The Sutra of Parashurama's Discipline

Paraśurāmakalpasūtra

The Sutra of Parashurama's Discipline

Paraśurāmakalpasūtra

SK
ॐ श्रीमहात्रिपुरसुन्दर्यै नमः | श्रीपरशुरामकल्पसूत्रम् रामेश्वरकृतवृत्तिसहितम् | परशूज्ज्वलहस्ताब्जो जटामण्डलमण्डितः | ददातु चिरजीवित्वं प्रसन्नात्मा भृगूद्वहः || प्रथमः खण्डः-दीक्षाविधिः | वृत्तिभूमिका [अत्र वृत्तिशब्देन एतन्मूलग्रन्थस्योपरि सौभाग्योदयनामकं विवरणं ज्ञेयम् | एतदत्तिकाराभिधानवृत्तिरचनासमयादिज्ञानाय अग्रे द्वितीयपरिशिष्टे १- विषयो दृश्यः |] अत्र मङ्गलम् श्रीवल्लभापयोधरसंलिप्तालेपरञ्जितोरस्कम् | वन्दे गजेन्द्रवदनं बालसहस्रांशुकोटिसच्छायम् || या परशिवे स्फुरत्ता पूर्णाऽहन्तापदेन संश्लिष्टा | द्वैतं भावं प्राप्ता पश्चादम्बां परामिमां कलये || या पञ्चप्रेतसंस्था परशिवनिलयपा शक्तयः कामबुद्धि- कर्माद्या यन्मयूखाः समुदयपरिरक्षाऽन्तकर्त्र्यो बभूवुः | या पश्यन्त्यादिरूपा सकलजनवचोजालमाविष्करोति सा मे वाग्देवतेयं विलसतु वदने चित्तमालिन्यहन्त्री || श्रीमद्यशोवदम्बाभासुरवामाङ्कमज्ञताऽद्रिपविम् | मम विधिसुषिरसरोरुहकल्पितनिलयं नमामि नाथेन्द्रम् || यो भृगवंशे भूत्वा क्षत्रं जघ्ने त्रिसप्तकृत्वस्तम् | षष्ठं श्रीमद्विष्णोरवतारं नौमि वीरेन्द्रम् || प्. २) सुब्रह्मण्यं च पितरं गुरुवाम्बां च मातरम् | प्रणमामि फलावाप्त्यै तावेव शरणं मम || विचार्य नानातन्त्रादीन् मीमांसान्यायविस्तरम् | नानादेशसमानीतपुस्तकैः परिशोध्य च || जामदग्न्येन रचितं कल्पसूत्रं यथामति | विस्तारयति गूढार्थं श्रीविद्योपास्तिसिद्धये || रामेश्वरः श्रीललिताप्रेरितः काश्यपोद्भवः || दीक्षाऽधिकारः इह खलु श्रीभगवान् श्रीपरशुरामः आधुनिकेषु मन्दमतिषु कृपालुः श्रीशिवनिर्मितान्यसंख्यानि [एतावतेदं प्रतीयते सर्वतन्त्रग्रन्थानां कर्ता भगवान् शिवः इति-अत्र द्वि० परिशिष्टे-३ वि- दृश्यः |] तन्त्राणि पर्यालोड्य सर्वाण्युपसंहृत्य तुरीयपुरुषार्थसाधनं लघुमध्वानं दर्शयन् प्रतिजानीत्-
SK
अथातो [इतो ग्रन्थमारभते भगवान् श्रीजामदग्न्यो रामः- तद्ध्यानप्रकारः-तत्पितुः श्रीजमदग्निमहर्षेः पूर्वजन्मकथा च-द्वि० परिशिष्टे-२-विषये-दृश्या |] दीक्षां [इत आरभ्य पुरस्तन-३३ सूत्रभाष्यान्तं यावद्दीक्षाविधौ ज्ञातव्यमस्ति दीक्षाप्रयोगारम्भस्तु- ३४-सूत्रादस्तीति ज्ञेयम् |] व्याख्यास्यामः || १ || अथ अथशब्दः मङ्गलद्योतकः, ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा | कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ || इति स्मरणात् | अतःशब्दश्च आनन्तर्यद्योतकः | आनन्तर्यस्यावध्यपेक्षायां समीपवर्तित्वात् मङ्गलाचरणं नानातन्त्रपरिशोधनं वा अवधित्वेन अन्वेति | यद्वा- अथात इति मिलित्वा आरम्भद्योतकः अथातो दर्शपूर्णमासौ व्याख्यास्यामः इत्यापस्तम्बसूत्रभाष्ये अथातश्शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः | क्वचिदानन्तर्येऽपि यथा- इमे भृगवो व्याख्याताः अथातोङ्गिरसाम् इत्यादौ | तथा न पुनरिहानन्तर्यमर्थः पूर्वप्रवृत्तस्य कस्य चिदनन्तरस्यानुपलम्भात् इति लेखात् | दीक्षापदार्थं सूत्रकारोऽग्रे विवेचयिष्यति | व्याख्यापदार्थश्च निगूढाभिप्रायकशब्दस्य विविच्य कथनम् | प्रकृते गूढार्थानां तन्त्राणामुपसंहारेण विविच्य कथनं कल्पसूत्रे इति लक्षणसमन्वयः | दीक्षाविषयज्ञानानुकूलशब्दप्रयोगकर्ताऽहमिति प. ३) फलितोऽर्थः | व्याख्यास्यामः इति बहुवचनमुपासनाप्रवर्तकाचार्यानन्यानपि संग्रहीतुम् | यथा लोके गुरुतरकार्यनिर्माणे वयं कूर्मः इत्यन्येऽपि संगृह्यन्ते तथा | एतेन दीक्षाव्याख्यानमतिकठिनमिति सूचितम् | यद्वा- अस्मदो द्वयोश्च एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं स्यादिति तदर्थः | तथा च अस्मच्छब्दस्य कर्तृवाचकस्य बहुवचनान्तत्वात् तत्समानवचनत्वोपपत्तये व्याख्यास्यामः इति बहुवचनम् || तन्त्राप्रामाण्यशंकानिरासः ननु कल्पसूत्रव्याख्यानं वैदिकानामयुक्तं तस्य तन्त्रेषु परिगणितत्वेन तन्त्राणां केवललोभैकमूलत्वेनाप्रामाण्यात् | तदुक्तं वार्तिके भट्टपादैः-
SK
लोभादिकारणं चात्र बह्वेवान्यत् प्रतीयते | यस्मिन् सन्निहिते दृष्टे नास्ति मूलान्तरानुमा || शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् | हेतुजालविनिर्मुक्तां न कदाचन कुर्वते || न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् | हेतवश्चाभिधीयन्ते ये धर्माद्दूरतः स्थिताः || एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् | पाषण्डिनोऽपि कर्मस्था हैतुकाश्चैत एव हि || इति | एवं यान्यन्यानि त्रयीविद्भिः न परिगृहीतानि किंचित्तन्मिश्रकञ्चुकछायापतितानि लोकोपसंग्रहलाभपूजाख्यातिप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टलोभादिप्रत्यक्षानुमानोपमानार्था- पत्तियुक्तिमूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थानि कादाचित्कसिद्धिदर्शनबलेन अहिंसासत्यवचनदमदानदयाऽदिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासित- जीविकाप्रायार्थान्तरोपदेशीनि यानि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्धनानि तेषामेवैतच्छ्रुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते इति च ग्रन्थेन | एवं श्रीसूतसंहितायां ब्रह्मगीताद्वितीयाध्यायेऽपि- वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः | हस्तस्थं पायसं त्यक्त्वा लिहेत् कूर्परमात्मनः || विना वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् | तमस्यपि विनाऽलोकं ते पश्यन्ति घटादिकम् || प्. ४) तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् | अन्येन वेदितो ह्यर्थः न सत्यः परमार्थतः || इति || तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् | सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः || इति || यज्ञवैभवखण्डे एकचत्वारिंशेऽध्याये- बहुनाऽत्र किमुक्तेन श्रुतिस्मृत्युदितं विना | यत्किंचिदपि कुर्वाणः पातकी स्यान्न संशयः || इति वैदिकान्यमार्गनिन्दा श्रूयते | अग्निपुराणेऽपि वेदराशिना साकं नारकिणां संवादे- तन्त्रदीक्षामनुप्राप्ताः लोभोपहतचेतसा | त्यक्त्वा वैदिकमध्वानं तेन दह्यामहे वयम् || इति || पद्मपुराणे पुष्करमाहात्म्ये-
SK
ये च पाषण्डिनो लोके तान्त्रिका नास्तिकाश्च ये | तैर्दुष्प्रापमिदं तीर्थम्................................... || इति तान्त्रिकपुरुषनिन्दया तन्त्रस्याश्रद्धेयत्वं स्पष्टम् | एवमन्येष्वपि बहुपुराणेषु तन्त्रनिन्दायाः बहुलमुपलम्भात् | मपञ्चकादरविधायकशास्त्रस्य लोभैकमूलत्वं सुस्पष्टम् | विसर्जनीयवासोग्रहणशास्त्रस्य लोभैकमूलत्वं साधितम् | किमु मपञ्चकसेवकस्य लोभमूलत्वे प्रतिरोधः | तस्मात् इदं शास्त्रमास्तिकैः न व्याख्येयम् इति चेत्-मैवम् [इतस्तन्त्रशास्त्रप्रामाण्यस्वीकरणशास्त्रार्थः] | किं भट्टपादानां पुराणानि पाद्मादीनि प्रमाणत्वेन अभिमतानि न वा ? यदि प्रमाणत्वेन अभिमतानि तर्हि तेषु तन्त्रप्रामाण्यं बहुशः अधिकारिविशेषविषये श्रूयते | तथाहि सूतसंहितायां ब्रह्मगीताद्वितीयाध्याये- तथाऽपि स्वप्नदृष्टं हि वस्तु स्वर्गनिवासिनः | सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये || तथैव मार्गात् संभ्रान्ता अपि वेदोदितस्य तु | अर्थस्य प्राप्तिसिद्ध्यर्था भवन्त्येव न संशयः || तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे || इति [एतावता वेदवद्वेदेतरधर्म्यमार्गाश्रयणमप्यशास्त्रीयं नेति सिध्यति ||] || प्. ५) सूतसंहितायां शिवमाहात्म्यखण्डे पञ्चमाध्याये- पूजा शक्तेः परायास्तु द्विविधा परिकीर्तिता | बाह्याभ्यन्तरभेदेन बाह्या च द्विविधा मता || वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा | तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि || इत्थं समस्तदेवानां पूजा विप्रा व्यवस्थिता || इति || एवं सूतसंहितायां मुक्तिखण्डे- पाञ्चरात्रादितन्त्राणां [एतेन नारदपाञ्चरात्रादितान्त्रिकग्रन्थानां वेदमूलत्वं तेभ्यश्च वैदिकानां वेदाविरुद्धांशग्रहणोक्तिश्चेत्युभयमपि परशिवोदितमिति सिध्यति |] वेदमूलत्वमास्तिके | न हि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे || तथाऽपि य्ॐऽशोमार्गाणां वेदेन न विरुध्यते | स्ॐऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् || इति
SK
तान्त्रिकाणामहं देवि लभ्योऽस्मि व्यवधानतः | लभ्यो वेदैकनिष्ठानामहमव्यवधानतः || इति च || एवं तत्रैव यज्ञवैभवखण्डे विशेऽध्याये- शैवागमोदितो धर्मो द्विधा पूर्वमुदीरितः | अधःस्रोतोद्भवस्त्वेक ऊर्ध्वस्रोतोद्भवोऽपरः || अधःस्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवो वरः | कामिकादिप्रभेदेन स भिन्नोऽनेकधा द्विजाः || अधःस्रोतोद्भवो धर्मो बहुधा भेदितस्तथा | ऊर्ध्वस्रोतोद्भवाद्धर्मात् स्मार्ता धर्मा महत्तराः || इति तत्रैव द्वाविंशेऽध्याये- तस्मान्मार्गान्तराणां तु प्रमाण्यं वेदवित्तमाः | मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता || अतो वेदान्तमार्गस्थो महादेवोऽचिरेण तु | मुक्तिं ददाति नान्यत्र स्थितः सोऽपि क्रमेण तु || ददाति परमां मुक्तिमित्येषा शाश्वती श्रुतिः || इति || प्. ६) तत्रैव- अतो वेदस्थितो मर्त्यो नान्यमार्गं समाश्रयेत् | अतोऽधिकारिभेदेन मार्गा मानं न संशयः || तत्रैवैकस्मिन् परिवृत्ते तत्रत्यश्लोकाः- ईश्वरस्य स्वरूपे च ब्रन्धहेतौ तथैव च | जगतः कारणे मुक्तौ ज्ञानादौ च तथैव च || मार्गाणां ये विरुद्धांशा वेदान्तेन विचक्षणाः | तेऽपि मन्दमतीनां च महामोहावृतात्मनाम् || वाञ्छामात्रानुगुण्येन [इदमत्रावधेयं यत् तन्त्रशास्त्रं वेदसिद्धान्तान् कियदाश्रयतीति |] प्रवृत्ता न यथाऽर्थतः | दर्शयित्वा तृणं मर्त्यो धावन्तीं गां यथाऽग्रहीत् || दर्शयित्वा तथा क्षुद्रमिष्टं पूर्वं महेश्वरः | पश्चात् पाकानुगुण्येन ददाति ज्ञानमुत्तमम् || तस्मादुक्तेन मार्गेण शिवेन कथिता अमी | मार्गा मानं च चामानं मृषावादी कथं शिवः || इति || तथा ब्रह्माण्डपुराणे- स्वमातृजारवद् गोप्या विद्यैषेत्यागमा जगुः ||
SK
इत्यागमानां प्रमाणत्वेनोपन्यासः | तथा [तान्त्रिकसरण्या शान्तिकपौष्टिककर्मकरणोपदेशः तेन फलप्राप्तिश्चात्र निरूपितेति बोध्यम् ||] ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्ये प्रदोषपूजा तान्त्रिकसरण्या ब्राह्मणराजपुत्रयोरुपदिष्टा | तेन च फलप्राप्तिरिति इतिहासः सुस्पष्टं प्रतीयते | श्रीमद्भागवते गजेन्द्रस्तुतौ शर्वागमाम्नायमहार्णवाय इति | आगमाः पाञ्चरात्रादितन्त्राणि इति श्रीधरस्वामिव्याख्या | तथा ब्रह्मस्तुतौ रूपं तथैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिंभिर्वैदिकतान्त्रिकेण || इति || तथा एकादशस्कन्धे करभोजनोपदेशे द्वारपूजाविधाने कलिपूजायां च वचनानि यथा- यजन्ते वेदतन्त्राभ्यां परं जिज्ञासवो नृप | नानातन्त्रविधानेन कलावपि तथा शृणु || इति || नानातन्त्रविधानेनेति कलौ तन्त्रमार्गप्राधान्यं दर्शयतीति श्रीधरस्वामिव्याख्यानम् | एवमेकादशस्कन्धे उद्धवोपदेशेऽपि- प्. ७) वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः || २७ अ. ७ श्लो. इति वैदिकतान्त्रिकभेदेन द्विप्रकारपूजा श्रीभगवतोपदिष्टा [एतावता भगवतस्तान्त्रिक्यपि पूजाऽभिमतेति प्रमाणीयते |] सर्वैंरुपलभ्यते | श्रीमहाभारते अर्जुनस्तुतौ- आम्नायागमवेद्याय शुद्धबुद्धाय ते नमः || इति || एवमादीनि तन्त्रप्रामाण्यप्रतिपादकवचनानि सहस्रश उपलभ्यन्ते | ग्रन्थविस्तरभयान्नेह प्रपञ्च्यन्ते | एवं योगमार्गप्रामाण्यव्यवस्थापकानि वचनानि श्रीमन्महाभारते भगवद्गीतासु मोक्षधर्मादौ च असकृच्छ्रूयन्ते | तथा भागवते काशीखण्डादिनिखिलपुराणेषु च पदे पदे उपलभ्यन्ते | एवं सति भट्टपादाः कथं सांख्ययोगतन्त्राणामप्रामाण्यं ब्रूयुः | न वा पुराणानामप्रामाण्यमिति शक्यते वक्तम् पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ||
SK
इति विद्यासुपरिगणनात् यदथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि इति वेदेऽपि पुराणस्य प्रमाणमध्यपरिगणनात् [एतेन तन्त्रशास्त्रब्राह्मणेतिहासपुराणधर्मशास्त्राणां वेदनिष्ठं प्रमाणमुपलभ्यते एव] | एवं उक्तवचनकलापैः एवंविधैरन्यैश्च तन्त्राणां सिद्धे प्रामाण्ये अप्रामाण्यं ब्रह्मणाऽपि व्यवस्थापयितुं न शक्यम् || सर्वतन्त्राणां वेदबाह्यत्वशंकानिरासः ननु भवत्वधिकारिविशेषे वेदभ्रष्टे पुरुषे स्त्रीशूद्राणां संकरेषु च तन्त्राणां प्रामाण्यं न वैदिके | न च वैदिकातिरिक्ते तन्त्रस्य अधिकारसंकोचकप्रमाणाभाव इति वक्तुं शक्यम् | पूर्वं सूतसंहितावचनस्य तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि इति लिखितस्य सत्त्वात् | एवं सूतसंहितायामेव मुक्तिखण्डे- अत्यन्तगलितानां तु प्राणिनां वेदमार्गतः | पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः || इति || तत्रैव सूतगीतायाम्- श्रुतिपथगलितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित् प्राह शंभुः | श्रुतिपथनिरतानां तत्र नैवास्ति किंचित् हितकरमिह सर्वं पुष्कलं सत्यमुक्तम् || इति प्रमाणान्तरवचनात् | तस्मात् प्रमाणान्यपि तन्त्राणि वेदमार्गगलितस्यैव न वैदिकस्येति चेत् | प्. ८) न | यच्च श्रुतिपथगलितानामिति सूतगीतावचनं तत्रत्यं तन्त्रपदं तन्त्रविशेषम् | तच्च तन्त्रं शैवागम - इति प्रसिद्धम् दक्षिणदेशे च भाषया जङ्गम - इति प्रसिद्धैरनुष्ठितम् | कथमिदमेवेति ज्ञापकमिति चेत् अस्ति ज्ञापकं पूर्वोक्तवचनसमीप एव- श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं कथितमखिलदुःखध्वंसकं तत्र धार्यम् | श्रुतिपथनिरतानां तत् सदा नैव धार्यम् || इति ||
SK
तत्र लिङ्गधारणं शैवागमेन बहुफलसाधनमिति प्रतिपादितम् | तत्संप्रदायानुवर्तिनो लिङ्गं दक्षिणबाहौ गले वा धारयन्ति इत्याचारोऽप्युपलभ्यते | यथा चास्मिन् वचने श्रुतिपथगलितानां सर्वतन्त्रेषु इत्युत्तरं प्रतिपादितम् इति शेषः | एवं च यस्मिन् तन्त्रे लिङ्गधारणं प्रतिपादितं तत्तन्त्रं श्रुतिभ्रष्टानामित्यत्र लिङ्गम् | यथा छागस्य वषाया मेदसः इति मन्त्रलिङ्गेन पशुशब्दसंकोचः तथा | किं च श्रीमदध्यात्मरामायणे श्रीलक्ष्मणप्रश्नः- ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् | स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् || तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् || इति || तदुत्तरं ऽश्रीराम उवाच इत्यारभ्य दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् | होमं कुर्यात् प्रयत्नेन विधिना तन्त्रकोविदः | आगमोक्तेन [अगस्त्योक्तेन इति क्वचित् |] मार्गेण कुण्डेनागमवित्तमः || इति || एव ब्राह्मणादीनां वर्णानां ब्रह्मचर्यादीनामाश्रमाणां च मोक्षोपायप्रश्ने आगमोक्तपूजा कर्तव्येति तदुत्तरमनन्यगतिकं वैदिकेऽपि तान्त्रिकं यत् प्रतिपादयति तन्मात्सर्यशून्येन तत्त्वबुभुत्सुना त्यक्तुमशक्यम् | नहि चैत्रः कुशलो वा - इति प्रश्ने मैत्रः कुशलः इति प्रामाणिकः सन् ब्रूयात् | तस्मात् श्रीरामोत्तरं ब्राह्मणादिविषयम् | न ह्यवैदिको ब्राह्मणः क्षत्रियश्च लोके प्रसिद्धः | न च ब्राह्मणः क्षत्रियो वा ब्रह्महत्याऽदिमहापातकेन पातित्यं गतः वेदमार्गभ्रष्टःतत्र ब्राह्मणत्वं वेदमार्गगलितत्वमुभयं चास्तीति स एव तन्त्रोदितेष्वधिकारीति वाच्यम् ब्रह्मक्षत्रादिकल्याणप्रश्ने तदुत्तररूपपूजाविधाने- प्. ९) स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः | प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये | वेदतन्त्रोदितैर्मन्त्रैर्मृल्लेपनविधानतः ||
SK
इति द्वन्द्वसमासेन एकस्यैव पुरुषस्य वैदिकमन्त्रसहिततान्त्रिकमन्त्राणां स्नानकरणत्वं विधीयते | तथा च वेदबाह्यमुद्दिश्य तन्त्रसामान्यानुष्ठानविधिः इति स्वीकृत्य श्रीरामवाक्यप्रामाण्यनिर्वाहः गीर्वाणगुरूणामप्यशक्य एव | एवं श्रीभागवते एकादशस्कन्धे उद्धवोपदेशे- उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये || इति || उपसंहारे तत्रैव- एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः | अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् || इति || तस्मात् श्रुतिपथगलितानामिति वचनं जङ्गमादिलिङ्गधारिपरम् | एवं मुक्तिखण्डस्थपूर्वोक्तात्यन्तगलितानामितिवचने पाञ्चरात्रादयो मार्गाः इति आदिपदेन शैवागमस्य जङ्गमपरिगृहीतस्य ग्रहणं न ज्ञानार्णवकल्पसूत्रादीनाम् तस्मिन् वेदभ्रष्टाधिकारिकत्वस्य कॢप्तत्वेन तेन सहैकवाक्यत्वात् | यच्च शिवमाहात्म्यखण्डे पूजा शक्तेः परायास्तु इत्यारभ्य वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा | तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि || इति वचनं तस्य अयमभिप्रायः - वैदिकः स्वगृह्योक्तोपनयनादिसंस्कृतः | तान्त्रिकः तन्त्रोदीरितकुण्डमण्डपादिपुरस्सरं दीक्षासंस्कृतः | न तान्त्रिको नाम श्रुतिपथगलितः तस्य पूर्वमेव निरस्तत्वात् | तथा च अनेन वचनेन उपनयनादिनिमित्ते वैदिकस्नानपूजाऽदिनैमित्तिकम् | तन्त्रदीक्षानिमित्ते नैमित्तिकं तान्त्रिकस्नानपूजाऽदि विधीयते | यत्रैकं निमित्तं तत्रैकं केवलवैदिके | शूद्रादौ केवलतान्त्रिकम् | यत्र उभयं तत्र उभयानुष्ठाने न किमपि बाधकम् [सिध्यत्येतावता च त्रैवर्णिकानां वैदिकतान्त्रिकोभयकर्मोपदेशः - द्विपरिशिष्टे - २ - वि० दृश्यः | २ प.] | अस्यैवार्थः स्पष्टीकृतः त्रिपुरार्णवे- त्रैवर्णिकैर्वैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् || इति ||
SK
इममेवार्थं संक्षेपेण श्रीरामोऽप्याह - वेदतन्त्रोदितैर्मन्त्रैरिति | तस्मात् सर्वतन्त्रानुष्ठानं वेदबाह्यपरमिति सिद्धान्तो वचनान्तरानवलोकनव्यामोहविलासरूप एव | पाञ्चरात्रादीनां तु श्रुतिपथगलितमुद्दिश्यैव प्रवृत्तिः तन्नाम गृहीत्वा आहत्यविधानात् | एवमेव कापालमपि- प्. १०) पाञ्चरात्रे च कापाले तथा कालमुखेऽपि च | अधिकारो वैदिकानां नास्ति नास्ति मुनीश्वराः || इत्यगस्त्यसंहितावचनात् | तथा च निर्णीत एवार्थे भट्टपादानामभिप्रायः | अत एव पाञ्चरात्रस्यैव तन्त्रमध्ये पृथक् नाम गृहीतम् | न तु सर्वतन्त्राणां ग्रहणं कृतं तत्रैव वेदविरुद्धानां स्मृतिविरुद्धानां च धर्माणां भूरिश उपलभ्यमानत्वात् | न हि शाक्यादिवत् शाक्तादितन्त्रेषु वेदविरुद्धमनुष्ठानममीषदप्युपलभ्यते | यानि तु वेदमार्गमिमं त्यक्त्वा इत्यादिवचनानि तानि वैदिकस्य वैदिकमार्गं सर्वथा त्यक्त्वा केवलतन्त्रमार्गाश्रयणे तन्निन्दापराणि मुक्त्वा विनेत्यादिश्रवणात् | यद्वा-
SK
पूर्वं वेदमार्गं विनिन्द्य तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं न संशयः इति सर्वेण निन्दाप्रशंसारूपविशिष्टार्थवादेन मिलित्वा वेदमार्गाचरणं कर्तव्यमित्येकविधिकल्पने लाघवम् | पूर्वपक्षे निन्दया तान्त्रिककर्मणः समुच्चयः तस्माद् वेदोदित इति स्तुत्या वैदिककर्मणो विधिः कल्प्यः इति गौरवं स्यात् | पूर्वोक्ताग्निपुराणवचनं पाद्मं च तन्त्रविशेषपरं पूर्वोक्तयुक्तेः | अत एव तन्त्रेषु दीक्षितः इत्यादिवचनानि निन्दारूपाणि वैदिकप्रशंसापराणि इति श्रीविद्यारण्यस्वामिभिरपि तत्रैव व्याख्यातम् | एवमेव भट्टपादैः योगस्य निरस्तप्रामाण्यस्यापि विषयान्तरं सुधीभिरूह्यम् | अप्रकृतत्वात् ग्रन्थविस्तरभयान्नेह लिख्यते | भट्टपादोक्त्यपेक्षया पुराणानां तन्त्राणां च प्रामाणं वरिष्ठम् | अतो दुर्बलप्रमाणस्य प्रबलप्रमाणानुसारेण संकोचो युक्त एव | अन्यथा तस्मिन्नेव अधिकरणे अष्टाचत्वारिंशद्वर्षाणि ब्राह्मणो ब्रह्मचर्यं चरेत् इति स्मृतिः जातपुत्रः कृष्णकेशोऽग्नीनादधीत इति श्रुतिः अनयोर्विरोधः इत्थम्- नह्यष्टाचत्वारिंशद्वर्षानन्तरं विवाहे जातपुत्रः कृष्णकेशश्च पुरुषः प्रसिद्धोऽग्न्याधानाधिकारी | अतो द्वयोर्विरोधे प्रबलश्रुत्यनुसारेण स्मृतिस्थब्राह्मणपदमन्धादिपरम् | तस्याग्रिमश्रौतकर्मानधिकारित्वेन श्रुत्यविरोध इति तैरेव प्रतिपादितो ग्रन्थो विरुध्येत | तस्माद्वैदिकानां शाक्तगाणेशादितन्त्रप्रतिपादितकर्मस्वधिकार इति भट्टपादानामस्त्यभिप्राय इति पूर्वयुक्तिभिः सिद्धम् [एतेन वैदिकानां तान्त्रिककर्मण्यनधिकार इति दुरपलपन्तो दूरं परास्ताः |] | एतेन भट्टोजिदीक्षितलिखिततन्त्रप्रामाण्यखण्डनमपि पराहतमूह्यं सूरिभिः | पुराणवचनानामपि व्यवस्थोक्तैव | यच्चोक्तं दृष्टैकप्रयोजनकत्वं मपञ्चकस्वीकारविधायकशास्त्रस्य लोभमूलतया प्रणीतत्वं चेति तच्च अग्नीषोमीयं पशुमालभेत इति सुराग्रहा गृह्यन्ते इत्यत्रापि वेदे तुल्यम् | न हि इदं प्रमाणमिति श्रद्धामुत्सृज्य प्रामाण्यव्यवस्थां कर्तुं ब्रह्मापि समर्थः | अतो
SK
वैदिकानां पूर्वसंस्कारवशात् उत्पन्नो वेदः प्रमाणम् इति श्रद्धाविशेष एव प्रामाण्यव्यवस्थापकः प्रथमः | ततश्च तदविरुद्धानामेव तन्मूलकतया प्रामाण्यं तद्विरुद्धं तु वैदिकस्य प्. ११) अप्रमाणमेव | किंच - श्रीसुन्दरीतन्त्राणि तु यथा तैत्तिरीयशाखाशेषभूतानि बोधायनापस्तम्बादिषट्सूत्राणि प्रमाणं तथा [एतावता च बोधायनापस्तम्बादिसूत्रसुन्दरीतापिनीपञ्चकभावनाकौलोपनिषदः प्रमाणान्येवेत्यत्र ध्वन्यते ||] सुन्दरीतापिनीपञ्चकभावनाकौलोपनिषच्छेषाणि तद्व्याख्यानरूपाणि न स्वकपोलकल्पितानि | अतोऽपि वेदव्याख्यानरूपत्वान्निःशङ्कं वैदिकैः परिगृहीतव्यानि | मपञ्चकादिसेवनस्य यथा वेदाविरुद्धता तथा उपरिष्टात् वक्ष्यामः || शुद्धचित्तस्यैव सुन्दरीविद्याऽधिकारः वैदिकैर्ग्राह्यत्वेऽपि न सर्वेषां वैदिकानामत्राधिकारः | यथा ब्रह्मस्वरूपस्य उपनिषद्भागरूपवेदप्रतिपाद्यत्वेऽपि तज्जिज्ञासायां न सर्वेषामधिकारः किंतु साधनचतुष्टयसंपन्नानां वैदिकानामेवाधिकारः तथाऽत्र केषांचिदेवाधिकारः | तथाहि ब्राह्मणस्य उपनयनाद्यारभ्य प्रथमभूमिका स्वाध्यायाध्ययनम् | तदनन्तरं स्थाणुरयं भारहारः किलाभूत्० इति अनर्थज्ञे निन्दाम् योऽर्थज्ञ इत् सकलं भद्रमश्नुते० इत्यर्थज्ञाने फलं च श्रुत्वा अर्थज्ञानसिद्ध्यर्थं काव्यनिगमनिरुक्तव्याकरणन्यायानधीत्य पूर्वमीमांसाऽद्यभ्यस्य वेदार्थं ज्ञात्वा न ज्ञानमात्रेण कृतार्थतामियात् इति स्मृत्या अर्थं ज्ञात्वा कर्माननुष्ठातरि निन्दां श्रुत्वा अनुष्ठानभूमिकामारूढो निखिलस्मृतिश्रुत्युदितं कर्म बहुजन्मस्वनुतिष्ठन् तैःकर्मभिः परिशुद्धचित्तः संसारे नात्यन्तमासक्तोनाप्यत्यन्तमनासक्तश्च यदा भवति तदा भक्तिभूमिकाऽरोहणयोग्यो भवति | तदुक्तं भागवते- न निर्विण्णो न चासक्तो भक्तियोगोऽस्य सिद्धिदः || इति || यदा न निर्विण्णः न चासक्तः भक्तियोगः तदा सिद्धिदः इत्यर्थः | तादृशभक्तिभूमिकामनारुह्य न कदाऽपि परमपुरुषार्थलाभः | तदुक्तं श्रीमद्भागवते-
SK
अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी | जरयत्याशु या कोशं निगीर्णमनलो यथा || इति || भक्तिस्वरूपम् तत्र भक्तिर्नाम आराध्यत्वप्रकारकज्ञानविशेषोऽनाहार्यः स्वाभाविकः इति नैय्यायिकाः | भक्तिर्नाम भगवद्विषयिणी अन्तःकरणस्य तदाकारतया परिणामात्मिका वृत्तिः | तत्र प्रमाणम्- या प्रीतिरविवेकानां विषयेष्वनपायिनी | त्वामनुस्मरतः सा मे हृदयान् माऽपसर्पतु || इति भगवद्विषयप्रीतियाच्ञायां प्रह्लादं प्रति श्रीभगवद्वाक्यम्- भक्तिर्मयि तवास्त्येव भूयोऽप्येवं भविष्यति || प्. १२) इति भक्तिप्राप्तिर्भविष्यतीति वरदानेन स्मृतिर्ममास्त्विति [इतः सार्थवेदाध्ययने - भक्तिगौरवे च - प्रमाणजातमस्ति |] भक्तियाच्ञैवेति ज्ञायते | न हि घटं याचतः पटदानं युक्तम् | तस्मात् अनुस्यूतभगवत्स्मृतिः भक्तिः सैव निरुपाधिकी प्रीतिरित्यपि व्यवह्रियते इति प्रुराणिकाः | मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | इति श्रीभगवद्वचनमपि अखण्डश्रीभगवत्स्मृतिपरम् | युक्तं चैतत् श्रीभागवते अस्यैवार्थस्योक्तत्वात् | तथाहि- देवानां गुणलिङ्गानामनुश्रविककर्मणाम् | सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या | भक्तिर्भागवती सैव............................ || इति || गुणाः विषयाः लिङ्ग्यन्ते ज्ञायन्ते यैस्तेषाम् इन्द्रियाधिष्ठातृदेवानां सत्वमूर्तौ हरावेव या वृत्तिः अनिमित्ता निष्कामा स्वाभाविकी अयत्नसाध्या सा भक्तिरित्यर्थः | अनुश्रवो वेदः तदुदितं कर्म आनुश्रविकं कर्म येषामिति देवविशेषणम् | एतेन भक्तौ प्रयोजकं आनुश्रविकं कर्मेति सूचितम् | अतो भगवदाकारा मनोवृत्तिरेव भक्तिरिति सिद्धम् | एवम्- अथातो भक्तिजिज्ञासा सा पराऽनुरक्तिरीश्वरे इति शाण्डिल्यसूत्रम् || उपासनस्य भक्तिसाधनत्वम्
SK
एतादृशभक्तिभूमिकामारुरुक्षुः तत्साधनीभूतां भगवदुपास्तिं कुर्यात् | उपास्तिर्नाम - भगवदुद्देशेन निष्कामं सर्ववस्तुत्यागः भगवत्कथाश्रवणं भगवन्मन्त्रजपः भगवन्नामस्तोत्रकीर्तनमित्येतदन्यतमम् | एतस्य भक्तिहेतुत्वं श्रीमद्भागवते- पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् | श्रद्धाऽमृतकथायां मे शश्वन्मदनुकीर्तने | परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम | आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् | मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च | इष्टं दत्तं हुतं जप्तं मदर्थं यद् व्रतं कृतम् | एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् | मयि संजायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते || इति || भक्तिसाधनत्वादेवोपास्तौ श्रीभास्कररायैः सेतुबन्धे - भक्तिर्द्विविधा गौणी मुख्या चेति | तत्राद्या सगुणब्रह्मणः ध्यानार्चनजपनामकीर्तनादिरूपा संभवत्समुच्चयिका | परभक्तिस्तु प्. १३) एतज्जन्यानुरागविशेषरूपा इति कथितम् | एतादृशी भक्तिश्च सगुणब्रह्मण्येव संभवति | एतादृशं सगुणब्रह्म स्वोपासकानुरागानुसारेण रामकृष्णादिनानास्वरूपं लभते | तत्तत्स्वरूपभक्तिसाधनान्येव प्रतिपाद्यन्ते तन्त्रेषु पुराणेषु च | तन्मूलभूताः श्रुतयः उपनिषत्संज्ञकाश्चोपलभ्यन्ते नृसिंहतापिनीरामतापिन्यादिरूपाः सुन्दरीविषये त्रिपुरोपनिषद्भावनोपनिषदित्यादयः | तत्प्रतिपाद्यपरब्रह्मणः शाब्दनिश्चये जाते सति तदा संसारे नात्यन्तमासक्तिः नाप्यत्यन्तमनासक्तिर्भवति | स च भक्तिसाधनोपास्तावधिकारी | एतादृशाधिकारप्राप्तिश्च भक्तिभूमिकाऽरुरुक्षुत्वं च नाल्पपुण्येन किन्तु अनेककोटिजन्मसाधितसुकृतलभ्यम् | तत्रापि सुन्दरीभक्तिस्ततोऽपि दूरतरा | तदुक्तं ब्रह्माण्डपुराणे यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु | तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने | चरमे जन्मनि यथा श्रीविद्योपासको भवेत् || इति || स्थलान्तरेऽपि-
SK
यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् | तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी | मोक्षैकहेतुर्विद्या [विद्ययामृतमश्नुते - इति श्रुतिरप्यत्रार्थयितव्या |] च श्रीविद्या नात्र संशयः || इति || श्रुतिरपि- अश्रुतासः श्रुतासश्च | यज्वानो येऽप्ययज्वनः | स्वर्यन्तो नापेक्षन्ते | इन्द्रमग्निं च ये विदुः | सिकता इव संयन्ति | रश्मिभस्समुदीरिताः | अस्माल्लोकादमुष्माच्च | ऋषिभिरदात् पृश्निभिः || इति तैत्तिरीयारण्यके | उपासनाधिकारस्य स्वान्तःकरणैकवेद्यन्वम् एतादृशभक्तिभूमिकाऽधिकारः स्वान्तःकरणैकवेद्यः न परेषां प्रत्यक्षः न वा दशाविशेषेण वा वयोविशेषेण वा अनुमातुं शक्यः तेषां व्यभिचारस्य दर्शनात् प्रह्लादध्रुवादीनां बाल्य एव ईदृशभूमिकाप्राप्तिदर्शनात् | क्वचिद्धेत्वाभासेनानुमितिः | सा प्रमाऽपि भवितुमर्हति कदाचित् | यथा आगस्त्यसंहितायां विरूपाक्षं प्रति तत्कन्याप्रश्ने ब्राह्मणवाक्यम्- अयि पुण्यनिधे पुत्रि प्राक्तनैः पुण्यसंचयैः | त्रिवर्षाऽपि समारूढा भक्तिभूमिं सुदुर्लभाम् | गौरीबीजं जगद्बीजं मत्तः प्राप्नुहि सुव्रते || प्. १४) इत्यनुमित्यैव कन्यकाभूमिज्ञानात् | मन्थानभैरवतन्त्रेऽपि अनुमानं कर्तव्यमिति विधिरस्ति- एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् | भक्तियुक्तान् गुणांश्चापि क्रमाद्वर्णे ससंकरे | पश्चादुक्तक्रमेणैव वदेद्विद्यामनन्यधीः || इति ||
SK
तथाऽप्यनुमितेः विसंवादिप्रवृत्तेः कदाचित्संभवात् दीक्षाग्रहणे यः प्रवर्तते सः स्वाधिकारं सम्यग्विचार्यैव प्रवृत्तिं कुर्यात् | अन्यथा अनधिकारी सन् यदि प्रवर्तेत तर्हिं शूद्रेण वेदाध्ययने कृते यत्फलं तदेव अस्यापि स्यात् अनधिकार्यनुष्ठितत्वस्य तुल्यत्वात् | अतोऽधिकारं स्वचेतसा विचार्य निरुक्तभूमिकामारोढुं यो योग्यः स एव ब्राह्मणः [अत्र स्त्रियो वैश्यास्तथा शूद्रास्तेपि यान्ति परां गतिम् || किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा-इति गीतार्थोऽप्यन्वेति-९ अ- ३१-३२ श्लो.] क्षत्रियः वैश्यः शूद्रः संकरजातीयः स्त्री यो वा को वा संसारे न निर्विण्णः न चासक्तः जितेन्द्रियः स एव अधिकारी न श्रुतिपथगलितः अधिकारी इति सिद्धम् || कल्पसूत्रस्य वैदिकैर्व्याख्येयत्वम् अत एव श्रीशंकरभगवत्पादानां तन्त्रानुसारिप्रपञ्च [अयं तन्त्रग्रन्थः श्रीशङ्करभगवत्पादेभ्यः श्रीपरदेवतया स्वप्ने समुपदिष्टः संप्रेक्ष्यश्च तान्त्रिकैरवश्यम्] सारनामकनिबन्धनिर्माणमपि साधु संगच्छते | न च वेदपथगलितोपरि यथा कृपया शिवेन तन्त्राणि निर्मितानि तथा तदुपरि कृपयैव भगवत्पादैः निर्मितमिति वक्तुं शक्यते नेदं साधकमिति वाच्यम् | भगवत्पादानां वैदिक एव पक्षपातो न तदन्यस्मिन् | तथाऽसति बुद्धादिशास्त्रानुसार्यपि निबन्धरचनं स्यात् | किं च स्वकृतमानसपूजायाम्- मन्त्रांस्तान्त्रिवैदिकान् परिपठन् सानन्दमत्यादरात् | स्नानं ते परिकल्पयामि जननि स्नेहात् त्वमङ्गीकुरु || इति श्लोके तान्त्रिकवैदिकयोः समुच्चयलेखनेन तान्त्रिकत्वं वैदिकत्वमविरुद्धं तदभिप्रेतं सुस्पष्टम् | तस्मात् वैदिकैः इदं व्याख्येयं कल्पसूत्रम् || तन्त्रानुष्ठानस्य कलिवर्ज्यत्वशंकानिरासः ननु ब्राह्मणानां भवतु तन्त्रे अधिकारः तथाऽपि न कलियुगे | तदुक्तं ब्राह्मे कलिवर्ज्यगणनावसरे- मन्त्रादीक्षा च सर्वेषां कमण्डलुविधारणम् | महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे || प्. १५)
SK
इत्येतेषां कलियुगे वर्ज्यत्वश्रवणात् पूर्ववचनानि सर्वाणि कृतादिपरत्वेनोपसंहार्याणि | न च निषेधस्य प्राप्तिमुजीव्यैव प्रवृत्तेः पूर्ववचनैः प्राप्तौ अनेन निषेधे तुल्यबलत्वेन न तौ पशौ करोति इति दाशमिकचरमपादन्यायतुल्यत्वेन विकल्प एव किं न स्यात् इति वाच्यम् | यदि निषेधो भवेत् तर्हि विकल्पो भवेत् | नायं निषेधः | किंतु यजतिषु ये यजामहे करोति नानुयाजेषु इतिवत् | दीक्षां कुर्वीत मतिमान् इति वचनं कलौ मन्त्रदीक्षा न कर्तव्या इति वचनं तयोरेकवाक्यतायां क्रियमाणायां कलिभिन्ने कर्तव्यमिति पर्युदाससंभवेन विकल्पानवकाशात् इति चेत् मैवम् | ब्राह्मे भूरिपुस्तकेषु मन्त्रदीक्षा च सर्वेषाम् - इति नोपलभ्यते | अतोऽल्पपुस्तकेषु उपलभ्यमान ईदृशपाठोऽप्रामाणिक एव | यदि च प्रामाणिक इत्याग्रहः तथापि - लैङ्गे कलावाराधनं [एतावत्प्रमाणजालेन विप्रादीनामपि-कलावपि तान्त्रकर्मोपदिश्यते-स्मर्यते च |] शंभोरागमेनैव नान्यथा || इति || श्रीमद्भागवते कलियुगे तन्त्रेणैव पूजा कर्तव्या इति वचनं पूर्वत्रैवोदाहृतम् | कलौ युगे महादेवि ब्राह्मणाद्यैः सुपूजिता | इति रहस्यार्णववचनम् एवं रुद्रयामलादिबहुतन्त्रेषु कलौ कर्तव्यत्वोपलब्धेः - बहुवचनानुसारेण ब्राह्मपुराणस्थवचनं कलावतिसावधानेन इन्द्रियादीन् जित्वा कर्तव्यतां प्रतिपादयति | अत एव ब्राह्मवचनावसाने कलौ न कर्तव्यं इति नोक्तम् | किंतु इमानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः निवर्तितानि इति निवृत्तेः फलं लोकोपकार उक्तः | उपकारश्चेत्थम् | यः कश्चन जितेन्द्रियः इमे धर्माः अवश्यं कर्तव्याः इति शास्त्रे भारं निक्षिप्य प्रवृत्तश्चेत् अन्योऽपि रागान्धो रागं पुरस्कृत्य प्रवृत्तश्चेत् पतेदेवेति तदनुग्रहायैव त्यागः | [न] नैकादश्यां भोजनं कार्यं इतिवन्निषेधपरः | इममेवार्थं श्रीशिवः तन्त्रेषु प्रकटितवान्-परमानन्दतन्त्रे
SK
असिधाराव्रतसमो मनोनिग्रहहेतुकः | स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः | अन्यस्य विफलो दुःखहेतुः स्यात् परमेश्वरि || इति || त्रिपुरार्णवेऽपि इतो मद्यमितो मांसं भक्ष्यमुच्चावचं तथा | तरुण्यश्चारुवेषाढ्या मदारुणविलोचनाः | तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् | भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि || इति || तस्मात् कलियुगेऽपि संयतेन्द्रियाणां दीक्षायां न किमपि बाधकम् [एतावता च स्थिरचित्त एव तन्त्रोक्तकर्माधिकारीति ध्वन्यते |] || प्. १६) दीक्षायाः प्रथमसोपानत्वम् ननु दीक्षां व्याख्यास्यामः इत्यनुचितं यस्य व्याख्यानं प्रतिज्ञातं तस्यैवाग्रे कथनीयत्वेन दीक्षाभिन्नानां गणेशश्रीविद्योपास्त्यादीनां बहूनां कथनेन संदर्भविरोधात् इति चेत् - उच्यते | अत्र श्रीललिताभक्तिसाधनीभूतक्रियामात्रं अजहत्स्वार्थवृत्त्या अर्थः | अत्र दीक्षापदोच्चारणं च दीक्षायाः सर्वादित्वज्ञापनार्थम् | एतेन अदीक्षितेन उपास्तिर्न कार्येति तदभिप्रायः | अत एव परमानन्दतन्त्रे मुक्तिसौधस्य सोपानं प्रथमं दीक्षणं भवेत् || इति || अत एव हिरण्यकेशिसूत्रव्याख्याने - यज्ञं व्याख्यास्यामः इत्यत्र एतादृशानुपपत्त्यैव यज्ञशब्दे अजहत्स्वार्था वृत्तिरङ्गीकृता वैजयन्तीकृता || १ || त्रैपुरसिद्धान्तस्य परमशिवकर्तृकत्वम् तत्र दीक्षायां तदङ्गत्वेन त्रैपुरसिद्धान्तं श्रावयेदित्यस्ति | तत्र को नाम त्रैपुरसिद्धान्तः ? तस्य कुतः प्रामाण्यं ? इत्याकाङ्क्षायां तत्रादौ तादृशसिद्धान्तस्य शिवोदितत्वेन प्रामाण्यं इति वक्तुं भूमिकां रचयति-
SK
भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः [एतत्सूत्राधस्तनभाष्ये अष्टादशविद्यासर्वदर्शनपञ्चाम्नायानां संक्षेपतो दर्शनमस्ति |] सर्वाणि दर्शनानि लीलया तत्तदवस्थाऽपन्नः प्रणीय संविन्मय्या भगवत्या भैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान् [इमे आम्नायाः कुतः सम्भूताः किं प्रयोजनाः-इत्याद्यर्थं-द्विपरिशिष्टवि ४ दृश्यः |] परमार्थ [साररूपान्- ब.] सारभूतान् प्रणनाय || २ || अत्र प्रतिपादितविद्यासु अप्रामाण्यशङ्कास्पर्शोऽपि मा भवतु इत्येतदर्थं भगवानिति | ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः | ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः || इत्येतादृशषड्गुणैश्वर्यसंपन्नो भगवान् | ननु परमशिवः तत्त्वातीतः तस्य विद्याकर्तृत्वं न संभवति उपाधिशून्यत्वात् इत्यत आह-भट्टारक इति | राजेत्यर्थः राजा भट्टारको देवः इति कोशात् | जगदीश्वरत्वरूपधर्मवान् मायोपाधिकः इति तदर्थः | यद्वा - भट्टारको जगद्रूपनाट्यरञ्जकः भट्टारकशब्दस्य प्रसन्नराघवनाटके नाट्यरञ्जके रे भट्टारक इति संबोधनात् राजा भट्टारकः इत्यस्य नाट्यवर्गस्थत्वाच्च | तस्य यथा जगत्कर्तृत्वं तथा विद्याकर्तृत्वमपि संभवत्येव | यद्वा - ईश्वरस्य परमशिवस्य पूर्णत्वेन कर्तव्यवस्तुनोऽभावात् कथं प्. १७)
SK
विद्याकर्तृवं ? अत आह-भट्टारक इति | राजेत्यर्थः | यथा राज्ञः स्वस्य अनपेक्षितेऽपि परेषां हिताय कृतिर्दृश्यते तद्वत् | श्रुत्याद्यष्टादशविद्याः- श्रुतिः आदिः यासामिति तद्गुणसंविज्ञानबहुव्रीहिः | तथा च श्रुतयः चत्वारि तदङ्गानि शिक्षा व्याकरणं कल्पः छन्दः ज्योतिषं निरुक्तं चेति षट् मीमांसा न्यायः पुराणं धर्मशास्त्रं इति चतुर्दशविद्याः | आयुर्वेदः धनुर्वेदः गान्धर्वं नीतिशास्त्रं चेति चतस्रः | एवमष्टादशविद्याः | सर्वाणि दर्शनाति शाक्तदर्शनादीनि | दृश्यते अनेनेति दर्शनं ज्ञानसाधनं शास्त्रमित्यर्थः शक्तिदर्शनशास्त्रमिति यावत् | एवमेवाग्रेऽपि | शैवदर्शनं वैष्णवदर्शनं ब्राह्मदर्शनं सौरदर्शनं बौद्धदर्शनं चेति षड् (?) दर्शनानि | लीलया अनायासेन तत्तदवस्थाऽपन्नः ईश्वरावस्थाऽपन्नो वेदान् पाणिनिव्यासादिस्वरूपान् गृहीत्वा व्याकरणपुराणादीनि प्रणीय निर्माय || वेदस्य [अत्र भगवतो वेदस्यापौरुषेयपौरुषेयत्वयोः - द्विपरिशिष्टवि.-५ दृश्यः |] पौरुषेयत्वसमर्थनम् ननु वेदस्य नित्यत्वेन अपौरुषेयत्वात् ईश्वरनिर्मितत्वं कथम् ? न च तस्य नित्यत्वमेव असिद्धमिति शङ्क्यम् वाचा विरूपनित्यया इति श्रुतेरिति चेत् - न | वेदास्तु ईश्वरेण निर्मिताः छन्दाṁसि जज्ञिरे तस्मात् इति श्रुतेः अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् | आदिकर्ता [कविः सा-अ] शिवः साक्षाच्छूलपाणिर्महेश्वरः ||
SK
इति स्मृतेः | वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानस्यापि प्रमाणत्वात् | अत एव ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् इति श्रुतौ ईशानत्वं कर्तृत्वरूपमेव | न च तस्य पौरुषेयत्वे पुरुषदोषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवानां संभवात् अप्रामाण्यशङ्काऽस्पदत्वं स्यादिति वाच्यम् ईश्वरे दोषसाधनानामविद्याऽदीनामभावेन दोषासंभवात् | एतेन तन्त्राणामपि नित्यत्वं प्रत्युक्तम् | वाचा विरूपनित्यया इत्यत्र नित्यत्वं दोषवत्पुरुषाप्रणीतत्वरूपं गौणं कल्प्यं उक्तप्रमाणकलापानुरोधेन | न च वैपरीत्ये किं विनिगमकमिति वाच्यम् भूयोऽनुग्रहस्य न्याय्यत्वात् | तस्मात् सर्वा अपि विद्याः पुरुषप्रणीता एव || तन्त्रप्रणयने प्रयोजनविशेषः ननु अष्टादशसु विद्यासु सतीषु पुनराम्नायप्रणयनं व्यर्थमत आह- संविन्मय्येति | अयमभिप्रायः - पुरुषार्थः सुखं तच्च नैसर्गिकं कृत्रिमं चेति | नैसर्गिकं मोक्षरूपम् | कृत्रिमं यस्तृतीयपुरुषार्थः कामः इत्युच्यते | उभयोः साधनं धर्मः | तस्यापि साधनमर्थः | एवं साक्षात् परंपरया वा पुरुषैरभिलषणीया अर्थाश्चत्वारः | तत्र कृत्रिमपुरुषार्थसाधनान्येव अष्टादशविद्याभिः प्राकट्येन प्रतिपादितानि | अकृत्रिमपुरुषार्थो यः तत्साधनं अकृत्रिमं प्. १८) स्पष्टं न प्रतिपादितम् | कृत्रिमोपदेशश्चाकिंचित्करो लोकानामिति जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुराम्नायविद्यां प्रणिनाय | यद्वा- निखिलवेदार्थानभिज्ञानां तत्रानधिकारिणां च मुक्त्युपायं निखिलवेदसारामाम्नायविद्यां [एतदर्थं द्विपरिशिष्टवि.-४ दृश्यः |] प्रणिनाय | तत्रापि संवित् अपरिच्छिन्नं चैतन्यं प्रकाश इति यावत् तन्मय्या तदभिन्नया | एतेन विमर्शांशेन स्वात्मानं पृच्छतीत्यर्थः सिद्धः | तदुक्तं रत्नत्रयपरीक्षायामप्पयदीक्षितैः-
SK
नित्यं निर्दोषगन्धं निरतिशयसुखं ब्रह्मचैतन्यमेकं धर्मो धर्मीति भेदद्वयमिति च पृथग्भूय मायावशेन | धर्मस्तत्रानुभूतिस्सकलविषयिणी सर्वकार्यानुकूला शक्तिश्चेच्छाऽदिरूपा भवति गुणगणश्चाश्रयस्त्वेक एव || इति || ननु जीवानां अस्मदादीनामपि संविन्मयत्वं अस्त्येवेवि श्रीभैरव्या जीवेभ्यः को विशेषः इत्यतः आह भगवत्येति विशेषणम् | भगवच्छब्दार्थश्च व्याख्यातः पूर्वम् | तथा च जीवादिवदाणवादिमलैरावृतज्ञाना सती न पृच्छति किंतु सर्वज्ञाऽपि केनचिदभिप्रायेण गूढेन पृच्छतीति भगवच्छब्दो ज्ञापयति | तथा हि- शिवः प्रकाशरूपः स्वयमेव विमर्शो भूत्वा प्रश्नमवतारयति | तत्र प्रयोजनमिदं - विद्वान् समर्थोऽपि पुस्तकवाचनादिना संपन्नज्ञानो न कृतार्थो भवितुमर्हति किं तु गुरूपदिष्टमार्गेणैवेति ज्ञापयितुं स्वस्वरूपान्तरं गृहीत्वा प्रश्नः | तदुक्तं स्वच्छन्दतन्त्रे- गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः | प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् || इति ||
SK
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् इत्येवकारोऽपि श्रुतौ अमुमेवार्थमाह | इममेवार्थं द्योतयितुं भगवत्या स्वात्माभिन्नयेति विशेषणद्वयम् | भैरव्या - भैरवीशब्दार्थश्च जगतो भरणाद्रमणात् प्रलये परमशिवकुक्षिस्थितस्य सृष्टिसमये वमनाच्च [अत्र श्रीललितासहस्रनाम - १२६ - श्लोकगतमहाप्रलयसाक्षिणी- इत्यन्यतन्त्रादिस्थादीनि च बहुप्रमाणानि सन्ति |] भैरवीति ज्ञेयम् | तया पृष्टःप्रश्नमवतारितः | इदं पूर्ववर्तिपरमशिवभट्टारक इत्यस्यैव विशेषणम् | पञ्चभिः मुखैः सद्योजातवामदेव-अघोर-तत्पुरुष- ईशानसंज्ञकैः पञ्चाम्नायान् पूर्वाम्नाय-दक्षिणाम्नाय- पश्चिमाम्नायोत्तराम्नायोर्ध्वाम्नायनामकान् [एतत्पञ्चाम्नायनामार्थोपयोगीयज्ञानाय-द्विपरिशिष्टवि.-४-दृश्यः |] | आम्नायशब्दो वेदे यद्यपि मुख्यः श्रुतिः स्त्री वेद आम्नायः इति कोशात् | तथाऽपि आम्नायसारप्रतिपादकत्वात् [अर्थात्तन्त्राणां वैदिकविषयमर्मोद्घाटनादाम्नाय प्रतिपादकत्वं मोक्षप्रदत्वं च सिध्यत्येव |] अत्रापि आम्नायशब्दः उपचर्यते | एतेन प्. १९) केषांचित् तन्त्राणि वेदवत् स्वतन्त्रप्रमाणानीति मतमपास्तम् | परमार्थः अकृत्रिमस्तुरीयपुरुषार्थः तस्मिन् सारभूतान् [साररूपान्-ब.] अभ्यर्हितान् | एतेन पुरुषस्य विशेषेण अभिलषणीयत्वं अतिगोप्यत्वं च सूचितम् | निखिलवेदार्थं ग्रहीतुं अशक्तान् प्रति कृपया शिवः तत्सारभूतमर्थं गृहीत्वा पञ्चाम्नायान् प्रणिनाय निर्ममे || २ || त्रैपुरसिद्धान्तप्रतिपादनम् तत्राप्यक्षमान् मन्दतरान् प्रति परमकृपालुः श्रीपरशुरामः तत्रत्यानर्थान् संगृह्य वक्तुं प्रक्रमते- तत्रायं सिद्धान्तः || ३ || तत्र पञ्चाम्नायेषु अयं वक्ष्यमाणः सिद्धान्तः विचार्यवादजनितनिर्णयविषयोऽर्थः || एतदन्तेन ग्रन्थेन वक्ष्यमाणसिद्धान्तार्थस्य [नाम-उपरितन २- सूत्रभाष्यान्तग्रन्थेन-एवमर्थः |] स्वकपोलकल्पितत्वप्रयुक्ताप्रामाण्यशङ्का निरस्ता ||
SK
अयं भावः-यस्मिन् काले इदं विश्वं परशिवकुक्षिस्थं सूक्ष्मरूपेण तिष्ठति स एव प्रलयः | ईदृशप्रलयश्च शास्त्रैकवेद्यः | एवमेव सृष्टिरपि | तत्र प्रलयो नाम परब्रह्मणः केवलनिजस्वरूपेण अवस्थानं जीवस्य सुषुप्ताविव | तदानीं जीवराशिः तददृष्टं पञ्चभूतानि सर्वाणि वटबीजे वटवृक्ष इव सूक्ष्मरूपेण तिष्ठन्ति | तदुक्तं शक्तिसूत्रभाष्ये-परमशिवो जगत् कबलयन्नपि न सार्वात्म्येन अपि त्वंशेन संस्कारात्मना तत् स्थापयति इति | स एव संस्कारः ईश्वरसिसृक्षायां सहकारिभूतः अन्यथा वैषम्यनैर्घृण्यापत्तेरनिवारणात् | एवं स्थिते लोके दम्पत्योः सामरस्ये विधिबिलस्थितशुक्लबिन्दोरंशः योनिं प्रविश्य रक्तबिन्दुना सह एकीभावं प्राप्नोति यदा तदा बाह्याभ्यन्तर [भाव-ब.] भानविहीनं केवलं ब्रह्मैव भासते | तस्य गर्भोत्पादकत्वं दृष्टम् | तथा सृष्टिप्राक्काले शिवशक्त्योर्योगोऽपि प्राण्यदृष्टवशात् भवति || ३ || षट्त्रिंशत्तत्वानि [तेषां प्रत्येकेषां स्फोटार्थश्चाधस्तात् एतत्तत्सूत्रभाष्यान्तावधि दृश्यः |] तदेव प्रपञ्चयितुं तत्त्वजालं व्यष्टुमुपक्रमते- षट्त्रिंशत्तत्त्वानि विश्वम् || ४ || तदित्थं-केवलनिजरूपेण अवस्थितस्य यदा बहु स्यां प्रजायेय इति इच्छाज्ञानक्रियाऽत्मिकाः शक्तयः ताभिर्योगे क्रमेण अर्थशब्दसृष्टी अङ्कुरच्छायावत् युगपद्भवतः | प्. २०) ननु इच्छाज्ञानक्रियाशक्तीनां सादित्वेन अनित्यत्वापत्तिरिति चेत्-इष्टापत्तिः | तत्त्रितयकारणीभूता सूक्ष्मरूपा शान्तानाम्नी तस्या एव परशिवरूपाया नित्यत्वात् | तथा च तादृशसिसृक्षारूपोपाधिविशिष्टः परमशिव एव केवलशिवपदवाच्यो भवति | स एव तत्त्वानां मध्ये आदिमः | सा पूर्वोदिता सिसृक्षा प्रपञ्चवासनारूपा शक्तिरिति द्वितीयं तत्त्वम् | तदुक्तं रत्नत्रयपरीक्षायाम्-
SK
कर्तृत्वं तत्र धर्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये धर्मः पुंरूपमाद्यात् [अत्र-प्रथमलिखितं-वि-इत्यक्षरमिवाभाति |] सकलजगदुपादानभावं बिभर्ति | स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्रयस्यादिकर्तुः प्रोक्तौ धर्मप्रभेदावपि निगमविदां धर्मिवद्ब्रह्मकोटी || इति || पूर्वोक्ततादृशजगतः अहन्तया यद्दर्शनं तदहमिति तादृशस्पष्टवृत्तिमान् सदाशिवपदवाच्यः तृतीयं तत्त्वन् | इदं जगदिति केवलं भेदविषयिणी या वृत्तिः तद्वान् ईश्वरपदवाच्यः तुरीयं तत्त्वम् | जगदहमेवेत्याकारिका या सदाशिवसंबन्धिनी वृत्तिः सा विद्यापदवाच्या पञ्चमं तत्त्वम् | इदं जगदित्याकारिका ईश्वरनिष्ठा भेदविषयिणी वृत्तिः मायापदवाच्या षष्ठं तत्त्वम् | पूर्वोक्तविद्यातिरोधानशक्तिमती तद्विरोधिधी अविद्यापदवाच्या सप्तमं तत्त्वम् | जीवनिष्ठं सर्वकर्तृत्वं यत्किंचित्कर्तृत्वेन संकुचितं तदेव कलापदवाच्यं अष्टमं तत्त्वम् | पूर्वोक्तरीत्या जीवनिष्ठा या नित्यतृप्तिः सैव केषुचिद्विषयेषु अतृप्त्या संकुचिता रागपदवाच्या नवमं तत्त्वम् | जिवनिष्ठा या नित्यता तस्या आच्छादने सति सैव नित्यता अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षडभावयोगात् संकुचिता कालपदवाच्या दशमं तत्त्वम् | परशिवजीवयोः अभेदात् यथा परशिवे सर्वस्वातन्त्र्यं तथा जीवेऽप्यस्ति तस्य सर्वस्वातन्त्र्यस्य वि[अत्र-आद्या-इत्याद्यनेकपदानि पाठान्तरे पृथक्सन्त्यन्यत्र |](पि)धानं पूर्वोक्तविद्यया कृतं तदेव कारणान्तरापेक्षं यत्कारणमपेक्षते तन्नियतिपदवाच्यं एकादशं तत्त्वम् | एतादृशनियतिकालरागकलाऽविद्याऽश्रयो जीवः द्वादशं तत्त्वम् | सत्वरजस्तमोगुणानां साम्यरूपा प्रकृतिः चित्तापरपर्याया त्रयोदशं तत्त्वम् | यदा सत्वतमसी अभिभूय रजःप्रधानं तन्मनःपदवाच्यं संकल्पहेतुश्चतुर्दशं तत्त्वम् | प्. २१) रजस्तमसी अभिभूय सत्वप्रधानमन्तःकरणं तद्बुद्धिपदवाच्यं निश्चयहेतुः पञ्चदशं तत्त्वम् |
SK
यदा रजस्सत्वे अभिभूय तमःप्रधानमन्तःकरणं तदहंकारपदवाच्यं विकल्पकारणं षोडशं तत्त्वम् | शब्दग्राहकमिन्द्रियं श्रोत्रं सप्तदशं तत्त्वम् | स्पर्शग्राहकमिन्द्रियं त्वगष्टादशं तत्त्वम् | रूपग्राहकमिन्द्रियं चक्षुरेकोनविंशं तत्त्वम् | रसग्राहकमिन्द्रियं रसनं विंशं तत्त्वम् | गन्धग्राहकमिन्द्रियं घ्राणं एकविंशं तत्त्वम् | व्यक्तवागुच्चारणानुकूलवागिन्द्रियं द्वाविंशं तत्त्वम् | ग्रहणत्यागानुकूल मिन्द्रियं पाणिः त्रयोविंशं तत्त्वम् | गमनानुकूल मिन्द्रियं पादः चतुर्विंशं तत्त्वम् | मलविसर्गजनक मिन्द्रियं पायुः पञ्चविंशं तत्त्वम् | मैथुनजनकमिन्द्रियं उपस्थः षड्विंशं तत्त्वम् | सूक्ष्माकाशरूपः शब्दः सप्तविंशं तत्त्वम् | सूक्ष्मवायुरूपः स्पर्शः अष्टाविंशं तत्त्वम् | सूक्ष्मतेजोरूपं रूपं एकोनत्रिंशं तत्त्वम् | सूक्ष्मजलरूपो रसः त्रिंशं तत्त्वम् | सूक्ष्मपृथ्वीरूपो गन्धः एकत्रिंशं तत्त्वम् | अवकाशात्मकाकाशः स्थूलः द्वात्रिंशं तत्त्वम् | सदागतिमत्त्वात्मकगुणवान् वायुः त्रयस्त्रिंशं तत्त्वम् | उष्णत्ववत् तेजः चतुस्त्रिंशं तत्त्वम् | द्रवत्ववज्जलं पञ्चत्रिंशं तत्त्वम् | काठिन्यगुणवती पृथ्वी षट्त्रिंशं चरमं तत्त्वम् [अत्रग्रन्थे मूले भाष्ये च-३६-षट्त्रिंशत्तत्त्वानि सार्थानि निर्दिष्टानि |] | एतादृशतत्त्वसंघातो विश्वं जगदिति व्यवहारविषयाभिन्नम् | उक्तार्थे प्रमाणं परमानन्दतन्त्रे- यत्कठिन्यं तद्धरा स्याद्द्रवो वै जलमुच्यते | उष्णं तेजस्संचलनं वायुर्व्योमावकाशकम् || एतेषां सूक्ष्मरूपं तु अनुद्भिन्नविभागकम् [विभावकम्-ब.] | गन्धस्पर्शौ रूपरसौ शब्दस्तन्मात्रकाणि वै | प्. २२) पञ्चज्ञानेन्द्रियाण्येषां घ्राणं जिह्वा च लोचनम् | त्वक् श्रोत्रं चेति पञ्चानां ग्रहणव्यापृतानि वै || वचनादानगमनविसर्गानन्दपञ्चकम् | कर्मस्वधिष्ठानरूपमतस्तन्नपृथक्कृतम् || वाक्पाणिपादपायूपस्थाख्यं तत्करणं भवेत् | सर्वदेहगतं चापि स्फुटव्यक्तेरुदाहृतम् ||
SK
मनस्संकल्पकरणं बुद्धिर्निश्चयकारिणी | विकल्पप्रतिबिम्बानां भूमिर्दर्पणवच्छिवे || एतावदभिमानात्मा चाहंकार उदाहृतः | दुःखनिर्वृतिमोहाख्यरजस्सत्वतमोमयम् || अन्तःकरणमित्युक्तं तत्तदाधिक्यसंभवम् | कारणानां गुणानां तु साम्यं प्रकृतिरुच्यते || तद्भिन्नः पुरुषः प्रोक्तः पूर्णः संक्षिप्तशक्तिकः | चिदानन्दस्तथेच्छा च ज्ञानं तद्वत् क्रियाऽपि च || परिपूर्णाश्शक्तयस्तु संकोचात्तु कलादिकाः | सर्वकर्तृत्वरूपा वै क्रियाशक्तिः कलाऽभवत् || किंचित्कर्तृत्वरूपेण ज्ञानं सर्वज्ञता तथा | बुद्धिस्तत्प्रतिबिम्बानां [बुद्धित-ब.] वस्तूनामेव बोधकः [बोधतः-ब.] || संकोचनात्तु विद्याऽख्या सैवाविद्येति गीयते | इच्छा तु नित्यतृप्त्याख्या सैव संकोचशालिनी || रागः क्वचिदतृप्त्याख्या क्वचिद्रञ्जनरूपिणी | चिच्छक्तिर्नित्यसत्ताऽख्या कालः षड्भावयोगतः || आनन्दशक्तिस्स्वातन्त्र्यं सार्वत्रिकमुदीरितम् | अन्यापेक्षणहेतोस्तु संकोचान्नियतिः स्मृता || अखण्डरसमेतावदेतद्भेदननैपुणा | स्वतन्त्ररूपा त्वं देवि माय भैरववल्लभा || भेदनेन स्वरूपस्य गोपनात् तत्त्वरूपिणी | स्वरूपभेदनं हित्वा चैक्यावगमनोद्यता || प्. २३) परमार्थप्रथारूपा शुद्धविद्येति शब्दिता | स्पष्टभेदप्रथान् भावान् स्वाभेदेनावभासयन् || ईश्वरः कथितो देवि तान स्पष्टानहं [तान् अस्पष्टान्-इति पदच्छेदोऽत्र कार्यः |] त्विदम् | इति प्रबोधनात्मा तु सदाशिव इतीरितः || स्वस्वरूपाभेदमयानहमित्येव पश्यती || प्रपञ्चवासनारूपा शक्तिरित्यभिधीयते || निष्प्रपञ्चश्चिदेकात्मा शिवतत्त्वं समीरितम् || इति || एतेषां शिवादिक्षित्यन्तानां स्वरूपनिरूपणं मृगेन्द्रसंहितायां विस्तरेणास्ति विस्तरभयादत्र न लिखितं यावदुपयुक्तं तावदेव लिखितम् || तत्त्वसंख्यानिर्णयः
SK
ननु साङ्ख्यैः चतुर्विंशतितत्त्वानीति सिद्धान्तितं कथं षट्त्रिंशत्तत्त्वानि ? इति चेत् - उच्यते चतुर्विंशत्यतिरिक्तानि पुरुषादिशिवान्तानि द्वादश तत्त्वानि न सन्ति प्रमाणाभावादिति तवोक्तिः उत चतुर्विंशतितत्त्वेषु अन्तर्भूतानीति | नाद्यः श्रीभगवतः परशुरामस्य उक्तेरेव प्रमाणत्वात् षट्त्रिंशत्तत्त्वप्रासादभूनाथाय नमो नमः इति स्कान्दे श्रुतत्वात् षट्त्रिंशद्विधमेतद्वै तत्त्वचक्रं समीरितम् इति परमानन्दतन्त्रे श्रुतत्वाच्च | न द्वितीयः पुरुषादिशिवान्तानां पूर्वोक्तलक्षणरूपविरुद्धधर्मवतामन्तर्भावासंभवात् | न च चतुर्विंशतितत्त्वानि पुरुषस्तु ततः परः इति महाभारतवचनविरोधः इति वाच्यम् अग्रिमद्वादशतत्त्वानामतिकठिनवेद्यत्वेन मन्दमतीनां प्रकृत्यन्तसुगमवेद्यतत्त्वानामेव कथनीयतया तत्रैव विश्रामात् एवं च अधिकारिभेदेन वचनद्वयस्यापि प्रामाण्यात् | एतेन - सर्वत्र पञ्च भूतानि षष्ठं किंचिन्न विद्यते इति वासिष्ठवचनमाश्रित्य पञ्चैव तत्त्वानीति वदन् परास्तः तस्य अत्यन्तमन्दमतिपरत्वात् || ननु विरुद्धधर्मवत्त्वं यदि तत्त्वविभागे प्रयोजकं तर्हि घटत्वपटत्वरूपविरुद्धधर्मवतोः घटपटयोरपि तत्त्वान्तरत्वापत्तिः इति चेत् - न | किं षट्त्रिंशत्तत्त्वातिरिक्तत्वमापाद्यते ? अथवा घटरूपतत्त्वापेक्षया पटतत्त्वमतिरिक्तं स्यादित्यापाद्यते ? नाद्यः यः क्षितेरसाधारणो धर्मः काठिन्यं तेन साकं घटत्वपटत्वयोः विरोधाभावेन तदतिरिक्तत्वासिद्धेः | द्वितीये तु इष्टापत्तिरेव | एष एवार्थः उक्तः सूतसंहितायां तत्त्वलक्षणकथनपूर्वम्- आप्रलयं यत्तिष्ठति सर्वेषां भोगदायि भूतानाम् | तत्तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः || इति || एतेन इयमाशङ्का सुतरां पराहता || प्. २४)
SK
यद्यपि तन्त्रान्तरे प्रथमं त्रीप्येव तत्त्वानि - आत्मतत्त्वं विद्यातत्त्वं शिवतत्त्वं चेति | तत्र आत्मतत्त्वं चतुर्विंशतिधा क्षित्यादिप्रकृत्यन्तम् | तद्साधारणो धर्मः केवलजडत्वम् | पुरुषमारभ्य मायाऽन्तं विद्यातत्त्वं सप्तधा | तल्लक्षणं च जडत्वप्रकाशकत्वोभयवत्त्वम् | तथाहि - यथा अयःपिण्डे वह्नितादात्म्यापन्ने जडेऽपि प्रकाशकत्वं अयःपिण्डे जडत्वं च वह्नितादात्म्यानापन्नत्वदशायां स्पष्टम् | एवं वह्नौ अयःपिण्डतादात्म्यापन्नत्वदशायां जडत्वं प्रकाशकत्वं च स्पष्टम् | तथा पुरुषे प्रकाशरूपे तत्तादात्म्यापन्नेषु जडेषु नियत्यादिषु प्रकाशकत्वं पुरुषे च जडत्वम् | नियत्यादिषु जडत्वं पुरुषे प्रकाशकत्वं च स्पष्टम् | एवंरीत्या विद्यातत्त्वस्य मिश्रत्वम् | शुद्धविद्याऽदिशिवान्तं शिवतत्त्वं पञ्चधा | तदसाधारणो धर्मः केवलप्रकाशकत्वमित्यवान्तरविभागः कृतः | तथाऽपि तत्राप्युपसंहारवेलायां षट्त्रिंशद्विधमेवं वै तत्त्वचक्रं महेश्वरि || इति यो धर्मः उक्तः स एव अत्राप्युक्तः इति न तेन साकं विरोधः || वस्तुतस्तु भागवते एकादशस्कन्धे द्वाविंशेऽध्याये कति तत्त्वानि विश्वेश संख्यातान्यृषिभिः प्रभो | केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् || सप्तैके नव षट् चैके........... इत्यारभ्य उद्धवप्रश्ने स्वमते अष्टाविंशतितत्त्वानि प्रतिपाद्य श्रीभगवान् सप्तादिविरुद्धसंख्यावादिनां मतानामुपपत्तिं कृत्वा इति नानाप्रसंख्यानं तत्त्वानामृषिभिः कृतम् | सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् [एतावता नैको मुनिर्यस्य वचः प्रमाणमिति मुनिवचसामप्रमाणतावादिनो दुरर्थकर्तारो दूरं यापिता इति मार्मिकम् तादृशाश्च गुहाशब्दतथ्यार्थेऽपि भ्रमन्त्येव सांप्रतिकाः केचित् |] || इत्युवाच | इदमेवात्र समाधानं द्रष्टव्यम् || ४ || जीवेश्वरस्वरूपम् एवं तत्त्वानां विभागमुक्त्वा जीवेश्वरस्वरूपं वक्तुमारभते- शरीरकञ्चुकितः [कंचुकितो जी-अ.] शिवो जीवो निष्कञ्चुकः [निर्ष्कचुकः शिवः- अ.] परशिवः ||
SK
एवं षट्त्रिंशत्तत्त्वानामपि सामान्यरूपेण पुनर्द्विस्वभावत्वं - केषुचित् केवलदृश्यत्वं केषुचित् केवलद्रष्टृत्वमेव | आद्यं जडेषु द्वितीयं केवलमिति || प्. २५) ननु जीवस्य तत्त्वान्तःपतित्वात् परशिवस्यातथात्वात् द्वयोर्भेद आयातः | एवं सति कथमद्वैतसिद्धान्तः तान्त्रिकाणाम् ? अत आह - शरीरेति | अयं भावः - सर्वस्वतन्तः परशिवः स्वस्य मायया दुर्घटया स्वनिष्ठं यदन्यानपेक्षत्वरूपं पूर्णं स्वातन्त्र्यं तदाच्छादयति | ततस्तिरोहितं यत्स्वातन्त्र्यं परिमितं स्वातन्त्र्यं तदाणवमलमुच्यते | आणवमलमेव अविद्येत्यप्युच्यते || ननु पूर्णस्वातन्त्र्यं स्वीयं स्वयमेव कथामाच्छादयति इति चेत् - उच्यते | यथा सूर्यः स्वमयूखैरेव सृष्टैः मेघैः स्वयमावृतो भवति एवमेव स्वाविद्यया स्वस्यावरणे वाधकाभावात् | तथा च औपाधिको भेदो न वास्तवः | तथा च नाद्वैतहानिः इति भावः || ननु अपरिच्छिन्नचित्स्वरूपपरशिवः कथं परिच्छिन्नेन आणवमलेन तिरोहित इति चेत् - इत्थम् | मायायाः सामर्थ्यमनिर्वचनीयम् | अतो न तत्र अघटितघटनायामपि कथंभावशङ्का अस्ति | अत एवोक्तम्- दुर्घटैकविधायिन्यां मायायां किमसंभवि || इति || सुभगोदयेऽपि- मायाविभिन्नबुद्धिर्निजांशभूतेषु निखिलभूतेषु | नित्यं तस्या निरङ्कुशविभवं वेलेव वारिधिं रुन्धे || इति || एवमाणवेन मलेन छन्नः तदा स्वयमणुर्देहपरिमितः सन् अन्यान् देहपरिमितान् अनन्तान् जीवान् स्वभिन्नत्वेन पश्यति | तन्मायिकं मलम् | एवं भेदप्रथारूपमायिकमलेन मलिना शुभाशुभकर्म अनुतिष्ठन्तः तज्जनितसंस्कारवन्तो भवन्ति | तदेतत् कार्मं मलम् | एतादृशत्रिविधमलं शरीरपदेनोच्यते | तद्रूपं यत् कञ्चुकम् आच्छादनं तेन आवृतः शिव एव जीवः | तदुक्तं परमार्थसारे- परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् || इति || सुभगोदयेऽपि-
SK
स तया परिमितमूर्तिस्संकोचितसमस्तशक्तिरेष पुमान् | रविरिव सन्ध्यारक्तस्संहृतरश्मिस्स्वभासनेऽप्यपटुः इति || प्. २६) यद्वा - शरीरं त्रिविधं स्थूलं सूक्ष्मं परं चेति | आद्यं ध्यानश्लोकप्रतिपादितम् | द्वितीयं मन्त्ररूपम् | तृतीयं वासनाऽत्मकम् | एतैः शरीरैः कञ्चुकितः शिवः आद्यतत्त्वं सोऽपि जीव एवेत्यर्थः | तस्मिन्नेव जीवत्वमस्ति का कथा अन्येष्विति भावः | एतेन शिवस्वरूपलाभोऽपि न परमपुरुषार्थ इति ध्वनितम् || एतादृशजीवाः त्रिविधाः - शुद्धाः अशुद्धाः मिश्राश्च इति | आद्याः शिवादिसदाशिवान्ताः तेषाम् अज्ञानाभावात् | अशुद्धाः मनुष्यादयः | मिश्राः वसिष्ठादयः | एतादृशकञ्चुकरहितो यः स तत्त्वातीतः परशिवः इत्यर्थः || ५ || पुरुषार्थस्वरूपम् एवं जीवेश्वरयोः स्वरूपमुक्त्वा कः पुरुषार्थः इति तं निर्दिशति- स्वविमर्शः पुरुषार्थः || ६ || स्वस्य परशिवस्वरूपस्य विमर्शः प्रत्यभिज्ञानं सोऽहमित्याकारकं- यथा कण्ठस्थं चामीकरं विस्मृत्य तदन्वेषणाय देशाद्देशं धावन् केनचित् उद्बुद्धसंस्कारः कण्ठस्थं पश्यति तथा विस्मृतस्वरूपज्ञानस्य पुनर्लाभः-पुरुषार्थः अकृत्रिमः इत्यर्थः | एतादृशपुरुषार्थलाभश्च न भगवत्कृपामृते भविष्यति | तदुक्तं भगवता श्रीकृष्णेन- मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || इति || अ. ७-१४ भगवत्प्रीतिश्च भगवदाराधनेनैव भवति | अतो भगवदाराधनं परंपरया मोक्षसाधनम् || ६ || मन्त्रगुणवर्णनम् ननु योगादिनाऽपि [आदिशब्देन वेदान्तन्यायसांख्यमीमांसावैशेषिकादीनि ज्ञेयानि |] ईदृशपुरुषार्थलाभो भवतीति शास्त्रं बहूपलभ्यते [अर्थात्- मोक्षरूपपुरुषार्थप्रतिपादकतत्तच्छास्त्रोक्तकर्माणि सप्रमाणानि भूयांसि भवन्तीत्यर्थः |] | किमुपासनाया आवश्यकत्वं वर्ण्यते इति चेत्- अस्त्युपासनाया आवश्यकता | योगादिभिः लभ्यमोक्षस्तु न पुनरावृत्तिरहितः | तदुक्तं स्वच्छन्दसंग्रहे-
SK
मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः | बद्धः संसरते भूयो यावद्देवं न विन्दति || इति || एवं स्थलान्तरेपि- सांख्ययोगादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे | सृजत्येव पुनस्तेन न सदृङ्मुक्तिरीदृशी || इति || प्. २७) अतः उपासनाया एव मुख्योपायत्वे सिद्धे उपासनायां जपस्यापि सत्त्वात् तत्र मुख्यसाधनं मन्त्र [इतःसप्तमाष्टनवमसूत्रैर्भगवान् राम उपासनाहृदयीभूततत्तद्देवतामन्त्रावश्यकत्वगौरवमवतारयतीत्य- वधेयम् |] इति तत्र उपासकस्य श्रद्धोत्पत्तये तद्वृत्तिगुणान् वर्णयति- वर्णात्मका नित्याः शब्दाः || ७ || वर्णात्मकाः वर्णसमुदायरूपाः शब्दाः मन्त्राः नित्याः- मूलाविद्यासमसत्ताकाः इत्यर्थः | न तु कालत्रयाबाध्यत्वं अज्ञाननिवृत्तौ स्वस्वरूपातिरिक्तदेवतायाः तद्वाचकमन्त्राणां च असत्त्वात् | न च आनुपूर्वीविशेषविशिष्टवेदादीनां नित्यत्वस्य एककल्परथायित्वरय वर्णितत्वेन अस्यापि तादृशत्वेन कथं ततोऽपि चिरस्थायित्वरूपं नित्यत्वम् इति वाच्यम् मन्त्राणां देवतासूक्ष्मशरीररूपत्वेन देवताशरीरस्य अविद्यासमकालत्वात् || ७ || अथवा- सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः | इति स्कान्दात् मन्त्राणामपि सादित्वेन नाविद्यासमकालिकत्वं तस्या अनादित्वात् | अत एव इतरसाधारणगुणत्वेन नानेति स्तुतिः संभवतीति अपरितोषेण मन्त्राणामसाधारणं गुणान्तरमाह- मन्त्राणामचिन्त्यशक्तिता || ८ || मन्त्राणामिति षष्ठी सप्तम्यर्थे मन्त्रेष्वित्यर्थः | न चिन्त्या अचिन्त्या शक्तिर्यत्र ते-अचिन्त्यशक्तयः मन्त्राः तेषां भावः तत्ता अस्तीति शेषः | शक्तौ अचिन्त्यत्वं च तर्काविषयत्वम् | एतेन पूर्वोदितमाया अतर्क्या दुर्वारा तथाऽपि तन्निवारण समर्था ततोऽपि अधिकशक्तिका मन्त्रेषु लीलया ज्ञानावरकाविद्यानिवर्तकत्वशक्तिरस्तीति प्रतिपादितम् || ८ || मन्त्रसिद्धौ सहकारिकारणानि मन्त्रेण ईप्सितकार्ये जननीये सहकारिकारणान्याह- संप्रदायविश्वासाभ्यां सर्वसिद्धिः || ९ ||
SK
संप्रदायः गुरुपरंपराऽचारानुसरणम् | विश्वासो मन्त्रेषु फलसाधनत्वविषयको निश्चयः | आभ्यां सहितमन्त्रेण सर्वसिद्धिः भवतीति शेषः | यद्यपि लोके एकेन दण्डेन एकव्यापारेण घट एव भवति न पटः | एवं तुरीवेमादिना पट एव न घट इति | एवं सर्वकारणेषु लोके नियतैककार्यजनकत्वं दृष्टम् | तथाऽपि मन्त्रेषु न तथा एक एव मन्त्रः यद्यदीप्सितं तत्सर्वं जनयति इति ज्ञापयितुं सर्वपदम् | एतेन श्रोतृप्रवृत्तये मन्त्रवर्तिगुणोऽपि प्रतिपादितो भवति || ९ || प्. २८) ननु कथं लोकविरुद्धार्थकमिदं वाक्यं प्रमाणं भवितुमर्हति इत्यत आह- विश्वासभूयिष्ठं प्रामाण्यम् || १० || प्रामाण्यं संवादिप्रवृत्तिजनकतद्वतितत्प्रकारकज्ञानजनकत्वम् | सर्वसिद्धिरिति पूर्वोक्तवाक्यनिष्ठं विश्वासभूयिष्ठम् | अत्र विश्वासपदार्थश्च वाक्यप्रयोक्तरि आप्तत्वनिश्चयः | बहुशब्दात् अतिशयार्थे इष्ठन् प्रत्ययः | तत्र-पाणिनिसूत्रं अतिशायने तमबिष्ठनौ अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः इति तदर्थः | एवं स्वार्थे इष्ठनि जाते इष्ठस्य इति बहोः परस्य इष्ठस्य लोपः स्यात् | बहोर्लोपो भू च बहोः इति इडागमो भूरादेशश्च इति तदर्थः | एवं भूरादेशे इडागमे च भूयिष्ठशब्देन अत्यन्तबहुत्वविशिष्टः पुरुषार्थः | पुरुषे विश्वासभूयिष्ठत्वं च स्वोत्तरोत्पन्नत्वस्वविषयविषयकत्वसंबन्धेन विश्वासविशिष्टशङ्काऽनधिकरणत्वं तदाश्रयपुरुषेण सममभेदान्वयस्य बाधितत्वात् | भूयिष्ठपदस्य भूयिष्ठाश्रयज्ञानविषये लक्षणा | तस्य प्रामाण्ये अभेदान्वयः | अत्यन्तविश्वासवत्पुरुषैकवेद्यं एतच्छास्त्रप्रामाण्यमित्यर्थः | कुतर्कशालिनां शास्त्रप्रामाण्यं सर्वथा अगम्यमिति भावः | तदुक्तं भट्टपादैः- शास्त्रैकगम्या ये ह्यर्था न तांस्तर्केण दूषयेत् || इति ||
SK
केचित्तु-विश्वासस्य भूयिष्ठं बाहुल्यं यत्रेति बहुव्रीहिमाहुः | तच्चिन्त्यम् | भूयिष्ठपदस्य पाणिन्यनुशासनेन पुरुषपरत्वेन बाहुल्यरूपधर्मपरत्वायोगात् | यदि च धर्मे लक्षणा तदा मदाश्रितलक्षणापक्ष एव श्रेष्ठः | न सः | तथा सति बाहुल्ये एकत्र लक्षणायामपि धर्मस्यापि प्रामाण्येन समं अभेदान्वयासंभवात् बहुव्रीहौ अन्यपदार्थे लक्षणा वाच्याबाहुल्यसंबन्धिप्रामाण्यमिति | संबन्धश्च स्वाश्रयवृत्तिज्ञानवेद्यत्वमेव वक्तव्यम् | तथा च मन्मततुल्यम् | एतदंशे धर्मे लक्षणाधिक्यं क्लिष्टव्यधिकरणबहुव्रीह्याश्रयणं च | तस्मादिदमेव व्याख्यानं वरम् || ईदृशमेव श्रद्धाभूयस्त्वमिति सुस्पष्टमुवाच श्रीस्कन्द :- अगस्त्य किं बहूक्तेन शृणु मे निश्चितं वचः | संशयो नात्र कर्तव्यः सन्दिग्धाद्धि फलं न हि || यावन्ति मर्त्ये तन्त्राणि मन्त्रजालान्यनेकशः | सहकार्यन्तरमाह- गुरुमन्त्रदेवताऽत्ममनःपवनानाम् ऐक्यनिष्फालनादन्तरात्मवित्तिः || ११ || प्. २९) गुर्वादयः स्पष्टाः | पवनाः पञ्चप्राणाः | एतेषाम् ऐक्यनिष्फालनं भावनया एकत्वसंपादनम् तेन अन्तरात्मनः प्रत्यगात्मनः वित्तिः वेदनं भवतीति शेषः आत्मनो देवतायाश्च ऐक्यमुपाधिनिरासे स्पष्टम् | देवताया मन्त्रस्य चैक्यं वाच्यवाचकभावापन्नत्वेन | तथा गुरोरपि | मनःपवनयोरैक्यं विष्णुपुराणे दर्शितम्- नभस्वान्मनसो नातिभिन्नोऽतस्तन्निरोधनात् मनो निश्चलतामेति || इति || यद्यपि ईदृशनिश्चयः उपासनावेलायां न भवितुमर्हति तथापि आहार्यं क्षणमात्रं कार्यमिदमुपासनायामङ्गम् || जपरूपोपास्तिफलम् यद्वा - संप्रदायविश्वाससहितमन्त्रकरणकोपास्तेः फलमाह - गुरुमन्त्रेति | ऐक्यनिष्फालनं ऐक्यनिर्णयः तद्वारा प्रत्यगात्मज्ञानं भवतीति विशिष्टार्थः ||
SK
उमानन्दनाथास्तु - गुरुमन्त्रेत्यस्य आरंभोल्लासे गुरुमन्त्रदेवताऽत्मनामैक्यभावनम् - एकं साधनं मनःपवनयोः एकयत्ननिरोद्धव्यत्वज्ञानं चापरं द्वाभ्यां कार्यसिद्धिः इति व्याचक्रुः | तच्चिन्त्यम् | निष्फालनादित्येकक्रियाया एकोऽर्थ्ॐ भावनारूपः एकयत्ननिरोद्धव्यत्वज्ञानरूपो वा बुध्येत नानेकः शकृदुच्चरितश्शब्दः सकृदेवार्थं गमयति इति न्यायात् | अन्यथा हरिपदात् चतुर्दशानामप्यर्थानां युगपद्बोधप्रसङ्गात् | किंच- द्वन्द्वघटकीभूतपदार्थानां यदि भिन्नक्रिययाऽन्वयः तदा भिक्षामट गां चानय इतिवत् अन्वाचय एव स्यात् क्रियाभेदे अन्वाचयः इति तल्लक्षणात् | एकक्रियायां युगपदन्वयित्वं हि द्वन्द्वलक्षणं तन्निर्वाहस्तु सर्वथा कर्तुमशक्यः तन्मते | न च - धवखदिरौ छिन्धि पश्य इति प्रयोगो न स्यात् इति वाच्यम् ईदृशप्रयोगोऽप्रामाणिक एव इति सर्वैर्व्यवस्थापितत्वात् || ११ || अर्चनरूपोपास्तिविधिः एतावत्पर्यन्तं मन्त्रस्तुत्या तत्सहकारिकारणकथनेन च मन्त्रकरणकक्रियातद्विधिरुन्नेयः | तथा च तादृशी जपरूपैव | एवं जपरूपोपास्तिं निरूप्य पूजारूपामुपास्तिं हि विधत्ते- आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाः पञ्च मकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः || १२ || यथा चिद्रूपं ब्रह्म एवम् आनन्दरूपमपि विज्ञानमानन्दं ब्रह्म इति श्रुतेः | यथा चिद्रूपमावृतमज्ञानेन न जानाति एवमानन्दस्वरूपमपि दुःखेनावृतं न जानाति | यदा कदाचित् भारादिरूपदुःखापगमे ब्रह्मण एव परिच्छिन्नं रूपं शरीरावच्छेदेन संप्रत्यपि प्. ३०) जानाति तादृशानन्दः परिच्छिन्नो देहे देहावच्छेदेन व्यवस्थितः | तस्य अभिव्यञ्जकाः तद्विषयकसाक्षात्कारजनकाः पञ्चमकाराः | एतदन्तेन विधीयमानद्रव्यस्तुतिः अनुष्ठातृप्रवृत्तये यत ईदृशाः श्रेष्ठाः पञ्च मकाराः अतः तैरर्चनं गुप्त्या अप्राकट्येन कुर्वीतेति शेषः | गुप्तिद्रव्योभयविशिष्टार्चनरूपं कर्म अनेन विधीयते ||
SK
ननु विशिष्टकर्मविधौ कर्मण एव स्तुतिरपेक्षिता विधेयस्यैव स्तुत्यत्वनियमादिति चेत् - न विशिष्टविधौ विशेषणविधेराक्षिप्तत्वेन अस्यार्थवादस्य तच्छेषत्वसंभवात् यथा वायव्यं श्वेतमालभेत इत्यत्र देवताविशिष्टकर्मविधावपि वायुर्वै क्षेपिष्ठा इत्यनेन देवतास्तुतिः तद्वत् | कर्मणि गुप्तिश्च पशुवृत्तिज्ञानविषयतासामान्यज्ञानशून्यत्वम् | अस्य विशिष्टविधिरूपत्वात् गुप्तिः क्रत्वर्था | तस्यैव प्राकट्यान्निरयः इति निन्दारूपा स्तुतिः | यथा - यद् ग्राम्याणां पशूनां चर्मणा संभरेद् ग्राम्यान् पशूञ्छुचाऽर्पयेत् इति निन्दारूपः सन् कृष्णाजिनेन संभरति इति स्तुतिशेषः तथा तेन दैवात् प्राकट्ये क्रत्वङ्गलोपजनितं प्रायश्चित्तं न नरकनिरासाय अन्यत् प्रायश्चित्तम् || प्राकट्यात् गुप्तिविपरीतात् | हेतौ पञ्चमी | निरयः निरकः इत्यर्थः || श्रीभासुरानन्दनाथपादास्तु - दीक्षाऽन्तरवतां स्वधर्मप्रकटने क्रतुवैगुण्यमात्रं इह तु तद्वैगुण्ये नरक एव तथा च भगवान् परशुरामः प्राकट्यान्निरयः इत्यूचुः | तन्मते वाक्यभेदः प्रकृतहान्यप्रकृतपुरुषार्थत्वकल्पनादिदोषपरिहारोपायमल्पमतिरहं न जाने || १२ || उपासकधर्माः - भावनादार्ढ्यम् एवमुपासनामुक्त्वा उपासकधर्मान् प्राह- भावनादार्ढ्यादाज्ञासिद्धिः || १३ || अहमिदं जानामि इत्येतादृशवृत्तिषु इदं पदार्थापेक्षया अहंतया भासमानं श्रेष्ठमिति विवेचनम् - सर्ववृत्तिषु इदमेव भावनापदार्थः | तस्य दार्ढ्यं अशिथिलता | अनेन आज्ञासिद्धिः निग्रहानुग्रहसामर्थ्यं भवतीति शेषः | भावनादार्ढ्यस्तुत्या सर्वदा ईदृशभावनाविधिरुन्नेयः || १३ || सर्वदर्शना[नानिन्दनम्-अ | इतो भगवतस्तान्त्रिकशासनगौरवं मननीयतरम् |]निन्दा उपासकस्य नियमान्तरमाह- प्. ३१ सर्वदर्शनानिन्दा || १४ ||
SK
इतरदेवतोपासनाविधायकानि यानि दर्शनानि शास्त्राणि तेषां निन्दा न कर्तव्येत्यर्थः | तन्निन्दने तदधिकारिणां संशयोत्पत्त्या स्वालम्बितदर्शनेष्वनाश्वासः | अस्मिन् शास्त्रे अनधिकारात् उभयभ्रष्टः छिन्नाभ्रमिव नश्येत् | इममेवार्थं श्रीकृष्णोऽप्याह- न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् || इति || लोकान्न निन्द्यात् इतिश्रुतिरपि || ननु परेषां बुद्धिभ्रंशजनितप्रत्यवायाभावोऽस्य फलमिति सिद्धम् | अयं पुरुषार्थः | कथम् उपासकधर्माणां क्रतुसाद्गुण्यजनकानां मध्ये पाठ इति चेत्-उच्यते | अयमपि उपासनाजन्यसर्वात्मभावे उपयुज्यते | कथम् ? इति चेत् इत्थं - यदि छिन्नाभ्रवत् परेषां नाशे स्वस्योपेक्षा तदैव निन्दायां प्रवृत्तिः | तथा च परनाशे उपेक्षायां आत्मवत् सर्वभूतदर्शनं नागतं इति सर्वात्मतायाः असिद्ध्या उपासनाजन्मफलासिद्धिः | प्रयाजादिषु क्रत्वर्थत्वम् | इदमेव क्रतुसाध्यापूर्वसाधकत्वम् | प्रकृते उक्तरीत्या क्रत्वर्थत्वं सिद्धमिति न कोऽपि दोषः || १४ || कस्यापगणनम् तृतीयं धर्ममाह- अगणनं कस्यापि || १५ || स्वशास्त्रविरुद्धं यदि गीर्वाणगुरुर्वदेत्तर्हि स गुरुरिति गणनं न क्रर्तव्यम् | अत एव श्रुतिरपि - न गणयेत् कमपि इति || १५ || सच्छिष्ये रहस्यकथनम् चतुर्थमाह- सच्छिष्ये रहस्यकथनम् || १६ || कर्तव्यमिति शेषः | परिसंख्याविधिरयम् | आत्मरहस्यं न वदेत् इति निषेधस्यापवादोऽयं न तु गुप्त्यार्चनम् इत्यस्यापवादः तथा सति शिष्यातिरिक्तेषु सामयिकेषु पूजाप्राकट्यानापत्तेः | अतः इदमात्मरस्यं स्वसिद्धान्तरूपं सामायिकेषु शिष्यभिन्नेषु न कथयेत् | सच्छिष्ये कथयेदित्यर्थः | शिष्ये सत्त्वं प्रतिपादितं तन्त्रराजे- प्. ३२) सुन्दरः सुमुखः स्वच्छः श्रद्धावान् सुस्थिराशयः | अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः || आस्तिको दृढभक्तिश्च गुरौ मन्त्रेऽथ दैवते | एवंविधो भवेच्छिष्यः इतरो दुःखकृद्गुरोः || इति || आत्मपुराणेऽपि
SK
ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ | गोपाय मां सदैव त्वं कुलजामिव योषितम् || इत्यारभ्य- एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा | एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते || इति || असत्त्वलक्षणानि शिष्यदोषाः कुलार्णवात् विस्तरेण ज्ञेयाः [अनर्हशिष्यलक्षणज्ञानाय द्वि० परिशिष्टे ६ वि. दृश्यः |] || १६ || सदा विद्याऽनुसंधानम् पञ्चमं धर्ममाह- सदा विद्याऽनुसंहतिः || १७ || सदा सर्वकालं पूजादिविहितनित्यकर्मानुष्ठानकालव्यतिरिक्ते सर्वदेत्यर्थः | विद्यायाः स्वोपास्यदेवतावाचकमन्त्रस्य अनुसंहतिः तत्प्रतिपादितार्थस्य अनुसंधानं कर्तव्यमिति शेषः | यद्वा - सदा अनुसंहतिः मनसा जपः कार्यः इत्यर्थः | न च आसनादिनियमरहितस्य जपो युक्तः इति शङ्कनीयम् मानसे कस्यापि नियमस्याभावात् | तदुक्तं परमानन्दतन्त्रे- मानसेऽनन्तगुणितं नियमस्तत्र नैव तु | गच्छन् शयान आसीनो भुक्तो वा यत्र कुत्रचित् | अस्नातश्चापवित्रश्च न दोषस्तत्र विद्यते || बृहद्वामकेश्वरतन्त्रेऽपि- सर्वकालं जपेद्विद्यां मनसा यस्तु केवलम् | नियतो वाप्यनियतोऽप्यथ कुर्वंश्च नित्यकम् | तथाऽपि तस्य शुद्धस्य तरसा संप्रसीदति || इति || प्. ३३) यदि सदापदस्य संकोचो न स्यात्तर्हि नित्यकर्मानुष्ठानलोपापत्तिः | अतः सर्वे हार्योजनं लिप्सन्ति इत्यत्रेव संकोच आवश्यकः || १७ || सततं शिवतासमावेशः षष्ठं धर्ममाह- सततं शिवतासमावेशः || १८ || सततम् अस्याप्यर्थः पूर्वसूत्रस्थसदाशब्दवत् | शिवतायाः समावेशः आविर्भावः कर्तव्य इति शेषः | नित्यकर्मानुष्ठानव्यतिरिक्तकाले शिवोऽहमस्मीति भावयेत् इति तात्पर्यम् ||
SK
वस्तुतस्तु-पूर्वधर्मेण सहायं विकल्प्यते अन्यथा उभयोर्भावनयोः युगपत्संपादनासंभवात् | पूजाऽदिव्यतिरिक्तकाले अन्यतरस्यानुष्ठानमितिभावः [अर्थादन्तःस्थमात्मानं पूजनाय मूर्त्यादौ बहिरपि संभाव्य संपूज्यानन्तरं स एवाहं देवः आत्मा वेति वेदान्तसिद्धान्ताविरुद्धभावनाविर्भावोस्तु भक्तानामिति तात्पर्यम् | ] || यद्वा - पूर्वधर्मो मन्दाधिकारिणः अयं मुख्याधिकारिणः || १८ || कामादीनां वर्जनम् सप्तममाह- कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविद्विष्टवर्जनम् [लोकविरुद्धस्त्रीविद्वि-अ] || १९ || कामः वैषयिकी इच्छा इदं मे भूयात् इत्याकारिका | क्रोधः तमस उद्रेकेण जनितोऽसौ अन्तःकरणधर्मः | लोभः द्रव्यादिनिष्ठस्वत्वत्यागप्रतिबन्धकोऽत्यन्तमनुरागविशेषः | मोहः कार्याकार्याविचारणम् मदः गर्वः | मात्सर्यं द्वेषजनितो गुणिनि दोषारोपः | अविहितहिंसा रागेण भक्षणार्थं पश्वादिवधः | स्तेयं पराननुमत्या परद्रव्यहरणम् | लोकविद्विष्टं मातृबुद्ध्याऽपि एकान्ते परस्त्रीसंलापादि | एतेषां वर्जनं त्यागः कर्तव्य इति शेषः || १९ || एकगुरूपास्तिः अष्टमं धर्ममाह- एकगुरूपास्तिरसंशयः [एतत्सूत्रभाष्यसमाप्त्यवधि- एकगुरूकरणाद्युपदेशोऽस्ति |] || २० || प्. ३४) न विद्यते संशयो यत्रेति विग्रहेण असंशयः इत्येकगुरूपास्तिविशेषणम् | भिन्नलिङ्गत्वमार्षम् || अयं भावः - अनेकगुरूपास्तौ पूर्वगुरूक्तविरूद्धं यदि वदेत् तर्हि संशयो भवेदेव | एकगुरूपास्तौ न संशयो भवेत् | अतः एकगुरूपास्तिः कार्येति भावः | गुरूपास्तेः शंप्रदायविश्वासाभ्याम् इति पूर्वसूत्रेणैव प्राप्तौ पुनर्विधानम् एकं गुरुमाश्रित्य न गुर्वन्तरमाश्रयेत् इति इतरगुर्वाश्रयनिवृत्तिफलकेयं परिसंख्या || एकगुरूपास्तिविध्यर्थविचारः
SK
ननु-न परिसंख्याऽश्रयणं युक्तं दोषत्रयापत्तेः [अत्रोक्तपरिसंख्यायामुक्तं लौगाक्षिभास्करप्रणीतार्थसंग्रहे १५ पन्ने परिसङ्ख्याविवेचनायां यथा श्रुतार्थस्य परित्यागादश्रुतार्थप्रकल्पनात् || प्राप्तस्य बाधादित्येवं परिसङ्ख्या त्रिदूषणा | अत्रैतच्छ्लोकार्थोपि सुखावगम्यः |] | किं तु उपास्यगुरुमनूद्यैकत्वमात्रं विधीयते इतरनिवृत्तिस्तु अङ्गलोपभिया एकत्वस्य अङ्गत्वेन इतरगुरूपास्तौ तल्लोपापत्तेः | न च गुरूद्वयाद्याश्रयणेऽपि प्रत्येकं गुरुषु प्रत्येकमेकत्वमस्तीति कथमङ्गलोपः इति वाच्यम् एकत्वं हि न संख्यारूपं विधीयते तस्य वस्तुमात्रसाधारण्येन अव्यावर्तकत्वात् किंतु सजातीयद्वितीयरहितत्वं गुर्वन्तराश्रयणे तल्लोपस्त्वनिवार्यः | अतो न गुर्वन्तराश्रयणमिति एकत्वविधिरेव श्रेष्ठः इति चेत्- आस्तां वा एकत्वविधिः | इममेवार्थं श्रीशिवः तन्त्रेषु भङ्ग्यन्तरेण प्रकटितवान् | रुद्रयामले- न देयं परशिष्येभो देयं शिष्येभ्य एव च || इति || कुलार्णवे- लब्ध्वा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् || योगिनीतन्त्रेऽपि- न देयं परशिष्येभ्यो नास्तिकाय कुलेश्वरि || इति || उपनिषद्यपि - गुरुरेकः इति | क्वचिच्छिष्यधर्मे इममेवार्थं प्राह | क्वचिद्गुरुधर्मे परशिष्याय न वदेत् इति भङ्ग्यन्तरेण | द्वयोः एकगुरूपास्तिरूपफले एव पर्यवसानं भवति | अयमभिप्राय एषां वचनानां प्रतिभाति - पूर्वोक्तरुद्रयामलकुलार्णवयोगिनीतन्त्रेषु स्वसंशयच्छेत्तरि गुरौ सतीत्यध्याहार्यम् | अन्यथा- प्. ३५) मधुलुब्धो यथा भृङ्ग पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || इति || तन्त्रान्तरे शक्तिरहस्येऽपि-कौलिके गुरवोऽनन्ताः इति वचनानां निरवकाशताऽपत्तेः | एतेन पूर्वगुरुः असर्वज्ञः स्वसंशयच्छेदनेऽसमर्थः यद्वा समर्थः स्वस्य संशयमच्छित्त्वा मृतः तादृशशिष्यः मधुलुब्धः इति वचनानुसारेण गुर्वन्तरमाश्रयेत् | तत्राप्यल्पज्ञेऽपि गुरौ जीवति तदनुमत्या गृह्णीयादन्योक्तम् | तदप्युक्तं कुलार्णवे-
SK
मन्त्रागमादि चान्यत्र श्रुतं नाथे निवेदयेत् || गुर्वाज्ञया तद्गृह्णीयात् तदनिष्टं विवर्जयेत् || इति || गुरावल्पतातारतम्यं निर्णेतुं स्वयमसमर्थश्चेत् यं परिगृह्णाति तन्मार्गत्यागो न कार्यः | तादृशनिर्णयसमर्थश्चेत् तस्मिन् सोपपत्तिकमर्थं रहसि संबोध्य तदनुमत्या यथाशास्त्रमर्थं गृह्णीयात् | यदि जीवन्नपि गुरुः असूयाऽदिना नानुजानाति तमुल्लंघ्य शास्त्रीयं सप्रमाणं मार्गमनुसरेत् | तदुक्तं स्पष्टं त्रिपुरारहस्ये- गुरूक्तं शास्त्रसंशुद्धं समालोच्य धिया बुधः | कुर्वीतोपासनं सम्यगन्यथा परिहीयते || इति || एतेऽर्थाः सर्वेऽपि मधुलुब्धः इति वचनेन ज्ञापिताः | एकगुरूपास्तिः इत्यस्य सूत्रस्य अस्मिन्नेवार्थे तात्पर्यमुक्तयुक्तिगणवशाद्वर्णनीयम् || ये च श्रीभास्कररायाणाम् अन्यायो न्यायः इति कौलोपनिषच्छ्रुतिभाष्ये गुरुसंप्रदायः असाधुश्चेदपि ग्राह्यः इति लेखनाभिप्रायं वर्णयन्ति ते तदभिप्रायतत्त्वं न विदुः | कोऽयमभिप्रायः इति चेत् - उच्यते | कौलिकाचारमध्ये स्वसिद्धान्तविरुद्धं यद्याचरेत् स्वगुरुः अन्यश्च कौलिको दयापरवशः सन् बोधयेच्चेत् गुरौ निवेद्य जीवति गृह्णीयात् | यदि वावदूंकोऽन्यः कौलमार्गं दूषयितुं प्रवृत्तः स्यात् स्वयं तत्खण्डेन अपटुरपि तत्र प्रामाण्यबुद्धिं न त्यजेत् | अत एव कौलिकाचारं [न ?] दूषयेत् इत्येव लिखितम् | एवं गुरौ स्वस्य किंचिज्ज्ञत्वसंशयो नास्ति किंतु बहुतन्त्रवेत्तृत्वं निश्चितं चिरवासेन | स च न जीवति | तदाचारविरुद्धं यदि तन्त्रे क्वचिदुपलब्धं वचनं तदा आचारस्य दुर्बलत्वात् तन्मूलभूतप्रमाणोपलब्धिपर्यन्तं तस्याननुष्ठानरूपमप्रामाण्यं श्रौतस्मार्तानुष्ठाने पूर्वमीमांसानुसारेण | कौलिके तु पूर्वोक्तनिश्चयदशायां शास्त्रविरुद्धोऽप्यनुष्ठेय एवेति विशेषः | न तु गुरौ मन्दमतित्वनिश्चये | तथा ईदृशोऽभिप्रायः तत्रैव सद्गुरुसंप्रदायैकलभ्यत्वेन इत्यत्र गुरौ प्. ३६)
SK
सत्त्वविशेषणेन ज्ञापितः | इदं तत्त्वं-गुरौ असर्वज्ञत्वानुमापको हेतुः प्रभूतशास्त्रविरुद्धाचारवत्त्वं सर्वज्ञत्वानुमापकश्च सर्वांशेन शास्त्रानुमतत्वे सति तद्विरुद्धक्वाचित्कत्वम् || ननु सुन्दरः सुमुखः स्वच्छः सुलक्षो [सुलभः-इति क्वचित् |] बहुतन्त्रवित् इति कादिमते गुरुलक्षणस्योक्तत्वात् बहुशः तन्त्रविरुद्धानुष्ठातारं कथं गुरुं शिष्यः कुर्यात् | न हि सेवार्थं वत्सरोषितस्य विदुषः अज्ञानं संभवति | कथमीदृशमुदाहरणं संभवद्युक्तिकमिति चेत् - न पूर्वमज्ञतादशायां केवलश्रद्धोद्रेकेण दीक्षितस्य तादृशगुरुं स्वीकृतवतः पश्चादध्ययनादिसंपादित ज्ञानस्य पूर्वोक्तहेतुना अनुमानसंभवात् | तादृशेन पूर्वाचारः त्याज्य एव | यद्युत्पथं दैवात् प्रतिपन्नः तदा सद्गुरोरपि संप्रदाय उत्पथप्रतित्त्युत्तरकालीनः त्याज्य एव अशास्त्रीयत्वनिर्णयात् | इत्यलं पल्लवितेन || अमृतानन्दनाथास्तु - योगिनीतन्त्रव्याख्याने न देयं परशिष्येभ्णः इत्यस्य ये विद्याऽन्तरेषु पारंपर्यक्रमेण अधिगताशेषरहस्याशेषपरमार्थाः संप्राप्तपूर्णाभिषेकाश्च ते परशिष्याः तेभ्यो न देयम् | कुलार्णववचनं चैतत्परम् | एतद्भिन्नेषु देयं मधुलुब्धो यथा भृङ्गः इति वचनात् | ईदृशव्यवस्थायां मानं च पूर्णाभिषेककर्ता यो गुरुः तस्यैव पादुकेत्याहुः ||
SK
तन्न | पूर्णाभिषेककर्तरि गुरुत्वस्यैव ज्ञापकमिदं वचनम् | तर्हि तस्यैव पादुका इति भागो व्यर्थः | यदि गुरुत्वं गुरुपादुकामन्त्रे तन्नाम च विधीयते तदा यो दीक्षाकर्ता स गुरुः इत्येकं तस्य नाम पादुकायां योज्यम्-इत्यपरं वाक्यम् | तथा च वाक्यभेदः स इत्यस्य अध्याहारः गुरुत्वमात्रविधौ वचनान्तरेण गुरुनामपादुकामन्त्रे योज्यमित्यनेनैव सिद्धौ शेषवैय्यर्थ्यं दुर्वारं च | तस्मात् मधुलुब्धः इति वचनेन नानागुरुषु सिद्धेषु पादुकामन्त्रे सर्वेषां नाम्नां पक्षे प्राप्तौ नियामकमिदम् | तथा सति न परसमीहितसिद्धिः | प्रत्युत अनेन वचनेन नानागुरुप्राप्तिरेव ज्ञाप्यते | तस्मात् अस्मदुक्ता सरणिरेव साधीयसी || दृश्यते चाधुनिकानां शास्त्रविरुद्धानामाचाराणां प्रामाण्यं पूर्वमीमांसाविदामपि यथा आन्ध्राणां मातुलकन्यापरिणयः | तथा द्राविडसुवासिनीषु कञ्चुकधारणाभावः स कञ्चुकयतिं दृष्ट्वा अकञ्चुकसुवासिनीम् | सकेशां विधवां दृष्ट्वा सचेलस्नानमाचरेत् || इत्याङ्गिरसवचनविरुद्धः | अतो न किंचिद्बाधकम् || प्. ३७)
SK
यदि केवलं गुरौ विश्वसेच्चेत् तर्हि स तिष्ठन्नेव मूत्रपुरीषोत्सर्गं कुर्यात् चेत् तदा स्वस्यापि करणापत्तिः | यदि च बहुतन्त्रविदुषि कचिद्वचनं तद्विरुद्धं दृष्ट्वा तदाचारे अप्रामाण्यग्रहः स किं तावदंशे स्वीक्रियते उत सर्वांशे | नाद्यः लोके क्वचिच्चैत्रादावज्ञाताप्रामाण्यग्रहाचारे कदाचिदप्रामाण्यग्रहे सर्वत्र अप्रामाण्यशङ्कया न विश्वसन्तीति दृष्टं लोके | तद्वदत्रापि सकृद्व्यभिचारे सर्वत्र शङ्कया अननुष्ठानापत्तिः | सा च शङ्का सर्वत्र मूलदर्शनमन्तरा नापैति | सर्वत्र मूलशोधनार्थे उद्युक्तश्चेत् तत्र संप्रदायानुसरणविधिः व्यर्थः स्यात् | न च यत्र पक्षद्वयरूपो विकल्पः तत्र स्वगुरुसंप्रदायाचरणविधिः सार्थकः स्यात् इति वाच्यम् एवमधिकारिभेदेन यदि पक्षद्वयं व्यवस्थितं तदा तन्त्रशास्त्रे विकल्पविषयत्वं सर्वथा न स्यात् | यथा विशेषार्घ्यपात्राधारे त्रिपदं चतुष्पदम् अपदं वेति पक्षास्तत्र गुरुणा त्रिपदमेवानुष्ठितं तथैव शिष्येणाप्यनुष्ठितम् | कदाचित् त्रिपदं गतं - चतुष्पदं लब्धं तेन अनुष्ठानं स्यात् गुरुणा अननुष्ठितत्वात् | विकल्पस्य उद्भेद एवं न स्यात् | एकपुरुषकर्तृके कर्मणि प्रयोगभेयेन पक्षद्वयसमावेश एव हि विकल्पः || किंच - गुरुवाक्ये विश्वासविधिर्व्यर्थः | शङ्कानिवृत्त्यर्थे मूलान्वेषणार्थमुद्युक्तस्य कथं किमिति गुरुवाक्ये अतिविश्वासः | तस्मात् गुरोर्योग्यतामनुमाय [अत्रोक्तगुरुः कीदृशश्चिकीर्षितस्तज्ज्ञानार्थं द्विपरिशिष्टे ६ वि. दृश्यः |] च सद्गुरुवाक्यं विश्वसेत् || उमानन्दनाथास्तु एकगुरूपास्तिः इतिवाक्यं समाप्य असंशयस्सर्वत्र इति योजयित्वा गुरुवाक्ये शास्त्रादौ सर्वत्र असंशयः इति व्याचक्रुः | तन्न संप्रदायविश्वासाभ्यां सर्वसिद्धिः विश्वासभूयिष्ठं प्रामाण्यम् इत्याभ्यामेव अस्यार्थस्य प्राप्तत्वेन पुनरुक्त्यापत्तेः || २० || सर्वत्र निष्परिग्रहता नवमं धर्ममाह- सर्वत्र निष्परिग्रहता || २१ ||
SK
सर्वत्र मपञ्चकादिषु निष्परिग्रहता निर्गतः परिग्रहः इच्छा यस्य सः निष्परिग्रहः तस्य भावः तत्ता पत्नीपरिजनादानमूलशापाः परिग्रहाः इत्यमरः | अत्रादानस्य परिग्रहस्य मूलम् - इच्छैव | एतादृशकोशानुसारेण परिग्रहशब्दः इच्छावाचकः | मपञ्चकं मे भूयात् इतीच्छया न स्वीकार्यमित्यर्थः | अयमेवार्थो भागवते स्पष्टं प्रतिपादितः- प्. ३८) यद् घ्राणभक्षोविहितस्सुरायास्तथा पशोरालभनं न हिंसा | एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् || ये त्वनेवंविदः पुंसःस्तब्धाः सदभिमानिनः | पशून् द्रुह्मन्ति विस्त्रब्धाः प्रेत्य खादन्ति ते च तान् || इति घ्राणभक्षः शास्त्रेण कथितं कर्तव्यमिति भक्षणम् आलभनं देवतोद्देशेन त्यागबुद्ध्या पश्वादिहननम् || यद्वा-सर्वत्र वस्तुमात्रे निष्परिग्रहता स्वीयबुद्धित्यागः संपादनीयः | सर्वत्र ममता त्याज्येति यावत् || यच्च नित्योत्सवनिबन्धे स्वभोगबुद्ध्या धनं न संपादनीयमित्यर्थकथनं तच्चतुर्थाध्याये द्रव्यार्जनं क्रत्वर्थमिति पूर्वपक्षीकृत्य द्रव्यार्जनं केवलपुरुषार्थ इति जैमिनिसिद्धान्तविरुद्धम् || २१ || फलत्यागपूर्वककर्म दशमं धर्ममाह- फलं त्यक्त्वा कर्मकरणम् || २२ || फलं पूर्वोक्तं कृत्रिमं तत्साधनं च धर्मार्थकामा इति यावत् | फलविषयिणी इच्छा फलपदस्यार्थः | तं त्यक्त्वा कर्मणः विहितस्य करणं भवतीति शेषः | काम्यं कर्म न कर्तव्यमित्यर्थः | काम्यं कर्म न कर्तव्यम् इति वक्तव्ये फलं त्यक्त्वा कर्तव्यमिति कथनात् काम्यानामपि कर्मणामीश्वरार्पणबुद्ध्या अनुष्ठानं कर्तव्यमिति ज्ञायते || ननु भगवद्गीतायां चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ || इति सकामोपासना भगवता प्रतिपादिता तद्विरोध इति चेत् - न चतुर्विधा भजन्तो मां इत्यनेन लोकस्वभावो दर्शितः | काम्यं कर्म न कर्तव्यम् - इति जगौ | अत एव
SK
यश्च कर्मफलत्यागी स त्यागीत्यभिधीयते || तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते || इति कामरहितकर्मणः स्तुतिः || २२ || प्. ३९) नित्यकर्मालोपः एकादशं धर्ममाह- अनित्यकर्मलोपः || २३ || नित्यं च तत्कर्म च नित्यकर्म स्नानसन्ध्यापूजाऽदि तस्य लोपः अननुष्ठानं नित्यकर्मलोपः न विद्यते नित्यकर्मलोपो यस्मिन्नुपासके सः अनित्यकर्मलोपः | भवेदिति शेषः | नित्यकर्म अवश्यं कर्तव्यमित्यर्थः | नित्यकर्म कर्तव्यमिति वक्तव्ये व्यतिरेकमुखेन कथनं त्यागे न केवलं क्रतुवैगुण्यं प्रत्यवायो निरयश्चेति ज्ञापयति || २३ || ननु नित्यकर्मसाधनीभूतमपञ्चकालाभे कथं कार्यमित्याशङ्कायामाह- मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः || २४ || मपञ्चकालाभे मुख्यं नास्तीति न कर्मलोपः | किं तु प्रतिनिधिनाऽपि नित्यक्रमः नित्यपूजा तस्याः प्रत्यवमृष्टिः अनुष्ठानं कर्तव्यमिति शेषः || ननु षष्ठाध्याये दर्शपूर्णमासे व्रीहीणामभावे कर्मलोप इति पूर्वपक्षं कृत्वा तेषां दृष्टपुरोडाशनिष्पत्तिफलकत्वेन नीवारैरपि तत्संभवात् नित्यकर्मणि व्रीहिनियमलोपेऽपि नित्यकर्मणः किंचिदङ्गलोपसहिष्णुत्वात् नित्यनैमित्तिके प्रतिनिधिनाऽपि कार्ये इति सिद्धान्तितम् | तादृश्यन्यायमूलकतया श्रौतस्मार्तकर्मसु प्रतिनिधिप्रचारोऽपि दृश्यते अत्रापि तादृशयुक्त्यैव प्रतिनिधिसिद्धौ वचनं व्यर्थमिति चेत्-
SK
न | नित्यवन्न्यायेन नैमित्तिकेऽपि प्राप्तौ तत्र प्रतिनिधिना नैमित्तिकक्रमनिर्वृत्तिर्मा भवतु एतदर्थकत्वात् | न चैवं सति अलाभे नित्यातिरिक्तं न कार्यमित्यायातम् | तथा सति श्रौतपरिसंख्यारूपत्वेन [अत्रैव खण्डेऽनुगत २० सूत्रभाष्ये टिप्पण्यां कारिका दृश्या |] स्वार्थत्यागः परार्थकल्पना प्राप्तबाधः इति दोषत्रयापत्तिः इति वाच्यम् तन्त्ररत्ने पार्थसारथिना अभ्युदयेष्ट्यधिकरणे त्रेधा तण्डुलान् विभजेत् इति वाक्यवैय्यर्थ्यभिया प्रत्युद्देशं वाक्यपरिसमाप्तिरूपो वाक्यभेदोऽङ्गीकृतः | किमु तादृशभीत्या दोषत्रयाङ्गीकारे | अत एव [विज्ञायैतावतैतद्भाष्यकृतः श्रीपूज्यपादपं. भास्कररायपादाः परमगुरव - इति |] अस्मत्परमगुरुभिः उत्तरचतुश्शतीसेतुबन्धे द्विशतोत्तरद्वितीयश्लोके नैमित्तिकप्रकरणे चक्रपूजां विशेषेण योगिनीनां समाचरेत् इति मूलस्थविशेषेणेतिपदस्य नित्यपूजामपेक्ष्य योगिनीवीराधिक्यभक्ष्यभोज्याद्याधिक्यादिनेति प्रथमं व्याख्याय तत्रापरितोषेण प्. ४०) विशेषद्रव्येण वेत्यर्थः | तेन नित्यपूजायां विशेषद्रयालाभेऽपि प्रतिनिधिना निर्वाहः सूचितः इति नित्यपूजायामेव अभ्यनुज्ञां नत्वन्यत्र इति व्याख्याय अस्मिन्नर्थे साधकत्वेन इदमेव वाक्यं दर्शितम् || २४ || सर्वत्र निर्भयता द्वादशं गुणमाह- निर्भयता सर्वत्र [सर्वतः-ब |] || २५ || सर्वत्र सर्वतः मपञ्चकस्वीकारे कौलमार्गावलम्बने च नरकादिप्रतिपादकानि यानि शास्त्राणि तेभ्यः सर्वेभ्यः निर्गतः भयं यस्मात् सः निर्भयः तस्य भावः तत्ता संपादनीयेति शेषः | तानि सर्वाणि शास्त्राणि रागिणं भीषयन्ति कामं भीषयन्तु अहन्तु न रागी किंतु शास्त्रेण प्रवर्तितो न मे भीतिरिति निर्धारणेन निर्भयता संपादनीयेति भावः || २५ || सर्वसारभूतो धर्मः स्वस्य शिवाग्रौ होमः सकलसिद्धान्तसारभूतं धर्ममाह-
SK
सर्वं वेद्यं हव्यम् इन्द्रियाणि स्रुचः शक्तयोज्वालाः स्वात्मा शिवः पावकः स्वयमेव होता [एतत्सूत्रादितान्त्रिकन्ग्रथानां श्रीब्रह्मभावनागौरवं दृश्यमत्रं |] || २६ || इति भावयेदिति शेषः | अन्तःकरणवृत्तिभिरिति [एतत्सूत्रस्थवेद्यादिपदानामर्थोऽधस्तनभाष्ये सुस्फुटोऽस्ति |] वेद्यमित्यस्यादौ पूरणीयम् | अन्तःकरणवृत्तिवेद्यं सर्वं हविष्ट्वेन भावयेत् | यथा अग्नौ प्रक्षिप्तं हविः तदाकारं भवति एवं वृत्तिवेद्यानां सर्वेषां शिवरूपेऽग्नौ होमे सति शिवाकारसंपत्तेः तेषु हविष्ट्वेन भावनं युक्तम् || तादृशहविषः आधारभूतहोमसाधनीभूतजुहुरेव स्रुक्पदेन गृह्यते ध्रुवाऽदयः तेषां स्रुक्पदवाच्यत्वेऽपि होमसाधनत्वाभावेन होमभावनाप्रकरणे ध्रुवाऽदीनामयोग्यत्वात् [इतोऽग्रतन- अप्रकृतविचारेण-इत्यन्तभाष्यग्रन्थेन- विशेषणीभूतैकपदनिष्ठैकवचनबहुवचनयोः स्वल्पःशास्त्रार्थोऽस्ति |] | न च स्रुचः एकत्वेन बहुवचनमनुपपन्नमिति वाच्यम् इन्द्रियाणामनेकत्वेन तद्विशेषणस्य तत्समानवचनकत्वार्थं बहुवचनम् | न च आरोप्यारोपस्थले न चसमानवचनत्वनियमः अत एव नैषधे- प्. ४१) अत्रैवकारेण-कर्मान्तरे स्वस्यानुष्ठानासामर्थ्ये पुत्र प्रियादीन् कर्तृप्रतिनिधित्वेन योजयन्ति तेन च तत्कर्मजं फलं भवतीति शास्त्रसिद्धम् | अस्मिन् यज्ञे प्रतिनिधिना अनुष्ठिते कर्मजन्यफलं स्वस्य न भवतीति सूचितम् || २६ || भावनाफलम् आत्मलाभः एवमनुष्ठितभावनायाः फलमाह- निर्विषयचिद्विमृष्टिः फलम् || २७ || निर्विषयायाः निर्विकल्परूपायाः चितः विमृष्टिः फलम् | पूर्वोक्तभावनाया [पाश्चात्य-३०-पत्रस्थ १३ सूत्रादेतत् २७- सूत्रान्तोक्तसद्भावनायाः इत्यर्थः] इति शेषः || २७ || ननु किमीदृशफललाभेनेत्यत आह- आत्मलाभान्न परं विद्यते || २८ ||
SK
आत्मलाभात् स्वरूपलाभात् परं श्रेष्ठं फलम्-इति पूर्वसूत्रस्थम् अनुषज्यते न विद्यते नास्तीत्यर्थः | पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः इति तमेवं विद्वानमृत इह भवति इति च श्रुतिः-इममर्थं प्रतिपादयति | मोक्षः परमपुरुषार्थः इत्यत्र न कोऽपि विवादं करोति | अतस्तादृशभावनया परमपुरुषार्थलाभः इति भावः | पूर्वं [पूर्वंनाम-१-खण्डे २६-पत्रे ६ सूत्रे-इत्यर्थः-] श्वविमर्शः पुरुषार्थः इत्यनेन पुरुषार्थस्वरूपं प्रतिपादितं अत्र स्तुतिरिति न पौनरुक्त्यम् || एतावत्पर्यन्तं [एतत्पञ्चाम्नायानां नामार्थमाहात्म्यादिकृते द्दि.-प-४ वि.-दृष्यः] पञ्चाम्नायसिद्धान्तरूपश्रीपरशुरामोक्तयोर्विचार्य विख्याताः | केशवशर्मा कश्चित् तदभिप्रायज्ञानासमर्थः ता दूषयामि इति केवलेर्ष्यया युक्तिशून्यान् प्रलापानभाणीत् सुधियां तद्दर्शनेनैव युक्तिरहितत्वज्ञानं भविष्यति | मन्दधियां शङ्कानिवृत्त्यर्थं मयैव तद्युक्तिषु केवलप्रलापरूपत्वं दर्शितं मत्कृतसिद्धान्तशिरोमणौ | ग्रन्थविस्तरभयान्नेह लिख्यते | ये तद्बुभुत्सवः ते तत एव जानन्तु || २८ || सिद्धान्तोपसंहारः अत्रायं सिद्धान्तः इत्यारभ्य प्रक्रान्तमर्थम् उपसंहरति- सैषा शास्त्रशैली || २९ || सैषा पूर्वोक्ता शास्त्रशैली शास्तीति शास्त्रं पञ्चाम्नायरूपं तस्य शैली रीतिः भवतीति शेषः || २९ || प्. ४२) एषा विद्या अतिगुप्ता एतादृशं शास्त्रं श्रोतृप्रवृत्तये प्रशंसति- वेश्या इव प्रकटा वेदादिविद्याः | सर्वेषु दर्शनेषु गुप्तेयं विद्या || ३० || वेश्या इव प्रकटाः सुलभाः वेदादिविद्याः | आदिना स्मृत्यादिः | वेश्योपभोगोद्रव्यादिव्ययेन यथा सुलभः एवं वेदादिविद्यालाभः द्रव्यादिदानेन सुलभः इत्यर्थः | अध्ययनस्य लोभमूलता शास्त्रेणैव प्रतिपादिता षण्णां तु कर्मणां मध्ये त्रीणि कर्माणि जीविका इति | अस्याः मोक्षसाधनीभूतब्रह्मविद्यायास्तु न कोटिकनकव्ययेनापि लाभः किं तु गुरुकृपैकलभ्यत्वम् ||
SK
ननु अधिकद्रव्यव्यये गुरुः कृपां किमिति न कुर्यादिति चेत्-न कुर्यादेव | येन गुरुणा ब्रह्मविद्या प्राप्ता तस्य कोटिसुवर्णं तृणादपि तुच्छतरम् | तस्मिन् लोभः कथं भवेत् || ननु लोभेन प्रवृत्तिमान् भवतु तथाऽपि परेच्छया विद्यादाने प्रवृत्तौ स्वस्य हान्यभावात् प्रवर्तताम् तथा च पूर्वविद्या द्रव्यवतैव लभ्या इयं तु निर्धनेनापि लब्धुं शक्येति प्रकटतरेति चेत् - न विद्वान् परेच्छया प्रवर्तमानः स्वप्रवर्तितवस्तुनि कार्यसिद्धिं दृष्ट्वैव प्रवर्तेत न विफले | प्रकृते इयं ब्रह्मविद्या मलिनान्तःकरणेषु प्रवर्तिना न केवलं विफला प्रत्युत गुरोरपि विद्यां नाशयति | उदाहृता एतद्विषये यास्केन श्रुतिः- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि | असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्याम् | इति | अस्यार्थः सुस्पष्टः || ब्रह्मविद्याऽतिसंखिन्ना ब्रह्मिष्ठं ब्राह्मणं ययौ | गोपाय मां सदैव त्वं कुलजामिव योषितम् | शेवधिस्त्वक्षयस्तेऽहम् इह लोके परत्र च | इत्यारभ्य- एवमाद्या येषु दोषास्तेभ्यो वर्जय मां सदा | एवं हि कुर्वतो नित्यं कामधेनुरिवास्मि ते | वन्ध्याऽन्यथा भविष्यामि लतेव फलवर्जिता || इत्येवमादिवचनैः गुरोरेव अपात्रे विद्यादाने स्वविद्यानाशः श्रूयते | स कथं अपात्रे केवलपरेच्छया विद्यामुपदिशेत् | तादृशोपदेशपात्रं दुर्लभम् || प्. ४३) अतः सर्वदर्शनेषु मध्ये-इति निर्धारणे सप्तमी-इयम् उक्ता विद्या गुप्ता दुर्लभेत्यर्थः | इदानींतन गुरवस्तु ब्रह्मविद्यायाः वाणिग्वद् विक्रेतारः | तत्र न गुरुत्वं न वा शिष्यस्य सन्तापहानिः | प्रत्युत सोऽपि द्रव्यसेवनरागप्रवृत्तः पतत्येव | इत्थं च द्वावपि पतनसाधनमेव कुरुतः न मोक्षसाधनम् | तदुक्तं कुलार्णवे [प्रबोधचन्द्रोदये-ब ब १.] गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | दुर्लभोऽयं [गुरुस्तु विरलो लोके-ब ब १.] गुरुर्देवि शिष्यसन्तापहारकः || इत्यलं भूयसा || ३० || दीक्षाविधिः
SK
एतावत्पर्यन्तं [नाम ३० सूत्रान्तम्] सिद्धान्तमनूद्य [तत्तदेवतोपासनामन्त्रादिसिद्धान्तमित्यर्थः] उपासकेन प्रथमं कर्तव्यां क्रियामाह- तत्र सर्वथा मतिमान् दीक्षेत || ३१ || सप्तमी षष्ठ्यर्थे प्रकृत्यर्थः श्रीविद्योपास्तिः षष्ठ्यर्थः संबंधः तदव्यवहितपूर्ववृत्तित्वं तस्य दीक्षापदार्थे आश्रयतया अन्वयः तस्य करणत्वसंबन्धेन भावनायामन्वयः तथा च श्रीविद्योपासनाऽव्यवहितपूर्ववृत्तिदीक्षया इष्टं भावयेत् इति विशिष्टबोधः | अत एवोत्पत्तिविधिः | सर्वथा अवश्यं मतिमान् पूर्वोक्तभूमिकामारूढः [मारुरुक्षुः-अ.] | एतत्पदस्वारस्यादेव अयमधिकारविधिरपि | तादृशभूमिकाम् [आरुरुक्षोरेव-अ.] आरूढस्यैव अधिकारो नान्यस्य इति सिद्धम् || ननु एकस्मिन्नेव विधौ उत्पत्तिविधित्वं अधिकारविधित्वम् उभयं कथमिति चेत्- न चित्रया यजेत पशुकामः इत्यादौ तथा दृष्टत्वात् | न च उपासनायामेव तादृशभूमिकाऽरूढस्याधिकार [रुरुक्षोरधि-अ.] इति पूर्वं व्यवस्थितम् | न हि दीक्षा उपासना कथमत्रापि तादृशाधिकारपेक्षा | यच्च उपासनायां दीक्षाया अङ्गत्वेन यः प्रधाने अधिक्रियते सोऽङ्ग [सोङ्गम्-इति साधीयान्पाठः] इति न्यायप्राप्तार्थस्य अनुवाद एव मतिमान् इत्यनेन कृत् इति समाधानम् तन्न मनोरमम् अनुवादस्य फलाभावेन वैय्यर्थ्यापत्तेः दीक्षायाः स्वतन्त्रफलवत्त्वेन अनङ्गत्वाच्चेति | अनेनैव प्. ४४) तादृशभूमिकाऽरूढस्य [रुरुक्षोः-अ.] दीक्षाऽधिकारो विधीयते | उपासनायां दीक्षितस्यैव अधिकारः इत्यग्रे वक्ष्यति | तथा सति उपासनायां पूर्वोक्तभूमिकाऽरू.ढत्वमार्थिकम् [रुरुक्षुत्व-अ.] || दीक्षास्वरूपतत्फलनिरूपणम्
SK
ननु दीक्षात्वं किम् ? न तावदुपास्तियोग्यताजनकक्रियात्वम् उपास्तियोग्यताजनकत्वस्य सत्त्वे प्रमाणाभावात् | न तावत् प्रत्यक्षम् अलौकिके संभवति | नाप्यनुमानं लिङ्गाभावात् | नापि दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इतिवच्छ्रुतिरस्ति यतस्तनिरूपितं कारणत्वं स्यात् | न च विनोपनयनं यद्वद्द्विजानां सर्वकर्मसु | न योग्यता तथाऽत्रापि विना दीक्षां भृगूद्वह || इति त्रिपुरारहस्ये व्यतिरेकव्याप्तेः दण्डाभावे घटाभावः इतिवत् प्रतिपादनात् व्यतिरेकव्याप्तिमूलः कार्यकारणभावः सिध्यति इति वाच्यम् दीक्षित उपासीत इत्युपासनाऽधिकारिस्तावकत्वात् | तर्हि दीक्षायाः फलं किमिति चेत्-उच्यते | अनन्तकोटिजन्मसंचितं यत् पापरूपं मलं तन्नाशः | तदुक्तंनिशाटनाख्यागमव्याख्याने [तन्त्रालोकव्याख्याने निशाटनाम्नि-अ.] तन्त्रालोके- दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि | धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत् || देहान्त एव मोक्षः स्यात् पौरुषाज्ञानहानितः | बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनात् ध्रुवम् || तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने || इति || अस्यार्थः-पौरुषं बौद्धं चेति ज्ञानं द्विविधम् | तत्र पौरुषं ज्ञानं स्वस्वरूपात्मकम् | बौद्धं च यन्महावाक्यजन्यं चरमवृत्तिरूपं तत्त्वज्ञानमित्युच्यते | एतदावरणरूपमज्ञानमपि द्विविधम् | तत्र पौरुषं पुरुषनिष्ठपातकम् | बौद्धं भेदबुद्धिः | तत्र दीक्षया पौरुषज्ञाननाशेऽपि बौद्धमलस्य शास्त्रज्ञानेनैव नाश्यत्वात् दीक्षाऽनन्तरमागमसिद्धान्तज्ञानसंपादने तदैव मोक्षः | यदि शास्त्रज्ञानं न संपादितं केवलदीक्षैव जाता तस्य देहान्ते मुक्तिरिति | न च बौद्धमलासत्त्वे देहान्ते कथं मुक्तिरिति शङ्कनीयम् त्रिपुरारहस्ये दीक्षावन्तस्तु देहान्ते प्राप्य लोकं परात् परम् | सदाशिवेन ते सम्यक् प्रबुद्धाः शिवरूपिणा ||
SK
इति तादृशशङ्कायाः निरस्तत्वात् | एवं श्रौताग्निष्टोमादिदीक्षाऽर्थवादेऽपि पाप्मनोऽपहत्यै इति श्रूयते | एवं पूर्वमीमांसायामपि दीक्षाया यागजन्यापूर्वोत्पत्तौ सस्याद्युत्पत्तौ कर्षणमिव प्. ४५) स्थलस्य आत्मनः शोधकत्वमित्येव सिद्धान्तितम् | ब्रह्मोत्तरखण्डे प्रथमाध्याये - राज्ञः पञ्चाक्षरमन्त्रस्य कर्णप्रवेशमात्रेण तच्छरीरादनन्ताः काकाः निर्गताः इति लिङ्गं च | एवं परमानन्दतन्त्रे दीक्षानामनिरुक्तौ- दीयते शिवसायुज्यं दीर्यते [क्षीयते-ब.] पाशबन्धनम् | अतो दीक्षेति कथिता...................... इति च | एवं बहुप्रमाणानुसारेण व्यतिरेकव्याप्तिप्रतिपादकवचनस्य अर्थवादरूपत्वात् | तथा चास्य लक्षणस्यासंभव एव स्यात् || एतेन सौभाग्यानन्दसन्दोहे द्वादशोल्लासस्यावतरणं अधुना तस्याः साङ्गोपासनयोग्यताप्रतिपादकदीक्षां पृच्छति इति तन्मुख्यार्थमनुसृत्य समर्थनमशक्यमेव इति चेत् - न मुक्तिसाधनीभूतपौरुषमलनिवृत्त्यर्थक्रियात्वस्यैवादुष्टलक्षणत्वात् || न च प्रकृतलक्षणविचारस्य तदुपजीव्यकैमर्थ्यविचारस्य चानुष्ठानेऽनुपयोगात् केवलपाण्डित्यप्रकटिनी काकदन्तपरीक्षेयमिति वाच्यम् अस्त्यनुष्ठाने वैषम्यं-यदि पूर्वोक्तयोग्यताजनकं तर्हि दीक्षासंकल्पे योग्यतासिद्ध्यर्थमिति इतरपक्षे पापक्षयार्थमिति || दीक्षासंकल्पप्रकारविचारः [इतः शिष्यस्य दीक्षाग्रहणसङ्कल्पायावसरस्तद्विचारश्चास्ति - अन्यच्च सर्वसङ्कल्पविषयकज्ञानाय द्वि. परि०-१० वि०-दृश्यः ||]
SK
यच्च नित्योत्सवनिबन्धे श्रयस्कामोऽहममुकविद्याग्रहणार्थममुकगुरोर्दीक्षां ग्रहीष्यामि इति तदत्यन्तानवधानलिखितम् | तथा हि-यच्च श्रेयस्काम इति पदं तदास्तां कथंचित्पापनाशस्यापि श्रेयोरूपत्वात् | यच्च अमुकविद्याग्रहणार्थम् इति तदत्यन्तमशुद्धं दीक्षायाः पापक्षयैकसाधनत्वस्य व्यवस्थापितत्वात् | आस्तां वा बन्ध्यापुत्रवत् विद्याग्रहणार्थत्वं तथापि श्रेयस्काम इत्यनेनैव तल्लाभे इदं पदं व्यर्थमेव | न च श्रेयोविद्याग्रहणमुभयं फलम् अतः द्वयोरुल्लेखः इति वाच्यम् सर्वेभ्योदर्शपूर्णमासौ इत्यत्र तयोः सर्वफलसाधनत्वेऽपि प्रयोगभेदेनैव भिन्नफलं नैकप्रयोगण फलद्वयमिति चातुर्थिकन्यायविरुद्धस्य अनादरणीयत्वात् | अत एव तन्त्ररत्ने- एकस्यैकजातीयव्यापारेण नियतैकजातीयैकफलजनकत्वं लोके दृष्टम् | तत्रैकजातीयजनकत्वं सर्वेभ्य इति वचनेन बाध्यतां एकफलजनकत्व केन बाध्यताम् इति पार्थसारथिनोक्तम् | किं च दीक्षापदार्थः शक्तिप्रवेशचरणविन्यासमन्त्रोपदेशरूपः | तादृश्याः दीक्षायाः फलसाधनत्वं वा तद्ग्रहणस्य वा | आद्ये संकल्पे फलसाधनीभूतक्रियामुत्पादयामीत्यर्थके फलसाधनक्रियावाचकं ग्रहीष्यामीति पदं व्यर्थम् | द्वितीये ग्रहणस्य साधनत्वं प्. ४६) निर्मूलं पूर्ववचनविरोधश्च | किं च-अमुकगुरोः इत्युच्चारणफलं दृष्टमदृष्टं वा तिथ्याद्युच्चारणवत् | नाद्यः अयं मम गुरुर्भवतु इति स्वेच्छाप्रकाशादन्यत् दृष्टं फलं दुर्वचम् | तच्च तल्लिखितवरणेनैव भवितुमर्हति किमेतदुच्चारणेन | नान्त्यः देशकालौ संकीर्त्य इति वचनात् तेषाम् अपूर्वजनकत्वम् | न हि गुरुनामोच्चार्य इति वचनमस्ति येनादृष्टं तेन भवेत् |
SK
