Discrimination of Illusion
Vibhramaviveka
Vइभ्रमविवेक
SKआत्मख्यातिर् असत्ख्यातिर् अख्यातिः ख्यातिर् अन्यथा परीक्षकाणां विभ्रान्तौ विवादात् सा विविच्यते //
SKअसच् चकस्ति न व्योमकुसुम? न ............. अर्थः प्रकाशते ऽतो धीस् तदाकारेति केचन //
SKअसंभवि च यावच् च तावत् संपरिहीयताम् संवेद्याकारसंत्यागो न भ्रान्तित्वे ऽवकल्पते //
SKएकदेशापबाधेन कल्पमाने च बाधके न सर्वबाधनं युक्तम् इति न्यायविदः स्थिताः //
SKअन्यो बहिर् भासमानो नान्तर् अर्हति धारणम् असत्तैव वरं तस्य भ्रान्तित्वानुगुणा हि सा //
SKनान्तर्वर्तितया भ्रान्तिर् असत्त्वेन तु सेष्यते अकल्पयित्वान्तस् तस्माद् असत्तां खल्व् अचीकॢपत् //
SKनान्तर्वर्तिबहिर्भासो भ्रान्तित्वानुपपत्तितः असत्त्वेनैव तत्कॢप्तौ न प्रमाणवती हि सा //
SKयथावभासमानस्य कल्प्यासत्ता नियोगतः अन्तर्भावे ऽपि च बहिर्भावे भ्रान्तिर् न युज्यते //
SKअख्यातेर् अविशेषेण स्यात् सुषुप्ते ऽपि विभ्रमः अख्यातिः खलु तत्रापि न चाख्यातिर् विशिष्यते //
SKउपालम्भस्य न पदम् असतो ऽत्र प्रकाशनम् अत एव यतो भ्रान्तिः सम्यक्ख्यातौ तथा भवेत् //
SKयुज्यते नान्यथाख्यातिर् निरधिष्ठानविभ्रमे स्वप्ने हि निरधिष्ठानो विभ्रमो वीतसंशयः //
SKतत्राप्य् अवर्तमानं चेद् गृह्यते वर्तमानवत् अवर्तमानस्यासत्ता खपुष्पान् न विशिष्यते //
SKअत्यन्ताननुभूतानां परस्परपराणुदाम् दृष्टेश् चावर्तमानस्य न ख्यानं वर्तमानवत् //
SKखपुष्पतुल्ये का ख्यातिर् नीरूपेणैव भासनात् तद् अपि व्यवहाराङ्गं रूपवत्त्वेन भासनात् //
SKकल्पनायाम् अपि त्व् एवं नासत्ख्यातिविवर्जनम् प्रकारान्तरसंसर्गो नन्व् असन्न् एव भासते //
SKतस्माद् असत एवेदं रूपवत्त्वेन भासनम् अवश्यकल्पनीयत्वात् कल्पनायाश् च लाघवात् //
SKप्राक्तत्त्वज्ञानसंस्कारस् तत्प्रबोधस् सकारनः स्मरामीति प्रमोषस् सहेतुर् इन्द्रिययोगिनः //
SKभ्रान्तौ सहाक्षैर् मनसो दुष्टतान्तर्विवर्तिता कामप्रकर्षमरणमूर्च्छाशोकामयादिषु //
SKउच्छेदकेषु बहुलं संस्कारस्यानुवर्तनम् परपक्षेषु कल्प्यानि भूयिष्ठानीति दृश्यते //
SKसर्वसंस्कारविच्छेदिमरणान्तरिते ऽस्मृतेः जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् //
SK........ ........ / प्राक्[ ....... ........ ] //
SKमन्दसंस्कारसहकृद् उच्छेदे तेन वा विना दोषैः क्षतं मनः कार्यि प्रणिधानादिवर्जितम् //
SKदोषैर् अविकृतं स्वस्थं प्रणिधानादिसंस्कृतम् न कार्यवज् जागरायाम् अहो नयविदां परः //
