकत्वम् अस्तीत्य् अशेषविपक्षो ऽनुमातुर् व्यतिरेकं ग्रहीतुम् अपेक्षितः. न चासौ दुरधिगमः, एकदेशस्थस्यापि सर्वादर्शनसौकर्यात्. दर्शनं हि सर्वविपक्षाणां दुष्करम्, तदभावस् तु सौकर्यप्राप्त एव. न चायोग्यानुपलम्भान् नेदम् अदर्शनं हेतोर् व्यतिरेकाय प्रभवतीति वाच्यम्. न हि नो विपक्षादर्शनाद् अविनाभावनियमः. किन् तु तादात्म्यतदुत्पत्तिनिबन्धनः. विपक्षदर्शने तु हेतोः परिपन्थिन्यविनाभावो ग्रहीतुम् अशक्यो भवति. तच् चैकदेशस्थस्यापि तावन्नास्त्य् एवेति परिपन्थिनि वृत्तिमात्रे दर्शनं व्याप्रियते. अतो यदैवाग्निकार्यो धूम इत्य् अवगतं तदैव तदायत्तात्मलाभो नासति तस्मिन् भवतीति ज्ञायते. न चान्वयज्ञानम् एव व्यतिरेकबुद्धौ निबन्धनम्, असाधारणेषु तदसम्भवात्. न हि महानसपरिदृष्टयोर् अग्निधूमस्वलक्षणयोस् तत्रैव निरुद्धयोर् अन्यत्र दर्शनम् अस्ति, येनान्वयो ऽनुभूयेत. तत् कुतो ऽन्वयः कुतस्तरां च तन्निबन्धनो व्यतिरेकः. न च विशेषेषु सामान्यं नाम किञ्चिद् अनुगतं स्वरूपम् अस्ति, यन्नियम्यनियामकतयावसीयेत, विकल्पाकारत्वात् तस्य. अतो विशेषा एव केचित् कयाचिद् व्यावृत्त्योपलक्षिताः कञ्चिद् विशेषं विपक्षव्यावृत्तिमुखेन गमयन्तीति तत्प्रदर्शनार्थं वैधर्म्यवचनम् एव न्याय्यम् इति. तान् प्रत्याह -- अशेषेति युक्तिरन्तेन. अयम् अभिप्रायः -- यद्य् अपि व्यतिरेको ऽनुमानाङ्गम्. स तु नादर्शनमात्रात् सिध्यति. तद्देशागमनाद् अपि च तस्योपपत्तेः. न च कार्यत्वावधारणाद् असति कारणे ऽभावः, तस्यैवासति व्यतिरेके दुरधिगमत्वात्. यद् धि यस्मिन् सति भवति असति च न भवति तत्तत्कार्यम्. अतो ऽसत्यभावो{३,७९}वगन्तव्यः. ततः कार्यता तदधीने(ति) तु तस्मिन्न् इतरेतराश्रयता. अस्तु वादर्शनमात्राद् व्यतिरेकः, तस्य च सौकर्यं, नैतावतानुमां प्रति युक्तिर् अनङ्गम्. युक्तिर् योगस् सम्बन्धो ऽन्वय इत्य् अनर्थान्तरम्. नान्वयो ऽनङ्गम् इति यावत्. तन्मुखेनैव सर्वप्रमातॄणाम् अनुमानोत्पत्तेः. अतस् तत्कथनार्थं साधर्म्यदृष्टान्तो ऽपि वाच्य एव. नासाव् एकान्तेन प्रत्याख्यातुं शक्यते. इदं चान्वारुह्य वचनम्. यथोक्त एव सिद्धान्तः सम्यक् साधर्म्यप्रयोगे न वैधर्म्यम् अपेक्षणीयम् इति. अन्वयस्यैव प्राधान्यात् तम् अन्तरेण व्यतिरेकासिद्धेः. अवगते हि धूमस्याग्निना सम्बन्धे ऽर्थाद् अनग्निनिवृत्तिस् सिध्यति. अतस् स तावद् विधिमुखेन प्रथमं दर्शयितव्यः, अवसरे तु वैधर्म्यम् अपि कदाचिद् उच्यते. अनङ्गत्वम् इति तु पठताम् इयं व्याख्या -- इदं हि लिङ्गस्यानुमायाम् अङ्गत्वम् यदन्वयव्यतिरेकौ, ताभ्यां हि तदङ्गं भवति. अतो यथा व्यतिरेको ऽङ्गत्वम्, एवम् अन्वयापरनामा युक्तिर् अपीति. ननु लिङ्गे ऽपि शब्दात्मके प्रतीत्य् उत्तरकालभाव्यन्वयो ऽनङ्गम् एवात आह -- शाब्दे ऽभिधास्यत इति. शाब्दे ह्य् अनुमानाद् भिन्ने प्रतीत्य् उत्तरकालभाविनी युक्तिर् अनङ्गम् इति वक्ष्यते. यथा वक्ष्यति --
SK
नाङ्गम् अर्थधियाम् एषा भवेद् अन्वयकल्पना |
SK
इति. अनुमाने तु सर्वत्रैवान्वयः प्रतीत्य् अङ्गम् इति. ये तु तावता नानङ्गत्वम् अन्वयस्येत्य् अध्याहृत्यात्रैवार्थे शब्दे युक्तिर् वक्ष्यते इति व्याचक्षते, तेषाम् अश्रुतान्वयाध्याहार एव तावदुपालम्भः. न चान्वयस्यानुमानाङ्गत्वे शाब्दे युक्तिर् वक्ष्यते. अत्रैव ज्ञातसम्बन्धपदेन तस्योक्तत्वात्. अत एवान्वयाधीनत्वम् अनुमानस्य च स्थितम् इति वक्ष्यति. तस्माद् यथोक्तैव व्याख्येति
SK
यत् तु भेदानाम् एवानुमाने गम्यगमकत्वं तेषां चान्वयो न सम्भवतीत्य् उक्तम्, तत्राह -- बोधप्रसङ्ग इति. न भेदानाम् अनुमानबोधे गम्यगमकतायाः प्रसङ्गः. तेषां सर्वदेशकालाव्याप्तेर् एकैकत्र निरुद्धत्वात्. न चाप्य्{३,८०}अविनाभावेनापरस्य तथाविधस्यैव नियमश् शक्यते ऽनुभवितुम्. न चासति तस्मिन्नानुमानाङ्गं सम्भवतीति तेषाम् अन्वयाभावो न दोषायेति. यदि न भेदानां बोधप्रसङ्गः. कस्य तर्हि दर्शितम् इदं, न भेदानुगतम् एकं किम् अपि पारमार्थिकं रूपम् अस्ति. तस्य विकल्पाकारत्वात्. यद्य् अपि च व्याप्तिसमयसंविदितरूपारोपेणैवाधुनानुमानम् उपजायते. तथा हि तस्य निपुणतो निरूप्यमाणस्यासम्भवाद् विभ्रम एवायम्. यद्य् एवम् असद्रूपारोपप्रवृत्तम् अनुमानम् अप्रमाणम् एव. सत्यम्. प्रतिबन्धबलेन तु किञ्चिद् एव स्वलक्षणं केनापि विकल्पाकारेण सामान्यात्मना समधिगतं यद् अपरं विकल्पाकारोल्लिखितम् एव स्वलक्षणं प्रतिलम्भयति तत्प्रमाणम् इत्य् आख्यायते. अविसंवादो हि नः प्रामाण्ये कारणम् अर्थक्रियास्थितिश् चाविसंवादः. यदाहुः -- प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रियास्थितिः. अविसंवाद इति. भवति चानुमाने ऽर्थक्रियासमर्थवस्तुलाभो वस्तुनिर्भासपुरस्सरो ऽपीति प्रमाणम् अनुमानम्. यथोक्तम् --
SK
अतस्मिंस् तद्ग्रहाद् भ्रान्तिर् अविसंवादतः प्रमा इति |
SK
अतो भेदानाम् एव गम्यगमकत्वम्. ते च न भाजनम् अन्वयस्येति युक्तम् एवोक्तम् अत आह -- अस्तीति. अस्यार्थः. भवेद् एवं यदि न भेदातिरिक्तं किञ्चित् सामान्यं वस्तु भवेत्. अस्ति तु तद् इत्य् आकृतिग्रन्थे सकलपरोक्तदोषपरिहारेणोपपादयिष्यते. तस्य चानेकदेशकालव्यापिता गम्यत इति नाभाजनम् अन्वयस्य. न चातस्मिंस् तद्ग्रहः, पारमार्थिकत्वात् तस्य. एवं च यदनुमानप्रामाण्यसिद्ध्यर्थं परैः किम् अपि काशं कुशम् अवलम्ब्यते, तद् अपि मन्दप्रयोजनम् एवेति
SK
अन्यन् मतम् व्याप्त्यापि साधर्म्यदृष्टान्त उक्ते वैधर्म्यम् अपि वाच्यम् इति, तत्तावद् उपन्यस्यति -- केचिद् इति पादत्रयेण. किं पुनस् तदिच्छायां कारणम् अत आह -- व्यावृत्तिनियमेच्छयेति
SK
एतद् एव विवृणोति -- हेताव् इति. एवं हि मन्यन्ते. यदा हि{३,८१}साधर्म्यदृष्टान्ते यत्र धूम इत्य् उद्दिश्य तत्राग्निर् एवेति सैवकारम् उपादीयते, तदा हेतौ साध्येनैवाग्निनावधारिते सर्वतो ऽग्नेर् अन्यमात्राद् व्यावृत्तिः प्राप्नोति, न चैतत् सम्भवति. साध्यधर्माधिकरणादेर् अप्य् अभावप्रसङ्गाद् अपक्षधर्मत्वापत्तेः. पक्षाभावप्रसङ्गाच् च. अतस् साध्याभाव एव व्यावृत्तिं नियन्तुं सर्वदैव वैधर्म्यवचनम् अर्थवत्. सति हि तस्मिन्न् अग्न्यभावे धूमो न भवतीत्यावेदितं, भवतीति
SK
एतद् अपि दूषयति -- तत् तु मन्दफलम् इति. तद् इदं वैधर्म्यवचनम् एवं क्रियमाणं मन्दफलम् इत्य् अर्थः. कथं मन्दफलम् अत आह -- यस्माद् इति. किं निरूपितम् अत आह -- व्यापकाभावमात्रं हीति. अग्निमान् पर्वत इति पक्षवचने निरूपितम् इदम्, यथा नियमस् तद्विपक्षाच् च कल्प्यते नाविरोधिन इति. अतस् साधर्म्यदृष्टान्ते ऽपि व्याप्याद् धूमादेर् व्यापकाभावनिवृत्ति मात्रम् एव दर्शयितव्यम्, नान्यमात्रनिवृत्तिर् इति
SK
एतद् एव दृष्टान्तवचनेनोपपादयन्न् उपसंहरति -- तस्माद् इति. तद् इह --
SK
प्रतिज्ञाहेतुसाधर्म्यदृष्टान्ताख्यास् त्रयो मताः |
SK
वाक्यस्यावयवाः प्रायो मीमांसकमते सताम् ||
SK
एतच् च भाष्यकारेण स्वयम् एवोपदर्शितम् |
SK
दृष्टान्तहेतुसाध्यार्थपदत्रयनिबन्धनात् ||
SK
इति
SK
अत्र भाष्यम् -- तत् तु द्विविधं प्रत्यक्षतो दृष्टसम्बन्धं सामान्यतो दृष्टसम्बन्धं च. तत्र प्रत्यक्षतो दृष्टसम्बन्धं यथा -- धूमाकृतिदर्शनाद्{३,८२}अग्न्याकृतिविज्ञानं, सामान्यतो दृष्टसम्बन्धं च यथा -- देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिम् उपलभ्यादित्ये ऽपि गतिस्मरणम् इति. अनेन प्रमेयद्वैविध्याद् अनुमानद्वैविध्यम् उक्तम् इति. अत्र केचिन् नीतिज्ञम्मन्या अवधृतस्वलक्षणम् एव क्वचिद् अनुमानेन सामान्यतो गृह्यत इति मन्यन्ते. तद्भ्रमापनयाय भाष्यकारेणेदम् उक्तम् -- तत् तु द्विविधम्, अदृष्टस्वलक्षणविषयम् अप्य् अनुमानम् अस्ति क्रियादिष्व् इति. कथं पुनर् अदृष्टस्वलक्षणेन सम्बन्धदर्शनम्, उत्पत्तिमतः फलस्य दर्शनात्. यद्य् अप्य् अनवधृतस्वलक्षणेन वस्तुना विशेषतस् सम्बन्धो ऽनवगतः, सामान्यतस् तु दृश्यते. सर्वं हि कादाचित्कं फलं कुतश्चिद् आगन्तुकाद् उत्पत्तिमतो जायमानं दृष्टम्, तन्तुसंयोगेभ्य इव पटः. अतो देवदत्तस्य भूतपूर्वपूर्वोत्तरदेशविभागसंयोगौ कदाचिद् उपलभ्यागन्तुकः को ऽपि हेतुर् अनुमीयते. तद् इदं सामान्यतो दृष्टसम्बन्धम् अनुमानम् आचक्षते प्रत्यक्षानुपलक्षितपूर्वस्वलक्षणविषयत्वात्. अग्न्यादिषु तु प्रत्यक्षतः स्वलक्षणावधारणात् प्राक् प्रत्यक्षतो दृष्टसम्बन्धम् अनुमानम् आहुः. न च द्रव्यम् एव संयोगविभागयोः कारणम् इति वक्तव्यम्. सत्य् अपि तस्मिन्न् अभावात्. न च द्रव्यान्तरागम एव शक्यते कल्पयितुं, तस्य पूर्वद्रव्यप्रत्यभिज्ञया बाधितत्वात्. न च सदृशापरापरोत्पत्तिविप्रलब्धा भेदं न बुध्यन्त इति साम्प्रतम्, देशादिभेदे ऽपि तद्बुद्धेर् अविपर्ययात्. उक्तं च विवरणकारेण -- क्षणभङ्गस् तु प्रत्यभिज्ञानान् निराक्रियत एव. अतो दृष्टकारणासम्भवाद् अदृष्टं किम् अपि संयोगविभागयोः कारणम् अनुमीयते. तच् च कर्मेत्य् आख्यायते. अत एव प्रदेशान्तरेष्व् अपि कर्माप्रत्यक्षम् एवेति. भाष्यकारो दर्शयति -- यथा वक्ष्यति न हि ते प्रत्यक्षे इति. अपूर्वसद्भावप्रतिपादनावसरे च न कर्मणो रूपम् उपलभामह इति. यदाश्रयं देशान्तरं प्रापयति तत्कर्मेत्य् उच्यत इति च. व्यक्तम् एव देशान्तरप्राप्तिफलोन्नीयमानत्वम् एव कर्मणो दर्शयतीति सिद्धं क्रियादीनां सामान्यतो दृष्टानुमानैकविषयत्वम्. एवं च प्रमेयद्वैविध्याद् अनुमानद्वैविध्योपपत्तिर् इति ये वदन्ति तान् प्रत्याह -- द्वैविध्यं नोपपन्नम् इति. इदम् उक्तप्रकारं द्वैविध्यम् अनुपपन्नम् इति भावः. कथम् अनुपपन्नम् अत आह -- यथैवेति पादत्रयेण. यथा खल्व् अग्निधूमाकृत्योः प्रत्यक्षयोः प्रत्यक्षदृष्टस् सम्बन्धो, भवति एवं गतिप्राप्त्याकृत्योः, तयोर् अपि प्रत्यक्षत्वात्.{३,८३}प्रत्यक्षम् एव हि वयं देशान्तरं प्राप्नुवन्तं देवदत्त्वं गच्छतीति मन्यामहे. नेयं जात्यादिविकल्पनाभ्यः कर्मकल्पना विशिष्यते. तद्वद् एवेन्द्रियान्वयव्यतिरेकानुविधायित्वाद् अपरोक्षनिर्भासाच् च. ननु देवदत्ते देशसंयोगविभागातिरिक्तम् अपरं कर्मणः किम् अपि रूपम् अपरोक्षम् ईक्षामहे. फलदर्शनेनैव तदनुमीयते. जातेर् वा व्यक्तितो व्य(तिरिक्ता)याः किं रूपम् अनुभूयते, यद् असौ प्रत्यक्षविषयतयावसीयते. रूपम् एव सा व्यक्तेः, किम् अस्या रूपान्तरेणेति चेत्, कर्म वा किम् अरूपम्. इदम् अपि हि ततो न भिद्यत एव. आगन्तुकं तु केवलम्. अतो जातिकल्पनावत् कर्मकल्पनाम् अपि प्रत्यक्षपक्ष एव निक्षिपन्तः पञ्चधा सविकल्पकं प्रत्यक्षं विभजामहे. आह च --
SK
न हि दृष्टिपथं प्राप्तं देवदत्तं निरूपयन् |
SK
पठन् काव्यं स्वसंज्ञोक्तं परोक्षम् इव बुध्यते ||
SK
इति. फलानुमेये तु कर्मण्यादित्यवद् देवदत्तवत् प्रतीतिप्रसङ्गः. न चैष देवदत्तम् इव चलन्तं स्पन्दमानम् आदित्यम् अपि पश्यतीति दृश्यते. स्थिरं हि सर्वदा तन्मण्डलम् अवलोक्यते. संयोगविभागौ तु तस्यापि प्रतीयेते एवेति तुल्य(?व/त्वा)त् ताभ्याम् उभयत्राप्य् आनुमानिकः प्रत्ययो भवेत्. अपि च विभागोपक्रमे संयोगावसाने च कर्मणि तत उन्नीयमाने गच्छतीति वर्तमाननिर्भासः प्रत्ययो न भवेत्, अतीतं हि तत्, तदा कथं वर्तमानाकारबुद्धिगोचरो भवति. जलप्रवाहनिश्चलेषु मत्स्येषु निरन्तरोत्पद्यमानजलावयवसंयोगविभागावगमाद् आनुमानिकी गतिसंविद् उपजायेत. स्थाणौ च श्येनवियुक्ते श्येन इव कर्मानुमीयेत. ततश् च सो ऽपि गच्छतीति बुद्धिविषयताम् आपद्येत. यदि मतं न विभागमात्रात् कर्मानुमानम्, अपि तर्हि विभागपूर्वकात् संयोगाद् इति. एवं तर्हि यदैकः श्येनवियुक्तः स्थाणुर् अन्येन संयुज्यते तत्र प्रसङ्गः. चलित्वावस्थिते च देवदत्ते. यदि तूच्यते यो ऽयम् उत्पततः श्येनस्य देशान्तरसंयोगः तस्य स्थाणुसमवेतेन कर्मणा निष्पत्त्यसम्भवान् न तत्र कर्मानुमानम् इति. कल्प्यतां तर्हि श्येने ऽपि कर्म, स्थाणौ तु प्रसङ्गान् अतिवृत्तिर् एव. नियतं हि प्रतिबद्धदृशः स्मृतप्रतिबन्धस्य प्रतिबन्धकविज्ञानम्. अस्ति च स्थाणौ कारणप्रतिबद्धफलदर्शनम् इति नानुमानोदयश् शक्यते{३,८४}निरोद्धुम्. श्येनसमवायिनैव कर्मणा स्थाणाव् अपि संयोगविभागोपपत्तौ न तद्गतकर्मानुमानम् इति चेत् तन् न. न हि प्रयोजनानुसारिण्य् अनुमानव्यवस्था. व्याप्तं हि लिङ्गं यत्र यत्र दृश्यते तत्र तत्र व्यापकम् उपस्थापयति. अर्थापत्तिर् ह्य् अन्यथोपपत्त्या परिह्रियते नानुमानम्. यदि त्व् अविच्छिन्नोत्पत्तयस् संयोगविभागाः क्रियानुमाने कारणम्, एवं तर्हि न काचिद् गतिर् अनुमीयेत, भविष्यत्संयोगविभागानां प्रमाणागोचरत्वात्. प्रथमं च कतिपयानाम् एवावगतेः. अथ स्वदेशसंयोगविभागहेतुकं क्रियानुमानम्. न च स्थाणोः श्येनो देश इत्य् उच्यते. एवम् अपि मत्स्येषु प्रसङ्गानतिवृत्तिर् एव, तेषां हि जलं स्वदेश एव. परोक्षव्योमवादिनां च विहङ्गमे गच्छतीति क्रियाप्रत्ययानुपपत्तिः, व्योमसंयोगविभागयोर् अप्रत्यक्षत्वात् ताभ्यां तदनुमानानुपपत्तेः. न च वियद्विततालोकावयवसंयोगविभागावगमनिबन्धनो विहङ्गमे चलतीति प्रत्ययः, सन्तमसे ऽपि भावात्. न च तमो नाम किञ्चिद् वस्त्व् अस्ति भवत्सिद्धान्ते, भासो ऽभावमात्रत्वात् तस्य. अतस् तत्संयोगविभागहेतुको ऽपि न क्रियावसायश् शक्यते समाधातुम् इति न प्रत्यक्षे कर्मणि द्वैविध्योपपत्तिः. या तु न हि ते प्रत्यक्षे इत्य् अप्रत्यक्षतोक्ता, तां तत्रैवान्यथा व्याख्यास्यामः. रूपशब्दाविभागम् इति च वदता सूत्रकारेण प्रत्यक्षम् एव कर्मेत्य् आस्थितम्. अपूर्वाधिकरणे च न कर्मणो रूपम् उपलभामह इति वचनं यथाचोदितविततपूर्वापरीभूताभिव्यक्तावस्थितकर्मरूपानुपलब्ध्यभिप्रायम् एव. इतरथा ह्य् उपलब्धिमात्रप्रतिषेधे शशशृङ्गादिवन्नित्याभाव एव कर्मणो भवेत्. न हि तत्र प्रत्यक्षोपलब्धिमात्रम् एव प्रतिषिद्धम्. यदाश्रयं देशान्तरं प्रापयतीति च न फलानुमेयत्वाभिप्रायम्. किं तर्हि. आश्रयस्य देशान्तरप्रापकत्वरूपेण न स्वरूपतः कर्मास्तीत्य् अपूर्वात्मना कर्मणो ऽवस्थानं दर्शयति. इहापि देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिम् उपलभ्येति वदन् देवदत्ते प्रत्यक्षताम् एव गतेर् दर्शयति. अन्यथा तु देवदत्तादित्ययोर् उभयोर् अपि कर्मणो ऽनुमेयत्वात् केन विशेषेणादित्ये गत्यनुमानं सामान्यतो दृष्टतयोदाह्रियते. देवदत्ते ऽपि हि सामान्यतो दृष्टाद् एव गतिसिद्धिः. अतो नैवंविधं ग्रन्थतो युक्तितो वा घटत इति सूक्तम् अनुपपन्नम् इति. प्रतियोगिनोर् हि परस्परम् असङ्करे द्वैविध्यं भवति. इह तु यत्{३,८५}प्रत्यक्षदृष्टसम्बन्धस्य प्रतियोगितयोपात्तं सामान्यतो दृष्टसम्बन्धं तत्रापि गतिप्राप्त्याकृत्योः प्रत्यक्षदृष्ट एव सम्बन्ध इति न प्रतियोगिनोर् असङ्कर इति
SK
यदि तु दृष्टान्ते प्रत्यक्षतायाम् अपि पक्षीकृताद् इत्य् अगतेर् अप्रत्यक्षत्वात् न प्रत्यक्षदृष्टस् सम्बन्ध इत्य् उच्यते. तद् एतद् आशङ्कते तावत् -- आदित्ये ऽनुपलब्धिश् चेद् इति. इदानीं दूषयति -- नेति. कारणम् आह -- देशे ऽप्य् अधुनातन इति. देशे ऽप्य् अधुनातने -- सम्प्रति प्रमीयमाणे, अप्रत्यक्षतोपलब्धिर् एवेत्य् अर्थः. यदि त्व् अग्निधूमाकृत्योः क्वचिन् महानसादौ अप्रत्यक्षोपलब्धिर् इष्यते सा तर्हि देवदत्ते ऽपि गतेः प्रत्यक्षत्वाद् अस्तीत्य् आह -- क्वचिद् इति
SK
एवं तावत् प्रत्यक्षतो दृष्टता सामान्यतो दृष्टतया सङ्कीर्यते इत्य् उक्तम्. इदानीं सामान्यतो दृष्टतापि प्रत्यक्षतो दृष्टाभिमताग्न्याकृत्यनुमाने सङ्कीर्यत इत्य् आह -- यदीति पादत्रयेण. यदि हि देवदत्तादिधर्म्यन्तरापेक्षैवादित्ये गत्यनुमानस्य सामान्यतो दृष्टतेष्यते, सा तर्हि महानसादिधर्म्यन्तरापेक्षयाग्निधूमयोर् अपि गम्यगमकत्वेनावस्थितयोः प्राप्नोत्य् एव. सामान्यतो ह्य् अविवक्षितदेशादिभेदम् इदम् अवगतं धूमवान् अग्निमान् इति, यथा देशान्तरप्राप्त्यधिकरणं गत्यधिकरणम् इति. अतः प्रतियोगित्वरहितम् एवेदम् उभयम् इति द्वैविध्यानुपपत्तिर् इत्य् आक्षेपः. एवम् आक्षिओय समादधाति -- तस्माद् एवं प्रचक्षत इति. यथोक्तद्वैविध्यासम्भवाद् एवं वक्ष्यमाणप्रकारेण द्वैविध्यं वर्णनीयम् इति भावः
SK
तत्र प्रत्यक्षसम्बन्धं तावद् उदाहरति -- प्रत्यक्षेति युध्यते ऽन्तेन. यदा हि ययोर् एवाग्निधूमविशेषयोः, गोमयेन्धनो यम् अग्निः -- गोमयम् इन्धनम् अस्येति{३,८६}बहुव्रीहिः, तज्जन्यो ऽयं धूमविशेष इति च प्राक् प्रत्यक्षेण मतिं कृत्वा पुनश् च कियता विलम्बनेनान्यत्र क्वचिद् गत्वा गतस् सन् तद्देशस्थेन तेनैव धूमविशेषेण तम् एवाग्निविशेषं बुध्यते, तदा तत्प्रत्यक्षदृष्टसम्बन्धम् अनुमानं भवतीत्य् अर्थः. अनेन च विशेषदृष्टम् एव प्रत्यक्षदृष्टशब्देनोच्यत इति व्याख्यातम्. प्रत्यक्षशब्देन हि विशेषो लक्ष्यते. प्रत्यक्षेण ह्य् अयम् एवंविधो ऽवान्तरविशेषो गोमयेन्धनतज्जन्यत्वादिरूपश् शक्यते ऽवगन्तुम्. न प्रमाणान्तरेण. तद्द्वारेण त्व् अनुमानस्यापि तादृशो विशेषो विषयो भवतीति युक्तैव प्रत्यक्षशब्देन विशेषलक्षणा. विशेषदृष्टं च सामान्यतो दृष्टस्य भवति प्रतियोगीति द्वैविध्योपपत्तिर् इति भावः. ननु विशेषदृष्टं नाम (न) प्रमाणभेदः. न चेदं प्रमाणम्, गृहीतविषयत्वात्. तद्देशस्थितेनैव हि धूमेन तस्मिन्न् एव देशे स एव गोमयेन्धनजन्याग्निर् अनुमीयते. अतो देशभेदाभावाद् अप्रामाण्यम् एव, अत आह -- तस्येति पादत्रयेण. तस्यैवंविधस्य प्रत्यक्षदृष्टस्य सन्दिह्यमानसद्भाववस्तुबोधात् प्रमाणता भवति. यद्य् अपि देशभेदो नास्ति. कालभेदात् तु संशयानस्य संशयोच्छेदद्वारेण प्रामाण्यम् अविहतम् इति. एतच् च विन्ध्यवासिनापि विशेषदृष्टत्वेनोदाहृतम् इत्य् आह -- विशेषदृष्टम् इति
SK
यदि विशेषदृष्टोदाहरणम् इदं कथं तर्हि भाष्ये आकृतिग्रहणम्. एवं हि विशेष एव दर्शयितव्यो भवेत्. अत आह -- आकृत्योर् एवेति. अयम् अर्थः -- केनचिद् गोमयेन्धनत्वादिनायान्तरविशेषेणोपदर्शितयोर्{३,८७}आकृत्योर् एवात्र हेतुसाध्यत्वम्. एवं ह्य् अत्र प्रत्ययः. स एवायम् अद्य यावदनुवर्तमानो गोमयेन्धनविकारस्य धूमस्याकारो दृश्यते. अत एव तदिन्धनयोनिर् अग्निर् अनुवर्तत इत्य् अतो नानुपपन्नम् आकृतिग्रहणम् इति
SK
यद्य् एवम् अविवक्षितावान्तरविशेषम् अग्निधूमान्तरम् एव सामान्यतो दृष्टोदाहरणतया वाच्यम्. किम् आदित्योदाहरणेन. अत आह -- अग्निधूमान्तरत्वे चेति. यथा ह्य् अग्निधूमाकृत्योस् तृणदारुगोमयेन्थनादिजन्मा सुव्यक्तो विशेषः सर्वप्रमातृस्वसंवेद्यो भवति, नैवं गतिप्राप्त्याकृत्योः. अतः प्राप्त्याकृतिमात्राद् गत्याकृतिमात्रानुमानम् आदित्य एकान्ततस् सामान्यतो दृष्टसम्बन्धम् इति युक्तम् एवादित्योदाहरणम् इति
SK
किं पुनस् सामान्यतस् सम्बन्धग्रहणे प्रमाणम्. न ह्य् अगृहीतयोस् सम्बन्धिनोस् सम्बन्धग्रहणम् अस्ति. न च सामान्ययोः प्रत्यक्षग्रहणं सम्भवति. तस्य स्वलक्षणैकविषयत्वात्. नानुमानम् अनवस्थापातात्. अत आह -- प्रत्यक्षविषयत्वम् इति. भवेद् अनवस्था, यद्य् अनुमानेन सामान्यग्रहणम् इष्यते. तस्य तु सविकल्पकसिद्धौ प्रत्यक्षविषयत्वम् उपपाद्यान्त उपसंहृतं प्रत्यक्षत्वम् अतस् सिद्धं सामान्यस्येति. ननु वस्त्व् एव न सामान्यं किञ्चिद् अस्ति नाम. तस्य भिन्नाभिन्नस्यानिरूपणाद् अत आह -- वस्तुत्वं चेति. वस्तुत्वम् अप्य् आकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यते. प्रत्यक्षविषयताप्रतिपादनेन च प्रत्यक्षे ऽपि प्रसाधितप्रायम् एव. अत्र च अस्ति सामान्यवस्तुष्व् इत्य् अन्वयोपपादनाय सामान्यस्य वस्तुत्वम् उपन्यस्तम् एव. अयं तु हेतुकथनार्थः पुनरुपन्यास इति. यस् तु हैतुको न हेतुम् अन्तरेण प्रमाणान्तरसिद्धाव् आद्रियते. तं प्रति हेतुनैवोभयम् उपपादयिष्याम इत्य् आह -- अत्रेति
SK
{३,८८} तत्र वस्तुत्वप्रसाधनार्थं तावद् हेतुम् आह -- धूमाद् अग्न्यनुमानस्येति. बौद्धा ह्य् अवस्तुसामान्यालम्बनम् अनुमानम् आचक्षते. सामान्यस्य विकल्पाकारमात्राभ्युपगमात्. अत एव भ्रान्तिर् एवानुमानं, सम्बन्धबलेन स्वलक्षणरूपम् उपस्थापयतीति प्रमाणम् इत्य् आहुः. तान् एव प्रतीदम् उच्यते -- वस्त्व् आलम्बनम् अनुमानम् अभावान्यप्रमाणत्वात् यथा स्वार्थे श्रोत्रादिबुद्धिः. या हि स्वविषये श्रोत्रादिभिर् इन्द्रियैर् बुद्धिर् जन्यते, सा वस्त्व् आलम्बनैव. येन च यदिन्द्रियं सन्निकृष्यते स तस्य स्वार्थः प्राप्यकारित्वाद् इन्द्रियाणाम्. तद् इह मृगतृष्णादिज्ञाननिराकरणार्थं स्वार्थविशेषणम्. अविशेषेणोपादाने तु नाभावान्यप्रमाणत्वस्य वस्त्वालम्बनतया व्याप्तिः कथिता भवेत्. भ्रान्तीनाम् उभयविकलत्वात्. न हि ताः प्रमाणम्. न च वस्त्व् आलम्बनाः. अन्यसम्प्रयुक्तेन्द्रियस्य हि ता अन्यविषया जायन्ते. ईदृशम् एव ज्ञानम् अवस्त्वालम्बनं, न पुनरत्यन्तासदर्थम्. एवं वस्त्वालम्बनत्वे ऽनुमानस्य साधिते अर्थात् सामान्यं वस्त्व् इत्य् उक्तं भवति. इदं चावस्त्वालम्बनत्वम् अनुमानस्यार्थपदं प्रयुञ्जानेन भाष्यकारेण निराकृतम्. अनर्थविषयम् अनुमानम् इति बौद्धा मन्यन्ते. यद्वद् इति(?) स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायेन प्रवर्तमाना भ्रान्तिर् अप्य् अर्थसम्बन्धेन प्रवृत्तेस् तदव्यभिचारात् प्रमाणम् अनुमानम् इति, तेषाम् इदम् उत्तरम् अर्थस् सामान्यम् अनुमानस्य विषयो बाह्य एव. न विकल्पाकारमात्रम् इत्य् आकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यत इति
SK
एवमर्थाद् वस्तुत्वं प्रसाध्याह्रत्य प्रसाधयति -- सामान्यस्य च वस्तुत्वम् इति. सामान्यं वस्तु अभावान्यप्रमेयत्वाद् असाधारणवस्तुवद् इति वक्ष्यमाणेन सम्बन्ध इति. प्रत्यक्षविषयताम् इदानीं प्रयोगेण दर्शयति -- प्रत्यक्षेति पादत्रयेण. यदभावान्यप्रमेयं तत् प्रत्यक्षेण गृह्यत एव. यथा सौगतानाम् एवासाधारणं वस्त्व् इति
SK
{३,८९} बौद्धानाम् एव तु सामान्यम् अनुमानैकविषयं मन्वानानाम् अनवस्था प्रसज्यत इत्य् आह -- सामान्यम् इति पञ्चभिः. निगदव्याख्यातो ग्रन्थः || १४९ -- १५३ ||
SK
यदि तूच्यते लिङ्गभूतसामान्यग्रहणार्थम् अनुमानापेक्षायाम् अनवस्था भवति, न तद्ग्रहणार्थम् अनुमानम् अपेक्ष्यते, धूमादिस्वलक्षणदर्शनप्रभवविकल्पवेद्यत्वात् तस्य. न चासाव् अप्रमाणम्, अर्थक्रियासमर्थवस्तुप्रतिलम्भात्. न च प्रमाणम् अनर्थविषयत्वात्. अतो ऽनिर्वचनीयविकल्पसिद्धत्वात् लिङ्गस्य नानवस्था भवतीत्य् आशङ्क्याह -- अथेति. अयम् अभिप्रायः -- न तावत् प्रमाणम् अप्रमाणं च ज्ञानं सम्भवति. विरुद्धस्वभावयोर् एकत्र प्रतिषेधे ऽन्यतरापत्तेर् अपरिहार्यत्वात्. अप्रमाणस्य च प्रमेयव्यवस्थापनाशक्तेर् अवश्यं प्रमाणम् एव तज्ज्ञानम् अभ्युपगन्तव्यम्. प्रत्यक्षानुमानानभ्युपगमाच् च प्रमाणान्तरम् एवापद्येत.{३,९०}प्रमाणान्तरं च सद् यथा तल्लिङ्गसंवेदने प्रमाणम् इष्यते, एवं लिङ्गिन्य् अपि प्राप्नोति. एवं च वक्ष्यमाणप्रसङ्गो भवेत्. प्रमाणाद् अप्रमाणाद् वेति वदन्ननिर्धारितोभयरूपतां विकल्पस्य दर्शयतीति
SK
अस्तु तर्हि लिङ्गिनो ऽपि तथैवावगमः, को दोषः, अत आह -- एवम् अपीति. अयम् अभिप्रायः -- अनवस्थाम् अपि प्रसञ्जयताम् अस्माकम् अनुमानोच्छेदापादनम् अभिमतम्. प्रमाणान्तराभ्युपगमे ऽपि चानुमानोच्छेदो भवत्य् एव. तद् एव हि प्रमाणं तदा सर्वस्य लिङ्गलिङ्गिसामान्यस्यावबोधकं भवेद् इति
SK
यदि त्व् एकरूपाभ्युपगमे ऽप्रमाणत्वम् एव लिङ्गज्ञानस्येष्यते, ततो ऽप्रमाणावगताल् लिङ्गाल् लिङ्गिज्ञानम् अपि मिथ्या भवेत्. बाष्पाद् इव धूमसंविदिताद् अग्निज्ञानम्. एवं च नानुमानम् इति. स एवानुमानस्य नित्योच्छेदं इत्य् अभिप्रायेणाह -- अप्रमाणावबुद्धाद् इति
SK
अत्र चोदयति -- नन्व् इति. यथा ह्य् अप्रमाणम् एव सम्बन्धस्मरणं प्रमाणकारणम् इष्यते तथा लिङ्गज्ञानम् अपि भविष्यतीत्य् अर्थः
SK
परिहरति -- तत्रेति. स्मृतिर् हि पूर्वज्ञानाद् भवन्ती तदुपस्थापनद्वारेणानुमायाम् उपयुज्यते. तच् च प्रमाणम् एवेति तदनुसारी निर्णयो युक्त इति
SK
{३,९१} न चैष प्रकारो लिङ्गगतौ सम्भवतीत्य् आह -- न त्व् इति. न ह्य् अत्र प्राग् अपि लिङ्गावगमे प्रमाणं किञ्चिद् उपपद्यते, यत् प्रमाणज्ञानेनोपस्थाप्यत इति. न च लिङ्गज्ञानम् अपि स्मृतिर् एवेति वाच्यम्. पूर्वप्रमाणाभावाद् एवेत्य् आह -- तदभावाद् इति
SK
ननु निर्विकल्पकगृहीतधूमादिस्वलक्षणपरिप्रापकतया लिङ्गज्ञानम् अपि स्मृतिर् एव. अतो ऽत्रापि निर्विकल्पकप्रमाणान्तरतो निर्णयो युक्त एव. अत आह -- स्मार्तम् इति. यथा सम्प्रति सम्बन्धज्ञानं गृहीतप्रापकतया स्मरणम्, एवम् एतद् अपि लिङ्गज्ञानं निर्विकल्पकगृहीतप्रापकतया तदभेदेन स्मार्तम् इति यो वदति तस्य वन्ध्यासुते ऽपि स्मरणशक्तिर् अनिवारिता. गृहीतविषया हि स्मृतिर् इति स्थितिः. न च लिङ्गसामान्यज्ञानं निर्विकल्पकगृहीतस्वलक्षणालम्बनम् इति कथं स्मृतिः. यद् अत्र प्रकाशते तन् न गृहीतं, यच् च गृहीतं तन् न प्रकाशत इति न स्मृतित्वम्. अगृहीतगोचरायां तु स्मृतौ वन्ध्यासुते ऽपि स्मरणप्रसङ्ग इति
SK
नन्व् अनुमानेन लिङ्गसामान्यज्ञाने ऽनवस्था भवति, यदि सामान्यात्मकम् एव लिङ्गं तद्ग्रहणार्थम् इष्यते, तस्यानुमानवेद्यत्वात्. असाधारण एवार्थात्मा सामान्यज्ञाने लिङ्गं भविष्यति, स च प्रत्यक्ष एवेति नानवस्था. अत आह -- न चेति. किं न कारणम् अत आह -- यस्माद् इति. दृष्टाविनाभावं लिङ्गं भवति. न चास्य तेन सामान्येनाविनाभावः कथञ्चिद् देशतः कालतो वा दृष्टः. असाधारणस्य भावान्तरेष्व् अनुस्यूत्यसम्भवाद् एकत्र दृष्टस्य च तत्रैव निरुद्धत्वाद् इति
SK
{३,९२} सम्बन्धदर्शनाभ्युपगमे वा कृतकत्वादिवत् सामान्यरूपतापत्तिर् इत्य् आह -- स्याद् वेति. अत्र कारणम् आह -- न हीति
SK
इतश् चासाधारणो ऽर्थात्मा न लिङ्गम् इत्य् आह -- न चेति. धूमादिर् हि धूमो ऽयम् इत्यादिविकल्पास्पदीकृतो ऽग्न्यादेर् लिङ्गम् इति दृष्टम्. असाधारणस् तु केनचिद् रूपेणाप्य् अव्यपदेश्यः कथं लिङ्ग भवेद् इति. लिङ्गत्वं नोपपद्यत इति वक्ष्यमाणेन सम्बन्ध इति. ननु तिरश्चाम् असत्य् एव शब्दोल्लेखे ऽसाधारणरूपदर्शिनाम् एवानुमानं दृष्टमतो नाव्यपदेश्यत्वाद् अलिङ्गत्वम् अत आह -- विकल्पेति पादत्रयेण. अयम् अभिप्रायः -- मा नाम तिरश्चां शब्दोल्लेखो भवेत्, अर्थविकल्पस् तु तेषाम् अपि पूर्वापरानुसन्धानात्मको ऽस्त्य् एव. अतो युक्तम् एव तेषाम् अनुमाने ऽव्यपदेश्यस्यापि लिङ्गत्वम्. असाधारणस् तु पूर्वापरानुसन्धानाद् विनार्थविकल्परहितो ऽपीति कथं लिङ्गम्. न हि सो ऽयम् इत्य् अनारूढो बुद्धौ धूमो ऽग्नेर् लिङ्गं भवति. न चैवम् असाधारणे सम्भवति, पूर्वापरानुसन्धानागोचरत्वात् तस्येति
SK
अस्मन्मते ऽपि ये ऽसाधारणात्मानो धूमादयो विशेषा विकल्प्यन्ते ते ऽप्य् अन्वयाभावाद् अलिङ्गं, किम् अङ्ग पुनर्निर्विकल्पकैकगोचरो ऽसाधारणो ऽर्थात्मा इत्य् आह -- कल्प्यन्त इति. अन्वयाभावाद् एवासाधारणज्ञानम् अपि लिङ्गिसामान्यज्ञाने न लिङ्गम् इत्य् आह -- एतस्माद् एवेति
SK
यदि त्व् अन्वयसिद्ध्यर्थम् असाधारणस्य सामान्यरूपतेष्यते, ततो लिङ्गसामान्यग्रहण इवानवस्थाप्रसङ्गात् तस्याप्य् अनवधारणम् इत्य् आह -{३,९३}सामान्येति. यदि तु कस्मिंश्चिद् एवासाधारणे सामान्येन ज्ञातसम्बन्धे न्यदर्शिनापि सामान्यम् अनुमीयते. एवं तर्हि सर्व एव सर्वस्य प्रत्यायको भवेत्. अविशेषाद् इत्य् आह -- क्वचिद् वेति
SK
एवं तावन् न लिङ्गावधारणे प्रमाणम् अस्तीत्य् उक्तम्. इदानीम् अन्वयग्रहणकाले लिङ्गिज्ञाने ऽपि न किञ्चित् प्रमाणम् अस्तीत्य् आह -- सम्बन्धानुभव इति. नागृहीते लिङ्गिनि तत्सम्बद्धं लिङ्गं शक्यते ऽवगन्तुम्. न चानुमानप्रवृत्तेः प्राक् तस्मिन् सामान्यात्मनि भवनः किञ्चित् प्रमाणम् अस्त्य् अस्माकम् इव प्रत्यक्षम्, अतो लिङ्गिन्य् अप्य् अवगम्यमाने ऽनवस्थाप्रसङ्ग इत्य् अभिप्रायः
SK
नन्व् अनादिकालीनवासनामात्रनिबन्धन एवायं लिङ्गलिङ्गिसंव्यवहारः, किम् इहातिनिर्बन्धेन. काचिद् एव हि वासनोद्भूता किञ्चिल् लिङ्गाकारं विकल्पम् आविर्भावयन्ती किञ्चिद् एवानुमानसंव्यवहारं प्रवर्तयति. यथाहुः -- स एवायम् अनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन, न बहिस्सदसत्त्वम् अपेक्षत इति, अत आह -- न चापीति. न वासनामात्रनिर्मितं लिङ्गज्ञानम्. वासना हि पूर्वानुभवाहितस् संस्कारः. नासौ लिङ्गसामान्यस्य शशविषाणादिवदत्यन्तासतस् सम्भवतीति कथं वासनामात्राल्लिङ्गज्ञानस्य सम्भव इति. तन्निबन्धने च लिङ्गज्ञान इष्यमाणे तद्वद् एव लिङ्गिज्ञानोपपत्तेर् अनर्थकं त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इत्य् अनुमानप्रामाण्याश्रयणम् इत्य् आह -- लिङ्गिज्ञानं चेति
SK
{३,९४} नन्व् इयम् अनवस्था मेघाभावेन वृष्ट्यभावानुमाने भवतो ऽपि समानैव, अभावस्यानुपलब्धिलिङ्गत्वात्. सजातीयलिङ्गान्तरापेक्षायाम् अनवस्थापद्यते. अत आह -- यत्रेति. यत्र हि वृष्ट्यभावे मेघाभावो लिङ्गं नासाव् अनुमेयः, अभावाख्यप्रमाणान्तरगम्यत्वात्. अतो नात्र तुल्यजातीयापेक्षानिबन्धनो ऽनवस्थादोषो जायत इति
SK
प्रत्यक्षसामान्यवादिनां तु न नः काचिद् अनवस्थेत्य् आह -- प्रत्यक्षावगताद् इति. अतः प्रत्यक्षाद् इत्य् अर्थः
SK
अनुमितानुमाने तर्ह्य् अनवस्था, अत आह -- यत्रापीति. प्रत्यक्षा हि देशान्तरप्राप्तिर् मौलिकं मूले भवं लिङ्गं, तेन गतिम् अनुमायादित्ये गतिसाधने ऽनुमीयमाने नानवस्थेत्य् अभिप्रायः
SK
नन्व् अनित्यश् शब्दः कृतकत्वात्, कृतकत्वं च तत्र दर्शनाद् इत्य् एवं कर्मानन्तरभावितया कृतकत्वे साध्यमाने कर्मणो ऽपि हेत्वन्तराद् अनुमाने ऽनवस्था भवेद् अत आह -- लिङ्गत्वम् इति.