किं च-तदभिमतं श्रेयोविद्याग्रहणरूपफलं स्वनिष्ठम् | तथा सति ग्रहीष्यामि इति परस्मैपदान्तप्रयोगः स्वरितञितः कर्त्रभिप्राये क्रियाफले इति पाणिन्यनुशासनविरुद्धः | एवं अनेकदोषग्रस्तत्वात् एवं संकल्पस्त्वनादरणीयः | किं तु पौरुषाज्ञाननिवृत्तये श्रीविद्यया दीक्षिष्ये इति संकल्प एव श्रेयान् || तान्त्रिकसंकल्पाङ्गभूतः अष्टाङ्गोल्लेखः [अष्टाङ्गनिरूपणमिदं केषुचिदाकरेषु नोपलभ्यते |] शिष्यसंकल्पे नाष्टाङ्गोल्लेखः दीक्षाहीनत्वेन तान्त्रिकेऽनधिकारात् | अग्रे गुरुसंकल्पे तदुल्लेख आवश्यकः शिष्यस्यापि दीक्षाऽनन्तरभाविकर्मण्युल्लेखः || ननु अष्टाङ्गस्य सूत्रे अनुक्तत्वात् किमिति तद्ग्रहणमिति चेत्-सत्यम् | यद्यपि नास्ति ग्रहणं तथाऽपि श्रौतस्मार्तादिनिखिलकर्मसु आदौ संकल्पः अव्यभिचरितो दृष्टः | प्रकृतेऽपि तद्वत् संकल्प आवश्यकः | संकल्पस्यावश्यकता मूले अधिकतरं गाणनायकीयसपर्यामुच्यते | संकल्पो नाम विद्यमानदेशकालोल्लेखनपूर्वकफलोल्लेखनसहितप्रकृतकर्मानुष्ठान- विषयिणी प्रतिज्ञा | तदुक्तं रहस्यार्णवे- यत्र देशे साधकस्तु स्थितस्तद्देशमुच्चरन् | उल्लिख्य तत्कालमपि प्रतिज्ञा कर्मणस्तु या | फलमुद्दिश्याहमिति संकल्पो जलहस्ततः || इति || तत्र कालस्य पञ्चाङ्गतः अष्टाङ्गस्य अश्वप्रतिग्रहन्यायेन संनिकृष्टत्वात् अष्टाङ्गोल्लेखनं सूत्रानुयायिनामावश्यकम् | अतः अष्टाङ्गं तत्साधनप्रकारश्च उच्यते || तत्र अष्टाङ्गानि-१-युगं २-परिवृत्तिः ३-वर्षः ४-मासः ५-दिवसः ६-नित्या ७- वारः ८-घटिकोदयः इति | तन्त्रशास्त्रे युगानि ३६ एकस्य युगस्य परिवृत्तयः ३६ एकस्याः परिवृत्तेः वर्षाः ३६ एकवर्षस्य मासाः १६ एकमासस्य दिवसाः ३६ नित्याः ३० वाराः ९ घटिकोदयः ५ | एवमष्टाङ्गसिद्धावुपायः कथ्यते || प्. ४७) तत्रादौ शालीवाहनशकसाधनोपायः कथ्यते | इभाक्षिः २८ षष्टि ६० गणितः १६८० इभाग्न्यङ्केन ३८ संयुतः | नर्मदोत्तरभागेऽथ तस्या दक्षिणभागके | अङ्कवेद ४८ युतः कार्य इभाक्षिः षष्टिभिर्हतः ||
SK
प्रभवादिगताब्दानां संख्यया योजयेत् पुनः | वर्तमाना शालिवाहशकसंख्या समीरिता || प्रभावाद्यक्षयान्तानां भवेत् परिवृतिस्तु या | वर्तमाना तदीयेयं संख्याऽष्टाविंशतिः स्मृता || इतः परिवृतिसंख्यां दृष्ट्वा च तां गुणेत् | षष्टिभिस्तु शके ज्ञाते न यतदीदृशश्रीर्मे [इयं शङ्किताक्षरा पङ्क्तिः] वर्तमानशालिवाहनशकसंख्या नन्दाद्रिक्ष्याग्नि-३१७९-संयुक्ता गतकल्यब्दगणः यथा शके-१७५५ अस्मिन् ३१७९ एतद्योगे गतकल्यब्दगणः-४९३४ | एवं गतकल्यब्दगणं साधयित्वा तस्मात् अहर्गणसिद्ध्यर्थम् उपायः क्रियते | गतकल्यब्दगणे नगनवेभवेदैः-४८९७ ऊनिते
SK
शिष्यते योऽङ्कः एकादिदशान्तः तत्संख्याकम् अङ्कजालं ध्रुवकाङ्कजाले विघट्यादि दिनान्ते योजयेत् | एकादशशेषे प्रथमदशमाङ्कजालद्वयं ध्रुवके योजयेत् | एकविंशतिशेषे प्रथमं विंशं च ध्रुवके योजयेत् | एवमेकत्रिंशतमारभ्य एकोनषष्टिपर्यन्तं ज्ञेयम् | तद्रहस्यमित्थम्-नगन वेभवेदैरूनिते कल्यब्दगण यः शेषः तस्मिन् षष्ट्या भक्ते शेषाङ्कैः लेखनसमये यदि द्वौ तर्हि तत्समसंख्याकम् अङ्कजालं ध्रुवके योजयित्वा विघटिकादिषष्ट्या भक्त लब्धमुपर्युपरि योजयेत् | स च तद्वर्षसंबन्धिमेषसंक्रान्त्यहर्गणः | एवं स गतकल्यब्दगणेऽनेनोनितैकोनपञ्चाशच्छेषपर्यन्तं षष्ट्या भागो नास्तीति यदा गतकल्यब्दः एतत्संख्याकस्तदा नगनवेभवेदन्यूने षष्टिसंख्या शिष्टा षष्ट्या भक्ते शेषः शून्यं तदा शून्याङ्कजालं ध्रुवके योजयेत् | स मेषसंक्रान्त्यहर्गणः | योज्यानि अङ्कजालानि लिखन्ति | प्रथमं द्वितीयं चतुर्थं पञ्चमं षष्ठं सप्तमं अष्टमं नवमं दशमं विंशं त्रिंशं चत्वारिंशं पञ्चाशत् [पञ्चाशत्- इत्येतन्नास्ति-अ.] शून्यं ध्रुवकाङ्कजालम् इति सिद्धान्तजालानि | यदा गतकल्यब्दगणः इभबाणाङ्कवेदसंख्याको भवति तदा वर्षगणः शैलाङ्के भवेदैरूनितः कार्यः | ततो यच्छेष षष्ट्या भक्ते यल्लब्धं तेन गुणितं यच्छून्याङ्कजालं तत्पूर्वध्रुवकाङ्कजाले योजयित्वा ध्रुवकं संस्कृत्य पश्चात् प्रथमाद्यङ्कजालं पूर्ववद्योजयित्वा अहर्गणं साधयेत् | इभष्वङ्कवेदन्यूने गतकल्यब्दगणे उक्तध्रुवकसंस्कारो नास्ति | एवमहर्गणं साधयित्वा गणं नवभिर्विभज्य शेषोऽतीतवासरः तस्य यल्लब्धं प्.४८)
SK
तच्चतुर्भिर्विभज्य तल्लब्धं पृथक् संस्थाप्य तच्छेषं नवभिर्विगुण्य तत्र गतवारसंख्यां योजयेत् एवं सति सा संख्या गतदिवसस्य ज्ञेया | पूर्वस्थापितलब्धे षोडशभिर्भक्ते शेषोगतमाससंख्या भवति | तल्लब्धे षट्त्रिंशता विभक्ते शेषोगतवत्सरसंख्या | तल्लब्धं पञ्चाशद्युतं षट्त्रिंशद्भक्तं शेषं गतपरिवृत्तिसंख्या | लब्ध गतयुगसंख्या | एवं मेषसंक्रान्तिकालीनाहर्गणे साधिते तदुत्तरं मध्ये यदा कदाचिदहर्गणसाधनेच्छायां तदुपाय उच्यते | तत्र मेषमारभ्य यस्मिन् दिने अहर्गणनेच्छा तदव्यवहितपूर्वं संक्रान्तिः या तदीयां वक्ष्यमाणां संख्यांम् अहर्गणे योजयित्वा तत्संक्रान्तिमारभ्य इष्टदिनपर्यन्तमतिक्रान्ता यावन्तो दिवसाः तावत्संख्यां योजयेत् | इष्टदिनाहर्गणं भवति | तत्रवृषे मिथुने कर्के सिंहे कन्यायां तुलायां वृश्चिके धनुषि मकरे कुंभे मीने इतः परं युगादिघटिकान्तानां नामोच्यते | युगपरिवृत्तिवर्षाणां षट्त्रिंशतां क्रमेण आदिक्षान्तानां वर्णानां नामानि यथा प्रथमम् अकारात्मकयुगं अयुगं कयुगं द्वितीयम् एवमग्रेऽपि परिवृत्तिवर्षेषु ज्ञेयम् | मासानां षोडशानां क्रमेण षोडशस्वराः नामानि | षट्त्रिंशद्दिवसेषु युगपत् षट्त्रिंशदकारादिक्षकारान्ताः वर्णाः सानुस्वाराः शिवाद्यवनिपर्यन्तं षट्त्रिंशचत्त्वानि च मिलित्वा क्रमेण नामानि | यथा- अं शिवतत्त्वदिवस इति | चरमस्वररहिता अकाराद्यनुस्वारान्ताः अनुलोमविलोमेन त्रिंशद्वर्णाः | कामेश्वर्यादि चित्रान्ताः पञ्चदश नित्याः अनुलोमविलोमाश्च मिलित्वा त्रिंशत् | नित्यानाम यथा-अं कामेश्वरी नित्यायामिति | वाराणां नवानां क्रमेण अ क च ट त प य श षाः इति वर्णाः नव | प्रकाशानन्दनाथ-विमर्शानन्दनाथ-आनन्दानन्दनाथ- ज्ञानानन्दनाथ-सत्यानन्दनाथ-पूर्णानन्दनाथ-स्वभावानन्दनाथ- प्रतिभानदन्नाथ-सुभगानन्दनाथेति नवनाथाः | वारवर्णा ये नव तद्युक्तनवनाथाः क्रमेण नववाराः | यथा-अं प्रकाशानन्दनाथवासर इति |
SK
उदयघटिकानां पञ्चानां नाम क्रमेण-अ ए च त य इति पञ्च वर्णाः ज्ञेयाः | एवमष्टाङ्गोल्लेखः तान्त्रिककर्मादावावश्यकः | देशस्य तन्त्रे अनुक्तत्वात् स्मार्तस्यैवोल्लेखः || केचित्तु तान्त्रिकोऽष्टाङ्गो न सहज इति शास्त्रप्रसिद्धकालस्य समुच्चयमिच्छन्ति देशकालौ समुल्लिख्य चाष्टाङ्गस्थितिमेव च इति परमानन्दतन्त्रानुसारेण | तन्न देशकालावित्यत्र कालः कीदृशः इत्याकांक्षापूरकं तन्त्रस्थाष्टाङ्गपदं न तु समुच्चयविधायकम् एवकारस्वारस्यात् || एवमग्रे अमुकगोत्रो अमुकशाखाऽध्यायी अमुकशर्मादिरहं चतुर्विधपुरुषार्थसिद्ध्यर्थं स्वेष्टानुग्रहाय अमुकगोत्र अमुकशाखाऽध्यायिनं अमुकशर्माण त्वां गुरुत्वेन वृणे इति संकल्पः किं कल्पसूत्रानुसारेण- बह्वल्पं वा स्वगृह्योक्तं यस्य यावत् प्रकीर्तितम् | तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् || प्. ४९) इति वचनमनुसृत्य तन्त्रान्तरानुपसंहारेण अयं प्रयोगः किं सर्वतन्त्रमुपसंहृत्य किं स्वेच्छया | नाद्यः सूत्रे वरणस्य अनुक्तत्वात् | द्वितीये तन्त्रान्तरे प्रतिमाब्रह्मादिवरणचरुनिर्माणतद्भक्षणादित्यागोऽनुचितः | तृतीयश्च स्वकपोलकल्पितोऽश्रद्धेय एव | किं च तन्त्रान्तरे- कर्तुं कारयितुं चैव दीक्षाकर्म महेश्वरि | आचार्यत्वेन त्वां वृणे इति पादसमीपतः || इति वरणे करिष्यमाणेऽपि दीक्षाकर्मणि आचार्यं वृणे इत्येव वक्तव्यमिति वदति | सर्वत्र श्रौते स्मार्ते च ऋत्विग्वरणे-अस्मिन्नग्न्याधानेऽध्वर्युं त्वां वृणे अस्मिन्नुद्यापनाख्ये कर्मणि आचार्यं त्वामहं वृणे इत्याचारो दृश्यते | इह तु कर्म नाम त्यक्त्वा फलवाचकं पुरुषार्थसिद्ध्यर्थम्- अनुग्रहार्थं चेति वरणवाक्ये लिखितम् | तदतीव चित्रम् | तस्मात् सूत्रानुसारिभिः वरणं न कार्यम् | न च वरणाभावे गुरुणा अवृतेन कर्म कथं कार्यम्-इति वाच्यम् त्वं मम दीक्षां कुरु इति लौकिकवरणेनापि तत्संभवात् | न हि वयं सर्वथा निराकुर्मो वरणं कर्माङ्गमित्येव ब्रूमः ||
SK
एवमेव पुण्याहवाचननान्दीश्राद्धे न कार्ये अनुक्तत्वात् | न च तन्त्रान्तरोपसंहारो मा भवतु तथाऽपि स्मृतिप्राप्तं पुण्याहवाचनं नान्दीश्राद्धं च अनिवार्यम् अन्यथा-क्षुते आचामेत् इति प्राप्ताचमनमपि न स्यात् इति वाच्यम् यदि पुण्याहवाचननान्दीश्राद्धे तान्त्रिके स्मृतिप्राप्ते एवानुवर्तेते तर्हि तन्त्रान्तरे- गणेशं पूज्य पुण्याहं वाच्य नान्दीमुखान् यजेत् | इति विधिः व्यर्थ एव स्यात् | तस्मात् स्मार्तपुण्याहादिधर्माः कर्माङ्गत्वेन नायान्ति इत्यत्र इदमेव ज्ञापकम् | यच्च क्षुते आचामेत् न कलञ्जं भक्षयेत् इति पुरुषार्थं तच्च प्राप्तमपरिहार्यम् || न च एवं शिष्यगुरुलक्षणधर्माणामपि प्राप्तिः न स्यात् इति वाच्यम् अस्ति तस्य प्राप्त्यवकाशः | तत्र येन विना आकांक्षा न पूर्यते तच्च तन्त्रान्तरस्थमपि गृहीत्वा आकांक्षां पूरयेत् | शाब्दबोधे आकांक्षा द्विविधा उत्थिता उत्थाप्या चेति | यथा आद्या पचतीत्युक्ते कं पचति केन पचति कः पचतीति | द्वितीया स्तोकं पचतीति | तत्र स्तोकपदस्य वैय्यर्थ्यभिया कथं पचति इत्याकांक्षा उत्थाप्या | प्रथमस्थले स्वत उत्थितायाः शाब्दाकांक्षायाः शब्दमन्तराऽनिवृत्तेः अध्याहृतस्य स्थलान्तरस्थस्य वा शब्दस्य पूरणमावश्यकम् | तत्र अध्याहारात् वरं तन्त्रान्तरस्थशब्देनैव आकांक्षापूरणम् | एवं सति मतिमान् [इदमनुगत- ४३-पत्रस्थं ३१ सूत्रम् |] दीक्षेत इत्युक्ते मतिमत्त्वस्य केवलस्य अव्यावर्तकतया कीदृशं मतिमत्त्वम्-इत्याकांक्षा अवश्यमुदेति | प्. ५०)
SK
उदिताकांक्षापूरकं तन्त्रान्तरोक्तशिष्यलक्षणवत्त्वमेव मतिमत्त्वं कल्प्यते | एवं गुरौ सद्गुरुः [इदमप्यग्रे-५३-पत्रस्थं ३४ सूत्रम् |] क्रमं प्रवर्त्य इत्यग्रिमसूत्रे उक्तत्वात् सत्त्वं किम्-इत्याकांक्षापूरकतया गुरुलक्षणानि च योज्यानि | अत एव बौधायनाचार्याः-तान्न मिथः संसादयेत् इत्याहुः | अत्र भवस्वामी तान् शालिकीशाखोक्तान् पक्षान् तदन्यशाखी न संसादयेत् एकप्रयोगे मेलनं न कुर्यात् | ब्राह्मणानां बहुत्वात् शाखानामनन्तत्वात् तदर्थस्य चासर्वज्ञेन उपसंहर्तुमशक्यत्वात् तावन्मात्रं सुखं बुद्ध्वा अनुष्ठाय सर्वे कर्मफलं प्राप्नुयुः इति कल्पसूत्राण्यारब्धानि आचार्यैः इति | अस्यापवादस्तत्रैव अविशेषोक्तैः विशेषोक्ताश्च शेषत्वेन संबध्यन्ते इति | अत्र भवस्वामी-अविशेषोक्तैः विशेषोक्ताः सामान्यत उक्तस्य गुणविशेषाः अन्यसूत्रोक्ता अपि शेषत्वेन अङ्गत्वेन संबध्यन्त इति | तान्न मिथः संसादयेत् इत्यस्योदाहरणं यथा बौधायने सोमाभिषवार्थं केवलवसतीवरीग्रहणम् | सूत्रान्तरे वसतीवरीणां एकधानानामपि समुच्चयः | तदनुसारेण बौधायनानामेकधानाप्राप्तौ तान्न मिथः संसादयेत् इति | एवं बौधायने केवलं शाखाछेदनमात्रमुक्तम् | अन्यसूत्रे शाखाछेदनमाहरणं च समन्त्रकम् | तानपि न संसादयेत् | अनया दिशा अन्यान्यप्युदाहार्याणि | एतदपवादोदाहरणं यथा बौधायने पलाशशाखैव सान्नाय्ये विहिता तस्यास्तत्सूत्रिणामलाभे सूत्रान्तरोक्तशमीशाखा ग्राह्येति | तत्र मूलम्-उक्तलाभे कीदृशी शाखा ग्राह्येति उत्थिताकांक्षावत्त्वात् तत्पूरकं सूत्रान्तरं शमीशाखाविधायकम् | एवं बौधायने-अग्नीनन्वादधाति इत्यविशेषेण विहितम् | कथमन्वाधानं कर्तव्यमिति विशेषाकांक्षायाम्-अपरेण गार्हपत्यमुपस्थं कृत्वा इति ऊर्ध्वज्ञुरासीनोऽन्वाहार्यपचनम्- [अत्राध्वर्यु-इति संभाव्येत् |] इति सूत्रान्तरोक्तधर्माः शेषत्वेनान्वेतुमर्हन्ति | न तथा पूर्वोक्तैकधानाऽकांक्षाऽस्ति | अतो न समुच्चयः |
SK
एतेन एतत्सूत्रानुसारिभिरपि तन्त्रान्तरोक्तं पात्रत्रयं पात्रचतुष्टयं वासादनीयमिति यदब्रुवन् तदसाध्विति स्फुटम् | यद्यविशेषेण पात्रासादनं कुर्यादित्येव स्यात् तदा कति पात्राणि कथमासादयेत् इति विशेषाकांक्षा उदेति | तदा तदपवादशास्त्रप्रवृत्तिरपि स्यात् | न चैवमिहास्ति येन तथा स्यात् | एतेन निबन्धे सामयिकानां स्वस्य च तत्त्वशोधनार्थं देव्याः पश्चाद्भागे लौकिकं कलशं संस्थाप्य संस्कृतद्रव्यं किंचित् क्षिपेत् इति लेखोऽपि निर्मूलः शिष्टैः सार्धं चिदग्नौ हविःशेषं हुत्वा इति विशेषार्घ्यशेषस्यैव प्रतिपत्तिकथनात् | प्. ५१) अत एव बौधायनाचार्याः शास्त्रसङ्करं न कुर्यादित्युक्त्वा सङ्करकरणे प्रत्यवायमप्याहुः- स्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते | भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः || इति || न चैवं पूर्वोक्तरीत्या अनुष्ठितिरुदासीनस्थले भवतु यस्याकरणे शास्त्रान्तरे निन्दा बह्वी तस्यानुष्ठानं सर्वैः कार्यम् इति वाच्यम् आतञ्चनप्रकरणे तद्यत्क्वलैः [तद्व-अ.] राक्षसम् इति क्वलनिन्दां कृत्वा दध्नाऽतनक्ति इति शाखाऽन्तरे विहितम् | तदन्यशाखायां औषधयः पूतिकाः क्वलाः इति क्वलैः आतञ्चनं विहितम् | एवं पत्नीसंयाजासमिष्टयजुरनुष्ठाने [पित्र्यायां समि-ब ब १.] बहुनिन्दा क्वचिच्छ्रूयते | बौधायनैर्निन्दा न कृता | तावतैव परनिन्दामनादृत्य समिष्टयजुरनुष्ठानं बौधायनानुयायिनः कुर्वन्ति शिष्टाः | तस्मात् परशास्त्रे निन्दा अकिञ्चित्करा | न च त्रिपुरारहस्ये- तन्त्रानुक्तं सूचितं तु तथाऽन्येष्वपि दूषितम् | अकृतं कर्म यद्राम [डामरिवि-अ अ १.] विकल्पनविवर्जितम् | तदन्यस्मादुपादेयमेष शास्त्रस्य निर्णयः ||
SK
इत्यस्याः गतिविरह इति वाच्यम् यस्याननुष्ठाने परशास्त्रे निन्दा स्वशास्त्रे च विकल्पः तस्य तत्र निन्दा यद्विषये परशास्त्रे तदादर्तव्यं तावता स्वशास्त्रहानिविरहात् | यथा आपस्तम्बसूत्रे वाजपेये अग्निचयननिन्दा बौधायने न निन्दा कृता किंतु चोदकशास्त्रेण उत्तरवेद्या सह विकल्पितम् | तत्र स्वशास्त्रस्य उत्तरवेद्यनुष्ठानेऽपि हान्यभावात् निषेधोऽप्यनुग्राह्यः-उत्तरवेदिरेवानुष्ठेया च चयनमिति || तथा अत्रापि तादृशस्थले अनुष्ठानार्थम् इदं वचनम् न नित्यवच्छ्रुतस्य शास्त्रस्य बाधार्थम् | एतद्वचनस्य गत्यतरं श्रीविद्याप्रकरणे विस्तरेण वक्ष्यामः || अस्तु वा [अस्याधस्तनभाष्यगतफलाधिक्यम्-इत्यनेनान्वयः |]- निषिद्धं वर्जयेत्तन्त्रान्तरे किंचिन्महेश्वरि | यतस्तदेकशास्त्रं वै मन्त्रैक्याद्देवतैक्यतः | तस्मात् स्वशास्त्रे यत्किंचिन्निषिद्धं परिवर्जयेत् प्. ५२) अन्यत्स्वतन्त्रानुक्तं तु समर्थ उपसंहरेत् | स्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत् | तावदभ्युदयाधिक्यं भवेत्तस्य तु निश्चितम् | आकांक्षितं चाप्यन्यस्मादाहरेदेव किंचन || इति तन्त्रान्तरवचनानुसारेण पुण्याहवाचनादीनाम् उपसंहारे फलाधिक्यम् | अननुष्ठाने अवैगुण्यमिति रहस्यम् | पात्राधिक्यं च स्वशास्त्रविरुद्धं हेयमेव वस्तुतो लिखिततन्त्रवचसाम् अग्रे [अग्रे नाम-आगामिनि ३ खण्डस्थ श्रीक्रमीये ३१ सूत्रभाष्यान्तग्रन्थे |] पात्रासादनप्रकरणे वक्ष्यमाणरीत्या गतिसंभवात् अनुपपत्तिलेशाभावात् | एकप्रयोगे यत्सूचितम् आकांक्षितं कर्मसामान्ये अव्यभिचरितसंबन्धं च [तत्] अन्यस्मात् ग्राह्यं नान्यदिति राद्धान्तः | एतद्वितत्याग्रे स्पष्टीकरिष्यामः |
SK
इत्थं च यः पुरुषः सर्वतन्त्राण्युपसंहृत्य यावदङ्गेष्वियत्तां संपाद्य एकरूपं प्रयोगविधिं निर्माय अनुष्ठातुं समर्थः तस्य सर्वज्ञस्य तादृशकर्मणः श्रेयोऽधिक्यं भविष्यत्वेव | यस्त्वेतादृशेऽसमर्थः सः त्वाकांक्षितादिमात्रं तन्त्रान्तरात् गृहीत्वा स्वशास्त्रमात्रानुष्ठानेन कृतार्थो भविष्यत्येव | न तु तन्त्रान्तरस्थानां केषांचिदुपसंहारः केषांचिदनुपसंहारः इत्यर्धजरतीयन्यायो युक्तः | निबन्धकारो न्यायगन्धमजानन् स्वेच्छया कानिचिदुपसंहरन् कानिचित् परित्यजन् देवानां प्रिय इति मन्तव्य इत्यलमतिलेखनेन || सर्वथेत्यनेन [एतत्प्रचलदेकत्रिंशसूत्रस्थः सर्वथा शब्दोऽत्र बोध्यः |] दीक्षां विना नात्यन्तिकी मुक्तिः इति सूचितम् | तत्र स्पष्टं प्रमाणं त्रिपुरारहस्यस्थं पूर्वमेव लिखितम् || ३१ || दीक्षात्रयम् एवं दीक्षां विधाय तत्र अवान्तरभेदवतीषु तासु एककालसंबन्धं विधातुम् आदौ तां विभज्य विभागप्रयोजकं धर्मं च प्रदर्श्य तासु तिसृष्वपि एककालसंबन्धरूपं गुणं विधत्ते- दीक्षास्तिस्रः शाक्ती शांभवी मान्त्री चेति | तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मान्त्री मन्त्रोपदिष्टया सर्वाश्च कुर्यात् || ३२ || चेतीत्यन्तेन विभागं कृत्वा तासां नामकथनम् | तत्र तासु मध्ये शाक्तीत्यस्यार्थं विवृणोति शक्तिप्रवेशनात् | जातेति शेषः | यद्वा- शक्तिप्रवेशनात् इति हेतौ पञ्चमी | प्. ५३)
SK
शक्तिप्रवेशनाद्या दीक्षा शक्तिप्रवेशहेतुकीत्यर्थः | एवमेवाग्रेऽपि | प्रवेशनादिति स्वार्थे ल्युट् | शक्तिप्रवेशनं नाम अग्रे [अग्रे नामात्रैव दीक्षाविधौ-३५-३६ सूत्रयोरित्यर्थः |] तदमृतक्षालितम् इत्यारभ्य पाशान् दग्ध्वा इत्यन्तप्रतिपादिता क्रिया | चरणविन्यासो नाम शिष्यशिरसि गुरुकर्तृकं कामेश्वरीकामेश्वरयोः रक्तशुक्लचरणभावनम् | मन्त्रोपदेशस्तु स्पष्टः शिष्यमात्रश्रावणविषयगुरुकर्तृकशब्दोच्चारणरूपः | सर्वाः पूर्वोक्ताः | तिस्रश्चेत्यनेन एककालसंबन्धः तासु बोध्यते | च शब्दः साहित्यवाची | साहित्यं च एककालसंबद्धत्वरूपम् | तथा च सर्वाः दीक्षाः सह कुर्यादिति फलितोऽर्थः || ३२ || परेषां मतमाह- एकैकां वेत्येके || ३३ || वीप्सया त्रयाणां समुच्चयः कालभेदमात्रमिति ज्ञापितम् | वाकारेण मध्ये चिरकालव्यवधानं कार्यं न तु दिवसत्रय इति सूचितम् || ३३ || इतः परं गुरुकर्तृकांमाह- सद्गुरुः [इतो गुरुर्दीक्षादानविधिमारभते |] क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससा मुखं बद्ध्वा गणपतिललिताश्यामावार्तालीपरापात्रबिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा || ३४ || साङ्गम् अङ्गैःसहितं क्रमं प्रधानदेवतापूजां प्रवर्त्य कृत्वा | अत्र अङ्गानि गणपतिश्यामावार्तालीपराः | प्रधानं च ललिता | अत्र अङ्गपदेन अङ्गक्रमो लक्ष्यते | अङ्गक्रमसहितं प्रधानक्रममित्यर्थः ||
SK
ननु इदं कथं ज्ञातमिति चेत्-शृणु | अत्रैव द्वितीयखण्डारम्भे इत्थं [द्वितीयखण्डस्य प्रथमसूत्रे इत्थं सदित्यादि १ सूत्रमस्ति |] सद्गुरोराहितदीक्षः महाविद्याऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् इत्यत्र विघ्नापोहाय यत्क्रियते तत्प्रधानम् [अङ्गं] लोके दृष्टम् | यथा राजदर्शनार्थमुद्युक्तस्य मध्ये द्वारपालैः निरोधे कृते सति तदुपासनं राजदर्शनाङ्गमिति | न च प्राणिमात्रस्य विघ्नशंकासत्त्वात् विघ्ननाशको गणपतिरिति घण्टाघोषात् विघ्नपरिहारार्थं यथा कर्ममात्रे गणपत्याराधनं तथा अत्रापि प्राप्तमेवेति इदं वचनं व्यर्थमिति वाच्यम् विनायकस्तवपाठेनापि क्वचिद्विघ्ननाशप्रतिपादनात् आराधनस्य पक्षे प्राप्तौ श्रीविद्योपास्तिविघ्ननिरासोऽनेनैव कार्य इति नियमविधिसंभवात् | एवं तृतीयखण्डादौ एवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः प्. ५४)
SK
क्रममारभेत इति क्त्वाप्रत्ययेनापि अग्निं चित्वा सौत्रामण्या यजेत इतिवत् ललितोपास्त्यङ्गत्वं स्पष्टम् | न च अग्निं चित्वेति वाक्ये पूर्वकर्मणः प्रधानत्वम् उत्तरकर्मणोऽङ्गत्वं तद्वदत्रोत्तरमनुष्ठीयमानललितोपास्तेः गणपत्याराधनाङ्गत्त्वापत्तिः इति वाच्यम् न हि क्त्वाप्रत्ययेनैव पूर्ववर्तिनः चयनस्य प्राधान्यनिर्णयः किं तु प्रजाकामश्चिन्वीत पशुकामश्चिन्वीत इति फलवत्त्वात् चितेः प्रधानत्वं तत्सन्निधौ अफलसौत्रामणेः फलवत्सन्निधावफलं तदङ्गम् इति न्यायेन सौत्रामण्या अङ्गत्वम् | तथा ललितोपास्तेः मुक्तिफलकत्वश्रुत्या विघ्नोपास्तिद्वारा श्रीललितोपासनायाः यत्फलं तदेव तस्येत्यङ्गत्वं कॢप्तम् | अत एव रेवतीषु वारवन्तीयं साम कृत्वा पशुकामो ह्येतेन यजेत इत्यत्र वारवन्तीयसाग्नो न प्राधान्यम् | न च दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत इतिवत् केवलपौर्वापर्यविधिरेव किं न स्यात् इति वाच्यम् | तत्र सोमेन यजेत इत्यनेन सोमस्य दर्शपूर्णमासयोः यदाग्नेयादिवाक्यैः उत्पन्नत्वात् केवलक्रममात्रविधायकत्वम् प्रकृते च ललिताक्रमोत्पत्तिवाक्यान्तराभावात् क्रमविशिष्टकर्मविधानात् | किं च तत्र द्वयोः स्वतन्त्रफलवत्त्वेन अत्र तथात्वाभावाच्च न क्रममात्रविधायकत्वं न वा अङ्गाङ्गिभावहानिः || एतेन इत्थं [इदं ७ खण्डे श्रीवाराहीक्रमे-१ सूत्रस्थम् |] सङ्गीतमातृकामिष्ट्वा कोलमुखीं विधिवद् वरिवस्येत इत्यत्रापि परस्पराङ्गाङ्गीभावापत्तिरिति निरस्ता उभयोरपि राजदर्शनरूपफलकत्त्वेन स्वतन्त्रफलाभावात् || न च एवं सति सौत्रामणिवत् प्रतिप्रयोगमावृत्त्यापत्तिः इति वाच्यम् | न हि वयं प्रधानाङ्गमिति ब्रूमः किंतु ललिताक्रमारम्भाङ्गं अन्वारम्भणीयावत् | अत एव तस्मिन् वाक्ये ललिताक्रममारभेत इति श्रुतम् | स्वकर्तृकोपास्तिक्रियाध्वंसानधिकरणक्षणसंबन्धिक्रमं निर्वर्तयिष्य इति संकल्प एव आरंभपदार्थः | अयं सकृदेव | अतो नावृत्त्यापत्तिः ||
SK
एतेन ब्राह्मे मुहूर्ते गणपत्युपासनाङ्गत्त्वेन हृदयकमले गणेशध्यानं ललितोपास्तो तस्या ध्यानं चैककाले प्राप्तं विरुद्धमिति शंकाऽपि निरस्ता || एवं श्यामाया अप्यङ्गत्त्वं श्यामोपास्तिखण्डे तस्याः प्रधानसचिवपदं श्यामा इत्यनेन कोलमुख्याश्च तत्सपर्याखण्डे महाराज्ञ्याः दण्डनायिकास्थानीया इत्यनेन परायाश्च शिंहासनविद्यायाः हृदयं इत्यनेन च सुस्पष्टम् || तस्मादिमा अङ्गदेवताः | तासां क्रमसहितं प्रधानदेवतायाः क्रमं कृत्वा इत्यर्थः फलितः || प्. ५५) यद्यपि प्रधानदेवतोपास्तौ इमाः अङ्गदेवता इति अङ्गपदेन व्यवहारो भवतु | प्रकृतपूजायां पञ्चापि [अत्र पञ्चशब्देन गणपति ललिता श्यामा वार्ताली परेति पञ्चकं ज्ञेयम् |] समप्रधानानि | अन्यत्र कॢप्ताङ्गत्वं गृहीत्वा तेनैव रूपेण गणपत्यादीन् बोधयित्वा सहशब्देन सर्वेषां तन्त्रानुष्ठानमात्रं विधीयते | तन्त्रे सति देवताक्रमः पाठक्रम एव | अग्रे वक्ष्यमाण यावदङ्गकलापो नामातिदेशेन प्राप्तः | तत्राङ्गानां येषां तन्त्रं संभवति तेषां तथैवानुष्ठानम् | येषां विरुद्धधर्माणां न संभवति तेषां पदार्थानुसमयेन [इदं पदार्थानुसमयकाण्डानुसमयलक्षणं-द्दि. परिशिष्टे ८-विषये दृश्यम् |] | येषां च पदार्थानुसमयो न संभवति तेषां काण्डानुसमयेन | यथायथं बुद्धिमता हि कार्यं ग्रन्थविस्तरभयान्नेह लिख्यते || क्रमं [क्रमं प्रवर्त्य-इत्यादि अनुगत ५३-पत्रस्थं-३४-सूत्रस्थं पदम् |] प्रवर्त्येत्यनेनैव होमस्य प्राप्तौ हुत्वा [इदमप्यधस्ताद्दृश्यम्-] इति होमोत्तरकालस्य शिष्याह्वानाङ्गता सिद्ध्यर्थम् ||
SK
अद्यप्यग्रे क्रमावसरे होमस्य वैकल्पिकत्वात् अत्रापि विकल्पेन प्राप्तौ नित्यत्वद्योतनाय हुत्वेत्यपि वक्तुं शक्यम् तथाऽपि अग्रे गणपति-ललिता- श्यामा-वार्ताली-परा-पात्रबिन्दुभिः तमवोक्ष्य इति वचनात् क्रमसमाप्तिर्नास्तीति सिद्धम् | तर्हि कदा शिष्याह्वानं कार्यमिति कालाकांक्षासत्त्वात् तद्विधानमेवोचितं न तूभयविधिः वाक्यभेदप्रसङ्गात् | होमस्याकरणपक्षेऽपि तदुपलक्षितकालोत्तरत्वं संभवति वत्सैरमावास्यायाम् इतिवत् | एतेन निबन्धे विशेषपात्रविसर्जनान्ते शिष्यमाहूयेति निरस्तः | सर्वेषां विशेषार्घ्यपात्रोद्वासनेन तच्छेषाभावेन पात्रपञ्चकसामान्यार्घ्योदकबिन्दुभिः तमवोक्ष्येति स्वलेखनस्यैव सन्दर्भविरुद्धत्वाच्च || वस्तुतस्तु हुत्वेति स्वात्मनि हविश्शेषं हुत्वेत्यर्थः स्वरसः | अत एव तादृशाहुतिजनिततरुणोल्लासवान् इति वक्ष्यमाणः स्वरसः तरुणोल्लासोऽवस्थाविशेषः | तस्य विवरणं चरणखण्डव्याख्याने स्पष्टम् [इदं-१०-खण्डे-८२-सूत्रे-१८-खण्डे-१८-सूत्रे च किञ्चित् किञ्चित् |] || शिष्यमाहूय इत्यनेन तावत्पर्यन्तं शिष्यस्यान्तःप्रवेशो नास्तीति ज्ञापितम् | तन्नाम सम्बुद्ध्यन्तमुच्चार्य एहीति वदेत् | यथा प्रवर्ग्ये गवामाह्वानं कर्माङ्गम् इदमपि तथा कर्माङ्गम् | तेनोपायान्तरेण आगमनविषयं स्वाभिप्रायं न प्रकटयेत् इत्यर्थः || प्. ५६) एतेन निबन्धे वरणानन्तरं तदैव सशिष्यो विविक्तं दीक्षाप्रदेशमासद्येति लेखः परास्तः समीपवर्तिशिष्यस्य आह्वानासंभवात् न च अदृष्टार्थम् आह्वानम् इति वाच्यम् दृष्टे संभवति अदृष्टकल्पनाया अन्याय्यत्वात् || शेषं स्पष्टम् ||
SK
अत्र पात्रपदेन [पात्रशब्देनात्रानुगत ५३-पत्रस्थ-३४-सूत्रस्थ- पात्रबिन्दुमिरित्येतत्पदस्थ पात्रशब्दोत्र ग्राह्यः |] विशेषार्घ्यपात्रं ग्राह्यम् | कथमेतदिति चेत्-इत्थम् | यदि सामान्यार्घ्यपात्रमेव स्यात् तस्य प्रणीतावत् तन्त्रसिद्धेः तस्य सर्वसंबन्धिन एकत्वात् सामान्यार्घ्यबिन्दुभिरिति लघु सूत्रितं स्यात् | न च त्वत्पक्षेऽपि विशेषार्घ्यपात्राणां बिन्दुभिरिति लघुसूत्रसंभवात् गणपतिललितेत्यादिप्रयासो व्यर्थ इति वाच्यम् एवं सति विधेयसंख्यावाचकबहुत्वस्य त्रित्वे कपिञ्जलाधिकरणन्यायेन पर्यवसानात् पञ्चपात्राणामलाभ एव | न च एवमपि पञ्चविशेषार्घ्यपात्रैरिति लघुसूत्रं संभवति इति वाच्यम् न वयं सूत्रे अक्षराधिक्यं न्यूनत्वं वा हेतुत्वेनोपदिशामः किं तु सामान्यार्घ्यपक्षे तस्यैकत्वात् पराऽन्तं व्यर्थम् | विशेषार्घ्यपक्षे पञ्चपात्रलाभायेति सार्थकम् | अक्षराधिक्यं च स्वतन्त्रेच्छेषु नियन्तुमशक्यम् || वस्तुतस्तु न प्रणीतावत्तन्त्रं सामान्यपात्रस्य गणपतिललिताऽदिषु सामान्यार्घ्यसंस्कारस्य एकरूपत्वाभावात् भिन्नधर्मयोः तन्त्रासंभवात् | न च भिन्नधर्माणां प्रधानानां कथं तन्त्रमिति शङ्क्यम् | प्रधानानां सहानुष्ठानं तन्त्रं न तु सकृदनुष्ठानम् | इह तु सकृदनुष्ठानमुक्तम् अयुक्तमेव सहानुष्ठानं तु भवत्येव | अतो नेदं गमकं पात्रपदेन विशेषार्घ्यग्रहणे किंतु हुत्वा तरुणोल्लासवानित्युक्त्वा पश्चात् पात्रबिन्दुभिरित्युक्तत्वात् होमसाधनीभूतद्रव्यं बुद्धिस्थं पात्रपदेन लक्ष्यते नत्वबुद्धिस्थं सामान्यार्घ्यद्रव्यम् | किं च बिन्दुशब्दो मुख्यद्रव्ये तान्त्रिकाणां संकेतसिद्धः बिन्दुतर्पणसंतुष्टा इति ललिता सहस्रनाम्नि व्यवहारात् | अत एव बिन्दुशब्दोऽपि गमकः | इत्थं च विशेषार्घ्यग्रहणे इदमेव ज्ञापकम् || त शिष्यम् अवोक्ष्य प्रोक्ष्य | इदं शिष्यसंस्काररूपत्वात् गुरुकर्म | शेषं सुगमम् ||
SK
एतेन निबन्धे गणपत्यादिमूलमुच्चारयन् पात्रपंचकसामान्यार्घ्योदकबिन्दुभिः तमवोक्ष्य इति या पङ्क्तिः तत्र मूलमुच्चारयन्निति स्वकपोलकल्पिता सर्वा निर्मला || सिद्धान्तं सिद्धान्तप्रतिपादकवाक्यसमूहं पूर्वोक्तं [पूर्वोक्तशब्देन अनुगत-३-सूत्रतः-३१-सूत्रान्तोक्तज्ञानशिक्षादिवाक्यानीत्यर्थः |] श्रावयित्वा | इदं श्रावणम् अदृष्टार्थं कॢप्तीर्वाचयति इतिवत् नाऽर्थज्ञानार्थम् अतिगहनस्यार्थस्य तावता कालेन बोधासंभवात् | तस्मात् पूर्वोक्तवाक्यानि [पूर्वोक्तशब्देन अनुगत-३-सूत्रतः-३१- सूत्रान्तोक्तज्ञानशिक्षादिवाक्यानीत्यर्थः |] दीक्षाऽपूर्वसहकार्यपूर्वजनकत्वेन श्रावयेत् || ३४ || प्. ५७) शाम्भवी दीक्षा अथ शाम्भवीदीक्षामाह- तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षालितं सर्वशरीरमलङ्कुर्यात् || ३५ || तच्छिरसि शिष्यस्य शिरसि | रक्तशुक्लचरणं-रक्तं कामेश्वर्याः रजस्स्वभावात् | तदुक्तं-रक्तचरणां ध्यायेत् परामम्बिकाम् इति | श्यामारहस्येऽपि- रक्तं तु चरणं देव्या रजोरूपं प्रकीर्तितम् | शुक्लं च तदधिष्ठानचरणं सात्विकं भवेत् || इति || एतेन शुक्लचरणमपि व्याख्यातम् | प्राण्यङ्गत्वादेकवद्भावः भावयित्वा ध्यात्वा तदमृतं चरणसंबन्धि यदमृतम् उदकं तेन क्षालितं नाशितं सर्वपातकं यस्य | ईदृशं शिष्यं कुर्यादित्यर्थः | यद्यप्यन्यपदार्थस्य शिष्यस्य करणं न संभवति तथाऽपि सविशेषणे हि विधिनेषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः इति न्यायेन शिष्यविशेषणस्य पापनाशस्य करणं संभवतीति भावः | तस्य सर्वं यावच्छरीरं गन्धवस्त्रभूषणकुसुमादिभिः गुरुः अलङ्कुर्यात् भूषयेत् || ३५ || शाक्ती दीक्षा शाक्तीं दीक्षामाह- तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरीं ज्वलदनलनिभां ध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा || ३६ ||
SK
तस्य शिष्यस्य मूलं पायूपस्थमध्यवर्तिचतुर्दलकमलाधारदेशः तन्मर्यादति आमूलम् | एवम्-अधोमर्यादामुक्त्वा ऊर्ध्वमर्यादामाह- ब्रह्मबिलं सहस्रदलकमलाधारभूतं मर्यादा अस्येति आब्रह्मबिलं प्रज्वलन्तीम् अत एव प्रकाशानां लहर्यः ऊर्मयो यस्यां तादृशीम् अत एव ज्वालायुक्तो योऽनलोऽग्निः तन्निभां तदुपमां ध्यात्वा संविदमिति शेषः | ज्वलदनलनिभत्वादेव पापपाशदाहकत्वमुपपन्नम् | पापपाशस्य दाह एव न भावनम्-अत एव दग्ध्वेति || यद्यपि अत्रत्यपाठक्रममनुसृत्य आदौ शाम्भवी ततः शाक्तीति प्रतिभाति तथाऽप्युपक्रमे दीक्षाविभागवेलायां शाक्ती शाम्भवी मान्त्री चेति चोक्तत्वात् उपक्रमानुसारेण उपसंहारोऽन्यथा नेयः वेदोपक्रमाधिकरणन्यायेन | अत एव तत्पाशदाहानन्तरं तद्भस्मरूपमलस्य प्. ५८) सत्त्वात् चरणनिर्गतजलेन तत्क्षालनरूपार्थवत्त्वादर्थक्रमोऽप्युपपन्नः | तथा चादौ शाक्तीं दीक्षां संपाद्य पश्चाच्छाम्भवीं कुर्यादिति सिद्धम् || गुरुः क्रमं प्रवर्त्य इत्यारभ्य सिद्धान्तं श्रावयित्वा इत्येतदन्तोऽङ्गकलापोऽनयोरेव प्रकरणसन्निधिभ्यां शुन्धनमन्त्रस्येव सान्नाय्ये इति केचित् | तन्न | तथा सति तृतीयायां दीक्षायाम्-उत्तरत्र प्रथमसिक्तान् द्वितीयखण्डाग्रान् ग्रासयित्वा इति विहितं तदनुपपन्नम् साङ्गक्रमविधेः तदनङ्गत्वेन तत्र क्रमप्राप्त्यभावेन प्रथमद्वितीययोरभावात् | न च असंस्कृतं लौकिकं ग्रहीतुं शक्यम् | तस्मात् लिङ्गेन सन्निधिं बाधित्वा त्रयाणाम् अङ्गम् | इत्थं च यदा एकैकां वेति पक्षानुसरणं तदा तृतीयदीक्षायां पूर्वोक्तान्यङ्गान्यनुष्ठेयानि ||
SK
एतेन निबन्धे अमृतक्षरणेन बाह्यमाभ्यन्तरं च मलं दूरीकुर्यात् अथ शिष्यस्यामूलाधारमित्यारभ्य तत्किरणैः [तस्याः प्रकाशलहर्याः किरणैरित्यर्थः |] तस्य पाशान् दहेत् इत्यस्य द्वितीयत्वं लिखितं निरस्तम् | पूर्वदीक्षयैव बाह्याभ्यन्तरमलदूरीकरणे अस्मिन् मलस्याभावेन उत्तरदीक्षया दाहासंभवाच्च | न च पूर्वदीक्षया दूरीकृतं मलं बहिस्तिष्ठति तस्योत्तरदीक्षया दाह इति वाच्यम् शरीरे विभाविताग्निना शरीरस्थमलस्यैव नाशो भवेत् न दूरीकृतस्य | तस्मादस्मत्सरणिरेव साध्वीति युक्तमुत्पश्यामः || ३६ || मान्त्री दीक्षा मान्त्रीदीक्षाप्रयोगं वक्तुमुपक्रमते- त्रिकटु [१] त्रिफला [२] चतुर्जात [३] तक्कोल [४] मदयन्ती [५] सहदेवी [६] दूर्वा [७] भस्म [८] मृत्तिका [९] चन्दन [१०] कुङ्कुम [११] रोचना [१२] कर्पूर [१३] वासितजलपूर्णं वस्त्रयुगवेष्टितं [नवीनवासो-अ. श्री.] नूतनकलशं बालाषडङ्गेनाभ्यर्च्य श्रीश्यामावार्तालीचक्राणि निक्षिप्य तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण [अस्त्रध्येनुयोनिप्रभृत्यनेकमुद्रोद्धारज्ञानाय द्वि. परिशिष्ट-१५ विषयः स्वतन्त्रो दृश्यः |] प्रदर्श्य धेनुयोनी || ३७ || त्रिकटुः पिप्पलीशुण्ठीमरीच्यः | त्रिफलाः हरीतकीधात्रीविभीतक्यः | तदुक्तं वैद्यसारे- शुण्ठीमरीचिपिप्पल्यः प्रोक्तस्त्रिकटुसंज्ञकाः | त्रिफलेति समाख्याता पथ्याधात्रीविभीतकैः || इति || चतुर्जातं उशीरैलालवङ्गनागकेसराणि | तदुक्तं मदनमहार्णवे- प्. ५९) लवङ्गमेलोशीरं च त्रिसुगन्धं प्रकीर्तितम् | नागकेसरसंयुक्तं चतुर्जातं प्रचक्षते || इति || तक्कोलः [तक्कोलः गुर्जरदेशे-चिनीकबाला-इति नाम्ना-सुविदितः अत्र च प्रायः कङ्कोलशब्दोऽवधेयः |]-मरीचिसदृशः ताम्बूलेन सह भक्ष्यः शैत्योपचारहेतुः वस्तुविशेषः | मदयन्ती सहदेवी वैद्यके प्रसिद्धे आरण्यके | दूर्वा भस्म मृत्तिकाः प्रसिद्धाः ||
SK
यत्तु मृत्तिकापदेन निबन्धे सप्तमृत्तिकाग्रहणं तन्निर्मूलम् | यदि मृत्तिकापदेन सर्वत्र सप्तमृत्तिकाग्रहणं तर्हि मूलनक्षत्रजननशान्तौ- सप्तमृद्भिः समायुक्तं पञ्चपल्लवसंयुतम् इत्यत्र सप्तग्रहणं व्यर्थम् | एवं स्नानार्थं मृदमाहरेत् इत्यत्रापि तथाऽपत्तिश्च || एतैर्युक्तमिति जलेन साकं मध्यमपदलोपसमासः वासितमित्यनेन दूर्वाऽदीनामन्वयासम्भवात् | चन्दनं प्रसिद्धम् | कुङ्कुमं काश्मीरम् | रोचना गोरोचनम् | कर्पूरं प्रसिद्धम् | एतैर्वासितं यज्जलं तेन पूर्णं वस्त्रयुगेन वेष्टितं नूतनम्-अभुक्तं कलशं बालाषडङ्गेन [एतच्छ्रीबालात्र्यक्षरीमन्त्रषडङ्गन्यासप्रात्यक्ष्यतद्देवता- मन्त्रोद्धारणर्षिच्छन्दोविषयादिज्ञानाय द्वि. परिशिष्टे-९-वि. दृश्यः|] ऐं हृदयाय नमः इति क्रमेण बीजत्रयद्विरावृत्त्या अग्रे [अग्रे नाम मन्त्रनिर्देशमन्तरा षडङ्गन्यासकरणेतिकर्तव्यतामात्रं त्वग्रे-३-खण्डे श्रीक्रमे १९ सूत्रे तद्भाष्ये चास्तीत्यतोऽवगम्यम्-प्रत्यक्षं तु-द्वि-प-शि. ९- विषये विद्यते |] वक्ष्यमाणरीत्या अग्नीशासुरवायुकोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण | अत्र षडङ्गनाम्ना उक्तधर्मातिदेशः | श्रीश्च श्यामा च वार्ताली चेति तासां चक्राणि निक्षिप्य स्थापयित्वेत्यर्थः | कुत्रेत्याकांक्षायां समीपवर्तित्वात् कलशे एव | तत्रापि न पूर्णपात्राद्युपरि निक्षिप्येति स्वारस्यात् किं तु जले [अत्र जले एव नाम- कलशस्थजले एवेति बोध्यम्] एव || यद्यपि उद्धरणस्यानुक्तवात् योग्यताबलाच्च कलशसमीपदेशे इत्यपि वक्तुं शक्यम् तथाऽपि पूजायां भूमौ चक्रस्थापनं विना पूजाऽसंभवेनार्थापत्त्याऽतिदेशेन वा स्थापनस्य प्राप्तत्वेन क्षिप्तत्वेन क्षिप्त्वेत्यस्य वैय्यर्थ्यभिया जले प्रक्षेप आवश्यकः || न च यत्र क्वचन स्थापनम्-अर्थापत्त्यादिना प्राप्तं न कलशसमीपदेशे तदर्थं तत् इति वाच्यम् कलशसमीपदेशापेक्षया कलशस्यैव आधारत्वकल्पने लाघवात् ||
SK
किं च कलशसमीपस्थचक्रपूजा न कलशसंस्कारो भवितुमर्हति तदसंयुक्तत्वात् | अत्र पूर्वं षडङ्गैरभ्यर्च्येति कलशसंस्कारः | संरक्ष्यास्त्रेणेत्यादिरपि तथा | उभयतः सन्दष्टं कथं तत्संस्कारभिन्नं विजातीयं भवेत् | ततो जल एव चक्राणां क्षेपः तत्रैव पूजनं पूजाऽरम्भसमय एव जले प्रक्षेपः | तेन आवाहनोत्तरं कथं चक्रचालनमिति शङ्काऽनवकाशः || प्. ६०) यद्वा-कलशे क्षिप्त्वेति वचनं विसर्जनपर्यन्तं न चालयेत् इत्यस्य बाधकं भवितुमर्हति | युक्तश्चायमेव पक्षः | अन्यथा साङ्गं क्रमं निर्वर्त्येत्यस्य समीप एव कलशे निक्षिप्येति वदेत् | तिसृणां [इमाः श्रीललितादयस्तिस्रो देव्यः-अनुगते-५३-पत्रे ३४ सूत्रोक्ता श्रीललिताश्यामावार्ताल्यः | इति-ज्ञेयाः |] ललिताऽदीनाम् आवरणमन्त्रैरित्यनेन केवलपञ्चोपचारपूजाव्यावृत्तिः | अभ्यर्च्य पूजयित्वा || इदं पूजनम् अपूर्वम् अनेन विधीयते | पूजनोत्तरम् उद्धरणम् आर्थिकम् | पूजनं तु कुलद्रव्येणैव तत्तद्विशेषार्घ्यपात्रस्थेन कुसुमाक्षतैश्च अपूर्वपूजामात्रविधानात् | तावन्मात्रं कृत्वा चक्रोद्धरणं कार्यम् | जलादुद्धृतचक्राणामुपरि गन्धपुष्पाक्षतनिक्षेपो न्यायसिद्धः || अस्त्रेण [एतदस्त्रमुद्रार्थं तत्पुरतःस्थधेनुयोनिमुद्रार्थंच द्वि. प. शि. १५- ७/१४ १५-८/१-२ १५-८/२ वि दृश्याः |] फट् इति मन्त्रेण संरक्ष्य रक्षोभूतपिशाचानां दुराधर्षं कृत्वा | धेनुयोनिमुद्रेप्रसिद्धे ते प्रदर्श्य तदुपरि कृत्वा || ३७ || मातृकायन्त्रम् मातृकायन्त्रमाह [तदनन्तरकृत्यमाह-अ श्री.]- शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके क च ट त प य श लाक्षरवर्गाष्टयुक्ताष्टदले दिगष्टकस्थित ठं वं चतुरश्रे मातृकायन्त्रे [अधस्तनभाष्यावलोकनेनेदं मातृकाचक्रं-सुविदितमेव-स्यात् |] शिष्यं निवेश्य तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् || ३८ ||
SK
शिवो हकारः तेन युक्तः सौवर्णः सौ-इति वर्णः सः कर्णिकायां कमलमध्यदेशे यस्य एतादृशे | अत्र पूर्वोक्तवर्णोपरि विसर्गोऽपि योजनीयः व्योमेन्द्वौरसनार्णकर्णिकम्- इति श्रीशङ्करभगवत्पादैः उक्तत्वात् [एवं च-हसौः-इति निष्पन्नं-ज्ञेयम् |] | इमानि सर्वाणि कमलविशेषणानि | स्वराः अकारादिविसर्गान्ताः षोडश तेषां द्वंद्वं द्वयं द्वयं तेन जुष्टं युक्तं किञ्जल्काष्टकं पत्रयुगमध्यवर्तिदेशविशेषः यस्येति बहुव्रीहिः | कश्च चश्च टश्च तश्च पश्च यश्च शश्च लश्च इति द्वन्द्वः द्वन्द्वान्ते श्रूयमाणं प्रत्येकं संबध्यते इति न्यायेन वर्गपदं सर्वैः सम्बध्यते | तथा च कवर्गमारभ्य प्. ६१) पवर्गपर्यन्तं पञ्च पञ्च वर्णाः यवर्गश्चत्वारः शवर्गोऽपि तथा लक्ष् इति लवर्गः एवम्-अष्टवर्गैर्युक्तानि अष्टदलानि यस्येति बहुव्रीहिः | एकैकदले एकैकं वर्गं लिखेत् इति फलितार्थः || केसरेषु दलेषु च वर्णलेखने क्रमाकांक्षायां प्राच्यदिक्रम एव धर्तव्यः | यद्यपि दलकेसरयोः द्वयोरपि प्राची न संभवति तथाऽपि पद्मकुण्डलेखनप्रकारेण लेखने कर्णिकायाः प्राची तदनुसारेणैव दलेषु वर्णलेखनक्रमोऽनुसन्धेयः || दिशां यदष्टकं प्राच्यादीशानदिगन्तं तेषु स्थितौ वकारठकारौ यस्मिन् ईदृशं चतुरश्रं [अत्रागामिग्रन्थे च अस्रशब्दो दन्त्यसकारान्तो ज्ञेयः |] यस्मिन्निति बहुव्रीहिः | ईदृशे मातृकासंज्ञके यन्त्रे शिष्यं निवेश्य स्थापयित्वा ||
SK
तदित्थं-पद्मकुण्डवदष्टदलं पद्मं विलिख्य तद्बहिर्द्वाररहितं चतुरश्रं [अत्रागामिग्रन्थे च अस्रशब्दो दन्त्यसकारान्तो ज्ञेयः |] विलिख्य कर्णिकायां ह्सौः इति विलिख्य प्रागादिकेसरेषु अ आ इति क्रमेण स्वरद्वयमेकैककेसरे स्वरमेकं विलिख्य पत्रान्तः पूर्वोक्तस्थाने [पूर्वादिदिक्स्थपत्रमध्यविभागाश्रयेणेति ज्ञेयम् |] काद्यष्टवर्गान् प्रत्येकम्-एकैकस्यान्तः एकैकं वर्गं विलिख्य तद्बहिश्चतुरश्रे [अत्रागामिग्रन्थे च अस्रशब्दो दन्त्यसकारान्तो ज्ञेयः |] प्रागादिदिगष्टके वं ठं-इति लिखेदिति समुदितार्थः | तदुक्तं भगवत्पादैः- व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं पत्रान्तर्गतपञ्चवर्गयशलार्णादित्रिवर्गं क्रमात् | आशास्वश्रिषु [अत्रागामिग्रन्थे च अस्रशब्दो दन्त्यसकारान्तो ज्ञेयः |] लान्तलाङ्गलियुजा क्षोणीपुरेणावृतं वर्णाब्जं शिरसि स्थितं विषगदप्रध्वंसि मृत्युञ्जयम् || इति || व्योम हकारः इन्दुः सकारः औ स्वरूपं रसनार्णं विसर्गः लान्तो वकारः लाङ्गलिः ठकारः शेषं स्पष्टम् || तिसृभिः श्रीश्यामावार्तालीविद्याभिः [अत्र वार्तालीशब्देन-वाराही-ज्ञेया- | विद्याशब्देन च-तासां तिसृणां मूलमन्त्रा ज्ञेयाः |] स्नपयेत् सर्वाङ्गे जलसंयोगो यथा भवति तथा कुर्यात् | तेनेतिविशेषणात् उदकान्तरमपर्याप्तौ न ग्राह्यमिति सूचितम् | अयमेव पूर्णाभिषेक इत्युच्यते || ३८|| मान्त्रीं दीक्षामुपसंहरति- सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्य हस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान् पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्ग्रासयित्वा दक्षिणकर्णे बालामुपदिश्य पश्चादिष्टमनुं वदेत् ||३९|| प्. ६२)
SK
सदुकूलमित्यादि पार्श्वे निवेश्येत्यन्तः स्पष्टार्थः | बहिर्मातृकान्यासः [अयं न्यासो महानिर्वाणतन्त्राद्यनेकतन्त्रग्रन्थस्थ एव ग्राह्यो नाधुनिकपुस्तकात् |] स्वाङ्गे तन्त्रान्तरोक्तो यथा क्रियते तद्वच्छिष्याङ्गे विन्यस्य विमुक्तमुखकर्पटस्य पूर्वं मुखं येन बद्धं विमुक्तं मुखवस्त्रं यस्य तस्य हस्ते || इदं दीक्षात्रयस्य तन्त्रपक्षे | केचिन्मतानुसारेण क्रमिकदीक्षापक्षे तत्तद्दीक्षाऽन्ते विसर्गः || यद्वा-सूत्रकारस्य तन्त्रदीक्षाया एव अभिमतत्वात् तन्त्रपक्षे एव मुखबन्धनम् || प्रथमसिक्तान् अत्र प्रथमम्-असंस्कृतम्- आज्येन यूपमनक्ति इतिवत् | एवमेव द्वितीयं जाघन्या पत्नीः संयाजयन्ति इतिवत् || वस्तुतस्तु-क्रमस्य पूर्वं विधानात् तच्छेषस्य संस्कृतस्य विद्यमानत्वात् प्रायणीयस्य निष्कासे उदयनीयमभिनिर्वपति इतिवत् उपयोक्ष्यमाणसंस्कारार्थं तावत्कालं पात्रविसर्जनमकृत्वा स्थापितत्वात् संस्कृतप्रथमसिक्तद्वितीयखण्डानामेव दानं न त्वसंस्कृतस्य || बहुवचनेनैव कपिञ्जलन्यायेन त्रित्वालाभे त्रीनिति पुनर्विशेषणात् सकृदेव त्रयाणां न निक्षेपः किन्त्वेकैकमिति द्वौ परिधी परिदधाति इतिवत् || तत्त्वमन्त्रैः आत्मतत्त्वं शोधयामि नमः स्वाहा विद्यातत्त्वं शोधयामि नमः स्वाहा शिवतत्त्वं शोधयामि नमः स्वाहा इति त्रिभिः | ग्रासयित्वेति णिजन्तश्रवणात् आचार्यानुज्ञाऽनन्तरं भक्षणम् | बालां त्र्यक्षरीम् | उपदिश्येत्यन्तमङ्गम् | इष्टमनुं पञ्चदशीषोडशीरूपं वदेत् उपदिशेदित्यर्थः [इत एतत् ३९ सूत्रटीकान्तं दीक्षाविधौ पञ्चदशीषोडश्युभयग्रहणकः शास्त्रार्थः |] ||
SK
ननु नायं षोडश्या उपदेशविधिः मनुम्-इत्येकवचनेन केवलपञ्चदश्या एव विधिः | न च वैपरीत्ये किं विनिगमकम्-इति वाच्यम् बालोपदेशानन्तरं पञ्चदश्या एव प्रसक्तत्वेन एकवचनेन तस्यैव ग्रहणात् [न विनिगमनाविरहः इत्यधिकः-ब २.] | किं च अस्मिन् तन्त्रे यदि षोडश्युपदेशोऽभिमतः स्यात् तर्हि तदुद्धारं कुर्यात् | यतोऽस्मिन्ननुद्धारः अत एवानभिमत इति चेत्-न | न [नहि एकवचनानुसारेण तत्सिद्धिः इत्यधिकः-ब २.] हि सर्वत्र विधेयविशेषणानां संख्यावाचकानां विवक्षायामपि प्रकृत्यर्थ एवान्वयः इति नियमः तदवच्छेदकेनाप्यन्वयस्य दृष्टत्वात् | तथा च जात्यन्वितमेकवचनमुपपन्नम् | तथा सति कथं तदनुसारेण षोडशीनिवृत्तिः | अन्यथा ब्राह्मणं न हन्यात् इत्यत्र ब्राह्मणद्वयहनननिषेधः न स्यात् | अस्तु वैकवचनविवक्षा | तथाऽपि न षोडशीनिवृत्तिः वचनानुसारेण वरिष्ठायाः प्. ६३) एकस्याः षोडश्या उपदेशानन्तरं पश्चात् श्यामारश्मिमालाऽदिविद्योपदेशावसरे पञ्चदश्युपदेशे बाधकाभावात् | अनुद्धारादग्रहणमिति यत् तदपि न | पञ्चदश्या अपि अनुद्धारेण तस्याः अप्युपदेशो न स्यात् || न च मूलाधारे विभावनीयरश्मिपञ्चकमध्ये मादनशक्तीत्यनेन सोद्धृतेति वाच्यम् सा पञ्चदशी न सर्वसाधारण्येनोद्धृता किंतु [इदं रश्मिमालापञ्चकं-१०-खण्डीय-९-सूत्रतः २८ सूत्रान्तग्रन्थेस्ति ||] रश्मिपञ्चकावयवरूपा | अत एव तत्र तस्याः महाविद्येत्युक्तम् | अन्यथा तस्या इत्यस्य सार्थक्यं ब्रह्मणाऽपि दुरुपपादम् | अतः पूर्वप्रतिपादिताङ्गोपाङ्गप्रत्यङ्गपादुकासहितविद्या एका | तदवयवभूता विद्या कथं प्रधानभूता भवेत् || किं च-स्वतन्त्रे अनुद्धृतं न ग्राह्यम्-इति किं सूत्रकाराभिप्रायो निष्कास्यते अथवा स्वतन्त्रे अनुद्धृतं न ग्राह्यम्-इति वचनान्तरेण निष्कास्यते ?
SK
नाद्यः एतादृशाभिप्रायनिष्कासकलिङ्गस्य सूत्रे अभावात् | किंच- बालामन्त्रस्त्र्यक्षरो न कुत्राप्युद्धृतः स्वयं च बालामुपदिश्येति वदति | एतेनानुद्धृतोऽपि ग्राह्य इति सूत्रकाराभिप्रायः सुस्पष्टः | न च रश्मिमालासु [अग्रे-१० खण्डीयसर्वसाधारणक्रमे-२९-सूत्रे-इत्यर्थः |] श्रियोऽङ्गत्वेन नवार्णबालाया उद्धृतत्वेन बालामुपदिश्येत्युक्ते सैव ग्राह्या इति वाच्यम् | यदि नवाक्षरीविद्या बालापदेन विवक्षिता तर्हि अग्रे पञ्चदशनित्यामन्त्रोद्धारे [ || ४- || ललिता-|| ९-सूत्रे बाला एव-कुलसुन्दरी-वा- कुमारी-वा-उक्ता |] कुमारी कुलसुन्दरी इति कुलसुन्दरीमन्त्रे कुमारीवर्णसादृश्यविधानेन तत्रापि नवार्णत्वप्रसङ्गः | इष्टापत्तौ दूषणं कुलसुन्दरीमन्त्रोद्धारे वक्ष्यामः | एवं श्रीविद्यान्यासप्रकरणे बालाद्विरावृत्त्या कॢप्तषडङ्ग इत्यत्र नवार्णाद्विरावृत्त्या षडङ्गन्यासस्तु सर्वसंप्रदायविरुद्धः | तस्मान्न नवार्णाऽत्र बाला किं तु त्र्यक्षर्येव | अत एव रश्मिमालायां नवार्णामन्त्रे श्रियोऽङ्गं बालेत्येवोक्तं न तु बालेति | इतोऽप्यधिकयुक्तिकलापं रश्मिमालामन्त्रोद्धारे वक्ष्यामः [दशमखण्डस्थ० ९ सूत्रादारभ्य पञ्चेमा-इत्यादि-२८-सूत्रान्तेन अथवा- ५०-सूत्रान्तेन ग्रन्थेन वक्ष्याम इति सम्बन्धो ज्ञेयः |] | अतः स्यात् त्र्यक्षरी | बाला तु न क्वचनोद्धृता किं तु तन्त्रान्तरे कॢप्तं गृहीत्वैवोपदिश्येति व्यवहृतम् | अपि च तत्त्वमन्त्रैः ग्रासयित्वेति सूत्रितम् | मन्त्राश्च नोद्धृताः | एवं वाराहीप्रकरणे त्रयोगुणमन्त्राः इत्यादयो नोद्धृताः | तेन न सूत्रकारस्यायमभिप्राय इति सिद्धान्तः || न द्वितीयः तादृशशास्त्रस्य कुत्राप्यनुपलब्धेः || किंच-एतद्दीक्षाऽवसाने शिष्योऽपि पूर्णतां भावयित्वेति विदितवेदितव्य इति अशेषमन्त्राधिकारीति शिष्यविशेषणत्रयं श्रूयते | तत्र पूर्णत्वं गुरोर्ग्राह्यशेषरहितत्वम् | यदि प्. ६४) पञ्चदश्यैव अशेषदीक्षारिपपूर्तिः तर्हि शेषस्य षोडशीग्रहणस्य सत्त्वात् पूर्णताभावनाविधानं कथम् | एवमेव विदितवेदितव्यत्वमनुपपन्नम् ||
SK
न च पञ्चदश्यैव सूत्रकारमते कृतार्थता पूर्णताऽस्तु तेनैव मोक्षसिद्धिरस्तु इति न काऽप्यनुपपत्तिः इति वाच्यम् एवमप्यशेषमन्त्राधिकारीत्यत्र किं पञ्चदश्युपदेशेन षोडश्यामप्यधिकारः स्वीक्रियते अथवा अशेषपदस्य षोडशीभिन्ने सङ्कोचः क्रियते | नाद्यः पञ्चदश्यपेक्षया षोडश्याः अल्पफलजनकत्वापत्तेः | यो गुरुकार्ये अधिकृतः सः लघुकार्ये अधिकृतो भवति | यथा यो गङ्गातरणे अधिकृतः स कुल्यातरणे अधिकृतः | नतु विपरीतं लोके दृष्टम् | न द्वितीयः सङ्कोचे मानाभावात् || तस्मात् एवं निष्पक्षपातेन विचार्यमाणे इष्टमन्त्रपदेन पञ्चदशीषोडश्योः ग्रहणे न किमपि बाधकं पश्यामः || अस्तु वा परसंतोषाय पञ्चदशीदीक्षामात्रं सूत्रकाराभिप्रेतम् | तथाऽपि तद्दीक्षावान् अल्पदीक्षावान् तन्मण्डले षोडशीदीक्षावता तन्त्रान्तरानुयायिना न प्रवेष्टव्यं सेवकगृहे राजप्रवेशवत् इति महेश्वरानन्दनाथा आहुः | तन्न | तथाहि-दीक्षायामल्पत्वम् अल्पाक्षरमन्त्रत्वं वा किमल्पफलसाधनमन्त्रत्वम् | आद्ये श्रीविद्यादीक्षातो वाराह्याः ततोऽपि श्यामादीक्षायाः वरिष्ठत्वापत्तिः | द्वितीये तन्त्रान्तरे षोडशीदीक्षायाः यत्फलं तदेव अस्यापि फलं श्रूयते कृतकृत्यो विदितनिखिलवेदितव्यो जीवन्मुक्तो भवतीत्यादिपदैः [नाम तत्तत्खण्डसमाप्तिस्थसूत्रस्थपदैरित्यर्थः |] प्रतीयते | तथा च तुल्यत्वान्न न्यूनदीक्षावत्त्वम् || ननु तर्हि तन्त्रान्तरे पञ्चदशीदीक्षा न्यूनदीक्षा भवतीति श्रूयते | तस्य का गतिः इति चेत्-न यस्मिन् तन्त्रे षोडशीपञ्चदश्योः समुच्चयः तस्मिन् तन्त्रे पञ्चदश्याः अपरिपूर्णफलत्वात् षोडशीदीक्षायास्तथात्वात् | तन्त्रानुसारिणावुभौ तत्रैकः पञ्चदश्या दीक्षितः एकः षोडश्या दीक्षितः तस्याग्रे कर्तव्यशेषसत्त्वादपरिपूर्ण इति तस्य मण्डले गुरुदीक्षितेन न गन्तव्यमिति युक्तम् | इह तु तुल्यफलं प्रमाणेन सिद्धं कथं गुरुत्वं लघुत्वम् | विचारयन्त्वनाग्रहेण |
SK
न च कारणलाघवगौरवेण फललाघवगौरवमस्त्येव इति वाच्यम् तथा सति केवलवह्न्यार्थिनौ द्वौ | तत्रैकेन लोहपाषाणसम्बन्धेन वह्निर्निर्मितः | एकेन अरणिनिर्मथनेन निर्मितः | तत्र पूर्वापेक्षया परस्य वह्निनिर्माणे कालाधिक्यं पुरुषाधिक्यं श्रमाधिक्यमिति बहुकारणगौरवमिति तदीयवह्नेरधिकदाहजनकत्वं स्यात् | एवं बौधायनसूत्रानुसारिदर्शपूर्णमासप्रयोगापेक्षया प्. ६५) आपस्तम्बप्रयोगस्य द्विगुणत्वेन आपस्तम्बसूत्रानुयायिनां द्विगुणस्वर्गोत्पत्त्यापत्तिः | आपस्तम्बसूत्रानुसारिणो बौधायनसूत्रानुयायितो गुरुतरत्वापत्तिः | तस्मादधिकफलजनकत्वातिरिक्तं गुरुत्वं दीक्षायां दुर्वचम् || प्रकृते तदभावात् कथं लघुदीक्षावत्त्वं सूत्रानुयायिनः गुरुसाधने तुल्यफलत्वेऽपि प्रवृत्तिः | स्वपूर्वगुरुपरम्पराऽगतसाधनमन्तरा तदधिकारिणः फलं न भवतीति शास्त्रेणैव न फलाधिक्येच्छया | अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति इत्यादौ फलतारतम्यव्यवस्थापनं च तादृशशास्त्राभावादधिकारिभेदेन व्यवस्थासंभवाद्युक्तम् | तस्मादत्र न न्यूनाधिकदीक्षाभाव इति | सुधीभिः शेषमूह्यम् || अयं पक्षः परतुष्टये अंगीकृत्य चालितः | वस्तुतस्तु इष्टमन्त्रपदेन षोडशीग्रहणे बाधकाभाव उक्तः प्राक् || न च उषःकालक्रियायां कादिं हादिं वा मूलविद्यां मनसा दशवारमावर्त्येत्यत्र कादिं हादिं वेति विद्याविशेषणं अत्र षोडश्यभावे लिङ्गम् इति वाच्यम् ताभ्यां विशेषणाभ्यां उषःकालक्रियासन्निधौ पठिताभ्यां तदङ्गत्वेन षोडशी निवर्ततां कामं तथाऽपि सर्वत्र षोडशीं निवर्तयितुं तयोः का शक्तिः | आरामगमनकाले अश्वमानय इति राज्ञो वाक्येन आरामगमनसाधनशिबिकाऽदियानबाधेऽपि अश्वपदघटितं वाक्यं सदा यानान्तरं न बाधितुं समर्थं भवति ||
SK
तस्मात् षोडश्युपदेशः आवश्यकः सूत्रानुयायिनामपि | इतोऽप्यधिकं सुधीभिराग्रहं परित्यज्य विचार्यम् | धर्मतत्त्वविवेचने स्वमतपक्षपातो नरकायैव भवेत् इत्यलं भूयसा || ३९ || शिष्यनामनिर्देशः गुरुकर्तृकं कर्मशेषं वदति- ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद्वा क्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यं स्पर्शयित्वा तदङ्गमातृकावर्णादि द्व्यक्षरं त्र्यक्षरं चतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् || ४० || ततः इत्यनेन वक्ष्यमाणानां धर्माणाम् उत्तराङ्गत्वं सूचितम् | स्वस्य गुरोः चरणम् अनादेशे दक्षिणं प्रतीयात् इति परिभाषया दक्षिणचरणमेव न्यसेत् | सर्वान् मन्त्रान् प्रकरणेन सर्वपदसङ्कोचे सर्वे हारियोजनं लिप्सन्ति इतिवत् श्रीविद्याऽङ्गभूतान् गणपति-श्यामावार्ताली- प्. ५५) परा-पञ्चदशी-नित्या-रश्मिमाला-मन्त्रादीन् [अतः परं वक्ष्यमाणानित्यर्थः |] सर्वान् | सकृद्वा इत्यत्र वाकार एवकारार्थः | तदानीमेवेत्यर्थः | क्रमेण वा तत्तदुपासनवेलायां वा | यथाऽधिकारम् इत्यनेन व्यवस्थितविकल्पः सूचितः | भक्तिश्रद्धाऽधिक्यवतः तदानीमेव किंचिन्न्यूनतद्वतः क्रमेणेति | स्वाङ्गेषु इत्यत्र अङ्गपदं शरीरावयवपरम् | स्पर्शं कुर्वित्याज्ञां दद्यात् | ततः शिष्यो यमवयवं स्पृशेत् तत्र मातृकान्यासे यो वर्णः सः आदिः यस्मिन् ईदृशम् | इदं नामविशेषणम् | यथा शिरस्स्पर्शे तत्र मातृकावर्णः अकारः सः आदिर्यस्य अमृतानन्दनाथ इति | एवमेव सर्वत्र योज्यम् | द्व्यक्षरं वेत्यादिः स्पष्टार्थः | आनन्दनाथशब्दान्तं स्पष्टम् | तस्य शिष्यस्य नाम दिशेत् स्थापयेत् || ४० || गुरुपादुकामन्त्रदानम् विस्मृतं पुनराह- बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां दद्यात् || ४१ || द्वितीयशकलग्रासानन्तरं बालोपदिष्टेः पूर्वम् आत्मनः पादुकाम् आत्मनः गुरोः दीक्षाकाले दत्तं यन्नाम तद्धटितपादुकाऽन्तं मन्त्रं षट्तारयुक्तं तस्मै उपदिशेत् | षट् ताराश्च कुलार्णवे-
SK
वाग्भवं च परा श्रीश्च कालीबीजं ततः प्रिये | भुवनेशी मन्मथं च षट् ताराश्च प्रकीर्तिताः || इति || अमुकानन्दनाथश्रीपादुकां पूजयामीति || एतेन निबन्धस्थपादुकामन्त्रः सूत्रानवलोकनकल्पितः परास्तः || यद्यप्यत्र पाठक्रमेण अत्रैवोपदेशः प्राप्तः तथाऽपि आश्विनो दशमो गृह्यते इतिवत् श्रौतक्रमेण तस्य बाधो युक्तः || ४१ || आचारानुशासनादि आचाराननुशिष्य हार्दचैतन्यमामृश्य विद्यात्रयेण तदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवघ्राय स्वात्मरूपं कुर्यात् || ४२ || आचारान् दशमखण्डे वक्ष्यमाणान् [अग्रे दशमखण्डस्थ सर्वभूतैरविरोधः-इति-५७-सूत्रात्-८० सूत्रे वक्ष्यमाणानित्यर्थः |] अनुशिष्य शिक्षयित्वा हार्दं हृदयाकाशसंबन्धि चैतन्यं तमिति शेषः शिष्यम् आमृश्य ध्यात्वा स्वहृदयस्थचैतन्याभिन्नं शिष्यं भावयित्वेत्यर्थः | विद्यात्रयेण श्री-श्यामा-वार्तालीविद्याभिः | विद्यात्रयं एकदा पठित्वा परिमार्जनं प्रथमं ततो द्विः तूष्णीं त्रिः प्रोक्षति इतिवत् न तु त्रिभिस्त्रिवारम् | तथा सति तिसृभिर्विद्याभिरित्येव प्. ६७) वदेत् | विद्यात्रयेणेतिकरणे एकत्ववैशिष्ट्यं प्रतीयते | तस्मान्न तथा | परिमार्जनं नाम स्वहस्तेन शिष्यस्य सर्वशरीरस्पर्शः | परिरभ्य आलिङ्ग्य मूर्धन्यवघ्राय स्वात्मरूपं कुर्यात् स्वस्य यथा आत्मा मोक्षप्रतिबन्धकपौरुषमलरहितः तथा तं कुर्यात् || ४२ || शिष्यस्य अशेषमन्त्राधिकारित्वम् सद्गुरुरित्यारभ्य एतदन्तं [पाश्चात्यपत्रस्थ ३४ सूत्रारम्भतः एतत्सूत्रभाष्यावधीत्यर्थः |] गुरुकर्तृकं कर्म इतः परं शिष्यकर्तृकक्रिया भवति- शिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्ति वित्तैरुपचर्य विदितवेदितव्योऽशेषमन्त्राधिकारी भवेदिति शिवम् || ४३ || इति श्रीरेणुकागर्भसंभूत-दुष्टक्षत्रियकुलान्तक-श्रीभार्गवोपाध्याय- जामदग्न्य महादेवप्रधानशिष्य-महाकौलाचार्य- श्रीमत्परशुरामकृतौ कल्पसूत्रे दीक्षाविधिर्नाम प्रथमः खण्डः
SK
पूर्णता पूर्वमेव व्याख्याता | अत एव कृतोऽर्थो मोक्षसाधनं येन सः तादृशः | तम् इति कालवाची तं कालम् अस्मिन्नेव काल इत्यर्थः गुरुविशेषणत्वे वैय्यर्थ्यात् | यद्वा-गुरोर्गुरौ समीपस्थे प्रगुरोरेव पूजनम् इति वचनेन कदाचित् सपर्याया अन्ययोगप्राप्तौ तन्मा भूत् इति ज्ञापयितुं तमिति | यथाशक्तिवित्तैः लक्षं लक्षपतिर्दद्याद्दरिद्रस्तु वराटिकाम् इति रीत्या उपचर्य सन्तोष्य | विदितं ज्ञातं वेदितव्यं ज्ञातुं योग्यं येन सः सर्वज्ञः इत्यर्थः | अशेषमन्त्राणां सौरवैष्णवादिसप्तकोटिमन्त्रेषु अधिकारी भवेत् इति | एतेन एतदुपदेशेन सर्वमन्त्रोपदेशो जातः पुस्तकादिवाचननिषेधो नास्तीत्यर्थः | तदुक्तं तन्त्रान्तरे- यस्य नो पश्चिमं जन्म तुष्टो [यदि वा शंकरः स्वयम्-अ.] येन च सद्गुरुः | तेनैव लभ्यते विद्या साक्षाच्छ्रीषोडशाक्षरी [श्रीमत्पञ्चदशाक्षरी-अ.] || अत्र सर्वे महामन्त्राः बीजान्तर्वृक्षगात्रवत् | संस्थितास्तु महेशानि तस्माच्छ्रेष्ठतरा भवेत् || इति || यच्चोपक्रान्तं दीक्षाप्रकरणं [नाम पाश्चात्य२पत्रस्थात्-अथातो दीक्षां व्याख्यास्यामः-इति-१-सूत्रादारभ्य एतत् ६७-पत्र-पर्यन्तमित्यर्थः |] तत्समाप्तम् इतिज्ञापकः शिव-शब्दः || ४३ || इति श्रीरामेश्वररचितायां सौभाग्योदयनाम्न्यां परशुरामसूत्रवृत्तौ प्रथमखण्डात्मकं दीक्षाप्रकरणं समाप्तम् | सूत्रस्य पुनरावृत्तौ शोध्यं सूचयितव्यकम् | परिशिष्टस्थलं चैव पूर्णमाद्याप्रसादतः || इति प्रथमः खण्डः [इतोऽप्यधिकतरस्फुटप्रयोगो दीक्षायाः-श्रीमहानिर्वाणादितन्त्रेषु दीक्षोल्लास-दीक्षाप्रकाश-तान्त्रिकस्वतन्त्रपद्धतिष्वप्यस्ति-परं चायमुक्तप्रयोगोऽपि श्रीभगवन्मुखनिर्गतसूत्रोक्त इति साधीयानेव |] प्. ६८) श्रीद्वितीयः खण्डः-गणनायकपद्धतिः श्रीगणनायकोपास्तिविधिः पूर्वखण्डे दीक्षाविधिं परिसमाप्य श्रीललितोपास्तिप्रकरणं विवक्षुः तदुपास्तेः पूर्वाङ्गभूतां श्रीमहागणपत्युपास्तिं वक्तुं प्रक्रमते-
SK
इत्थं सद्गुरोराहितदीक्षः महाविद्याऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् || १ || इत्थं पूर्वोक्तप्रकारेण सद्गुरोः शास्त्रोक्तलक्षणसहितगुरोः सकाशात् आहिता प्राप्ता दीक्षा येन ईदृशः | एतेन ईदृशदीक्षावत एव श्रीविद्योपास्तावधिकारो नान्यस्य इति सूचितम् | महाविद्या पञ्चदशी षोडशी वा | तस्या आराधनं जपः | यद्वा-महाविद्या श्रीललिता महाविद्यावाच्यत्वात् वाच्यवाचकयोरभेदात् तस्या आराधनं फलप्राप्त्यन्तं पूजनं तदुत्पत्तिप्रतिबन्धकीभूताः ये प्रत्यूहाः विघ्नाः-विघ्नोऽन्तरायः प्रत्यूहः इत्यमरः-तेषाम् अपोहाय नाशाय गाणनायकीं गणेशसंबन्धिनीं पद्धतिं मार्गं-सरणिः पद्धतिः पद्या वर्तन्येकपदीति च इत्यमरः-उपासनासरणिमित्यर्थः | आमृशेत् स्वीकुर्यात् | अस्याः श्रीललितोपास्त्यङ्गत्वं यथा स्यात् तथोक्तं प्राक् [प्राक्- नाम-१-खण्डे-५३-पत्रे-३४-सूत्रभाष्ये-इत्यर्थो ज्ञेयः |] || १ || प्रातःकृत्यं ध्यानादि तर्पणान्तम् एवं [एवं नाम उपरितन १ सूत्रानुसारेण-गणपतिर्ललितादेव्या अङ्गदेवता- इत्यादि हेतोः |] गणनायकोपास्तेः आवश्यकतामुक्त्वा तदुपासनाप्रकारं प्रपञ्चयति- ब्राह्मे मुहूर्त [र्ते चोत्था-ब.] उत्थाय द्वादशान्ते सहस्रदलकमलकर्णिकामध्यनिविष्ट गुरुचरणयुगलविगलदमृतरसविसरपरिप्लुताखिलाङ्गो हृदयकमलमध्ये ज्वलन्तमुद्यदरुणकोटिपाटलमशेषदोषनिर्वेषभूतमनेकपाननं नियमितपवनमनोगतिर्ध्यात्वा तत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रो दन्तधावनस्नानवस्त्रपरिधानसूर्यार्घ्यदानानि विधाय उद्यदादित्यवर्तिने [मण्डलव-अ.] महागणपतये तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि || तन्नो दन्ती प्रचोदयात् इत्यर्घ्यं दत्वा नित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् [एतच्चतुरावृत्तितर्पणज्ञानमेतत्सूत्रागामि ३ सूत्रोभयटीकायां सुस्पष्टम् |] | प्. ६९) आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः | कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् || २ ||
SK
ब्राह्मे मुहूर्ते उषःकाले उत्थाय शयनादिति शेषः | द्वादशान्ते [इतदादि यद्वा इत्यन्तं ब. कोशे नास्ति.]-ललाटोर्ध्वं कपालोर्ध्वावसानं द्वादशान्तपदवाच्यं तस्मिन् तदुक्तं स्वच्छन्दसंग्रहे- द्वादशान्तं ललाटोर्ध्वं ललाटोर्ध्वावसानकम् || इति ||
SK
यद्वा-द्वादशान्ते स्थूलशरीरे सुषुम्णानाडीमाश्रित्य द्वात्रिंशत्पद्मानि सन्ति | तेषु सहस्रदलकमले द्वे सर्वाधः अकुलनामकमेकमूर्ध्वमुखं सर्वोर्ध्वं द्वादशान्तनामकमधोमुखमपरम् | अत्र प्रमाणं सविस्तरं योगिनीतन्त्रस्योत्तरचतुश्शतीव्याख्याने सेतुबन्धे अस्मन्परमगुरुकृते द्रष्टव्यम् | ग्रन्थविस्तरभयान्नेह लिखितम् | इदं [इदम् इत्यनेन द्वादशान्ते- इति एतत्सूत्रस्थं पदं-ज्ञेयम् |] च कमले विशेषणम् अभेदसंबन्धेन | यद्यपि द्वादशान्त इति सप्तम्यन्तस्य समासघटकीभूतकमलेन साकम् अन्वयो न संभवति समासघटकपदसापेक्षत्वरूपासामर्थ्यात् कमलस्य समासप्रयोजकसामर्थ्याभावेन समासानुपपत्तेः | अन्यथा ऋद्धस्य राजमातङ्गा इतिवत् प्रयोगापत्तेः | तथाऽपि द्वादशान्त इत्यपि समासान्तम् ऋद्धराजमातङ्गा इतिवत् | सप्तमीलोपाभावः छान्दसः | द्वादशान्तसंज्ञकं यत्कमलं तत्कर्णिकामध्यनिविष्टगुरुचरणयुगलं द्वन्द्वं तस्मात् विगलत् स्रवद्यत् अमृतं तस्य रसस्य यो विसरः विस्तारः तेन परिप्लुतं क्लिन्नम् अखिलाङ्गं यस्य एवं भूत्वेति शेषः | भूत्वेति पूर्वोक्तम् नियमितपवनमनोगतिरिति च ध्यानकर्तृविशेषणं कर्तृपरिच्छेदकतया ध्यानाङ्गाम् अभिक्रामं जुहोति इतिवत् | नियमिता पवनमनसोर्गतिः येन प्राणान् मनश्चाचलं कृत्वेत्यर्थः | मनःपवननिरोधमन्तरा ऐकाग्र्यं न संभवति | ऐकाग्र्यमन्तरा ध्यानं च न संभवति | अतस्तयोरावश्यकतेति भावः | हृदयकमलमध्ये अनाहते [अनाहतं-नाम-तन्नामकं हृदयस्थं चक्रम् |] ज्वलन्तमित्यनेन स्वशरीरस्थपापदाहकर्तृत्वं सूचितम् | उद्यदरुणकोटिपाटलमित्यनेन अभूतोपमानेन ब्रह्माण्डमध्ये एतदुपममन्यन्नास्तीति सूचितम् | अशेषदोषनिर्वेषमशेषाणां स्वकीयदोषाणां निर्वेषः-निर्गतो वेषः स्वरूपं येषां ते निर्वेषाः स्वरूपशून्याः नष्टाः इत्यर्थः भावप्रधानो निर्देशः इत्थं च- निर्वेषत्वं ध्वंसो यस्मादिति व्युत्पत्त्या स्वशरीरस्थनिखिलदोषनाशकमिति फलितोऽर्थः अनेकपो
SK
द्विपः गजः | तस्य आननं यस्येति ईदृशं ध्यात्वा तस्य देवस्य प्रभायाः पटलेन समूहेन पाटलीकृतः | अभूततद्भावे च्विः | श्वेतरक्तत्वं संपादिता तनुः स्वकीयशरीरं येन | श्वेतरक्तस्तु पाटलः इत्यमरः | एतेन स्वतनौ यावत्पर्यन्तं पाटलत्वं संभवति तावत्पर्यन्तं ध्यायेदित्यर्थः | प्. ७०) एतावत्पर्यन्तं [एतावत्पर्यन्तं नाम-उपरितनमूलसूत्रस्थं तत्प्रभापटलपाटलीकृततनुरितिक्रियान्तमित्यर्थः |] शयनस्थलकृत्यम् अग्रे बहिर्निर्गत्येत्युक्तत्वात् | इदं बहिर्निर्गमनं स्मृतिप्राप्तम् | मलमूत्रविसर्गश्चानेन अनूद्यते | अत्र दन्तधावनं विधायेति सामान्यविधौ सत्यां [सतीति साधीयान् पाठः |] कथं विधानम् इत्याकाङ्क्षायाः स्मार्तापेक्षया तान्त्रिकधर्माणां अश्वप्रतिग्रहन्यायेन सन्निकृष्टत्वात् तन्त्रातरोक्तानामेव धर्माणां ग्रहणं न तु स्मार्तानाम् | स्नानादिसूर्यार्घ्यान्तानां तन्त्रान्तरात् श्रीक्रमस्य सन्निकृष्टत्वात् तत एव कथंभावाकाङ्क्षा पूरणीया || निबन्धकारास्तु गणपतिपद्धतौ मन्त्रेषु त्रितारीयोगे कर्तव्ये श्रीमायाकामबीजानां योगमुक्त्वा तत्र प्रमाणं श्रीविद्याऽर्णवतन्त्रं दर्शयामासुः | तच्चिन्त्यम् | तथा हि श्रीक्रमे सर्वत्र मन्त्रादौ त्रितारीति श्यामाक्रमे मन्त्राणामादौ कुमारीयोग इति वाराहीक्रमे वाचमुच्चार्य ग्लौम् इति च पद्धतावस्यां सर्वे मनवो जप्या इति पराक्रमे सर्वेऽपि पराक्रममनवः सौवर्णपूर्विकाः कार्याः इति सूत्रे पठितत्वात् गणप्रतिक्रमे अपठिष्यतः सूत्रकारस्य अत्र मन्त्रेषु बीजयोग एव नास्तीति सुस्पष्टं प्रतीयते | तथा सति कथं विद्याऽर्णवतन्त्रानुसरणम् | अथवा श्रीक्रमे वाङ्मायाकमलानां योगस्य वक्ष्यमाणत्वेन श्येनयागे द्रुतनवनीतवत् तस्य सर्वाङ्गत्वात् अस्यापि श्रीविद्याऽङ्गत्वेन प्राप्तौ तं बाधित्वा तन्त्रान्तरानुसरणस्य निर्युक्तिकत्वात् | स्वशास्त्रे वर्तमानो यः परशास्त्रेण वर्तते | भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः [मतिवर्ततः-अ श्री.] || इति स्मृतेश्च ||
SK
उद्यदादित्यवर्तिने महागणपतये इति दत्वा इत्यस्य संप्रदानत्वेनान्वेति | उद्यदादित्यवर्तिने इत्यनेन तादृशसूर्ये ध्यानं [अर्घ्यदानं-अ श्री.] अग्रे [अग्रे ७२ पत्रस्थ ४ सूत्रस्थसिद्धलक्ष्मीत्यादितो विघ्नेश्वरं ध्यात्वेत्यन्तसूत्रोक्तरीत्येत्यर्थः |] सपर्याप्रकरणे वक्ष्यमाणरीत्या कार्यमिति सूचितम् || निबन्धे त्रिरर्घ्यदानमुक्तम् | तत्र मूलं मृग्यम् | अर्घ्यमित्येकवचनान्तेन विधेयपदेनैकत्वस्य स्पष्टत्वात् | नाप्यभ्यासः तद्बोधकपदाभावात् | नापि श्रीक्रमोक्तस्यातिदेशः सूर्यार्घ्यान्तस्यैव वचनेनातिदिष्टत्वात् तदग्रिमधर्माणामतिदेशे प्रमाणाभावात् || नित्यकृत्यं अग्निहोत्रहोमादि विधाय | एतेन अग्रे वक्ष्यमाणचतुराव्र्त्तितर्पणं सन्निधानादर्घ्याङ्गमिति भ्रमो निरस्तः | प्रकरणेनोपास्त्यङ्गमेवेति सूचितम् || अयं चतुरावृत्तितर्पणोत्पत्तिविधिः | तत्र चतुरावृत्तितर्पणमिति कर्मनामधेयं नतु गुणविधिः चतुरावृत्तेरग्रे [अग्रे नाम आगामिनि-३ सूत्रे तद्भाष्ये चेति ज्ञेयम् |] वक्ष्यमाणत्वात् | तथा च अग्निहोत्रं जुहोति इत्यत्रेव विभक्तिविपरिणामेन प्. ७१) तृतीयान्तार्थत्वं लक्षणया तस्य धात्वर्थे भावनायां करणत्वेन अन्वयः | चतस्रः आवृत्तयोऽभ्यासा यादृशक्रियाऽवयवक्रियासु तच्चतुरावृत्तितर्पणम् | यद्यपि प्रथमतर्पणे द्वादशावृत्तिरस्ति न चतुरावृत्तिः तथाऽपि सृष्टिन्यायेन भूमात्वमनुसृत्य अचतुरावृत्तितर्पणेऽपि चतुरावृत्तितर्पणमिति व्यवहारः | अत्र साध्याकाङ्क्षायां कमियोगाभावात् नायुरारोग्यादि साध्यत्वेनान्वेति | किं तु श्रीगणपत्युपास्त्युपकार एव | अन्यथा शमिधो यजत्यस्मिन् लोके प्रतितिष्ठति इति श्रुत्या प्रयाजानामपि प्रतिष्ठाऽदिफलापत्तेः | अतः आयुरारोग्यमित्यर्थवादः || तथा च आयुरारोग्यादिप्राप्तये इति न लिखित्वा गणपतिप्रीतये इति संकल्पं निबन्धकारो यल्लिलेख तत् साधु | परं तु नद्यादावित्यारभ्य पञ्चोपचारानाचर्य इत्यन्तप्रापकं प्रमाणं मृग्यम् | स्वबुद्धिरचितमश्रद्धेयमेवेति दिक् || २ || तदेव स्पष्टं विशिनष्टि-
SK
प्रथमं द्वादशवारं मूलमन्त्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान् स्वाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनः श्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपतिमहालक्ष्मीमहालक्ष्मीपति [अत्रासन्धिरार्षः |] ऋद्ध्यामोदसमृद्धिप्रमोदकान्तिसुमुखमदनावतीदुर्मुख- मदद्रवाऽविघ्नद्राविणीविघ्नकर्तृवसुधाराशङनिधिवसुमतीपद्मनिधि- त्रयोदशमिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेत् एवं चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति || ३ || मूलमुच्चार्य तर्पयामि इति मन्त्रेण तर्पणम् | एवमेव अग्रे सर्वत्र मूलस्थले संयोज्यम् | चतुरावृत्तितर्पणमित्यत्र न क्रियाऽवृत्तिः विधीयते किं तु मन्त्रावृत्तिरेव | यद्यपि द्वादशवारमिति द्वितीयाऽन्तं स्तोकं पचतीतिवत् क्रियाविशेषणं भवितुमर्हति तथाच क्रियाऽभ्यास एव सिद्धः तथाऽप्यस्मिन्नग्रे चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति इति सूत्रस्थसंख्यया कर्मभेदे सिद्धे न क्रियाऽभ्यासो भवितुमर्हति | अतः द्वादशवारमित्यनन्तरम् आवृत्तेनेति पूरणीयम् | अत एवाग्रे मूलं चतुर्वारम् एकैकं चतुर्वारमित्यनेन मन्त्राभ्यास एव स्पष्टः श्रूयते | यदि क्रियाऽभ्यासः स्यात् तदा सकृदेव मन्त्रपठनं प्रसज्येत | तच्च अग्रिमसंख्याऽनुरोधेन निरस्तम् | यद्वा-द्रव्यपृथक्त्वेन क्रियाऽवृत्तावपि मन्त्रावृत्तिर्भविष्यति तथाप्यग्रे मन्त्रावृत्तेः स्पष्टत्वात् तत्सहचरिते अत्रापि मन्त्रावृत्तिरेव | चतुर्वारमित्यनन्तरम् उच्चार्येति शेषः | स्वाहाऽन्त इत्यनेन प्रतिवर्णमन्त्रे स्वाहाकारघटकत्वं सूचितम् | अवयविनो विशिष्टमन्त्रस्य प्. ७२)
SK
गणपतिदेवताकत्वे तदवयवानामपि तद्देवताकत्वं स्पष्टम् | अतः स्वाहाऽन्ते तर्पयामीत्यपि योज्यम् | तथा च मूलस्यैकवर्णः तत्र बिन्दुयोगोऽपि शिष्टसंप्रदायात् ततः स्वाहाकारः ततस्तर्पयामीति पूर्वोक्तम् | एवं चतुर्वारं ततो मूलेन चतुर्वारम् | एवं सर्वेषु वर्णेषूह्यम् | पूर्वं द्वादशवारं तर्पयित्वेति एको गणः सूचितः | तदुत्तरं चतुर्वारं तर्पयित्वेत्यन्ततर्पणम् एको गणः सूचितः | अस्मिन् सूत्रे पुनरित्यनेन त्रयोदशमिथुनतर्पणम् अन्यो गणः सूचितः | गणत्रयसूचनफलं च-एकैकगणस्य एकैकापूर्वजनकत्वात् तन्मध्ये एकस्य विस्मरणे पुनः तद्गणमारभ्यैव अनुष्ठनं न सकलादिमारभ्य | यथा मन्त्रैकदेशे वर्णलोपे तन्मन्त्रस्यादिमारभ्यावर्तनं तद्वत् | श्रीश्रीपतीत्येकं गिरिजागिरिजापतीत्येकं मिथुनम् एवं रीत्या एकं स्त्रील्लिङ्गान्तम् एकं पुल्लिङ्गान्तं मिथुनं ज्ञेयम् | मदद्रवोत्तरं न विद्यन्ते विघ्नाः यस्येति व्युत्पत्त्या अविघ्न इति पुल्लिङ्गः | शेषं स्पष्टम् | एवं त्रयोदशमिथुनेषु एकैकां देवतां द्वितीयान्तमुच्चार्य तर्पयामी इति योजयेत् | इत्थं चोक्तरीत्या एकदेवतायाश्चतुर्वारं तर्पणं ततो मूलेन चतुर्वारं कार्यं पूर्ववत् | एवमुक्तप्रकारेण क्रमेण निरुक्तसंख्याकानि तर्पणानि भवन्ति | तदित्थं मूलतर्पणानि २२८ वर्णतर्पणानि ११२ मिथुनतर्पणानि १०४ आहत्य पूर्वोक्तसंख्याकानि ४४४ चतुश्चत्वारिंशदुत्तरचतुश्शततर्पणानि भवन्तीत्यर्थः || ३ || यागगृहप्रवेशादि विघ्नेश्वरध्यानान्तम् एवं तर्पणक्रममुक्त्वा पूजाविधिं वक्तुमुपक्रमते-
SK
अथयागविधिः-गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेश उभयपार्श्वयोर्भद्रकाल्यै भैरवाय-द्वारोर्ध्वे लम्बोदराय नमः इति अन्तःप्रविश्य आसनमन्त्रेण आसने स्थित्वा प्राणानायम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवं सिद्धलक्ष्मीसमाश्लिष्टपार्श्वम् अर्धेन्दुशेखरमारक्तवर्णं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशङ्खपाशोत्पलधान्य- मञ्जरीनिजदन्ताञ्चलरत्नकलशपरिष्कृतपाण्येकादशकं प्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नं विघ्नेश्वरं ध्यात्वा || ४ || अथ-अधिकारान्तरवाक्यमिदम् | एतेन तर्पणप्रकरणं समाप्तम् | तथा च प्रकरणेन तर्पणोपासनयोः अङ्गाङ्गीभावः सूचितः | तेन दीक्षाऽङ्गक्रमे तर्पणस्य नातिदेशः | उच्यते इति शेषः | गृहमागत्येत्यनेन तर्पणं नद्यादौ गृहाद्बहिः कार्यमिति सूचितम् | स्थण्डिलं यागदेशम् उपलिप्य गोमयेनेति शेषः || प्. ७३) स्थलशुद्धिः प्रमाणान्तरप्राप्ता अनूद्यते | अनेन क्रमो न विवक्षितः | यदि चानुवादे फलाभावात् वैय्यर्थ्यभिया क्रमप्राप्त्यर्थमत्र पाठः इत्युच्यते तदा द्वारपूजाऽव्यवहितप्रागेवोपलेपः कार्यः | उभयपार्श्वयोरित्यत्रानादेशाद्दक्षिणं प्रथमं पश्चाद्वामम् | दक्षवामौ द्वाराद्बहिर्निर्गमनवेलायां यौ तौ ग्राह्यौ तत्रैव तथा व्यवहारात् न तु प्रवेशवेलायाम् | नमः इत्युत्तरं यजेदिति शेषः | मन्त्रलिङ्गावगता देवता | अन्तः प्रविश्येत्यनेनैव द्वारपूजा बहिः स्थित्वैव कार्या इति सिद्धम् | आसनमन्त्रेणेत्यनेन [अयमासनमन्त्रोऽग्रे- श्यामाक्रमीय-६-खण्डे-६ सूत्रे आधारशक्तिकमलासनाय नम इति वक्ष्यमाणो ज्ञेयः |] श्यामाप्रकरणपठितो मन्त्रो ज्ञेयः सन्निकृष्टत्वात् | अत एव न तन्त्रान्तरस्थं ग्राह्यम् || निबन्धोक्तनिर्मूलधर्मप्रदर्शनम्
SK
यत्तु निबन्धे दीपानभितः प्रज्वाल्येति ताम्बूलभक्षणं बालातृतीयबीजेनासनप्रोक्षणं [बालातृतीयं-सौः-इति बीजम् ||] लिखितं तं प्रति अयं प्रश्नः-एतत्प्रापकं प्रमाणं तन्त्रान्तरे किं वा एतत्तन्त्रे दीपप्रज्वलनादिकमग्रे [अग्रे श्रीक्रमे नाम-३-खण्डे-११-सूत्रे-दीपानमितो दत्वा-इति सूत्रे इत्यर्थः |] श्रीक्रमे उक्तं बालातृतीयबीजेनासनप्रोक्षणं परापद्धतावुक्तं [अग्रे-पराक्रमे-८-खण्डे-६-सूत्रे-भाष्ये चेदमस्ति |] तेषां सर्वेषां प्रापकमतिदेशशास्त्रं वा | नाद्यः तस्य पूर्वमेव निरस्तत्वात् | द्वितीये अतिदेशस्त्रिविधः-वचनातिदेशः नामातिदेशः आकाङ्क्षया आनुमानिकातिदेशः | तन्मध्ये कीदृशोऽतिदेशः | न वचनं- समानमितरच्छ्येनेन इतिवत् शेषं श्रीक्रमेण समम् इति वचनम् अस्ति | अतो नाद्यः | एवं मासमग्निहोत्रं जुहोति इतिवत् श्रीक्रमं कुर्यात् इति तन्नाम्ना व्यवहारो न ह्यस्ति | अतो न द्वितीयः | तृतीयोऽतिदेशो यथा-सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकामः इत्युक्ते कमियोगात् ब्रह्मवर्चसं किं कुर्यादिति कर्माकाङ्क्षापूरकम् | ततः केन कुर्यात् इत्याकाङ्क्षायां धात्वर्थः करणत्वेन अन्वेति | कथं कुर्यात् इत्याकाङ्क्षापरिपूरकतया अङ्गकलापो न पठितः | तत आकाङ्क्षाशामकम् ओषधीद्रव्यकत्वेन व्यक्तलिङ्गकत्वेन सादृश्यात् दर्शपूर्णमासवदिति पदं कल्प्यते-सौर्यं चरुं दर्शपूर्णमासवत् निर्वपेत् इति वाक्यम् | ततश्च दर्शपूर्णमासधर्माः प्राप्नुवन्ति | नह्यत्र तथाऽकाङ्क्षाऽस्ति साङ्गप्रधानस्यात्र पाठात् || किं च-यद्यतिदेशेनैव धर्मप्राप्तिः तर्हि श्रीक्रमे पीठमनुना आसने समुपविष्टः इति वचनेन आसनमन्त्रस्य कॢप्तत्वात् अतिदेशेनैव प्राप्तौ पुनर्विधानं व्यर्थं सत् गृहमेधीयाज्यभागन्यायेन प्. ७४)
SK
यावदुक्तं कर्तव्यं नातोऽधिकमिति स्पष्टीकरोति | इत्थं च कथमेतदतिरिक्तानां प्राप्तिर्भवेत् | किं च-श्रीक्रमाद्धर्मप्राप्तिरतिदेशेन भवति तत् किं यावदङ्गानां भवतीत्युच्यते आहोस्वित् यत्किंचिद्धर्माणाम् | आद्यं चतुर्नवतिमन्त्रैः अभिमन्त्रणाभावः केन सिद्धः | न हि नार्षेवं वृणीते न होतारम् इतिवत् सूत्रे चतुर्नवतिमन्त्रैरभिमन्त्रणं न कर्तव्यमित्यस्ति येन तन्निवार्यते | यश्च [मन्मते तु प्रकृतिविकृतिभावाभावात् यावदुक्तं कर्तव्यमिति अत्र तदुक्त्यभावात् चतुर्नवतिमन्त्रैरनभिमन्त्रणं युक्तम् | तव मते संदर्भविरुद्धम् इत्यधिकः पाठः-ब. २] यत्किंचिद्धर्मातिदेश इति पक्षः स च देवानांप्रियाणामेव प्रियो भवितुमर्हति न पण्डितानाम् || तस्मात् पूर्वोक्तधर्मप्रापकं सर्षपमात्रमपि प्रमाणं न पश्यामः | एवमत्रत्याः केचन निर्मूलं श्रीक्रमे लिखिताः | एवं श्यामाक्रमोक्ताः निष्प्रमाणाः श्रीक्रमे अन्यत्र च प्रक्षिप्ताः | न हि प्रमाणरहितो धर्मो भवितुमर्हति | अतो मीमांसागन्धानभिज्ञेन केवलसंस्कृतभाषाऽभिज्ञेन स्वेच्छया साङ्कर्यं प्रापितो यो निबन्धः तमाश्रित्य सुधियोऽप्यनुतिष्ठन्ति | अत्र केऽपि परिशोधनं न कुर्वन्ति | अत्र कलियुगशक्तिरेव बीजं नान्यदिति युक्तमुत्पश्यामः | तस्मात् तत्रत्यानि नानुष्ठेयानि | यावदुक्तं कर्तव्यम् यत्रान्यतो ग्राह्यं सूचितं यथाऽसनमन्त्रेणेति तद् ग्राह्यं न केनचिदविचार्य लिखितं प्रमाणम् | प्रमाणाभावात् तदनुष्ठाने नापूर्वं भवेत् | यदि भवेत् तर्हि अग्निहोत्रे दर्शपूर्णमासधर्मातिदेशः दर्शपूर्णमासयोः ज्योतिष्टोमधर्मातिदेशोऽपि भवेत् | तस्मादप्रमाणं स्वेच्छया सङ्कीर्णो निबन्धोऽश्रद्धेयः इत्यलमतिविस्तरेण ||
SK
किं च-एकक्रियायाः प्रकृतिरेका शास्त्रे दृष्टा न हि नानाप्रकृतिका एका विकृतिर्दृष्टा श्रुतपूर्वा वा आसीत् | अयं निबन्धकारः कांश्चिद्धर्मान् पराप्रकरणस्थान् सौरित्यनेन आसनप्रोक्षणादिरूपान् ताम्बूलभक्षणादिरूपान् श्रीविद्याप्रकरणस्थांश्च [तन्त्रान्तरे इत्यधिकः-ब.] इत्येवं नानाप्रकरणस्थान् एकत्र अतिदिशन् कथं धर्मतत्त्वज्ञो भवेत् || न च यथा ज्योतिष्टोमस्य ये धर्माः तेषां द्वादशाहे अतिदेशः ततः अतिदिष्टतत्प्रकरणस्थधर्मयोः यथा द्विरात्रादावतिदेशः तद्वत् मूलप्रकृतिः श्रीविद्या ततोऽतिदेशेन प्राप्ताः परायां ताम्बूलादयः तत्सहितः योऽसावासनप्रोक्षणरूपो विशेषधर्मः स सर्वोऽपि द्विरात्रादिस्थानापन्ने गणपतावतिदिश्यताम् | तथा सति न नानाप्रकृतिकत्वम् इति वाच्यम् | यदि श्रीप्रकृतिका परा तर्हि भूषणधारणस्य अतिदेशेनैव प्राप्तौ तत्प्रकरणे भूषितविग्रह इति व्यर्थम् | एवं वामपार्ष्णिघातादिकं बहुतरं व्यर्थम् | अतो न प्रकृतिविकृतिभावस्तयोः संभवति | अतो येषां प्रत्यक्षवचनमस्ति यथाऽत्रैव सूर्यार्घ्यान्तविधिः एवं पराप्रकरणे श्यामावत् सामान्यविशेषार्घ्ये प्. ७५) साध(द?)येदित्यादि यत्र चाकाङ्क्षाऽपरिपूर्तिः सर्वथा तादृशस्थल एव अन्यधर्मस्पर्शः अन्यत्र न [यावदुक्तं कर्तव्यमिति रा-ब २.] युक्तमिति राद्धान्तः | अनयैव दिशा निबन्धे निर्मूलसंकीर्णधर्माणां परित्यागोऽन्यत्र द्रष्टव्यः || प्राणायामः श्वासनिरोधः तं कुम्भकरेचकादियुक्तं विधाय | प्राणायामे मन्त्रो मूलम् || संकल्पावश्यकता [सर्वसङ्कल्पविषयकज्ञानाय द्वि-प-शि. १०-वि. दृश्यः] ततः संकल्पमपि सामान्यशास्त्रेण प्राप्तं कुर्यात् | श्रीविद्योपास्तौ निर्विघ्नतासिद्ध्यर्थं महागणपतिक्रमं निर्वर्तयिष्ये इति सङ्कल्पः | न च सङ्कल्पस्य सूत्रे अनुक्तत्वात् कथं ग्रहणम् इति शङ्कनीयम् | शुचित्वमुपवीतम् अव्यभिचारेण यथा कर्मसामान्येन सम्बद्धम् एवमेव सङ्कल्पोऽपि | एतदनुगुणानि वचनानि च सन्ति | यथा-
SK
अनाचम्य कृतं यच्च यच्च सङ्कल्पवर्जितम् | राक्षसं तद्भवेत् कर्म.......... || इति दानधर्मे महाभारतवचनम् | आदौ सङ्कल्प उद्दिष्टः पश्चा तस्य समर्पणम् | अकुर्वन् साधकः कर्मफलं प्राप्नोत्यनिश्चितम् || इति रुद्रयामलवचनाच्च | तथैव शिष्टाचारोऽपि | अतः सः आवश्यकः इति गाणनायक्याः सपर्याया अपि श्रीविद्याऽङ्गत्वादावश्यक एव सङ्कल्पः | अष्टाङ्गोल्लेखनं च- अवश्यं तान्त्रिकं कालमुल्लिखेदन्यथा शिवे | बहिर्मुखं तु तत्कर्म भवेद्भस्महुतं यथा || इति यामलवचनादष्टाङ्गोल्लेखनमावश्यकम् [इदमष्टाङ्गोल्लेखनमनुगत-१-खण्डीय सूत्रभाष्ये ४५ पत्रेऽस्ति. द्वि-प-शि- १० विषये चाप्यस्ति |] | एवमेव श्यामाऽदौ ज्ञेयम् || ततः षडङ्गानि मूलमन्त्रषडङ्गानि हृदयादिस्थानेषु विन्यस्य स्थापयित्वा सकलमूलेन करतलाभ्यां सर्वाङ्गे विन्यसेत् | इदमेव व्यापककरणम् | तदुक्तं परमानन्दतन्त्रे- तलाभ्यां निखिलाङ्गस्य स्पर्शनं व्यापकं भवेत् || अत्र निबन्धोक्तं रक्तद्वादशशक्तियुक्ताय [नाथाय-ब.] इत्यारभ्य मातृकान्यासं विदध्यात् इत्यन्तम् अश्रद्धेयम् || प्. ७६) स्वात्मनि स्वहृदये | आत्मशब्दो मनसि प्रसिद्धः | मनोहृदययोरैक्यात् तदर्थत्वम् | आद्यविशेषणचतुष्टयार्थः स्पष्टः | मातुलुङ्गं फलविशेषः | गदा आयुधविशेषः | पुण्ड्रेक्षुः नानारेखायुक्तेक्षुः अनेकवर्ण [अनेकरूप इति-ब २.] इति यावत् | तद्रूपकार्मुकश्चापः | शूलः आयुधविशेषः | सुदर्शनं चक्रम् | शङ्खपाशौ प्रसिद्धौ | उत्पलं कमलम् | शेषाणि प्रसिद्धानि | एवं मातुलुङ्गादिरत्नकलशान्तैः परिष्कृतं पाण्येकादशकं यस्येदृशम् || यद्यपि श्रीमहागणपतिमूर्त्तेः दश भुजाः प्रसिद्धाः अत्रैकादशेति विरुद्धं तथाऽपि पाणिपदेन शुण्डादण्डोऽप्यत्र ग्राह्यः तत्र पाण्यपरपर्यायेण करः हस्तः इति व्यवहारात् करी हस्तीति सर्वलोकप्रसिद्धेः | इत्थं च दश भुजाः एकादशः शुण्डादण्डः इति तदभिप्रायेण सूत्रकृता भगवता पाण्येकादशकमित्युक्तम् || आयुधस्थाननियमः
SK
अत्र आयुधानां दक्षवामादिनियमो नोक्तः तथाऽपि सामान्यपरिभाषया आयुधस्थानानि योज्यानि | तदुक्तं रुद्रयामले- आयुधानां तु ते ध्यानं ब्रवीमि शृणु शाङ्करि | खड्गबाणाङ्कुशगदाज्ञानशूलभुशुण्डिकाः || भल्लो दण्डो वज्रशक्ती परिघप्रासतोमराः | मालामुसलपरशुमुखादक्षकरस्थिताः [खड्गादारभ्य उपरितनव्यदङ्काङ्कचिह्नान्ता इत्यर्थः |] || पाशशङ्खं [उपरितन-३-अङ्कादारभ्य मुण्डान्ता इत्यर्थः |] चापफलं चर्मखट्वाङ्गपुस्तकम् | घण्टाडमरुमुण्डं च वामहस्ते सुसंस्थितम् || वराभये शङ्खचक्रं पुष्पपात्रं द्वयस्थितम् || अनुक्ते [अनुक्तेषु वामदक्षप्रादक्षिण्येतरक्रमैः | युक्त्या सर्वत्रायुधानि-अ ब १.] [आयुधदानज्ञानायापरमपिप्रकारं पुरस्तन ४ खण्डगत-५- सूत्रभाष्ये पश्यत |] वामदक्षेधःप्रादक्षिण्यक्रमान्नरैः | योज्यानि सर्वायुधानि ज्ञेयानि परमेश्वरि | चक्रशङ्खौ [पाशाङ्कुशौ धनुर्बाणखड्गचर्माणि शङ्करि इत्यधिकः ब. कोशे.] तथाऽभीतिवरौ संमुखसंस्थितौ || इति || प्. ७७) अस्यार्थः-
SK
आयुधस्थानानुक्तौ खड्गादिपरश्वन्ता [पूरणीयजलं मूलमन्त्रेण सप्तधा अभिमन्त्र्येत्यर्थः |] दक्षकरे नियताः | पाशादिमुण्डान्ताः [एतदस्त्रादिमुद्रोद्धारार्थ द्वि. प. १५-७/१४ १५-८/१-२ १५-८/२ वि. दृश्याः |] वामे नियताः | शङ्खादिपात्रान्ताः इच्छया उभयत्रापि | पाशाङ्कुशादियुग्मपञ्चकं संमुखे | यत्सङ्ख्याकदक्षकरे युग्मान्यतरं तत्सङ्ख्याकवामकर एवापरम् | वामोर्ध्वादारभ्य दक्षोर्ध्वक्रमे प्रदक्षिणक्रमः विपरीते त्वप्रदक्षिणक्रमः | द्वयोर्विकल्प इत्यर्थः | प्रकृते गणपत्यायुधे न प्रदक्षिणाप्रदक्षिणक्रमौ संभवतः | तथा हि-मातुलुङ्गचापशङ्खधान्यमञ्जरीणां उक्तवचनानुसारेण वामकरसंबन्ध आवश्यकः | गदाशूलचक्रोत्पलदन्तानां दक्षसंबन्धस्तथा | अतः सूत्रपाठक्रमानुरोधेन रुद्रयामलवचनानुरोधेन च वक्ष्यमाणद्वन्द्वानां संमुखतैव युक्ता | मातुलुङ्गगदे चापशूलौ शङ्खचक्रे पाशोत्पले धान्यमञ्जरी निजदन्तौ अमीषां द्वन्द्वानां मध्ये प्रथमं प्रथमं वामोर्ध्वकरे द्वितीयं दक्षोर्ध्वकरे | अनेन क्रमेण अधोऽधो योज्यम् | एवं युग्मपञ्चकैः दशभुजेषु व्यावृत्तेषु कलशं परिशिष्टे शुण्डादण्डे ज्ञेयम् | यद्यपि यामलवचने दन्तस्थानं नोक्तं तथाऽपि परिशेषात् दक्षाधः | धान्यमञ्जरी फलान्तर्भूता अतो वामभागनियमः || प्रभिन्नः प्रस्रवन् कटो गण्डो यस्य तम् | गण्डः कटो मदो दानम् इत्यमरः | आनन्दपूर्णं पूर्णानन्दम् इत्यर्थः | अशेषा ये विघ्नजनिताः ध्वंसाः अनिष्टकलापाः तेषां निघ्नं नाशकं विघ्नेश्वरम् उक्तगुणविशिष्टं ध्यायेत् || ४ || अर्घ्यस्थापनम् एवं ध्यानान्तमुक्त्वा ततोऽर्घ्यस्थापनविधिं वक्तुमारभते-
SK
पुरतो मूलसप्ताभिमन्त्रितेन [पूरणीयजलं मूलमन्त्रेण सप्तधा अभिमन्त्र्येत्यर्थः |] गन्धाक्षतपुष्पपूजितेन शुद्धेन वारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अग्निमण्डलाय दशकलाऽत्मने अर्घ्यपात्राधाराय नमः सूर्यमण्डलाय द्वादशकलाऽत्मने अर्घ्यपात्राय नमः सोममण्डलाय षोडशकलाऽत्मने अर्घ्यामृताय नमः इति शुद्धजलमापूर्य अस्त्रेण [एतदस्त्रादिमुद्रोद्धारार्थ द्वि. प. १५-७/१४ १५-८/१-२ १५-८/२ वि. दृश्याः |] संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनिमुद्रां [धेनुमुद्रां प्रदर्श्य यो-अ श्री |] [मुद्रे-ब १ |] प्रदर्शयेत् || ५ || प्. ७८)
SK
पुरत इत्यस्य कस्येत्याकाङ्क्षयां योग्यत्वात् स्वस्येति शेषः | एतेन दक्षवामभागयोः व्यत्यासः | मूलेन सप्तत्वं आवृत्त्या संपादनीयम् तैः अभिमन्त्रितेन गन्धपुष्पाक्षतैः पूजितेन शुद्धेन पवित्रेण पटपूतेन [सुगन्धपुष्पादिद्रव्योद्वासितेनेत्यर्थः ||] वारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय निर्माय तस्मिन् निर्मितत्रिकोणादिसङ्घात्मके मण्डले विकीर्य क्षिप्त्वा | वह्न्यादिशब्दाः तत्तद्दिग्लक्षणाः | मध्ये पूर्वादिदिक्षु च षडङ्गानि मूलषडङ्गानि | विदिक्ष्विति लघुसूत्रे कर्तव्ये वह्नीशेति गुरुसूत्रं क्रमविशेषलाभार्थम् | अत्र यद्यपि वाक्येन अग्निमण्डलाय नमः इत्यारभ्य शुद्धजलमापूर्येत्यन्तेन [मूलसूत्रस्थवाक्येनेत्यर्थः |] आपूरणशेषत्वं सर्वस्य प्रतीयते तथाऽपि सूक्तवाकेन प्रस्तरं प्रहरति इतिवत् लिङ्गेन विभज्यैव मन्त्राणां त्रयाणाम् आधाराय नमः पात्राय नमः अमृताय नमः इत्यन्तानां आधारस्थापनपात्रस्थापनजलपूरणेषु प्रत्येकं शेषत्वं वाच्यम् वाक्यात् लिङ्गस्य प्रबलत्वात् | वस्तुतस्तु-अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् इति जैमिनिसूत्रोक्तवाक्यलक्षणाभावात् न वाक्यविरोधोऽपि | क्वचित् पुस्तके अर्घ्यपात्राय नमः इत्येतदुत्तरम् इत्याधारपात्रे धृत्वा इति पाठः | तदा न विवादः | शुद्धजलं पूर्वोक्तम् | अत्र द्वितीया तृतीयाऽर्थे सक्तुवत् दृष्टफलसंभवात् | यद्वा-स्रुचः संमार्ष्टि इतिवत् गुणकर्म आपूरणक्रियया जलं संस्कुर्यादिति | तथा च अस्मिन् पक्षे द्वितीयैव यथाश्रता | अस्त्रेण [इत आरभ्य अधस्तात् तत्र तत्र त्र्यङ्कसङ्केतितमुद्राणामन्यासां चात्रोक्तात्युपयुक्तानुक्तमुद्राणामुद्धारसम्बोधार्थं द्वितीयपरिशिष्ट- १५-विषयो दृश्यः ||] अस्त्रमुद्रया संरक्ष्य रक्षोभूतादियागविघ्नकर्तृदुराधर्षं कृत्वा | यद्वा-अस्त्रेण [इत आरभ्य अधस्तात् तत्र तत्र त्र्यङ्कसङ्केतितमुद्राणामन्यासां चात्रोक्तात्युपयुक्तानुक्तमुद्राणामुद्धारसम्बोधार्थं द्वितीयपरिशिष्ट- १५-विषयो दृश्यः ||] फट् इतिमन्त्रेण पूर्ववत् कृत्वा | कवचेन [इत आरभ्य
SK
अधस्तात् तत्र तत्र त्र्यङ्कसङ्केतितमुद्राणामन्यासां चात्रोक्तात्युपयुक्तानुक्तमुद्राणामुद्धारसम्बोधार्थं द्वितीयपरिशिष्ट- १५-विषयो दृश्यः ||] हुं-इति मन्त्रेण अवकुण्ठ्य [इत आरभ्य अधस्तात् तत्र तत्र त्र्यङ्कसङ्केतितमुद्राणामन्यासां चात्रोक्तात्युपयुक्तानुक्तमुद्राणामुद्धारसम्बोधार्थं द्वितीयपरिशिष्ट- १५-विषयो दृश्यः ||] अन्यत्र गमनशक्तिरहितं कृत्वा || निबन्धकारस्तु मन्त्रमुद्राद्वयं अस्त्रपदेनोवाच | तन्न शकृदुच्चरितः शब्दः सकृदेवार्थं गमयति इति न्यायात् आवृत्तौ वाक्यभेदप्रसङ्गात् || अत एव पूर्वविलक्षणत्वात् धेनुयोनिमुद्रां [इत आरभ्य अधस्तात् तत्र तत्र त्र्यङ्कसङ्केतितमुद्राणामन्यासां चात्रोक्तात्युपयुक्तानुक्तमुद्राणामुद्धारसम्बोधार्थं द्वितीयपरिशिष्ट- १५-विषयो दृश्यः ||] प्रदर्शयेत् इत्युक्तम् | एतेन न ते मुद्रे पूर्वतने मन्त्र इति स्पष्टम् | मुद्राम् इत्येकवचनमार्षम् | धेनुसहितयोनिरिति मध्यमपदलोपी समासो वा कार्यः || ५ || अर्घ्यसंस्कारः एवं मुद्राप्रदर्शनान्तमुक्त्वा सूत्रान्तरेण संस्कारशेषानाह- सप्तवारमभिमन्त्र्य [मूलेन- स-श्री.] तज्जलविप्रुड्भिरात्मानं पूजोपकरणानि च संप्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वदादिमं संयोज्य [संशोध्य-अ.] तत्रोपादिमं प्. ७९) मध्यमं [मध्यमम् इति नास्ति-ब २.] च निक्षिप्य वह्न्यर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानां त्वेत्यनया ऋचा चाभिमन्त्र्य अस्त्रादिरक्षणं कृत्वा तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् || ६ ||
SK
मूलेनेति सप्तवारमित्यस्यादिः | क्वचित्तथैव पाठः | तज्जलेन सामान्यार्घ्योदकेन पूर्वोक्तं [पूर्वोक्तं-नाम उपरितन-५-सूत्रोक्तरीत्या- इति ज्ञेयम् |] त्रिकोणादिरूपं मण्डलं संस्कृतदेशविशेषम् | तद्वत् सामान्यार्घ्योदकवत् | आदिमं प्रथमं संयोज्येत्यनेन तदन्ता क्रिया तद्वदित्यतिदिश्यते | तेन आधारपात्रस्थापनयोरपि लाभः | क्वचित् संशोध्येति पाठः | चकारेण [आदिमोपादिमयोरेव ग्रहणात् अत्र चतुर्थपञ्चमयोर्निवृत्तिः | यद्वा-योग्यैः सह मपञ्चकमुररीकृत्य इति अग्रे (एतत्खण्डीयान्तिमे-१०-सूत्रे) मपञ्जकस्वीकारलिङ्गात् चकारेण आवश्यकम् | युक्तश्चायमेव पक्षः |-इति ब २ कोशे.] चतुर्थपञ्चमयोर्ग्रहणम् | पूर्वस्मादत्र यो विशेषस्तमाह-वह्नीति | आधारे वह्निकलाः [इमा वह्निसूर्यविधुकलाः प्रत्यक्षनाम्ना-अग्रे-६-खण्डे-श्यामाक्रमे-१८-सूत्रे- मूले-एव सन्ति ततो ग्राह्याः |] धूम्रार्चिरादयः पात्रे सूर्यकलाः तपिन्यादयः अमृते अमृतादयश्चन्द्रकलाः चतुर्थ्यन्ततत्तन्नामभिः प्रागादिप्रादक्षिण्येन वृत्ताकारं यजेत् | दिङ्नियमो वृत्ताकारनियमश्च यः तन्मूलं परमानन्दतन्त्रे अष्टमोल्लासे द्रष्टव्यम् | आधारस्थापनोत्तरं तत्र दशवह्निकलाः संपूज्य ततः पात्रं स्थापयेत् | एवमन्यत्रापि | वक्रतुण्डगायत्र्या-तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि | तन्नो दन्ती प्रचोदयात् | इत्यनया | गणानां त्वा इतीयमृक् प्रसिद्धाः | क्वचित्पाठे समग्रपाठोऽपि दृश्यते | अभिमन्त्रणं नाम मन्त्रपठनकाले संस्कार्यद्रव्यस्पर्शः | अस्त्रादीत्यादिपदेन कवचम् [एतदादिमुद्रोद्धारज्ञानार्थं-द्दि. प. शि.-१५-वि. दृश्यः |] | ते उभे पूर्वं व्याख्याते | रक्षणमिति अवकुण्ठनस्याप्युपलक्षणम् | तथा च अस्त्रमन्त्रेण [एतदादिमुद्रोद्धारज्ञानार्थं-द्दि. प. शि.-१५-वि. दृश्य. |] संरक्ष्य [एतदादिमुद्रोद्धारज्ञानार्थं-द्दि. प. शि.-१५-वि. दृश्य. |] अवकुण्ठ्य [एतदादिमुद्रोद्धारज्ञानार्थं-द्दि. प. शि.-१५-वि. दृश्य. |] कवचमन्त्रेणेत्यर्थः | यद्यपि तद्वदादिमं संयोज्य इत्यनेनैव
SK
अस्त्रादीनां प्राप्तिसंभवे पुनर्विधानं व्यर्थम् तथाऽपि पूर्वं धेनुयोनिमुद्रे स्थिते तन्निवृत्त्यर्थं पुनःकथनं ज्ञेयम् | तद्बिन्दुभिः संस्कृतप्रथमबिन्दुभिः त्रिशः त्रिवारं शिरसि विधिबिले गुरुपादुकामाराधयेत् | आराधनं नाम गुरुपादुकोद्देशेन द्रव्यत्यागः | तस्याहवनीयादिवत् देशनियमः शिरसि | बिन्दुभिरित्यनेन द्रव्यमाननियमः सावरणगणपतिपूजायामपि [या देशनि-ब.] नियमोऽनेन क्रियते || ६ || पीठशक्ति-धर्माद्यष्टक-महागणपति-पञ्चावरण-पूजाविधिः पीठनियमपूर्वकं यन्त्रोद्धारादिकमाह- प्. ८०) पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायां वा चतुरस्राष्टदलषट्कोणत्रिकोणमये चक्रे वा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ऋं ज्ञानाय ऌं वैराग्याय ऌं ऐश्वर्याय ऋं अधर्माय ऋं अज्ञानाय ऌं अवैराग्याय ऌं अनैश्वर्याय नम इति पीठशक्तीर्धर्माद्यष्टकं चाभ्यर्च्य मूलमुच्चार्य महागणपतिमावाहयामीत्यावाह्य पञ्चधोपचर्य दशधा [दशधोपतर्प्य-ब २.] संतर्प्य मूलेन मिथुनाङ्गब्राह्म्यादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात् || ७ || पुरत इति पीठे इत्यन्तं मूर्त्त्याधारनियामकम् | वाकारद्वयं समविकल्पद्योतकम् | चतुरश्रं सर्वस्मात् बहिः तदन्तः अष्टदलं तदन्तः षट्कोणं तदन्तः त्रिकोणम् इति क्रमो ज्ञेयः | तीव्रादिषु पीठशक्तिरिति सङ्केतात् आसां श्रीगणपत्याधारभूतपीठे रक्तचन्दननिर्मिते पूजनमिति ज्ञायते | तत्र क्रमानुक्तौ प्रागादिष्वष्टदिक्षु मध्ये च नवशक्तयः पूज्याः | धर्मादीनां चतुष्टयं वायव्यादिविदिक्षु अधर्मादिचतुष्टयं पश्चिमादिप्रादक्षिण्येन पीठ एव समर्चयेत् पीठशक्तीः धर्माद्यष्टकं चेति द्वयोरेकदेशस्य श्रुतत्वात् | धर्मादीनां दिङ्नियमः वायुकोणतः | परमानन्दतन्त्रे- धर्मं ज्ञानं च वैराग्यमैश्वर्यं पश्चिमादितः | अधर्मादिचतुष्कं च................. || इति ||
SK
पञ्चधा पञ्चप्रकारैः गन्धपुष्पधूपदीपनैवेद्यरूपैः उपचर्य पूजयित्वा | अत्र मन्त्राः-लं पृथिव्यात्मने गन्धं कल्पयामि हं आकाशात्मने पुष्पं कल्पयामि यं वाय्वात्मने धूपं कल्पयामि रं अग्न्यात्मने दीपं कल्पयामि वं अमृतात्मने अमृतनैवेद्यं कल्पयामि | अत्र प्रमाणं परमानन्दतन्त्रे- गन्धं [एतदुपचारविषये विशेषः द्वि. प. शि. ७ वि. दृश्यः |] पुष्पं च धूपं च दीपं नैवेद्यकं प्रिये | भूतपञ्चकबीजेन पृथिव्याद्यात्मकं परम् | क्रमेण पञ्चभिर्देवि मानसे त्वेवमर्चयेत् || इति || मूलेन दशधा दशवारम् | सन्तर्प्येत्यत्र तर्पणसाधनद्रव्यं विशेषार्घ्यपात्रस्थम् | तत्प्रकारश्च कथं कार्यम् इत्याकाङ्क्षितत्वात् सन्निकृष्टत्वात् श्यामाक्रमे वक्ष्यमाणधर्म [अग्रे-६ खण्डे श्यामाक्रमीय २२ सूत्रोक्तः इति ज्ञेयम् |] एव ग्राह्यः एवमावरणपूजायामपि प्. ८१) इतिकर्तव्यताऽकाङ्क्षायां तत एव ग्राह्यम् | तर्पणे [एतदादिसर्वत्रावरणपूजायां तत्तदेवतातर्पणे गृह्यमाणविशेषार्घादिपात्रस्थबिन्द्वक्षतादि वस्तु कयाङ्गुल्या ग्राह्यं तत्र विवेक उक्तः श्रीकुलार्णवतन्त्रे-६- उल्लास समाप्तौ-६० पत्रे श्री शिवेन भगवता यथा- अन्तःशक्तिमनुस्मृत्य तर्पयेद्वीरदेवताः | अङ्गुष्टो भैरवो देवः अनामा चण्डिका प्रिये || अनामाङ्गुष्ठयोगेन तत्तत् कुलजसन्ततिम् | अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् || तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके | कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये || एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि- || इति || अन्यच्चात्रैव-६ खण्डे श्यामाक्रमे २२ सूत्रे तद्भाष्ये चापि दृश्यम् |] तर्पणे तु मूलमुक्त्वा श्रीमहागणपतिं तर्पयामीति मन्त्रशेषः | प्रतितर्पणं मन्त्रावृत्तिः द्रव्यपृथक्त्वात् | अत एव हिरण्यकेशिसूत्रे द्रव्यपृथक्त्वेऽभ्यावर्तते इति ||
SK
यत्तु निबन्धे तर्पणमन्त्रे पूजयामीति मन्त्रशेषलेखनं तदशुद्धम् | यदि तर्पणपूजनयोरभेदः तर्ह्यग्रेऽपि पञ्चावरणतर्पणं कुर्यादित्येव वदेत् न पूजां कुर्यादिति वदेत् | यतो धातुभेदेनोच्चारणम् अतोऽर्थभेदोऽप्यावश्यकः | अर्थभेदे पूजालिङ्गकमन्त्रस्य तर्पणानङ्गत्वं स्पष्टम् | एवं निबन्धे प्रधानदेवपूजोत्तरं षडङ्गौघत्रयपूजा चोक्ता | तत्र मूलं यदि तन्त्रान्तरं तस्यात्र प्रवेशो नास्तीति पूर्वमेवोक्तम् | अतस्तन्न कार्यम् || मिथुनानां आवरणद्वयम् अङ्गदेवताः तृतीयावरणं ब्राह्म्याद्याः चतुर्थावरणम् इन्द्राद्याः पञ्चमावरणम् एवं पञ्चावरणपूजां कुर्यात् || ७ || पञ्चावरणीपूजा तत्र प्रधानदेवतातर्पणदेशमाह-(तदेव सविस्तरं प्रपञ्चयति) त्रिकोणे देवः तस्य षडस्रस्यान्तराले श्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि च ऋद्ध्यामोदादिषण्मिथुनानि षडस्रे मिथुनद्वयं षडस्रोभयपार्श्वयोस्तत्सन्धिष्वङ्गानि ब्राह्म्याद्या अष्टदले चतुरस्राष्टदिक्ष्विन्द्राद्याः पूज्याः सर्वत्र देवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरीं योजयेत् || ८ || त्रिकोणे देवः तर्प्यः इति शेषः | तत् त्रिकोणं षडस्रं च तयोरन्तराले अनुक्तत्वात् प्रागादिदिक्षु चतुरावृत्तितर्पणपाठक्रमानुरोधेन श्रीश्रीपतिप्रभृति मिथुनचतुष्टयं पूज्यम् | एतावत् प्रथमावरणम् | ऋद्ध्यामोदमिथुनमारभ्य षण्मिथुनानि षडस्रकोणेषु | एतदुत्तरवृत्ति मिथुनद्वयं षडस्रपार्श्वद्वये इति द्वितीयावरणम् | षट्कोणयन्त्रे रेखोपरि रेखा यत्र गच्छति स तत्सन्धिः | तत्र ईदृशाः सन्धयः षट् सन्ति तादृशसन्धिषु | क्रमस्यानुक्तत्वात् अग्नीशासुरवायुकोणक्रमस्योक्तस्यासम्भवात् प्रागपवर्गता उत्तरापवर्गता यथा स्यात् तथा क्रममनादृत्य प्. ८२)
SK
षडङ्गानि यजेत् | इति तृतीयावरणम् | अष्टदले क्रमाकाङ्क्षायां श्रीविद्याऽर्णवोक्तः | आद्यचतसृणां पश्चिमादिप्रादक्षिण्येन अग्रिमाणां वायव्यादिविदिक्षु प्रादक्षिण्येन पूज्याः ब्राह्म्याद्यष्टमातरः इति चतुर्थावरणम् | चतुरस्रे प्रागाद्यष्टदिक्षु तत्तद्दिक्पतीन् यजेत् | यत्र मन्त्राकाङ्क्षासत्त्वात् सन्निकृष्टश्यामाक्रमोक्तदिक्पालमन्त्राः [अग्रे-६ खण्डे श्यामाक्रमे-१४ सूत्रे मूले १० दिक्पालमन्त्राः सन्ति |] ग्राह्याः | अथवा- वक्ष्यमाणाष्टाक्षरीयुक्तनाममन्त्रेणैव [अत्र अष्टाक्षरीमन्त्रः श्रीपादुकां पूजयामीति-नाममन्त्रश्च ॐ श्री इन्द्राय नमः इत्याद्यभिप्रेयम् |] | इति पञ्चमावरणम् | अनुष्ठाने उपयुक्तां सर्वसाधारणीं कांचित् परिभाषामाह-सर्वत्रेति | सर्वत्र पूजासामान्ये देवतानामसु नाममन्त्रेषु | घटकत्वं सप्तम्यर्थः | श्रीपूर्वं प्रथमं श्रीपदमुच्चार्य ततः पादुकाम् इति ततः पूजयामि इति | तथा च श्रीपादुकां पूजयामीति यावत् || ८ || गणनाथस्य पुनरुपतर्पणादि एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्य षोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं स्वाहा-इति त्रिः पठित्वा बलिं दत्वा गणपतिबुद्ध्यैकं बटुकं सिद्धलक्ष्मीबुद्ध्यैकां शक्तिं चाहूय गन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा मम निर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्य यथाशक्ति जपेत् || ९ || एवम् उक्तप्रकारेण पञ्चानामावरणानाम् आवरणदेवतानां समूहः पञ्चावरणी द्विगोः इति ङीप् ताम् इष्ट्वा पूजयित्वा | पुनरित्यनेन [पुनरित्यनेन यथापूर्वोक्तपञ्चावरणपूजाया इव एवं पञ्चावरणीमिष्ट्वेत्येव अनुवादः | तद्वत् अयमपि अनुवाद एव | कममात्रविधिरिति भ्रमो निरस्तः | दशधा-ब २. ] पञ्चावरणान्तःपातित्वं सूचितम् | दशधा दशवारम् | तर्पणप्रकारश्च [एतत् खण्डे ८०-८१-पत्रयोः ७ सूत्रभाष्यान्ते इति ज्ञेयम् |] पूर्वमेव व्याख्यातः | षोडशोपचाराश्च परमानन्दतन्त्रे परिगणिताः | यथा-
SK
पाद्यमर्घ्यं [एतदुपचारविषये-द्दि. प-शि-७-वि-दृश्यः |] चाचमनं स्नानं वस्त्रं च भूषणम् | गन्धं पुष्पं धूपदीपौ नैवेद्यं चापि वीटिकाम् | नीराजनं चाञ्जलिं च परिक्रामं नतिं शिवे | गणयेदुपचारान् वै प्रत्येकं षोडशेश्वरि || इति || अग्रे सूत्रोक्तषोडशोपचारा वा || अत्र पूजाऽङ्गत्वेन पद्धतौ होम उक्तः सः निर्मूलः || प्. ८३) प्रणवः प्रसिद्धः माया ह्रीम् एतयोः अन्ते अग्रे स्वाहाऽन्तं शेषं पठेत् | अयं बलिदानमन्त्रः | इमं मन्त्रं त्रिः पठित्वा ततो बलिदानं कुर्यात् | बलिद्रव्यमाकाङ्क्षितं श्रीक्रमोक्तं ग्राह्यम् | देशाकाङ्क्षायां श्रीक्रमोक्तं स्ववामभागतः | गणपतिबुद्ध्या इत्यस्य अभ्यर्च्य इत्यनेनान्वयः | गणपतिस्वरूपं भावयित्वेति यावत् | पाठक्रमं बाधित्वा अर्थक्रमेण आदौ आवाहनं पश्चात् भावनं ततोऽर्चनं एवमग्रेऽपि | अत्र द्वयोरप्याह्वानादिकं पदार्थानुसमयेन [काण्डानुसमयपदार्थानुसमयविवेकाय-द्दि. प. शि. वि. ८ दृश्यः |] नत्वञ्जनादिवत् काण्डानुसमयेन तद्वत् अत्र बाधकाभावात् सर्वेषां तुल्यप्रधानसन्निकर्षसम्भवाच्च | आदिमं स्पष्टं उपादिमं द्वितीयं मध्यमं तृतीयं च दत्त्वा | अयं प्रतिपत्तिसंस्कारः मध्यमानिति द्वितीयाश्रुतेः | दानेन द्रव्यं संस्कुर्यात् इति तदर्थः | तथा च आवरणपूजोत्तरं द्रव्यदोषे एतस्य निवृत्तिरेव | अनुग्रहं कारयित्वा तयोरनुग्रहो यथा भवेत् तथा तत्संतोषं स्वयं संपादयेत् इति भावः | नमः इत्यारभ्य जपेत् इत्यन्तः स्पष्टार्थः || यच्च निबन्धे जपानन्तरं बटुकसुवासिनीपूजनकथनं तत्सूत्रविरुद्धमित्यनेन स्पष्टीकृतम् || ९ || गणपत्युद्वासनम् यद्यग्निकार्यसंपत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽग्नौ स्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैः मन्त्रैर्हुत्वा पुनरागत्य देवं त्रिवारं संतर्प्य योग्यैस्सह मपञ्चकमुररीकृत्य महागणपतिमात्मन्युद्वास्य सिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् || १० ||
SK
इति दुष्टक्षत्रियकुलान्तक-रेणुकागर्भसम्भूत-महादेवप्रधानशिष्य- परशुराम-श्रीभार्गवमहोपाध्याय-श्रीमत्कुलाचार्यविरचितकल्पसूत्रे गणपतिप्रकरणं द्वितीयखण्डात्मकं समाप्तम् | यदीत्यनेन होमस्य कृताकृतत्वं सूचितम् | बलेः पूर्वम्-इत्यनेन क्रमशेषः [देशः सू-ब २.] सूचितः | विधिवत् इति-अग्रे [अग्रतन ९- खण्डप्रतिपादितहोमविध्युक्तरीत्येत्यर्थः |] वक्ष्यमाणविधिनेत्यर्थः | श्रीश्रीपतिभ्यां स्वाहेति मन्त्रस्वरूपम् || यच्च निबन्धे श्रियै स्वाहा श्रीपतये स्वाहा इति मन्त्रविभागं लिलेख तं प्रत्ययं प्रश्नः-मिथुनमेका देवता उत देवताद्वयम् ? आद्ये मन्त्रद्वयविभागोऽनुचितः | द्वितीये आवरणपूजायां श्रीश्रीपतिश्रीपादुकां पूजयामीति निबन्धे समष्टिमन्त्रलेखोऽनुचितः | तस्मात् सन्दर्भविरुद्धमुपेक्ष्यम् | न च तव मते चतुरावृत्तितर्पणेऽपि समष्टिमन्त्रापत्तिः इति वाच्यम् तत्र मिथुनेष्वेकैकां देवतां चतुर्वारमिति वर्तते न मिथुनानि तर्पयित्वेति | पूजाप्रकरणे केवलमिथुनानि पूजयेदित्येव | तेन मिथुनस्य देवतात्वं स्पष्टम् | एवं होमस्थलेऽपि प्. ८४) श्रीश्रीपत्यादीत्यनेन मिथुनस्यैकदेवतात्वं स्पष्टम् | अन्यथा यादिविघ्नकर्तृपर्यन्तैरित्येव वदेत् श्रीपतिग्रहणं व्यर्थम् | न च विघ्नकर्तृपर्यन्तैरित्यत्र एकदेवताग्रहणं प्रत्येकस्य देवतात्वे किमिति ज्ञापकं न भवेत् इति वाच्यम् | यदीदं मन्त्रस्वरूपज्ञापकं भवेत् अत्रापि विघ्नकर्त्रन्तैरित्यनेनैव श्रीश्रीपत्यादीनां लाभे श्रीश्रीपत्यादीति व्यर्थं सत् मन्त्रस्वरूपज्ञापकं सत् सार्थकम् | विघ्नकर्तृपर्यन्तैरिति अग्रिममिथुननिवर्तकं सत् सार्थकमिति सर्वं समञ्जसम् | तस्मात् चतुरावृत्तितर्पणे पूर्वोक्तयुक्त्या चतुश्चत्वारिंशदधिकचतुश्शततर्पणसङ्ख्यापरिपूर्तये च प्रत्येकं देवतात्वम् [देवतात्वेऽपि पूजायां-ब २ |] | पूजायां होमे चोक्तज्ञापकेन व्यासज्यवृत्त्येव देवतात्वम् | अतो मन्त्रस्वरूपमस्मदुक्तमेव | विघ्नकर्तृपर्यन्तैरित्यनेन अग्निममिथुनपरिसंख्या ||
SK
हुत्वा इत्यत्र द्रव्याकाङ्क्षायाम् अनादिष्ट आज्यं भवति इति परिभाषया आज्यमेव | कामनाविशेषे तु द्रव्यविशेषो मोदकाऽदिः | पुनरागत्य इत्यनेन पूजाप्रदेशादन्यो होमप्रदेशः-इति सूचितम् | शेषं पूर्ववत् | योग्यैः संप्रदायाभिज्ञैः सह | एतद्विशेषणस्वरसार्थं वितत्य स्पष्टीकरिष्यामः उपरिष्टात् श्रीक्रमे [३ खण्ड ३० सूत्रभाष्यान्ते-संप्रति इदानींतना अजितेन्द्रिया इत्यादिना |] | मपञ्चकमुररीकृत्य स्वीकृत्य श्रीक्रमे वक्ष्यमाणेन विधिना | अत्र सहशब्दश्च न योग्याभावेऽप्यवश्यं संपादनीयमिति तदभावे अङ्गलोपजनितं प्रायश्चित्तं वा प्रापयति किं तु विद्यमाने साहित्यं अविद्यमाने केवलं स्वयमेव सह शाखया प्रस्तरं प्रहरति इतिवत् | अत्र गणपत्युपासनामर्यादाऽनुक्तेः श्यामाऽदिवत् | जपसङ्ख्याश्चानुक्तेः तन्त्रान्तरं शरणीकार्यम् | तत्र तन्त्रान्तरवचनं तन्त्रसारे- ध्यायेन्मन्त्रं जपेन्मन्त्रं चतुर्लक्षं समाहितः | चतुस्सहस्रसंयुक्तं चत्वारिंशत्सहस्रकम् | दशांशं जुहुयात् द्रव्यैरष्टभिर्मोदकादिभिः || इति || उद्वासनमुद्रया उद्वास्य | सिद्धसङ्कल्पः सिद्धकार्यः | सुखी [इदमेतत् खण्डीयान्तिमसूत्रस्थपदं ज्ञेयम् |] विहरेत् इति प्रतिपादितकर्मणः न केवलं प्रत्यूहनाशः किन्त्विदमपि फलमिति दर्शितम् | एतेन श्रीविद्योपास्त्यनौपयिकानङ्गस्वतन्त्रगणनायकोपास्त्या यद्यदपेक्षितं तत् सिध्यतीति कृतसङ्कल्पेति पदेन सूचितम् [एतच्छ्रीगणेशपूजापद्धत्यनुष्ठानविशेषज्ञानाय-श्रीप्रपञ्चसार गणेशपुराण शारदातिलक मन्त्रमहोदध्यादितान्त्रिकग्रन्था दृष्टव्याः |] | शिवम् इति पूर्ववत् प्रकरणसमाप्तिद्योतकम् || इति श्रीरामेश्वरनिर्मितायां सौभाग्योदयनाम्न्यां परशुरामसूत्रवृत्तौ गणनायकपद्धतिर्नाम द्वितीयखण्डः समाप्तः || सूत्रस्य पुनरावृत्तौ शोध्यं सूचयितव्यकम् | परिशिष्टस्थलं चैव पूर्णमाद्याप्रसादतः || (इति द्वितीयः खण्डः) श्रीः | प्. ८५) तृतीयः खण्डः - श्रीक्रमः ललिताऽधिकारः