SKदोषक्षतिः कार्यशक्तिहानिरूपा च विद्यते अतिरेकश् च कार्यस्येत्य् अहो न्यायविवेकिता //
SKअध्यारोपे भवेद् गौणी वाहीके गोमतिर् यथा न संविदानुगुण्यं स्यान् न विवेकमतिर् यदि //
SKअख्यातिर् अपि संवित्तिं नैवान्वेति यतो मतिः सामानाधिकरण्येन रूप्यम् एतद् इति स्थिता //
SKतस्माद् विभ्रम एवायम् इति युक्तो विनिश्चयः न संविदनुसारेण निमित्तं तस्य युज्यते //
SKअतो ऽनिर्वचनीयत्वं वरं ब्रह्मविदो विदुः अविद्याया अविद्यात्वम् अन्यथा परिहीयते //
SKसत्त्वे न मिथ्या शून्यत्वे दुर्निरूपं प्रकाशनम् सदसत्भ्याम् अनिर्वाच्यां ताम् अविद्यां प्रचक्षते //
SKवस्तुनो ऽन्वेषणा तस्यां बाह्याभ्यन्तरवर्तिनः न युज्यते यत्र तत्र वेद्यवस्तुनि तत्क्षतेः //
SKनामरूपप्रपञ्चो ऽयम् अविद्यैव च वर्ण्यते अन्यस्य त्व् अन्यथा ख्यातौ न प्रपञ्चव्यपह्नवः //
SKअख्यातौ शून्यम् एव स्यात् प्रपञ्चः किंनिबन्धनः अप्रपञ्चः सप्रपञ्चरूपो भातीति युज्यते //
SKअस्फुटाग्रहणे कामम् मा भसि स्फुटम् आत्मना अविद्यमाने त्व् अध्यस्ये वैश्वरूप्यं वृथाकृतम् //
SKचितौ विचित्राकारायां प्रपञ्चात्मतयैव हि अनिर्मोक्षस् तथा च स्याद् अथवानित्यतापतेत् //
SKअनेकाकारविभ्रान्तौ गन्धर्वनगरादिषु आकारा व्यक्तम् एकस्या धियो ऽसत्याश् चकासति //
SKन भूतं चेतसो रूपं नाध्यारोपास्फुटग्रहौ विभ्रमेषु विवर्तत्वम् अतो ब्रह्मविदां मतम् //
SKअसतो भासनायोगाद् विरोधात् संविदो ऽपरः अवोचन् निपुणंमन्यो विभ्रमं सम्यगग्रहम् //
SKन किञ्चिद् भासते चेति विरुद्धम् इव दृश्यते भासने रूपवत्त्वेन नासत् संविद्विरोधतः //
SKअन्यस्याप्य् अन्यथा ख्यातिर् अत एव न युज्यते अन्यत् प्रकाशते चान्यद् ग्राह्यम् इत्य् अतिदुर्घटम् //
SKआलम्बनं न हेतुत्वमात्राद् अक्षे ऽपि तद् यतः आलम्बनं न हेतुत्वमात्रेण व्यवतिष्ठते //
SKयद्य् आलम्बनरूपाच् च धीर् अन्यद् अवभासते ततो ऽनालम्बनैव स्यात् तस्य तल्लक्षणच्युतेः //
SKतथा च तत्स्वभावाया नार्थतत्त्वविनिश्चयः सापेक्षाया अपि ग्राह्यहीना सा चेद् अवेदिका //
SKस्मृतित्वाशङ्कया नात्र वर्तमाने न निश्चयः विवेकाग्रहणं यस्माद् धेतुभावे न युज्यते //
SKहेतूपघाते खलु तत् तदभावे स्फुटग्रहः यत्नेनानुपलब्धेश् च तदभावे च निश्चयः //
SKसदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः स्मरामीति च प्रमोषात् प्रायेणाध्यक्षविभ्रमः //
SKएकान्तसत्त्वे का भ्रान्तिर् असत्त्वे किं प्रकाशताम् द्वयानुगुण्याद् वृद्धानां संमता ख्यातिर् अन्यथा //