SK
कृतकत्वानुमाने हि कर्मैके तत्र दर्शनाद् |
SK
इति कारकव्यापारानन्तरभावित्वं लिङ्गम् उक्तम्. तत्र च कारकविशिष्टा क्रिया तद्विशिष्टं वा कारकम् अनन्तरभावितां विशिंषल्लिङ्गम् आपतति. उभयं{३,९५}च तत्प्रत्यक्षम्. क्रियायास् तावत् प्रत्यक्षत्वम् अनन्तरम् एव साधितम्. कारकम् अपि तद्वत् प्रत्यक्षम् एव. शक्तिस् तु परोक्षा. सा च न तावद् इह लिङ्गम्. न चानुमेया. अतः क्रियाकारकयोर् उभयोर् अपि प्रत्यक्षत्वान् न दूरगमनम्. अनुमेयकर्मवादिनाम् अपि हि फलावध्यवस्थानान् नानवस्था, नितराम् अस्माकम् इति
SK
एवं तावदनुमानस्यासति सामान्यस्य वस्तुत्वे प्रत्यक्षत्वे च दौस्थित्यम् उक्तम् इदानीं सर्वम् एव प्रमाणजातं सामान्यस्य दौस्थित्ये दुस्थितम् आपद्येत तेषाम् अपि सामान्याश्रयत्वात्. न च तदप्रमाणं वक्ष्यमाणन्यायाद् इत्य् अभिप्रायेणाह -- एवम् इति
SK
अतो ऽवश्यं प्रमाणान्तराणां प्रत्यक्षपूर्वकत्वम् एष्टव्यं सामान्यस्य च प्रत्यक्षत्वम्, इतरथा त्व् अनवस्था प्राप्नोतीत्य् उपसंहरति -- तस्माद् इति
SK
एवं तावत् सामान्यस्य प्रत्यक्षत्वं वस्तुना चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति, तान् प्रत्याह -- प्रत्यक्षेति. विशेषो हि यदि तावदवयवी द्रव्यम् अभिमतः, स चावयववस्त्वन्तरापेक्षस् सामान्यांशो ऽस्माभिः कीर्त्यत इति कथं प्रत्यक्ष इति
SK
यदि त्व् अवयविरूपादय एव विशेषा इष्यन्ते, तद् अप्य् अयुक्तम्. ते ऽपि हि स्वविशेषनीलाद्यपेक्षया सामान्यम् एवेत्य् आह -- रूपादयो हीति.{३,९६}यदि तु नीलादय एव विशेषा इति मतम्. तन् न. तेषाम् अप्य् अवान्तरनीलाद्यपेक्षया सामान्यरूपत्वाद् इत्य् आह -- स्वविशेषान् इति
SK
यदि त्व् एकभ्रमरादिद्रव्यनीलिमैव विशेष इष्यते, तन् न. तस्यापि पक्षादिस्वावयवाश्रितनीलविशेषापेक्षया सामान्यरूपत्वात्. पक्षनीलिमापि तदवयवनीलापेक्षया सामान्यम् एव. एवं च अपरमाणुभ्यः प्रसङ्गो दर्शयितव्य इत्य् आह -- ते चापीति. निर्भागा हि परमाणव इति तद्रूपम् असाधारणम् एवेति. तेभ्यस् तु प्राक् द्व्यणुकरूपम् अपि द्वयोस् साधारणम् इत्य् आह -- द्व्यणुकस्यापीति
SK
नन्व् अस्तु परमाणुरूपम् एव विशेषः, स एव नः प्रत्यक्षो भविष्यत्य् अत आह -- न चान्त्येनेति. व्यवहारार्थं हि प्रमाणम् अनुस्रियते, न व्यसनितया. न चान्त्येन विशेषेण व्यवहारः कस्यचिद् अस्तीति किं तत्प्रत्यक्षतयेति. ननूपेक्षाफलम् अपि प्रमाणं भवत्य् एव, अत आह -- न चेति. न नः परमाणूनां रूपं स्थूले वर्तमानानां तन्तूनाम् इव पटे प्रत्यक्षं विभक्तानां वेति न कथञ्चिद् विशेषविषयता प्रत्यक्षस्येति
SK
ननु परमाणव एव भिन्नास् सञ्चिता गृह्यन्ते न कार्यद्रव्यम् एकम्. अतः कथं तत्सावयवेषु सामान्यम् इत्य् उच्यते. सञ्चिता एव चानन्यवृत्तितया विशेषासाधारणादिपदवाच्या इति ते प्रत्यक्षा भविष्यन्ति. मा नामैकैकतः परमाणुर् अक्षगोचरो भवेद् अत आह -- भेदेनेति. एको हि सर्वदा सर्वेषां च भावः प्रकाशते न परमाणुभेदाः. न च भेदेनागृह्यमाणो ऽभेदो गृह्यत इति साम्प्रतम्. संविद्विरोधाद् इति भावः. नन्व् अयम् एव भेदावग्रहो{३,९७}यो ऽयम् अभिन्नप्रकाशः, किं भेदग्रहणेनात आह -- न च भिन्नेति. नाभिन्नाकारबुद्धिबोध्यो भेदः, भेदाभेदविवेकानुपपत्तेर् इति भावः
SK
नन्व् असत्य् अप्य् एकस्मिन् समुदायालम्बनो ऽयम् अभिन्नावभासो भविष्यतीत्य् अत आह -- समुदाय इति. ये हि सामान्यम् एव सर्वजगत्संविदितम् अपलपन्ति कुतस् तेषां समुदायो नामार्थान्तरं, यदालम्बनो ऽभिन्नप्रतिभासो भविष्यति. अपि च सर्वदा सर्वे चैकं द्रव्यम् अवबुध्यन्ते कथं तद् अन्यथा भविष्यतीत्य् आह -- न च सर्वदेति
SK
किञ्चायं समुदायो ऽपि नैकजात्या विनोपपद्येत. न हि नानाजातीयेषु वृक्षघटलोष्टेषु कस्यचित् समुदायबुद्धिर् अस्ति. अतस् समुदाये ऽपीष्यमाणे ऽणुत्वसामान्यम् अभ्युपगन्तव्यम् आपद्येत भवताम् इत्य् आह -- न चेति. हेतौ चः
SK
ननु नानेकावयववृत्त्यनुसन्धानेन विना तत्सामान्यरूपं द्रव्यम् अभ्युपगन्तुं शक्यम्. न चैन्द्रियकं ज्ञानम् एता(?व् इ/व)ति समर्थम् अविकल्पकत्वात् तस्य. अत आह -- सामान्यम् इतीति. यद्य् अप्य् अनेकानुगमकॢप्तेस् तन्नानावयवव्यासङ्गि द्रव्यं सामान्यम् इत्य् एवं विकल्प्य न गृह्यते. तथापि तदेकरूपं तावन्निर्विकल्पकेनापि गृह्यत एवेति नापह्नोतुं शक्यत इति व्यासज्यवृत्त्यवयविसामान्यन्यायेन प्रतिव्यक्तिवर्तिनो ऽपि गोत्वादिसामान्यस्यैन्द्रियकत्वं दर्शयितव्यम्. तद् अपि सामान्यम् इत्य् अनेन रूपेणाग्राह्यं वस्तुतस् सामान्यम् एव गृह्यते. शब्दादिस्मरणोत्तरकालं त्व् अनेकानुगमावमर्शात् सामान्यम् इति विकल्प्य गृह्यते. इदं च सविकल्पकसिद्धाव् उक्तम् एव. अतो नैवं वाच्यम् -- अस्त्ववयविसामान्यस्य स्वलक्षणापरनाम्न इन्द्रियैर् ग्रहणम्, न तु प्रतिव्यक्तिनिवेशिन इति
SK
{३,९८} उभयत्रापि प्रत्ययाविशेषाद् इत्य् आह -- व्यासज्येति. तदनेनैतदापादितम् -- किम् इदं मुधैव सामान्यस्य प्रत्यक्षता नेष्यते, विशेषम् अपि हि प्रत्यक्षम् इच्छद्भिर् बलात् सामान्यम् एव प्रत्यक्षम् आश्रयणीयम्, सर्वस्य हि सुनिपुणं निरूप्यमाणस्य रूपादेस् सामान्यरूपत्वाद्, द्रव्यस्य च नानावयवसाधारणस्य ताद्रूप्यात्, स्वतन्त्रं परमाणुसञ्चयमात्रस्य चानुपलम्भाद् द्रव्यापलापे च प्रत्यक्षविरोधात्. अतो ऽवयविसामान्यं तत्समवेतानि च गोत्वादिसामान्यानि सर्वाण्य् एव प्रत्यक्षाणि न विशेषा एवेति तात्पर्यम्. एवम्परत्वाद् एव च प्रदेशान्तरसिद्धसामान्यावयविसामान्यप्रत्यक्षताप्रतिपादनेन न पुनरुक्तता चोदनीयेति
SK
ननु भवद्भिर् मीमांसकैस् तावदवश्यम् अभ्युपगन्तव्याः परमाणवः. अतस् तेषाम् एवोभयसिद्धानां परम् एकाकारबुद्धिजननशक्तिमात्रम् एवोपकल्पितम्. किं धर्मिकल्पनया. लघीयसी हि तत्कल्पनातो धर्मकल्पना. अत आह -- मीमांसकैश् चेति. अयम् अभिप्रायः. यद् धि प्रमाणेनोपनीयते, तद् अस्माभिर् इष्यते, न च स्थूलं हित्वा परमाणव एवाक्षजायां बुद्धौ भासन्ते, यत्तानुपेत्य स्थूलम् अवजानीमहे. तदानुगुण्येन तु यद्य् अणवो व्या(?प/पा)द्यन्ते, भवन्तु, न तद्बलेन मूलभूतं स्थूलम् अपलपितुम् उत्सहामह इति
SK
प्रत्यक्षं तु स्थूलम् अदृश्यैः परमाणुभिः निह्नुवानस्य शशो ऽपि तद्विषाणधिया निह्नोतव्यः प्राप्त इत्य् आह -- समूहरूपम् इति
SK
{३,९९} किम् इदानीं शशविषाणकल्पाः परमाणवः. नेत्य् आह -- समूहेति. न ह्य् अत्र कल्पनालाघवेन प्रत्यक्षसिद्धो धर्मी परित्यागम् अर्हति. सिद्धे च तस्मिंस् तदनुगुणाः परमाणव इति केन नेष्यते. सिद्ध्युपायस् तु तेषाम् अन्यो नास्तीति परमाणवो नावश्यम् इष्यन्त इत्य् उक्तं भवति
SK
अतो यद् एव वस्तु सामान्यविशेषयोर् अपरोक्षं गृह्यते, तत् तथैवापरोक्षतयैवाभ्युपगन्तव्यम्, न तु विशेष एव प्रत्यक्षो न सामान्यम् इति वाच्यम् इत्य् उपसंहरति -- तस्माद् इति
SK
अस्तु वासाधारणम् एव प्रत्यक्षं, तथापि न सामान्यस्य प्रत्यक्षम् अपह्नोतुं शक्यते. गोत्वादिसामान्यानाम् अपि सत्तादिपरसामान्यापेक्षयासाधारणत्वात्. अतो यद्य् असाधारणं प्रत्यक्षम् इत्य् आग्रहो भवताम् एवम् अपि न गोत्वादिसामान्यम् अप्रत्यक्षम् इति प्रत्यक्षसामर्थ्यसिद्धत्वान् न शक्यम् अपह्नोतुम् इत्य् आह -- सत्तादीति
SK
यदि तूच्यते प्रत्यक्षेण गृह्यमाणम् अपि सामान्यं न सामान्योल्लेखेन गृह्यत इति (न) प्रत्यक्षम् इति, तद् एतद् आशङ्कते -- सामान्येति. परिहरति -- किं वेति. एवं ह्य् असाधारणम् अपि न प्रत्यक्षं भवेत्. तत्रापि निर्विकल्पकावस्थायां{३,१००}परव्यावृत्त्यकल्पनाद् असाधारणोल्लेखो नास्त्य् एवेति. यदि तु ताद्रूप्येणाविकल्पितम् अपि स्वरूपेण विकल्पको ऽवबुध्यत इति तत्प्रत्यक्षम्. एवं तर्हि द्व्याकारम् एव संमुग्धं वस्तु लोकः प्रतिपद्यत इति परीक्षकैर् उभयथापि तत् शक्यत एव वक्तुम् इति सिद्धं द्व्याकारम् एव वस्तु प्रत्यक्षेण गृह्यत इति. सिद्धं च सामान्यतस् सम्बन्धदर्शनम् इत्य् अभिप्रायेणाह -- यद्वस्तु लोकः प्रतिपद्यते ऽस्मिन् द्विधापि तत् शक्यत एव वक्तुम् इति. अस्मिन्न् इति प्रत्यक्षज्ञान इत्य् अर्थः
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
SK
अनुमानपरिच्छेदः समाप्तः ||
SK
००६ शब्दपरिच्छेद
SK
अथ शब्दपरिच्छेदः
SK
अत्र प्रत्यक्षानुमानयोर् अपरीक्ष्यत्व उक्ते शास्त्रस्याप्य् अपरीक्ष्यताप्रतिपादनार्थं भाष्यम् -- शास्त्रं शब्दविज्ञानाद् असन्निकृष्टे ऽर्थे विज्ञानम् इति. ननु वृत्तिकारमते न परीक्षितव्यं निमित्तम् इति प्रतिज्ञाय{३,१०१}प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् इत्य् उक्तेः प्रत्यक्षव्यभिचारेण परीक्षाम् आशङ्क्य तदव्यभिचार उक्ते ऽनन्तरम् एव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद् धि प्रकृतम्, किम् अनुमानेन व्यवधीयते. सत्यम् एवम्. अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितः. तथा हि नाप्रत्यक्षं प्रमाणम् इति लोकायतिका मन्यन्ते. ते हि वैशेषिकाद्याश्रितप्रत्यक्षानन्तरानुमानप्रामाण्यप्रतिपादनेन प्रतिबोध्यन्ते. एवं हि वैशेषिकाः पठन्ति -- द्विविधं प्रमाणम् आलोचिताध्यवसानम् अनालोचितानुगमनं चेति. तथान्ये ऽपि प्रत्यक्षम् अनुमानं च द्वे एव प्रमाणे इति. यथाक्षपादीयैर् अपि प्रत्यक्षानन्तरम् अनुमानं लक्षितम् -- तत्पूर्वकं त्रिविधम् अनुमानम् इति. तेनेहापि तावत् प्रत्यक्षानन्तरम् अनुमानं वर्णितम्. ततो महाविषयतया प्रकृतत्वेन पुरुषार्थौपयिकत्वेन च शास्त्रम्. तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धम् इत्य् उपमानम् उक्तम्. न्यायविस्तरे हि प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् इत्य् उक्तम्. ततः पाराशर्यमतेनार्थापत्तिर् उक्ता. तदुत्तरकालम् एव तन्मतानुसारिणा कृतकोटिनोक्तत्वात्. अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरः प्रस्तावः. किं पुनस् तन्त्रान्तरानुसारस्य प्रयोजनम्. उच्यते. प्रसिद्धत्वेन ह्य् अपरीक्षा प्रतिपाद्यते. तन्त्रान्तरेष्व् एवम् इमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति. व्युत्थिताश् च तेन तेन साक्षिणा प्रतिपादिता भवन्ति.
SK
अत्र च शब्दविज्ञानाद् इत्य् उच्यते, तत् कथं विगृह्यते. किं शब्दाद् विज्ञानं शब्दस्य वा विज्ञानम् इति. पूर्वत्र समासानुपपत्तिः. भयेन हि पञ्चमी समस्यते. उत्तरत्र तु सविकल्पकप्रत्यक्षे ऽपि शास्त्रत्वप्रसङ्गः, शब्दविज्ञानाद् एव हि गौर् इत्य् एवमादयो ऽसन्निकृष्टार्थविकल्पा भवन्ति. अत्रोच्यते. षष्ठीसमास एवायम्. न च सविकल्पके प्रसङ्गः, न हि तच्छब्दप्रमाणाद् उत्पद्यते, अपि तु शब्दसहायाद् इन्द्रियात्. यथैव हि गन्धसहकृतम् इन्द्रियं तैलाद् विलीनं घृतं विविनक्ति. एवं शब्दसहकृतं जात्यादीन्. तथा चाक्षसम्बन्धफलम् अपरोक्षावभासिता. त(?त्र/च् च) सविकल्पके ऽस्तीत्य् उक्तं प्रत्यक्षान्ते. अतो यद् एव शब्दशक्तिविमर्शोत्थं विज्ञानम् असन्निकृष्टार्थगोचरं तच्छाब्दम्. अत एव न पदार्थमात्रज्ञानं शाब्दम्. न हि तदसन्निकृष्टार्थगोचरम्.{३,१०२}वक्ष्यति हि -- स्मारकान् न विमृश्यत इति. किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानम् इति वदामः. न (नु) तत्पदार्थज्ञानाद् उत्पद्यते, न शब्दज्ञानात्. न. अवान्तरव्यापारत्वात् पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य. वक्ष्यति हि --
SK
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् |
SK
इति. अतो न किञ्चिद् अनुपपन्नम् इति.
SK
इदं तु वक्तव्यं किम् इदं सामान्यलक्षणावसरे विशेषलक्षणं प्रणीयते शब्दविशेषो हि शास्त्रम्. तद् यदि वक्तव्यम्, एवम् अपि सामान्यलक्षणम् उक्त्वा (?वक्ष्यते/लक्ष्येत). यत् पुनरतित्वरितेनैव सामान्यलक्षणावसरे विशेषो लक्ष्यते तदसाम्प्रतम्. न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते. ततः प्रत्यक्षादिषु सामान्यतो वक्तुम् आरब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति. तद् एतद् आह -- प्रत्यक्षादिष्व् इति
SK
दूषणान्तरम् आह -- सामान्येति. निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरः. न ह्य् अलक्षिते द्रव्ये तद्विशेषाः पृथिव्यादयो लक्षयितुं शक्यन्त इति
SK
एवं तावत् शास्त्रम् इति लक्ष्यनिर्देशो ऽनुपपन्न इत्य् उक्तम्. शब्दविज्ञानाद् इत्यादि लक्षणम् अपि लक्ष्यविशेषे न सङ्गच्छत इत्य् आह -- यच् चोक्तम् इति
SK
कीदृक् तर्हि शास्त्रलक्षणम् अत आह -- प्रवृत्तिर् इति.{३,१०३}प्रवृत्तिनिवृत्त्युपदेशकं हि नित्यं वेदवाक्यम् अनित्यं धर्मशास्त्रादिकं शास्त्रम् उच्यते न शब्दमात्रम् इति
SK
ननु स्वरूपमात्राभिधायिनाम् अपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वम् इष्यते, किम् उच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रम् इति. अत आह -- स्वरूपेति. तदङ्गत्वेनेति. विधायकवाक्यैकदेशत्वेनेत्य् अर्थः. अस्ति हि तत्रापि वायव्यं श्वेतम् आलभेत भूतिकाम इति विध्युद्देशः. तेनैकवाक्यभूतो वायुर् वै क्षेपिष्ठेत्य् एवमादिः. अतो युक्तं तस्यापि शास्त्रत्वम् इति
SK
नन्व् अर्थवादा न तावत् साक्षात् क्रियां प्रतिपादयन्ति. नापि तदंशम्. त्रयो ऽपि हि तदंशाः साध्यं साधनम् इति कर्तव्यता चेति. न चैषाम् अन्यतमम् अमीभिर् अभिधीयते. अतो ऽक्रियार्थानाम् एकवाक्यताम् एव न मन्यामहे. अत आह -- भावनायाम् इति शास्त्रम् इत्यन्तेन. अयम् अभिप्रायः -- यद्य् अपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित् साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषाम् एकवाक्यता. विधिर् हि पुरुषं प्रवर्तयितुं विषयप्राशस्त्यज्ञानम् अपेक्षते. तच् चार्थवादाश् शक्नुवन्ति कर्तुम् इति तत् कुर्वताम् एषाम् अस्ति प्रवृत्तिनिवृत्त्योर् उपयोगः. अतस् समस्तायां त्र्यंशपूर्णायाम् एव भावनायां महावाक्याद् एव सार्थवादकात् पुरुषः प्रवर्तते निवर्तते वा न विध्युद्देशमात्राद् इति सार्थवादकम् एव वाक्यं शास्त्रम् इति. एतच् चार्थवादाधिकरणे प्रपञ्चयिष्यामः. दर्शितं च किञ्चिद् विधिविवरणे इत्य् अलम् अनेनातिपरिस्पन्देनेति. यत एव सार्थवादकात् प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिवाचिनः प्रत्ययमात्रस्य पदमात्रस्य वा यजेतेत्य् एवमादिकस्य विधिश्रुताव् अपि न शास्त्रत्वम्. यत्र हि त्र्यंशभावनावचनम् अप्य् अवान्तरवाक्यम् अनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथम् इव तत्र पदप्रत्यययोश् शक्तिर् भविष्यतीति दुरधिगमम् इत्य् आह -- न पदाद्यत इति
SK
{३,१०४} एवं लक्ष्यलक्षणानुपपत्त्या दूषितं भाष्यम् उपपादयति -- अपरीक्षेति. अयम् अभिप्रायः -- वेदव्याख्या हि प्रकृता, अतो यद् एव तदुपयोगि तद् एव वाच्यम् इत्य् अतिक्रम्यापि सामान्यप्रक्रमं विशेषम् एव लक्षितवान्. न हीह लक्षणकरणम् एव स्वरूपेण विवक्षितम्. अपरीक्षाच् छलेन हि लक्षणानि प्रणीयन्ते. तत्रापि यद् एव प्रकृतोपयोगिशास्त्रलक्षणं तद् एव कृतम्. स्वतन्त्रो वेदः अपुरुषतन्त्रत्वाद् इति
SK
यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततः किम् अत आह -- तत्रेति. यदा ह्य् अयं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत् तद् अस्य वेदं व्याचिख्यासोर् अनुपयुक्तं स्याद् इति
SK
ननु यद्य् अनुपयुक्तं न लक्षणीयं, किम् इति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह -- प्रत्यक्षादीति. अयम् अभिप्रायः -- वेदस्वरूपावधारण एव तावन्महानुपकारः प्रत्यक्षस्य, न हि तदन्तरेण पुरः -- प्रथमम् एव स्वाध्यायग्रहणकाले वर्णमात्राद्य् अवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायाम् अस्मृतत्वान् नोपयुज्येतैव. अतः पुरस्तात् परस्ताच् च वर्णमात्रादितः कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम्. अनुमानम् अपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते. यथा देवस्य त्वेति निर्वपतीति. उपमानम् अपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने. अर्थापत्तिर् अप्य् अश्रुतवाक्यैकदेशकल्पनायाम्. अभावो ऽपि पदवाक्येयत्तावधारणे द्रव्यदेवताद्यभावेन च कर्मणाम् अव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोर् आदिशब्दयोर् अर्थ इति
SK
{३,१०५} न चैवञ्जातीयकः कश्चिद् उपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षणस्यास्तीति तदुपेक्ष्यैव शास्त्रगतम् एव लक्षणं प्रणीतम् इत्य् आह -- यत् त्व् इति
SK
यत् पुनर् अलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्य् उक्तं तत्परिहरति -- विशेषश् चेति. सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात्. विशेषस् तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखम् एव लक्षितं भवेत्. यदा हि विधायकविज्ञानाद् असन्निकृष्टे ऽर्थे विज्ञानं शास्त्रम् इत्य् उक्तं तदार्थाद् विधायकविशेषरहिताच् छब्दमात्रज्ञानाच् छाब्दम् इति शक्यम् अवगन्तुम् इति न पृथग् उच्यत इति
SK
ननु नेदं विशेषलक्षणं विशेषोपादानाभावाद् इत्य् उक्तम्. अत आह -- सामान्येति. नावश्यम् उपात्तम् एव विशेषणं भवति, किन् तु अधिकारलभ्यम् अपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)द् इहापि चोदनालक्षणाधिकाराच् छब्दविज्ञानाद् इत्य् उक्ते ऽपि विधायकविशेषणं प्रत्येष्यत इति. ननु यदि प्रकृतोपयोगि वक्तव्यं, एवं तर्हि चोदनालक्षणम् एव वाच्यम्, किं शास्त्रलक्षणेनात आह -- चोदनेति. पर्याया एत इति भावः
SK
अयं चाधिकारतो विशेषलाभो जैमिनेर् अप्य् अनुमतश् चोदनाशब्दम् अविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्य् आह -- यथा चेति. एवं हि मन्यते -- यद्य् अपि चोदनाशब्दः प्रवर्तकवाक्यमात्रवचनः, तथापि प्रथमसूत्रे ऽथशब्देन{३,१०६}वेदाध्ययनानन्तर्यस्योपात्तत्वात् तदधिकाराद् एव चोदनाशब्दो वैदिक्याम् एव चोदनायाम् अवतिष्ठते, एवम् इहापि शास्त्रलक्षणे चोदनाप्रामाण्याधिकारात् शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ, विधायके शब्दशब्दो विधेये चार्थशब्द इति
SK
यद् अपि वृत्तिकारमतोपन्यासावसरे प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् इति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति -- प्रत्यक्षादीति. इदं तु चिन्तनीयम्. यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किम् इदानीम् अङ्गानि मीमांसा कर्मानुशासनानि च न शास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि. यद्य् एवं महान् लोकविरोधः. न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दम् उपचरन्ति. स्ववचनविरोधश् च. यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षणम् इति हि वदन्ति. मीमांसादिषु वेदवत् ततो ऽपि वा सातिशयं शास्त्रशब्दोपचारम् उपलभामहे. अपि चायं शास्त्रशब्दो रूढो वा स्याद् यौगिको वा, सर्वथा च वेदाङ्गादिषु वर्तितुम् अर्हति, अस्ति हि तेषु यथायथम् अर्थानुशासनं, रूढिश् च सातिशयेति वर्णितम्. अत्राभिधीयते. योगरूढिर् इयं पङ्कजादिवत्, अतो न तावद्गामानयेत्यादिष्व् अतिप्रसज्यते. सत्य् अपि योगे लौकिकानां तेष्व् अप्रयोगात्. पुरुषार्थोपदेशान् एव लौकिकाश् शास्त्रम् इति मन्यन्ते. तथा चाङ्गानीति तेषां शास्त्रत्वम्. ननु विधायकं शास्त्रम् इति शास्त्रलक्षणम्, न च तानि कञ्चिद् विदधति. मैवम्. सर्वेषाम् एवानुष्ठानोपदेशपरत्वात्. व्याकरणे हि यत्साधुभिर् भाषेत तद् एभिर् इत्य् उपदिश्यते. मीमांसायाम् अपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र. अतो यच्छास्त्रं तत्प्रवृत्तिवृत्त्युपदेशकम् एवेति नियमः, न पुनस् तदुपदेशकं शास्त्रम् एवेति लौकिकी प्रसिद्धिर् इह भाष्यकारेणानूदिता, न पुनस् तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम्. अतो{३,१०७}यदसन्निकृष्टार्थगोचरं पुरुषश्रेयोविधायकं वाक्यं लोके शास्त्रम् इति प्रसिद्धं तच्छास्त्रम्. यत् पुनर् असन्निकृष्टार्थगोचरं विधायकम् अविधायकं वा तच्छाब्दम् इति विवेकः. प्रत्यक्षवच् चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रमाणविकल्पा दर्शयितव्याः. नावश्यं ज्ञानम् एव प्रमाणम् इत्य् अभिनिवेष्टव्यम्. पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिर् इति विवेक इति
SK
इदं च शास्त्रम् अनुमानाद् अभिन्नम् इति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तुकामस् तेषां मतम् उपन्यस्यति -- तत्रेति. इदं च प्रतिज्ञामात्रम् एव तेषाम् उक्तम्, तदीयाभेदहेतूपन्यासस् तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति. किं पुनर् अभेदोपन्यासनिरासयोः प्रयस्यते, नन्व् अयं साङ्ख्यादिभिर् एव भेदवादिभिर् अभेदो निराकृत एव, अत आह -- भेद इति. न तैस् सम्यग्भेदकारणम् उक्तम् इत्य् अर्थः
SK
तान् एव तदुक्तान् भेदहेतून् निराकर्तुम् उपन्यस्यति -- पूर्वसंस्कारेत्य् उक्तान्तेन. एवं हि तैर् उक्तम् -- शब्दे हि पूर्वसंस्कारयुक्तो ऽन्त्यो वर्णो, वाक्यं, आद्यो ऽपि वा वर्णः, सर्वे वा प्रत्येकं, सहिता वा, तेषाम् एव क्रमः पदानां वा वाक्यत्वजातिर् एव वावयवी वा निर्धूतनिखिलवर्णादिविभागः स्फोटो वा पदान्य् एव वा संहत्यार्थम् अभिदधति. एते च पदेष्व् अपि विकल्पा दर्शयितव्याः. तथा विवक्षाप्रयत्नादयश् च शब्दनिष्पत्तिहेतव इति. सर्वम् इदं धूमादौ न दृष्टम् इति तद्वैधर्म्याद् अ(न)नुमानत्वम् इति. अत्र दूषणम् आह -- तत्रेति. बौद्धेन शाब्दम् अनुमानाद् अभिन्नम् अन्वयव्यतिरेकाभ्याम् उत्पत्तेः, धूमाद् अग्न्यनुमानवद् इत्य् उक्ते, यद् एतद् धूमादिवैधर्म्येण प्रत्यवस्थानम्, इयं वैधर्म्यसमा नाम जातिः, विकल्पसमा वा. का पुनर्जातिः. साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः. वादिना हि प्रयुक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिर् इत्य् उच्यते, स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम्.{३,१०८}यत्रोदाहरणसाधर्म्येण वादिना हेतुर् उक्तः, तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति. यथा -- क्रियावान् आत्मा क्रियाहेतुगुणयोगात् लोष्टवद् इति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति -- यथा क्रियावद् द्रव्यम् अविभु दृष्टम्, यथा लोष्टम्, न तथात्मा, तस्मान् निष्क्रिय इति. सेयं वैधर्म्यसमा जातिर् इत्य् उच्यते. तथा धर्मान्तरविकल्पात्. यदा प्रतिवादिना साध्य(ध)र्मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिर् उच्यते. यथास्मिन्न् एव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिद् अविभु दृष्टं यथा लोष्टम्, किञ्चिद् विभु यथात्मा, एवं किञ्चित् क्रियावद् भविष्यति किञ्चिद् अक्रियावद् इति. एवम् इहापि परेणाभेदसाधने उक्ते धूमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिर् आपाद्यते. धूमाद् अग्न्यनुमानं हि वाक्यविकल्पादिरहितम्. न च तथा शाब्दम्. अतो नानुमानम् इति. तथा विकल्पसमाप्य् एवं दर्शयितव्या. अन्वयव्यतिरेकजम् एव किञ्चिद् वाक्यविकल्पाद् इमद् दृष्टं यथा शाब्दम्, किञ्चिच् च न, धूमादिनाग्निज्ञानम्. एवं किञ्चिद् अनुमानं भविष्यति, किञ्चिद् अननुमानम् इति. जातिद्वयप्र(तिपादनात् प्र)त्युत्तरं च साधकम् इति न वचनीयम् इति
SK
कथं पुनर् इयं जातिः, एवं हि साधनम् इदम् -- शाब्दम् अनुमानाद् भिन्नं तद्वैधर्म्यात् प्रत्यक्षवद् इति, अत आह -- धूमेति. न तावत् त्रैलक्षण्यप(रित्यागेन) वैधर्म्यं तैर् उक्तम्. किञ्चिद् विशेषणमात्रेण तु वैधर्म्यम् अविशिष्टम् अर्थात्मकानाम् अनुमानानाम् इति तेषाम् अप्य् अनुमानाद् भेदो भवेत्, न चासाव् अस्ति, न हि धूमादीनां ... ... ... ... ... ... ... ... वैलक्षण्यम् इत्य् अननुमानता भवति. त्रैलक्षण्यापरित्यागाद् अनित्यत्वं कृतकत्वे हेतुर् इति. त्रैलक्षण्यपरित्यागप्रतिपादने (?प्य् अ/ह्य् अ)नुमानाद् भेदस् सिध्यतीति
SK
{३,१०९} वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जातितैवापद्येतेत्य् आह -- त्रैलक्षण्येति
SK
यद् अपि चेदम् अपरं शाब्दानुमानयोर् वैलक्षण्यम् उक्तम् -- धूमादयो हि स्वाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिम् अनुमाने जनयन्ति, शब्दात् तु यथेष्टविनियुक्ताद् एवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्य् आह -- यथेति. अयम् अभिप्रायः -- अत्रापि यदि किञ्चिद् वैधर्म्यमात्रेण भेद उच्यते, अतो जातिर् एव. अथायं प्रयोगः -- शाब्दम् अनुमानाद् भिन्नं यथेष्टविनियोगेनार्थप्रतिपादनाद् अक्षवद्. अक्षं हि चक्षुरादि यत्रैव व्यापार्यते, तद् एव प्रतिपादयतीति. तद् अयुक्तम्. तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात्. अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुर् उच्यते, अतो लिङ्गम् अपि परार्थप्रयोगे यम् एव प्रति प्रयुज्यते तम् एव प्रतिपादयतीति समानम्. अथ यथेष्टविनियोगस् सङ्केतो ऽभिधीयते, ततो ऽयम् अर्थो भवति, यत्रैव सङ्केत्यते तम् एव गमयतीति, ततो दृष्टान्ताभावः, न हि शब्दाद् अन्यत् सङ्केतानुविधानेनार्थं बोधयति. अथावीतहेतुर् अयम्. अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नम् इति. तन् न. व्यतिरेकमात्रस्यागमकत्वाद् अन्वयव्यतिरेकी हि हेतुर् इष्यते. न चायं हेतुर् अनुमानाद् अभेदेन व्याप्तः क्वचिद् अवगतः, शब्दातिरेकिणः कस्यचिद् यथेष्टविनियोगेनाप्रतिपादनात्. अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनम् इत्य् उच्यते. तत् तर्हि प्रमाणान्तरम् अनुमानं वा. न तावत् प्रमाणान्तरम्, तल्लक्षणाभावात्. अतो व्याप्तिबलेन ज्ञायमानम् अनुमानम् एव तत्. एवं च सति तेनैव व्यभिचार इति नानुमानाद् व्यावृत्तिर् हेतोस् सिध्यति. तद् इदम् उक्तं व्यभिचारो ऽङ्गवृत्तिभिर् इति. अङ्गानां हस्तादीनाम् आकुञ्चनप्रसारणाद्या वृत्तयो ऽङ्गवृत्तय इति
SK
{३,११०} एतद् एव विवृणोति -- हस्तेति. हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेषज्ञानाङ्गतया हस्तसंज्ञेत्य् उच्यन्ते. कथं पुनर् इदम् अनुमाम्, न हि हस्तादिसन्निवेशास् सङ्ख्याविशेषादिभिर् अर्थैर् व्याप्ताः. तैर् विनापि कदाचिद् भावात्. किन् तु अङ्गुल्यादिसन्निवेशात् सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाः शब्दाद् एव प्रतिपद्यन्ते. तन् न. अन्तरेणापि शब्दसङ्के(?त/तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनस् तदर्थावगतेः. न चात्र व्यभिचारः. न हि यादृशे सन्निवेशे व्याप्तिर् अवगता तादृशस्य व्यभिचारो दृश्यते. तद् इदं तेन धर्म्यन्तरेष्व् एषेत्य् अत्र वर्णितम्. अतो ऽनुमानम् एवेदम्. तद् इदम् उक्तं - ते तल्लिङ्गम् इति स्थितिर् इति. सर्वं चेदम् अन्वारुह्य वार्त्तिककारेण दूषणं दत्तम्. न हि यथेष्टविनियोगेन शब्दाद् अर्थप्रतीतिर् भवति. गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति. यदृच्छाशब्दास् तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तो ऽनुमानम् एवेति किं तद्भेदप्रतिपादनेनेति
SK
इदम् अपरं भेदकारणं, शब्दाद् धि पुरुषापेक्षो ऽर्थनिश्चयः, लिङ्गं तु स्वमहिम्नैवार्थं निश्चाययति, अतस् तद्वैलक्षण्याद् भेद इति. अयम् अपि अवीतहेतुः. एवं च वक्तव्यम् -- न पुरुषोपक्षो ऽनुमाने ऽर्थनिश्चयः, न च तथा शब्द इत्य् अतो भिद्यत इति. एतद् अपि दूषयति -- पुरुषेति. व्यतिरेकहेतुर् व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद् देहाद् व्यावृत्तम् आत्मानम्. पुरुषापेक्षिता त्व् अनुमाने ऽप्य् अर्थनिश्चयाङ्गम् अङ्गवृत्तिषु दृष्टा. यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैः कृतः, तम् एव परपुरुषापेक्षया बुध्यन्ते. अतो ऽत्रापि व्यभिचारितेति. अपि चाव्यापकत्वाद् असिद्धो हेतुर् इत्य् आह -- पदेति. पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया.{३,१११} वेदवाक्यान्य् अपि न स्वार्थप्रतिपादनाय पुरुषम् अपेक्षन्ते, स्वरूपावधारणमात्र एव तेषाम् आप्तापेक्षेति
SK
ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति. न च पुरुषानपेक्षा सम्बन्धावगतिर् अस्ति. वेदवाक्यान्य् अपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति. अतो ऽयं पदपदार्थसम्बन्धः पुरुषापेक्ष एवेति नाव्यापकत्वम्. अत आह -- सम्बन्धेति. अयम् अभिप्रायः -- अर्थप्रतिपादने तावदनपेक्षम् एव पदं वैदिकानि च वाक्यानि. सम्बन्धानुभवश् च यथेह पुरुषापेक्षस् तथान्यत्राप्य् अनुमाने ऽसौ विलक्षणो दृश्यत एवेति. वैलक्षण्यम् एव दर्शयति -- एतस्मिन्न् इति अन्यो ऽन्तेन. एतस्मिन्न् इति. हस्तसंज्ञादौ पुरुषापेक्षः, पौरुषेयो हि समयः. अग्निधूमयोस् तु देशापेक्षः. चन्द्रोदयसमुद्रवृद्ध्योस् तु कालापेक्षः. आदिशब्देनावस्थापेक्षितां दर्शयति. तद् अनेनैतद् उक्तं भवति -- अनुमाने ऽप्य् अनेकप्रकारस् सम्बन्धावगमो देशाद्यपेक्षया भेदात्. एवम् इहापि पुरुषापेक्षो भविष्यति. अनुमाने ऽपि तदपेक्षस् सम्बन्धबोधो दृष्ट इति. अपि च परोक्ताभेदहेतुनिरासो ऽपि तैर् न कृत इत्य् आह -- उक्ता चेति
SK
तम् एवाभेदहेतुम् उपन्यस्यति -- आप्तवादेति. अयम् अर्थः -- यथा धूमादिषु भेदहानेन सामान्यधर्मयोर् व्याप्तिर् अवधार्यते, एवं शाब्दे ऽप्य् आप्तवादाविसंवादसामान्ययोर् व्याप्तिर् अवगता. (?आप्तवादाविसंवादेति). एवं च विदित्वा वेदे ऽपीश्वराप्तवादत्वाद् अविसंवादो ऽनुमीयते, अतो ऽनुमानम् एवेदम्. यावत् त्व् अविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानम् उत्पन्नम् अप्य् अनिश्चायकत्वाद् अप्रमाणम् एव. सामान्यशब्दः प्रत्येकम् अभिसम्बध्यते. ल्यब्लोपे पञ्चमी.{३,११२}तद् अयम् अन्वयो भवति -- यद्य् अप्य् आप्तवादाविसंवादविशेषाणां भेदान् न सम्बन्धो ऽवगन्तुं शक्यते, तथापि तयोस् सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर् व्याप्तिसम्भवाद् इति
SK
नन्व् इदम् अस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास् त्व् अपूर्वादयस् सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्य् अत आह -- न चेति. गवादयस् तावत् विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारम् अनुमानत्वम्, यदि त्व् अपूर्वादिदृष्टान्तेन तेषाम् अपि भेदो ऽभिधीयते. तन् न. शक्नोति हि वक्तुम् इतरो ऽपि तेषाम् अनुमानत्वं सम्बन्धाधीनबोधकत्वाद् धूमादिवद् इति. अपि चापूर्वशब्दा अपि नाश्वादिशब्देभ्यो विशिष्यन्ते, पदत्वेनाभेदाद् इत्य् आह -- न चेति
SK
किम् अतो यद्य् एवम् अत आह -- न चेति. यतः खल्व् एतानि पदानि, न च पदम् अज्ञातसम्बन्धं प्रकाशकम् अस्ति. अतो ऽमीभिर् अपि विदितसम्बन्धैर् एवार्थो वेदनीयः, पदत्वात्. कथं पुनः प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धो ऽनुभवितुं शक्यते. न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत्. अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम्. स्वर्गश् च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्यो ऽवगम्यत इति तथावगतयोस् सम्बन्धग्रहणोपपत्तिर् इति. अतो यत् परैर् उक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वाद् अक्षवद् इति तद्धेतोर् असिद्ध्या दूषितम् इत्य् आह -- सम्बन्धेति
SK
भेदकारणान्तरम् उपन्यस्य दूषयति -- तुल्येति. शब्दः प्रत्यासत्त्या तज्ज्ञानम् अर्थश् च तद्धीश् चेति विग्रहः. अयम् अप्य् अवीतहेतुर् दर्शयितव्यः. तन्निराकरणं चाध्यासनिराकणोक्तम् अनुसन्धातव्यम्. अतस् तुल्याकारत्वम् असिद्धम् इति
SK
{३,११३} अपि च विवक्षानिवृत्तेर् अनैकान्तिको हेतुर् इत्य् आह -- प्रतिबिम्बेष्व् इति. एकान्तो निर्णयः, सो ऽस्य कार्यं, तन्नास्तीत्य् अनेकान्त इति. कथम् अनेकान्तः, अत आह -- बिम्बम् इति. यादृशं हि दर्पणे बिम्बम् उपलभ्यते तादृशम् एव मुखादि बुध्यते, अतो ऽस्त्य् अत्रापि गम्यगमकयोस् सादृश्यम् इति प्रतिबिम्बेषु वर्तमानो हेतुर् अनैकान्तिको भवतीति. ननु नेदम् अनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षम् एव मुखम् अवगम्यत इति शब्दाधिकरणे वक्ष्यते. अत आह -- न चेति. अयम् अभिप्रायः -- यदा ह्य् अयं प्रत्यक्षेष्व् अङ्गुल्यादिष्व् आदर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर् भवति, तदा मुखम् अप्य् आदर्शगतं बिम्बानुरूपम् अनुमिनोति. इतरथा त्व् अङ्गुलिसन्निकर्षो ऽप्य् अन्यरूपम् अन्यादृक्तया बोधयतीति सम्भावयेत्. अतो न तादृक्त्वं निश्चिनुयाद् इति
SK
अस्तु वेदं प्रत्यक्षं, किम् इति सूक्ष्मेक्षिकया, विशदतरम् एवानुमानम् उपदर्शयामः, यत्र गम्यगमकयोस् सादृश्यम् अवगम्यत इत्य् आह -- प्रत्यक्षतेति. गतानाम् इत्य् अनुमानविषयसिद्ध्यर्थम् अप्रत्यक्षतां दर्शायतीति
SK
यद् अपीदम् उक्तम् -- शाब्दे हि सकृदुक्तम् एव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश् च, चोदनालक्षणो ऽर्थो धर्मः, श्वेतो धावतीति च यथा, नैवम् अनुमाने. धूमो हि येनैव विदितव्याप्तिस् तत्रैकत्रैवे धियम् आदधाति. अतश् शब्दानुमानयोर् भेदः. प्रयोगश् च भवति -- शब्दो ऽनुमानाद् भिन्नः, एकदा नानार्थप्रतिभासाद् अक्षवद् इति. अवीतहेतुर् वा, लिङ्गम् एकं एव{३,११४}प्रकाशयति, यथा धूमादि, न च तथा शब्दः, अतो भिद्यत इति. तदुपन्यस्य दूषयति -- एकवाक्याद् इति. अनेनापि प्रकारेण न भिन्नतेत्य् अर्थ इति
SK
किम् इति न भिन्नता, अत आह -- लिङ्गस्यापीति. अनैकान्तिको हेतुर् इति भावः. हेतुर् हि धूमो ऽग्नित्वम् उष्णत्वं दाहकत्वम् इन्धनविकारत्वं च एकदैव प्रतिपादयति. तथा विरुद्धः -- नित्यश् शब्दः कृतकत्वाद् इति, विवक्षानुसारेण तावन्नित्यत्वां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वम् अतो ऽनैकान्तिको हेतुर् इति. ननु न विरुद्धो ऽनेकम् अर्थं प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति. अतः कृतकत्वम् अनित्यत्वेन व्याप्तम् इति तद् एव गमयति, विरुद्धार्थव्याप्तिस् त्व् एकस्य विरोधाद् एव न सम्भवतीति. तत् तावद् आशङ्कते -- विरोधाद् इति. उत्तरम् आह -- स्याद् इति. विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिर् अवगता, अतस् सो ऽप्य् एकदैकम् अर्थं प्रतिपादयति, अर्थान्तरे त्व् असाव् अपि विरोधाद् अनागमक एवेति