SK
नित्यौघत्रयमिलितामष्टावरणाङ्गषट्कसंवीताम् | चिन्तयतां तत्कृपया वाचो निर्यान्त्ययत्नतो वदनात् || एवं पूर्वखण्डेन श्रीललितोपास्त्यङ्गभूतं गणपत्युपासनमुक्त्वा श्रीपरदेवतायाः श्रीललितायाः क्रमं वक्तुमुपक्रमते- एवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत || १ || एवमिति विघ्नव्यतिकरः-इत्यन्तेन ग्रन्थेन पूर्वं कंचित्कालं गणपत्याराधनं कृत्वा पश्चात् श्रीललितोपास्त्यारभ्य इति सूचितम् | एवं पूर्वोक्तप्रकारेण इष्ट्वा उपास्य विधूता निरस्ताः समस्ताः संपूर्णाः विघ्नानां व्यतिकराः सङ्घाताः येन || गणनायकोपास्तेः प्रधानकर्मत्वम्
SK
इदम् अधिकारिविशेषणम् | अयम् उत्पत्तिविधिः | पूर्वविशेषणस्वारस्यात् अधिकारविधिरपि | यद्वा-नाधिकारिविशेषणमिदम् तथा सति गणपतेरुपासनायाः अग्निमोपासनाङ्गत्वापत्तेः | न चेष्टापत्तिः | तार्तीयश्रुतिलिङ्गादीनि अङ्गत्वसाधकानि षट् प्रमाणानि | तन्मध्ये तृतीयवाक्यप्रमाणसिद्धम् अङ्गत्वम् तद्बाधकलिङ्गश्रुत्योरभावेन प्रमाणसिद्धाङ्गत्वापह्नवस्य कर्तुमशक्यत्वात् | किं तु गणपत्युपास्त्युत्तरवृत्तित्वरूपक्रमविशिष्टललितोपास्तिरनेन विधीयते | यद्वा- पूर्वोपास्तिरूपगुणविशिष्टक्रमविशेषविशिष्टो वा अयमारम्भः | तत्कालललितोपास्तिः अनेन विधीयते | विधूतसमस्तविघ्नव्यतिकर इति पूर्वोक्तफलस्यानुवादकम् | एवं चारम्भो नाम सङ्कल्पविशेषः दर्शपूर्णमासावारप्स्ये इतिवत् | ललिताक्रममारभेत इत्यनेन यावज्जीवं वर्तिष्ये इति सङ्कल्पः सिद्धः | तदङ्गं गणपत्याराधनम् | एतद्गुणकसङ्कल्पश्च श्रीललितोपास्तौ प्रयाजादिवदारादुपकारकः प्रधानकर्म यैस्तु द्रव्यं न चिकीर्ष्यते इति जैमिनिसूत्रोक्तलक्षणसत्त्वात् | न च अधिकारिविशेषणत्वे संप्रत्युक्तविशिष्टविधिरूपत्वे वा अनुष्ठाने को विशेष इति वाच्यम् | यद्यधिकारिविशेषणं तर्हि प्रमादादिना गणपत्युपास्तिमकृत्वा ललितोपास्त्यारम्भे अनधिकारिणा अन्धादिना अनुष्ठितदर्शपूर्णमासवत् तावत्पर्यन्तकृतस्य कर्मणोऽफलत्वेन यदा सावधानता तदा ललितोपास्तिं त्यक्त्वा गणपत्युपास्तिं संपाद्य संपन्नाधिकारः ततः श्रीविद्योपास्तिं कुर्यात् | विशिष्टविधिपक्षे गणपत्युपास्तेरारम्भाङ्गत्वेन आरम्भस्य च ललितोपास्त्यङ्गत्वेन प्. ८६)
SK
विस्मृत्यारम्भे जाते सति अङ्गलोपजनितदोषपरिहाराय किंचिद्विहितं प्रायश्चित्तम् नाङ्गानुसारेण प्रधानावृत्तिः | न च अत्यन्तमङ्गलोपाद्वरं तस्यानुष्ठानं प्रधानस्याङ्गाननुरोधित्वान्मा भवत्वावृत्तिः अङ्गं तु केवलमनुष्ठीयताम् इति वाच्यम् | प्रधानपूर्वाङ्गानां यावतां प्रधानेन अपूर्वे जननीये सहकारित्वं काम्ये प्रधानेनापूर्वे जननीये सहकारिणोऽभावात् अनन्तरं प्रधानस्य नष्टत्वेन केवलाङ्गानुष्ठाने तदपि व्यर्थम् | नित्ये तु यावज्जीवं कर्तव्यम् इत्यङ्गलोपरहितं च कर्तव्यम् इत्युक्ते अशक्यानुष्ठानरूपत्वेन शास्त्रस्य अप्रामाण्यापत्तिभिया सकलाङ्गम् इत्यस्य यावच्छक्ययावज्ज्ञातसकलाङ्गमिति वाक्यसङ्कोचो युक्तः | तथा च यथाशक्ति यावज्ज्ञातैरेवाङ्गैः सहितप्रधानेन अपूर्वोत्पत्तिःकल्प्यत इति कॢप्तं षष्ठे | तथा च ललितोपास्तेर्नित्यत्वेन अज्ञातयत्किंचिदङ्गलोपेऽपि प्रधानेनेतराङ्गसहितेन अपूर्वजननात् पुनरङ्गानुष्ठानस्य व्यर्थत्वात् न गणपत्युपास्तिरूपस्याङ्गस्याज्ञातस्य पुनरनुष्ठानम् | यदि विघ्ननिरासार्थं किंचिदनुष्ठेयं तर्हि विनायकस्तवपाठादिकं तन्मन्त्रजप एव वा कार्यः | एवंप्रकारानुष्ठानभेदोऽस्ति इति तद्विचारः कृतः | इतोऽधिकं सुधियो विचारयन्तु || शक्तिचक्रैकनायिकायाः शक्तिचक्राणि श्रीचक्रावयवनवचक्राणां मध्ये त्रिकोणादीनि पञ्चचक्राणि | तदुक्तं ब्रह्माण्डपुराणे- चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः | नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः || त्रिकोणमष्टकोणं च दशकोणद्वयं यथा | चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च || इति ||
SK
तेषाम् एका मुख्या नायिका या तस्याः | यद्वा-शक्तयः सधवाः स्त्रियः तासां चक्रं समूहः तेषां मध्ये एका अद्वितीया चेयं नायिका [नाथा श्रेष्ठा | न च-ब |] जगन्नियन्त्री | न च न निर्धारणे इति षष्ठीसमासनिषेधात् कथमयमर्थः इति वाच्यम् षष्ठीसमासनिषेधेऽपि पुरुषोत्तमः-इतिवत् सप्तमीसमासे बाधकाभावात् | यद्वा-तत्तद्वस्तुनिष्ठतत्तत्कार्यनिर्वाहिकाः शक्तयः तासां समूहस्यैका अद्वितीया नायिका प्रेरिका तदुक्तं श्रीदेवीभागवते- शिवाद्यवनिपर्यन्ते शक्तयः कार्यसाधकाः | मयैव प्रेरिता विद्धि ताः सर्वा मुनिसत्तम || इति || यद्वा-शक्तयः श्यामावार्तालीप्रभृतयः ता एव चक्रं परिवारः चक्रं सेव्यं नृपः सेव्यः इत्यभियुक्तप्रयोगात् | तासामेकनायिका अद्वितीयनियन्त्री इत्यर्थः | एतेन श्रीविद्यायाः प्राधान्यं सूचितम् | शक्तिचक्रैकनायिकेति ललिताया गुणः | तथा च विशिष्टस्य देवतात्वं उत्पत्तिवाक्ये प्. ८७) श्रूयमाणगुणविशिष्टस्य देवतात्वात् यदग्नये पवमानाय-अग्नये पावकाय इत्यादिवत् उत्पत्तिवाक्ये श्रुतदेवतायाः सर्वत्रोच्चारणमिति नियमात् | इत्थं च यत्र देवतानामकीर्तनमावश्यकं तत्र गुणविशिष्टस्यैव कीर्तनम् यथा सन्ध्याजपादौ सन्ध्यापूजाऽदौ शक्तिचक्रैकनायिकायाः श्रीललितायाः प्रीतये अमुककर्म करिष्य इति | एवं निवेदने | अन्यथा पवमानेष्टौ अग्नये जुष्टं निर्वपामि इत्येव स्यात् | तस्मात् गुणविशिष्टदेवतायोजनं मन्त्रेष्वत्र कार्यम् | क्रमं पूजाम् उपासनां वा आरभेत् || ललितानामनिर्वचनम् ललितानामनिर्वचनं पद्मपुराणे- लोकानतीत्य ललते ललिता तेन चोच्यते | इति || अत्र चकारद्योत्यं निरुक्त्यन्तरं दर्शयामासुरस्मत्परमेष्ठिगुरवः सहस्रनामभाष्ये-ललितं शृङ्गारभावजन्यः क्रियाविशेषः तद्वती ललिता | तेन शृङ्गाररसप्रधानेयं मूर्तिरिति ध्वनितम् || १ || ब्राह्ममुहूर्तकर्तव्यध्यानादि ततो [इतः परं ललितोपासकेन अनुदिनं कर्तव्याः क्रिया आह इति ब कोशे.] गुरुध्यानादीनुपदिशति सूत्रद्वयेन-
SK
ब्राह्मे मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपं गुरुमभिमृश्य || २ || ब्राह्मः मुहूर्तः-दिवसं षष्टिघटिकाऽत्मकं त्रिंशता विभज्य अष्टाविंशो मुहूर्तः स ब्राह्मः | तदुक्तं देवीभागवते- अष्टाविंशतितमो यश्च मुहूर्तो ब्रह्मनामकः | तस्मिन्नुत्थाय मतिमांश्चिन्तयेदात्मनो हितम् [इतोन्यदपि पुराणप्रसिद्धं ब्राह्ममुहूर्त्तलक्षणं तत्र स्वापनिषेधोपि विष्णुपुराणे रत्नावल्यादिग्रन्थादौ च-यथा- रात्रेः पश्चिमयामस्य मुहूर्तो यस्तृतीयकः | स ब्राह्म इति विज्ञेयो विहितः स प्रबोधने || पञ्च पञ्च उषःकालाः सप्त पञ्चारुणोदयः | अष्ट पञ्च भवेत्प्रातस्ततः सूर्योदयः स्मृतः || तत्र फलं धन्वन्तरिः-धर्मार्थकामप्रीत्यर्थे सतां ग्रहणमुत्तमम् | प्राप्नुयात्स्वर्गवासं च नित्यमेवं समाचरेत् || रत्नावल्यां च | ब्राह्मे मुहूर्ते या निद्रा सा पुण्यक्षयकारिणी | तां करोति द्विजो मोहात्पादकृच्छ्रेण शुध्यतीति ||] || इति || तस्मिन् ब्राह्मणः मुक्तस्वापः निद्रां त्यक्त्वा | तस्मिन् समये निद्रात्यागस्य सामान्यतः स्मृतिप्राप्तत्वेऽपि क्रत्वर्थत्वेन अप्राप्तमनेन विधीयते | दर्शपूर्णमासप्रकरणे नानृतं वदेत् इतिवत् क्रत्वर्थत्वम् | तस्मिन्निद्राऽभावे प्राशस्त्यं च त्रिपुरारहस्ये- द्विमुहूर्तावशेषे तु सूर्यस्योदयनं प्रति | उषःकालः समाख्यातः साधकानां शुभावहः || प्. ८८) तत्काले यो यमर्थं वै चिन्तयेन्निश्चलान्तरः | तदस्य जायते राम कालवेलास्वभावतः || यस्तु कल्पद्रुमप्रख्ये कालेऽस्मिन्नावबुध्यते | बुद्ध्वा वा स्वं हितं निअव चिन्तयत्यतिमूढधीः || सर्वैः स्वार्थैः परिभ्रष्टः पङ्के गौरिव सीदति || इति ||
SK
ईदृशे काल उत्थाय सर्वपापक्षयाय-तादर्थ्ये चतुर्थी | शिव [अत्र पूर्वतने ७ पत्रे १ सूत्रभाष्ये वृत्तिकृदुदाहृते श्रुतिपथगलितानामित्यादिश्लोके श्रीसूतोपि श्रीशिवं भगवन्तं गुरुगुरुरित्याह-तथैवात्र स्थलेपि भगवान् श्रीजामदग्न्यो रामोप्येनं परमेष्थिनं श्रीशिवपरमशिवं गुरुमित्याचचष्ट इदमेवातिशायि नमस्यत्वं मदादेवत्वं चेशस्य गुरुगुरोरिति-प.-क.-सू.-द्वितीयावृत्तिद्दिपरिशिष्टकारः ] एव गुरुः न ततोऽन्यः इति अभिमृश्य मनसि ध्यात्वा || २ || मूलादिविधिबिलपर्यन्तं तडित्कोटिकडारां तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्वात्वा तद्रश्मिनिहतकश्मलजालः कादिं हादिं वा मूलविद्यां मनसा दशवारमावर्त्य || ३ || मूलम् आधारचक्रं तदादि तदारभ्य विधिबिलपर्यन्तम् एतस्य ज्वलन्तीमित्यनेनान्वयः | तटित्कोटयो विद्युत्कोटयः तद्वत् कडारां कपिशां तरुणदिवाकरः नभोमध्यवर्ती सूर्यः तद्वत् पिञ्जराम् अत एव ज्वलन्तीं मूलसंविदं निर्विषयचित्तं ध्यात्वा तद्रश्मिभिः चिद्रूपज्वालारश्मिभिः निहतानि परिहृतानि कश्मलानां जालानि समूहाः येन ईदृशः सन् कादिं कामोपासितां हादिं लोपामुद्रोपासितां वा विद्यां पञ्चदशीं मनसा क्रमविशिष्टान् वर्णान् ध्यात्वा || अत्र निबन्धे स्वगुरुपादुकोच्चारः पञ्चमुद्राभिः नमनम् अन्ये च स्वकपोलकल्पिताः श्लोकाश्च लिखिताः | ते सूत्रानभिमता अनादरणीयाः | एवं दन्तधावने मन्त्राः विंशतिगण्डूषनियमः सर्वेऽपि निष्प्रमाणास्त्याज्याः || ३ || स्नानसन्ध्याकर्म ततः स्नानसन्ध्ये वदति- स्नानकर्मणि प्राप्ते मूलेन [मूलेन मूर्धनि दत्वा-ब.] दत्वा त्रिः सलिलाञ्जलीन् त्रिस्तदभिमन्त्रिताः पीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानं परिधाय वाससी [मूलेन इत्यधिकः-ब२.] ह्रां [गृहमागत्य दीर्घत्रयान्वितो हंस इत्युक्त्वा इत्यधिकः त कोशे.] ह्रीं ह्रूं सः इत्युक्त्वा मार्ताण्डभैरवाय प्रकाशशक्तिसहिताय स्वाहेति त्रिस्सवित्रे दत्तार्घ्यः || ४ || प्. ८९)
SK
स्नानकर्मणि प्राप्ते स्नानावसरे | एतेन वैदिकस्नानोत्तरत्वम् अस्य सूचितम् | अयमेवार्थः स्पष्टमुक्तः त्रिपुराऽर्णवे- त्रैवर्णिकैर्वैदिकाऽन्ते तान्त्रिकं क्रियतेऽखिलम् || इति || अत्र प्रत्यञ्जलि मन्त्रावृत्तिः | अञ्जलीन् इति बहुवचनेन द्रव्यभेदे सिद्धे क्रियाया आवृत्तिरपि द्रव्यभेदे मन्त्रावृत्तेरेकादशे व्यवस्थापितत्वात् | दत्त्वा इत्यस्य कुत्रेत्याकाङ्क्षायां स्नानरूपतया योग्यत्वात् स्वशिरसीति पूरणीयम् | मूलेन इति मूलमुच्चारयन्निति तदर्थः | त्रिः तदभिमन्त्रिताः मूलाभिमन्त्रिताः | त्रिरित्यस्य अभिमन्त्रिता इत्यनेनान्वयः सन्निहितत्वात् न पीत्वेत्यनेन विप्रकृष्टत्वात् | तेन मूलत्रिवाराभिमन्त्रितानाम् अपां सकृदेव प्राशनम् | त्रिः सन्तर्प्य मूलमुच्चार्य शक्तिचक्रैकनायिकां श्रीललितां तर्पयामीति मन्त्रस्य सकृत्पाठः क्रियाऽभ्यासरूपत्वात् | चतुरावृत्तितर्पणे तु मन्त्रावृत्तिरेव न क्रियाऽवृत्तिः इति पूर्वमेव व्यवस्थापितम् | न हि द्रव्यभेदप्रापकं शास्त्रमस्ति तस्मात् सकृदेव मन्त्रः | प्रोक्षणेऽप्येवमेव | आत्मानम् इति शरीरवाचकं मुख्यार्थस्य प्रोक्षणजनितसंस्कारासम्भवात् | तर्पणप्रोक्षणयोः मन्त्रानुक्तेः मूलेनेति योजयेत् | तदुक्तं त्रिपुराऽर्णवे- मन्त्रानुक्तौ मूलमन्त्रं योजयेत् परमेश्वरि || इति ||
SK
न मूलेन दत्त्वा इत्यस्मादनुषङ्ग तथा सति तदभिमन्त्रिताः इत्यत्राप्यनुषङ्गे तत्पदवैय्यर्थ्यात् | अतोऽध्याहार एव | वस्त्रपरिधानं [मूलेन मूलमुच्चारयन् इति तदर्थः इत्यधिकः-ब २.] स्मृतिप्राप्तमनूद्यते | तत्फलं स्नानकर्मपरिसमाप्तिज्ञानं ज्ञेयम् | इत्युक्त्वा [वैदिकसन्ध्योत्तरं तान्त्रिकसध्यां करिष्ये इति सङ्कल्प्य-इत्यधिकः-ब. कोशे.] इत्येतावदपहाय स्वाहाऽन्तोऽर्घ्यदानमन्त्रः | यद्यपि मन्त्रलिङ्गेनैव देवतालाभे सवित्र इति व्यर्थम् | तथाऽपि दत्तार्घ्य इत्यत्र दानपदार्थः स्वस्वत्वध्वंसपूर्वकदेवतोद्देश्यकद्रव्यत्यागः | स च अमुकदेवताया इदं न ममेति रूपः | तत्र मन्त्रलिङ्गेन मार्तण्डभैरवायेदं न ममेति सिद्धः | ऐन्द्र्या गार्हपत्यमुपतिष्ठते इतिवत् तं बाधितुं चतुर्थ्यन्तं सवित्रे इति | अत्रापि सकृद्दत्तद्रव्यस्य पुनर्दानासम्भवात् अपरार्घ्ये द्रव्यान्तरत्वं सिद्धम् | तथा च द्रव्यपृथक्त्वात् मन्त्रावृत्तिः यथा नानाबीजेष्ववहननमन्त्रः || ५ || ततः श्रीचक्रभावनं सवितृमण्डले देव्यै अर्घ्यदानं च विधीयते- तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य [इयं श्रीत्रिपुरागायत्री स्पष्टा यथा-ऐं त्रिपुरसुन्दरि विद्महे क्लीं पीठकामिनि धीमहि | तन्नः क्लिन्ना प्रचोदयात् |] वाचमुच्चार्य त्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि-शक्तिमुच्चार्य तन्नः क्लिन्ना प्रचोदयादिति-त्रिर्महेश्यै दत्तार्घ्यः शतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य || ५ || प्. ९०) तस्य सवितृमण्डलस्य दृश्यमानवर्तुलाकारस्य मध्ये नवयोनयः चतस्रः पराङ्मुखाः पञ्च स्वाभिमुखा योनयो यस्मिन् तत् नवयोनिचक्रं श्रीचक्रमित्यर्थः | तदुक्तं कामिकागमे-नवयोनिः श्रीचक्रमिति | सुन्दरीहृदयेऽपि-नवयोनिः श्रीचक्रं विश्वस्योत्पत्तिकारणं प्रोक्तम् इति | शेषं स्पष्टम् | वाचं प्रथमकूटं श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा इति प्रमाणात् | प्रथमकूटानन्तरं विद्महे इत्यन्तं पठेत् | ततः कामं मध्यकूटं तदुक्तं चिद्गगनचन्द्रिकायाम्-
SK
शक्तिवाग्भवयोर्मध्ये कामराजस्तु विश्रुतः | रक्तशुक्लप्रभामिश्रः...................... इति || तदुच्चार्य पीठकामिनि धीमहि इति पठेत् | शक्तिं शक्तिकूटं तृतीयम् उच्चार्य पठित्वा शक्तिकूटैकताऽपन्नकट्यधोभागधारिणी इति सहस्रनामपाठात् | ततः प्रचोदयादित्यन्तं पठेत् | इदं त्रिपुरागायत्रीत्यप्युच्यते | शेषं पूर्ववत् | आमृश्य जपित्वा | शेषं स्पष्टम् || अत्र निबन्धकारोक्तं-स्नाने जले हस्तमात्रमण्डलकरणमारभ्य वम् इति बीजेन सप्तवारमभिमन्त्रणान्तं सन्ध्यायां त्रिरात्मानं प्रोक्ष्येत्यन्तं-तन्त्रान्तरस्थम् एतत्तन्त्रानुसारिणा न स्प्रष्टव्यम् | यदि स्पृश्यते तन्त्रान्तरं तर्हि सन्ध्यात्रयं पारायणक्रमश्च केन हेतुना त्यक्तः | तन्मूलं प्रामाणिकश्चेद् वदतु || ५ || यागमन्दिरप्रवेशादि ततो यागमन्दिरप्रवेशादिन् वदति- यागमन्दिरं गत्वा कॢप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसने समुपविष्टः || ६ || यागमन्दिरं पूजास्थानं गत्वा | एतेन सन्ध्या बहिर्जले नद्यादाविति सिद्धम् | कॢप्ताः धृताः आकल्पाः भूषणानि येनेदृशः | इदं भूषणधारणं पूजाकर्तुरङ्गम् | अतो लोके पूजाकर्तुर्धार्याणि यानि भूषणानि तान्यवश्यं धार्याणि | इदं च श्रीमतां सम्भवति | एवं सति दरिद्रस्य अङ्गभूतभूषणासमर्थस्य अन्धादिवदनधिकारः प्रसक्तः | अत आह-सङ्कल्पाकल्पो वेति | सङ्कल्पेन मानसक्रियया कल्पित आकल्पो येनेदृशो वा | मनसा निर्मितभूषणधारणकर्तेति यावत् | तथा च दरिद्रस्याप्यस्त्यधिकार इति भावः | भूषणानि पद्मरागप्रचुराणि भूषणविशेषनियमस्य तन्त्रान्तरस्थस्यापि ग्रहणमभिमतम् || प्. ९१)
SK
यत्तु निबन्धे द्वारपूजायां ताम्बूलभक्षणमुक्तं तत् सूत्रकारानभिमतम् | यद्वा-यागमन्दिरे क्रियाविधानात् अर्थसिद्धे गमने पुनर्यागमन्दिरं गत्वेति व्यर्थं सत् गणपतिक्रमस्थान्तःप्रविश्येत्यर्थकशब्दकथनात् तदन्तधर्मातिदेशं ज्ञापयति | अत एव वाराहीक्रमे नायं शब्दः | तेन श्रीक्रमे श्यामाक्रमे द्वारपूजाऽस्तु | तथाऽपि श्रीक्रमे ताम्बूलभक्षणं निर्मूलमेव || पीठमनुनेति पूर्वं व्याख्यातम् | समुपविष्ट इत्यत्र समित्युपसर्गेण आ समाप्ति एकासनेन स्थेयम् इति ज्ञापयति | अत एव येनासनेन समाप्तिपर्यन्तमवस्थाने स्वस्य श्रमो न स्यात् तेन पद्माद्यन्यतमेनासनेन स्थेयमित्यर्थः || निबन्धे बालातृतीयबीजेन द्वादशवारमभिमन्त्रणं मूलमन्त्रेण प्रोक्षणम् उक्तम् | तत् सूत्रानभिमतं ज्ञेयम् || ६ || एतत्सपर्योपयोगिनीं त्रितारीमाह- त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् || ७ || त्रितारीं वक्ष्यमाणामुक्त्वा [अत्रैव अधस्तने-सूत्रे भाष्ये च-इत्यर्थः |] नम इत्यन्तमुच्चरेत् | अयं दीपनाथार्हणमनुः | अनेन भूमौ पुष्पाञ्जलिं दद्यात् | पुष्पाणामञ्जलिगृहीतानां प्रचयः पुष्पाञ्जलिः | तदुक्तम् अगस्त्यसंहितायां सोमवारविधिप्रकरणे- संश्लिष्टहस्तद्वयमध्यवर्ती प्रसूनपुञ्जः कुसुमाञ्जलिः स्यात् || इति || ७ || सर्वमन्त्रेषु त्रितारीसंयोगविधिः सर्वमन्त्रोपयुक्तां कांचित् परिभाषामाह- सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः | त्रितारी वाङ्मायाकमलाः || ८ ||
SK
अत्र सर्वशब्दस्य प्रकरणेन सङ्कोचं कृत्वा श्रीविद्योपास्त्यङ्गभूतानामेतदुत्तरपठितानाम् इत्यर्थः | तेनैतत्पूर्वमन्त्रेषु त्रितारीयोगो नास्तीति सिद्धम् | अत एव सेतुबन्धे- यागमन्दिरप्रवेशोत्तरं कल्पसूत्रे त्रितारीयोगपाठात् ततः प्राक् मन्त्रेषु न तद्योग इति मन्तव्यम् इति स्थितम् | आदावित्यनेन अन्तव्यावृत्तिः | योग इति वक्तव्ये समित्युपर्गेण त्रितार्युच्चारः स्पष्टमभूत् | ततो यत्किंचिदङ्गमन्त्रपाठसमये मध्ये यदि करणापाटवादिदोषेण एको वर्णो लुप्तः तदा पुनर्मन्त्रः पठनीयः तत्रापि पुनः त्रितारीयोगः सूचितः | यद्वा-त्रितारीपाठानन्तरं केनचित् प्रतिबन्धेन मन्त्रपाठे यदि क्षणविलम्बः तादृशस्थले पुनस्त्रितार्युच्चारोऽविलम्बेनोच्चारणरूपो प्. ९२) ज्ञाप्यते | यद्यप्यनेनैव दीपनाथार्हणमन्त्रे त्रितारीयोगप्राप्तौ तत्र त्रितारीमुच्चार्येति व्यर्थम् | तथाऽपि तत्र त्रितारीमुक्त्वेति तन्मन्त्रघटकत्वं त्रितार्या ज्ञापयति | एयं परिभाषा च त्रितारीयोगेन मन्त्राणां संस्कारं वदति इति न वैय्यर्थ्यम् || यत्तु निबन्धे दीपनाथार्हणोत्तरं गणपतिनमनं गुरुनमनम् अङ्गुष्ठादिकनिष्ठान्तव्यापकमिति प्राणप्रतिष्ठा च तत्सर्वं तन्त्रान्तरस्थम् अन्यप्रकरणस्थं श्रीविद्याप्रयोगे न स्प्रष्टव्यम् || अत्र त्रितारी केत्याकाङ्क्षायामाह-त्रितारीति | वाक् सबिन्दुः द्वादशस्वरः | माया तुरीयोष्मसहितद्वितीयान्तस्थोत्तरसबिन्दुस्तुर्यस्वरः | कमला प्रथमोष्मसहितद्वितीयान्तस्थोपरि सबिन्दुस्तुर्यस्वरः | एते त्रितारीपदवाच्या भवन्तीति शेषः [ऐं ह्रीं श्रीं-इति-संभूय-त्रितारीमन्त्रः |] | वागादीनामुक्तार्थत्वे प्रमाणमग्रे वक्ष्यामः || ८ || श्रीचक्रस्वरूपं तत्साधनद्रव्यं च इतः परं श्रीचक्रस्वरूपं तत्साधनद्रव्यं चाह-
SK
पुरतः पञ्चशक्तिचतुःश्रीकण्ठमेलनरूपं भूसदनत्रयवलित्रयभूप- पत्रदिक्पत्रभुवनारद्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयं महाचक्रराजं सिन्दूरकुङ्कुमलिखितं [मिलितं-अ |] चामीकरकलधौतपञ्चलोहरत्नस्फटिकाद्युत्कीर्णं वा निवेश्य || ९ || पुरत इत्यस्य निवेश्येत्यनेन साकमन्वयः | पञ्चशक्तयः शक्तिचक्राणि चतुःश्रीकण्ठाः चत्वारि शिवचक्राणि एषां मेलनरूपम् अभिन्नस्वरूपम् | एतेन विशेषणेन एतादृशस्वरूपज्ञानं पूजाऽदावावश्यकमिति सूचितम् | एतन्मेलनप्रकारः पूजाकाले ईदृशज्ञानस्यावश्यकता चोक्ता ब्रह्माण्डपुराणे- त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुजम् | दशारयोः षोडशारं भूगृहं भुवनास्रके || शैवानामपि शाक्तानां चक्राणां च परस्परम् | अविनाभावसम्बन्धं यो जानाति स चक्रवित् || एवं विभागमज्ञात्वा श्रीचक्रं योऽर्चयेत् सकृत् | न तत्फलमवाप्नोति ललिताऽम्बा न तुष्यति || इति || प्. ९३) अयमेवार्थस्तन्त्रेषु बहु प्रतिपादितः | ग्रन्थविस्तरभयान्नेह तत्रत्यवचनानि लिखितानि | भूसदनत्रयं परितः चतुरस्ररेखात्रयम् | चतुरस्रभूसदनशक्तिग्राहकं प्रमाणं तु- तद्बाह्ये वृत्तमालिख्य तद्बाह्ये चतुरस्रकम् | इति तन्त्रान्तरवचनम् | अस्मत्परमेष्ठिगुरुभिरपि सेतुबन्धे लिखितं भूगृहं नाम चतुरस्रम् इति || श्रीचक्रे द्वाररहितचतुरस्रत्रयलेखनसमर्थनम् ननु तन्त्रान्तरवचने चतुरस्रकमित्येकवचनेन एकमेव चतुरस्रमिति प्रतीयते इह चतुरस्रत्रयमित्युक्तम् द्वयोर्विरोधे कथमेतदिति चेत्-न तत्तत्तन्त्रानुसारिपुरुषभेदेन व्यवस्थितविकल्पसम्भवात् | एवं सूत्रानुयायिनां श्रीचक्रे भूपुरं द्वाररहितम् अनुक्तत्वात् ||
SK
ननु त्रिपुराऽर्णवे वृत्तं ततो भूपुराणां त्रितयं द्वारशोभितम् इत्युक्तत्वात् एवं नित्यातन्त्रे एवं त्रिभूसदनकं चतुर्द्वारविभूषितम् इति वामकेशवरतन्त्रे परिवेषं भूपुरं च चतुर्द्वारोपशोभितम् इति एवमादितन्त्रानुसारेण अत्रापि द्वारतात्पर्यं कल्प्यताम्-इति चेत्-न वृत्तत्रयं च धरणीसदनत्रयं च श्रीचक्रमेतदुदितं परदेवतायाः इति यामलवचने एवमन्येष्वपि तन्त्रेषु द्वाररहितभूपुरश्रवणेन विकल्पस्य दुर्निवारत्वात् | न चैवं द्वाररहितभूपुरस्य केनापि निबन्धकारेणालिखितत्वादिदमश्रद्धेयम् इति वाच्यम् सौन्दर्यलहर्यां त्रयश्चत्वारिंशत् इति श्लोके द्वारानुक्तेः भगवत्पादानामस्मदुक्तपक्षस्यैवाभिमतत्वात् | एवं प्रपञ्चसारङ्ग्रहे श्रीविद्यारण्यस्वामिभिरपि द्वाररहितमपि श्रीचक्रे चतुरस्रमुपलभ्यते क्वचिदिति ग्रन्थेन अस्मदनुमतमेव लिखितम् | एवमतिचिरन्तनशिङ्गभूपालपद्धतावपि तथाऽस्ति | इदमन्वेषितुं प्रवृत्तौ अन्यान्यपि निबन्धान्तरवाक्यानि मिलिष्यन्ति | एतावदलमिति न विशेषयत्नः कृतः || इत्थं चाहं सूत्रानुयायीति विशेषाभिमानवता नित्योत्सवनिबन्धकारेण श्रीचक्रलेखनप्रकारकथनावसरे चतुर्द्वारं भूपुरं समुद्भावयेत् इति यतो लिखितम् अत एव तेन सूत्रं न परिशोधितम् | गतानुगतिकलोकानुसारेण लिखितमिति स्फुटम् || किं च निबन्धकारः श्रीभास्कररायाणां शिष्य इति स्वनिबन्ध एव लिलेख | श्रीभास्कररायोक्तसेतुबन्धे प्रतिदिशं रेखात्रययुक्तं द्वारसामान्याभाववत् इति तृतीयः पक्षः | कल्पसूत्रमस्मिन् पक्षे अनुकूलमिति लिखितम् || किं च सर्वेषां मन्त्राणाम् आदौ त्रितारीसंयोग इति कल्पसूत्रस्य यागमन्दिरप्रवेशोत्तरमेव पाठात् ततः प्राक्तनमन्त्रेषु न तद्योग इति सेतुबन्धे स्थिते अयं मुषःकारी रश्मिमालामन्त्रेषु प्. ९४) सन्ध्यावन्दने च त्रितारीं योजयामास | तथा द्वारचतुष्टयं च योजयामास | एवं सति गुरुमतमपि यः अजानन् स्वेच्छया लिखति स कीदृश उपासकः कीदृशो वा गुरुशिष्यभावः तं न विद्मः ||
SK
यदि च सेतुबन्धे प्रथमं द्वारसामान्याभावं विलिख्य अग्रे तत्त्वं विचार्य अग्रे तत्रैव द्वारसामान्याभावपक्षस्तु द्वारप्रतिषेधपर्युदासान्यतरमन्तरेण यामलकल्पसूत्रादौ द्वारानुक्तिमात्रेण कल्प्यमानः साहसमात्रम् इति लिखितत्वात् कथं गुरुमतानभिज्ञतेत्युच्यते-तदा आस्तां द्वारविषये गुरुमताभिज्ञता | रश्मिमालामन्त्रेषु सन्ध्यामन्त्रेषु च त्रितारीयोजने गुरुमतानभिज्ञता वज्रलेपायिता | एतेनायं निबन्धः सर्वतन्त्रस्वतन्त्रश्रीभास्कररायैः परिशोधित इत्यैतिह्यमपि निर्मूलमिति स्फुटं युक्तमुत्पश्यामः || वलित्रयं वृत्तत्रयम् [एतद्विषये-द्दि. प.-शि.-११-वि.-दृश्यः |] | अत्र बहवः- षोडशदलस्य अष्टदलस्य द्वे कर्णिकावृत्ते तयोर्बहिः एकं वृत्तं एवं च वृत्तत्रयं न पद्मद्वयस्य बहिर्वृत्तत्रयम् | यत्तु बलित्रयम् इति कल्पसूत्रम् वृत्तत्रयं च धरणीसदनत्रयं च इति यामलवचनं ज्येष्टारूपं चतुष्कोणं वामारूपं भ्रमित्रयम् इत्ति योगिनीतन्त्रवचनम् सर्वम् उक्तवृत्तत्रयपरमेवेत्याहुः || श्रीचक्रे पञ्चवृत्तलेखनसमर्थनम् अत्र अस्मत्परमेष्थिगुरवः सेतुबन्धे वक्ष्यमाणप्रकारान्तरेण श्रीचक्रलेखनावसरे- बहिः पद्मद्वयं कुर्यादष्टषोडशकच्छदम् | गुणवृत्तं ततः कुर्याच्चतुरस्रं च तद्बहिः || इति वामकेश्वरतन्त्रवचने ततः पदस्वारस्येन पद्मद्वयाद्बहिरेव त्रीणि वृत्तानि तदनुसारेण परिशेषं भूपूरं चेति | अत्रैकवचनमविवक्षितम् | एवं च पञ्च वृत्तानि | अत एव ज्ञानार्णवे [ज्ञानार्णवे-१० पटले-७२-७३- श्लोकाविमौ स्तः |]- एतद्बाह्ये महेशानि वृत्तं पूर्णेन्दुसंनिभम् | तद्युतं कुरु मीनाक्षि वसुपत्रं मनोहरम् | तथा षोडशपत्रं तु विलिखेत् सुरवन्दिते | तद्बाह्ये देवदेवेशि त्रिवृत्तं मातृकाऽन्वितम् | इत्यत्र तद्बाह्य इति पदेन कर्णिकावृत्तादतिरिक्तं वृत्तत्रयं सुस्पष्टमुक्तम् ||
SK
तद्व्याख्यातारोऽन्ये आग्रहेण तद्बाह्ये इति श्लोकार्धं स्वपुस्तपकोरि लिखितत्वात् अक्षरलेखनप्रकारस्य कस्मिंश्चित्तन्त्रे अलेखनात् अकस्मान्मातृकाऽन्वितत्वोक्तेरसङ्गतत्वात् बहुषु प्. ९५) पुस्तकेषु अनुपलब्धेश्च प्रक्षिप्तमिति परमतमनूद्य तदुपरि यदि प्रक्षिप्तं तर्हि तृतीयवृत्तविधायकवचनाभावात् वृत्तद्वयापत्तेरिति दूषितत्वात् संहितायां तन्त्रान्तरे च बहिर्वृत्तत्रयं सुस्पष्टमस्तीति लिखितत्वात् पञ्चवृत्तानीति (सेतुबन्धे) व्यवस्थापयामासुः | अत्र महेश्वरानन्दनाथाः-तद्बाह्ये वृत्तमालिख्य तद्बाह्ये चतुरस्रकम् इति परमानन्दतन्त्रे वृत्तमित्येकवचनात् वृत्तं ततो भूपुराणाम् इति वृत्तं त्रिभूसदनकम् इति परिवेषं भूपुरं च इति सुवृत्तं परमेशानि इति त्रिपुरार्णव-नित्यातन्त्र-वामकेश्वरतन्त्र-दक्षिणामूर्तिसंहितासु एकवचनबलात् कर्णिकावृत्तद्वयेनैव सह त्रिवृत्तमिति व्यवस्थाप्य ततः सेतुबन्धमतमनूद्य तद्दूषणे सेतुबन्ध एव वामकेश्वरतन्त्रज्ञानार्णववचनयोः बहुषु पुस्तकेष्वनुपलम्भादिति श्रीभास्कररायलेखं हेतुत्वेनोपन्यस्य सेतुबन्धं दूषयामासुः || अयं प्रकारोऽसिद्धः | सेतुबन्धे तैः सिद्धान्तावसरे बहुषु पुस्तकेष्वनुपलम्भादिति नोक्तः | किं तु वादिमतानुवादवेलायाम् उपन्यस्तः | स च वादिनो लेखः | तेन हेतुना श्रीभास्कररायमतं कथं निरस्तम् | रायैश्च प्रत्युत मत्पुस्तकमध्यलेखात् प्रमाणमेवेति प्रतिबन्द्युत्तरं वृत्तद्वयापत्तिश्चेति दूषणद्वयं दत्तम् | किं च वामकेश्वरतन्त्रवचने न कोऽपि विवादं लिलेख | एवं सति तत्रापि निर्मूल ईदृशो दोषारोपः केवलं स्वपाण्डित्यप्रकटनार्थ एव | अतो वामकेश्वरतन्त्रवचनस्य वृत्तत्रयप्रापकस्य ज्ञानार्णवस्य च गतिमकल्पयित्वा न वृत्तपञ्चकनिवृत्तिर्भविष्यति ||
SK
यदि च निरुक्तैकवचनबलादेव यामलकवचनेन अष्टदलषोडशदलेति पृथगुक्त्वा तदुत्तरं श्रूयमाणवृत्तत्रयेतिपदे त्रयमित्यस्य समुदायानुवादकत्वरूपवैय्यर्थ्यमङ्गीकृत्य एवं वामारूपं भ्रमित्रयमित्यत्र अष्टदलषोडशदलावयवस्य भ्रमेरेव वामारूपत्वकल्पनायासः क्रियते | तर्हि तद्बाह्ये चतुरस्रकमित्यत्राप्येकवचनं तुल्यम् | तदुपोद्बलकानि वचनानि- वामकेश्वरतन्त्रे परिवेषं भूपुरं च इति तत्रैव षष्ठपटले वामारूपं चतुष्कोणम् इति पूर्वतन्त्रे च गुणवृत्तं ततः कुर्याच्चतुरस्रं च तद्बहिः इति दक्षिणामूर्तिसंहितायाम्-सुवृत्तं परमेशानि ततो भुबिम्बमालिखेत् इत्यादिवचनानि | एवं वचनेषु सत्सु एकवचने निर्भरवतः अत्र परमानन्दतन्त्रटिप्पण्याम् चतुरस्रं चतुरस्रत्रयम् [तच्चतुरस्रत्रयं त्रिभिरङ्गुलैः इत्यधिकः-ब २.] इति महेश्वरानन्दनाथलेखः सन्दर्भविरुद्ध एव || यदि च भूपुराणां त्रितयं द्वारशोभितम् इत्यादितन्त्रवचनैरेकवचनं तत्रत्यमविवक्षितमित्युच्यते तर्हि वृत्तमित्यत्रैकवचनेन कोऽपराधोऽनुष्ठितः | एवं बहुष्वेकवचनं लोके वेदे च प्रयुज्यमानं बहूपलभ्यते | लोके गृहे धान्यमस्ति संपन्नो व्रीहि इति प्. ९६) हेतुस्तदुद्भवे इति ईदृशस्थले जात्येकवचनमिति वदन्ति शिष्टाः | ब्राह्मणो मम दैवतम् इति पुराणप्रयोगः | श्रुतौ बहुपत्नीकदर्शपूर्णमासे पत्नीं संनह्य गृहं संमार्ष्टि इत्येवमादीनि बहूनि सन्ति | तद्वदुपपतेः नैकवचनस्य सर्वथा गत्यभावः ||
SK
न च-उक्तस्थलेषु बाधकवशादेकवचनस्य लक्षणां बहुत्वे कल्पयित्वा एकवचनं निर्वाह्यम् | प्रकृतेऽपि तद्वत्पक्षाश्रयणे वामकेश्वरतन्त्रस्थस्य गुणवृत्तं ततः इत्यत्र तत इत्यस्यैव लक्षणायां तात्पर्यग्राहकता वाच्या | सा च न सम्भवति | ततःपदघटितवामकेश्वरतन्त्रस्य तद्बाह्ये वृत्तम् इति परमानन्दतन्त्रस्यैकवचनघटितस्य तुल्यबलत्वेन एकवचनानुसारेण तत इत्यस्यैव लक्षणापक्षं अविवक्षापक्षं वाऽश्रित्यैकवचनविवक्षैव किमिति न क्रियते | द्वयोर्मध्ये अन्यतरस्य अन्यथानयने कार्ये तत इति पदस्वारस्येनैकवचनमविवक्षितं न विपरीतमित्यत्र नियामकाभावात्-इति वाच्यम् | प्रत्ययार्थप्रातिपदिकार्थयोर्मध्ये एकानुसारेण अपरस्यान्यथानयने प्राप्ते प्रातिपदिकस्य प्रबलत्वेन तदनुसारेण वचनप्रत्ययार्थस्यैवान्यथा नयनम् | तदुक्तं श्रीविद्यारण्यस्वामिभिः- त्रिरनूक्तिर्-ऋचो धर्मः स्थानधर्मोऽथ नाग्रिमः | स्त्रीलिङ्गत्वान्न तत्प्रातिपदिकप्रबलत्वतः || इति प्रातिपदिकप्राबल्यसाधकयुक्तयोऽपि बह्व्यः सन्ति | ग्रन्थविस्तरभयादभियुक्तोक्तिकॢप्तैव लिखिता | तस्मात् प्रातिपदिकीभूत तत इत्यनुसारेण एकवचनमेव अन्यथा नेयम् | तथा च सुधिया आग्रहं परित्यज्य केवलतत्त्वबुभुत्सुना विचार्यमाणे सर्वतन्त्रेष्वपि वचनमात्रस्याविवक्षां कृत्वा श्रीयन्त्रे पञ्चवृत्तान्यभिमतानीति सिध्येदिति | प्रकृतमनुसरामः ||
SK
भूपपत्रमिति-भूपा इति षोडशसङ्ख्यायाः सङ्केतः | षोडश पत्राणि यस्मिंस्तत् | दिक्पत्रं-दिगित्यष्टसङ्ख्यायाः संज्ञा तावन्ति पत्राणि यस्मिंस्तत् | भुवनारं-भुवनमिति चतुर्दशसङ्ख्यायाः संज्ञा तावदरं तावत्कोणम् | द्रुहिणारं द्रुहिण इति दशसङ्ख्यायाः संज्ञा श्रीभागवतादौ सृष्टिनिमित्तानां दशप्रजापतीनां कर्दमादीनां प्रसिद्धत्वात् | तावदरं दशकोणमित्यर्थः | एतेन विधिकोणमिति च व्याख्यातप्रायम् | दिक्पदं च व्याख्यातम् | त्रिकोणबिन्दु स्पष्टौ | मयमित्यनेन समष्ट्येकरूपत्वं ज्ञापितम् | महाचक्रराजं-चक्रराजमिति श्रीचक्रस्य नाम तत्र महत्त्वं पूज्यत्वं मह पूजायां इत्यनुशासनात् | तथा च ब्रह्मविष्णुरुद्रादिसकलपूज्यमित्यर्थः | सिन्दूरं प्रसिद्धं कुङ्कुमं काश्मीरम् एतदन्यतरेण | यद्वा-द्वन्द्वसमासेन साहित्यप्रतीतेः सिन्दूरसहितकुङ्कुमेन लिखितम् || प्. ९७) नव्यास्तु-यदा भूमौ प्रस्तारो लिख्यते तदा कुङ्कुमरजोभिः पूरणं मेरुप्रस्तारश्चेत् सिन्दूररजोभिरिति व्यवस्थामाहुः | तत्र मूलं चिन्त्यम् || लेखनप्रकारस्य अस्मत्परमेष्टिगुरुकृतसेतुबन्धे सविस्तरमुक्तत्वान्नात्र लिख्यते | एतावत्पर्यन्तं पूजासमये नित्ययन्त्रनिर्माणप्रकारः उक्तः | इदानीं सिद्धयन्त्रेऽपि पूजाप्रकारं यन्त्रनिर्माणद्रव्यनियमं चाह- चामीकरेत्यादिना | चामीकरं सुवर्णं कलधौतं रौप्यम् | यद्यपि कलधौतपदं सुवर्णवाचकमपि भवति | कलधौतं रौप्यहेम्नोः इति कोशात् तथाऽपि सुवर्णस्य पूर्वमुक्तत्वाद्रौप्यमेव | पञ्चलोहं तल्लक्षणमुक्तं तन्त्रसारे बृहत्पाञ्चरात्रे च- रौप्यं नृपगुणं प्रोक्तं दिक्सङ्ख्यो हेमभागकः | ताम्रं द्वादशभागः स्याल्लोहभागस्य पञ्चकम् | आरकूटस्य षड्भागाः पञ्चलोहं प्रकीर्तितम् || इति || आरकूटं पित्तलं शेषं स्पष्टम् | रत्नानि मरकतादीनि तेषु उत्कीर्णं पूर्वोक्तशास्त्रेण निर्मितम् | आदिपदात् ताम्रदृषदादिकं परमानन्दतन्त्रोक्तं ग्राह्यम् | इदमपि पूर्वोक्तचक्रराजे विशेषणम् | ईदृशं चक्रराजं पुरतो निवेश्य ||
SK
अत्र पूजनं मुख्यम् | एतस्यालाभे तन्त्रान्तरोक्तप्रतिनिधिस्वीकारोऽपि कार्यः | तदुक्तं परमानन्दतन्त्रे- आदर्शे चैकगुणितं पुस्तके द्विगुणं फलम् | प्रतिमायां चतुर्धां स्यात् शालिग्रामेषु षोडश || शिवनाभे शतगुणं पूजनात् पुरुषार्थकम् | सहस्रधा नार्मदे तु फलं देवि प्रचिक्षते || कुण्डल्यां लक्षगुणितं देवतादर्शनं भवेत् | चक्रराजे तु या पूजा साऽनन्तफलदायिनी || इति || इमानि तु पठितक्रमे उत्तरोत्तराभावे पूर्वं पूर्वं ग्राह्यम् | एतादृशार्थतात्पर्यग्राहकमेव फलतारतम्यश्रवणम् | कुण्डली शेषकुण्डली | पुस्तकं कुलशास्त्रपुस्तकम् | प्रतिमा ध्यानश्लोकस्थाकारा | शेषं स्पष्टम् || यन्त्रप्रतिष्ठा सूत्रे अनुक्तत्वात् न कर्तव्या सूत्रानुयायिभिः | एवं प्राणप्रतिष्ठाऽपि न कार्या सूत्रानुयायिभिः अनुक्तत्वात् अनाकाङक्षितत्वाच्च | वस्तुवस्तु-यन्त्रप्रतिष्ठायाः प्. ९८) पूजाप्रयोगबहिर्भूतत्वात् अधिकाभ्युदयेच्छायां तन्त्रान्तरोक्तमनुष्ठेयं [एतद्यन्त्रप्रतिष्ठाकरणाकरणविषये-द्दि० परिशिष्ट ११-वि. दृश्यः |] यथा सहस्रनामपाठादि | तत्करणे अभ्युदयः अकरणेऽपि न हानिः सूत्रानुयायिनाम् | यथा वा यज्ञोपवीतसंस्कारः बौधायनसूत्रे पठितः | अन्यसूत्रापठितत्वात् बह्वल्पं वा इति सूत्रात् अननुष्ठाने न हानिरिति द्रविडान्ध्रदेशीयाः यज्ञोपवीतस्य न संस्कारं कुर्वन्ति | महाराष्ट्रदेशीयैस्तु करणे अभ्युदयं मत्वा संस्कारः क्रियते | तद्वत् चक्रराजे संस्कारे अभ्युदयः अकरणे सूत्रानुयायिनां न हानिः || ९ || मन्दिरार्चनम् ततो मन्दिराद्यर्चनक्रममाह-
SK
तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपाय नानावृक्षमहोद्यानाय कल्पवृक्षवाटिकायै [कल्पवाटिका-ब २. श्री.] सन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायै पारिजातवाटिकायै कदम्बवाटिकायै पुष्यरागरत्नप्राकाराय पद्मरागरत्नप्राकाराय गोमेधरत्नप्राकाराय [गोमेद-ब २.] वज्ररत्नप्राकाराय वैडूर्यरत्नप्राकाराय इन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकाराय मरकतरत्नप्राकाराय विद्रुमरत्नप्राकाराय माणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायै आनन्दवापिकायै विमर्शवापिकायै बालातपोद्गाराय चन्द्रिकोद्गाराय महाशृङ्गारपरिघायै महापद्माटव्यै चिन्तामणिगृहराजाय पूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वाराय पश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वाराय रत्नप्रदीपवलयाय मणिमयमहासिंहासनाय ब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादाय रुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादाय सदाशिवमयैकमञ्चफलकाय हंसतूलतल्पाय हंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकाय महाजवनिकायै [एतत्पुस्तके प्राक्तनो यवनिकायै-इति पाठो लेखाशुद्धो भातीति-यमनिका-जवनिका-वात्र शब्द उचितश्चात्र प्र. अमरकोशे-२ काण्डे मनुष्यवर्गे-यथा - प्रतिसीरा जवनिका स्यात्तिरस्कारिणी च सा-१२०-श्लोकः अत्र- टी-प्रतिसीरा-जवनिका-तिरस्कारिणीतिरस्कारिणीत्यलम् |] नमः-इति चतुश्चत्वारिंशन्मन्त्रैस्तत्तदखिलं [चतुश्चत्वारिम्शन्मन्दिरमन्तैः-ब २.] भावयित्वा अर्चयित्वा || १० || प्. ९९) तत्र यागमन्दिरे स्थिते इति शेषः | इदं च महाचक्रे-इत्यस्य विशेषणम् | यद्वा- तत्रेति लिखितार्थकं पूर्वसूत्रे पुरतो निवेश्येत्यन्वितम् | महाचक्रे-इति भावयित्वा अर्चयित्वा इति अग्रिमेणान्वितम् | अमृताम्भोनिधिः अमृतसमुद्रः | रत्नमयो द्वीपः वासयोग्यदेशः उन्नतभूमिरिति यावत् | उद्यानं क्रीडावनं पुमानाक्रीड उद्यानम् इत्यमरः | वृक्षवाटिका उपवनं गेहोपवने वृक्षवाटिका इत्यमरः | कल्पादीनि सुरतरुनामानि |
SK
पञ्चैते देवतरवो मन्दारः पारिजातकः | सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् || इत्यमरः || कदम्बः प्रसिद्धः | पुष्परागादिविद्रुमान्ताः नवरत्नभेदाः तेषां प्राकारः परितः गृहाद्बहिर्निर्मिता भित्तिः | माणिक्यं पद्मरागं तस्य मण्डपः | वापी दीर्घिका | उद्गारो लोहितवर्णं समाह्लादकं वस्तु | तदुक्तं त्र्यक्षरकोशे-उद्गारो लोहिते वर्णे समाह्लादनवस्तुनि इति | रत्नमयाः प्रदीपाः तेषां वलयम् | हंसतूलं पक्षिविशेषस्य पक्षाधःस्थितरोममालाऽकृतिसूक्ष्मपक्षाः महाराष्ट्रभाषायां परा-इति प्रसिद्धम् | महोपधानं महाराष्ट्रभाषायां लोडु-इति प्रसिद्धम् | कौसुम्भास्तरणं रक्तवर्णं तल्पोपरि तन्मालिन्याभावार्थं सूक्ष्मं वस्त्रं पात्यते | तत् महाराष्ट्रभाषायां पलंगपूस-इति प्रसिद्धम् | वितानम् ऊर्ध्वदेशान्मृत्तिकादिपातप्रतिबन्धकमुपरि बध्यमानं वस्त्रम् | यवनिका [अनुगते ९८ पत्रस्थे-४-५-चिह्नयोः टीप्पण्यौ दृश्ये |] महाराष्ट्रभाषायां षडुदा-इति प्रसिद्धम् | शेषं प्रसिद्धम् | एवं चतुर्थ्यन्तैः सर्वैः नमः-इति योगः या ते अग्नेऽयाशया इतिवत् | एतैः चतुश्चत्वारिंशन्मन्त्रैः मन्त्रवाच्यानर्थान् आदौ श्रीचक्रे परिभाव्य तेषां पूजनं कुर्यात् | एकस्य ध्यानं ततोऽर्चनं ततोऽपरस्य ध्यानं ततः तास्यर्चनमिति क्रमः तत्तदिति पदस्वारस्यात् लब्धः | अन्यथा न्यायतः पदार्थानुसमयेन ध्यानं पूजनं च प्राप्तं तत्तदिति वीप्सया तद्बाधो ज्ञेयः || १० || दीपदानं चक्राभ्यर्चनं च गन्धपुष्पादिस्थापनस्थानादिकमाह- गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपानभितो [अत्र दीपविषये-द्दि. परिशिष्टे १३/२९ वि. दृश्यः ||] दत्त्वा मूलेन चक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यस्रे || ११ ||
SK
अक्षतादीत्यत्र आदिपदेन प्रथमद्वितीयादिग्रहणम् | एतस्य दत्त्वेत्यनेनान्वयः | तत्र दानं न यत्किंचिद्देवतोद्देशेन त्यागः | किं तु यज्ञायुधानि सम्भरति इतिवत् पूजासामग्र्याः एकत्र संपादनम् | एतस्य फलं तत्तदर्पणवेलायां तस्य तस्य शीघ्रलाभः | दीपानामभितः प्. १००) पार्श्वद्वये दानं स्थापनमदृष्टार्थम् | दत्त्वेत्यस्य चकारेण आवृत्तिर्ज्ञापिता प्रत्युद्देश्यं वाक्यपरिसमाप्त्यर्थमावृत्तेरावश्यकत्वात् | अतो न ददातेरर्थभेदो दोषजनकः | न च दाधातोरयमर्थः केन प्रमाणेनेति वाच्यम् रजकस्य वस्त्रं ददाति संवाहकस्य चरणौ ददाति शत्रवे भयं ददाति इत्यादौ योग्यतया अर्थकल्पनावत् अत्रापि योग्यार्थकल्पनात् | अभितः इत्यनेन एकस्मिन् पार्श्वे यावन्तो दीपाः तावन्त एव अपरपार्श्वे-इति ज्ञाप्यते | अस्य फलं अन्धकारनिवृत्तिः | एतेन पूजागृहे अन्धकारसामान्याभावः कार्य इत्यर्थः | एकस्मिन् पार्श्वे अधिकदीपस्थापने तत्पृष्ठतः तच्छायारूपान्धकारः पतिष्यति | अभितस्तुल्यप्रज्वालने न कुत्राप्यन्धकार इत्यर्थः | पार्श्वद्वयनियमो दृष्टार्थः | चक्रं नवचक्रात्मकं समष्टिचक्रं मूलेन पञ्चदश्या अभ्यर्च्य | अत्र पुष्पाक्षतक्षेपणमेवाभ्यर्चनम् | त्रिखण्डैः वाग्भवकामराजशक्तिभिः प्रथमं चक्रनिर्माणसमये प्रथमस्य चक्रस्य त्रीणि यान्यस्राणि तानि द्विगुत्वादेकवद्भावः | न बहुव्रीहिः | तत्पक्षे त्रिकोणात्मकैकचक्रे एकदेशे पूजने मन्त्रत्रयस्यानाकाङ्क्षितत्वात् भगो वां विभजतु इतिवद्विकल्पापत्तेः | न च चतुर्भिरभ्रिमादत्ते इतिवत् समुच्चयोऽस्त्विति वाच्यम् तथाऽपि बहुव्रीहिपक्षे अन्यपदार्थे लक्षणाकल्पनं दोषः | द्विगुपक्षे तु कोणत्रये कूटत्रयं युक्तम् | अभ्यर्च्य इत्यस्य पूर्वस्मादनुवृत्तिः | क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन || ११ || आत्मशुद्धिहेतु शोषणादि ततः शोषणादीनात्मशुद्धिहेतूनाह- वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं संदहनमाप्लावनं च विधाय || १२ ||
SK
वायुवर्णः यं-अग्निवर्णः रं-सलिलवर्णः वं-वायौ शोषकताशक्तिः लोकप्रसिद्धा अतस्तद्वर्णेऽपि साऽस्ति | अतः तेन शोषणं जलांशनाशनं एवमेव अग्निवर्णेन संदहनं भस्मीकरणं तथैव तद्भस्मनः उदकवर्णेन पिण्डीकरणम् आप्लावनं विधाय कृत्वा | चकारात् तन्त्रान्तरोक्तं श्यामाप्रकरणस्थं वा लं-इति पार्थिवबीजेन काठिन्यसंपादनं शाम्भवशरीरोत्पत्तिश्च ग्राह्या | यद्वा- समीपवृत्तित्वात् श्यामाप्रकरणस्थमेव ग्राह्यम् [अग्रे-६ खण्डे श्यामाक्रमे-९ सूत्रे मूले भाष्ये च दृश्यम् |] | शोषणादिक्रियाणां कर्माकाङ्क्षायां दृश्यमानं स्थूलशरीरं लिङ्गशरीरं वा कर्म तन्त्रान्तरप्रसिद्धं ग्राह्यम् | वर्णयुक्प्राणायामैरित्युक्त्या यमित्युच्चरन् प्राणानभितो नियच्छेत् ततः शरीरशोषणं भावयेत् यश्च श्यामाप्रकरणे वायुं [अग्रे-६ खण्डे श्यामाक्रमे-९ सूत्रे मूले भाष्ये च दृश्यम् |] पिङ्गलया आकृश्य इत्यभ्यासः कृतः तस्यार्थस्य प्राणायामैरित्यनेन ज्ञापितत्वात् | एवमेवाग्रेऽपि || प्. १०१) यत्तु निबन्धे सङ्कोचशरीरं शोषयेदित्यादिवाराहीप्रकरणस्था मन्त्रा लिखिताः ते निर्मूलाः हेयाः असूत्रितत्वात् | परं तु श्यामाप्रकरणस्थं कठिनत्वसम्पादनं शाम्भवशरीरोत्पत्तिः चकारसूचितार्थापत्तिप्रमाणसिद्धा [सूत्रकार-श्री.] अनुष्ठेया || १२ || प्राणायामः ततः प्राणायामविधिमाह- त्रिः प्राणानायम्य || १३ || प्राणायामस्तु श्यामाप्रकरणे वक्ष्यमाणप्रकारेण [६ खण्ड- श्यामाक्रमे १० सूत्रे उक्तप्रकारेणेत्यर्थः |] ज्ञेयः || १३ || विघ्नकरभूतोत्सारणम् वज्रकवचन्यासश्च तदुत्तरं विघ्नकृद्भूतोत्सारणं कार्यमिति तदाह- अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया | इति वामपादपार्ष्णिघातकरास्फोटसमुदञ्चितवक्रस्तालत्रयं दत्वा देव्यहम्भावयुत्क्तः स्वशरीरे वज्रकवचन्यासजालं विदधीत || १४ ||
SK
अपसर्पन्तु०-इति मन्त्रेण पार्ष्ण्या पादपृष्ठभागेन भुवो घातः ताडनं करयोः आस्फोटः सङ्घर्षः समुदञ्चितं तिर्यक्कृतं वक्त्रं मुखम् एभिः सहेति शेषः | तालत्रयम् अधोमुखाभ्यां दक्षमध्यमातर्जनीभ्यां वामकरतले सशब्दं त्रिरभिघातः तं दत्त्वा उत्पाद्य | अहम् उपस्यदेव्यभिन्न इति भावयित्वा | स्वशरीरे इत्यनेन देवताशरीरव्यावृत्तिः | वज्रकवचम् अभेद्यकवचरूपं न्यासजालं न्याससमूहं वक्ष्यमाणं विदधीत कुर्यात् || १४ || करशुद्धिन्यासः किं तन्न्यासजालम् इत्याकाङ्क्षायाम् आदौ करशुद्धिन्यासमाह- बिन्दुयुक्श्रीकण्ठानन्ततार्तीयैः मध्यमादितलपर्यन्तं कृतकरशुद्धिः || १५ || श्रीकण्ठः शिवः अकारः योगिनीतन्त्रे पञ्चदश्यां श्रीकण्ठदशकमित्यवर्णगणनात् | अनन्तः दीर्घाकारः तन्त्रसारे आं ह्रीं क्र्ॐ-इति मन्त्रस्य अनन्तो बिन्दुसंयुक्तो मायाब्रह्माग्नितारवान् इत्युद्धारात् | बिन्दुयुजौ च तौ श्रीकण्ठानन्तौ चेति समासः | तार्तीयः प्. १०२) बालातृतीयः सौः-इति | एवं च-अं आं सौः-अनेन मन्त्रेण मध्यमामारभ्य तलपर्यन्तं कृता करशुद्धिः येन | मध्यमाऽनामाकनिष्ठाङ्गुष्ठतर्जनीकरतलकरपृष्ठेषु न्यसेदित्यर्थः | अयं करशुद्धिन्यासः || १५ || आत्मरक्षान्यासः आत्मरक्षान्यासमाह- कुमारीमुच्चार्य [अत्र कुमारीशब्देन-अग्रतनबालाशब्देन च-ऐं क्लीं सौः- इति त्र्यक्षरो बालामन्त्रो ग्राह्यः |] महात्रिपुरसुन्दरीपदमात्मानं [ममृतचैतन्यमात्मानं-त.] रक्ष रक्षेति हृदये अञ्जलिं दत्त्वा || १६ || कुमारीं बालां उच्चार्य पदमिति वर्णद्वयमपहाय रक्ष रक्षेत्यन्तं पठन् हृदये अञ्जलिं दद्यात् | अयमात्मरक्षान्यासः || १६ || चतुरासनन्यासः चतुरासनन्यासमाह- मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नमः-इति स्वस्यासनं दत्त्वा || १७ || माया ह्रीं-इति स्पष्टं बहुस्थले प्रसिद्धम् | कामः क्लीमिति | तदुक्तं देवीभागवते-
SK
क्लीबेति मुनिपुत्रस्तमाजुहाव तदन्तिके | सुदर्शनस्तु तच्छ्रुत्वा दधाराद्याक्षरं स्फुटम् || अनुस्वारयुतं तच्च प्रोवाच च पुनः पुनः | बीजं वै कामराजाख्यं गृहीतं मनसा तदा || इति || शक्तिः सौरिति शक्तिः परा तृतीया च इति कोशात् | यद्यपि कामशक्तिपदेन त्रिपुरागायत्रीवत् पञ्चदशीद्वितीयतृतीयकूटग्रहणमपि ग्रहीतुं शक्यते तदर्थेऽपि प्रमाणस्य दर्शितत्वात् | तथाऽपि मादनं शक्तिसंयुक्तं [शक्रसं-ब २.] चतुर्थस्वरसंयुतम् | ऊर्ध्वे मध्येन्दुबिन्द्वाढ्यं कामराजं समुद्धृतम् | शान्तान्तं कादिसंयुक्तमैकारान्तान्तयोजितम् || इति योगिनीतन्त्रे एतन्मन्त्रोद्धारादयमेवार्थः | मादनं ककारः | शक्तिः [शक्रः-ब २.] लकारः | चतुर्थस्वरः ईकारः | शान्तान्तम् सकारः | कादिर्विसर्गः | ऐकारान्तान्तमौकारः | उच्चार्येति त्यक्त्वा प्. १०३) नमोन्तो मनुः | इत्थं च-ह्रीं क्लीं सौः-देव्यात्मासनाय नमः-इति मन्त्रेण स्वस्यासनं दत्त्वेति आसने पुष्पाक्षतान् क्षिपेत् || १७ || ततः सूत्रद्वयेन चक्रासनादिमन्त्रानुद्धरति- शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमः-शिवभृगुयुग्बालामुच्चार्य सर्वमन्त्रासनाय-नमो भुवनामदनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नमः-इति चक्रमन्त्रदेवताऽसनं त्रिभिर्मन्त्रैश्चक्रे कृत्वा || १८ ||
SK
शिवो हकारः हश्शिवो गगनं प्राणः [हंसः-ब २.] इति कोशात् | तेन युक्ता बाला | अत्र बालापदेन बालावर्णः तेन बालावर्णमुद्दिश्य हवर्णयोगो विधीयते | तथा च बालावर्णाङ्गं हकार-इति सिद्धम् | एवं च प्रतिप्रधानमङ्गावृत्तिः इति न्यायात् वर्णत्रयेऽपि हकारयोगः | तत्रापि स्वरान्ते व्यञ्जनस्यादृष्टत्वादादावेव योज्यम् | इत्थं-हैं ह्क्लीं ह्सौः- श्रीचक्रासनाय नमः-इत्येको मन्त्रः | शिवभृगुयुक्-शिवो हकारः भृगुः सकारः सकाराधिकारे जगद्बीजं शक्तिनामा सोऽहं वेगवती भृगुः इति नन्दनकोशात् | एतदुभययुक्ता बाला ह्सैं ह्स्क्ली ह्स्सौः-सर्वमन्त्रासनाय नमः-इति द्वितीयो मन्त्रः | भुवना भुवनेश्वरी तस्य मन्त्रो मायाबीजरूप एवोद्धृतः देवीभागवते-शिवमायाऽग्निबिन्दुमान् इति वचनात् | शिवो हकारः | माया ईकारः | अग्निः रेफः | बिन्दुः प्रसिद्धः | एषां योगे ह्रीमिति भवति भुवनेशी च लज्जा च हृलेखा कुलदेवता इति कोशात् | प्रकृतेऽपि स एव मदनो व्याख्यातः | तथा च-ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः-इति तृतीयो मन्त्रः | एवं त्रिभिर्मन्त्रैः क्रमेण चक्रमन्त्रदेवताऽसनानि चक्रे कल्पयित्वा | अयं चतुरासनन्यास इति कथ्यते || १८ || बालाषडङ्गन्यासः ततः बालाषडङ्गमाह- बालाद्विरावृत्त्या त्रिद्व्येकदशत्रिद्विसङ्ख्याऽङ्गुलिविन्यासैः कॢप्तषडङ्गः || १९ || बालाद्विरावृत्त्या षड्वर्णैः हृदयादिषडङ्गानि [एतद्बालामन्त्रषडङ्गादिज्ञानाय द्दि. प. शि. वि. ९-दृश्यः |] क्रमेण त्र्याद्यङ्गुलिभिः कॢप्तानि विन्यस्तानि षडङ्गानि येन ईदृशः | अयमेवार्थः स्पष्टमुक्तो दक्षिणामूर्तिसंहितायाम्- प्. १०४) कनिष्ठाङ्गुष्ठरहितैः त्रिभिस्तु हृदि विन्यसेत् | मध्यमानाभिकाभ्यां तु न्यसेच्छिरसि मन्त्रवित् || शिखाऽङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् | हृदुक्तैर्नेत्रविन्यासं विन्यसेत् परमेश्वरि || तर्जनीमध्यमाभ्यां तु ततोऽस्त्रं विन्यसेत् प्रिये || इति || इति बालाषडङ्गन्यासः || १९ || वशिन्यादियोगिनीन्यासः अथ वशिन्यादियोगिनीन्यासमाह-
SK
सबिन्दुनचोब्लूमुच्चार्य [अत्रस्थश्रीवशिन्याद्यष्टदेव्यभिधानादौ ग्राह्योच्यार्य ब्लं-इत्याद्यबीजोद्धारज्ञानाय द्दि. प. शि १३ वि. दृश्यः |] वशिनीवाग्देवतायै नमः-इति शिरसि | सर्वत्र वर्गाणां बिन्दुयोगः | कवर्गं कलह्रीं [अत्र क्ल्ह्रीमिति ज्ञेयम् |] च निगद्य कामेश्वरीवाग्देवतायै नमः-इति ललाटे | चुं गदित्वा न्व्लीं मोदिनीवाग्देवतायै नमः-इति भ्रूमध्ये | टुं भणित्वा य्लूं विमलावाग्देवतायै नमः-इति कण्ठे | तुं च प्रोच्य ज्म्रीं अरुणावाग्देवतायै नमः-इति हृदि | पुं च ह्स्ल्व्यूं-उच्चार्य जयिनीवाग्देवतायै नमः-इति नाभौ | यादिचतुष्कं झ्म्र्यूं-उच्चार्य सर्वेश्वरी वाग्देवतायै नमः-इति लिङ्गे | शादिषट्कं क्ष्म्रीं-आख्याय कौलिनीवाग्देवतायै नमः-इति मूले || २० || सबिन्दूनचोबिन्दुयुक्ताः अकारादिविसर्गान्ताः तानुच्चार्य नमः-इत्यन्तो वशिनीमन्त्रः | तथा च-अं आं - अं अः ब्लूं वशिनीवाग्देवतायै नमः इति शिरसि न्यसेत् | नन्वेवं सर्वेषु बिन्दुयोगकथनादन्यत्र नेत्यत आह-सर्वत्रेति | स्पष्टोऽर्थः | कवर्गमिति | कवर्गः प्रसिद्धः सबिन्दुः | कलह्रीं इत्यत्र केवलव्यञ्जनमात्रग्रहणम् | समुदायेषु विद्यमाना वर्णाः तदवयवेषु दृश्यन्ते इति न्यायात् | गृहीतश्चायं पक्षः सेतुबन्धे श्रीभास्कररायैः अधस्तान्नाभसं बीजम् इत्यस्य व्याख्यानावसरे नाभसो हंससमुदायः तदेकदेशः केवलहकार एव ग्राह्यः इति व्याख्यानपङ्क्तौ | अत्रापि तथा ग्रहणे बीजं त्रयोविंशदक्षरोऽसौ कामेश्वरीमन्त्रः इति सेतुबन्धलेख एव | ककारलकारयो रवर्णविशिष्टयोर्ग्रहणे द्वितारीयुक्तपादुकां पूजयामीति घटिते हीं श्रीं क्ल्ह्रीं कामेश्वरीवाग्देवताकामेश्वरीपादुकां पूजयामीति मन्त्रे पञ्चविंशतिवर्णत्वात् | तस्मात् केवलव्यञ्जनमात्रग्रहणम् | व्यञ्जनानां न वर्णत्वमिति विस्तार उक्तः वरिवस्यारहस्ये पञ्चदशीवर्णपरिगणने | तथा च-कं खं गं घं ङं कल्ह्रीं कामेश्वरीवाग्देवतायै प्. १०५)
SK
नमः-इति ललाटे न्यसेत् | चुं चवर्गं-चुमित्यस्योदित्त्वात् तेन सवर्णग्रहणशास्त्रस्य अणुदित्सवर्णस्य चाप्रत्ययः इति शास्त्रस्य सत्त्वात् चवर्गग्रहणम् | चवर्गं नमः-इत्यन्तं मन्त्रं पठित्वा भ्रूमध्ये न्यसेत् | टुं टवर्गं पूर्ववत् | शेषं स्पष्टम् | हसलवर्णेषु व्यञ्जनमात्रग्रहणं पूर्ववत् | यः आदिः यस्य चतुष्कस्य इति तद्गुणसंविज्ञानबहुब्रीहिः | इत्थं च-यं रं लं वं-इति | शादिषट्कमित्यत्रापि समासः पूर्ववत् || २० || मूलमन्त्रन्यासः एवं वशिन्यादियोगिनीन्यासमुक्त्वा मूलमन्त्रन्यासादीन् वदति- मूलविद्यापञ्चदशवर्णान् मूर्घ्नि मूले हृदि चक्षुस्त्रितये श्रुतिद्वयमुखभुजयुगलपृष्ठजानुयुगलनाभिषु विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा || २१ || चक्षुस्त्रितयं भ्रूमध्येन सह ज्ञेयम् | श्रुतिद्वयं श्रोत्रद्वयम् | शेषस्थानानि स्पष्टानि | मूलपञ्चदशवर्णैः बिन्दुसहितैः नमोऽन्तैः क्रमेणोक्तपञ्चदशस्थानेषु न्यसेत् | षोढा षट्प्रकारः गणेश-ग्रह- नक्षत्र-योगिनी-राशि-पीठभेदेन चक्रन्यासस्तन्त्रान्तरोक्तः | न्यस्यान्यस्य इत्यनेन कृताकृतत्वं सूचितम् || २१ || पात्रासादनम् सामान्यार्घ्यविधानम् एवं देवीरूपत्वसिद्धये न्यासानुक्त्वा ततोऽर्चनाङ्गभूतपात्रस्थापनविधिमुपदिशति- शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा पुष्पैरभ्यर्च्य साधारं [द्दि० प. शि. वि. १२-दश्योत्र |] शङ्खं प्रतिष्ठाप्य [संस्थाप्य-श्री.] शुद्धजलमापूर्य आदिमबिन्दुं दत्त्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्त्र्य तज्जलविप्रुड्भिः आत्मानं पूजोपकरणानि च संप्रोक्ष्य || २२ || शुद्धाम्भसा इत्यनेन गणपतिपद्धतौ कथितगन्धाक्षतकुसुमसमर्चितत्वं [२-खण्डे ७७ पत्रे ५ सूत्रे मूले- कथितमिति ज्ञेयम् |] ज्ञापितम् | शुद्धेन पटपूतेनाम्भसा | स्ववामभागे त्रिकोणादिचतुरस्रान्तं नियमविधिरूपत्वात् आकाङ्क्षावत्त्वात् श्यामाक्रमोक्तमत्स्यमुद्रया [६ खण्डे-१८ सूत्रोक्तरीत्या-इत्यर्थः |] निर्गमनरीत्या कृत्वा पुष्पैरभ्यर्च्य | साधारमित्यस्य तत्रेत्यादिः ||
SK
आधारशङ्खयोः प्रतिष्ठापने शुद्धजलपूरणे च मन्त्राकाङ्क्षायां सन्निहितत्वाविशेषात् गणपतिप्रकरणस्थं श्यामाप्रकरणस्थं वेच्छया ग्राह्यम् | न तु आधारादिषु पावकादिकलापूजनम् प्. १०६) अनुक्तत्वात् असूचितत्वात् अत्रानाकाङ्क्षितत्वाच्च | वस्तुतस्तु- श्यामागणपत्यपेक्षया श्रीविद्याप्रकरणस्थविशेषार्घ्यपात्राधारादिमन्त्राणां सन्निहितत्वात् त एव ग्राह्याः | तत्रापि यावदाकाङ्क्षितं ग्राह्यम् न त्वनाकाङ्क्षितम् पयसा मैत्रावरुणं श्रीणाति इतिवत् || आदिमबिन्दुसंयोगः शङ्खजलसंस्कारः | बिन्दुमित्यत्र विधेयगतसङ्ख्या विवक्षिता | तेन बिन्दुद्वयदानेन नादृष्टोत्पत्तिः | न च बिन्दुमित्यत्र द्वितीयाविभक्तिश्रवणात् स एवोद्देश्यः किं न स्यादिति वाच्यम् | संस्कृतबिन्दोः विनियोगाकाङ्क्षायां विनियोगाश्रवणात् न बिन्दुसंस्कारः | किं तु जलसंस्कारः जलस्याग्रे विनियोगश्रवणात् | तथा च संस्कार्यस्यैवोद्दश्यत्वनियमात् बिन्दुर्विधेयः | तद्गतसङ्ख्या विवक्षितैव | षडङ्गेन षडङ्गमन्त्रैः अग्नीशासुरवायुकोणेषु षडङ्गदेवताः अभ्यर्च्य | अङ्गेनेत्यत्र एकवचनमार्षं बहुत्वलक्षकं वा पाशाधिकरणन्यायेन षण्मन्त्रेषु एकत्वान्वयासम्भवात् || वस्तुतस्तु-अङ्गमन्त्रवृत्तिसङ्ख्यायाः षट्पदेनैव बोधितत्वाद्वचनार्थोऽविवक्षित एव | तथा च औत्सर्गिकमेकवचनमेव युक्तम् | न च विशेषणवाचकषट्पदसमानवचनकत्वहानिरिति वाच्यम् षट्पदेन साकं समासाङ्गीकारेण अनुपपत्त्यभावात् | अनेनापि जलसंस्कार एव || यद्वा-षडङ्गमन्त्रैः षडङ्गदेवताः तस्मिन्नेव शङ्खोदके कूटत्रयद्विरावृत्त्या क्रमेण हृदयाय नमः हृदयशक्तिश्रीपादुकां तर्पयामीत्यादिमन्त्रैस्तर्पयेत् | न च अभ्यर्च्येत्यस्य तर्पणार्थत्वे किं मानम्-इति वाच्यम् | तर्पयेत्तत्र योगिनीः इति वामकेश्वरतन्त्रात् योगिनीपदस्य त्रिपुरसुन्दर्याः षडङ्गदेवता-इति सेतुबन्धे व्याख्यानात् ||
SK
विद्यया पञ्चदश्या अभिमन्त्र्य अभिमन्त्रणेन संस्कृत्य तज्जलं संस्कृतजलं तस्य ये विप्रुषः बिन्दवः तैः आत्मानं स्वशरीरं पूजोपकरणानि गन्धपुष्पप्रथमादीनि च संप्रोक्ष्य | अत्र कपिञ्जलाधिकरणन्यायेन विप्रुड्भिरित्यनेन प्रोक्षणसाधनं बिन्दुत्रयमेवेति प्राप्तं न्यायं बाधितुं समित्युपसर्गः | तथा च यथा पूजोपकरणानि जलेन सम्यक् सिक्तानि तथा प्रोक्षयेदित्यर्थः || २२ || विशेषार्घ्यविधिः (अर्घ्यशोधनम्) एवं सामान्यार्घ्यैः [र्घ्योत्पत्तिं विधाय विशेषार्घ्यविधिमाह-ब ब २.] तृप्तिं विधाय विशेषार्घ्यात्तृप्तिमाह- तज्जलेन त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं कृत्वा मध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या [बीजद्विरावृत्त्या-ग.] षडश्रं संपूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽत्मने प्. १०७) अर्घ्यपात्राधाराय नमः-इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः || २३ || तज्जलेन सामान्यार्घ्योदकेन | शेषं पूर्ववत् | मध्यं त्रिकोणमध्यं विद्यया | समष्टिविद्यया संपूज्येति सर्वत्रानुषज्यते | विद्याखण्डैः कूटत्रयेण त्रिकोणं त्रिकोणकोणत्रयम् | अस्योपपत्तिर्दर्शिता प्राक् | बीजावृत्त्या [इतः पूर्वतने-१०३-१०५-पत्रयोः-१९-२२-सूत्रयोरुक्तरीत्येत्यर्थः |] कूटत्रयद्विरावृत्त्या | कूटस्य बीजरूपत्वं श्रीषोडशाक्षर्याः षोडशार्णत्वोपपत्तये एकैककूटस्यैकैकबीजरूपत्वं इति सप्रमाणं वरिवस्यारहस्ये अस्मत्परमेष्ठिगुरुभिः प्रपञ्चितम् | ग्रन्थविस्तरभयान्नेह लिख्यते | क्रमस्यानुक्तत्वात् प्रागादिप्रादक्षिण्येन स्वाग्रादिप्रादक्षिण्येन वा | नमोऽन्तो मन्त्रः नमोन्तैः पादुकाऽन्तैर्वा इति योगिनीतन्त्रवचननात् | वाचं-ऐं-इति | तदुक्तं देवीभागवते- वाग्भवं [द्दि.-प-शि-९-वि-दृश्यः |] कामराजं च मायाबीजं तृतीयकम् | चित्ते यस्य भवेत्तं तु न कश्चिद्बाधितुं क्षमः || इत्युपक्रम्य वाग्भवं प्रथमबीजं स्तोतुं कथामुपक्रम्य- ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने | बिन्दुहीनमपि प्रोक्तं वञ्छितं प्रददौ किल || इति ||
SK
बिन्दुहीनस्य कैमुतिकन्यायेन फलहेतुत्वस्तुत्या सबिन्दुः ऐकारो वाग्भव इति सिध्यति | नित्यारहस्ये-वाग्भवं प्रथमं देवि कामराजं द्वितीयकम् इति बालामन्त्रोद्धाराच्च रविस्वरो बिन्दुयुक्तो वाग्भवं बीजमीरितम् इति बीजकोशाच्च | आधारं कीदृशम् इत्याकाङ्क्षासत्त्वात् तन्त्रान्तरोक्तं [अत्राधारवस्तुनो ज्ञानाय-द्दि. परिशिष्टे १२ विषयोऽवलोक्यः |] त्रिपदादि ग्राह्यम् | पावकीः [एतासां पावकसूर्यचन्द्रकलानां नामानि प्रत्यक्षाणि-पुरतोऽत्रैव श्रीश्यामाक्रमीये-६-खण्डे-१८-मूलसूत्रे एव सन्ति-ततो ग्राह्याणि |] वह्निसम्बन्धिनीः कलाः चतुर्थ्यन्तनमोऽन्तैः [अत्र पात्रं कस्य वस्तुनः कीदृशाकारं च ग्राह्यं तदर्थं द्दि.-प.-शि.-वि.-१२- दृश्यः |] तत्तन्नामभिः प्रागादिवृत्तरूपं यजेत् प्रागादिवृत्तरूपेण इति परमानन्दतन्त्रवचनात् | सेतुबन्धे भास्कररायास्तु पश्चिमादिप्रादक्षिण्येन इत्यूचुः || २३ || मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽत्मने अर्घ्यपात्राय नमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः [एतासां पावकसूर्यचन्द्रकलानां नामानि प्रत्यक्षाणि-पुरतोऽत्रैव श्रीश्यामाक्रमीये-६-खण्डे-१८-मूलसूत्रे एव सन्ति-ततो ग्राह्याणि |] सौः सोममण्डलाय षोडशकलाऽत्मने अर्घ्यामृताय नमः-इति पूरयित्वा आदिमं दत्त्वोपादिममध्यमौ पूजयित्वा विधोः [अत्र पात्रं कस्य वस्तुनः कीदृशाकारं च ग्राह्यं तदर्थं द्दि.-प.-शि.-वि.-१२-दृश्यः |] कलाषोडशकम् || २४ || प्. १०८)
SK
मदनस्तु चतुरासनन्यासे प्रपञ्चितः | शेषं स्पष्टम् | संस्पृश्येत्यस्मात् पूर्वं तत्रेत्यादिः तत्र पात्रे सौरीः कलाः तपिन्यादीः संस्पृश्य पूजयित्वा | यद्यपि स्पृशिधातोः न पूजनमर्थः तथाऽपि संपूज्य पावकीः कलाः पूजयित्वा विधोः कलाः इति वाक्यमध्यवृत्तित्वात् तत्र पात्रं [अत्र पात्रं कस्य वस्तुनः कीदृशाकारं च ग्राह्यं तदर्थं-द्दि.-प.-शि.-वि.-१२-दृश्यः |] प्रतिष्ठाप्य तत्र सूर्यकला यजेत् इति योगिनीतन्त्रवचनाच्च पूजायामेव तात्पर्यं कल्प्यम् | आदिमं प्रथमं पूरयित्वा उपादिमं द्वितीयं मध्यमं तृतीयं इदं चतुर्थपञ्चमयोरप्युपलक्षणम् | सिद्धान्तग्रन्थे प्रथमखण्डे पञ्च मकाराः तैरर्चनं गुप्त्या इत्युक्तम् | तत्रैव दत्त्वा स्थापयित्वा | विधोः कलाषोडशकं अमृतादिपूर्णामृतान्तम् || २४ || तत्र विलिख्य त्र्यस्रमकथादिमयरेखं हलक्षयुगान्तस्थितहंसभास्वरं वाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणं कृत्वा षडस्रं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधा अभिमन्त्र्य दत्तगन्धाक्षतपुष्पधूपदीपः तद्विप्रुड्भिः प्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत्स्पृष्ट्वा चतुर्नवतिमन्त्रान् जपेत् || २५ ||
SK
तत्र प्रथमद्रव्ये पूर्वोक्तक्रमेण पूजयित्वा | अकारादिविसर्गान्तषोडशस्वरैः पश्चिमादीशानान्ताम् एकां रेखां कुर्यात् | तत ईशानाद्याग्नेयान्तां कवर्गमारभ्य तान्तैः षोडशवर्णैः अपरां रेखां संपादयेत् | तत आग्नेयादिपश्चिमान्तां थादिसान्तैः षोडशभिः तृतीयरेखां संपादयेत् | एवं सति अश्च कश्च थश्च आदिर्येषां वर्णानां दीर्घाकारखकारपकारप्रभृतीनां तन्मयाः तदभिन्नाः रेखाः यस्मिन् त्रिकोणे तत् अकथादिमयरेखम् | इदं त्र्यस्रविशेषणम् | हश्च लक्षयुगं च तयोः अन्तः मध्ये स्थितो यो हंसः-इति वर्णसमुदायः तेन भास्वरं-द्रव्ये स्वदक्षभागे हम्-इति विलिख्य तदुत्तरतो हं स इति वर्णौ विलिख्य तदुत्तरतो लक्षेति विलिखेत् | एवं चोक्तरूपं भवति | एवं वाक्कामशक्तयः बालायाः वर्णत्रयम् [द्दि. प. शि. ९-विषये इदं वर्णत्रयं प्रत्यक्षमस्ति |] | यद्वा-मूलकूटत्रयम् | प्रमाणम् अर्थद्वयेऽपि पूर्वमेवोक्तम् | तद्युक्तानि कोणानि यस्मिंस्तत् | एतादृशविशेषणत्रयविशिष्टं त्रिकोणं विलिख्य | हंसेन हंस इति मन्त्रेण आराध्य पुष्पादिभिः पूजयित्वा | बहिः त्रिकोणात् वृत्तं षट्कोणं च कृत्वा | षडस्रं षट्कोणानि मूलषडङ्गमन्त्रैः पुरोभागादिस्वाभिमुखाग्रादिप्रादक्षिण्येन अभ्यर्च्य | मूलेन सप्तधा सप्तवारमावृत्तेन | तस्मिन् द्रव्ये दत्ताः अर्पिताः गन्धाक्षतपुष्पधूपदीपाः येन ईदृशः पूजको भवेदिति विशिष्टविधौ दानममीषां कार्यमिति विशेषणविधिरार्थिकः | विद्या परसंवित् तन्मयं तदभिन्नं कृत्वा भावयित्वा | तत् प्रथमादिकम् | चतुर्नवतिमन्त्रान् वक्ष्यमाणान् || २५ || प्. १०९) तान् मन्त्रानाह-
SK
त्रितारीनमस्संपुटिताः तेजस्त्रितयकला अष्टत्रिंशत् | सृष्टि- ऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरास्थितिसिद्धयो ब्रह्मकला दश | जरा पालिनी शान्तिरीश्वरी रतिकामिके वरदाह्लादिनी प्रीतिर्दीर्घा विष्णुकला दश | तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोद्गारीमृत्यवो [कुत्रचिदत्र उद्गारीस्थाने-उल्केत्युपात्तम् |] रुद्रकला दश | पीता श्वेताऽरुणाऽसिताश्चतस्र ईश्वरकलाः | निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिकापरा- सूक्ष्मासूक्ष्मामृताज्ञानाज्ञानामृताप्यायिनीव्यापिनीव्योमरूपाः षोडश सदाशिवकलाः || हṁसश्शुचिषद्वसुरन्तरिक्षसद्धोताव्वेदिषदतिथिर्दुरोणसत् | नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् || प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि व्विश्वा || त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् | उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् || तद्विष्णोः परमं पदṁसदा पश्यन्ति सूरयः | दिवीव चक्षुराततम् || तद्विप्रासो विपन्यवो जागृवाṁसः समिन्धते | विष्णोर्यत् परमं पदम् || विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिṁशतु | आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते || गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति | गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा [अत्र-पुष्करस्रजौ-एवं पाठो ज्ञेयः |] || इत्येते पञ्च मन्त्राः || मूलविद्या चाहत्य चतुर्नवतिमन्त्राः || २६ ||
SK
त्रितारी पूर्वोक्ता [त्रितार्युद्धारश्च अनुगत-९१-पत्रे-३-श्रीक्रमीयखण्डस्य-८- सूत्रेऽस्ति-प्रत्यक्षश्चत्रैवभाष्येधस्तादस्ति |] | त्रितारी नमः इत्यनयोर्मध्ये चतुर्नवतिमन्त्रान् पठेत् | तथा च द्वाभ्यां संपुटितो भवति | यथा लोके संपुटे करण्डे अन्तः किंचित् क्षिप्त्वा आधारावयवोत्तरावयवमध्यवृत्तित्वं वस्तुनः संपाद्यते तद्वत् प्रथमं त्रितारी पश्चाच्चतुर्नवतिमन्त्रेष्वेको मन्त्रः ततो नमः इति | एवं सति मन्त्रः द्वाभ्यां संपुटितो भवति | तेजस्त्रितयं वह्निसूर्यसोमाः तेषां कलाः प्. ११०)
SK
धूम्रार्चिरादिपूर्णामृतान्ताः श्यामाक्रमे वक्ष्यमाणा अष्टत्रिंशत् [इमास्तिस्रो वह्निसूर्यचन्द्रकलाः-प्रत्यक्षनाम्ना-अग्रे-६-खण्डे श्रीश्यामाक्रमे-१८-सूत्रे मूले एव वर्तन्ते ततो ग्राह्याः |] | मन्त्रस्वरूपं तु ऐं ह्रीं श्रीं धूम्रार्चिषे [इमास्तिस्रो वह्निसूर्यचन्द्रकलाः- प्रत्यक्षनाम्ना-अग्रे-६-खण्डे श्रीश्यामाक्रमे-१८-सूत्रे मूले एव वर्तन्ते ततो ग्राह्याः |] नमः | एवं अग्रेऽपि ज्ञेयम् | सृष्टि-ऋद्धित्यत्र सन्ध्यभावः आर्षः | यद्वा - ऋत्यकः इति पाक्षिकत्वादसन्धिः | शेषं स्पष्टम् | वह्निकलाः [इमास्तिस्रो वह्निसूर्यचन्द्रकलाः-प्रत्यक्षनाम्ना-अग्रे-६-खण्डे श्रीश्यामाक्रमे-१८-सूत्रे मूले एव वर्तन्ते ततो ग्राह्याः |] -१० | सूर्यकलाः [इमास्तिस्रो वह्निसूर्यचन्द्रकलाः-प्रत्यक्षनाम्ना-अग्रे-६-खण्डे श्रीश्यामाक्रमे-१८-सूत्रे मूले एव वर्तन्ते ततो ग्राह्याः |] -१२ | चन्द्रकलाः [इमास्तिस्रो वह्निसूर्यचन्द्रकलाः-प्रत्यक्षनाम्ना-अग्रे-६-खण्डे श्रीश्यामाक्रमे-१८-सूत्रे मूले एव वर्तन्ते ततो ग्राह्याः |] - १६ | ब्रह्मकलाः -१० | विष्णुकलाः -१० | रुद्रकलाः-१० | ईश्वरकलाः-४ | सदाशिवकलाः-१६ | इत्थं च कलाः सर्वाः-८८ यद्यपि हṁसश्शुचिषत् इत्यारभ्य पुष्करस्रजावित्यन्तं सप्त ऋचः सन्ति तथाऽपि इत्येते पञ्चमन्त्राः इत्युक्त्या चतुर्थपञ्चमौ मिलित्वा एको मन्त्रः षष्ठसप्तमौ मिलित्वा एको मन्त्रः | एकलिङ्गत्वा दुक्तयोरेवैक्यैं युक्तं नत्वन्यत्र | मूलविद्या पञ्चदशी | पूर्वकलाः ८८ उक्तमन्त्राः पञ्च मूलविद्या च आहत्य सर्वं मिलित्वा चतुर्नवतिमन्त्राः संपद्यन्ते | एतैरभिमन्त्रणेन द्रव्यं संस्कुर्यादिति फलितोऽर्थः || २६ || अथ हैके पँचभिरखण्डाद्यैरभिमन्त्रणमामनन्ति || २७ || अथेत्यनेन चतुर्नवतिमन्त्रोत्तरमेवेति क्रमविशेषः सूचितः | नात्र पाठक्रमः सम्भवति स्वमताभावात् | अतः अथेत्यावश्यकम् | ह इति शब्दालङ्कारे | एके इत्यनेन पाक्षिकत्वं सूचितम् | अखण्डः आद्यः येषामिति तद्गुणसंविज्ज्ञानबहुव्रीहिः || २७ ||
SK
[अत्र अखण्डाद्याः के इत्यनेन उपरितन-२७-सूत्रोक्ताखण्डाद्यैरितिपदोक्ताः अखण्डशब्दद्या मन्त्राः के-इत्यर्थोऽध्यवसेयः |] अखण्डाद्याः के? इत्याकाङ्क्षायामाह- अखण्डैकरसानन्दकरे परसुधाऽत्मनि | स्वच्छन्दस्फुरणामत्र निधेह्यकुलनायिके || अकुलस्थामृताकारे शुद्धज्ञानकरे परे | अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि || तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि | भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु || इति तिस्रोऽनुष्टुभो विद्याः || २८ || प्. १११)
SK
वेदभाष्ये [दुरधिगम्यार्थान्-उपर्युक्तान्-अखण्डेत्यादिपञ्चमन्त्रान् सार्थान् विविनक्ति पण्डितः सूत्रभाष्यकारः |] वैदिकमन्त्राणाम् अर्थस्य विवृतत्वात् तान् [तन् नाम तादृग्विवृतार्थान् वैदिकमन्त्रानित्यर्थः |] परित्यज्य केवलतान्त्रिकसुबोधमन्त्राणां केषाञ्चिदर्थं प्रकटयामि [प्रकटयति - अ] | अखण्डेति-अखण्डेत्यादिमन्त्रत्रयं लिङ्गेन सुधादेवीप्रार्थनाङ्गं भवितुमर्हति | ततोऽपि बलवता [अत्र बलवतेति लिंगेनेत्यस्य विशेषणम् |] अभिमन्त्रणोत्तरद्वितीयाश्रुत्या अभिमन्त्रणाङ्गम् | एतदनुसारेण परमानन्दतन्त्रे-एतत्त्रयं त्रिबीजाढ्यं चतुर्धा तत्र वै जपेत् इत्यत्र स्पृशन् इत्यध्याहार्यम् | तथा च अभिमन्त्रणाङ्गत्वं सिद्धम् | एवं च परमानन्दटिप्पण्याम् अखण्डेत्यादि सुधादेवीप्रार्थनारूपमिति लेखः प्रामादिक [द्वितीयाश्रूत्या नाम - उपरितन-२७-सूत्रस्थ-आमनन्तीत्यस्य कर्मकारकीभूतम् अभिमन्त्रणमिति द्वितीयाश्रुत्येत्यर्थात्रावधेयः |] एव लिङ्गाच्छ्रुतिबाधस्य केनाप्यनङ्गीकारात् | अत्र मन्त्रार्थस्तु-अकुलं नाम सहस्रदलकमलद्वयम् | सर्वकमलानामाधारभूतं ऊर्ध्वमुखमेकं पद्मं मूलाधारस्याधस्तिष्ठति तदेकं अकुलपदवाच्यम् | अकुले विषुसंज्ञे च इति योगिनीतन्त्रश्लोकव्याख्यानावसरे सर्वाधःस्थितसहस्रदलकमलोपर्यष्टदलं तदुपरि षड्दलं तदुपरि मूलाधारादिचक्राणि तत्र मूलाधाराधःस्थितं षड्दलं कुलपद्मं तदधःस्थिते अष्टदलसहस्रदले अकुले-इति सेतुबन्धलेखात् | एवं ब्रह्मरन्ध्रस्थिताधोमुखसहस्रच्छदपद्ममपि अकुलम् | तदुक्तं त्रिपुरार्णवे- सुषुम्नोर्ध्वं सुधारश्मिकोटिकान्तिसमप्रभम् | अधोमुखं गुरुस्थानं सहस्रदलशोभितम् || अकुलं तद्बिजानीयात् * * * * * * इति || परमानन्दतन्त्रेऽपि - साधकः प्रातरुत्थाय ब्रह्मरन्ध्रे निजं गुरुम् | पूर्वोक्ता कुलपद्मान्तर्द्वादशान्तसरोरुहे || इति ||
SK
एवं द्वयोः सहस्रच्छदयोरकुलवाच्यत्वे सिद्धे प्रकृते ब्रह्मरन्ध्रस्थस्यैव ग्रहणम् तस्यैवामृतस्रावित्वात् | प्रकृते अकुलं यद्ब्रह्मरन्ध्रस्थकमलं तस्य नायिका तदधिष्ठात्री तत्सम्बोधने हे अकुलनायिके [अत्र मूले च अकुलनायिके इति पदमर्थश्चोपात्तः-महानिर्वाणतन्त्रे-६-उल्लासे ३८ श्लोके मूले टीकायां च कुलशब्द एवास्तीति श्रीशिवजामदग्न्योभयवचोऽविरोधं समन्वयनीयमित्याशासे |] | अखण्डोऽविच्छिन्नः एकरसो दुःखासंभिन्नो य आनन्दः तं करोति व्यञ्जयतीति तादृशे | परा उत्कृष्टा या सुधा ब्रह्मरन्ध्रस्था अमरत्वकारिणी तदात्मनि तत्स्वरूपे अत्र द्रव्ये प्. ११२)
SK
स्वच्छन्दा स्वतन्त्रा या चित् तस्याः स्फुरणां प्रकाशशक्तिं निधेहि स्थापय | हे परे श्रेष्ठे क्लिन्नमार्द्ररूपं तदस्मिन्नस्ति इति क्लिन्नरूपिणि अस्मिन् | वस्तुनि अमृतत्वं निधेहि संस्थापय संपादय | अकुलं व्याख्यातं तत्र विद्यमानं यत् अमृतं तस्य स्वरूपमिव स्वरूपं यस्याः द्रव्याभिमानिदेवतायाः | इदं परेत्यस्य विशेषणम् | शुद्धज्ञानकरे स्वरूपज्ञानाविर्भावकर्त्रि इदमपि पराविशेषणम् | यत्तु सौभाग्यानन्दसन्दोहे परे इति सप्तम्यन्तं कृत्वा वस्तुविशेषणमित्युक्तम् तन्न दूरान्वयापत्तेः | तत् परब्रह्म तस्य यद्रूपं तद्वति परब्रह्मस्वरूपे इति यावत् | तद्रूपिणि विशेषार्घ्यरूपिणि मयि देहाभिमानिनि | परं यत् अमृतम् आनन्दः तदाकारा भूत्वा ऐकरस्यं चितस्यैकाकारतां कृत्वा संपाद्य चित्स्फुरणं स्वस्वरूपप्रकाशं कुर्विति मन्त्रत्रयार्थः | अनुष्टुभः अनुष्टुप्छन्दस्का इत्यर्थः द्वात्रिंशदक्षराऽनुष्टुप् इति श्रुतेः | विद्याः मन्त्राः | इदं विद्यात्रयं [विद्यात्रयं नामैतत्-२८ सूत्रोक्ताखण्डेत्यादिश्लोकत्रयोक्ता-३-विद्यामिलित्वेत्यर्थः | ] मिलित्वा एकापूर्वजनकं पौर्णमासयागत्रिकवत् अग्रिममन्त्रेषु अथो इति प्रक्रमान्तं रसत्त्वात् तन्त्रान्तरेऽपि एतत्त्रयमिति समष्टिविनियोगदर्शनाच्च | तेनैकमन्त्रलोपे पुनस्त्रितयपाठः न तावन्मात्रम् [अत्राखण्डेत्यादिश्लोकत्रयभाष्यं पर्यवसन्नम् |] || २८ || २ चतुर्थं अमृतेशीमन्त्रमाह - अथो वाचं ब्लूं झौमिति जूंसः-इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मन्त्रः || २९ || वाच्यम्-ऐं | इति द्वयं चोक्त्वेति च त्यक्त्वा शेषं मन्त्रस्वरूपम् | हे अमृते अस्मिन् द्रव्ये अमृतं स्रावय इति तदर्थः | शेषाण्यमृते इत्यस्य विशेषणानि | तदर्थः स्पष्टः || २९ || ततः पञ्चमं मन्त्रमुद्धरति-
SK
वाग्भवो वद वद ततो वाग्वादिनि वाङ्मदनक्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुयुगलं मादनं शक्तिर्मोक्षं कुरु कुरु शब्दो हस चतुर्दशपञ्चदशपिण्डः सहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिः अभिमन्त्र्य ज्योतिर्मयं तदर्घ्यं विधाय || ३० || वाग्भवः ऐं | वाक् ऐं | मदनःः क्लीं | कुरुयुगलं द्विवारं कुर्वित्युच्चार्य | मादनं क्लीं | शक्तिः सौः | चतुर्दश अचां चतुर्दशः औ | पञ्चदशः अनुस्वारः | पिण्डः समुदायः | षोडशो विसर्गः | तथा च मन्त्रस्वरूपम् - ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरु कुरु क्लीं सौः मोक्षं कुरु कुरु हसौं स्हौः | प् ११३) इतीयं पञ्चमी विद्या | एताभिः पञ्चभिः अभिमन्त्र्य | ज्योतिर्मयं निर्दोषं तदर्घ्यं विधाय | एतेन तन्त्रान्तरोक्तशापविमोचनादिकम् अनेनैव जातमिति सूचितम् || ननु ज्योतिर्मयमित्यनेन अयमभिप्रायः कथं निष्पादित इति चेत्-उच्यते | ज्योतिरिति प्रकाशापरपर्यायः | प्राचुर्यार्थे मयट् | यस्मिन् प्रकाशे मलमिश्रत्वं तत्र प्रकाशप्राचुर्यं न संभवति यथोपरक्तदिवाकरादौ | मलनिर्गमे सति तत्रैव प्रकाशप्राचुर्यमनुभूयते | एवमेवादर्शे मुखप्रकाशके | तद्वदत्रापि द्रव्ये नानाशापादिमलोपहते ज्योतिर्मयत्वं न संभवति | प्रोक्तैकोनशतमन्त्रैरभिमन्त्रणे सति निरस्तनिखिलमलं सत् ज्योतिर्मयं भवति | तत एव ज्योतिर्मयं कृत्वेत्युक्तम् | एतेन तन्त्रान्तरोक्तशापविमोचनस्यापि समुच्चय इति केषांचिदुक्तिः अश्रद्धेयैव || द्विपात्रविधेः [इत एतत् ३० सूत्रभाष्यसमाप्तिपत्रावधि- वृत्तिकृताद्विपात्रस्थापनं मण्डितम् |] मुख्यत्वसमर्थनम्
SK
एवं ये महेश्वरानन्दनाथप्रभृतयः तन्त्रान्तरे नित्यपूजायां पूर्ववत्तु त्रिपात्रकम् इति वचनात् सूत्रे न कर्तव्यमिति निषेधाभावात् सूत्रानुसारिभिरपि त्रिपात्रं कर्तव्यमित्यूचुः तान् प्रति अयं प्रश्नः-सूत्रे न कर्तव्यमिति निषेधाभावेन त्रिपात्रत्वं साध्यते उत तन्त्रान्तरे उक्तत्वात् उत स्वसूत्रे निषेधाभावे सति तन्त्रान्तरे विद्यमानत्वेन वा उत तन्त्रान्तरे द्विपात्रनिषेधश्रवणाद्वाः | नाद्यः व्रीहिभिर्यजेत इत्यत्र न गोधूमैरिति निषेधाभावात् गोधूमयोगेनाप्यपूर्वं स्यात् | न द्वितीयः तथा सति परशुरामसूत्रोक्तसङ्गीतमातृकावाराह्याद्युपास्तेः श्रीविद्याऽङ्गत्वेन सौभाग्यानन्दसन्दोहे परेषामपि ईदृशाङ्गत्यागस्य निर्युक्तिकत्वापत्तिः | एतेन तृतीयपक्षोऽपि निरस्तः | नापि चतुर्थः | तथा हि योऽयं तस्मात् पात्रद्वयं देवि नैव कुर्यात् कदाचन इति निषेधः या च निन्दा- आलस्येनान्यथा वाऽपि कृत्वा पात्रद्वयं शिवे | पूजाफलेन हीनस्तु विक्रियां लभते नरः || इति त्रिपात्रकमिति विधिशेषार्थवादः | अन्यथा त्रिपात्रविधिनैव द्विपात्रव्यावृत्तौ निषेधस्य निवृत्तिरूपफलाभावेन वैय्यर्थ्यापत्तेः | यदि च विधिना प्रवृत्तिमात्रं निषेधेन च तदितरनिवृत्तिरित्युच्यते तर्हि एकादश प्रयाजान् यजति इत्यत्र न द्वादश न दश इति वाक्याभावात् दशभिर्द्वादशभिश्च प्रयाजैरपूर्वं स्यात् | तस्माद्विधिनैव द्विपात्रनिवृत्तौ निषेधो व्यर्थः सन् तच्छेषोऽर्थवाद एव | अर्थवादस्य स्तुतिमात्रे तात्पर्यम् | न तस्मिन्निषेधरूपत्वमस्ति | कथं निषेधेन हेतुना तन्त्रान्तरे त्रिपात्रत्वसाधनम् || प्. ११४) किं च-एतत्तन्त्रे कति पात्राणि ? इत्याकाङ्क्षायां स्वसूत्रे विशेषाश्रवणात् तन्त्रान्तरस्थं पूर्ववत्तु त्रिपात्रकम् इति वचनमेव आकाङ्क्षापूरकं सत् त्रिपात्रं साधयतीति परमतम् | तथा सति द्विपात्रप्राप्तेरेवाभावेन निषेधस्य दूरनिरस्तत्वात् ||
SK
न च अर्थवाद इति वदतस्तव मते द्विपात्रप्राप्त्यभावेन न द्विपात्रं कुर्यादिति वाक्यस्य प्रामाण्यं कथं चिन्त्यते इति वाच्यम् | अर्थवादघटकनिषेधस्य प्राप्तिपूर्वकत्वमिति न नियमः तस्य स्वार्थे तात्पर्याभावात् | अतोऽप्राप्तार्थनिषेधोऽपि निर्वहति यथा-नान्तरिक्षे न दिव्यग्निश्चेतव्यः इति यदन्तरिक्षे चिन्वीत अन्तरिक्षṁ शुचाऽर्पयेत् इति | तादृशार्थस्य न स्वार्थे तात्पर्यम् किं तु प्राशस्त्यमात्रे | तच्चाबाधितम् || न वा तन्त्रयोः परस्परं प्रकृतिविकृतिभावः सप्रमाणः यतो वा प्राप्तं निषिध्येत | न ह्यप्राप्तनिषेधः स्वप्नेऽपि श्रुतः || किं च-परप्रीतये अर्थवादेऽपि आरोपितनिषेधत्वमस्तु | तथाऽपि न तेषां समीहितसिद्धिः | तथा हि कल्पसूत्रेण पात्रद्वयप्राप्तिः परमानन्दतन्त्रेण तन्निषेधः तथा सति तन्त्रयोः समबलत्वेन ग्रहणाग्रहणवद्विकल्प एव स्यात् | निषेधशास्त्रस्यैव स्वरुच्या प्राबल्याङ्गीकारे ग्रहणपक्षस्त्वत्यन्तं बाध्येत | विकल्प एव न स्यात् | द्विपात्रप्रयोगोऽशास्त्रीयः इति वदतां महेश्वरानन्दनाथादीनां विकल्पो न हीष्टः | स च दुष्परिहारः ||
SK
न च-परशुरामसूत्रे न कण्ठरवेण द्विपात्रं कर्तव्यमित्युक्तम् किं तु पात्रद्वयप्रयोगस्थपाठानुसारेण कल्प्यो विधिः | तस्मात् पात्रद्वयं देवि नैव कुर्यात् इति प्रत्यक्षो निषेधः | तथा च प्रत्यक्षेणानुमानिकं बाध्यते | ग्रहणाग्रहणस्थले उभयं प्रत्यक्षमिति विकल्पो युक्तः | प्रकृते न तथा वैषम्यात् - इति वाच्यम् | अग्नीषोमीयपशौ अध्रिगुप्रैषे षड्विṁशतिरस्य वड्क्रयः इति मन्त्रोऽस्ति | तत्र वड्क्रयः प्रार्श्वस्थीनि अस्य पशोः षड्विंशतिरिति तदर्थः | अयं मन्त्रः अश्वमेधे अग्नीषोमीयविकृतित्वात् अतिदेशेन प्राप्तः | तथा सति अश्वमेधे चतुस्त्रिṁशद्वाजिनो देवबन्धोः इति मन्त्रान्तरमस्ति | तेन मन्त्रलिङ्गेन अश्वस्य पार्श्वास्थीनि चतुस्त्रिंशत् इति सिद्धम् | तत्सिद्धौ षड्विṁशतिरस्य वङ्क्रयः इति मन्त्रे षड्विंशलिङ्गविरोधे तत्स्थाने चतुस्त्रिṁशदस्य वङ्क्रयः इत्यूहः प्राप्तः | एवं सति अश्वमेधप्रकरणे पुनरेवं श्रूयते-न चतुस्त्रिṁशदिति ब्रूयात् षड्विṁशतिरित्येव ब्रूयात् इति | अत्र चतुस्त्रिंशदित्यूहशास्त्रस्यानुमानिकत्वात् तं बाधित्वा न चतुस्त्रिंशत् इति निषेधः-नित्यं प्रवर्तते इति पूर्वपक्षमुक्त्वा तदुत्तरं यत्रानुमानिको विधिः निषेधश्च प्रत्यक्षः तत्र द्वयोरपि समबलत्वमङ्गीकार्यम् | तथा हि�प्रबलदुर्बलभावो हि न वस्तुनि स्वाभाविकः कुत्रचिदस्ति प्. ११५)
SK
किं त्वाकाङ्क्षायां शीघ्रोपस्थितिविलम्बोपस्थितिप्रयुक्तः | यथा विकृतौ कर्मविशेषे प्रकृतितो वेद्यास्तरणं प्राप्तम् | तत्र केन वेद्यास्तरणं कार्यम् इत्याकाङ्क्षायां साधनबोधकं पदं यदि न स्यात् तदा प्राकृतवेद्यास्तरणसाधनं स्मृत्वा कुशान् बुद्धौ आरोप्य प्रश्चात् प्रकृतिवत् कुशैरास्तरणं कर्तव्यमिति आनुमानिकशब्दकल्पनया आकाङ्क्षा पूरणीया | ततोऽपि झटिति शरमयं बर्हिर्भवति इति प्रत्यक्षवाक्येनोपस्थितशरैः आकाङ्क्षाशान्तौ बोधकशास्त्रस्य तदंशे आकाङ्क्षाविरहात् दुर्बलत्वम् | प्रकृते न चतुस्त्रिṁशदिति ब्रूयात् इति निषेधस्य प्राप्तिसापेक्षत्वात् चतुस्त्रिṁशद्वाजिनः इति लिङ्गेन पूर्वं विधिकल्पनानन्तरं विधिमनुसृत्य प्रवृत्तं पुरुषं निवर्तयितुं निषेधः पश्चात् प्रवृत्तः | न [अतः यमुपजीव्य प्रवृत्तः तमत्यन्तं बाधितुमसमर्थस्सन् पक्षे बाधते | अत ईदृशस्थले -अ. श्री ब२. ] कुशशास्त्रात् पूर्वं शरशास्त्रमिव निषेधः विधिकल्पनात् पूर्वं प्रवृत्तिक्षमः | अत ईदृशस्थले आनुमानिकविधिप्रत्यक्षनिषेधयोः तुल्यबलत्वाद्विकल्प एवेति नवमे तुरीयपादे सिद्धान्तितं जैमिनितन्त्रे | प्रकृतेऽपि तथा तुल्यबलत्वाद्विकल्पो दुष्परिहारः || यदि च सूत्रे पात्रद्वयेतिकर्तव्यतासहितस्थापनकथनेन प्रयोगविधौ द्विपात्रविधिर्न कल्प्यते तन्त्रान्तरानुसारेण पात्रद्वयकथनं तृतीयस्याप्युपलक्षकमिति कल्प्यते तदा सर्वेष्वपि तन्त्रेषु त्रिपात्रप्रयोगस्यैव तन्त्राभिमतत्वेन द्विपात्रप्रवर्तकाभावेन द्विपात्रविधेः शशशृङ्गसमत्वेन तन्निषेधस्यापि तादृशत्वेन तेन हेतुना कथं त्वत्समीहितसिद्धिः | सेयं उभयतः पाशा रज्जुः | तस्मात् कल्पसूत्रयोगिनीतन्त्रानुसारिभिः द्विपात्रप्रयोगो निश्शङ्कमनुष्ठेयः ||
SK
यत्तु परमानन्दतन्त्रटिप्पण्यां सौभाग्यानन्दसन्दोहसंज्ञिकायां एकोनविंशोल्लासे पञ्चदशश्लोकव्याख्यानावसरे - ननु परशुरामसूत्रवामकेश्वरादितन्त्रेषु प्रोक्तपात्रद्वयं विरुध्येत-इति चेच्छृणु | अग्रिमोल्लासे अनुकल्पपूजायां पात्रद्वयस्य सुस्पष्टं वक्ष्यमाणत्वात् अनुकल्पपूजापरं परशुरामसूत्रादितन्त्रम् | अत एव तत्र शापमोचनमन्त्राणामभाव इति सुवचम् | अथ वा - आत्मयोगाभ्यासिपरम् | अत एव त्रिपुरार्णवे आत्मयोगपराणां तु नाङ्गलोपेन [नाङ्गलोपो न बाधितः-श्री.] हीयते इति | अत एव श्रीभास्कररायैः एकपात्रादिसंक्षेपपूजनं अभ्यासशीलानामिति सेतुबन्धे निरूपितम् | अथ वा परमापत्पक्षो वा | तदुक्तं तन्त्रे - प्रत्यक्षयुग्मपात्रं वै कृत्वा शापमवाप्नुयात् | क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः || -इति महेश्वरानन्दनाथाः पक्षत्रयमूचुः तच्चिन्त्यम् || प्. ११६) परशुरामसूत्रोक्तसरणिर्मुख्या न मिलति | तथा प्रतिनिधिस्वीकारपक्ष इति प्रथमपक्षे तस्याभिव्यञ्जकाः पञ्चमकाराः तैरर्चनं गुप्त्या इति तद्वदादिमं संशोध्य इति आदिमबिन्दुं दत्वा इति पूरयित्वा आदिमम् इति मपञ्चकेन सन्तर्प्य इति प्रभृतीनां शतावधिवाक्यानां सूत्रस्थानां कुण्डलप्रक्षेप एव स्यात् | किं च-मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः इति सूत्रेण नित्यपूजायां मपञ्चकस्य मुख्यत्वं सुस्फुटम् | एवं सति सूत्रमनुकल्पपरमिति लेखः पूर्वोत्तरसूत्रापरिशोधनमूलः प्रामादिक इति हेय एव || किं च-एतत्पक्षस्य साधकतया शापमोचनाभावो हेतुत्वेनोपन्यस्तः | स तु अत्यन्तनिर्मूलकोऽसङ्गतश्च | तथा हि-शापविमोचनं नाम किं पूर्वं कृष्णं स्थितं यत् तस्यानन्तरक्रियया शुक्लत्वसंपादनरूपं दृष्टं फलं किं वा संमार्गादिना स्रुक्ष्विवादृष्टं यागसाधनशरीरं उत्पद्यत इति | नाद्यः शापमोचकमन्त्रसहस्रावृत्त्याऽपि पूर्वरूपपरावृत्त्यदर्शनात् | न द्वितीयः
SK
क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः | एकं तन्त्रं समाश्रित्य सम्यक्कर्म कृतं तथा || सर्वं तेन कृतं राम [राम-श्री ब२.] एतच्च श्रीगुरुमार्गतः || इति त्रिपुरारहस्यवचनेन | बह्वल्पं वा स्वगृह्योक्तं यस्य यावत् प्रकीर्तितम् | तस्य तावति शास्त्रार्थे कृते सर्वः [सर्वं कृतं भवेदित्यपि-पाठान्तरम् |] कृतो भवेत् || इति बोधायनस्मृतिप्रमाणेन च आदिमद्रव्ये यावदुक्तसंस्कारैरेव यागजनकस्वरूपलाभे शापविमोचनमन्त्राणां तत्राप्रयोजकत्वात् कथमनेन हेतुना सूत्रं प्रतिनिधिपरं सिध्येत् | किं च मुख्याभावे प्रतिनिधिस्वीकारे मुख्यधर्मा यावन्तः प्रतिनिधौ प्रवर्तन्ते यथा व्रीह्यभावे नीवारे यावद् व्रीहिधर्माः यथा वा सोमाभावे पूतिकेषु यावत्सोमधर्माः तत्र ऊहोऽपि नास्तीति साधितं जैमिनितन्त्रे | अनुतिष्ठन्ति च तथैव शिष्टाः | एवं सति प्रतिनिधौ शापविमोचनमन्त्राभावः केन वार्यते | इत्थं च वह्नावनुष्णत्ववदत्यन्तासिद्धहेतुं प्रयुञ्जानास्ते स्वाविद्वत्तां सुस्फुटं प्रकटयामासुः || नापि द्वितीयः पक्षः साधुः | तथा हि-दीक्षाऽद्यारभ्य निखिलपरशुरामसूत्रप्रतिपादितं कर्म योगाभ्यासिपरं उत पूजामात्रम्- नाद्यः दीक्षातः प्राक् योगाभ्यासित्वं न संभवति | अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम् इति निषेधेन तान्त्रिकसिद्धान्तश्रवणाभावेन श्रवणमृते योगासंभवेन योगाभ्यासिनामियं दीक्षेति वक्तुमशक्यत्वात् | द्वितीये-ईदृशाभ्यासी एतत्तन्त्रविहितपूजाकर्ता किमेतत्तन्त्रोक्तदीक्षावान् उत तन्त्रान्तरेण दीक्षितस्य कालेन प्. ११७) स्वतन्त्रानुष्ठानेन परिपक्वचित्तस्यैव एतत्सूत्रोक्तपूजायामधिकारो वा- नाद्यः दीक्षाऽव्यवहितोत्तरक्षणे न भवदभिमतध्यानसिद्धिः | अयमनुभूयते सर्वैः | इत्थं च सूत्रानुसारेण दीक्षां संपाद्य अयोगित्वेनैतत्तन्त्रोक्तपूजानधिकारात् तन्त्रान्तराश्रयणं पूजाऽर्थं कर्तव्यम् | तर्हि- स्वशास्त्रे वर्तमानो यः परशास्त्रं निषेवते | भ्रूणहत्यामवाप्नोति स्वशास्त्रमवमन्यते ||
SK
इति निषेधोल्लङ्घनम् | किं च-दीक्षोत्तरं महाविद्याऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् इति सूत्रेण ललितोपास्तिविघ्ननाशसाधनत्वं गणपत्युपास्तेरुक्तम् | ललितोपास्त्यनन्नरं हि तत्साध्यश्चित्तपरिपाकः ततो निरुक्तयोगः | तदनन्तरं द्विपात्रप्रयोगे अधिकारो वाच्यः | स न संभवति गणपत्युपास्तेः विघ्नसमानकालिकत्वेन तदानीं निरुक्तयोगाभावादपि गणपत्युपास्तौ द्विपात्रकथनात् तत्रावश्यं द्विपात्रप्रयोगोऽङ्गीकार्यः | इत्थं च तत्र व्यभिचरिताधिकारस्य अन्यत्रापि कल्पनं केन प्रतिबद्धम् सकृद्व्यभिचरितायाः स्त्रियः किमपरत्र वस्त्रावगुण्ठनेनेति न्यायात् | न च-यश्चायोगी तेन गणपत्युपास्तिं त्यक्त्वा केवलललितोपास्तिरेव तन्त्रान्तरमनुसृत्य योगसिद्धिपर्यन्तं अनुष्ठेया न गणपत्युपास्तिः अथ वा गणपत्युपास्तावपि तन्त्रान्तरमाश्रीयताम्-इति वाच्यम् | तथा सति एवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत इति सूत्रेऽपि अप्रामाण्यं वक्तव्यं स्यात् | सूत्रे गणपत्युपास्तिपाठवैय्यर्थ्यम्-न ललितोपास्तेः पूर्वमनुष्ठानं अयोगित्वेन तस्य तदाऽनधिकारात् | ललितोपास्त्या फलसिद्ध्यनन्तरमपि अप्रयोजकत्वात् अननुष्ठेयम् | एवं च वैय्यर्थ्यं दुर्निवारम् ||
SK
न च-द्विपात्रनिषेधस्य ललिताप्रकरणस्थत्वात् तत्रैवायोगिनामनधिकारः | अन्यत्रास्त्येव द्विपात्रप्रयोगेऽधिकारः निषेधाभावात् इति वाच्यम् श्रीललिताया महायागानुष्ठानावसरे निर्विघ्नतासिद्धये परशुरामसूत्रानुसारेण निखिलगणपत्युपास्तिं विधाय पात्रासादनकाले द्विपात्रप्रयोगं परित्यज्य त्रिपात्रप्रयोगमनुसरतां महेश्वरानन्दनाथानां एतत्पक्षस्याननुमतत्वात् | नापि तन्त्रान्तरेण दीक्षितस्य स्वतन्त्रानुष्ठानेन परिपक्वचित्तस्य सूत्रोक्तपूजायामधिकार इति द्वितीयः पक्षः | तथा सति सूत्रे दीक्षापाठवैय्यर्थ्यात् | एवमेतत्पक्षसाधकत्वेन त्रिपुरार्णववचनम् आत्मयोगपराणां तु नाङ्गलोपेन हीयते इत्यलिखत् | तदतीव मन्दम् | योगाभ्यासिनामङ्गलोपो न दोषायेति तदर्थः | योगिरूपाधिकारिविशेषम्-उद्दिश्य सूत्रोक्तद्विपात्रविधिरिति सिद्धान्तस्तदीयः | एवं च योगिप्रयोगे तृतीयपात्रस्य वैश्यकर्तृकदर्शपूर्णमाससम्बन्धिसामिधेन्यां पाञ्चदश्यस्येवानङ्गत्वादङ्गलोप एव नास्ति | एवं सत्यङ्गलोपे दोषो नास्तीति स्वमतसाधकत्वेन प्. ११८) हेतुकथनं वन्ध्यापुत्रस्य स्वकार्यसाधकत्वेन ग्रहणवदेव भवति | या चैतद्विषये एकपात्रादिसङ्क्षेपपूजनमभ्यासशीलानामिति सेतुबन्धलेखसम्मतिर्दर्शिता साऽप्यसिद्धा | सेतुबन्धे ईदृशी पङ्क्तिः न कुत्राप्यस्ति | प्रत्युत द्विपात्रप्रयोग एव व्यवस्थापितः | तथा हि- पूर्वचतुश्शतीसम्बन्धिनः हेमादिपात्रे साधारे स्थापयेदर्घ्यमञ्जसा [मम्बुना-ब.] | रोचनाचन्द्रकाश्मीरलघुकस्तूरिकायुतम् || भावयेद्वह्निसूर्येन्दुभूतानि परमेश्वरि | जपेच्च दशवारं तत्तर्पयेत्तेन योगिनीः ||
SK
इति श्लोकद्वयस्य व्याख्यानावसरे इदं पूर्वतन्त्रस्थवचनं सामान्यार्घ्यपरं उत्तरतन्त्रस्थं श्रीचक्रस्यात्मनश्चैव मध्ये त्वर्घ्यं प्रतिष्ठयेत् इति विशेषार्घ्यपरं तदन्ते तथैवार्घ्यं विशेषेण साधयेत् साधकोत्तमः इति गुरुपात्रात्मपात्रान्यतरपरमिति प्राचीनव्याख्यां निरस्य पूर्वतन्त्रस्थवचनमेव विशेषार्घ्यपरमित्यपि मतान्तरं निरस्य पूर्वतन्त्रे सामान्यार्घ्यविधिः उत्तरतन्त्रस्थेन श्रीचक्रस्यात्मनश्चेति वचनेन तस्यैव देशकालविधिः तथैवार्घ्यं विशेषेण इति पूर्वधर्मातिदेशसहितविशेषार्घ्यविधिरिति व्यवस्थाप्योपसंहारसमये तस्मादेतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टम्-इति द्विपात्रव्यवस्थामात्रं श्रीभास्कररायाश्चक्रुः | (सा च अस्माकमनु गुणा परेषामननुगुणा च) योगिनामेवायं प्रयोगः इति नोचुः || यत्तु-सेतुबन्धे स्थलान्तरे तन्त्रान्तरेषु योगिनीतन्त्रस्योत्तरचतुश्शतीवदन्तर्यागप्रपञ्चस्याभावात् तन्त्रराजस्याप्येतत्सापेक्षत्वादत्युत्तमम्-एतत्तन्त्रं एतत्सापेक्षत्वं च तन्त्रराजे-नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत् इति कथनात् | नित्याहृदयमेतदुत्तरतन्त्रनाम | अत्र बहिर्यागाङ्गानामल्पानां कथनेऽपि अन्तरङ्गोपास्तिदार्ढ्यशीलानां तावतैव परिपूर्तिसंभवात् इति कल्प्यत इति लिखितत्वात् | मरद्वयखण्डनपूर्वकपूर्वलिखितैतत्तन्त्रानुसारेण द्वयोरेव स्थापनमिष्टम् इति वाक्ये एतत्पदं उत्तरचतुश्शतीपरम् | उत्तरचतुश्शत्यां तु शुद्धान्तःकरणस्यैवाधिकारात् तेषां प्रयोग एव पात्रद्वयमिति सिद्धान्तः समीहितः | एतदभिप्रायेणैवास्माकं सेतुबन्धसंमतिलेखोऽपीति-तदपि न | तथा सति उत्तरतन्त्रे सामान्यार्घ्योदकोत्पत्तिविध्यभावेन केवलमुत्तरचतुश्शतीतन्त्रेणैवानुतिष्ठतां विशेषार्घ्यपात्रस्यैवा साधनं प्रसक्तं न पात्रद्वयस्य | तथा चोपसंहारवाक्ये एतत्तन्त्रानुसारेण द्वयोः स्थापनमिष्टमिति वाक्यं विरुध्यत एव | तस्मादेतत्तन्त्रपदेन पूर्वोत्तरचतुश्शतीमेकीकृत्य समग्रतन्त्रानुयायिनामित्येवाभिप्रायः |
SK
प्. ११९) अत एव सामान्यार्घ्यस्य पूर्वचतुश्शत्यामुत्पन्नस्य विनियोगोऽष्टमपटले वक्ष्यतीति सेतुबन्धलेखश्च सङ्गच्छते | एतेन पूर्वोत्तरतन्त्रोक्तमेकमेवेति स्पष्टम् | ईदृशी पूजा अपरिपक्वचित्तस्यापि प्राप्ता तदनुसारेण पात्रद्वयं दुर्निवारम् || यश्च बहिर्यागाङ्गानामल्पानां कथनेऽप्यन्तरङ्गोपास्तिशीलानां तावतैव परिपूर्तिरिति सेतुबन्धलेखः स नैतत्तन्त्रानुसारिपरः | किं तु तन्त्रराजानुसारेण पूर्वमुपास्तिं कुर्वतः कालेन चित्तशुद्धिपूर्वकभावनायां संपन्नायाम् इत्थं कुर्वन् हि सततं मुच्यते नात्र संशयः इति वचने साङ्गबहिर्यागस्य सततमित्यनेन तदुत्तरमपि यावज्जीवं साङ्गोपास्तिप्राप्तौ तद्बाधकमिदं नित्याहृदयसंप्रोक्तस्फुटोपायेन भावयेत् इति | नित्याहृदयमुतरचतुश्शती तत्र प्रोक्तः यः स्फुटः उपायः बहिर्यागानुष्ठानपूर्विका भावना तां कुर्यादिति तदर्थः-तन्त्रराजे बहिर्यागाङ्गानां बहुत्वात् योगाभ्यासं चिकीर्षतां तदनुष्ठानपूर्वकयोगाभ्यासे कालाभावेन कानि हेयानि कानि संग्राह्याणि इति विचिकित्सायां योगमभ्यसिषोः यावज्जीवप्राप्ततन्त्रराजोक्तयावदङ्गकलापानुष्ठानं न कर्तव्यम् किं तु उत्तरचतुश्शत्युक्ताल्पाङ्गकलापेनैव बहिर्यागं संपाद्य भावनां कुर्यात् तावतैव तस्य परिपूर्तिरिति कल्प्यत इति तन्त्रराजानुयायिनः उत्तरचतुश्शतीधर्मप्राप्त्यभिप्रायकः | नैतावता निखिलं तन्त्रं योगाभ्यासिपरमिति ब्रह्मापि साधयितुं शक्नोति | तथा सति तन्त्रराजवचने नित्याहृदयेत्यनेन उत्तरचतुश्शत्या एव योगाभ्यासिपरत्वकथनात् पूर्वचतुश्शतीपाठवैय्यर्थ्यात् | अतस्तन्त्रराजवचनेन परिपक्वचित्तानां योगाभ्यासदक्षाणाम् उत्तरचतुश्शत्युक्तमेकं पात्रं विशेषार्घ्यरूपं समष्टिमन्त्रेण पूजनम् | अपरिपक्वचित्तानां योगिनीतन्त्रानुसारिणां पूर्वोत्तरचतुश्शतीमेकीकृत्य द्विपात्रप्रयोग इति सेतुबन्धाभिप्रायतत्त्वम् | एवमेव सूत्रानुयायिनामित्यलं पल्लवितेन || नापि परमापत्पक्षो वेति-तृतीयः पक्षः | तथा हि तृतीयपक्षसाधकं यद्वचनं-
SK
प्रत्यक्षे युग्मपात्रं वै कृत्वा शापमवाप्नुयात् | क्वचिन्मयैवोपदिष्टः परमापत्तिकालिकः || इति लिखितं तत् किं योपगुरेत्तं शतेन यातयात् इतिवच्छापरूपानिष्टसाधनत्वं द्विपात्रे ज्ञापयति उत्तरार्धस्तच्छेषोऽर्थवादः उत पूर्वार्धेनानिष्टसाधनत्वं उत्तरार्धेन आपत्तौ अभ्यनुज्ञा चेति द्व्यमुच्यते अथ वा केवलमभ्यनुज्ञापर एव वा सर्वोऽपि श्लोकः | नाद्यः उत्तरार्धस्य अर्थवादरूपस्य केवलस्तुतौ तात्पर्येणापत्तिकाले अभ्यनुज्ञापकत्वासंभवात् स्वोक्तपक्षासिद्धेः | किं च-द्विपात्रे अनिष्टसाधनत्वं प्रतिपादयन् द्विपात्रे प्रवृत्तं पुरुषं निवर्तयति इति वाच्यम् | तत्र द्विपात्रप्रयोगे प्रवृत्तिसाधनं रागो वा तन्त्रान्तरं वा नाद्यः त्रिपात्रं कर्तव्यमिति | प्. १२०) विधिसत्त्वे अङ्गलोपाद्भीतस्य श्रद्धावतः द्विपात्रे रागो न कदाऽपि संभवति | न द्वितीयः विकल्पो दुष्परिहारः इति प्रागेव दत्तोत्तरत्वात् | एतेन द्वितीयपक्षः प्रत्युक्तः | तस्मात् अगत्या यस्मिंस्तन्त्रे इदं वचनं पठितं तत्र त्रिपात्रविधिः स्यादेव | तच्छेषः पूर्वार्धोऽर्थवादः | उत्तरार्धेन त्रिपात्रविधितन्त्रानुयायिनां परमापत्तौ स्वान्यतन्त्रोक्तद्विपात्रप्रयोगग्रहणमभ्यनुज्ञातम् | अनृतं न वदेद्विद्वाननृतं धर्मनाशनम् | प्राणसंशय आपन्ने त्वनृतं नैव दुष्यति || इतिवत् तृतीयपक्ष एव साधुः | अयमेवार्थः स्पष्टीकृतो बोधायनाचार्यैः- स्वशास्त्रे विद्यमाने यः परशास्त्रेण वर्तते | भ्रूणहत्यासमं तस्य स्वशास्त्रमवमन्यतः || आर्षेयस्य स्वशास्त्रस्य प्रदेशास्तद्गु(परशास्त्रगु)णैस्सह | कर्मणां प्रविचारा[र्या]र्थमापत्सु च समाप्नुयात् || इति ||
SK
अस्योदाहरणं भवस्वामिना दर्शितम् | यथा तृतीयसवने सौम्यं तन्त्रं तूष्णीम् इति शालिकिशाखायाम् दर्शपूर्णमासवत् सर्वम् इति शाखाऽन्तरे | स्वस्वशाखिभिः यथोक्तमनुष्ठेयम् | आपत्तौ तु सर्वैरपि तूष्णीमिति | इत्थं च त्र्या(द्व्या)दिपात्राणामापत्काले अभ्यनुज्ञापकं शास्त्रं कथम् आ(अना)पन्नपरमिति व्यवस्थापयेत् | तस्मान्न किंचिदेतत् | परशुरामसूत्रयोगिनीतन्त्रानुसारिभिः निःशङ्कं द्विपात्रासादनमेव कर्तव्यम् || ननु तन्त्रान्तरस्थद्विपात्रदूषकवचनानां विधिशेषार्थपरत्वं व्यवस्थाप्य सूत्रानुसारिभिः द्विपात्रप्रयोग एव कार्यः तन्त्रान्त्ररस्पर्शो न कार्यः इति प्रतिज्ञायां तन्त्रानुक्तं सूचितं च तथाऽन्येष्वपि दूषितम् अन्यतन्त्रात् ग्राह्यम् इति विध्युदाहरणं किमिति चेत्-शृणु | अस्यैव वचनस्याव्यवहितपूर्वम् क्वचित्तन्त्रेषु विस्तारः क्वचित्तन्त्रेषु संग्रहः | एकं तन्त्रं समाश्रित्य सम्यक्कर्मकृते तथा | सर्वं तेन कृतं राम तच्च श्रीगुरुमार्गतः || इत्यनेन पूजाऽङ्गानां पूजाऽनङ्गभूतानां यावत्कर्मणां स्वतन्त्रानुक्तानां निवृत्तौ कथितायां तन्त्रानुक्तं सूचितं च इत्यनेन केषांचित्पूजाऽङ्गानां ग्रहणम् तथाऽन्येष्वपि दूषितम् इत्यनेन पूजाऽनङ्गभूतानां केषांचिदकरणे अतिनिन्दा श्रूयते | यथा सहस्रनामपाठः | तस्याननुष्ठाने- प्. १२१) अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति | अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् || सचक्षुषा विना रूपं पश्येदेव विमूढधीः | रहस्यनामसाहस्रं मुक्त्वा यः सिद्धिकामुकः || सभोजनं विना नूनं क्षुन्निवृत्तिमभिप्सति | इत्यादिवचनैः अपाठेऽपि निन्दा श्रूयते | तत्तन्त्रान्तरस्थमवश्यं ग्राह्यम् | अत्रैव त्रिपुरारहस्यवचनाभिप्रायः | श्वतन्त्रेणाविरुद्धं तु यावदन्यत् समाचरेत् इति पूर्वलिखिततन्त्रान्तरवचनस्याप्यत्रैव तात्पर्यम् न तु एकप्रयोगाङ्गेषु तन्त्रान्तराश्रयणम् | प्रयोगाङ्गेषु सूचितं आकाङ्क्षितं च मुक्त्वा तन्त्रान्तरस्थस्य ईषदपि प्रवेशो नास्तीति परमसिद्धान्तः | अत एव श्रीभागवतेऽपि
SK
यस्त्विच्छया कृतः पुंभिराभासो ह्याश्रमात् पृथक् | स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये || इति इममेवार्थमाह | अस्य श्लोकस्य स्वधर्मानुष्ठानानन्तरं धर्मभूयस्त्वार्थमपि परधर्मो नानुष्ठेयः अनुपयोगादित्याह- स्वभावेति इति श्रीधरस्वाभ्यवतरणम् | एतेन श्लोको व्याख्यातः || ३० || तत्पात्रस्थबिन्दुभिः करणीयकृत्यमाह- तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा [अत्रोक्तश्रीगुरुपादुकातन्त्रमन्त्रज्ञानायाग्रतनद्वि परिशिष्टस्थाः ६-१०/१ ६/११ ६/१४ ६-१६/१ ६-१६/५ ६/१८तः ६/२० एते विषया दृश्याः |] आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहेति तद्बिन्दुमात्मनकुण्डलिन्यां जुहुयात् || ३१ || तद्बिन्दुभिः विशेषार्घ्यबिन्दुभिः त्रिशः त्रिवारं शिरसि द्वादशान्तस्थाने [द्वादशस्थाने नाम ब्रह्मरन्ध्रे-इत्यर्थः-पाश्चात्य-२ खण्डे- श्रीगणपतिक्रमे-२ सूत्रभाष्ये-६९-पत्रे-स्फुटीकृतोस्यार्थः |] गुरुपादुकामिष्ट्वा गुरुपादुकोद्देशेन द्रव्यदानं कृत्वा आर्द्रं ज्वलति इति स्वाहाऽन्तेन मन्त्रेण तद्बिन्दुं गुरुपादुकायागशेषबिन्दुमित्यर्थः सर्वनाम्नां सन्निहितपरत्वेन पादुकादत्तशेषस्यैव सन्निहितत्वात् तदीयं शेषमादाय जपन् योगं समाचरेत् इति योगिनीतन्त्रवचनाच्च | आत्मनः स्वस्य कुण्डलिन्यां चिद्वह्नौ | कुण्डलिनीस्वरूपमुक्तं तन्त्रान्तरे- प्. १२२) विशदे कर्णिकायां च ध्यात्वाऽधारेऽथ लोहिते | कर्णिकाकुलकुण्डान्तस्सार्धत्रिवलयाकृतिम् || प्रसुप्तसर्पसदृशीं बिसतन्तुतनीयसीम् | ध्यात्वा कुण्डलिनीशक्तिम्................... || इति || जुहुयात् इत्यनेन अस्मिन् कर्मणि होमबुद्धिः दृढा कार्या न तु पानबुद्धिरिति सूचिता | बिन्दुमित्यनेन होमद्रव्यस्यात्यल्पत्वं सूचितम् | बिन्दुमिति द्वितीयया प्रतिपत्तिसंस्कारोऽपि सूचितः | गुरुपादुकायै दत्तशेषं होमेन संस्कुर्यादित्यर्थः | तेन शेषाभावे न होमः || कुलद्रव्यस्वीकारविधिसमर्थनम्
SK
ननु [इत आरभ्यैतत्-३१-सूत्रभाष्यान्तं यावत्-सुराग्रहणखण्डनं | क्वाचित्कं तन्मण्डनमप्यभ्यधायीत्यवगन्तव्यम् |] सकलश्रुतिस्मृतिपुराणेषु सुरापानस्य पञ्चमहापातकेषु [यथाह श्रीयाज्ञवल्क्यः-ब्रह्महा मद्यपः स्तेयी तथैव गुरुतल्पगः | महापापानि चत्वारि तत्संसर्गी च पञ्चमः | प्रा. अ. ३ श्लोकः २१ मनुरपि-ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः | महान्ति पातकान्याहुः संसर्गश्चापि तैः सह-अ ११ श्लोकः ५४ |] पञ्चमहापातकेषु गणितत्वात् कथं तन्त्रोक्तः द्रव्यसेवनं सुखाय भवितुमर्हति | एवं येषु तन्त्रेषु द्रव्यसेवनं व्रिहितं तेष्वेव तन्त्रेषु निषेधो बहुलमुपलभ्यते | यथा कुलार्णवे- सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् | तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् || आजानुभ्यां भवेत् स्नानमानाभ्युपवसेच्छिवे | ऊर्ध्वं नाभेस्त्रिरात्रं स्यान्मद्यस्य स्पर्शने विधिः || सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् | मुखे तया विनिर्दग्धः ततः शुद्धिमवाप्नुयात् || मद्यपानजदोषस्य प्रायश्चित्तमितीरितम् || इति || त्रिपुरार्णवेऽपि- कामान्मोहाद्यदि सुरां पिबेत् सकृदपि द्विजः | विद्वानपि च संत्याज्यः तन्त्रज्ञैरविचारितम् || इति || देवीयामलेऽपि- आघ्राणं दर्शनं चैव सुरायास्संत्यजेद्बुधः || इति || प्. १२३) दर्शनमेव त्यजेत् किमु पानत्यागे इति तदर्थः | एवं अन्यतन्त्रवचनान्यपि बहूनि सन्ति | ग्रन्थविस्तरभयान्नेह लिख्यन्ते | तस्मात् कुलद्रव्यस्वीकारशास्त्रमश्रद्धेयमिति चेत्-न रागप्राप्तसुरापाननिवर्तकान्येव अमूनि वचनानि | क्रत्वर्थप्रवृत्तिरिष्टैव अन्यथा न ब्राह्मणं हन्यात् इति निषेधेन ब्रह्मणे ब्राह्मणमालभते इति श्रुतेरप्रामाण्यापत्तेः | अयमेवार्थः स्पष्टमुक्तः श्रीभागवते- यद्घ्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा | एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं नु विदुः स्वधर्मम् || ये त्वनेवंविदः पुंसः स्तब्धास्सदभिमानिनः | पशून् द्रुह्यन्ति विस्रब्धाः प्रेत्य खादन्ति ते च तान् ||
SK
इति ग्रन्थेन् | तस्मात् निरवकाशविशेषद्रव्यस्वीकारविधेः क्रत्वर्थत्वकल्पनात् निषेधस्य च केवलपुरुषार्थत्वेन एकार्थत्वाभावात् | अत एवैतदभिप्रायसूचकमेव कामादिति त्रिपुरार्णवे कुलार्णवे च कामकृते इति पदं पठितम् | एवं तन्त्रान्तरे- दोषोऽन्यत्र वरारोहे यज्ञे दोषो न विद्यते | अश्वमेधादियज्ञेषु वाजिहत्या यथा भवेत् || इति सदृष्टान्तमुक्तार्थमेव द्रढयति || अत्र ताराभक्तिसुधार्णवे एवं च वीरस्यापि ब्राह्मणस्य क्षीरमेव अन्यस्य तदपि न इति भावशोधनप्रकरणे उक्त्वा एवमेतदग्रे स्थलान्तरे उक्ताया एव प्रतिज्ञाया दृढीकरणार्थं बहुविचारः कृतो नृसिंहाचार्यैः | तथा हि- वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविभूषितम् | द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् || तर्पणमत्र पानमेव | इदं तु ब्राह्मणेतरविषयम् ब्राह्मणस्य तदुपादाननिषेधात् || ननु- ब्राह्मणैस्तु सदा पेयं क्षत्रियैस्तु रणागमे | वैश्यैर्धनप्रयोगे च शूद्रैस्तु न कदाचन || इति कुलार्णवे सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् | प्. १२४) इति समयाचारतन्त्रे सत्ये क्रमाच्चतुवर्णैः क्षीराज्यमधुपिष्टजैः | त्रेतायां पूजिता देवी घृतेन सर्वजातिभिः || मधुभिः सर्ववर्णैस्तु पूजिता द्वापरे युगे | पूजनीया कलौ देवी देवलैरासवैः शुभैः || इति यामले चोक्तत्वात् कथं ब्राह्मणस्यानधिकार इति चेत्-उच्यते | विप्राः क्षोणिभुजा विशस्तदितरे क्षीराज्यमध्वासवैः इति लघुस्तवे वर्णानुक्रमभेदेन द्रव्यभेदा भवन्ति वै इति ज्ञानार्णवे द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् इति तत्रैवोक्तम् | तथा आसवभेदमुक्त्वा
SK
एवं दद्यात् क्षत्रियोऽपि पैष्टीं तु न कदाचन | नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु || राजन्यवैश्ययोर्दानं [-र्देयं ब्राह्मणस्य-श्री.] न द्विजस्य कदाचन | एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो [हीनो भवति ब्राह्मणः-श्री.-एवं पाठान्तरे-व्रा-इत्यस्यगुरुत्वाच्छन्दोभङ्गभयमत्र च- हीनायूरित्यादिपाठः सुसाधुः (पुनरावृत्तिकृत्-)] भवेत् || इति महाकालसंहितायाम् क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः | माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः || इति भैरवीतन्त्रे यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् | ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् || इति कुलचूडामणौ ब्राह्मणो मदिरां दत्त्वा [पीत्वा-श्री.] ब्राह्मण्यादेव हीयते | स्वगात्ररुधिरं दत्त्वा स्वात्महत्यामवाप्नुयात् || इति हंसमाहेश्वरतन्त्रे कलिधर्मप्रकरणे गृह्यपरिशिष्टे हरिनाथोपाध्यायैः सौत्रमिष्यां सुराग्रहणनिषेधस्योक्तत्वात् ब्राह्मणैस्तु सदाऽपेया इत्यकारप्रश्लेषात् ब्राह्मणस्य सदा निषेधः | क्षत्रियस्य सङ्ग्रामकाले विकलस्य सङ्ग्रामासंभवात् | वैश्यस्य धनप्रयोगकाले अन्यथा प्. १२५) विकलधिया विंशतिदाने कर्तव्ये शतादिदानापत्तेः | शूद्रैर्नैव कदाचन अपेया तेन सर्वदैव पेयेत्यर्थः | एवं च पूजनीया कलौ देवि केवलैरासवैः इत्यत्र अनुषज्यमानसर्ववर्णशब्दश्च ब्राह्मणेतरविषय इत्यवधातव्यम् || अथ- क्षीरं वृक्षसमुद्भूतमाज्यं वल्कलसंभवम् | मधु पुष्परसोद्भूतम् आसवं तण्डुलोद्भवम् ||
SK
