इदानीं दुर्जनान् प्रति सदण्डम् आह -- कुतो वेति. ये वयं परस्थान् अपि दोषान् न मृष्यामः, ते कथं स्वग्रन्थेषु दोषानुपाददीमहि. न चास्माभिर् अनुपात्तान् दोषान् सूरयो ग्रहीतुम् अर्हन्तीति
SK
{१,३} सम्प्रति मत्सरा नूनं दूषयिष्यन्ति मन्निबन्धनम्. अतस् तद्दोषोद्भावनेन शुश्रूषूणाम् उत्साहभङ्गो मा भूद् इत्य् एवम् अर्थम् आह -- निर्दोषत्वेति. प्रसिद्धातिशयाव् अपि मोक्षस्वर्गौ प्रति नास्तिका विवदन्ते. वदन्ति च -- सुखदुःखे लौकिके स्वर्गनरकौ इति. मोक्षे च सद्भावतः प्रभृति विवादः. एके हि नास्ति मोक्ष इति वदन्ति. अन्ये पुनः सकलविषयोपरागरहितं संवेदनप्रवाहम् अपवर्गम् आहुः. अन्ये तदुपरमम्. अपरे सकलवैशेषिकात्मगुणोच्छेदलक्षणं निरतिशयम् अविषयपरिष्वङ्गजम् अनवसानम् आनन्दसन्दोहम्. अपरे च पूर्वे च भ्रान्तिसमुत्थैर् नानाविकल्पैः पारमार्थिकमोक्षस्वरूपम् अपलपन्त्य् एवेति
SK
अपि च यदि नाम शुश्रूषवो मन्निबन्धने दोषानुपलभन्ते, तथाप्य् अहम् अनपवाद्यः. न ह्य् अहं स्वतन्त्रः किञ्चिदभिदधे. आगमानुसारिणस् तु मे यथागमं वर्तमानस्य स्खलितम् अपि दैवाद् अवर्जनीयतयापन्नम् इत्य् उपेक्षणीयम् एव. न हि किम् अप्य् अभिमतं वस्तु निर्दोषं भवति. दोषांस् तु समाधाय गुणा उपजीवितव्या इत्य् आह -- आगमेति. सतां हि मार्गो ऽयम् आगमानुसारो नाम. तद् इह बहुलं गुणा एव. दोषास् तु कथञ्चित् सन्तो ऽप्य् अल्पत्वाद् असत्कल्पा इत्य् उपेक्षितव्या इति
अत्र भाष्यकारेण शास्त्रारम्भम् आक्षिपतोक्तम् -- धर्मः प्रसिद्धो ऽप्रसिद्धो वा स्यात्. यदि प्रसिद्धः, न जिज्ञास्यः. अथाप्रसिद्धः, नतराम् इति. तत्राभाववचनत्वान्नञः को ऽयम् आतिशायनिकः प्रत्ययः. न हि निषेधस्य स्वगतो विशेषः कश्चिद् अस्तीत्य् आशङ्क्याह -- प्रसिद्ध इति. सत्यम्. नाभावस्य स्वगतो विशेषः, तथापि निषेध्यतन्त्रत्वाद् निषेधस्य तदतिशयात् सो ऽप्य् अतिशेते इति. तद् इह प्रसिद्धे ज्ञानेच्छामात्रस्यैवाभावः, न ज्ञानस्य अप्रसिद्धे तु न ज्ञानं न चेच्छेति द्वयनिषेधाद् अतिशयो युक्तः. अशक्यत्वान् नेष्यते न ज्ञायते चेत्यर्थ इति
SK
अत्र परिहारभाष्यं धर्मं प्रति विप्रतिपन्ना बहुविदः. स हि निःश्रेयसेन पुरुषं संयुनक्तीति, तद् व्याचष्टे -- जिज्ञास्य इति. सन्दिग्धस्य हि प्रयोजनवतो निर्णयाय मतिमन्तो यतन्ते. तथा च धर्मः. तस्माद् अयम् अपि जिज्ञास्यत इति
[२७२] धाननि (KA) [२७३] मे [२७४] म् एवास [२७५] वा (GA)
SK
स्वतो द्वयम् इति तावन् निराकरोति -- स्वत इति. कारणम् आह -- विरोधाद् इति. इदम् अत्राकूतं - यत् तावद् उक्तम् असतः शशविषाणाद् व्यावृत्तं साध्यत्वं घटे दृश्यमानं सत्तां गमयतीति. तद् अयुक्तम्. अभावविरोधात्. असन्निकृष्टार्थविषयं ह्य् अनुमानं, तत् कुतो मृदि योग्यानुपलम्भनिराकृतसद्भावविषयं घटं विषयीकरिष्यति. उपादाननियमस् तु शक्तिभेदाद् उपपन्न एव. किञ्चिद् एव हि मृत्तन्त्वादि कस्यचिद् एव घटादेर् उत्पादने शक्तं न सर्वं सर्वस्येति, यो यदर्थी स तदुपादत्त इति किं नोपपद्यते. यदि मतं न कार्यकारणान्तरालपतितां परां शक्तिम् ईक्षामह इति. न, शक्तिसिद्धिम् अर्थापत्तिग्रन्थे वक्ष्यामः. यत् तूक्तं विकारा एव शक्त्यात्मना सन्तस् तदुत्पत्तिशक्तिर् वोपादानेष्व् अस्तीति नावयोर् विशेष इति. तन् न. महानयं विशेषः यद् विकारसत्ताम् अभावो बाधते, शक्तिं तु सूक्ष्माम् अर्थापत्तिः साधयतीति. ते ऽपि हि शक्त्यात्मना सन्तो न योग्यानुपलब्ध्या निराकर्तुं शक्यन्त इति चेत्, केयं शक्त्यात्मता. यतस् ते ऽसन्तो ऽपि जनिष्यन्त इति चेत्. तद् इष्टम्. अनभिव्यक्तिर् इति चेद्, न. साक्षस्याप्य् आलोके ऽनुपलम्भात्. नन्व् आलोके ऽपि नावृतम् उपलभ्यते. किम् इदानीम् आवृतो मृदि घटः. सत्यम्. केन. न तावद् उपादानं कार्यम् आवृणोति, नित्यावरणप्रसङ्गात्. मृदाकार आवृणोतीति चेत्. को ऽयं मृदाकारः. यदि तज्जातिः, सोपरिष्टाद् अप्य् अनुवर्तत इति नित्यावृतिर् एव[२७६]प्राप्नोति. प्राच्यो मृत्पिण्डसन्निवेश इति चेत्. स वा किम्{१,८३}उपरिष्टान् न भविष्यति, यन् न घटम् आवरिष्यति. हन्त सो ऽप्य् अनुत्पत्त्यविनाशधर्मासद्वादिभिर् इष्यत इत्य् अनिवार्यैव नित्यावृतिः. सूक्ष्माश् च मृदवयवसन्निवेशविशेषा न महान्तं घटम् आच्छादयितुम् उत्सहन्ते इति यत् किञ्चिद् एतत्. यत् तु त्रिभ्यो ऽपि कारणेभ्यः सदुत्पत्तौ किंकृतो विधानियम इति. शक्तिभेदकृत एव. किञ्चिद् एव तथा नाम शक्तं, यद् विकारभावम् अनुभवति. किञ्चित् तु बहिर् एव सत् तदुत्पत्तौ व्याप्रियते. स चायं शक्तिभेदः कार्यदर्शनसमधिगम्य एवेति नाप्रमाणकः. भेदाभेदौ तु न क्वचिद् आत्यन्तिकाव् इति नाप्रसङ्गातिप्रसङ्गौ. यत् तु पृष्टम् उपादाननिमित्तासमवायिनां का शक्तिर् इति. तदतिदूरम् अपभ्रष्टम्. शक्तिर् हि शक्तिर् एव, न कारणं, तद्वतो द्रव्यस्य कारणत्वात्. कारणवच् च कारणशक्तिर् अपि कार्यसिद्धिम् अनुधावतीति प्रमाणबलाद् उपपत्स्यते. कारकव्यापारानर्थक्यं च दुष्परिहरम् एव. अभिव्यक्त्यर्थो व्यापार इति. अत्र तूक्तो दोषः. अपि चाभिव्यक्तिसत्त्वे तुल्यम् आनर्थक्यम्. असत्त्वे च सर्वत्र प्रसङ्गः शक्यम् अनुमातुम्.