SKयत्र न प्रथते किञ्चित् तत्र तावन् न विभ्रमः सुषुप्ताव् इव भूच्छाया तमो भावो यथेक्ष्यते //
SKद्वयोर् एकस्य वा ख्यातिर् असम्यग् विभ्रमो मतः तत्र केयम् असम्यक्ता विज्ञानस्थम् अपाटवम् //
SKअथ सर्वप्रकाराणाम् अग्रहः कस्यचिद् ग्रहः वस्तुनो ऽतत्प्रकारस्य तथा ख्यातिस् तु नेष्यते //
SKतत्र दूरस्थिते सूक्ष्मे भवत्य् अपटुदर्शनम् सामान्यमात्रख्यातिर् वा न भ्रमश् च प्रतीयते //
SKन च सर्वात्मनार्थस्य ज्ञानं किञ्चन बोधकं सर्वविज्ञानमिथ्यात्वम् आपन्नं पुनर् अन्यथा //
SKअतो नावर्तमानत्वाज्ञानात् स्वप्नमतिर् मृषा वर्तमानत्वबोधात् तु तथैकत्वाधिरोपणात् //
SKमिथ्या रजतधीर् नात्र विवेकानवधारणात् प्रत्यभिज्ञानविभ्रान्तौ न स्मृतित्वं न गम्यते //
SKएकस्य च विविक्तत्वाद् इतरस्य विविक्तता प्रत्यक्षाद् अविवेकाच् च युक्तः प्रत्यक्षविभ्रमः //
SKस्यात् स्मृताद् अविवेकाच् च स्मृतिगोचरविभ्रमः ........ ........ //
SK........ ........ नियता न प्रवृत्तिः स्यान् नेष्टा चेत् ख्यातिर् अन्यथा //
SKन दृश्यादृश्ययोर् भेदः ख्यातिश् चेन् नेप्सितात्मनः ननु नो विपरीतार्था धीः प्रतीतिविरोधतः //
SKअनाश्वासाच् च रजतप्रत्ययो रजते स्मृतिः नैतन् न हि प्रवर्तेत शुक्तिकाशकले तदा //
SKरजते सा प्रवृत्तिश् चेन् न तस्यासंनिधानतः असंनिधानाबोधाच् चेत् प्रवृत्तिनियमः कुतः //
SKप्रवर्तते यत् तत्रैव तत् तत्संनिधिकारितम् अन्यत्र भेदग्रहणाद् विवेकाग्रहणात् तथा //
SKप्रवृत्तिभेदः सादृश्याद् विवेकाग्रहणं यदि अदृष्टेषु प्रवर्तेत लोष्टादिष्व् अविवेकतः //
SKन तत्र यदि तद्बुद्धिः शुक्तिकाशकले ऽपि न अथास्ति विपरीतार्था ख्यातिर् निह्नूयते कथम् //
SKअदृष्टत्वाद् अप्रवृत्तिः शुक्तिकाशकले समा दृष्टं तद् येन रूपेण तत् प्रवृत्तेर् अकारणम् //
SKदृष्टस्मृताविवेकाच् चेद् इदम् अत्र परीक्ष्यताम् तत्त्वबोधाद् अपातत्वबोधाद् रजतवेदनात् //
SKदृष्टे प्रवृत्तिः पूर्वस्मिन् विपरीतार्थता मतेः न दृष्टादृष्टयोर् भेदः परस्मिन् नोपयोगिनी //
SKखयोगदर्शने ते हि समारोपोपयोगिनी नादृष्टे ऽसंप्रयुक्ते वा चाक्षुषः स्याद् विपर्ययः //
SKस्मृतिप्रमाणफलयोर् नानात्वं यदि चेष्यते विवेचितस् तयोस् स्वार्थो ऽविवेकः किंनिबन्धनः //
SKअन्यस्मात् सा स्वविषयं विविनक्ति स्मृतिर् न चेत् सामान्यदृष्टौ चान्यस्य स्मृतौ स्याद् वा सदा भ्रमः //
SKस्मरामीति विवेकान् न यदि नैतत् प्रकल्पते फलाभेदे फलोन्नेयज्ञानभेदमतिः कुतः //