इति भैरवीतन्त्रे क्षीरादिपदानां आसवविशेषपरिभाषणात् ब्राह्मणस्यापि तत्राधिकारः प्रतीयते इति चेत्-अत्र प्रतिभाति | क्षीरादीनां कथं भैरवकल्पमित्यत्रेदं वचनम् | तेन क्षीरं वृक्षसमुद्भूतं वार्क्षमैरेयमित्यर्थः | एवमग्रेऽपि | अन्यथा क्षीरवृक्षपदादेर्वैपरीत्येन प्रयोगापत्तेः अनुवादमनुक्त्वा तु न विधेयमुदीरयेत् इति न्यायात् | तण्डुलोद्भवस्त्वोदनः | तेन शूद्रस्याप्योदनस्थाने आसवमेव तेन | पृथगोदनं ब्राह्मणादिभिः आसवं च न देयमित्यर्थः | लिखितवचनात् आमं शूद्रहस्तेन पक्वान्नं पक्वमुच्छिष्टमुच्यते इत्यादिस्मृतेश्च || न च-शुक्रशापस्य ब्राह्मणविषयत्वेन सुरायां तदुद्धारविधानानुपपत्तिः इति वाच्यम् शूद्रमात्रस्य सदाऽधिकारे शास्त्रसिद्धे शुक्रशापविमोचनस्यादृष्टार्थत्वात् || किं च- ऐन्द्र्या गार्हपत्यमुपतिष्ठते इत्यादौ लिङ्गापेक्षया श्रुतेरिव शापविमोचनकल्प्यमैरेयदानविधानापेक्षया ब्राह्मणो मदिरां दत्त्वा इत्यादिनिषेधविधेः श्रौतस्य बलवत्त्वं युक्तिसाम्यात् इत्यन्तेन लेखेन ब्राह्मणेतरपरमिति प्रतिज्ञां दृढीचक्रुः नृसिंहपण्डिताः | तदतीव मन्दम् | तथा हि-द्रव्येण सात्त्विकेनेति ज्ञानार्णववचनं स्वसाधकत्वेन लिखितम् | तदत्यन्तमपरिशोधनमूलम् | सात्त्विकद्रव्यं नाम व्रीह्यादिवत् (न) लोकप्रसिद्धं किंचिदस्ति | अतः किं तत् सात्त्विकद्रव्यम् इत्याकाङ्क्षायां प्रकृतिप्रत्यययोः व्याकरणस्मृतिवत् शास्त्रैकगम्या सात्त्विकपदशक्तिः | तच्छास्त्रं त्रिपुरार्णवे- गौडी माध्वी च पैष्टी च त्रिविधं द्रव्यमीरितम् | ऐक्षवक्षौद्रजाताऽद्या गौडी स्यात् सात्त्विकी स्मृता || मधूककुसुमद्राक्षातालवृक्षादिसंभवा | माध्वीति कीर्तिता तज्ज्ञैः राजसी सा भवेच्छिवे || पिष्टतण्डुलजाता या तामसी पौष्टिकी स्मृता | सात्त्विकी ब्राह्मणे ख्याता राजसी नृपवैश्ययोः || इति || प्. १२६)
SK
एवं सति शास्त्रे ब्राह्मणेतरपरमिति प्रतिज्ञा अज्ञानमूलेति ध्रुवं प्रतीमः | तथा महाकालसंहितास्थं जानीयात् नारिकेलोदकं कांस्ये इति | राजन्यवैश्यकर्तृकप्रयोगे मुख्यद्रव्यप्रतिनिधिनियमं विधाय ब्राह्मणकर्तृके प्रयोगे उक्तद्रव्यपरिसङ्ख्यां कृत्वा परिसङ्ख्याशेषत्वेन एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् इति निन्दया अर्थवादरूपया स्तौति | इदं वचनं भवत्साधकं कथं भवेत् || न च-क्षत्रियादिकर्तृकत्वेनैव ब्राह्मणादिकर्तुकत्वनिवृत्तिः यथा गोधूमनिवृत्तिर्व्रीहिनियमेन तथा च कथं ब्राह्मणकर्तृकप्रयोगे तस्य प्राप्तिः तन्निवृत्त्यर्था परिसङ्ख्या वा कथम्-इति वाच्यम् दृष्टान्तवैषम्यात् | दर्शपूर्णमासयागः द्रव्यमन्तरा अनुपपन्नः इत्याक्षेपेण इतरद्रव्यादिवत् पक्षे व्रीहिप्राप्तौ ब्रीहय एवेति नियम्यते | तावता दर्शपूर्णमासे द्रव्यान्तराकाङ्क्षा विरहादार्थिकी इतरनिवृत्तिः | प्रकृतौ राजन्यवैश्यकर्तृके प्रयोगे प्रतिनिधिनियमेन द्रव्याकाङ्क्षायाः विरहेऽपि ब्राह्मणकर्तृके द्रव्याकाङ्क्षासत्त्वात् पक्षे अस्यापि प्राप्तौ परिसङ्ख्याया युक्तत्वात् तस्मात् अनेन प्रतिज्ञासिद्धिः षण्डेनेव पुत्रोत्पत्तिः ||
SK
यच्च क्षीरेण ब्राह्मणैस्तर्प्या इति भैरवीतन्त्रवचनं साधकत्वेन लिखितं तदपि बालप्रतारणामात्रं भैरवीतन्त्र एव एतद्वचनसमीपे क्षीरं वृक्षसमुद्भूतम् इत्यनेन क्षीरादिपदार्थनिर्णयात् | यत्तु क्षीरं वृक्षसमुद्भूतम् इत्यस्य क्षीरं वृक्षसमुद्भूतकार्यकारीत्यर्थं कृत्वा वृक्षसमुद्भूतकार्यं तर्पणं क्षीरे प्रसिद्धे विधीयत इति-तदशुद्धम् | वृक्षसमुद्भवादिपदत्रयस्य किं द्रव्यसामान्यमर्थः किं द्रव्यविशेषः | आद्ये वृक्षसमुद्भूतत्वरूपशक्यार्थप्रवृत्तिनिमित्तरूपस्य द्रव्यत्वावच्छिन्ने बाधाद्विशेषार्थे शक्तस्य सामान्ये लक्षणा | तथा सति श्रूयमाणशक्यार्थत्यागः वृक्षसमुद्भूतपदेनैव आज्यादिषु विधानसम्भवे एकार्थानां तत् फलसम्भवादिपदानां वैय्यर्थ्यं च | वृक्षसमुद्भवादिपदं द्रव्यविशेषपरमिति द्वितीयपक्षे द्रव्यविशेषस्य कार्यं क्षीरे विधीयते | तत् किं दृष्टं वा किं वाऽदृष्टसाधनं शास्त्रीयं कार्यं विधीयते | आद्ये विधानवैय्यर्थ्यं लोकत एव ज्ञातुं शक्यत्वात् | द्वितीये यथा खलेवाली यूपो भवति इत्यत्र यूपे पशुं नियुञ्जीत इत्यनेन शास्त्रेण कृतं यत्कार्यं तत् खलेवाल्यां विधीयते | तथा शास्त्रान्तरप्राप्तं विधीयते उत शास्त्रान्तरेण अप्राप्तं विधीयते | आद्ये क्षीरं वृक्षसमुद्भूतमित्यनेनैव वृक्षसमुद्भूतकार्यस्य क्षीरतर्पणादेर्लाभे क्षीरेण ब्राह्मणैस्तर्प्येति शास्त्रं व्यर्थम् | न हि खलेवाली यूपो भवति इति प्रोच्य खलेवाल्यां पशुं नियुञ्जीत इति पृथगुक्तम् अप्राप्तकार्यस्य विधानं तद्वत् वन्ध्यापुत्रादेरपि दम्पतिकार्यत्वेन विधानापत्तेः | मन्मते तु क्षीरेण ब्राह्मणैस्तर्प्येति तर्पणसाधनद्रव्यविधिः क्षीरपदस्य प्रसिद्धार्थं बाधित्वा अर्थविशेषतात्पर्यग्राहकं क्षीरं वृक्षसमुद्भूतम् इति वचनमिति न कस्याऽपि वैय्यर्थ्यम् | अन्योऽपि नानुपपत्तिगन्धः | यद्यपि विधायकत्वाभावेन प्. १२७)
SK
वैय्यर्थ्यं कल्प्यम् | तथाऽपि यदाग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम् इत्यष्टौ हवींषि चातुर्मास्ये विधाय पुनः वैश्वदेवेन यजेत् इति समुदायस्य वैश्वदेव इति सङ्केतः कृतः | तेन वसन्ते वैश्वदेवेन यजेत इत्यत्र यागेन विश्वेदेवयागस्यैव वसन्ते प्राप्तौ त बाधित्वा नवीनसङ्केतेन अष्टानां यागानां संपत्तिं कुर्वन् सार्थकं तद्वाक्यम् इत्युक्तं जैमिनितन्त्रे | तथा सार्थकं भवितुमर्हति | न च - स्वेनैव क्षीरपदमत्यन्तरूढं प्रयुज्य रूढिशक्तिं परित्यक्तुं व्याख्याऽन्तरं कृतम् एवं न कुत्रापि दृष्टम् इति वाच्यम् | काशीखण्डे- अरुन्धतीं ध्रुवं चैव तथा सप्तर्षिमण्डलम् | आसन्नमृत्युर्नो पश्येत्..................................... || इति प्रथममुक्त्वा अरुन्धती नासिकाग्रं इत्यादिना स्वेनैव व्याख्यातम् | एवं शतशः सन्ति परं तु प्रयोजनाभावात् अधिकं न लिखितम् || अस्मिन् वचने चतुर्थचरणे आसवं तण्डुलोद्भवम् इत्यत्र तण्डुलोद्भवमिति पिष्टोद्भवस्यापि उपलक्षकं बृहद्वामकेश्वरतन्त्रे- क्षीरमाज्यं मधु तथा ह्यासवं च महेश्वरि | वृक्षत्वक्पुष्पपिष्टोत्थं क्रमात् ज्ञेयं विचक्षणैः || इत्यत्र पैष्टेऽपि आसवसङ्केतस्य कृतत्वात् | एतेन परमते दण्डप्रक्षेपात्मको हेतुः क्षीरवृक्षपदादेः वैपरीत्येन प्रयोगापत्तेः इति तत्साधकतया अनुवाद्यमनुक्त्वेति लेखः सः सर्वोऽपि पराहतः अर्थविशेषतात्पर्यग्राहकत्वेन वर्णनेन अत्र उद्देश्यविधेयभावगन्धस्याप्यभावात् | अत एव नामधेयपादे उद्भिदा यजेत इत्यत्र नामधेयस्याविधेयतया न स्वतः धर्मे प्रामाण्यम् किं तु ऋत्विजां प्रयोगविधिस्मारकतया तद्वारेति स्थितमाकरे || अस्तु वा परप्रीतये अशास्त्रीयः वृक्षसमुद्भूतमुद्दिश्य क्षीरसंज्ञा विधीयते इत्यङ्गीकारः | तथाऽपि परप्रक्षिप्तदण्डः अस्मिन् मते असह्यः |
SK
यद्यत् प्रथमनिर्दिष्टम् इति व्याप्तिसिद्धमूलो हि दण्डप्रक्षेपः स तु असिद्धः दध्ना जुहोति ये यजमानास्त ऋत्विजः वायव्यं स्वेतमालभेत भूतिकामः इत्यादौ शतशो व्यभिचारात् | तर्ह्यनुवाद्यमनुक्त्वेति प्रामाणिकोक्तेः का गतिरिति चेत् असति बाधके प्रथमनिर्दिष्टमुद्देश्यं प्रायेण भवतीति तस्याभिप्रायः | प्रकृते क्षीरमुद्दिश्य वृक्षसमुद्भूतत्वविधाने वैय्यर्थ्यमेव बाधकम् | इदं कथं न ज्ञातं परेण | एवम् आसवं तण्डुलोद्भवम् इत्यत्र तण्डुलोद्भवशब्दस्य ओदनमर्थं ब्रुवन् तत्साधकतया आमं शूद्रस्य पक्वान्नम् इति च लिखन् बालानामप्युपहास्यो बभूव | एतेन लघुस्तवरत्नस्य प्. १२८) साधकत्वलेखो दूरीकृतः क्षीरादीनां साङ्केतिकशद्बानां तत्र गृहीतत्वात् | यत्तु शुक्रशापविमोचनलिङ्गापेक्षया ब्राह्मणो मदिरां दत्त्वा इति प्रत्यक्षश्रुतेः प्राबल्यमिति कथनं तदपि तुच्छम् | न हि ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते इत्यत्र निषेधार्थे नञ्श्रुतिः विधिप्रत्ययरूपाऽस्ति | किं तु मदिरादाननिन्दया कल्प्यो विधिः | इत्थं च तस्य प्रत्यक्षश्रुतित्वं ब्रुवन् विद्वत्समाजे किमुत्तरं वदेदिति न विद्मः | इत्थं च शुक्रशापविमोचनसहितस्य सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत् सुराम् इति कुलाचारस्थप्रत्यक्षस्वलिखितवचनस्य गतिम् अकल्पयित्वा मुखेन ब्राह्मणेतरपरमिति प्रतिज्ञामात्रेण परेषां [सर्वेषां-श्री०] मोहमुत्पादयन् तान्त्रिकबहिष्कृतो मन्तव्यः || इत्थं च वचनानामियं व्यवस्था द्रव्येण सात्त्विकेन इत्यत्र क्षीरेण ब्राह्मणैस्तर्प्या इत्यस्य लघुस्तवस्थमहाकालसंहितावचनस्य व्यवस्था दर्शिता | तथा च यच्च भैरवीतन्त्रवचनं क्षीरेण ब्राह्मणैस्तर्प्या इति यच्च बृहद्वामकेश्वरतन्त्रे क्रमेण ब्राह्मणाद्यैस्तु क्षीराज्यमाक्षिकासवैः [मधुपिष्टजैः-श्री०] इति
SK
यच्च लघुस्तववचनं तेषां सामान्यरूपत्वात् यामलवचने शत्ये क्रमाच्चतुर्वर्णैः क्षीराज्यमधुपिष्टजैः इत्यत्रोपसंहारः | इत्थं च क्षीरादीनां भैरव्यादितन्त्रैः अविशेषेण सदा प्राप्तौ कालविशेषे कर्तृविशेषे क्षीरादिद्रव्यविशेष इति सङ्कोचसम्पादकं यामलवचनम् | यत्तु ज्ञानार्णवस्थं द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् इति ऐक्षवक्षौद्रजातायाः सात्त्विक द्रव्यस्य क्षीरपदवाच्यतया यामलवचनेन सङ्कोचासम्भवात् युगचतुष्टये प्राप्नुवद्ब्राह्मणकर्तृकप्रयोगे विकल्पः प्राप्नोति | एवं राजसी नृपवैश्ययोः इत्यनेन क्षत्रियवैश्यकर्तृकप्रयोगे मधूककुसुमद्राक्षातालवृक्षादिसम्भवा | माध्वीति कीर्तिता तज्ज्ञैः राजसी [राजसी सा भवेच्छिवे इति चतुर्थः पादोत्रावधेयः |] || इति विवरणेन उक्तद्रव्यप्रकृतिकद्रव्यस्य सदा प्राप्तौ उक्तानाममीषां सङ्घाते क्षीरादिसंज्ञाया अप्रवृत्तेः सम्भवत्क्षत्रियस्य वल्कलप्रकृतिकद्रव्यस्य कृतयुगे प्राप्तौ एतद् [?]द्राक्षादिप्रकृतिकस्यापि प्राप्तौ विकल्पः | शूद्रस्य वचनद्वये एकरूपत्वात् कृते न विकल्पः | एवं त्रेताऽदिषु यथायथं स्वयमूह्यम् | कलियुगे ब्राह्मणस्य ज्ञानार्णवत्रिपुरार्णववचनाभ्यां ऐक्षवमधुप्रकृतिकं प्राप्तं पूजनीया कलौ सर्ववर्णैः केवलमासवैः इति | एवं सति- कृते तु शूद्रैः संपूज्या प्रत्यक्षैरासवैः प्रिये | त्रेतायां वैश्यशूद्राभ्यां नृपाद्यैः द्वापरे युगे | कलौ युगे महादेवि ब्राह्मणाद्यैः प्रपूजिता || प्. १२९)
SK
इति रहस्यार्णववचनं यद्युपतिष्ठते तदा कृतेतरवचनैः द्रव्येतरविशेषः सर्ववर्णेषु प्राप्तः रहस्यार्णववचनेन शूद्रातिरिक्ते परिसङ्ख्याऽपि प्राप्ता तथा सति कृते त्रैवर्णिके विकल्पः प्रत्यक्षस्य द्रव्यस्य | यद्वा- रहस्यार्णवेऽपि कृतयुगसम्बन्धिशूद्रकर्तृकप्रयोगे प्रत्यक्षासवं तण्डुलप्रकृतिकं विधीयते | तेन तन्त्रान्तरेण शूद्रस्य आसवप्राप्तौ वैय्यर्थ्यभिया परिसङ्ख्यात्वकल्पनम् अश्रद्धेयम् | तथा सति ब्राह्मणादिकर्तृकप्रयोगे द्रव्यस्य आकाङ्क्षितत्वात् अन्यस्मात् तन्त्रात् क्षीरादिकं ग्राह्यम् | न विकल्पः | एवमेव त्रेतायां रहस्यार्णववचनं शूद्रवैश्ययोरासवं विदधाति | तथा सति वैश्यस्य अनेन आसवं प्राप्तम् | यामलवचनेन धृतं प्राप्तम् | अत्र विकल्पः | एवं द्वापरे वैश्यक्षत्रिययोः आसवमधुविकल्पः उक्तवचनद्वयेन | कलियुगे तु उभयोः एकरूपतया विरोधाभावात् अविचार एव | युक्तश्चायमेव पक्षः न परिसङ्ख्यापक्षः | इत्थं च यत्रावश्यं विनिर्दिष्टम् इति कुलचूडामणिवचनं तस्मिन् मुख्यालाभे इति पूरणीयम् | मुख्यालाभे ब्राह्मणेन तत्स्थाने ताम्रपात्रे मधु योजयेत् इति तदर्थः | एवं सति ताम्रे गव्यं तथा मधु | राजन्यवैश्ययोरेवं न द्विजस्य कदाचन इति महाकालसंहितावचनेन विरुध्यते | तथा तुल्यबलत्वाद्विकल्पो न परिहार्यः परमतेऽपि || यदपि हंसमाहेश्वरतन्त्रवचनं [हंसपारमेश्वर-ब १.] ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते इति तत् यदि तत्तन्त्रे क्षत्रियादीनां कुलद्रव्यविधिसमीपे स्यात् तर्हि तच्छेषोऽर्थवादः अपशवो वा अन्ये गो अश्वेभ्यः इतिवत् | यदि तत्समीपे न स्यात् तर्हि अजितेन्द्रियब्राह्मणपरम् तस्य द्रव्यदाननिषेधस्याग्रे वक्ष्यमाणत्वात् | यच्च कुलार्णववचनम् ब्राह्मणैस्तु सदाऽपेयम् इति तत्र अकारप्रश्लेषं कृत्वा योऽयं ब्राह्मणानां निषेधः कृतः सपुमर्थपर इति पराभिप्रायः | क्षत्रियस्य सङ्ग्रामकाले विकलस्य सङ्ग्रामासम्भवात् इत्यादिनिषेधहेतुलेखात् | स चास्माकमिष्ट एव |
SK
क्रत्वर्थातिरिक्तद्रव्यस्वीकारो ब्राह्मणस्य नास्तीति वयमपि ब्रूमः | यश्च हरिनाथोक्तः सौत्रामण्यां कलौ सुराग्रहनिषेधः सोऽप्यस्माकमनुमतः | न तावता कुलाचारेऽपि निषेधः सम्भवति | कलियुगसम्बन्धिसौत्रामणिग्रहत्वं सुरानिषेधोद्देश्यताऽवच्छेदकं तदनाक्रान्तत्वात् कुलाचारस्य कैमुतिकन्यायप्रवेशे अतिप्रसङ्गात् | तस्मात् परोक्तानां ब्राह्मणविषये बाधकानां गन्धस्याप्यभावेन साधकसहस्रस्य दर्शितत्वेन तन्त्रप्रामाण्यमङ्गीकुर्वतः ब्राह्मणादिकर्तृकपूजायां प्रथमादरः शास्त्रप्राप्तः | स तु ब्राह्मणाऽपि त्यक्तुमशक्यः | इत्थं च- विना द्रव्याधिवासेन न स्मरेन्न जपेत् प्रिये | ये स्मरन्ति महादेवि तेषां दुःखं पदे पदे || नासवेन विना मन्त्रं न मन्त्रेण विनाऽसवम् || प्. १३०) इति कुलार्णवे विनाऽलिपिशिताभ्यां च पूजनं निष्फलं भवेत् | इति समयाचारे विना हेतुकमास्वाद्य क्षोभयुक्तो महेश्वरि | न पूजां न जपं कुर्यान्न ध्यानं न च चिन्तनम् || इति भावचूडामणौ विनाऽलिपिशिताभ्यां च यः कुर्यात् पूजनं मम | दुःखं सन्धाकरो भूत्वा योगिनीनां पशुर्भवेत् || इति कालिकापुराणे यः कुर्यादादिमद्रव्यविहीनं तव पूजनम् | तव क्रोधेन दग्धः सन् भस्मीभवति नान्यथा || इति समयाङ्कमातृकायां स्थितम्-ईदृशानि वचनान्यनुगृहीतानि भवन्ति | एवं च ब्राह्मणेतरपरमित्यन्तमशुद्धमिति अकृत्रिमया स्वमत्या विचार्यमाणे प्रतिभाति | इतोऽधिकं निर्मत्सराः पण्डिताः विचारयन्तु | इमां विज्ञाय सुधिया मदन्ति इति त्रिपुरोपनिषत्सप्तममन्त्रभाष्येऽप्येवमेव स्थितम् ||
SK
यत्तु सौभाग्यानन्दसन्दोहे अस्मद्व्यवस्थापितार्थमेव प्रतिज्ञाय वैदिकमन्त्रैरभिमन्त्रणस्य विहितत्वात् शूद्रपूजापरत्वे तत्र तस्यानवकाशाद्विधेरनवकाशापत्तिहेतुना ब्राह्मणाधिकारः साधितः स तु अतिशिथिलः | वर्षासु रथकार आदधीत इत्यत्र रूढिशक्त्या योगं बाधित्वा सङ्करजातेराधानाधिकारसिद्धौ तदनन्तरं तदुपयुक्तवेदाध्ययनमपि कल्प्यत इति षाष्ठन्यायेन शूद्रस्य युक्त्या अधिकारसिद्धौ वेदमन्त्रपाठे यावदुपयुक्ते अधिकारस्यानिवार्यत्वेन अनेन हेतुना स्वेप्सितासिद्धेः || एतावत्पर्यन्तं ब्राह्मणे अधिकारव्यवस्था कृता | व्यवस्थितोऽप्ययमधिकारो न सर्वस्य किं जितेन्द्रियस्य कामादिरहितस्यैव | अत एव परमानन्दतन्त्रे- अयं तु परमः कौलमार्गः सम्यङ्महेश्वरि | असिधाराव्रतसमो मनोनिग्रहहेतुकः || स्थिरचित्तस्य सुलभः सफलस्तूर्णसिद्धिदः | अन्यस्य विफलो दुःखहेतुः स्यात् परमेश्वरि || इति || प्. १३१) त्रिपुरार्णवेऽपि- अयं सर्वोत्तमो धर्मः शिवोक्तः सुखसिद्धिदः | जितेन्द्रियस्य सुलभो नान्यस्यानन्तजन्मभिः || यदूर्ध्वरेतसां सर्वत्यागिनामनिकेतिनाम् | क्षणेन स्मृतमात्रेण मोहमुत्पादयत्यलम् || तदेवात्र हि संसिद्धौ कारणं सर्वमीरितम् | इतो मद्यमितो मांसं भक्ष्यमुच्चावचं तथा || तरुण्यश्चारुवेषाढ्या मदघुर्णितलोचनाः | तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् || भक्तिश्रद्धाविहीनस्य कथं स्यादेतदीश्वरि || इति || भावचूडामणौ- तन्त्राणामतिगूढत्वात्तद्भावोऽप्यतिगोपितः | ब्राह्मणो वेदशास्त्रार्थतत्त्वज्ञो बुद्धिमान् वशी || गूढतन्त्रार्थभावस्य निर्मन्थ्योद्धरणक्षमः | कौलमार्गेऽधिकारी स्यादितरो दुःखभाक् भवेत् || इति || कुलार्णवे- अहोभुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि | तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः || जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः || इति ||
SK
भगवता परशुरामेणापि कौलाचारे मुख्यधर्मत्वेन कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविरुद्धलोकविद्विष्ट- वर्जनम्᳚ [इदं श्रीभगवदुक्तं सूत्रं पाश्चात्यैकखण्डे ३३ पत्रे-१९- संख्याकम् |] इति प्रतिपादितम् | तेन यथा आज्यावेक्षणाद्यङ्गानुसारेण चक्षुष्मत एव दर्शपूर्णमासयोरधिकारः नान्धानां तथा कामक्रोधादिवर्जनाद्यङ्गानुसारेण जितेन्द्रियस्यैव अधिकारो नान्यस्येति सूत्रकृदभिप्रायः | एवमन्येष्वपि तन्त्रेषु बहूनि वचनान्युपलभ्यन्ते | तानि अनतिप्रयोजनत्वात् ग्रन्थविस्तरभयाच्च न लिखितानि || सम्प्रति इदानींतना अजितेन्द्रियाः चपलजिह्वाः शिश्नोदरपरायणाः रामान्धतया आरोपितकौलिकताकाः केवलद्रव्यमात्रलोलुपाः लिखितवचनान्यनादृत्य स्वाधिकारमविचार्यैव स्वाभिप्रायसाधनानि पीत्वा पीत्वा पुनः पीत्वा इति आगलान्तं पिबेत् द्रव्यम् इत्यादिकुलार्णववचनान्येव पुरस्कृत्य तदभिप्रायमजानन्तो जानन्तो वा धूर्ताः सन्तः यथेच्छाऽचारं प्. १३२) कुर्वन्ति | इहामुत्र न कुत्रापि शर्म लभन्ते | प्रत्युत महापातकजनितयातनां श्रीधर्मराजशासनात् लभन्त एव | नात्र सन्देहः | तादृशाः पतिताः तन्त्रगोष्ठीषु न स्मर्तव्याः | अत एवैतादृशकौलिकानामुपहासोऽपि विस्तरेण कृतः प्रबोधचन्द्रोदये | तस्मात् जितेन्द्रियाणां भक्तिश्रद्धावतां विदुषाम् आरम्भे प्रतिपादितभक्तिभूमिकामारूढानामेव अत्राधिकारः अन्येषां पतनायैव इत्यलं विस्तरेण | उक्ताधिकारिभिन्नानां विष्ण्वाद्युपासनं केवलवैदिकमार्गेणेति तत्त्वम् || दक्षिणवामाचारविवेकः अजितेन्द्रियैः कुलमार्गं प्रविश्य केवलोदकादिना पूजा कार्या | अयं दक्षिणो मार्गः | जितेन्द्रियैः प्रोक्तद्रव्येण सपर्याऽनुष्ठेया | अयं वामाचार इति कश्चित् | तत्तुच्छम् वामाचारपदार्थस्यैव तेनाज्ञातत्वात् | तथा च त्रिकूटारहस्ये-
SK
वामाचारं प्रवक्ष्यामि श्रीविद्यासाधनं प्रिये | यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाक् भवेत् || माला नृदन्तसंभूता पात्रं मानुषमुण्डकम् | आसनं सिंहचर्मादि कङ्कणं स्त्रीकचोद्भवम् || इत्याद्युपक्रम्य विस्तरेण वर्णितम् | तन्मध्ये मुख्यद्रव्यनामापि नास्ति | तद्विस्तरस्तु सव्यापसव्यमार्गस्था इति ललितानामव्याख्यानावसरे अस्मत्परमेष्ठिगुरुभिः विस्तरेण प्रपञ्चितः | विशेषजिज्ञासुभिः ततोऽवगन्तव्यम् | तथा कालिकापुराणादपि | ग्रन्थविस्तरभयानेह तनोमि || अजितेन्द्रियस्य कौलमार्गे अनधिकारः यदपि परमानन्दतन्त्रटिप्पण्यां अजितेन्द्रियाणां गन्धोदकेन पूजनमुक्तम् तदसत् मुख्यालाभे चानुकल्पो नान्यथा तु कदाचन इति परमानन्दतन्त्रे विंशोल्लासवचनविरोधात् मुख्येऽनधिकृतस्य प्रतिनिधावधिकारस्य शशविषाणतुल्यत्वात् | तस्मादजितेन्द्रियाणाम् आपाततः उपासनेच्छायाम् अन्यमार्गेण अन्यदेवतोपासनं कृत्वा तेन परिपक्वान्तः करणं दृढं विदित्वा पश्चात् कौलमाश्रयेत् | तदुक्तं कुलसारे- अन्यासां देवतानां तु भूयो भूयो निषेवणात् | परिपक्वमनाः कौले लब्धप्रामाण्यको नरः | बाह्येन्द्रियाणि संयम्य प्रविशेदत्र नेतरः || इति || ब्रह्माण्डपुराणेऽपि- यस्यान्यदेवतानामकीर्तनं जन्मकोटीषु | तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने | प्. १३३) चरमे जन्मनि यथा श्रीविद्योपासको भवेत् | नामसाहस्रपाठश्च तथा चरमजन्मनि || इति || यामलेऽपि- श्रुतिस्मृतिप्रोक्तकर्मानुष्ठानाद्बहुजन्मसु | शोधितं च मनो ज्ञात्वा श्रीविद्योपासको भवेत् || इति || फेट्कारीतन्त्रेऽपि- सर्वथा गोपनीयेयं विद्या स्यादजितेन्द्रिये | तेन वीर्यवती विद्या न विद्या स्यात् प्रकाशतः || कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् | नेदृशानां प्रवक्तव्यं यदीच्छेत् प्रियमात्मनः [सिद्धि-श्री०] || इति || अजितेन्द्रिये प्रवचनमपि निषिध्यते | किमु वक्तव्यं स्वीकारे | तस्मादजितेन्द्रियस्य कौलमार्गे नास्त्यधिकार इत्यलमतिविस्तरेण || ३१ || एतदर्घ्यशोधनमिति शिवम् || ३१ ||
SK
|| इति... कल्पसूत्रे श्रीक्रमो नाम तृतीयः खण्डः || एतत् सामान्यार्घ्यशोधनोत्तरं तज्जलेन इति मण्डलादिकरणमुक्तम् तदारभ्य कुण्डलिन्यां जुहुयात् इत्यन्तं कर्म अर्घ्यशोधनम् अर्घ्यसंस्कारः | यद्यपि पूर्वोक्तसूत्रे कर्मकलापविधानादेव अर्घ्यसंस्कार इति ज्ञातुं शक्यते तथाऽपि शापविमोचनादिकतिपयसंस्कारः [संस्कारान् इति पाठ उचितः प्रतिभाति | || सूत्रस्य पुनरावृत्तौ शोध्यं सूचयितव्यकम् || || परिशिष्ट स्थलं चैव पूर्णमाद्या प्रासादतः || (इति तृतीयः खण्डः-) श्रीः- ||] पात्रान्तराणि च भ्रान्त्या केचन स्वीकुर्युः तन्माभूत इत्येतदर्थं परशुरामः परमकारुणिकः भ्रान्तिनिरासाय इदं सूत्रं प्रणिनाय | एतत् उक्तं यत् तावदेव शोधनं नान्यदित्यर्थः | शिव मित्यनेन अर्घ्यप्रकरणसमाप्तिः सूचिता || विशेषार्घ्यशोधने निबन्धे मण्डलपूजायां विद्यया मध्यपूजनं सूत्रे उक्तं तत्त्यक्तम् | अनुक्तं तुरीयस्वरलेखनं ह्रीं महालक्ष्मीश्वरीति मन्त्रं सुधादेवीपूजनादि गालिन्या पुष्पं दत्त्वेत्यन्तम् अनुक्तं संगृहीतम् | अत्र प्रमाणाभावात् केवलतद्बुद्ध्या रचितमसङ्ग्राह्यम् || ३१ || इति ... कल्पसूत्रवृत्तौ श्रीक्रमो नाम तृतीयः खण्डः || चतुर्थः खण्डः-ललिताक्रमः श्रीचक्रे परचित्यावाहनम् हृदि स्थिताया देवतायाः श्रीचक्रे आवाहनप्रकारं दर्शयितुमुपक्रमते- अथ हृच्चक्रस्थितामन्तस्सुषुम्णापद्माटवीनिर्भेदनकुशलां निरस्त मोहतिमिरां शिवदीपदीप्तिमाद्यां संविदं वहन्नासापुटेन निर्गमय्य लीलाऽकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे [एतद् त्रिखण्डामुद्रोद्धारः द्वि. प. शि. १५/८-११ विषये दृश्यः |] कुसुमाञ्जलौ हस्ते समानीय || १ ||
SK
अथेति क्रमविशेषद्योतकम् अथ जिह्वाया अथ वक्षसः इतिवत् | यद्वा- पूर्वप्रकरणविच्छेदद्योतकम् | हृच्चक्रम् अनाहतं तदेव दह्रमित्यपि व्यवह्रियते | तत्र स्थितां | शास्त्रे देवतानिवासस्थानं तदेव प्रसिद्धम् | तथा च श्रुतिः- तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् इति | स्कान्दपुराणेऽपि हृत्पुण्डरीकान्तरसन्निविष्टम् इति | अतो देवताया निवासस्थानं हृच्चक्रम् | तत्र स्थिताया बाह्योपचारपूजनं न सम्भवति | अतः तत्र स्थानाद्बहिरानयनार्थं सार्वकालिकं स्थानं ज्ञापयितुमिदं विशेषणं ज्ञेयम् | सुषुम्णाऽपि मूलाधारादिब्रह्मरन्ध्रस्थसरोरुहान्तानां कमलानां गुम्फनाधारभूतदण्डाकृतिरेको नाडीविशेषः | तदुक्तं विष्णुपुराणे- मूलादिदेहचक्राणामाधाराऽसौ प्रकीर्तिता | या सुषुम्णेति सर्वत्र गीयते परमर्षिभिः || इति | तस्यां यानि पद्मानि विशुद्ध्यादीनि तेषां अटवी दुर्गमं वर्त्म तस्य निर्भेदनं गमनागमनानुकूलवर्त्मसंपादनं तद्विषये कुशलाम् | अनेन विशेषणेन हृदयात् श्रीचक्रादौ आगमने पूजाऽनन्तरं पुनर्गमने प्रयासाभावः सूचितः | निरस्तेति निरस्तः दूरीकुतः मोहोऽज्ञानं तदेव तिमिरं यया ताम् | एतद्विशेषणार्थं दृढीकर्तुं विशेषणान्तरमाह- शिवेति | शिवात्मको यो दीपः तस्य दीप्तिं प्रकाशरूपाम् | एतेन प्रकाशरूपत्वकथनेन पूर्वविशेषणेन प्रतिपादितं अज्ञानतिमिरनाशनं सूपपादमिति ध्वनितम् | किं च यथा दीपप्रभयोरविनाभावसम्बन्धः एवं शिवशक्त्योरप्यविनाभावः सूचितः | अयमेवार्थः स्पष्टमुक्तो ब्रह्माण्डपुराणे- त्रिकोणरूपिणी शक्तिः बिन्दुरूपः परः शिवः | अविनाभावसम्बन्धः तस्माद्बिन्दुत्रिकोणयोः || इति || प्. १३५) श्रीदेवीभागवतेऽपि- यस्मिन् धर्मिणि यो धर्मोऽविनाभूतश्च तिष्ठति | स धर्मी शिवरूपः स्याद्धर्मश्शक्तिस्वरूपधृक् || इति ||
SK
अनयोर्वस्तुनोरौपाधिको भेदो न वास्तव इति तत्त्वनिरूपणे प्रपञ्चितं प्रागेव [प्रागेव नाम-अनुगते ३ खण्डे-९२ पत्रे-श्रीक्रमे-९ सूत्रभाष्ये- इत्यर्थः |] | आद्यां संविदं अपरिच्छिन्नसंविदं वहन् नासापुटेन येन नासापुटेन अप्रयत्नेन श्वासो निर्गच्छति तेन मार्गेण निर्गमय्य यथा निर्गमनं भवेत् तदनुकूलव्यापारं कुर्यात् | अत्र तादृशो व्यापारः हृदयस्थानात् उक्तमार्गेण निर्गमनभावनमेव | तदनन्तरव्यापारं विधत्ते लीलेति | लीलया स्वेच्छामात्रेण आकलितं स्वीकृतं वपुः ध्यानश्लोकोक्तं यया | एतेन इतरशरीरवत् गर्भवासेन विना भक्तानुग्रहाय स्वीकृतमनोहरवपुष्ट्वं सूचितम् | उक्तं च गीतायाम्- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदाऽत्मानं सृजाम्यहम् || इति [श्री भ गी. अ. ४ श्लोकः-७ |] || मार्कण्डेयपुराणेऽपि- एवं यदा यदा बाधा दानवोत्था भविष्यति | तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् || इति [श्री सप्तशती-अ. १२ अन्तिमः श्लोकः |] || ताम् अङ्गीकृतवपुषं त्रिखण्डमुद्रा [इयं त्रिखण्डा मुद्रा द्दि. प. शि. १५/८-११ विषये दृश्या |] त्रिखण्डा त्रीन् जन्ममृत्युजराः यद्वा सत्त्वरजस्तमोगुणान् खण्डयतीति त्रिखण्डा केवलमोक्षप्रदेत्यर्थः | यद्वा त्रीणि खण्डानि कलाः इच्छाज्ञानक्रियाऽत्मिकाः तत्स्वरूपा त्रिखण्डा | तदुक्तं योगिनीतन्त्रे- मुद्राऽख्या सा यदा संविदम्बिका त्रिकलामयी | त्रिखण्डा रूपमापन्ना सदा सन्निधिकारिणी | सर्वस्य चक्रराजस्य व्यापिका परिकीर्तिता || इति || मुद्राशद्बार्थश्च विश्वस्य मोदनात् द्रावणाच्च मुद्रा | तदुक्तं योगिनीतन्त्रे- चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा | करोति स्वेच्छया पूर्णविचिकीर्षासमन्विता || क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा || मुद्रेति कथिता देवी..................... || इति || प्. १३६)
SK
अस्यार्थः यदा चिच्छक्तिः स्वात्माभिन्नायां भित्तौ स्वेच्छया ईक्षणानन्तरं विकारान् पूर्णानिच्छन्ती प्रकाशामर्शने करोति | अयं भावः जगतः षड्भावविकाराः अस्ति जायते वर्धते विपरिणमते अपक्षीयते नश्यति इति | तेषु द्वितीयो विकारः प्रकाशः स्फुटीभाव इति तल्लक्षणात् | तृतीयो विकारः आमर्शनम् इदं तया हृदयङ्गमीभाव इति तल्लक्षणात् | इत्थं च त्रिपुरसुन्दर्याः स्वान्तस्स्थितसृष्टिसत्तापर्यालोचनोत्तरं विश्वस्य द्वितीयादिविकारविषयिणी इच्छोत्पद्यते | सेयं विचिकीर्षा | ततो विश्वस्य उत्पत्त्यभिवृद्धिक्रमेण करोति | ते एवैते पूर्वोक्तप्रकाशविमर्शने ईदृशेच्छाकृतिविशिष्टचित् क्रियाशक्तिरित्युच्यते | इयं क्रियाशक्तिः त्रिपुरसुन्दर्या क्रियमाणोत्पत्त्यभिवृद्धी अनुमोदते द्रावयति चेति मुद्रा सा | अनुमोदनं नाम स्वभिन्नकर्तृकक्रियानुकूल्यम् | द्रावणं नाम घनस्य सङ्कुचितस्य प्रशिथिलावयवताऽपादनात्मकः प्रसरः | ईदृशक्रियाशक्तिरेव स्ववृत्तिमुद्रात्वसामानाधिकरण्येन ईक्षणादेर्मेलनेन त्रिकलामयी त्रिखण्डा भवति इति परमरहस्यार्थः | अतः सर्वश्रेष्ठेयं व्यापिका मुद्रेति तस्या आवाहने विनियोगः कृतः | एतादृशी या मुद्रा तस्या अदृष्टस्वरूपं प्रतिपादितम् | दृष्टस्वरूपं तु अङ्गुलीप्रग्रथनरूपं नानाविधं तन्त्रभेदेन दृश्यते | अस्मिन् न दृश्यते | अतो गुरुसम्प्रदायावगतं तन्त्रार्थं चैकीकृत्याग्रे स्पष्टीक्रीयते | ईदृशं यत् त्रिखण्डात्मकं बाह्यरूपं तेन शिखण्डितः ग्रथितः कुसुमयुक्तः अञ्जलिः यस्मिन् तस्मिन् हस्ते समानीय गृहीत्वा || १ || मायालक्ष्मी परा उच्चार्य देवीनाम चामृतचैतन्यमूर्तिं कल्पयामि नमः इति कल्पयित्वा || २ ||
SK
माया ह्रीं श्रीं इति लक्ष्मीशब्दार्थः परा सौः | एतद्विषये प्रमाणानि पूर्वमेव दर्शितानि | एवं बीजत्रयमुच्चार्य देवीनाम शक्तिचक्रैकनायिकायाः ललितायाः इति षष्ठ्यन्तं योग्यत्वात् | ततो नमोऽन्तमविकृतं पठेत् | एवं च आदौ साधारणपरिभाषाप्राप्ता त्रितारी ऐं ह्रीं श्रीं ह्रीं श्रीं सौः शक्तिचक्रैकनायिकायाः अमृतचैतन्यमूर्तिं कल्पयामि नमः इति त्रयस्त्रिंशद्वर्णो मन्तः | अनेन परदेवताया मूर्तिं कल्पयित्वा भावयित्वा || अत्र पूर्वसूत्रे लीलाऽकलितवपुषः हस्ते आगतायाः पुनर्मूर्तिकल्पने वैय्यर्थ्यादतः प्रबलेनार्थक्रमेण पाठक्रमबाधः | तथा चायं क्रमः प्रथमं केवलचितोमूर्तिकल्पनमनेन मन्त्रेण ततो मूर्तेः कल्पितायाः नासापुटमार्गेण निर्गमनं ततो हस्ते कुसुमगर्भेऽञ्जलौ समानयनमितिविवेकः || २ || हसरयुजं वाचं हसयुक्तां कलरीं हसरचतुर्दशषोडशानप्युच्चार्य महापद्मवनान्तःस्थे कारणानन्दविग्रहे | सर्वभूतहिते मातरेह्येहि परमेश्वरि || इति बैन्दवचक्रे परचितिमावाह्य || ३ || प्. १३७) पूर्वं न्यासप्रकरणे उक्तेन समुदायग्रहण इति न्यायेन हसेत्यादिषु केवलव्यञ्जनमात्रग्रहणं सम्प्रदायात् | हश्च सश्च रश्च तैर्युतं वाचं ह्स्रैं इति | हश्च सश्च आभ्यां युक्तोऽयं ककारलकाररेफेकारबिन्दुसमुदायः ह्स्क्ल्रीं इति | तथा हश्च सश्च रश्च चतुर्दश औकारः सः च षोडशो विसर्गः सः च हसरचतुर्दशषोडशाः ह्स्रौः इति एतानुच्चार्य परमेश्वरीत्यन्तं यथाश्रुतं पठित्वा बिन्दुचक्रे परचितिमावाहयेत् | मन्त्रस्वरूपं तु प्रथमं त्रितारी हस्रैं ह्स्क्ल्रीं ह्स्रौः- महापद्मवनान्तःस्थे कारणानन्दविग्रहे | सर्वभूतहिते मातरेह्येहि परमेश्वरि || इत्यष्टत्रिंशद्वर्णो मन्त्रः | महापद्मवनस्य योऽन्तः प्रदेशः तत्रस्थे | महापद्मस्वरूपमुक्तं ब्रह्माण्डपुराणे- पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु | समे सुरत्नखचिते तत्र षड्योजनान्तरे | परितः स्थलपद्मानि महाकाण्डानि सन्ति वै ||
SK
सेतुबन्धे तु महापद्मवनं सहस्रदलकमलसमुदायः इत्युक्तम् | कारणानन्दः अपरिच्छिन्नानन्दः स एव विग्रहो यस्याः | यद्वा कारणं प्रथमं तस्मिन् जातः कारणः तत्र जातः इत्यण् | स चासावानन्दश्चेति | शेषं पूर्ववत् | शेषं स्पष्टम् | यद्वा चैतन्यमहसो बहिर्निस्सारणं कृत्वा मन्त्रेण परिच्छिन्नां मूर्तिं कल्पयित्वा हस्ते समानीय मन्त्रेण पीठनिवेशनान्तम् आवाहनपदार्थः अवदानादिप्रदानान्तस्येव बह्वीनां क्रियाणाम् एकपदार्थत्वे बाधकाभावात् | तेन यत्र दीक्षाऽदौ नानादेवतानां तन्त्रेण पूजनं तत्र समुदायस्यैकपदार्थत्वात् काण्डानुसमयः तावतां सिद्धः | एतादृशावाहनैकदेशपीठनिवशने साधनीभूतोऽयं मन्त्रः || निबन्धकारस्तु ज्ञानार्णवोक्तं अन्तर्यागक्रमं आवाहनादिमुद्राश्च दर्शयामास | तदनादरणीयं प्रमाणाभावात् || ३ || चतुषष्ठयुपचारविधिः चतुष्षष्ठ्युपचारान् कुर्यात् | सर्वे उपचारमन्त्राः त्रितारीपूर्वाः कल्पयामि नमः इत्यन्ताः कर्तव्याः || ४ || चतुष्षष्टीत्यनेन एतत्तन्त्रानुयायिनां तन्त्रान्तरोक्तषोडशाद्यन्यतमपूजाव्यावृत्तिः || ननु किमयं परिसङ्ख्याविधिः उत नियमविधिः उत अपूर्वविधिः नाद्यः केनापि प्रमाणेन नित्यमप्राप्तेः | पक्षेऽपि प्राप्त्यभावेन न द्वितीयः | तर्हि तृतीयः स्यादिति चेदिष्टापत्तिः | तथाऽपि सर्वांशे नापूर्वविधिः उपचारांशे अपूर्वः चतुष्षष्ट्यंशे नियमः | उपचारविधौ उपचाराणामनन्तत्वेन तत्र नानासङ्ख्याप्राप्तौ चतुष्षष्ठिसङ्ख्याया अपि पक्षे प्राप्तत्वात् | न च- प्. १३८)
SK
एवमेकस्मिन्नियमापूर्वस्वीकारे विधिसाङ्कर्यम् इति वाच्यम् इष्टापत्तेः यदाग्नेयोऽष्टाकपाल इति वाक्ये अग्निपुरोडाशयोः पक्षे प्राप्तौ तदंशे नियमः यागांशे अपूर्व इति दृष्टत्वात् | न च चतुष्षष्ठ्युपचारान् विधाय इत्यग्रिमसूत्रेण [पुरस्तादेवागामि-५-सूत्रोक्तवाक्येन |] परिसङ्ख्याविधिः अनेनोपचारविधिः इति वाच्यम् तथा सति अस्मिन् सूत्रे चतुष्षष्ठिपदवैय्यर्थ्यात् | न च एवं सति चतुष्षष्ठीत्यग्रिमवाक्यं व्यर्थम् इति शङ्कनीयम् चतुष्षष्ठ्युपचाराननूद्य क्रमविशेषविधानात् | सर्वथा नोपचारस्य सङ्ख्याया विधायकं तत् | कुर्यादिति स्पष्टविध्यन्तम् इदमेव सङ्ख्याविशिष्टोपचारविधायकम् || यद्वा पाठेनैव क्रमसिद्धौ अग्रिमेण चतुष्षष्ठ्युपचारान् विधाय इत्यनेन क्रमविधानासम्भवात् विहितानामेव इति चतुष्षठ्युपचारन् विधाय इत्यनुवादकम् उपसंहाररूपम् | अस्य फलं तु तन्त्रान्तरे चतुष्षष्ठ्युपचारानन्तर्भूताः उक्तादन्ये केचन सन्ति तैरर्चनं माभूत् किं तु प्रतिनिधिं कल्पयित्वा मन्त्रे श्रुतद्रव्यनाम्नैवार्पणमेतदर्थम् | इत्थं चोक्तोपचारादधिकैः सम्भवे सति पूजनं कर्तव्यम् | अत एव त्रिपुरार्णवे- उक्तोपचारादधिकैः सम्भवे सति पूजयेत् || इति वचनं उक्तन्यायगर्भमेव | नियमविधेरयोगव्यवच्छेदे तात्पर्यम् नत्वन्ययोगव्यवच्छेदे | तेन चतुष्षष्ठ्युपचारमध्ये एकस्याप्ययोगो मा भवत्वित्यत्रैव तात्पर्यम् न त्वधिकव्यवच्छेदे | तस्मात् इतोऽधिकानां शिबिकागजाश्वनृत्यादीनां यावतां सम्भवः तावत्कल्पनं सूत्राविरुद्धं मन्तव्यम् || अत्र उपचारपदार्थश्च कल्प्यमानद्रव्यजनितः सुखविशेषः तं कुर्यात् उत्पादयेत् इत्यर्थः ||
SK
न च नित्यतृप्तायां देवतायां कल्प्यमानद्रव्येण कीदृशी सुखोत्पत्तिः इति वाच्यम् | नित्यतृप्ते सुखोत्पत्तिः न भवतीति सत्यं तथाऽपि परिच्छिन्नशरीरकल्पनवत्तच्छरीरे सुखकल्पनेन स्वात्मन्यदृष्टोत्पत्तिरेव न तु कल्पितेन परदेवतायाः सुखोत्पत्तिः | अत एवोक्तं शिवमहिम्ने [अत्र महिमनि- इति-पाठः-सम्भाव्यताम् |] न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति इति | अत एवोपचारमन्त्रे कल्ययामीत्येव क्रियापदं योजितम् | शेषं सुस्पष्टम् || ४ || त्रितारीमुच्चार्य पाद्यं कल्पयामि नमः इति क्रमेण आभरणावरोपणं सुगन्धितैलाभ्यङ्गं सज्जनशालाप्रवेशनं मज्जनमण्डपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनम् उष्णोदकस्नानम् कनककलशच्युतसकलतीर्थाभिषेकं प्. १३९)
SK
धौतवस्त्रपरिमार्जनम् अरुणदुकूलपरिधानम् अरुणकुचोत्तरीयमालेपमण्डपप्रवेशनमालेपमण्डपमणिपीठोप- वेशनं [दुकूलकु-श्री.] चन्दनागरुकुङ्कुम [शिलारसमृग-श्री.] सङ्कुमृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपं मल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुड्मली पुन्नागकल्हारमुख्यसर्वर्तुकुसुममालां भूषणमण्डपप्रवेशनं भूषणमण्डपमणिपीठोपवेशनं नवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नं कालाञ्जनं पालीयुगलं [वाली-श्री.] मणिकुण्डलयुगलं नासाभरणम् अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकं मुक्तावलिम् एकावलिं छन्नवीरं केयूरयुगलचतुष्टयं वलयावलिम् ऊर्मिकावलिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणं पादकटकं रत्ननूपुरं पादाङ्गुलीयकम् एककरे पाशम् अन्यकरे अङ्कुशम् इतरकरे पुण्ड्रेक्षुचापम् अपरकरे पुष्पबाणान् श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिः सह महाचक्राधिरोहणं कामेश्वराङ्कपर्यङ्कोपवेशनम् अमृतासवचषकम् आचमनीयं कर्पूरवीटिकाम् आनन्दोल्लासविलासहासं मङ्गलारार्तिकं छत्रं चामरयुगलं दर्पणं तालवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नमः इति चतुष्षष्ठ्युपचारान् विधाय || ५ || अत्र सामान्यपरिभाषयैव त्रितारीसिद्धौ पुनर्विधानं दीपनाथमन्त्रवत् तदवयवत्वं ज्ञापयति | शेषं स्पष्टम् | मन्त्रस्य स्वरूपं तु ऐं ह्रीं श्रीं पाद्यं कल्पयामि नमः इति | न ललिताया इति | नामप्रवेशः मानाभावात् ||
SK
निबन्धकारस्तु न्यायानभिज्ञः स्वेच्छाचारी च तस्मात् नामप्रवेशं स्वेच्छया चक्रे | न च सम्प्रदानकारकस्याकाङ्क्षितत्वात् तद्वाचकपदाभावात् अबोधकत्वं स्यात् इति वाच्यम् अध्याहारेणाकाङ्क्षाशान्तेः अध्याहृतस्य पदस्य मन्त्रावयवत्वेन न्यायविद्भिरनङ्गीकारात् अन्यथा इषे त्वा छिनद्मि ऊर्जे त्वा उन्मार्ज्मि इति प्रयोगकाले पाठापत्तेः | अतो यावच्छ्रुतो मन्त्रः | यदि नाममन्त्रत्वं मत्वा नामप्रवेशः तर्हि नाममन्त्रस्य नमोऽन्तत्वं चतुर्थ्यन्तत्वं लक्षणम् | अत्र द्वितीयाऽन्तकल्पयामिभ्यां मध्ये व्यवधानान्न सम्भवतीति तत्त्वम् | किं च सर्वत्रोपचारमन्त्राणां कल्पयामि नमः इत्यनेनैव निर्वाहे त्रितारीमुच्चार्येति सूत्रं व्यर्थं प्. १४०) सत् मन्त्रस्वरूपं प्रतिपादयति | यावदुक्तं पठनीयम् | उत्पत्तिवाक्ये ललितापदप्रयोगादिति निर्मूलललितापदप्रवेशे हेतुर्वक्तव्यः | तमजानन् केवलकाव्यपाठी निबन्धकारः सूत्रकारेण ललितापदस्य भूरिप्रयोगादिति हेतुविलेखनेन स्वीयमपाण्डित्यं प्रकाशितवान् ||
SK
क्रमेणेत्यनेन पाद्यमिति प्रातिपदिकस्थाने आभरणावरोपणादिपदोच्चारणं ज्ञापयति | स्नानीयोद्वर्तनं शरीरलग्नस्नेहवियोगसाधनं सुगन्धिचूर्णविशेषः | अत्र द्वितीयान्तानि सर्वाणि तत्तद्वस्तुजन्यसुखविशेषपराणि | कुचोत्तरीयं कञ्चुकम् | आलेपः सुगन्धिद्रव्यशरीरसंयोगः तज्जनको मण्डपः स्थानविशेषः | कङ्कुमं काश्मीरम् | सङ्कुः वृक्षविशेषः | तदुक्तं विश्वकोशे शङ्कुः कीले गरे शस्त्रे सङ्ख्यापादपभेदयोः इति सकारशकारयोर्नातिभेदात् एकदेशविकृतमनन्यवत् इति न्यायेन वृक्षविशेषः सुगन्धिः | मृगमदः कस्तूर्यवान्तरभेदः | यद्वा ओतुविशेषावयवो मृगमदः महाराष्ट्रभाषया जव्वाजि इति प्रसिद्धः | कस्तूरी मृगनाभिः | आदिपदेन अन्यानि लोकप्रसिद्धानि सुगन्धिद्रव्याणि | सर्वाङ्गीणं सर्वाङ्गसम्बन्धि | सर्वाङ्गशद्बात् सम्बन्धार्थे खप्रत्यये सर्वाङ्गीणम् इति रूपं सिध्यति | तादृशं यत् विलेपनम् | अगरुः प्रसिद्धः | तन्मध्ये अत्युन्नतः कालागरुः | मल्लिका मालतीत्यादिना षडृतुसमुद्भवकुसुमानि | सीमन्तः केशपाशमध्यसरणिः तस्मिन् सिन्दूरम् | तिलकस्थाने रत्नम् | कालाञ्जनम् अतिकृष्णाञ्जनं सौविराञ्जनं वा | पाली कर्णभूषणं महाराष्ट्रभाषया बाली इति प्रसिद्धम् | तस्याः युगलं युग्मम् | अधरे ओष्ठे यावकं लाक्षारसं रक्तत्वसंपादकम् | प्रथमभूषणं मङ्गलसूत्रम् | कनकचिन्ताकं आन्ध्रपुरध्रीभिः धृतो भूषणविशेषः कण्ठस्य आन्ध्रभाषया गोलकुत्तिकण्ठू इति प्रसिद्धः | पदकं कण्ठभूषणं महाराष्ट्रभाषया तन्मणि इति प्रसिद्धम् | महापदकं कण्ठभूषणविशेषः | महाराष्ट्रभाषया पेटया इति प्रसिद्धः | मुक्तावलिं महाराष्ट्रभाषया कण्ठा इति प्रसिद्धम् | एकावलिं सप्तविंशतिमौक्तिकरचिता माला नक्षत्रमाला इति प्रसिद्धा एकावल्येकयष्टिका सैव नक्षत्रमाला स्यात् इत्यमरः | छन्नवीरं उभयतो वैकक्ष्यदामात्मकं भूषणम् इति निबन्धे स्थितम् | केयूराणाम् अङ्गदानां युगलं युग्मं तस्य चतुष्टयम् एकैकबाहौ द्वयं द्वयम् |
SK
बलयाः कङ्कणानि तेषामावलिं पङ्क्तिम् | ऊर्मिका अङ्गुलिभूषणं तस्य आवलिम् | कटिभूषणान्याह काञ्चीति | सौभाग्याभरणम् अधरे जघनालम्बी भूषणविशेष इति निबन्धे स्थितम् | पादकटकरत्ननूपुरपादाङ्गुलीयोत्तरमेकवचनमविवक्षितम् तदर्थस्य बाधात् | आयुधान्याह एकेति | पुण्ड्रेक्षुः चित्रवर्णेक्षुः | पुष्पमयाः बाणाः पुष्पबाणाः तान् | आयुधक्रम उक्तो दक्षिणामूर्तिसंहितायाम्- दक्षिणाधः करे बाणान् वामाधस्तु शरासनम् | वामोर्ध्वे पाशमारक्तं दक्षोर्ध्वे तु सृणिं परम् || इति || प्. १४१) महाचक्रं श्रीचक्रम् | कामेश्वराङ्क एव पर्यङ्कः तत्रोपवेशनम् | अमृतरूपासवो मद्यं तद्युक्त चषकम् | आचमनीयं स्पष्टम् | कर्पूरवीटिका लक्षणमुक्तं तन्त्रान्तरे- एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः | जातीफलदलैः पूगैः लाङ्गल्यूषणनागरैः | चूर्णैः खदिरसारैश्च युक्ता कर्पूरवीटिका || इति || लाङ्गली नारिकेलम् | ऊषणा पिप्पली | नागरं शुण्ठी | खदिरसारं महाराष्ट्रभाषया कात् इति प्रसिद्धम् | आनन्दस्य उल्लासः उदयः तेन विलासः आविर्भावः यस्येदृशहासम् | लोकेऽपि आनन्दोदयज्ञापको हासः | अतो युक्तम् ईदृशं विशेषणम् | मङ्गलारार्तिलक्षणं परमानन्दतन्त्रे- तत आरार्तिकं कुर्यात्तद्विधानं शृणु प्रिये | लोहभिन्ने सुवर्णादिपात्रे सिन्दूररेणुभिः || नानाविधैर्वर्णकैश्चाप्यष्टपत्रं सकर्णिकम् [मनोहरं-श्री. सुवर्णकं - ब २.] | स्वस्तिकं वा प्रकल्प्याथ पिष्टजान् डमरुप्रभान् || घृतपक्वान्ननसप्तपञ्चत्रितयमेव वा | सवर्तिकं घृतैः पूर्णं क्रमाद्विन्यस्य पात्रके || प्रज्वाल्य मायया पश्चान्नवरत्नैश्च मन्त्रयेत् | चक्रमुद्रां प्रदर्श्याथ नवरत्नैश्च पूजयेत् || आमस्तकं तु तत्पात्रमुद्धरेत् स्वयमुत्थितः | समस्तचक्रचक्रेशि युते देवि नवात्मिके || आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये || इति घण्टां वादयन् वै देव्या आपादमस्तकम् || दक्षहस्तेन त्रिर्भ्राम्य पात्रं स्थाप्य नतिं चरेत् | एवमारार्तिकं कुर्यात्..................... || इति ||
SK
तालवृन्तं तालव्यजनम् | शेषं स्पष्टम् | चतुष्षष्ठ्युपचारमध्ये उक्तस्य अलाभे प्रतिनिधिद्रव्यनियम उक्तस्तन्त्रान्तरे- तत्तद्द्रव्येणोपचारानभावे कुसुमाक्षतैः | मनसा भावयन् कुर्यात्तेन पूजाफलं लभेत् || इति || प्. १४२) अक्षतपूजने विशेषो योगिनीतन्त्रे- श्वेताक्षतैर्न पूज्या स्यात् त्रिपुरा परमेश्वरी | काश्मीरैः कुङ्कुमैर्वाऽपि [वा हरिद्रैर्वा-श्री.] रक्तचन्दनपङ्ककैः [पङ्कजैः-श्री.] | रञ्जितान् शालिजान् शुद्धानखण्डानर्पयेत् बुधः || इति || इदं प्रतिनिधिकल्पनमपि गन्धपुष्पधूपदीपनैवद्यव्यतिरिक्तविषयमेव | तदुक्तं योगिनीतन्त्रे- उपचारानलाभे तु पुष्पाद्यैर्मनसा स्मरेत् | गन्धपुष्पधूपदीपनैवद्यान्यन्महेश्वरि | गन्धादिपञ्चकाभावे पूजा व्यर्थैव सर्वदा [सर्वधा-श्री ब २.] || इति || नवमुद्राप्रदर्शनम् नवमुद्राश्च प्रदर्श्य || ६ || नवमुद्राः संक्षोभिण्यादियोन्यन्ताः वक्ष्यमाणाः [एतद् ग्रन्थे तत्तत्पत्रे उक्ताशेषमुद्रोद्धारः द्दि० प- शि.-१५-३/८ विषये दृश्यः अथवा ५ खण्डे ललिताक्रमे १५ सूत्रभाष्ये दृश्यः |] | चकारेण दशमीं त्रिखण्डां च प्रदर्श्य | देव्या इति शेषः || ६ || त्रिधा संतर्पणम् मूलेन त्रिधा सन्तर्प्य || ७ || बिन्दाविति शेषः || केचित् तु विशेषार्घ्य एव तत्संस्काररूपं ततः किंचित् उद्धृत्य पात्रान्तरेण तत्रैव निक्षेपरूपं तर्पणं विधीयते इत्यूचुः | तन्न विशेषार्घ्यशोधनप्रकरणाभावेन तथात्वे प्रकृतहान्यप्रकृतकल्पनापत्तेः एतदर्घ्यसंशोधनमिति पूर्वसूत्रविरोधाच्च | न च बिन्दाविति कथं ज्ञातमिति शङ्कनीयम् मूलेनेति तुरीयकूटश्रवणेन [तृतीय-ब.] तज्झानसम्भवात् | परं तु इयान् विशेषः- एतदतिरिक्ते पूजयित्वेति अत्र सन्तर्प्येति श्रवणात् अत्र तर्पणं अन्यत्र पूजनम् | अनुष्ठाने विशेषस्तु अत्र बिन्दुमात्रप्रक्षेपः पूजनस्थले बिन्दुपुष्पाक्षतोभयप्रक्षेपः | किं च प्. १४३)
SK
मूलेनेति तृतीयया इतरनैरपेक्ष्यश्रवणात् श्रीपादुकेत्याद्यष्टाक्षर्याः [अनुगते-८२-पत्रे-खण्डे-श्रीगणनायकपद्धतौ-८-मूलसूत्रे उक्तोयमष्ठाक्षरीमन्त्रः |] पूजायामेव योजनविधानात् श्वाहा होमे तर्पणे च तर्पयामीति चोच्चरेत् इति दक्षिणामूर्तिसंहितावचनेन मूलान्ते तर्पयामीत्येव योगः || ननु तन्त्रान्तरे एकक्रियायामेव द्वयोः पदयोः प्रयोगः पर्यायेण दृश्यते यथा क्षीरेण ब्राह्मणैस्तर्प्या इति द्रव्येण सात्विकेनैव ब्राह्मणः पूजयेच्छिवाम् इति क्वचित् अस्मिन्नेवार्थे यज्धातुरपि दृश्यते यथा- शुराघटसहस्रेण यक्ष्ये त्वां परमेश्वरि इति तथा च तर्पणपूजनयजनानि पर्यायाणीति [पर्यायाः इति साधुः पाठः |] चेत् न | नह्येकार्थे प्रयोगमात्रेण पर्यायता सिध्यति लक्षणयाऽप्यन्यस्मिन्नर्थे प्रयोगसम्भवात् | अन्यथा गङ्गारतीरपदयोरपि तथात्वापत्तेः | अत एव वायव्यं श्वेतमालभेत भूतिकामः इत्यत्र धातोः स्पर्शार्थकत्वेऽपि द्रव्यदेवतायोगस्य यागमन्तराऽनुपपत्तेः आलभतिधातोः यागे लक्षणा कल्पिता | तथा अनुपपत्त्यभावेन अग्निहोत्रे श्रूयमाणस्य वत्समालभेत इत्यत्र धातोः यथाश्रुतार्थत्वमेवाङ्गीकृतम् | प्रकृतेऽपि सन्तर्प्येत्यत्र वायव्यादिवाक्यवत् बाधकाभावात् वत्समालभेत इतिवत् यथा श्रुतार्थत्वमेव युक्तम् || ननु द्रव्यस्यात्राप्यनुक्तत्वात् तर्पणं पूजनं वा केन कार्यमिति चेत् उच्यते | विहिततर्पणादिकं साधनमपेक्षते | संस्कृतं विशेषार्घ्यं च कार्यमपेक्षते | एवं साकाङ्क्षयोस्तयोः नष्टाश्वदग्धरथन्यायेन विशेषार्घ्यं संस्कृत्य तेन देवतां यजेत् इति वाक्यैकवाक्यता कल्प्यते || न च एवं सति सामान्यार्घ्यस्याऽपि तुल्यत्वेन तस्यापि पूजासाधनत्वापत्तिः इति वाच्यम् तज्जलेन त्रिकोणेति विशेषार्घ्यमण्डलादौ श्रौतविनियोगेनास्य किं कार्यम् इत्याकाङ्क्षाविरहात् ||
SK
न च एवं तद्बिन्दुभिः त्रिशः गुरुपादुकामिष्ट्वा इति तृतीयया विशेषार्घ्यस्थापि विनियोगश्रवणात् उभयत्र तुल्यम् इति वाच्यम् एतदर्घ्यसंशोधनमिति [अनुगत-३-खण्डान्तिमेन ३२-सूत्रेणेत्यर्थः |] तदग्रिमसूत्रेण तावत्पर्यन्तं विशेषार्घ्यसंस्कारस्यैवोक्तत्वेन बिन्दुभिरित्यादेरपि संस्कारान्तःपातित्वात् किं च श्यामाक्रमे स्थितेन सर्वचक्रदेवताऽर्चनानि [इदं-६-खण्डे श्रीश्यामाक्रमस्थं-२२ सूत्रम् |] वामकराङ्गुष्ठानामिकासन्दष्टद्वीतीयशकलगृहीतश्रीपात्रप्रथम- बिन्दुसहपतितैः दक्षकराक्षतपुष्पक्षेपैः कुर्यादिति वचनेन द्रव्यलाभस्य निष्प्रत्यूहत्वात् || प्. १४४) न च तस्य श्यामाप्रकरणस्थत्वात् तत्रैव विश्रान्तिः इति वाच्यम् | श्यामाया ललितोपास्त्यङ्गत्वं पूर्वमेव व्यवस्थापितम् | अङ्गस्य प्रकरणं नास्तीति मीमांसकसिद्धान्तः | अतः प्रबलेन प्रकरणेन सन्निधिं बाधित्वा सर्वत्र विनियोगे बाधकाभावात् || न च तथाऽपि श्यामापदैरुभयतः संदंशात् प्रयाजाभिक्रमणन्यायेन अवान्तरप्रकरणं महाप्रकरणबाधकं भविष्यति इति वाच्यम् सर्वशब्दश्रुत्या सर्वप्रबलया अवान्तरप्रकरणबाधसम्भवात् || किं च अनारभ्य पठितेन सिद्धान्तग्रन्थस्थेन तदभिव्यञ्जकाः पञ्च मकाराः तैरर्चनम् इत्यनेन द्रव्यस्य प्राप्तत्वेन अनुपपत्तिगन्धाभावात् || एता एव युक्तयः गणपतिप्रकरणस्थे सर्वत्र देवतानामसु श्रीपूर्वं पादुकां पूजयामीत्यष्टाक्षरं योजयेत् इति वाक्ये [इदं वाक्यमनुगते-८१- पत्रे-२-खण्डे-गणनायकपद्धतौ ८-सूत्रेऽपि |] द्रष्टव्याः || त्रिधा त्रिवारं अत्र द्रव्यभेदात् मन्त्रावृत्तिर्ज्ञेया || ७ || षडङ्गपूजनम् षडङ्गपूजनमाह- देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा || ८ || अत्र पूजनं नाम पुष्पाक्षतबिन्दुप्रक्षेप [एतत्-अग्रे-६ खण्डे-श्यामामे- २२-सू-दृश्यम् |] एव न तु पञ्चोपचाराद्यर्पणरूपं श्यामाक्रमोक्तकल्पसूत्रानुरोधात् तथा शिष्टसम्प्रदायाच्च ||
SK
एवं सति अत्राधुनिकाः यत्र यत्रैतदुत्तरं पूजयित्वेति तत्र तत्र पूर्वसूत्रस्थं सन्तर्प्येत्यनुवर्त्योभयविधिः मूलदेवीस्थले तर्पणमात्रं बिन्दुद्रव्यदानं तर्पणं पुष्पाक्षतदानं पूजनं इत्थं च त्रितारीशिरोमन्त्रोत्तरं शिरश्शक्तिश्रीपादुकां पूजयामि शिरश्शक्तिश्रीपादुकां तर्पयामि इत्यनुतिष्ठन्ति | तदनुष्ठानं भ्रान्तिमूलम् तथा सति अर्धजरतीयन्यायात् | त्रितारीमारभ्य शिरोमन्त्रान्तं सकृदावृत्तिः शिरश्शक्तीत्यारभ्य द्विवारमिति कथनस्यातिहासास्पदत्वात् | किं च पूजयामीति मन्त्रेण पूजनं अग्रिममन्त्रेण तर्पणम् इति पूजनतर्पणयोः क्रमिकत्वं प्राप्तम् | तथा सति बिन्दुपुष्पाक्षतदानयोः एककालबोधकेन बिन्दुसहपतितैः पुष्पाक्षतैः कुर्यात् इति सूत्रेण विरुध्यते | अपि च वामकरसम्बन्धाभावप्रसङ्गश्च क्रमिकत्वेन द्वयोरपि दक्षहस्तेन कर्तुं शक्यत्वात् | प्. १४५) न च वामकराङ्गुष्ठानामिकासन्दष्टः इति सूत्रानुसारेण [इदं-६ खण्डे श्रीश्यामाक्रमे २२-सूत्रम् |] वामकरस्यावश्यकता इति वाच्यम् दक्षकरस्य पुष्पाक्षतप्रक्षेपव्यापृतत्वेन सहत्वान्यथाऽनुपपत्त्या प्राप्तवामकरस्य विधानासम्भवेनानुवादकत्वात् | अत एव बहिष्पवमानस्तोत्रार्थं प्रसर्पणावसरे छन्दोगानां सूत्रे सव्यैः पाणिभिस्तृणन्ति इत्यत्र भाष्ये दक्षहस्तस्य अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गाता इति वाक्येन अध्वर्य्वाद्यन्वारम्भे व्यापृतत्वात् अर्थप्राप्तः सव्यपाणिः अनूद्यते इत्युक्तम् || केचित्तु सन्तर्प्येत्यनुवर्त्य तर्पणपूजोभयं विधीयते अर्धजरतीयन्यायभीत्या त्रितार्युत्तरं हृन्मन्त्रान्ते हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः इति मन्त्रं पठन्ति | तदशुद्धम् अनुवृत्तौ प्रमाणाभावात् || किं च विधौ आदौ तर्पणं पश्चात् पूजा मन्त्रे विपरीतक्रम इति च विरुद्धम् ||
SK
तस्मात् पूर्ववाक्ये तर्पणं नाम बिन्दुप्रक्षेपमात्रम् | तस्य अनुवृत्तौ आकाङ्क्षाविरहात् पूजनमेव विधीयते | पूजापदार्थश्च बिन्दुपुष्पाक्षतसमुदायप्रक्षेपः | इत्थं च आदौ त्रितारी ततो हृन्मन्त्रः ततो हृदयशक्तिश्रीपादुकां पूजयामि इति मन्त्रस्वरूपं ज्ञेयम् | एवमेवाग्रेऽपि सर्वत्र ज्ञेयम् || अग्नीशेत्यत्र अग्न्यादिपदेन तत्तद्देवतासम्बन्धिदिशां ग्रहणम् | दिक्षु इत्यनेन प्रागादिदिक्चतुष्टयग्रहणम् | षडङ्गयुवतीनां अग्न्यादिचतस्रो विदिशः मध्यं प्रागादिदिक्चतुष्टयं मिलित्वैकं इति षट् स्थानानि ज्ञेयानि || अत्र केचित्- यः पश्येद्यत्र सूयं तु सा प्राची तस्य कथ्यते | उदये सूर्यद्रष्टुस्तु मेरुरुत्तरसंस्थितः || इति दिग्व्यवस्था [दिङ्मुखत्वव्यवस्थायां-द्दि. प-शि. वि. १३/१४-३ दृश्यः-||] श्रौतस्मार्तकर्मणि प्रसिद्धा तथैव श्रीविद्योपासनायामपि दिग्व्यवस्था इत्याहुः || अन्ये तु निरुक्तदिग्व्यवस्थाया वैदिके कर्मणि सावकाशत्वात् पूज्यपूजकयोर्मध्ये दिशं प्राचीं प्रकल्पयेत् इति तन्त्रवचनानुसारेण देव्यग्रभागः प्राची देवीपृष्ठभागः प्रतीची देव्या दक्षभागो दक्षिणा वामभाग उदीची दिगनुसारेण विदिशां कल्पनम् इत्यूचुः || प्. १४६) तदुभयमपि स्थूलमानत्वादुपेक्ष्यम् | वस्तुतस्तु ज्ञानार्णवे श्रीचक्रपूजनसन्निधौ- उत्तराशामुखो मन्त्री यदा चक्रं समुद्धरेत् | उत्तराशा तदा देवि पूर्वाशेति निगद्यते || ईशानकोणं देवेशि तदाऽग्रेयं न संशयः | पश्चिमाशामुखो मन्त्री यदा चक्रं समुद्धरेत् || पश्चिमाशा तदा ज्ञेया पूर्वाशेति न संशयः | वायुकोणं तदाऽग्नेयमैशानं राक्षसं भवेत् || दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् | पूर्वाशैव ह्युदीची स्यात् रक्षःकोणं तु वह्निदिक् || इति || उत्तरापश्चिमाशेत्यत्र लोकप्रसिद्धोत्तरां दिशमनूद्य पूर्वादिदिक्कार्यं विधीयते खलेवाली यूपो भवति इतिवत् | इत्थं च दिङ्मात्रानुवादेन दिक्कार्यविधानात् विदिङ्मुखश्चक्रं नोद्धरेत् इति सिद्धम् | प्राचीदिगनुवादेन विधेयाभावात् तत्त्यक्तम् | एवं कुलार्णवेऽपि-
SK
यदाशाऽभिमुखो मन्त्री त्रिपुरां परिपूजयेत् | देवीपश्चात्तदा प्राची प्रतीची त्रिपुरापुरः || इति निरवकाशवचनैः श्रीविद्याविषये उक्तरीत्या दिग्व्यवस्था | श्रीविद्याऽतिरिक्ते तान्त्रिके कर्मणि पूज्यपूजकयोर्मध्यं प्राची | निखिलश्रौतस्मार्तकर्मणि यः पश्येदित्यादिवचनप्रवेशः इति अलं भूयसा | देव्या इत्युक्त्या बिन्दुचक्र एवाग्नेयादिदिश उक्तशास्त्रेण प्रकल्प्य तत्र षडङ्गयुवतीः पूजयेत् इति सिद्धम् || ८ || नित्यापूजनम् [इत आरभ्य श्रीललिताम्बाया आवरणार्चनस्थलदेवतानित्यादिकं ४-खण्डसमाप्तिं-१०-सूत्रान्तं- यावद्दर्शयति |] अथ पञ्चदशनित्यामन्त्रोद्धारपूर्वकं नित्यापूजनमाह- वाक्सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः इति कामेश्वरी | सर्वत्र नित्याश्रीपादुकेति योज्यम् | वाग्भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् प्. १४७)
SK
भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं म्ॐ ब्लूं हें ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें ह्रीं भगमालिनी | तारो माया नित्यक्लिन्ने मदद्रवे स्वाहा इति नित्यक्लिन्ना | प्रणवः क्र्ॐ भ्र्ॐ क्रौं झ्रौं छ्रौं ज्रौं स्वाहा इति भेरुण्डा | प्रणवो माया वह्निवासिन्यै नमः इति वह्निवासिनी | मायाक्लिन्ने वाक् क्र्ॐ नित्यमदद्रवे ह्रीं इति महावज्रेश्वरी | माया शिवदूत्यै नमः इति शिवदूती | प्रणवो माया हुं खे च छे क्षः स्त्रीं हुं क्षें ह्रीं फट् इति त्वरिता | कुमारी कुलसुन्दरी | हसकलरडवाग्भवहसकलरडबिन्दुमालिनी हसकलरडचतुर्दशषोडशा इति नित्या | माया फ्रें स्रूं अङ्कुशपाशस्मरवाग्भवब्लूंपदनित्यमदद्रवे वर्म फ्रें मायेति नीलपताका | भमरय-ऊमिति विजया | स्वौमिति सर्वमङ्गला | तारो नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनि वर्मफडग्निजायेति ज्वालामालिनि | (अं) च्कौं इति चित्रेति पञ्चदश नित्याः प्रथमत्र्यस्ररेखास्थितपञ्चदशस्वरेषु पूज्याः | विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य || ९ ||
SK
वाक् ऐं | शेषं यथा पठितम् | मन्त्रान्ते सर्वत्र तत्तन्नित्यानाम तदुत्तरं अष्टाक्षरीयोगः | यथा आदौ त्रितारी ऐं सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः कामेश्वरीनित्याश्रीपादुकां पूजयामि नमः इति | एवमग्रेऽपि द्रष्टव्यम् | यद्यपि श्रीपादुकेत्यष्टाक्षरीयोगः सामान्यवचनप्राप्तः तथाऽपि नित्यापदघटितत्वेनाप्राप्तत्वात् तदर्थ आरम्भः सर्वत्र नित्यापूजनमन्त्रेषु | द्वितीयमाह वागिति | तृतीयमाह तार इति | तारः प्रणवः माया ह्रीं शेषं यथाश्रुतं पठनीयम् | आदौ प्रणवः ततो माया ततः स्वाहाऽन्तो यथाश्रुतः इति फलितोऽर्थः | चतुर्थमाह प्रणव इति स्वाहेत्यन्तेन | पञ्चमीमाह प्रणव इति नमः इत्यन्तेन | षष्ठमाह मायेति ह्रीमित्यन्तेन | सप्तममाह मायेति नमः इत्यन्तेन | अष्टममाह प्रणव इति फडित्यन्तेन | नवममाह कुमारीति | कुमारी बाला सैव कुलसुन्दरीत्यर्थः | दसममाह हसेति षोडशा इत्यन्तेन | अत्र पूर्वोक्तयुक्त्या हसकेत्यादौ केवलव्यञ्जनानामेव ग्रहणम् | अन्यथा द्वादशार्धा च नित्या स्यात् इति अन्यतन्त्रवचनेन द्वादशार्धा मन्त्रवर्णातिदेशे त्रिबीजस्था द्वादशार्धा इति मन्त्रे त्रिवर्णत्वसिद्धेः अत्रापि तदतिदेशसिद्धत्रिवर्णत्वं विरुध्येत | हसकलरडोत्तरं वाग्भवः ऐं पुनः तदुत्तरं बिन्दुयुक्ता मालिनी ईकारः प्. १४८) गोविन्दश्च त्रिमूर्तिशो मालिनीवामलोचनम् इति कोशात् | चतुर्दशषोडशौ पूर्वमुक्तौ | इत्थं च ह्स्क्ल्र्डैं ह्स्क्ल्र्डीः ह्स्क्ल्र्डौः नित्यानित्याश्री इति- मन्त्रस्वरूपम् || यच्च निबन्धे अवर्णसहितहकारादि लिखितं तदज्ञानप्रयुक्तमेव | तन्त्रान्तरानुसारेण यदि लिखितं तर्हि वशिन्यादिन्यासे कवर्गं कलह्रीं च निगद्य इति सूत्रे सति हल्मात्रग्रहणे तन्त्रान्तरमृते साधनं मृग्यम् | तस्मात् उक्तयुक्त्या त्र्यक्षर्येव नित्याविद्या ||
SK
एकादशमाह मायेत्यारभ्य मायेत्यन्तेन | आद्यानि त्रीणि बीजानि स्पष्टानि अङ्कुशः क्रोमिति पाशः आमिति आद्यन्तगो महापाश इति योगिनीतन्त्रात् | आदिरकारः तस्यान्तः अग्रिमो देशः तत्र स्थित आकार इति तदर्थः | एवं कामोऽग्निर्व्यापकोऽङ्कुशः इति तत्रैव | कामः ककारः अग्निः रेफः व्यापकः प्रणवः मिलित्वा क्रोमिति सम्पद्यते | अयमङ्कुश इत्यर्थः | स्मरः क्लीं वाग्भवः ऐं वर्म हुं | इत्थं च ह्रीं फ्रें स्रूं क्र्ॐ आं क्लीं ऐं ब्लूं नित्यमदद्रवे हुं फ्रें ह्रीं नीलपताकानित्याश्री इति मन्त्रस्वरूपम् | द्वादशमाह भमरय-ऊं इति | अत्रपि पूर्वयुक्त्या हल्मात्रग्रहणम् इयमेकाक्षरी विद्या विजया सम्प्रकीर्तिता इति तन्त्रान्तरवचनात् || तेन निबन्धे पञ्चाक्षरोच्चारणं औकारोच्चारणं प्रामादिकम् | र्भ्म्यूमिति स्वरूपं ज्ञेयम् | यद्यपि तन्त्रान्तरे अङ्गदादिबिन्दुसंयुतभित्यस्ति | अङ्गद औकारः | तेन चरमस्वर औकारः इति प्रतिभाति | तथाऽपि सूत्रे षष्ठस्वरोच्चारणात् सूत्रविरुद्धं तन्त्रान्तरोक्तं सूत्रानुसारिणामनादर्तव्यमेव ||
SK
त्रयोदशमाह स्वौमिति | चतुर्दशमाह तार इति अग्निजायेत्यन्तेन | त्रिजातियुक्तमाया ह्रां ह्रीं ह्रूं | वह्निजाया स्वाहा | शेषं स्पष्टम् | पञ्चदशमाह अं च्क्रौमिति | पञ्चदश नित्यापूजने देशनियममाह प्रथमेत्यादि | प्रथमत्र्यस्रं बिन्दुसमीपस्थं त्रिकोणं तत्रत्याः यास्तिस्रोरेखाः तासु वर्तमाना ये पञ्चदश स्वराः आकाराद्यनुस्वारान्ताः तेषु एकैकस्वरे एकैकनित्या क्रमेण पूज्येत्यर्थः | अत्र रेखास्थितपञ्चदशस्वरेष्विति स्वराणां तत्र सिद्धवन्निर्देशात् एकैकरेखायां पञ्च पञ्च स्वराः भावनीयाः इति विधिरुन्नेयः | क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन | पश्चिमादारभ्य ईशानान्तरेखायां अ आ इ ई उ इति | ऐशानादाग्नेयान्तरेखायाम् ऊ ऋ ॠ ऌ ॡ इति | आग्नेयादाराभ्य पश्चिमान्तम् ए ऐ ओ औ अम् इति भावनाविवेकः | विगता निर्गता सृष्टिः यस्याः सा विसृष्टिः बिन्दुचक्रम् | तत्सृष्टिप्रकारः उत्तरचतुश्शतीव्याख्याने सेतुबन्धे द्रष्टव्यः | तस्मिन् षोडशीं समष्टिरूपां मूलविद्यया पञ्चदश्या अभ्यर्च्य | एतासामधिष्ठानं कॣप्तत्रिकोणादन्यदेव त्रिकोणमुक्तं ज्ञानार्णवे- प्. १४९) विभाव्य च महात्र्यस्रमग्रदक्षोत्तरं क्रमात् || इति || तन्त्रराजे तु बिन्दावेव पूजनमुक्तम् | इत्थं तत्तत्तन्त्रानुयायिभिः तत्र तत्र कर्तव्यम् || ९ || ओघत्रयपूजामाह- मध्ये प्राक्त्र्यस्रमध्यान्तः मुनिवेदनागसङ्ख्यान् यथासम्प्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वा पश्चात् स्वशिरसि नाथं यजेत् | एतल्लयाङ्गपूजनम् इति शिवम् [एके योगसूत्रसृष्टिस्थितिसंहारत्रिके पञ्चपञ्चिकपञ्चासूयान् प्रपञ्चादिन्यासदेवतादर्शनानि च यजन्ति- इत्यधिकः पाठः क्वचित् |] || १० || || इति ... कल्पसूत्रे ललिताक्रमो नाम चतुर्थः खण्डः || श्रीः-
SK
प्राक्त्र्यस्रं प्रथमत्र्यस्रम् | यद्वा प्राक्त्र्यस्त्रं पूर्वोक्तं त्र्यस्रं तस्य यो मध्यः आभ्यन्तरप्रदेशः तस्य यः अन्तः चरमावयवः स्वाभिमुखाग्रसमीपवर्ती यः आभ्यन्तरप्रदेशः तत्रेति फलितोऽर्थः | मुनिः सप्त वेदः चत्वारः नागः अष्टौ सङ्ख्या यत्रेति व्युत्पत्त्या ओघे विशेषणम् | यथासंप्रदायं पादुकाः कादिहादिविद्याभेदेन पादुकानां गुरुमण्डलानां भिन्नत्वात् यस्य पुरुषस्य परिगृहीताः या याः पादुकाः तत्तल्लाभाय यथासम्प्रदायं पादुका इति | दिव्याश्च सिद्धाश्च मानवावश्च ते ओघाश्च तादृशान् सिद्धान् | पूर्वोक्ते ओघविशेषणे | उभयत्र विभक्तिव्यत्ययः आर्षः | दिव्याः ७ सिद्धाः ४ मानवाः ८ इति विवेकः | तान् इष्ट्वा पूजयित्वा | क्त्वाप्रत्ययेन पाठेन च प्राप्तक्रमः पश्चादित्यनेन अनूद्यते | एतद्-उक्तं यद्वा [नाम- पाश्चात्यैतत्खण्डीय ९ सूत्रादारभ्योर्ध्वतन १० सूत्रान्तम् |] एतदुत्तरं वक्ष्यमाणं [नाम-आगामिपञ्चमखण्डस्थैकसूत्रादारभ्य |] नवावरणपूजनं लयाङ्गं लयस्वरूपं चतुरस्रादिबिन्द्वन्तक्रमस्य लयस्वरूपत्वात् लयाङ्गपूजनं भवितुमर्हति | एतेन तन्त्रान्तरोक्तबिन्द्वादिपूजाव्यावृत्तिः [इदमत्रतात्पर्यं यत्-सर्वत्र यन्त्रपूजायां-सृष्टिस्थितिसंहारक्रमाणामन्यतम एकः क्रमः प्रतिपदोक्तो गृह्यते अर्थात् सृष्टिक्रमेण बिन्दुमारभ्यार्चनमारभ्यते- तथात्र क्रमे न ग्राह्यमपि तु-लयाङ्गं नाम संहारक्रमेणात्र क्रमे पूजारम्भः कार्यः | एतद्देवताभिन्नदेवतार्चने तु बिन्दुमारभ्येति मार्मिकम् |] | शिवमिति खण्डसमाप्तिद्योतकम् || १० || || इति ... परशुरामसूत्रवृत्तौ ललिताक्रमो नाम चतुर्थः खण्डः [अत्र पूजा न समाप्ता० अपि तु खण्ड एवेत्यवसेयम् | सूत्रस्य पुनरावृत्तौ शोध्यं सूचयितव्यकम् | परिशिष्टस्थलं चैव पूर्णमाद्याप्रसादतः || इति चतुर्थः खण्डः श्रीः ||] || पञ्चमः खण्डः ललितानवावरणपूजा प्रथमावरणव्यष्टिपूजा [आगामि पत्रतः २ सूत्रसमाप्त्यन्तं पुनरपि समष्ट्यर्चनप्रयोगोप्यस्ति |]
SK
एतत्पदेन [नाम पाश्चात्य १० सूत्रान्ते एतल्लयाङ्गपूजनमितिपदस्थोत्रैतच्छब्दो ज्ञेयः |] निर्दिष्टां पूजां वितत्य दर्शयति- अथ प्राथमिके चतुरस्रे अणिमालघिमामहिमेशित्ववशित्वप्राकाम्यभुक्तीच्छाप्राप्ति- सर्वकामसिद्ध्यन्ताः मध्यते चतुरस्रे ब्राह्म्याद्यामहालक्ष्म्यन्ताः तृतीये चतुरस्रे संक्षोभणद्रावणाकर्षणवश्योन्मादनमहाङ्कुशखेचरीबीजयोनि- त्रिखण्डाः सर्वपूर्वास्ताः सम्पूज्याः || १ || अथेति नवावरणपूजाऽधिकारद्योतकम् | चतुरस्रत्रयमध्ये प्राथमिके सर्वबाह्ये चतुरस्रे अणिमेत्यारभ्य सर्वकामपर्यन्तं द्वन्द्वः | ते सर्वेऽपि सिद्ध्यन्ताः कार्याः | सर्वेषां पदानाम् अन्ते सिद्धिरिति योज्यम् | तथा च त्रितारी ततोऽणिमासिद्धिश्रीपादुकां पूजयामीति | एवमग्रेऽपि | अत्राणिमाऽदिपदत्रयं न मन्नन्तं किंतु डाबन्तं अणिमालघिमेतिसमासान्तसूत्रपाठात् | अणिमासिद्धीति पुंवद्भावरहितः पाठः अशास्त्रीयोऽपि सम्प्रदायानुरोधादार्षप्रायः | यद्वा षष्ठीतत्पुरुषः | षष्ठ्यर्थश्चाभेद एव राहोः शिरः इतिवत् | प्राथमिकचतुरस्रे अणिमाऽदीनां यथेच्छं पूजाप्राप्तौ तन्नियमः वामकेश्वरतन्त्रे- अणिमां पश्चिमद्वारे लघिमामपि चोत्तरे | पूर्वद्वारे तु महिमामीशित्वाख्यां तु दक्षिणे || वशित्वाख्यां तु वायव्ये प्राकाम्यामीशदेशके | भुक्तिसिद्धिं तथाऽग्नेय्यामिच्छासिद्धिं तु नैर्-ऋतौ || अधस्तात् प्राप्तिसिद्धिं च सर्वकामं [सर्वकामां-श्री.] तथोर्ध्वतः || इति || दिग्व्यवस्थासम्प्रदायश्च पूर्वमुक्तः | ऊर्ध्वाधरावपि न लोकप्रसिद्धौ ग्राह्यौ किं तु तान्त्रिकौ | तदुक्तं तत्त्वविमर्शिन्याम्- इन्द्रेशानदिशोर्मध्ये स्थानमूर्ध्वस्य कीर्तितम् | निर्-ऋत्यम्बुपयोर्मध्ये अधःस्थानं प्रकीर्तितम् || इति || मध्यमे चतुरस्रे ब्राह्म्याद्याः ब्राह्मी आदौ यासां ताः एवं महालक्ष्मीः अन्ते यासां ताः | प्. १५१) ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव चेन्द्राणी चामुण्डा सप्त मातरः ||
SK
इति प्रसिद्धाः सप्त महालक्ष्मीश्चेत्यष्टौ मातरो मध्यचतुरस्रे पूज्याः | तत्र क्रमाकाङ्क्षायां वामकेश्वरतन्त्रे- ब्रह्माणीं पश्चिमद्वारे माहेशीमपि चोत्तरे | पूर्वद्वारे तु कौमारीं दक्षिणे वैष्णवीमपि || वाराहीमपि वायव्ये तथैन्द्रीमैशदेशके | चामुण्डामपि चाग्नेये महालक्ष्मीं च नैर्-ऋते || इति || अथ तृतीये चतुरस्रे दशमुद्रापूजनमाह तृतीये इति | सर्वः सर्वशब्दः पूर्वं यन्नामसु ताः यथा त्रितार्युत्तरं सर्वसंक्षोभिणीशक्तिश्रीपादुकां पूजयामि इति | एतादृशमुद्राशक्तयः मुद्राशद्बार्थश्चोक्तः प्राक् [अत्रैव ललिताक्रमे पाश्चात्य-४-खण्डे-१ सूत्रभाष्ये १३५-पत्रे-] तादृशमुद्रात्वव्याप्यधर्मावच्छिन्नाः इमाः | सर्वसंक्षोभिणी पदार्थश्च इत्थं सर्वान् पदार्थ [मातान्-श्री. अ.] भूतान् क्षोभयतीति उत्पादयतीति सर्वसंक्षोभिणी कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताऽश्च येति यावत् | इयमेव वामाशक्तिरित्युच्यते | एतदुक्तं योगिनीतन्त्रे- योनिप्राचुर्यतस्सैषा सर्वसंक्षोभिका पुनः | वामाशक्तिप्रधानेयम्............... इति || योनिः कारणत्वानि तेषां प्राचुर्यतो भूयस्त्वेन | अत एव सर्वसंक्षोभिण्या बाह्यस्वरूपे अङ्गुलिग्रथनात्मकेऽपि अङ्गुष्ठे कनिष्ठानामामध्यमाग्राणां योगे योनिभूयस्त्वं प्रत्यक्षेणानुभूयते | एतेन अदृश्यरूपमपि तथेत्युन्नेयम् | द्वितीया सर्वविद्राविणी सर्वानुत्पन्नान् द्रावयति वर्धयति पोषणेन सा सर्वविद्राविणी सर्वेषां वस्तूनां पालकत्वादृजुस्वभावा ज्येष्ठाशक्तिप्रचुरा च | तदुक्तं योगिनीतन्त्रे क्षुब्धविश्वस्थितिकरी ज्येष्ठा प्राचुर्यमास्थिता इति | क्षुब्धस्य उत्पन्नस्येत्यर्थः | यश्च संरक्षकः स ऋजुरिति लोके प्रसिद्धा गाथा | अत एव अस्या मुद्रायाः बाह्यरूपेऽपि अङ्गुष्ठेन कनिष्ठिकानामायोगे अङ्गुलिचतुष्टये ऋजुत्वं दृश्यते | एवमाद्यत्रिकोणे रेखात्रयमध्ये पूर्वस्यां दिशि स्थितायां ऋजुरेखायामेव तस्याः अधिष्ठानं शास्त्रप्रसिद्धम् | तृतीया सर्वाकर्षिणी सर्वाकर्षणशीला | इयं ज्येष्ठा वामोभयात्मिका | तदुक्तं योगिनीतन्त्रे- प्. १५२)
SK
ज्येष्ठा वामासमत्वेन सृष्टेः प्राधान्यमास्थिता आकर्षिणीति मुद्रेयम्...................... || इति || पूर्वोक्तमुद्राद्वयवाचकपदशक्यताऽवच्छेदकयोः द्वयोरपि सर्वाकर्षिणीपदशक्यताऽवच्छेदकत्वं बोध्यम् पुष्पवच्छब्दवत् | तत्रापि ज्येष्ठात्वविशिष्टवामात्वं शक्यतावच्छेदकं न तु विपरीतम् | तथा सति ज्येष्ठाया विशेष्यत्वेन प्रधान्यं वाच्यम् | प्राधान्ये ज्येष्ठाया अतिसरलत्वेन प्रधानानुसारेण विशेषणीभूतवामाया अपि प्रधानानुवर्तिन्याः सरलतया तर्जनीमध्यमयोः बाह्यरूपे कुटिलत्वं न स्यात् | वामायाः प्राधान्ये तु तस्याः कुटिलतया तदनुसारेण अप्रधाना या ज्येष्ठायाः प्रधानानुवर्तिन्याः कुटिलत्वं युक्तम् | अत एव बाह्यस्वरूपे अङ्गुलिग्रथने सर्वास्वङ्गुलिषु कुटिलत्वम् | चतुर्थी सर्ववश्यकरी सर्वान् क्षित्यादिशिवान्तान् वश्यं स्वाधीनं नयति प्रापयतीति तथा | लोके आकाशो द्विविधः दह्रः प्राकृतश्च | दह्राकाशेऽपि सुसूक्ष्मोऽन्यः आकाशोऽस्ति तस्यान्ते सुषिṁऊ?सूक्ष्मम् इति श्रुतिप्रसिद्धः | तन्मध्ये गाढमाश्लिष्टा परशिवेन या आनन्दविग्रहा मूर्तिः सा सर्ववश्यकरीपदवाच्या | तदुक्तं उत्तरचतुश्शत्याम्- व्योमद्वयान्तरालस्थबिन्दुरूपा महेश्वरी | शिवशक्त्यात्मसंश्लेषादेषा वश्यकरी स्मृता || इति || बिन्दुरूपेति कथनात् खरूपमपि तथा | अत एवाङ्गुलिऽग्रथनेपि अस्या बाह्यरूपे बिन्द्वाकारता सर्वाङ्गुलीनां गाढसंश्लेषोऽपि व्यक्तः | पञ्चमी उक्तशिवशक्तिबिन्द्वोर्मध्ये सूक्ष्मरेखा नीवारशूकवत्तन्वी तस्य मध्ये वह्निशिखा इति श्रुतिप्रसिद्धा | तस्याः शिखायाः द्विस्वभावत्वं ज्येष्ठास्वभावत्वं च | यथा लोके एकस्यैव दण्डस्य घटोत्पादकशक्तिमत्त्वं तन्नाशकशक्तिमत्त्वं चास्ति तथाऽपि स दण्डः कदाचिदुत्पादकशक्तिप्रधानो भूत्वा घट मुत्पादयति कदाचिन्नाशशक्तिप्रधानः तं नाशयति | एवं लोके बहुस्थले दृष्टम् | तथा दण्डस्थानीया उक्तरेखा | सा यदा जगद्रक्षणकर्तृत्वविशिष्टज्येष्ठाशक्तिप्रधाना तदा सर्वोन्मादिनी पदवाच्या | तदुक्तं उत्तरचतुश्शत्याम्-
SK
बिन्द्वान्तरालविलसत्सूक्ष्मरूपशिखामयी | ज्येष्ठाशक्तिप्रधाना तु सर्वोन्मादनकारिणी || इति || अत एव तदङ्गुलिग्रथनवेलायां अङ्गुष्ठानामतर्जन्यः सरलाः दृश्यन्ते बिन्दुद्वयाकारं मध्यमाद्वयं च भवति | तत्रापि निरुक्तशिखास्थानापन्नग्रथनवेलायां अनामाद्वयमेव ज्ञेयम् | मध्यमाद्वयस्य तदानीं बिन्दुद्वयरूपत्वेन तन्मध्यवर्त्यनामाद्वयस्य तस्य मध्ये वह्निशिखा इति प्रसिद्धसिखात्वं युक्तम् | षष्ठी तु इदमेव पूर्वोक्तं शिखाद्वयं यदाअ वामाप्रधानं तदा सर्वमहाङ्कुशा | प्. १५३) सूक्ष्मरूपेण परमशिवकुक्षौ स्थितं जगत् | यथा अन्तस्थो गजः अङ्कुशेन बहिराकृष्यते तथा सर्वस्य बहिराकर्षणात् सर्वमहाङ्कुशेत्युच्यते | परशिवकुक्षिस्थजगतो वमनात् वामा तत्प्रधाना शिखा सर्वमहाङ्कुशा इत्युच्यते | तदप्युक्तं योगिनीतन्त्रे- वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः | तद्वद् विश्वं वमन्ती सा द्वितीये तु दशारके || इति || अत एव पूर्वमुद्रायां सरलयोरनामयोः वक्रता दृश्यते | लोके वमनवेलायां मानवो धनुराकारः वक्रो भवति | प्रसिद्धमेतत् | अत्रायं विवेकः केवलवामात्वं सर्वसंक्षोभिणीपदप्रवृत्तिनिमित्तं ज्येष्ठात्वविशिष्टवामात्वं सर्वाकर्षिणीपदप्रवृत्तिनिमित्तं सूक्ष्माकाशान्तर्वृत्तिबिन्दुद्वयत्वं सर्ववश्यकरपदप्रवृत्तिनिमित्तं ज्येष्ठाशक्तिप्रधानकबिन्दुद्वयमध्यवृत्तिरेखात्वं सर्वोन्मादिनीपदशक्यताऽवच्छेदकं वामाशक्तिप्रधानत्वं सर्वमहाङ्कुशापदशक्यताऽवच्छेदकं एवं रीत्या वैलक्षण्यं सूक्ष्मधिया द्रष्टव्यम् | सप्तमी सर्वखेचरी जीवानां स्वकर्मजनितरोगादिदुःखनाशनक्षमा शक्तिः | अत एव सर्वरोगहरचक्रस्था भवति | तदप्युक्तं योगिनीतन्त्रे- धर्माधर्मस्य सङ्घट्टादुत्थिता वित्तिरूपिणी | विकल्पोत्थक्रियालोपरूपदोष[?]विघातिनी | विकल्परूपरोगाणां हारिणी खेचरी मता || इति ||
SK
अस्यार्थः धर्मः शक्तिः परशिववृत्तित्वात् | न विद्यते धर्मो यत्रेति अधर्मः परं ब्रह्म परशिवः | यद्वा न कस्यापि धर्मः अधर्म इति नञ्तत्पुरुष एव युक्तः परशिवे शक्तिरूपधर्मसत्त्वेन पूर्वकल्पे स्वोक्तव्याघातात् | तयोः संघट्टः मेलनं तेन उत्थिता | यावद्विकल्पः तेनोत्थिताः याः क्रियाः नित्यनैमित्तिकाः तासां लोपेन यत्पापं तत्सम्भवाः रोगाः तन्नाशिनी खेचरीति | अत एवैतादृशशिवशक्तिसामरस्यद्योतकं बाह्यरूपे बाहुद्वयपरिवर्तनम् | अष्टमी बीजमुद्रा जगतः षड्विकारेषु प्राथमिको यो भावविकारः सूक्ष्मरूपेण सत्ता तदभिमानिनी शक्तिः | तदुक्तमुत्तरचतुश्शत्याम्- शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः | प्रकाशयन्ती विश्वं सा सूक्ष्मरूपस्थितं सदा | बीजरूपा महामुद्रा................ || इति || अयमर्थः वटबीजे सुसूक्ष्मेऽपि किञ्चिदाकाशोऽस्ति विभुत्वात् | तस्मिन् यथा महावृक्षः सूक्ष्मरूपेण तिष्ठति तथा षट्त्रिंशत्तत्त्वानि शिवशक्तिगर्भे विद्यन्ते सूक्ष्मरूपेण | सैव सत्ता घटोऽस्ति पटोऽस्ति इत्यत्र अनुवर्तते | सा बीजमुद्रेत्यर्थः | सर्वबीजस्थानापन्नत्वात् सर्वबीजा | सूक्ष्मत्वादेव अङ्गुलिप्रग्रथनवेलायां संक्षोभिण्याद्यपेक्षया अल्पयोनित्वं सूक्ष्मत्वज्ञापकम् | या प्. १५४)
SK
नवमी योनिमुद्रा तद्वृत्त्यसाधारणो धर्मः मुद्रात्वे सति कलारूपत्वम् | मुद्रात्वस्वरूपमुक्तं प्राक् | कलापदार्थश्चोच्यते | शक्तिविशिष्टे प्रकाशरूपे परशिवे शक्तिमपहाय केवलस्वरूपमात्रनिष्कर्षणे सति तुरीयबिन्दुपदवाच्यत्वं यथा जलनिष्ठं द्रवत्वमपहाय स्वरूपमात्रनिष्कर्षणे जलपदवाच्यत्वम् | अत्रापहानं नाम शक्यताऽवच्छेदककोटिप्रवेशाभाव एव न ततः पृथक् निष्कासनं असम्भवात् | तस्य शुद्धशिवस्य शक्तिसम्बन्धित्वेन विवक्षायां कामबिन्दुपदवाच्यता | तस्यैव संबन्धस्याभेदत्वेन शक्यताऽवब्छेदककोटिप्रवेशे विसर्गो हकारः विमर्शः इति तान्त्रिकव्यवहारः | तादृशसामरस्योत्तरं रक्तशुक्लबिन्दुमिश्रणेन आविर्भूतानन्दान्तर्भावेण विवक्षायां कलेत्युच्यते | ईदृशकलारूपा [ट्. कलापदशक्यताऽवच्छेदककोटौ आनन्दस्याधिकस्य निवेश इति विशेषः इत्यधिकः-ब.] योनिमुद्रा | तदुक्तं नित्याहृदये- संपूर्णस्य प्रकाशस्य लाभभूमिरियं पुनः | योनिमुद्रा कलारूपा.................... || इति || सर्ववश्यकरी केवलबिन्दुद्वयरूपा अस्याः शरीरे बिन्दुद्वयसंसर्गाविर्भूतानन्दोऽपि शक्यताऽवच्छेदककोटिप्रविष्ट इति ततो वैलक्षण्यं ज्ञेयम् | दशमी त्रिखण्डा पूर्वमुक्ता | एवं दशमुद्राणां स्वरूपं श्रीगुरुकृपाविशेषेणाविर्भूतस्फूर्तिकं यथामति लोकानां सुखबोधार्थं स्पष्टीचकार | एवं स्वरूपज्ञानफलं तन्त्रेषु अनन्तं प्रपञ्चितं विस्तरभयान्नेह लिखितम् | एवं दशमुद्राश्चतुरस्रे तृतीये पूज्याः | अत्रापि इच्छया प्राप्तौ नियामकं वचनं तन्त्रे- पुरस्सव्ये च वंशे च वामे चैवान्तरालके | ऊर्ध्वाधो दशमुद्राश्च.................. || इति || पूर्वदक्षिणपश्चिमोत्तरेष्वाग्नेयाद्यन्तरालचतुष्के चोर्ध्वमधश्च दश मुद्राः पूज्या इति तदर्थः || १ || प्रथमावरणसमष्टिपूजा प्रथमावरणस्य व्यष्टिपूजामुक्त्वा समष्टिपूजामाह-
SK
एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्त्विति तासामेव समष्ट्यर्चनं कृत्वा || २ || एताः अणिमाऽदित्रिखिण्डाऽन्ताः | प्रकटयोगिन्य इति तासामेव समष्टिनाम यथा चैत्रो मैत्र इत्यादिप्रत्येकनामवतामपि मनुष्य इति समष्टिनाम तद्वत् | उक्तयोगिनीषु प्रकटत्वं च शिवादिषट्त्रिंशत्तत्त्वानां मध्ये या स्थूला पृथिवी तद्रूपे भूपुरे चतुरश्रे वर्तमानत्वात् | तदुक्तं नित्याहृदये- प्. १५५) तत्र प्रकटयोगिन्यश्चक्रे त्रैलोक्यमोहने | योगिन्यः प्रकटा ज्ञेयाः स्थूलविश्वप्रथात्मनि || स्थितत्वात्................................... || इति ||
SK
त्रैलोक्यमोहनमिति योगरूढिभ्यां [योगरूढिशक्त्या भूसदनात्मकचतुरस्ररेखात्रयस्य नाम - ब.] चतुरस्रत्रयात्मकं सर्वबाह्यं यच्चक्रं तस्य नाम | समुद्राः इति पूर्वं विस्तरेण दश याः प्रतिपादिताः तास्वेकैका मुद्रा एकैकचक्रेऽस्ति | दशमी त्रिखण्डा सर्वव्यापिका | अस्मिन्नर्थे प्रमाणं योगिनीतन्त्रेऽस्ति | श्रीभगवान् परशुरामोऽपि तत्तच्चक्रपूजायां एकैकमुद्राप्रदर्शनं वक्ष्यति [अधस्तनावरणार्चनेषु इत्यर्थः |] | एवं च यस्मिन् या मुद्राऽस्ति तया सहिता इत्यर्थः | ससिद्धय इति अत्र सिद्धिर्नाम तत्तच्छक्तिसाध्यं फलम् | तच्च स्वाकारेण सूक्ष्मरूपेण तिष्ठत्येवेति शक्तयोऽपि ससिद्धयः | सायुधा इति स्पष्टम् | सशक्तयः अत्र शक्तिपदेन अणिमाऽदिनिष्ठा या तत्तत्कार्यजनकता तदवच्छेदको यो धर्मः स ग्राह्यः | न हि कारणता निरवच्छिन्ना लोके प्रसिद्धा | अतः स्वनिष्ठकारणतायाम् अवच्छेदकं किंचिदभ्युपगन्तव्यम् | अभ्युपगतं च यद्रूपं तत् अधिष्ठानादन्यन्नवेत्यन्यदेतत् | तादृशशक्त्या सहिताः | सवाहनाः इति स्पष्टम् | परिवारा अनुचराः तैः सहिताः | शेषो मन्त्रार्थः स्पष्टः | तासामणिमाऽदित्रिखण्डाऽन्तानां समष्ठ्यर्चनं समुदायनामघटितमन्त्रेणार्चनं विधाय | अत्र मन्त्रगतलिङ्गेन प्रार्थनाङ्गत्वं प्रतीयते लोट्श्रवणात् प्रार्थनेषु लिङ् लोट च इति पाणिनिस्मृतेः | तथाऽपि ममाग्ने वर्चोविहवेष्वस्तु० इति मन्त्रस्य विहव्या उपदधाति इति श्रुत्या लिङ्गं बाधित्वा उपधानाङ्गत्ववत् अर्चनाङ्गत्वं बोध्यम् | सम्पूजिताः सन्तु इति समष्ठ्यर्चनं कृत्वा इत्यनेन अर्चनाङ्गत्वे प्रतीयमाने दुर्बलं लोट्श्रवणं न बाधकं भवति || २ || करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामिति सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् | चक्रयोगिनीचक्रेशीनां नामानि भिन्नानि | शिष्टं समानम् || ३ ||
SK
अत्र करशुद्धिपदेन करशुद्धिन्यासाङ्गभूतो मन्त्रः न्यासप्रकरणोक्तः [अयं करशुद्धिन्यासमंत्रः पाश्चात्य-३-खण्डे श्रीक्रमस्थ-१५ सूत्रे तद्भषये १०२ पत्रेऽस्ति |] तम् उच्चार्य | त्रिपुरेति त्रैलोक्यमोहनचक्रस्य नायिका | त्रिपुरा चासौ चक्रेश्वरी चेति कर्मधारयः | त्रिपुरेत्यत्र पुंवद्भ्रावाभाव आर्षः | ईदृशीं चक्रेश्वरीम् अवमृश्य सम्पूज्य | अत्रापि पूजारूपत्वात् श्रीपादुकेति मन्त्रशेषोऽस्ति | परं तु समष्ट्यर्चने श्रीपादुकामिति मन्त्रशेषो नास्ति इति समष्ट्यर्चनं विधाय इत्यत्र इति शब्देन शेषव्यवच्छेदात् | द्रां इति सर्वसंक्षोभिणीमुद्राबीजं तां पठित्वा प्. १५६) सवंसंक्षोभिणीमुद्राम् अङ्गुलिप्रग्रथनरूपां वक्ष्यमाणरीत्या प्रदर्शयेत् | देव्या इति शेषः | एवं वक्ष्यमाणरीत्या देव्यग्रभागे अङ्गुलिषु ग्रथितेषु तस्याः दर्शितं भवति | एवमग्रिमेष्ववगन्तव्यम् | एवं प्रकृते समष्ठ्यर्चनमन्त्रं प्रकृतच्क्रेश्याश्च मन्त्रमुक्त्वा अग्रिमसमष्ट्यर्चनमन्त्रे [आगामि पञ्चमसूत्रे |] चक्रेशीमन्त्रे च केषांचित् वर्णानां पर्युदासपूर्वकं कांश्चिद्वर्णानतिदिशति चक्रेति | चक्रनामानि सर्वाशापरिपूरकेत्यादीनि [अधस्तन-४ सूत्रादितत्तदावरणदर्शकसूत्रेषु वक्ष्यमाणानि |] योगिनीनां नामानि गुप्तेत्यादीनि चक्रेशीनां त्रिपुरेत्यादीनि यानि नामानि तद्वर्णाभिन्नानि | समुद्राः [अनुगत १५४ पत्रे-२-सूत्रे उक्तं समुद्राः ससिद्धयः इत्यादि |] इत्यादिवर्णकूटं समानम् | अनेन तत्तत्प्रकरणे उक्तचक्रादिनामस्थाने वक्ष्यमाणनामानि पठनीयानीति भावः || ३ || द्वितीयावरणपूजा अथ द्वितीयावरणपूजामाह-
SK
षोडशपत्रे कामाकर्षिणी नित्याकलेति नित्याकलाऽन्ताः बुद्ध्याकर्षिणी अहङ्काराकर्षिणी शब्दाकर्षिणी स्पर्शाकर्षिणी रूपाकर्षिणीरसाकर्षिणी गन्धाकर्षिणी चित्ताकर्षिणी धैर्याकर्षिणी स्मृत्याकर्षिणी नामाकर्षिणी बीजाकर्षिणी आत्माकर्षिणी अमृताकर्षिणी शरीराकर्षिणी एता गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्राः इत्यादि पूर्ववत् आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं इति सर्वविद्राविणीं [द्वि. प. शि. १५-८/६ विषयो दृश्यः |] प्रदर्शयेत् || ४ || नित्याकलेति वर्णसमुदायः अन्ते यन्नाम्नः इति व्युत्पत्त्या बुद्ध्याकर्षिण्यादिपञ्चदशस्वपि इदं विशेषणमनुषज्य योज्यम् | सर्वत्र पुंवद्भावो नाऽस्ति प्रथममन्त्रपाठानुरोधात् | श्रीपादुकेत्यादिशेषः पूर्ववत् | षोडशपत्रे क्रमस्तु वामकेश्वरतन्त्रे षोडशारे महादेवीं वामावर्तेन पूजयेत् इति | तत्राप्यारम्भः कस्माद्दलादारभ्य कर्तव्य इति विशेषजिज्ञासायां देव्यग्रकोणमारभ्येति सेतुबन्धे स्थितम् | योगिनीचक्रयोः प्रकृतमन्त्रप्रवेशार्थं नामनी आह एताः गुप्तयोगिन्य इति भूपुरापेक्षया षोडशदलस्य अन्तःस्थत्वेन तत्रस्था योगिन्यः गुप्ताः | शिष्टं समानम् इति पूर्वसूत्रेणैव प्राप्तमर्थम् अनुवदति समुद्राः इत्यनेन | अनुवादफलं च तदर्थकानां प्. १५७) पदान्तराणां मन्त्रे प्रक्षेपो मा भवत्वित्येतदर्थम् | पूर्ववत् पूर्वं यथोच्चरितं तथैवेत्यर्थः [अनुगते १५४ पत्रे अस्मिन् खण्डे-२-सूत्रे समुद्राः- इत्यादितः सन्त्विन्तम्-इत्यर्थः |] | आत्मरक्षा [अनुगते १०२-पत्रे ३ खण्डे- श्रीक्रमे-१६ सूत्रोक्तरक्षशब्दान्तो मन्त्रः |] तन्मन्त्रः | शेषं स्पष्टम् || ४ || तृतीयावरणपूजा तृतीयावरणपूजामाह- दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशामालिनीरनङ्ग- पूर्वाः संमृश्यैतागुप्ततरयोगिन्यः सर्वसंक्षोभणचक्रे समुद्राः इत्यादि पर्ववदात्मासनमुच्चार्य त्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां [एतत्सर्वाकर्षिणीमुद्रोद्धारार्थ द्वि. प. शि. १५-८/७ वि. दृश्यः |] प्रदर्शयेत् || ५ ||
SK
अत्र दिक्पदमष्टसङ्ख्यालक्षकं दिक्षु अष्टसङ्ख्यायाः सत्त्वात् | तथा च दिग्वृत्तिसङ्ख्यानि पत्राणि यस्मिन्निति व्युत्पत्त्या तृतीयचक्रपरम् | दिक्ष्वष्टसङ्ख्या च अवान्तरदिशो गृहीत्वा चतस्रो दिशश्चतस्रोऽवान्तरदिशाः इति श्रुतेः | अवान्तरदिक्ष्वपि अधिकं तु प्रविष्टं न तद्धानिः इति न्यायेन दिक्त्वमबाधितम् | अनङ्ग इति पूर्वं यासां कुसुमादीनां देवतानां नामादौ ताः देवता अनङ्गपूर्वाः | अत्रान्यपदार्थो द्रव्यः न कुसुमादिवर्णसमुदायः संमृश्येत्यस्यानन्वयापत्तेः | एतद्देवतापूजाक्रमश्च योगिनीतन्त्रे- अनङ्गकुसुमां पूर्वे दक्षिणेऽनङ्गमेखलाम् | पश्चिमेऽनङ्गमदनामुत्तरे मदनातुराम् || अनङ्गरेखामाग्नेये नैर्-ऋतेऽनङ्गवेगिनीम् | अनङ्गाङ्कुशां वायव्ये ईशानेऽनङ्गमालिनीम् || इति || पूर्वचक्रदेवताऽन्तरङ्गत्वात् आसां गुप्ततरत्वम् | शेषं गतप्रायम् || ५ || चतुर्थावरणपूजा चतुर्थावरणपूजामाह- भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनी जृम्भिणीवशङ्करीरञ्जन्युन्मादिन्यर्थसाधिनी सम्पत्तिपूरणी मन्त्रयीद्वन्द्वक्षयङ्करीः [अत्र-दीर्घेकारान्ताः संक्षोभिणीत्यतो द्वन्द्वद्वद्दक्षयङ्कर्यन्ताः-१४-देवताः |] सर्वादीरवमृश्यैताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे प्. १५८) समुद्राः इत्यादि मन्त्रशेषः चक्रासनमुच्चार्य [अनुगते १०३ पत्रे-३- श्रीक्रमे�१८-सूत्रभाष्येऽयं चक्रासनमन्त्रोऽस्ति |] त्रिपुरवासिनीं चक्रेश्वरीमिष्ट्वा ब्लूं इति सर्ववशङ्करीमुद्रामुद्घाटयेत् [द्वि. प. शि. १५- ८/८ वि. दृश्यः |] || ६ || भुवनारे चतुर्दशारे | भुवनानि चतुर्दश [भवनसङ्ख्याः आरा यत्र तत्र- मन्वस्रे-इत्यर्थः |] | शेषं दिक्पत्रवत् [उपरितन-२८-सूत्रवदित्यर्थः |] | सर्व आदिर्यन्नामावयवानामित्यपि व्याख्यातप्रायं अनङ्गपूर्वाः इत्यनेन | क्रमाकाङ्क्षायां योगिनीतन्त्रे वामावर्तक्रमेणैव पश्चिमादेव दक्षिणम् इति पश्चिमे प्रारम्भः ततस्ततो दक्षिणं ग्राह्यमिति तदर्थः | पश्चिमादारभ्य अप्रादक्षिण्येनेति फलितोऽर्थः || ६ || पञ्चमावरणपूजा
SK
पञ्चमावरणपूजामाह- बहिर्दशारे सिद्धिप्रदासम्पत्प्रदाप्रियङ्करीमङ्गलकारिणीकामप्रदादुःख विमोचिनीमृत्युप्रशमनीविघ्ननिवारिण्यङ्गसुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः सम्पूज्यैताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचक्रे [चक्रे इति मनु-श्री.] मनुशेषमुक्त्वा [एतत्खण्डे १५४ पत्रे-२-सूत्रे समुद्राः-इत्यतः सन्त्वित्यन्तं मनुशेषं ज्ञेयम् |] मन्त्रासनमुच्चार्य [अनुगते १०३ पत्रे-३- खण्डे श्रीक्रमे-१८-सूत्रे चक्रासनमन्त्रोऽस्ति |] त्रिपुरा श्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्युन्मादिनीमुद्रां दद्यात् || ७ || नवचक्रेषु दशारद्वयमस्ति | तयोर्मध्ये यत् बहिर्दशारं तत्रेत्यर्थः | शेषं व्याख्यातप्रायम् | अत्रापि क्रमाकाङ्क्षायां पूर्वचक्रवदेव क्रमः | वामकेश्वरतन्त्रे तथैवेत्यनेन पूर्वचक्रक्रमातिदेशात् || ७ || षष्ठावरणपूजा षष्ठावरणपूजामाह- अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधिविनाशिन्याधार- स्वरूपापापहराऽनन्दमयीरक्षास्वरूपिणीप्सितफलप्रदाः सर्वोपपदाः प्. १५९) यष्टव्या एतानि गर्भयोगिन्यः सर्वरक्षाकरचक्रे शिष्टं [एतत्खण्डे-१५४- पत्रे-२-सूत्रे समुद्राः इत्यतः सन्त्वित्यन्तं मनुशेषं ज्ञेयम् |] तद्वत् साध्यसिद्धासनमुच्चार्य [अनुगते-१०३-पत्रे-श्रीक्रमोक्ते-१८-सूत्रे अयं साध्यसिद्धासनमन्त्रोऽस्ति |] त्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां [द्वि. प. शि. १५-७/६ वि. दृश्यः |] दर्शयेत् || ८ || सर्वोपपदाः सर्वपूर्वाः | मान्या पूज्या | क्रमस्तु पूर्ववत् [वामावर्तेनेत्यर्थः |] पूर्वोक्तेन विधानेन इति योगिनीतन्त्रात् | शेषं व्याख्यातकल्पम् || ८ || सप्तमावरणपूजा सप्तमावरणपूजामाह- अष्टारे वशिन्याद्यष्टकं नमःस्थाने [इमा वशिन्याद्यष्टदेव्यः ३ खण्डे-श्रीक्रमे-२०-सूत्रे-१०४-पत्रे सन्ति |] पूजामन्त्रसन्नाम एता रहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं मूर्तिविद्यामुच्चार्य [अयं मूर्तिविद्यामन्त्रः ४ खण्डे-१३६-पत्रे-२ सूत्रेऽस्ति |] त्रिपुरासिद्धा माराध्य शिवभृगु-ऋद्धियुक्फ्रें इति खेचरी देया || ९ ||
SK
योगिनीन्यासप्रकरणे ये वशिन्यादीनामष्टौ मन्त्रा उद्धृताः तेषु नमःपदस्थाने पूजामन्त्रस्य श्रीपादुकेति मन्त्रस्य सन्नाम ऊहः कार्यः | चतुर्थीसहितनमःपदस्थाने पूजामन्त्रः कार्य इत्यर्थः अन्यथा चतुर्थीश्रवणापत्तेः [चतुर्थी पूर्वं श्रूयमाणा या तस्याः बाधकाभावेन तच्छ्रवणं स्यात्-अ. श्री.] || न च नमःपदनिवृत्तौ तद्योगनिमित्तचतुर्थ्यपि निवर्तते निमित्तापाये नैमित्तिकापायः इति न्यायात् इति वाच्यम् | न हि चतुर्थीसत्त्वे नमःपदं निमित्तम् किं तु तदुत्पत्तौ | तथा च नमःपदं निमित्तीकृत्योत्पन्ना या चतुर्थी तस्या निवर्तकपर्यन्तं स्थितौ बाधकाभावात् || न च चतुर्थ्युत्पत्तेः प्रागेव नमःपदं निवर्तताम् तथा सत्युत्पादकाभावात् न चतुर्थी इति वाच्यम् | न्यासमन्त्रस्य पूजामन्त्रप्रकृतित्वे सिद्धे प्रकृतितोऽतिदेशेन चतुर्थी नमः पदसहितप्राप्तौ नमःपदं युक्तविन्यासेनोहेन बाधितं चतुर्थी केन बाध्यताम् | श्रौते प्रकृतितोऽग्निपदसहितनिर्वापमन्त्रस्य प्राप्तौ सूर्ययागे अर्थबाधात् अग्निपदमात्रस्य सूर्यपदेन बाधः न चतुर्थ्याः | तथाऽत्रापि | तस्मात् चतुर्थीसहितनमःपदबाधकः पूजामन्त्रः | शेषं गतप्रायम् || प्. १६०) मूर्तिविद्या मूर्तिकल्पनमन्त्रः आवाहनप्रकरणे उक्तः | शिवो हकारः भृगुः सकारः ऋद्धिः खकारः | अत्र प्रमाणानि प्राक् [अत्र प्राक्वाम-१०३- पत्रे-३-खण्डे श्रीक्रमे १८ सूत्रभाष्ये इति ज्ञेयम् |] दर्शितानि | तैर्युक्तः फ्रेमिति वर्णः ह्स्ख्फ्रें इति | इममुच्चार्य खेचरीं दर्शयेदित्यर्थः || ९ || आयुधपूजा आयुधपूजामाह- बाणबीजान्युच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः धं थं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणाय पाशाय क्र्ॐ सर्वस्तम्भनायाङ्कुशाय नमः इति महात्र्यस्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा || १० || बाणबीजानि संक्षोभिण्यादिपञ्चमुद्राबीजानि कामेश्वरबाणानां [तदुक्तं कुलसारे- संक्षोभिण्यादिमुद्राणां यानि बीजानि पञ्च वै | तानि सर्वाणि देवेशि शरादौ सम्प्रकीर्तयेत् || इति ||
SK
इत्यधिकः-ब.] बीजानि | तदुक्तं मालिनीतन्त्रे- थान्तद्वयं समालिख्य वह्निसंस्थं क्रमेण तु | मुखवृत्तेन नेत्रेण बिन्दुना परिभूषितम् || बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् || चतुर्थस्वरबिन्द्वाढ्यं नादरूपं वरानने | फान्तं चक्रेण [शक्रेण-श्री.] संयुक्तं वामकर्णविभूषितम् || बिन्दुनादसमायुक्तं सर्गवान् चन्द्रमाः प्रिये || पञ्च बाणानिमान् विद्धि मामकान् प्राणवल्लभे || इति || अस्यार्थः थान्तः मातृकाक्रमे थकाराग्रिमो दकारः तस्य द्वयं लिखित्वा तयोर्मध्ये प्रथमदकारं वह्निना रेफेण संस्थं युक्तं मुखवृत्तमाकारः मातृकान्यासे तस्य तत्स्थानत्वात् | बिन्दुश्च ताभ्यां सहितः | द्रामिति सम्पन्नम् | द्वितीयदकारेऽपि वह्निसंस्थत्वं तल्लग्नं तदनन्तरं नेत्रेण वामनेत्रेण ईकारेण मातृकान्यासे तत्स्थानत्वात् बिन्दुना च समन्वितं द्रीमिति सम्पन्नम् | एवं सम्पन्नबीजद्वयं बाणद्वयं भवति | आद्यबाणद्वयबीजं भवति | एवं मादनं ककारः भूमिः लकारः तस्मिन् संस्थितं अधो लकारः उपरि ककारः इति भावः चतुर्थस्वरः ईकारः बिन्दुः प्रसिद्धः ताभ्याम् आढ्यं युक्तम् क्लीमिति सम्पन्नम् | फान्तं बकारः प्. १६१) व्युत्पत्तिः थान्तवत् चक्रेण लकारेण युक्तं वामकर्ण ऊकारः तेन बिन्दुना च युक्तं व्लूमिति सम्पन्नम् | सर्गो विसर्गः तद्वान् चन्द्रमाः सकारः सः इति | एवं च द्रां द्रीं क्लीं ब्लूं सः इति पञ्च मामकान् बाणान् विद्धीत्यर्थः | कामेश्वरीबाणबीजानि योगिनीतन्त्रे- त्वगसृङ्मांसमेदोऽस्थिमज्जार्णान्ताः सुरेश्वरि | द्वितीयस्वरसंयुक्ता एते बाणास्तदीयकाः || इति ||
SK
अस्यार्थः त्वक् यकारः त्वग्वाली व्यापको वायुः इति कोशात् | असृग्रेफः रो रक्तः क्रोधिनी रेफः इति कोशात् | मांसं लकारः पिनाकी मांससंज्ञिकः इति कोशात् | मेदो वकारः वो मेदो वरुणः सूक्ष्मः इति कोशात् | अस्थिमज्जान्ते चरमदेशे स्थितं शुक्रं तद्वर्णः सकारः दशपादो भृगुः शुक्रम् इति कोशात् | यद्वा अस्थिमज्जार्णौ सषौ शङ्कुकर्णास्थिसंज्ञश्च शकारो विद्भिरीरितः इति तथा वृषः श्वेतेश्वरः पीतो मज्जा इति षकाराधिकारे च कोशात् | तयोरन्ते वर्तमानः स इत्यर्थः | उक्ताः वर्णाः द्वितीयस्वरसंयुक्ताः आकारेण युक्ताः बीजरूपत्वात् बिन्दुयोगोऽपि | इत्थं च यां रां लां वां सां इति देव्या बाणबीजानि | उक्तवर्णेषु बिन्दुयोगस्तन्त्रान्तरे शर्वेऽन्तस्थास्तृतीयोष्माबिन्द्वनन्तसमन्विताः | यरलवाः अन्तस्थाः तृतीयोष्मा सकारः अनन्तः आकारः | अत्र बाणबीजपदेन सर्वेषां ग्रहणम् सेतुबन्धे यां रां लां वां सां सर्वजृम्भणेभ्यः कामेश्वरीबाणेभ्यो नमः द्रां द्रीं क्लीं ब्लूं सः सर्वजृम्भणेभ्यः कामेश्वरबाणेभ्यो नमः इति मन्त्रद्वयं लिखित्वा अग्रे इदं च कल्पसूत्रानुगुण्येनोक्तम् इति लिखित्वा वस्तुतस्तु स्वतन्त्रानुसारेण आदौ द्वितारी ततो [उपरितनानि-यां-इत्यादीनि-५-द्रां-इत्यादीनि च-५-इति-१० बाणबीजानीत्यर्थः |] दशबाणबीजान्युच्चार्य सर्वजृम्भणबाणशक्तिश्रीपादुकां पूजयामि इति लेखात् || निबन्धे तु कामेश्वरबाणबीजमात्रं लिखित्वा सर्वजृम्भणेभ्यो बाणेभ्यो नमः इति मन्त्रस्वरूपं लिखितम् | तत्र बाणबीजत्वस्योभयसाधारणत्वेन बाणबीजान्युच्चार्येत्यनेन शिवबाणानामेवोच्चारणं न देव्याः इति भगवतो रामस्याभिप्रायनिष्कासने प्रमाणगन्धस्याप्यभावात् प्रत्युत स्थूलमानेन विचार्यमाणे ललितोपास्तेः उपक्रान्तत्वात् तदीयबाणपूजनमेव युक्तम् | तानपहाय केवलशिवबाणानेव लिलेख | तदीयं साहसं महत्तरम् ||
SK
न च तथा सति उत्तरमन्त्रेषु धनुषे पाशायाङ्कुशायेत्येकवचनमनुपपन्नम् इति वाच्यम् पाशाधिकरणन्यायेनोपपत्तिसम्भवात् | यद्वा बीजदशकमुच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः इति द्वयोः तन्त्रेणैव पूजनम् | देवतात्वं चाग्नीषोमवद्व्यासक्तम् | इत्थमेव पाशादिषु | एवं च आशासानामेधपतये मेधम् इतिवत् धनुर्द्वयनिष्ठदेवतात्वस्य व्यासक्तत्वात् देवतात्वावच्छिन्नस्यैकत्वात् प्. १६२) तदभिप्रायेणैकवचनोपपत्तिः | बाणपदोत्तरं बहुवचनं च देवतात्वाधिष्ठानान्वयीति मेधपतिभ्यां मेधं इतिवत् न काऽप्यनुपपत्तिः || न च निबन्धकारः शिवबाणबीजान्युल्लिखन् बभ्रामेत्यास्ताम् | परं तु ललिताप्रकरणस्थत्वात् शक्तिबाणबीजानामेवात्र ग्रहणम् बाणबीजान्युच्चार्य इति कल्पसूत्रेणाविशेषेण श्रुतस्यापि प्रकरणेन सङ्कोचस्य आग्नेय्याऽग्नीध्रमुपतिष्ठते इत्यादौ दृष्टत्वात् इति वाच्यम् कामबाणान् महेशानि धनुस्तत्पाशमेव च | चक्रमध्ये चतुःकोणे क्रमेण परिपूजयेत् || इति वामकेश्वरतन्त्रवचनेन तेषां शिवायुधानामपि ललिताप्रकरणे पूजनं विहितम् प्रकृते कल्पसूत्रे बाणबीजान्युच्चार्येति अविशेषेण श्रुतस्य प्रकरणेन सङ्कोचे कर्तव्ये ततोऽपि बलवता वाक्यान्तरेण श्रूयमाणार्थस्यैव व्यवस्थापनात् | आग्नेय्याऽग्नीध्रमुपतिष्ठते इत्यत्र प्रकरणबाधकं वचनान्तरं नास्तीति वैषम्यम् || न च तन्त्रान्तराश्रयणं न क्रियत इति प्रतिज्ञाहानिः सूत्रार्थनिर्णयाय वचनान्तरानुसरणे प्रतिज्ञायामनुपपत्त्यभावात् ||
SK
किं च बहुषु पुस्तकेषु कल्पसूत्रपाठः धं थं सर्वसंमोहनाय धनुषे नमः आं ह्रीं सर्ववशीकरणाय पाशाय नमः इति अयमपि बाणद्वयग्रहणे लिङ्गम् | अन्यथा धनुर्बाणयोरुभयसम्बन्धिनोः ग्रहणसूचकं बीजद्वयं किमिति पठेत् | दृश्यते च बहुषु पुस्तकेष्वयमेव पाठः | तस्मादुभयपूजनमावश्यकम् | यदि च केषुचित् पुस्तकेषु बीजद्वयपाठस्यादर्शनात् निश्शङ्कं परमतसिद्धिरिति विभाव्यते तदाऽपि सर्वपुस्तकेष्वविवादेन धं इति धनुर्मन्त्रे शिवधनुर्बीजमस्ति तुरीयमरुणावर्गात् द्वितीयमपि पार्वति | पुंस्त्रीकोदण्डयुगलम् इति वामकेश्वरतन्त्रात् | अस्यार्थः अरुणावर्गस्तवर्गः तत्र तुरीयो धकारः द्वितीयः थकारः क्रमेण पुंस्त्रीधनुषी इत्यर्थः | अनेन धं इति शिवधनुर्बीजं सिद्धम् | एवं पाशे ह्रीं इत्यविवादेन सर्वपुस्तकेष्वस्ति | तच्च शक्तिपाशबीजं माया स्त्रीपाश उच्यते इति योगिनीतन्त्रवचनात् | एवं क्वचित् पुमायुधबीजकथनं क्वचित् स्त्र्यायुधबीजकथनं प्रग्रथनरूपम् आयुधद्वयग्रहणे सर्वपुस्तकसाधारणं लिङ्गम् | तन्त्रान्तरवचनं च स्पष्टरूपं लिखितं प्राक् | एकवचनगतिः दर्शिता अतो विरोधाभावादायुधद्वयमत्र पूज्यमिति ममासंशयं प्रतिभाति | धर्मस्यातीन्द्रियत्वात् साधवः सुधियः परिशीलयन्तु इतोऽप्यधिकम् | इत्थं च यस्मिन् पुस्तके धनुर्मन्त्रे केवलं धं इत्यस्ति तत् थं इत्यस्याप्युपलक्षकं तृतीयमन्त्रे ह्रीमिति आमित्यस्याप्युपलक्षकं तस्य शिवपाशरूपत्वात् आद्यन्तगो महापाशः पौरुषेयः प्रकीर्तितः इति वामकेश्वरतन्त्रात् | प्. १६३)
SK
एतदर्थोऽपि प्राक् नीलपताकामन्त्रोद्धारे वर्णितः | अङ्कुशबीजं तु उभयोरेकं कामोऽग्निर्व्यापकोङ्कुशः इत्यविशेषेण योगिनीतन्त्रपाठात् | तस्य तन्त्रेण सकृदेव पाठः | इत्थं च मन्त्रस्वरूपं यां रां लां वां सां द्रां क्लीं ब्लूं सः सर्वजृम्भणेभ्यो बाणेभ्यो नमः बाणश्रीपादुकां [बाणशक्तिश्री-श्री.] पूजयामि | थं धं सर्वसंमोहनाय धनुषे नमः धनुःश्रीपादुकां पूजयामि | ह्रीं आं सर्ववशीकरणाय पाशाय नमः पाशश्री० | क्र्ॐ सर्वस्तम्भनायाङ्कुशाय नमः अङ्कुशश्री० इति | शक्तिबीजानां प्राथम्ये तत्प्राधान्यं गमकम् || केचित्तु तन्त्रानुयायिनः दशबीजान्युच्चार्य कामेश्वरकामेश्वरीबाणेभ्यो नमः इति पठन्ति | तदतीवाशुद्धम् | कामेश्वरी च कामेश्वरश्चेति द्वन्द्वापवादकत्वात् पुमान् स्त्रिया इत्येकशेषः स्यात् न द्वन्द्वः || महात्र्यस्रम् आद्यत्रिकोणं तस्य बाह्यतः अष्टास्रत्र्यस्रमध्ये दिक्षु पश्चिमादिप्रादक्षिण्येन | तदुक्तं वामकेश्वरतन्त्रे- पश्चिमोत्तरपूर्वाशा दक्षिणाशा क्रमेण तु | इति | अत्र निबन्धे आयुधमन्त्रेषु श्रीपादुकामिति शेषयोजनाभावे मूलं स एव प्रष्टव्यः || न च अष्टाक्षरीप्रापकं सर्वत्र देवतानामसु श्रीपूर्वकं पादुकामित्यादिवाक्यं तत्र देवतानामस्वित्यनेन यत्र देवताया नाम गृह्यते तत्रैवाष्टाक्षरी [आदौ तत्तद्देवतानाम संगृह्य-श्रीपादुकां पूजयामि-अयमेवाष्टाक्षरीमन्त्र उक्तः प्रागपि |] नान्यत्र | प्रकृते विधायकवाक्ये बाणादिरूपनामग्रहणाभावात् न तथा इति वाच्यम् | देवतानामस्वित्यस्य देवतानामघटितमन्त्रेष्विति निबन्धकारेणाप्यवश्यं वाच्यम् | अन्यथा ओघत्रये तद्योगः तत्त्वतो विरुध्यते | तत्र विधिवाक्ये देवतानामग्रहणं नास्ति किं त्वोघत्रयमेवास्ति | तस्मान्न किंचिदेतत् || १० || अष्टमावरणपूजा अष्टमावरणपूजामाह- त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाः कामेश्वरीवज्रेश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी || ११ ||
SK
या परशिवरूपदीपस्य प्रकाशरूपा परा शक्तिः सा सृष्ट्युन्मुखा त्रिधा जाता वामा ज्येष्ठा रौद्री चेति | क्रमात् रजस्सत्त्वतमःप्रधानाः ताः | तासां समष्टिवाचकं पदं तन्त्रशास्त्रे अम्बिकेति | इमा एव क्रमात् इच्छाज्ञानक्रियाशक्तयः इत्युच्यन्ते | अमूषां त्रिपुरसुन्दरीव्यष्टिरूपत्वं प्. १६४) ज्ञापयितुमेव योगिनीषु अतिरहस्येति विशेषणं अग्रे दत्तवान् | अत्र वाग्भवपदेन [अत्र-मूले-वाक्-इत्येव पदं-ततोत्र-वाक्पदेनेति सम्भाव्यताम् |] प्रथमकूटं ग्राह्यम् कामपदेन द्वितीयकूटं शक्तिपदेन तृतीयकूटं न तु बालावर्णाः वामकेश्वरतन्त्रे कूटानामेव परिगृहीतत्वात् | यद्यपि तन्त्रान्तरे वाग्भवं चाद्यकूटं च इति समुच्चयोऽपि द्वयोर्दृश्यते तथाऽपि अत्र वागादीनामेवोक्तत्वात् योगिनीतन्त्रानुसारेण कूटमात्रग्रहणम् | समस्तं कूटत्रयम् | इमानि पूर्वं यासां नाम्नां ताः चतस्रः त्रिकोणे त्रिकोणकोणत्रये बिन्दौ च पूज्या इत्यर्थः || निबन्धकारः चतुर्थदेवताया मन्त्रे समष्टिमूलान्तरं ललिताश्री० इति लिलेख | तत्तुच्छम् | कामेश्वरी वज्रेश्वरी भगमालिनी महादेव्यः इति सूत्रे क्रमेण चतसृणां देवतानां नामसु सत्सु शास्त्रप्रसिद्धं परित्यज्य स्वकपोलकल्पितं ललितेति नाम मन्त्रे प्रवेशयामास | अत्र शास्त्रं न प्रमाणम् | अचिन्त्यशक्तिमन्त्रेष्वपि स्वेच्छाप्रवृत्तिशीलो यः तद्वचनं महान्तोऽपि विश्वसन्ति | अत्र मूलं श्रीभगवन्मायासमुत्पन्नालस्यमेव नान्यत् | न च महादेवीपर्याय एव ललिताशब्दः तत्प्रयोगे किं बाधकम् इति वाच्यम् | अग्निमीले इति मन्त्रे वह्निमीले इत्यपि प्रयोगेनापूर्वं स्यात् | इत्यलमसदावेशेन || क्रमस्तु वामकेश्वरतन्त्रे- कामेश्वरीमग्रकोणे वज्रेशीं दक्षिणे ततः | भगमालिनीं तथा वामे मध्ये त्रिपुरसुन्दरीम् || इति || ११ || कामेश्वर्यादीनां मूलदेव्यभिन्नत्वम्
SK
ननु पञ्चदशनित्यानां मन्त्रेण मूलविद्यया चाभ्यर्च्य इति विहितं प्रकृतेऽपि तुरीयदेवतायाः मूलेन पूजनमुक्तं बिन्दुचक्रेऽपि वक्ष्यति मूलेन पूजनम् एवं चरमचक्रेश्वर्या अपि | एवं च एकमन्त्रकरणकत्वात् एकदेवताकं यागत्रयं अभ्यासरूपं वा भिन्नदेवताकं वा इति शङ्कायां देवतैक्यं प्रतिपादयति- तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा | कामेश्वर्यादिचतुर्थीनित्यानां षोडशी चक्रदेवीनां नवमी बिन्दुचक्रस्था चेत्येकैव | न तत्र मन्त्रदेवताभेदः कार्यः | तन्महादेव्या एव | चतुर्षु स्थलेषु विशेषार्चनमावर्तते || १२ || प्. १६५) आसां कामेश्वर्यादीनां तिसृणामनन्तरम् आसां मूलदेव्यभिन्नत्वप्रतिपादनाय मूलदेव्याः पूजा | एवं स्थलान्तरेऽपि त्रिपुरसुन्दर्या अन्ते पूजनं तत्र तत्र स्वस्वपूर्वदेवताकूटाभेदं ज्ञापयति | इममेवार्थं स्पष्टं दर्शयति कामेश्वरीति | प्रकृतचक्रे कामेश्वर्यादिभ्यः परं चतुर्थी पञ्चदशनित्याभ्यः परं षोडशी अष्टचक्रात् परं नवमे बिन्दौ सैव चकारसूचिता पुनर्बिन्दावेव अष्टचक्रेशीपूजाऽनन्तरं चक्रेशीत्वेन पूज्या एकैव | तत्र एषु स्थलेषु देवताभेदः मन्त्रभेदश्च नास्ति | इत्थं च नित्याः समस्तावरणदेव्यश्च त्रिपुरसुन्दर्या अव्यतिरिक्ता इति ज्ञापयितुं तत्तदन्ते उक्तमिति भावः | ननु देवतैक्ये द्रव्यैक्ये मन्त्रैक्ये सकृदेव पूजनं युक्तं किमिति पूजात्रयं अत आह चतुर्षु स्थलेषु विशेषार्चनमावर्तते इति | दर्शितचतुःस्थलेष्वित्यर्थः | तथा च यागैक्येऽपि तदभ्यासस्यापूर्वसाधनत्वेनावश्यकत्वादिति भावः | न चाभ्यासे सति यथा प्रोक्षणमन्त्रो नावर्तते तथा मन्त्रावृत्तिर्न स्यात् इति वाच्यम् क्रियाऽन्तरव्यवधाने अभ्यासेऽपि मन्त्रावृत्तेः अग्निहोत्रादौ दृष्टत्वात् | तथाऽत्रापि क्रियाऽभ्यासरूपत्वेऽपि स्वविजातीयक्रियाऽन्तरव्यवधानाद्युक्ता मन्त्रावृत्तिः || १२ || प्रासङ्गिकमुक्त्वा प्रकृतमाह-
SK
एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे | परिशिष्टं द्रष्टव्यम् | आवाहनीमुच्चार्य [पत्रे-४-खडे-३ सूत्रे तद्भाष्ये च एषा आवाहनी विद्यास्ति- ततो ग्राह्या-अथवा-द्दि. प. १५/३ वि. दृश्यः |] त्रिपुराम्बां सम्भाव्य ह्सौम्-इति बीजमुद्राकृतिः || १३ || परिशिष्टमित्यनन्तरं पूर्ववत् इति शेषः | आवाहनी तत्प्रकरणोद्धृता विद्या | सम्भाव्य पूजयित्वा | कृतिः कर्तव्येत्यर्थः || १३ || नवमावरणपूजा नवमावरणपूजामाह- बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिताऽस्त्विति पुनर्मूलमुच्चार्य महाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं [इमे द्वे मुद्रेपि-द्दि. प. शि. १५-८/१५-२ १५-८/२ विषययोर्दृश्ये |] प्रदर्श्य || १४ || प्. १६६)
SK
अत्रापि निबन्धकारः मूलान्ते श्रीललिताश्रीपादुकां पूजयामि इति योजयामास | तदशुद्धम् | एतत्पूर्वसूत्रे न तत्र मन्त्रदेवताभेदः कार्यः तन्महादेव्या एव चतुर्षु स्थलेषु इति वाक्ये स्थलचतुष्टयेऽपि महादेव्याः पूजनम् इति कण्ठरवेणोक्तम् | श्रुत्या श्रुतशब्दं परित्यज्य अश्रुतशब्दस्य कल्पनं अशास्त्रीयम् | अन्यथा सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः इत्यस्मिन् यागे सूर्यपर्यायशब्दं प्रक्षिप्य दिवाकराय जुष्टं निर्वपामि इति स्यात् | न च तत्र सूर्यशब्दः उत्पत्तिवाक्ये श्रुतः इह तु पूर्वसूत्रं नोत्पत्तिवाक्यं किं तु अभ्यासरूपगुणविधायकमिति वैषम्यम् इति वाच्यम् | नायमैकान्तिको नियमः उत्पत्तिवाक्य एव श्रवणमपेक्षितमिति | नक्षत्रेष्ट्युपहोमोत्पत्तिवाक्यं शोऽत्र जुहोति इत्येतावन्मात्रम् | नात्र देवतावाचकः शब्दः श्रूयते | तथाऽपि मन्त्रे- अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा इत्यत्र श्रूयमाणो योऽग्न्यादिशब्दः तं गृहीत्वा प्रथममन्वाधानेऽग्निमाज्येन इति व्यवहरन्ति न तु वह्निमाज्येनेति | यद्युत्पत्तिवाक्य एवेति नियमः तर्ह्यत्र स्वेच्छया स्यात् | न च अस्य क्रमस्य उत्पत्तिवाक्ये शक्तिचक्रैकनायिकायाः ललितायाः क्रममारभेत इत्यास्मिन् ललिताशब्दस्य श्रुतत्वात् तद्ग्रहणम् इति निबन्धाभिप्रायः वर्णितुं शक्यः | तथा सति पूर्वसूत्रे ललिताया एव चतुर्षु स्थलेषु इति वक्तव्ये तमपहाय महादेव्या एवेति कथनस्य फलं ब्रह्मणाऽपि वक्तुं अशक्यम् | मन्मते तु ललितामहादेवीशब्दयोः एकार्थकत्वेऽपि यत्र विशेषो न श्रुतः तत्र ललिताशब्दप्रयोगः यत्र श्रुतः तत्र श्रुतशब्दोच्चारणं अपूर्वजनकमिति ज्ञात्वा ललिताशब्दपरित्याग इति | फलं सङ्कल्पादौ श्रीललिताप्रीतये इति वक्तव्यम् | प्रकृते महादेवी शब्दस्य निरवकाशस्य प्रयोग उचितः | अत एवानया दिशा नवम्याः चक्रेश्वर्याः मन्त्रे महादेवीप्राप्तौ विशेषतश्चक्रेशीमिष्ट्वेति तत्र श्रुतत्वात् महादेवीशब्दबाधः सावकाशनिरवकाशयोः निरवकाशं बलीयः इति न्यायात् | न च एवं सति चतुर्षु मन्त्राभेदः प्रदर्शितः
SK
