Sutra on the King of Concentration

Samādhirājasūtra · Sअमाधिराजसूत्र

Sutra on the King of Concentration

Samādhirājasūtra

Sअमाधिराजसूत्र

SK
सर्वधर्मस्वभावसमताविपञ्चित-Sअमाधिराजसूत्रम् |
SK
१ Nइदानपरिवर्तः |
SK
एवं मया श्रुतम् | एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुनियुतशतसहस्रेण अशीत्या च बोधिसत्त्वनियुतैः सार्धम् | सर्वैरकजातिप्रतिबद्धैरभिज्ञाभिज्ञातैर्दशदिग्लोकधातुसंनिपतितैर्धारणीसूत्रान्तगतिं गतैः सर्वसत्त्वधर्मदानसंतोषकैर्महाभिज्ञाज्ञानोदाहारकुशलैः सर्वपारमितापरमपारमिताप्राप्तैः सर्वबोधिसत्त्वसमाधिसमापत्तिव्यवस्थानज्ञानकुशलैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सर्वबुद्धक्षेत्रव्याक्रमणकुशलैः सर्वमारसंत्रासनज्ञानकुशलैः सर्वधर्मयथावज्ज्ञानकुशलैः सर्वसत्त्वेन्द्रियपरापरज्ञानकुशलैः बुद्धसर्वकर्मपूजासमादानप्रज्ञानकुशलैः सर्वलोकधर्मानुपलिप्तैः कायवाक्चित्तसमलंकृतैः महामैत्रीमहाकरुणासंनाहसंनद्धैः महावीर्यासंख्येयकल्पापरिक्षीणमानसैः महासिंहनादनादिभिः सर्वपरप्रवादानभिभूतैः अवैवर्तिकमुद्रामुद्रितैः सर्वबुद्धधर्माभिषेकप्राप्तैः | तद्यथा - मेरुणा च नाम बोधिसत्त्वेन महासत्त्वेन | सुमेरुणा च | महामेरुणा च | मेरुशिखरिंधरेण च | मेरुप्रदीपराजेन च | मेरुकूटेन च | मेरुध्वजेन च | मेरुगजेन च | मेरुशिखरे संघट्टनराजेन च | मेरुस्वरेण च | मेघराजेन च | दुन्दुभिस्वरेण च | रत्नपाणिना च | रत्नाकरेण च | रत्नकेतुना च | रत्नशिखरेण च | रत्नसंभवेन च रत्नप्रभासेन च | रत्नयष्टिना च | रत्नमुद्राहस्तेन च | रत्नव्यूहेन च | रत्नजालिना च | रत्नप्रभेण च | रत्नद्वीपेण च | रतिंकरेण च | धर्मव्यूहेन च | व्यूहराजेन च | लक्षणसमलंकृतेन च | स्वरव्यूहेन च | स्वरविशुद्धिप्रभेण च | रत्नकूटेन च | रत्नचूडेन च | दशशतरश्मिकृतार्चिषा ज्योति रसेन च | चन्द्रभानुना च | सहचित्तोत्पादधर्मचक्रप्रवर्तिना च | शुभकनकविशुद्धिप्रभेण च | सततमभयंददानेन च नाम बोधिसत्त्वेन महासत्त्वेन | अजितबोधिसत्त्वपूर्वंगमैश्च सर्वैर्भद्रकल्पिकैर्बोधिसत्त्वैर्महासत्त्वैः | मञ्जुश्रीपूर्वंगमैश्च षष्टिभिरनुपमचित्तैः | भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः | चतुर्महाराजपूर्वंगमैश्च चातुर्महाराजकायिकैर्देवपुत्रैः | पेयालम् | यावद् ब्रह्मपूर्वंगमैश्च ब्रह्मकायिकैर्देवपुत्रैस्तदन्यैश्च महेशाख्यमहेशाख्यैरुदारोदारैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्भगवान् (Vऐद्य २) सत्कृतो गुरुकृतो मानितः पूजितो ऽर्चितो ऽपचायितश्चतसृणामपि पर्षदां सदेवलोकस्य लोकस्य वन्दनीयः पूजनीयो नमस्करणीयः | तत्र खलु भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् | स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ||
SK
तेन खलु पुनः समयेन तस्मिन्नेव पर्षत्संनिपाते चन्द्रप्रभो नाम कुमारभूतः संनिपतितो ऽभूत् संनिषण्णः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो जातिस्मरो लब्धप्रतिभानो महायानसंप्रस्थितो महाकरुणाभियुक्तः | अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय | एवमुक्ते भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - पृच्छ त्वं कुमारभूत तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेव काङ्क्षसि | अहं तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि | सर्वज्ञो ऽस्मि सम्यक्संबुद्धः कुमार सर्वदर्शी सर्वधर्मबलवैशारद्यवृषभतामनुप्राप्तो ऽनावरणविमोक्षज्ञानसमन्वागतः | नास्ति कुमार तथागतस्य सर्वधर्मेष्वज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा अनन्तापर्यन्तेषु लोकधातुषु | नित्यकृतस्ते कुमार अवकाशो भवतु तथागतं प्रश्नपरिपृच्छनाय | अहं ते तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि ||
SK
अथ खलु चन्द्रप्रभः कुमारभूतस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायां भगवन्तं गाथाभिरध्यभाषत -
SK
कथं चरन्तः संबुद्ध लोकनाथ प्रभंकर / लभते ऽचिन्तियं ज्ञानं व्याकुरुष्व हितंकर // SRS_१.१ //
SK
कथं चरन्तु नरेन्द्र सत्यवादि नरवृषभ नरदेवपूजनीय / अतुलियु वरु लब्धमग्रयाणं गिरवर पृष्ट वियाकुरुष्व नाथ // SRS_१.२ //
SK
अध्याशयेन पृच्छामि शाठ्यं मम न विद्यते / साक्षी न कश्चिदन्यो मे अन्यत्र पुरुषोत्तमात् // SRS_१.३ //
SK
विपुल प्रणिधि मह्यमस्ति छन्दश्चरिय प्रजानसि मह्य शाक्यसिंह / न च अहं वचनवित्तको भविष्ये लघु प्रतिपत्ति भणाहि मे नरेन्द्र // SRS_१.४ //
SK
(Vऐद्य ३) कतराहारका धर्मा बुद्धयाने बहुंकराः / व्याकुरुष्व महावीर सर्वधर्माण पारग // SRS_१.५ //
SK
उपकरे धर्म मम ब्रूहि नाथ यथ नरु निषेवतु भोति तीक्ष्णप्रज्ञः | अपगतभयभैरवो अत्रस्तो न च परित्यागु करोति शीलस्कन्धात् / व्यपगतमदरागदोषमोहश्चरति च चारिक सर्वशान्तदोषः // SRS_१.६ //
SK
कथं न त्यजते शीलं कथं ध्यानं न रिञ्चति / कथं निषेवते ऽरण्यं कथं प्रज्ञा प्रवर्तते // SRS_१.७ //
SK
कथं दशबलशासने उदारे अभिरति विन्दति शील रक्षमाणः / कथं भवति अच्छिद्रु शीलस्कन्धः कथं च तुलेति स्वभावु संस्कृतस्य // SRS_१.८ //
SK
कथं कायेन वाचा परिशुद्धो भोति पण्डितः / असंक्लिष्टेन चित्तेन बुद्धज्ञानं निषेवते // SRS_१.९ //
SK
कथं भवति विशुद्धकायकर्मा कथं च विवर्जित भोन्ति वाचदोषाः / कथं भवति असंक्लिष्टचित्तः पुरुषवर मम पृष्ट व्याकुरुष्व // SRS_१.१० //
SK
अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते | कतमेनैकधर्मेण? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वसत्त्वेषु समचित्तो भवति हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तः | अनेन कुमार एकधर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ||
SK
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभं कुमारभूतं गाथाभिरध्यभाषत - (Vऐद्य ४)
SK
एकधर्मं समादाय बोधिसत्त्वो य वर्तते / एतान् गुणान् स लभते क्षिप्रं बोधिं च बुध्यते // SRS_१.११ //
SK
न च कश्चि प्रतिहन्यते ऽस्य चित्तम् अप्रतिहतचित्तु यो भोति बोधिसत्त्वः / न च खिलु जनयति न प्रदोषं लभति यथा परिकीर्तितान् विशेषान् // SRS_१.१२ //
SK
समं चित्तं निषेवित्वा विपाको दर्शितः समः / समाः पादतला भोन्ति समश्चाचारगोचरः // SRS_१.१३ //
SK
सममविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकाङ्क्षः / चरणवरतलाः समास्य भोन्ति परमप्रभास्वर शुद्धदर्शनीयः // SRS_१.१४ //
SK
दशदिशित विरोचि बोधिसत्त्वः स्फुरति शिरीय प्रभाय बुद्धक्षेत्रम् / यद भवति स लब्धु शान्तभूमि तद बहुसत्त्व स्थपेति बुद्धज्ञाने // SRS_१.१५ //
SK
तत्र कुमार सर्वसत्त्वेषु समचित्तो बोधिसत्त्वो महासत्त्वो हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तं इमं सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिं प्रतिलभते | कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिः प्रतिलभते | कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः? यदुत कायसंवरः | वाक्संवरः | मनःसंवरः | कर्मपरिशुद्धिः | आलम्बनसमतिक्रमः | स्कन्धपरिज्ञा | धातुसमता | आयतनापकर्षः | तृष्णाप्रहाणम् | अनुत्पादसाक्षात्क्रियावतारः | हेतुदीपना | कर्मफलाविप्रणाशः | धर्मदर्शनम् | मार्गभावना | तथागतसमवधानम् | तीक्ष्णप्रज्ञता | सत्यानुप्रवेशः | धर्मज्ञानम् | प्रतिसंविदवतारज्ञानम् | अक्षरपदप्रभेदज्ञानम् | वस्तूनां समतिक्रमः | घोषपरिज्ञा | प्रामोद्यप्रतिलाभः | धर्मप्रीत्यनुभवनता | आर्जवता | मार्दवता | ऋजुकता | अकुटिलता विगतभृकुटिता | सुरतता | सुशीलता | साखिल्यम् | माधुर्यम् | स्मितमुखता | पूर्वाभिलापिता | एहीति स्वागतवादिता | अनालस्यम् | गुरुगौरवता | गुरुशुश्रूषा | उपपत्तिसंतुष्टिः | शुक्लधर्मातृप्तता | आजीवविशुद्धिः | अरण्यवासानुत्सर्गः | भूमिव्यवस्थानज्ञानम् | स्मृतेरविप्रणाशः | स्कन्धकौशल्यम् | धातुकौशल्यम् | आयतनकौशल्यम् | अभिज्ञासाक्षात्क्रियावतारः | क्लेशापकर्षणम् | वासनानुसंघिसमुद्धातः | ज्ञानविशेषगामिता | भावनानिष्यन्दः | आपत्तिव्युत्थानकौशल्यम् | पर्युत्थानविष्कम्भणम् | अनुशयप्रहाणम् | (Vऐद्य ५) भवसमतिक्रमः | जातिस्मरता | निष्काङ्क्षता | कर्मविपाके धर्मचित्तता | श्रुतपर्येष्टिज्ञानतीक्ष्णता | ज्ञानतृष्णा | ज्ञानानुबोधः | आजानेयभूमिः | शैलोपमचित्तता | अकम्प्यता | अचलता | अविनिवर्तनीयभूमिव्यवस्थानज्ञानम् | कुशलधर्मनिष्यन्दः | पापधर्मजुगुप्सनता | असमुदाचारता क्लेशानाम् | शिक्षाया अपरित्यागः | समाधिव्यवस्थानम् | आशयज्ञानम् | सत्त्वेषूपपत्तिविशेषज्ञानम् | समताज्ञानम् | वचनप्रतिसंधिज्ञानम् | गृहावासपरित्यागः | त्रैधातुके ऽनभिरतिः | अनवलीनचित्तता | धर्मेष्वनभिनिवेशः | सद्धर्मपरिग्रहः | धर्मगुप्तिः | कर्मविपाकप्रत्ययनता | विनयकौशल्यम् | अधिकरणव्युपशमः | अविग्रहः | अविवादः | क्षान्तिभूमिः | क्षान्तिसमादानम् | गतिसमता | धर्मप्रविचयकौशल्यम् | प्रव्रज्याचित्तम् | धर्मविनिश्चयकौशल्यम् | धर्मपदप्रभेदज्ञानम् | धर्मपदाभिनिर्हारकौशल्यम् | अर्थानर्थसंभेदपदनिर्हारकौशल्यज्ञानम् | पूर्वान्तज्ञानम् | अपरान्तज्ञानम् | प्रत्युत्पन्नज्ञानम् | त्र्यध्वसमताज्ञानम् | त्रिमण्डलपरिशुद्धिज्ञानम् | कायावस्थानज्ञानम् | चित्तावस्थानज्ञानम् | ईर्यापथरक्षणम् | ईर्यापथविकोपनम् | ईर्यापथविकल्पनम् | ईर्यापथप्रासादिकता | अर्थानर्थकौशल्यज्ञानम् | युक्तभाणिता | लोकज्ञता | मुक्तत्यागिता | प्रततपाणिता | अनवगृहीतचित्तता | ह्रीव्यपत्रपिता | अकुशलचित्तजुगुप्सनता | धूतगुणानुत्सर्गः | चारित्रसमादानम् | प्रियसमुदाचारता | गुरूणां प्रत्युत्थानासनप्रदानता | माननिग्रहः | चित्तसंप्रग्रहः | चित्तसमुत्पादज्ञानम् | अर्थप्रतिवेधज्ञानम् | ज्ञानप्रतिवेधज्ञानम् | ज्ञानानुबोधः | अज्ञानविगमः | चित्तप्रवेशज्ञानम् | चित्तस्वभावानुबोधज्ञानम् | आहारनिर्हारकौशल्यज्ञानम् | सर्वरुतज्ञानम् | निरुक्तिव्यवस्थानज्ञानम् | अर्थविनिश्चयज्ञानम् | अनर्थविवर्जनम् | सत्पुरुषसमवधानम् | सत्पुरुषसंसेवनता | कापुरुषविवर्जनम् | ध्यानानां निष्पादनम्, तत्र चानास्वादनम् | अभिज्ञाविकुर्वणम् | नामसंकेतप्रज्ञप्तिस्वभावावतारज्ञानम् | प्रज्ञप्तिसमुद्धातः | संस्कारेषु निर्वेदः | सत्कारेष्वनभिलाषः | असत्कारेषूपेक्षा | लाभे ऽनर्थिकता | अलाभे ऽनवलीनता | यशस्यनभिलाषः | अयशस्यप्रतिघः | प्रशंसायामनुनयः | निन्दायामविषादः | सुखे ऽनभिष्वङ्गः | दुःखे ऽवैमुख्यम् | संस्काराणामनादानता | भूतवर्णे ऽसङ्गः | अभूतवर्णे ऽधिवासनता | गृहस्थप्रव्रजितैरसंस्तवः | अगोचरविवर्जनम् | गोचरप्रचारः | आचारसंपत् | अनाचारविवर्जनता | कुलानामदूषणता | शासनस्यारक्षणता | अल्पभाषणता | मितभाषणता | प्रतिवचनकौशल्यम् | प्रत्यर्थिकनिग्रहः | कालप्रतिक्रमणता | अकालविवर्जनता | पृथग्जनेष्वविश्वासः | दुःखितानामपरिभवनता, तेभ्यश्च धनप्रदानम् | दरिद्राणामनवसादनता | दुःशीलेष्वनुकम्पा | हितवस्तुता | कृपाबुद्धिता | धर्मेणानुग्रहः | आमिषपरित्यागः | असंचयस्थापिता | (Vऐद्य ६) शीलप्रशंसनता | दौःशील्यकुत्सनता | शीलवतामशाठ्यसेवनता | सर्वस्वपरित्यागिता | अध्याशयनिमन्त्रणता | यथोक्तकारिता | अभीक्ष्णप्रयोगिता | सत्कृत्य प्रीत्यनुभवनता | दृष्टान्तज्ञानम् | पूर्वयोगकौशल्यम् | कुशलमूलपूर्वंगमता | उपायकौशल्यम् | निमित्तप्रहाणम् | संज्ञाविवर्तः | वस्तूनां परिज्ञा | सूत्रान्ताभिनिर्हारः | विनयकौशल्यम् | सत्यविनिश्चयः | विमुक्तिसाक्षात्क्रियावतारः | एकांशवचनप्रव्याहारता | यथावज्ज्ञानदर्शनानुत्सर्जनम् | निष्काङ्क्षवचनता | शून्यताया आसेवनता | अनिमित्तनिषेवणता | अप्रणिहितस्वभावोपलक्षणता | वैशारद्यप्रतिलम्भः | ज्ञानेनावभासः | शीलदृढता | समापत्त्यवतारः | प्रज्ञाप्रतिलम्भः | एकारामता | आत्मज्ञता | अल्पज्ञानता | संतुःटिः | चित्तस्यानाविलता | दृःटिकृतविवर्जनता | धारणीप्रतिलम्भः | ज्ञानावतारः | स्थानास्थानप्रस्थानप्रतिपत्तिज्ञानम् | हेतुयुक्तिनयद्वारम् | कारणम् | मार्गः | प्रतिपत्तिः | संदेशः | अववादः | अनुशासनी | चर्या | आनुलोमिकी क्ःआन्तिः | क्ःआन्तिभूमिः | अक्ःआन्तिविगमः | ज्ञानभूमिः | अज्ञानप्रहाणम् | ज्ञानप्रतिःठानम् | योगाचारभूमिः | बोधिसत्त्वगोचरः | सत्पुरुःअसेवना | असत्पुरुःअविवर्जना | सर्वधर्मस्वभावानुबोधप्रतिवेधज्ञानम् | तथागतेनाख्याता बुद्धभूमिः | पण्डितैरनुमोदिता | बालैः प्रतिक्ःइप्ता | दुर्विज्ञेया श्रावकैः | आज्ञाता प्रत्येकबुद्धैः | अभूमिस्तीर्थिकानाम् | बोधिसत्त्वैः | परिगृहीता | दशबलैरनुबद्धा | देवैः पूजनीया | ब्रह्मणा वन्दनीया | शक्रैरधिगमनीया | नागैर्नमस्करणीया | यक्ःऐरनुमोदनीया | किन्नरैः स्तोतव्या | महोरगैः प्रशंसनीया | बोधिसत्त्वैर्भावनीया | पण्डितैः पर्यवाप्तव्या | धनमनुत्तरम् | दानं निरामिःअम् | भैःअज्यं ग्लानानाम् | मोदिता शान्तचित्तानाम् | कोशो ज्ञानस्य | अक्ःअयः प्रतिभानस्य | नयः सूत्रान्तानाम् | विगमः कोशस्य | विःअयः शूराणाम् | परिज्ञा त्रैधातुकस्य | कोलः पारगामिनाम् | नौरोघमध्यगतानाम् | कीर्तिर्यशस्कामानाम् | वर्णो बुद्धानाम् | प्रशंसा तथागतानाम् | स्तवो दशबलानाम् | गुणो बोधिसत्त्वानाम् | उपेक्ःआ कारुणिकानाम् | मैत्री दोःअं शमयितुकामानाम् | मुदिता प्रशान्तचारिणाम् | आश्वासो महायानिकानाम् | प्रतिपत्तिः सिंहनादनादिनाम् | मार्गो बुद्धज्ञानस्य | मोक्ःअः सर्वसत्त्वानाम् | मुद्रा सर्वधर्माणाम् | आहारिका सर्वज्ञानस्य | उद्यानं सर्वबोधिसत्त्वानाम् | वित्रासनं मारसेनायाः | विद्या क्ःएमगामिनाम् | अर्थः सिद्धार्थानाम् | परित्राणममित्रमध्यगतानाम् | प्रत्यर्थिकनिग्रहः सह धर्मेण | सत्याकरो वैशारद्यानाम् | भूते पर्येःटिर्बालानाम् | पूर्वनिमित्तमःटादशानामावेणिकानां बुद्धधर्माणाम् | अलंकारो धर्मकायस्य | निःयन्दश्चर्यायाः | आभरणं बुद्धपुत्राणाम् | रतिर्मोक्ःअकामानाम् | प्रीतिर्ज्येःठपुत्राणाम् | परिपूरिर्बुद्धज्ञानस्य | अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् | विशुद्धिश्चित्तस्य | परिशुद्धिः कायस्य | परिनिःपत्तिर्विमोक्ःअमुखानाम् | असंक्लेशो बुद्धज्ञानस्य | अनागमो रागस्य (Vऐद्य ७) | विगमो द्वेःअस्य | अभूमिर्मोहस्य | आगमो ज्ञानस्य | उत्पादो विद्यायाः | प्रहाणमविद्यायाः | तृप्तिर्विमुक्तिसाराणाम् | तुःटिः समाधिसाराणाम् | चक्ःउर्द्रःटुकामानाम् | अभिज्ञा विकुर्वितुकामानाम् | ऋद्धिरभिनिर्हर्तुकामानाम् | धारणी श्रुतार्थिकानाम् | स्मृतेरसंप्रमोःअः | अधिःठानं बुद्धानाम् | उपायकौशल्यं नायकानाम् | सूक्ःमं दुर्विज्ञेयमनभियुक्तानाम् | अज्ञेयममुक्तैः | विवर्ताक्ःअराणां दुर्विज्ञेयं घोःएण | आज्ञातं विज्ञैः | ज्ञातं सूरतैः | प्रतिविद्धमल्पेच्छैः | उद्गृहीतमारब्धवीर्यैः | धृतं स्मृतिमद्भिः | क्ःअयो दुःखस्य | अनुत्पादः सर्वधर्माणाम् | एकनयनिर्देशः सर्वभवगत्युपपत्त्यायतनानाम् | अयं स कुमार उच्यते सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ||
SK
अस्मिन् खलु पुनः सर्वधर्मपर्याये समाधिनिर्देशे भगवता भाष्यमाणे अशीतेर्नयुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृताया अनुत्पत्तिकेषु धर्मेषु क्षान्तेः प्रतिलम्भो ऽभूत् | षण्णवतेश्च नयुतानामानुलोमिकायाः क्षान्तेः प्रतिलम्भो ऽभूत् | त्रिणवतेर्नयुतानां घोषानुगायाः क्षान्तेः प्रतिलम्भो ऽभूत् | परिपूर्णस्य भिक्षुशतसहस्रस्य अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि | षष्टेश्च प्राणिशतसहस्राणां देवमानुषिकायाः प्रजाया विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् | अशीतेश्च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चितानि विमुक्तानि | पञ्चभिश्चोपासकशतैरनागामिफलं प्राप्तम् | षष्ट्या चोपासिकाशतैः सकृदागामिफलं प्राप्तम् | अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पितः प्रकम्पितः संप्रकम्पितः | चलितः प्रचलितः संप्रचलितः | वेधितः प्रवेधितः संप्रवेधितः | क्षुभितः प्रक्षुभितः संप्रक्षुभितः | रणितः प्ररणितः संप्ररणितः | गर्जितः प्रगर्जितः संप्रगर्जितः | पूर्वा दिगवनमति पश्चिमा दिगुन्नमति | पश्चिमा दिगवनमति पूर्वा दिगुन्नमति | उत्तरा दिगवनमति दक्षिणा दिगुन्नमति | दक्षिणा दिगवनमति उत्तरा दिगुन्नमति | अन्तादवनमति मध्यादुन्नमति | अन्तादुन्नमति मध्यादवनमति | अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो ऽभूत् | सर्वश्च लोकधातुः सदेवकश्च समारकः सब्रह्मकः सश्रमणब्राह्मणिकाः प्रजास्तेनावभासेनावभासिताः स्फुटा अभूवन् | इमौ च चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहेशाख्यौ न भासतो न तपतो न विरोचतः | या अपि लोकान्तरिका अन्धकारतमिस्राः, ता अपि तेनावभासेन स्फुटा अभूवन् | ये ऽपि तासूपपन्नाः सत्त्वाः, ते ऽप्यन्योन्यं संजानते स्म | एवं चाहुः - अन्यो ऽपि किल भो अयं सत्त्व इहोपपन्नः | यावदवीचेर्महानरकादिति ||
SK
इति श्रीसमाधिराजे निदानपरिवर्तो नाम प्रथमः ||
SK
(Vऐद्य ८) २ Śआलेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः |
SK
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
SK
स्मरति दशबलान षष्टिकोटी पुरिमभवे निवसिंसु गृध्रकूटे / पुरि मम चरमाणु बोधिचर्यामिम वरशान्त समाधि देशयिंसु // SRS_२.१ //
SK
तेषां पश्चिमको आसील्लोकनाथः प्रभंकरः / शालेन्द्रराज नामेन स मया परिपृच्छितः // SRS_२.२ //
SK
अहं च क्षत्रियो आसं राजश्रेष्ठो महीपतिः / मंम चो शत पुत्राणां पञ्चाभूवन्ननूनकाः // SRS_२.३ //
SK
कोटीमया विहारणां तस्य बुद्धस्य कारिता / चन्दनस्य विशिष्टस्य केचिद्रत्नमया अभूत // SRS_२.४ //
SK
प्रियो मनापश्च बहुजनस्य भीष्मोत्तरो नाम अभूषि राजा / अकार्षि बुद्धस्य विशिष्टपूजा अष्टादशवर्षसहस्रकोट्यः // SRS_२.५ //
SK
जिनस्य तस्य द्विपदोत्तमस्य शालेन्द्रराजस्य विनायकस्य / षटूसप्ततिवर्षसहस्रकोटियो आयुस्तदा आसि अनिन्दितस्य // SRS_२.६ //
SK
नियुतान्तशीतिसहस्र श्रावकाणां त्रैविद्य षडभिज्ञ जितेन्द्रियाणाम् / क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि नरोत्तमस्य // SRS_२.७ //
SK
(Vऐद्य ९) बहुप्रकारा मयि तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य / अर्थाय लोकस्य सदेवकस्य इमं समाधिं प्रतिकाङ्ता सदा // SRS_२.८ //
SK
सपुत्रदारेण मि प्रव्रजित्वा शालेन्द्रराजस्य जिनस्य अन्तिके / चतुर्दशवर्षसहस्रकोटियो अयं समाधिः परिपृच्छितो मया // SRS_२.९ //
SK
अशीति गाथा नियुता सहस्राण्यन्ये च कोटीशत बिम्बराणाम् / तस्योद्गृहीतः सुगतस्य अन्तिकादितः समाधेः परिवर्त एषः // SRS_२.१० //
SK
हस्ता शिरा भार्य तथैव पुत्रा रत्नं प्रभूतं तथ खाद्यभोज्यम् / न किंचि द्रव्यं मि न त्यक्तपूर्वम् इम समाधिं प्रतिकाङ्क्षता वरम् // SRS_२.११ //
SK
स्मरामि बुद्धान सहस्रकोटियो तदुत्तरे यत्तिक गङ्गवालुकाः / येहि स्थिहित्वा इह गृध्रकूटे अयं समाधिर्वरु शान्त देशितः // SRS_२.१२ //
SK
सर्वे च शाक्यर्षभनामघेयाः सर्वेषु चो राहुल नाम पुत्राः / आनन्दनामा परिचारकाश्च कपिलाह्वयाः प्रव्रजिताश्च सर्वे // SRS_२.१३ //
SK