[२७७]सर्वं हि विमतिपदं[२७८]कार्यम् असत्, कार्यत्वाद् अभिव्यक्तिवत्. कार्यं चाभूत्वा भवनात् तद्वद् एवाभूत्वा भवति, उपलब्धियोग्यत्वे सत्य् अनुपलम्भाद् अभिव्यक्तिवद् एव. यत् तु अभिव्यक्तौ प्रसङ्ग इत्य् उक्तम्. तद् अयुक्तम्. प्रत्यभिज्ञानं हि बलवदभूतप्रादुर्भावं घटस्य वारयति. विपरीतं च तत् सत्कार्यवादिनाम् इति किम् अनेनातिनिर्बन्धेन भ्रान्तभाषितेन. प्रकृते च विरोधात् कथं ह्य् एकज्ञानजात्यनुबन्धिनी प्रमाणत्वाप्रमाणत्वे भविष्यतः, विरुद्धधर्मावेशस्य भेदनिबन्धनत्वात्. अतो यथा नैकस्याग्नेः शीतोष्णत्वम्, एवं न ज्ञानस्य प्रमाणत्वाप्रमाण[२७९]त्वम् इति. सो ऽयं प्रकृताप्रकृतगोचरे तन्त्रेण विरोधो व्याख्यातव्यः. प्रामाण्याप्रामाण्यात्मकद्वयं न स्वतः, स्वभावविरोधात्. कार्यकारणात्मकत्वं च द्वयं न स्वतः सिद्धं, कार्यसत्ताया अभावविरोधाद् इति. परतो[२८०]द्वयम् इति निराकरणार्थम् आह - परत इति. कारणम् आह -- निःस्वभावत्वम् इति. एवम् उभयपराधीनवादी वक्तव्यः -- किं खलु कारणोत्पन्न-गुणदोषावधारणात् प्राग् ज्ञानं न जायत एव, जातम् अपि वा[२८१]रूपान्तरेणावतिष्ठत इति. न तावज्ज्ञानं{१,८४}जायते, संविद्धिरोधात्. जातं तु केनात्मनावस्थास्यते. न ह्य् एतद्राशिद्व-यातिरिक्तम् अस्ति राश्यन्तरं येनावतिष्ठेत. अन्यतरधर्मकम् एव तदुत्पन्नं प्रागनवधृततथाभावम् उपरिष्टाद् अवधार्यत इति चेद्. न. गुणावधारणाधीननिश्चयाभ्युपगमात्. तदवधारणाद् धि प्राङ् निश्चय एव नासीत्. कथं प्रामाण्यम् आसीद् इति शक्यते वक्तुम्. अथ पूर्वं[२८२]अपि निश्चिताकारम् एव ज्ञानं, किं गुणावधारणेन. दोषानाशङ्कमानस् तु तन्निराकरणार्थम् एव यतत इति युक्तम्.[२८३]एतच् च वक्ष्यत एवेति सूक्तं निःस्वभावत्वम् इति
SK
__________NOTES__________
SK
[२७६] व प्राच्यो (GA) [२७७] तुम् इति स [२७८] दास्पदं का [२७९] णस्वभावत्व (GA) [२८०] तो ऽपि द्व (KHA) [२८१] वा स्वरू (KA, KHA) [२८२] र्वम् एव नि (KA, KHA) [२८३] क्तम् एव. तच् च
किञ् च इतश् च न स्वतः प्रामाण्यम् इत्य् आह -- प्रामाण्यं[२९४]हीति. अयम् अर्थः -- यदि ज्ञानस्वभावानुबन्ध्यौसर्गिकं प्रामाण्यम्, एवं सति प्रामाण्याभावस्यावस्तुनो ऽकृत्रिमत्वान् न पराधीनत्वम् इति सर्वज्ञानानाम् अपि प्रमाणत्वप्रसङ्गः.[२९५]स्वप्नादिज्ञानानाम् अपि ज्ञानत्वाविशेषात्, तन्मात्रानुबन्धित्वाच् च प्रामाण्यस्य. अप्रामाण्यस्य चावस्तुनो ऽकार्यत्वाद् इति
एवं तावत् सार्वज्ञ्यं दुर्ज्ञानम् इत्य् उक्तम्. तदनवगमे च सर्वज्ञागमप्रामाण्यम् अपि न सिध्यतीत्य् आह -- सर्वज्ञ इति. सर्वज्ञप्रणीतता हि तदागमप्रामाण्यमूलं, तदनवगमे च न यादृशतादृशपुरुषवाक्यवत् सर्वज्ञागमप्रामाण्यम् अध्यवसातुं शक्यत इति
एवं तावद् भाष्यकारानुसारेण धर्मपदार्थो व्याख्यातः. मतान्तराणीदानीम् उपन्यस्य निरस्यति -- अन्तःकरणेति न दृष्टोऽन्तेन. साङ्ख्या ह्य् अन्तःकरणस्य मनसो वृत्तिविशेषं धर्मम् आश्रिताः. शाक्यास् तु चित्तस्यैव चित्तान्तरेण[५१६]भावितां शुभां वासनाम्. आर्हतास् तु कार्यारम्भकान् सूक्ष्मान् मूर्तिमतः पुद्गलान् धर्मम् आहुः. पुद्गलशब्दस् त्व् आर्हतैस् तेष्व् एव परिभाषितः. वैशेषिकास् त्व् आत्मनो विशेषगुणा धर्मा इति प्रतिपन्नाः. मीमांसकैकदेशिनस् त्व् अपूर्वजन्मन्य् एव धर्मशब्दम् उपचरन्ति. वर्णितश् च तेषाम् अभिप्रायः. अपूर्वजन्मनीति चापूर्वशब्दनिर्वचनम्. न पूर्वं जन्मास्येत्य् अर्थः. तद् धि न कर्मणः पूर्वं जायत एव, कृते कर्मणि तन्निष्पत्तेः. एतेषु सर्वेषु च लोके धर्मशब्दप्रयोगो न दृष्टः. लौकिकश् च प्रयोगः शब्दाद् अर्थावधारणे मूलम्. अतो न ते धर्माः. कथं पुनर् अन्तःकरणवृत्तेर् धर्मत्वं निराक्रियते. मीमांसकैर् अपि तद्धर्मत्वम् इष्यत एव. यागाद्यनीक्षणादिसङ्कल्पानां मानसानाम् एव धर्मत्वाभ्युपगमात्.{१,१६१}नैवम्. न मानसाः सङ्कल्पाः, आत्मकर्तृकत्वाद् उपनिषत्सु तथा दर्शनात्. श्रूयते हि -- य आत्मा अपहतपाप्मा विरजो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसङ्कल्पः इति. तथा स यदि पितृलोककामो भवति सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीति. कृद्योगलक्षणा कर्तरि षष्ठी आत्मकर्तृकतां सङ्कल्पस्य दर्शयतीति न मनोवृत्तेर् धर्मत्वम्. चित्तानां च वास्यवासकभावानुपपत्तिः क्षणिकायुगपद्भुवां विज्ञानवादे ऽभिधास्यत एव. तद् उपेक्ष्यैव तावत् प्रयोगाभावान् न चित्तवासना धर्म इत्य् उक्तम्. पुण्याः पुद्गला इति यद्यणवः, न तेषु धर्मशब्दप्रयोगो लोके दृष्टः. अथान्ये ते, तर्हि प्रमाणाभावात् कुतः सेत्स्यन्ति. कुतस् तरां च तेषु धर्मशब्दप्रयोगो ऽलब्धसद्भावेषु. पुंगुणस् तु नित्यो वा वैभवादिवत्, कार्यो वा सुखादिवत्. नित्यत्वे अनुष्ठानवैयर्थ्यम्. कार्यं तु नापूर्वाद्यन्यतमम् आत्मसमवायिनं गुणभेदम् उपलभामहे. अपूर्वं तु यथा न धर्मस् तथोक्तम् एव. अप्रयोगाद् इति वक्ष्यति च. यद् अपि च कर्तृफलदाय्यात्मगुणः संयोगजो दृष्टः कार्यविरोधीति धर्मस्य लक्षणम् उक्तं, तद् अयुक्तम्. अधर्मसाधारण्यात्, स्मृतिहेतुसंस्कारसाधारण्याच् च. तयोर् अप्य् एवंलक्षणकत्वेन धर्मत्वप्रसङ्गात्. कर्तृफलदायीति चाव्यापकः. श्राद्धे त्व् अकर्तॄणां पित्रादीनां तृप्तिफलश्रुतेः. वैश्वानर्याश् च पितृकर्तृकाया एव पुत्रगामि फलम् इति वः सिद्धान्तः. वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते इति हि विधाय आम्नायते यस्मिन् जात एताम् इष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति. शास्त्रफलं प्रयोक्तरि (३.७.१८) इत्य् उत्सर्गतः प्राप्तपितृगामिता पुत्रगामिफलश्रुत्यापोद्यते. अतः सिद्धं नान्तःकरणवृत्त्यादयो धर्मा इति. ननु श्रेयस्साधने तावद् धर्मपदप्रयोगो भवद्भिर् अपीष्यते. एते च श्रेयस्साधना इति कथं तेषु धर्मशब्दप्रयोगो न दृष्ट इत्य् उच्यते. अत आह -- न चेति. न तावद् एषां फलसाधनता प्रत्यक्षादिगम्या, अतीन्द्रियत्वात्. न च चोदनागम्या, यागादीनाम् एव तया फलसाधनतावगतेर् इति