इदानीं त्रिषु महादेवीघटितो मन्त्रः एकत्र महाचक्रेश्वरीघटित इति मन्त्रभेदः पतितः कथमेतत् इति वाच्यम् निबन्धकारेणापि ललितामहाचक्रेश्वरीश्री० इति लिखितत्वेन अस्य दोषस्य उभयसाधारणत्वेनाचोद्यत्वात् | प्रत्युत निबन्धकारमन्त्रस्य ललितापदघटितत्वेन अस्त्यत्यन्तवैलक्षण्यम् | मन्मते देवीस्थाने चक्रेश्वरीमात्रप्रक्षेपे एकदेशविकृतमनन्यवत् इति वैय्याकरणपरिभाषामाश्रित्य निर्वाहो भविष्यतीत्यलमति विस्तरेण || महादेवीशब्दनिरुक्तिर्देवीभागवते- बृहदस्य शरीरं यदप्रमेयं प्रमाणतः | धातुर्महति पूजायां महादेवी ततः स्मृता || इति || वाग्भवेन ऐं इत्यनेन न प्रथमकूटेन पूर्वाष्टमुद्राबीजेषु वर्णैकत्वदर्शनात् तत्पङ्क्तिस्थस्यास्यापि तादृशत्वस्यावश्यकत्वात् | अतः ऐं इत्यस्यैव ग्रहणं युक्तम् || १४ || प्. १६७) धूपादिदानम् एवं नवावरणपूजां विधाय अग्रे कर्तव्यक्रियाशेषमाह- पूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि [द्दि. परि. १५ वि. दृश्यः |] दत्त्वा || १५ || धूपादिनैवेद्यान्तेषु पूर्वोक्तधर्माणां [अत्र पूर्वोक्तधर्माणामित्यनेनैतत्क्रमीयानुगत-४-६-७- सूत्रोक्तधर्माणामित्यर्थो ज्ञेयः ||] प्राप्त्यर्थं पूर्ववदिति | धूपादिषु ये पूर्वोक्तधर्माः तद्धर्मकाः ते धूपादयः कार्या इत्यर्थः | ते च धर्माः धूपदीपनैवेद्येषु पूर्वमन्त्राः | मुद्रासु पूर्ववत्त्वं तर्पणे मूलमन्त्रः त्रिरभ्यासः इत्येवंरूपाः ज्ञेयाः | आदिपदेन ताम्बूलकर्पूरनीराजनादिमद्द्रव्यप्रज्वलनप्रभृतयो ग्राह्याः || निबन्धकारः षोडश्युपासकः त्रिखण्डामपि प्रदर्शयेत् इत्युवाच | सः बभ्राम तथाव्यवस्थायाः सूक्ते अनुक्तत्वात् || त्रिखण्डाऽदिमुद्राणां स्वरूपम् अत्र संक्षोभिण्यादिमुद्राप्रदर्शनार्थं [एतत्संक्षोभिण्यादियोनिमुद्रान्तसर्वमुद्राणामुद्धारः द्वि. प. शि. १५- विषये दृश्यः |] तत्कथंभावज्ञानस्यावश्यकत्वात् तन्मुद्रादर्शनप्रकारः सप्रमाणं संक्षेपेण कथ्यते | तत्रावाहने प्रथमं विनियुक्ता त्रिखण्डोच्यते | त्रिखण्डालक्षणमुक्तं वामकेश्वरतन्त्रे-
SK
परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ | अनामाऽन्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती || कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि | त्रिखण्डेयं समाख्याता त्रिपुराऽह्वानकर्मणि || इति || परिवर्तनं नाम हस्तद्वयाङ्गुलिमेलनम् | इदं सर्वत्राधिकाररूपं सदन्वेति | अङ्गुष्ठौ सरलौ परस्परस्पृष्टौ तथैव कनिष्ठे मध्यमे च कुर्यात् | वामानामोपरि दक्षानामां तिर्यक् प्रसार्य तयोरधःप्रदेशात् तर्जनीद्वयमानीय कुटिलाकाराभ्यां तर्जनीभ्याम् अनामाऽग्रद्वयं धारयेत् | अनामे अन्तर्गते यथोरिति विग्रहेण लब्धोऽर्थः | अस्या उक्तरीत्या निर्माणे खण्डत्रयं दृश्यते | उपरि सरलाङ्गुष्ठद्वययोगः | मध्ये तादृशमध्यमायोगः | अधश्च कनिष्ठायोगस्तादृशः | एवं सति पूर्वोक्तवामाज्येष्ठारौद्रीकलात्रयरूपमस्यां स्फुटम् | अत एव त्रयः खण्डाः कलाः यस्याम् इति विग्रहेण त्रिखण्डेयम् अत्र यद्यपि खण्डद्वयनिर्माणप्रकार उक्तः | मध्यमखण्डरचनाप्रकारो नोक्तः | तथाऽपि त्रिखण्डेति योगार्थसम्पत्तये तन्त्रान्तरं शरणीकृत्य खण्डत्रयं सम्पादनीयम् | खण्डत्रयमुक्तं ज्ञानार्णवे- प्. १६८) पाणिद्वयं महेशानि परिवर्तनयोगतः | योजयित्वा तर्जनीभ्याम् अनामे धारयेत् प्रिये || मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः | अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु || त्रिखण्डा मम मुद्रेयं त्रिपुराऽह्वानकर्मणि || इति || सर्वसंक्षोभिणीस्वरूपं तत्रैव- मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते | तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके || एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी || इति || तन्त्रराजे तु- कनिष्ठाऽनामिकामध्याः नखैरन्योन्यसङ्गताः | कृत्वाऽङ्गुष्ठौ कनिष्ठास्थावृजू कुर्याच्च तर्जनी || सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी || इति || सर्वविद्राविणी मुद्रा तत्रैव- एतस्या एव मुद्राया मध्यमे सरले यदि | क्रियते चेन्महेशानि सर्वविद्राविणी तदा || इति ||
SK
मध्यमे मध्यमेऽप्रीत्यर्थः | एतेन तर्जनीमध्यमयोः द्वयोः सरलत्वं ज्ञेयम् || तृतीयमुद्राऽपि तत्रैवोक्ता- मध्यमा तर्जनीयुग्मे वक्रीकुर्यात् सुलोचने || एतस्या एव मुद्रायास्तदाकर्षणकारिणी || इति || तत्रैव चतुर्थी मुद्रा सर्ववशङ्कर्युक्ता- पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती | परिवर्त्य क्रमेणैव मध्यमे तदधोगते || क्रमेण देवि तेनैव कनिष्ठाऽनामिके अपि | संयोज्य निबिडाः सर्वाः अङ्गुष्ठावग्रदेशतः || मुद्रेयं परमेशानि सर्ववश्यकरी स्मृता || इति || अस्यार्थः पुटाकारौ परस्परं पृष्ठसंलग्नौ ऊर्ध्वाग्राङ्गुलिकौ हस्तौ कृत्वा ततोऽङ्गुष्ठव्यतिरिक्ताङ्गुलयः परस्परमङ्गुलिसन्धिषु प्रवेश्य तर्जन्यादिकनिष्ठाऽन्ता अङ्गुलयः अङ्कुशाकाराः कुर्यात् | एवं कृत्वा ततोऽङ्गुष्ठद्वयं अधोमुखं तर्जन्युपरि स्थापयेत् | इयं सर्ववशङ्करी इति भावः || प्. १६९) पञ्चम्यपि तत्रैव- संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽनुजे | अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् || दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ | मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् || इति || अयमर्थः वामकनिष्ठोपरि दक्षकनिष्ठां तिर्यगनामाद्वयोपरिमार्गेण मध्यमापर्यन्तं प्रसार्य तादृशकनिष्ठाऽग्रद्वयं मध्यमाद्वयेन दृढं गृह्णीयात् | गृहीतमध्यमानखोपरि दण्डाकारमङ्गुष्ठद्वयं स्थापयेत् | तथाऽनामाद्वयं परस्पराभिमुख्येन सरले कुर्यात् | अनामिकयोः पार्श्वद्वये तर्जनीद्वयमपि सरलं कुर्यात् | एषा सर्वोन्मादिनी मुद्रा योषिद्वश्यकरी इति || षष्ठी मुद्राऽपि सर्वमहाङ्कुशा तत्रैव प्रकटिता- अस्यास्त्वनामिकायुग्ममधः कृत्वाऽङ्कुशाकृति | तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् || इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिनी || इति || अस्याः सर्वोन्मादिन्याः | तेनैव क्रमेण अनामिकाक्रमेण | अनामिकाऽङ्कुशाकारा | तथैव तर्जनीद्वयमपि कर्तव्यम् | शेषं पूर्वमुद्रावत् इति भावः || सप्तमीं खेचरीमुद्रां तत्रैव व्याचचक्षे-
SK
सव्यं दक्षिणहस्ते तु दक्षिणं सव्यहस्ततः | बाहू कृत्वा महेशानि हस्तौ सम्परिवर्त्य च || कनिष्ठाऽनामिके देवि युक्त्वा तेन क्रमेण तु | तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे || अङ्गुष्ठौ तु महेशानि कारयेत् सरलावपि | इयं सा खेचरी नाम मुद्रा सर्वोत्तमा प्रिये || अस्य तात्पर्यम् बाहू सरलौ प्रथमं कृत्वा दक्षबाहूपरि वामं स्थापयित्वा पुनर्वामं हस्त दक्षहस्ताधोमार्गेण वामपार्श्वे निर्गमय्य हस्तद्वयाङ्गुलीः वक्ष्यमाणरीत्या ग्रथ्नीयात् | तद्यथा वामानामाकनिष्ठे दक्षमध्यमाधोमार्गेण दक्षतर्जन्यां नीत्वा एवं दक्षानामाकनिष्ठे वाममध्यमाऽधोमार्गेण वामतर्जन्यां नीत्वा हस्तद्वयतर्जनीभ्यां स्वसमीपागतानामाकनिष्ठे दृढं गृह्णीयात् | मध्यमे सर्वोर्ध्वं सरले एवाग्राभ्यां परस्परसंलग्ने स्थापयेत् | अङ्गुष्ठौ सरलौ कृत्वा योनिसादृश्यं सम्पादयेत् | इयं खेचरीमुद्रा | यद्यप्युक्तार्थः सर्वोऽपि पूर्वलिखितवचने नास्ति तथाऽपि- प्. १७०) वामं भुजं दक्षभुजे दक्षिणं वामदेशतः | निवेश्य योजयेत् पश्चात् परिवर्त्य क्रमेण हि || कनिष्ठाऽनामिकायुग्मे तर्जनीभ्यां निरोधयेत् | मध्यमे सरले कृत्वा योनिवत् सरलौ ततः || अङ्गुष्ठौ खेचरीमुद्रा पार्थिवस्थानयोजिता || इति ज्ञानार्णववचनेन सह एकवाक्यतां सम्पाद्य निष्कासितोऽर्थो ज्ञेयः || अष्टमीमुद्राऽपि तत्रैव प्रकटिता- परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये | तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः || अधःकनिष्ठाऽवष्टब्धे मध्यमे विनियोजयेत् | तथैव कुटिले योज्ये सर्वाधस्तादनामिके || बीजमुद्रेयमचिरात् सर्वसिद्धिप्रवर्तिनी || इति || अस्यार्थः अनामामध्यमामार्गेण व्यत्यस्ते कनिष्ठिके स्वाधोभागे मध्यमा यथा तिष्ठति तथा कुर्यात् | ततो मध्यमाद्वयं कनिष्टाद्वयावष्टम्भकं यथा तथा कुर्यात् | सर्वाधःस्थिते अनामे यावत्कुटिले भवतः तावत् कुर्यात् | अङ्गुष्ठतर्जनीयुगलं अर्धचन्द्राकृति यथा भवति तथा योजयेत् | इयं बीजमुद्रा भवति ||
SK
नवमीं योनिमुद्रां तत्रैव विशिनष्टि- मध्यमे कुटिलाकारतर्जन्युपरि संस्थिते | अनामिकामध्यगते तथैव च कनिष्ठिके || सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः | एषा तु प्रथमा मुद्रा योनिमुद्रेति या स्थिता || इति || अस्यार्थः अनामिके मध्यमाऽधोमार्गेण कुटिलाकारतर्जन्युपरि व्यत्यस्ते स्थापयेत् | अनामिकापृष्ठलग्ने व्यत्यस्ते कनिष्ठिके संयोजयेत् | अङ्गुष्ठाग्रद्वयं मध्यमामध्यपर्वद्वये योजयेत् | इयं योनिमुद्रा भवति | यद्यपि एतावानर्थो न लभ्यते तेन वचनेन तथाऽपि- अनामिकापृष्ठभागे मध्यमामध्यपर्वणि | कनिष्ठाङ्गुष्ठसंश्लेषान्महायोनिस्त्रिखण्डिका || इति स्थलान्तरे | अस्यार्थः या त्रिखण्डा सा महायोनिः | ततो विशेषस्त्वियान् मध्यमामध्यपर्वणी अङ्गुष्ठसंयोगः अनामिकापृष्ठभागेन कनिष्ठिकासंयोगः | शेषं त्रिखण्डया सममित्यर्थः | अनेन सह पूर्ववचनस्यैकार्थतायां क्रियमाणायां पूर्वलिखितार्थः संपद्यते || प्. १७१) एवं दशमुद्राः परमगहनाः यथामति सप्रपच्चं सप्रमाणं प्रपञ्चिताः प्रासङ्गिकाः | प्रकृतमनुसरामः || १५ || कामकलाध्यानम् अथ कामकलाध्यानं वक्तुमुपक्रमते- बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनिं कृत्वा कामकलामिति ध्यात्वा || १६ || सूक्ष्मं कलाध्यानं स्थूलं चेति द्विविधम् | तत्र सूक्ष्मकामकलाध्यानस्य अस्मत्परमेष्ठिगुरुभिः उत्तरचतुश्शतीव्याख्याने विस्तरेण सेतुबन्धे वरिवस्यारहस्ये च व्याख्यातत्वात् तादृशध्यानकर्तुः उपासकधौरेयस्य साम्प्रतं शशशृङ्गकल्पत्वेन तल्लेखनस्य केवलस्वपाण्डित्यमात्रख्यापकत्वम् इदानीन्तनवेदान्तशास्त्राध्ययनवत् स्यात् | अतः प्रथमं परित्यज्य स्थूलमेव मन्दाधिकारिणामुपयोगाय वर्णयिष्यामः | तद्यथा तुरीयस्वरे हकारे वा अंशत्रयं परिकल्प्य तत्र स्त्रीरूपं परिकल्प्य उर्ध्वांशे मुखकल्पनां मध्यमांशे कुचद्वयकल्पनां जघन्यांशे योनिकल्पनां च कृत्वा ध्यायेत् | तदुक्तं कुण्डलिनीविमर्शे-
SK
शक्तिमध्यपरिकल्पितांशकेष्वन्तरङ्गपरिभावने पटुः | ऊर्ध्वमध्यतदधो विभागशः चिन्तयेन्मुखकुचावधोमुखम् || अस्मिन् श्लोके शक्तिशब्दार्थः ईकारः इति बहवः | हकार इत्यपि केचित् | अधोमुखं योनिमित्यर्थः | शेषं स्पष्टम् | मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्योहरमहिषि ते मन्मथकलाम् इति श्रीभागवत्पादैरप्युक्तम् | सेतुबन्धे तु ईकार एव स्थूलध्यानमुक्तम् ईकारस्य बिन्दुविसर्गात्मनः शिवशक्त्योः सामरस्यरूपस्य स्वात्मत्वेन भावनायां परमानन्दानुभवः इति पङ्क्त्याम् | सालग्रामे विष्णुबुद्धिवत् भगवत्याः ध्यानाधिष्ठाननियमोऽयम् | एवं स्थूलध्यानेन जितान्तःकरणस्तादृशोपासकमकुटमणिः सूक्ष्मकलां सेतुबन्धादिलिखितां गुरुमुखात् ज्ञात्वा काममुपासीत | नान्ये इदानीन्तनाः तद्योग्याः | तादृशध्यानं च परदेवताश्रीगुरुप्रसादैकलभ्यम् | अयमर्थस्त्रिपुरार्णवे सुस्पष्टमुक्तः- सूक्ष्मध्यानेऽसमर्थश्चेत् स्थूलं ध्यायेद्यथोक्तवित् इति | इत्थं च पूर्वोक्तान्यतरवर्णे मुखं कुचौ योनिं चांशत्रये कृत्वा मनसा निर्माय कामकलाम् इति वक्ष्यमाणप्रकारेण [सन्निहिताधस्थ-१७-सूत्र भाष्योभयोक्त्यनुसारेणेत्यर्थः |] ध्यात्वा यथाऽवकाशमिति शेषः || १६ || वर्णविशेषे पूर्वोक्तावयवकल्पनानन्तरं विशिष्टे ध्यानप्रकारमाह- सौभाग्यहृदयमामृश्य || १७ || प्. १७२) सौभाग्यस्य धर्मादिसकलपुरुषार्थस्य हृदयं स्थानं उपादानकारणमिति यावत् | ईदृशं पूर्वोक्तरूपम् आमृश्य ध्यात्वा | पूर्वसूत्रस्थेतिशब्दस्य अत्राप्यनुवृत्तिः | अयमेवार्थः स्पष्टमुक्तः योगिनीतन्त्रे- एवं कामकलारूपम् अक्षरं यत् समुत्थितम् | कामादिविषमोक्षाणामालयं परमेश्वरि || इति || एतदुत्तरं निबन्धे होमः पाक्षिक उक्तः सः निर्मूलः यद्यग्निकार्यसम्पत्तिः इति सूत्रस्य गणपतिप्रकरणस्थस्य अन्यत्र प्रापकप्रमाणाभावात् || १७ || बलिदानम् अथ बलिप्रकारमाह-
SK
वामभागविहितत्रिकोणवृत्तचतुरस्रे गन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमः इत्यर्धभक्तभरिताम्भसा आदिमोपादिममध्य मभाजनं तत्र न्यस्य || १८ || अत्र वामभागेत्यनेन शीघ्रोपस्थितत्वात् स्वस्यैव वामभागो ग्राह्यः | विहिते निर्मिते त्रिकोणवृत्तचतुरस्रे | निर्गमरीत्या त्रिकोणं स्वाभिमुखं ग्राह्यम् तथा शिष्टसम्प्रदायात् || केचित्तु त्रिकोणे या बलिग्राहिणी देवता सा तिर्यग्रेखाद्वयसंयोगरूपकोणाभिमुखी त्रिकोणवर्तिदेवतानां तथात्वनियमात् | एवं च तन्त्रान्तरे- मूलदेव्युन्मुखां ध्यात्वा न्यस्याग्रे बलिपात्रकम् || इति वचनेन तस्या देवताया मूलदेव्युन्मुखत्वनियमात् | त्रिकोणमपि देव्युन्मुखमेव न स्वाभिमुखमित्याहुः | तन्न अनङ्गकुसुमादिश्रीचक्रस्थकोणेषु कोणपराङ्मुखीनां मूलदेव्यभिमुखीनां देवतानां बह्वीनां दृष्टत्वेन तादृशनियमासिद्धेः | न किंचिदेतत् || गन्धाक्षतेत्यनेन तदितरव्यावृत्तिः दर्शिता | अर्चने मन्त्रमाह- वाग्भवमित्यादि | वाग्भवं ऐं इति | शेषं स्पष्टम् | अर्धं भक्तेन अन्नेन भरिताम्भसा च सहितमिति शेषः | इदं भाजने विशेषणम् | एकस्मिन् पात्रे अर्धांशम् अन्नेन अर्धांशं जलेन पूरयेत् | ईदृशमेकं पात्रं क्षीरादिपात्रत्रयं च तत्र मण्डले न्यस्य | अत्र बलिपात्रं ताम्रमयम् बलिपात्रं ताम्रभवं नैवान्यत्तु कदाचन || इति त्रिपुरार्णववचनात् | व्यञ्जनादिमिश्रणं न कार्यम् एतत्तन्त्रे उक्तद्रव्येणैव द्रव्याकाङ्क्षाशान्तेः || प्. १७३)
SK
अत्र निबन्धकारः बाणमुद्रया बलिदानं वामपार्ष्णिघातादिकं लिलेख | सः प्रष्टव्यः किमत्र प्रमाणम् इति | स यदि ब्रूयात् श्यामाप्रकरणे सूत्रे उक्तत्वात् अत्रापि ते धर्मा गृह्यन्ते इति तर्हि तद्ग्रहणं आकाङ्क्षया उत अनाकाङ्क्षया | आद्ये बलिदाने द्रव्यदेवतामन्त्राणामाकाङ्क्षोदिता प्रकृतवाक्यैरेव शान्ता | बाणमुद्राया वामपार्ष्णिघातस्य च ग्रहणं कुर्वतः तस्यैव कीदृशी आकाङ्क्षोदितेति च न विद्मः | किं च श्यामाप्रकरणस्थपार्ष्णिघातादिधर्मेण किमपकृतम् | क्षेत्रपालवागीश्वर्यादिबलयोऽपि तत्र सन्ति | उक्तव्यतिरिक्ता अन्येऽपि मन्त्राः सन्ति | तैः निबन्धकृतोऽपराधः कोऽनुष्ठितः | श्यामाप्रकरणस्थत्वस्य तुल्यत्वेऽपि केषुचित् अनुगृह्णन् जग्राह केषुचित् रुष्टः तत्याजेति मूलं न विद्मः | किं च तत एव त्रिकोणादिमण्डलधर्माणां प्राप्तौ पुनर्विधानमत्र किमर्थम् इति चेत् वाग्बन्धनमेवोत्तरं नान्यदिति | तस्मात् स्वेच्छया धर्मप्रवर्तकसरणिः अश्रद्धेया | यावदुक्तं कार्यम् || १८ || बलिदाने मन्त्रमाह- प्रणवमायाऽन्ते सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं स्वाहा इति त्रिः पठित्वा बलिं दत्त्वा || १९ || त्रिः इत्यनेन मन्त्राभ्यासो विहितः | तेन त्रिःपाठान्ते बलिदानम् | देवता च मन्त्रलिङ्गेन ज्ञेया || १९ || प्रदक्षिणादि प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य || २० || प्रदक्षिणमेकं कार्यम् अजेशशक्तिगणपभास्कराणां प्रदक्षिणे | वेदार्धचन्द्रवह्न्यद्रिसङ्ख्याः सर्वार्थसिद्धयः || इति शक्तिसङ्गमतन्त्रे उक्तत्वात् | अजः विष्णुः | वेदाः चतस्रः | अर्धं तदर्धं द्वयम् | चन्द्रः एकः | वह्निः तिस्रः | अद्रिः सप्त | इमाः सङ्ख्याः अजादिप्रदक्षिणे क्रमात् ज्ञेयाः इत्यर्थः | श्रीमच्छङ्करभगवत्पादैरपि प्रदक्षिणं ते परितः करोमि इत्येकवचनान्तमेवोक्तम् [श्रीबाला- मानसपूजा-स्तोत्रे-मत्कृतबालातन्त्रचन्द्रिकायां-चायं श्लोकोस्ति |] || नमस्कारे तु इच्छैव नियामिका शास्त्रोपलब्धिपर्यन्तम् | नमस्कारे कश्चिद्विशेषः परमानन्दतन्त्रे- प्. १७४)
SK
पूजागृहाद्बहिर्देवीं प्रणमेत् दण्डवद्भुवि | मण्डले नमनं नैव साष्टाङ्गं दण्डवत् चरेत् || जानुभ्यां च पदाभ्यां च मूर्ध्ना हस्तयुगेन च | चतुरङ्गप्रणामोऽयं मण्डले विहितः शिवे || इति || मण्डललक्षणं योगिनीतन्त्रे- पूज्यते यत्र सा देवी तच्चतुर्दिक्षु शङ्करि | धनुश्शतप्रमाणेन मण्डलं परिकीर्तितम् || इति || धनुर्मानं तु हस्तचतुष्टयम् | बृहद्वामकेश्वरे तु- मण्डलं तद्विजानीयात् यावदृश्या हि देवता || इति || रहस्यार्णवे तु- द्वारपूजा यत्र कृता तदन्तर्मण्डलं विदुः || इति || अयं च देशतः परिच्छेद उक्तः | कालतः परिच्छेदस्तु शक्तिसङ्गमतन्त्रे- द्वारपूजां समारभ्य यावदुद्वासनं भवेत् | तावत्तन्मण्डलं विद्धि.................. || इति || त्रिपुरार्णवेऽपि- इदं तन्मण्डलं देवि प्रारभ्यैतस्य पूजनम् | मार्तण्डमण्डलार्ध्यान्तं .............. || इति || इदमेव मण्डलं वक्ष्यमाणमण्डलधर्मेषु ज्ञेयम् | पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् | विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा || इति ब्रह्माण्डपुराणोक्तजपसङ्ख्या ज्ञेया | अयं जपः कर्माङ्गभूतः अङ्गैरुभयतः सन्दंशात् | यद्वा- आवृत्तिर्गुरुनित्याऽर्चा समयाम्नाययोरपि | पूजात्रयं जपश्चैव प्रधानं पूजने मतम् || इति स्वतन्त्रतन्त्रे त्रयोदशोल्लासे जपस्य प्राधान्यकथनात् प्रत्यक्षवचनेन कथनस्य सर्वबाधकत्वात् || स्तोत्राणि गणेशग्रहनक्षत्रेत्यादिवामकेश्वरतन्त्रोक्तानि सहस्रनामपाठः अपराधस्तुतिः सत्यवकाशे सप्तशतीपाठोऽपि ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः इति तत्रैव विहितत्वात् | एवमादिभिः सन्तोष्य || २० || प्. १७५) शक्तिपूजा अथ शक्तिपूजामाह- तद्रूपिणीमेकां शक्तिं बालयोपचारैः सम्पूज्य तां मपञ्चकेन सन्तर्प्य || २१ ||
SK
तद्रूपिणीं त्रिपुरसुन्दरीरूपिणीं एकवचनेन एकामित्यनेन अद्वितीयां सौन्दर्येणेत्यर्थः | प्रतिपाद्यते | एतेन तन्त्रान्तरोक्तशक्तिलक्षणानि सूचितानि | बालया मन्त्रेण उपचारैः यथासम्भवैः | मपञ्चकेन सन्तर्पणं तस्याः इच्छायां सत्यां ज्ञेयम् | अयं भावः सन्तर्प्येत्यनेन ज्ञापितः | तर्पणं तृप्तिसम्पादनं तत् शक्तिनिष्ठतत्तद्विषयकेच्छानिवर्तको व्यापारः | तस्या इच्छायामसत्यां तन्निर्वर्तकव्यापारस्यापि असम्भवात् इच्छायामेव इति सिध्यति | अन्यथा मपञ्चकैरुपचारैश्च पूजयेत् इत्येव वदेत् | तस्मादयमर्थः सिद्धः | शक्तिलक्षणानि कुलार्णवे- सुरूपा [एतदादिश्लोकाः कुलार्णवतन्त्रे-७ उल्लासे-मुद्रितपुस्तके ६४ पत्रे सन्ति |] तरुणी शान्ताऽनुकूला मुदिता शुचिः | शङ्काहीना भक्तियुक्ता गुरुशास्त्रपरायणा || प्रियाक्षरा [प्रियेक्षणा-श्री.] विशेषज्ञा देवतापूजनोत्सुका | मनोहरा सदाचारा शक्तिरेवं सुलक्षणा || इति || योगिनीतन्त्रेऽपि सवर्णा हीनवर्णा वा कुलस्था कुलटाऽपि वा | मन्त्रोपासनसंयुक्ता पूज्या स्यात् गणिकाऽपि च || इति || दोषा अपि कुलार्णवे दूष्या [एमेपि श्लोकाः पूर्वतनोक्तपत्रस्थले एव सन्ति |] च कर्कशा लज्जाहीना च कुलदूषिणी | दुराचारा दुराराध्या भीता क्रुद्धा चलाऽलसा || निद्रासक्ताऽतिदुर्मेघाः हीनाङ्गी व्याधिपीडिता | दुर्गन्धा दुःखिता मूढा वृद्धोन्मत्ता रहस्यभित् || ईदृशीं मन्त्रयुक्तां च पूजाकाले [मुद्रितकुलार्णवपुस्तकेत्र-शक्तियोगे विवर्जयेदिति पाठोस्ति |] विवर्जयेत् || इति || यश्च योगिनीतन्त्रे- योग्या वाऽपि निषिद्धा वा बहुदोषाकुलाऽपि वा | काले सुवासिनीं प्राप्तां सर्वथा भक्तितोऽर्चयेत् || इति || प्. १७६) सः मुख्यालाभे पूर्ववचनैः निषिद्धाया अभ्यनुज्ञापरः विवाहे अनृतवदनवत् | यद्वा पूर्ववचनैः निषेधः प्रतिपादितो यः सः शक्तिपूजापरः | योग्या वा इत्यनेन तदतिरिक्तं सुवासिनीमात्रे पूजनं तत्काले प्रतिपादयति | युक्तश्चायमेव पक्षः || २१ || हविश्शेषप्रतिपत्तिः हविश्शेषप्रतिपत्तिमाह-
SK
शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा || २२ || अत्र शिष्टत्वं कुलार्णवे दर्शितम्- अहो भुक्तं तु यन्मद्यं मोहयेत् त्रिदशानपि | तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः || जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः || इति || ईदृशं शिष्टत्वं सामयिकनिष्ठम् | एतेन विशेषणेन आधुनिकाः कौलिकंमन्याः केवलं जिह्वाचपलाः मण्डले न प्रवेश्याः इति ज्ञापितं भवति | सामयिकैः सहेति सहत्वं एकजातीयक्रियाकर्तृत्वं पुत्रेण सह याति इत्यादौ तथा दृश्टत्वात् | प्रकृतेऽपि होमरूपैकजातीयक्रियाकर्तृत्वमस्तीति सहत्वं उपपन्नम् | चिदग्नौ चिल्लक्षणेऽग्नौ हविश्शेषं देवतोद्देशेन संस्कृतार्पितशेषम् | हुत्वेत्यनेन तत्र केवलहोमबुद्धिरेव विधेया | इन्द्रियतृप्तिविषयिणीच्छा न कदाऽपि कार्येति सूचितं भवति | मण्डले प्रवेशे इन्द्रियतृप्तीच्छायां पतित एव स्यात् इति भावः | अयं च उपयुक्तद्रव्यसंस्कारः आग्नेयं चतुर्धा करोति इतिवत् हविश्शेषम् इति द्वितीयाश्रवणात् || एतेनेदानीन्तनाः एकं कलशं असंस्कृतद्रव्येण परिपूर्णं स्थापयित्वा तस्मिन् विशेषार्घ्यबिन्दुं किञ्चिन्निक्षिप्य तद्द्रव्यं सामयिकेभ्यः प्रयच्छन्ति | तेषामनुकूलतया निबन्धकारोऽपि क्षीरकलशादिकं देव्याः पश्चाद्भागे निधायेति विशेषार्घ्यपात्रात् किञ्चित् क्षीरं कलशे निक्षिपेत् इति च वाक्यद्वयं लिलेख | इदं मूलं कृत्वा य ईदृशोऽनाचारः पतनहेतुः प्रवृत्तः सः लिखितसूत्रविरोधेन निरस्तः तस्मिन् हविःशेषत्वाभावात् | यदि च बिन्दुमात्रप्रक्षेपेण हविश्शेषत्वं स्यात् तर्हि आपणस्थद्रव्येऽपि बिन्दुप्रक्षेपं कृत्वा द्रव्यस्वीकारे दोषाभावेन महानुपप्लवः स्यात् || यच्च त्रिपुरार्णवे- तथा पूजानिमित्तं वै प्रथमाद्यमुपाहृतम् | यज्ञियं तत् पवित्रं स्यात् दृष्ट्वा स्पृष्ट्वा शुचिर्भवेत् || प्. १७७) तथैव मण्डले प्राप्तं सर्वं तदमृतं भवेत् | विप्रेणान्येन वाऽनीतं देवतायै निवेदयेत् || प्रथमाद्यैः संस्कृतैस्तु युक्तं तत्तदगात्मजे | अविशेषेण सर्वैस्तु ग्राह्यं शङ्काविवर्जितैः || इति ||
SK
संस्कृतद्रव्येण युक्तं असंस्कृतं संस्कृतं भवतीति कथयतीति यद्युच्यते तथाऽपि संस्कृतद्रव्यसंयोगो द्वेधा | संस्कृतद्रव्यस्य असंस्कृतद्रव्यपात्रे प्रक्षेपे सति एकः संस्कृते विशेषार्घ्यपात्रे असंस्कृतद्रव्यप्रक्षेपेणापरः | तत्र पूर्वस्मात् पक्षात् उत्तरपक्षो वरिष्ठः श्रौते कर्मणि सोमे द्रोणकलशे दर्शपूर्णमासे ध्रुवादौ तथा दृष्टत्वात् | किं च यदि संस्कृतद्रव्येण लौकिकं बहिष्ठं संस्कृतं भवेत् तर्हि अतिप्रसङ्गो दर्शितः पूर्वमेव [पूर्वमेव नाम १७६ पत्रस्थे- आपणद्रव्येऽपि-इत्यादितः० महानुपप्लवः स्यादित्यन्तेन लेखेनेत्यर्थः |] बहिर्द्रव्यस्य पात्रे प्रक्षेपपक्षे पूर्वोक्तातिप्रसङ्गोऽपि नास्ति इदमपि साधकम् | तस्मात् द्वितीयपक्ष एव श्रेष्ठः | तत्रापि पूजानिमित्तं भक्तेनानीतस्थल एव अयं प्रकारो नान्यत्र अशास्त्रीयत्वात् | इदानीन्तनाः बुद्ध्या यथेच्छं द्रव्यं सम्पाद्य मनःपूतं व्यवहरन्ति | तत्पतनायैवालं भविष्यतीति || वस्तुतस्तु इदमपि तन्त्रान्तरानुयायिनां न तु सूत्रानुयायिनाम् | सूत्रे हविश्शेषं हुत्वेत्युक्त्या कलशस्थासंस्कृतद्रव्ये हविश्शेषत्वं गीर्वाणगुरुणाऽपि प्रतिपादयितुमशक्यम् शास्त्रोक्तविधिना संस्कृत्य देवतायै दत्तशेषस्यैव हविश्शेषत्वात् | तस्मात् यागशेषेणैव होमप्रतिपत्तिसंस्कारः सूत्रानुयायिनां नान्यद्रव्येण इति राद्धान्तः || ननु तर्पणे आवरणपूजने च कृते सति यदा तत्रैव विनियोगः तदा इदं कर्म लुप्तं स्यात् इति चेत् न | यथा अश्वशफमात्रं पुरोडाशं करोति अङ्गुष्ठपर्वमात्रमवद्यति इति विधिभ्यां अनुष्ठिते हविश्शेषो नियतः तथा तन्त्रान्तरे- सामान्यकलशं पञ्चपलान्यूनजलैर्युतम् | दिक्पलादधिकं नैव हेतुकुम्भं तदर्धकम् | तदर्धं च विशेषार्घ्यम्.......................... ||
SK
इति मानानुसरणे सूत्रानुयायिनां हेतुकुम्भस्थानापन्नविशेषार्घ्ये हेतुकुम्भमानाङ्गीकारे षोडशशतगुञ्जापरिमितं विशेषार्घ्यद्रव्यं भवति | यदि च विशेषार्घ्यमानमेव अस्य तुल्यनामत्वात् अङ्गीक्रियते तदाऽपि अष्टशतगुञ्जापरिमितमित्यविवादम् | आवरणपूजादिषु एकैकदेवतोद्देशेन एकैकबिन्दुविनियोगो दृश्यते | तथा सति सामयिकानामात्मनश्च होमायालं द्रव्यं शिष्यत एव | अस्मिन् शास्त्रे द्रव्यस्वीकारजनितोऽवस्थाविशेषः उल्लासः | सोऽपि द्रव्यस्यात्युत्तमत्वे भवितुमर्हति इति न काऽप्यनुपपत्तिः || प्. १७८) अत्र होमेतिकर्तव्यतायाः [कर्तव्यतायाम्-इति सप्तम्यर्थोत्रावधेयः |] शिष्टानां मण्डले प्रवेशधर्माणां च अनुक्तेः कथं शिष्टैः सह होमं कुर्यात् इत्याकाङ्क्षायां तन्त्रान्तरं तद्विषये शरणीकार्यम् | तथा सति आदौ मण्डलधर्माः उच्यन्ते | ते चोक्ताः परमानन्दतन्त्रे- क्षताङ्गो ज्वरिताङ्गश्च मलिनाम्बरमूर्धजः | आशौचाङ्गस्तथोष्णीषी कञ्चुकी कृतभोजनः || पूयिताङ्गस्तथोच्छिष्टमुखो मरणसूतकी | अपस्मारी क्लेशयुक्तः छर्द्यतीसाररोगवान् || प्रायश्चित्ती तथाऽस्नातो न विशेन्मण्डले क्वचित् | सकृन्मोहात् प्रविष्टोऽपि देवताशापमाप्नुयात् || यदि तेषां तु भक्तिः स्यादुत्कटा दर्शनादिषु | पूजागृहद्वारदेशाद्बहिः पूजां समाचरेत् || इति || त्रिपुरार्णवे भुक्तस्य विशेषः- अतर्कितो दिवा भुक्तो यदा रात्रौ समागतः | तदा गुर्वाद्याज्ञया तु स्नात्वा सेवेन्न चान्यथा || इति || इदमपि सेवनं मण्डलाद्बहिरेव | भुक्त्वा न मण्डलं गच्छेत् सर्वथा परमेश्वरि | इति मण्डलप्रवेशनिषेधबाधकशास्त्राभावात् || यच्च कुलार्णवे- अस्नात्वा वाऽपि भुक्त्वा वा अभक्त्या [अभ्यङ्क्त्वा-श्री.] वा कुलेश्वरि | यः सेवेत कुलद्रव्यं स दारिद्र्यमवाप्नुयात् ||
SK
इति भुक्तस्य कुलद्रव्यसेवननिषेधशास्त्रं कामं बाधतां प्रवेशनिषेधबाधकाभावात् प्रवेशो न कर्तव्यः | न च मण्डलात् बहिः स्वात्मीकारविध्यभावेन स्वात्मीकारविधिना प्रवेशोऽप्याक्षिप्यते इति वाच्यम् | तथा सति त्रिपुरार्णवे भुक्त्वा न मण्डलं गच्छेत् इति प्रवेशनिषेधेनैव स्वात्मीकारनिषेधे सिद्धे- कुलद्रव्यं तथा भुक्त्वा मोहादपि प्रमादतः | यः सेवेत स वै देवि देवताशापमाप्नुयात् || इत्यनेन उन्नीतः कुलद्रव्यसेवननिषेधो व्यर्थः स्यात् | अतोऽनेनैव ज्ञापकेन बहिरपि सेवनं द्रव्यस्य सिद्धम् || प्. १७९) एवं प्रवेशायोग्यानुक्त्वा प्रवेष्टृगुणानप्याह परमानन्दतन्त्रे- स्नातः शुचिर्धौतवस्त्रो धृतपुण्ड्रः शुभाशयः | क्षालिताङ्घ्रिकरो देवीं ध्यायन् भक्त्या प्रणम्य च || आचार्याज्ञाऽनुरूपेण मण्डलान्तर्विशेत् ततः | भावयन् देवतारूपं मण्डलं प्रणमेत् बुधः || पुष्पाञ्जलिं ततः कुर्यात् तद्विधानं निगद्यते | सामान्यकुम्भतोयेन करौ प्रक्षाल्य भक्तितः || सुरभीकृत्य गन्धाद्यैः पुष्पाण्यादाय भक्तितः | उत्थाय च ततो देवि देवताऽभिमुखस्थितः || श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् | वीरान् ह्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् || सम्प्राप्तपञ्चदश्यादिः साधकस्तु महेश्वरि | समष्टियोगिनीविद्यामपि तत्र पठेच्छिवे || देवतां ध्यानोक्तरूपां ध्यायन् सम्पूज्य शङ्करि | आचार्यादींस्ततो ध्यात्वा पूजयेत् परमेश्वरि || प्रणमेदुक्तविधिना ज्ञात्वा सर्वं शिवात्मकम् | स द्वितीयं समादद्यात् पात्रमाचार्यसत्तमात् || पात्रं ग्राह्यं दक्षकरे दीक्षायुक्तेन शङ्करि | अन्येन तु समादेयं वामहस्तेन शङ्करि || अथवा वामहस्तेन सर्वैर्ग्राह्यं महेश्वरि | हस्तान्तरेण त्वाच्छाद्य गृह्णीयात् दापयेदपि || अनाच्छादितपात्रं तु भवेदसुरभागकम् | तर्पणाद्युपयोगे तु छादनं तु परित्यजेत् ||
SK
उपवेशक्रमं देवि शृणु संयतमानसा | मण्डलाकारतो वाऽपि चतुरस्रतयाऽथवा || आचार्यं मध्यतः कृत्वा विशेत् ज्येष्ठक्रमेण तु | ज्येष्ठेषु सत्सु न विशेत् आचार्यस्य समीपतः || प्. १८०) न साम्येन गुरोः स्थेयं स्त्रीणां मध्ये तथैव च | नाग्रतस्तु गुरोर्देवि नाज्ञामुल्लङ्घ्य वै गुरोः || एवं ज्ञात्वा सम्प्रदायं निषीदेन्मण्डले शिवे | आचार्योऽपि तथा ज्येष्ठानुत्थाय प्रणिपत्य च || तेषामाज्ञां गृहीत्वैव स्वासनेऽथ समाविशेत् | तस्मै च पात्रं दद्याद्वै ज्येष्ठायोत्थाय साधकः || ज्येष्ठान् कनिष्ठोऽपि देवि गृह्णीयादुत्थितो नमन् | सर्वान् संपूज्य पात्राणि दातव्यानि महेश्वरि || असम्पूज्य शिष्यमपि यो दद्यात् पात्रमम्बिके | तस्मै कुप्यति सा देवी यस्मात् सर्वं हि तन्मयम् || प्रक्षाल्य पात्रं पुष्पादियुतमाच्छाद्य यत्नतः | आचार्याय तथा दद्यात् नमस्कुर्याच्च भक्तितः || स्वीकृत्य तत्प्रसादं वै जप्त्वा स्तोत्रादिकं पठेत् || इति || त्रिपुरार्णवे- शक्त्या स्वर्णादिसंयुक्तमर्पयेत् पात्रमम्बिके | यत्किंचिद्वाऽपि पात्रस्थं दत्वाऽनन्तफलं लभेत् || इति || सुवासिनीनां विशेषो योगिनीतन्त्रे- एवं सन्तर्प्य हुत्वा तु सुवासिन्यः सशेषकम् | दद्युस्तृतीयं तुर्यं वा पात्रं पीठाधिकारिणे || इति || त्रिपुरार्णवे कश्चिद्विशेषः- वीरात् ज्येष्ठात् तथाऽचार्यात् ग्राह्यं शेषं च चर्वणम् | तदभावेऽपि चान्यस्मात् ज्येष्ठात् ग्राह्यं नगात्मजे || बृहद्वामकेश्वरतन्त्रे- गुर्वाद्यभावे ज्येष्ठात्तु चर्वणं शेषमर्पयेत् | तदभावे गुरुं मूर्ध्नि ध्यात्वा तच्छेषकं [माहरेत्-श्री.] न्यसेत् || आदौ वा गुरुशेषं स्यात् सर्वान्ते वा नगात्मजे | पिबेदशब्दं पात्रं तु सकृन्निरवशेषकम् || सावशेषं तु यत्पात्रं सुरापानसमं तु तत् || इति || प्. १८१) पात्रस्य ओष्ठास्पर्शेऽपि निषेधस्तत्रैव- दूरादोष्ठास्पर्शनेन पानं तु पशुपानवत् || कुलार्णवेऽपि-
SK
करेण पात्रं धृत्वाऽथ न तिष्ठेत चिरं प्रिये | नालपन् पात्रहस्तः सन् तिष्ठेत क्वचिदम्बिके || पादेन न स्पृशेत् पात्रं न बिन्दुं पातयेदधः | नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः || साधारं नोद्धरेत् पात्रं निराधारं न निक्षिपेत् | रिक्तं पात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये || न पात्रं लङ्घयेद्विद्वान् पात्रं नोत्पातयेत् प्रिये | प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा पारमेश्वरी || इति || परमानन्दतन्त्रे कश्चन विशेषः- अर्घ्यस्थापनमारभ्य यावत् पात्रविसर्जनम् | सर्वं शिवमयं पश्येदन्यथा पतितो भवेत् || सर्वे वर्णा द्विजास्तत्र न भेदं चिन्तयेत् क्वचित् | उद्वासानन्तरं नैक्यं कुर्याद्विद्वान् कदाचन || स्वात्मीकारस्त्रिधा देवि दिव्यवीरपशुक्रमात् | उद्वासावधि दिव्यः स्यात् तत्पश्चाद्वीर उच्यते || असंस्कृतः पशुः प्रोक्तो विप्राणामाद्य एव तु | अपशुः क्षत्रियविशां शूद्राणां त्रितयं भवेत् || इति || कुलार्णवेऽपि- भुक्तिमुक्तिप्रदं [मुक्तिप्रद भवेद्दिव्यं-श्री.] दिव्यं वीरं भुक्तिप्रदं भवेत् || इति || रहस्यार्णवेऽपि- सम्पूज्यैवं विधानेन विप्रश्चोद्वासनावधि | द्रव्यं पिबेत् तदन्तेऽपि क्षत्रियो वैश्य एव च | शूद्रस्त्विच्छाऽनुरोधेन विधिना वाऽन्यथाऽपि वा || निवेद्य देवतायै तत् संतर्प्य प्रपिबेदनु || इति || प्. १८२) एतावन्तः अत्यावश्यकधर्माः निरूपिताः | इतोऽधिका अनेकतन्त्रावलोकनेन ज्ञेयाः | ग्रन्थविस्तरभयान्नेह लिख्यन्ते || अत्र सामयिकानां कल्पसूत्रानुयायिनाम् अन्येषाम् उक्ताः मण्डलधर्माः तुल्याः | होममन्त्रः सूत्रानुयायिनाम् आर्द्रं ज्वलति इति मन्त्र एव मन्त्राकाङ्क्षायां तन्त्रान्तरमन्त्रात् अस्य सन्निकृष्टत्वात् | अन्येषां स्वस्वतन्त्रोक्ता सरणिः | अत्रेयं व्यवस्था चिन्त्यते पीठाधिकारिणा स्वकर्तृकपूजाफलसिद्धये प्रतिपत्तिसंस्कारस्य अवश्यमनुष्ठेयतया स मण्डले ध्यानसमर्थोऽसमर्थः वा कामं द्रव्यस्वीकारं करोतु | सामयिकस्तु द्रव्यहोमानन्तरं शास्त्रोक्तध्यानसमर्थ एव द्रव्यं हुनेत् | नान्यः | तथा हि-
SK
अन्तर्निरन्तरमनिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकासमाने विश्वं जुहोमि वसुधाऽदि शिवावसानम् || धर्माधर्महविर्दीप्तावात्माग्नौ मनसा स्रुचा | सुषुम्णावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् || इति मन्त्रलिङ्गेन कल्पितो ध्यानप्रकार आवश्यकः | देवीयामलेऽपि- होमेन चेतनां जित्वा ध्यायेदात्मानमात्मना || इति || कुलार्णवेऽपि- तन्मैरेयं शिवं पीत्वा यो न विक्रियते नरः | जपन् शिवपरो भूत्वा स मुक्तः स च कौलिकः || इति || परमानन्दतन्त्रेऽपि- स्वीकृत्य तत्प्रसादं वै ध्यायेन्निश्चलमम्बिकाम् || इति || वीरचूडामणौ गणेश्वरसंहितायाम्- द्रव्यमास्वाद्य विधिना मनो निश्चलतां नयेत् | ततो ध्यायेत् परं ज्योतिरात्मज्योतिः सनातनम् || इत्यादिमनोनिग्रहपूर्वकध्यानविधायकवचनानि बहूनि- यावत् सुषुप्तता न स्यादविकारित्वमेव च | तावदेव हुनेत् देवि निष्फलं त्वन्यथा भवेत् || इति || विकारे तु समुत्पन्ने ध्यानयोगबहिष्कृतः | योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः || इत्यधिकपात्रहोमे ध्यानभ्रंशमूलानर्थोऽपि तन्त्रे | तेनापि ध्यानावश्यकता सिध्यति | एवमादीनि बहूनि सन्ति | ग्रन्थविस्तरभयान्नेह लिखितमेतावदलमिति || प्. १८३) इत्थं च द्रव्यसेवनस्य प्रथमफलं चित्तैकाग्र्यं तेन विना ध्यानासम्भवात् | अत एव परमानन्दतन्त्रे- तावदेव हुनेत् देवि यावदानन्दसम्प्लुतः | मनो निश्चलतां याति चित्तं चापि प्रसादताम् || विकारे तु समुत्पन्ने ध्यानयोगविहीनतः | योगिनीनां पशुर्देवि मण्डलाच्च बहिष्कृतः | इति अयोग्यस्य द्रव्यस्वीकारे अनिष्टं फलं दर्शयति | योगिनीतन्त्रेऽपि- कुलद्रव्यं समाश्रित्य मनो निश्चलतां नयेत् || इति || त्रिपुरार्णवेऽपि- अयं सर्वोत्तमो धर्मः कौलमार्गो महेश्वरि | असिधाराव्रतसमो मनोनिश्चलहेतुकः || तत्र संयतचित्तत्वं सर्वथा ह्यतिदुष्करम् | भक्तिश्रद्धाविहीनस्य...................... ||
SK
इत्येवमादीनि तन्त्रवचनानि द्रव्यसेवनं मनोनिग्रहद्वारा ध्यानार्थं कर्तव्यं विपरीते बाधत इति कोटिशः उपलभ्यन्ते | एवमादितन्त्रवचनार्थानां सङ्ग्रहं कुर्वन्नेव श्रीपरशुरामः शिष्टैः सह इत्युवाच | ईदृशध्यानसमर्थो व्रतादिदिवसेष्वपि अविचारेण अनादृतोऽपि मण्डलं प्रविश्य पात्रं याचित्वा हुत्वा ध्यानं सम्पादयेत् | तदुक्तं त्रिपुरार्णवे- एवं सामयिको भक्त्या मानदम्भविवर्जितः | अनाहूतोऽपि [अनादृतोऽप्यनाहूतो-श्री.] वाऽहूतो व्रजेन्मण्डलमुत्तमम् || व्रती वाऽपि हुनेदेव न दोषस्तत्र विद्यते | व्रतादिशङ्कया यस्तु न व्रजेदादृतोऽपि सन् || व्रतं तस्य प्रतिहतमनर्थं च समाप्नुयात् | तस्मात् कनिष्ठाहूतोऽपि प्रविशेदेव मण्डले || इति || अत्र ज्येष्ठत्वं कनिष्ठत्वं च विप्राणां दीक्षापूर्वापरभावेन ज्ञेयम् | तदुक्तं रुद्रयामले- बालोऽपि दीक्षितः पूर्वं ज्येष्ठः स तु कुलागमे || इति || द्विजोऽपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः | द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रविनिश्चयः || इति || प्. १८४) तत्रैव वचनात् क्षत्रियादीनां पश्चात् दीक्षितोऽपि द्विज एव ज्येष्ठः | क्वचिदुच्छिष्टग्रहणे योनिसम्बन्धादपि ज्येष्ठत्वं प्रतिपादयति | तदुक्तं त्रिपुरार्णवे- विद्यासम्बन्धतो वाऽपि योनिसम्बन्धतस्तथा | ज्येष्ठानामपि चोच्छिष्टं दीक्षितानां च भक्षयेत् || इति || दीक्षाहीनस्य चोच्छिष्टं जनकस्यापि दीक्षितः | न भक्षयेत् सकृद्वाऽपि भुक्त्वा पातित्यमाप्नुयात् || इति || अथ प्रसङ्गात् केन कियद्द्रव्यसेवनं कार्यं ? तद्विविच्यते | तत्र बालोपास्तौ त्रिपात्रं पञ्चदशीमन्त्रोपदेशवतः चतुष्पात्रं षोडश्यादिदीक्षावतः पञ्चपात्रम् | तदुक्तं परमानन्दतन्त्रे- सौभाग्यतोपासकस्य चतुस्तत्त्वं भवेच्छिवे | बालाद्युपासकानां तु तत्पूजोक्तविधानतः || तेषां तु तत्त्वत्रितयं अन्यत् सर्वं समं भवेत् || इति || दीक्षावतां पूर्णपात्रं पञ्चमं तु भवेच्छिवे | हुत्वा शिवाग्नौ क्रमशः त्रिचतुःपञ्चपात्रकम् || इति || ननु-
SK
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले | उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते || आनन्दात् तृप्यते देवी मूर्च्छया भैरवः स्वयम् | वमनात् सर्वदेवास्तु तस्मात् त्रितयमाचरेत् || इत्यादिकुलार्णवप्रभृतितन्त्रेष्वनियतपानस्योक्तत्वात् कथं पात्रनियम इति चेत् शृणु शास्त्राभिप्रायं अज्ञस्तत्त्वबुभुत्सुश्चेत् | पीत्वा पीत्वेति लिखितवचनम् आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः इत्यादिकुलार्णववचनं यथेच्छयाऽनुरूपं न सर्वेषां किं तु पूर्णारूढानाम् | अत एव कुलार्णवे आगलान्तम् इत्यस्याव्यवहितप्राक् पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते इति प्रतिज्ञाय आगलान्तं पिबेत् द्रव्यम् इत्यादिवचनानि लिखितानि | पूर्णाभिषेकलक्षणमपि तत्रैव कुलार्णवे- यो निन्दास्तुतिशीतोष्णसुखदुःखादिसम्भवे | समः सर्वत्र योगीशो हर्षामर्षविवर्जितः || इत्यादिना तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् | देवतागुरुभक्तश्च शाम्भवीमुद्रयाऽन्वितः || स च पूर्णाभिषिक्तः स्यात् कौलिको न तु दीक्षया || इति || प्. १८५) ईदृशो यः पूर्णाभिषिक्तः स एव पूर्णारूढः तस्यैव आगलान्तमिति विधानम् | अत एव अमृतारहस्ये- ब्रह्मज्ञानी सुरां पीत्वा कुलाचारे चरन् मुहुः | भूमौ पतति तस्याङ्गे लगन्ति यदि रेणवः | तावत्कालं रेणुसङ्ख्यं ब्रह्मलोके स मोदते || इति वचने ब्रह्मज्ञानीति समष्टिशब्देन कुलार्णवोदितं विशिष्टार्थमाह | इदानीन्तनाः तन्त्रार्थमजानन्तो रागान्धाः स्वाधिकारम् अविचार्य पीत्वा पीत्वेति तन्त्रवचनानि लोकानां दर्शयित्वा स्वयं यथेच्छाऽचारं कुर्वन्तः परेषां बुद्धिमपि तिरोदधिरे | ते यावच्चन्द्रदिवाकरौ तावन्नरकयातनामुपलभेयुः [अत्र उपलभेरन्-इति व्याकरणदृष्ट्या स्यात् |] | अत्र प्रमाणं परमानन्दतन्त्रे- यावन्न चलते दृष्टिर्यावन्न चलते मनः | तावत्पान्नं प्रकुर्वीत पशुपानमतः परम् || यावन्नेन्द्रियवैकल्यं यावन्न मुखवैकृतिः | तावदेव पिबेत् द्रव्यमन्यथा पतनं भवेत् || इति ||
SK
यथा साधकः स्वयोग्यताऽनुसारेण द्रव्यं स्वीकुर्यात् एवमाचार्योऽपि योग्यतां दृष्ट्वैव पात्रं दद्यात् | तदुक्तं कुमारीतन्त्रे- कौलिके पात्रमधिकं प्रयच्छत्यविचारयन् | तदियमधिकारं सः सह तेनैव मज्जति || इति || तत्रैव- पानमेकप्रयत्नेन यावत् द्रव्यस्य वै भवेत् | तदारम्भे भवेत् पात्रं न न्यूनं नाधिकं शिवे || इति || पानपात्रमानं नीलातन्त्रे | एकप्रयत्नसाध्यपानसाधनद्रव्यमानं पात्रं भवति इति तदर्थः | किं च तन्त्रान्तरे- उल्लासभेदमज्ञात्वा प्राप्य मूढत्वमम्बिके | जिह्वालोलुपभावेन चेन्द्रियप्रीणनाय च | यः पिबेत्तं तु तामिस्रे मातृकाः पातयन्ति वै || इति || इत्थं च इदानीन्तनानां अतिजितेन्द्रियाणामपि [अजितेन्द्रियाणामार-श्री.] आरम्भोल्लासपर्यन्तानुधावनमेव युक्तम् | अत एवोक्तं तन्त्रे- प्. १८६) अशक्ताबुधबालानामारम्भः परिकीर्तितः || आरम्भोल्लासलक्षणं तत्रैव- यस्य यावत् पात्रमुक्तमारम्भस्तस्य तावता || इति || प्रसक्तानुप्रसक्ते अलं पल्लवितेन | इतः शेषमग्रे उल्लासविलासे चरमखण्डे [अत्र चरमखण्डे इत्यनेन १०-खण्डे-६८-सूत्रे भाष्ये च इत्यर्थो ज्ञेयः | सूत्रस्य पुनरावृत्तौ शोध्यं सूचयितव्यकम् | परिशिष्टस्थलं चैव पूर्णमाद्याप्रसादतः || इति पञ्चमः खण्डः-श्रीः ||] वक्ष्यामः || २२ || देवीविसर्जनम् खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनि संयोजयेत् इति शिवम् || २३ || || इति ..... कल्पसूत्रे ललितानवावरणपूजा नाम पञ्चमः खण्डः || खेचरीं बद्ध्वा बन्धनानन्तरं- ज्ञानतोऽज्ञानतो वाऽपि यद्यदाचरितं शिवे | तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि || इति क्षमाप्य विसृजेत् | विसर्गो नाम पूजार्थमाहूतायाः पुनः स्वस्थानं प्रति नयनम् | आत्मनि हृत्कमले योजयेत् स्थापयेत् | शिवमिति प्रकरणसमाप्तिद्योतकम् || || इति...कल्पसूत्रवृत्तौ श्रीललितानवावरणपूजा नाम पञ्चमः खण्डः || षष्ठः खण्डः-श्यामाक्रमः
SK
श्यामे सङ्गीतमातः परशिवनिलये मुख्यसाचिव्यभारो- द्वाहे दक्षे दयापूरितनिजहृदये मामकीं दैन्यवृत्तिम् | श्रीमत्सिंहासनेश्यां भववनपतितान् दावदग्धान्नमस्ते त्रातुं पीयूषवर्षैः कथय परिकरं बद्धवत्यां विविक्ते || श्यामोपास्तिविधिः श्रीभगवान् परशुरामः श्यामाक्रमं विवक्षुः तस्यामुपासकानामुपास्यत्वज्ञानोत्पत्तये अङ्गीकृतश्रीविद्योपासनस्य यो वै स्वां देवतामतियजते प्रस्वायै देवतायै च्यवते न परां प्राप्नोति पापीयान् भवति इति श्रुत्या स्वीकृतैकदेवतोपास्तेरन्यदेवतोपासनमनिष्टजनकमिति यत् प्रतिपादितं तेन कलुषितचेतसां कालुष्यनिवृत्तये च आदौ तद्गुणस्वरूपं वर्णयति- इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याः प्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या || १ || पराशक्तेः स्वरूपं उदास्यत्वं च इयं वक्ष्यमाणा | इयमित्युत्तरं येति शेषः | या महती निरवधिकमहत्त्ववती सिंहासनं परशिवः स्वाधिष्ठानरूपत्वात् तस्य ईश्वरी तन्निष्ठसृष्टिस्थितितिरोधानसङ्कल्पनिर्वाहकर्त्री | तदुक्तं शङ्करभगवत्पादैः- शिवः [अयं श्लोकः सौन्दर्यलहर्यां प्राथमिकः तत्पूर्वार्धमिदम् |] शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं | न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि || इति || अगस्त्यसंहितायामपि विद्यावतीस्तुतौ- यया देव्या विरहितः शिवोऽपि हि निरर्थकः | नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये || इति || इयं मायातो विलक्षणा चिद्रूपा न जडस्वभावा | तदुक्तं सूतसंहितायाम्- सदाकारा परानन्दा संसारोच्छेदकारिणी | सा शिवा परमा देवी शिवाभिन्ना शिवङ्करी | शिवाभिन्ना तया हीनः शिवोऽपि हि निरर्थकः || इति || प्. १८८)
SK
ननु मुख्यं शिवे सृष्ट्यादिकर्तृत्वं तन्निर्वाहकत्वमात्रं यदि शक्तेः तर्हि मुख्यजगत्कर्तृत्वनियन्तृत्वादि शिवनिष्ठम् | इयं च सहकारिणी | तथा सति मुख्यत्वात् शिवः एवोपास्यः न शक्तिः इति चेत् शृणु | क्षित्यादिकार्यजातं कारणमन्तरेणानुपपन्नम् इत्यनुपपत्त्यैव हि शिवस्य शक्तेर्वा कल्पनम् | न हि चर्मचक्षुषा शक्तिं शिवं वा पश्यामः | एवं कल्पयितुमारम्भे अत्र वेदान्तिनः परस्य चिद्रूपस्य ब्रह्मणः धर्मो माया सैवाविद्या जडस्वभावा सैव जगदुपादानं परं ब्रह्म तु विवर्तोपादानं अत एव जडोपादानत्वात् जगदपि जडस्वभावं मायोपादानत्वात् मिथ्यात्वं च इति प्राहुः | तं पक्षं तान्त्रिकाः न क्षमन्ते | तथा हि या मायाऽविद्येत्युच्यते सा चिद्धर्मोऽन्यधर्मो वा आद्ये धर्मधर्मिणोरभेदस्य वेदान्तिनामप्यनुमतत्वेन चिद्धर्मस्य जडत्वानुपपत्तिः | अचिद्धर्मत्वे अद्वैतहानिः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति प्रमाणविरोधश्च | अतः गत्यभावात् सा माया चिद्धर्म इत्यवश्यं वाच्यम् | तथा सति तस्या जडत्वं दूरतो निरस्तम् | न च चिदतिरिक्ता शक्तिः नास्ति इति वाच्यम् वयमपि तमेवार्थं ब्रूमः | परं तु पृथिवीव्यतिरिक्तगन्धाभावेऽपि धर्मो धर्मी इति व्यवहारानुरोधेन ईषद्भेदः कल्प्यते एवं द्वयोः चिद्रूपत्वेऽपि ईषद्भेदो व्यवहारार्थं कल्प्यः | एवं च जगदुपादानत्वं द्वयोरपि न सम्भवति जडस्वभावत्वात् जगतः | न हि प्रकाशात् तमो भवितुमर्हति | अतः चिति जगत् सूक्ष्मरूपेण बीजे वटवृक्षवत् सर्वदा अस्त्येव | तदवयवशैथिल्यपूर्वकविस्तारसङ्कोचकर्तृत्वमेव चिति न तु तदुपादानत्वं यथा वणिजः प्रभाते क्रय्यवस्तूनां प्रसारणं रात्रौ सङ्कोचः तादृशं कर्तृत्वं चितः | तत्सहकारिणी चिच्छक्तिः ||
SK
ननु चिदतिरिक्ता ईषद्भेदवती तन्निष्ठकर्तृत्वनिर्वाहिका शक्तिः किमित्यङ्गीक्रियते चित्येव तत्कर्तृत्वमास्ताम् | अन्यथा तुल्ययुक्त्या कुलालादिष्वपि घटकर्तृत्वाश्रया एका शक्तिः सिध्येत् इति चेत् न श्रुतिस्मृतिलोकव्यवहाराणां सत्त्वात् | पराऽस्य शक्तिर्विविधैव श्रूयते इति श्रुतिः | देवीभागवतेऽपि- शक्तिः करोति ब्रह्माण्डं सा वै पालयतेऽखिलम् | इच्छया संहरत्येषा जगदेतच्चराचरम् || न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः | न सूर्यो वरुणः शक्ताः स्वे स्वे कार्ये कथंचन || तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः | कारणं सैव [नैव-श्री.] कार्येषु प्रत्यक्षेणावगम्यते || प्. १८९) वस्तुजालं शक्तिहीनं [हीनैः-श्री.] शक्तं कर्तुं न किञ्चन | शक्तं तु परमेशानि शक्त्या युक्तं यदा भवेत् || इति बहुविस्तरेण | आ गोपालङ्गनमाच [अत्राशुद्धानि अक्षराणि संशोध्य वाच्यानि |] पण्डितम् इदं कार्यं कर्तुं मम शक्तिरस्ति मम शक्तिर्नास्ति इति व्यवहरन्त्यविवादेन | तस्मात् बहुप्रमाणसिद्धा शक्तिः तन्निर्वाह्यं जगदपि शिवकुक्षौ सदा सूक्ष्मरूपेणास्त्येव || अथ वा चितो या शक्तिः तत्परिणामरूपं जगत् | तदुक्तं वासिष्ठे- चिद्विलासः प्रपञ्चोऽयं सखे [स च ते-श्री.] ते दुःखदः कथम् || इति || एतेन चिच्छक्त्योः ईषद्भेदाङ्गीकारात् चितो निर्विकारत्वबोधकश्रुतिरविरुद्धा अत्यन्तभेदानङ्गीकारात् अद्वैतप्रतिपादकश्रुतयोऽप्यबाधिताः | एतादृशी शक्तिः वस्तुमात्रे अनुभूयते कार्योत्पत्त्यनन्तरं न ततः प्राक् | अमुमेवार्थं भूतपञ्चकविवेके श्रीविद्यारण्यस्वामिचरणाः अप्याहुः- निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽग्निशक्तिवत् | न हि शक्तिं क्वचित् कश्चित् बुध्यते कार्यतः पुरा || इति ||
SK
एवं शिवनिष्ठायां तदभिन्नायां तद्धर्मरूपायां तन्निष्ठकर्तृत्वनिर्वाहिकायां सिद्धायां सैवोपास्या | न चिद्रूपः शिवः तस्यानुपास्यत्वात् [तस्य नाम शक्त्यनवछिन्नस्य ब्रह्मणः इत्यर्थः |] उपासना नाम उपास्यनिष्ठगुणनामकीर्तनम् | शक्तिरहिते केवले गुणाभावात् निर्गुणस्य ध्यानस्तुतिकीर्तनादि कथं भवेत् | तदुक्तं योगिनीतन्त्रे- शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते || इति || यतो वाचो निवर्तन्ते अप्राप्य मनसा सह || इति श्रुतिश्च | नेति नेति इति सर्वनिषेधशेषत्वेनैव तस्य ज्ञेयत्वात् केवलशिवविषयकज्ञानस्योपासनादिकर्मविरोधित्वेन तादृशचरमवृत्तेरुपासनासाध्यत्वात् केवलशिवस्त्वनुपास्यः | तदुक्तं देवीभागवतेऽपि- शिवोऽपि शवतां यातः कुण्डलिन्या विवर्जितः || इति || योगिनीतन्त्रेऽपि- यज्ज्ञानेऽपि महादेवि शर्म वर्म न किंचन || इति || किं च यथा कथंचित् वलयाकारेण मनसः निराकारग्रहणार्थं प्रेरणेऽपि शुभाशुभधर्महीनत्वात् क्षणमात्रमपि न स्थातुमर्हति | तदुक्तं श्रीभगवद्गीतायाम्- प्. १९०) क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् || इति || अतस्तस्यैव मनसः स्थैर्यार्थं किञ्चिद्रूपं कल्पनीयम् | यच्च परब्रह्मणि कल्पितं रूपं नामधामसहितं तदेव शक्तिपदवाच्यम् | तदप्युक्तं भागवते- एवं सर्वगता शक्तिः सा ब्रह्मेति विविच्यते | सगुणा निर्गुणा चेति द्विधोक्ता सा मनीषिभिः | सगुणा रागिभिः सेव्या निर्गुणा तु विरागिभिः | धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला || ददाति वाञ्छितानर्थानर्चिता विधिपूर्वकम् || इति || एवमुक्तप्रमाणयुक्तिकलापैः उपास्या परा शक्तिः | परशिवश्च निर्गुणः | तद्विषयिणी वृत्तिस्तु परमपुरुषार्थरूपत्वात् अम्बोपासनासाध्येत्युपपन्नं सिंहासनेश्वरीत्वं साम्राज्ञीत्वम् || निर्गुण एव शिवः यः बहु स्यां प्रजायेय इति इच्छाशक्त्या युक्तः सृष्ठ्युन्मुखः स एव शक्तिपदवाच्यः शिव एव शक्तिरूपेणोपास्यश्चेति तत्त्वमवगन्तव्यम् ||
SK
या ईदृशी तस्याः प्रधानसचिवपदम् अत्र सचिवपदं साचिव्यरूपधर्मपरं तस्य पदं आश्रयः श्यामेति | तस्याः यः क्रमः तस्य या विमृष्टिः अनुसरणं तत् सदा कार्यम् | अत्र सदेत्यनेन यावज्जीवं प्राप्तौ यथा अग्निहोत्रविधेः यावज्जीवं प्राप्तौ सायं जुहोति प्रातर्जुहोति इति वाक्यान्तरेण सङ्कोचः तथा अस्या एव श्यामायाः प्रकरणे अग्रे एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा इति वाक्येन [इदमत्रैव षष्ठखण्डे- ३७ मूलसूत्रेस्ति |] लक्षजपपर्यन्तं सकृत्पूजा कार्या न तु तदुत्तरमिति सङ्कोचः || १ || श्यामायाः उपास्यतोपपत्तिः ननु या साम्राज्ञी सर्वनियन्त्री स्वतन्त्रा तां परित्यज्य किं तदनुवर्तिन्याः श्यामायाः उपासनेनेत्याशङ्कायां तदुपासनामुपपादयिष्यन् प्रथमं लोकदृष्टान्तेन दृढयति- प्रधानद्वारा राजप्रसादनं हि न्याय्यम् || २ || लोके राजदर्शनोत्सुकाः आदौ प्रधानमुपसेव्य तद्वारा राजदर्शनं गृह्णन्ति | तेन फलं सत्वरं अनायासेन भवतीति दृष्टं लोके | तद्वदत्रापि प्रथमं तत्प्रधानभूतायाः श्यामायाः प्रथममुपासनं न्याय्यमिति भावः | द्वारेत्यनेन प्रधानोपासनपूर्ववृत्तित्वं सूचितं न्याय्यम् इत्यनेन अत्यन्तमनावश्यकताऽपि सूचिता | परं तु यः कोऽपि समर्थः सचिवादीननादृत्य स्वयमेव राजकृपां सम्पाद्य तस्मात् फलं सम्पादयतीत्ययमपि पक्षो लोके क्वचिदस्ति | तथाऽपि प्रधानद्वारा राजप्रसादनं न्याय्यं वरमित्यर्थः | अयं भावः यश्च प्रधानदेवताकृपां साक्षात् सम्पादयितुमसमर्थः प्. १९१)
SK
सः प्रथमं दीक्षां सम्पाद्य श्रीगणपत्युपास्तिं कृत्वा ततः श्यामोपास्तिं वाराह्युपास्तिं परोपास्तिं च विधाय तासां कृपां सम्पाद्य पश्चात् श्रीललितोपास्तिं आरभेत | समर्थस्तु दीक्षोत्तरं गणपत्युपास्त्यनन्तरं श्रीललिताक्रममारभेत | अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति इतिवद्विकल्पः इति तत्त्वम् | फलाधिक्यकामः उक्तक्रमेण ललितोपास्तिं कुर्यात् | न्युनफलकामः गणपत्युपास्त्यनन्तरं ललितोपास्तिं कुर्यात् इति व्यवस्था || २ || प्रातःकृत्यं सन्ध्याऽन्तम् एवमुपास्त्यधिकारिणं प्रदर्श्य उपास्तिप्रकरणं वक्तुं प्रक्रमते- ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्य प्राणानायम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदं विचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर्निर्गत्य विमुक्तमलमूत्रोदन्तधावनजिह्वाघर्षणकफविमोचननासाशोधन- विंशतिगण्डूषान् विधाय || ३ || श्रीपादुकां गुरुपादुकाम् [गुरुपादुकामित्यस्य गुरुत्रयपादुकामित्यर्थे तात्पर्यम् |] | प्राणानिति प्राणायामलक्षणमुक्तं सनत्कुमारतन्त्रे- प्राणायामत्रयं कुर्यात् मूलेन प्रणवेन वा | अथ वा मन्त्रबीजेन यथोक्तविधिना सुधीः || पूरयेत् षोडशभिर्वायुं कुम्भयेच्च चतुर्गुणैः | रेचयेत् कुम्भकार्धेन अशक्तस्तत्तुरीयतः || तदशक्तौ तच्चतुर्थैः स्यादेवं प्राणसंयमः | प्राणायामं विना नैव पूजनादिषु योग्यता || इति || समयाङ्कमातृकायाम्- इडया पूरयेद्वायुं सकृद्वै मूलविद्यया | मध्यनाड्या कुम्भयेच्च वेदसङ्ख्या वरानने || नेत्रसङ्ख्याक्रमेणैव रेचयेत् पिङ्गलाऽध्वना | पुनः पुनः क्रमेणैव यथा वारत्रयं भवेत् || इति || दन्तधावनादीनां स्मृतिप्राप्तानामुक्तक्रमलाभार्थं पाठः | अतः पाठक्रमेणानुष्ठेयम् | यद्यपि प्राणायामप्रकारस्त्वग्रे [अग्रे नामैतत्खण्डीय-९-सूत्रे-१९४-पत्रे-इत्यर्थः |] सूत्रेऽपि वक्ष्यते तथाऽपि वायुधारणसमर्थानां विस्तृततया प्रदर्शनं अशक्तानां सूत्रस्थं ज्ञेयम् | विंशतिगण्डूषानित्यन्तः शेषः स्पष्टार्थः || ३ || प्. १९२)
SK
मन्त्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय || ४ || मन्त्रस्नानमुक्तं त्रिपुरार्णवे- वस्त्रेणार्द्रेण चाङ्गानां कृत्वा प्रोञ्छनमादितः | मूलं जपन् सप्तधा तु आपादतलमस्तकम् || तलाभ्यां संस्पृशेत् देवि मन्त्रस्नानं प्रकीर्तितम् | एतत्स्नानमशक्तस्य विहितं शुद्धिहेतवे || इति || भस्मस्नानमुक्तं शिवरहस्ये- शुद्धं भस्म करे धृत्वा मूलमष्टशतं जपेत् | सर्वाङ्गेष्वनुलेपेन भस्मस्नानमुदाहृतम् || इति || जलस्नानं श्रीललिताप्रकरणोक्तम् [इदं श्रीक्रमे ३ खण्डे-८८-पत्रे-४ मूलसूत्रे भाष्ये च उक्तम् |] | अत्र मुख्यं जलस्नानं जलाद्यलाभे कर्मकाले प्राप्ते अशक्तौ गुरुकार्यार्थं क्षिप्रं गच्छता च मन्त्रस्नानादि कार्यम् | तदुक्तं नारदपाञ्चरात्रे अथ मान्त्रं शुभं शृणु इत्युपक्रम्य तोयाभावे तु समये दुर्गमार्गेऽवसीदतः | गमने क्षिप्रसिद्ध्यर्थं गुरुकार्येष्वतन्द्रितः | मन्त्रस्नानं प्रकुर्वीत.............. इति || इतोऽपि लघुस्नानं वीरतन्त्रे- मणिबन्धादधोहस्तौ पादौ गुल्फौ तथाऽननम् | शोधयेत् स्नानमेतत् स्यात् पञ्चाङ्गं शुद्धिदायकम् || इति || इमानि स्नानानि शक्तितारतम्यात् अशुचित्वतारतम्याच्च व्यवस्थितानि ज्ञेयानि | अन्यान्यपि मानसिकध्यानस्नानादीनि [ज्ञानस्नानादीनीत्यर्थः |] ग्रन्थविस्तरभयात् नेह लिखितानि तन्त्रान्तरात् द्रष्टव्यानि || ४ || सन्ध्यां विधत्ते- सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेन त्रिरर्घ्यं दत्त्वा यथाशक्ति सन्तर्प्य || ५ || सन्ध्यामितीदमुत्पत्तिवाक्यं अत्र कथम्भावाकाङ्क्षायामाह सवितृमण्डले इत्यारभ्य सन्तर्प्येत्यन्तेन | तर्पणमपि मूलमुच्चार्य श्रीश्यामां तर्पयामि स्वाहा इति मन्त्रेण | मालिनीतन्त्रे तर्पणमन्त्रोद्धारस्य मूलान्ते मालिनीं प्रोच्य तर्पयाम्यग्निवल्लभाम् इति लेखात् | प्रकृते प्. १९३) मन्त्रस्यानुक्तत्वात् मन्त्राकाङ्क्षायाः तन्त्रान्तरस्थमन्त्रादरः | यथाशक्ति इत्यनेन सङ्ख्यायाः तर्पणवृत्तेरनङ्गत्वं सूचितम् ||
SK
अत्र निबन्धकारः एतदन्तमाह्निकं स्वतन्त्रोपास्तौ पुरश्चरणकाले च न तु श्रीक्रमाङ्गत्वेन सहानुष्ठाने इति जगौ | तन्न | पूर्वोक्तलौकिकन्यायदृष्टान्तेन ललितोपास्तेः पूर्वं श्यामोपास्तिः सिध्यति | तदनुष्ठानमर्यादा लक्षजपपर्यन्तमिति अग्रिमवाक्येन [अग्रिमवाक्येन नाम-एतत्खण्डीय-३७-सूत्रस्थवाक्येन-इत्यर्थो ज्ञेयः |] व्यवस्थितम् | इत्थं च शङ्गीतमातृकामिष्ट्वा संवित्साम्राज्ञीम् (इत्यादि) कोलमुखीं वरिवस्येत इत्यग्रिमसूत्रे [अग्रिमसूत्रे नाम-अग्रतन-७- खण्डीयवाराहीक्रमस्थप्रथमसूत्रगतसङ्गीतमातृकामिष्ट्वा इत्येतद्वाक्यान्तस्थ क्त्वा प्रत्ययेन-इति-ज्ञेयम् |] क्त्वाप्रत्ययेन वाराह्युपास्तिपूर्ववृत्तित्वं स्पष्टम् | इत्थं सति कोलमुखीवरिवस्यापूर्वकालसम्बन्धिनी या श्यामावरिवस्या जपश्च स सर्वोऽपि श्रीललिताक्रमारम्भाङ्गभूतः नान्यो ललिताक्रमेण सह अनुष्टीयमानः श्यामाक्रमगन्धोऽपि सूत्रे प्रतीयते | एवं सति पुरश्चरणादिकाले आह्निकम् अन्यत्र नेति किं प्रमाणमनुसृत्य लिलेख | तदभिप्रायं स एव जानाति | वस्तुनो ललिताप्रयोगानङ्गभूतश्यामाक्रमः सूत्रे अप्रसिद्धः | अङ्गभूतक्रममुद्दिश्याह्निकपाठात् अङ्गभूतेऽपि क्रमे सर्वमाह्निकं निश्शङ्कं प्रवर्तत एव || ५ || यागगृहप्रवेशादि प्राणायामान्तं कृत्यम् सन्ध्यामुक्त्वा पूजां वक्तुमारभते- यागगृहं प्रविश्यासने आधारशक्तिकमलासनाय नम इत्युपविश्य || ६ || अथ प्राणायामप्रकारमाह- समस्तप्रकटगुप्तसिद्धयोगिनीचक्रश्रीपादुकाभ्यो [चक्र इति नास्ति-अ.] नम इति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजां [गणपतिपूजां च-श्री.] च विधाय || ७ || स्वगुरुपादुकापूजां विधाय | श्यामागुरुपादुका वक्ष्यमाणा [एतत्खण्डीय ३२ सूत्रे-२०३-पत्रे ||] | तेन स्वमूर्ध्नि पुष्पाक्षतान् क्षिपेत् || ७ || ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य || ८ || प्. १९४)
SK
व्यापकत्वलक्षणं पूर्वमुक्तम् [पूर्वं नाम-२-खण्डे गणनायकपद्धतौ ४ सूत्रभाष्ये-७५-पत्रे-इति ज्ञेयम् |] | अङ्गुल्यादिभेदेन मन्त्रावृत्तिः प्रतिप्रधानमिति न्यायात् || ८ || यं इति वायुं पिङ्गलयाऽकृष्य देहमुपविशोष्य रं इति वायुमाकृष्य देहं दग्ध्वा वं इति वायुमाकृष्यमृतेन दग्धदेहभस्म सिक्त्वा लं इति वायुमाकृष्य दृढं विधाय हंस इति वायुमाकृष्य शिवचैतन्य मुत्पाद्य || ९ || यं इत्यस्य विशोष्य इत्यनेनान्वयः वायुबीजत्वे शोषणकायक्षमत्वात् | शोषणं नाम जलांशस्याकर्षणम् | वाय्वाकर्षणं तु तूष्णीमेव | इडापिङ्गले नारदीये निरूपिते- पिङ्गला वामनासा स्यादिडा तदितरा स्मृता || इति || रं इति वह्निबीजेन देहदाहः | अमृतेन अमृतबीजेन वं इत्यनेन दग्धभस्मसेचनं पुनः शरीरोत्पादनार्थम् | लं इति पार्थिवबीजेन सिक्तभस्मनि काठिन्यसम्पादनम् | ततः तस्मिन् हंसः इति मन्त्रेण शिवचैतन्यसम्पादनम् || एतावत्पर्यन्तं भूतशुद्धिं विधाय श्रीक्रमोक्तां प्राणप्रतिष्ठां च कुर्यात् || ९ || मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुम्भयित्वा सकृदुच्चार्य रेचयेत् | एवं रेचकपूरककुम्भकं त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः || १० || एकशः एकवारम् | एवमग्रेऽपि रेचकपूरककुम्भकमिति द्वन्द्वसमासात् साहित्यलाभः | अत्र यद्यपि पूरकं मध्ये पतितं रेचकं प्रथमं कुम्भकं चरमम् इति व्युत्क्रमः तथाऽपि नात्र क्रमे तात्पर्यं किंतु साहित्ये | क्रमस्तु पूर्वपाठानुसारेणैव | त्रिधेत्यारभ्य सङ्ख्यावृद्धौ फलाधिक्यम् | तेजोमयतनुः इत्यनेन प्राणायामक्रियायाः पापशोधकत्वं सूचितम् || १० || षडङ्गादिन्यासपञ्चकम् अथ न्यासजालं वदति- षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषु रतिप्रीतिमनोभवान् विन्यस्य || ११ || प्. १९५)
SK
विन्यस्य इति सर्वत्रानुषज्य योज्यम् | तथा च षडङ्गं विन्यस्येत्यर्थः | एतन्मन्त्रस्वरूपं [एतदर्थमेतत्खण्डस्थपुरस्तन-१५-२०-सूत्रे तद्भाष्ये च दृश्ये |] उपरिष्टात् स्पष्टीकरिष्यामः | अयमेको न्यासः | बालासहितां मातृकां विन्यस्य इति द्वितीयो न्यासः | मातृकां बहिर्मातृकाम् | न्यासस्थानानि तन्त्रान्तरादवगन्तव्यानि | अग्रेवक्ष्यमाणत्रितारीकुमारीकेवलकुमार्यो [अयं त्रितारीकुमारीमन्त्रः प्रत्यक्षः अत्रैव खण्डे २० सूत्रभाष्ये स्पष्टः | कुमारीशब्देन च त्र्यक्षरो बालामन्त्रो ज्ञेयः | सोऽपि अत्रैवाधः तत्रापि च स्पष्टः |] विकल्पेन प्राप्तौ तद्बाधकं केवलबालासहितामिति विशेषणम् | तेन मातृकान्यासमन्त्रे सदा बालायोग एव अन्यत्र विकल्पेन बालायोगः | व्यासस्थानानां बहुप्रसिद्ध्या नात्र लेखः | मन्त्रस्वरूपं च ऐं क्लीं सौः अं नमः | एवमग्रेऽपि | मूलं मूलाधारस्थानम् | तदादित्रिषु रत्यादित्रयं विन्यसेत् | अयं तृतीयो न्यासः || ११ || मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटे चत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्ये दक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ च दश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विः स्वाधिष्ठाने षडाधार एवं विन्यस्य || १२ || खण्डयित्वा विभज्य | विभागप्रकारं विभक्तखण्डैः क्रियमाणन्यासस्थानानि चाह षडित्यादिना | षडित्यादिसङ्ख्यावाचकानि पदानि मूलस्थवर्णपराणि | आदिमषड्वर्णान् नमोऽन्तानुच्चार्य ब्रह्मरन्ध्रे न्यसेत् | एवमग्रेऽपि | दक्षवामेक्षणयोः षट् चाष्टावित्यत्र दक्षनेत्रे षड्वर्णाः क्रमप्राप्ताः वामनेत्रे अष्टौ यथासङ्ख्य योज्यम् | एवमेव दक्षवामांसयोः इत्यादौ द्रष्टव्यम् | सर्वत्र त्रितारीकुमारीयोगः कार्यः | स्वाधिष्ठानं षड्दलकमलं गुह्यस्थानस्थम् | आधारो मूलाधारः स [एतदाधारस्वरूपज्ञानाय ८८-पत्रे श्री गणेशक्रमे-३- सूत्रभाष्ये तथा च-१११-पत्रे-श्रीक्रमे-२८सूत्रभाष्यं च पश्यन्तु |] पूर्वं व्याख्यातः | अयं चतुर्थो न्यासः || १२ || पञ्चममाह-
SK
पुनराधारादिब्रह्मबिलपर्यन्तं सप्तदशखण्डानुक्तस्थानेषु विन्यस्य || १३ || पूर्वस्माद्वैलक्षण्यं मूलाधारादिस्थानवैपरीत्यमात्रं न [खण्डक्रमश्च पूर्ववत् खण्डवैपरीत्यबोधकप्रमाणाभावात्-ब.] तु सप्तदशखण्डवैपरीत्यं प्रमाणाभावात् || निबन्धकारः खण्डवैपरीत्यं लिलेख | तस्य प्रमाणं तदीयेच्छैव न त्वन्यत् | अयं पञ्चमो न्यासः || १३ || प्. १९६) मन्दिरार्चनम् एवं न्यासजालमुक्त्वा मन्दिरार्चनं वदति- अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलङ्कृतं चतुर्द्वारसहितं मण्डपं विचिन्त्य तस्य प्रागादिचतुर्द्वारेषु सां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः क्षां निर्-ऋतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः- यां वायवे ध्वजहस्ताय प्राणधिपतये रुरुवाहनाय सपरिवाराय नमः सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनाय सपरिवाराय नमः ॐ ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः श्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः ॐ वास्तुपतये ब्रह्मणे नमः इत्येकादशदिक्षु एकादश देवानर्चयेत् || १४ || एकादशदिशश्च चतस्रोदिशः चतस्रोऽवान्तरदिशः ऊर्ध्वम् अधः समस्तं चेति ज्ञेयाः | शेषं स्वयमूह्यम् || १४ || श्यामाक्रममन्त्रेषु बीजविशेषयोगः श्यामाक्रमे सर्वमन्त्रेषु बीजविशेषयोगमाह- श्यामाक्रममन्त्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वा त्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् || १५ || अर्थः स्पष्टः || १५ || कर्तृगुणविशेषविधिः
SK
कर्तुरङ्गभूतान् कांश्चित् गुणानाह- गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा || १६ || प्. १९७) श्यामाचक्रलेखनप्रकारः अथ श्यामाचक्रलेखनप्रकारमाह- सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोणपञ्चकोणाष्टदलषोडश- दलाष्टदलचतुर्दलचतुरस्रात्मकं चक्रराजं विलिख्य || १७ || मण्डलेषु फलकेषु | पञ्चकोणं पञ्चास्रकुण्डाकारम् | निर्माणं बिन्दुमारभ्य निर्गमनरीत्या ज्ञेयम् || १७ || सामान्यार्घ्यविधिः अथ सामान्यार्घ्यविधिमाह- मूलेन त्रिवारजप्तेन शुद्धजलेन चतुरस्रवृत्तषट्कोणत्रिकोणबिन्दून् प्रवेशेन मत्स्यमुद्रया विधाय अं आत्मतत्त्वाय आधारशक्तये वौषट्- इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकला अभ्यर्च्य उं विद्यातत्त्वाय पद्माननाय वौषट्-इति पात्रं प्रतिष्ठाप्य तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा इति पात्रे सूर्यकला अभ्यर्च्य मं शिवतत्त्वाय सोममण्डलाय नमः- इति शुद्धजलमापूर्य अमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृता चेति चन्द्रकला अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्श्य मूलमन्त्रेण सप्तशोऽभिमन्त्र्य तज्जलविप्रुड्भिः यागगृहं पूजोपकरणानि चावोक्ष्य || १८ || प्रवेशेन [संस्कृतजलं मण्डलकरणार्थमेव न तु तत्पूरणार्थं प्रमाणाभावात् पूरणं तु मूलानभिमन्त्रितशुद्धजलेनैव ज्ञेयम् इत्यधिकः-ब.] प्रवेशरीत्या | मत्स्यमुद्रया सा चोक्ता तन्त्रे- अधोमुखे वामकरे दक्षिणं तादृशं करम् | स्थापयेन्मत्स्यमुद्रेयं तान्त्रिकैः परिकीर्तिता || इति || दक्षपाणितलं देवि वामपृष्ठोपरि न्यसेत् | अङ्गुष्ठद्वितयं सम्यक् ऋजुरूपमधोमुखम् || मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने || इति परमानन्दतन्त्रेऽपि | आधारलक्षणं तत्रैव- प्. १९८)
SK
आधाराण्यपि चैतेषां वर्तुलं वा त्रिकोणकम् | योन्याकारं च षट्कोणमष्टकोणमथापि वा || अपदं त्रिपदं पञ्चषट्सप्ताष्टपदं तथा | मध्यछिद्रं यथा पात्रपृष्ठं न स्याच्च भूगतम् || अन्तर्नैव निमग्नं स्यात् तथा कर्तव्यमम्बिके || इति || नमोऽन्तैश्चतुर्थ्यन्तैरेतैर्नामभिः वह्निकलापूजनमाधारे कुर्यात् | नमोऽन्तत्वं चतुर्थ्यन्तत्वं सूर्येन्दुकलास्वपि द्रष्टव्यम् | पात्रं प्रतिष्ठाप्य इति निरुक्तस्थापिताधारे इति शेषः | वह्न्यादिकलानामभ्यर्चनं पश्चिमादिप्रादक्षिण्येन | प्रमाणमुक्तं प्राक् [अत्र प्राक्शब्दार्थे श्रीक्रमोक्त-२३-सूत्रभाष्ये १०७-पत्रे दृश्यम् |] | शेषं स्पष्टम् | अग्नीशेति तत्प्रकारः पूर्वमेव दर्शितः [पूर्वमेव इत्यनेन-१४४-१४५-पत्रयोः-४ खण्डे ललिताक्रमे ८-मूलसूत्रे-तद्भाष्ये च अथवा उपरितनमूलसूत्रेपि-इति ज्ञेयम्] | अस्त्रेण अस्त्रमन्त्रेण | कवचेन कवचमन्त्रेण || केचित्तु अवकुण्ठ्येत्यनेन अवकुण्ठनमुद्राकवचमन्त्रयोः ग्रहणं कार्यम् | अवकुण्ठनमुद्रास्वरूपमुक्तं तन्त्रे- हस्तद्वयं मुष्टिरूपं तर्जन्यावृजुरूपके | युगपत् भ्रामयेत् ताभ्यां मुद्रेयमवकुण्ठिनी || इति प्रजगुः || धेनुः धेनुमुद्रा | इयं लोके बहुरूढा | तथाऽपि तत्प्रमाणं लिख्यते- तर्जन्यादिचतुष्कं तु प्रोतं हस्तद्वयस्थितम् | दक्षतर्जन्यनामायां वाममध्यकनिष्ठिके || वामतर्जन्यनामायां दक्षमध्यकनिष्टिके | अधोमुखी धेनुमुद्रा..................... || इति परमानन्दतन्त्रे स्थितम् | योनिस्तु [इयं योनिमुद्रा-१७०-पत्रे-५-खण्डे- श्रीललिताक्रमीय १५ सूत्रभाष्यान्ते दृश्या-अथवा द्दि. प. १५-८/२ विषये दृश्या |] पूर्वमुक्ता सप्तशः सप्तकृत्वः | तज्जलविप्रुड्भिः सामान्यार्घ्यविप्रुड्भिः || १८ || विशेषार्घ्यविधिः ताभिरीकाराङ्कितत्रिकोण वृत्तचतुरस्रं [षट्कोणवृ-श्री.] मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकला अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरि परमस्वामिनि ऊर्ध्वशून्यप्रवाहिनि प्. १९९)
SK
सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकला अभ्यर्च्य ब्रह्माण्डाखण्डसम्भूतमशेषरससम्भृतम् | आपूरितं महापात्रं पीयूषरसमावह || इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादित्रिरेखाऽङ्कितकोणत्रये हलक्षान् मध्ये हंसं च विलिख्य मूलेन दशधा अभिमन्त्र्य चन्द्रकलाः अभ्यर्च्य- अग्नीशासुरवायुषु मध्ये दिक्षु षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्शयेत् || १९ ||
SK
ताभिः सामान्यार्घ्योदकसम्बन्धिनीभिः अद्भिः | ईकाराङ्कितेति त्रिकोणविशेषणम् | त्रिकोणमध्ये ईकारं [ईंकारं] लिखेत् इति भावः | इदं न पूर्ववत् प्रवेशरीत्या निर्माणाभिप्रायकम् किं तु निर्गमरीत्या त्रिकोणमारभ्य चतुरस्रावसानपाठात् त्रिकोणं सर्वान्तः चतुरस्रं सर्वस्मात् बहिरिति प्रायो दृष्टत्वात् | पूर्ववदिति [पूर्ववत्-नाम-अत्रैव खण्डे १९७-पत्रे १८-सूत्रोक्त-अं आत्मतत्त्वायेत्यादिवदित्यर्थः |] सामान्यार्घ्याधारवदित्यर्थः | अग्निकलाः [एतत्खण्डे १९७-पत्रे मूलसूत्रे- एव एताः कलाः सन्ति |] धूम्रार्चिरादीः अभ्यर्च्य पात्रं प्रतिष्ठाप्य इत्यत्रापि पूर्ववत् इत्यनुवर्तते योग्यत्वात् | तेन पात्रप्रतिष्ठापने पूर्वमन्त्रलाभः [अत्र पूर्वमन्त्रः अत्रैव खण्डे-१९७-पत्रे-उपरितन-१८- मूलसूत्रे एव- उं विद्यातत्वायेत्यादिरस्ति |] | आदिमद्वितीयौ प्रोक्तौ अत्र सूत्रे तेन नात्र तृतीयचतुर्थपञ्चमाः अनुक्तत्वात् | [न हि] गणपतिक्रम एव मध्यमं चेतिवत् चकारोऽस्ति अग्रे मपञ्चकमुररीकृत्येति वा लिङ्गमस्ति येन तल्लाभो भवेत् | तस्मात् यावदुक्तम् | अश्च कश्च यश्च ते आदौ यासां ताः त्रिरेखाः | अवर्णपारभ्य विसर्गान्ता एका वर्णमयी रेखा ततः कादितान्ता ततः थादिसान्तेति भावः | विशेषस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्येन हलक्षान् त्रीन् वर्णान् त्रिषु विलिख्य मध्ये हंस इति उत्तरसंस्थं लिखित्वा | इदं सर्वं पात्रस्थद्रव्ये तत्संस्काररूपं लेखनम् | इत्थं च ईदृशलेखेन द्रव्यसंस्कारं भावयेत् इति तदर्थः | दशधा एतदनन्तरं आवर्तितमूलेनेत्यस्य विशेषणम् | धेनुयोनी प्रदर्शयेत् इति धेनुमुद्रां [एतद्धेनुमुद्रोद्धारः १९८-पत्रे-अत्रैवानुगत-१८-सूत्रभाष्ये-अथवा द्दि. प. १५-८/१ विषयेस्ति |] प्रदर्श्य योनिमुद्रया [योनिमुद्रोद्धारश्च-१७०-पत्रे-५- खण्डे श्रीललिताक्रमे-१५ सूत्रभाष्ये-अथवा द्दि. प. १५-८/२ वि. दृश्यः |] प्रणमेत् | एतदर्घ्यसंशोधनमिति क्वचित् पुस्तके पाठः || १९ || प्. २००) चक्रदेवीपूजा
SK
इत्थं पात्रासादनमुक्त्वा श्रीदेवतायाः मूर्तिकल्पनामन्त्रमाह- चक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तये नमः इति मूर्तिं कल्पयित्वा भूयः श्रीमातमुक्त्वा गीश्वर्यमृतचैतन्यमावाहयामि इत्यावाह्य षोडशभिरुपचर्य आशुशुक्षणित्र्यक्षरक्षःप्रभञ्जनदिक्षु देव्या मौलौ परितश्च पूज्या अङ्गदेव्यः | तन्मन्त्राः सर्वजनादयः अष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाः त्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः || २ ||
SK
चक्रमध्ये इति आवाह्येत्यनेनान्वितम् | श्री० इत्यारभ्य इत्यन्तः उक्त्वेत्यपहाय मूर्तिकल्पनमन्त्रः | द्वितीयश्री० इत्यारभ्य आवाहयामीत्यन्तः उक्त्वावर्जम् आवाहनमन्त्रः | षोडशोपचाराः सप्रमाणं द्वितीयखण्डे [द्वितीयखण्डे-९ सूत्रभाष्ये-८२-पत्रे-दर्शिता इति ज्ञेयम् |] दर्शिताः | आशुशुक्षणिः अग्निः त्र्यक्षः ईशानः रक्षः निर्-ऋतिः प्रभञ्जनो वायुः एषां दिक्षु उक्तक्रमेण विदिक्ष्विति भावः | देव्या मौलौ मध्ये इत्यर्थः | प्रागादिदिक्षु अङ्गदेव्यः षडङ्गदेव्यः पूज्याः | तासां मन्त्रान् वक्तुं प्रक्रमते तन्मन्त्रा इति | मूलमन्त्रेण सर्वजनेत्यारभ्य षट् खण्डानि षडङ्गदेवीनां मन्त्रा बोध्याः | तत्रैकैकं कूटं कियद्वर्णकमिति जिज्ञासायामाह अष्टाविति | सर्वजनेत्यादिषट्खण्डानि क्रमादष्टादिसङ्ख्याकानीत्यर्थः प्रथमखण्डम् अष्टवर्णं द्वितीयं सप्तवर्णं तृतीयम् एकादशवर्णं चतुर्थपञ्चमौ दशवर्णौ षष्ठम् अष्टाविंशतिवर्णकमिति फलितम् | न केवलं मूलमन्त्रघटकोक्तसङ्ख्याकवर्णाः एव मन्त्रस्वरूपम् अन्येऽपि वर्णा योज्याः इत्याह त्रितारीकुमारीवाचः आदौ एषां खण्डानां जातिः हृदयाय शिरसे० इत्यादिः तैः सहिताः सजातयः सामान्यमनवो नमः स्वाहा वषडित्यादयः तैः क्रमेण युक्ताः | इत्थं च मन्त्रस्वरूपम् ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं सर्वजनमनोहारि हृदयाय नमः | उक्तबीजानि ऐं० इत्यादीनि सप्त आदौ सर्वत्र योज्यानि | ७ सर्वमुखरञ्जिनि शिरसे स्वाहा | ७ क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् | ७ सर्वस्त्रीपुरुषवशङ्करि कवचाय हुं | ७ सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् | ७ सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि अमुकं मे वशमानय स्वाहा | सौः क्लीं ऐं श्रीं ह्रीं ऐं अस्त्राय फट् इति मन्त्रस्वरूपम् | यद्यपि मन्त्रे त्रयस्त्रिंशद्वर्णाः दृश्यन्ते सूत्रोक्ताष्टाविंशतिसङ्ख्यया विरुध्यन्ते तथाऽपि स्वाहाऽन्ताः सप्तविंशतिवर्णाः अग्रिमषड्बीजानि मिलित्वा श्रीषोडशाक्षर्यां प्रविष्टपञ्चदशवर्णात्मककूटत्रये एकैककूटस्यैकैकवर्णत्ववत् षण्णां
SK
वर्णानामैकवर्णत्वम् | इत्थं च अष्टाविंशतिसङ्ख्योपपन्ना || प्. २०१) निबन्धकारः स्वाहाऽन्तं खण्डं चकार तथा सप्तविंशतिवर्णात्मके उक्तगतेरप्यभावः || २० || आवरणपूजा पश्चादावरणपूजां कुर्यात् || २१ || पश्चादितीदं सूत्रं व्यर्थम् एव दृश्यते तथाऽपि न तथा मन्तव्यम् | तथा हि इदम् आवरणपूजोत्पत्तिवाक्यम् अग्रिमवाक्यानि तदितिकर्तव्यताप्रपञ्चरूपाणि सोमेन यजेत ऐन्द्रवायवं गृह्णाति इतिवत् | एतेन एकविधिविहितत्वेन एकपदार्थरूपत्वात् मध्ये आवरणावयवैकदेवतालोपेऽपि पुनः सर्वानुष्ठानं सिद्धम् || २१ || अथ सर्वोपयोगिनीं कांचित् परिभाषामाह- सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकासन्दष्टद्वितीयशकल गृहीतश्रीपात्रप्रथमबिन्दुसहपतितैः दक्षकराक्षतपुष्पक्षेपैः कुर्यात् || २२ || सर्वचक्रदेवताः गणपत्यादिपराऽन्ताः सामान्यपद्धत्या यक्ष्यमाणा अन्याश्च | श्रीपात्रं विशेषार्घ्यपात्रम् | सहपतितैरित्यनेन बिन्दुपुष्पाक्षतयोः पतनम् एककाले इति सूचितम् || २२ || प्रथमावरणदेवताः तत्स्थानं चाह- त्रिकोणे रतिप्रीतिमनोभवान् || २३ || त्रिकोणे त्रिकोणकोणेष्वित्यर्थः | अत्र क्रमस्यानुक्तत्वात् स्वाग्रादिप्रादक्षिण्यक्रमः | यद्वा आग्नेयकोणे ततः पश्चिमकोणे तत ऐशाने तेनोदगपवर्गलाभः | इति प्रथमावरणम् || २३ || द्वितीयावरणपूजास्थानादिकं दर्शयति- पञ्चारमूले पुर आदिक्रमेण द्रां द्रावणबाणाय द्रीं शोषणबाणायक्लीं बन्धनबाणाय ब्लूं मोहनबाणाय सः उन्मादनबाणाय नमः इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाः काममन्मथकन्दर्पमकरकेतनमनोभवाः || २४ || नमः इति सर्वमन्त्रेष्वनुषज्यते | पुरः प्राची | मूले पञ्चारकोणमूले | तदग्रे इति पञ्चारकोणाग्रेष्वित्यर्थः | मायाऽदिपञ्चकैः क्रमेण युक्ताः कामादयः पूज्या इत्यर्थः | मन्त्रस्वरूपं तु ह्रीं कामश्रीपादुकां पूजयामि | एवमग्रेऽपि | पूर्ववत् चतुर्थ्यन्तनमोऽन्तरहितं ज्ञेयम् | इति द्वितीयावरणम् || २४ || प्. २०२) तृतीयावरणपूजादेशादीनाह-
SK
अष्टदलमूले ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही माहेन्द्री चामुण्डा चण्डिकाः सेन्दुस्वरयुग्मान्त्यादयः पूज्याः | तदग्रे लक्ष्मीसरस्वती रति प्रीति कीर्ति शान्ति पुष्टि तुष्टयः || २६ || इन्दुना अनुस्वारेण सहिताः ये स्वरयुग्मेषु अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ॐ औं अं अः इत्यष्टसु अन्त्याः आं ईं ऊं ऋं ॡं ऐं औं अः इत्यष्टौ वर्णाः आदौ एभिः क्रमेण युक्ता ब्राह्म्यादयः पूज्याः | मन्त्रस्वरूपम् आं ब्राह्मीश्रीपादुकां पूजयामीति | एवमग्रेऽपि | तदग्रे अष्टदलाग्रे इत्यर्थः | जातावेकवचनम् | पूज्या इत्यस्यानुषङ्गः | इति तृतीयावरणम् || २५ || चतुर्थावरणपूजास्थानान्याह- षोडशदले वामा ज्येष्ठा रौद्री शान्ति श्रद्धा सरस्वती क्रियाशक्तिलक्ष्मी- सृष्टि मोहिनी प्रमथिनी आश्वासिनी वीची विद्युन्मालिनी सुरानन्दा नागबुद्धिकाः || २५ || अत्र क्रियाशक्तिः विद्युन्मालिनी सुरानन्दा इत्येकैका देवता | शेषा देवताः स्पष्टाः | क्रमस्यानुक्तत्वात् देव्यग्रदलमारभ्य प्रादक्षिण्येन | इति चतुर्थावरणम् || २६ || पञ्चमावरणदेशादीनाह- अष्टदले असिताङ्ग रुरु चण्ड क्रोधन उन्मत्त कपाल भीषण संहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः || २७ || सदण्डीत्यत्र दण्डी अनुस्वारः दण्डी पञ्चदशः शून्यः इति मेदिनीकोशात् | अनुस्वारेण सहिताः ये पूर्वोक्तस्वरयुग्मादयः अं इं उं० इत्यादयः आदौ तैः युक्ताः भैरवान्ताश्च ये मन्त्राः तैः पूज्याः इत्यर्थः | यथा अं असिताङ्गभैरवश्रीपादुकां पूजयामि | एवमेवाग्रिमसप्तमन्त्राः ऊह्याः | इति पञ्चमावरणम् || २७ || षष्ठावरणदेवतामन्त्रादीनाह- चतुर्दलं मायुक्ततङ्गी सिद्धलक्ष्मीश्च महामायुक्ततङ्गी महासिद्धलक्ष्मीश्च || २८ || उभयत्र युक्तेति ज्ञेयम् | तथा च मातङ्गी महामातङ्गीति सिद्धम् | शेषं स्पष्टम् | मातङ्गी सिद्धलक्ष्मी महामातङ्गी महासिद्धलक्ष्म्यः चतस्रः पूज्याः इति विवेकः | इति षष्ठावरणम् || २८ || प्. २०३) सप्तमावरणपूजामाह- गं गणपति दुं दुर्गा बं बटुक क्षं क्षेत्रपालाः चतुरस्रे सम्पूज्याः || २९ ||
SK
क्रमस्तु आग्नेयकोणमारभ्यैशानान्तकोणेषु | इति सप्तमावरणम् || २९ || आवरणबहिर्भूतदेवतायजनम् श्रीक्रमे तन्त्रान्तरे आम्नायादिदेवतावत् आवरणबहिर्भूतदेवतायजनमाह- सां सरस्वत्यै नमः इति प्रभृति वास्तुपतये ब्रह्मणे नमः इति पर्यन्तं पुनस्तत्रैवाभ्यर्च्य || ३० || तत्रैवेति पूर्वं [पूर्वं नाम १९६-पत्रे-अनुगन-१४-सूत्रे यथोक्तं तद्वत् |] यत्र न्यासोत्तरं पूजिताः तत्र तैरेव मन्त्रैः श्रीपादुकां पूजयामीति सहितैः | यथा सां सरस्वत्यै नमः सरस्वतीश्रीपादुकां पूजयामीति | एवमग्रेऽपि नमःपदान्ते श्रीपादुकामिति योगस्तु सूत्रे नमोऽन्तानुकरणेन सूचितः || निबन्धे चतुरस्रे अमीषां पूजनमुक्तं तन्मन्दम् पूर्वं यत्रैकवारं पूजिताः तत्रैव पुनः पूज्या इति स्वरसतो लाभात् | लोकेऽपि चैत्रं गृहात् बहिः स्थापय मैत्रं गृहे भोजय चैत्रं तत्रैव भोजय इत्युक्तौ कथमनुभवः श्रुतुः इति सूक्ष्मबुद्ध्या विचारयन्त्वार्याः || ३० || श्यामाविद्याऽचार्यपूजा श्रीश्यामाविद्याप्रवर्तकाचार्यपूजां [प्रवर्तकपूजाऽचार्य इति कोशेषु.] तेषां स्थानं चाह- हंसमूर्तिपरप्रकाशपूर्णनित्यकरणसम्प्रदायगुरूंश्चतुरस्रपूर्व- रेखायामभ्यर्च्य || ३१ || हंसमूर्तिश्च परप्रकाशश्च पूर्णश्च नित्यश्च करुणश्च ये ते सम्प्रदायगुरवः तान् चतुरस्रपूर्वरेखायाम् उदगपवर्गं पूजयेत् इति तदर्थः | मन्त्रस्वरूपं च हंसमूर्तिसम्प्रदायगुरुश्रीपादुकां पूजयामि | एवमग्रिममन्त्रेष्वपि सम्प्रदायगुर्विति योज्यम् द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सर्वत्र सम्बध्यते इति न्यायात् || ३१ || गुरुपादुकापूजा एवं चक्रपूजां समाप्य गुरुपादुकापूजामाह- स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् || ३२ || प्. २०४) सामान्यगुरुपादुकामन्त्रः दीक्षाखण्डे [दीक्षाखण्डे ६६-पत्रे सूत्रे तद्भाष्ये च |] प्रतिपादितः | विशेषगुरुपादुकामन्त्रः चरमखण्डे श्यामागुरुपादुकेत्युद्धृतः | ताभ्यां मन्त्राभ्यां स्वशिरसि पादुकाद्वयं सम्पूजयेत् || ३२ || देव्याः पुनःपूजा
SK
एवं गुरुपादुकाऽर्चनान्तम् आवरणपूजामुक्त्वा प्रधानदेवतापूजापुररसरं बलिप्रदानं विवृणोति- पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय || ३३ || मूलेनेति शेषः | पुनरित्यनेन षडङ्गदेवताभ्यः प्राक् प्रधानदेव्यर्चनं ज्ञापितम् | बालयेति स्पष्टम् || ३३ || बलिदानम् बलिदानप्रकारं दर्शयति- शुद्धजलेन त्रिकोणवृत्तचतुरस्रं विधायार्धान्नपूर्णसलिलं [य तस्मिन् पुष्पाणि विकीर्यार्धा-श्री.] सादिमोपादिममध्यमं सु[स]गन्धपुष्पं साधारं पात्रं निधाय || ३४ || शुद्धजलेन कलशस्थेन | अर्धान्नपूर्णं सलिलं यस्मिंस्तत् | आदिमं प्रथमम् उपादिमं द्वितीयं मध्यमं तृतीयम् एभिः सहितं सुगन्धपुष्पं यत्र ईदृशम् आधारसहितं बलिपात्रं निधाय स्थापयित्वा || ३४ || बलिदानमन्त्रान् तदितिकर्तव्यतां च दर्शयति- श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथेमं बलिं गृह्ण गृह्ण फट् स्वाहा इति मन्त्रत्रयेण वामपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रनारा च मुद्राभिः बलिं प्रदाय || ३५ || श्रीमातमिति हुंफट् स्वाहेत्यन्तं मन्त्रत्रयम् | नाराचमुद्रा परमानन्दतन्त्रे- विमुष्ट्यङ्गुष्ठतर्जन्यावूर्ध्वाङ्गुष्ठाग्रतर्जनी | हस्तद्वयगता चैवं मुद्रा नाराच संज्ञिता || इति || अयमर्थः प्रथमं हस्तद्वये मुष्टिभावं सम्पाद्य तस्या निर्गते विमुष्टी ये अङ्गुष्ठतर्जन्यौ तयोर्मध्ये ऊर्ध्वाग्रमङ्गुष्ठं प्रागग्राम् ऋजुरूपां तर्जनीं कुर्यात् | इयं नाराचमुद्रेत्यर्थः || ३५ || प्. २०५) सुवासिनीपूजादि एवं बलिप्रदानक्रममुक्त्वा सुवासिनीपूजाऽदिकमुपदिशति- श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्त्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सह हविश्शेषं स्वीकुर्यात् || ३६ ||
SK
अभ्यर्च्येति विशेषानुक्तेः यथाविभवम् | तत्त्वं शोधयित्वा इत्यनेन तत्त्वशोधनमन्त्राः अपि प्राप्ताः ते च मन्त्राश्चत्वारः प्रसिद्धाः [इमे तत्त्वमन्त्राः त्रयः दीक्षाप्रकरणे-६२-पत्रे ३९ सूत्रभाष्ये सन्ति चतुर्थश्च मन्त्र सर्वतत्त्वायस्वाहेति ज्ञेयः || इति तत्त्वमन्त्रचतुष्टयं ज्ञेयम् ||] | तैः पात्रचतुष्टयं ग्राहयित्वा चतुर्थपात्रं सशेषं ग्राहयित्वा तच्छेषं स्वयम् उररीकुर्यात् | हविश्शेषप्रतिपत्तिमाह योग्यैरिति | योग्यपदार्थः श्रीक्रमोक्तशिष्टपदेन व्याख्यातः [१७६-पत्रे-पाश्चात्यपञ्चमखण्डीय २२ सूत्रे तद्भाष्ये च-शिष्टपदार्थः स्फोटितः |] | इत्थं च तस्य प्रयोजनं तदितिकर्तव्यता तत् सर्वमपि श्रीक्रमोक्तप्रकारेणावगन्तव्यं भवति || ३६ || श्यामापूजाऽवधिः एवं सङ्गीतमातृकापूजा कियत्कालं कर्तव्या इत्यवध्याकाङ्क्षायां तदवधिमाह- एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तद्दशांशक्रमेण च होमतर्पणब्राह्मणभोजनानि विदध्यात् || ३७ || एवम् उक्तप्रकारेण नित्यसपर्यां नित्यपूजाम् | अत्र कुर्वन्नित्यनेन पूजनस्य जपाङ्गत्वं गमयति | तथा हि यदि पूजा प्रधानं जपश्चाङ्गं स्यात् तर्हि यावत्पर्यन्तं लक्षजपः तावत् पूजेति कथनं विरुध्येत | न हि अङ्गानुसारिणी प्रधानावृत्तिः लोके वेदे च दृष्टा | यावत् भटो धावति तावत् राजा धावति इति न हि ब्रूते | यावत् राजा धावति तावत् भटो धावति इति व्यवहारोऽस्ति | अतो जपः प्रधानं तदवधित्वस्य पूजायां कथनात् | अत एव जपसमाप्तौ पूजानिवृत्तिः | लक्षजपं जप्त्वेति लक्षसङ्ख्याविशिष्टजपोऽनेन विधीयते | तद्दशांशक्रमेण होमो जपदशांशं तद्दंशांशं तर्पणं तद्दशांशं ब्राह्मणभोजनमित्यर्थः || ३७ || श्यामामनुजापिधर्माः अथैतन्मनुजापिधर्मानाह- एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा कालीति न वदेत् वीणावेणुनर्तनगायनगाथागोष्ठीषु न पराङ्मुखो गच्छेत् गायकं न निन्द्यात् || ३८ || प्. २०६)
SK
एतन्मनुजापी श्यामामनुजापीत्यर्थः | एते धर्माः न जपसमकालिकाः किं तु जपमारभ्य यावज्जीवं तस्मादग्निचिद् वर्षति न धावेत् इतिवत् || ३८ || ललितोपासकधर्माः एवं श्यामोपासकानां धर्मानुक्त्वा प्रसङ्गात् प्राधान्याच्च ललितोपासकधर्मानप्याह- ललितोपासको नेक्षुखण्डं भक्षयेत् न दिवा स्मरेद् वार्तालीं न जुगुप्सेत सिद्धद्रव्याणि न कुर्यात् स्त्रीषु निष्ठुरतां वीरस्त्रियं न गच्छेत् न तं हन्यात् न तद्द्रव्यमपहरेत् नात्मेच्छया मपञ्चकमुररीकुर्यात्कुलभ्रष्टैः सह नासीत न बहु प्रलपेत् योषितं सम्भाषमाणामप्रतिसम्भाषमाणो न गच्छेत् कुलपुस्तकानि गोपायेत् इति शिवम् || ३९ || इति...कल्पसूत्रे श्यामाक्रमो नाम षष्ठः खण्डः || इक्षुखण्डमित्यनेन तद्विकाराणां गुडशर्करादीनाम् अदोषः सूचितः | वार्तालीं वाराहीम् | सिद्धद्रव्याणि मपञ्चकरूपाणि न जुगुप्सेतस्वमनसाऽपि न निन्द्यात् | निष्ठुरतां नासिकाच्छेदनादि | वीरस्त्रियमिति षष्ठीतत्पुरुषः न कर्मधारयः | तथा सति अग्रे न तं हन्यात् इत्यत्र पुंस्त्वस्यानन्वयापत्तेः | अतो बाधकसत्त्वात् लघोरपि कर्मधारयस्य त्यागः | वीरस्त्रियम् इत्यत्र वीरपदार्थश्च निर्मूलपराहतद्वैतभावः | तदुक्तं तन्त्रे- अहमि प्रलयं कुर्वन् इदमः प्रतियोगिनः | सः वीर इति विज्ञेयः स्वात्मानन्दनिमग्नधीः || तं वीरम् | तद्द्रव्यं वीरद्रव्यम् | आत्मेच्छया स्वेन्द्रियतृप्तये उररीकुर्यात् स्वीकुर्यात् | कुलभ्रष्टैः प्रथमं कुलमार्गमङ्गीकृत्य जन्मान्तरांहसा तत्रोत्पन्नाविश्वासाः सन्तोये स्वीकृतं मार्गं परित्यजन्ति ते कुलभ्रष्टाः | तदुक्तं देवीभागवते- कुलमार्गं समाश्रित्य जन्मान्तरकृतांहसा | तन्मार्गं त्यजता साकं न तिष्ठेन्न च संवदेत् | ततो वरः पशुर्ज्ञेयः तं दृष्ट्वाऽपः [अप्सु संविशेत् श्री. सूत्रस्यपुनरावृत्तौ शोध्यं सूचयितव्यकम् | परिशिष्टस्थलं चैव पूर्णमाद्याप्रसादतः || इति षष्ठः खण्डः || श्रीः- ] सुसंस्पृशेत् || इति ||
SK
न बहुवचनं प्रलपेत् इति तैः साकमेव | बहुपदेन स्वमार्गगुप्तये तज्जनितानर्थपरिहारार्थं यावदर्थसम्भाषी भवेत् इति ज्ञापितम् | अप्रतिसम्भाषमाणः प्रत्युत्तरमदत्त्वा | कुलपुस्तकानि कुलशास्त्रपुस्तकानि | शिवमित्यस्य व्याख्यानं पूर्ववत् || इति...कल्पसूत्रवृत्तौ श्यामाक्रमो नामः षष्ठः खण्डः || ॐ श्रीमहात्रिपुरसुन्दर्यै नमः | श्रीपरशुरामकल्पसूत्रम् रामेश्वरकृतवृत्तिसहितम् | परशूज्ज्वलहस्ताब्जो जटामण्डलमण्डितः | ददातु चिरजीवित्वं प्रसन्नात्मा भृगूद्वहः || प्रथमः खण्डः-दीक्षाविधिः | वृत्तिभूमिका [अत्र वृत्तिशब्देन एतन्मूलग्रन्थस्योपरि सौभाग्योदयनामकं विवरणं ज्ञेयम् | एतदत्तिकाराभिधानवृत्तिरचनासमयादिज्ञानाय अग्रे द्वितीयपरिशिष्टे १- विषयो दृश्यः |] अत्र मङ्गलम् श्रीवल्लभापयोधरसंलिप्तालेपरञ्जितोरस्कम् | वन्दे गजेन्द्रवदनं बालसहस्रांशुकोटिसच्छायम् || या परशिवे स्फुरत्ता पूर्णाऽहन्तापदेन संश्लिष्टा | द्वैतं भावं प्राप्ता पश्चादम्बां परामिमां कलये || या पञ्चप्रेतसंस्था परशिवनिलयपा शक्तयः कामबुद्धि- कर्माद्या यन्मयूखाः समुदयपरिरक्षाऽन्तकर्त्र्यो बभूवुः | या पश्यन्त्यादिरूपा सकलजनवचोजालमाविष्करोति सा मे वाग्देवतेयं विलसतु वदने चित्तमालिन्यहन्त्री || श्रीमद्यशोवदम्बाभासुरवामाङ्कमज्ञताऽद्रिपविम् | मम विधिसुषिरसरोरुहकल्पितनिलयं नमामि नाथेन्द्रम् || यो भृगवंशे भूत्वा क्षत्रं जघ्ने त्रिसप्तकृत्वस्तम् | षष्ठं श्रीमद्विष्णोरवतारं नौमि वीरेन्द्रम् || प्. २) सुब्रह्मण्यं च पितरं गुरुवाम्बां च मातरम् | प्रणमामि फलावाप्त्यै तावेव शरणं मम || विचार्य नानातन्त्रादीन् मीमांसान्यायविस्तरम् | नानादेशसमानीतपुस्तकैः परिशोध्य च || जामदग्न्येन रचितं कल्पसूत्रं यथामति | विस्तारयति गूढार्थं श्रीविद्योपास्तिसिद्धये || रामेश्वरः श्रीललिताप्रेरितः काश्यपोद्भवः || दीक्षाऽधिकारः
SK
इह खलु श्रीभगवान् श्रीपरशुरामः आधुनिकेषु मन्दमतिषु कृपालुः श्रीशिवनिर्मितान्यसंख्यानि [एतावतेदं प्रतीयते सर्वतन्त्रग्रन्थानां कर्ता भगवान् शिवः इति-अत्र द्वि० परिशिष्टे-३ वि- दृश्यः |] तन्त्राणि पर्यालोड्य सर्वाण्युपसंहृत्य तुरीयपुरुषार्थसाधनं लघुमध्वानं दर्शयन् प्रतिजानीत्- अथातो [इतो ग्रन्थमारभते भगवान् श्रीजामदग्न्यो रामः- तद्ध्यानप्रकारः-तत्पितुः श्रीजमदग्निमहर्षेः पूर्वजन्मकथा च-द्वि० परिशिष्टे-२-विषये-दृश्या |] दीक्षां [इत आरभ्य पुरस्तन-३३ सूत्रभाष्यान्तं यावद्दीक्षाविधौ ज्ञातव्यमस्ति दीक्षाप्रयोगारम्भस्तु- ३४-सूत्रादस्तीति ज्ञेयम् |] व्याख्यास्यामः || १ || अथ अथशब्दः मङ्गलद्योतकः, ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा | कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ || इति स्मरणात् | अतःशब्दश्च आनन्तर्यद्योतकः | आनन्तर्यस्यावध्यपेक्षायां समीपवर्तित्वात् मङ्गलाचरणं नानातन्त्रपरिशोधनं वा अवधित्वेन अन्वेति | यद्वा- अथात इति मिलित्वा आरम्भद्योतकः अथातो दर्शपूर्णमासौ व्याख्यास्यामः इत्यापस्तम्बसूत्रभाष्ये अथातश्शब्दोऽयं प्रकरणारम्भे प्रायः प्रयुज्यते वृद्धैः | क्वचिदानन्तर्येऽपि यथा- इमे भृगवो व्याख्याताः अथातोङ्गिरसाम् इत्यादौ | तथा न पुनरिहानन्तर्यमर्थः पूर्वप्रवृत्तस्य कस्य चिदनन्तरस्यानुपलम्भात् इति लेखात् | दीक्षापदार्थं सूत्रकारोऽग्रे विवेचयिष्यति | व्याख्यापदार्थश्च निगूढाभिप्रायकशब्दस्य विविच्य कथनम् | प्रकृते गूढार्थानां तन्त्राणामुपसंहारेण विविच्य कथनं कल्पसूत्रे इति लक्षणसमन्वयः | दीक्षाविषयज्ञानानुकूलशब्दप्रयोगकर्ताऽहमिति प. ३)
SK
फलितोऽर्थः | व्याख्यास्यामः इति बहुवचनमुपासनाप्रवर्तकाचार्यानन्यानपि संग्रहीतुम् | यथा लोके गुरुतरकार्यनिर्माणे वयं कूर्मः इत्यन्येऽपि संगृह्यन्ते तथा | एतेन दीक्षाव्याख्यानमतिकठिनमिति सूचितम् | यद्वा- अस्मदो द्वयोश्च एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं स्यादिति तदर्थः | तथा च अस्मच्छब्दस्य कर्तृवाचकस्य बहुवचनान्तत्वात् तत्समानवचनत्वोपपत्तये व्याख्यास्यामः इति बहुवचनम् || तन्त्राप्रामाण्यशंकानिरासः ननु कल्पसूत्रव्याख्यानं वैदिकानामयुक्तं तस्य तन्त्रेषु परिगणितत्वेन तन्त्राणां केवललोभैकमूलत्वेनाप्रामाण्यात् | तदुक्तं वार्तिके भट्टपादैः- लोभादिकारणं चात्र बह्वेवान्यत् प्रतीयते | यस्मिन् सन्निहिते दृष्टे नास्ति मूलान्तरानुमा || शाक्यादयश्च सर्वत्र कुर्वाणा धर्मदेशनाम् | हेतुजालविनिर्मुक्तां न कदाचन कुर्वते || न च तैर्वेदमूलत्वमुच्यते गौतमादिवत् | हेतवश्चाभिधीयन्ते ये धर्माद्दूरतः स्थिताः || एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् | पाषण्डिनोऽपि कर्मस्था हैतुकाश्चैत एव हि || इति | एवं यान्यन्यानि त्रयीविद्भिः न परिगृहीतानि किंचित्तन्मिश्रकञ्चुकछायापतितानि लोकोपसंग्रहलाभपूजाख्यातिप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टलोभादिप्रत्यक्षानुमानोपमानार्था- पत्तियुक्तिमूलोपनिबद्धानि सांख्ययोगपाञ्चरात्रशाक्यग्रन्थपरिगृहीतधर्माधर्मनिबन्धनानि विषचिकित्सावशीकरणोच्चाटनोन्मादनादिसमर्थानि कादाचित्कसिद्धिदर्शनबलेन अहिंसासत्यवचनदमदानदयाऽदिश्रुतिस्मृतिसंवादिस्तोकार्थगन्धवासित- जीविकाप्रायार्थान्तरोपदेशीनि यानि म्लेच्छाचारमिश्रकभोजनाचरणनिबन्धनानि तेषामेवैतच्छ्रुतिविरोधहेतुदर्शनाभ्यामनपेक्षणीयत्वं प्रतिपाद्यते इति च ग्रन्थेन | एवं श्रीसूतसंहितायां ब्रह्मगीताद्वितीयाध्यायेऽपि- वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः | हस्तस्थं पायसं त्यक्त्वा लिहेत् कूर्परमात्मनः ||
SK
विना वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् | तमस्यपि विनाऽलोकं ते पश्यन्ति घटादिकम् || प्. ४) तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् | अन्येन वेदितो ह्यर्थः न सत्यः परमार्थतः || इति || तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् | सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः || इति || यज्ञवैभवखण्डे एकचत्वारिंशेऽध्याये- बहुनाऽत्र किमुक्तेन श्रुतिस्मृत्युदितं विना | यत्किंचिदपि कुर्वाणः पातकी स्यान्न संशयः || इति वैदिकान्यमार्गनिन्दा श्रूयते | अग्निपुराणेऽपि वेदराशिना साकं नारकिणां संवादे- तन्त्रदीक्षामनुप्राप्ताः लोभोपहतचेतसा | त्यक्त्वा वैदिकमध्वानं तेन दह्यामहे वयम् || इति || पद्मपुराणे पुष्करमाहात्म्ये- ये च पाषण्डिनो लोके तान्त्रिका नास्तिकाश्च ये | तैर्दुष्प्रापमिदं तीर्थम्................................... || इति तान्त्रिकपुरुषनिन्दया तन्त्रस्याश्रद्धेयत्वं स्पष्टम् | एवमन्येष्वपि बहुपुराणेषु तन्त्रनिन्दायाः बहुलमुपलम्भात् | मपञ्चकादरविधायकशास्त्रस्य लोभैकमूलत्वं सुस्पष्टम् | विसर्जनीयवासोग्रहणशास्त्रस्य लोभैकमूलत्वं साधितम् | किमु मपञ्चकसेवकस्य लोभमूलत्वे प्रतिरोधः | तस्मात् इदं शास्त्रमास्तिकैः न व्याख्येयम् इति चेत्-मैवम् [इतस्तन्त्रशास्त्रप्रामाण्यस्वीकरणशास्त्रार्थः] | किं भट्टपादानां पुराणानि पाद्मादीनि प्रमाणत्वेन अभिमतानि न वा ? यदि प्रमाणत्वेन अभिमतानि तर्हि तेषु तन्त्रप्रामाण्यं बहुशः अधिकारिविशेषविषये श्रूयते | तथाहि सूतसंहितायां ब्रह्मगीताद्वितीयाध्याये- तथाऽपि स्वप्नदृष्टं हि वस्तु स्वर्गनिवासिनः | सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये || तथैव मार्गात् संभ्रान्ता अपि वेदोदितस्य तु | अर्थस्य प्राप्तिसिद्ध्यर्था भवन्त्येव न संशयः || तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे || इति [एतावता वेदवद्वेदेतरधर्म्यमार्गाश्रयणमप्यशास्त्रीयं नेति सिध्यति ||] || प्. ५) सूतसंहितायां शिवमाहात्म्यखण्डे पञ्चमाध्याये-
SK
पूजा शक्तेः परायास्तु द्विविधा परिकीर्तिता | बाह्याभ्यन्तरभेदेन बाह्या च द्विविधा मता || वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा | तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि || इत्थं समस्तदेवानां पूजा विप्रा व्यवस्थिता || इति || एवं सूतसंहितायां मुक्तिखण्डे- पाञ्चरात्रादितन्त्राणां [एतेन नारदपाञ्चरात्रादितान्त्रिकग्रन्थानां वेदमूलत्वं तेभ्यश्च वैदिकानां वेदाविरुद्धांशग्रहणोक्तिश्चेत्युभयमपि परशिवोदितमिति सिध्यति |] वेदमूलत्वमास्तिके | न हि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे || तथाऽपि य्ॐऽशोमार्गाणां वेदेन न विरुध्यते | स्ॐऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् || इति तान्त्रिकाणामहं देवि लभ्योऽस्मि व्यवधानतः | लभ्यो वेदैकनिष्ठानामहमव्यवधानतः || इति च || एवं तत्रैव यज्ञवैभवखण्डे विशेऽध्याये- शैवागमोदितो धर्मो द्विधा पूर्वमुदीरितः | अधःस्रोतोद्भवस्त्वेक ऊर्ध्वस्रोतोद्भवोऽपरः || अधःस्रोतोद्भवाद्धर्मादूर्ध्वस्रोतोद्भवो वरः | कामिकादिप्रभेदेन स भिन्नोऽनेकधा द्विजाः || अधःस्रोतोद्भवो धर्मो बहुधा भेदितस्तथा | ऊर्ध्वस्रोतोद्भवाद्धर्मात् स्मार्ता धर्मा महत्तराः || इति तत्रैव द्वाविंशेऽध्याये- तस्मान्मार्गान्तराणां तु प्रमाण्यं वेदवित्तमाः | मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता || अतो वेदान्तमार्गस्थो महादेवोऽचिरेण तु | मुक्तिं ददाति नान्यत्र स्थितः सोऽपि क्रमेण तु || ददाति परमां मुक्तिमित्येषा शाश्वती श्रुतिः || इति || प्. ६) तत्रैव- अतो वेदस्थितो मर्त्यो नान्यमार्गं समाश्रयेत् | अतोऽधिकारिभेदेन मार्गा मानं न संशयः || तत्रैवैकस्मिन् परिवृत्ते तत्रत्यश्लोकाः- ईश्वरस्य स्वरूपे च ब्रन्धहेतौ तथैव च | जगतः कारणे मुक्तौ ज्ञानादौ च तथैव च || मार्गाणां ये विरुद्धांशा वेदान्तेन विचक्षणाः | तेऽपि मन्दमतीनां च महामोहावृतात्मनाम् ||
SK
वाञ्छामात्रानुगुण्येन [इदमत्रावधेयं यत् तन्त्रशास्त्रं वेदसिद्धान्तान् कियदाश्रयतीति |] प्रवृत्ता न यथाऽर्थतः | दर्शयित्वा तृणं मर्त्यो धावन्तीं गां यथाऽग्रहीत् || दर्शयित्वा तथा क्षुद्रमिष्टं पूर्वं महेश्वरः | पश्चात् पाकानुगुण्येन ददाति ज्ञानमुत्तमम् || तस्मादुक्तेन मार्गेण शिवेन कथिता अमी | मार्गा मानं च चामानं मृषावादी कथं शिवः || इति || तथा ब्रह्माण्डपुराणे- स्वमातृजारवद् गोप्या विद्यैषेत्यागमा जगुः || इत्यागमानां प्रमाणत्वेनोपन्यासः | तथा [तान्त्रिकसरण्या शान्तिकपौष्टिककर्मकरणोपदेशः तेन फलप्राप्तिश्चात्र निरूपितेति बोध्यम् ||] ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्ये प्रदोषपूजा तान्त्रिकसरण्या ब्राह्मणराजपुत्रयोरुपदिष्टा | तेन च फलप्राप्तिरिति इतिहासः सुस्पष्टं प्रतीयते | श्रीमद्भागवते गजेन्द्रस्तुतौ शर्वागमाम्नायमहार्णवाय इति | आगमाः पाञ्चरात्रादितन्त्राणि इति श्रीधरस्वामिव्याख्या | तथा ब्रह्मस्तुतौ रूपं तथैतत्पुरुषर्षभेज्यं श्रेयोऽर्थिंभिर्वैदिकतान्त्रिकेण || इति || तथा एकादशस्कन्धे करभोजनोपदेशे द्वारपूजाविधाने कलिपूजायां च वचनानि यथा- यजन्ते वेदतन्त्राभ्यां परं जिज्ञासवो नृप | नानातन्त्रविधानेन कलावपि तथा शृणु || इति || नानातन्त्रविधानेनेति कलौ तन्त्रमार्गप्राधान्यं दर्शयतीति श्रीधरस्वामिव्याख्यानम् | एवमेकादशस्कन्धे उद्धवोपदेशेऽपि- प्. ७) वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः || २७ अ. ७ श्लो. इति वैदिकतान्त्रिकभेदेन द्विप्रकारपूजा श्रीभगवतोपदिष्टा [एतावता भगवतस्तान्त्रिक्यपि पूजाऽभिमतेति प्रमाणीयते |] सर्वैंरुपलभ्यते | श्रीमहाभारते अर्जुनस्तुतौ- आम्नायागमवेद्याय शुद्धबुद्धाय ते नमः || इति ||
SK
एवमादीनि तन्त्रप्रामाण्यप्रतिपादकवचनानि सहस्रश उपलभ्यन्ते | ग्रन्थविस्तरभयान्नेह प्रपञ्च्यन्ते | एवं योगमार्गप्रामाण्यव्यवस्थापकानि वचनानि श्रीमन्महाभारते भगवद्गीतासु मोक्षधर्मादौ च असकृच्छ्रूयन्ते | तथा भागवते काशीखण्डादिनिखिलपुराणेषु च पदे पदे उपलभ्यन्ते | एवं सति भट्टपादाः कथं सांख्ययोगतन्त्राणामप्रामाण्यं ब्रूयुः | न वा पुराणानामप्रामाण्यमिति शक्यते वक्तम् पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश || इति विद्यासुपरिगणनात् यदथर्वाङ्गिरसो ब्राह्मणानीतिहासान् पुराणानि इति वेदेऽपि पुराणस्य प्रमाणमध्यपरिगणनात् [एतेन तन्त्रशास्त्रब्राह्मणेतिहासपुराणधर्मशास्त्राणां वेदनिष्ठं प्रमाणमुपलभ्यते एव] | एवं उक्तवचनकलापैः एवंविधैरन्यैश्च तन्त्राणां सिद्धे प्रामाण्ये अप्रामाण्यं ब्रह्मणाऽपि व्यवस्थापयितुं न शक्यम् || सर्वतन्त्राणां वेदबाह्यत्वशंकानिरासः ननु भवत्वधिकारिविशेषे वेदभ्रष्टे पुरुषे स्त्रीशूद्राणां संकरेषु च तन्त्राणां प्रामाण्यं न वैदिके | न च वैदिकातिरिक्ते तन्त्रस्य अधिकारसंकोचकप्रमाणाभाव इति वक्तुं शक्यम् | पूर्वं सूतसंहितावचनस्य तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि इति लिखितस्य सत्त्वात् | एवं सूतसंहितायामेव मुक्तिखण्डे- अत्यन्तगलितानां तु प्राणिनां वेदमार्गतः | पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः || इति || तत्रैव सूतगीतायाम्- श्रुतिपथगलितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित् प्राह शंभुः | श्रुतिपथनिरतानां तत्र नैवास्ति किंचित् हितकरमिह सर्वं पुष्कलं सत्यमुक्तम् || इति प्रमाणान्तरवचनात् | तस्मात् प्रमाणान्यपि तन्त्राणि वेदमार्गगलितस्यैव न वैदिकस्येति चेत् | प्. ८)
SK
न | यच्च श्रुतिपथगलितानामिति सूतगीतावचनं तत्रत्यं तन्त्रपदं तन्त्रविशेषम् | तच्च तन्त्रं शैवागम - इति प्रसिद्धम् दक्षिणदेशे च भाषया जङ्गम - इति प्रसिद्धैरनुष्ठितम् | कथमिदमेवेति ज्ञापकमिति चेत् अस्ति ज्ञापकं पूर्वोक्तवचनसमीप एव- श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं कथितमखिलदुःखध्वंसकं तत्र धार्यम् | श्रुतिपथनिरतानां तत् सदा नैव धार्यम् || इति || तत्र लिङ्गधारणं शैवागमेन बहुफलसाधनमिति प्रतिपादितम् | तत्संप्रदायानुवर्तिनो लिङ्गं दक्षिणबाहौ गले वा धारयन्ति इत्याचारोऽप्युपलभ्यते | यथा चास्मिन् वचने श्रुतिपथगलितानां सर्वतन्त्रेषु इत्युत्तरं प्रतिपादितम् इति शेषः | एवं च यस्मिन् तन्त्रे लिङ्गधारणं प्रतिपादितं तत्तन्त्रं श्रुतिभ्रष्टानामित्यत्र लिङ्गम् | यथा छागस्य वषाया मेदसः इति मन्त्रलिङ्गेन पशुशब्दसंकोचः तथा | किं च श्रीमदध्यात्मरामायणे श्रीलक्ष्मणप्रश्नः- ब्रह्मक्षत्रादिवर्णानामाश्रमाणां च मोक्षदम् | स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् || तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् || इति || तदुत्तरं ऽश्रीराम उवाच इत्यारभ्य दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् | होमं कुर्यात् प्रयत्नेन विधिना तन्त्रकोविदः | आगमोक्तेन [अगस्त्योक्तेन इति क्वचित् |] मार्गेण कुण्डेनागमवित्तमः || इति ||
SK
एव ब्राह्मणादीनां वर्णानां ब्रह्मचर्यादीनामाश्रमाणां च मोक्षोपायप्रश्ने आगमोक्तपूजा कर्तव्येति तदुत्तरमनन्यगतिकं वैदिकेऽपि तान्त्रिकं यत् प्रतिपादयति तन्मात्सर्यशून्येन तत्त्वबुभुत्सुना त्यक्तुमशक्यम् | नहि चैत्रः कुशलो वा - इति प्रश्ने मैत्रः कुशलः इति प्रामाणिकः सन् ब्रूयात् | तस्मात् श्रीरामोत्तरं ब्राह्मणादिविषयम् | न ह्यवैदिको ब्राह्मणः क्षत्रियश्च लोके प्रसिद्धः | न च ब्राह्मणः क्षत्रियो वा ब्रह्महत्याऽदिमहापातकेन पातित्यं गतः वेदमार्गभ्रष्टःतत्र ब्राह्मणत्वं वेदमार्गगलितत्वमुभयं चास्तीति स एव तन्त्रोदितेष्वधिकारीति वाच्यम् ब्रह्मक्षत्रादिकल्याणप्रश्ने तदुत्तररूपपूजाविधाने- प्. ९) स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः | प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये | वेदतन्त्रोदितैर्मन्त्रैर्मृल्लेपनविधानतः || इति द्वन्द्वसमासेन एकस्यैव पुरुषस्य वैदिकमन्त्रसहिततान्त्रिकमन्त्राणां स्नानकरणत्वं विधीयते | तथा च वेदबाह्यमुद्दिश्य तन्त्रसामान्यानुष्ठानविधिः इति स्वीकृत्य श्रीरामवाक्यप्रामाण्यनिर्वाहः गीर्वाणगुरूणामप्यशक्य एव | एवं श्रीभागवते एकादशस्कन्धे उद्धवोपदेशे- उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये || इति || उपसंहारे तत्रैव- एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः | अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् || इति || तस्मात् श्रुतिपथगलितानामिति वचनं जङ्गमादिलिङ्गधारिपरम् | एवं मुक्तिखण्डस्थपूर्वोक्तात्यन्तगलितानामितिवचने पाञ्चरात्रादयो मार्गाः इति आदिपदेन शैवागमस्य जङ्गमपरिगृहीतस्य ग्रहणं न ज्ञानार्णवकल्पसूत्रादीनाम् तस्मिन् वेदभ्रष्टाधिकारिकत्वस्य कॢप्तत्वेन तेन सहैकवाक्यत्वात् | यच्च शिवमाहात्म्यखण्डे पूजा शक्तेः परायास्तु इत्यारभ्य वैदिकी तान्त्रिकी चेति द्विजेन्द्रास्तान्त्रिकी तु सा | तान्त्रिकस्यैव नान्यस्य वैदिकी वैदिकस्य हि ||