SKस्मरामीति च विज्ञानं स्मृतेर् अन्यद् उदाहृतम् न च मानफलाद् भिन्ना तत् सिद्ध्यति फलाद् ऋते //
SKमनोदोषाद् यदि स्वार्थो न स्मृत्या प्रविविच्यते तिमिरादौ कथं स्वस्थे स्वान्ते केशादिविभ्रमः //
SKन तत्रापि मनो दुष्टम् अर्थान्तरविवेचनात् ज्ञानाद् एव हि दृष्टत्वकल्पनायाश् च गौरवात् //
SKबुध्यमानो विवेकं च पश्यामीन्द्रियदोषतः चित्रादिरूपान् दीपादीन् इति लोकः प्रभाषते //
SKइन्द्रियाणां दोषभेदान् नियतभ्रान्तिदर्शनम् न स्याद् यस्याग्रहे दोषव्यापार इति निश्चयः //
SKन च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः //
SKअव्यापृतौ च तत्प्राप्तेर् नातःपित्तप्रवेदनम् अत्यासन्नस्य संवित्तिर् दुर्लभा चाञ्जनादिवत् //
SKन चाक्षवृत्तितज्जन्मज्ञानभेदाविवेकजाः द्विचन्द्रादिभ्रमास् ते हि न प्रत्यक्षे न च स्मृते //
SKअन्यथालम्बनत्वे च न निरालम्बना मतिः अन्येनापि हि रूपेण चक्षुर् नालम्बते ऽक्षधीः //
SKआलम्बनार्थस् तद्युक्तव्यवहारस्य योग्यता अन्यस्यापि हि नैवान्यस् स इत्य् एव हि दर्शितम् //
SKप्रवृत्तिश् शुक्तिशकले तथा च रजतार्थिनः आभासते कथञ्चिच् च तन् नात्यन्तं न भासते //
SKतेन नावेआदिका यत् तु तद्रूपाव्यभिचारतः प्रामाण्यम् आनपेक्ष्यं हि स्याद् अन्यथा त्रपाकरम् //
SKत्रपाकरं कथं तन् नः स्वतःप्रामाण्यवादिनाम् अप्य् अन्यो ऽव्यभिचारेण धीप्रामाण्यम् उपागमत् //
SKबोधाद् एव प्रमाणत्वम् इति मीमांसकस्थितिम् विदन्न् अव्यभिचारेण तां व्युदस्यत्य् अपण्डितः //
SKअर्थेनाव्यभिचारश् चेन् नाबुद्धेन प्रमीयते ज्ञानस्याव्यभिचाराच् च तद्बोध इति दुर्घटम् //
SKउपास्यो ऽव्यतिरेकश् च तज्ज्ञानस्य तथान्यथा नासिद्धाव्यतिरेकेण स परामृश्यते .......... //
SKअपि चाव्यतिरेको ऽपि ज्ञानरूपेण वेद्यते ख्यातौ च विपरीतायां तद्विरोधप्रसङ्गतः //
SKतथा सति तद् एवास्तु विषयस्यावबोधकम् अर्थो नाव्यतिरेकेण तत्सामर्थ्याप्तसंविदा //
SKव्यभिचाराप्रतीत्या चेद् अप्रामाण्यनिराकृतिः दूषिते व्यभिचारेण न स्याज् ज्ञाने प्रमाणता //
SKनैतद् अव्यभिचारेण प्रामाण्यं यस्य दुष्यति व्यभिचाराद् असौ लिङ्गं यथा नाक्षं तथापि तत् //
SKसंबन्धज्ञानसापेक्षं यद् उपैत्य् उपयोगिताम् दूषितं व्यभिचारेण तत् स्यात् संशयकारणम् //
SKदुष्यति व्यभिचारेण बोधकं सत्तयैव न विज्ञानाच् चार्थसंवित्तिस् सत्तयैवेन्द्रियादिवत् //