SK
__________NOTES__________
SK
[५१६] ण शु (KA)
SK
{१,१६२}आह -- अस्त्व् अन्तःकरणवृत्त्यादयो न श्रेयस्साधनतयावगम्यन्त इति न धर्मा इति. अपूर्वं तु प्रीतिसाधनम् एव, अतिक्रान्ते कर्मणि तत एव फलसिद्धेः. यागसाधनवादिनो ऽपि हि अपूर्वं कृत्वेति व्याचक्षाणा अपूर्वसिद्धिम् अन्तर्भावयन्ति. परैर् अप्य् उक्तम् -- आरम्भात् स्वर्गः कर्मणा चारम्भः इति. आरम्भ इत्य् अपूर्वम् एव समाचक्षते. स ह्य् आरभ्यते. अतो ऽपूर्वं धर्म इत्य् एव न्याय्यं मन्यन्ते, अत आह -- न चेति. अयम् अभिप्रायः -- किम् इदम् अपूर्वं नाम. यदि तावत् कर्मशक्तिः फलशक्तिर् वा, नासौ साधनं साध्यं वा. शक्तेर् अकारकत्वात्, पुरुषाभिलषितफलानुषङ्गिकतया सिद्धत्वाच् च. यदि वस्त्वन्तरम् एवापूर्वम् उच्यते, तद् अप्य् अयुक्तम्. तस्य साध्यसाधनयोर् अन्यतररूपाननुप्रवेशितया प्रत्येतुम् अशक्तेः. न हि तत् स्वर्गस्य साधनं यागस्य च साध्यं शब्दाद् अवगच्छामः. नान्यतः प्रमाणात्, तदवेद्यत्वाभ्युपगमात्. अत एव न शब्दात्, प्रमाणान्तरागोचरे व्युत्पत्त्यभावात्. अपदार्थस्य चावाक्यविषयत्वात्. अतः साध्यसाधनभावाद् अन्यथापि[५१७]प्रमाणान्तरेण न वस्त्वन्तरभूतम् अपूर्वं शक्यावगमम्. एतद्रूपद्वयरहितस्य[५१८]तस्य रूपान्तरेण दर्शयितुम् अशक्यत्वाद् इति
SK
__________NOTES__________
SK
[५१७] प्रकारान्त (KA)
SK
[५१८] स्य रू (GA)
SK
अपि च यद्य् अपूर्वं यागस्य साध्यं स्वर्गस्य च साधनम् इष्यते, ततः श्रुतहानिर् अश्रुतकल्पना चेत्य् आह -- श्रुतसाधनेति. ताद्रूप्यं तेन भावना च वाक्यार्थः. सा च साध्यसाधनापेक्षिणी यथा स्वर्गयागाव् एव गृह्णाति तथा भावार्थाधिकरणे वक्ष्यते. इहापि च भावनापञ्जरप्रकरणे. अतस् तत् तावद् धेयम् अश्रुतं च. अतीन्द्रियस्यावस्तुनो गगनकुसुमादिसन्निभस्य साध्यसाधनत्वं कल्पनीयम् इत्य् अश्रुतकल्पनेति. अन्यतररूपानभ्युपगमे निस्स्वभावस्याभाव एव भवेद् इत्यभिप्रायेणाह -- व्यतिरेके त्व् अरूपतेति
SK
{१,१६३} इदं च प्रौढिप्रदर्शनार्थम् उक्तम्. न त्व् एतद्रूपद्वयरहितस्य धर्मशब्दवाच्यतोपपद्यत इति. अतो न तत्त्वान्तरम् अपूर्वम्. किन् तु फलं कर्तुम् अभिप्रवृत्तस्य यागादेर् एव शक्तिमात्रं, पश्वादेर् वोत्पत्ताव् अभिप्रवृत्तस्य शक्तिमात्रम् एव सूक्ष्मावस्था अपूर्वम्. न तत्त्वान्तरम्. न च कर्मशक्तिर् एव फलसाधनं, कर्माव् आन्तरव्यापारत्वात्. न चावान्तरव्यापारव्यवधिरकारणताम् आपादयति, काष्ठादीनां ज्वलनादिव्यापारव्यवधाने तत्प्रसङ्गात्. अतः कर्मैव शक्तं फलसाधनं न शक्तिर् इति शास्त्राद् अवगम्यमाने कथं शक्तेर् धर्मपदवाच्यतेत्यभिप्रायेणाह -- तस्माद् इति
SK
इतश् च फलसाधनशक्तिर् न धर्म इत्य् आह -- शक्तय इति. अस्यार्थः -- भावशक्तयः खलु साधारणशब्दैर् एव योग्यताशक्तिसामर्थ्यादिभिर् दृष्टाभिधानाः न विशेषतो भावशब्दैर् उपाख्यायन्ते. धर्मशब्दस् तु विशेषतो भावशब्दः. अन्यत्रैवञ् जातीयके ऽप्रयोगात्. न हि लौकिकानां द्रव्यादीनां शक्तयो धर्मपदेनोपाख्यायन्ते. अतो न यागादीनां शक्तयो धर्मपदेनोपाख्यायन्त इति सिद्धम् इति
SK
अत्रापरम् अर्थपदव्याख्यानार्थं भाष्यम् -- उभयम् इह चोदनया लक्ष्यते अर्थो ऽनर्थश् च. को ऽर्थः, यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः, यः प्रत्यवायाय श्येनो वज्र इषुर् इत्येवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्येवमर्थम् अर्थग्रहणम् इति. अस्य किलायम् अर्थः -- यदि चोदनालक्षणो धर्म इत्य् एतावद् उच्येत, अतो ऽनर्थस्य चोदनालक्षणस्य श्येनादेर् धर्मता भवेत्. अनर्थश् चासौ प्रत्यवायकरत्वेन. अतस् तन्निवृत्त्यर्थो ऽर्थशब्द इति. तद् एतद् आक्षिपति -- पुरस्ताद् इति. अस्यार्थः -- एकाङ्गविकलं हि प्रत्युदाहरणं भवति.[५१९] न द्व्यङ्गविकलम्. तद् यद् एव चोदनालक्षणपदेन न व्यावर्तयितुम् इष्टं, तदर्थग्रहणेन व्यावर्तनीयम्. अनर्थश् च चोदनालक्षणपदेन व्यावर्तितः. विधायकस्य वाक्यस्य चोदनात्वात्. तेन चानर्थहेतोः हिंसाया अलक्ष्यमाणत्वात्. प्राणवियोगफलो हि व्यापारो हिंसा. सा च न हिंस्याद् इति श्रुत्या निषिद्धेत्य् अनर्थः. स च निषेधलक्षितः न तु चोदनालक्षित इति चोदनालक्षणपदेनैव तद्व्यावृत्तिसिद्धेर् अनर्थकम् अर्थपदम् इति. पुरस्ताद् इति. चोदनेति क्रियायाः प्रवर्तकं वचनम् इत्य् अत्रेत्य् अर्थः
SK
__________NOTES__________
SK
[५१९] ति. तद् य (GA)
SK