SK
इति वचनं तस्य अयमभिप्रायः - वैदिकः स्वगृह्योक्तोपनयनादिसंस्कृतः | तान्त्रिकः तन्त्रोदीरितकुण्डमण्डपादिपुरस्सरं दीक्षासंस्कृतः | न तान्त्रिको नाम श्रुतिपथगलितः तस्य पूर्वमेव निरस्तत्वात् | तथा च अनेन वचनेन उपनयनादिनिमित्ते वैदिकस्नानपूजाऽदिनैमित्तिकम् | तन्त्रदीक्षानिमित्ते नैमित्तिकं तान्त्रिकस्नानपूजाऽदि विधीयते | यत्रैकं निमित्तं तत्रैकं केवलवैदिके | शूद्रादौ केवलतान्त्रिकम् | यत्र उभयं तत्र उभयानुष्ठाने न किमपि बाधकम् [सिध्यत्येतावता च त्रैवर्णिकानां वैदिकतान्त्रिकोभयकर्मोपदेशः - द्विपरिशिष्टे - २ - वि० दृश्यः | २ प.] | अस्यैवार्थः स्पष्टीकृतः त्रिपुरार्णवे- त्रैवर्णिकैर्वैदिकान्ते तान्त्रिकं क्रियतेऽखिलम् || इति || इममेवार्थं संक्षेपेण श्रीरामोऽप्याह - वेदतन्त्रोदितैर्मन्त्रैरिति | तस्मात् सर्वतन्त्रानुष्ठानं वेदबाह्यपरमिति सिद्धान्तो वचनान्तरानवलोकनव्यामोहविलासरूप एव | पाञ्चरात्रादीनां तु श्रुतिपथगलितमुद्दिश्यैव प्रवृत्तिः तन्नाम गृहीत्वा आहत्यविधानात् | एवमेव कापालमपि- प्. १०) पाञ्चरात्रे च कापाले तथा कालमुखेऽपि च | अधिकारो वैदिकानां नास्ति नास्ति मुनीश्वराः || इत्यगस्त्यसंहितावचनात् | तथा च निर्णीत एवार्थे भट्टपादानामभिप्रायः | अत एव पाञ्चरात्रस्यैव तन्त्रमध्ये पृथक् नाम गृहीतम् | न तु सर्वतन्त्राणां ग्रहणं कृतं तत्रैव वेदविरुद्धानां स्मृतिविरुद्धानां च धर्माणां भूरिश उपलभ्यमानत्वात् | न हि शाक्यादिवत् शाक्तादितन्त्रेषु वेदविरुद्धमनुष्ठानममीषदप्युपलभ्यते | यानि तु वेदमार्गमिमं त्यक्त्वा इत्यादिवचनानि तानि वैदिकस्य वैदिकमार्गं सर्वथा त्यक्त्वा केवलतन्त्रमार्गाश्रयणे तन्निन्दापराणि मुक्त्वा विनेत्यादिश्रवणात् | यद्वा-

न बहुवचनं प्रलपेत् इति तैः साकमेव | बहुपदेन स्वमार्गगुप्तये तज्जनितानर्थपरिहारार्थं यावदर्थसम्भाषी भवेत् इति ज्ञापितम् | अप्रतिसम्भाषमाणः प्रत्युत्तरमदत्त्वा | कुलपुस्तकानि कुलशास्त्रपुस्तकानि | शिवमित्यस्य व्याख्यानं पूर्ववत् || इति...कल्पसूत्रवृत्तौ श्यामाक्रमो नामः षष्ठः खण्डः || प्. ४९७) १ ॐ ऐं प्राणाय स्वाहा २ ॐ क्लीं अपानाय स्वाहा ३ ॐ सौःव्यानाय स्वाहा ४ ॐ ऐ क्लीं उदानाय स्वाहा ५ ॐ ऐं क्लीं सौः समानाय स्वाहा अत्र केचित् प्राणाहुतिविषये प्रत्येकाहुतौ मुद्रां प्रदर्शयन्ति | सा यथा - (१) ॐ प्राणाय स्वाहा - इत्यङ्गुष्ठतर्जनीमध्यमाभिः (२) ॐ अपानाय स्वाहा - इत्यङ्गुष्ठमध्यमानामिकाभिः (३) ॐ व्यानाय स्वाहा- इत्यङ्गुष्ठानामिकाकनिष्ठिकाभिः (४) ॐ उदानाय स्वाहा- इत्यङ्गुष्ठतर्जनीकनिष्ठिकाभिः (५) ॐ समानाय स्वाहा- इति सर्वाभिः | एवं आनन्दाश्रमसंस्कृतग्रन्थावलि ७३ ग्रन्थाङ्के पुस्तके श्रीमच्छङ्कराचार्य- घारे- इत्युभाभ्यामपि - विरचितश्रीगायत्रीपुरश्चरणपद्धतौ ४५ पत्रे तथा ५२ पत्रे च अन्यत्रापि शारदातिलकादिग्रन्थेषु नैवेद्यावसरे दीयमाना मुद्रा वर्तन्ते ताः अपेक्ष्यन्ते चेत् ततो ग्राह्याः || (अत्र ग्रन्थेऽपि च द्वि० प० शि० १५ वि० दृश्यः) || बहुषु ग्रन्थेषु तद्ग्रहणे तल्लेखाभावोऽपि विभाव्यताम्- अत एव - केषांचित् ता अचिकीर्षिता इति भाति - इमाः ५ प्राणाहुतय एकवारमेव देयाः | एतत् पञ्चप्राणाहुतीनां द्विरावर्तने न स्पष्टतरा प्रमाणोपलब्धिरिति सकृदेवात्र ता निरूपिताः || इति ज्ञेयं || नैवेद्यमध्ये इष्टदेवतायास्तर्पणप्रयोगो यथा- || पूर्ववत् खण्डादिना विशेषार्घजलमादाय (१) ॐ ऐं आत्मतत्त्वव्यापिनी श्रीत्रिपुरसुन्दरी (अमुकी) देवता-तृप्यतु (२) ॐ क्लीं विद्यातत्त्व० श्रीत्रिपुरसुन्दरि (अमुकी) देवत- तृप्यतु (३) ॐ सौः शिवतत्त्व० श्रीत्रिपुरसुन्दरी (अमुकी) देवता-तृप्यतु (४) ॐ ऐं क्लीं सौः सर्वतत्त्व० श्रीत्रिपुरसुन्दरी (अमुकी) देवता-तृप्यतु
SK
एवं श्रीभगवतीं तर्पयित्वा भुञ्जानां च तां ध्यात्वा उशीरचन्दनादिसुवासितसलिलं शुद्धपात्रे निहितं गृहीत्वा नैवेद्यपार्श्वे संस्थाप्य ॐ नमस्ते देवदेवेशि ! सर्वतृप्तिकरं परम् || अखण्डानन्दसम्पूर्णं गृहाण जलमुत्तमम् || १ || ६३ परशु० प्. ४९८) ॐ ऐं श्री-अमुकदेवतायै नमः पानार्थं जलं समर्पयामि एवमुक्त्वा सामान्यार्घजलं किंचित् देवतायै समर्प्य श्रीभगवत्या तजलं प्राशितमिति भावयित्वा आत्मदेवतयोर्मध्ये अन्तःपटं धृत्त्वा शिवादिदेवैः सह- आनन्दमूर्तिः श्रीजगदम्बिका भगवती भुङ्क्ते तां तस्या दूतिकाः व्यजनं कुर्वते तथा भावयित्वा सर्वान् देवान् हासयन्ती सुवर्णपात्रपरिवेषितमहानैवेद्यं समास्वादतीत्येवं स्वेष्टदेवतां ध्यायन् अधस्तनौ श्लोकौ च पठेत् १ ॐ ब्रह्मेशाद्यैस्सरसमभितः सूपविष्टैः समान्तात् सिञ्जद्वालव्यजननिकरैर्वीज्यमाना सखीभिः || नर्मक्रीडाप्रहसनपरा पङ्क्तिभोक्तृन् हसन्ती भुङ्क्ते पात्रे कनकघटिते षड्रसान् देवदेवी || १ || २ ॐ शालीभक्तं सुपक्वं शिशिरकरसितं पायसापूपसूपं लेह्यं पेयं च चोष्यं सितममृतफलं घारिकाद्यं सुखाद्यम् | आज्यं प्राज्यं सुभोज्यं नयनरुचिकरं राजिकैलामरीचैः स्वादीयैः शाकपाकैः परिकरममृताहारजोषं जुषस्व || २ || १३-३० | ८ || एवं सम्प्रार्थ्य भुञ्जानामेव देवतां ध्यात्वा अष्टोत्तरशतमनवकाशे च दशवारं वा मूलं जपेत् [अयं जपविधिरग्रतनहोमबल्यपूर्णनैवेद्यताम्बूलछत्रचामराद्यर्पणान्त- रं- विधेयः इति- सटीकशारदा० ४ पटले ३०५ पत्रे - १२४ श्लोकः प्रमाणमस्तीत्यवधीयताम् इति - प० क० सू० द्वितीयावृत्तिकारः-] || अत्राग्रतनः- १३-३० | २५ वि० दृश्यः इति || ततो मालां - स्वमूर्ध्नि संस्थाप्य - ॐ ऐं हृदयाय नमः इत्यादि तत्तद्देवतामूलेन षडङ्गन्यासान् कृत्वा - ॐ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देवि ! त्वत्प्रसादान् महेश्वरि || इत्युक्त्वा सामान्यर्घजलमादाय
SK
ॐ अनेन यथाशक्ति मुलमन्त्रजपकर्मणा श्रीभगवती (अमुकी) देवता प्रीयतामित्युक्त्वा देव्यै समर्प्य योनिमुद्रया प्रणमेत् || (१३-३० | ८ वि० सं०) ३० | ९ एतदवधिकनैवेद्यविधिरपूर्ण एवात्र समापनीयः | पुरस्तनोऽपूर्णनैवेद्यविधिरत्रैव द्वि० परिशिष्टे ३०-२५ अङ्केऽस्ति ततः पूरयितव्यः इति ज्ञेयम् || (इत्येकः प्रकारः ३०-९ वि० सं०) प्. ४९९) १३-३० | १० नैवेद्यबल्यावरणपूजाङ्गहोमानां प्रथमं किं करणीयमित्याशङ्कायां समादधे किञ्चित् || १ महानिर्वाणतन्त्रे ६ उल्लासे ८९ श्लोकतः १७६ श्लोकान्तग्रन्थे श्रीशिवोभगवान् आदौ नैवेद्यं पश्चात् बलिः पश्चात् होमः ततो जपः इत्यनुक्रममाह | २ || सटीकशारदायामपि - ४ पटले २९७ पत्रे १०९ श्लोकतः १२५ श्लोकैः सहोमनैवेद्यं बलिर्जपः एवमेवानुक्रमोऽभ्यधायि || ३ श्रीपरशुरामकल्पसूत्रे च श्रीमता भगवता २ खण्डे १० सूत्रे मूले ८३ पत्रे यद्यग्निकार्यसम्पत्तिरित्यादिनां होमानन्तरमेव बलिदानमुक्तम् || अर्थादादौ नैवेद्यं ततो होमोऽवशिष्टान्नादिना च बलिरित्यनुक्रम उपात्तः || || पूजाङ्गहोमस्य कृताकृतत्वम् || ४ अत्रैव पत्रे प० क० सू० वृत्तिकारः यथाह- यदीत्यनेन होमस्य कृताकृतत्वं सुचितं इत्याह || ५ श्रीललितानवावरणपूजायां ५ खण्डे १७ सूत्रभाष्ये च एष एव वृत्तिकारः एतदुत्तरं निबन्धे होमः पाक्षिक उक्तः स निर्मूलः यद्यग्निकार्यसम्पत्तिः इति सूत्रस्य गणपतिप्रकरणस्थस्य अन्यत्र प्रापकप्रमाणाभावात् इति ग्रन्थेन होमस्य पाक्षिकत्वमपि ख्ण्डयामासेति वेत्तव्यमवलोकयितृभिः || इति || (३० | १० वि० सं०) ३० | ११ उपरि १० विषये० चिह्नितेन अङ्गशब्देन किमभिप्रेतं कोऽर्थो वा अङ्गशब्दस्य ? तत्र तन्त्रोदितमेवानूद्यते किञ्चित् || १ || अङ्गलक्षणम् || मीमांसाग्रन्थे यथा - मुख्यफलाजनकत्वे सति मुख्यफलव्यापारजनकमङ्गमिति || २ || पुरश्चरणे इमान्यङ्गानि दशसङ्ख्यानि तेभ्यः पञ्च- सप्तटीकायुक्सप्तशती १ पत्रे - यथा-
SK
१पटलं २पद्धति३र्वर्म तथा ४नामसहस्रकम् || ४३ || ५स्तोत्राणि चेति पञ्चाङ्गं देवतोपासने स्मृतम् || इति || पञ्चाङ्गानां देवताङ्गत्वेन घटनम् - कवचं देवतागात्रं पटलं देवताशिरः || ४४ || प्. ५००) पद्धतिर्देवहस्तौ तु मुखं साहस्रकं स्मृतम् | स्तोत्राणि देवतापादौ पञ्चाङ्गं पञ्चभिः स्मृतम् || ४५ || इति पञ्चपाठ्यविषयकान्यङ्गानि || इति || अपराण्यपि पञ्च तत्रैव यथा- १जपो २होम३स्तर्पणं च ४मार्जनं ५विप्रभोजनम् | आराधनं पञ्चविधं देवतानां प्रकीर्तितम् || ४६ || पञ्चाङ्गैः सहितं त्वेतद्दशाङ्गं कथ्यते बुधैः || इति क्रियात्मकान्यपि पञ्च इत्येवं १० अङ्गानि जातानि तानि च पुरश्चरणे नियतानि || इति || ३ || तथैव च सटीकशारदायां १६ पटले ६६० पत्रे टीकायामपि यथा- दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते | इत्यपि दशाङ्गपुरश्चरणेऽपरं प्रमाणम् परं चैतानि पुरश्चरणक्रियामधिकृत्यैव ज्ञेयानि || इति || ४ || इतोऽपराणि जपादिपञ्चाङ्गानि तत्रैव शारदायां यथा- १जपो २होमस्३तर्पणं च ४पूजा ५ब्राह्मणभोजनम् || पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् || इति || (१३-३० | ११-४ वि० सं०) ३०-११ | ५-१ तन्त्रैव || आवरणपूजाङ्गहोमोऽप्येकं पूजाङ्गमेव तत्र || अर्थात् - पुरश्चरणमन्तरापि तदतिदेशेन केवलश्रीष्टदेवतासावरणार्चनकर्मण्यपि तन्त्रशास्त्रोक्तावरणपूजाङ्गहोमोऽप्येकमङ्गमेवेत्यादृतं प्राचीनशिष्टैसदनवद्यमेव || तत्र प्रमाणं श्रीतन्त्रकर्त्रा श्रीमता गुरुगुरुणा श्रीशिवेनैव उक्तम् || महानिर्वाणतन्त्रे - ६ उल्लासे- महाबलिदानानन्तरं यथा || ततो होमं प्रकुर्वीत० इति ११९ श्लोकतः होमकर्म समाप्यैव साधको जपमाचरेदित्यन्तेन १६५ श्लोकान्तग्रन्थेन || इति ||
SK
२ || अन्यत्र चैतत् श्रीपरशुरामकल्पसूत्रे श्रीमद्भगवता २ खण्डे १० सूत्रे मूले ८३ पत्रे यद्यग्निकार्यमित्यादिनापि पूजाङ्गहोमः बलेः पूर्वं प्रत्यपाद्येवेति किं बहुना पल्लवितेन || इति || अर्थादावरणपूजायामपि तदङ्गत्वेन विधीयमानहोमोऽपि तदङ्गमेवेत्यादृतमास्तां सुधियां धियामिति || प० क० सू० द्वितीयावृत्तिकारः || (५ वि० तथा च ३० | ११ वि० सं० ) प्. ५०१) ३० | १२ - || तस्मात्तदकरणे मन्त्रसिध्यभावाद्यपायो दर्शितः श्रीभगवता शिवेनैव बहुतन्त्रग्रन्थेषु शारदायाञ्चापि निम्नस्थग्रन्थलेखेन तस्मादयमावरणपूजङ्गहोमविधिरवश्यं कार्यस्तदभावे तत्तद्देवतार्चनपरत्वेनोक्तपञ्चाङ्गगतकहोमकर्माकरणमपि न्यूनत्वसम्पादकं स्यादेवेत्यलं || तद्यथा - १-|| एकाङ्गकरणाभावे ब्राह्मणभोजनाभावे च कर्मनिष्फलता विप्रभोजनकर्मरहस्यं च || सटीकशारदा- २० पटले ६६०-६६१ पत्रयोर्भाष्ये यथा- अन्यत्रापि - अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधकम् | सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये || विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेत् सदा | न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् || तान्येव पूर्णतां यान्ति समस्तानि कृतानि च | अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु || यानि यान्यपि कर्माणि हीयन्ते द्विजभोजनैः | निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च || इति || २ तत्रैव कुलप्रकाशकतन्त्रेऽपि यथा- एकमङ्गं विहीयेत मन्त्रान्नेष्टमवाप्नुयात् | अन्नैश्चतुर्विधैर्देवि ! पदार्थैः षड्रसान्वितैः || सुभोजितेषु सर्वं हि सफलं भवेत् || इति || (३० | १२ वि० सं०) १३-३० | १३ || एवमावरणपूजङ्गहोमाकरणजन्यापायं दर्शयित्वा कदाचिद्दैवोपघातादिना तत्करणासामर्थ्ये तत्प्रतिनिधिमाह || तद्यथा- || आवरणपूजाङ्गहोमाशक्तौ || १ आनन्दाश्रमसंस्कृतग्रन्थावलि १३ अङ्कमुद्रितश्रीमच्छङ्कराचार्यविरचितगायत्रीपुरश्चरणोपद्धतौ ५२ पत्रे यथा- तत्रैव रुद्रयामले -
SK
होमाशक्तौ जपं कुर्याद्धोमसङ्ख्याचतुर्गुणम् | षड्गुणं चाष्टगुणितं यथासङ्ख्यं द्विजातयः || प्. ५०२) साङ्गतादि विना देवि ! जपहोमादि निष्फलम् | तस्मात् कुर्यात् प्रयत्नेन देवीपूजनमादरात् || इति || २ ब्रह्मसंहितायां - अशक्तावुक्तहोमस्तु (स्य) जपस्तद्द्विगुणो भवेत् || ३ सटीकशारदा० १६ पटले ६६० पत्रे ५३ श्लोकटीकायां यथा- मन्त्रतन्त्रप्रकाशे नारायणाष्टाक्षरे यथा- यद्यदङ्गं विहीयेत् तत्सङ्ख्याद्विगुणो जपः | कर्तव्यश्चाङ्गसिद्धयर्थं तदशक्तेन भक्तितः || इति || ४ तत्रैव || असम्भवे तु होमस्य होमात् स्याद् द्विगुणो जपः || इति || ५ अन्यत्रापि || होमाभावकजपे वर्णपरत्वेन द्विगुणत्रिगुणादिर्जपः || होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः | इतरेषां तु वर्णाणां त्रिगुणादिः समीरितः || इति || सटीकशारदायां तत्रैव ६ सटीकशारदातिलके १५ पटले ६६० पत्रे कुलप्रकाशतन्त्रेऽपि- यद्यदङ्गं विहीयेत् तत्सङ्ख्याद्विगुणं जपम् | कुर्वीत त्रिचतुःपञ्चसङ्ख्या साधकः प्रिये || कुर्वीत साङ्गसिद्ध्यर्थं तदशक्तेन भक्तितः | एकमङ्गं विहीयेत मन्त्रान्नेष्टमवाप्नुयात् || इति || ७ तत्रैव सटीकशारदा० ६६१ पत्रे १६ पटले वर्णपरत्वेन स्त्रीशूद्रयोश्च होमशक्तौ तदर्थकजपसङ्ख्या उक्ता यथा - अन्यत्रः विशेषः - अशक्तानां होमे निगमरसनागेन्द्रगुणितो जपः कार्यश्चेति द्विजनृपविशामाहुरपरे | स होमश्चेदेषां सम इह जपो होमरहितो य उक्तो वर्णानां स खलु विहितस्तच्चलदशाम् || इति || यं वर्णमाश्रितो यः शूद्रः स च तन्नतभ्रुवां विहितम् | विदधीत जपं विधिवच्छ्रद्धावान् भक्तिभारनम्रतनुः || इति || १३ | ३०-१ वि० सर्वः सं०) १३ | ३०-२- नैवेद्यमध्ये होमविधिप्रमाणकारिकाः || १ आनन्दाश्रमसंस्कृतग्रन्थावलि ७३ अङ्कमुद्रितश्रीमच्छङ्कराचार्यविरचित श्री० गा० पु० पद्धतौ ४६ पत्रे - प्. ५०३)
SK
ब्रह्मेशाद्यैरित्येतच्छ्लोकपठनान्तं यावत् श्रीमुख्यदेवतां भुञ्जानां ध्यायन् अत्रावसरे नैवेद्यपूजाङ्गहोमं कुर्यात् | तत्र प्रमाणम् | वसिष्ठसंहितायाम् यथा - भोजनावसरे मन्त्री वैश्वदेवं समाचरेत् | दक्षिणे स्थण्डिलं कृत्वा तत्राऽधाय हुताशनम् || संस्कृत्य विधिना विद्वान् वैश्वदेवं समाचरेत् | तत्र सम्पूज्य गन्धाद्यैर्गायत्रीमुक्तविग्रहाम् || सप्तव्याहृतिभिर्हुत्वा गन्धाद्यैः पुनरर्चयेत् | देवतां योजयेत् पीठमूर्तौ वह्निं विसर्जयेत् || अवशिष्टेन हविषा विकिरे परितो बलिम् | देवतायाः पार्षदेभ्यो गन्धपुष्पाक्षतान्वितम् || इति || २ नित्यहोमे स्थण्डिललक्षणं तत्रैव यथा- नित्यं नैमित्तिकं होमं स्थण्डिले वा समाचरेत् | हस्तमात्रं हि तत् कुर्याद्वालुकाभिः सुशोभनम् || अङ्गुलोत्सेधसंयुक्तं चतुरस्रं समन्ततः || सर्पिषा वा तिलैर्वाऽपि भक्तेन पायसेन वा || जुहुयात् साधकश्रेष्ठश्चतुर्विंशतिसङ्ख्यया || इति || ३ स्वल्पो नित्यहोमविधिरपि ज्ञानार्णवे १६ पटले ७६ पत्रे २१६ - श्लोकतो यथा- सङ्कल्प्य [अत्र सङ्कल्प्येत्यनेन महानैवेद्यमिति पूर्वग्रन्थानुसन्धानमनुसंधेयम्||] परमेशान्यै नित्यहोमविधिं चरेत् | मूलेन प्राणसहिता आहुतीः पञ्च होमयेत् || २१६ || षडाहुतीः षडङ्गानां नित्यहोमः प्रकीर्तितः || इति || ४ आवरणपूजाङ्गहोमबलिविधौ कारिकाः सटीकशारदा० ४ पटले ११८ श्लोकतः ३०४ पत्रे यथा - || होमविधौ कर्तव्यम् || एवं सम्पूज्य विधिवन्निवेद्यान्तं ततो गुरुः | दक्षिणे स्थण्डिलं कृत्वा तत्राऽधाय हुताशनम् || ११८ || संस्कृत्य विधिवद्विद्वान् विश्वदेवं समाचरेत् || प्. ५०४) तत्र सम्पूज्य गन्धाद्यैर्देवतामुक्तविग्रहाम् || ११९ || तारव्याहृतिभिर्हुत्वा मूलमन्त्रेण मन्त्रवित् | || पूजाङ्गहोमे २५ आहुतिप्रमाणम् || सर्पिष्मता पायसेन पञ्चविंशतिसङ्ख्यया || १२० || हुत्वा व्याहृतिभिर्भूयो गन्धाद्यैः पुनरर्चयेत् | तां योजयित्वा पीठस्थमुर्त्तौ वह्निं विसर्जयेत् || १२१ || || होमावशिष्टान्नेन बलिदानप्रमाणम् ||
SK
अवशिष्टेन हविषा विकिरेत् परितो बलिम् | देवतायाः पर्षदेभ्यो गन्धपुष्पाक्षतान्वितम् || १२२ || ततो निवेद्यमुद्धृत्य शोधयित्वा जलं पुनः | पञ्चोपचारैः सम्पूज्य दर्शयेच्छत्रचामरे || १२३ || || बलिताम्बूलादि दत्त्वा जपः कार्यः || कर्पूरशकलोन्मिश्रं ताम्बुलञ्च निवेदयेत् | सहस्रावृत्य संजप्य मूलमन्त्रमनन्यधीः | तज्जप्तं सर्वसम्पत्यै देवतायै समर्पयेत् || १२४ || ४ सटीकमहानिर्वाणतन्त्रस्थावरणपूजाङ्गहोमकारिकाः श्रीशिबोक्ताः - ६ उल्लासे १३९ पत्रे ११९ श्लोकतो तथा - ततो होमं प्रकुर्वीत तद्विधानं शृणु प्रिये ! || ११९ || स्वदक्षिणे वालुकाभिर्मण्डलं चतुर्स्रकम् | चतुर्हस्तपरिमितं कृत्वा मूलेन वीक्षणम् | अस्त्रेण ताडयित्वा च तेनैव प्रोक्षणं चरेत् || १२० || कूर्च्चबीजेनावगुण्ठ्य देवतानामपूर्वकम् | स्थण्डिलाय नमः इति यजेत् साधकसत्तमः || १२१ || प्रागग्रा उदगग्राश्च रेखाः प्रादेशसम्मिताः | तिस्रस्तिस्रो विधातव्यास्तत्र सम्पूजयेदिमान् || १२२ || प्रागग्रासु च रेहासु मुकुन्देशपुरन्दरान् | ब्रह्मवैस्वतेन्दुंश्च उत्तराग्रासु पूजयेत् || १२३ || ततः स्थण्डिलमध्ये तु ह्सौंगर्भं त्रिकोणकम् || षट्कोणं तद्बहिर्वृत्तं ततोऽष्टदलपङ्कजम् || प्. ५०५) भूपुरं तद्बहिर्विद्वान् विलिखेद्यन्त्रमुत्तमम् || १२४ || मूलेन पुष्पाञ्जलिना सम्पूज्य प्रणवेन तु | होमद्रव्याणि सम्प्रोक्ष्य कर्णिकायां यजेत् सुधीः | मायामाधारशक्त्यादीन् प्रत्येकं वा प्रपूजयेत् || १२५ || अग्न्यादिकोणे धर्मञ्च ज्ञानं वैराग्यमेव च | ऐश्वर्यं पूजयित्वा तु पूर्वादिषु दिशां क्रमात् || १२६ || अधर्ममज्ञानमिति अवैराग्यमनन्तरम् | अनैश्वर्यं यजेन्मन्त्री मध्येऽनन्तञ्च पञ्चमम् || १२७ || कलासहितसूर्यस्य तथा सोमस्य मण्डलम् | प्रागादिकेशरेष्वेषु मध्ये चैताः प्रपूजयेत् || १२८ || पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा तथैव च | स्फुलिङ्गिनी च रुचिरा ज्वलिनीति तथा क्रमात् || १२९ || प्रणवादिनमोऽन्तेन सर्वत्र पूजनं चरेत् | रं वह्नेरासनायेति नमोऽन्तेन प्रपूजयेत् || १३० ||
SK
वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् | वागीश्वरेण संयुक्तां ध्यात्वा मन्त्री तदासने || १३१ || मायया तौ प्रपूज्याथ विधिवद्वह्निमानयेत् | मूलेन वीक्षणं कृत्वा फटावाहनमाचरेत् || १३२ || प्रणवं च ततो वह्नेर्योगपीठाय हृन्मनुः | यन्त्रे पीठं पूजयित्वा दिक्षु चैताः प्रपूजयेत् || वामा ज्येष्ठा तथा रौद्रि अम्बिकेति यथाक्रमात् || १३३ || ततोऽमुक्या देवतायाः स्थण्डिलाय नमः पदम् | इति स्थण्डिलमापूज्य तन्मध्ये मूलरूपिणीम् || १३४ || ध्यात्वा वागीश्वरीं देवीं वह्निबीजपुरःसरम् | वह्निमुद्धृत्य मूलान्ते कूर्च्चमन्त्रं समुच्चरन् || १३५ || क्रव्यादिभ्यो वह्निजायां क्रव्यादांशं परित्यजेत् अस्त्रेण वह्निं संवीक्ष्य कूर्चेनैवावगुण्ठयेत् || १३६ || धेन्वा चैवमृतीकृत्य हस्ताभ्यामग्निमुद्धरेत् | प्रादक्षिण्यक्रमेणाग्निं भ्रामयन् स्थण्डिलोपरि || १३७ || प्. ५०६) त्रिधा जानुस्पृष्टभूमिः शिवबीजं विचिन्तयन् | आत्मनोऽभिमुखीकृत्य योनियन्त्रे नियोजयेत् || १३८ || ततो मायां समुच्चार्य वह्निमूर्तीञ्च ङेयुताम् | नमोऽन्तेन प्रपूज्याथ रं वह्निपरतः सुधीः | चैतन्याय नमो वह्नेश्चैतन्यं परिपूजयेत् || १३९ || नमसा वह्निमूर्तिञ्च चैतन्यं परिकल्प्य च | प्रज्वालयेत्ततो वह्निं मन्त्रेणानेन मन्त्रवित् || १४० || प्रणवं पूर्वमुद्धृत्य चित् पिङ्गलपदं तथा | हनद्वयं दह दह पच पचेति ततो वदेत् || १४१ || सर्वज्ञाज्ञापय स्वाहा वह्निप्रज्वालने मनुः | ततः कृताञ्जलिर्भूत्वा प्रकुर्यादग्निवन्दनम् || १४२ || अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् | सुवर्णवर्णममलं समिद्धं सर्वतोमुखम् || १४३ || इत्युमस्थाप्य दहनं छादयेत् स्थण्डिलं कुशैः | स्वेष्टनाम्ना वह्निनाम कृत्वाभ्यर्च्चनमाचरेत् || १४४ || तारो वैश्वानरपदात् जातवेदपदं वदेत् | इहावहावहेत्युक्त्वा लोहिताक्षपदान्तरम् || १४५ || सर्वकर्माणि पदतः साधयान्तेऽग्निवल्लभा | इत्यभ्यर्च्य हिरण्यादिसप्तजिह्वाः प्रपूजयेत् || १४६ ||
SK
सहस्रार्चिःपदं ङेऽन्तं हृदयाय नमो वदेत् | षडङ्गं पूजयेद्वह्नेस्ततो मुर्तीर्यजेत् सुधीः || १४७ || जातवेदप्रभृतयो मूर्तयोऽष्टौ प्रकीर्त्तिताः || १४८ || ततो यजेदष्ट शक्तीर्ब्राह्म्याद्यास्तदनन्तरम् | पद्माद्यष्टनिधीनिष्ट्वा यजेदिन्द्रादिदिक्पतीन् || १४९ || वज्राद्यस्त्राणि सम्पूज्य प्रादेशपरिमाणकम् | कुशपत्रद्वयं नीत्वा घृतमध्ये निधापयेत् || १५० || वामे ध्यायेदिडां नाडीं दक्षिणे पिङ्गलान्तथा | मध्ये सुषुम्णां सञ्चिन्त्य दक्षभागात् समाहितः || १५१ || आज्यं गृहीत्वा मतिमान् दक्षनेत्रे हुताशितुः | मन्त्रेणानेन जुहुयात् प्रणवान्तेऽग्नये पदम् || १५२ || प्. ५०७) स्वाहान्तो मनुराख्यातो वामभागाद्धविहरेत् | वामनेत्रे हुनेद्वह्ने र्ॐ सोमाय द्विठो मनुः || १५३ || मध्यादाज्यं समानीय ललाटे हवनं चरेत् | अग्नीषोमौ सप्रणवौ तूर्यद्विवचनान्वितौ || १५४ || स्वाहान्तोऽयं मनुः प्रोक्तः पुनर्दक्षिणतो हविः | गृहीत्वा नमसा मन्त्री प्रणवं पूर्वमुद्धरेत् || १५५ || अग्नये च स्विष्टिकृते वह्निकान्तां ततो वदेत् | अनेन वह्निवदने जुहुयात् साधकोत्तमः || भूर्भुवःस्वर्द्विठान्तेन व्याहृत्या होममाचरेत् || १५६ || तारो वैश्वानरपदात् जातवेद इहावह | वह लोहिपदान्ते च ताक्षसर्वपदं वदेत् || कर्माणि साधय स्वाहा त्रिधानेनाहुतीर्हरेत् || १५७ || ततोऽग्नौ स्वेष्टमावाह्य पीठाद्यैः सहपूजनम् | कृत्वा स्वाहान्तप्रनुना मूलेन पञ्चविंशतिः || १५८ || हुत्वा वह्न्यात्मनोर्देव्या ऐक्यं सम्भावयन् धिया | एकादशाहुतीर्हुत्वा मूलेनैवाङ्गदेवताः || १५९ || हुत्वा स्वकाममुद्दिश्य तिलाज्यमधुमिश्रितैः || १६० || पुष्पैर्बिल्वदलैर्वापि यथाविहितवस्तुभिः | यथाशक्त्याहुतिं दद्यान्नाष्टन्यूनां प्रकल्पयेत् || १६१ || ततः पूर्णाहुतिं दद्यात् फलपत्रसमन्वितम् | स्वाहान्तमूलमन्त्रेण ततः संहारमुद्रया | तस्माद्देवीं समानीय स्थापयेत् हृदयाम्बुजे || १६२ || क्षमस्वेति च मन्त्रेण विसृजेत्तं हुताशनम् | कृतदक्षिणको मन्त्री अच्छिद्रमवधारयेत् || १६३ ||
SK
हुतशेषं भुवोर्मध्ये धारयेत् साधाकोत्तमः || १६४ || एष होमविधिः प्रोक्तः सर्वत्रागमकर्मणि | होमकर्म समाम्यैवं साधको जपमाचरेत् [१३-३१-१ | १०- वि० दृश्यः] || १६५ || इति प्. ५०८) ६ || वैश्वदेवं कृत्वा नैवेद्यं देयं तत्र प्रमाणम् || आश्वलायनः यथा- वैश्वदेवं पुरा कृत्वा नित्ये चाभ्युदये तथा | स्वाभीष्टदेवतादिभ्यो नैवेद्यं च निवेदयेत् || अकृत्वा वैश्वदेवं तु नैवेद्यं यो निवेदयेत् | तदन्नं न च गृह्णन्ति देवा विष्ण्वादयो ध्रुवम् || इति || (अत्र प्रस्तुतविषये पूजाङ्गहोम एव वैश्वदेवशद्वापरनामधेय इत्यवगम्यं) इति || अतो निहितोयं विषयोस्माभिः श्रीबालातन्त्रचन्द्रिकायां श्रीमहानैवेद्यमध्ये एव | अपूर्णश्च श्रीमहानैवेद्यविधिर्होमानन्तरमेव परिसमापितस्तेन च - अकृत्वा वैश्वदेवमित्यस्य निषेधस्याप्यप्रवृत्तिरित्यनवद्यतां सुधियो विभावयन्त्वित्यलम् || प० क० सू० द्वितीयावृत्तिकारः || अस्य नित्यहोमस्य प्रयोगश्चिकीर्षितश्चेद् बालातन्त्रचन्त्रिकायां २९४ अथ वा ३०३ पत्रतोप्यस्तीति ततो ग्राह्यः अथ वा एतन्मूलग्रन्थोक्त एव ग्राह्यः इति | अत्र महानैवेद्यपूजाङ्गहोमावुभावपि सम्पन्नाविति ज्ञेयम् || (१३ | ३०-२ वि० सर्वोऽपि सं०) || होमानन्तरं बलिदानविषये || एवमनूक्तरीत्या यथेष्टमावरणपूजाङ्गहोमं परिसमाप्य पुरस्तन - द्वि- परिशिष्टस्थ १३ | ३०-३ विषयगतः प्रकीर्णविषयसहितो बलिदानप्रोयोगविषय आश्रयणीयः करणीयश्चेत्याशासे || प० क० सू० द्वितीयावृत्तिकारः || || वि० १३ | ३०-३ बलिविषये प्रकीर्णम् || १ || बलिशब्दार्थः - यथा- बङ्गदेशीसंस्कृतभारतीति मुद्रितमासिके - ४ अङ्कीयपुस्तके श्रीयुतबलरामशास्त्रिणो यथाहुः ||
SK
बलङ्ग दाने वधे च- | बलक्- च निरूपणे | इति कविकल्पद्रुमे | बल्दाने निरूपणे हिंसायां- च इति धातुकौमुद्याम् | बल्धातो रिन् प्रत्ययेन निष्पन्नोऽयं बलिशद्वः | इत्याद्यत्रोक्तप्रमाणेन दानवधनिरूपणार्थेषु बलिशद्वः प्रवर्तते तथाप्यत्र पुस्तके लक्षणादिशास्त्रार्थबलेन बलिशद्वस्य हिंसार्थकत्वमुपपादितमेवेति | २ || बलिशब्दनिरुक्तिः कुलार्णवतन्त्रे १७ उल्लासे १५७ पत्रेऽपि यथा - प्. ५०९) बहुप्रकारविचरद्भूतौघविनिवारणात् | लिप्तपापप्रशमनाद्बलिरित्यभिधीयते || इति || ३ || अयं बलिरुपचारो वा उपहारो वा तत्र प्रमाणम् तत्रैव बङ्गदेशीय ५ भागीयमुद्रितमासिके यथा - अयं बलिः- षट्त्रिंशदुपचारान्तर्गत एकः उपचारः - इति तोडलतन्त्रे इति || ४ || बलिविषये प्राचामाचारः || अत्र बलिदानविषये तटस्थेन मया किञ्चिदेतदुच्यते || अधो निर्देक्ष्यमाणबलिविषयब्रातेन श्रीशिवोक्तिप्रामाण्यगणेन च सर्वत्र कर्मणि बलिदानावश्यकतास्त्येवेति निःशङ्कमुद्वोष्यत एव तद्विद्भिः || अकृते च बलौ पूजाफलं न लभ्यते देवतापि प्रसन्ना न स्यात् राजप्रजानां च दःखं स्यादेतादृक् तन्त्रसिद्धान्तो जागर्त्येवेति || अयं बलिः पशुनैव विधेयः इत्येकान्तसिद्धान्ताभावः || एतदाद्यर्थमधो निरूप्यमणो बलिविषयकोऽशेषलेखः कृपयावलोक्य इत्याशास्ते || प० क० सूत्रद्वितीयावृत्तिकारः ३०-३ | २ || बलिभेदाः अमांससमांसबलिश्च || समायाचारतन्त्रे यथा - १- || बलिश्च द्विविधो देवि ! सात्त्विको राजसस्तथा || तत्र सात्त्विकबलिलक्षणं यथा- सात्त्विकी [अत्र सात्त्विकी पूजा-इति सम्बन्धो ज्ञेयः] जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः | सात्त्विको बलिराख्यातो रक्तमांसविवर्जितः || इति || (अर्थात् साधकानां जातिगुणभेदेन बलौ भेदो ज्ञेयः इति ||) २- || मांसप्रतिनिधित्वेन तत्समानवस्तूनि || ७- टीकायुक्तसप्तशतीगुप्तवतीटीकायां ९ पत्रे यथा- तत्राशक्तानामपि तत्रैव -
SK
[कूष्माण्डमिक्षुदण्डं च मद्यमासवमेव च ||] एते बलिसमाः प्रोक्तास्तृप्तौ छागसमाः सदा | छागसमाः पञ्चविंशतिवर्षावस्थायितृप्तिजनकाः || इति || प्. ५१०) ३- समांसादिबलिः || अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम् | तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा || इति || तत्रैवोक्तेः || ४- छागबलिर्ब्राह्मणैर्न कार्यः | मद्यासवे अपि च न देये || इत्यपि तत्रैव यथा- वस्तुतस्तु न हिंस्यादिति निषेधस्य सङ्कोचमन्तरेणैव छागसमानतृप्तिसम्भवे छागबलिर्ब्राह्मणैर्न कार्य एव | एवं मद्यासवे अपि न देये | वरं प्राणाः प्रगच्छन्तु ब्राह्मणो नार्पयेत् सुराम् || ब्राह्मणो मदिरां दत्त्वा ब्राह्मण्यादेव हीयते || इति च बृहत्सङ्गमतन्त्रवचनात् || इति || ५- विप्रस्य मद्यप्रतिनिधिवस्तुद्वयम् || अत एव तत्प्रतिनिधिरपि कालिकापुराणे स्मर्यते - अवश्यं विहितं यत्र मद्यं तर द्विजः पुनः || नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु || इति || कात्यायनीतन्त्र एवेति || ६- सात्त्विकराजसिकबलिविषये | सटीकशारदा २० पटले ७६८ पत्रे यथा - द्विविधो बलिराख्यातो राजसः स्रात्त्विको बुधैः | राजसबलिः | राजसो मांसरक्ताढ्यः पलत्रययमन्वितः || ९५ || मुद्गपायससंयुक्तो मधुरत्रयलोलितः | सात्त्किकबलिः | सात्त्विको मांसरहितः शेषमन्यत् पुरोक्तवत् || ९६ || इति || (३०-३ | २- वि० सं०) सर्वसाधारणत्वेन बलौ उक्तद्रव्याणि- ३०-३ | ३-१ बल्यर्थमुक्तद्रव्यविषये - सटीकशारदातिलके १६ पटले ६७२ पत्रे १०२ श्लोके यथा- प्रस्थार्धं चरुणा पिण्डं कृत्वा तस्मिन् विनिक्षिपेत् | बाह्ये बलिप्रदानार्थं तदर्धमवशेषयेत् || १०२ || इति || २- || हुतावशेषान्नेन बलिदानप्रमणम् || तत्रैव सटीकशारदातिलके १६ पटले ६७३ पत्रे १०५ श्लोके यथा- प्. ५११) दशदिक्पालबलिदानप्रसङ्गेऽपि यथा- हुत्वा वह्नौ यथापूर्वं शिष्टान्नेन बलिं हरेत् | मनुना वक्ष्यमाणेन दशदिक्षु यथाविधि || १०५ ||
SK
सहृद्विष्णुगणेभ्योऽन्ते सर्वशान्तिकरे पुनः | भो बलिं प्रतिगृह्णन्तु शान्तये हृदयं ततः || १०६ || अत्र टीका- यथापूर्वमित्यष्टभिर्द्रव्यैः उक्तप्रमाणेन च शिष्टान्नेनेति हुतशिष्टान्नेन | तदुक्तं नारायणीये दद्यादनेन मन्त्रेण हुतशेषान्धसा बलिम् | इति || आचार्याः अपि हुतशेषान्नेन बलिम् || इति || यथाविधीति | लोकपालबलिरपि सूचितः || १०५ || इति || अत्र दिक्पालबलिदाने उपरितनसहृद्० इत्यादि १०६ श्लोकोप्यस्तीति ज्ञेयं | ३ || साधकेच्छावशाद्बलौ देयवस्तुसिद्धान्तः || महानिर्वाणतन्त्रे ६ उल्लासे ४ श्लोकतः श्रीशिववचो यथा - यस्मात् तस्मात् समानीतं येन तेन विघातितम् | तत् सर्वं देवताप्रीत्यै भवेदेव न संशयः || ४ || साधकेच्छा बलवती देये वस्तुनि दैवते | यद्यदात्मप्रियं द्रव्यं तत्तदिष्टाय कल्पयेत् || ५ || इति || बलौ स्त्रीपशुनिषेधोऽत्रैव- बलिदानविधौ देवि ! विहितः पुरुषः पशुः | स्त्रीपशुर्न च हन्तव्यस्तत्र शाम्भवशासनात् || इति || ४ || तत्तदेवतावाहनार्चनपूर्वकबलिवस्तुविषये सटीकप्रपञ्चसारतन्त्रे ५ पटले ७० पत्रे दीक्षाविधौ १६ श्लोको यथा- इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि | पयोऽन्धसा सधु बलिः प्रदेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः || १६ || अत्र टीका-इतीरितानामपीति अपिशद्वः क्षेत्रपालादिसूचनार्थः | साध्विति मुष्टिमात्रैः दर्भाग्रैः सकूर्चैः पदानि आस्तीर्य तां तां देवतामावाह्य जलादिभैः सम्पूज्य- प्रणवशक्तिपूर्वैः नमोऽन्तैः नामभिः बलिर्देयः इत्यर्थः | द्रव्यैश्च वा तन्त्रेति दध्याज्यगुडमिश्रमन्नं ब्रह्मणः पायसकृसरमाषान्नमुद्ग्रान्नगुलान्नघृतान्नदध्यन्नैरेकैकस्य वर्गस्य बलिरित्यर्थः || १६ || इति || प्. ५१२) ५ || बलिवस्तूनि तत्प्रोक्षणमन्त्रश्च || श्री-आनन्दाश्रमसंस्कृतग्रन्थावलि ७३ ग्रन्थाङ्कमुद्रिते घारे- इत्युपनामकशङ्करसूरिविरिचित- श्रीगायत्रीपुरश्चरणपद्धतौ ९४ पत्रे गायत्रीपुरश्चरणाङ्गत्वेन श्रीगायत्र्याः बलिदानावसरे यथा-
SK
ततो गायत्रीपीठसमीपे दध्यक्तं पयसाऽक्तं च घृताक्तं चाऽहारपरिमितं बलिं शिरोव्याहृतिसहितगायत्र्या त्रिवारं प्रोक्षितं दद्यात् || इति || ६ || पुनश्चापि बलौ देयवस्तूनि सटीकशारदातिलके २० पटले ७६६ पत्रे ७६ श्लोकतः दूर्गाबलिदाने यथा - शाल्यन्नं पललं सर्पिर्लाजाचूर्णानि शर्करा | गुडमिक्षुरसापूपैर्मध्वक्तैः परिमिश्रितैः || ७७ || कृत्वा कवलमाराध्य देवं प्रागुक्तवर्त्मना | रक्तचन्दनपुष्पाद्यैर्निशि तस्मै बलिं हरेत् || ७८ || ततः सिध्यन्ति कार्याणि बलिनाऽनेन मन्त्रिणः || इति || ७ || राजसबलिपदार्थाः || सटिकशारदा० २० पटले ७६८ पत्रे ९५ श्लोकटीकायां तदुक्तं विश्वसारोधारे यथा - मेषकुक्कुटयोर्मांसं शाल्यन्नं घृतसंयुतम् | लाजाचूर्णमपूपं च गुडमिक्षुरसान्वितम् || मधुमत्स्यकपित्थादि बलिद्रव्यं समीरितम् || इति || मरीचैर्जीरकैश्चैव गुडखण्डैस्तथैव च | शालितन्दुलसम्भक्तगोक्षीरेण समन्वितम् || सैन्धवं दग्धमीनेन पलत्रयसमन्वितम् || इति || केचित् फलत्रयमिति पाठं पठन्ति | तच्चिन्त्यम् || ९५ || इति तत्रैव || ८ || तथाऽन्यत्रापि बलौ देयपदार्थाः - पलत्रयं माषचूर्णं दधि क्षीरं घृतं तथा | गुडौदनेन संयुक्त मिश्रीकृत्य विचक्षणः || ९ || कुलार्णवतन्त्रे ७ उल्लासे ६१ पत्रे अपि - बटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः | तत्तन्मन्त्रैर्विधानेन देवताप्रीतिमाप्नुयात् || प्. ५१३) यत् किञ्चिद्द्रव्यसङ्घातं पूजार्थं भोगहेतुना | आनीतं दीयते भक्त्या क्षेत्रेभ्यश्च कुलेश्वरि ! || इति || इदमिदं बलौ न स्यात् || १० अत्रावरणपूजान्तर्गतबलिषु अन्यत्र वा सामान्यबलौ सर्वसाधारणत्वेन ग्रह्यवस्तुषु द्विदलसूपादिसामान्यभोज्यपदार्थाभावः |
SK
अपि तु घृततैलपाचितमाषचणकपिष्टमयौण्डेरकसंयावौदनपललत्प्रतिनिधि कुष्माण्डखण्डान्यतमशर्कराघृतयुक्सुपाचितान्नसलवणपाचितमाषच णकदध्याद्युत्तमसङ्केतितसमयलभ्यपदार्था यथार्हं ग्रहीतुं शक्यन्ते || इति || प० क० सूत्रद्वितीयावृत्तिकारः || ब्राह्मणादिवर्णपरत्वेन बलौ देयवस्तूनि || ११ | १ वर्णपरत्वेन बलिवस्तूनि श्रीयोगिनीतन्त्रे ७ पटले १९५ पत्रे यथा - विप्राणां क्षीरबलयः शाल्यन्नं वाथ पायसम् | घृतप्लुतं चर्व्यफलं पुष्पं तस्य घृतान्वितम् || दद्यात् क्षीरञ्च दुग्धान्नं भक्तान्नं वा निवेदयेत् || शाल्यन्नं वाथ समधु कृषरं खण्डमोदकम् | राज्ञां हि पशवः शस्ता वैश्यानां व्रीहयस्तथा || क्षौद्रं वृषलजातीनां सर्वेषां पशवोऽथ वा || अत्र सर्ववर्णसाधारणत्वेन पश्वादिबलयोप्युक्ताः || इति || २- टीकायुक्तसप्तशतीगुप्तवतीटीकायां ९ पत्रे यथा- बलिश्च ब्राह्मणादिभेदेन व्यवस्थयोक्तः कालिकापुराणे द्रष्टव्यः || इति || ब्राह्मणेन सात्त्विको बलिर्देयः || ३- सटीकशारदातिलके - २० पटले ७६९ पत्रेपि यथा - ब्राह्मणो नियतः शुद्धः सात्त्विकं बलिमाहरेत् || इति || (३०-३ | ३ वि० सर्वः सं०) ३०-३ | ४ अविधानेन बल्यर्थं पशुवधे नरके वासः || १ || अशास्त्रपद्धत्या- आत्मार्थं वा पशुहनने दोषातिशय उक्तः श्रीकुलार्णवतन्त्रे २ उल्लासे २१ पत्रे श्रीमहादेववचो यथा- अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये ! | निवसेन्नरके घोरे दिनानि पशुरोमभिः || प्. ५१४) सम्मितानि दुराचारस्तिर्यग्योनिषु जायते || अनुमन्ता विशसिता निहन्ता क्रयविक्रयी || संस्कर्त्ता चोपहर्त्ता च खादिताष्टौ च घातकाः || धनेन च क्रेता हन्ति खादिता चोपभोगतः | घातको घातबन्धाभ्यामित्येष त्रिविधो वधः || मांससंदर्शनं कृत्वा सूर्यदर्शनमाचरेत् | तस्मादविधिना मांसं मद्यञ्च नाचरेत् क्वचित् ||
SK
विधिवत् सेव्यते देवि ! परमार्थं प्रसीदसि | नाशयस्वपरज्ञानं सत्यमेतद्वरानने ! || तृणं वाप्यविधानेन छेदयेन्न कदाचन || इति || २ - तथैव कुलार्णवतन्त्रे ५ उल्लासे ४६ पत्रेऽपि यथा - आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ! | स्वनिमित्तं तृणं वापि छेदयेन्न कदाचन || इति || पाश्चात्य ३० | ३-३ विषयो दृश्यः || इति || (३०-३ | ४ वि० सं०) ३०-३ | ५ || मांसाद्यभावे बलौ प्रतिनिधिः || कुलार्णवतन्त्रे ६ उल्लासे ४७ पत्रे यथा- मांसाभावे तु लशुनमार्द्रकं नागपल्लवम् | आदाय पूजयेद्देवीमन्यथा निष्फलं भवेत् || इति || ३०-३ | ६ || आवरणपूजाङ्गबलयः कस्य कर्मणोऽनन्तरं देयास्तत्र सिद्धान्तः [महानिर्वाणादितन्त्रग्रन्थानामादावेव-महाबलिस्ततो नैवेद्यमिति-श्रीशिवोक्तिः प्र० उभयथा शास्त्रसद्भावोत्र -]|| बलिदानसमयश्च | १- स्वतन्त्रतन्त्रनाम्नि तन्त्रग्रन्थे यथा- पूजान्ते भोजनादौ तु बलिं दद्यान्महेश्वरि ! || इति || प्रामाण्येन महानैवेद्यात् प्रागेव बलिदानं प्राप्तं तर्हि साम्प्रतं कथं तत्प्रयोगो विधीयते इति कैश्चिदाशङ्क्येत् || इति || ततोऽत्रोपरितननैवेद्यविध्युल्लिखितब्रह्मेशाद्यैरित्यादि श्लोकद्वयं पठित्वा भुञ्जानां देवतां साम्प्रतं ध्यायेदित्यविरोधः | अर्थात् भोजनपरिसमाप्तेः प्रागेव बलिदानप्रयोगकरणेन उपरितनपूजान्ते भोजनादौ तु एतच्छ्लोकोक्तिः सङ्गतेति विभावयन्तु सुधियः || इति || प्. ४१५) २ - होमाभावकर्मणि बल्यवसरः || कुत्रचित् तादृशप्रसङ्गे आवरणपूजाङ्गहोमो अनुक्तश्चेत्तत्र तमकृत्वा वक्ष्यमाणबलीन् दद्यात् || इति वृत्तिकारः || ३- होमात्मककर्मणि बल्यवसरः || श्रीपरशुरामस्य भगवतो मते तत्सूत्रानुयायिभिस्तु यद्यग्निकार्यमित्यादि २ खण्डगत श्रीगणपतिक्रमीय १० सूत्रप्रमाणतः इमे आवरणपूजाङ्गत्वेन दीयमाना बलयः अग्निकार्यानन्तरं देया इति तत्सिधान्तः || इति ||
SK
४- तत्रैव || स्वगुरुपदिष्टानुसारेण बल्यवसरः || श्रिपरशुरामसुत्रेतरतन्त्रग्रन्थानुसारिभिस्तु स्वसाम्प्रदायिकगुरूपदिष्टविधिना ते सर्वे बलयो अर्पणीयाः इत्यवसेयं || इति || प० क० सूत्रद्वितीयावृत्तिकारः || ५-१ || श्रीमदाद्यार्चनपद्धतिस्थो बल्यवसरः || कुत्रचिन्नेपालदेशोल्लिखितश्रीमदाद्यार्चनपद्धतौ नैवेद्यानन्तरमावरणहोमस्तदनु बलयो लिखिताः || इति || २- कुत्रचिदन्यस्यां श्रीश्यामार्चनपद्धतौ देवतापुरतो नैवेद्यपात्रनिधानपूजनानन्तर्भावीयभूतान्तपञ्चबलिदानं तदनु च नैवेद्यसम्पूर्णविधिस्तदनु चावरणार्चनाङ्गहोमः तत्पश्चाच्च मुख्यदेवताबलिरुल्लिखितः || इति || (३०-३ | ६-५ वि० सं०) ३०-३ | ६-६ तथात्रैव प० क० सू० ६ खण्डे श्रीश्यामाक्रमे २०४ पत्रे ३४ सूत्रे आवरणपूजागुरुपादुकार्चनषोडशोपचारानन्तरं बलयो गृहीताः || इति || ७- प० क० सूत्रमात्रानुसारिणां बलिसमयः || अन्यच्चात्रैव प० क० सूत्रे ५ ख्ण्डे श्रीललिताक्रमेऽपि पञ्चदशसूत्रोक्तनैवेद्यानन्तरं १८ सूत्रे बलिरुपात्तः ततश्चैषप्रकारः प० क० सूत्रानुसार्याश्रयणिय एवेति || इति || ८- श्रीश्रीविद्यार्चनपद्धतौ बलिसमयः || अन्यस्यां सपादशत १२५ वर्षेभ्यः प्राग्लिखितश्रीश्रीविद्यार्चनपद्धतौ च महानैवेद्यं तदनुपूजाङ्गहोमः तदनु बलयः ततश्च पूर्वतनोऽपूर्णो नैवेद्यविधिरस्तीति || ९ श्रीमहानिर्वाणतन्त्रे ६ उल्लासे ५३ श्लोके बटुकादिभ्यो बलिदान समयोक्तिर्यथा- योगिनीपात्रसंस्थेन सायुधां सपरीकराम् | संतर्प्य कालिकामाद्यां बटुकेभ्यो बलिं हरेत् || प्. ५१६) एतावता च तां तां प्रधानदेवतां सपरिवारामभ्यर्च्य बटुकादिभ्यो बलिं हरेदित्युपपन्नं इति || तत्रैवोपर्युक्तश्रीबटुकादिबलिदानानन्तरं ११९ श्लोके ततो होमं प्रकुर्वीत तद्विधानं शृणु प्रिये० इत्यादिना- उपरिलिखितवत् बलिप्रदानानन्तर्भावी होमः प्रतिपादितो भगवता श्रीशिवेनेति मार्मिकम् || इति || होमानन्तरं बलिः || १० - श्रीज्ञानार्णवे ५ पटले १९ पत्रे २६ श्लोके -||
SK
नित्यहोमविधिं कृत्वा बलिदानविधिं चरेत् || एतावता च श्रीमद्भगवच्छ्रीपरशुरामोक्तिवदत्रापि नित्यहोमानन्तरं बलिविधिरिति सिध्यति इति || (३०-३ | ६-१० वि० सं०) ३०-३ | ६-११ || निवेदनं || पृथक् पृथक् देवतार्चनपद्धतिषु बलिविषयकनानाविधयो वरीवर्तन्त इति ततः - मोहमप्राप्य एतत् प० क० सूत्रापरतन्त्रग्रन्थोभयोक्तमशेषमप्यादरणीयमिति निवेदयाभ्याप्त- विद्वद्भ्य इत्यलं || ३०-३ | ६ वि० सं० || ३०-३ | ७ - आवरणपूजाङ्गबलयः कां कां देवतामुद्दिश्य कुत्र कुत्र स्थले देयास्तत्र प्रमाणानि || सटीकज्ञानार्णवे १६ पटले ७७ पत्रे यथा - १ बटुकाय महेशानि ! योगिनीभ्यश्च वल्लभे ! || २२२ || क्षेत्रपालगणेशाभ्यां पूर्ववद् बलिमुत्सृजेत् || इति || वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत् || २२३ || आधारं पूजयेत्तत्र पात्रं चान्नोदकान्वितम् | सकारणं मन्त्रयित्वा सर्वभूतबलिं हरेत् || इति || २२४ || अत्र कारिकायामनुक्तमिति प्रधानदेवताबलिमपि संदध्यादेवेति ज्ञेयम् || इति || प्. ५१७) २ - सर्वदेवतावरणार्चनसाधारणधर्मेण दीयमानाः श्रीबटुकादिप्रधानदेवतानां बलयः कस्यां कस्यां दिशि देयास्तत्र भिन्नभिन्नभिदा वर्तन्ते तास्सर्वा अप्यनुपेक्ष्या एवेति राद्धान्तः प्रतिभाति | अत्रतनाः काश्चिद् भिदाः प्रदर्शयन्तेऽधस्तात्- तत्रादौ - बटुकादिदेवताबलीनां स्थानानि- कुलार्णवतन्त्रे ७ उल्लासे ६३ पत्रे श्रीशिववचो यथा- पश्चिमे बटुकं [बाटुकं देयमिति पाठः साधुः] देयमुत्तरे योगिनीबलिम् | पूर्वे भूतबलिं दद्यात् क्षेत्रपालं च दक्षिणे | राजराजेश्वरं [एतद्विषये अग्रतनबलिचित्रं १ - क चिह्ने द्रष्टव्यं] मध्ये पूजयेत् कुलनायिके ! || इति || ३- अन्यत्र च साम्प्रतमुद्रितदुर्गाकल्पद्रुमसंक्षिप्तपुस्तिकायाम् १६३ पत्रेऽप्युक्तं यथा- उक्तं च कुलार्ण्वे ||
SK
ऐशाने [बलिचित्रं २-ख चिह्ने द्रष्टव्यम् ||] बटुकं देयमाग्नेये योगिनीबलिम् | नैर्-ऋत्ये क्षेत्रपालं च वायव्ये गणनायकम् || १ || उत्तरे सर्वभूतेभ्यो मध्ये च [इमे प्रमाणश्लोकाः मन्निकटस्थमुद्रितकुलार्णवे न सन्ति || स्युर्नाम कदाचित् प्राग्लिखितालभ्यपुस्तकेषु ||] मुख्यदेवताम् || इति || ४ || श्रीनेपालदेशीयश्रीश्यामार्चनपद्धतावपि - उपरितनाङ्कगत २ विषयवदेव श्रीगणपतिबल्यन्तं तुल्यमेवास्ति | अथ च श्रीप्रधानदेवताबलिः उत्तरे | इत्येव व्यत्ययोऽस्ति इत्यादि [ब्लिचित्रं ३-ग दृश्यं] || अपरस्यामपि - श्रीमदाद्यार्चनपद्धत्यां - पूर्वपूजितमण्डले बटुकादीनां बलिं दद्यात् इत्युक्त्वा | दक्षिणे योगिनीबलिः पश्चिमे क्षेत्रपालबलिः उत्तरे स्रीगणपतिबलिः स्ववामे सर्वभूतबलिः स्वदक्षिणभागे मुख्यदेवता [बलिचित्रं ४-घ चिह्ने दृश्यं |] बलिरित्येवं भिन्ना बलिस्थानभिदा वर्तन्ते इति | अत्रानुक्तोपि श्रीबटुकबलिरीशाने देय इति स्वबुद्धिविलासोऽस्तु || ३०-३ | ७-४ वि० सं० ३०-३ | ७-५ अपरस्यां शताधिकवर्षसमयप्राग्लिखितायां श्रीविद्यार्चनपद्धत्यां च || श्रीचक्रस्य ईशानकोणे व्यापकमण्डले श्रीबटुकबलिः | आग्नेय्यां श्रीयोगिनीबलिः | नैर्-ऋत्यां क्षेत्रपालपलिः | श्रीचक्रस्य वायुकोणे श्रीगणपतिबलिः | श्रीचक्रस्य उत्तरभागे सर्वभूतबलिरिति प्रपञ्चितम् || प्. ५१८) प्रधानदेवताबलिस्त्वन्यया विधया प्रत्यपादीति तान्त्रिकं मार्मिकम् || प० क० सू० द्वितीयावृत्तिकारः || ६- श्रीमहानिर्वाणतन्त्रे ६ उल्लासे २५ श्लोकतः श्रीबटुकादिबलिस्थानानि यथा- सम्पूज्य पूर्वभागे च बटुकस्यबलिं हरेत् || ५५ || ततस्तु यां योगिनीभ्यः स्वाहा याम्यां हरेद् बलिम् || ५६ || षड्दीर्घयुक्तं सम्वर्तं क्षेत्रपालाय हृन्मनुः | अनेन क्षेत्रपालाय बलिं दद्यात्तु पश्चिमे || ५७ || खान्तबीजं समुद्धृत्य षड्दीर्घस्वरसंयुतम् | ङेन्तं गणपतिं चोक्त्वा वह्निजायां ततो वदेत् || ५८ ||
SK
उत्तरस्यां गणेशाय बलिमेतेन कल्पयेत् | मध्ये तथा सर्वभूतबलिं दद्याद् यथाविधि || ५९ || इति || (अत्र ११७ श्लोके प्रधानबलिरपि) ७- सटीकज्ञानार्णवे ५ पटले १९ पत्रे यथा- ईशाने [अत्र बलिचित्रं ५ ङ चिह्ने दृश्यम्] च तथाऽग्नेये नैर्-ऋत्ये च तथा प्रिये ! | वायव्ये क्रमतो देवि ! मण्डलानां चतृष्टयम् || २७ || श्रीचक्रमभितो देवि ! त्रिकोणं व्योम चालिखेत् || २७ || इति || ८- पुनश्चापि तत्रैव ज्ञानार्णवे १६ पटले ७६ पत्रे श्रीश्रीविद्यायजनविधौ यथा- ईशानवह्निनैर्-ऋत्यवायुकोणेषु [एतयोः -७-८ अङ्कयोश्चित्रप्रत्यक्षमग्रतन ख-२ ग-३ चिह्नितचित्रतुल्यत्वान्न चित्रितं ||] पूर्वत् || मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये ! || २२१ || इति || ३०-३ | ७९ || उपर्युक्तावरणपूजाङ्गबलिस्थानभिदादर्शकचित्राणि || १- क- कुलार्णवमते- पूर्वादिक् १ भूतबलिः ० उत्तरा ४ योगिनीबलिः ० ५ श्रीराजराजेश्वरबलिः ० क्षेत्रपालबलिः ० दक्षिणा बटुकबलिः ० पश्चिमा २- ख्- उपर्युक्तादन्यथा इदमपि कुलार्णवे- पूर्वा १ बटुकब. २ यो. ब. उत्तरा ५ सर्वभूतब. ० ६ प्रधानदे. ब. ० मध्ये दक्षिणा ४ श्री. ग. प. ब. ० ३ क्षे. ब. ० पश्चिमा ३- ग- श्रीनेपालदेशीयश्रीश्यामार्चनपद्धतौ - पूर्वा १ बटुकब. ० ३ योगिनीब. ० उत्तरा अत्र भूतबलिर्नोक्तः | ५ प्रधानदे. ब. ० दक्षिणा ४ गणपतिब. ० ३ क्षे. ब. ० पश्चिमा ४- घ्- अपस्यां श्रीश्यामार्चनपद्धतौ - पू. १ बटुकब. ५ स्ववामे भूत बलिः उ. ० ४ गणेशब. ० २ योगिनी ब. ० द. ६ स्वदक्षिणे प्रधानदे. बलिः ० ३ क्षे. ब. ० प. ५- ङ- निर्वाणतन्त्रे- १ बटुकब. ० ४ गणेशब. ० ५ भूतब. ० २ यो. ब. ० अत्र ११७ श्लोकोक्तः प्रधानबलिरप्यस्ति- क्षे. ब. ० ३०-३ | ८ श्रीबटुकादिदेवताबल्यर्थकमण्डलाकृतिस्तत्तदेवतानां पूजनं तन्मन्त्रादिज्ञानं च श्रीज्ञानार्णवे १६ पटले ७६ पत्रे २१७ श्लोकतो यथा- सर्वसाधारणम् ||
SK
१ || उपविश्याऽसने रम्ये वामभागः ततः परम् || २१७ || वहत्करोर्ध्वपुटतः साधको भूमिजानुकः | मण्डलं चौरस्रं तु तन्मध्ये विलिखेत् प्रिये ! || २१८ || त्रिकोणमध्ये व्योमाख्यं मण्डलं पूजयेत्ततः | व्यापकान्ते मण्डलाय हृदन्तो वाग्भवं परम् || २१९ || मुखे कृत्वा पूजनीयं मण्डलं मनुना प्रिये ! | एतन्मण्डलमभ्यर्च्य मण्डलानां चतुष्टयम् || २२० || इति || ९ || बलिपञ्चकविषये ज्ञानार्णवे १६ पटले ७७ पत्रे यथा - १बटुकाय महेशानि ! २योगिनीभ्यश्च वल्लभे ! | ३क्षेत्रपालगणेशाभ्यां पूर्ववद्बलिमुत्सृजेत् || वामभागे कृतस्याथ मण्डलस्योपरि क्षिपेत् || २२३ || आधारं पूजयेत्तत्र पात्रं चान्नोदकान्वितम् | सकारणं मन्त्रयित्वा ५सर्वभूतबलिं हरेत् || २२४ || षोडशार्णेन मनुना त्रिवारं वीरवन्दिते ! | तारं च भुवनेशानि ! सर्वविघ्नपदं ततः || २२५ || कृद्भ्यश्च सर्वभूतेभ्यो हुंकारं वह्निवल्लभाम् | समुच्चरन् बलिं दद्यान्मुद्रया तत्त्वसंज्ञया || २२६ || बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् || इति || २२६ || (३०-३ | ९ वि० सं०) ३०-३ | १० एकपात्रे एव ५ बलयः || १- इमे आवरणपूजाङ्गबलयो भिन्नभिन्नस्थानेषु निदर्शितास्तथापि पृथक् पृथक् पात्रेषु बलिदानानिच्छया एकस्मिन् पात्रे एव दातुं शक्यन्ते इति ज्ञेयं || (प्रधानब्लिस्तु स्वतन्त्र एव देय इत्याभाति) अत्र प्रमाणं भैरवयामले- एकपात्रे न् म्पृथक् पात्रे दद्यात् पञ्च बलीन् प्रिये ! | वामभागस्थितो देवि ! सर्वविघ्नहरो भवेत् || इति || २- ज्ञानार्णवतन्त्रे ५ पटलान्ते २० पत्रेऽपि यथा- अथवा वामभागे तु मण्डलं चैकमादिशेत् | तत्रैव बलिदानं तु कुर्यात् सर्वार्थसिद्धये || ४४ || इति || ३- ज्ञानार्ण्वतन्त्रे १६ पटले ७७ पत्रेऽपि - बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् | एकत्र वा पञ्च बलीन् दद्याद्व्यापकमण्डले || इति || २२७ || वामभागे स्थितो देवि ! सर्वविघ्नहरो भवेत् || (३०-३ | १० वि० सं) ३०-३ | ११ || मुख्यदेवताबलिविषये ||
SK
१- आवरणपूजाङ्गत्वेन दीयमानबलिषु प्रधानदेवतायाः बलिः कस्य बलेरनन्तरं देयस्तत्र प्रमाणम् - श्रीमहानिर्वाणतन्त्रे ६ उल्लासे १०५ श्लोकतः ११७ श्लोकैः भैरव दिक्पालबलेरनन्तरं प्रधानदेवताबलिरुक्तः || इति || २- || आनन्दाश्रमसंस्कृतग्रन्थावलि ७३ ग्रन्थाङ्कमुद्रितश्रीइमच्छङ्कराजार्यविरचितगायत्री पुरश्चरणपद्धतौ ४८ पत्रे - नैवेद्यमध्ये - आवरणपूजाङ्गहोमं विधाय- ततः स्तुतिस्ततो नीराजनं ततो जपस्तदनु च कस्मैचिदपि बलिमदत्वा श्रीभगवत्याः प्रधानदेवतायाः श्रीगायत्र्या बलिरुक्तो यथा - प्. ५२२) नात्युच्चं नातिनीचं च ध्यात्वा मन्त्री जपेन्मनुम् | बलिं दत्त्वा नमस्कृत्य स्तुत्वा देवीं विसर्जयेत् || अग्रतश्चतुरस्रवृत्तत्रिकोणमण्डलं कृत्वा तत्र गायत्रीं ध्यात्वा मूलेन पुष्पाक्षतैः सम्पूज्य चतुष्पदां गायत्रीमुच्चार्य यथालाभान्नादिना नित्यबलिं दद्यात् || इति || (३०-३ | ११ वि० सर्वः सं) ३०-३ | १२ || मुख्यदेवताबलिस्थानविषये || (अत्र प० क० सूत्रे) अन्यतन्त्रेषु च अमुकामुकदेवतानामावरणपूजान्ते दीयमानमुख्यदेवतामात्रबलिस्थानं अमुकामुकदिष्युक्तं तत्र स्मरणी यथा - १- श्रीगणपतेः प० क० सू० २ खण्डे श्रीगणपनायकपद्धतौ ८३ पत्रे ९ सूत्रे मूले प्रधानदेयतायाः श्रीगणपतेः पूजाङ्गबलिदानावसरे कस्यां दिश्ययं बलिर्देय इति नाभ्यधायि- अपि तु एतत्सूत्रभाष्यकारमहोदयेन देशाकाङ्क्षायां श्रीक्रमोक्तं स्ववामभागतः इत्युक्तम् एतावता बलिनिधानस्थलमुपलब्धप्रायमेवेति | २- प० क० सू० ५ खण्डे नवावरणपूजान्ते १७२ पत्रे १८ सूत्रे अथ बलिप्रकारमाह- वामभागविहितत्रिकोणवृत्तचतुरस्रे गन्धाक्षतार्चिते इत्युक्तम् | अत्रैतत्सूत्रभाष्यकारो यथा- अत्र वामभागेत्यनेन शीघ्रोपस्थितत्वात् स्वस्यैव वामभागो ग्राह्य इत्याह || एतावता च स्ववामभागेऽयं बलिर्देय इति तदभिमतम् ||
SK
३- || अत्र प० क० सूत्रे ६ खण्डे श्रीश्यामाक्रमे ३४ सूत्रे च श्रीमत्प्रधान देवताया आद्याया बलिदानस्थानमेव न प्राणायि तथापि श्रीमल्ललिताम्बाबलिस्थानमेवैतद्देवताबलिस्थानं मन्तुं योग्यम् अथवा अनुगते - ३०-३-७- विषये- बलिस्थानचित्राङ्क ३ - ग० ४ - घ० स्थानयोरेकतमस्थाने देयमित्यदोषलेशं || इति तथा च- प० क० सूत्रे ७ खण्डे श्रीवाराहीक्रमे ८ खण्डे श्रीपराक्रमे चानयोर्भगवत्योर्मुख्यबलिस्तत्स्थानं च न स्पष्टीकृतम् मूले तद्भाष्ये च तथाप्यत्र यथायोग्यं तद्विधेयमेव सम्प्रदायिकैरिति विनयामि प० क० सू० द्वितीयावृत्तिकारः (३०-३ | १२ वि० सं०) प्. ५२३) ३०-३ | १३ || बलिदाने श्रीक्रमोक्तधर्मग्रहणप्रमाणम् || अत्र स्पष्टीकृतं प० क० सूत्रे ८ खण्डे पराक्रमे २४५ पत्रे २७ सूत्रभाष्ये वृत्तिकृता यथा - बलिदाने धर्माः श्रीक्रमोक्ता ग्राह्याः एकदेवताकत्वेन साजात्यात् इति || एतदपि प० क० सूत्रानुसारिणां प्रायो ज्ञेयम् - अन्यथा तत्तदितरग्रन्थोक्त तत्तद्देवतास्वतन्त्रविधिवैयर्थ्यं स्यादेवेत्यलं || इति || १४ || पार्षदेभ्यः एक एव बलिः || आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्रीमच्छङ्कराचार्यविरचितश्रीगा० पु० पद्धतौ ४६ पत्रे आवरणपूजाङ्गहोमानन्तरं यथा ततः पार्षदबलिमन्त्राः - | ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः | योगिन्योऽप्युग्ररुपाश्च गणानामधिपाश्च ये || विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताः | ते सर्वे तृप्तिमनसो भूता गृह्णन्त्विमं बलिम् || गन्धपुष्पाक्षतान्वितबलिमष्टदिक्षु विकिरेत् | भूतानि यानीह वसन्ति भूतले बलिं गृहीत्वा विधिवत् प्रयुक्तम् | अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यत्र नमोऽस्तु तेभ्यः | अनेन अष्टदिक्षु विकिरेदिति भूतबलिः || अत्र प्रधानदेवताबलिरनुक्तोपि विधेय एवेति | ३०-३ | १५ || आवरणपूजाङ्गश्रीबटुकादिबलिदनसङ्कल्पे जलमोचने अङ्गुल्यादिकम् | १- प्रथमः प्रकारः |
SK
सर्वसाधारणत्वेन श्रीबटुकादिभ्यो बल्यर्पणसङ्कल्पे पृथक् पृथगङ्गुल्याइकम् | कौलार्णवतन्त्रे ७ उल्लासे ६३ पत्रे यथा- १ श्रीबटुकस्य बलिदाने || अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः || २- श्रीयोगिनीनाम् ० || तर्जनीमध्यमाऽनामा अङ्गुष्ठो योगिनीबलिः || ३ - भूतानाम् || अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ! || प्. ५२४) ४- श्रीक्षेत्रपालस्य || अङ्गुष्ठतर्जनीभ्यां च क्षेत्रपालबलिं हरेत् | ५- श्रीराजराजेश्वरस्य || अङ्गुष्ठमध्यमाभ्यां च राजराजेश्वरस्य च || इति || अत्र तत्तत्प्रधानदेवताबलौ अङ्गुल्यादि नोपदिष्टं तथापि तत्र तत्र स्वतन्त्रप्रकरणोक्तमथवा स्वगुरूपदिष्टमथ वा सामान्यसङ्कल्पकल्पोदितमबाधकं प्रमाणं ग्राह्यमित्यलं तद्विदांकृते विशिष्टलेखरेखाभिः - || इति || (३०-३ | १५-१ वि० सं०) ३०-३ | १५-२ द्वितीयः प्रकारः | पूजाङ्गश्रीबटुकादिबलिदाने ज्ञानार्णवतन्त्रे ५ पटलसमाप्तौ २० पत्रे यथा- १- ब० बलौ | वामाङ्ष्ठानामिकाभ्यां बटुकस्य बलिं हरेत् | २- यो० तर्जन्यनामिके चैव मध्यमोपरि योजयेत् || ४० || योन्याकारेण वामेन योगिनीनां बलिर्भवेत् | अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् || ४१ || ३ - क्षे० वममुष्टिं विधायादौ तर्जनीं सरलां कुरु | अनया मुद्रया देवि ! क्षेत्रपालबलिर्भवेत् || ४२ || ४- गणेश० तथा मुष्टेस्तु मध्यस्थामङ्गुलीं दण्डवत् कुरु | गजतुण्डा महामुद्रा गणपस्य बलिर्भवेत् || ४३ || इति || (३०-३ | २५ वि० सर्वः सं०) ३०-३ | १६ || बलेरकरणे दोषः || १ || बङ्गदेशीयसंस्कृतभारतीति मुद्रितमासिके ४ अङ्कीयपुस्तके निबन्धे तृतीय पटले च यथा - बलिदानं विना यस्तु पूजयेत्तारिणीं नरः | न धर्मो न च मोक्षः स्यात्तेषां पशुधियां प्रिये || इति || २ || श्रीकुलार्णवतन्त्रे ७ उल्लासारम्भे एव ६० पत्रतः बटुकादिबल्यावश्यकत्वे- श्रीपार्वतीपृच्छायां श्रीशिवोक्तोत्तरं यथा- देव्युवाच- कुलेशबटुकादीनां बलिञ्च शक्तिलक्षणम् | तद्द्रव्यस्यैव स्वीकारं वद मे करुणानिधे ! || प्. ५२५)
SK
ईश्वर उवाच - शृणु देवि! प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते || यावन्नो बटुके दद्यात्तावन्नैव कुलेश्वरि ! | तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि || बटुकादीन् यजेत्तस्मात्० इत्यादि || ३- महानिर्वाणतन्त्रे ६ उल्लासे ११८ श्लोकः श्रीशिववचो यथा- एवं बलिविधिः प्रोक्तः कौलिकानां कुलार्चने | अन्यथा देवताप्रीतिर्जायते न कदाचन || इति || (३०-३ | १६ वि० सं०) ३०-३ | १७ || बलेरावश्यकत्वं बलिकरणे फलं च || १ - बलिदानेन पूजाफलं प्राप्नोति तत्र प्रमाणं सप्तटीकायुक्तसप्तशतीगुप्तवतीटीकायां ९ पत्रे कम्यप्रयोगे विशेषः इत्यत्र यथा - एकावृत्तादिपाठानां प्रत्यहं पठतां नृणाम् | सङ्कल्पपूर्वं सम्पूज्य न्यस्याङ्गेषु मनून् सकृत | पश्चाद्बलिप्रदानेन फलं प्राप्नोति मानवः || इति || २- बलिदानफलम् || श्रीकालिकापुराणेऽपि सप्तषष्टितमेऽध्याये यथा- बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् | बलिदानेन सततं जयेच्छत्रून् नृपान् नृपः || इति || एवं ददद् बलिं वीरो यथोक्तविधिनामुना | बलिदानादेव चतुर्वर्गमाप्नोत्यसंशयम् || इति || ३- तत्रैव मातृकाभेदतन्त्रे १० पटले यथा - विधिना परमेशानि ! यदि पूजादिकं चरेत् | वत्सरान्ते प्रदातव्यो बलिरेकः सुरेश्वरि ! || अन्यथा नैव सिद्धिः स्यादाजन्मपूजनादपि | बलिदानं महायज्ञः कलिकाले च चण्डिके ! || अश्वमेधादिको यज्ञः कलौ नास्ति सुरेश्वरि ! | केवलं बलिदानेन चाश्वमेधफलं लभेत् || इति || प्. ५२६) ४- तथा च निबन्धे पञ्चमपटले यथा- सर्व्वत्र कोटितीर्थेषु स्नात्वा यत् फलमश्नुते | तत्फलं लभते भक्त्या बलिभिः पूजनान्मम || इति || ५- एतद् बलिदानमण्डनविषयः ब्रह्मवैवर्तपुराणे उत्तरखण्डेऽप्यस्ति || इति || ६- बलिदानावश्यकत्वे श्रीमदाद्याः कर्पूरस्तवराजे || सलोमास्थि स्वैरमित्यादिश्लोकोक्तविधिरप्यत्र सम्भाज्यताम् || इति || ७- श्रीबटुकार्चनफलं सटीकशारदा० २० पटले ७६६ पत्रे ७५ श्लोके यथा-
SK
इति सम्पूजयेद्देवं बटुकं प्रोक्तवर्त्मना | धर्मार्थकाममोक्षाणां पतिर्भवति मानवः || ७५ || इति || ८- आवरणपूजाङ्गश्रीबटुकादिबलिदाने फलमुक्तं ज्ञानार्णवतन्त्रे १६ पटले ७६ पत्रे यथा- पूर्ववद् बलिदानं च दद्यात् सर्वसमृद्धये || इति || २२२ || ९- तत्रैव ७६ पत्रे - बलिपञ्चकमाख्यातं सर्वरक्षाकरं सताम् || इति || २२६ || (३०-३ | १७ वि० सर्वः सं०) ३०-३ | १८ || उपर्युक्तपूजाङ्गश्रीबटुकादिश्रीराजराजेश्वरदेवतान्त बलिदानप्रयोगकारिकाः || १ कुलार्णवतन्त्रे ७ उल्लासे ६१ पत्रतो यथा- बटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके ! | यैः समर्चितमात्रेण सर्वे नश्यन्त्युपद्रवाः || तारत्रयं ततो देवी पुत्रेति बटुकेति च | नाथश्च कपिलजटाभारभासुरपिङ्गल || त्रिनेत्रेति पदं पश्चात् ज्वालामुखपदं ततः | इमां पूजां बलिं गृह्ण द्वयं पावकवल्लभा || उक्तो बटुकमन्त्रोऽयं चत्वारिंशद्भिरक्षरैः | बलिनानेन सन्तुष्टो बटुकः सर्वसिद्धिदः || प्. ५२७) शान्तिं करोतु मे नित्यं भूतवेतालसेवितः | तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् || तत्पश्चात् सर्वभूतेभ्यः सर्वभूताधिपाय च | पदं ततो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् || त्रैलोक्यनिपदं चैव वासिनीभ्य इमां वदेत् | पूजां बलिं गुह्ण युग्मं स्वाहान्तो योगिनीमनुः || कथितोऽयं महेशानि ! मन्त्रः पञ्चदशाक्षरः | या काचिद् योगिनी रौद्रा सौम्या सौम्यतरा यदि || खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा | तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि || पश्चाद् भूपतिभ्यो हुṁ फट् सप्तदशाक्षरः | भूता ये विविधाकारा दिक्षु भौमान्तरिक्षगाः || पातालसंस्था ये केचिच्छिवे ये च न भाविताः | ब्रह्माद्याः सत्यसन्धाश्च भृत्याः शक्त्युपबृंहिताः || तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिं | तारत्रयं ततो देवि ! यग्मं देवीपदं वदेत् | सर्वविघ्नान् पदं पश्चान्नाशय द्वितीयं तथा ||
SK
सर्वोपचारसहितामिमां पूजां बलिं वदेत् | गृह्ण गृह्ण द्विठान्तोऽयं भैरवाधिष्ठिताय च || अक्षोभ्यवन्दितः पश्चाद् हृदयाधिष्ठितं परम् | सिद्धार्थं पदमाभाष्य पश्चादवतरद्वयम् || क्षेत्रपालद्वयं पश्चान्महाक्षेत्रपदं ततः | अस्मिन् ग्रामाधिपतयेऽस्मिन् देशाधिपतये ततः || वदेद्बटुकनाथेति देवीपुत्रपदं ततः | मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत् || कपालीति पदं पश्चाद्भीषणेति पदं वदेत् | स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् || गृह्ण गृह्ण कुरुद्वन्द्वं मम दुरय युग्मकम् | ज्वलयुग्मं प्रज्वलयुग्मं सर्वविघ्नानितीरयेत् || प्. ५२८) नाशयद्वितयं क्षां क्षीं क्षूं क्षैं क्षौं क्षं- ततः परं | मातृपुत्रपदं पश्चात् कुलपुत्रपदं ततः || क्षेत्रपालाय वौषट् हुṁ षडुत्तरशताक्षरः | तारत्रयं वदेत् पश्चादमुकक्षेत्रपाल च ! || राजराजेश्वर ! इमां पूजां बलिमतः परम् | गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः || अनेन बलिदानेन बटुवृन्दसमन्वितः | रजराजेश्वरो देवो मे प्रसीदतु सर्वदा || इति || ३०-३ | १९ - तत्रादौ श्रीबटुकबलिदानविधौ कर्तव्यप्रमाणम् | श्रीमहानिर्वाणतन्त्रे ६ उल्लासे यथा - १- संतर्प्य कालिकामाद्यां बटुकेभ्यो बलिं हरेत् || ५३ || स्ववामभागे सामान्यं मण्डलं रचयेत् सुधीः | संपूज्य स्थापयेअत्त्र सामिषान्नं सुधान्वितम् || ५४ || वाङ्माया कमला बं च बटुकाय नमः पदम् | अत्र टीका- बटुकादिभ्यो बलिदानस्य विधिमाह स्ववामभागे० इत्यादि | सुधीः धीरः स्ववामभागे सामान्यं चतुष्कोणं मण्डलं रचयेत् तन्मण्डलं सम्पूज्य तत्र मण्डले चतुर्द्दिक्षु तन्मध्ये च सूधान्वितं सुरासंयुक्तं सामिषान्नं मांसादिसहितमन्नं स्थापयेत् || ५४ || २- ज्ञानार्णवे ५ पटले १९ पत्रे यथा-
SK
श्रीचक्रमभितो देवि ! त्रिकोणं व्योम चाऽलिखेत् | [वांकारं पूर्वमुच्चार्य बटुकाय नमो लिखेत् || ७३ || (बं- इति- साध्वत्र-) यांकारं बीजमुच्चार्य योगिनीभ्यो नमस्तथा || क्षांकारं बीजमुच्चार्य क्षेत्रपालाय वै नमः || ७४ || गांकारं बीजमुच्चार्य ततो गणपतिं यजेत् || इमे चत्वारो मन्त्राः श्रीबटुकादिदेवतापूजोपयोगिनः || इति || इदं ज्ञानार्णवे १६ पत्रे ४ पटले || अत्र महानिर्वाणतन्त्रे ६ उल्लासे ५४ श्लोकतः ५८ श्लोका दृश्याः तत्र च बटुकबलिमन्त्रे वा इति न अपि तु वं इत्यस्ति ] पूर्वमन्त्रैः समभ्यर्च्य बटुकादिभिरद्रिजे ! || २८ || इति प्. ५२९) श्रीबटुकबलिमन्त्रोद्धारः || यथा- एह्येहि देवि ! पुत्रान्ते बटुकान्तेऽथ नाथ. ! च | कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च || २९ || ज्वालामुख च सर्वान्ते विघ्नान्नाशय नाशय | सर्वोपचारसहितं बलिं गृह्ण द्विधा पदम् || ३० || वह्निजायान्वितो मन्त्रो बटुकस्य उदाहृतः || अनेन विधिना देवि ! बटुकस्य बलिं प्रिये ! || ३१ || इति || ३- श्रीबटुकबलिदानफलम् || सटीकशारदा० २० पटले- ७६७ पत्रतो राज्ञो जनपदस्य च निर्विघ्नकरण प्रसङ्गे यथा- बटुकेश्वरमभ्यर्च्य भक्ष्यभोज्यफलान्वितम् || ८७ || नित्यं निवेद्य नैवेद्यं मध्यरात्रे बलिं हरेत् | एवं जपित्वा प्रयतः सहस्राण्येकविंशति || ८८ || समाप्तिदिवसे रात्रवजं हत्वा बलिं हरेत् | ततः कारयिता राजा तोषयेत् साधकं धनैः || ८९ || विधिनाऽनेन सन्तुष्टो बटुकेशः प्रयच्छति | तेजो बलं यशः पुत्रान् कान्तिं लक्ष्मीमरोगताम् || ९० || नश्यन्ति शत्रवः सर्वे वर्धन्ते बन्धुबान्धवाः | अवग्रहो न जायेत विषये तस्य भूपतेः || ९१ || इति || (३०-३ | १९ वि० सं०) ३०-३ | २०-१ श्रीयोगिनीबलिविधौ कर्तव्यं श्रीमहानिर्वाण तन्त्रे ६ उल्लासे यथा- ततस्तु यां योगिनीभ्यः स्वाहा याम्यां हरेद्बलिम् || ५६ ||
SK
अत्र टीका - ततस्त्विति | ततोऽनन्तरं एषः सुधामिषान्वितो बलिर्यां योगिनीभ्यः स्वाहेति मन्त्रेण याम्यां मण्डलस्य दक्षिणे भागे योगिनीभ्यो बलिं हरेत् || ५६ || इति || २ श्रीज्ञानार्णवे ५ पटले १९ पत्रे यथा- ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा | पाताले वऽनले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा || क्षेत्रे पीठोपपिठादिषु च कृतपदा धूपदीपादिकेन | प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः || ३२ || प्. ५३०) एतदन्ते महेशानि ! यां बीजं योगिनी ततः || भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् || ३३ || कवचं चास्त्रमालिख्य वह्णिजायां पुनर्लिखेत् | अनेन मनुना देवि ! योगिनीनां बलिं हरेत् || ३४ || इति || (३०-३ | २०-१ वि० सं०) ३०-३ | २१-१- श्रीक्षेत्रपालबलिविधौ० | श्रीमहानिर्वाणतन्त्रे ६ उल्लासे यथा- षड्दीर्घयक्तं सम्वर्तं क्षेत्रपालाय हृन्मनुः | अनेन क्षेत्रपालाय बलिं दद्यात्तु पश्चिमे || ५७ || अत्र टीका - षडित्यादि | षड्दीर्घयुक्तं सम्वर्तं क्षकारमुक्त्वा ततः क्षेत्रपालायेत्युक्त्वा ततो हृत् नमः - इति वदेत् सर्वपदयोजनया क्षां क्षीं क्षूं क्षैं क्षौं क्षः क्षेत्रपालाय नमः - इति मनुर्जातः एषः सुधामिषान्वितान्नबलिरित्याद्यनेनैव मनुना मण्डलस्य पश्चिमे भागे क्षेत्रपालाय बलिं दद्यात् || ५७ || २- श्रीज्ञानार्णवे ५ पटले १९ पत्रे यथा- षड्दीर्घस्वरसंभिन्नं क्षकारं विलिखेत् प्रिये ! | स्थानक्षेत्रपदं पाल धूपदीपादि चाऽलिखेत् || ३५ || सहितं बलिमालिख्य गृह्ण गृह्ण ततो वदेत् | वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि ! || ३६ || अनेन मनुना देवि ! क्षेत्रपालबलिः स्मृतः || इति || ३- श्रीक्षेत्रपालबलिदाने मन्त्रादिकं विधिश्च सटीकशारदातिलके २० पटले ७६१ पत्रे यथा - तस्मै सपरिवाराय बलिमेतेन निर्हरेत् | पूर्वमेहिद्वयं पश्चाद्विदुषि ! स्यात् पुरुद्वयम् || ३९ || भञ्जयद्वितयं भूयो नर्त्तयद्वितयं पुनः | ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् || ४० ||
SK
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरि | बलिमन्त्रोऽयमाख्यातः सर्वकामफलप्रदः || ४१ || सोपदंशं बृहत् पिण्डं कृत्वा रात्रिषु साधकः | स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत् || ४२ || प्. ५३१) बलिनाऽनेन सन्तुष्टाः क्षेत्रपालः प्रयच्छति | कान्तिं मेधां बलारोग्यतेजःपुष्टियशःश्रियः || ४३ || इति || ४- श्रीक्षेत्रपालपूजनाकरणे अपाय उक्तः सटीकशारदा २० पटले ७६० पत्रे ३२ श्लोकटीकायां यथा- क्षेत्रपालमसम्पूज्य यः कर्म कुरुते क्वचित् | तस्य कर्मफलं हन्ति क्षेत्रपालो न संशयः || इति || ३०-३ | २२-१ श्रीगणपतिबलिविधौ० | श्रीमहानिर्वाणतन्त्रे ६ उल्लासे यथा- १- खान्तबीजं समुद्धृत्य षड्दीर्घस्वरसंयुतम् | ङेऽन्तं गणपतिं चोक्त्वा वह्निजायान्ततो वदेत् || ५८ || उत्तरस्यां गणेशाय बलिमेतेन कल्पयेत् || इति || अत्र टीका-खान्तेत्यादि | षड्दीर्घस्वरसंयुतं खान्तबीजं खस्यान्तो गकारस्तद्रूपं बीजं समुद्धृत्य ततो ङेऽन्तं गणपतिं - ञ्चोक्त्वा ततो वह्निजायां स्वाहेति वदेत् योजनया गां गीं गूं गैं गौं गः गणपतये स्वाहेति मन्त्रो जातः एषः सुधामिषान्वितान्नबलिरित्याद्येनानेनैव मन्त्रेण उत्तरस्यां मण्डलस्योत्तरे भागे गणेशाय बलिं कल्पयेद्दद्यात् || इति || २- इतोऽन्यप्रकारेण श्रीज्ञानार्णवे ५ पटले २० पत्रे यथा- गां गीं गूं त्रयमालिख्य .ङेन्तं गणपतिं ततः || ३७ || वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् | मे वशं चाऽनय प्रोच्य सर्वोपपदमालिखेत् || ३८ || चारान्ते सहितं चोक्त्वा बलिं गृह्ण द्विधा पदम् | वह्निजायान्वितो मन्त्रो गणपस्य बलिं हरेत् || ३९ || इति || (३०-३ | २२ वि० सं०) ३०-३ | २३- सर्वभूतबलिविधौ० | श्रीमहानिर्वाणतन्त्रे ६ उल्लासे यथा- मध्ये तथा सर्वभूतबलिं दद्याद् यथाविधि || ५९ || हृईं श्रीं सर्वपदं चोक्त्वा विघ्नकृद्भ्यस्ततो वदेत् | सर्वभूतेभ्य इत्युक्त्वा हूं फट् स्वाहा मनुर्मतः || ६० || इति || प्. ५३२)
SK
अत्र टीका- तथैव मण्डलस्य मध्ये यथाविधि विधिवत् सर्वभूतबलिं दद्यात् || ५९ || सर्वभूतेभ्यो बलिदानस्य मन्त्रमाह एकेन हृईमिति | ह्रीं श्रीं सर्वपदमुक्त्वा ततो विघ्नकृद्भयः इति वदेत् ततः सर्वभूतेभ्यो इत्युक्त्वा हूं फट् स्वाहेति वदेत् योजनया ह्रीं श्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हूं फट् स्वाहेति मनुर्जातः एष- सुधामिषान्वितान्नबलिरित्याद्योऽयमेव मनुः सर्वभूतेभ्यो बलिदाने मतः || ६१ || इति || किञ्चिन्निवेदनमत्र || अन्यच्च नैवेद्योपयोगिपदार्थाः प्रमाणग्रन्थसहिताः प्रागभीरिताः | बल्युपयुक्तपदार्थाश्चापि वि० १३ | ३०-३ तः १३ | ३०-२३ | ५०८ पत्रतः ५३१ पत्रान्तं यावन्निरूपिताः | अन्यच्चात्र बलिविषयकं नानाग्रन्थतो यथामत्यलिखीति किं बहुना तद्विदां पुरतो विशिष्टप्रतिपादनश्रमेण | अथ चैतत्सूत्रोक्तदेवतेतरतन्त्रग्रन्थानुसारिबलिदित्सूनां कृते तान्त्रिकपद्धत्यैवावरणपूजाङ्गश्रीबटुकादिपञ्चबलयः प्रधानदेवताबलिश्च सर्वसाधारणतयास्मद्ग्रथितबालातन्त्रचन्द्रिकाग्रन्थस्थश्चाधस्ताल्लिख्य्- ते सोऽपेक्षितश्चेत् स्वस्वकार्ये उपादेय इति ३०-३ | २४ अथ श्रीवडोदराराज्याधिपतिविद्वत्प्रियस्वर्यातश्रीमत्सयाजीरावनृपेन्द्रमुद्रा- पितश्रीबालातन्त्रचन्द्रिकानामकग्रन्थस्थावरणपूजाङ्गः श्रीबटुकादिदेवताबलिप्रयोगः || ३१६ पत्रस्थः - १- तत्रादौ श्रीबटुकबलिदानप्रयोगो यथा- ईशान्यां प्रोक्षणीपात्रजलेन मण्डलं विधाय | तदुपरि चन्दनादिना अथवा विशेषार्घजलेन बिन्दुत्रिकोणवृत्तचतुरस्रात्मकं मण्डलं विलिख्य तन्मण्डलपूजा कार्या यथा- दक्षहस्ते गन्धाक्षतपुष्पाण्युपादाय ॐ ऐं ह्रीं व्यापकमण्डलाय नमः इति सम्पूज्य ॐ अस्त्राय फट् इत्युक्त्वा क्षालितमाधारपात्रं तन्मण्डले निधाय तत्र च चतुर्दिक्प्रकटितदीपप्रदीप्तं यथाधिकारं सखण्डं सधूपशलाकं हविः शेषपूरितबलिपात्रमास्थाप्य मृन्मयजलपात्रं चास्थाप्य [एतदवधिकमधस्तनश्रीयोगिनी - क्षेत्रपाल- गणपति- सर्वभूत- बलिष्वप्यूह्यम् ||]
SK
अथ श्रीबटुकतद्बलिपूजा च यथा- ॐ श्रीदेवीपुत्राय बटुकाय नमः - गन्धपुष्पाभ्यां पूजयामि नमस्करोमि इत्युक्त्वा श्रीबटुकं ध्यात्वा आकशे तत् समर्प्य तस्मै नमः कुर्यात् पुनश्चापि गन्धाक्षतपुष्पाद्युपादाय ॐ श्रीबटुकबलिद्रव्याय नमः गन्धाक्षतपुष्पाभ्यां पूजयामि इति बलिं सम्पूज्य नमस्कुर्यात् - प्. ५३३) ततो बलिपात्रात्तदभावे सामान्यार्घाज्जलमादाय ॐ ऐं ह्रीं एह्येहि देवीपुत्र बटुकनाथ कपिलजटाभारभासुर पिङ्गलत्रिनेत्र ज्वालामुखसर्वविघ्नान्नाशय सर्वोपचारसहितमिमं बलिं गृह्ण गृह्ण स्वाहा इति अथवा ॐ ह्रीं बटुकाय मे आपदुद्धारणं कुरु कुरु बटुकाय ह्रीं बटुक एष ते बलिर्न मम-इत्युक्त्वा वामाङ्गुष्ठानामिके एकीकृत्य दक्षिणहस्तस्थं बलिपात्रसामान्यार्घपात्रान्यतमजलं तत्र प्रसिञ्चेत् | ततः पुष्पाञ्जलिमादाय ॐ बलिदानेन संतुष्टो बटुकः सर्वसिद्धिदः | शान्तिं करोतु मे नित्यं भूतवेतालसेवितः || इति पठित्वा श्रीबटुकेनायं बलिर्गृहीत एवैवं ध्यात्वा पुष्पाञ्जलिं समर्प्य ॐ एष बलिः श्रीबटुकाय न मम इत्युक्त्वा सामान्यर्घजलं प्रक्षिपेद्योन्या च प्रणमेदिति श्रीबालातन्त्रचन्द्रिकास्थश्रीबटुकबलिप्रयोगः संपूर्णः || २- अथ श्रीयोगिनीबलिप्रयोगः || तत्रैव || तत आग्नेयकोणे श्रीबटुकबलिवन्मण्डलं विरच्य तथैव सम्पूज्य तथैव तत्राधारं संस्थाप्य तथैव दीपादिसहितं बलिद्रव्यसम्भृतं पात्रमास्थाप्य | दक्षकरे गन्धपुष्पादि सङ्गृह्य ॐ यां योगिनीभ्यो नमः इत्युक्त्वा श्रीप्रधानदेवतायाः परिसेविकाः श्रीविश्वदुर्गादि ६४ योगिनीर्ध्यात्वा तथैवाकाशे पुस्पादि समर्प्य | पुनश्चापि चन्दनाक्षतपुष्पाणि हस्ते कृत्वा- ॐ श्रीयोगिनिदेवताबलिद्रव्याय नमः इति बलिं सम्पूज्य नमस्कृत्य ततो योगिनी पात्रं पात्रासादने स्थापितं चेत्तस्मान् नो चेत् सामान्यार्घाज्जलं गृहीत्वा ॐ ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भुतले निस्तले वा | पाताले वा तले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ||
SK
क्षेत्रे पीठोपपिठादिषु च कृतपदा धूपदीपादिकेन || प्रिता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः || १ || ॐ शुक्लवर्णे त्रिशूलडमरुपाशासिधरे सर्वालङ्कारभूषिते ससैन्ये सौम्ये चतुःषष्ठियोगिनीसहिते एह्येहि आगच्छ आगच्छ सर्वयोगिनीभ्यः सर्वभूतेभ्यः सर्वभूताधिपतिभ्यो डाकिनीभ्यः शाकिनीभ्यः त्रैलोक्यनिवासिनीभ्यः इमं बलिं गृह्णीत ममेप्सितं कार्यं कुरुत कुरुत स्वाहा | इत्युभयमन्तिमं वा पठित्वा बलिपात्रात् सामान्यार्घाद्वा जलं गृहीत्वा प्. ५३४) वामहस्तमध्यमानामिकाङ्गुष्थं मिश्रीकृत्य तदुपरि तज्जलं निक्षिपेद्यथा बलौ पतेत् ततश्च पूर्ववत् पुष्पाञ्जलिमादाय ॐ याः काश्चिद्योगिनी रौद्राः सौम्या घोरतराः पराः | खेचरीभूचरीव्योमचर्यः प्रितास्तु मे सदा || इत्युक्त्वा श्रीयोगिनीर्ध्यात्वाक्षतपुष्पापण्यञ्जलिस्थानि ताभ्योऽर्पयेत् | ॐ एष बलिर्योगिनीभ्यो न मम इत्युक्त्वा सामान्यार्घजलमुत्सृज्य नमस्कृत्य योन्या प्रणमेदिति - श्रीबालातन्त्रचन्द्रिकायां योगिनीबलिप्रयोगः सम्पूर्णः || ३- || तत्रैव || अथ श्रीक्षेत्रपालबलिः || ततो नैर्-ऋत्यकोणे श्रीबटुकबलिदानवन्मण्डलम् विधाय सम्पूज्य पूर्ववत् तत्र बलिपात्राधारं मुक्त्वा तत्र पूर्ववत् सदीपधूपबलिपात्रं निधाय ॐ क्षं क्षेत्रपालाय नमः इत्युक्त्वा तं ध्यात्वा चन्दनाक्षतपुष्पाणि आकाशे तस्मै समर्प्य नमस्कृत्य | ॐ श्रीक्षेत्रपालबलिद्रव्याय नमः इत्युच्चार्य बलिं चन्दनादिना सम्पूज्य | बलिपात्रात्तदभावे सामान्यार्घपात्राज्जलमादाय ॐ क्षां क्षीं क्षूं क्षैं क्षौं क्षः एह्येहि देवीपुत्र उच्छिष्टहारिन् मुहुर्मुहूरक्ष रक्ष क्षेत्रपाल सर्वविघ्नान्नाशाय नाशय सर्वोपचारसहितं इमं बलिं गृह्ण गृह्ण स्वाहा इत्युक्त्वा वामाङ्गुष्ठं तर्जनीं च मिश्रीकृत्य तज्जलं तत्र पातयेद्यथा बलौ पतेत् | ततस्तं प्रार्थयेद्यथा पुष्पाञ्जलिमादाय ॐ यं यं यं यक्षरूपं दशदिशिवदनं भुमिकम्पायमानम् | सं सं संहारमूर्ति शिरसि धृतजटाशेखरं चन्द्रबिम्बम् ||
SK
दं दं दं दीर्घकायं कृतनरवपुषं ऊर्ध्वरेखाकरालम् [अत्र चोर्ध्वरेखा० इति पाठः समीचीनः ||] | पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् || १|| यो यस्मिन् क्षेत्रवासी च क्षेत्रपालः सकिङ्करः | प्रीतोऽसौ बलिदानेन सर्वरक्षां करोतु मे | इति ध्यात्वा श्रीक्षेत्रपालाय पुष्पाञ्जलि समर्प्य - एष बलिः क्षेत्रपालाय न मम इति जलमुत्सृज्य योन्या प्रणमेदिति || इति श्रीक्षेत्रपालबलिः सम्पूर्णः || ४- तत्रैव || अथ श्रीगणपतिबलिः || ततो वायव्यकोणे श्रीबटुकबलिवन्मण्डलं विधाय सम्पूज्य पूर्ववत्तत्र बलिपात्राधारमुक्त्वा तत्र पूर्ववत् सदीपधूपं बलिपात्रं निधाय ॐ गं गणपतये नमः इत्युक्त्वा तं ध्यात्वा प्. ५३५) आकाशे गन्धाद्यर्पयेत् नमेच्च ततः श्रीगणपतिबलिद्रव्याय नमः इत्युक्त्वा बलिमपि पूजयेन्नमेच्च | ततः बलिपात्रात्तदभावे सामान्यार्घपात्राज्जलमादाय ॐ गां गीं गूं गैं ग्ॐ गः श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमनय सर्वोपचारसहितं इमं बलिं गृह्ण गृह्ण स्वाहा इत्युक्त्वा वामाङ्गुष्ठमध्यमे मिश्रीकृत्य पूर्ववत् बलौ जलं पातयेत् ततश्च पुष्पाञ्जलिमादाय सर्वदा सर्वकार्याणि निर्विघ्नं सधयाम्यहम् | शान्तिं करोतु मे नित्यं विघ्नराजः सदा क्रियाम् || इत्युक्त्वा तं ध्यात्वाकाशे पुष्पादि प्रक्षिपेत् | ॐ एष बलिः श्रीगणपतये न मम इति जलमुत्सृज्य योन्या प्रणमेच्च इति || इति श्रीगणपतिबलिः सम्पूर्णः || उपर्युक्तश्रीबटुकयोगिनीक्षेत्रपालगणपतीनां चतुर्णां देवानां बलिदानप्रार्थनयोरनन्तरं पुनश्चापि तांश्चतुरो देवान् प्रार्थयेत् अथवा स्वस्वदिशि एषां चतुर्णां चतुरो बलीन् पृथगेवोक्तरीत्या पूर्ववद्दत्वा प्रार्थयेद्यथा ॐ गणाधिनाथं बटुकं च योगिनीः | क्षेत्राधिनाथं च विदिक्चतुष्टये || सर्वोपचारैः परिपूज्य भक्तितो | निवेदयामो बलिमुक्तयुक्तिभिः || एवं श्लोकोक्तदेवान्नमस्कुर्यादित्यपरः पक्षः || इति || ५- तत्रैव० || अथ सार्वभौतबलिः ||
SK
चतुर्णां श्रीबटुकादिबलीनामुत्तरे (शुद्धोत्तरस्यां दिशि) श्रीबटुकादिबलिवन्मण्डलं विधाय ॐ श्रीसर्वभूतबलिमण्डलाय नमः इत्युक्त्वा तत्र चन्दनादि समर्प्य नमस्कृत्य | तत्राधारपात्रं संस्थाप्य तत्र सदीपधूपं बलिद्रव्यपूरितं पात्रं निधाय | ॐ ह्रीं सर्वभूतगण इहागच्छ आगच्छ सर्वभूतगणाय नमः इति चन्दनाक्षत पुष्पाद्याकाशे निक्षिप्य पुनश्च चन्दनाक्षताद्यादाय ॐ श्रीसर्वभूतबलिद्रव्याय नमः इत्युक्त्वा तत् पुष्पादिकं बलौ प्रक्षिप्य नमस्कुर्याच्च | ततो बलिपात्रात्तदभावे सामान्यार्घपात्राद्वा जलमादाय | ॐ ह्रीं सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं फट् इमं बलिं गृह्ण गृह्ण स्वाहा | प्. ५३६) इत्युक्त्वा वामाङ्गुष्ठतर्जन्यग्रमेकीकृत्य (अथवा वामहस्तसर्वाङ्गुलिभिः) तज्जलं बलौ प्रक्षिपेत् ततः पुष्पाञ्जलिमादाय ॐ भूता ये विविधाकारा दिव्यभूम्यन्तरिक्षगाः | पातालतलसंस्थाश्च शिवयोगेन भाविताः || १ || क्रूराद्याः शतसङ्ख्याकाः पाख्ण्डाद्या व्यवस्थिताः | तृप्यन्तु प्रीतमनसो भूता गृह्णन्त्विमं बलिम् || २ || नानावर्णाकृतैर्वक्रैर्नानाभूषाम्बरायुधैः | नानाभूतगणैर्यूथं सर्वभूतेश्वरं भजे || ३ || इत्युक्त्वा सर्वभूतगणेभ्य आकाशे तं पुष्पाञ्जलिं क्षिपेत् प्रणमेच्च || ततः एष बलिः सर्वभूतगणेभ्यो न ममेत्युक्त्वा जलमुत्सृज्य बाणमुद्रया भूतानि विसृज्य तृप्ताः सन्तो भूतगणाः प्रयाताः इति भावयेत् योन्या प्रणमेच्च | ततो हस्तपादं प्रक्षाल्य मूलेनाचम्य प्राणानायम्य स्वशरीरे सामान्यार्घजलं प्रोक्षणीपात्रजलं वा किञ्चित् सिञ्चेदिति || इति सर्वभूतबलिप्रयोगः सम्पूर्णः || ६- तत्रैव - || अथ मुख्यदेवाग्रे मुख्यबलिप्रयोगो यथा-
SK
ततः श्रीमुख्यदेवताग्रे अथवा श्रीयन्त्रसमीपे श्रीबटुकबलिवन्मण्डलं कृत्वा ॐ श्री-अमुकदेवताबलिमण्डलाय नमः इति सम्पूज्य | तत्र पूर्ववदाधारपात्रमास्थाप्य चतुर्मुखदीपप्रदीप्तं सधूपं बलिद्रव्यपूरितं बलिपात्रं निधाय | ततो गन्धाक्षतपुष्पाण्यादाय सप्रणवं मूलं पठित्वा सपरिवारायै श्री-अमुकमुख्यदेवतायै नमः | इत्युक्त्वा गन्धाक्षतपुष्पैरर्चयित्वा | पुनश्च गन्धाक्षतपुष्पाण्यादाय ॐ श्री-अमुकप्रधानदेवताबलिद्रव्याय नमः गन्धाक्षतपुष्पाण्यर्पयामि नमस्करोमीत्युक्त्वा तद् गन्धादिकं बलेरुपरि प्रक्षिप्य प्रणमेत् | ततश्च बलिपात्रात् सामान्यार्घपात्राद्वा जलमादाय ॐ ह्रीं साङ्गायै सपरिवारायै सवाहनायै सायुधायै सशक्तिकायै (श्रीमदमुकेश्वरसहितायै) श्री-अमुकमुख्यदेवतायै नमः | ॐ एह्येहि जगतां मातर्जननि इमं समीपं बलिं गृह्ण गृह्ण सिद्धिं देहि देहि शत्रुक्षयं कुरु कुरु ऐं ह्रीं हुं फट् स्वाहा || इत्युक्त्वा देवतीर्थेन तज्जलं बलावर्पयेत् मूलेन पुष्पाञ्जलिमर्पयेत् प्रणमेच्च | ततश्च एष बलिः श्री-अमुकमुख्यदेवतायै न मम इत्युक्त्वा जलमुत्सृज्य योन्या प्रणमेदिति | प्. ५३७) इति मुख्यदेवताबलिः सम्पूर्णः || इति श्रीसर्वसाधारणत्वेन श्रीबालातन्त्रचन्द्रिकाग्रन्थस्थावरणपूजाङ्गश्रीबटुकादिमुख्यदेव- तान्तबलिप्रयोगः सम्पूर्णः || इदं बलिविशेषकं हि परिशिष्टमुक्तं मया न तत्र मम किञ्चिदप्यभिहितं शिवोच्छिष्टकम् | स्वतन्त्रनिजतन्त्रतश्च विदधीत वै तान् बलीन् यथाधिकृति साधकः परममम्बिकाराधकः || प० क० सू० द्वितीयावृतीकर्त्ता- || (३०-३ | २४ वि० सं०) ३०-३ | २५ || पूर्वतन ४८९ पत्रगत १३-३० | ८-३० | ९ विषयस्थापूर्णमहनैवेद्यविधिसमाप्तिः - एवमावरणपूजाङ्गहोमं निर्वर्त्य पुनश्चापि योनिमुद्रया प्रणमेदित्यतोऽपूर्णो महानैवेद्यविधिरधस्तनविधया सुधिया पूरयितव्यः इति - स यथा-
SK
एवं हवनबल्यात्मकमहानैवेद्याशनेन स्वेष्टदेवतामतितृप्तां विभाव्य सामान्यार्घजलं गृहीत्वा ॐ० अमृतापिधानमसि स्वाहा इति (पश्चादाचमनं० श्री० मा० पू० श्लोकं) पठित्वा ॐ उत्तरापोशनं समर्पयामि इत्युक्त्वा तत् सामान्यार्घजलं स्वेष्टदेवतायै समर्प्य | (तत उष्णोदकैः० म० पू० ३५ श्लोकं पठित्वा |) ॐ० नमः हस्तप्रक्षालनं स० मुखप्रक्षालनं स० गण्डूषपाद्यादिकं करोद्वर्तनाय गन्धांश्च समर्पयामि इत्युक्त्वा इष्ट देव्यै यन्त्रे वा सामान्यार्घजलं त्रिरर्पयेत् | ततो मुख्यदेवतायै निवेदितं नैवेद्यपात्रम् ॐ अस्त्राय फट् इत्युक्त्वा नैर्- ऋत्यकोणे अथवा पूजास्थानाद् बहिर्भूतपवित्रस्थले निदध्यात् हस्तौ क्षालयेच्च | तत आचमनीयपात्रादथवा सामान्यार्घपात्राज्जलमादाय (ॐ अतिशीत० इति पत्रस्थं ३६ श्लोकमन्त्रमथवा) ॐ० गङ्गोत्तरीवेगसमुद्भवेन सुशीतलेनातिमनोहरेण || त्वं पद्मपत्राक्षि ! मयार्पितेन शङ्खोदकेनाचमनं गृहाण || इति श्लोकमथवोभावपि पठित्वा ॐ नमः नैवेद्यान्ते शङ्खोदकेनाचमनं स० इत्युक्त्वा तज्जलं श्रीकरे वा श्रियन्त्रराजस्योपरि वा समर्पयेत् || एवमाचमनं दत्त्वाऽनन्तरं सामान्यार्घजलेन पुनरपि श्रीहस्तं क्षालयेदिति || प्. ५३८) इति श्रीबालातन्त्रचन्द्रिकास्थस्तान्त्रिको महानैवेद्यविधिः सम्पूर्णः || अत्रापूर्णं सुधिया स्वस्वसम्प्रदायानुसारित्वेन पूरणीयं किमधिकं तद्विदां पुरः प्रचुरप्रतिपादनेन एवमन्तर्गतहवनबल्यात्मकमहानैवेद्यसमाप्तेरूर्ध्वमधस्तनरीत्या श्रीष्टदेवतायै ताम्बूलादिमुखवासं समर्पयेदिति || ३०-३ | २६- || देवाय नैवेद्यार्पणफलम् || स्कान्दे यथा- नानाव्यञ्जनसंयुक्तं रसषट्केन संस्कृतम् | निवेद्याऽन्नं समाप्नोति फलं यज्ञाधिकं द्विज ! | इति || इति श्रीमहानैवेद्यान्तर्गतश्रीबटुकादिप्रधानदेवतान्तबलिविधिसहितो महानैवेद्यविधिः सर्वोऽपि सम्पूर्णः || (१३ | ३०-३ वि० सर्वः सं०) श्रीः
SK
द्वि० प० वि० १३ | ३१- || श्रीपरदेवतायै ताम्बूलादिमुखवासफलदक्षिणासमर्पणम् || तत्रादौ- || ताम्बूलसाहित्यधृक् श्रीदूतीध्यानम् || श्रीबलातन्त्रचन्द्रिकायां ३२२ पत्रे यथा- १ || ताम्बूलादिमुखवाससाहित्यसम्भृतरत्नखचितहिरण्मयानर्घ्यताम्बूल- करण्डधारिणी- श्रीदूतीर्ध्यायेद् यथा - ॐ कर्पूरादिकवस्तुजातमखिलं सौवर्णशृङ्गारकं ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणं || विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ! || इत्युक्त्वा श्रीपराम्बिकामहासिंहासनपरितः स्थिताः ताम्बूलकरण्डहस्ताः श्रीदूतीर्ध्यायन् नमेत् || २ | १ अथ ताम्बूलादिमुखवासार्पणं तत्र वैदिकतान्त्रिकमन्त्राश्च || ॐ यत् पुरुषेण० - ॐ याः फलिनीर्या० इति वैदिकमन्त्रद्वयं पठित्वा प्. ५३९) २ || ॐ देवानां ललनादिभिः प्रदलितं कर्पूरचूर्णाकुलम् पूगीनागलतादलं मुहुरहो मातर्मया तेऽर्पितम् || स्वर्णालङ्कृतरत्नपात्ररचितं शैत्यं पयः पीयताम् ताम्बूलं पुनरर्पयामि मनसा श्रीसुन्दरि ! स्वीकुरु || श्री० मा० पू० ३ || ॐ पूगीनागलतादलं जलकणाकर्पूरचूर्णाकुलम् जतीपत्रलवङ्गलाङ्गलिफलं द्राक्षाकषायान्वितम् || जिह्वोष्ठाधरपल्लवोज्ज्वलकरं कन्दर्पदर्पोदितम् ताम्बूलं परमेश्वरि ! प्रियतरं दत्तं मया गृह्यताम् || श्री० मा० पू० इमौ द्वौ श्लोकौ पठित्वा ॐ० नमः मुखवासार्थे पूगीफलताम्बूलं च समर्पयामि ४ अथवा श्रीमानसपूजोक्तताम्बूलार्पणश्लोकमन्त्रा यथा - कर्पूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः | मातः ! केतकिपत्रकेन्दुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु || ४७ || ५ || तत्रैव - एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरसुमिश्रितानि | ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि ! समर्पयामि || ४८ || ६ || तत्रैव-
SK
ताम्बूलवल्लिदलनिर्जितहेमवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् || रत्नस्थलीस्थितमिदं खदिरेण सार्धं ताम्बुलमम्ब ! वदनाम्बुरुहे गृहाण || ४१|| ७ || अथवा- श्री० दु० क० पुस्तिकायां १६९ पत्रोक्तताम्बूलार्पणश्लोक- मन्त्रो यथा- ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् || स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै- र्दीपैरुज्जवलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् [एतेषां श्लोकमन्त्राणामेको वा सर्वेऽपि वा यथावकाशं पाठ्याः ||] || ९ || इति || प्. ५४०) उपरितनान् सर्वानेकं वा पठित्वा द्वाभ्यां चतुर्भिस्ताम्बुलैर्वा सुविरचितां ताम्बूलवीटिकां श्रीपुरतो धृत्वा यथामिलितताम्बूलं समर्पयामीत्युक्त्वा० श्रीयै सामान्यार्घजलमर्पयेदिति || (३१ | २ तथा च १३-३१ वि० सर्वः सं०) १३ | ३२ || अथ फलार्पणम् || श्रीष्टदेवतायै फलार्पणे श्लोकमन्त्राःश्री० बा० तं० चं० ११३-११४ पत्रयोः श्रीबालामानसोपचारस्तोत्रे यथा- १ || एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरविमिश्रीतानि | ताम्बूलवल्लीदलसंयुतानि फलानि ते देवि ! समर्पयामि || ४० || इति || एतस्मिन् समयेऽधस्तनश्लोकद्व्योक्तान्यपि नानाफलान्यर्पणीयानि तानि च तत्रैव यथा - २ || [इमानि फलानिपूर्वदत्तताम्बूलतो भिन्नान्यखण्डितानि चेति सुबुद्धिविलसितमास्तामिति प० क० सू० द्वितीयावृत्तिकारः || आताम्ररम्भाफलसंयुतानि द्राक्षाफलाक्षोटसमन्वितानि | सनारिकेलानि सदाडिमानि फलानि ते देवि ! समर्पयामि ||३७ || ३ तत्रैव || कलिङ्गकोशातकसंयुतानि जम्बीरनारिङ्गसमन्वितानि सबीजपूराणि सदाडिमानि फलानि ते देवि ! समर्पयामि || ३८ || इति ||(१३ | ३२ वि० सं०) १३ | ३३ || अथ महादक्षिणार्पणं || दक्षिणायां ज्ञेयं यथा- १ || पूजान्ते दीयमानेयं महादक्षिणा सद्धनिनां कृते रौप्यसौवर्णान्यतममुद्रात्मिका ज्ञेया || २ || स्वल्पधनिनां कृते च स्वल्पद्रव्यादानात्मिका ज्ञेया- ३ केवलविरक्तानां कृते च यथालब्धं किञ्चिन्निवेदनीयमिति विवेकः -
SK
प्. ५४१) ४ अत्रैकः प्रश्न उपतिष्ठते यथा- किमेषा दक्षिणा भक्तकृते अथवा देवताकृते ?- यदि देवतार्थिका स्यात्तदा महाधनादिसम्पत्त्प्रदात्र्यै श्रीभगवत्यै दक्षिणादानानौचित्यात् तद्दानमयुक्तं स्यात् ततो भक्तजनार्थमात्रैवेयं दक्षिणेति निश्चीयते || इति || प० क० सू० द्वितीयावृत्तिकारः || ५- || दक्षिणार्पणे विशेषश्लोकमन्त्रः || श्रीमद्जगद्गुरुपूज्यपादश्रीशङ्कराचार्यकृतबालामानसपूजाश्रीविद्या मानसपूजास्तोत्रयोर्यथा- अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः || मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि ! कनकवृष्टिं दक्षिणां तेऽर्पयामि || ४२ || इति || (१३ | ३३ वि० सर्वः सं०) १३ | ३४ || पूजान्ते क्रियमाणो जपः कदा कार्यस्तत्र विचारः || गा० पु० पद्धतौ० तु ४७-५५ पत्रयोस्त्वयं जपः नीराजनानन्तरं मन्त्रपुष्पानन्तरं चोपात्तस्ततो यथार्हमनुष्ठेयमिति प० क० सू० द्वितीयावृत्तिकारः || अत्रानुगत द्वि० प० शि० १३-३ | १ विषयो दृश्यः || इति || वि० ३५ | १ || [एतज्जपकारणसमयप्रमाणायानुगत द्वि० प० शि० १३ | ३०-२ | १० वि० गतटीपण्यादि दृश्यम् | तथात्रैव विषये पुरस्तनः १३ | ३५-१ | २-५ वि० दृश्यः] जपविषये || १ || सर्वेषां कर्मणां जपयज्ञः श्रेषठः तत्र प्रमाणम् || योगिनीतन्त्रे १३ पटले ७५ पत्रे श्रीगुरुगुरुश्रीशिवोक्तं यथा- सर्वेषां कर्मणां श्रेष्ठं जपज्ञानं महेश्वरि!| जपयज्ञो महेशानि ! मत्स्वरूपो न संसयः || इति || जपेन देवता नित्यं स्तूयमाना प्रसीदति || प्रसन्नाविपुलान् कामान् दद्यान्मुक्तिं च शाश्वतीम् || इत्यादि तत्रैव ७६ पत्रे - तथैव श्री० भ० गी० १० अ० २५ श्लोके यथा - २ || यज्ञानां जपयज्ञोऽस्मि स्थावरणां हिमालयः || इति || प्. ५४२) ३ || जपयज्ञः वैदिकतान्त्रिकधर्मेभ्योऽपि श्रेष्ठः || या० तं० १३ पटले ७५ तत्रे यथा- वैदिकास्तान्त्रिका ये ये धर्माः सन्ति महेश्वरि ! | सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् || इति || (३५ | १ सर्वः सं०)
SK
३५ | २ || जपयज्ञो द्विविधः तत्फलं च || तत्रैव यथा- १ || जपयज्ञे हि तिष्ठेद् यो बाह्ये वा चान्तरेऽपि वा | सर्वदा परमेशानि ! जीवन्मुक्तो न संशयः || इति || २- || जपयज्ञस्य विधा गुणश्च || तत्रैव ७६ पत्रे यथा- उपांशुः स्यात् शतगुणः सहस्रो मानसो मतः | मन्त्रमुच्चारयेद्वाचा वाचिको जप ईरितः || किञ्चित् सुश्रवणोपेत उपांशुः परिकीर्त्तितः | निजकर्णागोचरो यो मानसः परिकीर्त्तितः | वाचिकस्तु जपो बाह्यो मानसोऽभ्यन्तरो मतः || उपांशुर्मिश्र एव स्यात् त्रिविधोऽयं जपः स्मृतः || इति || ३- तथैव मनुः यथा - विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः | उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः || इति || य० आ० सू० ५३ पत्रे ४ तथैव नृसिंहपुराणे || यथा- त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत | वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः || त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः || एतेषां लक्षणान्याह विश्वामित्रः - यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः | मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः || शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ च चालयेत् | अपरैर्न श्रुतः किञ्चित् स उपांशुर्जपः स्मृतः || प्. ५४३) धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात् पदम् | शब्दार्थचिन्तनं भूप ! कथ्यत मानसो जपः || इति य० आ० सू० ५३ पत्रे (३५ | २ वि० सं०) ३५ | ३-१ जपकरणविधिकारिकाः महानिर्वाणतन्त्रे ६ उल्लासे यथा- होमकर्मसमाप्यैवं साधको जपमाचरेत् || १६५ || विधानं शृणु देवेशि ! येन विद्या प्रसीदति | देवतागुरुमन्त्राणामैक्यं सम्भावयेधिया || १६६ || मन्त्राणां देवता प्रोक्ता देवता गुरुरूपिणी | अभेदेन यजेद् यस्तु तस्य सिद्धिरनुत्तमा || १६७ || गुरुं शिरसि सञ्चिन्त्य देवतां हृदयाम्बुजे | रसनायां मूलविद्यां तेजोरुपां विचिन्त्य च || त्रयाणां तेजसात्मानमेकीभूतं विचिन्तयेत् || १६८ || तारेण सम्पुटीकृत्य मूलयन्त्रञ्च सप्तधा | जप्त्वा तु साधकः पश्चान्मातृकापुटितं स्मरेत् || १६९ ||
SK
मायाबीजं स्वशिरसि दशधा प्रजपेत् सुधीः | वदने प्रणवं तद्वत् पुनर्मायां हृदम्बुजे || प्रजप्य सप्तधा मन्त्री प्राणायामं समाचरेत् || १७० || ततो मालां समादाय प्रवालादिसमुद्भवाम् | माले ! माले ! महाभागे ! सर्वशक्तिस्वरूपिणि ! || १७१ || चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव || इति सम्पूज्य मालां तां श्रीपात्रस्थामृतेन च || १७२ || त्रिधा मूलेन सन्तर्प्य स्थिरचित्तो जपं चरेत् | अष्टोत्तरसहस्रं वाप्यथवाष्टोत्तरं शतम् || १७३ || प्राणायामं ततः कृत्वा श्रीपात्रजलपुष्पकैः | गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् || १७४ || सिद्धिर्भवतु मे देवि ! त्वत्प्रसादान्महेश्वरि ! | इति मन्त्रेण मतिमान् देव्या वामकराम्बुजे || १७५ || तेजोरूपं जपफलं समर्प्य प्रणमेद्भुवि ततः कृताञ्जलिर्भूत्वा स्तोत्रञ्च कवचं पठेत् || १७६ || इति || प्. ५४४) ३५-३ | २ || श्रीगुरुगुरुश्रीशङ्करोक्तं जपकर्तृकर्तव्यम् || जपकरणस्थलं - कुलार्णवतन्त्रे १५ उल्लासे १३६ पत्रे यथा- पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् | तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् || उद्यानानि विविक्तानि बिल्वमूलं तटं गिरेः | देवतायतनं कूलं समुद्रस्य निजं गृहम् || साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् | अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति || सूर्य्यस्याग्नेर्गुरेरिन्दोर्दीपस्य स्यन्दनस्य च | गोरक्षकुलवृक्षाणां सन्निधौ शस्यते जपः || गृहे शतगुणं विन्द्याद्गोष्ठे लक्षगुणं भवेत् || कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ || म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवर्जितः | एकान्तपावने निन्दारहिते भक्तिसंयुते || स्वदेशे धार्मिके देशे सुभिक्षे निरुपद्रवे | रम्ये भक्तजनस्थाने निवसेत्तापसाश्रये || राजानः सचिवा राज्ञः प्रभवाः पुरुषा जनाः | चरन्ति येन मार्गेण निवसेत्तत्र मन्त्रवित् || जीर्णदेवालयोद्याने गृहे वृक्षतलेषु च | नदीतडागकूपेषु भूच्छिद्रादिषु नो विशेत् ||
SK
दीपनाथमविज्ञाय यो जपादिकमाचरेत् | वंशाश्मधरणीदारुतृणवन्नवनिर्मितम् || वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् | तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् || कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् | पद्मस्वस्तिकवीरादिष्वासनेषुपविश्य च || जपार्चनादिकं कुर्य्यादन्यथा निष्फलं भवेत् | द्वादशावर्त्तयेद्बुद्ध्या प्रणवन्तु त्रिमातृकम् || मुञ्चेत् पिङ्गलया वायुं अन्तस्थं रेचको भवेत् | षोडशावर्त्तकं तारं पूरयेद्बाह्यमारुतम् || प्. ५४५) शनकैरिडया बद्वा पूरकं परिकीर्त्तितम् | द्वादशावर्तकं तारं वायुमध्ये तु कुम्भयेत् || शोषयेद्वायुबीजेन देहशोषणमीरितं | पुनश्च पूरयेद्वायुं विरच्यापूर्य्य कुम्भयेत् || देहं दहनबीजेन देहदाहनमीरितम् | पुनश्च पूर्ववद्वायुं विरेच्यापूर्य्य कुम्भयेत् || शिवकुण्डलिनीयोगस्पन्दनामृतधारया | आपादमस्तकं देवि ! प्रापयेत् प्लावनं भवेत् || जपो ध्यानं विना गर्भः सगर्भस्तद्विपर्य्ययः | अगर्भगर्भसंयुक्तः प्राणायामः शताधिकः || तपांसि तीर्थयात्राद्यमथ दानव्रतादयः | प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् || मानसं वाचिकं पापं कायिकं वापि यत् कृतम् | तत् सर्वं निर्दहेच्छीघ्रं प्राणायामत्रयेण वै || दह्मते ध्मायमानानां धातूनाञ्च यथा मलम् | तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् || प्राणायामैर्विशुद्धात्मा यद् यत् कर्म करोति हि | तत्तत् फलत्यसन्देहादप्रयत्नेन वा कृतम् | आगमोक्तेन मार्गेण न्यासं नित्यं करोति यः | देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते || यो न्यासकवचच्छन्दो मन्त्रं जपति च प्रिये ! | विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्ट्वा यथा गजाः || अकृत्वा न्यसजालं यो मूढत्वात् प्रजपेन्मनुम् || बाध्यते सर्वविघ्नैश्च सिंहैर्मृगपशुर्यथा || अक्षमाला द्विधा प्रोक्ता कल्पिताकल्पितेति च | कल्पिता मालाभिः कॢप्ता मातृका स्यादकल्पिता || आदिक्षान्ताक्षरान्तत्वादक्षमालेति कीर्तिता | अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः || प्. ५४६)
SK
एकैकमङ्गुलिभिः स्याद्रेखाभिर्दशधा फलम् | मालाभिः शतसाहस्रं मालिन्यानन्तमुच्यते || त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् || पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके || पञ्चाशद्भिः कुलेशानि ! सर्वसिद्धिरितीरिता | अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी || मध्यमा धनदां विद्यात् शान्तिकर्मण्यनामिका | कनिष्ठा स्तम्भनाकर्षि चाङ्गुलिषु प्रकीर्तिता || एतावच्च जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित् | स्थिरासनो जपित्वा च देव्यै सोदकमर्पयेत् || उच्चैर्जपोऽधमः प्रोक्त उपांशुर्मध्यमः स्मृतः | उत्तमो मानसो देवि ! त्रिविधः कथितो जपः || अतिह्रस्वो व्याधिहेतुरतिदीर्घे तपक्षयः | अक्षराक्षरसंयुक्त्या जपेन्मौक्तिकपङ्क्तिवत् || मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् | उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा || जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् | सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति || अतस्तद्रहितं कृत्वा मन्त्रमावर्तयेत् सदा || सूतकद्वयासंयुक्तो यो मन्त्रः स हि सिध्यति | मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः || शतकोटिजपेनापि तस्य सिद्धिर्न जायते | गुप्तवीर्य्याश्च ये मन्त्रा न दास्यन्ति फलम् प्रिये ! || मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः | चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् || फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि | मन्त्रोच्चारे कृते यादृक स्वरूपं प्रथमं भवेत् || शतैः सहस्रैर्लक्षैर्वा कोटिजापेन तत् फलम् | हृदये ग्रन्थिभेदश्च सर्वावयववर्द्धनम् || प्. ५४७) आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि | गद्गदोक्तिश्च सहसा जायते नात्र संशयः || सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसम्पुटे | दृश्यन्ते प्रत्यया यत्र पारम्पर्यं तदुच्यते || बहुकूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः | बालः कुमारो युवको वृद्धः प्रौढश्च गर्वितः ||
SK
स्तम्भितो मूर्च्छितः कष्टः संवीतः खण्डितः प्रिये ! | मन्त्रः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः || केकरः क्षुधितः कॢप्तः स्थानदुष्टश्च पीडितः | निस्नेहो विकलः स्तब्धो निर्जीवः खण्डितारिकः || सुप्तस्तिरस्कृतो लीढो मलिनश्च दुरासदः | निःसत्वो निर्दयो दग्धश्चपलश्च भयङ्करः || निस्त्रिंसो विकृताचारः फलहीनो निकृन्तनः | निर्बीजो भूमितः शप्तो रूक्षः कृष्टोऽङ्गहीनतः || जडो रिपुरुदासीनो लज्जितो मोहितः प्रिये ! | सन्त्येतान् मन्त्रदोषांश्च ज्ञात्वा पश्चाज्जपेन्मनुम् || सिद्धिर्न जायते तस्य लक्षकोटिजपादपि | कथ्यन्ते दशसंस्कारा मन्त्रदोषहराः प्रिये ! || जननं जीवनं पश्चात्ताडनं बोधनं ततः | अभिषेकोऽथ विमलीकरणाप्यायने तथा || तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके ! | शाणोल्लीढानि शस्त्राणि यथास्युर्निशितानि वै || मन्त्राश्च स्फूर्तिमायान्ति संस्कारैर्दशभिस्तथा | भक्ष्यं हविष्यं शाकादिविहितानि फलान्यपि || मूलं सक्तुर्यवानाञ्च शस्तान्येतानि मन्त्रिणाम् || यस्यान्नपानमश्नाति कुरुते धर्मसञ्चयम् || अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः || तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः || पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि ! || प्. ५४८) जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् | मनो दग्धं परस्त्रीभिः कार्य्यसिद्धिः कथं भवेत् || इन्द्वग्निरुद्रग्रहयुग्वेदार्कदिक्षडष्टसु || षोडशमनुबाणाब्धितिथित्रयोदशस्वपि | लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः || स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम् | सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् सिद्धादिभिः पुनः || सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः | सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् || साध्यसिद्धोऽतिसङ्क्लेशात् साध्यसाध्यो निरर्थकः | साध्यसुसिद्धो भजनात् साध्यारिर्हन्ति गोत्रजान् || सुसिद्धसिद्धोऽर्द्धजपात् तत्साध्यस्तु यथोक्ततः | तत् सुसिद्धो ग्रहादेव सुसिद्धारिः सगोत्रहा ||
SK
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् | तत् सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः || सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः || सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः || बान्धवा नवबाणैकाः स्युर्द्विषड्दशसेवकाः | प्रापलेपपटुप्राप [अत्राशुद्धं शोध्यं-]रुद्रश्चातिवकं नरः || लोकालोकपटुप्रापघनघातेषु भेदितः || वर्णाः क्रमात् युवान्त्यौ तु रेवत्यंशगतौ तयोः || जन्मसम्पद्विपत्क्षेमप्रत्यरिः साधको वधः | मित्रं परममित्रश्च जन्मादीनि पुनः पुनः || बाणं गौरं खुरं शोणं समीनो भेति राशिषु | क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः || लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः | मरणं धर्मकर्मायव्यया द्वादश राशयः || नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् | त्रिधा कृत्वा स्वरैर्भिन्द्यात् तदन्यद्विपरीतकम् || प्. ५४९) कृत्वाधिकमृणं ज्ञेयमृणी चेन्मन्त्रवित्तमः | स्वयमृणी चेत्तन्मन्त्रं जपेत् पूर्वमृणी यतः || वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः स्थिताः | महीसलिलयोर्मित्रमनिलानलयोरपि || शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम् | परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः || वर्जयेत्तादृशं मन्त्रं नासकृत् तत् कुलेश्वरि ! | एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायके || स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् | मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च || मालामन्त्रेषु देवेशि ! सिद्धादीन्नैव शोधयेत् | नृसिंहार्कवराहाणां प्रासादप्रणवस्य च || सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् | मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः || न सिध्यति वरारोहे ! लक्षकोटिजपादपि | वादार्थं पठ्यते विद्या परार्थं क्रियते जपः || ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने ! | धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः || अमेध्येन तु देहेन न्यासं देवार्चनं जपम् | होमं कुर्वन्ति ये मूढास्तत् सर्वं निष्फलं भवेत् ||
SK
विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः | जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये ! || मलिनाम्बरकेशादिमुखदौर्गन्ध्यसंयुतः | यो जपेत्तं दहत्याशु देवता सुजुगुप्सितम् || आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् | नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत् || अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः | अन्यासङ्गञ्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति || उष्णिषी कञ्चुकी नग्नो मुक्तकेशो गणीवृतः | अपवित्रोत्तरीयस्तु निर्गच्छन्न जपेत् प्रिये ! || प्. ५५०) जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् | बहिःस्वदेशवासं च जपकाले विवर्जयेत् || शान्तः शुचिर्मिताहारे भूशायी भक्तिमान् वशी | निर्द्वन्द्वः स्थिरधीर्मौनी संयतात्मा जपेत् प्रिये ! || विश्वासास्तिक्यकरुणाश्रद्धानिष्ठमनिश्चयैः | सन्तोषौत्सुक्यधर्मादिगुणैर्युक्ते जपेन्नरः || सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः | तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः || तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः | तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये ! || जपात् श्रान्तः पुनर्ध्यायेत् ध्यानात् श्रान्तः पुनर्जपेत् | इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् || समासेन कुलेशानि ! किम्भूयः श्रोतुमिच्छसि || इति || इति कुलार्णवे महारहस्ये पुरश्चरणकथनं नाम पञ्चदश उल्लासः || वि० १३ | ३५-३-३ जपस्थानशुद्धिः | व्यासः यथा- धृत्वा पवित्रं सम्प्रोक्ष्य जपस्थानं कुशोदकैः | आधारादीन् नमस्कृत्य कुशाग्रैरासनं ततः || बद्ध्वा पद्मासनं वापि स्वस्तिकं वा यथा सुखम् | ॐ भूर्भुवः स्वरोमिति जपित्वासनमुपविशेत् || इति || य० आ० सू० ५३ पत्रे - ४ || जपसमये शिरोग्रीवादिकम्पनादिनिषेधः जपगुह्यकरणमपि || तत्रैव श्रीयाज्ञवल्क्यः || ध्यायेत्तु मनसा मन्त्रं जिह्वोष्ठौ न विचायेलत् | न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ||