अग्रेयुगं कोलितशारिपुत्रा समनाम सर्वे च अभूषि तायिनः / समनामिका चो तद लोकधातुः सर्वे ऽपि चोत्पन्न कषायकाले // SRS_२.१४ //
SK
(Vऐद्य १०) सर्वे मया सत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम् / यावन्ति चो काचि जिनान पूजा सर्वा कृता एतु समाधिमेषता // SRS_२.१५ //
SK
प्रतिपत्तिय एष समाधि लभ्यते बहुप्रकारा प्रतिपत्तिरुक्ता / गुणेषु सर्वेषु प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः // SRS_२.१६ //
SK
रसेष्वगृध्रस्य अलोलुपस्य कुलेष्वसक्तस्य अनीर्षुकस्य / मत्रीविहारस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः // SRS_२.१७ //
SK
सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य / विशुद्धशीलस्य विशारदस्य न दुर्लभस्तस्य समाधिरेषः // SRS_२.१८ //
SK
आरब्धवीर्यस्य अतन्द्रितस्य रण्याधिमुक्तस्य धुते स्थितस्य / नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः // SRS_२.१९ //
SK
सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य / त्यागाधिमुक्तस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः // SRS_२.२० //
SK
अनुव्यञ्जनलक्षणा बुद्धधर्मा ये ऽष्टादशा कीर्तित नायकेन / बलाविशारद्य न तस्य दुर्लभा धारेति यः शान्तमिमं समाधिम् // SRS_२.२१ //
SK
(Vऐद्य ११) बुद्धेन ये चक्षुष दृष्ट सत्त्वास्त एककालस्मि भवेयु बुद्धाः / तेषैक एकस्य भवेयुरायुः अचिन्तियाकल्पसहस्रकोटियः // SRS_२.२२ //
SK
तेषैक एकस्य शिरो भवेयुः सर्वु समुद्रेषु यथैव वालुकाः / यावन्ति ते सर्व शिरो भवेयुः शिरे शिरे जिह्व भवेयु तात्तिकाः // SRS_२.२३ //
SK
ते तस्य सर्वे भणि आनुशंसा यो गाथ धारेय्य इतः समाधितः / न किंचिमात्रं परिकीर्तितं भवेत् किं वा पुनर्यो हि शिक्षित्व धारये // SRS_२.२४ //
SK
धूतान् समादाय गुणांश्च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यकाः / राजान भोन्ति अनुयात्रु तस्य धारेति यः शान्त समाधि दुर्लभम् // SRS_२.२५ //
SK
परिगृहीतो भवति जिनेभिर्देवाश्च नागाः सद आनुयात्राः / प्रत्यर्थिकास्तस्य श्रिय नो सहन्ति धारेति यः शान्त समाधि दुर्लभम् // SRS_२.२६ //
SK
अनन्तु तस्य प्रतिभानु भोति अनन्त सूत्रान्तसहस्र भाषते / न तस्य विष्ठा नु कदाचि भोति धारेति यः शान्तमिमं समाधिम् // SRS_२.२७ //
SK
द्रक्ष्यन्ति बुद्धममिताभु नायकं सुखावतीं चाप्यथ लोकधातुम् / ये पश्चिमे कालि महाभयानके समाधि श्रुत्वा इमु धारयेयुः // SRS_२.२८ //
SK
(Vऐद्य १२) प्रकाशयित्वा इमु आनुशंसा अध्येषते शास्तु स्वयं स्वयंभूः / परिनिर्वृतस्य मम पश्चिकाले समाधि धारेथ इमं विशुद्धम् // SRS_२.२९ //
SK
ये केचि बुद्धा दशसु दिशासु अतीतकाले ऽपि च प्रत्युत्पन्नाः / सर्वे जिना अत्र समाधिशिक्षिता बुध्यन्ति बोधिं विरजामसंस्कृताम् // SRS_२.३० //
SK
इति श्रीसमाधिराजे शालेन्द्रराज(पूर्वयोग)परिवर्तो नाम द्वितीयः ||
SK
(Vऐद्य १३) ३ Bहूतगुणवर्णप्रकाशनपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हिं कुमार यो बोधिसत्त्वो महासत्त्व आकाङ्क्षति तथागतस्यार्हतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयितुं नो चार्थतो वा व्यञ्जनतो वा पर्यादानं गन्तुं सर्वं च मे वचनं बुद्धपरिगृहीतं निश्चरितुमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामर्थाय अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः | कतमे च ते कुमार तथागतस्य भूता बुद्धगुणाः? इह कुमार बोधिसत्त्वो महासत्त्वो ऽरण्यगतो वा वृक्षमूलगतो वा अभ्यवकाशगतो वा शून्यागारमध्यगतो वा एवं प्रतिसंशिक्षते - एवं स भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | निष्यन्दः स तथागतः पुण्यानाम् | अविप्रणाशः कुशलमूलानाम् | अलंकृतः क्षान्त्या | आगमः पुण्यनिधानानाम् | चित्रितो ऽनुव्यञ्जनैः | कुसुमितो लक्षणैः | प्रतिरूपो गोचरेण | अप्रतिकूलो दर्शनेन | अभिरतिः श्रद्धाधिमुक्तानाम् | अनभिभूतः प्रज्ञया | अनवमर्दनीयो बलैः | शास्ता सर्वसत्त्वानाम् | पिता बोधिसत्त्वानाम् | राजा आर्यपुद्गलानाम् | सार्थवाह आदिकर्मिकाणाम् | अप्रमेयो ज्ञानेन | अनन्तः प्रतिभानेन | विशुद्धःस्वरेण | आस्वादनीयो घोषेण | असेचनको रूपेण | अप्रतिसमः कायेन | अलिप्तः कामैः | अनुपलिप्तो रूपैः | असंसृष्ट आरूप्यैः | विमुक्तो दुःखेभ्यः | विप्रमुक्तः स्कन्धेभ्यः | विसंयुक्तो धातुभिः | संवृत आयतनैः | प्रतिच्छन्नो ग्रन्थैः | विमुक्तः परिदाहैः | परिमुक्तस्तृष्णायाः | ओघादुत्तीर्णः | परिपूर्णो ज्ञानेन | प्रतिष्ठितो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने | अप्रतिष्ठितो निर्व्ःणे | स्थितो भूतकोट्य्ःम् | स्थितः सर्वसत्त्वोल्लोकनीय्ःय्ःं भूमौ | इमे ते कुम्ःर तथ्ःगतस्य भूत्ः बुद्धगुण्ःः | एभिर्बुद्धगुणवर्णैः समन्व्ःगतो बोधिसत्त्वो मह्ःसत्त्व इमं सम्ःधिम्ःगम्य अन्ःच्छेद्येन प्रतिभ्ःनेन तथ्ःगतस्य्ःहतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रक्ःशयन् नो च्ःर्थतो नो व्यञ्जनतश्च पर्य्ःद्ःनं गच्छति | सर्वं च्ःस्य वचनं बुद्धपरिगृहीतं निश्चरति ||
SK
अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
न सुकरु जिनवर्ण सर्वि वक्तुं बहुमपि कल्पसहस्र भाषमाणैः / (Vऐद्य १४) तथ गुण समुदानिता जिनेभिः इमु वरु शान्त समाधिमेषमाणैः // SRS_३.१ //
SK
परमसु-अभिरूपदर्शनीयाः कन्य अलंकृतगात्र प्रेमणीयाः / दत्त पुरि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे // SRS_३.२ //
SK
तथ मयि धनधान्यदासिदासा तथ मणिमुक्तिसुवर्णरूप्यकं च / त्यक्त मयि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे // SRS_३.३ //
SK
मणिरतनविचित्रमुक्तहारा रुचिर पु वसन शङ्खसुवर्णसूत्रा / त्यक्त मयि पुरा विनायकेषु इमु वरु शान्त समाधिमेषता मे // SRS_३.४ //
SK
अपरिमित अनन्त कल्पकोट्यः परमसुगन्धिक वार्षिकाश्च / त्यक्त मयि जिनान चेतियेषु परमनिरुत्तरु चित्तु संजनित्वा // SRS_३.५ //
SK
तथरिव मयि दत्तु धर्मदानं पर्षगतेन जनित्व चित्रिकारम् / न च मम समुत्पन्न जातु चित्तं सिय मम ज्ञात्रु ददित्व धर्मदानम् // SRS_३.६ //
SK
एत गुण समुदानितुं मि पूर्वा वन वरु सेवित नित्यमल्पशब्दम् / कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानम् // SRS_३.७ //
SK
न च मम क्वचिदाग्रहो अभूषि प्रियतरवस्तुन आत्मनो ऽपि भोक्तुम् / (Vऐद्य १५) ददमि अहु प्रभूत देयधर्मं सद मम चित्तु लभेय बुद्धज्ञानम् // SRS_३.८ //
SK
अखिलमधुरसंविभागशीलः स्मितवदनः श्रुतिधारि स्निग्धघोषः / सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्त दर्शनेन // SRS_३.९ //
SK
क्षणमपि च न मत्सरी भवामि भवनियुतेन न जातु ईर्ष्यमासीत् / सद अहु परितृप्त पिण्डपाते सकल निमन्त्रण वर्जितान्यशेषा // SRS_३.१० //
SK
बहुश्रुत श्रुतधारि ये भवन्ति गाथ इतो धरये चतुष्पदां पि / ते मयि सद सत्कृता अभूवन् परम निरुत्तर प्रेम संजनित्वा // SRS_३.११ //
SK
बहुविधमनन्त दानु दत्तं तथपि च रक्षितु शीलु दीर्घरात्रम् / पूज बहु कृता विनायकेषु इमु वरु शान्त समाधिमेषता मे // SRS_३.१२ //
SK
पृथु विविध अनन्त लोकधातून् मणिरतनैः परिपूर्य दानु दद्यात् / इतु धरयि समाधितश्च गाथाम् इमु तत्पुण्य विशिष्यते उदारम् // SRS_३.१३ //
SK
यावत् पृथु केचिदस्ति पुष्पा तथरिव गन्ध मनोरमा उदाराः / तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् // SRS_३.१४ //
SK
यावत् पृथु केचिदस्ति वाद्या तथ बहु भोजन अन्नपानवस्त्राः / तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् // SRS_३.१५ //
SK
(Vऐद्य १६) यश्च नरु जनित्व बोधिचित्तम् अहु जिनु भेष्यु स्वयंभु धर्मराजः / गाथमिमु धरे समाहितैकां ततो विशिष्यते पुण्यमुदारम् // SRS_३.१६ //
SK
यावत पृथु गङ्गवालिकाः स्युस्तावत कल्प भणेय आनुशंसा / न च परिक्षय शक्यु कीर्त्यमाने बहुतर पुण्यसमाधि धारयित्वा // SRS_३.१७ //
SK
तस्मात्तर्हि कुमार बोधिसत्त्वेन् महासत्त्वेन उद्ग्रहीतव्यो धारयितव्यो वाचयितव्यः पर्यवाप्तव्यः | उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य अरणाभावनायोगमनुयुक्तेन च भवितव्यम् | तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च | अथ खलु भगवास्तस्यां वेलायामिमा गाथा अभाषत -
SK
तस्माच्छ्रुत्वेति बुद्धानामानुशंसान् सुभद्रकान् / क्षिप्रमुद्दिशथा एतं समाधिं बुद्धवर्णितम् // SRS_३.१८ //
SK
त्रिसप्ततिबुद्धकोट्यः पूर्वजातिषु सत्कृताः / सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम् // SRS_३.१९ //
SK
महाकरुणजेतारमिदं सूत्रं निरुच्यते / बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः // SRS_३.२० //
SK
भेष्यन्ति पश्चिमे काले निर्वृते लोकनायके / बहु असंयता भिक्षु बाहुश्रुत्ये अनर्थिकाः // SRS_३.२१ //
SK
शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः / समाधिवर्णं वक्ष्यन्ति समाधिय अनर्थिकाः // SRS_३.२२ //
SK
प्रज्ञाय वर्णं वक्ष्यन्ति प्रज्ञाय च अनर्थिकाः / विमुक्त्या बहु भाषन्ते विमुक्त्या च अनर्थिकाः // SRS_३.२३ //
SK
चन्दनस्य यथा कश्चिद् भाषते पुरुषो गुणान् / ईदृशं चन्दनं नाम गन्धजातं मनोरमम् // SRS_३.२४ //
SK
अथान्यः पुरुषः कश्चिदेवं पृच्छेत तं नरम् / गृहीत चन्दनं किंचिद् यस्य वण प्रभाषसे // SRS_३.२५ //
SK
(Vऐद्य १७) स नरं तं प्रतिब्रूयाद् गन्धवर्णं ब्रवीम्यहम् / जीविकां येन कल्पेमि तं च गन्धं न वेद्म्यहम् // SRS_३.२६ //
SK
एवं योगे ऽप्ययुक्तानां शीलवर्णेन जीविका / पश्चिमे भेष्यते काले शीलं चैषां न भेष्यते // SRS_३.२७ //