SK
भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदस् सिध्यतीत्य् आह -- यत्र चेति. न केवलं विरुद्धम् अनेकं शब्दो न प्रतिपादयति, किन् तु अविरुद्धम् अपि. उक्तम् इदं - विवक्षिते शब्दः प्रमाणम् इति. सकृदुच्चरिताच् च वाक्याद् एकैव वक्तृगामिनी विवक्षोन्नीयत इति. तदनुसारेणार्थो ऽप्य् एक एव बुद्धो भवति. अतो न क्वचिद् अनेकार्थप्रतिपादनम् इत्य् असिद्धो हेतुर् इत्य् आह -- सकृद् इति
SK
नन्व् अस्ति तावदनेकार्थप्रतिभानं शब्दात्, प्रमाणं त्व् एकत्र भवतु नाम, एतावता च सिद्धम् अनुमानाद् वैधर्म्यत आह -- यस् त्व् इति. यथा हि{३,११५}न्याय्यवचनव्यक्तिपरिचयात् पूर्वं शब्दाद् अनेकार्थाः परिप्लवन्ते, तथा लिङ्गे ऽपि धूमादाव् अस्फुटविदिते ऽनेकार्थप्रतिभानं दृष्टम् एव. भवति हि दूराद् धूमो ऽयम् आहोस्विद् धूलिसन्तान इति संशयानस्याग्निवातावर्तयोर् अनवस्थितो वितर्क इति
SK
तथा शब्दे दृष्टान्तानभिधानम् अपि धूमादौ व्यभिचारान् न भेदहेतुर् इत्य् आह -- दृष्टान्तेति. कथं व्यभिचारः, अत आह -- प्रसिद्धत्वाद् इति
SK
नन्व् अप्रसिद्धे तावद् अस्ति दृष्टान्तापेक्षा, शब्दे तु तद् अपि नास्तीत्य् अत आह -- अनभ्यस्त इति. अपेक्षाम् एव दर्शयति -- अत्रेति. यत्र ह्य् अप्रसिद्धपदार्थगोचरस् संशयो भवति, तत्र यावद् अयं शब्दो ऽमुष्मिन्न् अर्थे वृद्धैर् आचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत् तम् अर्थं निश्चिनुयाद् इति. तद् एवं तावद् भेदवादिभिर् न भेदहेतवस् सम्यगुक्ता इति दर्शितम्
SK
बौद्धोक्ताभेदहेतुनिरासो ऽपि तैर् न कृत इत्य् आह -- परोक्ता इति. तान् एवाभेदहेतून् उपन्यस्यति -- शब्दानुमानयोर् इति सार्धद्वयेन. अस्यार्थः -- यथा धूमाद् अग्न्यनुमानम् अन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,{३,११६} सम्बन्धपूर्वकं च भवति, एवं शब्दाद् अपि ज्ञानं जायमानम् एवं जायते. प्रत्यक्षाच् च तदन्यत् प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च. अतो न भिद्यते. इदं च साधनवाक्यस्यार्थकथनम्. साधनप्रयोगास् त्व् एवं दर्शयितव्याः -- शाब्दं ज्ञानम् अनुमानम् अन्वयव्यतिरेकजत्वात् अग्न्यनुमानवद् इति. एकप्रत्यक्षदर्शनोत्पत्तेः, तद्वद् एव सम्बन्धपूर्वकत्वं (?वा/च) हेतुः. ताव् एव साध्यदृष्टान्तौ. न च वाच्यम् अन्वयव्यतिरेकजत्वात् सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वाद् अनुमानसम्बन्धस्येति. पूर्वं हि सम्बन्धविशेषजत्वं हेतुर् उक्तः इदानीं त्व् अविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वम् इति. एवम् उत्तरेष्व् अपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या. चतुर्थे त्व् अग्न्यनुमानं प्रदर्शनमात्रम्. भविष्यद्वृत्तवृ(?त्त्य/ष्ट्य)नुमाने अपि दर्शयितव्ये इति || ३५ - ३७ ||
SK
मीमांसकैकदेशिनां भेदहेतुम् इदानीं दूषयितुम् उपन्यस्यति -- कैश्चिद् इति. विषयान्तरम् एव दर्शयति -- पूर्वाभ्याम् इति. अयम् अभिप्रायः -- यद्यदपरिच्छिन्ने प्रवर्तते तत् ततो भिद्यते, अनुमानम् इव प्रत्यक्षात्. शास्त्रं च पूर्वद्वयापरिच्छिन्ने ऽर्थे प्रवर्तते. ततस् ताभ्यां भिद्यते. किं पुनः प्रत्यक्षाद् भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदः कैश्चिद् आश्रितः, यन् निराक्रियते. उच्यते. अस्त्य् एव केषाञ्चिद् विभ्रमः, श्रोत्रव्यापाराश्रयाज् जायमानम् इदं शाब्दं श्रोत्रप्रत्यक्षम् एव, तदन्वयव्यतिरेकानुविधानात्. अत एव बधिरस्य न भवतीति. तद् अनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते. एवं हि मन्यते -- विद्यमानोपलम्भनं प्रत्यक्षम् इति दर्शितम्. इदं तु शाब्दं त्रिकालार्थविषयम् अतः कथं प्रत्यक्षो ऽन्तर्भविष्यति. बधिरस् तु शब्दाश्रवणाद् अर्थं न जानाति, नार्थाश्रवणात्. प्रयोगश् च भवति -- शाब्दं प्रत्यक्षाद् भिन्नं, तदपरिच्छिन्नविषयत्वाद् अनुमानवद् इति
SK
{३,११७} तद् इमं प्रत्यक्षतो भेदम् अभ्युपेत्यानुमानाद् भेदकारणं निराकरोति -- तत्रापीति. एवं हि मन्यते -- यद्य् अनुमानापरिच्छिन्नविषयतया भेदोभिधीयते, तर्हि पुंवाक्यानाम् अनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्य् एव तु मानान्तराविषयार्थानि भिद्यन्ते इत्य् अव्यापको हेतुर् इति. किं पुनर् इदम् अनिष्टम् आपादितम्, नन्व् इष्यत एव पुंवचसाम् अनागमत्वम्, आगमो हि शास्त्रम्, अप्राप्ते शास्त्रम् अर्थवद् इति वक्ष्यति. इमानि पुनः प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्य् अनुवादवाक्यान्य् एव. अत एव शास्त्रम् एव वेदवाक्यं भिन्नतया पक्षीकृतं शास्त्रम् अर्थे प्रवर्तत इति. तद्भेदस्यैवोपयोगाद् इति भावः. तद् एतद् आह -- तथेति. अत्र दूषणम् आह -- प्रत्यय इति. एवम् अयं पुंवचनाप्रामाण्यवादी वक्तव्यः. किम् अस्ति तेभ्यो ऽर्थप्रत्ययो न वा, न तावन् नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात्. सतस् तु नानिमित्तोत्पत्तिस् सम्भवतीति विमित्तं वाच्यम्. न च शब्दाद् अन्यन्निमित्तम् अस्योपपद्यत इति जातम् असन्दिग्धम् अवाधितं च ज्ञानान्तरेण प्रमाणम् एव पुंवचनजनितं ज्ञानम् इति नास्यानागमत्वाभ्युपगमो युक्त इति. इतरस् त्व् अनुमानान्तर्भावाभिप्रायेणाह -- वक्तृबुद्धेर् इति. अयम् अभिप्रायः -- विसंवादभूयिष्ठानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्य् एवार्थं निश्चाययन्ति. न चानिश्चितो ऽर्थो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात्. अतः प्राङ्निश्चयोत्पत्तेर् ज्ञानाभाव एवेति किं निमित्तप्रयत्नेन. यदा तु वक्तैवम् अवधारितव्याप्तिर् भवति -- न चायम् अनवगतं ब्रवीतीति, तदा तद्वाक्याद् एव ज्ञानकार्यात् कारणभूतं ज्ञानम् अनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते. तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वाद् अर्थस्य वाक्यम् अनुवादकम् एव. अतो नागम इति. सिद्धान्तवादी त्व् आह -- कुतो न्वसाव् इति. अयम् अभिप्रायः -- अवगता हि बुद्धिर् अर्थं निश्चाययति. न चास्याः किञ्चिद् अवगमे कारणम् अस्तीति वक्ष्याम इति
SK
{३,११८} अतः स्वयम् एवानवगता नार्थस्य लिङ्गम् इत्य् आह -- नेति. ननूक्तं कार्यात् शब्दाद् अनुमास्यते, अत आह -- न शब्द इति. यथा नोभयम् उभयत्र लिङ्गं, तथा दर्शयति -- विशेष इति. अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तम् अवगतम् इति ततस् तत् सिध्येद्, ज्ञानमात्राच् चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोर् अनुमित्सितत्वात्. तयोश् च सम्बन्धग्रहणाभावेनाननुमेयत्वात्. ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तद् एव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धो ऽवगतः. अतस् स एवानुमास्यते. यद्य् एवम्, अवगतस् तर्हि प्राग् एव वाक्याद् अर्थः, न ह्य् अन्यथा यत्र प्रयुङ्क्त इति शक्यते वक्तुम्. अपि चाविदिते प्रथमम् अर्थे कथं ज्ञानम् अनुमातव्यम्. किम् अज्ञासीद् अयं वक्ता किञ्चिद् इति, आहोस्विद् इमम् अर्थम् इति, नाप्रतिपन्नम् इदमा शक्यते प्रतिनिर्देष्टुम्. न चार्थोपरागम् अन्तरेण ज्ञानस्य विशेषस् सम्भवति यो ऽनुमीयते. न चाकर्मकं ज्ञानमात्रम् अनुमीयते. न च ततो ऽर्थविशेषस् सिध्यति. न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात्. न चैवं पुंवाक्येभ्यस् सन्देहः. या तु क्वचिद् व्यभिचाराद् अप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्य् उक्तम्. यदि त्व् एवं ज्ञानविशेषावगतिर् उच्यते, य एवम् अवधारितो भवति -- नायम् अनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन् नूनम् अमीषाम् अनेनान्वयो ज्ञात इति. किम् इदानीं विदितपदपदार्थसङ्गतिः श्रोता पुंवाक्याद् अर्थं न बुध्यत एव. यद्य् एवम् अनुत्तरा गुरवः. जाता तु बुद्धिर् असन्दिग्धाविपर्यस्ता च न वेदवाक्यजनिताया धियो विशिष्येत. शङ्कामात्रं तु कथञ्चिद् वेदे ऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम्. ताभ्याम् इति. बुद्धिशब्दाभ्याम् इत्य् अर्थः
SK
अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात् तदनवगमे{३,११९}चार्थानुमानानुपपत्तेश् श्रोतुर् अप्राप्तपूर्वम् अर्थं प्रापयन्ती पुरुषोक्तिर् वेदवदागम एवेत्य् आह -- तेनेति
SK
यद् अपि चेदम् उच्यते. वेदस् तावद् भिन्नविषयतया प्रमाणान्तरम् एवेति, तद् अपि मनोरथमात्रम् एवेत्य् आह -- न चापीति. न शक्यते वक्तुम् इत्य् अभिप्रायः. किम् इति न शक्यते. अत आह -- लिङ्गम् इति. यदा पूर्वोक्तैर् हेतुभिर् अविशेषेण सर्वम् एव शाब्दम् अनुमानाद् अभिन्नम् इत्य् उक्तं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावः
SK
नन्व् अर्थात्मना तावल्लिङ्गेनाननुमितपूर्वम् अर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्य् अत आह -- न चेति. धूमवत्त्वकृतकत्वादीनां हि सत्य् अप्य् अवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वम् एवम् इहापि स्यात्. यदि तु तद् एव नास्तीत्य् उच्यते, तत् तर्हि वचनीयम्, किम् अवान्तरभेदोपन्यासेनेति
SK
अन्ये तु प्रक्षीणशक्तयो ऽभेदम् एवाश्रित्यैकदेशिनः प्रत्यवस्थिताः, तद् दर्शयति -- एवं स्थित इति. अयं हि तेषाम् अभिप्रायः -- चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच् चानुमानत्वे ऽपि वेदवचसस् सिध्यत्य् एव. यथैव हि शब्दमध्याद् वेदः प्रमाणम्. एवम् अनुमानेभ्यो वेदोनुमानम् इति किम् अतिप्रयत्नतो भेदप्रतिपादनेनेति. ननु भविष्यत्वाद् धर्मो नानुमीयते इत्य् उक्तं भाष्यकारेण. अतो ऽनुमानत्वाभ्युपगमे तद्विरोधो भवेद् अत आह -- भविष्यतीति. अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतम् इत्य् अर्थः
SK
{३,१२०} एतद् अपि दूषयति -- संज्ञेति. यदि पश्चान्मानसामान्याद् अनुमानत्वं तद् अस्तु, न च तदभ्युपगमे दोष इत्य् अर्थः. लक्षणैकत्वेन त्व् अभेद इष्टे ऽनुमानलक्षणाभावात् प्रमाणान्तरानभ्युपगमाच् चाप्रामाण्यम् एव वेदवचसाम् आपद्यत इत्य् आह -- लक्षणेनेति
SK
ननूक्तं लक्षणैकत्वम् आप्तवादाविसंवादसामान्याद् इत्य् अत्राह -- आप्तवादेति. पुंवाक्यानाम् अनेन प्रकारेणानुमानत्वात् प्रामाण्यं सिद्ध्यति न वेदवचसाम् इति भावः
SK
किम् इति न सिद्ध्यति. अत आह -- वेदे त्व् इति. आप्तनराभावात् तावन्नाप्तवादत्वेनाविसंवादाद् अनुमानम्. न चातीन्द्रियैर् अर्थैर् वेदानां सम्बन्धानुभवस् सिध्यतीत्य् अप्रमाणम् एव भवेयुः. नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति
SK
ननु प्रमाणान्तरसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्य् अप्य् अग्निहोत्रादिवाक्यानि वेदत्वात् सत्यार्थान्य् अनुमास्यन्ते. अतो ऽस्ति लक्षणेनानुमानत्वम् इत्य् आह -- नन्व् इति
SK
{३,१२१} एतद् अपि दूषयति -- नादित्येति. आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुर् अनैकान्तिक इति. ननु नेदं वाक्यम् असत्यार्थम्, आदित्यशब्दो हि सारूप्याद् गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह -- तद्वद् इति. कर्मफलसम्बन्धवाक्यान्य् अपि तद्वद् एव गौणानि भवेयुर् इति. अपि च प्राक् स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि. अनुमानत्वाभ्युपगमे तुल्यबलतया तान्य् अपि दुर्वारप्रसरणानीत्य् आह -- नात इति
SK
अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाः प्रमाणं भवन्ति. लोकवेदयोश् च समम् एव प्रमाणता सिद्धेत्य् आह -- तस्माद् इति
SK
लक्षणम् अपि यथा परैर् आश्रितम् -- आप्तोपदेशश् शब्द इति, तथाप्य् आप्ताभावान् न प्रामाण्यं वेदस्येति तन्नाश्रयणीयम् इत्य् आह -- तेनेति वेदान्तेन. लोके ऽपि नाप्तत्वं प्रामाण्ये कारणम् इत्य् आह -- लोक इति
SK
कारणम् आह -- पुरस्ताद् इति. आप्तत्वेन ह्य् अपवादाशङ्कानिराकरणमात्रम्. प्रामाण्यं तु सर्वसंविदां सहजम् एवेति स्वतःप्रामाण्यवादे वर्णितम् इति. किं तर्ह्य् आगमलक्षणम् अत आह -- तस्माद् इति. निर्दोषशब्दजनितं विज्ञानं प्रमाणम् इति
SK
{३,१२२} एकञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यम् एव समं, न लक्षणम् इत्य् आह -- अनुमानेनेति
SK
स्वमतेनेदानीं पदस्यानुमानाद् भेदं वदिष्यंस् तत्प्रतिपादने कारणम् आह -- पद इति. यद्य् अपि पदस्य पदार्थे प्रमाणत्वान् न तद्भेदप्रतिपादनम् उपयुज्यते, तथापि परैः पदान्य् उदाहृत्य विचारः कृत इति तद्भेदम् एव प्रतिपादयामः. अत्रेति. पद इत्य् अर्थः
SK
तद् इदानीं भेदकारणम् आह -- विषय इति. विषयभेदम् एव दर्शयति -- सामान्येति. आकृत्यधिकरणे हि पदस्य सामान्यविषयत्वं स्थापयिष्यत इति
SK
अनुमानं तु धर्मविशिष्टधर्मिविषयम् इत्य् अनुमानपरिच्छेदे साधितम् इत्य् आह -- धर्मीति. लिङ्गम् अस्यास्तीति लिङ्गी. तस्य विशिष्टस्य प्रसाधकं लिङ्गम् अस्तीति. नन्व् अनुमाने व्याप्तिबलेन धर्मसामान्यम् अनुमीयत इत्य् अत आह -- न तावद् इति. यावत् तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानम् एव न भवति, न धर्ममा(?त्रं/त्रविषयं) सिद्धत्वाद् इत्य् उक्तम् इति
SK
ननु पदम् अपि विशिष्टगोचरं दृष्टं यथा -- को राजा यातीति पृष्टे परः प्रतिब्रवीति, पाञ्चालराज इति. तदा केवलाद् एव पाञ्चालराजपदात् क्रियाविशिष्टः पुरुषो ऽवगम्यते, अत आह -- सामान्याद् इति. यद् एव{३,१२३}किञ्चित् शाब्दे सामान्याद् अतिरिक्तम् अवगम्यते स वाक्यस्यैव विषयः. वाक्यम् एव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति. नन्व् अस्तु श्रुतस्यानुषङ्गः, अश्रुते ऽपि पदान्तरे पदाद् एकस्माद् विशिष्टबोधो दृष्टः, यथा -- द्वारम् इत्य् उक्ते विव्रियताम् इति, अत्र कथम् अत आह -- सामर्थ्याद् इति. कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्याद् एव क्रियापदम् अनुमापयति. अनुमितक्रियापदाद् वाक्याद् एव तत्रापि विशिष्टार्थप्रत्यय इति
SK
अत्र चोदयति -- सङ्ख्येति. परिहरति -- न तावद् इति. यत्र हि सङ्ख्यादयो ऽवगम्यन्ते तत्र कथम् अत आह -- यत्रापीति. सम्भवव्यभिचाराभ्यां हि विशेषणम् अर्थवद् भवति. आकृतिस् तु न तावद् एकत्वं व्यभिचरति, द्वित्वादयस् त्व् एकत्वान् न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेर् एव विशेषणं सङ्ख्यादय इति
SK
तद् एवं तावद् अनुरञ्जनेन व्यक्तेर् विशेषणम् इत्य् उक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिंषन्ति. तत्र हि श्रुत्यादिभिर् विनियुज्यन्ते. यथा पशोर् एकत्वे ऽरुणादिषु च वक्ष्यत इत्य् आह -- पदान्तरेति. पदान्तरत्वेनात्यन्तविप्रकृष्टविशेषणतां दर्शयतीति
SK
यत् तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्य् अत आह -- वाक्यार्थ इति. यद्य् अपि तावद् इदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम्. सिद्धो हि धर्मी केनचिद् धर्मेणासिद्धेन विशिष्टस् साध्यमानः पक्षो भवति. इह तु पदोच्चारणात् प्राङ् न किञ्चित् प्रतिपन्नम्. उच्चरित्रे तु पदे विशिष्टः प्रतिपन्न एवेति किं साध्यम् इति. सिद्धत्वम् एव{३,१२४}दर्शयति -- तावान् इति. न तावदगृहीतसम्बन्धश् शब्दाद् विशिष्टं प्रत्येति. गृहीतसम्बन्धस् तु प्रतिपद्यमानो व्युत्पत्तिकालावगतान् न किञ्चिद् अधिकं प्रत्येतीति कथम् अनुमानं भवतीति
SK
अपि चात्र भिन्नयोर् एव प्रकृतिप्रत्ययात्मनोः पदभागयोर् भिन्नाव् एवार्थौ प्रतिपन्नौ विशेषणविशेष्यभावम् अनुभवत इति सिद्धं वैषम्यम् इत्य् आह -- भेदबुद्धेर् इति. इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकः प्रत्ययेन च कर्तृमात्रम् उपात्तम्. आर्थस् तु विशिष्टप्रत्ययः. गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितः स्मर्यत इति कुतो वैषम्यम्, उक्तम् अत्र तावान् एव हीति व्युत्पत्तिकालावगताद् अनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(?म् ए/ए)वोक्तम् इति. किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर् विशेष्यः स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टो ऽवगम्यते. शब्देनोभयोः स्वतन्त्रग्रहणम् अस्तीत्य् आह -- विशेषणेति. ग्रहणम् उपलक्षणार्थं, स्मरणं चेत्यर्थः
SK
वैषम्यान्तरम् आह -- विशेष्येति
SK
अत्र चोदयति -- अथेति. अत्रापि शब्दस्यैव प्रथमावगतस्यार्थविशिष्टत्वेन साध्यत्वान् न क्रमव्यतिक्रमो भविष्यतीति
SK
अत्र दूषणम् आह -- प्रतिज्ञार्थेति. प्रतिज्ञार्थः पक्षः, स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते. स एव हेतुः प्रसज्यते. शब्दो हि धर्मितयोपात्तः स एव हेतुर् इति. ननु यदा दूराद् धूमस्याधारविशेषो न लक्ष्यते तदा धूमो ऽग्निमत्तया साध्यते, हेतुश् च भवति. तद्वद् इहापि भविष्यत्य् अत आह -- पक्ष इति. धूमविशेषो हि सम्प्रति{३,१२५}दृश्यमानः पक्षः पूर्वावगतस् सपक्षः तदनुगतं च सामान्यं हेतुर् इति पक्षसपक्षहेतुविभागोपपत्तिर् इति
SK
नन्व् इहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामः, अत आह -- शब्दत्वम् इति. अर्थविशेषो ह्य् अनुमित्सितः, न चास्य शब्दत्वं गमकम् अनैकान्तिकत्वाद् इति. नन्व् अवान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर् भविष्यत्य् अत आह -- गोशब्दत्वम् इति. अतो ऽत्रैकैव व्यक्तिर् अर्थेन विशेष्या हेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वम् इत्य् अभिप्रायेणाह -- व्यक्तिर् इति
SK
ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिः पक्षीकरिष्यते इत्य् आह -- भवेद् इति. परिहरति -- न त्व् इति. नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायाद् इति भावः. अपि च विशिष्टता सम्बन्धे सति भवति, तद् इह कीदृशो ऽर्थशब्दयोस् सम्बन्ध इत्य् आह -- कथं वेति. न तावत् शब्ददेशे ऽर्थो दृश्यते, मुखे हि शब्दः, भूमावर्थः. नापि शब्दकाले, कलौ कृतयुगार्थस्याभावाद् इत्य् आह -- न तावद् इति
SK
अथार्थप्रतीत्या विशिष्टश् शब्दस् साध्यते, अस्ति हि सा शब्दकाल इति तद् एतद् आशङ्कते तत्प्रतीतिर् इति. एतद् अपि दूषयति -- परम् इति. प्रतीत्या विशिष्टे ऽनुमीयमाने सा तावत् पूर्वसिद्धा ग्रहीतव्या. सा चेत् ज्ञाता किम् अपरम् अनुमीयत इति. ननु सम्प्रत्युपलभ्यमानं द्रुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते, सपक्षं च{३,१२६}व्युत्पत्तिकालावगतविशेषम्, उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामः, न प्रतिज्ञार्थैकदेशता भविष्यत्य् अत आह -- न प्रत्यायनेति अयम् अभिप्रायः -- न द्रुतादिविशेषाणां देशादिनिबन्धनो ऽर्थेन सम्बन्धो विद्यते. प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति
SK
किम् इति न सम्भवत्य् अत आह -- विशेषाणाम् इति. यथा पक्षीकृतस्य महतो धूमस्यैकदेशे ऽधस्तादग्निर् अस्तीति तद्विशिष्टो धूमस् साध्यो भवति. नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगः. तेषां व्यभिचारेणाप्रत्यायकत्वाद् इति. यत् तु तेषां सामान्यं गोशब्दस् स प्रत्यायनशक्तिविशिष्टः, तत्र च पक्षे स एव पक्षो हेतुश् चेत्य् उक्तम् एवेत्य् आह सामान्यस्येति
SK
अतो ऽर्थविशिष्टश् शब्दो नानुमेय इत्य् उपसंहरन्न् आह -- तस्माद् इति
SK
एवं तावत् शब्दो न पक्ष इत्य् उक्तम्. यदि त्व् अर्थं पक्षीकृत्य शब्दो हेतुर् इत्य् उच्यते. तद् अप्य् अयुक्तम्. अपक्षधर्मत्वाद् इत्य् आह -- कथं चेति. कथं च निरूप्यत इति भावः
SK
किम् इति न निरूप्यते ऽत आह -- न क्रियेति. कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनाम् इति. तत्र स्वस्वामिसम्बन्धस् तावत् क्रियाकारकसम्बन्धपूर्वक इत्य् आह -- राजेति. प्रथमं हि भरणक्रियायां कर्तृकर्मभावम् आपन्नौ राजपुरुषौ स्वस्वामिसम्बन्धम् अनुभवत इति
SK
{३,१२७} एवम् अवयवावयविसम्बन्धो ऽपि क्रियागर्भ इत्य् आह -- वृक्ष इति. वृक्षो ऽवयवी ह्य् अवयवेषु तिष्ठतीति प्रतीतिः. कदाचित् त्व् अवयवा एव शाखादयस् तस्मिन्न् इति प्रितीतिः. तद् एवं स्थितिक्रियाकर्तृभावनिबन्धनो ऽवयवावयविसम्बन्ध इति. एवं संयोगो ऽपि क्रियागर्भ एवेत्य् आह -- देश इति. अग्निमद्देशे भवने कर्ता भवन् धूमो ऽग्निमतो देशस्य संयोगी भवतीति || [७०] ||
SK
एवं कार्यकारणभावादयो ऽपि सम्बन्धाः क्रियाकारकसम्बन्धपूर्वका इत्य् आह -- कार्येति. किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाः कारणम् इत्य् उच्यते. तथा समूहसमूहिसम्बन्धो ऽपि. सेनाकार्यं प्रतिपक्षजयम् अंशेन कुर्वन् हस्ती सेनायास् सम्बन्धितयोच्यत इति. शब्दार्थयोस् तु न कश्चिद् एवम् आकारस् सम्बन्धस्यावगम्यते. न चानिरूपिताकारस् सम्बन्धो ऽस्तीति शक्यते वक्तुम् इत्य् आह -- न चेति || [७१] ||
SK
न च सम्बन्धम् अन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्य् आह -- न चास्तीति. वृत्तिविग्रहाव् अपि नोपपन्नाव् इति. उपसंहरति -- तस्माद् इति
SK
अन्ये तु शब्दो ऽर्थविषय इत्य् एवं तद्धर्मताम् आहुः. यथानुपलब्धिर् अभावे प्रमेय इति वक्ष्यते. तद् एतद् उपन्यस्यति -- निवृत्त इति
SK
{३,१२८} एतद् अपि नोपपन्नम् इत्य् आह -- तैर् अपीति. न केनापि प्रकारेण विषयविषयिभावो घटत इत्य् अर्थः. यथा न घटते तद् एतद् आह -- न तद् इति
SK
सर्वप्रकारासम्भवात् पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावम् अन्तरेणानुपपत्तेस् तदभ्युपगमः कार्यः. तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता. न चापक्षधर्मजनिता प्रतीतिर् अनुमानम् इत्य् आह -- तस्माद् इति द्वयेन || ७५ -- ७६ ||
SK
यदि तु पक्षधर्मतैव तद्विषयबुद्धिजनने हेतुर् इष्यते. ततस् तद्व्यतिरेकेण पक्षधर्मताया एवानुपपत्तेर् इतरेतराश्रयत्वम् अतो नेयम् अपि कल्पना घटत इत्य् आह -- गमकत्वाद् इति
SK
इतश् च न पक्षधर्मतेत्य् आह -- न चेति. अनवगतवाच्यवाचकसम्बन्धाः स्वरूपातिरेकेण न शब्दं कस्यचिद् धर्मतया जानन्ति. येन पक्षधर्मबुद्धिश् शब्दे भवेद् इति
SK
{३,१२९} स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुः, अपि तु धर्मिसम्बन्धः. न चासाव् अस्तीत्य् अभिप्रायेणाह -- न चेति. नन्व् अत्राप्य् अर्थेन धर्मिणा प्रथमं व्युत्पत्तिकाले सम्बन्धो ऽवगत एव, आह -- न चापीति
SK
पूर्वसम्बन्धनिरपेक्ष एवायम् अव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो भासते, न चात्र तथेत्य् आह -- धूमवान् इति मतिरन्तेन. यत एव तन्निरपेक्षो ऽयं पक्षधर्मसम्बन्धः, अत एव तदुत्तरस्मात् सपक्षसत्त्वलक्षणाद् भिद्यते, अन्यथा तदभेद एव स्याद् इत्य् आह -- तेनेति. त्रीणि हेतोर् लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद् व्यावृत्तिः. तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धम् उत्तरलक्षणम् अपदिशतीति
SK
शब्दे त्व् एवं नास्तीत्य् आह -- न त्व् अत्रेति. पूर्वसम्बन्धापेक्षया चेयम् अवगम्यमानार्थप्रतीत्युत्तरकालम् अवगम्यते. अतो न तदङ्गम् इत्य् आह -- न चेति || [८१] ||
SK
इतश् च न पक्षधर्मतेत्य् आह -- न च धर्मीति. अर्थाद् अन्यस् तावद् धर्मी न प्रमीयत इति भावः
SK
यस् त्व् असाव् अर्थो धर्मितया कल्पनीयः, यद्धर्मतयावगतश् शब्दः{३,१३०}पक्षधर्मो भवति, परस्ताद् अपि स तावान् एव प्रमातव्यः. तद् यदि पक्षधर्मत्वम् अवगन्तुम् असौ प्रथमम् एवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्य् आह -- यश् चेति द्वयेन || ८३ -- ८४ ||
SK
अन्वयम् इदानीं दूषयति -- अन्वय इति. कथं न निरूप्यते, अत आह -- व्यापारेणेति
SK
एतद् एव दर्शयति -- यत्रेति. इह त्व् एवं नास्तीत्य् आह -- न त्व् इति
SK
कथं नेत्य् अत आह -- न तावद् इति. इदं च पूर्वम् एवोक्तम् इति. ननु वैभवाच् छब्दस्य नित्यत्वाच् चार्थस्य शब्दार्थयोश् शक्यते ऽन्वयो दर्शयितुम् इत्य् आह -- भवेद् इति. परिहरति -- सर्वार्थेष्व् इति
SK
किम् अतो यद्य् एवम् अत आह -- तेनेति
SK
प्रकारान्तरेण सम्बन्धम् आशङ्कते -- अथैवम् इति
SK
{३,१३१} एतद् अपि दूषयति -- नैवम् इति. कारणम् आह -- दृष्टो हीति (अस्मा)भिरन्तेन. क्व दृष्टः, अत आह -- अव्युत्पन्नेति
SK
ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोर् अन्वयो ग्रहीष्यत इत्य् आशङ्कते -- द्वितीयादीति. एतद् अपि दूषयति -- शतकृत्व इति. शतकृत्वः प्रयोगे ऽप्य् अजिज्ञासुर् न सम्बन्धं बुध्यते. अविदितसम्बन्धश् च नार्थं प्रत्येतीति
SK
ननु ज्ञातसम्बन्धस्य तावन् न शब्दज्ञानम् अर्थज्ञानं व्यभिचरति. तस्यैव चानुमानत्वम् इष्यत इत्य् आह -- नन्व् इति. परिहरति -- यद्य् एवम् इति. यदि ज्ञातसम्बन्धस्यान्वयः, अन्य एव तर्हि सम्बन्धश् शब्दार्थयोर् अभ्युपगम्यत इति
SK
ततः किम् अत आह -- नाङ्गम् इति. यदि नाङ्गं, किं जातम् अत आह -- अन्वयेति. असत्य् अन्वये ज्ञानं नानुमानम् इति भावः
SK
अन्वयस् तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थप्रतीतौ कारणम् इत्य् आह -- ज्ञात इति
SK
{३,१३२} उपसंहरति -- तस्माद् इति. अनुमाने तु नान्वयात् पूर्वं गमकत्वसिद्धिर् इत्य् आह -- न चेति
SK
व्यतिरेकम् इदानीं दूषयति -- व्यतिरेक इति. न ह्य् अनवगते ऽर्थे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकश् शक्यते ऽवगन्तुम्. अवगतश् चेद् अर्थः किं व्यतिरेकाश्रयणेनेति
SK
किम् इदानीम् अनुपयोगिनाव् अन्वयव्यतिरेकौ शब्दे नेत्य् आह -- सम्बन्धम् इति. शक्तिनि(ष्कर्षे त)योर् व्यापारो वाच्यवाचकरूपश् शब्दार्थयोः सम्बन्ध इति
SK
एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति -- तस्माद् इति. शब्दो नानुमानं त्रैरूप्यरहितत्वात् प्रत्यक्षवत्. तादृग्विषयवर्जनात्. तद्वद् एव तादृक्. विषयवर्जनं च सामान्यविषयत्वं हीत्यादिना वर्णितम् एवेति
SK
इदं च पदस्यानुमानाद् भेदप्रतिपादनं प्रौढिप्रदर्शनार्थम् अस्माभिः कृतम्. न तु पदं प्रमाणम् इत्य् आह -- सतीति
SK
{३,१३३} यथा न प्रमाणं तथा दर्शयति -- पदम् इति. तान् एव चतुरः प्रकारानाह -- प्रत्यक्ष इति
SK
एष्व् अर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह -- तत्रेति
SK
अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षे ऽनुत्पत्तिलक्षणम् एवाप्रामाण्यम् इत्य् आह -- अदृष्टपूर्व इति. सम्बन्धज्ञानम् एव वा तदा जायत इत्य् आह -- सम्बन्धेति. न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वाद् इत्य् अभिप्रायेणाह -- सम्बन्ध इति. तदर्थस् तु प्रत्यक्षाद् अवगत इत्य् आह -- यो ऽर्थ इति
SK
अननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिर् एवेत्य् आह -- परोक्ष इति. अनुभूते तु परोक्षे स्मृतिर् इत्य् आह -- परोक्ष इति
SK
ननु स्मृतिम् एव जनयत् प्रमाणं भविष्यत्य् अत आह -- प्रमित इति. प्रमितविषया हि स्मृतिः, सन्निकृष्टार्थगोचरं च प्रमाणम् इति स्थितिर् इति. कथं पुनः प्रमितविषयं न प्रमाणम् अत आह -- परिच्छेदेति. परिच्छेदफलं हि प्रमाणम्. न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वाद् इति
SK
{३,१३४} अत्र चोदयति -- तादात्विकेति. यद्य् अपि पूर्वम् असाव् अर्थो ऽवगतः, तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत् स्मृतिः प्रमाणं किम् इति न भवतीति
SK
परिहरति -- यावान् इति. उत्पद्यते स्मृतिर् अन्यदा, न तु प्रत्यभिज्ञानवत् तदनीं वस्तुनस् सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वाद् इति
SK
ननु पूर्वसंस्कारमात्रजा हि स्मृतिः, इदं तु प्रत्युत्पन्नकारणकं पदात् पदार्थज्ञानं ग्रहणम् एव, कथं स्मृतिर् उच्यते. अत आह -- पदम् इति. मा भूत् स्मरणं, ग्रहणम् अपीदम् अनधिकविषयम् एवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यस् सदृशादृष्टादिभ्यो विशिष्यत इत्य् अप्रमाणम् इति. ननु क्रियाकारकयोर् अन्यतरोच्चारणे ऽवश्यम् अन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति. अतः कथम् उच्यते नाधिक्यम् अवगम्यत इत्य् अत आह -- यदाधिक्यम् इति. पदान्तरस्यैवासौ प्रसादो न पदस्यैकस्यैवेत्य् अर्थः
SK
इदं चास्माभिस् सौहृदमात्रेण शिष्येभ्यः कथ्यते न पदं प्रमाणम् इति. न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति. तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम्. अतः प्रमाणान्तरानधिगतम् अर्थं गमयद्वाक्यं प्रमाणम् एव. एवम् अनुमानान्तर्गतत्वे ऽपि पदस्य न काचित् क्षतिः, वाक्यार्थस्याननुमेयत्वाद् इत्य् आह -- प्रमाणम् इति
SK
{३,१३५}आह वाक्यार्थज्ञानस्यैव कथम् अननुमानत्वं, तद् अप्य् आलोचितानुगमनम् अनुमानम् एवात आह -- वाक्यार्थ इति. अगृहीतसम्बन्धा एव पदार्थाः वाक्यार्थं गमयन्ति. अतो न वाक्यार्थज्ञानम् अनुमानम्. एवञ् च दर्शयितव्यं वाक्यार्थबुद्धिर् अनुमानाद् भिन्ना सम्बन्धानुभवादृते जायमानत्वाद् अक्षबुद्धिवद् इति
SK
कथं पुनर् अप्रतिबद्धम् अर्थान्तरस्य प्रतिपादकम्, एवं ह्य् अतिप्रसङ्गः. अतो ऽसिद्धो हेतुर् अत आह -- वाक्येति. ये च परैः पदार्थबुद्धेर् अनुमानाद् अभेदहेतव उक्ताः, ते तावद् बहवो वाक्यार्थबुद्धावसिद्धा इत्य् आह -- सर्वेषाम् इति. वाक्यार्थबुद्धिर् हि न तावद् अन्वयव्यतिरेकजा. नापि सम्बन्धपूर्विका. नैव प्रत्यक्षदर्शनप्रभवा. पदाद् अवगतानां पदार्थानां तत्कारणत्वात्. सामान्यविषयत्वम् अप्य् असिद्धं विशिष्टविषयत्वात्. प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये. तददृष्टार्थबोधनं चानुमानाभासैर् अप्य् अनैकान्तिकम्. एवं त्रिकालविषयम् अप्य् अनुमानाभासेनैव. एवम् एव पदार्थबुद्धाव् अपि दर्शयितव्यम्. अन्वयव्यतिरेकजत्वं तु तत्राप्य् असिद्धम् एव. उक्तं हि शब्दशक्तिनिर्धारणे तयोर् व्यापारो न बुद्धिजन्मनीति. सम्बन्धपूर्वकत्वं तु यद्य् अविशेषितं तत् प्रत्यक्षेणैवानैकान्तिकम्, तद् अपि हीन्द्रियार्थसम्बन्धपूर्वकम् एव. अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर् हि तदङ्गम्. न च पदात् पदार्थज्ञाने व्याप्तिः कारणम्. सामान्यविषयत्वं चाभासेनैवानैकान्तिकम् एव प्रत्यक्षदर्शन(प्रभवत्व)प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधनानि तूपमानादिभिर् अपीति
SK
यत एवैवं वाक्यार्थबुद्धिस् सहार्थैर् अदृष्टेष्व् अपि वाक्येषु पदार्थमात्रविदो जायते. अतो ऽस्याः स्फुटतरम् अनुमानाद् भेदं पश्यन्तस् सौगतास् ततो ऽवतीर्यागमस्यानुमानव्यतिरेकात् बिभ्यतः पदाभेदविचारणायाम् एव क्लिष्टाः. एवं हि{३,१३६}मन्यन्ते. अस्तु तावत्पदम् अप्य् अनुमानाद् अभिन्नम्. एतावतापीह शब्दानुमानयोर् ऐक्यम् इति वाक् प्रवर्तत एवेति सोपहासम् आह -- वाक्येष्व् इति
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
शब्दपरिच्छेदः समाप्तः ||
SK
००७ उपमानपरिच्छेद
SK
अथोपमानपरिच्छेदः
SK
उपमानम् अपि सादृश्यम् असन्निकृष्टे ऽर्थे बुद्धिम् उत्पादयति. यथा गवयदर्शनं गोस्मरणस्येति भाष्यम्. अस्यायं तात्पर्यार्थः -- उपमानम् अपि न परीक्षणीयम्, एवं लक्षणकत्वेनाव्यभिचाराद् इति. अवयवार्थस् त्व् एकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टे ऽर्थे यां बुद्धिम् उत्पादयति एतत्सादृश्यविशिष्टो ऽसाव् इति, सोपमानम् इति यत्तदोरध्याहारः. न च वाच्यं विषयविशेषानुपादानात् कथं सादृश्यविशिष्टविषया बुद्धिर् अवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्य् अत्रापरीक्षा प्रतिपाद्यते. लोके च सादृश्यविशिष्टविषयैव{३,१३७}बुद्धिर् उपमानम् इति प्रसिद्धम्. अतो न दोषः. दृश्यमानविशेषणम् एकदेशदर्शनाद् इतिवद् अनुपात्तम् इति चेद् न. उदाहरणे उपादानात्. एवं ह्य् आह -- यथा गवयदर्शनं गोस्मरणस्येति. अस्यार्थः -- दृश्यते ऽस्मिन्न् इति दर्शनं, अधिकरणे ल्युट्. गवयो दर्शनम् अस्येति गवयदर्शनम्. सादृश्यम् अन्यपदार्थः. एतद् उक्तं भवति -- गवये दृश्यमानं सादृश्यम् इति. अत्रोदाहरणानुसारेण लक्षणवाक्ये ऽपि दृश्यमानम् एव सादृश्यम् अभिमतम् इति गम्यते. गोस्मरणस्येति च नन्दिग्रही(Pआ ३.१.१३४)त्यादिना कर्तरि ल्युः. गां स्मरतः प्रमातुः. यथा गवये दृश्यमानं सादृश्यम् एतत्सदृशा गौर् इति बुद्धिम् उत्पादयतीति. सङ्गतिस् तु प्रसिद्धिबाहुल्यात् शाब्दानन्तरम् उपमानम् इति प्राग् एवोक्तम्. अत्र चोदयति -- प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते. अतो यथा नैयायिकोक्तम् उपमानं प्रमाणम् आश्रीयते, एवं तद् उक्तम् एवोपमानलक्षणम् आश्रयितुम् उचितम्. एवं हि तैर् उक्तं - प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् इति. अस्यार्थः -- प्रसिद्धेन गवादिना साधर्म्यात् साध्यस्याप्रसिद्धस्य गवयादेः कञ्चिद् अनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस् तादृशो गवय इति वाक्यं, तज्जनिता वा बुद्धिर् उपमानम् इति. तद् एतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यम् इत्य् अत आह -- कीदृग् इति द्वयेन. सत्यं नैयायिकैर् इदम् उक्तम्. न तु युक्तम्. अनन्तरोक्तागमाबहिर्भावात्. शब्दविज्ञानाद् धीदम् असन्निकृष्टे ऽर्थे विज्ञानम्. अतो ऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितम् इति || १ -- २ ||
SK
नैयायिकागमलक्षणानुसारेणाप्य् अस्यागमत्वम् अवगम्यत इत्य् आह -- पुरुषेति. एवं हि नैयायिकानां शाब्दलक्षणम् आप्तोपदेशश् शब्द इति. अत्रापि चाप्तपुरुषप्रत्ययेनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति. नानाप्ता(?द् धि/द् वि)संवादात्. अत आप्तस्यैवेदं वचनम् अव्यभिचारीति मत्वा तद्बलभावी निश्चयो जायते, तेषाम् अप्य् आगम एवेति
SK