स्याद् एतत् -- श्येनादयो ऽत्र भाष्यकारेण प्रत्युदाहृताः, ते च चोदनालक्षणा एवेति. तद् अयुक्तम्. यदि नाम श्येनादयश् चोदनालक्षणाः, न त्व् अर्थपदेन व्यावर्तयितुं शक्यन्ते. निषेधप्रमाणकत्वाद् अनर्थत्वस्य. तेषां च विधिविषयाणां निषेधागोचरत्वाद् इत्य् अभिप्रायेणाह -- चोदनेति. तद् इह यो ऽनर्थो हिंसा नासौ चोदनालक्षणा, निषेधलक्षणत्वात्. ये च चोदनालक्षणाः श्येनादयः, न ते ऽनर्था इत्य् उभयतःपाशा रज्जुर् इति
SK
स्याद् एतत् -- यदि नाम निषेधप्रमाणकम् अनर्थत्वं न. एवम् अपि श्येनादौ न सम्भवति, विधिविषयाणाम् अपि निषेधविषयत्वसम्भवादतिरात्र इव षोडशिनः. अत आह -- यद्य् अपीति. अयम् अभिप्रायः -- न तावद् विध्यवरुद्धे विषये निषेधः सम्भवति. यद्य् अपि क्वचिद् भवति, तथापि न तादृशान् निषेधाद् अनर्थत्वं विज्ञायते. केवलो हि निषेधो ऽनर्थत्वम् आपादयति, न विधिसहितः यथोदाहृत एव षोडशिनि. न ह्य् असाव् अनर्थः, अनुष्ठानविकल्पमात्रार्थत्वान् निषेधस्य, उभयथापि क्रतुफलसम्पदो ऽविशेषात्.[५२०]अतो यदि नाम श्येनो निषिध्येत नैवम् अप्य् अभिचारविधिना विहितो ऽनर्थत्वं प्रतिपद्यते. केवलनिषेधगोचरा एव कलञ्जभक्षणादयो ऽनर्थाः, प्रत्यवायहेतुत्वात्.
SK
__________NOTES__________
SK
[५२०] त् यदि (KA)
SK
{१,१६५}किं पुनस् तेषां प्रत्यवायहेतुत्वे प्रमाणम्. यदि निषेधः, तद् अयुक्तम्. नञर्थपर्यवसाय्य् एव हि निषेधविधिर् न निषेध्यस्यानर्थताम् आपादयितुं क्षमः. तावतैव निषेधविध्यर्थसिद्धेः. निषिध्यमानक्रियाकर्तुर् एव निषेधविधिष्व् अधिकारः. तस्यां च रागादिना प्रवृत्तः पुमान् अधिकारी लब्ध एवेति नाधिकार्यन्तरापेक्षा. एवञ् च न तद्विशेषणे ऽपि. अधिकारी हि नानवच्छिन्नो विशेषणेन बोद्धुं शक्यत इति तद्विशेषणापेक्षा. तत्र स्वर्गपुत्रादिश्रुतिषु कामाधिकारेषु काम्यपर्यन्तता सिद्धा. जीवनभेदनादिश्रुतिषु निमित्ताधिकारेषु निमित्तपर्यन्ततेति मीमांसाकृतधियो धीरा विभजन्ते. निषेधाधिकारेषु न तावत् प्रत्यवायपरिहारः साध्यतया श्रुतः. न च पिण्डपितृयज्ञवत् कल्पयितुं शक्यते. अधिकारिलाभात्. उक्तं हि -- निषिध्यमानक्रियाकर्तुर् एवाधिकारः इति. किं पुनस् तत्र विशेषणम्. भक्षयतिर् एव. नन्व् असौ विषयविशेषणम्. सत्यम्, विषयस्यैव विशेषणं गले पातिकया भक्षयतिर् अधिकारिविशेषणम् आख्यायते. यत्र खलु नञर्थे पुरुषो नियुज्यते स विषयः. न चासौ भक्षयतिनानवच्छिन्नो बोद्धुं शक्यत इति तद्विशेषणतयैव पर्युपयुक्तस्य भक्षयतेर् बलाद् अधिकारिविशेषणता सम्पत्स्यते. एषा हि तत्र वचनव्यक्तिः यो भक्षयेत् स नेति. एवञ् च सम्पन्नम् उभयं यश् च विषयो नञर्थः यश् च भक्षयति प्रवृत्तो ऽधिकारीति नाधिकार्यन्तरापेक्षायां प्रमाणम् अस्ति. न च किञ्चिद् अधिकारे हेतुतया सम्बद्धं साध्यतया सम्बध्यते. नियोगसिद्धिनान्तरीयकत्वात् फलसिद्धेः. इतरथा साध्यद्वयापत्तेः. एवं सर्वत्र. किम् इदानीं प्रत्यवायकराणि. निषिद्धानि महापातकोपपातकादीनि तथा नाम. न तु श्रुतिपरतन्त्राणाम् अशब्दार्थकल्पना मीमांसकानाम्. किम् इति तर्हि निषिद्धं न क्रियते, विहितं वा किम् इति क्रियते. विहितत्वाद् इति चेत्, समानम् इदं निषिद्धायां क्रियायाम्. तद् अपि निषिद्धत्वाद् एव न क्रियते. न हि विधिनिषेधाभ्याम् अन्यद् अस्ति नाम हेत्वन्तरं वैदिकेषु प्रवृत्तिनिवृत्त्योः. तस्मान् न किञ्चिन्निषिद्धानां प्रत्यवायकरत्वे प्रमाणं पश्यामः. कस् तर्हि दुःखहेतुः. किं नो विदितेन कारणेन. अस्ति तावद् दुःखहेतुः तद् एव हि नस् तत्र प्रमाणम्.
नन्व् आगमानुसारेण क्रतुगतानाम् अपि हिंसानाम् अधर्मत्वम् अवगम्यते. तथा हि -- सन्ति हि केचन मन्त्रार्थवादे[५८३]तिहासादयः ये क्रतुवर्तिनीम् अपि हिंसां निन्दन्ति.[५८४]यथा जपस्तुतौ
अयं च साङ्ख्यसिद्धान्तसिद्धो वृत्तिगमनपक्षो वार्त्तिककारेण प्राप्तिसाधारण्यमात्रेणोक्तः, न पुनरभिप्रेतः. न हीन्द्रियवृत्तिर् नाम काचित् प्रमाणेनावगम्यते. तथा हि -- आहङ्कारिकाणीन्द्रियाणीति कापिला मन्यन्ते. यथाहुः --
SK
सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात् |
SK
इति. कश् चायम् अहङ्कारः. यदि यो ऽयम् आत्मानं प्रकाशयति, स तर्हि ज्ञानमितीन्द्रियाणां कथं प्रकृतिर् भविष्यति. आत्माधारम् आन्तरं ज्ञानं कथं तेन बाह्येन्द्रियाण्यारब्धुं शक्यन्ते. अथ मतं तत्त्वान्तरम् अहङ्कार इति. तन् न. प्रमाणाभावात्. अपि च तत्त्वान्तरम् अपि तत् कापिलैर् विभुः सङ्गीर्यते. ततस् तन्मयानीन्द्रियाण्य् अपि विभूनि भवेयुः. न च विभूनां वृत्तिर् उपपद्यते. वृत्तिर् निर्गमनम्. न च तद् विभूनां सम्भवति. स्यान् मतम् -- न च ब्रूमो विभूनीन्द्रियाणि गच्छन्तीति, किं तर्हि. तदाधारा वृत्तिर् इति. केयं वृत्तिर् इति वक्तव्यम्. यदि श्रोत्रादीनां शब्दादिग्रहणयोग्यता, सा तर्ह्य् अमूर्ता शक्तिः कथं गच्छेत्. अपि च त्रीण्य् अन्तःकरणानि महानहङ्कारो मन इति कापिला मन्यन्ते. न च करणं करणान्तराणां प्रकृतिर् उपपद्यते करणत्वात् मनोवत्. अतो नाहङ्कारिकाणीन्द्रियाणि. न च तद्वृत्तिर् अमूर्ता प्राप्यकारिणीति प्रमाणवती कल्पना. तथा शब्दाधिकरणे वक्ष्यति श्रोत्रागमनपक्षे चेत्य् अत्र वृत्तिगमनप्रतिषेधम्. अतो भौतिकान्य् एवेन्द्रियाणि प्राप्यकारीणीति वक्तव्यम्.