SK
एवं योगे ऽप्ययुक्तानां समाधिवर्णेन जीविका / पश्चिमे भेष्यते काले समाधिश्चैषां न भेष्यते // SRS_३.२८ //
SK
एवं योगे ऽप्ययुक्तानां प्रज्ञावर्णन जीविका / भेष्यते पश्चिमे काले प्रज्ञा चैषां न भेष्यते // SRS_३.२९ //
SK
एवं योगे ऽप्ययुक्तानां विमुक्तिवर्णेन जीविका / भेष्यते पश्चिमे काले विमुक्तिश्चैषां न भेष्यते // SRS_३.३० //
SK
यथ पुरुषु दरिद्रु कश्चिदेव सचे परिभूतु भवेन्महाजनस्य / स च लभति निधानु पश्चकाले धनपति भूत्व जनान सत्करेय्या // SRS_३.३१ //
SK
एवमिमु न समाधि याव लब्धो न च बहुमतो भवतीह बोधिसत्त्वः / मरुमनुजकुम्भाण्डराक्षसा नो यथ पुरुषु दरिद्रु अर्थहीनः // SRS_३.३२ //
SK
यद पुनरिय लब्ध भोति भूमी अतुलियु धर्मनिधानु पण्डितेन / मरु मनुज स्पृहं जनेन्ति तत्र स च धनु देति निरुत्तरं प्रजानाम् // SRS_३.३३ //
SK
तस्म इमि श्रुणित्व आनुशंसां परमप्रणीतयः कीर्तिता जिनेन / सर्व जहिय ज्ञात्रलाभसौख्यमिमु वरमुद्दिशथा समाधि शान्तम् // SRS_३.३४ //
SK
ये केचि बुद्धा दिशता सुनिर्वृता अनागता ये ऽपि च प्रत्युत्पन्नाः / सर्वे च शिक्षित्व इह समाधौ बोधिं विबुद्धा अतुलामचिन्तियाम् // SRS_३.३५ //
SK
(Vऐद्य १८) चन्द्रप्रभः कुमारु हृष्टचित्तः पुरतु जिनस्य स्थिहित्व वाच भाषी / अहु पुरुषवरस्य निर्वृतस्य सुकिसरि कालि इदं धरिष्ये सूत्रम् // SRS_३.३६ //
SK
काय अहु त्यजित्व जीवितं च तथपि च सौख्य यदस्ति लोके / तत्र अहु महाभये ऽपि काले इमु वरु शान्त समाधि धारयिष्ये // SRS_३.३७ //
SK
महकरुण जनित्व सत्त्वकाये सुदुखित सत्त्व अनाथ प्राप्त दृष्ट्वा / तेष्वहमुपसंहरित्व मैत्रीमिमु वर शान्त समाधि देशयिष्ये // SRS_३.३८ //
SK
पञ्चशत अनून तस्मिन् काले य उत्थित तत्र समाधिधारकाणाम् / पूर्वंगम कुमार तेष आसीदिह वरसूत्रपरिग्रहे उदारे // SRS_३.३९ //
SK
इति श्रीसमाधिराजे भूतगुणवर्णप्रकाशनपरिवर्तो नाम तृतीयः ||
SK
(Vऐद्य १९) ४ Bउद्धानुस्मृतिपरिवर्तः |
SK
अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - समाधिः समाधिरिति भगवन्नुच्यते | कतमस्यैतद्धर्मस्याधिवचनं समाधिरिति? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - समाधिः समाधिरिति कुमार उच्यते यदुत चित्तनिध्याप्तिः | अनुपपत्तिः | अप्रतिसंधिः | प्रतिसंधिज्ञानम् | अपहृतभारता | तथागतज्ञानम् | बुद्धवृषभिता | रागचिकित्सा | दोषव्युपशमः | मोहस्य प्रहाणम् | युक्तयोगिता | अयुक्तविवर्जनता | अकुशलधर्मच्छन्दः | संसारान्मोक्षकामता | अध्याशयप्रतिपत्तिः | जागरिकाया आसेवनम् | प्रहाणस्यानुत्सर्गः | आरक्षा शुक्लधर्माणाम् | उपपत्तिष्वविश्वासः | अनभिसंस्कारः | कर्मणामाध्यात्मिकानामायतनानाममनसिकारः | बाह्यानामायतनानामसमुदाचारः | आत्मनो ऽनुत्कर्षणम् | परेषामपंसनता | कुशलेष्वनध्यवसानम् | पृथग्जनेष्वविश्वासः | शीलस्य निष्यन्दः | दुरासदता | महौजस्कता | आत्मज्ञानम् | अचपलता | ईर्यापथसंपदवस्थानम् | अव्यापादः | अपारुष्यम् | परेष्वनुत्पीडा | मित्राणामनुरक्षणा | गुह्यमन्त्राणामारक्षणा | अविहिंसा | शीलवतामनुत्पीडना | श्लक्ष्णवचनता | सर्वत्रैधातुके अनिःश्रितता | सर्वधर्मेषु शून्यता | आनुलोमिकी क्षान्तिः | सर्वज्ञज्ञाने तीव्रच्छन्दता समाधिः समाधिरिति कुमार उच्यते | या एवेष्वेवंरूपेषु धर्मेषु प्रतिपत्तिरप्रतिपत्तिः, अयं स कुमार उच्यते समाधिरिति ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
अपावृतं मे अमृतस्य द्वारम् आचक्षितो धर्मस्वभावु यादृशः / निदर्शिता मे उपपत्ति यादृशी प्रकाशिता निर्वृति सानुशंसा // SRS_४.१ //
SK
विवर्जनीयाः सद पापमित्राः कल्याणमित्राश्च निषेवितव्याः / वनेषु वस्तव्य गणान् जहित्वा मैत्रं च चित्तं सद भावनीयम् // SRS_४.२ //
SK
शुद्धं च शीलं सद रक्षितव्यं धूतेषु पुष्टिः सद विन्दितव्या / त्यागश्च प्रज्ञा च निषेवितव्या | न दुर्लभो एष समाधि भेष्यति // SRS_४.३ //
SK
(Vऐद्य २०) ततो लभित्वा इम शान्तभूमि यस्यामभूमिः पृथु श्रावकाणाम् / प्रत्यक्षभूता सुगतस्य धर्म प्रतिलप्स्यथा बुद्धगुणानचिन्तियान् // SRS_४.४ //
SK
दृष्ट्वा नरान् भाजनबुद्धिमन्तान् तान् बोधिचित्तस्मि समादहेथ / अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधिराजः // SRS_४.५ //
SK
यस्यार्थि ईर्षा पुन संजनेय्या आहारि निष्यन्दिह प्रत्यवेक्षतः / पर्येष्टितश्चो परिभोगतश्च न दुर्लभो एष समाधि भेष्यते // SRS_४.६ //
SK
समाधिराजो यदि वैष शून्यतो विशुद्धशीलानयु मूर्ध्नि तिष्ठति / स्वभावतो धर्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः // SRS_४.७ //
SK
येषामयं शान्त समाधिरिष्टो न तेष जातु भयबुद्धि तिष्ठति / सदानुपश्यन्ति नराणमुत्तममिमां निषेवित्व प्रशान्तभूमिम् // SRS_४.८ //
SK
आकारतो यः स्मरते तथागतान् स भोति शान्तेन्द्रियु शान्तमानसः / अभ्रान्तचित्तः सततं समाहितः श्रुतेन ज्ञानेन च सागरोपमः // SRS_४.९ //
SK
अस्मिन् समाधौ हि प्रतिष्ठिहित्त्वा यश्चंक्रमे चंक्रमि बोधिसत्त्वः / स पश्यति बुद्धसहस्रकोटियस्तदुत्तरे यात्तिक गङ्गवालुकाः // SRS_४.१० //
SK
उन्मादु गच्छेय नरस्य चित्तं यो बुद्धधर्माण प्रमाणु गृह्णीयात् / (Vऐद्य २१) नैवाप्रमाणस्य प्रमाणमस्ति अचिन्तिया सर्वगुणेहि नायकाः // SRS_४.११ //
SK
न सो ऽस्ति सत्त्वो दशसु दिशासु यो लोकनाथेन समः कुतोत्तरि / सर्वे हि सर्वज्ञगुणरुपेतमाकाङ्क्षथ लप्स्यथ बुद्धज्ञानम् // SRS_४.१२ //
SK
सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः / यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्वः // SRS_४.१३ //
SK
असंस्कृतं संस्कृतु ज्ञात्व विज्ञो निमित्तसंज्ञाय विभाविताय / सो आनिमित्ते भवति प्रतिष्ठितः प्रजानती शून्यक सर्वधर्मान् // SRS_४.१४ //
SK
यो धर्मकाये भवति प्रतिष्ठितो अभाव जानाति स सर्वभावान् / अभावसंज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यति // SRS_४.१५ //
SK
आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः / तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि // SRS_४.१६ //
SK
एवं मुनीन्द्रं स्मरतो नरस्य आकारतो ज्ञानतो अप्रमेयतः / अनुस्मृतिं भावयतः सदा च तन्निम्नचित्तं भवती तत्प्रोणम् // SRS_४.१७ //
SK
स चंक्रमस्थो न निषद्यमाश्रित आकाङ्क्षते पुरुषवरस्य ज्ञानम् / आकाङ्क्षमाणः प्रणिघेति बोधये भविष्यहं लोकि निरुत्तरो जिनः // SRS_४.१८ //
SK
(Vऐद्य २२) स बुद्ध संजानति बुद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते / इह समाधिस्मि प्रतिष्ठिहित्वा नमस्यते बुद्ध महानुभावान् // SRS_४.१९ //
SK
कायेन वाचा च प्रसन्न मानसा बुद्धान वर्णं भणती अभीक्ष्णम् / तथाहि सो भावितचित्तसंतती | रात्रिंदिवं पश्यति लोकनाथान् // SRS_४.२० //
SK
यदापि सो भोति गिलान आतुरः प्रवर्तते वेदन मारणान्तिका / न बुद्धमारभ्य स्मृतिः प्रमुष्यते न वेदनाभिरनुसंहरीयति // SRS_४.२१ //
SK
तथा हि तेन विचिनित्व ज्ञाता अनागता आगत धर्मशून्यता / सो तादृशे धर्मनये प्रतिष्ठितो न खिद्यते चित्त चरन्तु चारिकाम् // SRS_४.२२ //
SK
तस्माच्छ्रुणित्वा इमु आनुशंसा जनेथ छन्दमतुलाय बोधये / मा पश्चकाले परितापु भेष्यत सुदुर्लभं सुगतवराण दर्शनम् // SRS_४.२३ //
SK
अहं च भाषेय प्रणीत धर्मं यूयं च श्रुत्वान समाचरेथाः / भैषज्य वस्त्रां च गृहीत्व आतुरो ऽपनेतु व्याधिं न प्रभोति आत्मनः // SRS_४.२४ //
SK
तस्माद्विधिज्ञेन विचक्षणेन इमं समाधिं प्रतिकाङ्क्षता सदा / शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति // SRS_४.२५ //
SK
इति श्रीसमाधिराजे बुद्धानुस्मृतिपरिवर्तो नाम चतुर्थः ||
SK
(Vऐद्य २३) ५ Gहोषदत्तपरिवर्तः |
SK
तत्र भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये ऽपरिमाणे यदासीत् तेन कालेन तेन समयेन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | तेन कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिः श्रावककोट्यः प्रथमसन्निपातो ऽभूत् सर्वेषामर्हताम् | द्वितीयः श्रावकसन्निपातः सप्ततिकोट्यो ऽर्हतामभूत् | तृतीयः सन्निपातः षष्टिः श्रावककोट्यो ऽर्हतामभूत् | तेन खलु पुनः समयेन तस्य भगवतो घोषदत्तस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्वर्षसहस्राण्यायुःप्रमाणमभूत् | अयं च जम्बुद्वीप ऋद्धः स्फीतश्च क्षेमश्च सुभिक्षश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्चाभूत् | तेन खलु पुनः समयेन अस्मिन् जम्बुद्वीपे द्वौ राजानावभूताम् | दृढबलश्च नाम महाबलश्च नाम | तत्रैको राजा अर्धं जम्बुद्वीपं परिभुङ्क्ते, द्वितीयो ऽप्यर्धं परिभुङ्क्ते ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं च बहुजनाकीर्णमनुष्यं च || तेन कालेन तेन समयेन राज्ञो महाबलस्य विजिते भगवान् घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्ध उत्पन्नो ऽभूत् | इति हि कुमार राज्ञा महाबलेन स घोषदत्तस्तथागतः परिपूर्णं वर्षसहस्रं निमन्त्रितो ऽभूत् सार्धं बोधिसत्त्वसंघेन भिक्षुसंघेन च कल्पिकेन परिभोगेणानवद्येन चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेण | तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वसंघस्य सश्रावकसंघस्य चोत्सदो लाभसत्कारश्लोको ऽभूत् | श्राद्धाश्च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सबोधिसत्त्वसंघस्य चोत्सदं लाभसत्कारमकार्षुः | ते च श्राद्धा ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य लाभसत्कारायोद्युक्ता अभूवन् लोकामिषपूजायै यदुत राज्ञ एव च महाबलस्यानुशिक्षमाणरूपम् | इति हि कुमार तस्य भगवतो घोषदत्तस्य एतदभूत् - परिहीयन्ते बतेमे सत्त्वाः शीलपोषधसमादानतस्तथागतानामुपसंक्रमणतस्तथागतपर्युपासनतो ब्रह्मचर्यावासतः प्रव्रज्योपसंपन्नभिक्षुभावतश्च | त एते सत्त्वास्तदनन्तरं सुखगुरुकाः | तत् कस्य हेतोः? तथा हि तदनन्तरं सुखमिदं यदुत लोकामिषपूजा | त एते सत्वा दृष्टधर्मगुरुकाश्च संपरायगुरुकाश्च नात्यन्तनिष्ठाः कुशलमूलाय | तत्रेयं कुमार कतमा दुष्टधर्मगुरुकता? यदुत पञ्चकामगुणाभिप्रायता | (Vऐद्य २४) तत्र कुमार कतमा सांपरायिकगुरुकता? यदुत स्वर्गलोकाध्यालम्बनता | कतमा चात्यन्तनिष्ठकुशलमूलगुरुकता? यदुतात्यन्तविशुद्धिः | अत्यन्तविमुक्तिः | अत्यन्तयोगक्षेमता | अत्यन्तब्रह्मचर्यावासः | अत्यन्तपर्यवसानम् | अत्यन्तकुशलमूलनिष्ठा | अत्यन्तपरिनिर्वाणम् | यन्नवहमेतेषां सत्त्वानां तथा तथा धर्मं देशयेयं यदमी सत्त्वा यथानुत्तरया धर्मपूजया धर्मप्रतिपत्त्या च तथागतं पूजयेयुः ||