{३,१३८} ननु शाबरे ऽपि सदृशदर्शनात् सदृशान्तरे ज्ञानम् उपमानम् इति वर्णितम्. एतद् अपि स्मरणाबहिर्भावाद् अप्रमाणम् एव. यथा हि किञ्चिद् ध्यायतः स्मरणं भवति, एवं सदृशदर्शिनो ऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याः कश्चिद् विशेषः. अतो ऽप्रमाणम् इत्य् आह -- सदृशाद् इति. नैयायिकलक्षणं तावदागमाबहिर्भावि. शाबरं त्व् अप्रमाणम् एव सङ्गृहातीति
SK
ननु स्मृतिसम्भिन्नम् अपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम्. एवम् इहापि गां नगरे दृष्टवतो वने गवयदर्शिनस् तद्भानं प्रमाणं भवत्य् अत आह -- देशकालादीति. न खलु देशादिभेदस् सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौः प्रमीयते, अपि तु नगरावगतस् सम्प्रत्य् अपि तत्स्थ एव स्मर्यत इति
SK
नैयायिकैकदेशिनां मतम् उपन्यस्यति -- श्रुतेति. येन किलातिदेशवाक्यं श्रुतं यादृशो गौस् तादृशो गवय इति, तस्य श्रुतातिदेशवाक्यस्य वनं प्राप्तस्य यत् स्वयम् असौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानम् इदम् उपमानम् इति
SK
{३,१३९} एतद् अपि दूषयति -- प्रत्यक्ष इति. गवयस् तावदिन्द्रियसन्निकर्षात् प्रत्यक्षेण प्रतीयते. गोसादृश्यम् अप्य् अतिदेशवाक्याद् अवगतं स्मर्यत इति नोपमेयम् अस्तीति. अत्र चोदयति -- नन्व् इति. अयम् अभिप्रायः -- गोसादृश्यविशिष्टो ह्य् अत्र गवयो ऽवगम्यते. न च तत्प्रत्यक्षं, गोर् अप्रत्यक्षत्वात्. तद्विशिष्टो गवय उपमानस्य विषयः. न ह्य् असौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात् तस्य. न चागमाद् अवगतः स्मर्यते, सामान्यविषयत्वाद् आगमस्य. इह चायम् असाव् इति विशेषप्रतिभानाद् इति
SK
एतद् अपि विकल्प्य दूषयति -- पूर्वेति सार्धेन. इदम् अत्र विकल्पनीयम् -- अतिदेशवाक्याद् अवगतात् किञ्चिद् अधिकम् अवगम्यते न वा, यदि नेत्य् आह, ततः स्मरणाद् अविशिष्टा सङ्गतिर् इयम् अप्रमाणम्. यथा पदात् पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणम् अप्य् अनधिकविषयत्वाद् अप्रमाणम्, एवम् इहाप्य् अतिदेशवाक्यावगतगोसादृश्यविशिष्टगवयज्ञानम्. यदि तु सामान्यावगताद् विशेषावगमे ऽस्ति विशेष इत्य् उच्यते, स तर्हि प्रत्यक्षाद् एव लभ्यत इति न प्रमाणान्तरावकाश इति
SK
ननूक्तम् असन्निहिते गवि तत्सादृश्यस्याप्रत्यक्षत्वान् न तद्विशिष्टो गवयः प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरम् इत्य् अत आह -- यावद् धीति. यावदिन्द्रियव्यापारानन्तरम् अपरोक्षं भासते तन् नः प्रत्यक्षम्. तथा च सादृश्यविशिष्टो गवय इति कथम् अप्रत्यक्षो भविष्यति. प्रतिजाति कृत्स्नपरिसमाप्तम् एव जातिबत् सादृश्यम् इत्य् अप्रत्यक्षे ऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षम् उपपद्यत एवेति भावः
SK
{३,१४०} न च शब्दादिस्मरणसम्भेदाद् अप्रमाणता, गृह्यमाणस्मर्यमाणयोर् विवेकस्य सविकल्पकसिद्धौ फणितत्वाद् इत्य् आह -- स्मर्यमाणस्येति. विवेके सति नाप्रमाणतेत्य् अर्थः. श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलम् उपलभ्यत इत्य् आह -- श्रुतेति
SK
कथं नोपयुज्यते -- ये ऽपीति. गोसादृश्यविशिष्टगवयदर्शनं चेद् उपमानम् अभिमतं तदाश्रुततद्वाक्यानाम् अपि नगरे गां दृष्टवतां वने गवयं पश्यताम् अस्त्य् एवेति मन्दं विशेषणफलम् इति
SK
नन्व् अश्रुतातिदेशवाक्यानाम् अयम् असौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषाम् अस्तीत्य् अयम् अस्ति विशेष इत्य् आह -- अथेति. परिहरति -- न नामेति. यदुपमानस्य प्रमेयम् अभिमतं तत्तावत्ते ऽपि जानन्ति. संज्ञित्वं मा नामानुसन्धीयताम् इति
SK
स्यान् मतम् -- संज्ञासंज्ञिसम्बन्ध एवोपमानस्य विषयः. यथोक्तं न्यायविस्तरे समाख्यासम्बन्धप्रतिपत्तिर् उपमानार्थ इति. विवृतं च -- यथा गौर् इव गवय इत्य् उक्ते गवा समानार्थम् इन्द्रियसन्निकर्षाद् उपलभमानो ऽस्य गवयशब्दस् संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति. न चाश्रुतातिदेशवाक्यस्य शब्दम् अविदुषस् समाख्यासम्बन्धप्रतिपत्तिस् सम्भवतीति{३,१४१}फलवद्विशेषणम् अत आह -- न चेति. कारणम् आह -- सादृश्येति. अतिदेशवाक्याद् एव गोसादृश्येन गवयशब्दवाच्ये ऽर्थे ऽवधारिते व्यक्तिरूपेणानवगतो ऽपि शब्दार्थसम्बन्धो ऽवगत एव. एतद् धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यम् इति. एतावच् च सम्बन्धस्य स्वरूपम्, अतस् सूक्तं विशेषणानर्थक्यम् इति
SK
ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यम् अविहतम् एवात आह -- न चेति. अत्र कारणम् आह -- शक्त्योर् इति. वाच्यवाचकशक्तिनियमो हि शब्दार्थयोस् सम्बन्धः. स चातीन्द्रियत्वान् नेह प्रत्यभिज्ञायते. पूर्वावगत एवान्यूनानतिरिक्तः स्मर्यते. किम् इदानीम् अतीन्द्रिये नैव प्रत्यभिज्ञानम् अस्ति, यद्य् एवम् अनुमानेन कथं पूर्वानुभूतम् अग्न्यादि प्रत्यभिज्ञायते. आह च -- गृहीते ऽपि देशादिभेदभिन्ने पुनः प्रमाप्रत्यभिज्ञानुमानात् स्यात् प्रत्यक्षवद् अवधारिते ऽपीति. इहापि च वक्ष्यति --
SK
येन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोः |
SK
इति. सत्यम्. न ब्रूमः परोक्षं न प्रत्यभिज्ञायत इति, यद् एतद् अयम् असौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजम् अपरोक्षावभासं प्रत्यभिज्ञानम् --
SK
अस्य शब्दार्थसम्बन्धश् शक्तिरूपो न गोचरः |
SK
गोसादृश्येन विज्ञातपूर्वो गवय एव तु ||
SK
इति. अत एव न चास्येति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति. गवयस् त्व् इह गोसादृश्येनावगत पूर्वः प्रत्यभिज्ञायत इति न किञ्चिद् अनुपपन्नम् इति
SK
अथोच्येत (?वृ/प्रत्य)क्षाद् व्यावर्तयितुं विशेषणोपादानम्. श्रुतशब्दोल्लिखितम् इदं गवयज्ञानम् अतो न प्रत्यक्षस्य विषय इत्युपमानस्य भविष्यतीत्य् अत आह -- शब्देति. शब्दानुविद्धबोधे ऽपि{३,१४२}हीन्द्रियसम्बन्धानुसारि ज्ञानं न शब्दशक्तिपरामर्शजम् एवेति प्रत्यक्षम् एवेति वर्णितम् इत्य् अतो नैकत्रापि लक्षणे उपमानस्य प्रमेयम् अधिकं पश्याम इति वाच्यम् अस्यापूर्वं प्रमेयम् इत्य् उपसंहरति -- तस्माद् इति
SK
यदि तूच्यते -- प्रतियोगिसापेक्षं सादृश्यग्रहणम् अतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वम् अपरं वानुसन्धत्ते. अतः प्रत्यक्षे ऽपि धर्मिणि परोक्षम् एव सादृश्यम् इति न तद्विशिष्टस्य प्रत्यक्षत्वम् इति सावकाशम् उपमानम् इत्य् अत आह -- व्यवसायेति. बौद्धानाम् अयं सिद्धान्तः -- यदविकल्पकम् आपातजं प्रत्यक्षम् इति. नैयायिकास् तु व्यवसायात्मकप्रत्यक्षवादिनः. अतो जात्यादिवत्सादृश्यम् अपि तेषां किं न प्रत्यक्षेण प्रमीयत इति
SK
निर्विकल्पकवादिनाम् अपि नेदं प्रमाणान्तरं, प्रत्यक्षाभासत्वाद् इत्य् आह -- प्रत्यक्षेति. एवं तावत् सादृश्यस्य वस्त्वन्तरत्वम् अङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यम् उक्तम्. इदानीं बौद्धमतेन सादृश्यापलापम् आह -- प्रमेयेति. निर्विकल्पकप्रत्यक्षवादिनाम् अपि सादृश्यप्रमेयाभावाद् उपमानस्य प्रमाणता नाभिप्रेता. अतस् तेषु स्पर्धमानेषु कथम् उपमानं प्रमाणम्. अयं च तेषाम् अभिप्रायः -- सादृश्यं हि न तावदाश्रयेभ्यो भिन्नम् अनुपलम्भात्. अभेदे चाश्रयात् तन्मात्रापातात्. कथं चाश्रयेषु वर्तते. न तावत् कार्त्स्न्येन भेदप्रसङ्गात्, न ह्य् एकम् अत्र कार्त्स्न्येन वृत्तम् अन्यत्रापि तथैव वर्तत इति साम्प्रतम्. न च भागशः, तदभावात्. किञ्चेदं सादृश्यं न तावद् द्रव्यगुणकर्मणाम् अन्यतमम्, पदार्थपण्डितैस् तेष्व् अनुपसंख्यातत्वात्. न हि नवसु द्रव्येषु चतुर्विंशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यम् अन्तर्गतं पश्यामः. न च सामान्यम् एव सादृश्यं, तद् धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादाव् अपि तथात्वप्रसङ्गः.{३,१४३}अवयवसामान्यानि सादृश्यम् इति चेद्. न. तेष्व् अप्य् ऐकैकश्येन सादृश्यबुद्धेर् उपजननात्.[७२९]भूयांसि सादृश्यम् इति चेद्. न. भूयस्स्व् अप्य् एकत्र समाहृतेषु प्रतियोग्य(?न्यतरा)नपेक्षेषु सादृश्यबुद्धेर् उपजननात्.[७३०]सन्ति खलु तान्य् एकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्य् अनपेक्षितप्रतियोगिभेदं सदृशो ऽयम् इति गां जानाति. प्रतियोग्यपेक्षया सामान्यानि सादृश्यम् इति चेत्. किम् इदानीम् आपेक्षिकं सादृश्यम्. बाढम्. यद्य् एवम् अपेक्षया तदभिव्यज्यते जन्यते वा. न तावज् जन्यते द्वित्वम् इवापेक्षाबुद्ध्या, सहजसिद्धत्वात्. अभिव्यञ्जकानि त्व् आलोकेन्द्रियादीनि सन्तीति किम् अन्यद् अपेक्षते. यदि चावयवसामान्यानि सादृश्यं, यमयोस् तु तदभावाद् अभावप्रसङ्गः. तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात् सिद्धान्तहानिः. चित्रादौ च पारिणामिकानाम् अवयवानां करशिरऋप्रभृतीनाम् अभावात् सामान्याभावे सादृश्याभावः. एवम् एव गन्धादिष्व् अपि प्रसङ्गो दर्शयितव्यः. अवयवानां कर्णादीनाम् अवयवान्तराभावाद् असादृश्यम्. अथ मतम्, सत्यं नावयवसामान्यानि सादृश्यम्. किन् तु तत्त्वान्तरम् एवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा. यथाह गुरुः -- न सामान्यं सादृश्यम्. किं तर्हि. तद् एव तत्, गोत्वादेर् एकत्वाद् इति. एवं चोपपन्नो भवति सदृशसम्भावनम् एव तत्र विध्यर्थः श्येनचिच् चोदनार्थः. श्येनव्यक्तिजात्योस् स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरऋपृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिर् अशक्यसम्पादनत्वात्. यदि चावयवसामान्यानि सादृश्यम् इष्यन्ते ततस् तेषाम् इहाभावात् सादृश्यम् अपि दुस्सम्पादनम् इति सो ऽनारभ्यो ऽर्थः प्रतिज्ञातो भवेत् श्येनचितं चिन्वीतेति. एवं चानवयवेष्व् अपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति. तच् च नैवम्. तत्त्वान्तरे हि सादृश्ये गाम् अनपेक्ष्यापि गवयं सदृशम् इति जानीयुः. तत्र हि तन्निरवशेषम् एव सादृश्यं परिसमाप्तम् इति किम् अन्यद् अपेक्ष्यते. कथम् अनपेक्षिते गवि तत्सादृश्यविशिष्टो ऽवगम्यत इति चेत् कस् तस्य गवा सम्बन्धः. समवाय इति चेत्, सो ऽपि तर्हि गवयवद् गोसदृशतया ज्ञातव्यः. अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणे ऽपि किम् इत्य् अपेक्ष्यते. न हि गोत्वं शाबलेये समवेतम् इति{३,१४४}बाहुलेये तद्बोधे ऽपि तदपेक्षा दृष्टा. तथेदं गवि गवयसादृश्यम् इति न तदपेक्षाहेतुर् उपलभ्यत इति. अपि चापेक्षतां नाम गौः, दूराद् गाम् उपलब्धवतो ()विदितावयवसामान्यविभागस्यापि गोसदृशगवयज्ञानं भवेत्. अवयवसामान्यान्य् अपि तद्बोधे ऽप्य् अपेक्ष्यन्त इति चेत्. वक्तव्यो ऽपेक्षार्थः. यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगततद्वेदनेन, अतो गव्यवगते ऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत. जात्योर् हि तत्सादृश्यम्, अवगते च ते इति किम् अन्यद् अपेक्ष्यते. यच् चेदम् अवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्याद् अर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात्. स्यान् मतम् व्यञ्जकानि तानि तस्य. भवति चाभिव्यञ्जकप्रकर्षे ऽभिव्यङ्ग्यबुद्धिप्रकर्षः. यथा घटादौ तद्वद् इहापि भविष्यतीति. तन् न. न हि बुद्धिमात्रम् अत्र प्रकृष्यते. अपि तर्हि वस्त्व् एव सातिशयम् उपालभामहे. अत एव मुख्यापचारे सदृशोपादित्सया सुसदृशं प्रतिनिधीयते. न मन्दसदृशम् इत्य् एतद् अपि यत् किञ्चित्. अतः कल्पनामात्रकल्पितं द्विचन्द्रालातचक्रादिवद् भ्रान्तिकारणं सादृश्यं न प्रामाणिकम् इति. प्रमेयाभावाद् अपि नोपमानाङ्गम् अन्यद् वा सादृश्ये प्रमाणम् इत्य् आपेक्ष इति
SK
__________NOTES__________
SK
[७२९] रूपजननापातात् इति भाव्यम्. [७३०] रूपजननापातात् इति भाव्यम्.
SK
अत्र समाधिम् आह -- सादृश्यस्येति. अयम् अभिप्रायः -- नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात्. द्विचन्द्रादिप्रत्यया हि कुतश्चिद् दोषाद् उत्पन्नाः कालादिभेदेषु बाध्यन्ते. सादृश्यं तु जात्यादिवदबाधितबुद्धिवेद्यं कथम् अन्यथा भविष्यति. यथा चासाधारणप्रत्यक्षवादिनां तत्सत्यम् एवं सादृश्यम् अपीति किम् अपह्नूयते. तद् इदम् अवगतम् असंशयितम् अबाधितं च देशान्तरादिष्व् अपीत्य् अस्ति तावत् सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम्. न हि दृष्टे ऽनुपपन्नं नाम किञ्चिद् अस्तीति.
SK
तत्र यत् तावद् उक्तं किम् अस्य स्वरूपम् इति. तत्रोत्तरम् आह -- भूयोवयवेति. अस्यार्थः -- भूयोभिर् अवयवसामान्यैर् यो जात्यन्तरस्य योगः{३,१४५}तत् सादृश्यम्. जात्यन्तरावयवसामान्यग्रहणम् उपलक्षणार्थम्, व्यक्तिसादृश्यम् अपि यमादिषु दृष्टम् एव. एवम् अवयवसामान्यैर् विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टम् एव, यथा चित्रादिषु. एतेन यद् उक्तं चित्रादौ कथं सादृश्यम् इति तत् परिहृतम्. एवम् अग्नाव् अपि संस्थानपरिमाणसामान्यं दर्शयितव्यम्. यमयोस् त्व् अवयवसामान्याभ्युपगमे यान् उपपत्तिर् उक्ता, असौ परिहरिष्यत एव. गुणानां त्व् असत्य् अप्य् अवयवसामान्ये ऽवयवगुणसामान्यम् एवावयविगुणानां सादृश्यम् इति दर्शयितव्यम्. कर्मणां च सौर्यादीनां द्रव्यदेवतादिधर्मसामान्यम् एव सादृश्यम्, अवयवसामान्यस्योपलक्षणार्थत्वाद् इति. तत्त्वान्तरवादिनां चेदम् आश्रयपारतन्त्र्याद् गुणान्तर्गतम् एवास्थेयम्. न पञ्चमम् अलौकिकत्वात्. जातिद्रव्यगुणक्रियाः पदार्था इति लोकसिद्धम्. अतो ऽस्य गुणस्य सतो गुणकर्मणोर् अनुपपन्न एव समवायः. अथ द्रव्यसमवेतम् एव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात्. यथावयवसमवेतं सामान्यं गोगवयजात्योर् असमवेतम् अपि ते सदृशतया बोधयति, एकार्थसमवेतसमवायाद् इत्य् उच्यते. न. द्रव्यसमवाये प्रमाणा भावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि. सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम्. न च गन्धादिसदृशं द्रव्यम् इति प्रत्ययो ऽस्ति. अतः कथं तद्वर्तिना सादृश्येन गन्धादीनि सदृशानि भवेयुः. अतो ऽवयवसामान्यम् एव सादृश्यम् इति. नन्व् एकत्रैव भूयसाम् अवयवसामान्यानाम् उपलम्भात् सादृश्यबोधप्रसक्तिर् इत्य् उक्तम्, परिहृतम् इदं जात्यन्तरस्येति वदता. जात्यन्तरसमवायिनां जात्यन्तरे समवायात् सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम्. एतच् चोपरिष्टाद् विवरिष्यत एव. अतो जात्यन्तरग्रहणम् अपेक्षितव्यम्. यत् तु न तेन तज्जन्यत इति. सत्यम्. अभिव्यज्यते तु तत्. यथोक्तम् --
SK
सामान्यानि च भूयांसि गुणावयवकर्मणाम् |
SK
भिन्नप्रधानसामान्यव्यक्तं सादृश्यम् उच्यते ||
SK
इति. यद् धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम्. अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव. जात्यन्तरसमवायात्मना{३,१४६}तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरे ऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा. न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति. न हि देवदत्तस्य पितृत्वं पुत्रापेक्षया प्रतीयत इति, तद् अवस्तु. अतः आपेक्षिकाण्य् एवञ्जातीयकानि न चालयितुं शक्यन्ते. अत एवावयवसामान्यप्रचयाप्रचययोस् सुसदृशादिबोधोपपत्तिः. अतः सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यम् इति
SK
ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश् चक्षुर् उपमीयते, यदि चावयवसामान्यं सादृश्यं, न तद् इह सम्भवति, स्वयम् एवावयवत्वात्, न हि चक्षुषश् चक्षुराद्यवयवान्तरम् अस्ति. अत आह -- सदृशेति. नावश्यं महावयविनो यो ऽवयवस् तत्सामान्यं सादृश्यम्. अवयवसामान्यानि तु सादृश्यम् इत्य् उक्तम्. तच् चावयवानाम् अपि चक्षुरादीनां स्वावयवसामान्यभूम्ना सम्भवत्य् एवेति युक्तो ऽङ्गनादीनां सदृशावयवबोध इत्य् आह
SK
अस्तु तावद् अवयवेष्व् अवान्तरावयवसामान्ययोगात् सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टः. स कथम् उपपद्यते अत आह -- एवम् इति. नेदम् अवयवसामान्यग्रहणं तन्त्रम्. यद् एव तु किञ्चिद् गुणादिसामान्यं सदृशधियम् उपजनयति तद् एव सादृश्यम् अतो नात्रैकरूप्यम् एव. विचित्रता तु सादृश्यस्य यथादर्शनम् अङ्गीकर्तव्यम्. तद् यथा -- जातिसादृश्यम् अग्निर् वै ब्राह्मण इति, अग्निसदृश इत्य् अर्थः. किम् अनयोस् सादृश्यम्, एकस्माद् ब्रह्मणो मुखाज् जातिर् उत्पत्तिर् इत्य् अर्थः. इदं च तद्सिद्धिसूत्रे वक्ष्यते. कुतः पुनर् अनयोस् समानाभिजननत्वम् अवगम्यते. श्रुतेः. एवं ह्य् आह -- प्रजापतिर् मुखतस् त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणाम् इति. लोके च समानाभिजननयोर् दर्शयितव्यम्. गुणसामान्यं तु चित्रादौ सुप्रकाशम् एव लोके, वेदे च आदित्यो यूप इति.{३,१४७}द्रव्यसादृश्यं समालङ्कारधारिणोर् लोके, वेदे च लोहितोष्णीषा ऋत्विजः प्रचरन्तीति. क्रियासादृश्यम् अध्ययनादिसामान्याल् लोके, वेदे च यज्ञविहङ्गमयोर् निपत्यादानसामान्यात्. एवं ह्य् आह -- यथा वै श्येनो निपत्यादत्ते, एवम् अयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते इति. शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोः. अवगम्यते हि पूतीकानां सोमशक्तिर् अर्थवादात्. तत्कार्यत्वेनावगमात्. कार्यस्य च कारणानुविधायिशक्तिकत्वात्. उक्तं च -- सोमस्य यो ऽंशः परापतत् स पूतीको ऽभवद् इति. स्वधर्मसादृश्यं केचित् त्रिशिखाः केचित् पञ्चशिखा इति लोके त्रिशिखादीनाम् अन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयः प्रयाज इति. धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश् च धर्मसामान्यम् एव सादृश्यम् इत्य् उक्तम् एव. एते च जात्यादय एकैकशो द्विशस्त्रिशस् समस्तशश् च समाना भवन्तस् सादृश्यस्य विचित्रताम् आपादयन्तीति
SK
ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते. यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्य् अवयवेषु समवयन्तीति तेष्व् एव सदृशधियं जनयेयुः. अथ तेषां भूयस्ता, सा चावयवसामान्येष्व् इति तान्य् एव सदृशानि स्युः. कथं जात्यन्तरे सदृशबुद्धिर् अत आह -- न धर्मा इति. सत्यम्. अत एव हेतोर् न धर्माख्यावयवसामान्यानि तद्भूयस्ता वा सादृश्यं, तेषु सादृश्यबुद्ध्यनुत्पत्तेः. यद् एव हि तेषां भूयस् तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तद् एव सदृशबुद्ध्या गृह्यते. अतो जात्यन्तरसमवाय एव तेषां सादृश्यम्. स्वरूपतस् त्व् एकैकशस्तानि सामान्यानि प्रधानसामान्यवदेकत्वबुद्धिनिबन्धनम् एव. पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयो ऽवयवसामान्येत्य् अस्यैव प्रपञ्च इति
SK
{३,१४८} अत्र चोदयति -- यमयोर् इति. जात्यन्तरस्येति यावच्छ्रुतग्राहिणः परिचोदनम् इदम् -- यदि जात्यन्तरस्य भूयो ऽवयवसामान्ययोगतस् सादृश्यं कथं यमयोर् व्यक्तिसादृश्यम् इति. इतरस् तु -- प्रदर्शनमात्रं जात्यन्तरस्येति केयम् अत्रैवास्था, तद् अयम् अर्भको वराक इत्य् अपहसति -- दृष्टत्वाद् इति. यत्रैव सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम्. किम् एकत्रैवास्थां बध्नासीति. स्याद् एतत्. एकस्वभावा हि भावा जात्यादयः. तद् इदं सादृश्यम् अपि तथैव युक्तम्. यदि तावदल्पवृत्तिस्वभावं व्यक्त्योर् एव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योर् एव. अर्धवैशसं त्व् अवस्तुताम् आपादयतीति, अत आह -- क्वचिद् धीति. प्रतीत्यविसंवादाद् उभयोपपत्तिर् इति भावः
SK
ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुः. अतो नित्यं सामान्यम् इति सिद्धान्तहानिर् अत आह -- सामान्यानीति. एतानि तावन्नाशीनि भवन्तु, सामान्यान्तराणि गोत्वादीनि नित्यान्य् एवेति न कश्चिल् लोकविरोध इति
SK
कः पुनस् सामान्यान्तरेषु विशेषः, अत आह -- अनन्तेति. अनन्तो हि गोत्वादीनाम् आश्रयः. तदेकस्य नाशे ऽप्य् आश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति. नित्यसामान्यवादो ऽपि न नस् सार्वत्रिक इत्य् आह -- तेनेति
SK
{३,१४९} अथवावयवसामान्यानाम् अपि नात्यन्तिको नाशो ऽस्तीत्य् आह -- सामान्यस्येति. कारणम् आह -- सर्वस्येति
SK
यद्य् अस्ति तत्रापि सादृश्यधिया भवितव्यम् अत आह -- तेषाम् इति. भूयस् तया तेषां सादृश्यम् अतिरिक्तं भवति, न त्व् एकैकशो न सन्तीति. न केवलं सामान्यम् अनश्वरम् इति देशान्तरादिष्व् आश्रयसद्भावः कल्प्यते. अपि तु प्रत्यक्षे ऽपि क्वचिद् अर्थे तान्य् उपलभ्यन्त एवेत्य् आह -- तानीति
SK
नन्व् अक्ष्यादीनां स्वावयवसामान्यभूम्ना सादृश्यम् उक्तं, तदवयवानां तु कथं सादृश्यं भविष्यत्य् अत आह -- सदृशेति. यथा महावयविनो ये ऽवयवाः स्वावयवसामान्यैस् सदृशा भवन्ति, एवं यत्र नामावयवेष्व् अपि सदृशावयवत्वम् अवगम्यते ते ऽप्य् अवान्तरावयवसामान्यैस् सदृशा भवन्तीति न काश्चद् दोष इति
SK
तावच् चैवं दर्शयितव्यं यावन्निर्भागा भागा इत्य् आह -- एवम् इति. ततः परं परमाणुत्वम् एव केवलं सामान्यम् इत्य् आह -- तत इति
SK
ननु यदि सामान्यानि सादृश्यं गोत्वादौ प्रसङ्गः, तत्त्वाभेदाद् इत्य् अत आह -- प्रधानानाम् इति. अयम् अभिप्रायः -- संविन्निष्ठा हि नो{३,१५०}वस्तुव्यवस्थितयः, अतो यत्सदृशबुद्धिम् उत्पादयति तत्सादृश्यम्. प्रधानावयविनां तु यत्र गोत्वादिसामान्यम् एकं प्रतीयते, तत्र स एवेति प्रतिभासो भवति, न स इवेति. अतः प्रधानसामान्यं न सदृशबुद्धेर् हेतुर् इति न सादृश्यम्. तद्भेदे प्रधानसामान्यभेदे गोगवययोस् सादृश्यबुद्धिर् भवति, न च तयोर् इतरेतरसादृश्यबुद्धिः. अतो यत्र गोत्वादिसामान्यं वर्तते न तत्र सदृशबुद्धिः. यत्र सदृशबुद्धिर् न तत्र तद्वर्तत इति तद्वर्तीन्य् अवयवसामान्यान्य् एव पिण्डितानि सदृशबुद्धेर् हेतुत्वात् सादृश्यम् इति सिद्धम्. एवं च यन्निबन्धनकारेण सादृश्यस्य तत्त्वान्तरत्वे कारणम् उक्तं गोत्वादाव् अपि प्रसङ्ग इति, तत् प्रत्युक्तम् इति
SK
चित्रादाव् अवयवसामान्याभावात् सादृश्यानुपपत्तिर् इति चोदयति -- चित्रादाव् इति. परिहरति -- तत्रापीति. पारिणामिकावयवसमवेतसामान्याभावे ऽपि पृथिव्यंशे शुक्लादयो वर्णविशेषाः परिमाणश् च तैस् सादृश्यम् उपपादितम् इति. किं पुनर् इदं जातिसादृश्यं व्यक्तिसादृश्यं वा. नेदम् उभयम् अपि सम्भवति, उभयाभावात्. न हि चित्रादौ नरत्वादिजातयस् तद्व्यक्तयो वा सम्भवन्ति. स्वभावनिर्मितपाण्याद्यवयवसमवायित्वाद् व्यक्तेः, तत्समवायित्वाच् च जातेः. उच्यते. व्यक्तिर् एवात्र सदृशी. यद्य् अपि चात्र नरत्वं नास्ति, द्रव्यत्वं त्व् अस्तीति तद्व्यक्तिस् सदृशतया प्रतीयते. प्रायेण चाकृतिसादृश्यम् एव तत्रावगम्यते. कुशलस् तु चित्रकारो व्यक्तिसादृश्यम् उन्मीलयतीति
SK
ननु पिण्डितान्य् एवावयवसामान्यानि सादृश्यम्. एवं गुणसामान्यान्य् अपि मिलितानि सादृश्यम् इत्य् उक्तम्. चित्रादौ तु रूपमात्रम् एव समानं न गन्धादयः. अत आह -- रूपेति. रूपादीनां मध्ये कस्यचिद् एकस्यापि{३,१५१}तुल्यतया सादृश्यं भवत्य् एव. उक्तम् असकृत् यथा दर्शनं तदाश्रीयत इति. तद् इह चित्रादौ वर्णसामान्यम् एव. कुसुमादिगन्धविशेषाणां गन्धसामान्यं, क्षीरशर्करादौ रससामान्यं सादृश्यम्. अवश्यं सर्वगुणसामान्यसमवायो नानुसर्तव्य इति
SK
परिहारान्तरम् आह -- पृथिव्यादिष्व् इति. एवं हि सत्कार्यवादिनो वदन्ति -- नात्यन्तम् असत्कर्तुं शक्यं, गगनकुसुमवत्, अतो ऽसतः कार्यत्वं निवृत्तं सत्तां गमयति. अतो नराद्यवयवसामान्यान्य् अपि नात्यन्तम् असन्ति जायन्ते. किन् तु सन्त्य् एव स्वकारणेषु पृथिव्यादिषु भूतेषु परिणामाद् अभिव्यज्यन्ते. सा च तेषां पारिणामिक्यभिव्यक्तिर् यथादर्शनम् एवावधारयितव्या. यथा च तानि पाण्यादिमत्सु देवदत्तादिषु दृश्यन्ते, एवं चित्रादिभागेष्व् इतीति तत्र किम् इति नाभ्युपगम्यन्ते. अतो ऽवयवसामान्यान्य् एव चित्रादाव् अपि सादृश्यम् इति
SK
प्राक्सत्त्वे कारणम् आह -- न हीति. इदं च प्राग् एवोक्तम् इति. यत् तु सादृश्यं भिन्नम् अभिन्नं वेति विकल्प्यावस्तुत्वम् आपादितम्, तत्रोत्तरम् आह -- धर्माणाम् इति. सर्वधर्माणाम् एव जात्यादीनां न धर्मिणो नानात्वम्, अथ चावान्तरस्थितिर् अपि धर्मधर्मिकृतास्त्य् एव. एवं सादृश्ये ऽपि. अतो नानेन तदपलपितुं शक्यते. सर्वत्रानैकान्त एव प्रतीत्य् अविसंवादात् समर्थनीय इति
SK
तद् एवं सादृश्यस्य वस्तुत्वे सिद्धे चक्षुषा सम्बद्धस्य सतोर् द्वयोर् धर्मिणोर् युगपदीक्षमाणस्यैकत्र वा प्रत्यक्षत्वं सिद्धम् इत्य् आह -- वस्तुत्वे इति
SK
{३,१५२} वृत्तिपरिचोदनायाम् उत्तरम् आह -- सामान्यवद् इति. कारणम् आह -- प्रतियोगीति. जात्यादिवदुपपत्तिर् इति
SK
प्रत्येकं कृत्स्नसमवाये चासन्निहिते ऽपि गोत्वे स्मृतिस्थे गवयस्थस्य सन्निहितस्य सादृश्यस्येन्द्रियगोचरता सिद्धेत्य् उपसंहरन्न् आह -- तत्रेति
SK
स्वमतेनेदानीम् उपमानस्य प्रमेयं दर्शयति -- तस्माद् इति. यथा विवक्षं विशेषणविशेष्यभाव इति
SK
ननु गौः स्मर्यते सादृश्यं च प्रत्यक्षेण गम्यत इति न प्रमेयम् उपमानस्य पश्यामः. अत आह -- प्रत्यक्षेणेति
SK
अत्र दृष्टान्तम् आह -- प्रत्यक्षे इति
SK
का पुनर् अत्र व्यभिचारशङ्का, यन्निराकरणार्थं लक्षणप्रणयनम्, अत आह -- यत्र त्व् इति
SK
{३,१५३} आभासेतरविवेके कारणम् आह -- बाधकेति. अत्रोदाहरणम् आह -- यथेति
SK
कथं पुनस् तदाभासत्वम् अत आह -- समीपस्थ इति. बाधकं हि तत्र ज्ञानम् उत्पद्यत इति भावः. नेति प्रत्ययाभावे तु परमार्थसादृश्यम् इत्य् आह -- न बाध्यत इति
SK
सर्वम् एवालोचितानुगमनम् अनुमानम् इति मन्यमाना ये ऽस्यानुमानान्तर्भावम् इच्छन्ति तान् प्रत्याह -- न चेति. पक्षधर्माद्यसम्भवम् एव दर्शयति -- प्राग् इति. धूमादिर् हि प्रमेयस्य पर्वतादेर् धर्मतयानुमानोत्पत्तेः प्रागवगतः पक्षधर्मो भवति. इह च गौः प्रमेयः. न चोपमानोत्पत्तेः प्राक् तद्धर्मतया सादृश्यं गृह्यते. अतस् तावन् न पक्षधर्मः. गवयशृङ्गित्वादीनां तु पक्षधर्मतोपरिष्टान्निराकरिष्यत इति
SK
गवयगतम् अपि सादृश्यम् अपक्षधर्मत्वान् न सादृश्यविशिष्टानां गवाम् अनुमापकम् इत्य् आह -- गवय इति. गोगतं च प्रतिज्ञार्थैकदेशत्वान् लिङ्गम् इत्य् आह -- प्रतिज्ञार्थेति
SK
{३,१५४} गवयो ऽप्य् अपक्षधर्मत्वान् न सादृश्यविशिष्टस्य गोर् लिङ्गम् इत्य् आह -- गवयश् चेति. अन्वयो ऽपि तस्य सादृश्यविशिष्टेन गवा नावश्यं विदितपूर्व इत्य् आह -- सादृश्यम् इति. द्वेधाप्य् उपमानस्य प्रमेयं सादृश्यविशिष्टो वा गौस् तद् वा गोविशिष्टम्, उभयस्यापि गवयान्वयो न दृष्टपूर्व इति
SK
ननु युगपद् उभयं पश्यतां सादृश्यगवययोस् सम्बन्धो ऽवगत एवात आह -- एकस्मिन्न् इति. सत्यम् अवगतं, न तु सर्वेणेत्य् उक्तम् अस्माभिः. यदि चान्वयो ज्ञानाङ्गं स्यात्, एकस्याप्य् अगृहीतान्वयस्य ज्ञानं न स्याद् इति || [४६] ||
SK
यदि तु शृङ्गित्वादेर् गवा सम्बन्धो ऽवगतः, अतस् तद्गवये गृह्यमाणं गवि लिङ्गं भविष्यतीत्य् उच्यते. तन् न. तेषाम् अवयवभूतानां गवयावयविज्ञानव्यापारं प्रत्युपक्षीणत्वाद् इत्य् आशङ्कया सहाह -- शृङ्गित्वादेर् इति
SK
यदि तु गवयज्ञानं प्रत्यनुपक्षीणानि स्वरूपेणैव शृङ्गित्वादीनि लिङ्गम् इष्यन्ते, ततस् तेभ्यः पूर्वावगतसम्बन्धानुसारेण निस्सादृश्यम् एव गोस्मरणं स्याद् इत्य् आह -- यदीति. कथं निस्सादृश्यम् इत्य् अत आह -- न गौर् इति
SK
अयं तु प्रतीतिक्रम इत्य् आह -- सदृशेति. शृङ्गादिप्रत्ययात्{३,१५५}परावर्तिनं सादृश्यप्रत्ययम् अपेक्ष्य गोसादृश्यविशिष्टगवयप्रत्ययाद् एव पुनस् तत्सादृश्यविशिष्टगोज्ञानम् उपजायते, न पुनः शृङ्गादिप्रत्ययमात्राद् इति
SK
ननु शृङ्गादयो ऽपि परस्परसदृशा एवेति कथं तेभ्यो निस्सादृश्या प्रतीतिर् उच्यते. अत आह -- सदृशेति. यदि गवयादीनां सदृशावयवत्वम् अवगम्यते, न तर्हि ते सदृशतया प्रमीयन्ते. किन् त्व् अवयवा एव परस्परं सदृशतया. अतो न सादृश्यविशिष्टगोप्रमितौ शृङ्गित्वादीनां लिङ्गत्वम्. निस्सादृश्यं तु तेभ्यो गोस्मरणमात्रं स्याद् इति. अपि चानुमाने यद् एकदेशतया धूमादिर् अवगम्यते प्रमेयम् अप्य् अग्न्यादि तदेकदेशतयैव. इह तु शृङ्गित्वादयो गवयैकदेशतया प्रमीयन्ते. न च तदेकदेशो गौर् अप्य् अनुमीयत इत्य् आह -- न चेति
SK
यदि तु कश्चिद् वैयात्याद् एवम् एवानुमास्यत इति ब्रूयात्, तं प्रत्याह -- इत्थम् इति. भ्रान्तिर् इयम् अभावविरोधाद् इति. नगरस्थगोज्ञानम् अविशेषितं सादृश्येन स्मृतिर् एवेत्य् आह -- नगरस्थम् इति. विषयतात्स्थ्याद् ज्ञाने ऽपि तात्स्थ्यव्यपदेशः तदधीनत्वात् तस्येति
SK
कः पुनर् उपमानस्य वेदार्थ उपयोगः. यदि प्राकृतानां धर्माणां विकृतौ प्राप्तिर् उच्यते, तन् न. अनुमानाद् एव तत्सिद्धेः. प्राकृतं लिङ्गं धर्मैस् सम्बद्धं किञ्चिद् विकृतौ दृष्टं तेषाम् अनुमापकं भविष्यति. जैमिनेर् अप्य् एतद् एवाभिमतम् इति लक्ष्यते. यद् एवम् आह -- यस्य लिङ्गम् अर्थसंयोगाद् इति. अत्र हि व्यक्तम् एव लैङ्गिकीं धर्मप्राप्तिम् अपदिशति. अत आह -- भिन्नेति.{३,१५६}अयं भावः -- प्रतिबन्धदर्शिनो हि प्रतिबन्धकज्ञानम् अनुमानम्. न चेह सौर्यादिवाक्यानाम् आग्नेयादिविध्यन्तेन प्रतिबन्धो ऽवगतः. न च द्रव्यदेवतयोः. न कर्मणः. अतः कथं तज्ज्ञानम् अनुमानम् इति. प्रमाणान्तराद् एवोपमानात् प्राकृतविध्यन्तप्राप्तिर् अध्यवसातव्या. वैकृतानि हि प्रधानान्य् अश्रुतविध्यन्तानि न तम् अन्तरेण पर्यवस्यन्ति. यत् किञ्चिद् विध्यन्तापेक्षां द्रव्यदेवतादिसादृश्यदर्शनोत्थापितोपमानपर्यवस्थापिताग्नेयविध्यन्तानि इतिकर्तव्यताम् आपाद्य कृतार्थानि भवन्ति. यथेहैव तावत् सौर्याग्नेययोर् एकदेवतात्वेन तद्धितदेवतानिर्देशेनौषधद्रव्यकतया च सादृश्याद् उपमानेनाग्नेयधर्मास् सौर्य उन्नीयन्ते. अयं चावयवार्थः -- इयम् उपमा(नुमा)नाद् भिन्नोक्ता अग्न्यादियुतम् इतिकर्तव्यताजातं सादृश्यमात्रात् कथं नु प्रत्याययोदित्य् एवम् उपयुज्यते. इतरथा सौर्यादिवाक्यैस् सह तस्यादर्शनान् नानुमानं सम्भवतीत्य् अप्राप्तिर् एव स्यात्. अग्न्यादियुतम् इति. अग्न्यादिना देवतयाग्नेयादिकर्म लक्षयति. आग्नेयादिना कर्मणा युक्तम् इतिकर्तव्यतामात्रम् इत्य् उक्तं भवतीति
SK
प्रयोजनान्तरम् आह -- प्रतिनिधिर् अपीति. दर्शपूर्णमासयोः प्रक्रान्तयोर् व्रीह्यपचारे यत् तत्सदृशा नीवाराः प्रतिनिधीयन्ते, तद् अप्य् उपमानस्य फलम् इति. इदम् अपरं प्रयोजनम् इत्य् आह -- प्रतिकृतिर् इति युक्तम् अन्तेन. मुख्यापचारे गौणे शास्त्रार्थ आश्रयितव्ये यत्रातिगौणैर् जघन्यैर् द्वित्रादिसामान्यैः प्रतिकृतिः सादृश्यं बोध्यते, तत्र सुसदृशलाभे यन्मन्दसदृशं, मिथ्या भवति, तद् अप्य् उपमानस्य फलम् इति. कथं पुनर्मन्दसदृशं मिथ्या,{३,१५७}सुसदृशलाभे ऽपि ह्य् अल्पया मात्रया तत्सदृशम् अवगम्यत एव. अतो ऽस्तु तत्राल्पं नामावयवसामान्यम् अत आह -- मतिर् इति. न केवलं वस्तुतस् तयोस् सुसदृशाल्पसदृशयोः (?स्त्रीव/तीव्र)मन्द्रत्वमतिर् (?अपीति/अपि तु) तथैव -- मुख्यरूषेणैव सुसदृशे द्राक् शीघ्रम् उत्पद्यते. इवशब्दो ऽलङ्कारे. अतो मन्दसदृशस्य मात्रया सादृश्यबोधे ऽप्य् अनुपादानलक्षणो बोधो भविष्यतीत्य् अस्ति हानोपादानयोर् उपमानोपयोगः || ५३ -- ५४ ||
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
SK
उपमानपरिच्छेहः समाप्तः |
SK
००८ अर्थापत्तिपरिच्छेद
SK
अथार्थापत्तिपरिच्छेदः
SK
अत्र भाष्यम्. अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना. यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति. अस्यार्थः -- अर्थापत्तिर् अपि न परीक्षितव्या, एवंलक्षणकत्वेनाव्यभिचाराद् इति. किं पुनर् अनेनार्थापत्तेर् लक्षणम् उक्तम्. अर्थो ऽन्यथानुपपद्यमानो यदर्थान्तरं कल्पयति सार्थापत्तिः. यथा जीवतो देवदत्तस्य गृहाभावो बहिर्भावेन विना नोपपद्यमानो यद् बहिर्भावं कल्पयति सार्थापत्तिर् इत्य् उक्तम्.
SK
यद्य् एवं केयम् अन्यथानुपपत्तिर् नाम. यदि तावद् अनेन विनास्य सद्भावो नोपपद्यत इति, तद् इदं कार्यतः कारणानुमानम् उपन्यस्तं, न प्रमाणान्तरम्. अथ ज्ञातसम्बन्धस्यानुमानम्, अर्थापत्तौ न सम्बन्धज्ञानम् अपेक्षत इत्य् उच्यते, तद् अयुक्तम्. न ह्य् अज्ञाते सम्बन्धे ऽनेन विना नोपपद्यत इति शक्यते वक्तुम्.{३,१५८}यद् एव ह्य् अस्येदं कार्यम् इत्यादिना रूपेण ज्ञातसम्बन्धनियमः, तद् एव स्वकारणेन विना नोपपद्यत इति शक्यम् अवसातुम्, धूम इवाग्निना विना. अतो ऽविनाभावसम्बन्धबलोत्थम् एवेदं ज्ञानम् इति शब्दान्तरेणोक्तम्. स्याद् एतत्. दृष्टस्वलक्षणविषयम् अनुमानम् अग्न्यादिषु दृष्टम्, अदृष्टस्वलक्षणविषयार्थापत्तिश् शक्त्यादिषूपजायत इति. तन् न. दृष्टम् अदृष्टं वा ज्ञातसम्बन्धम् अवगम्यते ऽन्यथानुपपत्त्या, कार्यसामान्यं हि कारणसामान्येन विनानुपपद्यमानं यत् तत् कल्पयति तद् अपि सम्बन्धज्ञानेन जायमानं कथम् अनुमानाद् भिद्यते. अदृष्टस्वलक्षणविषयता चानुमानस्य क्रियानुमाने वर्णितैव. अतः प्रमाणान्तरमृगतृष्णिकैवेयम्. सत्यम्, यदि यद् येन विना नोपपद्यते तद् तद्गमकं स्यात्. इह तु यन् नोपपद्यते तद् एव गम्यम्. किम् इदानीं बहिर्भावो गृहामावेन विना नोपपद्यते. बाढम्. न हि गृहे ऽपि भवन् देवदत्तो बहिर् अपि भवति, तद् अस्य बहिर्भावो गृहाभावदर्शनेनैवोपपद्यते. ननु भाष्यकारो दृष्टः श्रुतो वेत्यादि वदन् गमकस्यान्यथानुपपद्यमानतां दर्शयति. न गम्यस्य. अग्रन्थज्ञो देवानां प्रियः. दृष्टः श्रुतो वार्थो ऽर्थकल्पनेति हि सम्बन्धः. किम् उक्तं भवति, अर्थान्तरस्य प्रमाणम् इति. अन्यथा नोपपद्यत इति तर्हि केन सम्बध्यते, प्रमित्येति वदामः. अन्यथानुपपद्यमानताम् आपादयन्नर्थान्तरस्य गमक इति. कस्यार्थान्तरस्य. यदि बहिर्भावस्य, नास्यानुपपत्तिं गृहाभाव आपादयति, न हि गृहाभावदर्शिनो बहिर्भावो नोपपद्यत इति बुध्यन्ते लौकिकाः, किन् तु चैत्रो बहिर् अस्तीति. अपि च गम्यविशेषणम् अन्यथानुपपत्तिम् आचक्षाणैर् गमकस्य किम् अन्यथानुपपत्तिर् नेष्यत एव यद्य् एवं कथं ततो बहिर्भावसिद्धिः. अथ सो ऽपि नोपपद्यते, ततो ऽविनाभावबलेनैव ज्ञानम् इति पुनरनुमानत्वम्. किम् अर्थं चान्यथा नोपपद्यत इति गमकपरित्यागेनाश्रूयमाणया प्रतीत्या योज्यते.