SK
किं पुनर्भौतिकत्वे प्रमाणम् इन्द्रियाणाम्. दृष्टानुसारः. तथा हि -- बहिर्भूतानाम् एव यथायथं रूपाद्यभिव्यञ्जकत्वम् उपलब्धम्. तेजसा हि रूपं प्रकाश्यते यथा दीपेन. रसो ऽद्भिः. शुष्काणाम्[६५०]अपि द्रव्याणां सन्न् अपि रसो न व्यक्तम् उपलभ्यते यथार्द्राणाम्. न च शुष्केषु रसो नास्ति, यावद्द्रव्यभावित्वात्. अतो ऽद्भी रसो ऽभिव्यज्यते. पार्थिवं च किञ्चिद् द्रव्यं{१,२२७}गन्धस्याभिव्यञ्जकं दृष्टम्. यथा निम्बत्वक् चन्दनगन्धस्य. तत्कषायपरिषिक्तस्य हि चन्दनस्य स्फुटतरं गन्धो ऽभिव्यज्यते. न चाद्भिर् असाव् अभिव्यज्यते, केवलानाम् अनभिव्यञ्जकत्वात्. वायुनापि बहिः स्पर्शाभिव्यक्तिर् उपलब्धा, यथा हेमन्तशिशिरयोर् वियति विततानाम् अपां सूक्ष्मत्वाद् अनुपलक्ष्यमाणानां वापि वाते शीतस्पर्शो ऽवगम्यते. न चासौ वायोः. अनुष्णाशीतस्पर्शत्वाद् वायोः. अतो रूपाभिव्यञ्जकं चक्षुस् तैजसम्. आप्यं रसनम् अभिव्यञ्जकं च रसस्य. घ्राणं पार्थिवं गन्धस्य. वायवीयं त्वगिन्द्रियं स्पर्शस्य. श्रोत्रम् इदानीं किंप्रकृतिकम्. तद् अपि भौतिकम् इन्द्रियत्वात्. किं पुनर्भूतं तस्य प्रकृतिः. आकाश इति वदामः. तथा हि -- द्विविधं कार्यं सर्वभूतानां शरीरम् इन्द्रियं च. आकाशस्याप्य् अवकाशदानेन शरीरोपकारकत्वात् कार्यकारणत्वम्. अतस् तस्यापीन्द्रियेण कार्येण भवितव्यम्. तत्रेन्द्रियान्तराणां भूतान्तरप्रकृतित्वाद् आकाशम् एव श्रोत्रस्य प्रकृतिर् इति निश्चीयते. अपि च स्वगुणम् एव भूतान्तराणि व्यञ्जयन्ति. न च तेषां शब्दो गुणः, आकाशगुणत्वात्. अत आकाशम् एव तस्याभिव्यञ्जकम् इति युक्तम्. एवञ् च दृष्टानुसारिणी कल्पना कृता भवति. सन्ति हि देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धाद्यभिव्यक्तिशक्तयश् च बहिर् इति शरीरे ऽपि वर्तमानानां तेषाम् एव व्यञ्जकत्वानुमानं युक्तम्. एवञ् च प्राप्तिर् अपि स(?मि/म)र्थिता भवति. त्वग्घ्राणरसनानां हि स्थितम् एव प्राप्यकारित्वम्. श्रोत्रस्यापि कर्णच्छिद्रपरिमितनभसो धर्माधर्मोपगृहीतस्य स्वदेश एव विभुं शब्दं प्रकाशयतः प्राप्यकारित्वम् एव. तेजसो हि विसरणस्वभावस्य चक्षुषो निर्गतस्यार्थदेशप्राप्तिर् उपपन्नैव. अनुद्भूतरूपत्वाच् च तस्य रूपानुपलम्भः. अत एवाग्नितेजसः पृथ्वग्रादिकल्पना च तस्य कार्यदर्शनानुसारेण मूर्तत्वाद् उपपत्तिमती. सर्वत्र च यथाकार्यदर्शनं योग्यतासनाथा प्राप्तिर् इन्द्रियार्थयोः सम्बन्ध इति दर्शयितव्यम्. अतो न काचिद् अतिप्रसक्तिर् वक्तव्या यथा वक्ष्यति -- प्राप्तिमात्रं हि सम्बन्धः इति. अतः सिद्धम् इन्द्रियाणि भौतिकानि प्राप्यकारीणि चेति
इति. एवं हि मन्यन्ते -- न कल्पना स्वसंवित्तिर् आत्मानं विकल्पयति, बहिरर्थविकल्पावभासित्वात्. असाधारणस्य च कल्पनात्मनो ऽपि कल्पनास्पदत्वात्. अत्राप्य् आहुः -- नैनम् इयम् अभिलापेन संसृजति तथा वृत्तेर् आत्मनि विरोधात् इति.