SK
अथ खलु कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां राज्ञो महाबलस्य तेषां च ब्राह्मणगृहपतीनां संवेजनाभिप्राय इमा गाथा अभाषत -
SK
दानप्रदानेन अन्योन्य सेवतां तेषान्यमन्यस्मि न भोति गौरवम् / ना तादृशीं सेवन वर्णयन्ति बुद्धा विदू येष प्रहीण वासना // SRS_५.१ //
SK
ते तादृशा भोन्ति नराः सुसेविता ये धर्म देशेन्ति हिताय प्राणिनाम् / तेषान्यमन्यस्मि अभेद्य प्रेम यन्मारकोटीभिरशक्यु भिन्दितुम् // SRS_५.२ //
SK
लोकामिषेणो नर सेवतां नृणां सर्वेषं सांदृष्टिक भोति अर्थः / निरामिषं धर्म निषेवतां हि महान्त अर्थो भवती नराणाम् // SRS_५.३ //
SK
निरामिषं चित्तु उपस्थपित्वा निरामिषं धर्म प्रकाशयित्वा / निरामिषं येष भवेत प्रेम ते तादृशाः क्षिप्र भवन्ति बुद्धाः // SRS_५.४ //
SK
न जातु कामान् प्रतिसेवमानः पुत्रेषु दारेषु जनित्व तृष्णाम् / गृहं च सेवन्तु जुगुप्सनीयमनुत्तरां प्राप्स्यति सो ऽग्रबोधिम् // SRS_५.५ //
SK
ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जहित्व तृष्णाम् / (Vऐद्य २५) उत्त्रस्तु गेहादभिनिष्क्रमन्ति न दुर्लभा तेष्वियमग्रबोधिः // SRS_५.६ //
SK
न कश्चि बुद्धः पुरिमेण आसी अनागते भेष्यति वावतिष्ठते / येहि स्थितैरेवमगारमध्ये प्राप्ता इयमुत्तम अग्रबोधिः // SRS_५.७ //
SK
प्रहाय राज्यं यथ खेटपिण्डं वसेत रण्येषु विवेककामः / क्लेशान् प्रहाय प्रतिहत्य मारं बुद्ध्यन्ति बोधिं विरजामसंस्कृताम् // SRS_५.८ //
SK
यो बुद्धवीरान् यथ गङ्गवालुका उपस्थिहेय्या बहुकल्पकोटियः / यश्चो गृहातः परिखिन्नमानसो ऽभिनिष्क्रमेय्या अयु तत्र उत्तमः // SRS_५.९ //
SK
अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि / नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरियाण धर्मम् // SRS_५.१० //
SK
यश्चैव बोधिं प्रतिकाङ्क्षमाणः सत्त्वार्थ निर्विण्णु कुसंस्कृतातः / रण्यामुखः सप्त पदानि प्रक्रमे अयं ततः पुण्यविशिष्ट भोति // SRS_५.११ //
SK
अश्रौषीत् खलु पुनः कुमार राजा महाबलो भगवता घोषदत्तेन तथागतेनार्हता सम्यक्संबुद्धेन इमामेवंरूपां प्रवर्तितां नैष्क्रम्यप्रतिसंयुक्तां कथाम् | श्रुत्वा च विमृशति - यथाहं भगवतो भाषितस्यार्थमाजानामि, न भगवान् दानपारमितां वर्णयति, न शीलपारमितां वर्णयति | अत्यन्तनिष्ठां संवर्णयति | अत्यन्तविशुद्धिम् | अत्यन्तब्रह्मचर्यावासम् | अत्यन्तनिर्वाणं संवर्णयति | तस्यैतदभूत् - नेदं सुकरमगारमध्यावसता अनुत्तरधर्मप्रतिपत्तिं संपादयितुम्, अर्थं वा अनुप्राप्तुम् | परिहीणो ऽस्म्यनुत्तराया धर्मप्रतिपत्तितः | यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयम् | इति हि (Vऐद्य २६) कुमार राजा महाबलः सार्धमशीत्या ब्राह्मणगृहपतिशतसहस्रैः परिवृतः पुरस्कृतो येन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत् | उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् | अथ खलु कुमार भगवान् घोषदत्तो राज्ञो महाबलस्य अध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं देशयते | अथ खलु कुमार राजा महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः केशश्मश्रण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् | स तथा प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् | उद्गृह्य पर्यवाप्य धारयित्वा वाचयिओत्वा भावनायोगमनुयुक्तो व्यहार्षीत् | स तेनैव कुशलमूलेन दशकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्, विंशतिं च बुद्धकोटीरारागयामास | तेषां च तथागतानामन्तिकादिमं समाधिमश्रौषीत् | श्रुत्वा तेभ्यो बुद्धेभ्यस्तेनोद्गृहीतः पर्यवाप्तो धारितो वाचितो भावनायोगमनुयुक्तो व्यहार्षीत् | स ततः पश्चात् तेनैव कुशलमूलेन दशानां कल्पकोटीनामत्ययेन परिपूर्णेन कल्पशतसहस्रेण अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् | सो ऽप्रमेयाणां सत्त्वानामर्थं कृत्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृतो ऽभूत् | तत्र कुमार यान्यशीतिप्राणिशतसहस्राणि राज्ञा महाबलेन सार्धं भगवन्तं घोषदत्तं तथागतमुपसंक्रान्तानि, ते ऽपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता अभूवन् | ते ऽपि तथा प्रव्रजिता इमं समाधिमुद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमन् | सर्वत्र च कल्पे कल्पे बुद्धकोटीर्बुद्धकोटीरारागयामास | सर्वेषां च तेषां तथागतानामन्तिके इमं समाधिं श्रुत्वोद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव पूर्वक्रेण कुशलमूलेन विंशतीनां कल्पकोटीनामत्ययेन ततः पश्चात् परिपूर्णदशभिः कल्पसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धा दृढशूरनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पन्ना अभुवन् | ते ऽप्यप्रमेयानसंख्येयान् सत्त्वान् परिपाच्य तेषां चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन् | तदनेनापि ते कुमार पर्यायेण एवं वेदितव्यं यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य सर्वज्ञज्ञानस्याहरणाय संवर्तत इति || अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तस्यां वेलायामेतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
SK
स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराण उत्तमः / (Vऐद्य २७) उत्पन्नु लोकार्थकरो महर्षि नामेन सो उच्यति घोषदत्तः // SRS_५.१२ //
SK
अशीति कोट्यः परिपूर्ण तस्य प्रथमो गणो आसि य श्रावकाणाम् / द्वितीय चासीत् परिपूर्ण सप्ततिस्तृतीय चो षष्ट्यरहन्तकोटियः // SRS_५.१३ //
SK
सर्वे च क्षीणास्रव निष्किलेशाः सर्वे च ऋद्धीबलपारमिं गताः / वर्षं सहस्रा दुवि विशं चायुः क्षेत्रं च आसीत् परिशुद्ध शोभनम् // SRS_५.१४ //
SK
अभिषेकप्राप्ता परहित अप्रमेया वशितेहि भूमिहि च सुप्रतिष्ठिताः / आसन्न ते द्रुमवरि बोधि बोधितुं ये बोधिसत्वास्त अभूषि तायिनः // SRS_५.१५ //
SK
इह जम्बुद्वीपस्मि अभूषि राजा दृढबलो नाम महाबलश्च / उपार्धु राज्यस्य तदेकु भुञ्जते द्वितीय चाधस्य अभूषि राजा // SRS_५.१६ //
SK
महाबलस्यो विजितस्मि बुद्धो उत्पन्न सो देवमनुष्यपूजितः / लभित्व राजा सुगतस्मि श्रद्धाम् उपस्थिही वर्षसहस्र पूर्णम् // SRS_५.१७ //
SK
तस्यानुशिक्षी बहु अन्यसत्त्वाः कुर्वन्ति सत्कार तथागतस्य / लोकामिषेणैव हि धर्मपूजया सश्रावकस्य अतुलो ऽभू उत्सदः // SRS_५.१८ //
SK
अभूषि चित्तं पुरुषोत्तमस्य देशिष्य धर्ममिमि धर्मकामाः / यन्नून सर्वे प्रजहित्व कामानिह प्रव्रजेयुर्मम शासनस्मिन् // SRS_५.१९ //
SK
(Vऐद्य २८) स भाषते गाथ नराणमुत्तमः संलेखिधर्मं सुगतान शिक्षाम् / गृहवासदोषांश्च अनन्तदुःखान् प्रतिपत्ति धर्मेष्विह धर्मपूजा // SRS_५.२० //
SK
श्रुणित्व गाथां तद राजपार्थिवो एको विचिन्तेति रहोगतो नृपः / न शक्य गेहस्मि स्थिहित्व सर्वे प्रतिपद्यितुमुत्तधर्मपूजा // SRS_५.२१ //
SK
स राज्य त्यक्त्वा यथ खेटपिण्डं प्राणिसहस्रेभिरशीतिभिः सह / उपसंक्रमी तस्य जिनस्य अन्तिकं वन्दित्व पादौ पुरतः स्थितो ऽभूत् // SRS_५.२२ //
SK
तेषां जिनो आशयु जानमानो देशेतिमं शान्त समाधि दुर्दृशम् / ते प्रीतिप्रामोद्यसुखेन प्रीणितास्तुष्टा उदग्रास्तद प्रव्रजिंसु // SRS_५.२३ //
SK
ते प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्व / न जातु गच्छे विनिपातदुर्गतिं कल्पान कोट्यः परिपूर्ण विंशतिम् // SRS_५.२४ //
SK
ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियः / सर्वेषु चो तेषु जिनानुशासने ते प्रव्रजित्वेमु समाधि भावयी // SRS_५.२५ //
SK
ते पश्चिमे कालि अभूषि बुद्धा दृढशूरनामान अनन्तवीर्याः / कृत्वा च अर्थं बहुप्राणिकोटिनां ते पश्चिकालेस्मि शिखीव निर्वृताः // SRS_५.२६ //
SK
(Vऐद्य २९) महाबलो राजा य आसि पूर्वं स ज्ञानशूरो अभु बुद्ध लोके / तदा बहु प्राणिसहस्रकोटियः स्थपेत्व बोधाय स पश्चि निर्वृतः // SRS_५.२७ //
SK
तस्माच्छ्रुणित्वा इमु पश्चिकाले धारेय सूत्रमिमु बुद्धवर्णितम् / धारेत्विममीदृश धर्मकोषं भविष्यथा क्षिप्र नराणमुत्तमाः // SRS_५.२८ //
SK
इति श्रीसमाधिराजे घोषदत्तपरिवर्तो नाम पञ्चमः ||
SK