SKलिङ्गस्याव्यभिचाराद् यत् प्राप्यते रूपतो ऽस्य तत् सिद्धप्रत्ययसामर्थ्यपूर्वौ नेतो निमित्तताम् //
SKप्रामाण्ये तदभावे चाव्यतिरेकविपर्ययौ तथा ह्य् अव्यतिरेको ऽपि बोधाद् एवोपवर्णितः //
SKव्यतिरेको बाधबोधाद् इति तच्छ्रुतियुक्तता असिद्धे ज्ञानसामर्थ्ये सो ऽसिद्धो दूषकः कथम् //
SKसिद्धे ऽपि सिद्धसामर्थ्यम् असामर्थ्यं कथं नयेत् ननु च व्यभिचारित्वे बाधकज्ञानसंमते //
SKज्ञानरूपस्य तेनैव विहन्येत प्रमाणता अर्थो यथा ज्ञानरूपात् तथैवेत्य् अवसीयते //
SKव्यभिचारमतेर् एव न तथैवेति गम्यते तत् सत्यं बाधकज्ञानं यत्र तत्र विहन्यते //
SKअन्यत्र तु विघातः स्यान् न साक्षान् नापि चार्थतः अनुमानं भवेत् तच् च तेनापहृतगोचरम् //
SKनोदेति जाग्रतो बुद्धिर् इति भाष्ये निदर्शितम् व्यभिचारज्ञानमात्रात् प्रामाण्यस्य न नः क्षतिः //
SKव्यभिचारिणि नाश्वासः ........ ........ ........ //
SKत्रिधापि व्यभिचारेण प्रामाण्यं नोपहन्यते उक्तं नाव्यतिरेकस्य प्रमाणत्वनिमित्तता //
SKयेन स्याद् धेत्वभावेन व्यभिचारे विपर्ययः धूमादीनाम् अपि न तद् वर्ण्यते ऽव्यभिचारतः //
SKबोधाद् एव तदुत्पत्ताव् अङ्गभावो ऽस्य सम्मतः तथा ह्य् अव्यभिचाराणां कुतश्चन निमित्ततः //
SKबोधस्यानुदये कश्चित् प्रामाण्यं नानुमन्यते एकार्थनियतं बोधं जनयद् व्यभिचार्य् अपि //
SKप्रमाणम् इष्यते चक्षुर् नीले भावे सिते भवत् न चापि व्यभिचारस्य साक्षात् प्रामाण्यघातिता //
SKक्वचिद् दृष्टा भ्रान्तिबोधे बाधधीर् उपघातिका प्रमेयत्वोर्ध्वतादीनां बोध एवावधारकः //
SKनास्तीति न प्रमाणत्वं हेत्वभावाच् च नास्त्य् असौ तद्भावाच् च प्रमाणत्वम् अक्षाणां व्यभिचारिणाम् //
SKन चावधारिते युक्तो द्वैविध्यात् संशयोद्भवः न निश्चिते ऽपि हि स्थाणाव् ऊर्ध्वत्वेन विशेरते //
SK........ ........ न चावधारणाद् एव तत्त्वतो ऽनवधारणम् //
SKएवं यतस् ततो नैवं भवेद् अतिसुभाषितम् उत्पत्त्यैव च विज्ञानं तथात्वस्यावधारकम् //
SKन चेत् तथा नान्यतो ऽपि तस्य प्रामाण्यसम्भवः प्रमाणत्वाप्रमाणत्वे ऽव्यतिरेकविपर्ययौ //
SKअनङ्गे इति मोघैव तयोर् अत्र विचारणा अतो ऽवधारणाभासव्यभिचारात् परीक्षणम् //
SKप्रस्तुत्य ..... ........ हेत्वभावे फलाभावनियमो स्यात् ततो गते //
SKअभावे हेतुदोषाणां तथाख्यातिविनिश्चयः हेतौ फलं न नियतं परिणामाद्यपेक्षिणि //
SKअदुष्टे ऽपि ततो हेतौ न स्फुटग्रहनिश्चयः प्रत्यक्षो ऽनुभवः साध्यो न हेतोर् व्यभिचारिणः //
SKविपर्ययफलाभावो हेत्वभावात् तु युज्यते निरोधाद् युक्तकार्यस्य विपरीतस्य साधनात् //