अपि च स्वप्नावगता अप्य् अर्थाः केचिच्छोकहर्षादिव्यवहारहेतवो दृश्यन्ते. अतस् ते ऽपि सांवृता एव. तद्वच् च बाह्यार्थाभ्युपगमे स्वप्नादिभोगतुल्य एव शुभाशुभकर्मफलोपभोगो भवेत्. अतस् तन्निवृत्त्यर्थम् अपि परमार्थसत्ये बाह्ये प्रयस्यते इत्य् आह -- स्वप्नादीति
SK
कः पुनः स्वप्नतुल्यत्वे दोषः, अत आह -- न हीति. किम् इति न प्रवर्तते अत आह -- यादृच्छिकत्वाद् इति. न हि स्वप्नसुखं मे भवतीति विद्वांसः प्रयस्यन्ति. यादृच्छिकं हि स्वप्नसुखम् अगणितसाम्परायिकैहिकनिमित्तं, न तत् प्रयस्यतो भवतीति बुद्ध्वा विद्वद्भिस् तूष्णीम् उदासीनैर् एवास्येत, न क्वचित् प्रयत्नः क्रियेतेत्य् अर्थः
एवं तावद् धर्मी विकल्प्य दूषितः. धर्मम् इदानीं निरालम्बनत्वं विकल्प्य दूषयति -- निरालम्बनतेति. सर्वथा निरालम्बनत्वे साध्ये ऽप्रसिद्धविशेषणः पक्षो भवति. न हि सर्वथा निरालम्बनत्वं नाम किञ्चिद्{२,४८}अस्ति. सर्वत्र देशकालान्तरावस्थितबाह्यालम्बनाभ्युपगमात्. यश् च स्वप्नप्रत्ययो दृष्टान्ततयोक्तः, सो ऽपि न सर्वथा निरालम्बनः. सर्वत्र यथाकथञ्चिदालम्बनसिद्धेर् वक्ष्यमाणत्वात्. अतो दृष्टान्ताभावो ऽप्य् एवं सत्यापद्येतेति
न केवलं स्वप्नादिज्ञानानां प्रतियोग्यभावान् मिथ्यात्वं न सिध्यति, जाग्रज्ज्ञानानाम् अपि शोभनाभिधानसत्यप्रतियोग्यभावान् मिथ्यात्वं न सिध्यतीत्य् आह -- न चेति
यदि तर्हि सर्वथैव वैधर्म्यं वाच्यं सर्वज्ञनिषेधे का वार्ता. तत्रापि ह्य् अवस्तुनि साध्ये वस्त्वात्मनः सर्वज्ञविपक्षाद् धेतुर् व्यावर्त्यः. तथा च तदभ्युपगमप्रसक्तिर् अत आह -- एवम् इति. एवं हि तत्र साध्यते बुद्धप्रत्यक्षम् असर्वविषयं, प्रत्यक्षत्वाद् अस्मदादिप्रत्यक्षवत्. सर्वविषयं तु न प्रत्यक्षं शब्दवद् इति. एवं तावद् व्यापकं वैधर्म्यं मन्वानानाम् अनुयोगो दर्शितः. न त्व् एवं मन्यामहे. वक्ष्यति हि --
SK
व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यम् अपेक्ष्यते |
नन्व् अग्न्यादीनाम् एकात्मनाम् एव प्रकाश्यप्रकाशकता दृष्टा. अतो ऽनैकान्तिको हेतुर् अत आह -- अग्नीति. अयम् अर्थः -- ये ऽग्न्यादयः प्रकाशकतया प्रसिद्धाः ते घटादीनां न स्वात्मन इति, न प्रकाशरूपाः प्रकाशात्मनः स्वरूपस्येति. किं पुनः स्वात्मनः प्रकाशस्य न ते प्रकाशकाः. न हि ते ऽप्रकाशिताः सिध्यन्ति. न च तत्सिद्ध्यर्थम् अपरसजातीयापेक्षा दृश्यते. न हि प्रदीपः प्रदीपान्तरम् अपेक्षते. अत आह -- अनपेक्षणाद् इति. अयम् अभिप्रायः -- न ते स्वप्रकाशाय स्वात्मानम् अपेक्षन्ते, स्वात्मनि वृत्तिविरोधात्. स्वस्य स्वस्मिन् प्रकाशायोगाद् इति
{२,१३३} एवं तावद् अन्यतराग्रहणे ऽन्यतरो न गृह्यत इत्य् उक्तम्. तद्वद् एव द्वयोर् अप्य् अग्रहणम् इति समाहृत्य दर्शयति -- यथा चेति. अस्यार्थः -- यथा ग्राह्यग्रहणे ग्राहको न गृह्यते ग्राहकग्रहणे च ग्राह्यः. एवं च द्वयोर् अप्य् अग्रहणं भवेत्. न तु ग्राहकमात्रस्य वा ग्राह्यमात्रस्य वा. पूर्वं त्व् अन्यतराग्रहणदृष्टान्तेनेतरस्याग्रहणम् आपादितम्. इदानीं समाहृत्योभयोर् उच्यत इति प्रयोगभेद इति
SK
एतच् च ग्राह्यमात्रस्य ग्रहणं ग्राहकरहितं स बहिर्देशसम्बद्धः इत्यादिना भाष्येणोक्तम् इत्य् आह -- स इति. अयं च भाष्यार्थः -- स एव केवलो बाह्यार्थः प्रत्यक्षम् अवगम्यते. न पुनर्ग्राहक इति
SK
आञ्जस्येन त्व् अर्थाकारो नीलादिर् इत्य् एतत्सिद्धये बहिर्देशसम्बन्धो हेतुतया लक्ष्यते, तन्नानुमन्यामह इत्य् आह -- परम् इति. न हि परस्य बहिर्देशो नाम कश्चित् सिद्धः यो ऽर्थसाकारत्वे हेतुतयोपन्यस्येत. सर्वस्य ज्ञानाकारत्वेनाभ्युपगमात्. अतो बहिर्देशस् तत्सम्बन्धश् च बौद्धं प्रति साध्य एव, न हेतुर् इति
नन्व् एवंविधान्वयविरहिणो गन्धान् न रूपरसादयो ऽनुमीयेरन्. न च खलु तस्य रूपम् आत्मा. न च कारणम् इति कथं ततस् तत्सिद्धिः. श्रूयतां यथा सिद्ध्यति. रसाद् एव हि स्वहेताव् अग्नाव् इव धूमाद् अनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिर् इति नानुपपत्तिः. यथाहुः --
SK
एकसामग्र्यधीनस्य रूपादेर् रसतो गतिः |
SK
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ||
SK
{३,७}इति. ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणत्वाद् अवगतिः. न तु रूपरसाव् एककारणकौ. कारणरसा हि कार्ये रसम् आरभन्ते. कारणरूपाणि च कार्ये रूपम्. तत् कुतस् समानकारणता. नैककारणतयैकसामग्र्यधीनत्वम्. किन् तु रसाद् रसहेतुर् अनुमीयमानः प्रवृत्तिरूपजननशक्तिरूपोपादानकारणसहकृतो ऽनुमीयते. तथाविधस्यैव कारणत्वात् प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः. तद् इदम् अनुपपन्नम् यत् तावत् कार्यं कारणेन विना न भवतीति ततस् तज्ज्ञानम् उक्तम्. तद् अयुक्तम्. कथं हि कारणेन विना कार्यम् एव न भवति इत्य् एतद् एवावसेयम्. तद् विना भवतो नित्यं सत्त्वम् असत्त्वं वा स्यात्. ततश् च कार्यतैव हीयेत. उक्तं हि तैः --
SK
नित्यं सत्त्वम् असत्त्वं वा हेतोर् अन्यानपेक्षणात् |
एवं तावत् सामान्यस्य प्रत्यक्षत्वं वस्तुना चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति, तान् प्रत्याह -- प्रत्यक्षेति. विशेषो हि यदि तावदवयवी द्रव्यम् अभिमतः, स चावयववस्त्वन्तरापेक्षस् सामान्यांशो ऽस्माभिः कीर्त्यत इति कथं प्रत्यक्ष इति
एवं तावत् शब्दो न पक्ष इत्य् उक्तम्. यदि त्व् अर्थं पक्षीकृत्य शब्दो हेतुर् इत्य् उच्यते. तद् अप्य् अयुक्तम्. अपक्षधर्मत्वाद् इत्य् आह -- कथं चेति. कथं च निरूप्यत इति भावः
SK
किम् इति न निरूप्यते ऽत आह -- न क्रियेति. कस्याञ्चित् क्रियायां कर्तृतया सम्बद्धं किञ्चित् कस्यचित् सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात् शेषसम्बन्धानां स्वस्वाम्यादीनाम् इति. तत्र स्वस्वामिसम्बन्धस् तावत् क्रियाकारकसम्बन्धपूर्वक इत्य् आह -- राजेति. प्रथमं हि भरणक्रियायां कर्तृकर्मभावम् आपन्नौ राजपुरुषौ स्वस्वामिसम्बन्धम् अनुभवत इति