(Vऐद्य ३०) ६ Sअमाधिपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिपरिकर्म करणीयम् | तत्र कुमार कतमत् समाधिपरिकर्म? इह कुमार बोधिसत्त्वो महाकरुणासंप्रस्थितेन चित्तेन तिष्ठतां वा तथागतानां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्तूर्यतालावचरैर्वैजयन्तीभिः तच्च कुशलमूलं समाधिप्रतिलम्भाय परिणमयति | स न कंचिद्धर्ममाकाङ्क्षंस्तथागतं पूजयति न रूपं न कामान् न भोगान् न स्वर्गान् न परिवारान् | अपि तु खलु पुनर्धर्मचित्तको भवति | स आकाङ्क्षन् धर्मकायतो ऽपि तथागतं नोपलभते, किमङ्ग पुना रूपकायत उपलप्स्यते | तस्मात्तर्हि कुमार एषां सा तथागताना पूजा यदुत तथागतस्यादर्शनमात्मनश्चानुपलब्धिः कर्मविपाकस्य चाप्रतिकाङ्क्षमाणता | अनया कुमार त्रिमण्डलपरिशुद्धया पूजया तथागतं पूजयित्वा बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ||
SK
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव समाधिपरिकर्मनिर्देशं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशमति स्म -
SK
अनन्तज्ञानस्य ददित्व गन्धान् अनन्तगन्धो भवती नराणाम् / न कल्पकोटीय व्रजन्ति दुर्गतिं दुर्गन्धियं तेषु न जातु भोति // SRS_६.१ //
SK
ते कल्पकोट्यश्चरमाणु चारिकां पूजित्व बुद्धान सहस्रकोटियः / ते ज्ञानगन्धेन समुद्गतेन भवन्ति बुद्धा वरशीलगन्धिकाः // SRS_६.२ //
SK
सचेत् पुनर्जानति वास्ति सत्त्वो यो गन्ध देती तथ यस्य दीयते / एतेन चित्तेन ददाति गन्धमेषास्य क्षान्तिर्मृदु आनुलोमिकी // SRS_६.३ //
SK
(Vऐद्य ३१) तस्यैतं क्षान्तिमधिमात्र सेवतः सचेन्नरः काकणिच्छेद्यु छिद्यते / कल्पान कोट्यो यथ गङ्गवालिका न तस्य चित्तं भवति विवर्तियम् // SRS_६.४ //
SK
किं कारणं वुच्यति क्षान्ति नाम कथं पुनो वुच्यति आनुलोमिकी / अविवर्तिको वुच्यति केन हेतुना कथं पुनो वुच्यति बोधिसत्त्वः // SRS_६.५ //
SK
क्षान्त्यस्मि धर्मे प्रकृतौ निरात्मके नैरात्म्यसंज्ञस्य किलेशु नास्ति / खं यादृशं जानति सर्वधर्मास्तस्मादिह स्या क्व तु क्षान्ति नाम // SRS_६.६ //
SK
आनुलोमि सर्वेष जिनान शिक्षतो न चास्ति धर्मश्चरते विचक्षणः / न बुद्धधर्मेषु जनेति संशयानियं स क्षान्तिर्भवतानुलोमिकी // SRS_६.७ //
SK
एवं चरन्तस्य य लोकि मारास्ते बुद्धरूपेण भणेय्य वाचा / सुदुर्लभा बोधि भवाहि श्रावका न गृह्णोती वाक्यु न चो विवर्तते // SRS_६.८ //
SK
बोधेति सत्त्वान् विषमातु दृष्टितो न एष मार्गो अमृतस्य प्राप्तये / कुमार्ग वर्णित्व पथे स्थपेति तं कारणमुच्यति बोधिसत्त्वः // SRS_६.९ //
SK
क्षमिष्यनूलोमपथे स्थितस्य नैरात्म्यसङ्गाय विबोधितस्य / स्वप्नान्तरे ऽप्यस्य न जातु भोति अस्ति नरो पुद्गल जीव सत्त्वः // SRS_६.१० //
SK
(Vऐद्य ३२) सचे मारकोट्यो यथ गङ्गवालुकास्ते बुद्धरूपेण उपागमित्वा / भणेयुरभ्यन्तरकायु जीवो ते मं वदे नास्ति न यूय बुद्धा // SRS_६.११ //
SK
ज्ञानेन जानाम्यहु स्कन्धशून्यकं ज्ञात्वा च क्लेशेहि न संवसामि / व्याहारमात्रेण च व्योहरामि परिनिर्वृतो लोकमिमं चरामि // SRS_६.१२ //
SK
यथा हि पुत्र पुरुषस्य जातु कृतंसि नामा अयमेव नाम / नामं न तस्यो दिशता सुलभ्यते तथास्य नामं न कुतश्चिदागतम् // SRS_६.१३ //
SK
तथैव नामं कृतु बोधिसत्त्वो न चास्य नामं दिशता सुलभ्यते / पर्येषमाणो अयु बोधिसत्त्वो जानाति यो एष स बोधिसत्त्वः // SRS_६.१४ //
SK
समुद्रमध्ये ऽपि ज्वलेत अग्नि र्न बोधिसत्त्वस्य सत्कायदृष्टिः / यतो ऽस्य बोधाय उत्पन्नु चित्तमत्रान्तरे तस्य न जीवदृष्टिः // SRS_६.१५ //
SK
न ह्यत्र जातो न मृतो च कश्चिदुत्पन्न सत्त्वो मनुजो नरो वा / मायोपमा धर्म स्वभावशून्या न शक्यते जानितु तीर्थिकेहि // SRS_६.१६ //
SK
न चापि आहारविमूर्छितेहि लुब्धेहि गृद्धेहि च पात्रचीवरे / न चोद्धतेहि नपि चोन्नतेहि शक्या इयं जानितु बुद्धबोधिः // SRS_६.१७ //
SK
(Vऐद्य ३३) न स्त्यानमिद्धाभिहतैः कुसीदैः स्तब्धेहि मानीहि अनात्रपेहि / येषां न बुद्धस्मि प्रसादु अस्ति न शक्यते ही वरबोधि जानितुम् // SRS_६.१८ //
SK
न भिन्नवृत्तेहि पृथग्जनेहि येषां न धर्मस्मि प्रसादु अस्ति / सब्रह्मचारीषु च नास्ति गौरवं न शक्यते ही वरबोधि बुद्धितुम् // SRS_६.१९ //
SK
अभिन्नवृत्ता हिरिमन्त लज्जिनो येषां स्ति बुद्धे अपि धर्मे प्रेम / सब्रह्मचारीषु च तीव्रगौरवं ते प्रापुणन्ती वरबोधिमुत्तमाम् // SRS_६.२० //
SK
स्मृतेरुपस्थान इह येष गोचरः प्रामोद्य प्रीति शयनमुपस्तृतम् / ध्यानानि चाहारु समाधि पानियं बुध्यन्ति ते ऽपि वरबोधिमुत्तमाम् // SRS_६.२१ //
SK
नैरात्म्यसंज्ञा च दिवाविहारो अनुस्मृतिश्चंक्रमशून्यभावः / बोध्यङ्गपुष्पा सुरभी मनोरमा ते युज्यमाना वरबोधि प्रापयी // SRS_६.२२ //
SK
या बोधिसत्त्वान चरी विदूनामभूमिरन्यस्य जनस्य तत्र / प्रत्येकबुद्धान च श्रावकाण च को वात्र विज्ञो न जनेय छन्दम् // SRS_६.२३ //
SK
सचेन्ममा आयु भवेत एत्तकं कल्पान कोट्यो यथ गङ्गवालुकाः / एकस्य रोमस्य भणेय वर्णं बौद्धेन ज्ञानेन पर्यन्तु नास्ति // SRS_६.२४ //
SK
(Vऐद्य ३४) तस्माच्छुणित्वा इमु आनुशंसामनाभिभूतेन जिनेन देशिताम् / इमं समाधिं लघु उद्दिशेया न दुर्लभा भेष्यति अग्रबोधिः // SRS_६.२५ //
SK
इति श्रीसमाधिराजे समाधिपरिवर्तो नाम षष्ठः ||
SK
(Vऐद्य ३५) ७ Tरिक्षान्त्यवतारपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मातर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन त्रिक्षान्तिज्ञानकुशलेन भवितव्यम् | तेन प्रथमा क्षान्तिः प्रज्ञातव्या | द्वितीया क्षान्तिः प्रज्ञातव्या | तृतीया क्षान्तिः प्रज्ञातव्या | त्रिक्षान्तिविशेषकुशलेन भवितव्यं त्रिक्षान्तिज्ञानविशेषकुशलेन च | तत् कस्य हेतोः? तथाहि कुमार यदा बोधिसत्त्वो महासत्त्वस्त्रिक्षान्तिविशेषकुशलो भवति त्रिक्षान्तिज्ञानविशेषकुशलश्च भवति, तदायं कुमार बोधिसत्त्वो महासत्त्वः क्षिप्रं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते | तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं त्रिक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः | उद्गृह्य न परेभ्यो विस्तरेण संप्रकाशयितव्यः | तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चेति ||
SK
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्येमं त्रिक्षान्त्यवतारं धर्मपर्यायं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
SK
न केनचित् सार्धं करोति विग्रहं न भाषते वाचमनर्थसंहिताम् / अर्थे च धर्मे च सदा प्रतिष्ठितः प्रथमाय क्षान्तीय सद निर्दिशीयति // SRS_७.१ //
SK
मायोपमान् जानति सर्वधर्मान् न चापि सो भोति निमित्तगोचरः / न हीयते ज्ञानविवृद्धभूमेः प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.२ //
SK
स सर्वसूत्रान्तनयेषु कोविदः सुभाषिते ऽस्मिन्नधिमुक्तिपण्डितः / अनन्तज्ञानी सुगतान ज्ञाने प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.३ //
SK
यः कश्चि धर्मं शृणुते सुभाषितं बुद्धान चो भाषित तन्न काङ्क्षति / अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.४ //
SK
(Vऐद्य ३६) नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता / यास्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतां जानति सर्वधर्मान् // SRS_७.५ //
SK
ये अस्मि लोके पृथु अन्यतीर्था न तस्य तेषु प्रतिहन्यते मनः / कारुण्यमेतेषु उपस्थपेति प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.६ //
SK
आभासमागच्छति तस्य धारणी तस्मिंश्च आभासि न जातु काङ्क्षति / सत्यानुपरिवर्तिनि वाच भाषते प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.७ //
SK
चतुर्ण धातून सियान्यथात्वं वाय्वम्बुतेजःपृथिवीय चापि / न चो विवर्तेत स बुद्धबोधेः प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.८ //
SK
ये शिल्पस्थाना पृथु अस्ति लोके सर्वेषु सो शिक्षितु बोधिसत्त्वः / न चात्मन उत्तरि किंचि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः // SRS_७.९ //
SK
अकम्पियः समथबलेन भोति शेलोपमो भोति विपश्यनाय / न क्षोभितुं शक्यु स सर्वसत्त्वैर्द्वितीयाय क्षान्तीय स निर्दिशीयति // SRS_७.१० //
SK
समाहितस्तिष्ठति भाषते च समाहितश्चंक्रमते निषीदति / समाधिये पारमितागतो विदु द्वितीयाय क्षान्तीय इमे विशेषाः // SRS_७.११ //
SK
(Vऐद्य ३७) समाहितो लभति अभिज्ञ पञ्च क्षेत्रशतं गच्छति धर्मदेशकः / नो चापि सो ऋद्धिबलात्तु हीयते द्वितीयाय क्षान्तीय इमे विशेषाः // SRS_७.१२ //
SK
स तादृशं शान्त समाधिमेषते समाहितस्य न स अस्ति सत्त्वः / यस्तस्य चित्तस्य प्रमाणु गृह्णीया द्वितीयाय क्षान्तीय इमे विशेषाः // SRS_७.१३ //
SK
ये लोकधातुष्विह केचि सत्त्वास्ते बुद्धज्ञानेन भणेयु धर्मान् / उद्गृह्णतो सर्व यतो हि भाषिउतं द्वितीयाय क्षान्तीय इमे विशेषाः // SRS_७.१४ //
SK
पुरिमोत्तरा दक्षिणपश्चिमासु हेष्ठे तथोर्ध्वं विदिशासु चैव / सर्वत्र सो पश्यति लोकनाथान् तृतीयाय क्षान्तीय स निर्दिशीयति // SRS_७.१५ //
SK
सुवर्णवर्णेन समुच्छ्रयेण अचिन्तियां निर्मित निर्मिणित्वा / देशेति धर्मं बहुप्राणिकोटिनां तृतीयाय क्षान्तीय इमे विशेषाः // SRS_७.१६ //
SK
य जम्बुद्वीप इह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्त्वः / ज्ञातश्च भोती ससुरासुरे जगे तृतीयाय क्षान्तीय इमे विशेषाः // SRS_७.१७ //
SK
बुद्धान आचारु तथैव गोचरा ईर्यापथो यादृश नायकानाम् / सर्वत्र सो शिक्षितु भोति पण्डितस्तृतीयाय क्षान्तीय इमे विशेषाः // SRS_७.१८ //
SK
ये लोकधातुष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् / (Vऐद्य ३८) सचे ऽस्य तस्मिन् नानुनीयते मनो न शिक्षितो उच्यति बुद्धज्ञाने // SRS_७.१९ //
SK
ये लोकधातुइष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् / सचे ऽस्य तेषु प्रतिहन्यते मनो न शिक्षितो ऽद्यापि स बुद्धज्ञाने // SRS_७.२० //
SK