SKदोषाणां नितरां दोषभावो ऽभिव्यक्तिम् ऋच्छति कार्यातिरेको जठरे वह्नौ दृष्टश् च भस्मके //
SKकामाद्युपप्लुते चित्ते दृष्टिता स्मरणात्मनि सामानाधिकरण्येनामुख्यरूप्य प्रतीतितः //
SKअभिन्नैका च सा संवित् कं पक्षम् अपबधताम् शून्यं प्रकाशते चेति द्वयं विप्रतिषेधवत् //
SKभासने रूपवत्त्वेन शून्यैवोच्येत शून्यता सर्वरूपविवेको हि शून्यम् इत्य् अभिभाष्यते //
SKपरै रूपाभ्युपगमे तत्र शून्यैव शून्यधीः अभावो भावरूपेण भातीति यदि मन्यते //
SKअन्यथा ख्यातिर् एवेष्टा शून्यं तद् अपि चेन् मतम् नैतद् विप्रतिषिध्येते शून्यताभावरूपते //
SKअतो ऽतद्देशकालत्वमात्रं तस्येह शून्यता नन्व् अस्ति यद् यथा वस्तु तथा ख्यातौ न विभ्रमः //
SKन यथास्ति तथा ख्यातौ शून्यख्यातेर् न मुच्यते केचिद् आहुः प्रकारिभ्यः प्रकारा न चकासति //
SKविविक्तास् ते तथा भान्ति ते च सन्त इति स्थितिः अन्ये तन्मात्रशून्यत्वं मन्वते नान्यथा भ्रमः //
SKनान्यथा धीर् वस्तुनिष्ठा वस्त्वालम्बाद् विना न सा स्वयं तु वार्त्तिककृता समाधिर् इह वर्णितः //
SKभावान्तरम् अभावो ऽन्यो न कश्चिद् अनिरूपणात् सत्यं यथास्ति न तथा भासने विभ्रमो मतः //
SKन येनास्ति प्रकारेण न तु तुच्छः प्रतीयते तथा कथम् अभाव्यो ऽस्य स हि भाति तथा च सः //
SKभावान्तरम् अभावो हि कयाचित् तु व्यपेक्षया अन्यथाख्यातिपक्षे च न प्रकारान्तरं न सत् //
SKअन्यस्य च न तस्येति ख्यातिर् युक्ता मृषा च सा प्रकारान्तरसंसर्गो नन्व् असन्न् एव भासते //
SKसंवेद्यं नन्यरुपत्वम् अन्यस्य .............. भिन्नयोर् अत्र संसर्गो न कश्चिद् अवभासते //
SKअन्यात्मनापरख्यातिः स चाभावे ऽस्य तन् मृषा अभावग्राहिणी बुद्धिर् भावान्तरम् उपाश्रिता //
SKतदन्यस्मात् पृथक्त्वेन निरुपाख्यो न विद्यते अतो भावान्तरं मुक्त्वा तत्राभावानिरूपणात् //
SKन बुद्ध्या भावशून्यत्वं मृषा चेति विपश्चितः न वै शशविषाणे ऽपि ख्यातस्य निरुपाख्यता //
SKशशसंसर्गिरूपं हि विषाणं तत्र गम्यते अवस्तु तच् च नो येन खुरधर्मिणि वीक्षितम् //
SKअसंसृष्टस्य सो ऽभाव इति ख्यातिर् मृषा च सा अङ्गुल्यग्रे हस्तियूथम् इत्य् एषा प्रतिभा तथा //
SKस्वप्ने ऽप्य् अवर्तमानस्य ग्रहणं वर्तमानवत् नाविशेषः खपुष्पाच् च स्वकाले तस्य वस्तुता //
SKतत्कालम् एव हि ज्ञेयं ज्ञानम् एव तु संप्रति वर्तमानत्वम् अप्य् अत्र दृष्टम् अन्यत्र रूप्यते //