एवं कार्यकारणभावादयो ऽपि सम्बन्धाः क्रियाकारकसम्बन्धपूर्वका इत्य् आह -- कार्येति. किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाः कारणम् इत्य् उच्यते. तथा समूहसमूहिसम्बन्धो ऽपि. सेनाकार्यं प्रतिपक्षजयम् अंशेन कुर्वन् हस्ती सेनायास् सम्बन्धितयोच्यत इति. शब्दार्थयोस् तु न कश्चिद् एवम् आकारस् सम्बन्धस्यावगम्यते. न चानिरूपिताकारस् सम्बन्धो ऽस्तीति शक्यते वक्तुम् इत्य् आह -- न चेति || [७१] ||
SK
न च सम्बन्धम् अन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्य् आह -- न चास्तीति. वृत्तिविग्रहाव् अपि नोपपन्नाव् इति. उपसंहरति -- तस्माद् इति
ननु स्मृतिम् एव जनयत् प्रमाणं भविष्यत्य् अत आह -- प्रमित इति. प्रमितविषया हि स्मृतिः, सन्निकृष्टार्थगोचरं च प्रमाणम् इति स्थितिर् इति. कथं पुनः प्रमितविषयं न प्रमाणम् अत आह -- परिच्छेदेति. परिच्छेदफलं हि प्रमाणम्. न च स्मृत्या किञ्चित् परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वाद् इति
परिहरति -- वृष्टिमद् इति. एवं त्व् अनुमीयमाने लोकविरोधः. न ह्य् एवं लौकिका बुध्यन्ते. अत आह -- यद् वेति. दृष्टस्य नदीपूरस्य कारणाभावानुपपत्त्योपरिष्टाद् वृष्टिः कल्प्यते. इदम् अपि चान्वारूढेनोक्तम्, परमार्थेन तु व्याप्तिबलोत्थम् इदम् अनुमानम् एव. न चापक्षधर्मतादोषः. उपरिदेशस्य पूरसम्बद्धदेशसम्बन्धात्, असम्बद्धो हि न हेतुर् भविष्यतीति
SK
इतश् च गृहाभावो न बहिर्भावे लिङ्गम् इत्य् आह -- जीवतश् चेति. निश्चितरूपं हि लिङ्गम् अनुमाने गमकम्. इह च यो ऽयं जीवतो गृहाभावः स प्रमाणान्तरविरोधान् निश्चेतुम् एव न शक्यते. एवं हि तत्र भवति वितर्कः. जीवता हि क्वचिद् भवितव्यम्, कथम् इह न स्यात्. एवं चानध्यवसायाद् अप्रतिष्ठितो गृहाभावो ऽसिद्धत्वाद् अलिङ्गम्. सिद्धिस् तु नानन्तर्भाव्य बहिर्भावम् अस्य भवति, तदन्तर्भावे च परस्तात् प्रमेयाभाव इति भावः
ननु च नावश्यम् अर्थापत्त्यैवान्यतरस् सम्बन्धी ग्रहीतव्यः, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्याम् उभयं विदित्वा सम्बन्धो ऽनुभवितुम्, तथा विदितसम्बन्धाच् च गृहाभावाद् बहिर्भावानुमानम् इत्य् आशङ्कते तावत् -- गृहद्वारीति
SK
अत्रोत्तरम् आह -- तदापीति. अयम् अभिप्रायः -- सिध्यत्य् एवं गृहाभावाद् बहिर्भावानुमानम्, न पुनर् एवम् एव सर्वेषाम् अवगतिः, अगृहीतसम्बन्धानाम् अपि प्रतीतिभावात्. एषो ऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावो ऽन्वितश् शक्यो ऽवगन्तुम्. जगदभावस्य प्रत्येतुम् अशक्यत्वाद् इत्य् अभिप्रायः. नन्व् एवं तदावगतं यदायम् एकत्र भवति तदा परत्र तत्समीपे न भवतीति. एवं च विदितव्याप्तेर् एकदेशभाने सर्वत्राभावानुमानं भविष्यति. अत आह -- न चेति. न ह्य् एकदेशनास्तितया त्रैलोक्याभावेन हेतोर् व्याप्तिस् सिध्यतीति
SK
किं पुनर् जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेर् इति चेद्, नन्व् अनुपलब्धिर् अभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे{३,१७२}नुपलभ्यमानो नास्तीति निश्चीयते. एवम् एकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यम् अवगन्तुम्. न हि दर्शनवददर्शनम् अपि प्रयत्नम् अपेक्षते, दर्शनं हि कार्यं स्वकारणम् अर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणम् एकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस् तु न किञ्चिद् अपेक्षत इति चोदयति -- नन्व् अत्रेति. अत्रेत्य् एकदेशं परामृशति. अत्र खल्व् एकदेशे ऽनुपलब्धितो ऽविद्यमानत्वम् अवगम्यते. तच् च सर्वत्रापि समानम् इति
{३,१८७} अपि चार्थापत्तिर् अप्रमाणम् इत्य् अलौकिको विवाद इति. न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते. प्रवृत्तिसामर्थ्यं च प्रामाण्यम्. अनुमानाद् भेदाभेदयोर् अस्ति विवादः, तत्र चास्माभिः कृतो निर्णय इत्य् आह -- न चापीति
वस्त्वसङ्करम् एव विवृणोति -- क्षीरे दधीति सार्धद्वयेन. यो ऽयं कार्यकारणादिना परस्परविवेकश् चतुर्धा दर्शितः स वस्त्वसङ्कर इत्य् आख्यायते. सो ऽभावेन प्रमीयते. शशशृङ्गादिरूपेणेति. तेन रूपेणालोच्यमानाः शशमूर्ध्न्यवयवा अभावः, स्वरूपेण तु भावा एवेति || २ -- ४ ||
SK
असति त्व् अभावप्रामाण्ये सर्वस् सर्वेण सङ्कीर्यत इत्य् आह -- क्षीर इति द्वयेन. एवम् इति. यथा क्षीरे दधि एवं दध्नि क्षीरम् इत्य् अर्थः. शशे शृङ्गम् इत्य् अतः प्रभृत्यत्यन्ताभावासिद्धौ दोषप्रसञ्जनम्. अभावप्रमाणानाश्रयणे हि न शशादिषु शृङ्गादीनाम् आत्यन्तिको ऽभावस् सिध्यति. परिपन्थिनश् च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते. महाभूतानां च वाय्वादीनाम्{३,१९५}आत्यन्तिको गन्धाद्यभावो न सिध्येत्. यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिर् इति || ५ -- ६ ||
SK
सर्वत्र सङ्करे दोषम् आह -- न चेति. यो ऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत् क्षीरम् एवानयति न दधि, दध्यानयने न क्षीरम्, इदम् असति कार्यकारणादीनाम् इतरेतरविवेके न सिध्यतीति
SK
ननु नाभावो नाम तत्त्वान्तरम् उपलभ्यते, भूतलं हि स्वप्रमाणाद् अवगच्छामः, घटं चासति प्रमाणे न पश्यामः, न तु घटाभावो नामापरः कश्चित् बुद्धौ भवति. घटो नास्तीत्य् अपि घटो न प्रमीयत इत्य् अर्थः, न तु घटाभावः प्रमीयत इति. अतस् सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित् तत्त्वान्तरम् अत आह -- न चेति. यत् तावत् भावप्रमाणैर् नोपलभ्यत इति. सत्यम्. अत एवाभावः प्रमाणान्तरम्. घटो नास्तीत्य् अपि नायम् अर्थः घटो न प्रमीयते इति, सन्न् अपि हि घटो न प्रमीयत इत्य् उच्यते. अत एव घटो ऽस्ति न वेति पृष्टो निर्णीताभावो न नास्तीति व्यपदिशति, किन् तु अनुपलब्धिमात्रम्. अतो ऽभावप्रमितिर् एवायं घटो नास्तीति. यश् चायं चतुर्धा भेदो वर्णितः सो ऽपि सर्वोपाख्याविरहलक्षणे ऽभावे न सिध्यति. प्रयोगश् च भवति -- वस्तु अभावः, चतुर्धा भेदाद्, द्रव्यादिवद् इति. यद् अप्य् आहुः -- नाभावो नाम किञ्चित् तत्त्वम्, प्रत्यर्थनियतेन ह्य् आत्मना नीलादयः परस्परं भिद्यन्ते, नैवम् अभावस्य भावात् किञ्चिद् भेदकम्.{३,१९६}अतो न व्यावृत्तम् उपलभामह इति कथं तत्त्वान्तरम् अवस्थापयामः. तद्व्यवहारस् तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्रय एव कथञ्चिद् उपपादनीयः, न त्व् एकाकारप्रतिनियताद् अन्यासंसर्गिणो(?