अर्थेन लब्धेन न भोति सूमनो न चाप्यनर्थेन स भोति दुर्मनाः / शैलोपमे चित्ति सदा प्रतिष्ठितो अयं विशेषस्तृतीयाय क्षान्तियाः // SRS_७.२१ //
SK
घोषानुगामी इय क्षान्तिरुक्ता चिन्तामयी भावनानुलोमिकी / श्रुतंमया सा अनुत्पत्तिका या शिक्षा च अत्राप्ययु बोधिमार्गः // SRS_७.२२ //
SK
तिस्रो ऽपि क्षान्तीय सदा निरुत्तराः स बोधिसत्त्वेन भवन्ति लब्धाः / दृष्ट्वा ततस्तं सुगता नरोत्तमा वियाकरोन्ति विरजाय बोधये // SRS_७.२३ //
SK
ततो ऽस्य तं व्याकरणं श्रुणित्वा प्रकम्पिता मेदिनी षड्विकारम् / आभाय क्षेत्रं भवते प्रभास्वरं पुष्पाणि च वर्षिषु देवकोट्यः // SRS_७.२४ //
SK
तस्यो च तं व्याकरणं श्रुणित्वा सत्त्वान कोटी नियुता अचिन्तिया / उत्पादयी चित्त वराग्रबोधये वयं पि भेष्याम जिन आर्यचेतिकाः // SRS_७.२५ //
SK
क्षान्त्या इमास्तिस्र निरुत्तरा यदा संबोधिसत्त्वेन भवन्ति लब्धाः / न चापि सो जायति नापि म्रीयते न चापि स च्यवति नोपपद्यते // SRS_७.२६ //
SK
(Vऐद्य ३९) यदा इमा क्षान्ति त्रयो निरुत्तरा संबोधिसत्त्वेन भवन्ति लब्धाः / न पश्यतेः जायति यश्च म्रीयते स्थितधर्मतां पश्यति सर्वधर्मान् // SRS_७.२७ //
SK
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः / न शून्यता जायति नो च म्रीयते स्वभावशून्या इमि सर्वधर्माः // SRS_७.२८ //
SK
यदात्त्यसौ सत्कृतु भोति केनचिद् उपस्थितो मानितु पूजितो ऽर्चितः / न तस्य तस्मिन्ननुनीयते मनो जानाति सो धर्मस्वभावशून्यताम् // SRS_७.२९ //
SK
आक्रुष्ट सत्त्वेहि प्रहारतर्जितो न तेषु क्रोधं कुरुते न मानम् / मैत्रीं च तेषु दृढ संजनेति तथैव सत्त्वान प्रमोचनाय // SRS_७.३० //
SK
लोष्टेहि दण्डेहि च ताड्यमानः प्रतिघातु तेषु न करोति पण्डितः / नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रोधखिलं न मानः // SRS_७.३१ //
SK
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः / स तादृशे धर्मनये प्रतिष्ठितः सुसत्कृतो भोति सदेवलोके // SRS_७.३२ //
SK
यदापि सत्त्वाः प्रगृहीतशस्त्राश्छिन्देयु तस्यो पृथु अङ्गमङ्गम् / न तस्य तेषु प्रतिहन्यते मनो न चापि मैत्री करुणा तु हीयते // SRS_७.३३ //
SK
एवं च सो तत्र जनेति चित्तं छिन्दन्ति ते हि पृथु अङ्गमङ्गम् / (Vऐद्य ४०) तथा न मह्यं शिव शान्ति निर्वृती यावन्न स्थाप्ये इमि अग्रबोधये // SRS_७.३४ //
SK
एतादृशे क्षान्तिबले निरुत्तरे नैरात्म्यक्षान्तीसमताविहारिणाम् / संबोधिसत्त्वान महायशानां कल्पान कोट्यः सततं सुभाविताः // SRS_७.३५ //
SK
ततोत्तरे यात्तिक गङ्गवालिका न ताव बोधी भवतीह स्पर्शिता / ये बुद्धज्ञानेन न करोति कार्यं किं वा पुनर्ज्ञान तथागतानाम् // SRS_७.३६ //
SK
क्षपेतु वर्णं सुकरं न तेषां प्रभाषता कल्पशतान्यचिन्तिया / अनन्तकीर्तेन महायशानां नैरात्म्यक्षान्तीय प्रतिष्ठितानाम् // SRS_७.३७ //
SK
तस्माद्धि यो इच्छति बोधि बुद्धितुं तं ज्ञानस्कन्धं प्रवरं निरुत्तरम् / स क्षान्ति भावेतु जिनेन वर्णितां न दुर्लभा बोधि वरा भविष्यति // SRS_७.३८ //
SK
इति श्रीसमाधिराजे त्रिक्षान्त्यवतारपरिवर्तो नाम सप्तमः
SK
(Vऐद्य ४१) ८ Aभावसमुद्गतपरिवर्तः |
SK
तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत् | तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | तत् किं मन्यसे कुमार केन कारणेन स तथागतो ऽभावसमुद्गत इत्युच्यते? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत - अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति | तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तो ऽभूत् | तत्र भौमान् देवानुपादाय यावद् ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः - अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति | इति ह्यभावसमुद्गतो ऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि | तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति | यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतो ऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति | तेन च कुमार कालेन तेन समयेन तस्य भगवतो ऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारो ऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः | अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत् | उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् ||
SK
अथ खलु कुमार स भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास | अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म | प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् | स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् | उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत् | स तैनैव कुशलमूलेन (Vऐद्य ४२) विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत् | विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् | सुविचिन्तितार्थो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि | सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास | पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराणमुत्तमः / उत्पन्नु लोकार्थकरो महर्षिर्नाम्ना हि सो ऽभावसमुद्गतो ऽभूत् // SRS_८.१ //
SK
स जातमात्रो गगने स्थिहित्वा सर्वेष धर्माण अभावु देशयी / तदानुरूपं कृतु नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञपी // SRS_८.२ //
SK
देवापि सर्वे प्रमुमोच शब्दं अभावु नाम्नेति जिनो भविष्यति / यो जातमात्रः पद सप्त प्रक्रमन्नभावु धर्माण ब्रवीति नायकः // SRS_८.३ //
SK
बुद्धो यदा भेष्यति धर्मराजः सर्वेष धर्माण प्रकाशको मुनिः / तृणवृक्षगुल्मौषधिशैलपर्वते अभावु धर्माण रवो भविष्यति // SRS_८.४ //
SK
यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः / तावन्ति खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य // SRS_८.५ //
SK
तस्मिंश्च काले अभु राजपुत्रः करुणाविचिन्ती सद नामधेयः / अभिरूप प्रासादिक दर्शनीय उपागमी तस्य जिनस्य अन्तिकम् // SRS_८.६ //
SK
(Vऐद्य ४३) वन्दित्व पादौ मुनिपुंगवस्य प्रदक्षिणं कृत्य च गौरवेण / प्रसन्नचित्तो निषसाद तत्र श्रवणाय धर्मं विरजमनुत्तरम् // SRS_८.७ //
SK
स चो जिनो आशयु ज्ञात्व धीरः प्रकाशयामास समाधिमेतम् / श्रुत्वा च सो इमु विरजं समाधिं लघु प्रव्रजी जिनवरशासने ऽस्मिन् // SRS_८.८ //
SK
स प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वा / कल्पान कोट्यः परिपूर्ण विंशतिं न जातु गच्छे विनिपातभूमिम् // SRS_८.९ //
SK
स तेन चैवं कुशलेन कर्मणा आरागयी विंशति बुद्धकोट्यः / तेषां च सर्वेषु जिनान अन्तिकादिमं वरं शान्त समाधि भावयी // SRS_८.१० //
SK
स पश्चिकाले अभु बुद्ध लोके सुचिन्तितार्थो सदनामधेयः / कृत्वा च अर्थं बहुप्राणकोटिनां स पश्चकालस्मि शिखीव निर्वृतः // SRS_८.११ //
SK
तस्माद्धि य इच्छति बोधि बुद्धितुं सत्त्वांश्च उत्तरायितुं भवार्णवात् / धारेत सूत्रमिमु बुद्धवर्णितं न दुर्लभा भेष्यति सो ऽग्रबोधिः // SRS_८.१२ //
SK
इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः
SK
(Vऐद्य ४४) ९ Gअम्भीरधर्मक्षान्तिपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन गम्भीरधर्मक्षान्तिकुशलेन भवितव्यम् | कथं च कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्मा यथाभूततः प्रज्ञातव्याः | स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः प्रज्ञातव्याः | यदा च कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्माः परिज्ञाता भवन्ति, स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः परिज्ञाता भवन्ति यथाभूततः तदायं कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशल इत्युच्यते | स गम्भीरया धर्मक्षान्त्या समन्वागतो रञ्जनीयेषु धर्मेषु न रज्यते, दोषणीयेषु धर्मेषु न दुष्यते, मोहनीयेषु धर्मेषु न मुह्यते | तत् कस्य हेतोः? तथा हि - स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते | यो रज्येत, यत्र वा रज्येत, येन वा रज्येत | यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत | यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत | स तं धर्मं न समनुपश्यति, तं धर्म नोपलभते | तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते | निष्प्रपञ्चः...... | तीर्णः पारगतः...... | स्थलगतः...... | क्षेमप्राप्तः | अरूपप्राप्तः | शीलवान् | ज्ञानवान् | प्रज्ञावान् | पुण्यवान् | ऋद्धिमान्...... | स्मृतिमान्...... | मतिमान्...... | गतिमान् | ह्रीमान् ...... | धृतिमान् | चारित्रवान् | धूतगुणसंलेखवान् | अनङ्गनः | निष्किंचनः | अर्हन् | क्षीणास्रवः | निष्क्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशिपरमपारमिताप्राप्तः श्रमणः | ब्राह्मणः स्नातकः | पारगः वेदकः श्रोत्रियः | बुद्धपुत्रः | शाक्यपुत्रः | मर्दितकण्टकः | उत्क्षिप्तपरिखः | उदीर्णपरिखः | आक्षिप्तशल्यः | निर्जरः | भिक्षुः | अपरिवेष्टनः | पुरुषः | सत्पुरुषः | उत्तमपुरुषः | महापुरुषः | पुरुषसिंहः | पुरुषनागः | पुरुषाजानेयः | पुरुषधौरेयः पुरुषशूरः | पुरुषवीरः | पुरुषपुष्पः | पुरुषपद्मः | पुरुषपुण्डरीकः | पुरुषदमकः | पुरुषचन्द्रः | अकापुरुषः | पुरुषानुपलिप्तः इत्युच्यते | अथ खलु भगवास्तस्यां वेलायमिमा गाथा अभाषत -
SK
यद लोकधातु न विवर्त भोति आकाशु भोति अयु सर्वलोकः / (Vऐद्य ४५) यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान् // SRS_९.१ //
SK