SK
अथोच्यते -- अर्थान्तरस्य चैत्रसम्बन्धिनो विद्यमानत्वस्यान्यथानुपपत्तिम् आपादयन् गृहाभावो बहिर्भावं कल्पयतीति. संशयापादनं चान्यथानुपपद्यमानत्वापादनं, येन हि प्रायेण गृहे निवसंश् चैत्रो दृष्टः स गृहाभावदर्शनेनैव चैत्रस्य सद्भाव एव संशेते. प्रतीते ऽपि हि वस्तुनि{३,१५९}पूर्वप्रतिपन्नरूपान्तराभावावगमस् संशयम् आपादयति. देवदत्तस्य विद्यमानता गृहसम्बन्धावगतेति तदभावदर्शनाद् भवति विद्यमानत्वे संशयः -- किम् अस्ति चैत्रो न वेति. अयं च संशयो ऽनुपपत्तिर् इत्य् आख्यायते. ताम् इमां विद्यमानत्वस्य संशयरूपाम् अनुपपत्तिम् आपादयन् गृहाभावो बहिर्भावकल्पनया संशयम् उत्सारयंश् चैत्रस्य विद्यमानत्वम् उपपादयति. तद् इह गृहाभावो विद्यमानत्वस्यार्थान्तरस्य संशयापादनद्वारेण बहिर्भावेनानवगतसम्बन्धो ऽपि तं गमयति. विद्यमानत्वम् एव वा गृहाभावापादितानुपपत्तिकं स्वोपपादनाय बहिर्भावं कल्पयतीति द्वेधा दर्शनम्. अत एव चानुमानाद् भेदः. न ह्य् अनुमाने धूमादिः कस्याचित् संशयरूपाम् अनुपपत्तिम् आपादयंस् तदापादितानुपपत्तिकं वा किञ्चिद् अग्न्यादिकं गमयति. किन् तु असन्दिग्धाद् एव धूमाद् अग्निर् अनुमीयते. यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्. तथेह सन्दिग्धम् इति दर्शनबलाद् अभ्युपगन्तव्यम्.
SK
तद् एतद् असाम्प्रतम्. तथा हि -- यत् तावद् उक्तं गृहाभावस् संशयम् आपादयतीति. तद् अयुक्तम्. कथं हि तेन विद्यमानत्वे संशय आपाद्यते. गृहे चैत्रो दृष्टः कथम् इह न भवतीति चेद्, न तावद् एवं सर्वे प्रतियन्ति, येनापि हि स तत्र दृष्टः, सो ऽपि तं जीवन्तं तत्रासन्तम् अवगम्य सहसा बहिर्भावं कल्पयतीति. अपि च -- यदि वस्तुधर्मविसंवादात् सन्देहः, न तर्हि बहिर्भावकल्पनायां निमित्तं पश्यामः. यथा हि मृतजनिष्यमाणयोः गृहाभावो न बहिर्भावं सूचयति, एवं सन्दिग्धसद्भावस्यापि. यावद् धि चैत्रस्य विद्यमानता न निश्चीयते, न तावद् गृहाभावमात्रदर्शनेन बहिश् चैत्रो ऽवस्थापयितुं शक्यते. संशयनिराकरणार्थम् अपि चात्र प्रमाणान्तरम् अर्थनीयम्. न बहिर्भावः. निराकृते तु संशये निश्चितसद्भावो गृहाभावदर्शनेन बहिर् अस्तीति गम्यते. अथ निश्चितसद्भावस्यैव स्थितिप्रकारे सन्देहः कथम् अस्तीति. स तर्हि चैत्रम् अपश्यतो ऽपि भवतीति किं गृहाभावदर्शनेन. न चासौ बहिर्भावकल्पनाबीजम्. अतो बहिर्भावकल्पनाप्रत्यनीकम् एव संशयापादनं, यत् तत्सिद्धये द्वारम् आश्रितम्. साधु सम्पादितम्. अतो न विद्मः कीदृशो लक्षणार्थ इति.
SK
{३,१६०} अत आह -- प्रमाणेति. अन्यथा नोपपद्यत इत्य् अन्यथानुपपद्यमानताम् आपादयन् गमयतीति व्याचक्ष्महे. अपि तर्हि दृष्टश्रुतविशेषणम् एवेदम्. य एव कश्चित् प्रमाणषट्कविज्ञातो ऽर्थो ऽन्यथानुपपद्यमानतया गृहीतः, स एव स्वोपपादनायान्यम् अर्थं कल्पयति तद्विषया कल्पनाबुद्धिर् अर्थापत्तिर् इति. नन्व् एवम् अविनाभावबलोत्था बुद्धिर् अनुमानम् इत्य् आपादितम्. मैवम्. न ह्य् अन्यथा नोपपद्यत इत्य् अविनाभावम् आचष्टे. स ह्य् अनेन विना न भवतीत्य् उक्ते गम्यते. किं नामानेनोच्यते, दृष्टः श्रुतः कल्पनाम् अन्तरेण नोपपद्यत इति. का पुनर् अस्यानुपपत्तिः, न हि दृष्टे ऽनुपपन्नं नाम. दृष्टम् अपि प्रमाणान्तरविरोधाद् यत् प्रतिहन्यते सानुपपत्तिः. दृष्टो हि गृहे चैत्राभावो ऽभावेन. आनुमानिकी च तस्य जीवतः क्वचित् सत्ता. सानिर्धारितदेशविशेषतया गृहम् अपि व्याप्नोति. सो ऽयम् अभावानुमानयोर् विरोधो ऽनुपपत्तिर् आख्यायते. संशयो ऽपि चात्र प्रमाणान्तरविप्रतिपत्तिर् एवानवस्थितोभयभानवस्तुलक्षणः. अथवायम् अनध्यवसाय एवैकस्मिन् बुद्धिम् उपसंहर्तुं युक्तिविशेषाद् अशक्नुवतः. अतो नेहान्यतरद् उपादातुं हातुं वा शक्यं प्रमाणत्वाविशेषात्. तद् इह सङ्कटे प्रामाणिको ऽनुमानस्य विषयं कल्पयति -- बहिर् अस्तीति, न हिंस्याद् इति सामान्यशास्त्रस्येव विहितवर्जितां हिंसाम्. एवं चोभयम् उपपादितं भवति अभावो ऽनुमानं चेति. सर्वत्र चैवम् एव दर्शयितव्यम्. त्रैरूप्यरहितत्वं चास्या उत्तरत्र वक्ष्यामः.
SK
अत्र च दृष्ट इत्य् उच्यते, तत्र न विद्मः, किम् इह चक्षुर्मात्रेण दृष्टो ऽभिप्रेतः, उत प्रत्यक्षमात्रदृष्टः. पूर्वस्मिन् पक्षे श्रोत्रादिपूर्विकार्थापत्तिर् न स्यात्, उत्तरस्मिन्न् अनुमानादिपूर्विका. अथ प्रमितमात्रपरिग्रहार्थो दृष्टशब्दः, श्रुतो वेति तर्हि किं भेदेनोपादीयते, शब्दावगतम् अपि हि प्रमितम् एव. अथोच्यते नेदम् अर्थान्तरविवक्षया श्रुतग्रहणम्, किन् तर्हि, अभिधानान्तरम् एवेदम् उपलब्धेर् वाचकम्. उपलब्धिमात्रविवक्षया{३,१६१}हि दृष्टश्रुतशब्दम् उपचरन्तो लौकिका दृश्यन्ते. न दृष्टो न श्रुतः कश्चित् स्वयं दत्तापहारक इति. यथा एतद् एवाभिप्रेत्य टीकाकारेणोक्तं दृष्टः श्रुतो वेति लौकिकम् अभिधानम् इति. शाब्दीम् उपलब्धिं प्रमाणान्तरेभ्यो भेदेन लौकिका उपाददाना दृश्यन्त इत्य् उक्तं भवति. इदम् अपि नोपपन्नम्. कथं हि लक्षणग्रन्थे सुनिपुणो भाष्यकारो ऽभिप्रायान्तरम् अन्तरेण श्रुतपदं प्रयुङ्क्त इत्य् उत्प्रेक्षितुम् अपि शक्यम् इति वाच्यम् उभयोपादानप्रयोजनम् अत आह -- दृष्ट इति. सत्यम्. पञ्चभिर् अपि प्रत्यक्षादिभिर् दृष्टो दृष्टो भवति. उपलब्धिपर्याय एव दृष्टशब्द इति यावत्. तथाप्य् अस्माद् दृष्टाद् भेदेन यच्छ्रुतोद्भवार्थापत्तिर् उपादीयते, तद् अस्याः प्रमाणग्राहितया पूर्वस्या दृष्टार्थापत्तेर् वैलक्षण्यं दर्शयितुम्. तच् चोपरिष्टाद् वक्ष्यते. प्रथमार्थापत्त्यपेक्षया च पञ्चभिर् इत्य् उक्तम् इति प्रमाणषट्कपूर्विकार्थापत्त्युदाहरणावसरे
SK
इदानीं प्रत्यक्षपूर्विकाम् एव तावन्मुख्यतयोदाहरति -- तत्रेति वह्नेरन्तेन. का पुनर् इयं शक्तिः. नेयम् अतीन्द्रियेदन्तया निर्देष्टुं शक्यते. ननु यद्भावाभावनिबन्धनौ कार्यभावाभावौ इयं शक्तिः, ईदृशी च प्रत्यक्षवेद्यैव. तथा हि -- वह्निसंयोगानन्तरं दाहो दृश्यते असति च न दृश्यत इति तत्संयोग एव शक्तिर् इति गीयते, न तत्त्वान्तरम्. स च प्रत्यक्ष इति किम् अर्थापत्त्या. न. व्यभिचारात्. यथा खलु स्वरूपमात्रम् अग्नेर् व्यभिचरति, एवं संयोगो ऽपि. भवति हि कदाचिद् औषधादिसन्निकर्षे संयुज्यते वग्निर् अथ च न दहतीति. तद् इहार्थापत्त्या तत्त्वान्तरं शक्तिरूपं कल्प्यते. कयानुपपत्त्या, प्रमाणान्तरविरोधेन. तथा हि -- प्रत्यक्षेण दाहो ऽवस्थाप्यते. हेत्वभावेन च प्रतिक्षिप्यते. स हि कार्याभावेन विदितप्रतिबन्धस् तं गमयति. तथा हि -- न स्वरूपम् अग्नेः कारणम्, न तत्संयोगो व्यभिचारात्, नान्यत् किञ्चित्. न चाकस्माद् एव भवतीति साम्प्रतम्. एवं हि कदाचिन् न स्यात्, अपेक्षा हि कदाचिद् भावे निबन्धनम्, अनपेक्षं तु नित्यं सदसद् वा भवेत्. अतः कार्यदर्शनादर्शनबलाद् अग्नेः स्वरूपाद् व्यतिरिक्तं किञ्चिद् रूपम् उन्नीयते,{३,१६२}यद्भावाभावनिबन्धनौ कार्यभावाभावाव् इति. स्वरूपमात्रायत्ते तु कार्यभावे तदभेदात् सदापत्तिर् इति. स्वरूपमात्रम् अप्रतिबन्धम् अग्नेर् दाहस्य कारणम् औषधादीनां तु प्रतिबन्धृतेति चेत्, कः प्रतिबन्धार्थः. स्वरूपं तावदविनष्टम्. तद् एव प्रत्यभिजानीमः. न हि बीजस्योपरि त(?ना/दा)नीते प्रदीपे किञ्चिद् रूपापचयम् उपलभामहे. न च तेनाङ्कुरो जन्यते. अथ वस्त्वन्तरसन्निधौ सामग्र्यन्तरम् एव जातम्, अतः पूर्वसामग्रीकार्यं नोत्पद्यत इति चेन् नैवम्. न हि मन्त्रादिसन्निकर्षे पूर्वसामग्रीनाशो दृश्यते. न च तत् कार्यम् उपलभ्यते. अथ मन्त्रादिरहितम् एव कारणं कार्यस्य जनकम्. न तु तत्र तेन किञ्चित् क्रियत इत्य् उच्यते. तन् न. न ह्य् अकिञ्चित्करस्य सन्निधिः कार्यं प्रतिबध्नाति. अन्यद् अपि हि तत्रोदासीनं सन्निहितं भवति. न च कार्यं न जायते. न च मन्त्रादिसन्निधाव् अर्थान्तरम् एव जातं पूर्वकारणनाशेनेति मतिर् आविरस्ति. सकला हि सामग्री प्रत्यभिज्ञायते. अस्ति च तत्र कारणम् इत्य् उक्तम्. न च मन्त्रादिप्रागभाव एव वा तद्विशिष्टा वा सामग्री जनिकेति युक्तम्. अभावस्य भावान्तरसिद्धौ व्यापारादर्शनात्. विहिताकरणे ऽपि तत्काले ऽन्यक्रिया प्रत्यवायहेतुर् ना(?का/क)रणम्. यदाह --
SK
स्वकाले यद् अकुर्वस् तु करोत्य् अन्यद् अचेतनः |
SK
प्रत्यवायो ऽस्य तेनैव नाभावेन स जन्यते ||
SK
इति. यदि तु --
SK
कर्मणः प्रागभावश् च विहिताकरणेषु यः |
SK
स चानर्थकरत्वेन वस्तुत्वान् नापनीयते ||
SK
इति दर्शनात् मन्त्रादिप्रागभावः कारणम् इष्यते. तथापि परस्तात् कार्यदर्शनं नोपपद्यत इति. मन्त्रादिप्रध्वंसो ऽपि कारणम् इति चेत्, स तर्हि प्राङ् नासीद् इति प्राङ्मन्त्रादिप्रयोगात् कार्यं न जायेत. न हि क्षितिजलबीजानाम् अन्यतमापाये ऽप्य् अङ्कुरो जायमानो दृश्यते. अपि च सत्य् एव प्राच्यमन्त्रादिसन्निधाने तद्विपरीतमन्त्राद्यागमे कार्यभावम् ईक्षमाणा न तदभावस्य कारणभावम् अवस्थापयामः. न हि विहिताकरणकारणकः प्रत्यवायः सत्य् अपि विहितकरणे दृष्टः. भवति चात्र प्रयोगः -- यद्यदभावकारणकं तत्तद्भावे न भवति विहिताभावभाव्य इव प्रत्यवायो{३,१६३}विहितभावेन. न चैवं मन्त्रादिभावे कार्यम् इति. एवं चाकिञ्चित्करो मन्त्रादिभावो न कदाचित् कार्यं प्रतिबध्नीयात्. अतः कारणशक्तेर् एव प्रतिबन्धको मन्त्रः, न तदभावः कारणम्. बलवत्तरोपनिपातापहृतशक्तिस् तु सो ऽपि न किञ्चित् प्रतिबध्नाति. न च यद् बलवद्रुद्धम् आत्मानं नैव विन्दति, अविरोधे ऽपि तेनात्मा न लब्धव्यः. कदाचन माभूत् श्रौतपरिपन्थिविनियोगाभावे ऽपि लैङ्गिकविनियोगाभाव इति. अतो ऽस्ति कश्चिद् अतिशयः कारणानाम्, यन्नाशतिरोधानाभ्यां कार्यं नारभन्त इति सिद्धं प्रत्यक्षावगताद् दाहाद् दहनशक्तिकल्पनम्. अनुमेयत्वं तु शक्तेर् उपरिष्टान्निराकरिष्यत इति. अनुमानपूर्विकार्थापत्तिम् उदाहरति अनुमिताद् इति. देशान्तरप्राप्त्या सूर्ये यानम् अनुमीयते, ततो ऽर्थापत्त्या तच्छक्तिः. अत्रापि प्रमाणान्तरविरोध एवानुपपत्तिः. गमनं हि प्राणिनां विशिष्टपदादिसाधनकम् अवगतम्. अयं चानुमिततद्विधर्मगमनसाधनो ऽपि तथैव न गन्तुम् अर्हतीति वितर्कः. सो ऽयं शक्तिकल्पनया निवार्यते. अस्ति नाम सा काचिद् अस्य शक्तिः, यया गन्त्रन्तरविधर्मगमनो विपातनिपातयोस् समम् उपसर्पतीति
SK
श्रुतार्थापत्तिस् तु भिन्नविषया दृष्टार्थापत्तिभ्यो विविच्य पश्चाद् एवाभिधास्यत इत्य् आह -- श्रुतेति. उपमानपूर्विकां दर्शयति -- गवयेति. गवयसदृशो गौर् इत्य् उपमिते सदृशज्ञानग्राह्यशक्तिर् अर्थापत्त्या कल्प्यते. ईदृशी च तत्रानुपपत्तिर् भवति -- कथं गवि सुसदृशज्ञानं जन्यते, यदि हि जनयेत् प्रथमदर्शने ऽपि किं न जनयेत्, सन्ति हि तदापि गवि गवयावयवसामान्यानि, तद् एवं जातम् अपि गव्युपमानम् अनुपत्त्यावसीदति. शक्तिकल्पनयोपपाद्यते. अस्तिनाम को ऽपि गोर् अतिशयो यः प्रतियोगिदर्शनप्रतिलब्धाभिव्यक्तिर् गवयसदृशीं धियम् उपजनयति. यच् चेदं समाने पशुत्वे गौर् एव गवयसदृश इत्य् उपमीयते तद् अपि तस्य शक्तिविशेषाभ्युपगमाद् विना नोपपद्यत इति
SK
अर्थापत्तिपूर्विकाम् उदाहरति -- अभिधानेति. शब्दाद् अनन्तरम् अर्थप्रतिपत्तिं दृष्ट्वा तस्य तत्कारणत्वम् अवसीयते. न च व्यापारम् अन्तरेण{३,१६४}कारणत्वम् उपपद्यत इति शब्दसमवायी व्यापारो ऽनुमीयते. स चाभिधेति प्रसिद्धम्. तत्सिद्ध्यर्थं च शब्दे वाचकसामर्थ्यम् अर्थापत्त्या प्रमीयते. अभिधायकत्वे ह्य् अनुमिते भवत्य् अनुपपत्तिः, नायम् अस्याभिधायकः. प्राग् इव सम्बन्धज्ञानाद् गृहीतसम्बन्धः प्रत्यायक इति चेद् न. तदभावात्. न ह्य् अस्यार्थेन संयोगादीनाम् अन्यतमस् सम्बन्धो दृश्यते. तद् अस्यानुपपत्तौ शक्तिकल्पनोपपादिका भवति. अस्ति खल्व् अनयोर् वाच्यवाचकशक्तिरूपस् सम्बन्धः. यदग्रहान् नार्थो ऽवगम्यत इति. एवं च शक्तिकल्पनोत्तरकालं शक्तेर् अपि नित्यत्वम् अन्तरेणानुपपत्तेर् अर्थापत्त्यन्तरेण शब्दस्य नित्यता प्रतीयत इति
SK
एतद् एव विवृणोति -- अभिधेति सार्धेन. एतच् च स्वयं जैमिनिनैव शब्दाधिकरणे ऽभिधास्यत इत्य् आह -- दर्शनस्येति || ६ -- ७ ||
SK
अभावपूर्विका तु भाष्यकारेण स्वयम् उदाहृतेति न पृथगुदाह्रियत इत्य् आह -- प्रमाणाभावेति सार्धेन. अस्यार्थः -- यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति भाष्ये य. चैत्रस्य बहिर्भावसिद्धिर् दर्शिता ताम् एव प्रकृताभ्यो ऽन्याम् अभावपूर्विकाम् अर्थापत्तिं भाष्यकार उदाहरत् उदाहृतवान् इति. प्रपञ्चस् त्व् अर्थापत्त्युदाहरणानां पक्षदोषाभिधानावसरे ज्ञात्रादिनास्तितायाम् इत्यादिनानुमाने वर्णित इत्य् आह -- पक्षदोषेष्व् इति || ८ -- ९ ||
SK
{३,१६५} इदानीम् अर्थापत्तेर् अनुमानाद् भेदे वेदितव्ये भाष्योक्तत्वाद् अभावपूर्विकाया एव भेदं तावद् आह -- अभावेति. येयम् अभावप्रमाणेन गृहे नास्तीत्य् अनेन रूपेणावगताच् चैत्राद् बहिर्भावसूचनात्मिकार्थापत्तिः सापि पक्षधर्मादीनाम् अनङ्गत्वाच् छब्दवदुपमानवदनुमानाद् भिद्यत इति
SK
पक्षधर्माद्यनङ्गत्वम् एव दर्शयति -- बहिर्देशेति. इह हि बहिर्देशविशिष्टश् चैत्रः पक्षस् तद्विशिष्टो वा बहिर्देशः. न चोभयस्यापि गृहगतो ऽभावो धर्म इत्य् (अस्य) पक्षधर्मत्वं कथम्, न कथञ्चिद् इत्य् अर्थः
SK
नाभावमात्रम् अविशेषितं चैत्रस्य बहिर्भावे लिङ्गम्. न चास्य गृहं विशेषणं भवति, परतन्त्रं हि विशेषणम्, यथा नीलिमोत्पलद्रव्यस्य. एवम् इहापि द्रव्यभूतं गृहम् एव तत्परतन्त्रेणाभावेन विशेष्यत इति युक्तम्, व्यापकत्वाच् चाभावो गृहस्य विशेषणम्, शक्यते हि तेन चैत्राधिष्ठितैकदेशव्यतिरिक्तजगद्व्यापिना गृहं व्याप्तुम्. अल्पं तु गृहं न महाविषयम् अभावं व्याप्तुं शक्नोति. अतो यथा व्याप्यस्य धूमस्याग्निविशिष्टत्वम् अवगम्यते, अनेनापि प्रकारेण गृहम् एवाभावविशिष्टं बहिर्भावस्य लिङ्गम् इत्य् आपतति. तच् च तदभावविशिष्टगृहं न कथञ्चिच् चैत्रबहिर्देशाभ्यां सम्बध्यते. अभावस्य तावत् कथञ्चिद् अस्ति चैत्रान्वयः. चैत्राभाव इति हि स प्रतीयते. गृहं तु न कथञ्चिच् चैत्रसम्बद्धम् अवगम्यते इत्य् अपक्षधर्म इत्य् आह -- तदभावेति. इतश् च गृहाभावो न पक्षधर्म इत्य् आह -- गृहाभावेति. गृहीते हि पक्षे तद्धर्मप्रत्ययो भवति. न च चैत्रबहिर्देशौ गृहे ऽसत्तया गम्येते इति
SK
{३,१६६} गृहम् एव तु तत्र प्रत्यक्षावगतम् इति तद्धर्मप्रतीतिर् एवाभावे भवतीत्य् आह -- गम्यते तु गृहम् इति. न हि तत्र गृह एव चैत्रो ऽनुमीयते, अभावविरोधाद् इत्य् अभिप्रायेणाह -- तत्रेति. अदर्शनं हि चैत्रसम्बद्धम् अवगतम् इति तल्लिङ्गं भविष्यतीत्य् अत आह -- न चात्रेति. न च दर्शनाभावो बहिर्भावे लिङ्गम्, एतदभावे ऽभिधास्यत इति
SK
अतो गृहे ऽदर्शनम् अपि न हेतुर् इत्य् आह -- तेनेति. किञ् च गृहाभावावधारणोपक्षीणे ऽदर्शने बहिर्भावमतिर् भवति, कथम् असौ तद्धेतुका भवियिष्यतीत्य् अभिप्रायेणाह -- अदर्शनाद् इति. अभिप्रायं विवृणोति -- नासाव् इति. अदर्शनावधारितस्य चैत्रभावस्यैवान्यत्रानुपयुक्तस्य हेतुत्वं सम्भवति. तच्चापक्षधर्मतया निराकृतम् इत्य् आह -- चैत्राभावस्येति || १४ -- १५ ||
SK
एवं तावत् पक्षधर्मता निराकृता पक्षो ऽप्य् अत्रानुमानात् पूर्वं नोपलक्ष्यत इत्य् आह -- पूर्वं न चेति
SK
{३,१६७} अत्र चोदयति -- नदीति. अत्र ह्य् अप्रतिपन्न एवोपरिदेशे पक्षे ऽतद्धर्मः पूरो लिङ्गं तद्वद् इहापि भविष्यतीति
SK
परिहरति -- वृष्टिमद् इति. एवं त्व् अनुमीयमाने लोकविरोधः. न ह्य् एवं लौकिका बुध्यन्ते. अत आह -- यद् वेति. दृष्टस्य नदीपूरस्य कारणाभावानुपपत्त्योपरिष्टाद् वृष्टिः कल्प्यते. इदम् अपि चान्वारूढेनोक्तम्, परमार्थेन तु व्याप्तिबलोत्थम् इदम् अनुमानम् एव. न चापक्षधर्मतादोषः. उपरिदेशस्य पूरसम्बद्धदेशसम्बन्धात्, असम्बद्धो हि न हेतुर् भविष्यतीति
SK
इतश् च गृहाभावो न बहिर्भावे लिङ्गम् इत्य् आह -- जीवतश् चेति. निश्चितरूपं हि लिङ्गम् अनुमाने गमकम्. इह च यो ऽयं जीवतो गृहाभावः स प्रमाणान्तरविरोधान् निश्चेतुम् एव न शक्यते. एवं हि तत्र भवति वितर्कः. जीवता हि क्वचिद् भवितव्यम्, कथम् इह न स्यात्. एवं चानध्यवसायाद् अप्रतिष्ठितो गृहाभावो ऽसिद्धत्वाद् अलिङ्गम्. सिद्धिस् तु नानन्तर्भाव्य बहिर्भावम् अस्य भवति, तदन्तर्भावे च परस्तात् प्रमेयाभाव इति भावः
SK
अनुमाने त्व् अनपेक्षितप्रमेयम् एव धूमादिलिङ्गस्य स्वरूपं सिद्धम् अवगम्यत इत्य् आह -- अग्निमत्तेति
SK
यदि त्व् इहापि हेतोर् अनपेक्षत्वसिद्ध्यर्थं गृहाभावमात्रम् अविशेषितं जीवनेन हेतुर् इष्यते ततो नैकान्तिक इत्य् आह -- गेहेति
SK
{३,१६८} कथं च विद्यमानत्वविशिष्टो गृहाभावो बहिर्भावं साधयति कथं च शुद्धो नेत्य् उभयत्र कारणम् आह -- विद्यमानत्वेति द्वयेन. विद्यमानत्वविशेषणविशिष्टगृहाभावबुद्धौ हि यावद् विद्यमानत्वस्य विषयो नावस्थाप्यते तावदभावः प्रत्येतुम् एव न शक्यते, तद् यदा भावप्रतिपक्षेणाभावेन गृहम् अवरुद्धं तदा तत्र तावच् चैत्रस्य भावो भवितुं न प्रभवतीत्य् आश्रयापेक्षया पारिशेष्याद् बहिर् एव भवतीति. शुद्धाभावप्रतीतौ त्व् आश्रयापेक्षैव नास्तीति किं बहिर्भावकल्पनयेति || २२ -- २३ ||
SK
ननु च निश्चितसद्भावस्य चैत्रस्य गृहाभावो बहिर्भावम् अन्तर्भाव्य सिद्ध्येत्. सन्दिग्धसद्भावस्य त्व् अनपेक्षितबहिर्भाव एव तं गमयिष्यतीत्य् अत आह -- सिद्ध इति. यदि चैत्रसद्भावे सन्देहः, न तर्हि तद्बहिर्भावावगतिः प्रसिध्येत्. असन्दिग्ध एव तु सद्भावविज्ञाने ऽभावेन गेहाद् उत्कालिता -- उत्सारिता तत्सत्ता बहिर्भवति नियमेन, इतरथा तत्रापि सन्देह एव भवेत्. एतेन गृहाभावापादितसन्देहं विद्यमानत्वम् एव बहिर्भावं कल्पयतीति यैर् उक्तं तन्निराकृतम् इति वेदितव्यम्. इदं च प्रायेवोक्तम् अस्माभिर् इति
SK
अतः सिद्धं जीवननिरपेक्षस्याभावस्य व्यभिचारः अव्यभिचारिणश् च प्रमेयानुप्रवेशद्वारणैव समर्थनम् इति धूमाद् इवैलक्षण्यान् न लिङ्गत्वम् इत्य् आह -- तेनेति
SK
{३,१६९} एवम् अनुमानाद् भेदं प्रसाधितुम् उपसंहरति -- तस्माद् इति. अनुमानाद् बहिर्भूतम् इदं प्रमाणं स्थितम् इति
SK
तद् एवं गृहाभावस्य प्रमेयानुप्रवेशनसिद्धौ यदि तल्लिङ्गम् इष्यते ततो दुरुत्तरम् इतरेतराश्रयत्वम् आपद्यत इत्य् आह -- पक्षेति द्वयेन || २७ -- २८ ||
SK
नन्व् एवम् अर्थापत्ताव् अपि प्रमेयानुप्रवेशिता, कथं हि प्रमाणान्तरापादितानुपपत्तिर् अनवस्थितो गृहाभावो बहिर्भावं गमयिष्यत्य् अत आह -- अन्यथेति. द्वेधा ह्य् अनुपपन्नम् -- किञ्चिद् अनुपपन्नम् एव यन् न कथञ्चिद् उपपादयितुं शक्यम्, किञ्चिच् चासति कल्पने ऽनुपपन्नम्. तत्र यद् एकान्तम् अनुपपन्नं तदुपेक्ष्यत एव. यत् तु कल्पिते कस्मिंश्चिद् उपपद्यते अन्यथा नोपपद्यते तदुपपत्तिर् अन्यकल्पनयावसीयते. एवम् एव हि सर्वलौकिकपरीक्षका बुध्यन्ते. न च विपर्ययो देशान्तरादिषु दृष्टः. अतः प्रमाणम् एवेदम्. यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवम् इहापि केनचित् प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कम्. न चात्रान्यतरत्रापि प्रामाण्ये संशयः, किन् तु निश्चितप्रामाण्ययोर् एव द्वयोस् समर्थनापेक्षामात्रं कथम् इदम् उभयम् उपपद्यताम् इति. षोडशिन इव ग्रहणाग्रहणशास्त्रयोः. न तत्रैकपरित्यागेनेतरद् उपपादयितुं शक्यते. अतो यथा तत्र कथम् इदम् उभयम् उपपद्यताम् इत्य् अपेक्षिते प्रयोगभेदेनोभयम् उपपाद्यते, एवम् इहापि प्रमाणप्रतिपन्नम् उभयं निश्चितसद्भावम् अर्थान्तरपरिकल्पनया{३,१७०}समर्थ्यते. ताद्रूप्येणैव प्रतिभानात्. विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि. अत एव परस्परतो भिद्यन्ते. अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच् चार्थापत्ताव् अपि नास्तीति कथम् अप्रमाणता. कथम् अज्ञातसम्बन्धात् प्रतीतिः प्रमाणम् इति चेत्. न सम्बन्धः प्रामाण्ये कारणम्, अपि तु बाधविरहः. स चेहाप्य् अविशिष्ट इति न कश्चिद् दोषो ऽर्थापत्ताव् अस्माकं प्रतिभातीति
SK
ननु गृहाभावो नान्तरेण बहिर्भावम् उपपद्यते अतो नान्तरीयकः, नान्तरीयकाच् च यदर्थान्तरज्ञानं तदनुमानम्, अतो ऽनुमानम् एवेदं बहिर्भावज्ञानम् अत आह -- अविनेति. अयम् अभिप्रायः -- नान्तरीयकार्थदर्शनं तद्विदो ऽनुमानम् इति केचित् पठन्ति, तेषाम् अपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनम् अनुमानम् अभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्य् अर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्य् अविनाभाविता कल्प्यते. अतस् सा स्वरूपसत्य् अपि न पूर्वम् अवगतेति न ज्ञानोत्पत्तौ कारणम् इति
SK
नन्व् अवगतसम्बन्धस्य तर्ह्य् अनुमानं स्याद् अत आह -- गृहाभावेति तान्तेन. न तावन्नियमेन सर्वैर् एव द्वयोस् साहित्यम् अवगतम्, अविदितसाहित्यस्य तावत् सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायः. येनापि तयोस् साहित्यम् अवगतं तस्यापि नागृहीतयोस् तयोस् साहित्यग्रहः सम्भवति, न च तयोर् एकग्रहणे ऽपरदर्शनम् अर्थापत्त्या विना सम्भवति. अन्यथानुपपत्त्यैव त्व् एकेन गृहाभावेन{३,१७१}बहिर्भावेन वा तयोर् एकः प्रत्येतव्यः. एवं चाकल्प्यमाने न्यतरस्य सम्बन्धिनो ऽगृहीतत्वात् साहित्यप्रतीतिर् एव न स्यात्, अतस् साहित्यार्थम् अर्थापत्तिर् अर्थनीयेति सिद्धं प्रमाणान्तरम् इत्य् अभिप्रायेणाह -- प्रमाणं चेति प्रतीयते ऽन्तेन. अभिप्रायं विवृणोति -- तेनेति || ३१ -- ३३ ||
SK
ननु च नावश्यम् अर्थापत्त्यैवान्यतरस् सम्बन्धी ग्रहीतव्यः, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्याम् उभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच् च गृहाभावाद् बहिर्भावानुमानम् इत्य् आशङ्कते तावत् -- गृहद्वारीति
SK
अत्रोत्तरम् आह -- तदापीति. अयम् अभिप्रायः -- सिध्यत्य् एवं गृहाभावाद् बहिर्भावानुमानम्, न पुनर् एवम् एव सर्वेषाम् अवगतिः, अगृहीतसम्बन्धानाम् अपि प्रतीतिभावात्. एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितश् शक्यो ऽवगन्तुम्. जगदभावस्य प्रत्येतुम् अशक्यत्वाद् इत्य् अभिप्रायः. नन्व् एवं तदावगतं यदायम् एकत्र भवति तदा परत्र तत्समीपे न भवतीति. एवं च विदितव्याप्तेर् एकदेशभाने सर्वत्राभावानुमानं भविष्यति. अत आह -- न चेति. न ह्य् एकदेशनास्तितया त्रैलोक्याभावेन हेतोर् व्याप्तिस् सिध्यतीति
SK
किं पुनर् जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेर् इति चेद्, नन्व् अनुपलब्धिर् अभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे{३,१७२}नुपलभ्यमानो नास्तीति निश्चीयते. एवम् एकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यम् अवगन्तुम्. न हि दर्शनवददर्शनम् अपि प्रयत्नम् अपेक्षते, दर्शनं हि कार्यं स्वकारणम् अर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणम् एकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस् तु न किञ्चिद् अपेक्षत इति चोदयति -- नन्व् अत्रेति. अत्रेत्य् एकदेशं परामृशति. अत्र खल्व् एकदेशे ऽनुपलब्धितो ऽविद्यमानत्वम् अवगम्यते. तच् च सर्वत्रापि समानम् इति
SK
अत्र परिहारम् आह -- नैतयेति. किम् इति न प्रतीयते अत आह -- तद्देशेति. उपलब्धियोग्यस्य ह्य् अनुपलब्धिर् अभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वाद् एव सत्स्व् अप्य् अनुपलब्धिस् सम्भवतीति नाभावनिश्चय इति
SK
यदि तु सर्वग्रामनगरसरित्कान्तारादिदेशाः प्राप्ता भवेयुः, एवं चैत्रस्य तेष्व् अभावश् शक्यावगमः, न चेदं शक्यकरणम् इत्य् अभिप्रायेणाह -- गत्वा गत्वेति
SK
अत्र चोदयति -- ननु चेति. अयम् अभिप्रायः -- न तावद् विपक्षाद् अव्यावृत्तो हेतुर् गमकः, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतो ऽवश्यम् एकदेशस्थस्यैवानुपलब्ध्या विपक्षाद् हेतोर् व्यतिरेको ग्रहीतव्यः. तद्वद् इहापि भविष्यतीति. धूमादयश् च ते व्यतिरेकिणश् चेति धूमादिव्यतिरेकिणः. अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस् तेषाम् अग्न्याद्यभावदेशागमनाद् व्यतिरेको न सिध्यतीति
SK
{३,१७३} परिहरति -- यस्येति. व्यतिरेकप्रधानवादिनो हि बौद्धस्यासति विपक्षाद् व्यतिरेकग्रहणे न हेतुर् गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयः, अग्न्यादेर् वस्तुनो ऽन्यस्यानग्न्यादेर् अभाव इति यावत्. स हि सर्वानग्निव्यतिरेकम् अन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर् गमकः, अन्वयमात्रनियमेन. स च विपक्षादर्शनमात्रेण द्वित्रैर् एव दर्शनैः सिध्यतीति
SK
नन्व् अन्वयवादिनो ऽप्य् अजातातिवृत्तप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभम् एव. अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयो ऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगद्वर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव. अत्रापि ह्य् एकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावो ऽनुमास्यत इत्य् आह -- नन्व् एवम् इति
SK
अत्र परिहारम् आह -- साहित्य इति. अयम् अभिप्रायः -- न हि नो व्यक्तिविषयम् अनुमानम्, अपि तर्ह्य् आकृतिविषयम्, आकृत्योश् च प्रतिव्यक्तिकृत्स्नसमवायात् सुलभम् एव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्य् आकृत्योस् साहित्यम् अवगम्यते. अत एव द्वित्रादिदर्शनम् अपि व्यभिचाराशङ्कायां नियमार्थम् अभ्यर्थ्यते. अवगते हि साहित्ये भवति शङ्का -- किम् अयम् औपाधिकस् संसर्गो धूमस्याग्निना सह आहोस्वित् सहज एवेति, तत्रासकृद्दर्शने ऽन्वयाव्यभिचाराद् उपाध्यन्तरप्रवेशकारणाभावात् स्वाभाविको ऽस्याग्निनान्वय इति भवति मतिः. अग्नेस् तु प्रथमम् अवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्देर्न्धनादिर् उपाधिर् अनुप्रविशति. न च देशादिभेदे व्यभिचाराशङ्का, सकृद्दर्शनावधारितसाहचर्ययोर् हि द्वयोर् अप्य् अग्नेस् तावद् व्यभिचारो दृष्टो{३,१७४}द्वित्रादिदर्शनेनैव, तद् यदि धूमो ऽप्य् अग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैर् एव दर्शनैर् व्यभिचारो दृश्येत, न च दृश्यते. अतो ऽग्न्यन्वितस्वभावो ऽयम् इति निश्चीयते. यस्य त्व् एवम् अप्य् अनाश्वासः. तस्य सर्वप्रमाणेष्व् एव क्वचिद् व्यभिचारदर्शनाद् अनाश्वासः स्यात्. विपक्षव्यतिरेको ऽपि चैवम् अर्थाद् एव सिद्धो भवति. स हि प्रथमम् अन्विच्छतो विपक्षदेशानाम् अनन्तत्वाद् दुर्लभो भवति. स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात् सुलभो व्यतिरेकः. न हि स्वाभाविकम् उष्णत्वम् अन्तरेण क्वचित् कदाचिद् अग्निर् भवतीति कश्चिद् आशङ्कते. मितदेशत्वाद् इति. परिमितदेशत्वाद् इत्य् अर्थः
SK
एकदेशभावजगदभावयोस् तु नैवं साहित्यज्ञानं भवतीत्य् आह -- इहेति. एको ह्य् अत्र सर्वत्राभावस् सहभाव्यनन्तदेशवर्ती, न त्व् अग्निधूमाकृतिवत् परिमितदेशः, अतो ऽत्र दुर्ग्रहं साहित्यम् इति
SK
अत्र चोदयति -- नन्व् इति. अनुमानेन देशान्तराभावश् चैत्रस्य प्रतीयते. एवं ह्य् अनुमास्यते. परोक्षास् सर्वभूमयश् चैत्राभावसम्बन्धाः, तदाक्रान्तदेशव्यतिरेकित्वात् स्थितचैत्रदेशसमीपवद् इति
SK
परिहरति -- विरुद्धेति. कथं हि विरुद्धाव्यभिचारित्वम् अत आह -- तद्वद् इति. तद्वच् चैत्रवद् देशान्तरम् इति. अतो ऽर्थापत्त्यैव सर्वत्राभावो ऽवगन्तव्यः, नान्या गतिर् अस्ति
SK
तथा तु तं गृहीत्वा साहित्यग्रहणपुरस्सरं यद्य् अनुमानम् इष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धम् अर्थापत्तेः प्रामाण्यम् इत्य् अभिप्रायेणाह --{३,१७५}पुरुषस्येत्य् अत्रान्तेन. यस् तु वदति -- स्वात्मनस् तावद् एकत्र सतस् सर्वत्राभावेन सम्बन्धो दृष्टः, अतो ऽन्यस्याप्य् अनुमिनोतीति. स वक्तव्यः स्वात्मन एव सर्वत्रासत्ता कथम् अवगम्यते, यद्य् अभावेन, कस्येति वक्तव्यम्, न तावत् प्रत्यक्षस्य निवृत्त्या दूरदेशेष्व् अभावश् शक्यते ऽवगन्तुम्, दूरत्वाद् एव तेषाम् अनुपलब्धियोग्यत्वान् न स्वात्मनो ऽभावस् तेषु शक्यते ऽवगन्तुम्. अथ तत्र सतो दूरस्थत्वम् एव न स्यात्, अतस् सहैव देशान्तरे स्वशरीरम् उपलब्धियोग्यं भवति, योग्यत्वाच् चोपलभ्येत, अतो ऽनुपलम्भान् नास्तीति निश्चीयते. यद्य् एवं प्रमाणान्तरम् इदम्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेष्व् अस्तीति. एवं चानुमानेन देशान्तराभावो ग्रहीतव्यः. न प्रत्यक्षाभावेन. तत्र च विरुद्धाव्यभिचारितोक्तैव -- देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच् चैत्रवद् देशवद् इति. यत्र च प्रतिहेतुना सन्देहः क्रियते तत्र बलवतान्येन यदुपबृंहितं प्रत्यक्षादिना भवति तद्विजयते, न चेहार्थापत्तेर् अन्यत् प्रमाणं सर्वत्राभावे समर्थम्. सा ह्य् एवं प्रवर्तते, यद् एतद् एकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन् नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाः प्रादेशिका विभवश् च, विभवो ऽपि द्वेधा, सर्वव्यापिनः स्वाश्रयव्यापिनश् च. पूर्वे गगनादयः. उत्तरे जात्यादयः. यद् धि सर्वसंयोगिभिर् अनागतैर् अगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्य् उच्यन्ते. न तावदाकाशवच् चैत्रः, एकत्र परिसमाप्तो हि परिमण्डलस् सो ऽवगम्यते. न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुम् अर्हति. यदि हि तस्यान्यत्र भागा भवेयुः इह कृत्स्नो नोपलभ्येत. भवन्वान्तराले विच्छेदाद् अन्यो भवेत्. न च जातिवद् वर्तितुम् अर्हति. जातिर् ह्य् अमूर्ता, सैकत्र पिण्डे समवेता पिण्डान्तरे समवैति. अस्य तु कुतो ऽन्यत्र समवायः. न हीदं सामान्यम्. संयोगो ऽस्य देशान्तरेण सम्बन्धः. स च नागतस्य सम्भवति. गत्वा ह्य् अयं देशान्तरैः संयुज्यमानो दृश्यते. अत एव न विभुः.{३,१७६} अतो ऽस्य न कथञ्चिद् एकत्र सतो ऽन्यत्र सत्त्वम् उपपद्यत इत्य् अन्यत्राभावम् अन्तर्भाव्य कृत्स्नबोधस् समर्थ्यते, का पुनर् अत्रानुपपत्तिः, नात्र कृत्स्नबोधस्य केनचित् प्रतिघातो दृश्यते. भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तद्बाधेनैवार्थापत्तिर् आत्मानं लभते. दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात्. यत्र तु तुल्यबलम् उभयम् एकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिर् इति न किञ्चिद् अनुपपन्नम् इति. एवं तावद् अभावपूर्विकाया अर्थापत्तेर् अनुमानाद् भेद उक्तः प्रत्यक्षपूर्विकाया भेदम् इदानीं दर्शयितुं तत्प्रतिज्ञां तावद् आह -- यत्र चेति. यत्रापि दाहादिकार्यदर्शनाद् अग्न्यादेः कारणस्य शक्तिर् अस्तीति कल्प्यते तत्राप्य् अर्थापत्तिर् एव प्रथमा. यदि तु पश्चादनुमानं भवति भवतु. भाष्योदाहृतत्वाच् चाभावपूर्विकाया एव प्रथमम् अनुमानाद् भेदो वर्णित इति || ४६ -- ४७ ||
SK
अत्रानुमानवादिनां लिङ्गम् उपन्यस्यति -- कार्यस्येति. एवं हि मन्यन्ते -- द्विविधम् अनुमानं दृष्टस्वलक्षणविषयम् अदृष्टस्वलक्षणविषयं च. तत्र तावत् दृष्टस्वलक्षणविषयं धूमादिनाग्न्यनुमानम्, अदृष्टस्वलक्षणविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम्. कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धम् इति ततस् तत्प्रतीतिर् अनुमानम् एवेदम् इति. एतद् अपि दूषयति -- न सम्बन्धेति. येन ह्य् एकदा बीजाद् अङ्कुरो दृष्टः सो ऽन्यदा तथाविधाद् एव पुनर् अनुपलभमानः स्वभावानुमानेन जनयितव्यो ऽनेनाङ्कुर इत्य् अनुमिमान एवात्राशङ्कते कथम् अङ्कुरो न जायत इति, ततः कल्पयति -- अस्ति कश्चिद् बीजसमवायी शक्तिभेदो यद्वशात् प्राक् कार्यम् आसीद् अद्य च नास्तीति. तच् चेदम् अनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचाराद् एव ज्ञानं जायमानं कथम् अनुमानम् इति. अपि च सम्बन्धग्रहणाधीनम् एव सर्वम् अनुमानं न तदगृहीतयोस् सम्बन्धिनोस् सम्भवति. न चेह तयोर् अतीन्द्रिया शक्तिः{३,१७७}प्रमाणान्तरेण शक्यते ऽनुभवितुम्, अत एव च न तद्वतो ऽपि ग्रहणं सम्भवति, अतः कथम् अगृहीतसम्बन्धात् कार्याच् छक्तितद्वतोस् सिद्धिर् इति. तद् एतद् आह -- दृष्ट्वेति. नन्व् अवगतं तावत् कार्यसामान्यं कारणसामान्येन व्याप्तम् इति, अतस् तद् अनुमास्यते. सत्यम्, किन् तु शक्तिकल्पनया विना कारणाख्यैव न निवर्तते. अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश् च बीजकारणक इत्य् अवगतः सत्य् अपि तु बीजे ऽजायमानस् तद् अपि व्यभिचरतीति कारणावगतिर् एवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति. कॢप्तायां च शक्तौ कारणसम्बन्धिन्याम् अर्थापत्त्या यदि सम्बन्धो ऽवगम्यते तद् अस्तु सिद्धान्तवच्छक्तिसिद्धाव् अर्थापत्तिः प्रमाणम् इति. अनुमानलक्षणाद् विनार्थापत्तिर् जायमाना प्रमाणान्तरम् इत्य् उपसंहरति -- अर्थापत्तेर् इति