SKअन्यस्याप्य् अन्यथा दृष्टिः परस्परविरोधिनाम् अत्यन्ताननुभूतत्वम् अस्ति तत्कारितं यतः //
SKन ज्ञेयशून्यं विज्ञानं स्वात्महानिप्रसङ्गतः निरुपाख्याद् आत्मयोगाद् अस्वातन्त्र्याच् च चेतसः //
SKप्रमाणवन्त्य् अदृष्टानि कल्प्यन्ते सुबहून्य् अपि संस्कारच्छेदहेतूनां तत्त्वं नैकान्ततः स्थितम् //
SKजन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् तत्कर्मफलसंबन्धं प्रतीति प्रतिजानते //
SKतथा ह्य् अनादौ संसारे कर्मभेदान् स्मरन्न् अपि अनन्तकृतकर्मत्वात् को विद्यात् कस्य किं फलम् //
SKस्वान्तस्योपप्लवः स्वप्ने स्मृतिबीजस्य बोधकः तस्य च जग्रतो ऽभावान् नोदेति स्वप्नदर्शनम् //
SKकामाद्युपप्लवे ऽप्य् एवं कार्याधिक्यम् उदाहृतम् अग्राह्यम् एव गृह्णाति स्वयं कल्पयति ह्य् अयम् //
SKदोषक्षतस्य मनसस् तत् कार्यं ................. तद् अध्यारोपे नो गौणी तथेत्य् अध्यवसायतः //
SKख्याति सन्निहिते ऽशून्यं सद् भावान्तरघट्टितम् प्रभासताम् असत्ता तु नो शून्यं तद् अनात्मकम् //
SK........ ........ //
SKएवं निर्वचनीया च नाविद्या परिहास्यते अविद्यात्वं यतो ऽन्यस्य सान्यरूपं प्रकाशयेत् //
SK........ ........ //
SK........ ........ //
SK........ ........ //
SKबाध्यज्ञानस्य मिथ्यात्वं नान्यथा व्यवतिष्ठते तेन यावद् बाधनीयं तावन् मिथ्येति युज्यते //
SKभ्रान्तिज्ञेये च बाह्यत्वं बाधकैर् न निरस्यते न गम्यते ऽन्तर्वर्तित्वं नानिर्वाच्यतया मतिः //
SKकिं त्व् अतद्देशकालत्वं गम्यते बाह्यवस्तुनः तस्मान् न बाह्यवस्तुत्वं मृषा बोधान् न बाधनात् //
SKप्रसक्तप्रतिषेधात्मा बाधो ऽख्यातौ न युज्यते साधयत्य् अन्यथा ख्यातिं बाध एव च नः स्फुटम् //
SKप्रसञ्जिका हि नाख्यातिर् अस्मत्पक्षे तु युज्यते न चाग्रहनिषेधो ऽयं सर्वज्ञानप्रसङ्गतः //
SKविवेकधीर् निषेधो ऽयं न प्रतीत्यानुगम्यते न क्रमे यौगपद्ये वा विवेकमतिर् ईदृशी //
SKअविवेकग्रहे स्याच् चेत् सत्यं न तु विविक्तयोः अग्रहे प्राप्त्यभावेन प्राप्तेः पूर्वं तु युज्यते //
SK........ ........ द्वयोर् अभावात् स्वप्ने च विवेको गम्यते कयोः //
SKस्मृतत्वेनाविविक्ते चेत् तथा बाधा विहन्यते स्यात् सर्वैवंविधा बाधा पश्चात् धर्मिणि धर्मधीः //
SKतद् युक्तं बाधकज्ञानाद् वाचोयुक्तिर् इयं भवेत् अर्थे ऽन्यथापि सत्य् एष धियाकारः प्रतीयते //
SKआत्मख्यातौ सर्वम् एवान्तर् आहुः शून्यख्यातौ शून्यम् एवेति केचित् अख्यातौ नो तत्त्वमिथ्याविभागस् तस्माद् एषां विभ्रमाणां विवेकः //