SK
यक्षरक्षः पिशाचाश्च सिद्धविद्याधरा गणाः | यस्मात् प्रभावं गृह्णन्ति तस्माद्गुह्यं तु कारयेत् || इति || तत्रैव || (३५-३ वि० सर्वः सं०) ३५-४ || जपसमये समालिको हस्तः कुत्र स्थाप्यः ? || तत्रैव धर्मप्रवृत्तौ यथा- प्. ५५१) प्रातर्नाभौ करं कृत्वा मध्याह्ने हृदि संस्थितम् | सायं जपति नासाग्रे जपस्तु त्रिविधः स्मृतः || प्रातर्मध्याह्नयोस्तिष्ठन् गायत्रीजपमारभेत् | ऊर्ध्वजानुस्तु सायाह्ने ध्यानालोकनतत्परः || कृत्वोत्तानौ करौ प्रातः सायं न्युब्जौ करौ तथा | मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् || इति || इदं श्रीगायत्रीजपमात्रविषयकं - ५ || नित्यकाम्यधर्मेण जपे मालाग्रहणाग्रहणयोः || गा० पु० पद्धतौ ५५ पत्रे वसिष्ठसंहितायां यथा - नित्यं जपं करे कुर्यान्न तु काम्यं कदाचन || इति || ६ || जपकरणे मालायुक्तहस्तस्य गौमुखीवस्त्रान्यन्तरच्छादनावश्यकत्वम् | वृद्धमनुः यथा- वस्त्रेणाच्छाद्य तु करं दक्षिणं यः सदा जपेत् | तस्य स्यात् सफलं जाप्यं तद्धीनमफलं स्मृतं || अत एव जपार्थं सा (गोमुखी) ध्रियते जनैः || इति || य० आ० सू० ५३ पत्रे ७ || पुरश्चरणमन्तरा जपे सङ्ख्याविकल्पः || व्यासः यथा- अष्टोत्तरशतं नित्यमष्टाविंशतिरेव वा | विधिना दशकं वापि त्रिकालेषु जपेद्बुधः || इति || तत्रैव ८ || जपसमये मूलमन्त्रस्य उच्चारसङ्केतः श्रीविश्वामित्रः यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः | मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः || इति || तत्रैव ९ || जपसङ्ख्यासमाप्तौ च माला चेत्तां स्वमूर्ध्नि निधाय षडङ्गन्यासादि विधाय गुह्येति तेजोमयं जपफलमिष्टदेवतायै समर्प्येत्यादिविधिः स्वगुरूपदिष्टसम्प्रदायेन पर्यवसादयितव्य इत्यलं तद्विदां पुरतः | इति-प० क० सू० द्वितीयावृत्तिकारः - १०-१ || जपकरणफलम् || योगिनितन्त्रे १३पटले ७५ पत्रे यथा- प्. ५५२) ग्रहभूतपिशाचाद्या यक्षरक्षोगणाश्च ये | व्याग्राद्या जन्तवो देवि ! तथैव कुपितान्तराः ||
SK
डाकिन्यो गुह्यकाश्चैव गन्धर्वाश्च सरीसृपाः | दानवा भैरवा दुष्टा ये वै श्मशानवासिनः || केऽपि नेक्षन्ति तं देवि जापिनं भयविह्वलाः | न स्पृशन्ति च पापानि च कदापि साधकं प्रिये ! || फलमेतद्वाचिकस्य जपस्य परिकीर्तितं || इति || १०-२ पुनश्चापि जपयज्ञफलं गौरवं च || तत्रैव - जपेन देवता नित्यं स्तूयमाना प्रसीदति | प्रसन्ना विपुलान् कामान् दद्यान्मुक्तिं च शाश्वतीम् || साधनं च जपश्चैव ध्यानञ्चैव वरानने ! | नाल्पेन तपसा देवि ! केनापि कुत्र लभ्यते | यदि भाग्येन देवेशि ! बहुजन्मार्जितेन च || प्राप्यते यत्र तच्चेत्तु जन्मनाप्येकमोक्षभाक् | ब्रह्मज्ञानञ्च यत् प्रोक्तं समाधिस्तत् प्रकीर्त्यते || इत्येवं कथितं रम्यं समासेन महेश्वरि ! | इतः परं महादेवि ! किं पुनः श्रोतुमिच्छसि || इति || १०-३ || जपफलं || वामकेश्वरतन्त्रे २ विश्रामे १०२ पत्रे यथा- चक्रं समर्चयेद्देवि ! सकलं नियतव्रतः | बाह्यमध्यगतं वाऽपि मध्यं वा चक्रमर्चयेत् || उपचारैः समाराध्य सहस्रं प्रजपेद्बुधः | तदग्रे संस्थितो मन्त्री ततोऽनन्तफलं लभेत् || ध्यात्वाऽथ वा चक्रराजं मनःपूजासमन्वितः | जपारम्भं सुधीः कुर्यान्महापातकहा भवेत् || इति || १०-४ तथैव तत्रैव १०४ पत्रे यथा- तत्र स्थित्वा जपेल्लक्षं साक्षाद्देवीस्वरूपकः || ततो भवति विद्येयं त्रैलोक्यवशकारिणी || इति || १०-५ तथैव तत्रैव १०५ पत्रे श्रीक्रमसंहितायां यथा- लक्षमेकमिमां जप्त्वा सर्वपापहरो भवेत् || इति || प्. ५५३) १०-६ || तथैव ५ विश्रामे १६२ पत्रे यथा- श्रीदेव्युवाच- इदानीं जपहोमानां विधानं वद शङ्कर ! | येनानुष्ठितमात्रेण मन्दभाग्योऽपि सिध्यति || २ || श्रीभैरव उवाच - शृणु देवि ! प्रवक्ष्यामि त्रिपुरामन्त्रसाधनम् | जपहोमविधानं च समीहितफलप्रदम् || ३ || अत्र भाष्यं - मन्त्रसाधने हि द्वावुपायौ यावज्जीवं नियतो जपः पुरश्चरणरूपश्च |
SK
ऐहिके काम्यप्रयोगे तु पुरश्चरणं विना नाधिकारः | आमुष्मिकमात्रार्थे पुरश्चरणं विनाऽपि नित्यजपमात्रेण निर्वाह इति स्थितिः || ३ || तत्राऽद्यमाह- चक्रमभ्यर्च्य सकलं विधिवत् परमेश्वरि ! | मध्यं वा केवलं देवि ! बाह्यमध्यगतं च वा || ४ || तदग्रसंस्थितो मन्त्री सहस्रं यदि वा जपेत् | व्रतस्थः परमेशानि ! ततोऽनन्तफलं भवेत् || ५ || अत्र भाष्यं- त्रिविधचक्रार्चनेषु पूर्वोक्तेषु शक्त्यनुसारेणैकं कृत्वा प्रत्यहं सहस्रं नियमविशिष्टो जपेदित्यर्थः || इति || १०-७ तथैव तत्रैव ८ विश्रामे ३४६ पत्रे यथा- एवं चिन्तयमानस्य जपकाले तु पार्वति ! | सिद्धयः सकलास्तूर्णं सिद्ध्यन्ति त्वत्प्रसादतः || १९७ || जपविधिमुपसंहरन् कतिचिद् गुणविधीनाह- एवं कृत्वा जपं देव्या वामहस्ते निवेदयेत् | अनामाङ्गुष्ठयोगेन तर्पयेच्चक्रदेवताः ||१९८ || त्स्यं सं था द्यं म मां त म देव्यै तु विनिवेदयेत् | कौलाचारसुसंयुक्तैर्वीरैस्तु सह पूजयेत् || १९९ || इति || इति समाप्तं श्रीमहापूजाविध्यङ्गभूतनैवेद्यहोमबलिताम्बूलफलदक्षिणाजप- कार्य प्रकरणं || इति || (३५-१० तथा च १३-३५ वि० सर्वः सं०) परिशिष्ट वि० १३ | ३६ || मङ्गलारार्तिसामान्यारात्रिकविषये || अत्रैव प० क० सू० १४१ पत्रे ४ खण्डे श्रीललिताक्रमे ५ सूत्रभाष्ये प्. ५५४) १- || मङ्गलारार्तिलक्षणमथवा तद्विधिकारिकाः || परमानन्दतन्त्रे - तत आरार्तिकं कुर्यात्तद्विधानं शृणु प्रिये ! | लोहभिन्ने सुवर्णादिपात्रे सिन्दूररेणुभिः || नानाविधैर्वर्णकैश्चाप्यष्टपत्रं सकर्णिकम् | स्वस्तिकं वा प्रकल्प्याथ पिष्टजान् डमरुप्रभान् || घृतपक्वान् नव सप्त पञ्च त्रितयमेव वा | सवर्तिकं घृतैः पूर्णं क्रमाद्विन्यस्य पात्रके || प्रज्वाल्य मायया पश्चान्नवरत्नैश्च मन्त्रयेत् | चक्रमुद्रां प्रदर्श्याथ नवरत्नैश्च पूजयेत् || आमस्तकं तु तत्पात्रमुद्धरेत् स्वयमुत्थितः | समस्तचक्रचक्रेशीयुते ! देवि ! नवात्मिके ||
SK
आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये | इति घण्टां वादयन् वै देव्या आपादमस्तकम् || दक्षहस्तेन त्रिर्भ्राम्य पात्रम् स्थाप्य नतिं चरेत् | एवमारार्तिकं कुर्यात् || इति || उपरितनकारिकार्थः - नीराजनकरणाय आदौ लोहभिन्नस्वर्णादिपात्रे सिन्दूररजसा नानाविधवर्णैर्मध्ये सकर्णिकमष्टपत्रं लेख्यं -| अथवा- स्वस्तिकमेव लेख्यं - || तत्र च गोधूमपिष्टमयान् घृतपक्वान् डमरुसमानाकारान् नव सप्त पञ्च त्रीन् वा सवर्त्तिकान् घृतैः पूर्णान् दीपान् मायया प्रज्वाल्य अग्रतननवरत्नेश्वरीमन्त्रेण अभिमन्त्र्य चक्रमुद्रां प्रदर्श्य तेनैव नवरत्नेश्वरीमन्त्रेण सम्पूज्य | श्रीष्टदेवतायाः आमस्तकं उत्तोल्य स्वयमुत्थितः सन् समस्तचक्रचक्रेशीयुते ! देवि ! नवात्मिके ! | आरार्तिकमिदं दिव्यं गृहाण मम सिद्धये || इमं मन्त्रमुच्चरन् घण्टां च ध्वनयन् श्रीदेवतायाः पादतः आमस्तकं दक्षिणहस्तेन प्रदक्षिणक्रमेण त्रिर्भ्राम्य पात्रमधः संस्थाप्य निवेद्य प्रणमेदिति || (एकः प्रकारः-) || २ - नि० प्रकारः द्वितीयः श्रीकुलार्णवे ७ उल्लासे ६३ पत्रे श्रीशिवोक्तनीराजनकर्मकारिका || नीराजनदीपाधाराकृतिमानसङ्ख्या च || प्. ५५५) बटुकादीन् समर्च्यैवं कुलदीपान् समर्चयेत् | ईषत्पललपैष्टेन कुर्याद् वेदाङ्गुलाव्नितान् || दीपान् डमरुकाकारान् त्रिकोणानतिशोभितान् | कर्षाज्यग्राहिणः कुर्यान्नव सप्ताथ पञ्च वा || नीराजननिवेदनमन्त्राः || अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् | त्रिधा देव्युपरि ब्राम्यन् कुलदीपान्निवेदयेत् || समस्तचक्रचक्रेशीयुते ! देवि ! कुलात्मिके ! | आरात्रिकमिदं देवि ! गृहाण मम सिद्धये || कुलदीपान् प्रदर्श्याथ० | शक्तिपूजां समाचरेत् || इति || ३- तृतीय आरात्रिकप्रकारः | ज्ञानार्णवे ५ पटले १७ पत्रे यथा - आरात्रिकं ततः कुर्यात् सर्वकार्यार्थसिद्धये | नीराजने पात्रादि || सौवर्णे राजते कांस्ये स्थालके परमेश्वरि ! | कुङ्कुमेन लिखेत् पद्मं वसुपत्रं मनोहरम् || ६ || दीपरचना ||
SK
चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके शिवे ! | दीपमेकं विनिक्षिप्य वसुपत्रेऽष्टदीपकान् || ७ || यवगोधूममुद्गादिरचिताञ्शर्करायुतान् चषकान्वितमुद्राभिः शोभितान् घृतपूरितान् || ८ || अभिमन्त्र्य महेशानि ! रत्नेश्वर्या ततः परम् | श्रीबीजं च पराबीजं संलिख्य वरवर्णिनि ! || ९ || श्री नवाक्षरीरत्नेश्वरीमन्त्रोद्धारः || तत्रैव ज्ञाना० ५ प०- १८ पत्रे- गसौ च मपनाः पश्चादिन्द्रस्थाः क्रमतः प्रिये ! | वामकर्णसमायुक्ता बिन्दुनादविभूषिताः || १० || बिजपञ्चकमेतत्तु पञ्चरत्नानि सुन्दरि ! | पूर्वबीजं विलोमेन रत्नेशीयं नवाक्षरी || ११ || प्. ५५६) मूलमन्त्रेण चाभ्यर्च्य ततश्चाऽरात्रिकं चरेत् | स्थालकं तु समुद्धृत्य मस्तकान्तं पुनः पुनः || १२ || नववारं महेशानि | ततो नीराजनं चरेत् | समस्तचक्रचक्रेशीयुते ! देवि ! नवात्मिके ! || १३ || आरात्रिकमिदं देवि ! गृहाण मम सिद्धये | नीराजनमनुर्देवि ! विद्यान्ते प्रकटीकृतः || १४ || तत्र मुद्रा || आरात्रिके महेशानि ! चक्रमुद्रा व्यवस्थिता | वामहस्ताङ्गुष्ठगर्भे कनिष्ठां दक्षिणां नयेत् || १५ || कनिष्ठागर्भगे वामे दक्षाङ्गुष्ठं विनिक्षिपेत् | अन्योन्यकरयोर्देवि | चक्रमुद्रेयमीरिता || १६ || आरात्रिकविधिं कृत्वा [अयमारात्रिकविधिरनेन लेखेन नैवेद्याअत् प्राक्तनः अथ च एतदधस्तान्निर्देक्ष्यमाणोऽपरोपि नीराजनविधिश्च पुनराश्रणीयय एवेति द्वावप्येतौ विधी मान्यतरावेवेति सविनयनिवेदनं ||] नैवेद्यं तु निवेदयेत् || इति || ४ - उपर्युक्तादन्यो महानीराजनविधिः | तत्रैव ज्ञानार्णवे वि० १६ पटले ७५ पत्रे यथा- धूपदीपौ निवेद्याथ तर्पयेत् पूर्ववत् प्रिये ! || २०३ || आरात्रिकविधिं कुर्यात् पूर्ववद्देववन्दिते | अन्यदारार्तिकं वक्ष्ये सर्वकामप्रपूरकम् || २०४ || स्वर्णादिनिर्मिते पात्रे मध्ये चक्रं लिखेद् बुधः | तण्डुलोल्लासितं कृत्वा नवधा कारयेत्ततः || २०५ || नवगोलांश्चन्द्ररूपान् विरच्य तदन्तरम् | शर्करागर्भभरितान् मण्डकान् युग्मरूपकान् || २०६ ||
SK
विरच्य घटिकाः कार्या योजयित्वा तु सप्तकम् | सप्तसप्तप्रकारेण घटिका नव योजयेत् || २०७ || अष्टकोणेषु संस्थाप्य गोलकांश्चोपरि क्षिपेत् | चणमुद्रा विकीर्याथ दीपकान् घृतपाचितान् || २०८ || मुष्टिकाकृतिमुष्टीश्च स्थापयेत् तत्र तत्र तु | दीपान् प्रज्वाल्य पश्चात्तु पञ्चरत्नैः प्रपूजयेत् || २०९ || प्. ५५७) पञ्चसिंहासनगता विद्यास्तत्र प्रपूजयेत् | आमस्तकं समुद्धृत्य नववारं पुनः पुनः || २१० || नवावरणवद्देवि ! परिभ्राम्य पुनः पुनः | उत्तिर्य स्थापयेत् पश्चाद्दीपमालामयं महः || २११ || नेत्रयोः सुस्थिरं ध्यायेदारार्तिकविधिः प्रिये ! || इति || ५ || एकदीपात्मकः पञ्चदीपात्मकनीराजनविधिश्च | श्रीशिवपुराणे वायु संहितायां यथा - धेनुमुद्रां च सन्दर्श्य पाणिभ्यां पात्रमुद्धरेत् | अथवा रोपयेत् पात्रे पञ्च दीपान् यथाक्रमम् || विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा | ततस्तत्पात्रमुद्धृत्य लिङ्गादेरुपरि क्रमात् || नीराजनभ्रामणे सङ्ख्या || त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया || इति ६० श्लोकतो ६२ श्लोकान् यावत् || १३ | ३६-६ || देव्या महानीराजनारात्रिकयोर्विधिः || प्राक्तनशीविद्यानित्यार्चनपद्धतौ यथा- ६ प्रकारः - अथारात्रिकं || १प्रथमं महानीराजनं कृत्वा २पश्चादारात्रिकं कार्यं || तदुक्तं || सौवर्णे राजते कांस्ये स्थालके परमेश्वरि ! | कुङ्कुमेन लिखेत्पद्मं वसुपुत्रं मनोहरं || १ || मध्ये चरुं चन्द्ररूपं कृत्वा तन्मस्तके प्रिये ! | दीपमेकं विनिक्षिप्य वसुपत्रेऽष्टदीपकान् || २ || यवगोधूमपिष्टादिरचितान् शर्करायुतान् | चणकान्वितमुद्राभिः शोभितान् घृतपाचितान् || ३ || कर्पूरवर्तिकायुक्तान् गोघृतेन च पूरयेत् | सङ्कल्पं कारयेत् पश्चात् कामनामनसेप्सितम् || ४ || अभिमन्त्र्य महेशानि ! रत्नेश्वर्या ततः परं || तं स्थालकं समुद्धृत्य मस्तकान्तं पुनः पुनः || ५ || नवकृत्वो महेशानि | ततो नीराजनं चरेत् || इति महानीराजनं ||
SK
तदनंतरमारात्रिकं कार्यं | लोहवर्ज्यस्वर्णादिपात्रे चन्दनेनाष्टदलं कमलं लिखित्वा || तत्र मध्यदलाष्टके यवगोधूमपिष्टादिरचितानि नवपात्राणि संस्थाप्य || घृतेनापूर्य || वर्तीर्निक्षिप्य || भुवनेश्वर्या प्रज्वाल्य || श्रीं ह्रीं ग्लूं स्लूं म्लूं प्लूं न्लूं ह्रीं श्रीं एभिर्नवभिर्बीजैर्नवदीपान् सम्पूज्य || चक्रमुद्रां प्रदर्श्य || (वामहस्ताङ्गुष्ठगर्भेकनिष्ठां प्. ५५८) दक्षिणां क्षिपेत् || कनिष्ठागर्भके वामे दक्षाङ्गुष्ठं विनिक्षिपेत् || अन्योन्ययोगतो देवि ! चक्रमुद्रा समीरिता || १ ||) मूलेनाभिमन्त्र्य || मूलेन देव्याः पुष्पाञ्जलिं दत्त्वा जानुभ्यामवनीं गतः उत्थाय || तत् पात्रमामस्तकमुद्धृत्य घण्टावादनपूर्वकं देव्या मस्तकादिपादपर्यतं मूलमुच्चार्य || ॐ अन्तस्तेजओ बहिस्तेज एकीकृत्यामितप्रभं || त्रिधा देव्युपरि भ्राम्यन् कुलदीपान् निवेदयेत् || १ || समस्तचक्रचक्रेशीयुते ! देवि ! नवात्मिके ! || आरात्रिकमिदं देवि ! गृहाण परमेश्वरि || २ || इति - (अत्र शेषविधिः स्वधिया पूरणीयः) इत्यारात्रिकविधिः || २- द्वितीयः प्रकारः- श्री-आनन्दाश्रमसंस्कृतग्रन्थावलि ७३ ग्रन्थाङ्कमुद्रितश्रीधारे इत्युपानामकशङ्करसूरिविरचित श्रीगायत्रीपुरश्चरणपद्धतौ ५३ पत्रे यथा- मूलं - सावित्रि ते नीराजनं | ततो यथाविधि विहितमारात्रिकपात्रमानीय | चक्रमुद्रां प्रदर्श्य वमिति धेनुमुद्रयाऽमृतीकृत्य मूलेनाभ्यर्च्य ॐ समस्तदेवताचक्रमुनि पितृगणावृते ! | आरात्रिकं गृहाणेदं सावित्रि मम सिद्धये || इत्यनेन घ्ण्टावादनपूर्वकं पारावतभ्रमाकारमुच्चैर्देवीं पूर्ववन्नीराजयेत्-इति - श्रीः अपरश्च महानीराजनारात्रिकयोर्विधिः ३ प्र० || श्रीवटपत्तनेशस्व० - श्रीमत्सयाजिरावगायकवाड- सरकार- इत्येतेषामाज्ञानुरोधेन मत्सङ्ग्रथितबहुचरचिन्तामण्यपरनामकश्रीबालातन्त्रचन्द्रिका इत्येतत्पुस्तक ३३२ पत्रोल्लिखितमहानीराजनारात्रिकयोर्विधिः | यथा- लोहवर्जिते स्वर्णरौप्याद्यन्यतमभाजने गैरिकसिन्दूरकुङ्कुमाद्यन्यतमेन ललैतं अष्टदलं विरचय्य |
SK
तत्राष्टदलपत्रेषु घृतपक्वगोधूमचूर्णनिर्मितडमरुसदृशाकृतीनि अष्ट दीपपात्राणि संस्थाप्य मध्ये चैकं तादृशमेव संस्थाप्य | मूलेन तत्र वर्तिकां निक्षिप्य मुलेनाज्यं संपूर्य मायाबीजेन वह्निबीजेन वा प्राकटय्य ॐ श्रीं ह्रीं ग्लूं स्लूं म्लूं प्लूं न्लूं ह्रीं श्रीं नमः | इति नवरत्नेश्वरीमन्त्रेणार्चयित्वा नमस्कृत्य चक्रमुद्रां प्रदर्श्य तदारात्रिकपात्रं स्पृष्ट्वा | मूलमन्त्रेण परदेवतायै चन्दनपुष्पाणि समर्प्य | जानुयुग्मं धरण्यां पातयित्वा देवतायां दृक्पर्यन्तं आरात्रिकपात्रमुत्तोल्य अधोलिखितं पठन् सार्धत्रिवारं अथवा नववारं - आरात्रिकपात्रं देवतायाः मस्तकात् पादावधि प्रदक्षिणक्रमेण भ्रामयेत् || प्. ५५९) ॐ ऐं क्लीं सौः - अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन | ससस्त्यश्वकः सुभद्रिकाङ्काम्पीलवासिनीम् || १ || यजुः सं० २३ अ० १८ मन्त्रः ॐ इदṁहविः प्रजननम्मेऽ-अस्तु दशवीरसर्वगणस्वस्तये || आत्मसनि प्रजासनि पशुसनि लोकसन्न्यभयसनि || अग्निः प्रजां बहुलां मे करोत्वन्नम् पयो रेतोऽ-अस्मासु धत्त | य० सं० १९ अ० ४८ मं० नीराजने गेयं -१ ॐ जय देवि ! जय देवि ! जय जननि ! शरण्ये ! जय जय नमचक्रेश्वरि ! सकलागमगम्ये - ध्रुवम् | अपरिमितामृतसागरविपुलमणिद्वीपे तपनोपमचिन्तामणिधामनि धननीपे || कृपया परयाविष्कृतकेवलनिजरूपे त्रिपुरे जय जगदीश्वरि धृतचन्द्र कपाले || जय देवि० || १ || जय हिमगिरिकुलनन्दिनि समुदितलावण्ये | जय भगवति कात्यायनि संततकारुण्ये | परमकृपारससम्भृतपरदैवतरूपे | करविनिहितपाशाङ्कुशकौसुमशरचापे || जय देवि० || २ || कमनीयाननहिमकरकस्तूरीतिलके | सुरचामीकरचामरमरुदुल्लसदलके || कल्पककुसुमालङ्कृतकचभरमणिमौले | मुक्ताताटंकद्युतिमण्डितसुकपोले | जय देवि० || ३ ||
SK
कविवरनिकराराधितकोणत्रयशरणे | त्रिपुरे जय जगदीश्वरि जय बालकपाले || सनकादिकबहुमुनिजनसंस्तुतशुभचरिते | पदपल्लवशरणागतपरिपालननिरते || जय देवि० || ४ || दुष्टग्रहभयभञ्जनि दूरिकृतदुरिते || गिरिजे मयि करुणां कुरु गुणगणमणिगणिते || मधुरारुणबिम्बाधरमन्दस्मितवदने | जगदीश्वरि ललिते जय चम्पकवनसदने || जय देवि० || ५ || य इमां शङ्करपठितां स्तुतिमिति भावयते | त्रिभुवजननीमेवं यो नीराजयते || स भवति कविरतुलधनः सकलागमवेत्ता | उपैति मातुः पदवीं रविम्ण्डलमेत्ता || जय देवि० || ६ || प्. २६०) १- ॐ महति कनकपात्रे स्थापयित्वा विशालान् | डमरु सदशरूपान् पक्व गोधूमदीपान् || बहुघृतमथ तेषु न्यस्य दीपैरकम्पैर्भुवनजननि ! कुर्वे नित्यमारात्रिकं ते || २- सविनयमथ दत्त्वा जानुयुग्मं धरायां सपदि शिरसि धृत्वा पात्रमारात्रिकस्य || मुखकमलसमीपे तेऽम्ब सार्धत्रिवारं भ्रमयाति मयि भूयात् ते कृपार्द्रः कटाक्षः || ३- ॐ कर्पूराकलितैः सुवर्तिवलिभिःकार्पाससूत्रोद्भवै- र्दीपैः पञ्चभिरेभिरम्ब नवभिः सौवर्णपात्रस्थितैः | पूर्णैर्गोघृतगुग्गुलैस्तु सरलैस्तैलैश्च वा प्रज्वलै- रेतत्तद्बहिरन्तरं गिरिसुते नीराजनं दीयते || ४- ॐ समस्तचक्रचक्रेशि ! नवावरणसंयुते ! आरात्रिकमिदं देवि ! गृहाण मम सिद्धये || ७ || ५- ॐ अन्तस्तेजो बहिस्तेज एकीकृत्य च तत्प्रभम् | आरात्रिकं महेशानि ! साम्प्रतं ते समर्पितम् || ८ || एतेभ्यः पञ्चभ्यो यथेष्टश्लोका ग्राह्याः || आरात्रिकपात्रं भूमौ संस्थाप्य | ॐ भू० ऐं क्लीं सौः साङ्गायै० श्रीत्रिपुरसुन्दर्यै नमः नीराजनदीपं दर्शयामि इति जनमुत्सृज्य | पुष्पादिन परदेवतायै महानीराजनं निवेद्य० | पुनश्चापि कर्पूरादिना तथैव सामान्यारात्रिकं प्राकट्य सम्पूज्य ||
SK
सविनयमथ दत्त्वा जानुयुग्मं धरण्यां ! सपदि शिरसि धृत्वा पात्रमारात्रिकस्य | मुखकमलसमीपे तेऽम्ब सार्धत्रिवारं ! भ्रमयति मयि भूयात् ते कृपार्द्रः कटाक्षः || कदलीगर्भसम्भूतं हेमबीजं बिभावसोः | अनन्तपुण्यफलदमतःशान्तिं प्रयच्छ मे || इति पठित्वा पात्रमधः संस्थाप्य | ॐ भू० ऐं क्लीं सौः श्रीपरदेवतायै नमः कर्पूरात्रिक्यं समर्पयामि इत्युक्त्वा पुष्पादिना इष्टदेवतायै निवेद्य स्वयमपि वन्दनं कुर्यात् || इति || ४- अत्र महानीराजने विषमा वर्तिः | शारदायां ४ पटले २९७ पत्रे २०७ श्लोकटीकायां यथा- आरात्रिकं तु विषमबहुवर्तिसमन्वितं अर्थादारात्रिकदीपे तु विषमसङ्ख्याका बहुवर्तयः क्षेप्याः इत्यर्थः - (३६-६ वि० सर्वोपि सं०) प्. ५६१) १३ | ३६-७ || श्रीदेव्या गेयसंस्कृतनानानीराजनानि || नीराजने गेयं द्वितीयं - २ - || अथ श्रीचक्रनीराजनम् || जय देवि ! जय देवि ! जय मातस्त्रिपुरे ! २ दीपावलिमवलोकय २ मामव सुखसारे ! || जय देवि ! ० || १ || बिन्द्वङ्कितगुणकोणे तदुपरिवसुकोणे ! २ दशारयुग्मे भगवति २ भूतवमनुकोणे ! [भूतवमनुकोणे इति संशोध्य वाच्यं ||]|| जय देवि० ! ० || २ || चेतः क्रीडति चाष्टौ षोडशदलरम्ये ! २ मुदापि वलयत्रितये ! २ धरणीगृहरम्ये ! || जय देवि ! ० || ३ || रेखात्रयपरिनिर्मितनिगमद्वारयुते ! २ सुवर्णमणिगणखचिते २ श्रीचक्रे युवते ! || जय देवि ! ० || ४ || ब्रह्मादिकमयमञ्चकमृद्वासनखचिते ! २ तदुपरि भूषणसायुध २ कामेश्वरसहिते ! || जय देवि ! ० || ५ || अङ्कुशपाशशरासनशरशोभितहस्ते ! २ किशोरवेषालङ्कृत २ त्रिपुरेशीनमिते ! || जय देवि ! ० || ६ || स्वर्णाभरणसुगेहेऽरुणकञ्चुकिचैले ! २ निधेहि शिवपदचिद्घनचिद्रसकल्लोले ! || जय देवि ! ० || ७ || इति - श्री- अमदावादस्थमन्मित्रशास्त्रीगणपतत्र्यम्बकरामद्विवेदिकृतश्रीविद्यार्चन -पुस्तिकायं ||
SK
नीरा० गेयं तृतीयम् - ३ - || श्रीनवचक्रेश्वरीनीराजनम् || ॐ जय देवि ! जय देवि ! जय जननि ! शरण्ये ! | जय जय नवचक्रेश्वरि ! सकलागमगम्ये ! ध्रुवम् || अपरिमितामृतसागरविपुलमणिद्वीपे | तपनोपमचिन्तामणिधामनि घननीपे || कृपया परयाविष्कृतकेवलनिजरूपे ! | त्रिपुरे जय जगदीश्वरि ! धृतचन्द्रकपाले ! जय देवि ! ० || १ || जय हिमगिरिकुलनन्दिनि ! समुदितलावण्ये ! | जय भगवति ! कात्यायनि ! [कामेश्वरि इत्यपि पाठः |] सन्ततकारुण्ये ! || सिन्दूररसारुणरुचिके ! सन्दोहिशरीरे | सदा च निजकुचगिरिवरतटचन्दनसारे ! || २ || प्. ५६२) मन्दस्मितमधुराधरसुन्दररदहीरे ! कन्दर्पारातिप्रियसुन्दरकुसुमारे ! || परमकृपारससम्भृतपरदैवतरूपे ! | करविनिहितपाशाङ्कुशकौसुमशरचापे ! || जय देवि ! ० || ३ || अणिमादिमयूखादिभिरधिरूढसमीपे ! | सपुरन्दरदिविजाधिपसमुदयदूर्वापे ! || कमनीयाननहिमकरकस्तूरीतीलके ! | सुरचामीकरचामरमरुदुल्लसदलके ! || जय देवि ! ० || ४ || कलझङ्कृतमदबम्भरकर्णोत्पलकलिके ! | नवमुक्ताफलरञ्जितनासामणिनलिके ! || कल्पककुसुमालङ्कृतकचभरमणिमौले ! | मुक्ताताटङ्ककद्युतिमण्डितसुकपोले ! || जय देवि ! ० || ५ || कुङ्कुमरसपङ्किलघनकुचबहुहाराले ! | काञ्चीगुणवलयितकटीसत्कौसुमदुकूले ! || निखिलागममुकुटितमणिनीराजितचरणे ! | मिहिरोपमहीरोज्वलमञ्जीराभरणे ! || जय देवि ! ० || ६ || कविवरनिकराराधितकोणत्रयशरणे ! | त्रिपुरे ! जय जगदीश्वरि ! जयबालकपाले ! || सनकादिकबहुमुनिजनसंस्तुतशुभचरिते ! | पदपल्लवशरणागतपरिपालननिरते ! || जय देवि ! ० || ७ || दुष्टग्रहभयभञ्जनि ! दूरीकृतदुरिते ! | गिरिजे ! मयि करुणां कुरु गुणगणमणिगणिते ! || मधुरारुणबिम्बाधरमन्दस्मितवदने ! | विपुलायतनयनोचितविकचोत्पलवदने ! || जय देवि ! ० || ८ ||
SK
कलिताखिलवरदायिनि ! कामेश्वरि ! मदने ! | जय जगदीश्वरि ! ललिते ! जय चम्पकवनसदने ! || जय देवि० || य इमां शङ्करपठितां स्तुतिमिति भावयते | त्रिभुवनजननीमेवं यो नीराजयते || प्. ५६३) स भवति कविवरतुल्यः सकलागमवेत्ता | उपैति मातुः पदविं रविमण्डलभेत्तां [अत्राशुद्धं क्वाचित्कंस्वधिया शोध्यं -] || जय देवि ० || ९ || इति इति- श्रीबहुचरचिन्तामण्यपरनामकश्रीबालातन्त्रचन्द्रिकायां ३३३ पत्रे || नी० गे० चतुर्थं - ४ - || श्रीललिताम्बिकानीराजनम् || जय देवि ! जय देवि ! जय ललिते ! जननि ! | कारुण्यं कुरु वरदे ! पङ्कजदलनयने ! || ध्रुवम् || ध्यानस्तवनपरायणशमिताखिलतापे ! | रक्तकबीजविनाशिनि ! पावितकृततापे ! || दनुजाधीशविमर्द्दनि ! पावककृतविमले ! | विधिवृषवाहनमाधववन्दितपदकमले ! || जय देवि० || १ || प्राप्य तवान्तिकमगजे ! रक्षितसुरवृन्दे ! | चरणसरोरुहयुग्मं नित्यमहं वन्दे || शुम्भासुरमथिनि ! त्वं मामाश्रयहीनम् | करुणापूरितनयने ! पश्य जनं दीनं || जय देवि ! ० || २ || निजभक्ताभयवरदे ! कल्पितबहुरूपे ! | मातस्त्वं मामुद्धर पतितं भवकूपे || महिषासुरहननेना [मरविहितानन्दे इति साधुः पाठः ||] मरकृतसानन्दे ! | मग्नं कुरु मामीश्वरि ! तव भजनानन्दे || जय देवि ! ० || ३ || निशुम्भमानध्वंसिनि ! रचितासुरमरणे ! | मातर्मयि कुरु करुणामरुणद्युतिचरणे ! || पापं मे हर गिरिजे ! तव पूजनकरणे भक्तिं देहि महेश्वरि ! भीतिहरस्मरणे ! || जय देवि ! ० || ४ || मात्रा तनयगुणानामरुणाम्बुजवदने ! | क्रियतेऽन्वेषणमपि नाखिलभयहरभजने ! || निर्गुणमपि यदि सगुणं मत्वाव महेशि ! | शरणागतमसुरार्दिनि ! मामिह भूतेशि ! || जय देवि ! ० || ५ || चेदपराधो यदि वा संहृतजनशोके ! | क्षन्तव्यो मेऽसुरवधतोषितसुरलोके ! || प्. ५६४)
SK
निर्जरमुकुटस्थितमणीराजितचरणे ! | शक्तं कुरु मां कृपया भववारिधितरणे ! || जय देवि ! || ६ || अङ्गीकुरु गिरितनये ! नीराजनकरणम् | दानवकुलपतिहन्त्रि ! त्वं भव मम शरणम् || यद्यङ्गीकुरुषे नो मद्रचितस्तवनम् | जगति न कोऽपि करिष्यति भक्त्या तव भजनम् || जय देवि ! ० || ७ || धनदाभिधकविरिच्छति मम चेतः सततम् | तिष्ठतु चरणसमीपे त्वं भव सुखशरणम् || यः कश्चित्प्रपठिष्यति नीराजनसमये | तुष्ठा भवतु भवेऽस्मिन् देवि ! दुःखमये || जय देवि ! ० || ८ || श्री दुर्गाकल्पद्रुमपुस्तिकायां १७४- पत्रे नीरा० गेयं पञ्चमं - ५ - || श्रीललिताम्बानीराजनमपरं || तत्रैव १७१- पत्रे जय देवि ! जय देवि ! जय सुन्दरि ! तनये जय सुन्दरि ललिते ! | शश्वद्वसतिं कुरु भोरीश्वरि मम हृदये || जय देवि ! जगदम्ब ! || ध्रुवम् || बिन्दुत्रिकोणसहितं षट्कोणं वृत्तम् | तदुपरि वसुदलपत्रं वर्तुलमपि धत्तम् || द्विगुणीकृतवसुपत्रं मोहितहरचित्तम् | द्वारचतुष्टयनिर्मितयन्त्रोपरि तन्त्रम् || जय देवि ! ० || १ || वामे कलशे पूजितपूरितमाधारम् | तस्मिन्नर्पितपूजितपूरितमाधारम् || एवं पञ्चावरणितकर्णितगुणसारम् | मा देहि त्वं भुवने दुर्घटसंसारम् || जय देवि ! ० || २ || कलशामृतजलपूजितनवपात्रसमेतम् | गणपतियोगिनीबटुकक्षेत्राधिपयुक्तम् || अर्चनविधिना सहितं श्रीगुरुविधियुक्तम् | तारकपण्डितविद्याभक्त्याखिलदत्तम् || जय देवि ! ० || ३ || नीराजनमालिकायाम् - ७२ पत्रे || अत्राशुद्धं शोध्यम् प्. ५६५) नीरा० गे० षष्ठं - ६ -|| श्रीमहालक्ष्मीनीराजनम् || जय देवि ! जय देवि ! जय मातः कमले ! | द्रुतजाम्बूनदविमले सुरनुतपदकमले [पदयुगले इत्यपि पाठः |]! || ध्रुवम्० || अलिकुलकोमलबाले ! धृतमौक्तिकमाले ! | स्तनयुगनिर्जितताले ! क्षीराम्बुधिबाले ! || काश्मीराङ्कितभाले ! नाशितभवजाले ! | लीलामर्दितकोले ! शरणागतपाले ! || जय देवि ! ० || १ ||
SK
कमलदलायतनयने ? शशिनिभशुभवदने ! | सिंहविराजितगमने ! हीरावलिरदने ! || मुनिजनविरचितनमने ! कृतराक्षसकदने ! | कोकिलमञ्जुलगदने ! विष्णूरःसदने ! जय देवि ! ० || २ || नागाद्यङ्कितमस्तकभुवनावनसक्ते ! | प्राशनभाजनखेटादिककृतकरयेक्ते ! || कृतकरवीरनिवासे ! रिपुमर्दनसक्ते ! | शुकनासासमनासे ! तारितनिजभक्ते ! जय देवि ! ० || ३ || अधरविनिर्जितबिम्बे ! विश्वस्तुतरूपे ! | पृथुतरचारुनितम्बे ! कृतदानवकोपे ! || भ्रूजितमन्मथचापे ! निजजनहृततापे ! शुकसनकादिक [तत्तदितिसाधु |] नारदपदनतिहृततापे ! जय देवि ! ० || ४ || इति || दाजीज्योतिर्विद्वत्प्रणति हृततापे ! || जय देवि ० || ४ || इति || दु० क० पु० ११३ पत्रे || नीरा० गे० सप्तमम्-७ - || श्रीमहालक्ष्मीनीराजनम् || जय देवि ! जय देवि ! क्षीरसागरतनये ! | लक्ष्यालक्ष्यस्वरूपे ! लक्ष्मि सुरवरदे ! || ध्रुवम् | नानामणिमयभूषामण्डितदोर्युगले ! | नूपुरमधुरध्वनिभिर्नादितदिक्पटले ! || उद्यद्दिनकरभानुप्रतिभटरुचिरास्ये ! | ध्यानं किं किं दुर्लभमहमिह न हि जाने || जय देवि ! ० || १ || प्. ५६६) भवभयसागरपारं कर्तुं दशहस्ता | विदिताविदितादन्यत् प्रापयितं मुदिता || सर्वाप्येवं लीला जनिता जनतायै | कथं न द्रवसे [कथं न दयसे हृदये - इति पठः साधुः |] हृदये जपतो ममतायै || जय देवि ! ० || २ || जगतः सृष्टिः स्थितयो हृतयः प्रतिकल्पे | लोचनमीलनलीलोन्मेषणतः कुरुषे || को वा प्रभवति तस्याः स्मृतये मनसा ये | महता वेदा यत्र स्मृतिभिः सह चकिताः || जय देवि ! ० || ३ || मध्यस्थापितदीपैरालीशतसंहितैः | निजकरतालध्वनिभिर्नादितदिक्पटले ! ||
SK
क्रीडनगायनहासैर्नन्दितमृदुहृदयाम् | भावय चेतः सततं भुवनेशीं सदयाम् || जय देवि ! ० || ४ || धर्षितधीं धीं धिननं दुन्दुभि नादयते [शङ्क्यमिदमपदं पदम् |] | घर्षित झं झं झणण झंझरि वादयते || कर्शितघणणणघण्टाघोषं श्रावयते | हर्षितमधुरामृतघनसुरपतिराद्रियते || जय देवि ! ० || ५ || इति (नीराजनमालिकापुस्तिकायां ७१ पत्रे - अत्र क्वाचित्कमशुद्धं शोध्यम्) नीरा० गे० अष्टमं-८- || श्रीबालात्रिपुरानीराजनम् || जय देवि ! जय देवि ! जय हिमगिरिबाले ! || भवभयभञ्जिनि ! भगवति ! भुवनत्रयपाले ! || योगेश्वरि ! विश्वेश्वरि ! भुवनेश्वरि ! दुर्गे ! || ज्वालामुखि ! परमेश्वरि ! शान्तीश्वरि ! दुर्गे ! || जय महिषासुरमर्दिनि ! मर्दितसुरभीते ! | मृगपतिवाहिनि ! वन्दे मुकुन्दसुतगीते ! || जय देवि ! ० || १ || विन्ध्याचलवनवासिनि ! शाकम्भरि ! दुर्गे ! | भ्रामरि ! लोहितरत्ने ! रचिताखिलस्वर्गे ! || श्रीपतिगोपतिवरदे ! जय मातर्ललिते ! | सप्तस्वरविनिवासिनि भव मम तापहरे ! || जय देवि ! ० || २ || इति || नीराजनमालिकापु०- ८८ पत्रे || प्. ५६७) नीरा० गे० नवमम् - ९- || श्रीभगवत्याः श्रीदुर्गादेवताया नीराजनम् || जय देवि ! जय देवि ! जय मातस्त्रिपुरे ! | दासानुग्रहकारिणि ! [भक्तानुग्रहकारिणि ईश्वरि सुरवरदे-इत्यपि पाठः |] ईश्वरि ! सुखवरदे ! || ध्रुव० || दुर्गे ! दुर्गतिनाशिनि ! भवसागरतारे ! | मृगेन्द्रवाहनगिरिजे ! दानवसंहारे ! || अष्टादशभुजमूर्तिः कण्ठमुण्डमाले सप्तशृङ्गनिवासिनि ! रुद्रात्मकशक्ते ! || जय देवि ! ० || १|| बालार्कारुणशोभितबन्धुककुसुमाभे ! कुङ्कुमशोभितदेहे ! दाडिमकुसुमाभे ! || पादाहतमहिषासुरदेवासुरसर्गे ! | नानादानवमर्द्दिनि ! अलिकुलरिपुवर्गे ! || जय देवि ! ० || २ || जय त्रिपुरासुरमर्द्दिनि ! दर्दय मम दोषान् | तारय तारय मातर्भवजलकूपस्थान् ||
SK
कामक्रोधादीन् [कामक्रोधादिकमयि मारय देहस्थमित्यपि साधुः पाठो भाति ||] मम मारय देहस्थन् | करुणादृष्ट्या माता रक्षय निजभक्तान् || जय देवि ! ० || ३ || मूले चाधिष्ठाने मणिपूरे चक्रे | हृदयेऽनाहतचक्रे षोडशदलपद्मे || आज्ञाचक्रे बालय [अत्रे बाल्येति द्विरपि शङ्क्यम् ||] बालयकृतवलये | ब्रह्मस्थाने विहरसि मातः शिवसहिते ! || जय देवि ! ० || ४ || विधिहरिशङ्करवन्द्ये ! पिण्डितजनवन्द्ये ! | सनकादिकमुनिवन्द्ये ! यक्षासुरवन्द्ये ! || नारदतुम्बरुकिन्नरगीते ! सुरवन्द्ये ! अघनाशीनि ! भवशोषिणि ! मातः सुखसहिते ! || जय देवि ! ० || ५ || इति || नीराजनमालिकापुस्तिकायां - ७३ पत्रे- प्. ५६८) नीरा० गेयं दशमं - १० - || श्रीमद्भागीरथीगङ्गानीराजनम् || जय देवि ! जय देवि ! विश्वेश्वरि ! गङ्गे ! गङ्गोत्तरि ! गन्गे ! | काशीपुरनिवासिनि जनिमृतिभयभङ्गे ! || ध्रुवम् || प्रवरातीरनिवासिनि ! निगमप्रतिपाद्ये ! | पारावारविहारिणि ! नारायणि ! हृद्ये ! || प्रपञ्चसारे ! जगदाधारे ! श्रीविद्ये ! | प्रपन्नपालननिरते ! मुनिवृन्दाराध्ये ! || जय देवि ! ० || १|| गभीरघोषविराजितजनमोहनऊपे ! | मामिह जननि ! समुद्धर पतितं भवकूपे || दिव्यसुधाकरवदने ! कुन्दोज्ज्वलरदने ! | पदनखनिर्जितमदने ! पापव्रजकदने ! || जय देवि ! ० || २ || मञ्जीराञ्चितचरणे ! मणिमुक्ताभरणे ! | कञ्चुकीवस्त्रावरणे ! वक्त्राम्बुजधरणे ! || शक्रामयभयहरणे ! भूसुरसुखकरणे ! | करुणाङ्कुरु मयि शरणे गजनक्रोद्धरणे ! || जय देवि ! ० || ३ || कुङ्कुमकेसरपटिकाबिभ्राजितभाले ! | मालतिचम्पकपाटलिकण्ठस्थितमाले ! || रत्नजडितमणिमण्डितहेमाङ्कितसारे ! | उद्यद्दिनकरभानुचूडामणिहारे ! || जय देवि ! ० || ४ || नानामणिमयभूषामण्डितदोर्युगले ! | नूपुरमधुरध्वनिभिर्नादितदिक्पटले ! | |
SK
दुष्टग्रहभयभञ्जिनि ! दूरीकृतदुरिते ! | गिरिजे ! मयि करुणां कुरु गुनगणमभिगणिते ! || जय देवि ! ० || ५ || इति दु० क० पु० १७६ पत्रे - इत्यादिना स्वगुरूपदिष्टाचारेणायं विधिः समापनीय इति || (१३ | ३६-७ वि० सर्वोपि - सं०) १३ | ३६-८- || देवनीराजनफलम् || श्रीयोगिनीतन्त्रे-९- पटले-२२७ पत्रे-श्रीशिवभगवद्वचो यथा- नीराजनेन यः पूजां करोति वरवर्णिनि ! | अनुक्तं प्राप्नुयात् सऽपि इह लोके परत्र च || इति || प्. ५६९) ३६ | ९ || नीराजनशब्दार्थस्फोटः || अत्र नीराजनशब्देन सर्वत्र दीपरूपो दीपाद्भिन्नश्च तत्तद्देवपूजोपचारान्तर्गतैकोपचारः- अथवा नीराजनं नाम अनेकदीपप्रकाशेन तत्तद्देवस्य सर्वाङ्गनिष्ठं सौन्दर्यमाधुर्यनिरीक्षणं इत्यर्थो ज्ञेयः || इति || (प० क० सू० द्वितीयावृत्तिकारः) इति श्रीमहानीराजनविधिः || १३ | ३६ सर्वोऽपिसम्पूर्णः || वि० १३ | ३७ || मन्त्रपुष्पाञ्जलिविषये ज्ञेयं प्रयोगश्च || १ || मन्त्रपुष्पाञ्जलिशब्दार्थो यथा- तद्विधिप्रतिपादकप्रमाणग्रन्थोक्तमन्त्रादिपठनपूर्वकः पुष्पादिसम्भृतोऽञ्जलिः) | मन्त्रपुष्पाञ्जलिरिति सामान्यार्थः -( प० क० सू० द्वितीयाव्ट्तिकारः) २ - अपरश्च श्रीकुलार्णवतन्त्रमाश्रित्य मन्त्रपुष्पाञ्जलिशब्दसमासार्थौ यथा- अत्र समासस्तु उपर्युक्तवत् | तत्र च मन्त्रशब्दार्थः कुलार्णवे १५६ पत्रे १७ उल्लासे यथा - मननात् तत्त्वरूपस्य देवस्यामिततेजसः | त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः || इति || अथ पुष्पशब्दार्थोऽपि तत्रैव - १५७ पत्रे यथा- पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः | पुष्कलार्थप्रदानाच्च पुष्प इत्यभिधीयते || इति | अर्थात् मन्त्रपठनपूर्वकः पुष्पसम्भृतोञ्जलिरिति शब्दार्थस्सुगमः शिष्टसम्मतः स्यादेवेति || (३७ | १ वि० सर्व० सं०) ३७ | २ || कस्योपचारस्यानन्तरमयं मन्त्रपुष्पाञ्जल्युपचारः आचरितव्यस्तत्र विचारः || यथा -
SK
अयं मन्त्रपुष्पाञ्जलिः कुत्रचिद्ग्रन्थे नीराजनात् पूर्वमनन्तरं चाभिहितस्ततस्तत्सिद्धान्तैकज्ञानाय अत्रैव द्विपरिशिष्टे उपचाराणां सङ्ख्याविषयक ७ विषये ३८६ पत्रतः ३९० पत्रेषु द्रष्टव्यमिति सुविदितमास्तां सताम् || इति प० क० सू० द्वितीयावृत्तिकारः || ३ || वैदिकतान्त्रिकमन्त्रपुष्पाञ्जलिप्रयोगः || अयं वैदिकतान्त्रिकमन्त्रपुष्पाञ्जलिप्रयोगः श्रीबालातन्त्रचन्द्रिकायां ३३४ पत्रे यथा- प्. ५७०) १ ॐ० मूलं ॐ अम्बे.आम्बिकेऽम्बालिके न मा नयतिकश्चन || ससस्त्यश्वकः सुभद्रिकाङ्काम्पीलवासिनीम् || य० सं० २३-१८ २ यज्ञेन यज्ञ० (पु० सू० १५ मन्त्रः य० सं० ३१ | १५) ३ ॐ यः शुचिः प्रयतो० (श्री० सू० मं० १६-) ४ ॐ राजाधिराजाय० इत्यतः सभासदः - इत्यन्तं ५ ॐ विश्वतश्चक्षुरुत० (य० सं० १७ | १९) ६ चरणनलिनयुग्मं० (श्री० बा० मा० पू० ५३ श्लोक बालातं० च ११७-३३५ पत्रयोश्च) ७ ॐ शिवे ! शिवसुशीतलामृततरङ्गगन्धोल्लस- न्नवारणदेवते ! नवनवामृतस्यन्दिनि ! | गुरुक्रमपुरस्कृते ! गुणशरीरनित्योज्ज्वले ! षडङ्गपरिवारिते ! कलित एष पुष्पाञ्जलिः || इत्युक्त्वा ॐ० मूलं नमः - मन्त्रपुष्पाञ्जलिं समर्पयामि इत्युक्त्वा अञ्जलिस्थाक्षतपुष्पादिकंश्रीयै यन्त्रे वा समर्प्य || सामान्यार्घजलमर्पयेदिति मन्त्रपुष्पाञ्जलिविधिः - १३-३७ | ३ -वि० सं० ४ | १ || मन्त्रपुष्पाञ्जलिकरणफलं || य० आ० सू० १३१ पत्रे देवपूजा विधौ यथा- १ || नानासुगन्धपुष्पाणि यथाकालोद्भवानि च | पुष्पाञ्जलिः शुभो देयः देवताप्रीतये सदा || इति || २ अन्यच्च तथैव - श्रीबालामानसपूजास्तोत्रे श्रीमच्छङ्करपादैरभिहितं यथा- चरणनलिनयुग्मं पङ्क्जैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा | शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि ! हर्षं तनोतु || इति || (३७-४ वि० सं०) ५ || अथ श्रीश्रीविद्योपासनविधिपुस्तिकायां पुष्पाञ्जलिस्तोत्रं ||
SK
ॐ समस्तमुनियक्षकिंपुरुषसिद्धविद्याधरग्रहासुरसुराप्सरोगणमुखैर्- गणैः सेविते ! [अत्र सर्वश्लोकादौ मूलमन्त्रोच्चार इति प्रणयिनः श्रीविद्यार्चनपुस्तिकाकाराः श्रीगणपतरामशास्त्रिणः ||] || निवृत्तितिलकाम्बरा प्रकृतिशान्तिविद्याकलाकलापमधुराकृते ! कलित एष पुष्पाञ्जलिः || १ || प्. ५७१) त्रिवेदकृतविग्रहे ! त्रिविधकृत्यसन्धायिनि ! त्रिरूपसमवायिनि ! त्रिपुरमार्गसञ्चारिणि ! || त्रिलोचनकुटुम्बिनि ! त्रिगुणसंविदुद्यत्पदे ! त्रयि ! त्रिपुरसुन्दरि ! त्रिजगदीशि ! पुष्पाञ्जलिः || २ || पुरन्दरजलाधिपान्तककुबेररक्षोहरप्रभञ्जनधनञ्जयप्रभृतिवन्दना- नन्दिते ! || प्रवालपदपीठिकानिकटनित्यवर्त्तिस्वभूविरिञ्चिविहितस्तुते ! विहित एष पुष्पाञ्जलिः || ३ || यदा नतिबलादहङ्कृतिरुदेति विद्यावयस्तपोद्रविणरूपसौरभकवित्वसंविन्मयि ! || जरामरणजन्मजं भयमुपैति तस्यैसमाखिलसमीहितप्रसवभूमि ! तुभ्यं नमः || ४ || निरावरणसंविदुद्भ्रमपरास्तभेदोल्लसत्परात्परचिदेकतावरशरीरिणि ! स्वैरिणि ! || रसायनतरङ्गिणीरुचितरङ्गसञ्चारिणि ! प्रकामपरिपूरिणि ! प्रकृत एष पुष्पाञ्जलिः || ५ || तरङ्गयति सम्पदं तदनु संहरत्यापदं सुखं वितरति श्रियं परिचिनोति हन्ति द्विषः || क्षिणोति दुरितानि यत् प्रणतिरम्ब ! तस्यै सदा शिवङ्करि ! शिवे पदे ! शिवपुरन्ध्रि ! तुभ्यं नमः || ६ || शिवे ! शिवसुशीतलामृततरङ्गगन्धोल्लसन्नवावरणदेवते ! नवनवामृतस्यन्दिनि ! || गुरुक्रमपुरस्कृते ! गुणशरीरनित्योज्ज्वले ! षडङ्गपरिवारिते! कलित एष पुष्पाञ्जलिः || ७ || त्वमेव जननि पिता त्वमथ बन्धवस्त्वं सखा त्वमायुरपरा त्वमाभरणमात्मनस्त्वं कला || त्वमेव वपुषः स्थितिस्त्वमखिला यतिस्त्वं गुरुः प्रसीद परमेश्वरि ! प्रणतपात्रि ! तुभ्यं नमः || ८ ||
SK
कञ्जासनादिसुरवृन्दलसत्किरीटकोटिप्रघर्षणसमुज्ज्वलदङ्घ्रिपीठे ! || त्वामेव यामि शरणं विगतान्यभावं दीनं विलोकय दयार्द्रविलोकनेन || ९ || इति || (१३ | ३७ वि० सर्वः सं०) वि० १३ | ३८ पूजोपचारान्तर्गतप्रदक्षिणाविषये ज्ञेयं || १ प्रदक्षिणाशब्दः देवस्य कक्षिणतो वा सामान्यदक्षिणदिक्तः इत्यर्थं समर्थयति अर्थात् शुधाग्नेय्याः दक्षिणादिदिगनुक्रमेण ईशानीदिगन्तं परिक्रमणमिति तदर्थः || अत्र कुत्रचिदुदङ्मुखदेवस्य तामेवोदीचीं प्राचीं प्रकल्प्य तत आग्नेय्यादिक्रमः इति न विस्मर्तव्यम् इति || (प० क० सू० द्वितीयावृत्तिकारः) ३८-२ | १ || इयं प्रदक्षिणा कस्योपचारस्यानन्तरं विधेयेत्यत्र विचारणा || इयमुपचारान्तर्गता देवप्रदक्षिणा कुत्रचिद् ग्रन्थे नीराजनदीपमन्त्रपुष्पाञ्जल्योरप्यन्तरा तत्पूर्वं तदनन्तरं च प्रतिपादितास्ति ! कुत्रचिद् ग्रन्थे तु- पौनःपुन्येनाप्यभिधायि तदर्थं तन्निश्चेतव्यमिति कृत्वैतद्यथाज्ञानं शिष्टोक्तमेवेदानिं किञ्चिद्विविच्यते - (प० क० सू० द्वितीयावृत्तिकारेण) प्. ५७२) २- यथा अत्रैव द्विपरिशिष्टे ७-९ | ४ विषये ३८८ पत्रे नागदेवकृतषोडशोपचारकारिकासु नैवेद्यानन्तरीयनमस्कारानन्तरं प्रदक्षिणोक्ता- ३- तत्रैव पत्रे एतत् प० क० सू० -२ खण्डे परमानन्दतन्त्रे च पुष्पाञ्जल्यनन्तरं प्रदक्षिणोक्ता- ४- कर्मप्रदीपे च नैवेद्यताम्बूलयोरनन्तरं पुष्पाञ्जलेः प्रागेषा प्रदक्षिणोक्ता इत्यादि० एवमृषिवचोभेदः प्रदक्षिणायां विद्यते तत्रासंमुह्य सर्वाण्यपि तानि प्रमाणान्यादरणीयान्येवेति विनयामि सानातनिकानित्यलम् || ५- अथवा- एतत्सिद्धान्तावलोकनाय पाश्चात्यः द्विपरिशिष्टे० शोडशोपचारविषये ३८८ तः ३९० पत्रेषु - ७ | ९-१-७ | ९-४- ७ | ९-६- ७ | १०-१- ७ | १०-२- एते विषयाः दृश्याः || इति || ६- || कुत्रचित् षोदशोपचारे इयं प्रदक्षिनैव नोक्ता इति ज्ञेयम् || (इति प० क० सू० द्वितीयावृत्तिकारः) (३८ | २ वि० सर्वः सं०) वि० ३८-३ || देवतापरत्वेन प्रदक्षिनासङ्ख्याप्रमाणम् || बह्वृचपरिशिष्टे - |
SK
१ - एकं विनायके कुर्यात् द्वे सूर्ये त्रीणि शङ्करे || चत्वारि केशवे कुर्यात् सप्ताश्वत्थे प्रदक्षिणम् || अन्यच्च - एका चण्ड्या रवेः सप्त तिस्रो दद्याद्विनायके || चतस्रो विष्णवे देयाः शिवस्यार्धा प्रदक्षिणा || इति || २ - एका प्रदक्षिणा- श्रिदेव्या उक्ता -अत्रैव प० क० सूत्रे ५ ख्ण्डे १७३ पत्रे श्री श्रीक्रमे २० सूत्रे तद्भाष्ये च यथा - प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य २० मूलसूत्रम् | अत्र भाष्यं यथा - | प्रदक्षिणमेकं कार्यं (तत्रान्यत् प्रमाणं) अजेशशक्तिगणपभास्कराणां प्रदक्षिणे | वेदाऽर्धचन्द्रवह्न्याद्रिसङ्ख्याः सर्वार्थसिद्धयः || इति || ४ ० || १ ३ ७ इति सङ्गमतन्त्रे उक्तत्वात् | (अस्यार्थो यथा-) १- अजो विष्णुः (तस्य) वेदाः चतस्रः ४ प्रदक्षिणाः २- ईशः शिवः || अर्धं [अर्धम् - अर्धा प्रदक्षिणा सामान्यसंपादकः |] तदर्धं द्वयम् || प्. ५७३) ३- शक्तिः देवी तस्याः चन्द्रः एका || १ || ४- गणपः गणेशः तस्य वह्निः तिस्रः || ३ || ५- भास्करः सूर्यः || तस्य अद्रिः सप्त || ७ || इमाः सङ्ख्याः अजादिप्रदक्षिणे क्रमाद् ज्ञेयाः इत्यर्थः | (१३-३८ | ३-२ वि० सं०) ३ || देव्या एकतो लक्षसङ्ख्याकान्त पृथक् प्रदक्षिणाकरणे प्रमाणं - श्रीमच्छङ्करपादैरपि- प्रदक्षिणं ते परितः करोमि- इत्येकवचनान्तमेवोक्तं० || इति || अयं श्लोकमन्त्रः अत्रैव प० क० सू० १७३ पत्रेस्ति - पुनश्च - श्रीजगदम्बायाः १-३-९-५-७-२१ - सङ्ख्यप्रदक्षिणकरणप्रमाणं- श्रीबालातन्त्रचन्द्रिका ३३६ पत्रे श्रीविद्यामानसपूजायां ५२ श्लोके यथा - एकं त्रयं वा नव पञ्च सप्त प्रदक्षिनां यः परदेवतायाः | एकाधिकं विंशतिकं तु कृत्वा प्रमाणमस्या विबुधो भवेत् सः || ५२ || इति || (अत्रार्षप्रयोगत्वाद्व्याकरणं न विमृश्यं) एकलक्षाष्टोत्तरसङ्ख्यप्रदक्षिणाप्रमाणम् || पुनश्च - १०८ एकलक्षसङ्ख्यप्रदक्षिणाकरणमपि - तत्रैव ३३५ पत्रे श्रीविद्यामानसपूजायाम् - यथा-
SK
अष्टोत्तरं यच्छतमुत्तमं तत् प्रदक्षिणं चैव तथा प्रणामान् | भक्त्या पुनर्लक्षमितं च कृत्वा कैलासवासं लभते मनुष्यः || ५३ || इति || तत्रैव एकप्रदक्षिणाप्युक्ता यथा- ॐ श्रीचक्रराजस्य सपर्ययास्य श्रीसुन्दरीशङ्करमन्दिरस्य | प्रदक्षिणालोकनमेकवारं कृत्वापवर्गं लभते मनुष्यः || इति || प्रदक्षिणायां नमस्कारकरणे विधिज्ञानं - योगिनीतन्त्रे ९ पटले २३१ पत्रेऽपि यथा- प्रदक्षिणत्रयं कुर्यात् पद्माकारं नमेत्ततः | दक्षिणादुत्तरं गत्वा देवस्य च महेश्वरि ! | कृत्वाञ्जलिस्ततो भक्त्या भ्रमयित्वा नमेत्ततः [नमस्करणं मण्डलाद्बहिरिति न विस्मरणीयम्-] || प्रत्येकं प्रणमेद्देवि ! दण्डवत् प्रणिपातयेत् || यो नो नमेद् भ्रमित्वा च अपराधो भवेत्तदा || इति || (३७ | ३ वि० सर्वः सं०) प्. ५७४) ३८ | ४ || प्रदक्षिणाकरणे फलम् || १ श्री० बा० मा० पूजायां गदितमेव श्रीमज्जगद्गुरुश्रीशङ्कराचार्यपादैर्यथा- पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति | तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परितः करोमि || ६१ || इति || २ अन्यच्च श्रीश्रीविद्या-श्री० मा० पूजायां श्रीमच्छङ्कराचार्यपादाः - यथा- २ || एकं त्रयं वा नव पञ्च सप्त प्रदक्षिणां यः परदेवतायाः | एकाधिकं विंशतिकं तु कृत्वा प्रमाणमस्या विबुधो भवेत् सः || ५२ || ३ || अष्टोत्तरं यच्छतमुत्तमं तत् प्रदक्षिणं चैव तथा प्रणामान् | भक्त्या पुनर्लक्षमितं च कृत्वा कैलासवासं लभते मनुष्यः || ५३ || इति || ४ || श्रीचक्रराजस्य सपर्ययास्य श्रीसुन्दरीशङ्करमन्दिरस्य | प्रदक्षिणालोकनमेकवारं कृत्वापवर्गं लभते मनुष्यः || इति || पुराणे कर्मग्रन्थेषु च यथा- ५ || यानि कानि च पापानि जन्मान्तरकृतानि वै | तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे || इति || (३८ | ४ तह्ता च १३ | ३८ वि० सर्वः सं०) वि० १३ | ३९ - १ स्तुतिविषये || अथ श्रीमज्जगद्गुरुश्रीशङ्कराचार्यविरचितं श्रीबालात्रिपुरसुन्दरीमानसपूजास्तोत्रं ||
SK
१ ॐ - उषसि मागधमङ्गलगायनै - र्झटिति जागृहि जागृहि जागृहि || अतिकृपार्द्रकटाक्षनिरीक्षणै- र्जगदिदं जगदम्ब ! सुखीकुरु || १ || कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् || मणिमयमण्डपमध्यमे हि मातर्मयो कृपया हि समर्चनं ग्रहीतुम् || २ || कनककलशशोभमानशीर्षं जलधरचुम्बिसमुल्लसत्पताकम् || भगवति ! तव संनिवासहेतोर्मणिमयमन्दिरमेतदर्पयामि || ३ || तपनीयमयी सतूलिका कमनीया मुदुलोत्तारच्छदा || नवरत्नविभूषिता मया शिबिकेयं जगदम्ब ! तेर्पिता || ४ || कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे || भगवति ! रमणीये रत्नसिंहासनेऽस्मिन्नुपविश पदयुग्मं हेमपीठे निधेहि || ५ || प्. ५७५) मणिमयमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् || कमनीयतमं भवानि ! तुभ्यं नवमुल्लोचमहं समर्पयामि || ६ || दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढयम् || पद्मयुग्मसदृशे पद्मयुग्मे पाद्यमेतदुररीकुरु मातः ! || ७ || गन्धपुष्पयवसर्षपदुर्वासंमितं तिलकुशाक्षतमिश्रम् || हेमपात्रनिहितं सहरत्नैरर्घ्यमेतदुदरीकुरु मातः ! || ८ || जलजद्युतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः || अमृतैरमृतैरिवाहृतैर्भगवत्याचमनं विधीयताम् || ९ || निहितः कनकस्य सम्पुटे पिहितो रत्नपिधानकेन सः || तदयं भवतीकरेऽर्पितो मधुपर्को भवति ! प्रगृह्यताम् || १० || एतच्चम्पकतैलमेव विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् | सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं यन्मया केशेषु भ्रमरप्रभेषु सकलेष्वङ्गेषु चालिप्यताम् || ११|| मातः ! कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनम् भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरम् | केशानामलकैर्विशोध्य विशदान् कस्तूरिकाद्यन्वितम् स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः || १२ ||
SK
दधिदुग्धघृतै सपाक्षिकैः सितया शर्करया समन्वितैः | स्नपयामि तवाहमादृतो जननि ! त्वां पुनरुष्णवारिभिः || १३ || एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकै- र्माणिक्यामलमौक्तिकामृतयुतैः स्वच्छैः सुवर्णोदकैः | मन्त्रान् वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि ! स्नेहात्त्वमङ्गीकुरु || १४ || बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमम् मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् | मुक्ताभिर्ग्रथितं सकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णबहुलं प्रावर्णमङ्गीकुरु || १५ || नवरत्नयुते मयार्पिते कमनीये तपनीयपादुके || सविलासमिदं पदद्वयं कृपया देवि ! तयोर्निधीयतां || १६ || प्. ५७६) बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति ! तव केशान् कङ्कतैर्मार्जयित्वा | सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटमावेष्टयामि || १७ || सौवीराञ्जनमिदमम्ब ! चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् | तन्नूनं मलिनमपि त्वदक्षिसङ्गाद् ब्रह्मेन्द्राद्यभिलशणीयतामियाय || १८ || मञ्जीरे पदयोर्निधाय रुचिरे विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले | केयूराणि भुजेषु रत्नवलयश्रेणीः करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् || १९ || धंमिल्ले तव देवि ! हेमकुसुमान्याधाय भालस्थ्ले मुक्ताराजिविराजिहेमतिलकं नासापुटे मौक्तिकम् | मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ || २० || मातर्भालतले तवातिविमले काश्मीरकस्तूरिका कर्पूरागुरुभिः करोमि तिलकं देहेऽङ्गरागं ततः || वक्षोजादिषु यक्षकर्दमरसैः सित्काञ्चपुष्पद्रवैः पादौ कुङ्कुमलेपनादिभिरहं सम्पूजयामि क्रमात् || २१|| रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैश्चारुरुचैर्विचित्रैः | अखण्डितैर्देवि ! यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा || २२ ||
SK
जननि ! चम्पकतैलमिदं पुरो मृगमदोऽयमयं पटवासकः | सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं प्रतिगृह्यताम् || २३ || सीमन्ते ते भगवति ! यया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले देवि ! हर्षं तनोतु | बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति- रन्तर्ध्वान्तं हरतु सकलं चेतसा चिन्तयामि || २४ || प्. ५७७) मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि ! संततमहं परिपूजयामि | जातीजपाबकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि || २५ || मालतीबकुलहेमपुष्पिका- काञ्चनारकरवीरचम्पकैः | कर्णिकारगिरिकर्णिकादिभिः | पूजयामि जगदम्ब ! ते वपुः || २६ || पारिजातशतपत्रपाटलै - र्मल्लिकाबकुलचम्पकादिभिः | अम्बुजैश्च कुसुमैश्च सादरं पूज० || २७ || लाक्षासम्मिलितैः शिलारसयुतैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषाऽलोडितैः | श्रीखण्डागुरुगुग्गलप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि ! त्वं धूपमङ्गीकुरु || २८ || रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषोद्दीपितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः | आताम्रज्वलदुज्ज्वलज्वलनवद्रत्नप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः || २९ || महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान् पक्वगोधूमदीपान् | बहुघृतमथ तेषु न्यस्य दीपैरकम्पै- र्भुवनजननि ! कुर्वे नित्यमारात्रिकं ते || ३० || सविनयमथ दत्वा जानुयुग्मं धरायां सपदि शिरसि धृत्वा पात्रमारात्रिकस्य | मुखकमलसमीपे तेऽम्ब ! सार्धत्रिवारं भ्रमयति मयि भूयात् ते कृपार्द्रः कटाक्षः || ३१|| मातस्त्वां दधिदुग्धपायसमहाशाल्यन्यसन्तानकान् सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः || प्. ५७८) एलाजीरकहिङ्गुनागरनिशाकौस्तुम्बरीसंयुतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्पयन् || ३२ ||
SK
सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि || शाकोल्लसन्मरिचजीरकवल्लिकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब ! मयार्पितानि || ३३ || क्षीरमेतदिदमुत्तमोत्तमम् प्राज्यमाज्यमिदमुज्ज्वलं मधु | मातरेतदमृतोपमं त्वया सम्भ्रमेण परिपीयतां मुहुः || ३४ || उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे | कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन || ३५ || अतिशीतमुशीरवासितं तव पाणौ च मया निवेदितम् | पटपूतमिदं जितामृतम् शुचि गङ्गामृतमम्ब ! पीयताम् || ३६ || आताम्ररम्भाफलसंयुतानि द्राक्षाफलाक्षोटसमन्वितानि || सनारिकेलानि सदाडिमानि फलानि ते देवि ! समर्पयामि || ३७ || कलिङ्गकोशातकसंयुतानि जम्बीरनारिङ्गसमन्वितानि | सबीजपूराणि सदाडिमानि फलानि ते देवि ! समर्पयामि || ३८ || कर्पूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः | मातः केतकिपत्रपाण्डुरुचिरैस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु || ३९ || प्. ५७९) एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरविमिश्रितानि | ताम्बूलवल्लीदलसंयुतानि फलानि ते देवि ! समर्पयामि || ४० || ताम्बूलवल्लीदलनिर्जितहेमवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् | रत्नस्थलीस्थितमिदं खदिरेण सार्धम् ताम्बूलमम्ब ! वदनाम्बुरुहे गृहाण || ४१|| अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः | मिलितविविधमुक्तां दिव्यमाणिक्ययुक्ताम् जननि ! कनकवृष्टिं दक्षिणां तेऽर्पयामि || ४२ || मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभम् नानारत्नविशोभि हेमकलशं लोकत्रयाल्हादकम् | भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतम् छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् || ४३ || शरदिन्दुमरीचिगौरवर्णै- र्मणियुक्तैर्विलसत्सुवर्णदण्डैः | जगदम्ब ! विचित्रचामरै - स्त्वामहमानन्दभरेण वीजयामि || ४४ ||
SK
मार्तण्डमण्डलनिभो जगदम्ब ! योऽयम् भक्त्या मया मणिमयो मुकुटोऽर्पितस्ते | पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन् विलोकय विलोलविलोचने ! त्वम् || ४५ || इन्द्रादयो नतिनतैर्मुकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् | तस्मादहं तव शरीरमशेषमेतन्- नीराजयामि जगदम्ब ! सहस्त्रदीपैः || ४६ || प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः || प्. ५८०) भगवति ! कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरङ्गः || ४७ || मधुकरवृतकुम्भो न्यस्तसिन्दूररेणुः कनककलितघण्टः किङ्किणीशोभिकण्ठः | श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि ! तव मुदे स्यान्मत्तमातङ्ग एषः || ४८ || द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् | कनकमयमहं वितानवन्तं भगवति ! हि रथं समर्पयामि || ४९ || हयगजरथपत्तिशोभमानम् दिशि दिशि दुदुम्भिमेघनादयुक्तम् | अभिनवचतुरङ्गसैन्यमेतद् भगवति ! भक्तिभरेण तऽर्पयामि || ५० || परिधीकृतसप्तसागरम् बहुसम्पत्सहितं मयाऽम्ब ते || विपुलं धरणीतलाभिधम् प्रबलं दुर्गमिदं समर्पितम् || ५१ || शतपत्रयुतैः स्वभावशीतै - रतिसौरभ्ययुतैः परागपीतैः | भ्रमरीमुखरीकृतैरनेकै- र्व्यजनैस्त्वां जगदम्ब ! वीजयामि || ५२ || भ्रमविलुलितलोलकुन्तलालि- र्विगलितमाल्यविकिर्णरङ्गभूमिः | इयमतिचतुरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ! || ५३ || मुखचलनविलासलोलवेणी विलसितनिर्णितलोलभृङ्गमाला | युवजनसुखकारिचारुलीला भगवति ! ते पुरतो नटन्ति बालाः [अत्र नटन्ति बाला इत्यत्र आर्षं मन्तव्यं | ] || ५४ || रुचिरकुचतटीनां नाट्यकाले नटीनाम् प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् | प्. ५८१) धिमिकि धिमिकि धिद्धि धिद्धि धिद्धेति धिद्धि धिकिति धिकिति तत्थै त्थै त्यथे त्थेति शब्दः || ५५ ||
SK
भ्रमदलिकुलतुल्या लोलधम्मिलभारा स्मितमुखकमलोद्यद्दिव्यलावण्यपूरा || अभिनवनववेषा वारयोषा नटन्ती परमृतकलकण्ठि देवि ! मोदं तनोतु || ५६ || डमरुडिण्डिमझर्झरझल्लरी- मृदुरवार्द्रघटार्द्रघटादयः | झटिति झाङ्कृतिभिर्जगदम्बिके ! बहुदयं हृदयं सुखयन्तु ते || ५७ || विपञ्चीषु सप्तस्वरान् वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः || क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि || ५८ || अतिशयकमनीयैर्नर्तनैर्नर्तकीनाम् झटिति च रमयित्वा चेत एवं त्वदीयम् || स्वयमहमपि चित्रैर्नृत्यवादित्रगीतै - र्भगवति ! भवदीयं मानसं रञ्जयामि || ५९ || तव देवि ! गुणानुवर्णने चतुरा नो चतुराननादयः | तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः || ६० || पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति || तां सर्वपापक्षयहेतुभूताम् प्रदक्षिणां ते परितः करोमि || ६१|| रक्तोत्पलारक्ततलप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् || अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् || ६२ || प्. ५८२) चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा | शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि ! हर्षं तनोतु || ६३ || अथ मणिमयमञ्चकाभिरामे द्युतिमति पुष्पवितानराजमाने | प्रसरदगरुधूपैर्धूपितेऽस्मिन् भगवति ! वासगृहेस्तु ते निवासः || ६४ || एतस्मिन् मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय पादौ | विस्तीर्णे मृदुलतरच्छदेऽस्मिन् पर्यङ्के कनकमये निषीद मातः ! || ६५ || तव देवि सरोजचिह्नयोः पदयोर्निजितपद्मरागयोः | अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् || ६६ || अथ मातरुशीरवासितम् निजताम्बूलरसेन राजितम् | तपनीयमये हि पात्रके मुखगण्डूषजलं विधीयताम् || ६७ ||
SK
क्षणमथ जगदम्ब मञ्चकेऽस्मिन् मृदुतरतूलिकया विराजमाने | अतिमहति मुदा निजेच्छया त्वं सुखशयनं कुरु मां हृदि स्मरन्ती || ६८ || मुक्ताकुन्देन्दुगौरां मणिमयमुकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् | नानालङ्कारयुक्तां सुरमुकुटलसद्द्योतितस्वर्णपीठाम् सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसाम् चिन्तयामि || ६९ || एषा भक्त्या तव विरचिता या मया देवि ! पूजा स्वीकृत्यैनां सपदि सकलान् मेऽपराधान् क्षमस्व | प्. ५८३) न्यूनं यत्तत् तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः || ७० || पूजामिमां पठेत् प्राज्ञः पूजां कर्तुमनीश्वरः | पूजाफलमवाप्नोति वाञ्छितार्थांश्च विन्दति || ७१ || प्रत्यहं भक्तियुक्तो यो देवीपूजामिमां पठेत् | वाग्वादिन्याः प्रसादेन वत्सरात् स कविर्भवेत् || ७२ || || इति श्रीमत्परमहंसपरिव्राजकाचार्यविरचितं देवीमानसपूजनस्तोत्रं सम्पूर्णं || शुभमस्तु (अनेन स्तोत्रपाठकर्मणा श्रीकालिका बालाम्बा प्रीयताम् ||) ३९ | २- अथ सटीकप्रपञ्चसारे - ११ पटले - १५६ पत्रे श्रीभुवनेश्वरी स्तुतिरत्नं यथा- ॐ श्रीभुवनेश्वर्यै नमः || ॐ एभिर्विधानैर्भुवनेश्वरीं तां समर्च्य सिद्ध्यै तु जपंश्च मन्त्रि | स्तुत्याऽनया स्तौतु सदा समग्रप्रीत्यै समस्तार्त्तिविभञ्जिकायाः || ४८ || प्रसीद प्रपञ्चस्वरूपे ! प्रधाने ! प्रकृत्यात्मिके ! प्राणिनां प्राणसंज्ञे ! | प्रणन्तुं प्रभो ! प्रारभे प्राञ्जलिस्त्वां प्रकृत्याऽप्रतर्क्ये प्रकामप्रवृत्ते || ४९ || स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माऽक्षरं त्वं महेशि ! | ध्रुवं त्वां त्वमेवाऽक्षरैस्त्वन्मयैस्तोष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् || ५० || अजाधोक्षजत्रीक्षणाश्चाऽपि रूपं परं नाभिजानन्ति मायामयं ते | स्तुवन्तीशि ! तां त्वाममी स्थूलरूपां तदेतावदम्बेत्ययुक्तं ममापि || ५१ ||
SK
नमस्ते समस्तेशि ! बिन्दुस्वरूपे ! नमस्ते परत्वेन तत्वाभिधाने ! | नमस्ते महत्त्वं प्रपन्ने प्रधाने ! नमस्ते त्वहङ्कारतत्त्वस्वरूपे ! || ५२ || नमः शब्दरूपे ! नमो व्योमरूपे ! नमः स्पर्शरूपे ! नमो वायुरूपे ! | नमो रूपतेजोरसाम्भःस्वरूपे ! नमस्तेऽस्तु गन्धात्मिके ! भूस्वरूपे ! || ५३ || नमः श्रोत्रचर्माक्षिजिह्वाख्यनासास्यवाक्पाणिपत्पायुसोपस्थरूपे ! | मनोबुद्ध्यहङ्कारचित्तस्वरूपे ! विरूपे ! नमस्ते विभो ! विश्वरूपे ! || ५४ || रवित्वेन भूत्वाऽन्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः | दहस्यग्निमूर्तिं वहन्त्याहुतिं वा महादेवि ! तेजस्त्रयं त्वत्त एव || ५५ || प्. ५८४) चतुर्वक्त्रयुक्ता लसद्धंसवाहा रजःसंश्रिता ब्रह्मसंज्ञां दधाना | जगत्सृष्टिकार्या जगन्मातृभूते ! परं त्वत्पदं ध्यायसीशि ! त्वमेव || ५६ || विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु | गुणं सत्त्वमास्थाय विश्वस्थितिं य करोतीह संऽशोऽपि देवि ! त्वमेव || ५७ || जटाबद्धचन्द्राहिगङ्गा त्रिनेत्रा जगत् संहरन्ती च कल्पावसाने | तमःसंश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभासि || ५८ || सचिन्ताक्षमाला सुधाकुम्भलेखाधरा त्रीक्षणार्धेन्दुराजत्कपर्दा | सुशुक्लांशुका कल्पदेहा सरस्वत्यपि त्वन्मयैवेशि ! वाचामधीशा || ५९ || लसच्छङ्खचक्रा चलत्खड्गभीमा नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः | द्रवद्दैत्यवर्गा स्तुवत्सिद्धसङ्गा त्वमेवेशि ! दुर्गाऽपि सर्गादिहीने ! || ६० || पुरारातिदेहार्धभागा भवानी गिरीन्द्रात्मजात्वेन यैषा विभाति | महायोगिवन्द्या महेशा सुनाथा महेश्यम्बिका तत्त्वतस्त्वन्मयैव || ६१ || लसत्कौस्तुभोद्भासिते ! व्योमनीले ! वसन्तीं च वक्षःस्थले कैटभारेः | जगद्वल्लभां सर्वलोकैकनाथां श्रियं तां महादेव्यहं त्वामवैमि || ६२ || अजाद्रीड्गृहाब्जाक्षपोत्रीन्द्रकाणां महाभैरवस्यापि चिह्नं वहन्त्यः | विभो ! मातरः सप्त तद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ! ताश्च || ६३ ||
SK
समुद्यद्दिवाकृत्सहस्राभभासा सदा सन्तताशेषविश्वावकाशे | लसन्मौलिबद्धेन्दुलेखे ! सपाशाङ्कुशाभीत्यभीष्टात्तहस्ते ! नमस्ते || ६४ || प्रभा कीर्तिकान्ती दिवारात्रिसन्ध्याः क्रियाशा तमिस्राक्षुधाबुद्धिमेधाः | धृतिर्वाङ्मतिः सन्नतिः श्रीश्च भ(श)क्तिस्त्वमेवेशि ! येऽन्ये ! च शक्तिप्रभेदाः || ६५ || हरे ! बिन्दुनादैः सशक्त्याख्यशान्तैर्नमस्तेऽस्तु भेदप्रभिन्नैरभिन्ने ! | सदा सप्तपाताललोकाचलब्धिग्रहद्वीपधातुस्वरादिस्वरूपे ! || ६६ || नमस्ते समस्ते समस्तस्वरूपे ! समस्तेषु वस्तुष्वनुस्यूतशक्ते ! | श्रितस्थूलसूक्ष्मस्वरूपे ! महेशि ! स्मृते ! बोधरूपेऽप्यबोधस्वरूपे ! || ६७ || मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि ! | शरीरप्रवृत्तिः प्रणामक्रिया स्यात् प्रसीद क्षमस्व प्रभो ! सन्ततं मे || ६८ || हृल्लेखाजपविधिमर्चनाविशेषानेतास्तां स्तुतिमपि नित्यमादरेण | योऽभ्यस्येत् स खलु परां श्रियं च गत्वा शुद्धं तद्व्रजति पदं परस्य धाम्नः || ६९ || इति हृल्लेखाविहितो विधिरुक्तः सङ्ग्रहेण सकलोऽयम् | योऽस्मिन्नियतमना मन्त्री योगी स्यात् स एव भोगी च || ७० || इति || प्. ५८५) ३ || श्रीश्रीराजराजेश्वरीतर्पणस्तोत्रं || श्रीविद्यार्चनपद्धतौ ३७- पत्रे यथा- कल्याणायुतपूर्णबिम्बवदनां पूर्णेश्वरानन्दिनीम् पूर्णापूर्णपरापरेशमहिषीं पूर्णामृतास्वादिनीम् | सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतिं श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् || १ || एकानेकमनेककार्यविविधां कार्यैकचिद्रूपिणीं चैतन्यात्मक एकचक्ररचितां चक्राङ्क एकाकिनीम् | भावाभावविवर्द्धिनीं भयहरां सद्भक्तिचिन्तामणिं श्री--------------------------------------------------------------------- || २ || ईशाधीश्वरयोगवृन्दविदितां सानन्दभूताम् परां पश्यन्तीं तनुमध्यमां विलसतीं श्रीविष्णुसद्रूपिणीम् | आत्मानात्मविचारिणीं त्रिवरणां विद्यात्रिबीजत्रयीम् श्री--------------------------------------------------------------------- || ३ ||
SK
लक्ष्मीलक्षनिरीक्षणां निरुपमां रुद्राक्षमालाधरां साक्षात्कारणदक्षवंशकलितां दीर्घाक्षदीर्घेश्वरीम् | भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीम् श्री--------------------------------------------------------------------- || ४ || ह्रींबीजान्वितनादबिन्दुभरितां ॐकारनादात्मिकां ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् | इच्छाज्ञानक्रियावतीं जितवलीं [आर्षत्वाच्छन्दोभङ्गो व्याकरणदोषश्चात्रादोषाय |] गन्धर्वसंसेविताम् श्री --------------------------------------------------------------------- || ५ || हर्षोन्मत्तसुवर्णपात्रभरितां पानोन्नताघूर्णितां हुङ्कारप्रियशब्दब्रह्मनिरतां सारस्वतोल्लासिनीम् | सारासारविचारवादचतुरां वर्णाश्रमाकरिणीं श्री--------------------------------------------------------------------- || ६ || सर्वज्ञानकलावतीं सकरुणां स्वंनादिनीं मादिनीं सर्वान्तर्गतशालिनीं शिवतनुं सन्दीपिनीं दीपिनीम् | प्. ५८६) संयोगप्रियरूपिणीं प्रियवतीं प्रीतिप्रतापोन्नतां श्री--------------------------------------------------------------------- || ७ || कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं कारुण्यां तनुबुद्धिकर्मविरतां सिन्धुप्रियां शालिनीम् | पञ्चब्रह्मसनातनान्तरगतां ज्ञेयाङ्गयोगान्वितां श्री--------------------------------------------------------------------- || ८ || हस्ते कुम्भनिभां पयोक्तभरितां पीनोन्नतां नौमि तां हीराढ्याभरणां सुरेन्द्रवनितां शृङ्गारपीठालयाम् | योग्याकारिणी [अत्र योन्याकारिणी इत्यत्र छन्दोभङ्गः सोढव्य आर्षत्वात् |]योनिमुद्रितकरां नित्यामवर्णात्मिकां श्री--------------------------------------------------------------------- || ९ || लक्ष्मीलक्षणपूर्णभक्तिवरदां लीलाविनोदस्थिताम् लक्ष्म्या रञ्जितपादपद्मयुगलां ब्रह्मेन्द्रसंसेवितां | लोकालोकितलोककामजननीं लोकप्रियाङ्कस्थितां श्री--------------------------------------------------------------------- || १० ||
SK
ह्रींकारीं सुतरां करप्रियतनुं श्रीयोगपीठेश्वरीम् माङ्गल्यायतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् | तारुण्यान्तपसार्चितान्तरुणिकां तन्त्र्यर्चितां नर्तिनीं श्री --------------------------------------------------------------------- || ११ || सर्वेशाङ्गविहारिणीं सकरुणां सर्वेश्वरीं सर्वगां सत्यां सर्वमयीं सहस्रदलनां सप्तार्णवोपस्थिताम् | संसर्गादिविवर्जिनीं शुभकरीं बालार्ककोटिप्रभां श्री --------------------------------------------------------------------- || १२ || कादिक्षान्तसुवर्णबिन्दुसुतनुं स्वर्णादिसिंहासिनीं नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् | चित्तानन्दविधायिनीं सुविपुलां रुढत्रयां शेषिकां श्री --------------------------------------------------------------------- ||१३|| लक्ष्मीशादिविधीन्द्रचन्द्रमुकुटां षष्ठाङ्गपीठार्चितां सूर्येन्द्राग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् | प्. ५८७) गोश्रीगुर्विणी [आर्षत्वान्न छन्दोभङ्गो दोषाय |] गर्वितां गगनगां गङ्गागणेशप्रियां श्री --------------------------------------------------------------------- || १४ || हृईंकूटत्रयरूपिणीं समयगां संसारिणीं हंसिनीं वामाचारपरायणां सुकुलजां बीजावतीं [अत्राशुद्धं स्वयं शोध्यं |] मुद्रिकाम् | कामाक्षीं करुणार्द्रचित्रचरितां श्रीमन्त्रमूर्त्यात्मिकां श्री चक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीं (१५ सं०) (अत्र स्तोत्रे मूललेखवशादशुधां संशोध्यं) ४ || श्रीहयग्रीवावताराय श्रीवेदकृता श्रीदेवीस्तुतिः || श्री० दे० भा० १-स्कं० ५० - अ० ॐ श्रीवेदा ऊचुः || ॐ नमो देवि ! महामाये ! विश्वोत्पत्तिकरे ! शिवे ! | निर्गुणे ! सर्वभूतेशि ! मातः शङ्करकामदे ! || १ || त्वं भूमिः सर्वभूतानां प्राणः प्राणवतां तथा | धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः || २ || त्वमुद्गीथेऽर्धमात्रासि गायत्रि व्याहृतिस्तथा | जया च विजया धात्रि लज्जा कीर्तिः स्पृहा दया || ३ ||
SK
त्वां संस्तुमोम्ब ! भुवनत्रयसंविधानदक्षां दयारसयुतां जननिं जनानाम् | विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां बवनाशकर्त्रीम् || ४ || ब्रह्मा हरः शौरिसहस्रनेत्रवाग्वह्निसूर्या भुवनाधिनाथाः | ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम् || ५ || सकलभुवनमेतत् कर्तुकामा यदा त्वं सृजसि जननि ! देवान् विष्णुरुद्राजमुख्यान् | स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथंचिद्देवि ! संसारलेशः || ६ || न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः | यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्याद्धृतमतिः || ७ || न देवानां मध्ये भगवति ! तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननि ! | कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि ! विहितम् || प्. ५८८) निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति ! मनो नो व्यथयति | कथङ्कारं वाच्यः सकलनिगमागोचरगुणप्रभावः स्वं यस्मात् स्वयमपि न जानासि परमम् || ९ || न किं जानासि त्वं जननि ! मधुजिन्मौलिपतनं शिवे ! किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः | हरेः किं वा मातर्दुरितततिरेषा बलवति भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् || १० || (|| श्रीहयग्रीवावताराय श्रीवेदाः प्रार्थयन्ते श्रीभगवतीं परां देवतां || ) उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् || महद्दुःकं मातस्त्वमसि जननच्छेदकुशला न जानीमो मौलेर्विघटनविलम्बः कथमभुत् || ११ || ज्ञात्वा दोषं सकलसुरतापादितं देवि ! चित्ते किं वा विष्णावमरजनितं दुष्कृतं पातितं ते | विष्णोर्वा किं समरजनितः कोपि गर्वोऽतिवेगात् छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम् || १२ ||
SK
किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तीर्त्वा भगवति ! वरं लब्धवद्भिर्भवत्याः | अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि ! द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः || १३ || सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम् | क्षन्तव्यस्ते स्वांशजातापराधोऽप्युत्थाप्यैनं मोदितं मां कुरुष्व || १४ || एते सुरास्त्वां सततं नमन्ति कार्येषु मुख्याः प्रथितप्रभावाः | शोकार्णवात्तारय देवि ! देवान् उत्थाप्य देवं सकलाधिनाथम् || १५ || मुर्धा गतः क्वाम्ब हरेर्न विद्मो नान्योस्त्युपायः खलु जीवनेऽद्य | यथा सुधाजीवनकर्मदक्षा तथा जगज्जीवितदाऽसि देवि || १६ || इति सं० ५ || अथ मधुकैटभनाशाय श्रीविष्णुकृता श्रीजगदम्बास्तुतिः दे० भा० ३ स्कन्ध-४ अध्याये - ॐ श्रीभगवानुवाच - नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः | कल्याण्यै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः || १ || प्. ५८९) सच्चिदानन्दरूपिण्यै संसारारणये नमः | पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः || २ || सर्वाधिष्ठानरूपायै कूटस्थायै नमो नमः | अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः || ३ || ज्ञातं मयाखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य | शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम् || ४ || विस्तार्य सर्वमखिलं सदसद्विकारं संदर्शयस्यविकलं पुरुषाय काले | तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय || ५ || न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि | शक्तिं विना व्यवहृतौ पुरुषोऽप्यशक्तो बम्भण्यते जननि ! बुद्धिमता जनेन || ६ || प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि | अत्स्येव देवि ! तरसा किल कल्पकाले को वेद देवि ! चरितं तव वैभवस्य || ७ ||
SK
त्राता वयं जननि ! ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै | नीताः सुख्स्य भवने परमां च कोटिं यद्दर्शनं तव भवानि ! महाप्रभावम् || ८ || नाहं भवो न च विरिञ्चि [अत्रापदमार्षत्वात् सोढ्व्यं |] विवेद मातः ! कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् | कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन् भवानि ! चरिते रचनाकलापे || ९ || अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः | अन्येषु देवि ! भुवनेषु न सन्ति किं ते किं विद्म देवि ! विततं तव सुप्रभावम् || १० || याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् | नामापि वक्त्रकुहरे सततं तवैव संदर्शनं तव पदाम्बुजयोः सदैव || ११ || भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि | एषावयोरविरता किल देवि ! भूयाद् व्याप्तिः सदैव जननीसुतयोरिवार्ये ! || १२ || त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञतापरिसमाप्तिनितान्तभूमिः | किं पामरेण जगदम्ब ! निवेदनीयं यद्युक्तमाचर भवानि ! तवेङ्गितं स्यात् || १३ || ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः | किं सत्यमेतदपि देवि ! तवेच्छया वै कर्तुं क्षमा वयमजे ! तव शक्तियुक्ताः || १४ || धात्री धराधरसुते ! न जगद् बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति | सूर्यो विभाति वरदे ! प्रभया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि || १५ || प्. ५९०) ब्रह्माहमीश्वरवरः किल ते प्रभावात् सर्वे वयं जनियुता न यदा तु नित्याः | केऽन्ये सुराः शतमखप्रमुखाश्च नित्यानित्ये ! त्वमेव जननि प्रकृतिः पुराणा || १६ || त्वं चेद्भवानि ! दयसे पुरुषं पुराणं जानेऽहमद्य तव सन्निधिगः सदैव | नो चेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव || १७ ||
SK
विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव | त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके || १८ || गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सुगुणार्धमात्रा | आम्नाय एव विहितो निगमो भवत्या सञ्जीवनाय सततं सुरपूर्वजानाम् || १९ || मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम् | अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरङ्गाः || २० || जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम् | नाट्यं नटेन रचितं वितथेऽन्तरङ्गे कार्ये कृते विरमसि प्रथितप्रभावा || २१ || त्राता त्वमेव मम मोहमयाद्भवाब्धेस्त्वामम्बिके ! सततमेमि महार्तिदे च | रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले || २२ || नमो देवि ! महाविद्ये ! नमामि चरणौ तव | सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे ! शिवे ! || २३ || इति || सं० || ६ || श्रीशिवेन भगवतोक्ता श्रीजगदम्बास्तुतिः | श्रीदेवीभागवते ३ स्कं - ५ अ० ॐ श्रीशिव उवाच || यदि हरिस्तव देवि बिभावजस्तदनु पद्मज एव तवोद्भवः | किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ! || १ || त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः | जननि ! तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः || २ || न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् | तव कृताश्रय एव सदैव ते विरचयन्ति जगत् सचराचरम् || ३ || अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् | यदि तदा कथमद्य च तत् स्फुटं प्रभवतीति तवाम्ब ! कलामृते || ४ || भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् | विविधवेषविलासकुतूहलैर्विरमसे [आर्षोऽयमविभक्तिकः प्रयोगः आत्मनेपदप्रयोगश्च |] रमसेऽम्ब यथारुचि || ५ || प्. ५९१)
SK
सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाभयदेऽम्बिके ! | तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा न च चक्रिम || ६ || यदि दयार्द्रमना न सदाम्बिके ! कथमहं विहितश्च तमोगुणः | कमलजश्च रजोगुणसम्भवः सुविहितः किमु सत्त्वगुणो हरिः || ७ || यदि न ते विषमा मतिरम्बिके ! कथमिदं बहुधा विहितं जगत् | सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् || ८ || तव गुणास्त्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै | हरिहरद्रुहिणाश्च क्रमात् त्वया विरचिता जगतां किल कारणम् || ९ || परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै || पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि ! नवानि च || १० || सृजसि पासि जगज्जगदम्बिके ! स्वकलया कियदिच्छसि नाशितुम् | रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म [आर्षोऽयं प्रयोगः |] वयं शिवे ! || ११ || (|| श्रीमणिद्वीपे यवतिभावमापननः श्रीब्रह्मविष्णुरुद्राः ||) जननि ! देवि ! पदाम्बुजसेवनं युवतिभावगतानपि नः सदा | पुरुषतामधिगम्य पदाम्बुजाद् विरहिताः क्व लभेम सुखं स्फुटम् || १२ || न रुचिरस्ति ममाम्ब ! पदाम्बुजे तव विहाय शिवे ! भुवनेष्वलम् | निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै || १३ || सुदति ! नास्ति मनागपि मे रतिर्युवतिभावमवाप्य तवान्तिके | पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् || १४ || त्रिभुवनेषु भवत्वियमम्बिके ! मम सदैव हि कीर्तिरनाविला | युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम् || १५ || भुवि विहाय तवान्तिकसेवनं क इव वाञ्छति राज्यमकण्टकम् | त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम् || १६ || तपसि ये निरता मुनयोऽमलास्तव विहाय पदाम्बुजपूजनम् | जननि ! ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः || १७ ||
SK
न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा | तव पदाब्जपरागनिषेवणाद् भवति मुक्तिरजे भवसागरात् || १८ || कुरु दयां दयसे यदि देवि ! मां कथय मन्त्रमनाविलमद्भुतम् || समभवं प्रजपन् सुखितो ह्यहं सुविशदं च नवार्णवमुत्तमम् || १९ || प्. ५९२) प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः | कथय मां मनुमद्य भवार्णवाज्जननि ! तारय तारके ! || २० || ब्रह्मोवाच - इत्युक्ता सा तदा देवि शिवेनाद्भुततेजसा | उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् || २१ || तं गृहीत्वा महादेवः परां मुदमवाप ह | प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः || २२ || जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा || बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवास्तदा || २३ || इति सं० || ७- || अथ मधुकैटभदैत्यार्दितेन ब्रह्मणा कृता श्रीदेवीस्तुतिः || (श्री० दे० भा० ३ स्कं० ५. अ० यथा-) ॐ श्रीब्रह्मोवाच - न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्तेनोचुस्त्वां सकलजनधात्रीमविकलाम् | स्वाहाभूतादेवी [आर्षोत्र छन्दोभङ्गः |] सकलमखहोमे सुविहिता तदा त्वं सर्वज्ञा जननि ! खलु जाता त्रिभुवने || १ || कर्ताहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योऽस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् | धन्योस्म्यत्र न संशयः किल यदा ब्रह्मास्मि लोकातिगो मग्नोहं भवसागरे प्रवितते गर्वाभिवेशादिति || २ || अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते | याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु || ३ || अतोऽहं च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै | तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे ! पाहि मां मोहमग्नं भवाब्धौ || ४ ||
SK
न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् | यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम् || ५ || त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् | अहं वेद्मि कोऽन्यो विवेदादिमाये ! क्षमस्वापराधं त्वहङ्कारजं मे || ६ || प्. ५९३) श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै | न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण || ७ || विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम ते संविहाय | न किं ते विमुढा भवाब्धौ भवानि ! त्वमेवासि संसारमुक्तिप्रदा वै || ८ || परं तत्त्वविज्ञानमाद्यैर्जनैर्यैरजे चानुभूतं त्यजन्त्येव ते किम् || निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम || ९ || (|| श्रीमदाद्याप्रकृतिभवानी ब्रह्माणमपि जनयतीति ब्रह्मैवाङ्गीकुरुते ||) न किं त्वं समर्थासि विश्वं विधातुं दृशेवाशु सर्वं चतुर्धा विभक्तम् | विनोदार्थमेवं विधिं मां विधायादिसर्गे किलेदं करोषीति कामम् || १० || हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्दुमध्ये | हरः संहृतः किं त्वयासौ न काले कथं मे भ्रुवोर्मध्यदेशात् स जातः || ११ || न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद | कोलाद्यासि शक्तिस्त्वमेका भवानि ! स्वतन्त्रैः समस्तैरतो बोधिताऽसि || १२ || त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च | हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः || १३ || यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् || न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् || १४ || अकर्ता गुणस्पष्ट एवाद्यदेवो निरीहोऽनुपाधिः सदैवाकलश्च | तथापीश्वरस्ते वितीर्णं विनोदं सुसंपश्यतीत्याहुरेवं विधिज्ञाः || १५ || (|| द्वैताद्वैतविषयमुग्धो ब्रह्मा श्रीभगवतीं प्रार्थयते ||)
SK
दृष्टादृष्टविभेदेस्मिन् प्राक् त्वत्तो वै पुमान् परः | नान्यः कोऽपि तृतियोऽस्ति प्रमेये सुविचारिते || १६ || न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन | विरोधोऽयं मयात्यन्तं हृदये तु विशङ्कितः || १७ || एकमेवाद्वितीयं यद् ब्रह्म वेदा वदन्ति वै | सा किं त्वं वाप्यसौ वा किं संदेहं विनिवर्तय || १८ || निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् | द्वित्वैकत्वविचारेऽस्मिन् निमग्नं क्षुल्लकं मनः || १९ || प्. ५९४) स्वमुखेनापि संदेहं छेत्तुमर्हसि मामकम् | पुण्ययोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः || २० || पुमानसि त्वं स्त्री वाऽसि वद विस्तरतो मम | ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् || २१ || इति || (इत ऊर्ध्वतनोऽत्र सम्बन्धोत्रैव दे० भा० स्थले द्रष्टव्यः || इति-सं० ||) || अथ श्रीललिताम्बात्रिशतीस्तोत्रं || ८ || अस्य श्रीललितात्रिशतीस्तोत्रमन्त्रस्य || भगवान् हयग्रीव-ऋषिः || अनुष्टुप्छन्दः || श्रीललितामहाभट्टारिका देवता || वाग्भवकूटं बीजं || शक्तिकूटं शक्तिं || कामराजकूटं कीलकं || श्रीललिताप्रसादसिद्ध्यर्थं पाठे विनियोगः || अथ ऋष्यादीन् विधाय || कूटत्रयेण द्विरावृत्य करहृदयादिषड.ङ्गद्वयं विधाय ध्यायेद्यथा- अतिमधुरचापहस्तामपराजिता(त) मोदबाणसौभाग्याम् | अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे | इति ध्यात्वा मानसोपचारैः सम्पूज्य पठेत् || ॐ श्रीहयग्रिव उवाच || ककाररूपा कल्याणी कल्याणगुणशालिनी | कल्याणशैलनिलया कमनीया कलावती || १ || कमलाक्षी कल्मषघ्नी करुणामृतसागरा | कदम्बकाननावासा कदम्बकुसुमप्रिया || २ || कन्दपविद्या कन्दर्पजनकापाङ्गवीक्षणा | कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटा || ३ || कलिदोषहरा कञ्जलोचना कर्मविग्रहा | कर्माधिसाक्षिणी कारयित्री कर्मफलप्रदा || ४ || एकाररूपा एकाक्षर्येकानेकाक्षराकृतिः | एतत्तदित्यनिर्देश्या एकानन्दचिताकृतिः || ५ || एवमित्यागमाबोध्या एकभक्तिमदर्चिता | एकाग्रचित्तनिर्ध्याता एषणारहितादृता || ६ ||
SK
एलासुगन्धिचिकुरा एनःकूटविनाशिनी | एकभोगा एकरसा एकैश्वर्यप्रदायिनी || ७ || प्. ५९५) एकातपत्रसाम्राज्यप्रदा एकान्तपूजिता | एधमानप्रभा एजदनेकजगदीश्वरी || ८ || एकवीरादिसंसेव्या एकप्रभवशालिनी | ईकाररूपिणीशित्री [अत्राशुद्धं शोध्यं |] ईप्सितार्थप्रदायिनी || ९ || ईदगित्यविनिर्देश्या ईश्वरत्वविधायिनी | ईशानादिब्रह्ममयी ईशित्वाद्यष्टसिद्धिदा || १० || ईशीत्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा | ईडिता ईश्वरार्धाङ्गशरीरेशाधिदेवता || ११ || ईश्वरप्रेरणकरी ईशताण्डवसाक्षिणी | ईश्वरोत्सङ्गनिलया ईतिबाधाविनाशिनी || १२ || ईहाविरहिता ईशशक्तिरीषत्स्मितानना | लकाररूपा ललिता लक्ष्मीर्वाणीनिषेविता || १३ || लाकिनी ललनारूपा लसद्दाडिमपाटला | ललन्तिका लसत्फाला ललाटनयनार्चिता || १४ || लक्षणोज्वलदिव्याङ्गी लक्षकोट्यणुनायिका | लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः || १५ || ललामराजदलिका लम्बमुक्ता लताञ्चिता | लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता || १६ || ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रीम्पदप्रिया | ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा || १७ || ह्रीङ्कारजपसुप्रीता ह्रीमती ह्रींविभूषणा | ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा || १८ || ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका | ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रींह्रींशरीरिणी || १९ || हकाररूपा हलधृक्रपूजिता हरिणेक्षणा | हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता || २० || हयारूढा सेविताङ्घ्रिर्हयमेधसमर्चिता | हर्यक्षवाहना हंसवाहना हतदानवा || २१ || प्. ५९६) हत्यादिपापशमनी हरिदश्वादिसेविता | हस्तिकुम्भोन्नतकुचा हस्तिकृत्तिप्रियाङ्गना || २२ || हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता | हरिकेशसखी हादिविद्या हालामदालसा || २३ || सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला | सर्वकर्त्री सर्वभर्त्री सर्वहर्त्री सनातनी || २४ || सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी | सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी || २५ ||
SK
सर्वाधारा सर्वगता सर्वापगुणवर्जिता | सर्वारुणा सर्वमाता सर्वभूषणभूषिता || २६ || ककारार्था कालहन्त्री कामेशी कामितार्थदा | कामसञ्जीविनी कल्पा(ल्या) कठिनस्तनमण्डला || २७ || करभोरुः कलानाथमुखी कचजिताम्बुदा | कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका || २८ || कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः | कलालापा कम्बुकण्ठि करनिर्जितपल्लवा || २९ || कल्पवल्लीसमभूजा कस्तूरीतिलकोज्ज्वला | हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला || ३० || हारहारिकुचाभोगा हाकिनी हल्यवर्जिता | हरित्पतिसमाराध्या हठात्कारहतासुरा || ३१ || हर्षप्रदा हविर्भोक्त्रि हार्दसंतमसापहा | हल्लीसंलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी || ३२ || हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी | हा हा हू हू मुखस्तुत्या हानिवृद्धिविवर्जिता || ३३ || हैय्यङ्गवीनहृदया हरिगोपारुणांशुका | लकारार्था लतापूज्या लयस्थित्युद्भवेश्वरी || ३४ || लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता | लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिधिदा || ३५ || लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता | लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा || ३६ || प्. ५९७) लग्नचामरहस्तश्रीशारदापरिसेविता | लज्जापदसमाराध्या लम्पटा लकुलेश्वरी || ३७ || लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः | ह्रीङ्कारिणी ह्रीङ्काराद्या ह्रींमध्या ह्रींशिखामणिः || ३८ || ह्रीङ्कारकुण्डाग्निशिखा ह्रीङ्कारशशिचन्द्रिका | ह्रीङ्कारभास्कररुचि ह्रीङ्काराम्भोदचञ्चला || ३९ || ह्रीङ्कारकन्दाङ्कुरिका ह्रीङ्कारैकपरायणा | ह्रीङ्कारदीर्घिकाहंसी ह्रीङ्कारोद्यानकेकिनी || ४० || ह्रीङ्कारारण्यहरिणी ह्रीङ्कारावालवल्लरी | ह्रीङ्कारपञ्जरशुकी ह्रीङ्काराङ्गणदीपिका || ४१ || ह्रीङ्कारकन्दरासिंही ह्रीङ्काराम्बुजभृङ्गिका | ह्रीङ्कारसुमनोमाध्वी ह्रीङ्कारतरुमञ्जरी || ४२ || सकाराख्या समरसा सकलागमसंस्तुता | सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया || ४३ || सकला सच्चिदानन्दा साध्वी सद्गतिदायिनी | सनकादिमुनिध्येया सदाशिवकुटुम्बिनी || ४४ ||
SK
सकलाधिष्ठानरूपा सत्यरूपा समाकृतिः | सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता || ४५ || सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा | ककारिणी काव्यलोला कामेश्वरमनोहरा || ४६ || कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी | कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा || ४७ || कामेश्वरप्रणयिनी कामेश्वरविलासिनी | कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया || ४८ || कामेश्वरप्राणनाथा कामेश्वरविमोहिनी | कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी || ४९ || कामेश्वराह्लादकरी कामेश्वरमहेश्वरी | कामेश्वरी कामकोटीनिलया काङ्क्षितार्थदा || ५० || लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता | लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा || ५१ || प्. ५९८) लब्धशतिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः | लब्धवृधिर्लब्धलीला लब्धयौवनशालिनी || ५२ || लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा | लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः || ५३ || लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता | ह्रीङ्कारमूर्तिर्ह्रीङ्कारसौधशृङ्गकपोतिका || ५४ || ह्रीङ्कारदुग्धाब्धिसुधा ह्रीङ्कारकमलेन्दिरा | ह्रीङ्कारमणिदीपार्चिर्ह्नीङ्कारतरुसारिका || ५५ || ह्रीङ्कारपेटकमणिर्ह्रीङ्कारादर्शबिम्बिका | ह्रीङ्कारकोशासिलता ह्रीङ्कारास्थाननर्तकी || ५६ || ह्रीङ्कारशुक्तिकामुक्तामणिर्ह्रीङ्कारबोधिता | ह्रीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिका || ५७ || ह्रीङ्कारवेदोपनिषध्रीङ्काराध्वरदक्षिणा | ह्रीङ्कारनन्दनारामनवकल्पकवल्लरी || ५८ || ह्रीङ्कारहिमवद्गङ्गा ह्रीङ्कारार्णवकौस्तुभा | ह्रीङ्कारमन्त्रसर्वस्वा हृईङ्कारपरसौख्यदा || ५९ || इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् | रहस्यातिरहस्यत्वाद् गोपनीयं त्वया मुने ! || इति || (पुनर्हृदयादिषडङ्गं विधायाऽर्पयेत् ||) || इति त्रिशतीनामस्तोत्रं सं० || तन्त्रशास्त्रीयपूजापद्धतौ || वि० ९- ज्ञेयं स्तुतिविषये || इयं-श्रीपरमकृपामृताब्धिस्वेष्टदेवतास्तुतेरपारणीयत्वे -यथा
SK
१ अतीतः पन्थानं० २ असितगिरिसमं स्यात्० (महिम्नःस्तोत्रे०) ३ त्वद्यात्रया व्यापकता हता ते ध्यानेन चेतःपरता हता ते | स्तुत्याऽनया वाक्परता हता ते ममापराधांस्त्रिविधान् क्षमस्व || इति || वेदान्ते शास्त्रे || ४ तव देवि ! गुणानुवर्णने चतुरा नो चतुराननादयः || तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः || इति || श्रीबालास्तवराजे || प्. ५९९) ५ भवानि ! स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि || न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति- स्तदान्येषां केषां कथय कथमस्मिन्नवसरः || इति || (आनन्दलहर्यां प्रथमश्लोकः) || इत्यादिशिष्टोक्त्या भक्त्यापि कृतया स्तुत्या देवतागुणानुवर्णनं पारयितुं न शक्नोति जनस्तत उक्ताभ्योऽधिकापि चिकीर्षिता सा स्यात्च्चेत्तदा नानातन्त्रग्रन्थेभ्योऽथवाऽस्मत्कृतबालातन्त्रचन्द्रिकापरनामकश्रीबहु- चरचिन्तामण्यादिग्रन्थेभ्य आदेया इत्यभ्यर्थयामि श्रीपराम्बोपासनाप्रियान् || इति || (प० क० सू० द्वितीयावृत्तिकारः) १०- || अथ क्ष्मापनं || इदं क्षमापनपि केषांचिन्मते उपचारान्तर्गतमित्यवश्यमादरणीयं तच्च यथा - १ || एषा भक्त्या तव विरचिता या मया देवि ! पूजा स्वीकृत्यैनां सपदि सकलान् मेऽपराधान् क्षमस्व || न्यूनं यत्तत् तव करुण्या पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः || ७० || बा० मा० पू० स्तोत्रे २ || ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ! || मम कृत्यमिदं सर्वमिति मत्वा क्षमस्व मे || ३ || ॐ मादृशः कृपणो नास्ति त्वादृशी न दयापरा | इति मत्वा महेशानि ! यथायोग्यं तथा कुरु || ४ || भूमौ स्खलितपादानां भूमिरेवावलम्बनम् | त्वयि जातापराधानां त्वमेव शरणं मम || श्रीविद्यार्चनपद्धतौ ५ || आवाहनं यजनवर्णनमग्निहोत्रं कर्मार्पणं तव विसर्जनमत्र देवि ! | मोहान्मया कृतमिदं सकलापराधान् मातः ! क्षमस्व वरदे ! बहिरन्तरस्थे ! ||
SK
६ || मया यत् क्रियते कर्म जाग्रत्स्वप्नसुषुप्तिषु | तत् सर्वं तावकी पूजा भूयाद् भूत्यै च मे शिवे || ७ || क्षन्तुमर्हसि देवेशि ! त्रिपुरे ! देवि ! पूजिते ! || तव पादाम्बुजे नित्यं निश्चला भक्तिरस्तु मे || ८ || अथवा न मन्त्रं नो यन्त्रमित्यपराधक्षमाकारकं स्तोत्रं पठनीयम् || (तदपि तत्रैव बा० तं० च० ३४८ पत्रेऽस्ति) प्. ६००) १२ || पूजां ग्रहीतुं भक्तकुता श्रीभगवतीप्रार्थना || (श्री० मा० पू० बा० तं० चन्द्रिकायां ३९१ पत्रे यथा-) ॐ || विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं प्राप्तुं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु | नो चेत् त्वत्पदभावनापहरणद्राग्वाटपाटच्चर- च्चेतो मे स्वगुणैर्बधान न यथा भुयो विनिर्गच्छति || १ || क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं ध्यातं देवि ! रहस्यमद्रितनयाश्रीपादुकापूजनम् | कादाचित्कमनीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवि ! तव त्वया प्रकटितं मन्ये मदीयानने || २ || इति || (१३ | ३९ वि० सं०) || समाप्तः स्तुतिविषयः || १३ | ४० || नमस्कारे ज्ञेयम् || १ || अयं षोडशोपचारान्तर्गतो नमस्कारः कस्य कर्मणोऽनन्तरं कर्तव्यस्तत्रापि बहुशोभिदा वर्तन्ते तश्च अत्रैव प० क० सू० द्वि० परिशिष्टे उपचाराणां सङ्ख्याविषयकविषये ३८६ पत्रतः ३९२ पत्रेषु दृश्याः | २ || अयं नमस्काररूपोपचारः यत्र पूजाङ्कर्तुं साधकवर उपविष्टस्तत्रैव अथवा देवता तिसान्निध्येऽपि न कार्योऽपि तु मण्डलाद् बहिरेव कार्यस्तत्र प्रमाणमधस्तात् || मण्डललक्षणमुक्तमत्रैव - प० क० सू० ५ - खण्डे १७४ पत्रे - २० सूत्रे तद्भाष्ये च यथा - प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य || २० || अत्र भाष्यं यथा प्रदक्षिणमेकं कार्यम् अजेशशक्तिगणपभास्कराणां प्रदक्षिणे | वेदार्धचन्द्रवह्न्यद्रिसङ्ख्याः सर्वार्थसिधयः ||
SK
इति शक्तिसङ्गमतन्त्रे उक्तत्वात् | अजः विष्णुः | वेदाश्चतस्रः | अर्धं तदर्धं द्वयम् | चन्द्रः एकः | वह्निः तिस्रः | अद्रिः सप्त | इमाः सङ्ख्याः अजादिप्रदक्षिणे क्रमात् ज्ञेयाः इत्यर्थः | श्रीमच्छङ्करभगवत्पादैरपि प्रदक्षिणं [अयं श्लोकः अत्रैव १७३ पत्रे बा० मा० पू० स्तोत्रेऽस्ति-] ते परितः करोमि इत्येक वचनान्तमेवोक्तम् || प्. ६०१) नमस्कारे तु इच्छैव नियामिका शास्त्रोपलब्धिपर्यन्तं | नमस्कारे कश्चिद्विशेषः ३- परमानन्दतन्त्रे चतुरङ्गप्रणामो मण्डले नमो निषेधश्च यथा- पूजागृहाद्बहिर्देवीं प्रणमेद् दण्डवद्भुवि | मण्डले नमनं नैव साष्टाङ्गं दण्डवत् चरेत् || १जानुभ्यां च २पदाभ्यां च ३मूर्ध्ना ४हस्तयुगेन च | चतुरङ्गप्रणामोऽयं मण्डले विहितः शिवे || इति ४- मण्डललक्षणं योगिनीतन्त्रे - पूज्यते यत्र सा देवी तच्चतुर्दिक्षु शङ्करि ! | धनुश्शतप्रमाणेन मण्डलं परिकीर्तितम् || इति || धनुर्मानं तु हस्तचतुष्टयम् | ५- बृहद्वामकेश्वरे तु - मण्डलं तद्विजानीयात् यावद् दृश्या हि देवता || इति || रहस्यार्णवे तु - ६- द्वारपूजा यत्र कृता तदन्तर्मण्डलं विदुः || इति || अयं च देशतः परिच्छेद उक्तः कालतः परिच्छेदस्तु शक्तिसङ्गमतन्त्रे - द्वारपूजां समारभ्य यावदुद्वासनं भवेत् | तावत्तन्मण्डलं विद्धि..................... || इति || त्रिपुरार्णवेऽपि - ७- इदं तन्मण्डलं देवि ! प्रारभ्यैतस्य पूजनम् | मार्तण्डमण्डलार्घ्यान्तं ................|| इति || इदमेव मण्डलं वक्ष्यमाणमण्डलधर्मेषु ज्ञेयं | इति | (इदं मण्डलमन्यत्) अर्थादेतस्य सङ्केतितपूजास्थलस्य बहिष्टादेवोपेत्य नमस्कुर्यादिति तात्पर्यं ज्ञेयमिति - ७- अष्टाङ्गनमस्कारकरणे - य० आ० सू० १३१ पत्रे साष्टाङ्गनमस्कारः ग्रन्थान्तरे यथा- शिरसा उरसा दृष्ट्या मनसा वचसा तथा | पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते || इति || ८- पञ्चाङ्गनमस्कारे - कुलार्णवतन्त्रे ७ उल्लासे ६६ पत्रे यथा- प्. ६०२)
SK
शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् || यथाशक्ति विनीतात्मा वित्तशाठ्यविवर्जितः || प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये ! | समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे || गृहीत्वाङ्गुष्ठकौ कृत्वा करौ नम्राग्रतर्जनी | जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् || इति || ९ - सामान्यतो देवनमस्कारकरणे बद्धाञ्जलिरेव स्यात् तत्र प्रमाणं यो० तं० ९ पटले २३२ पत्रे यथा- अबद्धाञ्जलिलोकानां [अत्राशुद्धं स्वयं शोध्यं |] नमस्कारं करोति यः | मोहान्धकारनरके पच्यते नात्र संशयः || पत्रान्तरे च प्रणमेन्मूर्ध्ना न च क्षितिं स्पृशेत् | शपन्ति देवतास्तस्य विफलं परिकीर्तितं || इति || १०- सपरिवारश्रीनमस्कारश्लोकमन्त्र उत्तमः श्री० मा० पू० यथा- ॐ सन्तुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पाद्यैरतिपूजितां भगवतीं त्वां वन्दमानो मुदा | स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः || इति || ११- देवप्रणामकरणे फलं - तत्रैव योगिनीतन्त्रे ९ पटले २३२ पत्रे यथा - प्रणामो देवदेवस्य यावत्यो मूर्तिकाः प्रिये ! | शरीरे वा महेशानि ! तस्य पुण्यफलं शृणु || यावन्तो रेणवस्तस्य तावत्कालं वसन्ति वै | तावद्वर्षसहस्राणि ब्रह्मलोके महीयते || इति || (१३ | ४० वि० सं०) वि० १३ | ४१ || पूजोपचारार्पणफलविषये श्रीयोगिनीतन्त्रे ९ पटले २२९ पत्रे- १- श्रीविष्णुहयग्रीवयोर्वा कस्यचिदपि देवस्य पूजायां फलं यथा- एवं सम्पूज्य देवेशं मण्डपस्थं जनार्दनम् | लभेदभिमतान् कामान्नरो नास्य तु संशयः || प्. ६०३) अनेनैव विधानेन मण्डपस्थं हयाननम् | पूजितं पश्यते यस्तु न विघ्नं विष्णुमव्ययम् || सकृदप्यर्चितो येन विधिनानेन केशवः | जन्ममृत्युज्वरातीतः स विष्णोः पदमाप्नुयात् || यः स्मरेत् सततं भक्त्या हयग्रीवमतन्द्रितः | अन्वहं तस्य द्वे सन्ध्ये श्वेतद्वीपः प्रकल्पितः || २- श्री कुलार्णवे १० उल्लासे ९६ पत्रे श्रीशिववचो यथा-
SK
पूजात्रिकं तु यः कूर्यादिच्छाज्ञानक्रियान्वितम् || आगमोक्तेन विधिना पूर्ववत्तद्विधानवित् | पदार्थैः षड्रसैः सम्यग् यथाविभवविस्तरम् || सन्तुष्टा देवताः सर्वाः सर्वज्ञानफलप्रदाः | देवेशि ! साधकाभीष्टं प्रयच्छन्ति न संशयः || इत्यादिदेवतापूजां विशेषदिवसेषु च | भजेयुः शास्त्रविधिना स भवेदावयोः प्रियः || श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु च | न करोति समर्थः सन् स भवेद् योगिनीपशुः || कुलपूजां तु नियतं यः करोति स कौलिकः | कुलेशि ! समवाप्नोति योगिनीवीरमेलनम् || नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् | स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः || तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | कुलपूजारतो भूयादभीष्टफलसिद्धये || कुलपूजाधिकं दानं कुलपूजाधिकं फलं | कुलपूजाधिको योगः कुलपूजाधिका गतिः || कुलपूजाधिकं भाग्यं कुलपूजाधिकं तपः | कुलपूजाधिका विद्या कुलपूजाधिकार्चना || नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके ! | बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति ! || प्. ६०४) वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः | तत्समीपस्थितं मां त्वं विद्धि नान्यत्र भाविनि ! || इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः | सभूमिदिग्जलगिरिनभोवनचराः प्रिये ! | सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि | नियुक्ता हि मया देवि ! कुलसंरक्षणाय च || दिवसेषु विशेषेषु सर्वे च मुदिता नराः | साधकानेव वीक्षन्ते स्वयं पूजनलिप्सया || अपूजितास्तु विघ्नन्ति प्रसीदन्ति सुपूजिताः || इति || ३ - स्वयमन्यद्वारा वा पूजाकरणे फलप्राप्तौ सटीकशारदा ४ पटले ३०० पत्रे यथा- यस्तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् | साधनं चाऽर्चयेद्विद्वान् स समग्रं फलं लभेत् || योऽर्चयेद्विधिवद्भक्त्या परानीतैश्च साधनैः | पूजाफलार्द्धमेवाऽस्य न समग्रफलं लभेत् || इति || ४- शम्भुरहस्ये स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः | मध्यमा या यजेद्भुत्यैरधमा याजनक्रिया ||