SK
वृत्त्यन्तरोदाहृतम् उदाहरण दूषयति -- अनुमानाद् इति. जयो हि पराजयेन विदितव्याप्तिर् इति तम् एकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयो ऽवगम्यते. पराजयदर्शनेन प्रतिपक्षस्य जय इति. नेदम् अर्थापत्ताव् उदाहार्यम् इति
SK
श्रुतार्थापत्तिर् अभिधास्यत इत्य् उक्तम्, ताम् इदानीम् उदाहरति -- पीन इति
SK
अस्याश् च विषयं प्रत्यस्ति विवादः. तम् एकनिर्धारणार्थम् उपन्यस्यति -- ताम् अर्थेति कल्पयन्त्यन्तेन. सर्वे चागमाबहिर्भूताम् आतिष्ठन्त इत्य् आह -- आगमाच् चेति
SK
{३,१७८} आगमाभेदाभ्युपगमे ऽभिप्रायम् आह -- प्रायश इति. फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगः, सर्वो ऽनागमत्वे ऽवैदिकः स्याद् इति
SK
आगमिकत्वे प्य् अवान्तरविप्रतिपत्तिम् उपन्यस्यति -- वचनस्येति [|| ५४ ||]
SK
अत्र निष्कर्षं दर्शयति -- न तावद् इति. कारणम् आह -- न हीति. वाक्यं तावद् अवाचकम्, प्राग् एवानेकेषाम् अर्थानाम् इति
SK
यद्य् अवाचकं कथं वाक्याद् अर्थप्रतीतिर् अत आह -- पदार्थेति. एतच् च तद्भूताधिकरणे वक्ष्यत इति. ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितः पदार्थान्वयरूपेणैव स्वार्थवद् गमयिष्यते. अत आह -- न रात्र्यादीति. न हि दिवावाक्ये रात्र्यादिपदार्थास् सन्ति, कुतस् तत्र तेषाम् अन्वय इति
SK
ननु दिवादिपदार्थान्वयाद् एव रात्र्यादिवाक्यार्थः प्रत्येष्यते, अत आह -- न दिवादीति
SK
{३,१७९} न ह्य् अनेकार्थतेति यद् उक्तं तद् विवृणोति -- अन्यार्थेति. अतो वाक्यान्तरस्यैवायम् अर्थो न दिवावाक्यस्येत्य् आह -- तस्माद् इति
SK
एवं तावन् न मूलागमस्यायम् अर्थः, येन तु वाक्यान्तरेण बुद्धिस्थेनायम् अर्थो ऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयम् इत्य् आह -- तस्येति
SK
तत्र प्रत्यक्षं तावन् न तत्सिद्धौ प्रमाणम् इत्य् आह -- न हीति. अनुमानम् अपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान् न सम्भवतीत्य् आह -- नानुमानम् इति
SK
अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणे ऽव्यवस्थेत्य् आह -- यदि त्व् इति
SK
यदि तूच्यते सम्बन्धम् एव दिवावाक्यस्य रात्रिवाक्येन गृहीत्वा ततस् तदनुमास्यत इति, सिध्यत्य् एवम्, न तु श्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैः प्रतिपादकवाक्यैस् सम्बद्धान्य् अवगतानि. अतः कथं तेभ्यस् तान्य् अनुमीयन्त इत्य् आह -- न चेति
SK
{३,१८०} इतश् च नानुमानम् इत्य् आह -- न चेति. केनचिद् धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिद् अनुमीयते न वस्तुसत्तामात्रम्. न च विशिष्टः, अज्ञातसम्बन्धत्वात् इह तु तदुभयं विपरीतम् इति
SK
यतश् चात्र वाक्यस्वरूपम् एव प्रमेयम् अतः पर्वतादिर् इव पूर्वसिद्धः स्वतन्त्रो ऽसम्बद्धः केनचिद् अग्न्यादिनेव स्वतन्त्रेण केनचिद् विशेषितो धर्मी धर्मविशिष्टो नास्तीत्य् आह -- पूर्वसिद्ध इति
SK
अथ श्रुतम् एव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस् तदप्रसिद्धेर् अप्रसिद्धविशेषणः पक्ष इत्य् आह -- अथेति
SK
अपि च श्रुते वाक्ये ऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत् किञ्चिल् लिङ्गम् उपलभ्यते, न चालिङ्गकम् अनुमानं भवति, तद् यदि तद् एव पुनर्लिङ्गम् इष्यते ततः प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृते र्थविशिष्टे साध्यमाने ऽभिहितम् इत्य् आह -- किञ् चेति
SK
धर्मधर्मिभावो ऽपि दिवावाक्यरात्रिवाक्ययोश् शब्दार्थयोर् इव निराकार्य इत्य् आह -- तद्वद् एवेति. यथा तत्रार्थे धर्मिण्य् अप्रतिपन्ने न पदं तद्धर्म इत्य् उक्तम्, एवम् इहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धर्मतया{३,१८१}दिवावाक्यं प्रतीयते. अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत् प्रथमम् अवगतम् इत्य् उच्यते ततो ऽनुमेयाभाव इत्य् अभिप्रायः. अभिप्रायं विवृणोति -- नागृहीत इति
SK
अपि च तत्रैव पदे वर्णितम् -- न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति. अतो यथा पदस्य न कश्चित् क्रियानिबन्धनो ऽर्थसम्बन्धो ऽस्तीति न तद्धर्म इत्य् उक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मता निराकार्येत्य् आह -- क्रियेति. न चात्र विषयविषयिभावरूपो ऽपि द्वयोर् वाक्ययोश् शब्दार्थयोर् इव सम्बन्धो भवति, उच्यते हि शब्देनार्थः, न तु वाक्यं वाक्यान्तरस्य वाचकम् इत्य् आह -- अवाचकेति. पदे त्व् अर्थप्रतीतिजनकत्वेन तद्विषयताम् अङ्गीकृत्यानुमेयाभावो दर्शितः. इह तु वाक्यस्यावाचकत्वात् तद्विषयत्वम् एव प्रत्येतुं न शक्यते इति विशेषः
SK
यदि तूच्यते प्रतीयते तावद् दिवावाक्याद् रात्रिवाक्यम्, अतस् तस्यापि तद्वाचकत्वम् इत्य् अस्ति विषयविषयिलक्षणस् सम्बन्ध इति, तत्रैकं वाक्यम् अनेकार्थम् अभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यम् अपि, न चैवं न्याय्यम् इत्य् अभिप्रायेणाह -- प्रतीतेर् इति. अथोच्येत -- माभूद् वाचकतया तद्विषयत्वम्, तेन तु तद्वाक्यम् अनुमीयते, अतस् तल्लिङ्गम् अनुमानविषयतया लिङ्गम् एव दिवावाक्यं तद्धर्मतयाभिधीयत इति. यत् तावदनुमानविषयभावाद् उत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान् निष्फलम् इत्य् आह -- अनुमेति
SK
एवं तावद् दिवावाक्यम् अलिङ्गम् इत्य् उक्तं, तद्गतपदार्थानाम् अप्य् एवम् एव लिङ्गता निराकार्येत्य् आह -- पदार्थैर् इति. नन्व् अगृहीतसम्बन्धा एव पदार्था{३,१८२}यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यम् अपि किं न गमयन्ति, अत आह -- सामान्येति. क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नम् अलब्धेतरेतरव्यतिषङ्गम् अन्यथा न सिध्यतीति तं विशेषं गमयति, यश् चासौ विशेषः स एव तु वाक्यार्थ इत्य् उच्यते इति
SK
न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्य् आह -- न त्व् इति. अन्यो ऽपि तद्देशकालादिसम्बन्धो न रात्रिवाक्येन दिवावाक्यस्य तत्पदार्थानां वास्तीत्य् आह -- न चापीति
SK
स्याद् एतत्, यद्य् अपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामः, ततश् च तत्प्रत्येष्यत इति. तद् इदम् आशङ्कते तावत् -- अथैतद्वाचीत्य् अन्यदन्तेन. अत्र दूषणम् आह -- तथैवेति. अत्र तावद् एवं वाक्यान्तरकल्पनायां प्रमाणम् एव नास्तीति तदनादृत्य तावदनवस्थाम् आपादयति, यद् अपि कल्पितं वाक्यं तद् अपि न रात्रिवाक्यम् अवगमयितुं शक्तम्. न च तदसम्बद्धम् एव तस्य गमकम् इति युक्तम्. पुनर् अपि वाक्यान्तरकल्पनायां स एव दोषः. एवं यद् एव किञ्चिद् वाक्यं कल्पयितुम् इष्यते तद् एव नासम्बद्धं गमकम् इत्य् अनवस्थापात इति
SK
अथ त्व् अन्तिमम् असम्बद्धम् एव गमकम् इति कल्प्यते, तद् वरं प्रथमस्यैव तथाविधस्य गमकत्वं कल्पितुम्, किं वाक्यान्तरकल्पनया. न च तद् युक्तम् इत्य् अभिप्रायेणाह -- ततश् चेति. एवं तावत् पक्षधर्मत्वाद्यसम्भवेन रात्रिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोर् अपि पदवत् प्रतिषेधो दर्शयितव्य इत्य् आह -- अन्वयेति. न हि सत्य् एव रात्रिवाक्ये दिवावाक्यं{३,१८३}नासतीत्य् अन्वयव्यतिरेकौ स्तः, तद्देशतत्कालादिसम्बन्धस्याभावात्. न च ज्ञानान्वयो ऽसत्य् अपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश् चान्वयव्यतिरेकयोस् तदनुपयोगाद् इत्यादिपदवद्दर्शयितव्यम् इत्य् अभिप्रायः
SK
एवं तावत् प्रत्यक्षानुमानागमैर् न रात्रिवाक्यं प्रतीयत इत्य् उक्तम्, उपमानम् अपि तत्र न प्रमाणम् इति दर्शयति -- श्रुतवाक्येति त्वमन्तेन. दिवावाक्यवच् च तदर्थेनापि न रात्रिवाक्यम् उपमीयत इत्य् आह -- अर्थस्येति
SK
यथा च रात्रिवाक्यस्य दिवावाक्यतदर्थाभ्याम् उपमानं निरस्तम् एवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयम् इत्य् आह -- उपमानत्वेति स्यादन्तेन. उपसंहरति -- तस्माद् इति
SK
अतः प्रमाणान्तराभावाद् अर्थापत्तिर् एव रात्रिवाक्यावगमे शरणम् इत्य् आह -- अत इति. प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतः परस्परप्रतिघाताद् दिवावाक्यस्य स्वार्थप्रतिपादनम् एवानुपपद्यमानं रात्रिवाक्यम् अनुप्रवेशयति, अतः तद्रात्रिवाक्यं कल्प्यत इति
SK
ताम् अर्थविषयाम् इति यद् उक्तं तद् इदानीं दूषयितुम् उपन्यस्यति -- एतदर्थाद् विनेति. अयम् अभिप्रायः -- पीनत्वं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश् चार्थकल्पनयैवात्मलाभः. पीनस्य हि दिवा निषिद्धे{३,१८४}भोजने रात्रिभोजनेनैव पीनत्वम् उपपद्यते, न रात्रिवाक्येनातो ऽर्थकल्पनैव युक्तेति. अपि च, यथा परैर् अभिधीयमानो ऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति. एवं वाक्यार्थानुपपत्तिगम्यो ऽप्य् अर्थः किं नागमे ऽन्तर्भवतीत्य् आह -- वाक्यार्थेति
SK
प्रथमपरिचोदनां तावत् परिहरति -- सविकल्पकेति. सविकल्पको हि श्रुतार्थापत्तिबोधः सविकल्पकज्ञानानि च शब्दपुरस्सराणि. अतश् शब्दपर्यवसितायाम् अर्थापत्तौ शब्दाद् एव सिध्यन्नर्थो नार्थापत्तेर् विषय इति. नन्व् एवं सर्वप्रमाणविकल्पेषु समानम् इदम्, इन्द्रियलिङ्गाभ्याम् अपि शब्दपुरस्सरम् एवाग्निः प्रतीयते, ततस् तयोर् अपि शब्दपर्यवसायितैव भवेत् अतस् तत्र स्मृतिस्थ एव शब्दो ऽप्रत्यायकः, तद् इहापि समानम्. यथा हि कर्मेन्द्रियम् अर्थेनैव सन्निकृष्टम् इति तम् एव प्रकाशयति लिङ्गं चार्थेन सम्बद्धम् इति तं गमयति, न शब्दम्, एवम् इहाप्य् अनुपपद्यमानो ऽर्थो ऽर्थेनैवोपपद्यते न शब्देन. तथा च दृष्टार्थापत्तयो ऽर्थविषया एव. अत्रोच्यते. सत्यम् अर्थद्वारिकैव वाक्यस्यानुपपत्तिः. अर्थान्तरेण चोपपत्तिः. किन् तु तद्वाक्यम् अनुपपन्नं वाक्यान्तरम् एवाकाङ्क्षति, यथा पदं पदान्तरम्. न हि पचतीत्य् उक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि, ओदनम् इति पदेन, एवं वाक्यम् अप्य् अनुपपद्यमानतयावगतं वाक्यान्तरम् एवाकाङ्क्षति, न तु तम् अर्थं स्वरूपेण. अत एव निर्वापमन्त्रे ऽतिदेशाद् विकृतिं गते प्राकृतदेवताया अभावात् तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदम् ऊह्यते. छेदनमन्त्रे त्व् इषेत्वेत्य् अत्र छिनद्मीति पदम् अध्याह्रियते. हृदयस्याग्रे ऽवद्यति अथ जिह्वाया अथ वक्षस इत्य् अत्रावद्यतिपदानुषङ्गः. न चार्थ एवानुषज्यते अनुषङ्गो वाक्यसमाप्तिस् सर्वेषु तुल्ययोगित्वाद् इति वचनात्. प्रत्यक्षादिषु तु न शब्देन रूपेणार्थोपेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणः, किन् न्व् अर्थरूपेणैव, तम् अर्थं विकल्पयन् शब्दस् त्व् अस्तु नाम सन्मात्रतया. यदि तु तत्रापि शब्दो ऽपेक्ष्यते तिरश्चाम् अर्थविकल्पो न स्यात्, स च नास्ति, दृश्यते हि तेषाम् अपि हिताहितप्राप्तिपरिहारार्थः प्रयत्नः. तृविता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभिभूताश्{३,१८५}च तत्प्रतीकारक्षभं देशम्. अतो ऽशब्दज्ञानाम् अप्य् अनुमानादिविकल्पदर्शनान् न तत्र शब्दापेक्षास्तीति निश्चीयते. श्रुतार्थापत्तिबोधस् तु तिरश्चां नास्त्य् एव, शब्दव्युत्पत्तिजो ह्य् असौ, न च तेषाम् असाव् अस्तीति प्रत्यक्षे ऽपि वर्णितम्. अन्येषाम् अप्य् अव्युत्पन्नशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते. किं पुनस् तिरश्चाम्. अतो ऽन्वयव्यतिरेकाभ्याम् अवगम्यते ऽस्ति शब्दापेक्षा श्रुतार्थापत्तौ. अनुमानादिषु तु संस्कारोद्बोधेनावर्जनीयतयास् तु नाम शब्दस्मृतिः, न तु शब्दापेक्षा. अतो ऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरम् एवार्थवदुपपादकं न त्व् अर्थमात्रं शब्दमात्रं वा. अत एवागृहीतसम्बन्धस्यार्थम् अविदुषश् श्रुते ऽप्य् उपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञाने ऽनुपपत्तिश् शाम्यति, प्रतिपन्नार्थस्याप्य् आशयकल्पना. अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर् निवर्तते. अतस् सिद्धं श्रुतार्थापत्तौ शब्दकल्पनेति. परपरिचोदनायाम् उत्तरम् आह -- लब्धप्रयोजन इति. यावद् ध्य् अकृतार्थश् शब्दस् तावद् बोधो ऽवगम्यते, स तदर्थो भवति. प्रयोजनवचनो ह्य् अर्थशब्दः. अत एव वाक्यार्थ आगमार्थो बह्वति. यावद् धि पदार्था नान्योन्यान्वयम् अनुभवन्ति तावदप्रयोजनकं जायते, जाते तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यम् इति ततः परमर्थान्तरम् अवगम्यमानं नागमिकं भवति. न हि प्रयोजनत्वावगतार्थानुपपत्त्या यद् अवगम्यते तत्प्रयोजनं भवति. प्रयोजनोपपादकं तु तत्. पदार्थानुपपत्तौ प्रयोजनम् एव नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थत्वम्. कः पुनर्विशेषः, सर्वथा तावदागमार्थो ऽसौ, कल्पितस्य श्रुतस्य वेति न विशेषम् उपलभामहे. उच्यते. श्रुतागमार्थत्वे यदि प्रमादात् तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चित्तम्, इतरथा त्व् अविज्ञातनाशनिमित्तम् इति विशेषः. तदा च ऋग्वेदादिविहितनाशे प्रत्येकं महाव्याहृतिभिर् होमं विधाय यद्य् अविज्ञातो भूर् भुवस् स्वस् स्वाहेति महाव्याहृतीस् समाहृत्य प्रायश्चित्तं समुपदिशति. श्रुतार्थापत्तिवेद्य एव हि वेदो ऽविज्ञात इत्य् उच्यते, स ह्य् ऋगादीनां नान्यतमत्वेन ज्ञायत इति
SK
अत्र चोदयति -- ननु चेति. न तावद् दिवावाक्यरात्रिवाक्ययोस् सम्बन्धो ऽस्ति, सन्न् अपि वा न विदितः, न चाविदितसम्बन्धान्यदर्शने{३,१८६}न्यकल्पना युक्ता, अतिप्रसङ्गात्. प्रतिबद्धस्वभावं हि प्रतिबन्धबलाद् एव प्रतिबन्धकम् उपस्थापयति, अप्रतिबन्धेन त्व् अन्यकल्पनायां न प्रतिनियमे कारणम् अस्ति. अतो ऽप्रमाणम् एवेदं रात्रिवाक्यज्ञानम् इति
SK
परिहरति -- सम्बन्धस्येति. प्रमाणत्वं प्रमाकारणत्वम् इत्य् अर्थः. करणसाधनश् च प्रमाणशब्द इति. अकारणत्वम् एव प्रामाण्ये सम्बन्धस्य दर्शयति -- प्रत्यक्षस्येति
SK
नन्व् इन्द्रियार्थसन्निकर्षजम् एव प्रत्यक्षम् अतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति -- अस्तीति चेदन्तेन. परिहरति -- नानपेक्षणाद् इति. अनपेक्षत्वम् एव दर्शयति -- न हीति. निरूपितो हि सम्बन्धः प्रमाणोत्पत्तौ कारणम् अनुमाने, न चेह तथेति
SK
प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गम् इत्य् आह -- येनापीति
SK
अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वम् अपि सम्बन्धस्य नास्त्य् एव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणताम् इच्छन्ति, एवम् इहापि भविष्यतीत्य् अत आह -- अप्राप्येति
SK
तेनानादृत्यैव सम्बद्धम् उत्पन्नम् असन्दिग्धम् अविपरीतं च देशादिभेदे ऽपि ज्ञानं प्रमाणम् इत्य् आश्रयणीयम् इत्य् आह -- तस्माद् इति. जायत इत्त्यनुत्पत्तिलक्षणम् अप्रामाण्यं निरस्यति, अभङ्गुरम् इति संशयविपर्ययाव् इति
SK
{३,१८७} अपि चार्थापत्तिर् अप्रमाणम् इत्य् अलौकिको विवाद इति. न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते. प्रवृत्तिसामर्थ्यं च प्रामाण्यम्. अनुमानाद् भेदाभेदयोर् अस्ति विवादः, तत्र चास्माभिः कृतो निर्णय इत्य् आह -- न चापीति
SK
यद्य् एवम् अनुमाने ऽपि सम्बन्धो नाङ्गम् एवापद्येतात आह -- ऋत इति. तत्र हि बुद्धिर् एवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणम् आश्रीयत एव. प्रामाण्यं तु तत्रापि बाधविरहाद् एवेति
SK
वेदोपयोगम् अर्थापत्तेर् दर्शयति -- स्मृत्येति. भूयान् खलु वेदभागः श्रुतार्थापत्तिप्रमाणकः स ताम् अन्तरेण न सिध्येत्, यथैव हि पाठेनाभिव्यक्ता श्रुतिर् आत्मानं लभते, एवं श्रुतार्थापत्तिप्रमाणका हि. यदाह --
SK
यथैव पाठः प्रतिप्रत्त्युपायस् तथैव सामर्थ्यम् अपि श्रुतीनाम् |
SK
तेनैव चैकां न समामनन्ति सहस्रभागं तु समामनेयुः || इति.
SK
यथा तावदष्टकादिविषयां मन्वादिस्मृतिम् उपलभ्य तन्मूलकारणान्विच्छायाम् असम्भवत्सु भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेस् स्वमूलकारणम् अन्तरेणानुपपत्त्या श्रुतिर् एव मूलतया कल्प्यते. तथा लिङ्गादिभिः स्वविनियोजिका श्रुतिर् उपकल्प्यते -- यथा तावत् प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनम् अन्तरेणानुपपद्यमाने क्रत्वपेक्षया च सामान्यतः क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयाद् इत्य् उपबन्धेन शक्यार्थविषया{३,१८८}मन्त्रस्य विनियोजिका श्रुतिर् उपकल्प्यते. यथा बहिर्मन्त्रे ऽनेन लुनीयाद् इति सो ऽयं लैङ्गिको विनियोगः वाक्येन तु यथा -- तस्मिन्न् एव मन्त्रे दामीत्य् एतत् पदं लवने शक्तम् इति तद् एव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव. प्रकरणविनियोगस् तु दर्शपूर्णमासप्रकरणाम्नातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाः, क्रतुश् चोपकारसाकाङ्क्षः, तद् एवम् उभयाकाङ्क्षायाम् एभिः क्रतुम् उपकुर्याद् इति श्रुतिः कल्प्यत इति. स्थानविनियोगस् तु यथा -- दर्शपूर्णमासयोर् एवोपांशुयाजक्रमाधीतस्य दब्धिर् नामासीति मन्त्रस्य. तस्य चानेनोपांशुयाजम् उपकुर्याद् इति श्रुतिः कल्प्यत इति. समाख्याविनियोगस् तु यथा -- आध्वर्यसमाख्यातेषु पदार्थेषु गुणभूतं कर्तारम् अपेक्षमाणेषु समाख्यया कर्तृनियमः क्रियते. भवति चात्र श्रुतिः, अध्वर्युर् एतान् कुर्याद् इति. अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिः कल्प्यते विश्वजिता यजेत स्वर्गकाम इति, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इति, आग्नेयवद् इतिकर्तव्यतेति. भूयान् एवञ्जातीयकः श्रुतार्थापत्तेर् वेदोपयोगः. न चायम् अनुमानाद् एव सिध्यति. न ह्य् अत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धः केनचिद् दृष्टः. न चानपेक्षितसम्बन्धम् अनुमानं भवति, अतो ऽर्थापत्तिर् एवात्र शरणम्. सम्बन्धदृग् इति. बुद्धाव् औपचारिको दृग्भाव इति. यदि नार्थापत्तिः प्रमाणम् आश्रीयते सर्वम् इदम् असमञ्जसं स्याद् इत्य् आह -- तत् सर्वम् इति. यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्याद् अनुमानशब्देन वक्तुम् इष्यते तद् अस्तु, सिद्धं नः प्रमाणान्तरम् इत्य् आह -- एवम् इति.
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
अर्थापत्तिपरिच्छेदः समाप्तः ||
SK
{३,१८९} अत्र भाष्यम् -- अभावो ऽपि प्रमाणाभावो नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्येति. किं पुनर् अनेन लक्ष्यते. न तावत् प्रमाणम्. न हि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम्. पूर्वोक्तप्रमाणाभावो लक्षणम् इति चेत्. एवं तर्हि सर्वेषां प्रमाणानां समानम् इदम्, सर्वाण्य् अपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम्. न च सर्वप्रमाणसाधारणं किञ्चिद् एकं लक्षणम् अस्ति, यदभावेन षष्ठं लक्ष्यते. अपि च -- प्रमाणं नाम कस्यचित् प्रमेयस्य व्यवस्थापकं भवति. तद् अनेन किं व्यवस्थाप्यत इति न विद्मः. ननूक्तं नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्येति. किम् उक्तं भवति. प्रत्यक्षाद्यविषयो नास्तीत्य् अयम् अर्थो ऽभावस्य प्रमेयम् इति. तद् अयुक्तम्. नास्तीति नेदम् इह प्रमीयत इत्य् अर्थः. न चाप्रमीयमाणस्य प्रमेयतेति शक्यते ऽवगन्तुम्. कस्य च प्रमाणस्य प्रमेयम् इदम्, यदि प्रमाणाभावस्य. तन् न. प्रमाणाभावो हि प्रमितेर् अनुत्पत्तिः. सा च प्रमाणम् इत्य् अलौकिकम् इव प्रतिभाति. यदि मतम् -- अस्ति तावन् नास्तीति बुद्धिः सर्वलौकिकपरीक्षकाणाम् अविवादसिद्धा, न च बुद्धेर् अनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितम् एव. अतो ऽस्या एव बुद्धेर् द्रढिम्नः प्रमेयम् उपकल्प्यते. सो ऽभावस्य विषयः. तद् इदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावः प्रमेयम् इति मन्यन्ते. अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते. न ह्य् अवस्तुनो विभागस् सम्भवति. यदि तु नाभावस् तत्त्वान्तरम् इष्यते, कस् तर्हि क्षीरे दध्यभावः. यं प्रागभाव इत्य् आचक्षते. अतश् चैष दध्नि क्षीराभावः, यः प्रध्वंसाभाव इत्य् उच्यत इति. अपि च -- इह घटो नास्तीति धियः किम् आलम्बनम् इति वक्तव्यम्. यदि भूतलम् एव, तन् न. घटवत्य् अपि प्रसङ्गात्. केवलम् एव भूतलम् आलम्बनम् इति चेत्. कः केवलार्थः. यदि भूतलम् एव, स एव प्रसङ्गः. अथ भावान्तरविषेकः स तर्हि तत्त्वान्तरम् इति सिद्धः प्रमेयभेदः, तद्भेदाच् च प्रमाणभेदः. न हि तत् प्रत्यक्षेण शक्यते ऽनुभवितुम्. अक्षाधीनत्वात् प्रत्यक्षस्य, अक्षाणां च भावरूपाणां भावेनैव सन्निकर्षः, नाभावेन. असत्य् अपि च तद्व्यापारे नास्तीति बुद्धेर् उत्पत्तिर् दृष्टा, यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिद् अभावं{३,१९०}प्रत्यनुयुक्तेन तदैव तदभावो ऽवसीयते. तद् एवम् असत्य् अपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम्. न चास्य किञ्चिल् लिङ्गं जनकम् अस्ति. अनुपलब्धिर् लिङ्गम् इति चेत्. न. अविज्ञानात्. न ह्य् अविज्ञातरूपं लिङ्गं लिङ्गिनम् अनुमापयति. न चाज्ञातसम्बन्धम्. न च तथानुपलब्धिर् ज्ञाता सत्यभावं प्रकाशयति. तस्या अप्य् अभावरूपत्वेनापरसजातीयापेक्षायाम् अनवस्थापातात्. अतः प्रमाणान्तरम् एवेदं भावानाम् असङ्करसिध्यर्थम् आस्थेयम्. अस्ति च मीमांसकानां प्रसिद्धिः - षष्ठं किलेदं प्रमाणम् इति. अतस् तल्लक्षणार्थो ऽयं ग्रन्थ इति. तद् अयुक्तम्. न ह्य् अनेन प्रमाणं (?व/ल)क्ष्येत. ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्य् अप्य् उक्ते प्रमेयाभावम् एव लौकिकाः प्रतिबुध्यन्ते न प्रमेयं किञ्चित्. अतो न तावत् ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते, सिद्धस्य हि ज्ञानस्य प्रमाणम् अप्रमाणं वेति विचारणा युक्ता. न च भूतलोपलम्भाद् अन्यन् नास्तीति विज्ञानम् अस्ति. तद् एव हि द्वेधा प्रकाशते. अन्यसहितम् असहितं च तत्. यदा घटादिसहितं तद् उपलभ्यते तदा घटो ऽस्तीति व्यवहारः प्रवर्तते. तन्मात्रबोधे तु नास्तीति. न च वाच्यं सत्स्व् अपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टः. अतस् तत्रापि नास्तीति प्रकाशत इति. तद् एव हि द्वेधा प्रकाशते. द्वेधा हि तन्मात्रबोधः, दृश्यते प्रतियोगिन्य् अदृश्ये वा. तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिः सैव घटादेर् नास्तित्वम्. येषाम् अप्य् अभावः प्रमेयस् तेषाम् अपि दृश्यादर्शनाद् एव नास्तीत्य् अभावो निश्चीयते. अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिः सैव नास्तीति व्यपदिश्यते. यच् चाभावस्य कारणम् इष्यते तत्तन्मात्रबुद्धेर् एवोभयवादिसिद्धायाः कारणम् आश्रीयताम्. अतो यत्रैव प्राक् संसृष्टबुद्धिर् आसीत् तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिर् एव जायते न पुनर्घटाद्यभावः. (अवश्यं) चैतद् एवाभ्युपगन्तव्यम्. अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेन स प्रतिपादयितुं शक्यते. अस्ति हि सुषुप्तस्यापि प्रमाणा ... (?तः/भावः). न च नास्तीति निश्चयः. अतो नागृहीतम् अदर्शनम् अभावं निश्चाययति, तद्ग्रहीतिर् अपि चाभावरूपत्वाद् अपरेणादर्शनेनेत्य् एवम् अनवस्थापातः. यदि च सन्मात्रम् एवादर्शनं निश्चाययति, ततो निवृत्ते ऽप्य् अदर्शने प्राक् देवदत्तो{३,१९१}नासीद् इति प्रतिपत्तिर् न स्यात्. भवति हि कदाचिद् एतत्. यो यत्र न दृष्टस् तस्मिन् पुनर्दृश्यमान एवासत्य् अप्य् अदर्शने प्रचीनाभावज्ञानं तद् असत्य् अदर्शने न स्यात्. अतः प्रचीनादर्शनविमर्शजम् एव तज्ज्ञानम् इति वाच्यम्. एवं च गृह्यमाणम् एव तदभावं प्रकाशयति. ग्रहणे चानवस्थाप्रसङ्गः. तन्मात्रसंविद् एव त्व् अदर्शनम् इत्य् आश्रीयमाणे न किञ्चिद् दुष्यति. स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरम् अपेक्षते. अतस् तन्मात्रानुभाव एव स्वप्रकाशो भावः. यदा चासौ घटाद्यदर्शनरूपतया विमृश्यते तदा तदभावत्वेनापदिश्यते. अतो न प्रमेयान्तरम् अभावः. न च नास्तीति ज्ञानं प्रमाणम्, उभयोर् अभावात्. ज्ञानाभाव एवायं ज्ञानभ्रमः, आलोकादर्शने ऽन्धकारदर्शनभ्रमवद् इति न विद्मः किम् अत्र लक्ष्यते इति. अत्राह -- किम् अत्र न ज्ञायते, यथोक्तं भवता ग्रन्थतस् तावत् प्रमाणाभाव एवावसीयते, केचित् किलाभावं नाम प्रमाणम् आतिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नः. कथम् अनेन निराक्रियते. श्रूयताम्. यद् एके वदन्ति -- नास्तीत्य् अस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावः प्रमाणम् इति, तन् न, प्रमाणाभावो ह्य् असौ -- प्रमाणं न भवतीत्य् अर्थः. अप्रमाणत्वे चोक्तो हेतुः. एतद् अपि नोपपद्यते. यदि ग्रन्थानुगुण्येनायम् अर्थो व्याख्यास्यते ततो विस्पष्टः प्रदेशान्तरे भाष्यविरोधः, एवं हि चित्रापरिहारे भाष्यकारो वक्ष्यति -- स्याद् एवं यदि पञ्चैव प्रमाणान्यभविष्यन्न् इति. तत्र स्फुटम् एव हि षट् प्रमाणानि दर्शयति. न च तद्व्यवहाराभिप्रायम्, न हि प्रमाणगता संख्या व्यवहारं भिनत्तीति साम्प्रतम्. इहापि चाप्रामाण्ये न भाष्यकारेण कश्चिद् धेतुर् उक्तः. न च प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम्. तस्माद् व्याख्येयम् एतत्. अत्राह -- प्रमाणेति. अयम् अर्थः. प्रमाणलक्षणम् एवेदम्. यत् तूक्तं तदभावेन कथं तल्लक्ष्यते इति. सत्यम्. न प्रमाणमात्रविवक्षया प्रमाणशब्दः अपि तु सामान्यवचनो ऽपि प्रमाणशब्दो ऽधिकाराद् विशेषे ऽवतिष्ठते. प्रमाणाभाव इति किम् उक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति. अस्ति च पञ्चानां भावोपधानम् एकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणाभावो{३,१९२}भावप्रमाणम् इति. स चोपरिष्ठाद् द्वेधा व्याकरिष्यते -- आत्मनो ऽपरिणामो वा नास्तीति वा भावज्ञानम् इति. अस्ति वा भूतलमात्रोपलम्भाद् अन्यन् नास्तीति विज्ञानम्. बाढम्. को ऽस्य विषयः. चतुर्धा व्यूढः प्रमेयाभावः. असति हि तस्मिन् कार्यकारणादीनाम् इतरेतरसङ्करो वार्तिककृता दर्शित एव. यश् चायं पादविहारादिव्यवहारः कण्टकाद्यभावावधारणपुरस्सरः सो ऽप्य् अभावस्यासति प्रमेयत्वे न स्यात्. यदि भूतलमात्रम् अत्रोपलभ्यते न कण्टकादिविवेकः, सत्स्व् अपि तेषूपलभ्यत इति नासीति धिया गृह्येत. बुध्यपलापस् तु संविद्विरुद्ध एव. न हि भावाभावयोः प्रकाशो विशिष्यते. यत् तूक्तं तन्मात्रधीर् एव घटो नास्तीति व्यपदिश्यत इति. तत्र न विद्मः किं मात्रशब्देन व्यवच्छिद्यत इति. यदि न किञ्चिद् व्यावर्तयति, अनर्थकस् तर्हि. अथ व्यावर्तयति. अस्ति तर्हि व्यावृत्तिर् विषयः, इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत्. अयम् एव संसृष्टधियस् तन्मात्रधियो विशेषः. यद् असौ विविक्तविषया. विषयान्तरविवेकश् चाभावः. बुद्धिर् एव विषयः न ततो ऽन्य इति चेत्. सा तर्हि संसर्गोपलम्भे ऽप्य् अस्तीति नास्तीति प्रकाशेत. अपि च यद्य् अत्र प्रतिषिध्यते तत् तत्र नास्तीत्य् उच्यते. न चेह घटो नास्तीति बुद्धिः प्रतिषिध्यते, बुद्धिगोचरे हि नास्तीति शब्दे बुद्धेर् एवाभावः स्यात्. अथोच्यते घटो नास्तीत्य् अयम् अर्थः -- भूतलमात्रम् उपलभ्यत इति. न तावद् एवं लौकिका बुध्यन्ते. अपि चैवं सूक्ष्मस्य वस्तुनस् सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्य् अभावो नाम न कश्चिद् अस्ति, तर्हि वस्तुन्य् उपलब्धे को ऽयम् अपरस् संशयस् सूक्ष्मेषु केशकीटादिषु, तन्मात्रोपलम्भो हि भावान्तराणाम् अभावः, स च ज्ञात एवासंशयितव्यश् च, संविदः स्वप्रकाशत्वात् किम् अपरम् अन्विष्यते. दृश्ये प्रतियोगिनि तन्मात्रबोधो ऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेर् अभावो नातिरिच्यते. यदि तत्त्वान्तरम् अभावो भवेत्, तदा तदवधारणे दृश्यादर्शनम् उपयुज्यते. आत्मेन्द्रियमनो ऽर्थसन्निकर्षो हि ज्ञानजननकारणम्, तद् यदा सत्स्व् अप्य् अविगुणेष्व् इन्द्रियादिषु जिज्ञासितो ऽप्य् अर्थः प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाद् अदर्शनम् इति कल्प्यते. तद् एवं{३,१९३}दृश्यत्वसिद्ध्यर्था युक्ता सूक्ष्मजिज्ञासा. तन्मात्रोपलम्भे स्वभावे ऽदृष्टार्थम् एव दृश्यविशेषणम् आपद्येत. यच् चोक्तम् -- यदभावस्य कारणं तत्तन्मात्रधिय एव कल्पनालाघवाद् अस्त्व् इति. तद् अयुक्तम्. न हि कल्पनालाघवं भवतीति प्रमाणावगतम् उपेक्षितुं शक्यम्. न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम्. मुद्गरप्रहारादिर् ह्य् अभावस्य कारणम्. न च तेन तन्मात्रबोधो जन्यते. भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकः, नासौ घटादेर् उत्सारणं प्रहरणं वापेक्षते. यत् तु नानिरूपितम् अदर्शनम् अभावं निश्चाययति, सुषुप्ते प्रसङ्गाद् इति. तद् अयुक्तम्. न ह्य् अगृहीते वस्तुनि निराश्रयो ऽभावः प्रकाशते, क्वचिद् धि कस्यचिद् अभावः प्रतिभाति न स्वतन्त्रः. अत एवाह -- वस्तुरूपे न जायत इति. न च सुषुप्तस्य किञ्चित् प्रकाशते. क्व चाभावः परिच्छिन्द्यात्. अपि च योग्यप्रमाणानुत्पत्तिर् अभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्यो ऽर्थः, यो न प्रकाशत इति कथम् अभावनिश्चयो जायते, अतो नादर्शनम् अगृहीतम् इति सुषुप्तस्याभावो न प्रकाशते, किन् तु योग्यादर्शनम् एतन् न भवतीति. यच् चापि निवृत्ते ऽप्य् अदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति. तन् न. तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यद् एको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतः प्रत्यक्षनिवृत्त्या तदभावः प्रतीयते स्मृत्य् एव भावान्तराणाम्. तदानीन्तनो ऽभावः स्मृतिनिवृत्तिश् च तदानीम् अस्त्य् एव. न चावगम्यते. वस्त्वभावम् एव तु प्राचीनम् अवगमयतीति नानवस्था. अतो नास्तीति ज्ञानं प्रमाणम्, अभावश् च प्रागभावादिभेदभिन्नः प्रमेयम् इति साम्प्रतम्. तद् अयम् अर्थो भवति. यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर् वस्तुनस् सत्तां बोधयितुं न जायन्ते, तस्मिन् विषये ऽभावस्य प्रमाणता सम्भवति, तद् अनेन प्रमाणशब्दो ऽधिकारात् प्रमाणपञ्चके प्रयुक्त इति दर्शितम्. वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणम् इति दर्शयति. लौकिकप्रमाणलक्षणकथनाच् च यत्रैव प्रमाणानां शक्तिसम्भवस् तत्रैव तेषाम् अनुत्पादः प्रमाणम् अभावो ऽभावावधारणे. तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति. भाष्यस्याप्य् अयम् अर्थः -- अभावो ऽपि न परीक्षणीयः. अव्यभिचारात्. प्रमाणाभावो ह्य् असन्निकृष्टे ऽर्थे ऽभावाख्ये नास्तीत्य् अनेन रूपेण प्रकाशमाने यां बुद्धिम् उत्पादयति साभावप्रमा(?णः).{३,१९४}न चैवञ्जातीयकस्य व्यभिचारस् सम्भवतीति. व्यवहितम् अपि चाकाङ्क्षावशात् यां बुद्धिम् उत्पादयतीति सम्बन्धनीयम्.