र् अ)भावाद् अन्यो ऽभाव इति. तद् अप्य् एकदेशिनिराकरणेनैव निराकृतम्. अपि च, अविषयो नास्तीति विकल्पः कथं संवेद्यत इति वक्तव्यम्. शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयः, न चेह तद् अस्ति. न चात्मा विकल्पस्याभिलापसंसर्गयोग्यः, असाधारणत्वात्. अत एवात्मनि निर्विकल्पकत्वात् कल्पना स्वसंवित्तिं प्रत्यक्षाम् आह. यदाह नैनम् इयम् अभिलापेन संसृजति. तथा वृत्तेर् आत्मनि विरोधात् इति. यदि मतं - जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति. तन् न. समारोपितं हि यत् किञ्चिज् जातीयकं तत्प्रतिविकल्पम् अन्यद् अन्यच् च, कथम् एकशब्दालम्बनं भवेत्. कल्पिताकारभेदानध्यवसायाद् एकत्वाध्यवसाय इति चेत्. कस्य तर्हि, न हि नैरात्म्यवादिनाम् एकः कश्चिद् अस्ति प्रतिसन्धाता, यः पूर्वापरयोर् आरोपितैकत्वाध्यवसायाद् एकशब्दं प्रयुञ्जीत. विकल्पास् तु क्षणिकाः स्वविषये नियता नान्योन्यस्य विषयम् अभिनिविशन्त इति कथं प्रतिसान्दधीरन्. असति च विपर्यये समारोपितविषयत्वाभिधानम् अलीकम् एव. तदवश्यं नास्तीत्य् एकशब्दोपश्लिष्टम् उपेयतयाश्रयणीयं भाववदभावाख्यम् अपि किञ्चिद् अवस्थितं रूपम्. अत एव किं पुनस् तत्त्वम् इत्य् अपेक्षिते सतस् तु सद्भावो ऽसतस् त्व् असद्भाव इति द्वेधैव तत्त्वविद्भिस् तत्त्वम् आश्रितम्. अपि च -- असत्य् अभावे कस्य हेतोर् आहतस्य घटस्यानुपलम्भः, विनष्टत्वाद् इति चेत्. को विनाशः. यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्गः. न ह्य् अप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित् कारणम् अधुना पश्यामो यद्य् अस्य विनाशो नाम किम् अपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरम् इति. एतच् चानुपाख्येयत्वम् अभावस्य निराकर्तुम् उक्तम् -- न त्व् अभावो वस्तु, लोकविरोधात्. यथा ह्य् अचन्द्रश् शशीति लोकविरुद्धम्, एवम् अभावो वस्त्व् इति. सत्ता हि वस्तुत्वम्, न चासाव् अभावे समवैति, सदसद्विवेकाभावप्रसङ्गात्. अतो ऽवस्तु. कार्यकरणाद् अभावे वस्तुत्ववादः, न मुख्यतया. अभावो ह्य् अर्थक्रियासमर्थ एव, ज्ञानजननदर्शनात्. विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात्. एवम् उत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यम् इति. इतश् चाभावो{३,१९७} वस्त्व् इत्य् आह -- कार्यादीनाम् इति. वस्त्व् एव सदसदात्मकम् इति सिद्धान्तः. तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वम्. किम् इदानीं भावाभावयोर् अभेद एव, नेति वदामः, भेदो ऽपि ह्य् अनयोर् धर्मधर्मितया कियान् अप्य् अस्त्य् एव रूपादीनाम् इव. कः पुनर् अनयोस् सम्बन्धः, संयोगस् समवायो वा, न तावत् संयोगः, द्रव्यधर्मत्वात् तस्य. न च समवायः, भावाभावप्रसङ्गात्. अभावसमवाये हि भावो न स्याद् एव. नाभावसमवायाद् असत्त्वम्, न हि घटो ऽभावसमवायाद् असन् भवति. असति समवायानुपपत्तेः. किन् तु प्रहाराद् एव घटस्याभावः. यत् त्व् अनाहतम् अनपसारं च भावान्तरम् अभावरूपेणावगम्यते तत् कथम् असद् भविष्यति. अतस् स्वहेतोर् एव जायमानो नित्यो वा सर्वो ऽसङ्कीर्णस्वभाव एव जायत इति सिद्धम् अस्य जात्यादिवद् भावधर्मत्वम्. ततश् च वस्तुत्वम् इति
SK
इतश् च वस्तु अभाव इत्य् आह -- यद् वेति वस्त्वन्तेन. अभाव इति सामान्यात्मना प्रागभावादिभेदेन च व्यावृत्त्यात्मना गृह्यमाणो ऽभावस् सामान्यविशेषात्मकः, ततश् च वस्तुविषयप्रयोगार्थः -- अभावो वस्तु, सामान्यविशेषात्मकत्वात् गवादिवद् इति. तस्मिन्न् एव साध्ये हेत्वन्तरम् आह -- प्रमेयत्वाद् इति
SK
नन्व् अयम् असिद्धो हेतुः, औपचारिको हि सामान्यविशेषभावो ऽभावे. एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शावलेयादि. अतो ऽत्राप्य् औपचारिकस् सामान्यविशेषभावो विवेकज्ञस्य. असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम् -- अभावस् सामान्यविशेषात्मेति. अत आह -- न चेति. सति हि बाधके भ्रान्तिर् उपचारो वा कल्प्यते, न चेह तथेति भाव इति
नन्व् आगोपालं शब्दार्थव्यवहारो दृश्यते. न च ते ऽन्वयव्यतिरेकाभ्याम् अर्थनिष्कर्षं कुर्वन्ति. न च तान् प्रत्यवाचकाश् शब्दा इति युक्तं वक्तुम्. तुल्यवत् प्रतीतेः. पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य{३,२३१} वक्ष्यमाणत्वाद् अत आह -- बहुजातीति सार्धेन. अयम् अभिप्रायः -- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनः, न च तेषां व्यवहारः शब्दोच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति || २५ -- २६ ||
स्याद् एतत् -- प्रकाशकाः प्रदीपादयो ऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शद्बः, अतो न प्रकाशक इति. तच् च नैवम्, शक्तिवैलक्षण्यात्. विचित्रशक्तयो ऽपि हि भावाः. तत्प्रदीपः प्रत्यक्षपरिकरतयागृहीतसम्बन्धो ऽपि प्रकाशयतु नाम. नैतावता शब्देनापि तद्धर्मेण भवितव्यम्. अतो ऽयम् अपर्यनुयोगः. अपि च व्रीह्यादयो ऽगृहीतस्वरूपा अपि कार्यम् आरभन्त एवेति शब्दे तद्धर्मः किं नारोप्यते. कारकहेतवो हि व्रीह्यादयः, शब्दस् तु ज्ञापकहेतुः. अतो ऽपेक्षते स्वरूपग्रहणम् इति चेत्. केन वेदम् आज्ञापितं ज्ञापकेन स्वरूपग्रहणम् अपेक्षितव्यं न सम्बन्धग्रहणम् इति, दर्शनबलेनेति चेति, समानम् इदं सम्बन्धग्रहणापेक्षायाम्{३,२३५}अपि, दर्शनबलाद् एव हि लिङ्गशब्दादयो ज्ञापकविशेषास् सम्बन्धग्रहणम् अपेक्षन्ते. न चक्षुरादयः. सर्वत्र हि नो दर्शनं प्रमाणम्. कारकाश् चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तद् एतद् आह -- स्वरूपेति
SK
ननु च सम्बन्धग्रहणात् प्राग् अप्य् अभिधाने शब्दश् शक्तो न वा. यदि शक्तः, किं सम्बन्धग्रहणापेक्षया. न चेत् सम्बन्धग्रहणम् एत हि तदागमन्यायेन कारणम् आपद्येत, अत आह -- यत्साधकतमेति. न तावत् सम्बन्धग्रहणात् पूर्वम् अशक्तम् एव शब्दम् अवगच्छामः. न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(?रती/न्ती)ति
SK
किं पुनर् न विहन्त्य् अत आह -- न हीति. यदि ह्य् अनुग्राहकापेक्षा स्वशाक्तिं विहन्यात् सर्वम् एव लौकिकं वैदिकं करणं करणतां जह्यात. अपेक्षते हि सर्वम् एव करणम् इतिकर्तव्यताजनितम् अनुग्रहम् इति