SK
|| धर्मार्जितधनैः पूजाकरणफलम् || ५ - भविष्ये यथा- धर्मार्जितधनक्रीतैर्यः कुर्यात् केशवार्चनम् | उद्धरेत् स्वेन सहितान् दश पूर्वान् दशापरान् || || श्रीहरिसेवाकरणफलम् || ६- महाभारते - कलौ कलिमलध्वंसं सर्वपापहरं हरिम् | येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः || || श्रीजगदम्बायास्त्रिकालपूजाफलम् || ७- योगिनीतन्त्रे ७ पटले २०० पत्रे प्. ६०५) शुक्लपक्षे नवम्यां तु अष्टम्यां परमेश्वरीम् | त्रिकालं पूजयेद् यस्तु चतुर्दश्यां मम प्रिये ! | स गच्छति परं स्थानं यत्र देवी व्यवस्थिता || क्रोडयित्वा चिरं काले राजा भवति भूतले | स्नात्वोपवासनियमपूजाजागरमार्जनैः || सर्वकालेषु सर्वेषु कामेशीं यस्तु पूजयेत् | विमानवरमारुह्य ध्वजमालाकुलं तथा || ब्रह्मलोके नरो याति मोदते शाश्वतीः समाः | विविधैर्भक्तिभावेन तस्माद् विभवविस्तरैः || पूजयेत् सततं दुर्गां महापुण्यफलेच्छया | ८- श्री० दे० भा० स्कन्धे -४० अध्याये श्रीदेवीगीतायां श्रीहिमालयं प्रति श्रीवचो यथा- विमृश्यैतदशेषेणाप्यधिकारानुरूपतः | कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि || विविधैर्भक्तिभावेन तस्माद् विभवविस्तरैः | पूजयेत् सततं दुर्गां महापुण्यफलेच्छया || ९- ज्ञानार्णवतन्त्रे १६ पटले ७७ पत्रे यथा - चक्रमभ्यर्च्य सकलं विधिवत् परमेश्वरि ! || श्रीगुरोः कृपया देवि सर्वज्ञः सर्वतत्त्ववित् || २२८ || इति || || श्रीकुलपूजाफलं || १०- कुलार्णवतन्त्रे ५ उल्लासे ४७ पत्रेपि यथा- कुलपूजासमं नास्ति पुण्यमन्यज्जगत्रये || तस्माद् यः पूजयेद्भक्त्या भक्तिमुक्त्योः स भाजनम् | अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः || कुलपूजारतो यस्तु मम प्रियतमो भवेत् | चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि ! || पुंस्त्रीनपुंसकानां तु पूजितेऽष्टफलप्रदा | इहामुत्र शुभं दद्यात् पूजिता सुवधूरिव || प्. ६०६)
SK
अपूजिता त्वं देवेशि दुःखदा कुवधूरिव || कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः | स याति नरकं घोरमेकविंशतिभिः सह || तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् | लभते सर्वसिद्धीश्च नात्र कार्या विचारणा || इति || वैदिकतान्त्रिकपूजाफलम् || ११ श्रीमद्भागवतेपि ११ स्कन्धे श्रीवचो यथा - एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः | अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् || इति || || पूजया भोगमोक्षोभयप्राप्तिः || १२ ज्ञानार्णवतन्त्रे ८ पटले २५ पत्रे यथा- एवं पूजाविधिं कुर्याद्भोगमोक्षफलाप्तये | अनेनैव विधानेन नित्याख्यां भैरवीं यजेत् || १३ || सर्वसौभाग्यदां नित्यां सर्वसाम्राज्यदायिनीम् || इति || एवं प्रत्यक्षसाहित्याद्देवतापूजाकरणफलमुक्त्वा पुरस्तोष्टाष्टकार्चनपूजाफलम् || १३-४१ | १३ अष्टाष्टकार्चनमहाफलं || कुलार्णवे १० उल्लासे ९४ पत्रे श्रीगुरुगुरुः श्रीशिवो भगवानाह यथा- एवं यः कुरुते देवि ! सकृदष्टाष्टकार्श्चनम् || ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते | किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः || यदर्च्चनाच्चतुःषष्टियोगिनीगणसंस्थितः | पुनरावृत्तिरहितो निवसेत्तव सन्निधौ || समस्तदेवताप्रीतिकारिणी परमेश्वरी | तस्मात् परतरा पूजा नास्ति सत्यं न संशयः || पश्येदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये ! | यज्ञदानव्रतैस्तीर्थव्रतकोटिफलं लभेत् || इति || १४ श्रीदेवीपूजया सार्वभौमो राजा स्यात् || तत्रैव यथा- राजा यः कारयेद्देवि ! भक्त्याष्टाष्टकपूजनम् | चतुःसागरपर्य्यन्तां महीं शास्ति न संशयः || इति || प्. ६०७) १३-४१ | १५ मानसपूजोपचारफलम् || बा० तं० चन्द्रिकायां ३९२ पत्रे श्री० मा० पूजायां यथा- १ श्रीचक्रस्यादिबिन्दूद्भवसदनगतां सर्वदानन्ददात्रीं श्रीविद्यां देववन्द्यां विविधबलिवरै राजलक्ष्मीसमेतैः | पूर्णैः सर्वोपचारैरवनिपतिवराभूतिभिः पूजयन्ति ते वै स्वर्गाधिपत्यं धनदशचिपतिस्थनमेवाप्नुवन्ति ||
SK
द्रव्याभावे बुधेन्द्रा गिरिवरतनयां सुन्दरीं योगमाया- मेतैर्वाक्योपचारैः प्रमुदितमनसो योगिनो ये यजन्ति | सद्यो ब्रह्माण्डभाण्डादिपतय इव वै ब्रह्मविद्याविदस्ते सद्भिस्ते वन्द्यपादा दिवि विबुधवरैरीज्यमाना नरेन्द्रैः || श्रीचक्रराजार्चनसत्क्रमं यः करोति कर्मातिशयं यतात्मा | स एव धन्यो विबुधाधिकोऽत्र वैकुण्ठवासं लभते तदन्ते || इति || तथैव २ श्रीश्रीविद्यामानसपूजने यथा- श्रीचक्रराजस्य सपर्ययास्य श्रीसुन्दरीशङ्करमन्दिरस्य | प्रदक्षिणालोकनमेकवारं कृत्वापवर्गं लभते मनुष्यः || श्रीसुन्दरीमन्दिरमिन्दिराया निधानमाधानमिहागमानाम् | सन्दर्श्नं स्पर्शनकं च कृत्वा स्वर्गाधिपत्यं लभते मनुष्यः || श्रीचक्रराजार्चनसत्क्रमं यः करोति कर्मातिशयं यतात्मा || स एव धन्यो विबुधाधिकोऽत्र वैकुण्ठवासं लभते मनुष्यः || इति || (१३-४१-१३ तथा च १३-४१ वि० सर्वः सं०) || श्रीपूजया सर्वकार्यसिद्धिः || ३ श्रीयोगिनीतन्त्रे १८ पटले १०० पत्रे यथा- यं यं भावमुपाश्रित्य यजेत् कालीं हि साधकः | प्राप्नुयादचिरादेव महाकाल्याः प्रसादतः || इति || (१३-४१-१५ वि० सं०) १३-४२ || पूजासमाप्तौ भूमिप्रोक्षणविषये || शारदापटले यथा- अप्रोक्षितजपस्थानाच्छक्रो हरति यज्जपम् | तस्माज्जपान्ते तत्प्रोक्ष्य ललाटे तिलकं क्रियात् || इति || य-आ-सू० प्. ६०८) इति श्री प० क० सूत्रे द्वितीयावृत्तौ द्विपरिशिष्टे १३-१ वि० तः १३-४२ तथा च १३ सर्वोपि विषयोऽत्र परिसमापितः श्रीष्टकृपया || || अथ द्विपरिशिष्ट वि- १४ || पात्रोद्वासनादिविषये || अत्र पूजान्ते क्रियमाणं पात्रोद्वासनादिसमाप्तिसङ्कल्पान्तं कर्म स्वगुरूपदिष्टपरम्परयाऽथ वा तन्त्रग्रन्थतोऽथ वाऽस्मत्कृतश्रीबालातन्त्रचन्द्रिकापुस्तक ३९३ पत्रस्थ २६-३ | १ विषयतोऽथ वैतत्परशुरामकल्पसूत्रस्थतत्तद्देवतार्चनान्तोक्तप्रयोगानुसारेण विधेयमित्यभ्यर्थये साधकानाप्तान् || इति || द्वि-परिशिष्टकारः || सप्रश्रयं निवेदनम् ||
SK
मदुक्तविधिनामुना विदधतां श्रीयः पूजनं अहो न वितथाग्रहो मम मनागपि प्रागपि | स्वतन्त्रनिजतन्त्रशम्भुकृततन्त्रशास्त्राश्रयं विधाय परिपूरणीयमयि शेषमीष्यर्चनम् || || प० क० सू० द्वितीयावृत्तिकारः || ॐ श्री० श्री || अथ श्रीपरशुरामकल्पसूत्रस्य द्विपरिशिष्टे मुद्रोद्धारे परिशिष्टविषय १५ प्रारम्भः || भूमिकात्र एतच्छ्रीपरशुरामकल्पसूत्रपिपठिषूणां तत्तन्मुद्रावलोकनकरणसुगमतासिद्ध्यै एतद्ग्रन्थस्य तत्तत्पत्रदर्शितमुद्राणां पत्रानुसन्धानपूर्वकमन्यासां चानुक्तानामप्यत्युपयुक्तमुद्राणां चैतद्ग्रन्थान्यतन्त्रग्रन्थतो मुद्रोद्धारः प्रदर्श्यते || १५-१ अथ मुद्राशब्दार्थः - १ || मुद्राशब्दार्थः अत्रैव प० क० सू० ४ खण्डे श्री ललिताक्रमे १३५ पत्रे १ सूत्रभाष्ये यथा - मुद्राशब्दार्थश्च विश्वस्यमोदनात् द्रावणाच्च मुद्रा | तदुक्तं - योगिनीतन्त्रे चिदात्मभित्तौ विश्वस्य प्रकाशामर्शने यदा | करोति स्वेच्छया पूर्णविचिकीर्षा समन्विता || क्रियाशक्तिस्तु विश्वस्य मोदनाद् द्रावणात्तथा | प्. ६०९) मुद्रेति कथिता देवी................|| इति || इयं क्रियाशक्तिः त्रिपुरसुन्दर्या क्रियमाणोत्पत्त्यभिवृद्धी अनुमोदते द्रावयति चेति सा मुद्रा | अनुमोदनं नाम स्वभिन्नकर्तृकक्रियाऽनुकूल्यं | द्रावणं नाम घनस्य सङ्कुचितस्य प्रशिथिलावयवताऽपादनात्मकः प्रसरः | ईदृशक्रियाशक्तिरेव स्ववृत्तिमुद्रात्वसामानाधिकरण्येन ईक्षणादेर्मेलनेन त्रिकालमयी त्रिखण्डा भवति | इति परमरहस्यार्थः || इति || २ सटीकशारदातिलकेऽपि - २३ पटले ८४२ पत्रे टीकायाम् मुद्राशब्दार्थः मुद्राकरणफलं च यथा - आवाहन्यादिका मुद्राः प्रवक्ष्यामि यथाक्रमम् | याभिर्विरचिताभिस्तु मोदन्ते सर्वदेवताः || १०६ ||
SK
अत्र टीका मुद्राः आह आवाहनीति | रा दाने मुदं राति ददाति इति मुद्रा- इति निर्वचनं | इदमेवमोदन्ते सर्वदेवताः - इत्यनेन सूचितम् | अत एव तद्दर्शनेन देवता हर्षेत्पत्तिः | स्वाङ्गुल्यो हि पञ्चभूतात्मिकाऽङ्गुष्ठाद्याः आकाशवाय्वग्निसलिलभूरूपाः | तासां मिथः संयोगरूपसङ्केतात् कोऽपि देवताप्रगुणीभावपूर्वको मोदः सान्निध्यकरो भवति | तदुक्तम्- पृथिव्यादीनि भूतानि कनिष्ठाद्याः क्रमान् मताः | तेषामन्योन्यसम्भेदप्रकारैस्तत्प्रपञ्चता || अर्चने जपकाले तु ध्याने काम्ये च कर्मणि | तत्तन्मुद्राः प्रयोक्तव्या देवतासन्निधापिकाः || इति || ३ अन्यत्रापि - मुदं रातीति मुद्रा स्याद्येनैका मुष्टिरेव तु | स्वल्पभेदात् कोपहर्षौ प्राणिनां जनयत्यतः || तेनैव सर्वदेवानां मुद्रा हर्षप्रदा मता | पूजाकाले दर्शनीया मुद्रास्ताः सर्वदा शिवे ! || इति || तथा- खादिमार्गक्रमाद्भूतान्यङ्गुष्ठाद्यङ्गुलिक्रमात् | कापि [अत्राशुद्धं भातीति शोध्यं |] मुत्तन्मिथो योगात् सान्निध्यप्रह्वताकरी || इति || ४ तन्त्रसारे - योजनात् सर्वदेवानां द्रावणात् पापसंहतेः | तस्मान्मुद्रेति सा ख्याता सर्वकामार्थसाधिनी || इति || य० आ० सू० ५१ पत्रे ५ अत्रात्र मुद्राकर्तव्यतोपदेशः | मुद्राप्रकारनामकग्रन्थे प्रथमपत्रे आरम्भे यथा - प्. ६१०) अर्चने जपकाले च ध्याने काम्ये च कर्मणि | स्नाने चावाहने शङ्खे प्रतिष्ठायां च रक्षणे || २ || नैवेद्ये च तथान्यत्र तत्तत्कल्पप्रकाशिते | स्थाने मुद्राः प्रद्रष्टव्याः सर्वलक्षणलक्षिताः || ३ || इति || ६ || देवतापरत्वेन तत्तन्मुद्राग्राह्यता उक्त - मुद्राप्रकारनामकग्रन्थे यथा- लक्ष्मीमुद्रार्चने लक्ष्म्या वाग्वादिन्यास्तु पूजने | अक्षमाला तथा वीणा व्याख्या पुस्तकमुद्रिका || १२ || सप्तजिह्वाह्वया चैव विज्ञेया वह्निपूजने | मत्स्यमुद्रा च कूर्माख्या लेलिहा मुण्डसंज्ञका || महायोनिरिति ख्याता सर्वसिधिसमृद्धिदा || शक्त्यर्चने महायोनिः श्यामादौ म्ण्डसंज्ञका ||
SK
मत्स्यकूर्माख्यलेलिहा [आर्षश्छन्दोभङ्गोऽत्र |] सर्वसाधारणी मता | तारार्चने च कथ्यन्ते पञ्चमुद्राविलोकिताः || योनिश्च भूतिनी चैव बीजाख्या दैन्यधूमिनी | लेलिहानेति सम्प्रोक्ताः पञ्च मुद्रा प्रकीर्तिताः || दशमी मुद्रिका ज्ञेया त्रिपुरायाः प्रपूजने | संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः | खेचरीबीजयोन्याख्या त्रिखण्डा परिकीर्तिता || कुम्भमुद्राभिषेके स्यात् पद्ममुद्रासने तथा | कालकर्णा प्रयोक्तव्या विघ्नमश्रमकर्मणि [विघ्नमश्रम-इति संशोध्यम् |] || गालिनी च प्रयोक्तव्या जलशोधनकर्मणि | श्रीगोपालार्चने वेणुः नृहरेर्नारसिंहिका || वराहस्य च पूजायां वाराह्याख्यां प्रदर्शयेत् | हयग्रीवार्चने नित्यं हयग्रीवीं च दर्शयेत् || रामार्चने धनुर्बाणमुद्रे परशुरर्चने | परशुरामस्य विज्ञेया जगन्मोहिनिका तथा || प्. ६११) वासुदेवाह्वया ध्याने कुम्भमुद्रा तु रक्षणे | सर्वेषां प्रार्थने चैव प्रार्थनाख्यां प्रयोजयेत् || इति || ७- शक्तिप्रियामुद्राः मुद्राप्रकारग्रन्थे १ पत्रे यथा- पाशाङ्कुशवराभीतिखड्गचर्मधनुःशराः | मौशली मुद्रिका दोर्गी मुद्राः शक्तिप्रियङ्कराः || इति || ८ - मुद्राकरणावश्यकता - गा० पु० ४१ पत्रे - श्रीमच्छङ्कराचार्यपादा यथा- आवाहनादिहीनेन कृता पूजा निरर्थका || विपरीतफलं दद्यादभक्त्या चार्चनं यथा || इति || ९ || समाजे मुद्राकरणनिषेधः | सटीकशारदा० २३ पटले ८४४ पत्रे ११४ श्लोकटीकायां यथा- एता मुद्रास्तत्तन्मन्त्रान् मदुक्तविशेषमुद्राश्च न कस्यचिद्दर्शयेत् | तदुक्तं महाकालसंहितायाम् - न जातु दर्शयेन् मुद्रा महाजनसमागमे | गुह्यमेतन्मुनिश्रेष्ठ तस्माद्रहसि योजयेत् || नाऽदीक्षितस्य मुद्राणां लक्षणानि प्रकाशयेत् | क्षुभ्यन्ति देवतास्तस्य विफलं च भवेदिति || इति || १० || मुद्राणां गोप्यत्वं | तत्रैव यथा- अन्यत्राऽपि - अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् || इति || ११ || अधिकारिभेदेन मुद्राकरणभेदः | तत्रैव यथा-
SK
अथ चैताः सर्वा रहस्येव कुर्यात् | मोक्षार्थिना मनसैव दर्शयितव्याः | तदाहुः- मानसरूपसङ्कल्पा मुद्रा मोक्षार्थिनां विदुः | इतरेषां तु सर्वेषां हस्तभ्यां शस्यते बुधैः || इति || ११३ | ११४ || इति मुद्राप्रकीर्णं (१५ | १ वि० सर्वः सं० ) द्वि० परि० वि० १५ | २- नानामुद्रोद्धारः || १५-२ | १ || अथ सर्वादौ श्रीगणेशमुद्रोद्धारः लिख्यते || सा च सटीकशारदा० -१३ पटले श्रीगणेशोपासनायां ५४८ पत्रे - ४ टीकायां यथा- प्. ६१२) अत्र ध्यानानन्तरमियं गणपतिमुद्रा प्रदर्शनीया इत्युक्तम् | मुखात् प्रलम्बितं हस्तं कृत्वा सङ्कुचिताङ्गुलिम् | मध्या तर्जनिगताग्राङ्गुष्ठं चाधस्थमध्यमम् || कुर्यान्मुद्रां गणेशस्य प्रोक्तेयं सर्वसिद्धिदा || इति || २ || गणेश्वरीमुद्रोद्धारोपि -तत्रैव || यद्वा | कुञ्चिताग्रस्य हस्तस्य मूले नासा नियोगतः | गणेश्वरी भवेन्मुद्रा० || इति इयं सर्वगणपतिमन्त्रसाधारणीति ज्ञेयम् || ४ || ३ || अविघ्नमुद्रिका - तत्रैव || यद्वा || तर्जनीमध्यमासन्धिर्निर्गताङ्गुष्ठमुष्तिका | अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका || इति || ४ - तथैव || मुद्राप्रकारोक्ता विघ्नमुद्रा ५३ श्लोके यथा- तर्जनीमध्यमानामाकनिष्ठाङ्गुष्ठमुष्टिका | अधोमुखि दीर्घरूपा मध्यमा विघ्नमुद्रिका || ५३ || इति || ५ || श्रीगणपतिप्रसादसम्पादयित्री दन्तमुद्रा - || अस्याः उद्धारः मुद्राप्रकारे ५० श्लोके - उत्तानोर्ध्वमुखी मध्यशिरसा बद्धमुष्टिका | दन्तमुद्रा समाख्याता सर्वागमविशारदैः || इति || || इति श्रीगणेशमुद्राः || सं - | (१५-२ वि० सं०) वि० १५-३ अथ - युगपन्मुद्रोद्धारः | १आवाहन २संस्थापन ३संनिधापन ४संनिरोधन ५संमुखीकरण ६सकलीकरणेत्यादियुगपन्मुद्रोद्धारः || तत्रादौ- आवाहनादिपञ्चमुद्रोद्दारः १ प० क० सू० ७ खण्डे श्रीवाराहीक्रमे २१ सूत्रभाष्ये २१८ पत्रे यथा- हस्तद्वयं चोर्ध्वमुखमृज्वङ्गुलियुतं युतम् | अङ्गुल्यग्राणि भुग्नानि कनिष्ठामूलभागतः ||
SK
अङ्गुष्ठ ग्रसमायोगान्मुद्रैषाऽ१वाहिनी मता अधोमुखी चेयमेव २स्थापनाख्या समीरिता || मुष्टिद्वयोदरयुता भवेत् सा ३संनिधापनी | इयमङ्गुष्ठगर्भा तु ४संनिरोधनरूपिणी || इयमेवोत्तानरूपा ५सम्मुखीकरणाभिधा || इति || (अधस्तनः -३ वि० दृश्यः) प्. ६१३) अत्र भाष्यम् - आवाहनादिमुद्र अनूद्य तदङ्गत्वेन मूलमन्त्रविधानात् प्रतिप्रधानमङ्गावृत्ति इति न्यायेन सृष्टीरुपदधाति इतिवत् यावत्यो मुद्रा विहिताः तावतीषु मुद्रासु बध्यमानासु तावद्वारं मूलमावर्तयेत् न तु सकृन्मूलमुच्चार्य सर्वमुद्रा बन्धनं इति ज्ञेयं || २१ || इति || २ - आवाहनादिषण्मुद्रोद्धारः- सटीकशारदा० २३ पटले - ८४३ पत्रे यथा- सम्यक् सम्पूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः | १आवाहनी समाख्याता मुद्रा देशिकसत्तमैः || १०७ || अधोमुखी कृता सैव प्रोक्ता २स्थापनकर्मणि | आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका || १०८ || ३सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः | अङ्गुष्ठगर्भिणी सैव ४सन्निरोधे समीरिता || १०९ || उत्तानौ द्वौ कृतौ मुष्टी ५सन्मुखीकरणी स्मृता | देवताङ्गे षडङ्गानां न्यासः स्यात् ६सकलीकृतिः || ११० || ३- अथवा- ज्ञानार्णवतन्त्रे - आवाहनादिपञ्चमुद्रोद्धारः ४ पटले १३ पत्रे यथा - आवाहनादिमुद्रास्तु कथयामि तवानघे ! || ३१ || ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् | इयं तु विपरीता स्यात्तदा वै स्थापनी मता || ३२ || मिलितं मुष्टियुगलं संनिधापनरूपिणी | अन्तरङ्गुष्ठमुष्टिभ्यां संनिरोधनरूपिणी || ३३ || एतस्या एव मुद्रायास्तर्जन्यौ सरले यदा | सव्यापसव्यभ्रमणान्मुद्रेयमवगुण्ठनी || ३४ || (उपरितनः १५ | ३-१ वि० दृश्यः) संस्थापिनी - सन्निधापनी- सन्निरोधिनी- प्रार्थनी- मुद्राणां युगपदुद्धारः श्रीश्रीमज्जगद्गुरु श्रीमच्छङ्कराचार्यविरचित श्रीश्रीविद्यामहात्रिपुरसुन्दरीचक्रराजमानसपूजास्तोत्रे यथा - कृत्वा हस्तयुगाञ्जलिं च तदधो वक्रां तु संस्थापिनी | मुष्टयङ्गुष्ठयुगा सुमुष्टिभिरियं सा सन्निधाख्या परा ||
SK
अङ्गुष्ठद्वयगर्भिणीयमुदिता संरोधिनीमुद्रिका | हस्तौ सम्पुटसंस्थितौ स्वहृदये मुद्रोदिता प्रार्थनी || इति || प्. ६१४) ५- || आवाहनि - संस्थापनी- सन्निधापनि - सन्निरोधिनी - मुद्राणामुद्धारः || आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्रीगा० पु० पद्धतौ ९ पत्रे धारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा - हस्ताभ्यामञ्जलिं कृत्वाऽनामिकामूलपर्वणोः || अङ्गुष्ठौ निक्षिपेदुच्छ्रौ मुद्रषाऽवाहनी स्मृता | अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका भवेत् | उच्छ्रिताऽङ्गुष्ठमुष्ट्योस्तु संयोगात् संनिधापिनी | अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता || अङ्गुष्ठतर्जन्यग्रं तु मीलितं स्वहृदि स्थितम् | स्थानमुद्रा भवेदेवं .........................|| इति || ६- || आवाहन - स्थिरीकरण - सान्निध्य - सन्निरोध - शब्दानामर्थः || सटीकशारदा० ४ पटले २८७ पत्रे ८९-९० श्लोकटीकायाम् सिद्धान्तसागरे आवाहनादीनामन्यथा लक्षणमुक्तं | यथा- १ स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु | सादरं सन्मुखीभावस्तदावाहनमुच्यते || २ शिवस्याऽवाहितस्यास्य विद्यादेहे तु सन्ततम् | स्थिरीकरणमुद्दिष्टं स्थापनं भक्तितोऽर्चने || ३ पूजां प्रयोज्यमानां तु गृहीत्वाऽनुग्रहादिकम् | कर्त्तुं सामर्थ्यमम्येह तत् सान्निध्यं प्रचक्षते || ४ आसमाप्तेस्तु पूजायाः सान्निध्यं हि शिवस्य यत् | स सन्निरोध उद्दिष्टो विभोरस्यापि शक्तितः || इत्यादिना || (अनन्तरमित्यनेन सन्मुखीकरणं प्रार्थनं च मुद्राद्वयेनोक्तं तत्र प्रमाणम्) अज्ञानाद् दुर्मनस्त्वाद्वा वैकल्यात् साधनस्य च | यदाऽपूर्णं भवेत् कृत्यं तदाऽप्यभिमुखो भव || दृशा पीयूषवर्षिण्या पूरयन् यज्ञविष्टरम् | मूर्त्तावायज्ञसम्पूर्त्तेः स्थिरो भव महेश्वर ! || इति || ७ अथावाहनादिनवमुद्रोद्धारः | अयं नवमुद्रोद्धारः दुर्गाकल्पद्रुमपुस्तिकायां - ३७२ पत्रे टिप्पण्यां यथा- प्. ६१५)
SK
हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वभिः | अङ्गुष्ठौ निःक्षिपेत् सेयं मुद्रा १त्वावाहिनी स्मृता || १ || अधोमुखी त्वियं चेत् स्यात् २स्थापनी मुद्रिका स्मृता || २ || उच्छ्रिताङ्गुष्ठमुष्ट्योस्तु संयोगात् ३संनिधापनी || ३ || अन्तःप्रवेशिताङ्गुष्ठा सैव ४संरोधनी स्मृता || ४ || उत्तानमुष्टियगला ५सन्मुखीकरणी मता || ५ || देवतानां षडङ्गानां न्यासः स्यात् ६सकलीकृतीः || ६ || सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्ज्जनी | ७अवगुण्ठनमुद्रेयमभितो भ्रामिता मता || ७ || अन्योन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः || तथैव तर्जनीमध्या ८धेनुमुद्रा समीरिता || ८ || अमृतीकरणं कुर्यात्तथा साधकसत्तमः | इत्यमृतीकरणे धेनुमुद्रा ज्ञेया || ९ || अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुली | महामुद्रेयमुदिता १परमीकरणे भुधैः || १० || इति परमीकरणे महामुद्रा | प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि || || इत्यावाहनादयो नव मुद्राः सं - || १५-३ | ८ अथ घन्ध- पुष्प-धूप-दीप- नैवेद्यादिपञ्चमुद्राणामुद्धारः || १- सटीकशारदा० ४ पटले - २९८ पत्रे- १०९ श्लोकटीकायां यथा- ज्येष्ठाङ्गुष्ठस्य पुष्पस्य युक्ता धूपस्य तर्जनी | दीपस्य मध्यमानामा नैवेद्यस्य प्रकीर्तिता | इतराङ्गुलिसंयोगात् पञ्च मुद्राः प्रकीर्तिताः || गन्धादिष्वपि दत्तेषु (भेदेषु) मुद्राश्चेमाः प्रदर्शयेत् || इति || मुद्रया यत् कृतं कर्म तदक्षयफलप्रदम् || २ - पुनश्चापि गन्धमुद्राविषये || सटीकशारदा० ४ पटले २९३ पत्रे १०० श्लोक० टीकायां यथा- इदं गन्धदानं कनिष्ठिकयेति ज्ञेयं | यदाहुः - प्. ६१६) शङ्खपात्रस्थितं गन्धं मन्त्रैर्दद्यात् कनिष्ठया || इति || ततो गन्धमुद्रां प्रदर्शयेत् | तल्लक्षणन्तु - कनिष्ठाङ्गुष्ठसम्युक्ता गन्धमुद्रा प्रकीर्तिता || इति || १५-३ | ८-३ - एतासां गन्धादिमुद्राणामुद्धारः | प्राक्तनश्रीमदाद्यार्चनपद्धतौ यथा -
SK
१ कनिष्ठाङ्गुष्ठयोगेन गन्धमुद्रां प्रदर्श्य || इति २ अधोमुखतर्जन्यङ्गुष्ठयोगेन पुष्पमुद्रां प्रदर्श्य || इति || ३ तर्जन्यङ्गुष्ठयोगेन १धूपमुद्रां० प्रदर्श्य || इति || ४ मध्यमाङ्गुष्ठयोगेन दीप० प्रदर्श्य || इति || ५ ॐ प्राणाय स्वाहा - इति अङ्गुष्ठकनिष्ठानामाभिः | ॐ अपानाय स्वाहा - इत्यङ्गुष्ठतर्जनीमध्यमाभिः || ॐ व्यानाय स्वाहा इत्यङ्गुष्ठमध्यमानामाभिः || ॐ उदानाय स्वाहा - इत्यङ्गुष्ठतर्जनीमध्यमाभिः | ॐ समानाय स्वाहा - इत्यङ्गुष्ठादि सर्वाभिः || इति || १५ | ३-८-४ || सर्वत्र पूजोपयुक्तगन्धपुष्पधूपनैवेद्यमुद्रोद्धारः - १- गन्धमुद्रोद्धरः || - य० आ० सू० ५१ पत्रे यथा- मध्यमानामिकाङ्गुष्ठैरङ्गुल्यग्रेण पार्वति ! || दद्याच्च विमलं गन्धं मूलमन्त्रेण साधकः || इति || २- पुष्पमुद्रोद्धारोऽपि ज्ञाना० १६ प० १३६ श्लोके यथा - पुष्पं समर्पयेद्देवि ! मुद्रया ज्ञानसंज्ञया || अङ्गुष्ठतर्जनीयोगाज्ज्ञानमुद्रा प्रकीर्तिता | अङ्गुष्ठतर्जनीभ्यां च पुष्.पं चक्रे निवेदयेत् || इति यजु० आ० सू० ५१ पत्रे || ३- धूपमुद्रोद्धारोऽपि तत्रैव यथा- मध्यमानामिकाभ्यां तु मध्यपर्वणि देशिकः | अङ्गुष्ठाग्रेण देवेशि ! धृत्वा धूपं निवेदयेत् [दु० क० पुस्तके १५५ पत्रे | देवीवामभागे धूपपात्रं निधाय तर्जनीमूलयोरङ्गुष्टयोगात्मिकां धूपमुद्रां प्रदर्शयेदित्यस्ति ||, अत्र दीपमुद्रा नोक्ता तथाऽप्युपर्युक्त १५ | ३-८ |१ १५ | ३-८ | ३ विषये तथा च दु० क० पुस्तके १५५ पत्रे च मध्यमे अङ्गुष्ठमूललग्ने दीपमुद्रा तां प्रदर्शयेदित्युक्तम् |] || इति || ४ | १ - नैवेद्यमुद्रोद्धारोऽपि तत्रैव यथा- उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः | तत्त्वाख्यमुद्रया देव्यै नैवेद्यं विनिवेदयेत् || प्. ६१७) मूलेनाचमनं दद्यात्ताम्बुलं तत्त्वमुद्रया | अङ्गुष्ठानामिकाभ्यां तु तत्त्वमुद्रेयमीरिता || (ज्ञानार्णवे १६ पटले १३५ पत्रे)
SK
१प्राणादिमुद्राः | कनिष्ठानामिके अङ्गुष्ठेन स्पृशेदिति || प्राणमुद्रा || २ ............................... अनामामध्ये अङ्गुष्ठेन स्पृशेदिति || अपानमुद्रा || ३ ............................... मध्यमातर्जन्यावङ्गुष्ठेन स्पृशेदिति || व्यानमुद्रा || ४ ............................... तर्जनीमध्यमानामाः अङ्गुष्ठेन स्पृशेदिति || उदानमुद्रा || ५ ............................... तर्जन्याद्यङ्गुलिचतुष्टयमङ्गुष्ठेन स्पृशेदिति || समानमुद्रा || ६ ............................... || ग्रासमुद्रा- अङ्गुल्यः कुटिलीभूता विरलाग्राः परस्परम् | ग्रासमुद्रा समाख्याता सव्यपाणौ नियोजिता || इति || (१५ | ३-८ | ४ वि० सं०) १५-३ | ८-५- दु० क० पु० १५७ पत्रे यथा - अनामामूलयोरङ्गुष्ठयोगे नैवेद्यमुद्रा तां प्रदर्श्य सपुष्पकराभ्यां पात्रमुद्धरन् | नैवेद्यं निवेदयामि ॐ भगवति हवींषि जुषाण इति पठन्ग्रासमुद्रां प्रदर्शयेत् | यथा- वामहस्तेन पद्माभां प्राणाद्यां दक्षिणेन तु || १ कनिष्ठिकानामिकाङ्गुष्ठैः ह्रीं प्राणाय स्वाहा || २ तर्जनीमध्यमाङ्गुष्ठैः० अपानाय स्वाहा | ३ तर्जन्यनामामध्यमाङ्गुष्ठैः० व्यानाय स्वाहा || ४ अनामामध्यमाङ्गुष्ठैः० उदानाय स्वाहा | ५ सर्वाङ्गुलिभिः समानाय० स्वाहा || एवं मायाबीजपूर्वाः प्राणादिमुद्रापूर्वाश्च ५ प्राणाहुतीः समर्पयेत् || इति |(१५ | ३ वि० सर्व० सं०) वि-१५ | ४ केवलश्रीवैष्णवीमुद्राविषये - १- श्रीलक्ष्मीमुद्रोद्धारः | सटीकशारदा० ८ पटले ४१४ पत्रे- ४ श्लोक टीकायाम् अत्र ध्यानानन्तरं लक्ष्मीमुद्रा दर्शनीया इत्युक्तम् - प्. ६१८) लक्ष्मीमुद्रोद्धारो यथा- चक्रमुद्रां तथा बद्ध्वा मध्यमे द्वे प्रसार्य्य च | कनिष्ठिके तथानीय तदग्रेऽङ्गुष्ठकौ क्षिपेत् || लक्ष्मीमुद्रा परा ह्येषा सर्वसम्पत्प्रदायिका || इति || १५ | ४-२ - कमलपद्ममुद्रोद्धारः | ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- १ || हस्ताभ्यां कमलाकारो यदा तत् कमलं भवेत् || ४६ || एषा कमलमुद्रा च लक्ष्मीवृद्धिकरी मता || इति ||
SK
२- अन्यथा कमलमुद्रोद्धारः - सटीकशारदा ४ पटले ५८३ पत्रे - ३६ श्लोकटीकायाम् यथा- करौ तु सम्मुखौ कृत्वा संहतावुन्नताङ्गुली | तलान्तर्मिलिताङ्गुष्ठौ कुर्यादेषाऽब्जमुद्रिका || इति || ३- पद्ममुद्रोद्धारः || १ मुद्राप्रकारनामकग्रन्थे १४ श्लोके यथा- हस्तौ तु सन्मुखौ कृत्वा संहतप्रथिताङ्गुली | तलान्तर्मिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका || इति || २ दु- क- पुस्तिकायां ३७४ पत्रे यथा- हस्तौ च सन्मुखौ कृत्वा संहतप्रोन्नताङ्गुली || तलान्तर्मिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका || इति || (१५ | ४-२ वि० सं०) १५ | ४-३- मत्स्यमुद्रोद्धारः प-क-सू ६ खण्डे श्यामाक्रमे १९७ पत्रे १८ सूत्रभाष्ये यथा- १ अधोमुखे वामकरे दक्षिणं तादृशं करम् | स्थापयेन्मत्स्यमुद्रेयं तान्त्रिकैः परिकीर्तिता || इति || २ दक्षपाणितलं देवि ! वामपृष्ठोपरि न्यसेत् | अङ्गुष्ठद्वितयं सम्यक् ऋजुरूपमधोमुखम् || मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने || इति || ३- मुद्राप्रकारे यथा- दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् | अङ्गुष्ठौ चालयेत् सम्यक् मुद्रेयं मत्स्यरूपिणी || ७९ || इति || (वि० १५ | ४-३ सं ) प्. ६१९) १५ | ४-४ - कूर्ममुद्रोद्धारः मुद्राप्रकारे यथा- वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् | तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् || उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः | अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च || वामस्य पितृतीर्थेन मध्यमानामिके तथा | अधोमुखे च ते कुर्याद्दक्षिणस्य करस्य च || कूर्मपृष्ठसमं कुर्याद्दक्षपाणिं च सर्वतः | कूर्ममुद्रेयमाख्याता देवताध्यानकर्मणि || इति ६ पत्रे ८१ श्लो० || १५ | ४-५- श्रीहयग्रीवमुद्रोद्धारः | सटीकशारदा० १५ पटले - ६२४ पत्रे ७२ श्लो० टीकायां यथा- (अत्र ध्यानानन्तरमियं मुद्रा दर्शनीया |)
SK
वामहस्ततले दक्षा अङ्गुलीस्तास्त्वधोमुखीः | संरोप्य मध्यमां [मुद्राप्रकारनामकग्रन्थे || संरोप्य मध्यमानामां मूलस्याधो विकुञ्चयेत् || इति पाथः] तासामुन्नम्याऽधो विकुञ्चयेत् || हयग्रीवप्रिया मुद्रा तन्मूर्तेरनुकारिणी || इति || ७२ || १५ | ४-६ - श्रीनारसिंहीमुद्रोद्धारः | सटीकशारदा० १६ पटले - ६४६ पत्रे ७ श्लो० टीकायां यथा- १ अत्र ध्यानानन्तरमेता मुद्राः प्रदर्शयेत् जानुमध्यगतौ कृत्वा चिबुकोष्ठौ समावुभौ | हस्तौ च भूमिसंलग्नौ कम्पमानः पुनः पुनः || मुखं विजृम्भितं कृत्वा लेलिहानां च जिह्विकाम् | एषा मुद्रा नारसिंही प्रधानेति प्रकीर्तिता || इति || वामस्याङ्गुष्ठतो बद्ध्वा कनिष्ठामङ्गुलीत्रयम् | त्रिशूलवत् सम्मुखोर्ध्वं कुर्यान्मुद्रां नृसिंहगाम् || अङ्गुष्ठाभ्यां च करयोस्तथाक्रम्य कनिष्ठिके | अधोमुखाभिः श्लिष्टाभिः शेषाभिर्नृहरेर्मता || इति || २ मुद्राप्रकारनामकग्रन्थे - अङ्गुष्ठाभ्यां च करयोरथाक्रम्य कनिष्ठिके | अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेर्मता || इति || २८ श्लो० (१५ | ४-६-२ सं) प्. ६२०) १५ | ४-६ | ३ आन्त्रमुद्रोद्धारः | तत्रैव यथा- हस्तावधोमुखौ कृत्वा नाभिदेशे प्रसार्य च | तर्जनीभ्यां नयेत् स्कन्धौ प्रौक्तैषाऽन्त्राख्यमुद्रिका || ४ वक्त्रमुद्रोद्धारः | तत्रैव यथा- हस्ताबूर्ध्वमुखौ कृत्वा तले संयोज्य मध्यमे | अनामायां तु वामायां दक्षिणां तु विनिक्षिपेत् || तर्जन्यौ प्र्ष्ठतो लग्ने अङ्गुष्ठौ तर्जनीश्रितौ | वक्त्रमुद्रा भवेदेषा नृहरेः सन्निधौ मता || ५ दंष्ट्रामुद्रोद्धारः | तत्रैव यथा- वक्त्रमुद्रां तथा कृत्वा तर्जनीभ्यां तु मध्यमे | पीडयेद्दंष्ट्रमुद्रैषा [आर्षोत्र दंष्ट्रशब्दोऽथवा-अपि माषं मषं ब्रूयाच्छन्दोभङ्गं न कारयेत्- इति समाधेयं |] सर्वपापप्रणाशीनी || इति || ६ दारणमुद्रोद्धारः | सटीकशारदा० - १६ पटले - ६५६ पत्रे - ५० श्लोक- टीकायां यथा-
SK
एवं क्रमेण चतुर्थाभ्यां दक्षवामाभ्यां दारणमुद्रा | तल्लक्षणं तु | मिथः संसृष्टसंमुख्योऽङ्गुल्य ऋज्वधोऽग्रकाः | स्वस्थानसरलाङ्गुष्ठौ मुद्रेयं दारणा मता || इति || (१५ | ४-६ | ६ वि० सं०) १५|४-७- वाराहमुद्रोद्धरः | सटीकशारदा० १५ पटले- ६३७ पत्रे १०८ श्लोकटीकायाम् यथा - १ अत्र ध्यानानन्तरमिदं मुद्राद्वयं दर्शनीयमिति ज्ञेयं | तल्लक्षणं यथा - वामहस्तमथोत्तानं कृत्वा देवस्य चोपरि | नामयेदिति सम्प्रोक्ता मुद्रा वाराहसंज्ञिता || इति || २ दक्षहस्तं चोर्ध्वमुखं वामहस्तमधोमुखम् || इति || १०८ || अङ्गुल्यग्रं तु संयुक्तं मुद्रा वाराहसंज्ञिता || इति || १०८ || ३ मुद्राप्रकारनामकग्रन्थे २९ श्लोके देवोपरि करं वामं कृत्वोत्तानमधः सुधीः | आमयेदिति सम्प्रोक्ता मुद्रा वाराहसंज्ञिता || इति || (१५ | ४-७ वि० सं०) प्. ६२१) १५ | ४-८ श्रीवत्समुद्रोद्धारः सटीकशारदा० १५ पटले ६१२ पत्रे २२ श्लोकटीकायां यथा- अन्योन्यपृष्ठकरयोर्मध्यमानामिकाङ्गुली | अङ्गुष्ठेन तु बध्नीयात् कनिष्ठामूलसंश्रिते || तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका || इति || १५ | ४-९ श्रीकौस्तुभमुद्रोद्धारः | तत्रैव शारदापत्रे यथा - १ अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका || कनिष्ठिकान्या [अत्राशुद्धं स्वयं शोध्यं-] बध्नीयादनामा दक्षतर्जनीम् | गृहीत्वा दक्षिणाङ्गुष्ठमध्यमानामिकात्रयम् || उच्छ्रयित्वा तत्र वामे तर्जनीमध्यमे न्यसेत् | दक्षिणे मणिबन्धे च वामाङ्गुष्ठं तु योजयेत् || मुद्रेयं कौस्तुभस्योक्ता दर्शनीया प्रयत्नतः || इति || २ प्रकारः | मुद्राप्रकारनामकग्रन्थे यथा- अनामापृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका || कनिष्ठयान्यया बद्ध्वा तर्जन्या दक्षया तथा | वामानामा च बध्नीयाद्दक्षिणाङ्गुष्ठमूलके || अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः | चतुरोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञका || इति || (२० श्लो० १५ | ४-९ वि० सं०) १५ | ४-१० | वनमालामुद्रोद्धारः | सटीकशा० १५ पटले ६१२ पत्रे-
SK
३ स्पृशेत् कण्ठादिपादान्तं तर्जन्याङ्गुष्ठनिष्ठया | करद्वयेन मालावत् मुद्रेयं वनमालिका || इति || १५ | ४-११ श्रीगोविन्दध्यानपूर्वक वेणुमुद्रोद्धारः | सटीकशारदा० १७ पटले ६९६ पत्रे - ८९-९० श्लो० टीकायां यथा- फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियम् | श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् || गोपीनां नयनोत्पलार्चिततनुं गोपालसङ्घावृतम् | गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे || ८९ || प्. ६२२) एतच्छ्लोकटीकायां वेणुमुद्रोद्धारो यथा- ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका | दक्षिणाङ्गुष्ठसंसक्ता तत्कनिष्ठा प्रसारिता || तर्जनीमध्यमानामाः किञ्चित् सङ्कुच्य चालिताः | वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः || इति १५-४ | १२ गरुडमुद्रोद्धरः | आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पु० पद्धतौ ९ पत्रे धारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा- १- करद्वयस्य पृष्ठे संयोज्य कनिष्ठिकाभ्यामवष्टभ्याधोऽङ्गुष्ठौ पुरस्तर्जन्यौ संयोज्य मध्यमानामिकयोर्वक्रयोः पक्षतुल्यत्वेन गरुडमुद्रा || इति || २- सटीकशारदा० ४ पटले २६४ पत्रे ४८ श्लो० टीकायां यथा- हस्तावभिमुखौ कृत्वा रचयित्वा कनिष्ठिके | मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा || मध्यमानामिके द्वे तु द्वौ पक्षाविति कुञ्चयेत् | एषा गरुडमुद्रा स्यादशेषविषनाशिनि || ४८ || इति || ३- मुद्राप्रकारनामकग्रन्थे- यथा- हस्तौ तु विमुखौ ग्रथित्वा च कनिष्ठिके | मिथस्तर्जनिके श्लिष्टे श्लिष्टावङ्गुष्ठकौ तथा || मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् एषा गरुडमुद्रा स्याद् विष्णोः संतोषवर्धनी || इति २५ श्लो० || || इति श्रीवैष्णवीमुद्रोद्धारः सम्पन्नः || (१५ | ४-१२ तथा च १५ | ४ वि० सर्वः सं०) || द्वि० परि० वि० १५ | ५ केवलश्रीशैवमुद्राविषये || १- बिल्वमुद्रोधारः | तत्रैव सटीकशारदा० १७ पटले ६९६ पत्रे ८९ श्लो० टीकायां यथा-
SK
उच्यतेऽच्युतमुद्राणां भद्रा बिल्वफलाकृतिः | अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाऽथ बद्ध्वा | तस्याऽग्र पीडयित्वाऽङ्गुलिभीरपि च ता वामहस्ताङ्गुलीभिः || बद्ध्वा गाढं हृदि विमलधीर्व्याहरन् मारबीजम् | बिल्वाख्या मुद्रिकैषा स्फुटमिह गदिता गोपनीया विधिज्ञैः || इति || प्. ६२३) २-१ कपालमुद्रोद्धारः | ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- वामहस्ततलं देवि ! कपालाकृति कारयेत् || कपालमुद्रा देवेशि ! देव्यानन्दकरी सदा || इति || २ कपालमुद्रोधारः प्रक्तनश्रीमदाद्यार्चनपधतौ यथा- अस्याः कापालिका मुद्रा विशेषेण प्रियङ्करी ! | पात्रवद् वामहस्तं च कृत्वाङ्के वामके तथा || विधायोच्छ्रितवत् कुर्यात् मुद्रा कापालिकी तथा || इति || (१५-५ | २ वि० सं०) ३- खट्वाङ्गमुद्रोधारः | मुद्राप्रकारे यथा- पञ्चाङ्गुल्यो दक्षिणास्तु मिलिता ह्यूर्ध्वमुच्छ्रिताः | खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता || ४५ || इति || ४- डमरुमुद्रोद्धारः | सटीकशारदा० २० पटले - ७६४ पत्रे - ५३ श्लो०टीकायाम् यथा- अथ- (श्रीबटुक) ध्यानानन्तरं डमरुमुद्रां प्रदर्श्येत् तल्लक्षणं तु- मुष्टिं सुशिथिलां बद्ध्वा ईषदुच्छ्रितमध्यमाम् | दक्षिणामूर्ध्वमुन्नम्य [मुद्राप्रकारे तु दक्षिणामूर्ध्वमुन्प्रय्य- इति - पाथः - चिन्त्यः-] कर्णदेशे प्रचालयेत् एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी || इति ४८ श्लो० || ५- मृगमुद्रालक्षणम्- सटीकशारदा० १४ पटले ६०३ पत्रे टीकायां यथा- मिलित्वाऽनामिकाङ्गुष्ठमध्यमाग्राणि यजयेत् | शिष्टाङ्गुल्युच्छ्रिते कुर्यान्मृगमुद्रेयमीरिता || इति || ६- मुण्डमुद्रोद्धारः मुद्राप्रकारे ६ पत्राधः- ८२ श्लो० यथा- पृष्टे क्रोडेऽन्तराङ्गुष्ठमुष्टिं वामकरस्य च | मध्यमाग्रं दक्षिणस्य तथालम्ब्य प्रयत्नतः || मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रं तु योजयेत् | दक्षिणं योजयेत् पाणिं वाममुष्टौ च साधकः || दर्शयेद्दक्षिणे भागे मुण्डमुद्रेयमीरिता || ५७-९ इति || प्. ६२४) ७- चर्ममुद्रोधारः | मुद्राप्रकारे यथा-
SK
वामहस्तं तथा तिर्यक् कृत्वा चैव प्रसार्य च | आकुञ्चिताङ्गुलिं कुर्याच्चर्ममुद्रेयमीरिता || ५७ || इति || ८- परशुमुद्रोद्धारः सटीकशारदा० १८ पटले ७१५ पत्रे - १३ श्लोकटीकायां यथा- करे [मुद्राप्रकारे तु | तले तलं तु करयोरिति पाथः |] करं तु करयोस्तिर्यक् संयोज्य चाऽङ्गुलीः | संहताः प्रसृताः कुर्यान्मुद्रेयं परशोर्मता || इति || ९ | १ खड्गमुद्रोधारः | सटीकशारदा० १७ पटले - ६८४ पत्रे २२ श्लोकटीकायां यथा- कनिष्ठानामिके बद्ध्वा स्वाङ्गुष्ठेनैव वामतः | शिष्टाङ्गुली तु प्रसृते संश्लिष्टे खड्गमुद्रिका || इति || २ मुद्राप्रकारे - कनिष्ठानामिके बद्ध्वा प्राङ्गुष्ठेनैव दक्षतः | शिष्टाङ्गुली तु प्रसृते संसृष्टे खड्गमुद्रिका || ५५ || इति || (वि० १५ | ५-९ सर्वः सं०) १० | १ त्रिशूलमुद्रोधारः | सटीकशारदा० १० पटले ४७९ पत्रे यथा- त्रिशूलमुद्रां पाणिभ्यां बद्ध्वात्मानं त्रिकण्टकीम् ध्यायन् स्पृष्ट्वा जपेद् ग्रस्तं सद्यस्तं मुञ्चति ग्रहः || ४७ || २- एतच्छ्लोकटीकायां यथा- त्रिशूलमुद्रामिति | सा तु कनिष्ठाङ्गुष्ठसंयोगात् शेषाणां तु प्रसारणात् || इत्यादि टीका दृश्यात्र - (उपरितनपत्रे-) ३- मुद्राप्रकारे ४२ श्लोके तु- अङ्गुष्ठेन कनिष्ठान्तु बद्ध्वा श्लिष्टाङ्गुलित्रयम् | प्रसारयेत् त्रिशूलाख्या मुद्रैषा परिकीर्तिता || इति || (१५ | ५-१० वि० सं०) ११ - लिङ्गमुद्रालक्षणं तु - | सटीकशारदा० १८ पटले० ७१६ पत्रे- श्रीशिवपूजायां ध्यायेन्नित्यमिति १३ श्लोकटीकायां यथा- उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् | वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च वेष्टयेत् [मुद्राप्रकारे तु बन्धयेदिति पाठः |] | लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी || इति || प्. ६२५) इयं सर्वशैवमन्त्रसाधारणीति ज्ञेयं || [अर्थात्-विद्यामुद्रा- पुस्तकमुद्रा- एका-एवेति - ध्वनितं-] (१५ | ५ - वि० सर्वः सं०)
SK
|| इति यथोपलब्धश्रीशैवमुद्राः सम्पन्नाः || द्वि० परि० वि० १५ | ६ | केवलश्रीसरस्वतीमुद्रोद्धारविषये || १५ | ६-१ - श्रीज्ञानमुद्रोद्धारः ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- तर्जन्यङ्गुष्ठयोगे तु दक्षहस्ते तु पार्वति ! || ४० || अक्षमालेति मुद्रेयं ज्ञानमुद्रा च वै भवेत् || इति || २ प्रकार- | सटीकशारदातिलके ६ पटले ३५८ पत्रे ४ श्लोकटीकायां यथा- ज्ञानमुद्रा | अङ्गुष्ठतर्जनीयोगरूपा पार्श्वाभिमुखी | यदाहुः - श्लिष्टाग्रेऽङ्गुष्ठतर्जन्यो प्रसार्याऽन्याः प्रयोजयेत् | पार्श्वस्याभिमुखी सेयं ज्ञानमुद्रा प्रकीर्त्तिता || इति || ३ प्र० मुद्राप्रकारनामकग्रन्थे यथा- तर्जन्यङ्गुष्ठकौ सक्तावग्रतो हृदि विन्यसेत् || वामहस्ताम्बुजं वामजानुमूर्धनि विन्यसेत् || ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी || इति २२ श्लो० || १५ | ६-१ वि० सर्वः सं०) १५ | ६-२ | १- अक्षमालामुद्रोधारः | तत्रैव मुद्राप्रकारे ४ पत्रे यथा- अङ्गुष्ठतर्जन्यग्रे तु ग्रथयित्वाङ्गुलित्रयम् प्रसारयेदक्षमाला मुद्रेयं परिकीर्तिता || इति || १५ | ६-२ | २ ज्ञानार्णवे ४ पटले १४ पत्रे ४० श्लो० यथा- तर्जन्यङ्गुष्ठयोगे तु दक्षहस्ते तु पार्वति ! | अक्षमालेति मुद्रेयं ज्ञानमुद्रा च वै भवेत् || (१५ | ६-२-२ वि० सं०) १५ | ६-३- पुस्तकमुद्रोद्धारः | सटीकशारदातिलके - ६ पटले ३५८ पत्रे ४ श्लोकटीकायां यथा विद्या पुस्तकं तन्मुद्रेत्यर्थः - वाममुष्टिः स्वाभिमुखी बद्ध्वा पुस्तकमुद्रिका || इति || २- मुद्राप्रकारे वाममुष्टिं स्वाभिमुखीं कृत्वा संचालयेच्छिरः || इति || ३- ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- पुस्तकवद्वामकरं कुर्यात् समतलं प्रिये | पुस्तकं नाम मुद्रेयं वाग्विलासं प्रयच्छति || इति || (१५ | ६-३ वि० सर्वः सं०) प्. ६२६) ४- वीणामुद्रोद्धारः || मुद्राप्रकारे यथा- वीणावादनबद्धस्तौ कृत्वा संचालयेच्छिरः | वीणामुद्रा समाख्याता सरस्वत्याः प्रियङ्करी || ६४ || इति || ५ | १ व्याख्यानमुद्रोद्धारः | सटीकशारदा० ७ पटले ४०५ पत्रे ८२ श्लोकटीकायां यथा-
SK
श्लिष्टाग्रेऽङ्गुष्ठतर्जन्यौ प्रसार्याऽन्याः प्रदर्शयेत् | प्रयोज्याऽभिमुखं सैषा मुद्रा व्याख्यानसज्ञिता || इति || २- मुद्राप्रकारे दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्गुली | प्रसार्य संहतोत्तान एषा व्याख्यानमुद्रिका || ६६ || इति || (१५ | ६-५ वि० सं०) || इति श्रीसरस्वतीदेवतामुद्रोद्धारः वि० १५ | ६ सर्वः सम्पन्नः || || द्वि० परि० वि० १५ | ७ श्रीदुर्गामुद्रोद्धारविषये || १-श्रीदुर्गामुद्रोद्धारः- सटीकशारदा० - ११ पटले ४९४ पत्रे ५ श्लोकटीकायां यथा- सर्वदुर्गामन्त्रेषु ध्यानानन्तरमियं मुद्रा दर्शनीया | मुष्टिं बद्ध्वा कराभ्यां तु वामस्योपरि दक्षिणम् | कृत्वा शिरसि संपूज्या [संयोज्य - इति मुद्राप्रकारे पाथः ||] दुर्गामुद्रेयमीरिता || इति || गदामुद्रोधारः सटीकशारदा० १५ पटले ६०८ पत्रे ७ श्लोकटीकायां यथा- वाममुष्ट्यन्तरेऽङ्गुष्ठे दक्षिणे सरलाङ्गुलीः | वामाङ्गुष्ठः स्पृशेदग्रे योजितः सरलोदरः || अन्योन्याभिमुखौ हस्तौ कृत्वा तु ग्रथिताङ्गुलीः | अङ्गुल्यौ मध्यमे भूयः संलग्ने सुप्रसारिते || गदामुद्रेयमाख्याता भुक्तिमुक्तिकरी तथा || इति || ३- वज्रमुद्रोद्धारः | सटीकशारदा० २३ पटले ८५१ पत्रे १३२ श्लो० टीकायां यथा- प्. ६२७) कनिष्ठाङ्गुष्ठयुङ्मुद्रा त्रिकोणा त्वशनेर्मता || इति अशनिमुद्रालक्षणम् ४- तर्जनीमुद्रोद्धारः | मुद्राप्रकारेऽन्तिमपत्रे यथा- वाममुष्टिं विधायाय तर्जनीमध्यमे ततः | प्रसार्य तर्जनीमुद्रा निर्दिष्टा वज्रपाणिना || ११४ || इति || ५- मुसलमुद्रोद्धारः | सटीकशारदा० -४ पटले २६४ पत्रे अन्यासां लक्षणानि इत्यत्र यथा- मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् | कुर्य्यान्मुसलमुद्रेयं सर्वविघ्नप्रणाशिनी || इति || १५ | ७-६- || अङ्कुशसर्वमहाङ्कुशमुद्रोद्धारः || १- ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- मुष्टिं बद्ध्वा दक्षकरे तर्जन्यङ्कुशरूपिणी || ४१ || अङ्कुशाख्या महामुद्रा त्रैलोक्याकर्षिणी बह्वेत् || इति ||
SK
२- प्रकारः || आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पु० पद्धतौ ९ पत्रे धारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा- सर्वाङ्गुल्यः समाकुञ्च्य वामहस्तस्य तर्जनीम् | प्रगृह्य साधकेन्द्रस्तु दक्षिणेन तु पृष्ठिना || प्रसार्य तर्जनी तस्य ईषदग्रे विकुञ्चयेत् | अङ्कुशा तु इयं मुद्रा वश्यकर्मविधौ मता || इति || ३- मुद्राप्रकारे - ऋज्वीं च मध्यमां कृत्वा तर्जनीमध्यपर्वणि | संयोज्याकुञ्चयेत् किञ्चित् मुद्रैषाङ्कुशसंज्ञका || ५२ || इति || ४- सर्वमहाङ्कुशामुद्राशब्दार्थः प० क० सू० ५ खण्डे श्रीललिताक्रमे १५२ -१५३ पत्रयोः १ सूत्रभाष्ये यथा- षष्ठी तु - इदमेव पूर्वोक्तं शिखाद्वयं यदा वामाप्रधानं तदा सर्वमहाङ्कुशा | सूक्ष्मरूपेण परमशिवकुक्षौ स्थितं जगत् | यथा अन्तस्थो गजः अङ्कुशेन बहिराकृष्यते तथा सर्वस्य बहिराकर्षणात् सर्वमहाङ्कुशेत्युच्यते | परशिवकुक्षिस्थजगतो वमनात् वामा तत्प्रधाना शिखा सर्वमहाङ्कुशा इत्युच्यते | तदप्युक्तं - योगिनीतन्त्रे - प्. ६२८) वामाशक्तिप्रधाना तु महाङ्कुशमयी पुनः | तद्वद्विश्वं वमन्ती सा द्वितीये तु दशारके || इति || अत एव- पूर्वमुद्रायां सरलयोरनामयोः वक्रता दृश्यते | लोके वमनवेलायां मानवो धनुराकारो वक्रो भवति | प्रसिद्धमेतत् | अत्रायं विवेकः - केवलवामात्वं सर्वसंक्षोभिणीपदप्रवृत्तिनिमित्तं ज्येष्ठात्वविशिष्टवामात्वं सर्वाकर्षणीपदप्रवृत्तिनिमित्तं सूक्ष्माकाशान्तर्वृत्तिबिन्दुद्वयत्वं सर्ववश्यकरपदप्रवृत्तिनिमित्तं ज्येष्ठाशक्तिप्रधानकबिन्दुद्वयमध्यवृत्तिरेखात्वं सर्वोन्मादिनीपदशक्यताऽवच्छेदकं वामाशक्तिप्रधानत्वं सर्वमहाङ्कुशापदशक्यताऽवच्छेदकं एवं रीत्या वैलक्षण्यं सूक्ष्मधिया द्रष्टव्यम् || इति || ५- || सर्वमहाङ्कुशामुद्रोद्धारः - प० क० सू० ५ खण्डे श्रीललिताक्रमे १६९ पत्रे - १५ सूत्रभाष्ये यथा- षष्ठी मुद्राऽपि सर्वमहाङ्कुशा तत्रैव प्रकटिता-
SK
अस्यास्त्वनामिकायुग्ममधःकृत्वाऽङ्कुशाकृति [अत्र अस्याः नाम उन्मादिनी - इत्यवसेयम् | ] | तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् || इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिनी || इति || ६- अत्र भाष्यं - अस्याः सर्वोन्मादिन्याः | तेनैव क्रमेण अनामिकाक्रमेण | अनामिकाङ्कुशाकारा | तथैव तर्जनीद्वयमपि कर्तव्यम् | शेषं पूर्वमुद्रावत् - इति भावः || (१५ | ७-६ वि० सं०) १५ | ७-७ नाराचमुद्रोद्धारः प० क० सू० ६ खण्डे श्यामात्क्रमे २०४ पत्रे ३५ सूत्रभाष्ये परमानन्दतन्त्रे यथा- १- || विमुष्ट्यङ्गुष्ठतर्जन्यावूर्ध्वाङ्गुष्ठाग्रतर्जनी | हस्तद्वयगता चैवं मुद्रा नाराचसंज्ञिता || इति || अयमर्थः - प्रथमं हस्तद्वये मुष्टिभावं सम्पाद्य तस्यानिर्गते विमुष्टीये अङ्गुष्ठतर्जन्यौ तयोर्मध्ये उर्ध्वाग्रमङ्गुष्ठं प्रागग्रां ऋजुरूपां तर्जनीं कुर्यात् | इयं नाराचमुद्रेत्यर्थः || ३५ || इति || २ सटीकशारदा-४ पटले २४८ पत्रे २४ श्लोकटीकायां यथा- अन्यत्रापि प्. ६२९) अङ्गुष्ठमग्रं यदि मध्यमाग्रं स्पृशेत् स्युरन्याङ्गुलयस्त्वलग्नाः | तदा भवेत् भूतनिषूदनस्य नाराचनाम्नोऽस्त्रवरस्य मुद्रा || इति || ३ - तत्रैव २५६ पत्रे ३३ श्लोके टीकायां च यथा- अङ्गुष्ठतर्जन्यग्राभ्यां स्फोटो नाराचमुद्रिका || इति || (१५ | ७-७ वि० सर्व० सं०) पाशमुद्रायाम् १५ | ७-८ पाशमुद्रोद्धारः || ज्ञानार्णवे ४ पटले १४ पत्रे यथा - १- तर्जनीयुगलं देवि वामांसे शृङ्खलाकृति | पाशमुद्रा समाख्याता त्रैलोक्याकर्षणक्षमा || इति || २- पाशमुद्रालक्षणं यथा- सटीकशारदा० ९ पटले ४४३ पत्रे १६ श्लोकटीकायां यथा- वाममुष्टिस्थतर्जन्या दक्षमुटिस्थतर्जनीम् | संयोज्याऽङ्गुष्ठकाग्राभ्यां तर्ज्जन्यग्रे स्वके क्षिपेत् || एषा पाशस्य मुद्रेति विद्वद्भिः परिकीर्तिता || इति || ३- सटीकशारदा० १७ पटले ६८४ पत्रे यथा- अथवेयं पाशमुद्रा | यदाहुः - तर्जन्यङ्गुष्ठकौ कृत्वा सक्ताग्रौ कुञ्चिताः पराः | पाशमुद्रा समाख्याता || इति || ४- मुद्राप्रकारे ५१ श्लोके यथा-
SK
वाममुष्टेस्तु तर्जन्या दक्षमुष्टेस्तु तर्जनीम् | संयोज्याङ्गुष्ठकाग्राभ्यां तर्जन्यग्रे समुत्क्षिपेत् || एषा पाशाह्वया मुद्रा विद्वद्भिः परिकीर्तिता || ५१|| इति || (१५ | ७-८ वि०- सर्व० सं०) १५ | ७-९ | १- चक्रमुद्रोद्धारः || आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रित घारे इत्युपनामकशङ्करसूरिविरचित श्री० गा० पु० पद्धतौ -१० पत्रे यथा- हस्तौ तु संमुखौ कृत्वा संलग्नौ [मुद्राप्रकारग्रन्थे तु-सुभुग्नौ सुप्रसारितौ- इति पाथः ||] तु प्रसारितौ | कनिष्ठाङ्गुष्ठकौ लग्नौ मुद्रा चक्रस्य सिद्धिदा || इति || प्. ६३०) सटीकशारदा० ४ पटले ३६४ पत्रे ४९ श्लोकटीकायां यथा- विपर्यस्ते तले कृत्वा वामदक्षिणहस्तयोः | अङ्गुष्ठौ ग्रथयेश्चैव कनिष्ठानामिकान्तरे || चक्रमुद्रेयमुद्दिष्टा सर्वसिद्धिकरी शुभा || इति || (१५ | ७-९ वि० सर्व० सं०) १५ | ७-१० || चापमुद्रोद्धारः- १- ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा- यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ! || ४४ || चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता || इति || २- सटीकशारदा० १७ पटले ६८४ पत्रे टीकायां यथा- वामस्य मध्यमाग्रं तु तर्जन्यग्रे नियोजयेत् | अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् | दर्शयेद्दक्षिणस्कन्धे धनुर्मुद्रेयमीरिता || इति || ४- तत्रैव अथवेयं धनुर्मुद्रां ज्ञेया | यदाहुः - बाहुमूलं स्पृशेत्तेन बाह्वग्रेणैव साधकः | धनुर्मुद्रा यशःकीर्तिबलवीर्यविवर्धिनी || इति || (१५ | ७-१० वि० सं०) ११ | १ बाणमुद्रोद्धारः ज्ञानार्णवे ४ पटले १४ पत्रे यथा- यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ! || ४४ || बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी || इति || २- मुद्राप्रकारे - दक्षमुष्टिस्तु तर्जन्या दीर्घया बाणमुद्रया || इति || ३४ श्लो० || (१५ | ७-११ वि० सर्वः सं०) १५ | ७-१२- शिखा [मुद्राप्रकारनाम्नि ग्रन्थे -दर्शयेद्वामके स्कन्धे - इति -३३ श्लोके -] -कवच - नेत्रास्त्रमुद्राणां युगपदुद्धारः | सटीकशारदा० ४ पटले २५८ पत्रे ३४ श्लोकटीकायां यथा- प्. ६३१)
SK
१- ज्येष्ठावधःप्रसक्ताग्रौ कनिष्ठावूर्ध्वतस्तथा || कुर्यात् सेयं शिखामुद्रा सर्वोपद्रवनाशिनी | २- कृत्वाऽङ्गुष्ठौ प्रसक्ताग्रौ तर्जन्यौ च त्रिकोणवत् || मूर्द्ध्नि पश्चान्मुखं कृत्वा नयेदुभयपार्श्वतः | करौ हृदन्तर्मुद्रेयं कवचस्याऽभयप्रदा || ३- कृत्वा नेत्रोन्मुखं हस्तं सक्ताङ्गुष्ठकनिष्ठिकम् | प्रसार्य मध्यमां किञ्चिन्नमयेदितराङ्गुलीः || नेत्रमुद्रेयमुद्दिष्टा रक्षोभूतार्त्तिभञ्जिनी | ४- परस्परतलद्वन्द्वं पुनरास्फोटयेद् भृशम् || इति || (इयमस्त्रमुद्रा ज्ञेयेत्यर्थः) १३- पुनरपि चास्त्रशिखाकवचमुद्रोद्धारः | प० क० सू० ३ खण्डे श्रीक्रमे १९ सूत्रभाष्ये १०४ पत्रे यथा- शिखाऽङ्गुष्ठेन विन्यस्य दशभिः कवचं न्यसेत् || इति || १५ | ७-१४ केवलास्त्रमुद्रोद्धारः || १ अथ प्रमाणानि १ प० क० सू०- ३ खण्डे १०४ पत्रे-१९ सूत्रभाष्ये यथा- तर्जनीमध्यमाभ्यां तु ततोस्त्रं विन्यसेत् प्रिये ! | इति श्रीशिवोक्तिः श्रीशिवां प्रतीति || २- इयं विचित्रा अग्निप्राकाररुपाऽपि अस्त्रमुद्रा- सटीकशारदा० ४ पटले २४८ पत्रे -२४ श्लोकटीकायां अग्निप्राकारमुद्रोक्ता प्र्योगसारे यथा- त्रिशूलाग्रौ करौ कृत्वा व्यत्यस्तावभितो नयेत् | अस्त्रमुद्रेयमाख्याता वह्निप्राकारलक्षणा | परद्रोहोपशमनी नागाशनिभयापहा | इति || तदुक्तं - ततोऽस्त्रमन्त्रेण विशोध्य पाणित्रितालदिग्बन्धहुताशशालाम् इति | एषां फलमाह तेनेति || २४ || इति || ३- || सटीकशारदातिलके ४ पटले २५६ पत्रे ३३ श्लोको यथा- अस्त्रं तत्तलयोर्न्यस्य कुर्यात्तालत्रयादिकम् || इति मूलग्रन्थः || अत्र तलशब्देनान्तर्बाह्यमपि तलं गृह्यते० इत्यादि० || इति || ४- अत्र टीका तत्रैव - कुर्यात्तालत्रयादिकमिति अङ्गास्त्रविनियोगः तत्स्वरूपमुक्तमन्यत्र- प्रसारिततलाभ्यां तु तालत्रयमुदीरयेत् || इति || प्. ६३२) ५- तदग्रे तत्रैव २५८ पत्रे ३३ श्लोकटीकायां च यथा- परस्परतलद्वन्द्वं पुनरास्फोटयेद् भृशम् || इति || ३२-३३ || ६- य० आ- सू० ५१ पत्रे अस्त्रमुद्रोद्धारो यथा-
SK
दक्षस्य तर्जनीमध्ये सव्ये करतले क्षिपेत् | अभिघातेन शब्दः स्यादस्त्रमुद्रा समीरिता || इति || (१५ | ७-१४ वि० सर्वः० सं०) || इति श्रीदुर्गामुद्रोद्धारवि० १५ | ७ सर्वः सपन्नः || || द्वि० परि० वि० १५-८ | न्यासपूजोपयुक्तमुद्रोद्धारः || १५-८ | १ लेलिहानाख्यमुद्रोद्धारः सटीक श्रीमहानिर्वाणतन्त्रे १३१ पत्रे ६ उल्लासे श्रीमदाद्या-प्राणप्रतिष्ठाविधौ यथा- इति त्रेधा यन्त्रमध्ये लेलिहानाख्यमुद्रया | संस्थाप्य विधिवत् प्राणान् कृताञ्जलिपुटो वदेत् || ७५ || इति | २ एतच्छ्लोकटीकायाम् || लेलिहानाख्यमुद्रा श्रीदक्षिणामूर्तिसंहितायां यथा- तर्जनीमध्यमानामाः समाः कुर्यादधोमुखीः | अनामायां क्षिपेद्वृद्धामूर्द्ध्वं [दूर्द्ध्वामिति-मुद्राप्रकारे पथः] कृत्वा कनिष्ठिकाम् || लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता || इति || (१५-८ | १- सं) १५-८ | २ धेनुमुद्रोधारः | प० क० सू० १ खण्डे ३७ सूत्रे ५७-५८ पत्रयोः मूले च धेनुयोनिमुद्राकरणं आज्ञप्तं | अत्र- टीकायां वृत्तिकारः धेनुयोनिमुद्रे प्रसिद्धे इत्याह तथापि साधकानां सदुपयोगाय एषा उद्ध्रियते - अत्रैव- प० क० सूत्रे ६ ख्ण्डे श्यामाक्रमे १८ सूत्रभाष्यान्ते १९८ पत्रे यथा- इयं लोके बहुरूढा | तथापि तत्प्रमाणं लिख्यते - तर्जन्यादिचतुष्कं तु प्रोतं हस्तद्वयस्थितम् | दक्षतर्जन्यनामायां वाममध्यकनिष्ठिके || वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके | अधोमुखी धेनुमुद्रा- || इति || प्. ६३३) ३- ज्ञानार्णवे- ४ पटले १४ पत्रे ३७ श्लोके यथा- परिवर्त्य करौ पश्चात् तर्जनीमध्यमायुगम् | कनिष्ठानामिकायुग्मं परस्परयुतं कुरु || ३७ || धेनुमुद्रेयमाख्याता अमृतीकरणं भवेत् || इति || ४- आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्रीगा० पु० पद्धतौ ९ पत्रे घारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा- वामाङ्गुलीनां मध्ये तु अङ्गुष्ठं त्वथ दक्षिणम् | नियोज्य तर्जनीं दक्षां मध्यया वामतर्जनीम् ||
SK
वामयाऽनामया दक्षां कनिष्ठां च नियोजयेत् | दक्षयाऽनामया वामां कनिष्ठां च नियोजयेत् || ततस्त्वधोमुखाः कुर्याद्धेनुमुद्रा प्रकीर्तिता || इति || ५- तत्रैव तदनु १० पत्रे प्रकारान्तेरण मुद्रा इत्यत्र यथा - धेनुमुद्रैवामृती मुद्रा - अन्योन्याङ्गुष्ठसंलग्नविस्तारितकरद्वया | महामुद्रेयमाख्याता न्यूनाधिकसमापनी || इति || ६- सटीकशारदा० २३ पटले ८४३ पत्रे यथा- अन्योन्याभिमुखाश्लिष्ठा कनिष्ठानामिका पुनः | तथा च तर्जनीमध्या धेनुमुद्रा समीरिता || ११२ || अमृतीकरणं कुर्यात्तया देशिकसत्तंअः || इति || अत्र टीका यथा - धेनुमुद्रामाह अन्योन्येति | कनिष्ठाऽनामिका अन्योन्याभिमुखाश्लिष्टा तर्जनीमध्या तथैवान्योन्याभिमुखाश्लिष्टेत्यर्थः | हस्तद्वयाङ्गुल्यः अन्योन्यान्तरालप्रदेशेन पूर्वमध्यतः कृतदक्षकनिष्ठाव्यतिषक्ताः कार्याः | तत्र दक्षकनिष्ठा दक्षानामापृष्ठमुल्लङ्घ्य तद्वामभागमागता वामानामिकया योज्या | वामा कनिष्ठा तु यथास्थितैव दक्षानामया | एवं वामतर्जनीवाममध्यमा- पृष्ठमुल्लङ्घ्य तद्दक्षभागागतदक्षमध्यमया योज्या | दक्षतर्जनी यथास्थितैव वाममध्यमया योज्या | तदुक्तं तत्रैव - ७ - वामाङ्गुलीर्दक्षिणानामाङ्गुलीनां च सन्धिषु | प्रवेश्य मध्यमाभ्यां तु तर्ज्जन्यौ द्वे प्रयोजयेत् | कनिष्ठे द्वेऽनामिकाभ्यां युञ्ज्यात् सा धेनुमुद्रिका || इति || प्. ६३४) ८- य० आ० सू० - ५१ पत्रे धेनुमुद्रोद्धारो द्विधाऽभिहितो यथा- दक्षानामासमायुक्ता वामहस्तकनिष्ठिका | वामानामासमायुक्ता दक्षपाणिकनिष्ठिका || दक्षस्य मध्यमाक्रान्ता वामहस्तस्य तर्जनी | वाममध्यमयाक्रान्ता दक्षहस्तस्य तर्जनी || संयुक्तौ कारयेद्विद्वानङ्गुष्ठावुभयोरपि | धेनुमुद्रा निगदिता गोपिता साधकोत्तमैः || परिवृत्तकरौ पश्चात्तर्जनीमध्यमे युते | कनिष्ठानामिकाङ्गुष्ठं परस्परयुतं कुरु || धेनुमुद्रेयमाख्याता अमृतीकरणं भवेत् || इति | (१५-८ | १ वि० सं०) १५ | ८-२ || योनिमहायोनिमुद्रोद्धारः ||
SK
१- || योनिमुद्रोधारः | प० क० सू० १ खण्डे ३७ सूत्रे १ टिप्पण्यामनुसन्धानम् || अस्याः योनिमुद्राया उद्धारोऽत्रैव प० क० सू० ५ खण्डे श्रीललिताक्रमे १७० पत्रे १५ सूत्रभाष्ये मध्यमे कुटिलेत्यादित उदितः || ततो विज्ञाय एषा मुद्रा कार्या यद्यपरिशीलिता स्यात् - || इति || २ - || महायोनिमुद्रोद्धारोप्यत्रैव १७० पत्रे योनिमुद्रोद्धारान्तरं लिखितः - इति विदाङ्कुर्वन्तु विद्वांसः || इति || ३- || योनिमुद्रोद्धारः सटीकशारदा० ४ पटले २६४ पत्रे यथा- मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके | अनामिकोर्ध्वगाश्लिष्टदीर्घमध्यमयोरधः [मुद्राप्रकारे ४१ श्लोके - तु अनामिकोर्ध्वसंश्लिष्ट-इति पाथः ||] | अङ्ष्ठाग्रद्वयं न्यस्येद् योनिमुद्रेयमीरिता || इति || ४- || महायोनिमुद्रोद्धारः | मुद्राप्रकारे -८८ श्लोकतो यथा- तर्जन्यनामिकामध्ये कनिष्ठाक्रमयोगतः | करयोर्योजयित्वैव कनिष्ठामूलदेशतः || अङ्गुष्ठाग्रे तु निक्षिप्य महायोनिः प्रकीर्तिता || इति || प्. ६३५) पञ्चमुद्रामयी योनिमुद्रा || लल्लक्षणं - विशेषश्च- ५- || योनिमुद्रातः | त्रैलोक्यक्षोभिणी त्रैलोक्यद्राविणी त्रैलोक्याकर्षिणी त्रैलोक्यवशङ्करी त्रैलोक्योन्मादकारिणी इति पञ्चमुद्रामयी योनिमुद्रा यथा- ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे ५१ श्लोकतः ५६ श्लोकान्तं यावत् यथा - परिवर्त्य करौ सम्यक्तर्जनीवाहनी समे || ५१ || मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् | अन्योन्यानामिके देवि ! कनिष्ठे तु यथा स्थिते || ५२ || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कल्पयेत् | योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका || ५३ || इयमेव हृदि क्षिप्ता त्रैलोक्यक्षोभिणी बवेत् | त्रैलोक्यद्राविणी नाम मुखस्था परमेश्वरि ! || ५४ || भ्रूमध्यस्था महादेवि ! त्रैलोक्याकर्शणी बवेत् | ललाटस्था महादेवि ! त्रैलोक्यवशकारिणी || ५५ || ब्रह्मरन्ध्रस्थिता देवि ! त्रैलोक्योन्मादकारिणी | पञ्चमुद्रामयीं मुद्रां योनिमुद्रां च दर्शयेत् || ५६ || इति || ६- || इतरप्रकारेण योनिमुद्रा योनिबन्धस्तत्फलं च यथा -
SK
सटीकशारदा० २ पटले ९५ पत्रे मन्त्रशोधनविषये- शोधयेदूर्ध्वपवनो बद्धया योनिमुद्रया || इति मूलग्रन्थः - श्लोकः १११ || इति || अत्र टीका- प्रकारान्तरेण शोधनमाह- शोधयेदिति | वक्ष्यमाणलक्षणां योनिमुद्रां बद्ध्वा मूलाधारोत्पन्नान् मन्त्रवर्णान् ब्रह्मरन्ध्रपर्यन्तं गतागतानि कुर्वतो ध्यात्वा वायुधारणं कृत्वा सहस्रं जपेदिति शोधनप्रकारमाहुः | तदुक्तम् - योनिं बद्ध्वा बीजं बिन्द्वादिपथेन चोन्मनीं प्राप्य तत्र सहस्रं मन्त्रं जपेत् स मन्त्रः प्रबुद्धः स्यात् - इति | योनिबन्धलक्षणं यथा- पार्ष्णिभागात् सुसम्पीड्य योनिमार्गं तथा गुदम् | अपानमूर्ध्वमाकर्षेन्मूलबन्धो निगद्यते || गुदमेढ्रान्तरं योनिस्तामाकुञ्च्य प्रबन्धयेत् | युवा बह्वति वृद्धोऽपि सततं मूलबन्धनात् || इति || योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः | तदाहुः - सेयं मयोक्ता खलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्याः || (अत्र-स्फोटः) प्. ६३६) अनेन बन्धेन न साध्यते यन्नास्त्येव तत् साधकपुङ्गवस्य || छिन्ना रुधाः किलिताः स्तम्भिता ये सुप्ता मत्ता मूर्च्छिता हीनवीर्याः | दग्धाः स्रस्ताः शत्रुपक्षे स्थिता ये बाला वृद्धा गर्विता यौवनेन | ये निर्बीजा ये च सत्त्वेन हीनाः खण्डीभूताश्चाङ्गमन्त्रैर्विहीनाः | एते मुद्राबन्धनेनैव योन्या मन्त्राः सर्वे वीर्यवन्तो भवन्ति || इति || १११ || (१५ | ८-२ वि० सं०) १५ | ८-३-|| व्यापकमुद्रोद्धारः || १ इयं व्यापकमुद्रा अत्रैव प० क० सू० २ खण्डे गणनायकपद्धतौ ७५ पत्रे ४ सूत्रभाष्ये उक्ता यथा- सकलमूलेन करतलाभ्यां सर्वाङ्गे विन्यसेत् | इदमेव व्यापककरणम् | तदुक्तं परमानन्दतन्त्रे - तलभ्यां निखिलाङ्गस्य स्पर्शनं व्यापकं भवेत् || इति || २ - श्रीसटीकमहानिर्वाणतन्त्रे -५ उल्लासे १२४ श्लोकटीकायां च यथा - मूलमन्त्रेण हस्ताभ्यामापादमस्तकावधि | मस्तकात् पादपर्यन्तं सप्तधा वा त्रिधा न्यसेत् | अयं तु व्यापकन्यासो यथोक्तफलसिद्धिदः || १२४ ||
SK
अत्र टीका - अथ व्यापकन्यासं ब्रुते | मूलेत्यादिना | आपादमस्तकावधि पादमारभ्य मस्तकपर्यन्तं मस्तकमारभ्य पादपर्यन्तं च प्रतिहस्ताभ्यां मूलमन्त्रेण सप्तधा सप्तवारं त्रिधा वा न्यसेन्न्यासं कुर्यात् | मस्तकादिति- ल्यब्लोपे कर्मण्यधिकरणे चेति कर्मणि पञ्चमी || १२४ || || इति || ३- व्यापककरणाय प्राक्तनश्रीमदाद्यार्चनपधतौ यथा- अथ व्यापकन्यासः || तत्र प्रणवादिनमोन्तेन मूलमन्त्रेण केशादिपादान्तम् आपादादि केशान्तं सप्तधा व्यापकं कुर्यात् || इति व्यापकन्यासः || इति || (१५ | ८-३ वि० सं०) १५ | ८-४- || अवगुण्ठिनीमुद्रायाम् || १- अवगुण्ठिनीमुद्राशब्दार्थः | कुलार्णवे १७ उ० १५८ पत्रे यथा- आच्छादनं समुद्दिष्टमवगुण्ठनमीरितं || इति || २- अवगुण्ठनमुद्रोद्धारः प० क० सू० ६ खण्डे १९८ पत्रे १८ सूत्रभाष्ये अवकुण्ठन-मुद्रास्वरूपमुक्तं तन्त्रे यथा - प्. ६३७) हस्तद्वयं मुष्टिरूपं तर्जन्यावृजुरूपके | युगपत् भ्रामयेत् ताभ्यां मुद्रेयमवकुण्ठिनी [अत्र मुद्रावाचकशब्दसमूहे -अवकुण्ठिनी-अवगुण्ठनी-एवं शब्दद्वयमपि सुप्रसिद्धं वर्तते ततो न मुग्धव्यम् |] || इति प्रजगुः || इति || ३- || अवकुण्ठिन्यन्तत्रिमुद्राणामुद्धारः ज्ञानार्णवे - ४ पटले - १४ पत्रे ३३-३४ श्लोकयोः यथा- अपरा च- मिलितं मुष्टियुगलं संनिधापनरूपिणी | अन्तरङ्गुष्ठमुष्टिभ्यां संनिरोधनरूपिणी || एतस्या एव मुद्रायास्तर्जन्यौ सरले यदा | सव्यापसव्यभ्रमणान्मुद्रेयमवगुण्ठनी || इति || ४- केवलावगुण्ठनमुद्रोद्धारः आनन्दाश्रमग्रन्थावलि ७३ अङ्क मुद्रितघारे इत्युपनामकशङ्करसूरिविरचितश्री गा० पु० पद्धतौ १० पत्रे यथा- तर्जनीभ्रमणेनैव अवगुण्ठनमीरितम् || इति || (१५ | ८-४ वि० सं०) १५ | ८-५- || सर्वसंक्षोभिणीमुद्रायाम् || १ - सर्वसंक्षोभिणीमुद्राशब्दार्थः प० क० सू० ५ खण्डे श्रीललिताक्रमे १५१ पत्रे १ सूत्रभाष्ये यथा-
SK
सर्वसंक्षोभिणीपदार्थश्च इत्थं - सर्वान् पदार्थभूतान् क्षोभयतीति उत्पादयतीति सर्वसंक्षोभिणी कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताऽश्रयेति यावत् | इयमेव वामा शक्तिरित्युच्यते | तदुक्तं - योगिनीतन्त्रे - योनिप्राचुर्यतस्सैषा सर्वसंक्षोभिका पुनः | वामा शक्तिप्रधानेयम् ......................|| इति || योनिः कारणत्वानि तेषां प्राचुर्यतो भूयस्त्वेन | अत एव सर्वसंक्षोभिण्या बाह्यस्वरूपे अङ्गुलीग्रथनात्मकेऽपि अङ्गुष्ठे कनिष्ठानामामध्यमाग्राणां योगे योनिभूयस्त्वं प्रत्यक्षेणानुभूयते | एतेन अदृश्यरूपमपि तथेत्युन्नेयम् || इति || २ - सर्वसंक्षोभिणीमुद्रोद्धारः | अत्रैव प० क० सू० श्रीललिताक्रमे ५ खण्डे १५ सूत्रभाष्ये १६८ पत्रे यथा- प्. ६३८) मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधिते | तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके || एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी || इति || ३- तत्रैव तन्त्रराजे तु - || कनिष्ठाऽनामिकामध्याः नखैरन्योन्यसङ्गता | कृत्वाऽङ्गुष्ठौ कनिष्ठास्थावृजू कुर्याच्च तर्जनीम् | सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी || इति || ४- ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे ५४ श्लोके यथा - परिवर्त्य करौ सम्यक् तर्जनीवाहनि समे | मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् | अन्योन्यानामिके देवि ! कनिष्ठे तु यथास्थिते || अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कल्पयेत् | योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका | इयमेव [इयमेव नाम उपर्युक्ता योनिमुद्रेत्यर्थः |] हृदि क्षिप्ता त्रैलोक्यक्षोभिणी भवेत् || इति || (१५ | ८-५ वि० सं०) १५-८ | ६ || सर्वविद्राविणीमुद्रायाम् || १- प्र-सर्वविद्राविणीमुद्राशब्दार्थः प० क० सू० ५ खण्दे १५१ पत्रे १ सूत्रभाष्ये यथा- द्वितीया सर्वविद्राविणी सर्वानुत्पन्नान् द्रावयति वर्धयति पोषणेन सा सर्वविद्राविणी सर्वेषां वस्तूनां पालकत्वादृजुस्वभावा ज्येष्ठाशक्तिप्रचुरा च | तदुक्तं योगिनीतन्त्रे
SK
क्षुब्धविष्वस्थितिकरी ज्येष्ठा प्राचुर्यमास्थिता इति || क्षुब्धस्य उत्पन्नस्येत्यर्थः | यश्च संरक्षकः स ऋजुरिति लोके प्रसिद्धा गाथा | अत एव अस्या मुद्रायाः बाह्यरूपेऽपि अङ्गुष्ठेन कनिष्ठिकानामायोगे अङ्गुलिचतुष्टये ऋजुत्वं दृश्यते | एवमाद्यत्रिकोणे रेखात्रयमध्ये पूर्वस्यां दिशि स्थितायां ऋजुरेखायामेव तस्या अधिष्ठानं शास्त्रप्रसिद्धम् || इति || २- || सर्वविद्राविणीमुद्रोद्धारः प० क० सू० खण्डे १६८ पत्रे १५ सूत्रभाष्ये यथा - एतस्या एव मुद्राया मध्यमे सरले यदि | क्रियते चेन्महेशानि ! सर्वविद्राविणी तदा || इति || एतस्या नाम उपर्युक्तायाः क्षोभिणीमुद्रायाः इत्यर्थः | प्. ६३९) अत्र भाष्यं यथा- मध्यमे मध्यमेपीत्यर्थः | एतेन तर्जनीमध्यमयोः द्वयोः सरलत्वं ज्ञेयं || इति विद्राविणी || इति || ३- ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे यथा- त्रैलोक्यद्राविणी नाम मुखस्था परमेश्वरि ! || ५४ || इति || (१५ | ८-६ वि० सं०) १५ | ८-७ || सर्वाकर्षिणीमुद्रेयम् || १- सर्वाकर्षिणीमुद्राशब्दार्थः अत्रैव प० क० सू० ५ खण्डे श्रीललिताक्रमे १५१-१५२ पत्रयोः -१ सूत्रभाष्ये यथा- तृतीया सर्वाकर्षिणी सर्वाकर्षणशीला | इयं ज्येष्ठावामोभयात्मिका | तदुक्तं योगिनीतन्त्रे - ज्येष्ठावामासमत्वेन सृष्टेः प्राधान्यमास्थिता | आकर्षिणीति मुद्रेयम् ................. || इति || पूर्वोक्तमुद्राद्वयवाचकपदशक्यताऽवच्छेदकयोः द्वयोरपि सर्वाकर्षिणीपदशक्यताऽवच्छेदकत्वं बोध्यम् पुष्पवच्छब्दवत् | तत्रापि ज्येष्ठात्वविषिष्टवामात्वं शक्यताऽवच्छेदकं न तु विपरीतं | तथा सति ज्येष्ठाया विशेष्यत्वेन प्राधान्यं वाच्यम् | प्राधान्ये ज्येष्ठायाः अतिसरलत्वेन प्रधानानुसारेण विशेषणीभूतवामाया अपि प्रधानानुवर्तिन्याः सरलतया तर्जनीमध्यमयोः बाह्यरूपे कुटिलत्वं न स्यात् | वामायाः प्राधान्ये तु तस्याः कुटिलतया तदनुसारेण अप्रधानाया ज्येष्ठायाः प्रधानानुवर्तिन्याः कुटिलत्वं युक्तं | अत एव बाह्यस्वरूपे अङ्गुलिग्रथने सर्वास्वङ्गुलिषु कुटिलत्वम् || इति ||
SK
२- सर्वाकर्षिणीमुद्रोद्धारः अत्रैव - प० क० सू० ५ ख्ण्डे ललिताक्रमे १६८ पत्रे १५ सूत्रभाष्ये यथा- मध्यमातर्जनीयुग्मे वक्रीकुर्यात् सुलोचने ! | एतस्या एव मुद्रायास्तदाकर्षणकारिणी || इति || ३- ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे यथा- भ्रूमध्यस्था महादेवि ! त्रैलोक्याकर्षिणी भवेत् || इति || ४- मुद्राप्रकारे यथा- मध्यमातर्जनीभ्यां च कनिष्ठानामिके समे | अङ्कुशाकाररूपाभ्यां मध्यमे परमेश्वरि ! || प्. ६४०) अङ्गुष्ठं च वियुञ्जीत कनिष्ठानामिकोपरि | इयमाकर्षणीमुद्रा त्रैलोक्याकर्षिणी मता || इति || (१५ | ८-७ वि० सं०) १५-८ | ८- || सर्ववशङ्करीमुद्रायाम् || १- सर्ववशङ्करिमुद्राशब्दार्थः - प० क० सू० ५ खण्डे श्रीललिताक्रमे १५२ पत्रे १ सूत्रभाष्ये यथा- चतुर्थी सर्ववश्यकरी- सर्वान् क्षित्यादिशिवान्तान् वश्यं स्वाधीनं नयति प्रापयतीति तथा | लोके आकाशो द्विविधः दह्रः प्राकृतश्च | दह्राकाशेऽपि सुसूक्ष्मोऽन्य आकाशोऽस्ति तस्यान्ते सुषिरं सूक्ष्मं इति- श्रुतिप्रसिद्धः | तन्मध्ये गाढमाश्लिष्टा परशिवेन या आनन्दविग्रहा मूर्तिः सा सर्ववश्यकरी- पदवाच्या | तदुक्तं उत्तरचतुश्शत्याम् - व्योमद्वयान्तरालस्था बिन्दुरूपा महेश्वरि ! | शिवशक्त्यात्मसंश्लेषादेषा वश्यकरी स्मृता || इति || बिन्दुरूपेति कथनात् स्वरूपमपि तथा | अत एवाङ्गुलिग्रथनेऽपि अस्या भाह्यरूपे बिन्द्वाकारता सर्वाङ्गुलीनां गाढसंश्लेषोऽपि व्यक्तः || इति || २- || सर्ववशङ्करीमुद्रोद्धारः || प० क० सू० ५ खण्डे श्रीललिताक्रमे १५८ पत्रे १५ सूत्रभाष्ये-तत्रैव चतुर्थी मुद्रा सर्ववशङ्कर्युक्ता- पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती | परिवर्त्य क्रमेणैव मध्यमे तदधोगते || क्रमेण देवि ! तेनैव कनिष्ठानामिके [नामिकादयः-इति मुद्राप्रकारे- पाठः] अपि | संयोज्य निबिडाः सर्वाः अङ्गुष्ठावग्रदेशतः || मुद्रेयं परमेशानि ! सर्ववश्यकरी स्मृता || इति ||
SK
अस्यार्थः - पुटाकारौ परस्परं पृष्ठसंलग्नौ ऊर्ध्वाग्राङ्गुलिकौ हस्तौ कृत्वा ततोङ्गुष्ठव्यतिरिक्ताङ्गुलीः परस्परमङ्गुलिसन्धिषु प्रवेश्य तर्जन्यादिकनिष्ठाऽन्ता अङ्गुलीः अङ्कुशाकाराः कुर्यात् | एवं कृत्वा ततोऽङ्गुष्ठद्वयं अधोमुखं तर्जन्युपरि स्थापयेत् | इयं सर्ववशङ्करी इति भावः || प्. ६४१) ३- ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे यथा- [अत्रोट्ट्ङ्कितवशङ्करीमुद्रोद्धारोनुगत ६३५ पत्रे -१५ | ८-२ वि० गत० योनिमुद्रोद्धारमाश्रित्यैव ज्ञेयः कार्यश्चेति विनयामि ||] ललाटस्था महादेवि ! त्रैलोक्यवशकारिणी || ५५ || इति || (१५ | ८-८ वि० सं०) १५ | ८-९- उन्मादिनीमुद्रायाम् || १- उन्मादिनीमुद्राविषये प० क० सू० ५ खण्डे श्रीललिताक्रमे १५२ पत्रे १ सूत्रभाष्ये उक्तं यथा- पञ्चमी- उक्तशिवशक्तिबिन्द्वोर्मध्ये सूक्ष्मरेखा नीवारशूकवत्तन्वी तस्य मध्ये वह्निशिखा इति- श्रुतिप्रसिधा | तस्याः शिखायाः द्विस्वभावत्वं ज्येष्ठास्वभावत्वं च | यथा लोके- एकस्यैव दण्डस्य घटोत्पादकशक्तिमत्त्वं तन्नाशकशक्तिमत्त्वं चास्ति तथाऽपि स दण्डः कदाचिदुत्पादकशक्तिप्रधानो भूत्वा घटमुत्पादयति कदाचिन्नाशशक्तिप्रधानः तं नाशयति | एवं लोके बहुस्थले दृष्टम् | तथा दण्डस्थानीया उक्तरेखा | सा यदा जगद्रक्षणकर्तृत्वविशिष्टज्येष्ठाशक्तिप्रधाना - तदा सर्वोन्मादिनीपदवाच्या | तदुक्तं उत्तरचतुश्शत्याम् यथा - बिन्द्वन्तरालविलसत्सूक्ष्मरूपशिखामयी | ज्येष्ठाशक्तिप्रधाना तु सर्वोन्मादनकारिणी || इति || अत एव तदङ्गुलिग्रथनवेलायां अङ्गुष्ठानामातर्जन्यः सरलाः दृश्यन्ते बिन्दुद्वयाकारं मध्यमाद्वयं च भवति | तत्रापि निरुक्तशिखास्थानापन्नग्रथनवेलायां अनामाद्वयमेव ज्ञेयम् | मध्यमाद्वयस्य तदानीं बिन्दुद्वयरूपत्वेन तन्मध्यवर्त्यनामाद्वयस्य तस्य मध्ये वह्निशिखा इति प्रसिद्धशिखात्वं युक्तम् || इति || २- उन्मादिनीमुद्राविषये | ज्ञानार्णवतन्त्रे ४ पटले १५ पत्रे यथा -
SK
[अत्रोट्टङ्कित-उन्मादिनीमुद्रोद्धारोनुगत ६३५ पत्रे १५ | ८-२ पत्रे वि० गतयोनिमुद्रोद्धारमाश्रीत्यैव ज्ञेयः कार्यश्चेति विनयामि || ब्रह्मरन्ध्रस्थिता देवि ! त्रैलोक्योन्मादकारिणी || इति || ३- अन्यथा उन्मादिनीमुद्रोधारः | प० क० सू० ५ खण्डे श्रीललिताक्रमे १६९ पत्रे १५ सूत्रभाष्ये यथा- पञ्चम्यपि तत्रैव- संमुखौ तु करौ कृत्वा मध्यमामध्यगेऽनुजे | अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् || प्. ६४२) दण्डाकारौ ततोऽङ्गुष्ठौ मध्यमानखदेशगौ | मुद्रैषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् || इति || अयमर्थः - वामकनिष्ठोपरि दक्षकनिष्ठां तिर्यगनामाद्वयोपरिमार्गेण मध्यमापर्यन्तं प्रसार्य तादृशकनिष्ठाऽग्रद्वयं मध्यमाद्वयेन दृढं गृह्नीयात् | गृहीतमध्यमानखोपरि दण्डाकारमङ्गुष्ठद्वयं स्थापयेत् | तथाऽनामाद्वयं परस्पराभिमुख्येन सरले कुर्यात् | अनामिकयोः पार्श्वद्वये तर्जनीद्वयमपि सरलं कुर्यात् | एषा सर्वोन्मादिनी मुद्रा- योषिद्वश्यकरी || इति || (१५ | ८-९ वि० सं०) १५ | ८-१० || खेचरीमुद्रायाम् || १- खेचरीमुद्राशब्दार्थः प० क० सू० ५ खण्डे श्रीललिताक्रमे १५३ पत्रे १ सूत्रभाष्ये यथा- सप्तमि सर्वखेचरी जीवानां स्वकर्मजनितरोगादिदुःखनाशनक्षमा शक्तिः | अतः एव सर्वरोगहरचक्रस्था भवति | तदप्युक्तं योगिनीतन्त्रे - धर्माधर्मस्य सङ्घट्टादुत्थिता वित्तिरूपिणी | विकल्पोत्थक्रियालोपरूपदोषविघातिनी | विकल्परूपरोगाणां हारिणी खेचरी मता || इति ||
SK
अत्र भाष्यम् | धर्मः शक्तिः परशिववृत्तित्वात् | न विद्यते धर्मो यत्रेति अधर्मः परं ब्रह्म परशिवः | यद्वा- न (कस्यापि) धर्मः अधर्मः इति- नञ्तत्पुरुष एव युक्तः परशिवे शक्तिरूपधर्मसत्त्वेन पूर्वकल्पे स्वोक्तव्याघातात् | तयोः सङ्घट्टः मेलनं तेन उत्थिता | यावद्विकल्पः तेनोत्थिताः | याः क्रियाः नित्यनैमित्तिकाः- तासां लोपेन यत् पापं तत्सम्भवाः रोगाः - तन्नाशिनी खेचरीति | अत एवैतादृशशिवशक्तिसामरस्यद्योतकं भाह्यरूपे बाहुद्वयपरिवर्तनम् || इति || २ - || खेचरीमुद्रोद्धारः || प० क० सू० ५ खण्डे ललिताक्रमे १६९ पत्रे १५ सूत्रभाष्ये यथा - सप्तमीं खेचरीमुद्रां तत्रैव व्याचचक्षे यथा- सव्यं दक्षिणहस्ते तु दक्षिणं सव्यहस्ततः | बाहू कृत्वा महेशानि ! हस्तौ सम्परिवर्त्य च || कनिष्ठानामिके देवि ! युक्त्वा तेन क्रमेण तु | तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे || प्. ६४३) अङ्गुष्ठौ तु महेशानि ! कारयेत् सरलावपि | इयं सा खेचरीनाम मुद्रा सर्वोत्तमा प्रिये ! || इति || ३- अत्र तात्पर्यं - तत्रैव यथा- बाहू सरलौ प्रथमं कृत्वा दक्षबाहूपरि वामं स्थापयित्वा पुनर्वामं हस्तं दक्षहस्ताधो मार्गेण वामपार्श्वे निर्गमय्य हस्तद्वयाङ्गुलीः वक्ष्यमाणरीत्या ग्रथ्नीयात् | तद्यथा वामानामा कनिष्ठे दक्षमध्यमाधोमार्गेण दक्षतर्जन्यां नीत्वा- एवं दक्षानामाकनिष्ठे वाममध्यमाऽधोमार्गेण वामतर्जन्यां नीत्वा० हस्तद्वयतर्जनीभ्यां स्वसमीपागतानामाकनिष्ठे दृढं गृह्णीयात् | मध्यमे सर्वोर्ध्वं सरले एवाग्राभ्यां परस्परसंलग्ने स्थापयेत् | अङ्गुष्ठौ सरलौ कृत्वा योनिसादृश्यं सम्पादयेत् | इयं खेचरिमुद्रा | यद्यप्युक्तार्थः सर्वोऽपि पूर्वलिखितवचने नास्ति तथाऽपि- वामं भुजं दक्षभुजे दक्षिणं वामदेशतः | निवेश्य योजयेत् पश्चात् परिवर्त्य क्रमेण हि ||
SK
कनिष्ठाऽनामिकायुग्मे तर्जनीभ्यां निरोधयेत् | मध्यमे सरले कृत्वा योनिवत् सरलौ ततः || अङ्गुष्ठौ खेचरीमुद्रा पार्थिवस्थानयोजिता इति - ज्ञानार्णववचनेन सह एकवाक्यतां सम्पाद्य निष्कासितोऽर्थो ज्ञेयः || इति || ४- खेचरीमुद्रोद्धारः | मुद्राप्रकारनामकग्रन्थे ७ पत्रेधः महाङ्कुशमुद्रोद्धारानन्तरं यथा- सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् || बाहुं कृत्वा महादेवि ! हस्तौ सम्परिवर्त्य च | कनिष्ठानामिके देवि ! युक्ता तेन क्रमेण च | तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे || अङ्गुष्ठौ च महेशानि ! सरलावपि कारयेत् | इयं तु खेचरी नाम पार्थिवस्थानयोजिता || इति || (१५-८ | १० वि० सं०) १५-८ | ११ || त्रिखण्डाऽवाहनमुद्रयोः | १ त्रिखण्डामुद्राशब्दार्थः | प० क० सू० ४ खण्डे १३५ पत्रे सूत्रभाष्ये यथा- त्रिखण्डा मुद्रा त्रीन् जन्ममृत्युजराः यद्वा- सत्त्वरजस्तमोगुणान् खण्डयतीति त्रिखण्डा केवलमोक्षप्रदेत्यर्थः | यद्वा- त्रीणि खण्डानि - कलाः इच्छाज्ञानक्रियाऽत्मिकाः तत्स्वरूपा त्रिखण्डा || तदुक्तं योगिनीतन्त्रे - प्. ६४४) मुद्राऽख्या सा यदा संविदम्बिका त्रिकलामयी | त्रिखण्डारूपमापन्ना सदा सन्निधिकारिणी | सर्वस्य चक्रराजस्य व्यापिका परिकीर्तिता || इति || १५-८ | ११-२ - त्रिखण्डामुद्रोद्धारः | प० क० सू० ५ खण्डे १५ सूत्रभाष्ये १६७ पत्रे यथा- १- तत्रावाहने प्रथमं विनियुक्ता त्रिखण्डोच्यते | त्रिख्ण्डालक्षणमुक्तं वामकेश्वरतन्त्रे - परिवर्त्य करौ स्पृष्टावङ्गुष्ठौ कारयेत् समौ | अनामाऽन्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती || कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ! | त्रिखण्डेयं समाख्याता त्रिपुराऽह्वानकर्मणि || इति ||
SK
अत्र भाष्यम् - परिवर्तनं नाम हस्तद्वयाङ्गुलिमेलनम् | इदं सर्वत्राधिकाररूपं सदन्वेति | अङ्गुष्ठौ सरलौ परस्परस्पृष्टौ तथैव कनिष्ठे मध्यमे च कुर्यात् | वामानामोपरि दक्षनामां तिर्यक् प्रसार्य- तयोरधःप्रदेशात् तर्जनीद्वयमानीय- कुटिलाकाराभ्यां तर्जनीभ्यां अनामाऽग्रद्वयं धारयेत् | अनामे अन्तर्गते ययोरिति विग्रहेण लब्धोऽर्थः | अस्या उक्तरीत्या निर्माणे - खण्डत्रयं दृश्यते | उपरि सरलाङ्गुष्ठद्वययोगः | मध्ये तादृशमध्यमायोगः | अधश्च कनिष्ठायोगस्तादृशः | एवं सति पूर्वोक्तवामाज्येष्ठारौद्रीकलात्रयरूपमस्यां स्फुटम् | अत एव त्रय खण्डाः कलाः यस्यां-इति विग्रहेण त्रिखण्डेयम् | अत्र-यद्यपि ख्ण्डद्वयनिर्माणप्रकार उक्तः | मध्यमखण्डरचनाप्रकारो नोक्तः | तथाऽपि त्रिखण्डेति योगार्थसम्पत्तये तन्त्रान्तरं शरणीकृत्य खण्डत्रयं सम्पादनीयं | खण्डत्रयमुक्तमधस्तात् यथा- ३ त्रिखण्डामुद्रायाः द्वितीयः प्रकारः - ज्ञानार्णवे -१५ पटले -५९ पत्रे ४९ श्लोकोत्तरार्धे - पाणिद्वयं महेशानि ! परिवर्तनयोगतः | योजयित्वा तर्जनीभ्यां अनामे धारयेत् प्रिये || मध्यमे योजयेन्मध्ये कनिष्ठे तदधस्ततः | अङ्गुष्ठावपि संयोज्य त्रिधा युग्मक्रमेण तु || त्रिखण्डा मम मुद्रेयं त्रिपुराऽह्वानकर्मणि || इति || १५ | ८-४ केवलावाहनमुद्रोद्धारः || अस्याः आवाहनमुद्राया उद्धारः प० क० सू० ७ खण्डे श्रीवाराहीक्रमे २१ सूत्रभाष्ये २१७ पत्रेऽस्ति तत्तो ज्ञेयः- प्. ६४५) ५ ज्ञानमालायाम्- देवता न च सन्तुष्टा सर्वदा संमुखी भवेत् | अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनि मता || इति || य० आ० सू० १२४ पत्रे - ६ सटीकशारदा० २३ पटले ८४३ पत्रे यथा- सम्यक् सम्पूरितः पुष्.पैः कराभ्यां कल्पितोऽञ्जलिः | आवाहनी समाख्याता मुद्रा देशिकसत्तमैः || इति || १०७ || ७ एतच्छ्लोकटीकायां च यथा- हस्ताभ्यामञ्जलिं कृत्वाऽनामिकामूलपर्वणोः | अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता || इति || ८ ज्ञानार्णवतन्त्रे ४ पटले १३ पत्रे यथा-
SK
आवाहनादिमुद्रास्तु कथयामि तवानघे ! | ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् || इति || (१५-८ | ११ वि० सं) १५-८ | १२ || सन्निरोधनमुद्रायाम् १ सन्निरोधनमुद्रोद्धारः ज्ञानार्णवे ४ पटले १४ पत्रे यथा- अन्तरङ्गुष्ठमुष्टिभ्यां संनिरोधनरूपिणी || ३३ || इति || २ आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पु० पद्धतौ ९ पत्रे घारे- इत्युपनामक श्रीशङ्करसूरिर्दर्शयति यथा - अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधिनी मता || इति || ३ केवलसंनिरोधनमुद्रोद्धारः सटीकशारदा० २३ पटले ८४३ पत्रे १०८ श्लोकतः १०९ श्लोकान्तं यावत्- आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका | सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः | अङ्गुष्ठगर्भिणी सैव सन्निरोधे समीरिता || १०९ || इति || (१५-८ | १२ वि० सं०) १५ | ८-१३- || वराभयमुद्राविषये || १- वराभयमुद्रयोर्दक्षिणवामहस्तग्रहणविषयको मतभेदशास्त्रार्थः || श्रीवह्निकलापूजोपदेशे सटीकशारदा० २ पटले ७३ पत्रे १६ श्लोके तट्टिकायां च प्. ६४६) यादीनां दशवर्णानां कला धर्मप्रदा इमाः || अभयेष्टकरा ध्येया० इत्यादि० || १६ || तत्र भाष्यं - अभयेष्टेति | इष्टो वरः | तत्र दक्षिणहस्ते अभयं-वामहस्ते वरः इति सम्प्रदायविदः वरदानमुद्रोद्धारः - तत्रैव उक्तञ्च- ऊर्ध्वीकृतो दक्षहस्तः प्रसृतोऽभयमुद्रिका | अधोमुखो वामहस्तः प्रसृतो वरमुद्रिका || इति || दशमपटल्यामपि भुवनेशीध्याने - दक्षेङ्कुशाभये प्रोक्ते वामे पाशमथेष्टदम् | इति | तन्त्रान्तरे सरस्वतीध्याने - साक्षस्रक्कलशोर्ध्वबाहुयुगलं चाधःसमुद्राभयं हस्तं दक्षिणमन्यतः सवरदं यस्याः करे पुस्तकम् || इति || सौत्रामणितन्त्रे पञ्चमीध्याने - चक्रं खड्गं मुसलमभयं दक्षिणाभिर्भुजाभिः | शङ्खं खेटं हलमपि वरं बिभ्रती वामदोर्भिः || इति || तन्त्रान्तरे नित्याध्याने - कपालमभयन्तथा | दधानां दक्षिणैर्हस्तैः | इत्यादि | अन्यत्रापि -
SK
पाशं पताकां चर्माऽपि शार्ङ्गं चापं वरं करैः | दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः || अङ्कुशं च ततो दण्डं खड्गं बाणं तथाऽभयम् ! दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे || इति || कादिमतेऽपि- ब्रूहि देव महेशान ! स्थूलसूक्ष्मस्वरूपयोः | ध्यानयोः कर्मणां सिद्धिं विविधां फलयोगतः || तासां तत्तत्करेषूक्तेष्वायुधान्यथ शेषतः | शृणु वक्ष्ये महेशानि ! क्रमेण त्वं हि साम्प्रतम् || वामदक्षिणयोः स्यातां द्विभुजे तु वराभयौ [अत्र वराभये इति पाठः साधुः] | पाशाङ्कुशौ चतुर्बाहौ षड्भुजे चापसायकौ || चर्मखड्गावष्टभुजे गदाशूले दशोदिते | इति | अतो यत्र शक्तिध्याने वराभये तत्र तत्र प्रायोऽभयं दक्षिणे वामे वरमिति ज्ञेयम् | यत्तूत्तरषट्के - प्. ६४७) वामेनाभयसंयुक्तां वरदां दक्षिणेन तु | इति || अन्यत्रापि- पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् | वरदानरतां देवीम्० | इति | एतत् स्वस्वगुरुसम्प्रदायानुसारेण तत्तद्देवताविशेषे बोद्धव्यमित्यलम् || इति || २ अभय वरदमुद्रयोरुद्धारः - एतयोरुद्धारः सटीकशारदा० १८ पटले ७१५ पत्रे टीकायां यथा - उर्द्ध्वीकृतो वामहस्तः प्रसृतोऽभयमुद्रिका | अधोमुखो दक्षहस्तः प्रसृतो वरमुद्रिका || इति | (१५-८ | १३ वि० सं०) || प्रार्थनामुद्रायाम् || १५ | ८-१४ प्रार्थनामुद्रोद्धारः | सटीकशारदा ४ पटले २८७ पत्रे ९० श्लोकटीकायां यथा - प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौ च सन्मुखौ | कुर्यात् स्वे हृदये सेयं मुद्रा प्रार्थनसंज्ञिका || इति || १५-८ | १५ बीजमुद्रामुद्रायाम् १- बीजमुद्राशब्दार्थः प० क० सू० ५ खण्डे श्रीललिताक्रमे १५३ पत्रे १ सूत्रभाष्ये यथा - अष्टमी बीजमुद्रा जगतः षड्विकारेषु प्राथमिको यो भावविकारः सूक्ष्मरूपेण सत्ता तदभिमानिनी शक्तिः | तदुक्तमुत्तरचतुश्शत्याम्- शिवशक्तिसमाश्लेषस्फुरद्व्योमान्तरे पुनः | प्रकाशयन्ती विश्वं सा सूक्ष्मरूपस्थितं सदा | बीजरूपा महामुद्रा ........................... || इति ||
SK
अयमर्थः वटबीजे सुसूक्ष्मेऽपि किंचिदाकाशोऽस्ति विभुत्वात् | तस्मिन् यथा महावृक्षः सूक्ष्मरूपेण तिष्टति तथा षट्त्रिंशत्तत्त्वानि शिवशक्तिगर्भे विद्यन्ते सूक्ष्मरूपेण सैव सत्ताघटोऽस्ति पटोऽस्ति इत्यत्र अनुवर्तते | सा बीजमुद्रेत्यर्थः | सर्वबीजस्थानापन्नत्वात् सर्वबीजा | सूक्ष्मत्वादेव अङ्गुलिग्रथनवेलायां संक्षोभिण्याद्यपेक्षया अल्पयोनित्वं सूक्ष्मत्वाद्व्यापकम् || इति || २ बीजमुद्रोद्धारः प० क० सू० ५ खण्डे १७० पत्रे १५ सूत्रभाष्ये यथा - प्. ६४८) अष्टमी मुद्राऽपि तत्रैव प्रकटिता - परिवर्त्य करौ स्पृष्टावर्धचन्द्राकृती प्रिये ! | तर्जन्यङ्गुष्ठयुगलं युगपत् कारयेत् ततः || अधःकनिष्ठाऽवष्टब्धे मध्यमे विनियोजयेत् | तथैव कुटिले योज्ये सर्वाधस्तादनामिके || बीजमुद्रेयमचिरात् सर्वसिद्धिप्रवर्तिनी || इति || अस्यार्थः अनामामध्यमामार्गेण व्यत्यस्ते कनिष्ठिके स्वाधोभागे मध्यमा यथा तिष्ठति तथा कुर्यात् | ततो मध्यमाद्वयं कनिष्ठाद्वयावष्टम्भकं यथा तथा कुर्यात् | सर्वाधः स्थिते अनामे यावत् कुटिले भवतः तावत् कुर्यात् | अङ्गुष्ठतर्जनीयुगलं अर्धचन्द्राकृति यथा भवति तथा योजयेत् | इयं बीजमुद्रा भवति || इति || (१५-८ | १५ वि० सं०) १५-८ | १६ शङ्खमुद्रोद्धारः आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रित श्री० घारे इत्युपनामकशङ्करसूरिविरचितश्री० गा० पु० पद्धतौ ९ पत्रे यथा - १ वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना | कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् || वामाङ्गुल्यस्तथाऽश्लिष्टाः संयुक्ताः स्युः प्रसारिताः | दक्षिणाङ्गुष्ठके लग्ना मुद्रा शङ्खस्य भूतिदा || इति || २ य० आ० सू० ५२ पत्रे यथा - वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना | कृत्वोत्तानं ततो मुष्टिं अङ्गुष्ठं तु प्रसारयेत् || वामाङ्गुल्यस्तथाश्लिष्टाः संयुताः सुप्रसारिताः | दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका || इति || (१५-८ | १६ वि० सं०) || गालिनीमुद्रायाम् ||
SK
१५-८ | १७ गालिनीमुद्रोद्धारः || सटीकशारदा० ४ पटले २६४ पत्रे ४७ श्लोकटीकायां यथा - १ कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरम् | तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः (सज्जिताः) | मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता || इति || प्. ६४९) २- श्रीदुर्गाकल्पद्रुमपुस्तिकायां तु १२२ पत्रे यथा - करद्वयाङ्गुष्ठतर्जन्यग्रसंयोगे गालिनीमुद्रा || इत्युक्ता इति || (१५-८ | १७ वि० सं०) १५-८ | १८ || संस्थापनमुद्रायाम् || १- संस्थापनी शब्दार्थः || कुलार्णवे १७ उ १५८ पत्रे यथा- आसने सन्निवेशः स्यात् स्थापनं कुलनायिके ! || इति || २- संस्थापनीमुद्रोद्धारः ज्ञानार्णवतन्त्रे ४ पटले १३ पत्रे यथा - ऊर्ध्वाञ्जलिमधः कुर्यादियमावाहनी भवेत् इयं तु विपरीता स्यात्तदा वै स्थापनी मता || ३२ || इति || ३- आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री गा० पु० पद्धतौ -९ पत्रे घारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा - हस्ताभ्यामञ्जलिं कृत्वाऽनामिकामूलपर्वणोः || अङ्गुष्ठौ निक्षिपेदुच्छ्रौ मुद्रैषाऽवाहनी स्मृता | अधोमुखी त्वियं चेत् स्यात् स्थापनी मुद्रिका भवेत् || इति || ४- सटीकशारदा २३ पटले ८४३ पत्रे १०८ श्लोके यथा- सम्यक् सम्पूरितः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः | आवाहनी समाख्याता मुद्रा देशिकसत्तमैः || १०७ || अधोमुखी कृता सैव प्रोक्ता स्थापनकर्मणि || इति || (१५ | ८-१८ वि० सं०) १५ | ८-१९ || सन्निधापनमुद्रायाम् || १ - सन्निधापनमुद्राशब्दार्थः | कुलार्णवे १७ उ० १५८ पत्रे यथा- अन्योऽन्यसम्मुखाकारः सन्निधापनमीरितम् || इति || २ - सन्निधापनमुद्रोद्धारः || ज्ञानार्णवतन्त्रे ४ पटले १४ पत्रे यथा - मिलितं मुष्टियुगलं सन्निधापनरूपिणी || इति || ३ - आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पद्धतौ ९ पत्रे घारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा - उच्छ्रिताऽङ्गुष्ठमुष्ट्योस्तु संयोगात् सन्निधापनी || इति || प्. ६५०) ४- सटीकशारदा० २३ पटले ८४३ पत्रे १०८ श्लोकेपि यथा -
SK
आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका || १०८ || सन्निधाने समुद्दिष्टा मुद्रेयं तत्त्ववेदिभिः || इति || (१५ | ८-१९ वि० सं०) १५ | ८-२० || सम्मुखीकरणमुद्रायाम् || १- सम्मुखीकरणमुद्रोद्धारः || सटीकशारदा० ४ पटले २८७ पत्रे ९ श्लोकटीकायां यथा - मुष्टिद्वयस्थिताङ्गुष्ठौ सम्मुखौ च परस्परम् | संश्लिष्टावुच्छ्रितौ कुर्यात् सेयं सम्मुखमुद्रिका || इति || २- सटीकशारदा० २३ पटले ८४३ पत्रेऽपि यथा- उत्तानौ द्वौ कृतौ मुष्टी सम्मुखीकरणी स्मृता || इति || (१५ | ८-२० वि० सं०) १५ | ८-२१ || सकलीकरणमुद्रायाम् || १- सकलीकरणमुद्राशब्दार्थः || कुलार्णवे १७ उल्लासे १५८ पत्रे यथा - देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः || इति || २- सकलीमुद्रोद्धारः | ज्ञानार्णवे ४ पटले १४ पत्रे यथा- अङ्गमन्त्रैर्न्यसेद् देवि ! देव्यङ्गे साधकोत्तमः | सकलीकरणं नाम मुद्रेयं व्याप्तिकारिणी || ३५ || इति || ३- सटीकशारदा० २३ पटले ८४३ पत्रेऽपि यथा- देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः || इति || ४- य० आ० सू० ५१ पत्रे षडङ्गन्यासमुद्रा उक्ता यथा- हृन्नेत्रं त्रिभिराख्यातं द्वाभ्यामस्त्रं शिरो न्यसेत् | अङ्गुष्ठेन शिखा ज्ञेया दिग्भिः कवचमीरितम् || इति || अर्थादेवं षडङ्गन्यासाः कार्याः न समस्तपाणिनेति मार्मिकम् || इति || (१५ | ८-२१ वि० सं०) १५-८ | २२ || परमीकरणमुद्रायामथ च महामुद्रायां च || १- परमीकरणमुद्रोद्धारः || कुलार्णवे १७ उल्लासे १५८ पत्रे यथा- क्षमस्वेत्यङ्गुलिर्देवि ! परमिकरणं भवेत् || इति || प्. ६५१) २- ज्ञानार्णवे ४ पटले १४ पत्रे ३६ श्लोकेऽपि यथा- करावेकत्र संयोज्यावङ्गुष्ठौ बन्धयेत् प्रिये ! | परमीकरणं नाम मुद्रेयं तु ततः परम् || इति || ३- महामुद्रोद्धारः || सटीकशारदा० २३ पटले ८४४ पत्रे ११३ श्लोकटीकायां च यथा-
SK
अन्योऽन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुली || ११३ || महामुद्रेयमुदिता परमीकरणे बुधैः | प्रयोजयेदिमां मुद्रां देवतायागकर्मणि [मुद्राप्रकारग्रन्थे तु देवताह्वानकर्मणीतिपाठः ||] || ११४ || इति || अत्र टीका यथा- महामुद्रामाह | अन्योऽन्येति पाण्योरङ्गुष्ठौ परस्पर- ग्रथनेन ग्रन्थिरूपौ शेषाः सरलाः || इति || (१५-८ | २२ वि० सं०) १५-८ | २३ || अमृतीकरणमुद्रायाम् || १- अमृतीकरणमुद्राशब्दार्थः || कुलार्णवे १७ उल्लासे १५८ पत्रे यथा- दर्शयेद्धेनुमुद्रां च अमृतीकरणं प्रिये || इति || २- द्वि० प्र० अमृतीकरणमुद्रार्थे | सटीकशारदा० २३ पटले ८४३ पत्रे ११२ श्लोकान्ते यथा- अन्योऽन्याभिमुखाश्लिष्टा कनिष्ठानामिका पुनः | तथा च तर्जनी मध्या धेनुमुद्रा समीरिता || अमृतीकरणं कुर्यात्तया देशिकसत्तमः || इति || ३- अत्रेदं ज्ञेयं- अयमुपरिष्ठादुच्यमानो मुद्रोद्धारस्तु धेनुमुद्राया एव नामृतीकरणमुद्रायाः इति नाशङ्क्यम् || अमृतीकरणमुद्रायाः प्रायः प्रार्थक्येन निरूपणाभावाद्धेनुमुद्रयैवैतदमृतीकरणविधानमुपदिष्टं यथा- ज्ञानार्णवे श्री० गा० पु० पद्धतौ | अमृतीकरणं कुर्यात् तया देशिकसत्तमः | इत्यादिना शारदातिलके चेति शम् || (१५-८ | २३ वि० सं०) प्. ६५२) १५-८ | २४ बिन्दुमुद्रोद्धारः | मुद्राप्रकारे ७६ श्लोके- तर्जन्यङ्गुष्ठसंयोगादग्रतो बिन्दुमुद्रिका || इति || १५-८ | २५ संहारमुद्रोद्धारस्तत्रैव यथा- अधोमुखे वामहस्ते ऊर्ध्वास्यं दक्षहस्तकम् | क्षिप्त्वाङ्गुलीरङ्गुलिभिः सङ्ग्रथ्य परिवर्तकम् || एषा संहारमुद्रा स्याद्विसर्जनविधौ स्मृता || इति || १५-८ | २६ लोकपालमुद्रोद्धारः || सटीकशारदा० ४ पटले ३०४ पत्रे टीकायां यथा- एषां पूजायां लोकपालमुद्रा दर्शनीया | यदाहुः- पाणिमूले सुसंलग्ने शाखाः सर्वाः प्रसारिताः | लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् || इति || (१५-८ वि० सर्वोऽपि० सं०) || इति श्रीन्यासपूजोपयुक्तमुद्रोद्धारः समाप्तः || १५-९ अथ श्रीमदग्निविषयक १ ज्वालिनी २ सप्तजिह्वा ३ मृगी ४ हंसी ५ सूकरीमुद्राणामुद्धारः ||
SK
१- ज्वालिनीमुद्रोद्धारः | आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पु० पद्धतौ ९ पत्रे घारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा - पद्माकारौ करौ कृत्वा अङ्गुष्ठौ योजयेदुभौ | वाममध्यानामिकयोर्युग्मेनेतरमध्यया || संयोज्याङ्गुलयः शेषाः सरला ज्वालिनी भवेत् || इति | २- श्रीसटीकशारदा० ५ पटले ३१८ पत्रे १८ श्लोकटीकायां यथा- मणिबन्धौ समौ कृत्वा करौ तु प्रसृताङ्गुली | मध्यमे मिलिते कृत्वा तन्मध्येऽङ्गुष्ठौ क्षिपेत् || इयं सा परमा मुद्रा ज्वालिनी होमकर्मणि || इति || ३- मुद्राप्रकारे - मणिबन्धयुतौ कृत्वा प्रसृताङ्गुलिकौ करौ | कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् ज्वालिनी नाम मुद्रेयं वैश्वानरप्रियङ्करी || ११५ || इति || प्. ६५३) ४- मृगीहंसीसूकरीमुद्रासु || मृगीहंसीसूकरीमुद्रोद्धारः आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितघारे इत्युपनामकशङ्करसूरिविरचित श्री० गा० पु० पद्धतौ १० पत्रे यथा- होमे मुद्राः स्मृतास्तिस्रो मृगी हंसी च सूकरी | मुद्रां विना कृतो होमः सर्वो भवति निष्फलः || सूकरी करसङ्कोचा हंसी मुक्तकनिष्ठिका | कनिष्ठातर्जनीमुक्ता मृगी मुद्रा प्रकीर्तिता || इति || ५ | १ सप्तजिह्वामुद्रोद्धारः सटीकशारदा० १४ पटले ५९८ पत्रे ९५ श्लोकटीकायां ध्यानानन्तरं सप्तजिह्वाख्यमुद्रां प्रदर्शयेत् || तल्लक्षणं यथा- मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ | कनिष्ठाङ्गुष्ठयुगले मिलित्वाऽन्याः प्रसारयेत् || सप्तजिह्वाख्यमुद्रेयं वैश्वानरवशङ्करी || इति || ५ | २ मुद्राप्रकारे यथा- मणिबन्धस्थितौ कृत्वा प्रसृताङ्गुलिकौ करौ | कनिष्ठाङ्गुष्ठयुगले मिलित्वान्तः प्रसारयेत् || कनिष्ठाङ्गुष्ठकौ सक्तौ कारयेदितरेतरम् | सप्तजिह्वाख्यमुद्रेयं वैश्वानरप्रियङ्करी || इति || इति श्रीमदग्निविषयकमुद्रोद्धारः - सं || (१५९ वि० सं०) अथ द्वि० परि० वि० १५ | १० प्रकीर्णमुद्रोद्धारः
SK
१- मालिनीमुद्रोद्धारः | आनन्दाश्रमग्रन्थावलि ७३ अङ्कमुद्रितश्री० गा० पु० पद्धतौ ९ पत्रे घारे इत्युपनामकश्रीशङ्करसूरिर्दर्शयति यथा- करद्वयाङ्गुष्ठतर्जन्यग्रसंयोगे मालिनी मुद्रा || इति || २ | १ कुम्भमुद्रोद्धारोऽथवा कलशमुद्रोद्धारः | मुद्रा || इति || दक्षाङ्गुष्ठं पराङ्गुष्ठे क्षिप्त्वा हस्तद्वयेन तु | सावकाशामेकमुष्टिं कुर्यात् सा कुम्भमुद्रिका || ७१ || इति || २ | १ अपरः प्रकारस्तत्रैव यथा - मुष्ट्योरूर्ध्वकृताङ्गुष्ठौ तर्जन्यग्रे तु विन्यसेत् || सर्वरक्षाकरी ह्येषा कुम्भमुद्रेयमीरिता || ७२ || इति || (१५ | १०-२ वि० सं०) प्. ६५४) ३- भूतिनीमुद्रोद्धारः मुद्राप्रकारे यथा- तत्रादौ भूतिनीमुद्रोद्धारः || बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु | अङ्गुष्ठेन तदग्रं तु मुद्रेयं भूतिनी मता || इति || ४- दण्डिनीमुद्रोद्धारोऽपि तत्रैव यथा- वामहस्तेन मुष्टिं तु बद्ध्वा कर्णप्रदेशके | तर्जनी सरलीकृत्य भ्रामयेन्मनुवित्तमः || सौभाग्यदण्डिनी मुद्रा न्यासकालेऽपि सूचिता || इति || ५- त्रैलोक्यमोहिनीकाममुद्रोद्धारविषये || तदुद्धारः सटीकशारदा० १७ पटले ७०५ पत्रे १२ श्लोकटीकायां यथा- (अत्र ध्यानानन्तरमेते मुद्रे दर्शनीये) हस्तौ तु सम्पुटौ कृत्वा प्रसृताङ्गुलिकौ तथा | तर्जन्यौ मध्यमाङ्गुष्ठे अङ्गुष्टौ मध्यमान्वितौ || काममुद्रेयमाख्याता सर्वसत्त्वप्रियङ्करी [मुद्राप्रकारे तु | सर्वदेवप्रियङ्करी इति पाठः] | मूर्धन्यङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी || इति || १२० || || इति श्रीमुद्राविषयक १५ | १ विषयतः १५ | १० विषयावधिः १५ विषयः सर्वोऽपि सम्पूर्णः || १५ | ११-१ मुद्राकरणफलम् || श्रीवामकेश्वरतन्त्रे ४ विश्रामे १५९ पत्रे ६७ श्लोके टीकायां च | मुद्रायास्त्रिपुरायास्तु देवि सिद्ध्यष्टकान्विताः | ता एव सर्वचक्रेषु पूजाकाले प्रदर्शयेत् || ६७ || त्रिपुरासम्बन्धिन्यो या मुद्रास्ताः स्वरूपेणैव सिद्ध्यष्टकप्रदाः न पुनर्मन्त्रसाधनादि सापेक्षतया | अतः पूजाकाले प्रतिचक्रं ता एव प्रदर्शयेत् || इति ||
SK
२- सटीकशारदा० चतुर्थपटले २९८ पत्रे १०९ श्लोकटीकायाम् मुद्रया यत् कृतं कर्म तदक्षय्यफलप्रदम् || इति || ३- मुद्राप्रकारनामकग्रन्थारम्भे यथा- अथ मुद्राः प्रवक्ष्यामि सर्वतन्त्रेषु गोपिताः | याभिर्विरचिताभिश्च मोदन्ते मन्त्रदेवताः || इति || ४- पुनरपि तत्रैव- वामकेश्वरतन्त्रोक्ताः प्रकाश्यन्तेऽत्र मुद्रिकाः | प्. ६५५) शृणु देवि ! प्रवक्ष्यामि मुद्राः सर्वार्थसिद्धिदाः | याभिर्विरचिताभिश्च सान्निध्यं त्रैपुरं भवेत् || इति || || इति श्रीमुद्राविषयकः १५ विषयः सर्वोपि सम्पूर्णः || सविनयम्- [निवेद्य] सुतरां सुवाच्यमपि पुस्तकाद्विस्मृते- रिहैव परिशेषयामि परिशिष्टमिष्टादृतम् | विलोक्य तदिदं मदीयरचनाश्रमं चान्तिमं खलाय तददानतः सुफलयन्तु सन्तश्चिरम् || इति || (श्रीपरशुरामकल्पसूत्रद्वितीयपरिशिष्टद्वितीयावृत्युभयकारः) एतद्ग्रन्थस्य द्विरावृत्तिद्विपरिशिष्टोभयकर्त्रा सङ्ग्रथिता ग्रन्थान्ते श्रीमदाद्या देवतायाः सङ्गीतस्तुती रागबद्धा यथा- मन्ददादरातालेन भैरवीभीमपलासरागाभ्यां गीयते || कालिके सकललोकपालिके प्रसीद देवि सद्य एव भक्ते मयि कालिके | ध्रुवम् पदनखनतसुरसुरारिभासितमणिमौलिके || करनिकरनिकॣप्तकाम्यकाञ्चनकटिमेखले | मूर्धखड्गभीत्यभाववरदपाणिजालिके ||१ || प्रसीद० कुटजहारगुञ्जन्मधुकरमनोज्ञमालिके | युद्धभाण्डचण्डमुण्डचित्रकेलिदालिके || प्रचण्डतुण्डमुण्डखण्डभारहारशीलिके || २ || प्रसीद० कर्णकर्यलङ्कृते सुदन्तकलिकरालिके || रसनाखिलदेवारिसुवारिधिविषज्वालिके || प्रशस्यनस्ययुक्तमौक्तिकाभूषणशालिके || ३ || प्रसीद० नयनत्रययुक्कपालफालकालकालिके | व्यालचन्द्ररत्नमुकुटबालचन्द्रभालिके || मुक्तकेशलेशवेषहासितहरतालिके | (कासितकरवालिके शोषितहरहालिके) || ४ || प्रसीद० ब्रह्ममहिषि ब्रह्म ते पृथङ्नतेऽद्रिबालिके | सचराचरजन्तुमनुजदनुजवितनुजालिके || गृहाण नमनमम्बिकेऽम्ब कात्यायनि कालिके (कात्यायन बालिके) || ५ || प्रसीद० प्. ६५६)
SK
प्रणेतास्याः स्तुतेः भवद्विद्वद्वशंवदःश्रीकृपाकाङ्क्षी || साकरलालशास्त्री || || सर्वजनकल्याणशुभाशा || अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः | अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् || १ || काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी | देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः || २ || ॐ सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै | तेजस्वि नावधीतमस्तु मा विद्विषावहै || ३ || ॐ शान्तिः ३ (उपनिषत्) सर्वेषां मनसामैक्यमस्तु वृत्तौ मदुक्तौ मम दूषणोक्त्या किं वा गुणोक्त्या विबुधा विचार्य | ग्राह्यं गुणाढ्यं सदसद्विशोध्यं सर्वान् गुणान् वेत्ति शिवात् परः कः || भाकाननपुरभूसुरसाग्निश्रीप्रागजिज्जयज्ञेशः [अत्रस्थ भाकान शब्देन भावनगर शब्दो ज्ञेयः इति शिवम् ७-९-४९ सङ्ख्यार्वाचीनाहे २००५ भाद्रपद पूर्णिमायां बुधे सुसमापितं पुस्तकम् ॐ तत्सत् || श्री ||] तज्जेन व्यरचीयं पुनरावृत्तिः सदिष्टतोषार्थम्- (प्रतापनृपकीर्त्यै-) श्रीः- पुनरावृत्तिकालः | सुधाङ्काङ्कदुर्गारसे वैक्रमेऽस्मिन् | मधौ कल्पसूत्रद्विरावृत्तिरेषा || समारम्भिता तत् तया देवतास्तां | रमारोग्यभोगप्रदा प्रेक्षकारणम् || १९९६ संवदि १९६२ शाके चैत्रकृष्ण १० तिथ्यां भौमे १-५-४० दिने श्रीसौराष्ट्रदेशान्तर्गतभावनगरवास्तव्यश्रौतस्मार्ताग्निहोत्रिषट्त्रिंश च्चातुर्मासयाजिद्विवेदि- श्रीप्रागजिप्रपौत्रः यज्ञेश्वरतनुजन्मा साकरलालशास्त्री श्रीदेशिकेन्द्रपण्डितवशंवदः || श्रीवडोदरा श्रीराजकीयसंस्कृतमहाविद्यालयाध्यापकः राजकीयदेवगृहसतताश्रितः श्रीधर्मपरायण भावनगराधीशपरम्पराश्रितश्च - || समाप्तो समस्तग्रन्थः ॐ श्रीतत्सज्जगदम्बाचरणार्पितोस्तु शिवमस्तु सर्वेषाम्- || || श्रीः || तृतीयपरिशिष्टम् | अ [४० पृष्ठेऽन्तिमपङ्क्त्यनन्तरमवशिष्टोऽयं भागः] अत एव नैषधे- विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः | अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम् ||
SK
इति भिन्नलिङ्गवचनकः प्रयोगः तथा च बहुवचनस्यागतिरिति वाच्यम् स्रुवे स्रुक्त्वमस्ति | स्रुचः संमार्ष्टि इत्युक्तपूर्वोक्तसमुहात् पृथक्कृत्य स्नुवमग्रे इति विधानात् होमसाधनत्वं चास्ति इति तमादाय बहुवचनोपपत्तिः | न च एवमपि द्वयं जातं बहुत्वं कथं इति वाच्यम् स्रुग्भ्यां स्रुवाभ्यां वा पत्नीस्संयाजयन्ति इति वाक्येन क्वचित्स्रुवद्वयस्य सत्त्वात् | यद्वा ध्रुवया समष्टिय जुर्जुहोति इति ध्रुवाया अपि होमशेषत्वात् जुहूध्रुवास्रुवान् गृहीत्वा बहुवचनोपपत्तिः सुवचेत्यलं अप्रकृतविचारेण || जुह्वाद्यन्यतमत्वेन इन्द्रियाणि दश भावयेत् | इन्द्रियाणां पूर्वोक्तहविराधारत्वेन युक्तं तद्भावनम् | शक्तयः स्वनिष्ठाः संकुचिताः याः इच्छाज्ञानक्रियाः शक्तयः ता एव ज्वालाः | अग्नौ होमकर्तुः ज्वाला हस्तादिदाहकत्वेन दुःखदा इति लोके स्पष्टम् | तद्वत् होतुः संकुचितपरमशिवस्येमाः शक्तयो दुःखदा इति ज्वालात्वेन भावनं युक्तम् | एवं स्वसंकुचितचैतन्यरूपो जीवः तदभिन्नो यः शिवः शुद्धचैतन्यं तं होमाधार भूताग्नित्वेन भावयेत् | स्वाभिन्नेति विशेषणात् स्वशिवयोरप्यभेदं भावयेदिति भावनान्तरं ज्ञापितम् | यद्यपि इयं भावना सततं शिवतासमावेशः इत्यनेनैव प्राप्ता तथाऽपि सा शिवोऽहमिति भावना अत्र पावकोऽहमिति शिवस्य पावकत्वेन भावनमिति वैलक्ष्यणम् | पावके प्रकाशत्वं शिवेऽपि प्रकाशत्वमिति युक्तं तथा भावनम् | स्वयं परिच्छिन्नचिद्रूपो होता होमकर्तृत्वेन भावयेत् | अयमर्थः तन्त्रान्तरे मन्त्रविशेषे स्फुटः - अन्तर्निरन्तरमनिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकासभूम्नि विश्वं जुहोमि वसुधाऽदिशिवावसानम् || इति || अत्रैवकारेण ..................... आ [४८ पृ० २६ पङ्क्त्यनन्तरमवशिष्टमिदं शिर्षकम्] - तन्त्रान्तरोपसंहारविचारः -

Sanskrit e-text from the Muktabodha Indological Research Institute Digital Library (https://muktabodha.org/), CC BY-NC 4.0. paraśurāmakalpasūtra with commentary by rāmeśvara [M00214].

Source