SK
येन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत् |
SK
इति न्यायात्
SK
यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस् तत्राभावः प्रमाणम् इत्य् उक्तम्, किं पुनस् तत्रानेन प्रमीयते, अभावस् तावत् स्वप्रमाणैर् एव यथास्वम् अवगम्यते, अत आह -- वस्त्वसङ्कर इति
SK
वस्त्वसङ्करम् एव विवृणोति -- क्षीरे दधीति सार्धद्वयेन. यो ऽयं कार्यकारणादिना परस्परविवेकश् चतुर्धा दर्शितः स वस्त्वसङ्कर इत्य् आख्यायते. सो ऽभावेन प्रमीयते. शशशृङ्गादिरूपेणेति. तेन रूपेणालोच्यमानाः शशमूर्ध्न्यवयवा अभावः, स्वरूपेण तु भावा एवेति || २ -- ४ ||
SK
असति त्व् अभावप्रामाण्ये सर्वस् सर्वेण सङ्कीर्यत इत्य् आह -- क्षीर इति द्वयेन. एवम् इति. यथा क्षीरे दधि एवं दध्नि क्षीरम् इत्य् अर्थः. शशे शृङ्गम् इत्य् अतः प्रभृत्यत्यन्ताभावासिद्धौ दोषप्रसञ्जनम्. अभावप्रमाणानाश्रयणे हि न शशादिषु शृङ्गादीनाम् आत्यन्तिको ऽभावस् सिध्यति. परिपन्थिनश् च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते. महाभूतानां च वाय्वादीनाम्{३,१९५}आत्यन्तिको गन्धाद्यभावो न सिध्येत्. यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिर् इति || ५ -- ६ ||
SK
सर्वत्र सङ्करे दोषम् आह -- न चेति. यो ऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरम् एवानयति न दधि, दध्यानयने न क्षीरम्, इदम् असति कार्यकारणादीनाम् इतरेतरविवेके न सिध्यतीति
SK
ननु नाभावो नाम तत्त्वान्तरम् उपलभ्यते, भूतलं हि स्वप्रमाणाद् अवगच्छामः, घटं चासति प्रमाणे न पश्यामः, न तु घटाभावो नामापरः कश्चित् बुद्धौ भवति. घटो नास्तीत्य् अपि घटो न प्रमीयत इत्य् अर्थः, न तु घटाभावः प्रमीयत इति. अतस् सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरम् अत आह -- न चेति. यत् तावत् भावप्रमाणैर् नोपलभ्यत इति. सत्यम्. अत एवाभावः प्रमाणान्तरम्. घटो नास्तीत्य् अपि नायम् अर्थः घटो न प्रमीयते इति, सन्न् अपि हि घटो न प्रमीयत इत्य् उच्यते. अत एव घटो ऽस्ति न वेति पृष्टो निर्णीताभावो न नास्तीति व्यपदिशति, किन् तु अनुपलब्धिमात्रम्. अतो ऽभावप्रमितिर् एवायं घटो नास्तीति. यश् चायं चतुर्धा भेदो वर्णितः सो ऽपि सर्वोपाख्याविरहलक्षणे ऽभावे न सिध्यति. प्रयोगश् च भवति -- वस्तु अभावः, चतुर्धा भेदाद्, द्रव्यादिवद् इति. यद् अप्य् आहुः -- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्य् आत्मना नीलादयः परस्परं भिद्यन्ते, नैवम् अभावस्य भावात् किञ्चिद् भेदकम्.{३,१९६}अतो न व्यावृत्तम् उपलभामह इति कथं तत्त्वान्तरम् अवस्थापयामः. तद्व्यवहारस् तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्रय एव कथञ्चिद् उपपादनीयः, न त्व् एकाकारप्रतिनियताद् अन्यासंसर्गिणो(?र् अ)भावाद् अन्यो ऽभाव इति. तद् अप्य् एकदेशिनिराकरणेनैव निराकृतम्. अपि च, अविषयो नास्तीति विकल्पः कथं संवेद्यत इति वक्तव्यम्. शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयः, न चेह तद् अस्ति. न चात्मा विकल्पस्याभिलापसंसर्गयोग्यः, असाधारणत्वात्. अत एवात्मनि निर्विकल्पकत्वात् कल्पना स्वसंवित्तिं प्रत्यक्षाम् आह. यदाह नैनम् इयम् अभिलापेन संसृजति. तथा वृत्तेर् आत्मनि विरोधात् इति. यदि मतं - जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति. तन् न. समारोपितं हि यत् किञ्चिज् जातीयकं तत्प्रतिविकल्पम् अन्यद् अन्यच् च, कथम् एकशब्दालम्बनं भवेत्. कल्पिताकारभेदानध्यवसायाद् एकत्वाध्यवसाय इति चेत्. कस्य तर्हि, न हि नैरात्म्यवादिनाम् एकः कश्चिद् अस्ति प्रतिसन्धाता, यः पूर्वापरयोर् आरोपितैकत्वाध्यवसायाद् एकशब्दं प्रयुञ्जीत. विकल्पास् तु क्षणिकाः स्वविषये नियता नान्योन्यस्य विषयम् अभिनिविशन्त इति कथं प्रतिसान्दधीरन्. असति च विपर्यये समारोपितविषयत्वाभिधानम् अलीकम् एव. तदवश्यं नास्तीत्य् एकशब्दोपश्लिष्टम् उपेयतयाश्रयणीयं भाववदभावाख्यम् अपि किञ्चिद् अवस्थितं रूपम्. अत एव किं पुनस् तत्त्वम् इत्य् अपेक्षिते सतस् तु सद्भावो ऽसतस् त्व् असद्भाव इति द्वेधैव तत्त्वविद्भिस् तत्त्वम् आश्रितम्. अपि च -- असत्य् अभावे कस्य हेतोर् आहतस्य घटस्यानुपलम्भः, विनष्टत्वाद् इति चेत्. को विनाशः. यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्गः. न ह्य् अप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित् कारणम् अधुना पश्यामो यद्य् अस्य विनाशो नाम किम् अपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरम् इति. एतच् चानुपाख्येयत्वम् अभावस्य निराकर्तुम् उक्तम् -- न त्व् अभावो वस्तु, लोकविरोधात्. यथा ह्य् अचन्द्रश् शशीति लोकविरुद्धम्, एवम् अभावो वस्त्व् इति. सत्ता हि वस्तुत्वम्, न चासाव् अभावे समवैति, सदसद्विवेकाभावप्रसङ्गात्. अतो ऽवस्तु. कार्यकरणाद् अभावे वस्तुत्ववादः, न मुख्यतया. अभावो ह्य् अर्थक्रियासमर्थ एव, ज्ञानजननदर्शनात्. विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात्. एवम् उत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यम् इति. इतश् चाभावो{३,१९७} वस्त्व् इत्य् आह -- कार्यादीनाम् इति. वस्त्व् एव सदसदात्मकम् इति सिद्धान्तः. तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वम्. किम् इदानीं भावाभावयोर् अभेद एव, नेति वदामः, भेदो ऽपि ह्य् अनयोर् धर्मधर्मितया कियान् अप्य् अस्त्य् एव रूपादीनाम् इव. कः पुनर् अनयोस् सम्बन्धः, संयोगस् समवायो वा, न तावत् संयोगः, द्रव्यधर्मत्वात् तस्य. न च समवायः, भावाभावप्रसङ्गात्. अभावसमवाये हि भावो न स्याद् एव. नाभावसमवायाद् असत्त्वम्, न हि घटो ऽभावसमवायाद् असन् भवति. असति समवायानुपपत्तेः. किन् तु प्रहाराद् एव घटस्याभावः. यत् त्व् अनाहतम् अनपसारं च भावान्तरम् अभावरूपेणावगम्यते तत् कथम् असद् भविष्यति. अतस् स्वहेतोर् एव जायमानो नित्यो वा सर्वो ऽसङ्कीर्णस्वभाव एव जायत इति सिद्धम् अस्य जात्यादिवद् भावधर्मत्वम्. ततश् च वस्तुत्वम् इति
SK
इतश् च वस्तु अभाव इत्य् आह -- यद् वेति वस्त्वन्तेन. अभाव इति सामान्यात्मना प्रागभावादिभेदेन च व्यावृत्त्यात्मना गृह्यमाणो ऽभावस् सामान्यविशेषात्मकः, ततश् च वस्तुविषयप्रयोगार्थः -- अभावो वस्तु, सामान्यविशेषात्मकत्वात् गवादिवद् इति. तस्मिन्न् एव साध्ये हेत्वन्तरम् आह -- प्रमेयत्वाद् इति
SK
नन्व् अयम् असिद्धो हेतुः, औपचारिको हि सामान्यविशेषभावो ऽभावे. एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शावलेयादि. अतो ऽत्राप्य् औपचारिकस् सामान्यविशेषभावो विवेकज्ञस्य. असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम् -- अभावस् सामान्यविशेषात्मेति. अत आह -- न चेति. सति हि बाधके भ्रान्तिर् उपचारो वा कल्प्यते, न चेह तथेति भाव इति
SK
{३,१९८} एवं तावत् नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्य इति यद् उक्तं भाष्ये तद् विवृतम्. इदानीं प्रमाणाभावशब्दं व्याचष्टे -- प्रत्यक्षादेर् अनुत्पत्तिर् इति. अनुत्पत्तिर् एव केति चेद् अत आह -- सात्मन इति. आत्मनो हि ज्ञानात्मकः परिणामः. तद् यदा आत्मा भूतलादौ न घटादिज्ञानात्मना परिणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिः स्वरूपावस्थानं प्रमाणाभाव इत्य् आख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम्. नास्तीत्य् एव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिर् इत्य् उच्यते, अतस् तद् एव प्रमाणम्, (?ना/हा)नादिबुद्धिः फलम् इति विवेकः
SK
ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृद् एव तथा प्रतिभातम् इति किं प्रमाणान्तरेणात आह -- स्वरूपेति. स्वरूपेण तद्वस्तु गवादि सद्रूपम् अश्वादिरूपेण चासद्रूपम्. तद् अस्मिन्न् एव द्विरूपे किञ्चिद् एव कदाचित् प्रतीयते न तु सर्वात्मकम् एव गृहीतव्यम् इति नियम इति
SK
किं पुनः कारणं द्व्यात्मकस्यैकम् एव रूपं गृह्यते नापरं किञ्चिद् अत आह -- यस्य यत्रेति. उद्भूतं हि गृह्यते नानुद्भूतम्, अग्नेर् इव रात्रौ रूपं न स्पर्शः, जिघृक्षितं वा प्रायेण. अतो यद् एव सदसतोर् उद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतः. चेत्यते ऽनुभव इति किम् इदम्, न ह्य् अनुभवश् चेत्यते, स एव चेतना, विषयस् तु चेत्यते. सत्यम्. विषयप्राप्त्यन्यथानुपपत्त्यानुभवो ऽपि चेत्य् अत एव. तद् अनेन प्रकारेण विषयप्रकाशम् एव दर्शयतीत्य् अदोष इति
SK
{३,१९९} उद्भूतजिघृक्षितैकग्रहणे चेतरस् तदनुगुणतयैव लीनो भूत्वावतिष्ठते. सामान्यविशेषयोर् इवैकग्रहणे ऽन्यतर इत्य् आह -- तस्येति. इदं चान्वारुह्यवचनेनास्माभिर् उक्तम्. अस्त्य् एव तु भावाभावप्रतीताव् अन्यतरानुगम इत्य् आह -- उभयोर् इति
SK
उभयानुगमम् एव दर्शयति -- अयम् एवेति द्वयेन. अयम् एवेति. भावान्तरेणासङ्कीर्ण इत्य् अर्थः. न ह्य् अप्रतिसंहिते भावान्तराभावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते. नास्तीत्य् अपि प्रतिषेध्यप्रतिषेधाधारभावोपष्ठम्भनवर्जितं न किञ्चित् ज्ञानं जायते. किञ्चिच् छब्देन भावस्याभावानुगमशून्यम् अपि ज्ञानम् अस्त्य् एव, न त्व् एवम् अभावस्येति दर्शयति || १५ -- १६ ||
SK
दर्शितं तावत् सदसदात्मकं वस्त्व् इति. कदाचित् किञ्चिद् अनुभूयत इति च. उभयोर् अंशयोर् इदानीं प्रमाणविभागं दर्शयति -- प्रत्यक्षादीति
SK
कथं पुनर् इदम् अवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटो ऽस्ति, अघटं वा भूतलम् इत्य् अभावविशिष्टं भूतलज्ञानं जायमानम् उपलभ्यते(?){३,२००}दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते. न ह्य् अप्रत्यक्ष एव विशेषणे विशिष्टः प्रत्यक्षो भवति, दण्ड इव दण्डी. न च नास्त्य् एव विशिष्टा धीर् इति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात्. अपि चात्मा भावस्याभावः, स कथं स्वतन्त्रो ऽनुभूयते. न हि रूपादयो भावधर्माः स्वतन्त्रा एवावसीयन्ते. स्वतन्त्राभाववादस् तु स्वातन्त्र्यम् एव, सदसदात्मके वस्तुनीति हि दर्शयति. भावांशो ऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणम् इत्य् आह. किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्य् अयं कदाचिद् अपि तथावसीयते. किम् इदानीम् अभावो नावसीयत एव, स्वतन्त्रो वावसीयते. न तावत् पूर्वः कल्पः, तदवगमे प्रमाणान्तराभावात् नित्यासंवित्तिप्रसङ्गात्. न च संयोगप्रतिषेधे स्वतन्त्राभावावसायो ऽस्ति, प्रतियोगिसंयोगप्रतिषेधात्मैव ह्य् अभावः, स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव. एकं कीदं विशिष्टं ज्ञानम्. तदस्याभावः प्रमाणम् इन्द्रियं वा, यद्य् अभावः स तर्हि भावम् अपि गोचरयेत्. न चैतद् इष्टम्. अतस् सत्य् उपलभ्यमाने तदैव यन् नोपलभ्यते तन् नास्तीति सत एव प्रकाशकम् असतो ऽपीति न प्रमाणविभागं पश्यामः. अत आह -- न तावद् इति. तावच्छब्दो लिङ्गापेक्षया. तच् चोपरिष्ठान् निराकरिष्यत इति. अत्र कारणम् आह -- भावांशेति. योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावे ऽपि. विनापि तु तेन तद्ग्रहणाद् इति वक्ष्यामः. अत्र तु योग्यतासहिता प्राप्तिर् इन्द्रियार्थयोस् सम्बन्ध इत्य् अभिप्रायः. यत् त्व् एकज्ञानसंसर्गिणोर् एकप्रमाणत्वम् इति. तन् न. एकस्या अपि बुद्धेर् नानाकारणत्वदर्शनात्. एकं हीदं भावनेन्द्रियसभाहारजं प्रत्यभिज्ञानम् इति वक्ष्यामः. एकज्ञानप्रतिभासिनोर् अपि च गृह्यमाणस्मर्यमाणयोर् विवेक उक्तः. विविक्ता एव ते ह्य् अर्था इति. न हि स्मृत्युपस्थापितनाम् अविशिष्टो डित्थो न प्रत्यक्षो भवति. नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो नावगम्यते नाप्रत्यक्षे. एवम् इहापि प्रमाणाभावोपनीताभावविशिष्टे सत्य् उपलभ्यमाने न किञ्चिद् अनुपपन्नम्. दण्डिन्य् अपि शाब्दे तावद् दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डो ऽपि. प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवम् उभयत्राक्षाणां योग्यता. अभावज्ञाने तदनपेक्षाया{३,२०१} वक्ष्यमाणत्वात्. किम् इदानीम् अनुमाने ऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधः. न. अनुमानस्यान्वयाधीनजन्मत्वात्. विशिष्टेनैव चान्वयानुगमात्. धूमवान् अग्निमान् इति हि व्याप्तिर् अवगता. उक्तं च --
SK
नैवं न ह्य् अत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना |
SK
इति. अत्रापि चायम् अग्निमान् इति विशेषबोधे ऽस्त्य् एव प्रत्यक्षापेक्षा. अयम् एवाभावस्य प्रतीतिप्रकारः, यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिद् अनुपपन्नम्. यच् च संयुक्तविशेषणतया इन्द्रियसन्निकर्षो ऽभावस्येत्य् उक्तम्, तद् अयुक्तम्. असम्बद्धस्य विशेषणत्वानुपपत्तेर् अतिप्रसक्तेः. इतरथा विशेषणार्थम् अर्थितेनैव सन्निकर्षोपपत्तौ वृथैव संयुक्तविशेषणार्थत्वाश्रयणम् इत्य् अलमनेनेति
SK
अभिप्रायम् अजानानश् चोदयति -- नन्व् इति. प्राप्तिमात्रं ह्य् अर्थेन्द्रिययोस् सन्निकर्षः. अस्ति च भावाद् अभिन्नस्याभावस्य भाववद् एवेन्द्रियप्राप्तिर् इति. अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदम् एवायम् आह, तद् एतम् एव तावन्निराकरो(?षी/मी)त्य् अभिप्रायेणाह -- न हीति. यदि भावाभावयोर् एकान्तम् अभेद एव स्यात् ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्व् एवम् अस्ति. अभावस्यापि रूपादिवदत्यन्ताभेदाभावाद् इति
SK
रूपादितुल्यताम् एवाभावस्य दर्शयति -- धर्मयोर् इति. भावाभावात्मनोर् धर्मयोर् धर्म्यभेदे ऽपि स्थिते भेदो ऽपीष्ट इत्य् अर्थः. भेदे कारणम् आह -- उद्भवेति. भावाभावयोर् अप्य् उ(?द्भवा/द्भूता)भिभूतयोर् ग्रहणाग्रहणव्यवस्था दृश्यते. न चैतद् एकत्वे कल्पिते. न ह्य् एकम् एव तत्त्वम् उद्भूतम् अभिभूतं चेति प्रतीयत इति
SK
{३,२०२} इदं चानयोर् विवेककारणम् इत्य् आह -- इदम् एवेति. अक्षानपेक्षता चाभावधियो वक्ष्यत इति
SK
अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनाम् इति कैश्चिद् इष्यते. सो ऽनयोर् अपि शक्यते ऽवगन्तुम् इत्य् आह -- रूपादेर् इति. एवं हि केचिद् वदन्ति -- यथा ह्य् एकम् एव मुखं मरतकपद्मरागाद्युपाधिभेदाद् भिन्नम् इव प्रतिभाति, यथा चैक एव पुरुषो ऽपेक्षाभेदात् पुत्रादिभेदभिन्न इव गृह्यते, यथैकम् एव तत्त्वं श्रोत्राद्युपाधिभेदाद् भिन्नम् इव प्रतिभाति, एवम् इहापि भावाभावयोर् औपाधिको भेदो भविष्यतीति. नन्व् एवम् औपाधिके भेदे तात्त्विकम् एकत्वं प्राप्नोति. भवत्व् अस्मिन् मते, तथापि रूपादिव्यवस्था सिध्यत्य् एवेति
SK
इदं चान्वारुह्यवचनेनास्माभिर् उक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदः, किन् तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तराद् एकरूपम् अवगतं तदुपाधिभेदाद् भिद्यत इति युक्तम्. न त्व् एकत्वे रूपादीनां किञ्चित् प्रमाणम् अस्ति, नित्यम् एव वैलक्षण्यात्. अयं च बुद्धिभेदो भेदहेतुर् भावाभावयोर् अपि समान एवेत्य् अभिप्रायेणाह -- बुद्धिमात्रेति. कः पुनर् अयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद् भिन्नम् उपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात्. अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरम् अत आह -- न चेति. नात्र वन इव बाधिका बुद्धिर् अस्तीति भावः. इदं च सविकल्पकसिद्धाव् उक्तम् अप्य् अभावाश्रयसमर्थनार्थम् अत्रोक्तम् इत्य् अपुनरुक्ततेति
SK
{३,२०३} एवं तावदभावस्य भावाद् भेदाभेदौ दर्शितौ. ताव् एव रूपादिदृष्टान्तेन द्रढयति -- सद्गुणद्रव्येति. न हि रूपादयस् सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदश् शक्यते वारयितुम्, तथा वा भेद इति न सदाद्यात्मनाभेदः प्रतिक्षिप्यते. एवम् अभावो ऽपि भावधर्मतया ततो भिन्नो ऽपि स्वरूपापेक्षयाभिन्न इष्यते. द्रव्यरूपेणेति. रूपादयो द्रव्याद् अभिन्नाः, तच् चाभिन्नम् इति तद्रूपेणैषाम् अभेद इत्य् अर्थः
SK
स्वरूपापेक्षया रूपादिवद् भेदानाश्रयणे भावाभावयोर् अन्यतरत्र न बुद्धेस् सदसद्रूपता भवेद् इत्य् आह -- यदीति
SK
अस्ति त्व् असाव् इन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्य् आह -- सत्सम्बन्ध इति. एतेन, यद् आहुः -- न भावाद् भेदकम् अभावस्य रूपम् उपलभामह इति, तन्निराकृतम्. सदसद्रूपविवेकाद् इति. यद् इन्द्रियेण संयुज्यते भूतलं तद् अस्तीति प्रतीयते, यन् न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति
SK
नन्व् इन्द्रियव्यापारानन्तरम् एवेह घटो नास्तीति ज्ञानम् उत्पद्यते, तत् कुतो ऽयं विवेको नेन्द्रियेणाभावबुद्धिर् जन्यत इति. न ह्य् असति तद्व्यापारे भावबुद्धिवदभावबुद्धिर् अपि जायमाना दृश्यते. यद्य् अपि भावाद् अभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रियसन्निकर्षो{३,२०४}स्त्य् एव. अतस् तज्ज्ञानम् ऐन्द्रियकं भवेद् अत आह -- गृहीत्वेति. अयम् अभिप्रायः -- नानाश्रयो ऽभावः शक्यते ग्रहीतुम् इत्य् आश्रयग्रहणार्थम् एवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्य् अभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनस् संस्कारस्योद्बोधो ऽप्य् अपेक्षितः, एवम् आश्रयग्रहणार्थम् इन्द्रियम्. न च प्राप्तिमात्रम् ऐन्द्रियकज्ञानजन्मनि कारणम्. अपि तु योग्यतासहिता प्राप्तिर् इति प्रत्यक्षे वर्णितम्. न चेन्द्रियाणाम् अभावज्ञानजननयोग्यता, तेष्व् असत्स्व् अपि तद्भावाद् इति वक्ष्यते. मानसम् इति को ऽर्थः. किं सुखादिज्ञानवन्मनसा जन्यत इति. यद्य् एवं तथापि प्रत्यक्षतैव. न चान्तर् इव बहिर्मनसस् स्वातन्त्र्यम् अस्ति. सत्यम्. सर्वप्रमाणसाधारणस् तु मनसो व्यापारो ऽत्र कथितः. केवलात्ममनस्सन्निकर्षाद् एव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्य् उक्तं भवति. गृहीत्वा स्मृत्वेति च धर्मधर्मिणोर् अभेदात् समानकर्तृकत्वाभिधानम् इति
SK
कथं पुनर् इदम् अवगम्यते भावग्रहणम् इन्द्रियापेक्षं नाभावग्रहणम् इति. समानो हि तद्भावभावः. अत आह -- स्वरूपेति. यो हि गृहस्वरूपम् एवावधार्य क्वचिद्गतः पृच्छ्यते -- तत्र चैत्रो ऽस्ति न वेति, तदासौ पृष्टस् तत्र नास्तितां तदैव प्रतिपद्यते. यदि त्व् इन्द्रियाधीनम् अभावज्ञानं भवेत् नासति तद्व्यापारे जायेत. न च पूर्वावगताभावस्मरणम् एवेति वाच्यम्. न ह्य् असति प्रतियोगिस्मरणे भावो दृश्यते. न चाश्रयग्रहणकाले प्रतियोगिस्मरणम् अस्ति. बहूनाम् एव हि पृष्टेनाभावः कथ्यते. न च तावतां स्मरणं तत्रासीद् इति चिन्तयितुं शक्यते. यदि तूच्यते सामान्येनाभावो ऽवगतः, सम्प्रति विशेषेण स्मर्यत इति, तद् अयुक्तम्. न ह्य् अभावत्वं नाम सामान्यम् अस्ति, विशेषाणाम् एव स्मृतिविपरिवर्त्तिनाम् एवाभावो ऽवसीयते. न च सामान्यतो ऽवगतो विशेषेण स्मर्यत इति, युक्तम्. पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिः, नाल्पम् अव्यतिरेकं गोचरयितुम् उत्सहते. अतस् तदानीम् एव प्रतियोगिस्मरणपुरस्सरम् इन्द्रियानपेक्षम् अभावज्ञानं जायत इति मनोहरम् इदम्. तद् इदम् उक्तं तदैव प्रतिपद्यत इति. इदं च प्रत्यक्षफलस्मृतिनिवृत्त्या फलतः प्रत्यक्षानवृत्तिर् इत्य् उक्तम् एवेति
SK
{३,२०५} एवं तावदक्षजत्वम् अभावधियो निराकृत्तम्. इदानीं लैङ्गिकत्वं निराकरोति -- न चाप्य् अत्रेति. अत्र चोदयति -- भावांशेति.
SK
परिहरति -- तदानीम् इति मतिरन्तेन. द्वाव् अत्र भावौ प्रतिषेध्यः प्रतिषेधाधारश् च, तत्र न तावत् प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति. न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते. तद् इह प्रतिज्ञाहेत्वोर् विरोधः. सति भावे तदभावो न प्रतिज्ञातुं शक्यते. सत्यां तु प्रतिज्ञायां नासतो ऽदृष्टस्य लिङ्गत्वम्. अतो नाभावे जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गम् इति || २९ -- ३० ||
SK
अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गम् अत आह -- न चैष इति. एष इति परोपस्थितम् अपरोक्षं भावं निर्दिशति. यथार्थे पक्षीकृते पदम् अतद्धर्मतया न हेतुर् इत्य् उक्तम्, एवम् एषो ऽपि भूतलभावो न घटाद्यभावधर्म इति. अपि चान्वयाधीनात्मलाभम् अनुमानज्ञानम्, न च भूतलभावस्य सर्वैर् अभावैस् सम्बन्धो ज्ञायते. तत् कथं ततस् ते प्रत्येष्यन्त इत्य् आह -- सहेति
SK
अस्तु तावद् अभावान्वयः क्वचिद् भूतलादौ भावे, सद्भावो ऽपि यस्य घटादेः कदाचित् ज्ञातः तस्यापि तत्राभावो ऽवगम्यत इत्य् आह -- क्वचिद् इति
SK
{३,२०६} न केवलं यद्य् अत्र कदाचिद् दृष्टं तन्मात्रस्य तत्राभावो ऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस् तस्यापि तत्राभावो ऽवगम्यत इत्य् आह -- यत्रेति
SK
यदि तु येन केनचिद् एकेनाभावेन गृहीतसम्बन्धाद् भावाद् अभावान्तरानुमानम् इष्यते, ततो ऽतिप्रसक्तिर् इत्य् आह -- कस्यचिद् इति
SK
न चैवम् अस्तीति व्यतिरेकेण दर्शयति -- गृहीते ऽपि च भावांशे नैवाभावे ऽन्यवस्तुनः. सर्वस्य मतिर् इत्यन्तेन. अनैकान्तिकश् चायं भावो ऽभावान्तरैर् अपि सम्बन्धात्. अतो ऽनैकान्तिकत्वाद् अस्य घटादेर् अभावं गमयितुम् अलिङ्गत्वम् इत्य् आह -- एवं व्यभिचाराद् अलिङ्गतेति
SK
अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम्. तद् इहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणम् इति वक्तव्यम् इत्य् आह -- सम्बन्ध इति
SK
न तावल् लिङ्गम् अविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्याद् इत्य् अभिप्रायेणाह -- तदानीम् इति. अतो ऽवश्यं तद्ग्रहणे प्रमाणान्तरम् अर्थनीयम् इत्य् आह -- तत्रेति
SK
{३,२०७} अत्रेदानीम् अनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानम् आह -- प्रत्यक्षादेर् इति. द्वेधा हि हेतवो बौद्धैर् विभज्यन्ते -- कार्यं स्वभाव इति, अनुपलब्धिश् चैकज्ञानसंसर्गिणोर् एकोपलब्धिर् एव, तस्याश् च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा. न ह्य् असौ स्वरूपम् इव ज्ञेयसत्ताम् अपि व्यभिचरति. तस्याश् च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यम् एव प्रतिबन्धः. न ह्य् असौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम्. तद् एवं ज्ञातप्रतिबन्धानुपलब्धिः यो नाम भ्राम्यन् विविक्तदेशोपलब्धाव् अपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति. एवं च घटाद्यभावानुपलब्धिप्रयोगः -- यद् दृश्यं हि सद् यत्र नोपलभ्यते तत् तत्र नास्ति. नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति. एतद् अपि दूषयति -- न विशेषणसम्बन्धस् तस्या इति. य एवानुपलब्ध्यानुमातुम् इष्यते घटाभावो नास्तीति व्यवहारस् तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेस् सम्बन्धो ऽवगतः, कथं ततो विशेषानुमानम्. भूतलोपलब्धिर् हि सा, तस्याश् च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत्. घटानुपलब्धिर् असौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत्. कस् तस्या घटेन सम्बन्धः. देशोपलब्धिर् हि सा, तावद् एव तस्या घटानुपलब्धित्वम्. तच् च सर्वान् प्रत्यविशिष्टम् इति कथम् एकेनैव व्यपदिश्यते न चेद् घटाभावो नाम कश्चित्. कस्माच् च सत्य् अपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते. सद्व्यवहारविरोधाद् इति चेत्. कथं घटानुपलब्धौ सद्व्यवहारः. अस्ति हि तदानीम् अपि देशोपलब्धिः. विविक्तोपलब्धिर् हि घटानुपलब्धिः, नासौ घटे सतीति चेत्, को विवेकार्थ इति. नन्व् अयम् अभाव एव. तदभावे ऽनर्थकं विविक्तवचनम्, अतो ऽनुपलब्धेर् अयम् अपि विशेषो दुस्साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति. यच् चेदं घटाभावम् अतिलङ्घ्य नास्तीति व्यवहारानुमानम् अवस्थितं तद् अपि केन विशेषेणेति न विद्मः. सो ऽपि भावातिरेकी न कश्चिद् उपलभ्यते. योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिद् अनुमेयं पश्यामः. वार्तिककारेण त्व् इदम् उपेक्ष्यैव तावद् दूषणान्तरम् उक्तम् इति
SK
{३,२०८} अभावसामान्येन त्व् अनुपलब्धेस् सम्बन्धस् सिध्यत्य् एव, न त्व् अभावसामान्ये प्रमाणम् उपजायत इत्य् आह -- सामान्येति. विशेषास् त्व् अनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्य् आह -- व्यभिचाराद् इति
SK
अपि च -- नानवगतरूपं लिङ्गम् अनुमाने लिङ्गं भवति, तद् इयं प्रत्यक्षाद्यनुत्पत्तिर् अभावत्वाद् अपरेण लिङ्गेनावगन्तव्या. एवं हि वदन्ति, यावान् कश्चित् प्रतिषेधः स सर्वो ऽनुपलब्धेर् एवेति. एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्य् आह -- न चेति द्वयेन. एतच् चोपलब्ध्यभावो ऽनुपलब्धिर् इत्य् आपाद्योक्तम्, विविक्तेतरपदार्थो ऽनुपलब्धिर् इति तु प्रत्युक्तम् इति || ४० -- ४१ ||
SK
एवं यो ऽप्य् असौ लिङ्गिरूपाभावः सो ऽपि सम्बन्धग्रहणार्थम् अवश्यं प्रथमम् अवगन्तव्यः. तदवगमे ऽपि तद्रूपापरलिङ्गाभ्युपगमाद् अनवस्थैव. अतः क्वचिद् अवश्यम् अनुमानाभावात् प्रमाणान्तरम् अभ्युपगन्तव्यम् इत्य् आह -- लिङ्गेति
SK
यदि तु नास्तीति बुद्धिर् एव लिङ्गम् इत्य् उच्यते तन् न. फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थम् एव हि लिङ्गम् इष्यते.{३,२०९}सिद्धायां तु बुद्धौ किं लिङ्गेन. तद् एतद् आह -- नेति. यदि सा फलं किं तर्हि प्रमाणम् अत आह -- तस्यैवेति. यस्यैव सा फलं तद् एव प्रत्यक्षाद्यनुत्पत्तेः फलानन्तर्यात् प्रमाणम् इति
SK
किञ् च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनो ऽनुमानत्वम् इत्य् आह -- त्रिलक्षणेति. एवं हि ते पठन्ति. त्रिरूपाल् लिङ्गतो ऽर्थदृगनुमानम् इति. न चानुत्पत्तिर् उत्पत्तेः प्रागभावो बुद्धेः केनचिज् जन्यते, प्राग् एव त्रिलक्षणेन हेतुनेति. ननु च हेतुतयानुपलब्धिर् अनुमानम् इष्यते, न त्व् अनुमितिर् अनुमानम् इति भावसाधनतया. अतः किं तन्निरासेन. सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतम् एव. अनेन तु लक्षणानन्तःपातो वर्ण्यत इति
SK
अत्र चोदयति -- (मानम् इति)प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्व् अवगता, तन्निवृत्त्या निवर्त्यत इति भावः. इतरस् तु -- वर्णितो ऽस्माभिः प्राग्भावानाम् असङ्करश् चतुर्धा. न च तद्बोधस्य भावबोधवैलक्षण्यम् उपलभ्यते, बाधविरहसामान्यात्. स च प्रामाण्ये कारणं न भावस्वरूपता. सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथंचित् तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति. भावे तु प्रमेये तदप्रमाणम् एवेत्य् अभिप्रायेणाह -- प्रमेयम् इति. अनुरूपम् एवेदं यदभावे ऽभावः प्रमाणम् इत्य् आह -- मेय इति
SK
यथा भावात्मके मेये ऽभावः प्रमाणं नानुरूपं तथा तदभावे भाव इत्य् आह -- भावात्मक इति
SK
{३,२१०} न भावात्मकम् एव प्रमाणम् इति राजाज्ञा, यद् एव तु परिच्छेदफलं तद् एव तु प्रमाणम्, तच् च प्रत्यक्षाद्यजन्मनो ऽपि समानम् इत्य् आह -- भावात्मकस्येति || [४७] ||
SK
स्याद् एतत् -- वस्तुन एव प्रामाण्यदर्शनान् नावस्तुनो ऽनुपलब्धेः प्रमाणत्वम् इति. तथा च सति बौद्धानाम् अपि लिङ्गप्रमेयत्वे न स्याताम्, ते ऽपि हि नावस्तुनो दृष्टे इत्य् आह -- यदीति सार्धेन. अनुज्ञाने दोषम् आह -- तथा सतीति. न च स्याद् व्यवहारो ऽयम् इति कारणादिविभागेनोक्तो व्यवहार इत्य् अर्थः || ४८ -- ४९ ||
SK
अपक्षधर्मत्वाद् अपि प्रत्यक्षाद्यनुत्पत्तिर् न लिङ्गम् इत्य् आह -- प्रमाणानाम् इति. नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस् तद्धर्मतयावगम्यते. अभावेन सम्बन्धाभावाद् इत्य् अभिप्राय इति. नन्व् अभावविशिष्टं भूतलं साधयिष्यामः, तच् च पूर्वम् अवगतम् इति तद्धर्मो भविष्यतीत्य् अत आह -- यत्रेति. न हि भूतले प्रत्यक्षानुत्पत्तिः, ज्ञायमानत्वात् तस्येति
SK
घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनाम् अनुत्पत्तेर् अत आह -- य इति. सत्यम्. यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद् भवेद् अपि, न त्व् असाव् इह प्रमीयते. धर्मधर्मित्वयोर् अभावात्. न हि{३,२११}तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेः. नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावाद् इति
SK
अभावस्य तु सा धर्मो भविष्यति तद्विषयत्वात् तस्याः. अभावे हि प्रमेये सा लिङ्गं भवत्य् एव. किन् तु नासञ्चेतितो ऽभावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्य् आह -- अभावेनेति
SK
अन्यस् तु न कश्चिद् अभावेनानुत्पत्तेस् सम्बन्धप्रकारो विद्यते, येन तद्धर्मताम् अनुगम्यानुमानं भविष्यतीत्य् आह -- संयोग इति. इतश् चापक्षधर्मत्वम् इत्य् आह -- नागृहीत इति. न ह्य् अगृहीते पर्वते धूमस् तद्धर्मतयावगम्यते. अथ तद्वदभावो ऽपि प्राक् प्रतीयत इत्य् उच्यते, सिद्धं तर्हि साध्यत इति
SK
एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति -- अभावशब्देति
SK
प्रयोगान्तरम् आह -- अभावो ऽपीति भावान्तेन. अतस् सिद्धं भावात्मकात् प्रमाणाद् अन्यत्वम् अभावस्येत्य् उपसंहरति -- तस्माद् इति
SK
वेदोपयोगम् अभावस्य दर्शयति -- कर्माणीति. यो ऽयं सर्वकर्मणां फलासङ्करः परस्परासङ्करश् च परस्परम् अङ्गाङ्गिभावाभावः, नासाव् अभावप्रामाण्यादृते{३,२१२}सिध्यतीति. (?यथेति. यावत् तावद् यथावद् इति.) इहेति. वेदं प्रति निर्देश इति
SK
ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयम् उपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोर् अपि प्रमाणत्वम् आश्रितम्, तत्परित्यागे कारणं वक्तव्यम् अत आह -- युक्तीति. प्रमाणषट्कम् एव हि युक्त्या सङ्गच्छते. आगमानुगतश् च. आगमश् च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्याम् इह शाबरे भाष्ये प्रमाणषट्कम् एव प्रविविच्य तर्कितम्. यत् तु द्वयम् अधिकम् इष्टं तद् अत्रैवान्तर्गतम् इति
SK
(?कः/क्व) पुनस् तस्यान्तर्गतिर् अत आह -- इह भवतीति. या तावत् सहस्राच्छते मतिस् सम्भवाख्यं प्रमाणम् इष्यते सानुमानान् न भिद्यते. सहस्राच् छतम् अवियुतिभावाद् अविनाभावाद् अवगम्यते. अतस् तावद् अनुमानान् न भिद्यते. ऐतिह्यप्रमाणम् उक्तं तावद् असत्यम् एव. निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि, यदि तत् सत्यं तदागमाद् (न) भिद्यते. आप्तागमो ह्य् असौ. उक्तं च -- पुरुषोक्तिर् अपि श्रोतुर् आगमत्वं प्रपद्यते. इति. अतो ऽनुमानागमयोर् अन्तर्भावान् न सम्भवैतिह्ययोः पृथगुपन्यासस् सिद्धः.
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम्
SK
अभावपरिच्छेदस् समाप्तः ||
SK
{३,२१३} भाष्यपाठो विचार्यः, अत्र भाष्यम् -- ननु भवन्त्व् अन्यानि प्रमाणानि, शब्दस् तु न प्रमाणम्, कुतः? अनिमित्तं विद्यमानोपलम्भनत्वात् इति. अस्यार्थः -- यद्य् अपि सर्वप्रमाणाव्यभिचारान् न प्रमाणसामान्यभाविना धर्मेण शब्दो ऽपि न प्रमाणम्, विशेषेण त्व् आत्मभाविना धर्मेणाप्रमाणम्. तथा हि -- चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्य् अस्यार्थः. कृतचित्रस्यापि यजमानस्यानन्तरम् अविकलसकलेन्द्रियैर् अपि पशवो न दृश्यन्ते. तन् न नूनम् इष्टिः पशुफलेति भवति मतिः. तद् इदम् उक्तम् अनिमित्तं विद्यमानोपलम्भनत्वात् इति. किम् उक्तं भवति -- उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते. न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते. तस्माद् उक्तविसंवादाद् अप्रमाणं चित्राचोदनेति. स पुनर् अयम् आक्षेपो गतार्थ उपलक्ष्यते. चोदनासूत्रे हि नन्व् अतथाभूतम् इत्यादिना भाष्यकारेणाक्षेपपरिहाराव् उक्तौ. अतः पुनरुक्तम् इदम् इत्य् आशङ्क्याह -- परलोक इति. अस्यार्थः -- परलोकफला हि तत्र स्वर्गकामो यजेतेत्य् एवमादिचोदना वेदबाह्यबौद्धादिपरमतेनाक्षिप्ताः. इदानीम् ऐहिकफलाश् चित्रादिचोदना आक्षिप्यन्ते. ननूभयीम् अपि चोदनाम् आक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवः. त एव तत्र भाष्यकारेण यत् किञ्चन लौकिकं वचनम् इति दर्शयतान्तर्णीताः. वार्तिककृतापि -- यदि वा पुरुषाधीनप्रामाण्याः सर्वचोदना इति विवृताः. तस्माद् असद् एतत् परलोकफला एव तत्राक्षिप्ता इति. यद् अपि चेदानीम् ऐहिकाक्षेप इत्य् उक्तं तद् अयुक्तम्, इहापि च -- एवं दृष्टापचारस्य वेदस्य स्वर्गाद्य् अपि फलं नास्तीति मन्यामह इति सर्वाक्षेपः कृतः. वार्तिककारेणापि च
SK
एवं सत्य् अग्निहोत्रादिवाक्येष्व् अपि मृषार्थता
SK
इति वदता. तस्माद् उभयत्राप्य् उभयाक्षेपम् एव न्याय्यं मन्यन्ते. केयं व्यवस्था. अत्रोच्यते. सत्यम् उभयत्राप्य् उभयाक्षेपः, तथापि हेतुभेदाद् अपौनरुक्त्यम्. तथा हि -- तत्र वाक्यत्वादयः परैर् उक्ता आक्षेपहेतवः,{३,२१४}इदाना तु शब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते. तथा चोकम् --
SK
आनन्तर्यम् अनुक्तं चेन् न सामर्थ्यावबोधनात् |
SK
इति. सामर्थ्यं हि सर्वाख्यातानाम् अर्थं ब्रुवतां सहकारि. तद् यद्य् अपि नेष्टिर् अनन्तरफलेति श्रुतिः, तथाप्य् अर्थसामर्थ्याद् एतद् अवगम्यते, कथम् अपरथा यदासौ विद्यमानासीत् तदा फलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यति इति. न च पशवो ऽनन्तरम् असम्भवद्भावनाः, स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुम् उत्सहते, अतो माभूद् अनन्तरम्, अमी पुनः पशवः सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरम् अनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराः श्रुतचित्रादिफलतया न शक्त्यन्ते ऽवगन्तुम्. अयम् एव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियाम् अनुविदधानेन न वा पशुफलेत्यादिना साधनप्रयोगैर् उपदर्शितः. तद् एवम् ऐहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वम् इति पुनर् अप्य् अग्निहोत्रादिचोदनाक्षेपे ऽवतिष्ठते. स चायम् ऐहिकाक्षेपद्वारेणापिनोच्यते. अत एव चैहिकाक्षेप इत्य् उक्तम्. एतद् उक्तं भवति -- ऐहिकफलानाम् आमुष्मिकफलानां चायम् ऐहिकाक्षेपपुरस्कारेणैवाक्षेपः, यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरम् उपलभ्यताम् ऐहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदम् उपलभ्यते, तन् न नूनं तत् फलम् इति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासाम् अपि परलोकफलानां तत्सामान्याद् आक्षेपः. पूर्वं तु ताः परतः प्रामाण्यम् आश्रित्य परोक्तैर् एव वाक्यत्वादिभिर् हेतुभिर् आक्षिप्ताः. तदुक्तं परैर् इति. परिहारान्तरम् आह -- सूत्रेति. अयम् अभिप्रायः -- चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थम् उपवर्णितौ. इदानीं तु सूत्रकारेण स्वयम् एवोच्यत इति तेनेदम् एव सर्वचोदनाक्षेपक्षेत्रम् इत्य् उक्तम् इति
SK
अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुर् इति, तम् उपन्यस्यति -- चित्रेति फलानीत्यन्तेन. अयम् अर्थः -- चित्रापशुफलत्वादिविषयाश् चोदना धर्मिण्यः{३,२१५}मृषेति साध्यो धर्मः. अधिकृतैः प्रवृत्तिवोग्यैर् अपि प्रत्यक्षादिभिर् अर्थानवगतेः. यदीदृशं तन्मृषा -- यथा विप्रलिप्सोर्वचः. आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाः पक्षीकरोति. ननु विप्रलिप्सुवाक्यम् अत्र दृष्टान्तः. न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थम् असत्यं च. तस्माद् उभयविकलो दृष्टान्तः. अत आह -- तत्रेति. असत्य् अर्थे प्रयुक्तम् एव नदीतीरादिवाक्यम् इह दृष्टान्तः. प्रायेण चैवञ्जातीयकं विप्रलिप्सुर् एव प्रयुङ्क्त इति विप्रलिप्सोर् इत्य् उक्तम् इति || २ -- ३ ||
SK
इदानीम् ऐहिकाक्षेप इत्य् उक्तं विवृणोति -- न वेति वदन्तेन. चित्रेष्टिर् धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवद् इति. प्रयोगान्तरम् आह -- ते ऽपीति. ते पशवो न चित्रासाध्याः, चित्रोत्पत्ताव् असद्भावात् स्वर्गतृप्तिसुखादिवत्. आदिशब्देनात्र भोजनजन्या तृप्तिर् अभिप्रेता. एतौ च प्रयोगौ नेष्टिः पशुफला, कर्मकाले च कर्मफलेन भवितव्यम् इति भाष्योक्तौ वेदितव्याव् इति. अत्रानन्तरं यत्कालं हि मर्दनं तत्कालम् एव मर्दनसुखम् इति भाष्यकारेणोक्तम्, तद् वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति -- वैधर्म्येणेति. चित्रा न पशुफला पशवो न तत्साध्या इत्य् उभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्समकाले प्रसूते, मर्दनम् इव सुखम्. यच् च यत्साध्यं तत् तदुत्पत्तौ भवत्य् एव सुखम् इव मर्दनोत्पत्ताव् इति || ४ -- ५ ||
SK
ननूक्तिविसंवादाद् अप्रामाण्यम् उक्तम्. न च किञ्चिद् इह विसंवादः, न हि कृते कर्मणि तावत्य् एव फलेन भवितव्यम् इति शब्दो ब्रूते, किन् तु अस्येदं{३,२१६}फलम् इति. एतावति च पर्यवसानात्. अतः कालान्तरे फलं दास्यति. तद् एतद् उक्तम् -- कालान्तरे फलं दास्यतीति चेत् इति, तद् एतद् आह -- आनन्तर्यम् इति. परिहरति -- न सामर्थ्येति. साक्षादनुक्तस्यानन्तर्यस्याप्य् अत्र सामर्थ्येनावबोधनं कृतम्, यदैव ह्य् अस्येदं फलम् इत्य् उक्तं तदैवम् अर्थादेवावगम्यते अनन्तरम् अनेन भवितव्यम् इति. कथं नामान्यथासत्कालान्तरे फलं दास्यतीति. नन्व् एवम् अपि सामर्थ्यलभ्यमानन्तर्यम् अनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कथं बाध्यते अत आह -- शब्देति. न हि सामर्थ्यं नाम पृथक् प्रमाणम्, अपि तर्हि सर्वाख्यातानाम् अर्थं ब्रुवतां शक्तिस् सहकारिणीति शब्दैकदेश एव. अतस् स्रुवावदानम् इवाप्य् अद्रव्येष्व् अर्थाद् अनन्तरम् एव फलं निश्चीयत इति तद्बोधे ऽपि शाब्दबोधो भवत्य् एवेति
SK
इतश् चानन्तर्यम् अवगम्यत इत्य् आह -- कालान्तरेति. यदि ह्य् अत्र फलं दास्यतीति ऌङ्श्रोष्यत् तदा तत्सामर्थ्येन कल्पना काचिद् अप्य् अभविष्यत्. अद्य पुनर् अस्येदं कर्मणः फलम् इति पर्यवसिते वचसि सर्वकर्मणाम् अनन्तरफलोपलम्भाद् वैदिकस्यापि चित्रादेश् चोद्यमानस्यापि कर्मणस् तत्स्वाभाव्याद् आनन्तर्यं विशेषणतयावतिष्ठत इति
SK
अत्रानन्तरम् अपरं भाष्यम् -- दृष्टविरुद्धम् अपि किञ्चित् वैदिकं वचनं स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति. तद् येन विशेषेणोक्तं तम् आह -- अत्रेति. अत्र हि चित्रादिवाक्येषूक्तिविसंवादाद् अप्रामाण्यम् उक्तम्. उत्तरत्र तु यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधम् अभिद्योतयति -- स्वर्गयान इति. यजमानस्य निरतिशयानन्दात्मनः स्वर्गाद् अतिदूरम् अपभ्रष्टो भस्मीभावः प्रत्यक्षम् उपलभ्यते,{३,२१७}चित्रादिचोदनासु त्व् अनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भः कश्चिद् अस्तीति स्याद् अपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरे ऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद् विशेषः
SK
अपरम् अपि च एवंजातीयकं प्रमाणविरुद्धं वचनम् अप्रमाणम् -- अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्त इति यथा इति भाष्यम्, तद् व्याचष्टे-- यज्ञेति वाक्यमन्तेन. यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मः, प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणः प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यम् इति. वैधर्म्यदृष्टान्तम् आह -- वैधर्म्येणेति. यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितम् इति. पूर्वं तु मर्दनसुखयोर् वैधर्म्ये दृष्टान्ततयोपन्यासाच् छिलावाक्यम् अपि वैधर्म्येण भाष्यकृतोक्तम् इति भ्रान्तिम् अपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितः
SK
ननु प्रत्यक्षविरोधाद् इति हेतुर् असिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनः कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति. तम् एवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्य् उक्तम्. अतः को विरोधो ऽत आह -- शरीराद् इति. यदि हि शरीराद् अन्यश् चेतनो भवेत्, भवेद् अपि, न तस्य यज्ञायुधैर् अस्ति कश्चित् सम्बन्धप्रकारः, शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैस् सम्बन्धः, यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते. अपि च स एष इत्य् अपरोक्षप्रतिनिर्देशः, सो ऽपि शरीरस्यैव प्रत्यक्षत्वाद् उपपन्नो नात्मनः. तद् एतद् अपि भाष्यकारेणोक्तं हि -- शरीरकं व्यपदिशति इति. किञ् च यजमानशब्दो ह्य् आत्मन्यसमञ्जसः, यागस्य हि कर्ता यजमान इत्य् उच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्मक्षणात्मकक्रतुक्रियाकर्तृत्वम् आत्मनस् सम्भवति, विभोः पूर्वापरदेशविभागसं योगफलकर्मणाम् असमवायात्. तद् एतद् आह -- न{३,२१८}चेति. अभ्युपगम्य चात्मनस् सद्भावम् इदम् अस्माभिर् उक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावो ऽपि प्रमाणाभावाद् दुर्लभ इत्य् आह -- सद्भाव इति. प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति
SK
अपरं च -- न चैष यातीति विधिशब्दः इति भाष्यम्. तस्याभिप्रायम् आह -- यदीति. अस्यार्थः -- यदि ह्य् अत्र यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनाम् अनन्तरफलादर्शनाद् भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते. अतः स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणम् इति
SK
विधिशब्दे को विशेषः, अत आह -- विधीति. विधिशब्दे हि कालविशेषानुपादानाद् विधिसामर्थ्याद् एव कालान्तरभावितां फलस्य परिकल्प्य स्याद् अपि चित्रादिचोदनास्विवाभावविरोधपरिहारः. इह तु यातीति वर्तमानापदेशान् न प्रत्यक्षविरोधश् शक्यते परिहर्तुम् इत्य् अदर्शनाद् विशेष इति
SK
चित्रादिवाक्याभिप्रायेण चेदम् अस्माभिर् उक्तम् -- विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधश् शक्यते परिहर्तुम् इति. इह तु प्रत्यक्षेण भस्मीभावोपलम्भान् न कालान्तरफलभावितया स्वर्गगमनं फलम् इति शक्यते कल्पयितुम्. न हि विधिसहस्रेणाप्याशङ्कनीयो ऽर्थः शक्यः प्रत्याययितुम्. तद् एतद् आह -- फलं चेति. किं तर्हि विधिशब्दतानिराकरणस्य फलम् अत आह -- तत्सामर्थ्येनेति. चेतनप्रवर्तनात्मको हि विधिर् अन्तरेण परलोकफलोपभोक्तारम्{३,२१९}अनुपपद्यमानः कल्पयेद् अपि कायकरणसङ्घातातिरिक्तम् आत्मानम्, तस्य च स्वर्गलोकगमनम् उपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वम् आत्मनि भाक्तम् इत्य् एवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणम् इति
SK
भूयांश् चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवाद् आत्मको वेदभागः. यथा अदितिर् द्यौरदितिर् अन्तरीक्षं यजमान एककपालः इत्येवमादिः. स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यः, तन्मिथ्यात्वेन चानुषङ्गिकं परेषां मिथ्यात्वं भविष्यतीत्य् अभिप्रायेणाह -- प्राय इति
SK
तत्सामान्याद् अग्निहोत्रादिचोदनास्वप्यनाश्वास इति भाष्यम्, तस्याभिप्रायम् आह -- एवं सतीति. यदा हि चित्रादिवाक्यादिष्व् अप्रामाण्यं समर्थितं भवति, तदा वेदवाक्यैकदेशतयाग्निहोत्रादिवाक्येष्व् अपि मृषार्थता शक्यते ऽनुमातुम्, अतः कृत्स्नस्यैव वेदस्याप्रामाण्यान् न चोदनालक्षणार्थो धर्म इत्य् आक्षेपः ||
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां
SK
चित्राक्षेपवादः समाप्तः |
SK
०१८ आत्मवाद
SK
{३,२२०} अत्रानन्तरम् औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् इति भाष्यकारेण सम्बन्धनित्यताद्वारेणाक्षेपपरिहारो ऽवतारितः, सो ऽयुक्तः, परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिध्यादिदोषोद्भावनम् उचितम्. यत् तु तम् अदूषयित्वैवान्यद् उच्यते तदसङ्गतम् एवात आह -- स्वपक्ष इति. अयम् अभिप्रायः -- यावद् धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाः स्वतःप्रामाण्यं न प्रतिपाद्यते तावद् दूषिते ऽपि साधने न चोदनालक्षणो धर्म इति प्रतिज्ञा सिध्यति. भूयांश् चानेन क्रमेणार्थो वक्तुम् अभिप्रेतः शब्दार्थसम्बन्धनिरूपणादिः. अन्यथा क्रियमाणं तदाकाशपतितम् इवापद्येत. तच् चैतत् शब्दस्वरूपनिरूपणावसरे वक्ष्यते. न चेदम् आक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात्. यथोक्तम् --
SK
द्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् |
SK
आत्मीयसाधनोक्त्या वा तत्रात्मीयम् इहोच्यते इति |
SK
न चात्र परसाधनदूषणण् न करिष्यते तत्र हेतोर् असिद्धत्वम् इति चित्रापरिहारे वक्ष्यते. अनेन तु क्रमेण तत् कर्तव्यम् इति तावद् इत्य् उक्तम् इति. तच् च स्वपक्षसाधनं तार्किकाणां चित्तम् अनुरञ्जयितुं प्रयोगद्वारेणाह -- अमृषेति. वैदिकवचो धर्मी, स्वार्थे सत्यम् इति साध्यो धर्मः, स्वार्थे वक्त्रनपेक्षत्वात्, यत् स्वार्थे वक्तारं नापेक्षते तत् सत्यम्, यथा पदात् पदार्थगता बुद्धिः. पदं हि स्वभावाद् एव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते. स्वार्थ इति तन्त्रेणोभयविशेषणतया योजनीयम्. यदि ह्य् अमृषा वैदिकं वचनम् इत्य् एतावद् उच्यते पूर्वपक्षार्थसम्यक्त्वापाताद् अनिष्टार्थताप्रसाधनप्रसङ्गः. न हि स्वर्गकामो यागं कुर्याद् इत्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यग् इष्यते, षष्ठाद्यसिद्धान्तविरोधात्. यागेन स्वर्गं कुर्याद् इति हि तत्र स्थास्यति. वक्त्रनपेक्षत्वाद् इति चाविशिष्टो हेतुर् उपात्तो ऽसिद्ध एव स्यात्. अस्ति हि वैदिकवाक्यानाम् अपि स्वरूपाभिव्यक्तये{३,२२१}वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारम् अपेक्षन्ते, अपौरुषेयत्वात्. शब्दार्थसम्बन्धनित्यत्वाच् च. पौरुषेयं प्रमाणान्तरप्रमितगोचरम् आप्तवचनम् अपि वक्तुः प्रमाणम् अपेक्षते. यथोक्तम्, आप्तोक्तिषु नरापेक्षेति
SK
प्रयोगान्तरम् आह -- तत्कृत इत्य् एवान्तेन. वैदिकवाक्यकृतः प्रत्ययस् सम्यग् इति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिः. सापि हि वाक्याद् उद्भवति, निर्विषयबुध्यनुत्पत्तेः. वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति. अत्रैव साध्ये पूर्वोक्ताः -- नान्यत्वात् इति भाष्यव्याख्यानावसर उक्ताः -- दोषवर्जितैः कारणैः जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदे ऽपि बाधवर्जनात् इति हेतवो दर्शयितव्या इत्य् आह -- अत्रेति
SK
अत्र भाष्यम् -- स्याद् एतत्, नैव शब्दस्यार्थेन सम्बन्धः, कुतो ऽस्य पौरुषेयता अपौरुषेयता वा इति. तस्याभिप्रायम् आह -- नित्यान् इत्य् अब्रवीदन्तेन. अस्यार्थः -- शब्दार्थसम्बन्धानां नित्यत्वम् आश्रित्यानपेक्षत्वाद् इति सूत्रकारेण यो हेतुः स्वतः प्रामाण्यसिध्यर्थम् उक्तः, तेन चोदनानाम् अप्रामाण्ये निराकृते ऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर् मिथ्यात्वम् उक्तवान्. एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतः प्रामाण्यं व्युत्पाद्यम् इति दर्शितम्. तथा च सूत्रकारेण चोच्यत इति पुनरुक्तिपरिहारे परतः प्रामाण्योक्तैर् एवाक्षेपहेतुभिः पूर्वपक्षो ऽभिहितः. इहापि च भाष्यकारेण ब्रूत इत्य् उच्यते -- अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तम् एव स्वतः प्रामाण्यकारणम् उक्तम् इति
SK
{३,२२२} एतद् एव विवृणोति -- सम्बन्ध इति वक्ष्यते ऽन्तेन. चोदनामिध्यार्थनिरासार्थं हि सम्बन्धसद्भावो नित्यता च हेतुर् उक्तः. तच् च द्वयम् अपि परैर् नेष्यते. तत्र सम्बन्धाभावस् तावद् अनेनैव भाष्येणोक्तः. कृतकत्वं तु यदि प्रथमम् अश्रुतो न प्रत्याययति, कृतकस् तर्हि इत्य् अनेन वक्ष्यते. तद् अत्र सम्बन्धाभावेनानपेक्षत्वाद् इति हेतोर् असिद्धिर् उक्ता. न चासति सम्बन्धे परोक्तार्थप्रतीतिर् उत्पद्यत इति दर्शितम्. प्रतिबन्धबले ह्य् अर्थान्तरदर्शिनो ऽप्य् अर्थान्तरे ज्ञानम् उत्पद्यते. अनादृतप्रतिबन्धस् तु यत् किञ्चिद् विद्वान् स सर्वं जानीयाद् इत्य् अतिप्रसज्यत इति || ४ -- ५ ||
SK
अत्र भाष्यकारेण कार्यकारणभावादयस् सम्बन्धाश् शब्दस्यानुपपन्ना इत्य् उक्त्वा संश्लेषसम्बन्धभाव एव दर्शितः, तद् एतद्वार्तिककारो दर्शयति -- असम्भवेनेति. निमित्तनैमित्तिकाश्रयाश्रयिभावादयस् सम्बन्धाश् शब्दार्थयोर् अत्यन्तासम्भाविता एव, कार्यकारणभावस् तु बौद्धगन्धिवैयाकरणैर् अभ्युपगत एव. ते ऽप्य् आहुः --
SK
अर्थाश् शब्दाश् च दृश्यन्ते प्रत्यक्षा यद्य् अपि स्फुटम् |
SK
अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नः ||
SK
इति. एवं हि मन्यन्ते -- न तावद् वर्णाश् शब्दः, प्रत्येकम् अवाचकत्वात्. अयुगपद्वर्तिनां चावयविसमुदायारम्भानुपपत्तेः. अत एव गोशब्दत्वादिजात्यसम्भवात् भूतादिविशेषाणां च प्रतिप्रयोगम् अन्यत्वेनावाचकत्वाद् वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत् प्रत्याख्यानात् पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात् पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित् स्फोटात्मनो ऽनवग्रहाद् युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दः. अर्थो ऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनिरूपणो न बाह्यस् सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भासप्रत्ययमात्रात्मैव.{३,२२३}स चायम् एवम्भूतो ऽर्थश् शब्देन जन्यत एवेति कार्यकारणभावम् एव शब्दार्थयोस् सम्बन्धम् आतिष्ठन्ते. तच् चेदम् अतिदूरम् अपभ्रष्टम्, एवं च सत्य् अविदितस्वरूपशक्तीनाम् अप्य् अर्थसंविदुपजायेत. दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयो ऽङ्कुरादिकार्यम् आरभमाणा अविदितस्वरूपशक्तयो ऽपीति सूक्तम् -- असम्भवेन शेषाणाम् इति. कथं तु संश्लेषः परिशिष्यत इति, प्रतीतेर् अभ्युपगमाच् च. गौर् अयम् इति हि सामानाधिकरण्येन शब्दोपश्लिष्टम् अर्थम् अवयन्तो लौकिका दृश्यन्ते. अभ्युपगतश् च कैश्चिच् छब्दार्थयोस् संश्लेष एव सम्बन्धः. प्रपञ्चितश् चासाव् अध्यासवाद इति. लौकिकाश् च प्रायेण संश्लेषम् एव संबन्धं मन्यन्ते इति स एव सम्बन्धः प्रसक्तो निराकार्य इत्य् आह -- तस्मिन्न् इति प्राहान्तेन. निषेधम् एव प्रयोगेण दर्शयति -- न शब्द इति. संश्लेषो हि यस्य येन भवति स तद्देश एव दृश्यते रञ्जुर् इव घटे, तदनन्तरदेशे वा प्रदेशिनीव मध्यमायाः. न च शब्दार्थयोर् अन्यतरदेशे वान्यतरो दृश्यते. अतो हिमवद्विन्ध्ययोर् इव नानयोस् सम्बन्ध इति || ६ -- ७ ||
SK
अर्थो वा पक्षीकार्य इत्य् आह -- एवम् इति. द्वयं वा परस्परम् असम्बद्धम् इतरेतरदेशे तदनन्तरदेशे वादृष्टेः साध्यम् इत्य् आह -- द्वयम् इति. अत्र भाष्यकारेण स्याच् चेदर्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, इत्य् उक्तम्. तस्याभिप्रायम् आह -- क्षुरेत्य् उक्तमन्तेन. अस्यार्थः -- अत्र भाष्यकारेण शब्दार्थयोस् सम्बन्धसिद्ध्यर्थं तद्देशानन्तरादृष्टेर् इति हेतुर् अन्तर्णीतः, तं च गौर् अयम् इति सामानाधिकरण्यप्रतीतिभ्रमाद् यो नामासिद्धं मन्यते, स एवं प्रतिबोध्यते -- यदि शब्दार्थयोर्{३,२२४}उपश्लेषलक्षणस् सम्बन्धो भवेत्, अर्थो ऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तः, तस्मान् मोदकाद्यर्थक्रियानुपलम्भाच् छब्ददेशे तद्देशानन्तरादृष्टेर् इति सिद्धो हेतुः. सामानाधिकरण्यबुद्धिस् तु शब्दार्थयोर् नास्त्य् एव. न हि नीलिम्नेवानुरक्तम् उत्पलं शब्दानुरक्तम् अर्थम् उपलभामहे. गादिसास्नादिमद्रूपा हि तयोर् बुद्धिर् उदेति. अत्र सिद्धान्तभाष्यं यो ऽत्र व्यपदेश्यस् सम्बन्धः तद् एतन् (तम् एकं) न व्यपदिशति भवान् इत्यादि. तस्याभिप्रायम् आह -- अथेति हीनतान्तेन. अत्रायम् अभिप्रायः -- प्रत्याय्यप्रत्यायकशक्तिरूपो हि नश् शब्दार्थयोस् सम्बन्धो ऽभिप्रेतः, तद् यदि संश्लेषलक्षणसम्बन्धाभावस् साध्यते, तदा सिद्धसाध्यतादोषः. सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैर् अनैकान्तिकत्वम्. हिमवद्विन्ध्ययोर् अपि चैकभूम्यादिसम्बन्धात् साध्यहीनो दृष्टान्त इति || ८ -- १० ||
SK
यदि तु वाच्यवाचकसम्बन्धम् एवाभिप्रेत्य न शब्दो ऽर्थेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्य् आह -- वाच्येति. दूषणान्तरम् आह -- विरोध इति. अत्र कारणम् आह -- न हीति परान्तेन. अयम् अभिप्रायः -- चतुर्विधो हि पुरुषः, प्रतिपन्नो ऽप्रतिपन्नस् सन्दिग्धो विपर्यस्तश् चेति. तत्र प्रतिपन्नः प्रतिपादयिता, इतरे सापेक्षाः प्रतिपाद्याः, तत्प्रतिपादनार्था च प्रतिज्ञा, तद् य एव तेषाम् अन्यतमः परः प्रतिपादयितुम् अभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैः प्रतिज्ञार्थगोचरैः पदैः प्रतिपादयितुम् अशक्यः, अतः प्रतिज्ञां प्रयुञ्जानैर् आश्रितश् शब्दार्थयोर् वाच्यवाचकलक्षणसम्बन्ध इति तन्निराकरणे स्ववाग्विरोध इति. स चायम् अभिधया स्ववाग्विरोधः. पञ्चधा हि तद्विरोधः. उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिर् इति
SK
{३,२२५} वाच्यवाचकसम्बन्धस्वरूपम् इदानीम् अभिद्योतयति -- अभिधानेति. अस्यार्थः -- एकस्याम् अभिधानक्रियायां शब्दः करणं कर्ता वा, विवक्षातः कारकप्रवृत्तेः. अर्थस् तु कर्मैव. अतो (?यद्/अ)नयोः कर्मकरणत्वं (कर्म)कर्तृत्वं वा. निरूपितः -- सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति. यद् वा -- एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायाम् एकेन वक्त्रोपादीयमानावरुणैकहायनीवद्विवक्षितसाहित्यौ शब्दार्थौ यन्नियम्येते सो ऽनयोः सम्बन्ध इत्य् आह -- प्रतिपत्ताव् इति. उपादानाद् इत्य् उपादीयमानतया विशेषणविवक्षां दर्शयति. उपादेयस्य हि विशेषणं विवक्षितं भवति पशोर् इवैकत्वं - पशुना यजेतेति. उद्देश्यविशेषणं त्व् अविवक्षितं भवति, यथा ग्रहविशेषणम् एकत्वम्, उद्देश्या हि ग्रहाः, तेषु सम्मार्जनविधानात्. इह चार्थप्रतिपत्ताव् एकस्याम् उपादेयौ शब्दार्थौ, पशुर् इव यागे. अतो विवक्षितम् अनयोः साहित्यं विशेषणम् इत्य् अरुणैकहायन्योर् इवानयोर् नियमः सम्बन्ध इति. (?न त्व् ए/न् वे)वम् अरुणैकहायन्योः श्रूयमाणयोः साहित्यविवक्षा युक्ता. समुदाये हि तत्र वाक्यं समाप्यते. (शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतया श्रुतौ, कथम् अनयोः साहित्यविवक्षा. न श्रूयमाणता विशेषणविवक्षाहेतुः. अपि तु अर्थसंव्यवहारो ऽपि हि. पाकादौ यदौदनादिस्थाल्यादि ... (क्रिया)व्यवहारदर्शनात् अनभिहितम् अप्य् अर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, तथा मन्वानः स्वयम् अपि पक्तुकामस् तत् सर्वम् आहरति. एवम् इहापि बालः प्रयोज्यवृद्धस्य विशिष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिम् अनुमाय शब्दानन्तरभावितया शब्दकारणतां तावदवधारयति. वक्तुश् चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात् प्रधानभूताया(म् उपा)दीयमानयोः शब्दार्थयोः साहित्यं विवक्षितम् इति. एवं च विदित्वा स्वयम् अपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयम् आवेशिताव् उपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावद् इति || १२ -- १३ ||
SK
{३,२२६} नन्व् एवं वदता शब्दार्थयोः क्रियासम्बन्ध एव दर्शितः, न परस्परसम्बन्धः. तथा हि -- यत् तावद् उक्तम् अभिधानक्रियायां हि इति, अनेनाभिधानक्रियासम्बन्ध एव कर्मकरणादिरूपेणोभयोर् उपवर्णितः, न परस्परसम्बन्धः. प्रतिपत्ताव् उपादानाद् इत्य् अपि प्रतिपाद्यप्रतिपादकतया प्रतिपत्तिक्रियासम्बन्धमात्र एव दर्शितः, न परस्परम्, गुणप्रधानभावम् अन्तरेण सम्बन्धायोगात्. वक्ष्यति हि -- गुणानां च परार्थत्वाद् असम्बन्धः समत्वात् इति. स्याद् एतत्. क्रियाकारकसम्बन्धपूर्वकत्वात् सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति. अस्तु तावत्, तदुत्तरकालभावी तु को ऽनयोः सम्बन्ध इति वाच्यम् एव. तद् एतत् सर्वम् अनुभाष्य परिहरति -- तत्रेति तयोरन्तेन. अस्यार्थः -- यद्य् अपि कारकाणां प्रधानार्थत्वान् न परस्परसम्बन्धः, तथापि प्रतिपत्त्यभिधानयोर् या काचित् क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणः शब्दार्थयोर् अस्ति सम्बन्धः ||
SK
तत् पुनर् इदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च. तथा हि -- अत्र तावद् एकस्यां क्रियायाम् उपकार्योपकारकत्वं शब्दार्थयोः सम्बन्ध इत्य् उक्तम्, प्रतिपत्ताव् उपादानात् इति क्रियानुमानाङ्गत्वम् एव परस्परनियमात्मको दर्शितः सम्बन्धः. अभिधानक्रियायां हि इति च कर्मत्वकरणत्वे सम्बन्ध इत्य् उक्तम्. प्रदेशान्तरे शक्तिर् एव सम्बन्ध इति वक्ष्यति. क्वचिच् च शब्दशक्तिनियमम् एव सम्बन्धम् आह --
SK
वाच्यवाचकशक्त्योश् च नियमः फललक्षणः |
SK
इति ब्रुवानः. अन्यत्राप्य् उक्तम् --
SK
{३,२२७} एकाभिधानिमित्तत्वं कर्मकर्तृत्वयोश् च यत् |
SK
यो वा करणकर्मत्वनियमो ऽभिधयैकया ||
SK
स नो ऽर्थशब्दसम्बन्धः
SK
इति. अतो विवेचनीयम् इदम् -- को ऽत्र सम्बन्धः शब्दार्थयोर् वार्त्तिककारस्याभिमत इति.
SK
अत्रोच्यते -- यथैकेन क्रयकर्मणा परिगृहीतयोर् द्रव्यगुणयोर् इतरेतराकांक्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणः सम्बन्धः. न ह्य् अनाश्रितः क्रयक्रियाम् अभिनिर्वर्तयति. न द्रव्यं गुणविशेषानवच्छिन्नम् उत्सहते क्रयक्रियां निर्वर्तयितुम्. न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रम् उपादीयमानम् अपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात्. द्रव्ये(गुणमात्रा)वच्छेदात् तद् गुणमात्रम् उपादीयमानम् अपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिम् अगुणावरोधात्. सो ऽयम् अर्थो नियमः सम्पद्यते. तद् एवम् इहाप्य् एकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थम् उपादीयमानयोर् विवक्षितसाहित्ययोः शब्दार्थयोः क्रियाकारकसम्बन्धोत्तरकालभावी यो यम् उपकार्योपकारकभावः, स एव सम्बन्धः.
SK
कः पुनर् अनयोः परस्परोपकारः. श्रूयताम् -- अर्थो हि न प्रतिपादकम् अन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यम् अन्तरेण प्रतिपादकः. अतः प्रतिपाद्यप्रतिपादकतयावतिष्ठमानाव् अन्योन्यस्योपकार्योपकारकौ भवतः. तच् चेदं रूपम् अनयोर् नियतम् इत्य् अत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धः. शक्तिसम्बन्धवादो ऽपि चात एव. वाच्यवाचकशक्त्योर् एव हि सत्योर् उपकार्योपकारकभावो भवति. न तु शक्तिर् एव सम्बन्धः. तद् अत्र प्रत्यासत्तेर् अभेदोपचारेण शक्तिः सम्बन्धः, नियमः सम्बन्धः, कर्तृत्वं करणत्वं वा सम्बन्ध इत्य् एवमादयः समुल्लापाः. वस्तुतस् तूपकार्योपकारकत्वम् एव सम्बन्धः ||
SK
कथं पुनस् तद्रूपम् अनयोर् नियतम् इत्य् उच्यते. न ह्य् अनुच्चरिते शब्दे परस्परोपकार्योपकारकभावः शब्दार्थयोर् अस्ति. न च तदानीं तौ न स्तः, नित्यत्वात्. तस्माद् असद् एतत्. तन् न. शक्त्यात्मना विद्यमानत्वात्{३,२२८} अनुच्चरिते ऽपि हि शब्दे ऽस्ति प्रतिपादकशक्तिः, अर्थे च प्रतिपाद्यशक्तिः, अत एव सम्बन्धो नित्य इत्य् उच्यते.
SK
नन्व् एवम् अपि करहस्तादिभिर् अनेकैः शब्दैर् एकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथम् अव्यभिचारः शक्यते ऽवगन्तुम्. अतः प्रकरणादीनाम् अपि पदार्थावधारणापोयत्वाद् वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतद् अवधारितम् -- यदा यदर्थविवक्षया शब्दः प्रयुज्यते स तस्यार्थ इति. विवक्षा चार्थप्रकरणादिवशोन्नेया. गामानय दोग्धुम् इत्य् उक्ते अर्थाद् एतद् अवगम्यते सास्नादिमत्यस्य विवक्षेति. योत्स्यामीत्य् उक्ते अर्थादि(?मु)षौ प्रतीतिर् उदेति. तद् एवम् अर्थप्रकरणादिभेदभिन्नम् अन्ययान्यया च शक्त्योपहितम् अन्यद् अन्यच् च पदम् अन्यस्यान्यस्य वाचकम् इति न पदव्यभिचारः. अर्थो ऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिर् अन्योन्यश् च करादिपदानां वाच्य इति न पदं व्यभिचरति. अपि चैकस्यां क्रियायाम् अयं नियम इत्य् उक्तः. न चैकस्यां प्रतिपत्ताव् अभिधाने वोपादीयमानयोः शब्दार्थयोर् अन्योन्यव्यभिचारो ऽस्ति. तद् इदम् उक्तं हि नियम्येते यद् एकस्याम् इति || १४ -- १५ ||
SK
नन्व् एवम् एकक्रियानिमित्तको नियमः शब्दार्थयोः सम्बन्ध इत्य् उच्यमाने ऽनुमानाङ्गम् अविनाभाव एवाश्रितो भवेत्, अतस् तद्बलेन धूमादिवाग्निज्ञानं शब्दाद् अर्थज्ञानम् उपजायमानम् अनुमानं स्याद् अत आह -- न चापीति. इदं च शाब्दे प्रसाधितम् इत्य् आह -- साधितम् इति. ननु यद्य् अविनाभावो नोपयुज्यते, कस् तर्ह्य् उपयुज्यते. उक्तं भाष्यकारेण -- संज्ञासंज्ञिसम्बन्धः इति. ननु चायम् अपि सम्बन्धो ऽनुपयोग्य् एव. तद् एतद् आशङ्कते -- संज्ञेति. तदङ्गं गमकत्वाङ्गम् इत्य् अर्थः
SK
कथम् अनङ्गम् अत आह -- गमयन्तीति. व्यवहारदर्शनेन{३,२२९}गमयन्ती एषा संज्ञा कल्प्यत इति. किम् अतो यद्य् एवम् अत आह -- न चैषेति. एतद् उक्तं भवति. गमकत्वम् एव संज्ञात्वं न तत्सम्बन्धान्तरम् अन्तरेणेति
SK
यतश् चैवम् अतो धूमादेर् इव गमकत्वं सम्बन्धान्तरपूर्वकम् एव पश्चादापतितम् इत्य् आह -- तस्माद् इति. तत्तुल्यत्वे दोषम् आह -- सानङ्गम् इति. यथैवाविनाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्याद् इति. धूमादिवैषम्येणेदानीं परिहारम् आह -- नेयम् इति
SK
वैषम्यम् एव दर्शयति -- निरूपित इति. तत्र हि धूमादौ महानसादिदेशे ऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति. अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्य् आह -- गमकत्वेनेति
SK
शब्दे तु विपरीतम् इत्य् आह -- इहेति सार्धेन
SK
गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिर् इत्य् उक्तं तद् विवृणोति -- कथयन्तीति त्रयेण. अयम् अर्थः -- त्रेधा हि शब्दे व्युत्पत्तिः, वृद्दोपदेशात् तद्व्यवहारात् पदान्तरसमभिव्याहाराद् वा. सर्वत्र चात्र गमकतैवादाव् अवगम्यते. तथा हि -- वृद्धोपदेशे तावद् अयम् अस्य वाच्यः अयम् अस्य वाचक{३,२३०}इति गम्यगमकभाव एवावगम्यते. यत्रापि क्वचिदुच्चरिताद् वाक्यात् प्रयोज्यवृद्धस्यार्थविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वम् उपकल्प्यते तत्रापि यस्माद् अतश् शब्दाद् अनेनायम् अर्थो वगतः, तस्माद् अयम् अस्यार्थ इति गमकतैव शब्दस्यादाव् अवगम्यते. प्रसिद्धपदान्तरसमभिव्याहारे ऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहकाराद्यर्थो ऽविदितपिकाद्यर्थश् च यो ऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वम् एवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिर् इति || २१ -- २३ ||
SK
नन्व् आकृतिः शब्दार्थ इति वस् सिद्धान्तः. न च तद्वाच्यत्वम् अन्वयव्यतिरेकाव् अन्तरेण शक्यते ऽवगन्तुम्. अतस् तत्प्रधानैव शब्दप्रतीतिर् आपद्येत. अत आह -- इत्थम् इति. अयम् अर्थः -- अन्वयव्यतिरेकयोर् अत्र निष्कृष्टार्थनियममात्रे व्यापारः, वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति
SK
नन्व् आगोपालं शब्दार्थव्यवहारो दृश्यते. न च ते ऽन्वयव्यतिरेकाभ्याम् अर्थनिष्कर्षं कुर्वन्ति. न च तान् प्रत्यवाचकाश् शब्दा इति युक्तं वक्तुम्. तुल्यवत् प्रतीतेः. पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य{३,२३१} वक्ष्यमाणत्वाद् अत आह -- बहुजातीति सार्धेन. अयम् अभिप्रायः -- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनः, न च तेषां व्यवहारः शब्दोच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति || २५ -- २६ ||
SK
तेन तर्हि किम् अर्थं विविञ्चते अत आह -- बलाबलादीति. शास्त्रस्था ह्य् अनिरूपितशक्तयो न शास्त्रार्थम् अनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति
SK
एतद् एव प्रपञ्चयति कक्ष्यान्तरितेति द्वयेन. अस्यार्थः -- द्विविधं सामान्यं परम् अपरं च. परं सत्ताख्यम्, अपराणि द्रव्यत्वादीनि. तानि सामान्यान्य् अपि सन्ति. व्यावृत्तिबुद्धेर् अपि हेतुत्वात् विशेषसज्ञाम् अपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाः सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति. यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयः सामान्यविशेषाः, तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते. स्वार्थे तु श्रुत्या वर्तते इति स तत्र बलवान्. का पुनर् इयं लक्षणा नाम -- अभिधेयाविनाभावेन प्रतीतिः. यथोक्तम् --
SK
अभिधेयाविनाभावप्रतीतिर् लक्षणेष्यते |
SK
इति. क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत् स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानाम् अनुष्ठानविशेषार्थं विवेको युक्तः. सा?एच?लक्षणा प्रायेण नित्यसम्बन्धाद् भवतीति नित्यसम्बन्धाद् इत्य् उक्तम्. सम्बन्धमात्रम् एव तु लक्षणाया बीजम्. आह -- कः पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगः. श्रूयताम् -- लोके तावद्{३,२३२}ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर् लक्षणया तद्विशेषं कौण्डिन्यम् अवतरन्ती दुर्बला भवति इत्य् अव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते. वेदे ऽप्य् एवम् एव. यजुस्सामान्यस्था उपांशु यजुषा इति श्रुतिस् तद्विशेषस्थया उच्चैर्निगदेन इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यम् इति. सामान्यशब्देनात्र विशेषान् विशिंषन् न सामान्यातिरिक्ताः केचन विशेषा विद्यन्त इति दर्शयति. अस्ति हि केषाञ्चिद् दर्शनं - नित्या द्रव्यवृत्तयो ऽन्त्या विशेषाः. ते च व्यावृत्तिबुद्धेर् एव हेतुत्वाद् विशेषा एवेति. परमाणुकारणकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणम् आतिष्ठन्ते. न चाणुत्वेन परस्परम् अनतिशयानैर् अणुभिर् असङ्कीर्णाकारजगदुत्पादयितुं शक्यते. अतः सन्ति केचनाणुसमवायिनो वेशेषा नाम ये तान् इतरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते. ते च निर्धूतनिखिलकालुष्यैर् अपरोक्षम् ईक्षन्त एवेति. तान् प्रत्युच्यते. न तावदक्षाधीनेषु भावेष्व् अवान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे. द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते (?द्रव्य/पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यः, वृक्षत्वेन वृक्षाः पार्थिवान्तरेभ्यः, शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्य् एवम् अणून् यावद् इयं विशेषकथा वर्तयितव्या. किम् अत्र विशेषान्तरेण. अणुषु त्व् एकजातीयेष्व् अपि कार्यविभागाद् रूपम् एव विभक्तम् अनुमास्यामहे. नो खल्व् अविभक्ताकारं पूर्ववस्तु विभक्ताकारकार्यघटनायोत्सहत इति. पृथक्त्वाख्यो वा गुणस् तेषाम् अन्योन्यस्य विशेषकत्वाद् विशेषो भविष्यति. स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेति. विशेषा वा कथम् अनपेक्षितविशेषान्तराः सेत्स्यन्ति. अपेक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमः. योगिनस् तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयम् अश्रद्धधानाः स्मः, ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्व् इति || २७ -- २८ ||
SK
{३,२३३} अन्वयव्यतिरेकाभ्यां वाक्यज्ञास् तु विविञ्चते इत्य् उक्तम्. ताव् अन्वयव्यतिरेकौ दर्शयति -- तत्रेति द्वयेन. तत्र सामान्ये गवादौ गोशब्दस्य बहुलं प्रयोगात् तद्विशेषेषु च शाबलेयादिषु असत्स्व् अपि बाहुलेयादिषु प्रयो(?गा/ग)दर्शनात् परसामान्ये च सत्तादौ सत्य् अपि भावान्तरे ऽप्रयोगात् सास्नादिभिस् सहैकावयविरूपार्थसम्बन्धिगोत्वमात्रस्य गोशब्दो वाचकम् इत्य् अन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते. सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वम् उपलक्षयतीति. अतस् सिद्धं गम्यगमकभाव एव शब्दार्थयोस् सम्बन्धः प्रथमम् अवगम्यते न पुनरविनाभाव इति || २९ -- ३० ||
SK
उपसंहरति -- तस्माद् इति. ननु -- संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तः, न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्य् अग्नेर् धूमः संज्ञेत्य् उच्यते, अत आह -- अभिधायकतेति. अयम् अभिप्रायः -- अस्यार्थस्यायं गमक इति ज्ञाते नाव्याप्रियमाणस्यावगतौ कारणत्वम् उपपद्यत इति तद्व्यापारो ऽवसीयते, शब्दव्यापारश् चाभिधेत्य् उच्यते. अतो ऽत्राभिधानक्रियासम्बन्धाद् गमकत्वस्यैव विशेषो ऽभिधायकता शब्दे ज्ञायते. अभिधायकतैव संज्ञात्वम् इत्य् उपपन्नस् संज्ञासंज्ञिसम्बन्ध इति. अविनाभाविता तु सम्बन्धनियमः, न सम्बन्ध इत्य् आह -- सम्बन्धेति. इदं च निष्कृष्टे ऽर्थे नियम्यते इत्य् अत्रोक्तम् अस्माभिः. तस्माद् इति पदानुषङ्गेणोपसंहृतम् इति{३,२३४}वेदितव्यम्. अन्वयव्यतिरेकाविनाभावशब्दौ पर्यायाव् इति नार्थभेदश् शङ्कितव्य इति || ३१ -- ३२ ||
SK
यदि प्रत्यायकः इति भाष्यकारेण प्रयोगो ऽन्तर्णीतः, तम् आह -- सम्बन्धेति. देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यन्ते तम् एव प्रतिपादयन्ति. न चैषां क्वचिद् अपि स्वाभाविकी शक्तिः. तद् अयं प्रयोगार्थः -- गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वाद् इति हेतुः. यदुपायान्तरापेक्षं तन् न स्वरूपतश् शक्तम्, देवदत्तादिपदम् इव सङ्केतग्रहणापेक्षम् इति
SK
अत्र भाष्यकारेण यदि प्रत्यायकश् शब्दः प्रथमश्रुतः किं न प्रत्यायति इति परिचोद्य सर्वत्र नो दर्शनं प्रमाणम् इत्यादिना दर्शनबलेन गृहीतशक्तिकः प्रत्याययतीति परिहार उक्तः, तद्दर्शयति -- यथैवेति. अस्यार्थः -- गमकत्वम् एव तावत् शब्दस्य किम् अभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानम् इदं शक्तिसंवेदने ऽपि. न ह्य् अविदितशक्तयश् शब्दाद् अर्थम् अवयन्तो दृश्यन्त इति
SK
स्याद् एतत् -- प्रकाशकाः प्रदीपादयो ऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शद्बः, अतो न प्रकाशक इति. तच् च नैवम्, शक्तिवैलक्षण्यात्. विचित्रशक्तयो ऽपि हि भावाः. तत्प्रदीपः प्रत्यक्षपरिकरतयागृहीतसम्बन्धो ऽपि प्रकाशयतु नाम. नैतावता शब्देनापि तद्धर्मेण भवितव्यम्. अतो ऽयम् अपर्यनुयोगः. अपि च व्रीह्यादयो ऽगृहीतस्वरूपा अपि कार्यम् आरभन्त एवेति शब्दे तद्धर्मः किं नारोप्यते. कारकहेतवो हि व्रीह्यादयः, शब्दस् तु ज्ञापकहेतुः. अतो ऽपेक्षते स्वरूपग्रहणम् इति चेत्. केन वेदम् आज्ञापितं ज्ञापकेन स्वरूपग्रहणम् अपेक्षितव्यं न सम्बन्धग्रहणम् इति, दर्शनबलेनेति चेति, समानम् इदं सम्बन्धग्रहणापेक्षायाम्{३,२३५}अपि, दर्शनबलाद् एव हि लिङ्गशब्दादयो ज्ञापकविशेषास् सम्बन्धग्रहणम् अपेक्षन्ते. न चक्षुरादयः. सर्वत्र हि नो दर्शनं प्रमाणम्. कारकाश् चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तद् एतद् आह -- स्वरूपेति
SK
ननु च सम्बन्धग्रहणात् प्राग् अप्य् अभिधाने शब्दश् शक्तो न वा. यदि शक्तः, किं सम्बन्धग्रहणापेक्षया. न चेत् सम्बन्धग्रहणम् एत हि तदागमन्यायेन कारणम् आपद्येत, अत आह -- यत्साधकतमेति. न तावत् सम्बन्धग्रहणात् पूर्वम् अशक्तम् एव शब्दम् अवगच्छामः. न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(?रती/न्ती)ति
SK
किं पुनर् न विहन्त्य् अत आह -- न हीति. यदि ह्य् अनुग्राहकापेक्षा स्वशाक्तिं विहन्यात् सर्वम् एव लौकिकं वैदिकं करणं करणतां जह्यात. अपेक्षते हि सर्वम् एव करणम् इतिकर्तव्यताजनितम् अनुग्रहम् इति
SK
किञ् च -- अस्तु तावद् इतिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्य् आह -- प्रत्यात्मेति. नन्व् एवम् उभयसमवधानम् एवान्तरेण कार्यानिष्पत्तेः कथं करणेतिकर्तव्यताविभागो दर्शयितव्यः, अत आह -- बाह्यान्तरेति नान्तेन. यत्कार्यसिद्धौ सन्निहितं तत्करणम् इतरद् बाह्यम् इतिकर्तव्यतेति, बाह्यम् अपि क्वचिद् विवक्षातः कारकप्रवृत्तेः करणतया विवक्ष्यत इत्य् आह -- क्वचित् स्याद् वेति
SK
{३,२३६} एतद् एव दर्शयति -- उद्विग्न इति. ज्ञानोत्पत्ताव् अन्तरङ्गम् अपि चक्षुर् न करणतया मन्यते, किन् तु कुतश्चित् तारतम्यविशेषाद् बाह्यम् एव प्रदीपं करणतया विवक्षतीति
SK
स चायं विवक्षानिबन्धः करणभावः कादाचित्कः. नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य चक्षुषः करणत्वम् अवगम्यत इत्य् आह -- नित्यवृत्ताव् इति. अन्धानां दृष्टिर् दर्शनं नास्तीत्य् अर्थः
SK
नन्व् अस्तु विज्ञानकार्यासत्तिविशेषणात् प्रदीपाद्यपेक्षया चक्षुषः करणभावः, आत्ममनस्संयोगस् तु ज्ञानोत्पत्ताव् अत्यन्तम् आसन्नः, अतः कथं तदपेक्षया चक्षुषः करणत्वं भविष्यतीत्य् अत आह -- शरीरेति. अयम् अभिप्रायः -- नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिः, आभ्यन्तरात्ममनस्संयोगापेक्षया त्व् असाधारण्यम्, आत्ममनस्संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणम् इति शक्यते ऽवगन्तुम्. चक्षुषः पुनरसाधरणतयैव रूपज्ञाने कारणत्वम् इति चक्षूरूपादिभेदस् तु इत्य् अत्रोक्तम् इति
SK
तद् एवं दृष्टान्ते विवक्षासन्निकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति -- तथैवेति. अनेन यत्तदागमन्यायेन सम्बन्धग्रहणम् एव कारणम् आपद्येतेत्य् उक्तं तद् अपि विवक्षाविशेषवशेनास्त्व् इति दर्शितम् इति
SK
अपरम् अपि -- यथा चक्षुर्द्रष्टृ न बाह्येन प्रकाशेन विना इत्यादि परिहारभाष्यं, तस्याभिप्रायम् आह -- यथेति. चक्षुर् हि प्रदीपाद्युपायान्तरापेक्षम्{३,२३७}अपि रूपप्रकाशने स्वभावतश् शक्तम् इत्य् अनैकान्तिको हेतुः. दृष्टान्तो ऽपि साध्यविकल इत्य् आह -- देवदत्तेति
SK
यदृच्छाशब्दानाम् अपि ज्ञानसामर्थ्यं विद्यमानम् एव नियोगेनाभिव्यज्यत इत्य् अध्यासवादे वर्णितम्. अत्र च यथा चक्षुर् इति भाष्ये चक्षुषः करणभावो दर्शितः. कथं पुनस् तुल्ये ऽपि चक्षुःप्रदीपयोर् ज्ञानकारणत्वे चक्षुषः करणत्वम् इत्य् अत्रोपपत्तिम् आह -- प्रकाश इति. इदं च नित्यवृत्तौ इत्य् अत्रोक्तम् अप्य् अधुना भाष्यसमर्थनार्थम् उक्तम् इत्य् अपौनरुक्त्यम् इति
SK
तद् एवम् उपपादितस् संज्ञासंज्ञिसम्बन्धः कृतकत्वेन भाष्यकृताक्षिप्तः -- यदि प्रथमश्रुतो न प्रत्याययति कृतकस् तर्हि इति, तद् एतद्वार्तिककारो दर्शयति -- पुरुषेति. एवं चात्र प्रयोगः -- यः संज्ञासंज्ञिसम्बन्धः स कृतकः, पुरुषापेक्षत्वात्, रज्जुघटसंयोगवद् इति
SK
अपरम् अपि[७३१]स्वाभावतो ह्य् असम्बन्धाव् एतौ शब्दार्थौ इत्यादि भाष्यं, तस्याभिप्रायम् आह -- भिन्नेति. अयम् अर्थः -- यथा रज्जुसर्पादिषु भिन्नदेशकालाधिष्ठानेषु किञ्चिद् देशादि समं नास्ति, एवं तयोश् शब्दार्थयोः. अतस् तद्वद् एव ताव् अपि स्वभावतो ऽसम्बन्धाव् इति. ईदृशी चात्र प्रयोगरचनाशब्दार्थौ स्वभावतो ऽसङ्गतौ, असमदेशकालत्वात्, रज्ज्वादिवत्. ताव् एव न समदेशकालौ, भिन्नदेशाद्यधिष्ठानोपलम्भात्, तद्वद् एवेति
SK
__________NOTES__________
SK
[७३१] स्वरूपतो ऽसम्बन्धाव् अपि ताव् अर्थ अब्दौ इति काशिकामातृकायां पाठः.
SK
इत्य् उपाध्यायसुचरितमिश्रकृतौ संबन्धाक्षेपस् समाप्तः ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Sucaritamiśra: Mīmāṃsāślokavārttika (sa_sucaritamizra-mImAMsAzlokavArttika.htm).

Source