इदं जगद् याव च किंचि वर्तते अधस्तमेति अभूदापस्कन्धः / यथैव तं हेष्ठे तथैव ऊर्ध्वं तथोपमान् जानथ सर्वधर्मान् // SRS_९.२ //
SK
यथान्तरीक्षस्मि न किंचिदभ्रं क्षणेन चो दृश्यति अभ्रमण्डलम् / पूर्वान्तु जानीय कुतः प्रसूतं तथोपमान् जानथ सर्वधर्मान् // SRS_९.३ //
SK
तथागतस्यो यथ निर्वृतस्य मनसि करोन्तः प्रतिबिम्बु दृश्यते / यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान् // SRS_९.४ //
SK
यथैव फेनस्य महान्तु पिण्डमोघेन उच्छेत्तु नरो निरीक्षते / निरीक्ष्य सो तत्र न सारसंदर्शी तथोपमान् जानथ सर्वधर्मान् // SRS_९.५ //
SK
देवे यथा वर्षति स्थूलबिन्दुके पृथक् पृथग् बुद्बुद संभवन्ति / उत्पन्नभग्ना न हि सन्ति बुद्बुदास्तथोपमान् जानथ सर्वधर्मान् // SRS_९.६ //
SK
यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः / न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् // SRS_९.७ //
SK
यथा नरो मानमदेन मोहितो भ्रमन्ति संजानतिमां वसुंधराम् / न चो महीया चलितं न कम्पितं तथोपमान् जानथ सर्वधर्मान् // SRS_९.८ //
SK
(Vऐद्य ४६) आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारि मुखं स्वलंकृतम् / सा तत्र रागं जनयित्व बाला प्रधाविता काम गवेषमाणा // SRS_९.९ //
SK
मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते / यथा स मूढा जनयेत रागं तथोपमान् जानथ सर्वधर्मान् // SRS_९.१० //
SK
यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव / स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् // SRS_९.११ //
SK
यथैव चन्द्रस्य नभे विशुद्धे ह्रदे प्रसन्ने प्रतिबिम्ब दृश्यते / शशिस्य संक्रान्ति जले न विद्यते तल्लक्षणान् जानथ सर्वधर्मान् // SRS_९.१२ //
SK
यथा नरः शैलवनान्तरे स्थितो भणेय्य गायेय्य हसेय्य रोदये / प्रतिश्रुत्का श्रूयति नो च दृश्यते तथोपमान् जानथ सर्वधर्मान् // SRS_९.१३ //
SK
गीते च वाद्ये च तथैव रोदिते प्रतिश्रुत्का जायति तं प्रतीत्य / गिराय घोषो न कदाचि विद्यते तथोपमान् जानथ सर्वधर्मान् // SRS_९.१४ //
SK
यथैव कामान् सुपिनन्त सेविय प्रतिबुद्धसत्त्वः पुरुषो न पश्यति / स बाल कामेष्वतिकामलोभी तथोपमान् जानथ सर्वधर्मान् // SRS_९.१५ //
SK
रूपान् यथा निर्मिणि मायकारो हस्तीरथानश्वरथान् विचित्रान् / (Vऐद्य ४७) न चात्र कश्चिद् रथ तत्र दृशते तथोपमान् जानथ सर्वधर्मान् // SRS_९.१६ //
SK
यथा कुमारी सुपिनान्तरस्मिन् सा पुत्र जातं च मृतं च पश्यति / जाते ऽतितुष्टा मृते दौर्मनःस्थिता तथोपमान् जानथ सर्वधर्मान् // SRS_९.१७ //
SK
यथा मृतां मातरमात्मजं वा स्वप्ने तु वै रोदिति उच्चशब्दम् / न तस्य माता म्रियते न पुत्रस्तथोपमान् जानथ सर्वधर्मान् // SRS_९.१८ //
SK
यथैव रात्रौ जल चन्द्र दृश्यते अच्छस्मि वारिस्मि अनाविलस्मि / अग्राह्य तुच्छो जल चन्द्रशून्य तथोपमान् जानथ सर्वधर्मान् // SRS_९.१९ //
SK
यथैव ग्रीष्माण मध्याह्नकाले तृषाभितप्तः पुरुषो व्रजेत / मरीचिकां पश्यति तोयराशिं तथोपमान् जानथ सर्वधर्मान् // SRS_९.२० //
SK
मरीचिकायामुदकं न विद्यते स मूढ सत्त्वः पिबितुं तदिच्छति / अभूतवारिं पिबितुं न शक्यते तथोपमान् जानथ सर्वधर्मान् // SRS_९.२१ //
SK
यथैव आर्द्रं कदलीय स्कन्धं सारार्थिकः पुरुषु विपाटयेत / बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् // SRS_९.२२ //
SK
न चक्षुं प्रमाणं न श्रोत्र घ्राणं न जिह्व प्रमाणं न कायचित्तम् / प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम् // SRS_९.२३ //
SK
(Vऐद्य ४८) यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्व / तस्माद् य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कार्यम् // SRS_९.२४ //
SK
पूर्वान्तु कायस्य अवेक्षमाणो नैवात्र कायो नपि कायसंज्ञा / न यत्र कायो नपि कायसंज्ञा असंस्कृतं गोत्रमिदं प्रवुच्यति // SRS_९.२५ //
SK
निवृत्ति धर्माण न अस्ति धर्मा येनेति नास्ति न ते जातु अस्ति / अस्तीति नास्तीति च कल्पनावतामेवं चरन्तान न दुःख शाम्यति // SRS_९.२६ //
SK
अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता / तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः // SRS_९.२७ //
SK
अस्तीति नास्तीति विवाद एष शुद्धी अशुद्धीति अयं विवादः / विवादप्राप्तान न दुःख शाम्यति अविवादप्राप्तान दुःखं निरुध्यते // SRS_९.२८ //
SK
स्मृतेरुपस्थानकथां कथित्वा मन्यन्ति बाला वय कायसाक्षी / न कायसाक्षिस्य च अस्ति मन्यना प्रहीण तस्यो पृथु सर्व मन्यना // SRS_९.२९ //
SK
चतुर्षु ध्यानेषु कथां कथित्वा वदन्ति बाला वयं ध्यानगोचराः / न क्लेशध्यायि न च अस्ति मन्यना विदित्व ज्ञानेन मदः प्रहीयते // SRS_९.३० //
SK
चतुर्षु सत्त्वेषु कथां कथित्वा वदन्ति बाला वय सत्यदर्शिनः / (Vऐद्य ४९) न सत्यदर्शिस्य च काचि मन्यना अमन्यना सत्य जिनेन देशिता // SRS_९.३१ //
SK
रक्षेत शीलं न च तेन मन्ये श्रुणेय्य धर्मं न च तेन मन्ये / यनैव सो मन्यति अल्पप्रज्ञो तन्मूलकं दुःख विवर्धते ऽस्य // SRS_९.३२ //
SK
दुःखस्य मूलं मदु संनिदर्शितं सर्वज्ञिना लोकविनायकेन / मदेन मत्तान दुःखं प्रवर्धते अमन्यमानान दुखं निरुध्यते // SRS_९.३३ //
SK
कियद्बहून् धर्म पर्यापुणेय्या शीलं न रक्षेत श्रुतेन मत्तः / न बाहुश्रुत्येन स शक्यु तायितुं दुःशील येन व्रजमान दुर्गतिम् // SRS_९.३४ //
SK
सचेत् पुनः शीलमदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम् / क्षयेत्व सो शीलफलमशेषं पुनो ऽपि स प्रत्यनुभोति दुःखम् // SRS_९.३५ //
SK
किंचापि भावेय्य समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम् / पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना // SRS_९.३६ //
SK
नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत / स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये // SRS_९.३७ //
SK
यथा नरश्चौरगणैरुपद्रुतः पलायितुमिच्छति जीवितार्थिकः / न तस्य पादाः प्रभवन्ति गच्छितुं गृहीत्व चौरेहि स तत्र हन्यते // SRS_९.३८ //
SK
(Vऐद्य ५०) एवं नरः शीलविहीन मूढः पलायितुमिच्छति संस्कृतातः / स शीलहीनो न प्रभोति गच्छितुं जराय व्याध्या मरणेन हन्यते // SRS_९.३९ //
SK
यथैव चौराण बहू सहस्रो नानामुखेहि प्रकरोति पापम् / एवं किलेशा विविधैर्मुखेभिर्यथैव चौरो हनि शुक्लपाक्षम् // SRS_९.४० //
SK
येन सुनिध्याप्तु निरात्मस्कन्धा आक्रुष्ठु परिभाष्टु न शङ्कु भोति / स क्लेशमारस्य वशं न गच्छते यः शून्यतां जानति सो न कुप्यते // SRS_९.४१ //
SK
बहू जनो भाषति स्कन्धशून्यतां न च प्रजानाति यथा निरात्मकाः / ते अप्रजानन्त परेहि चोदिताः क्रोधाभिभूताः परुषं वदन्ति // SRS_९.४२ //
SK
यथा नरो आतुरु कायदुःखितो बहूहि वर्षेहि न जातु मुच्यते / स दीर्घगैलान्यदुखेन पीडितः पर्येषते वैद्यु चिकित्सनार्थिकः // SRS_९.४३ //
SK
पुनः पुनस्तेन गवेषता च आसादितो वैद्य विदू विचक्षणः / कारुण्यतां तेन उपस्थपेत्वा प्रयुक्तु भैषज्यमिदं निषेव्यताम् // SRS_९.४४ //
SK
गृहीत्व भैषज्य पृथुं वरां वरां न सेवते आतुरु येन मुच्यते / न वैद्यदोषो न च भैषजानां तस्यैव दोषो भवि आतुरस्य // SRS_९.४५ //
SK
एवमिह शासनि प्रव्रजित्वा पर्यापुणित्वा बल ध्यान इन्द्रियान् / न भावनायामभियुक्त भोन्ति अयुक्तयोगीन कुतो ऽस्ति निर्वृतिः // SRS_९.४६ //
SK
(Vऐद्य ५१) स्वभावशून्याः सद सर्वधर्मा वस्तुं विभावेन्ति जिनान पुत्राः / सर्वेण सर्वं भव सर्वशून्यं प्रादेशिकी शून्यता तीर्थिकानाम् // SRS_९.४७ //
SK
न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति / ममान्तिके एन्ति प्रदुष्टचित्ता न बालधर्मेहि करोति संस्तवम् // SRS_९.४८ //
SK
न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् / कियच्चिरं बालु सुसेवितो ऽपि पुनो ऽपि ते भोन्ति अमित्रसंनिभाः // SRS_९.४९ //
SK
न विज्ञ बालेष्विह विश्वसन्ति विज्ञाय बालान स्वभावधर्मताम् / स्वभावभिन्न प्रकृतीय बाला न चास्ति मित्रं हि पृथग्जनानाम् // SRS_९.५० //
SK
सहधर्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च / प्राविष्करोन्ति इमि बालधर्मान् इममर्थु विज्ञाय न विश्वसन्ति // SRS_९.५१ //
SK
बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्यु सार्धम् / विज्ञाः पुनर्विज्ञजनेन सार्धं समेन्ति सर्पिर्यथ सर्पिमण्डैः // SRS_९.५२ //
SK
संसारदोषाण अप्रत्यवेक्षणात् कर्माण विपाकमनोतरन्तः / बुद्धान चो वाक्यमश्रद्दधानास्ते च्छेद्यभेद्यस्मि चरन्ति बालाः // SRS_९.५३ //
SK
सुदुर्लभं लभ्य मनुष्यलाभं न शिल्पस्थानेषु भवन्ति कोविदाः / (Vऐद्य ५२) दरिद्रभूतान धनं न विद्यते अजीवमानास्तद प्रव्रजन्ति // SRS_९.५४ //
SK
ते प्रव्रजित्वा इह बुद्धशासने अध्युषिता भोन्तिह पात्रचीवरे / ते पापमित्रेहि परिगृहीतास्तां नाचरन्ते सुगतान शिक्षाम् // SRS_९.५५ //
SK
ते आत्मनः शीलमपश्यमानाश्चित्तव्यवस्थां न लभन्ति बालाः / रात्रिंदिवं भोन्ति अयुक्तयोगा न ते जुगुप्सन्ति च पापकर्मतः // SRS_९.५६ //
SK
कायेन चित्तेन असंयतानां न किंचि वाचाय स जल्पितव्यम् / सदा गवेषन्ति परस्य दोषान् अपराद्धु किं केन वा चोदयिष्ये // SRS_९.५७ //
SK
आहारि अध्युषित भोन्ति बाला न चास्ति मात्रज्ञतु भोजनस्मिन् / बुद्धस्य पुण्येहि लभित्व भोजनं तस्यैव बाला अकृतज्ञ भोन्ति // SRS_९.५८ //
SK
ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः / तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः // SRS_९.५९ //
SK
किं चापि विद्वान् मतिमान् विचक्षणो भुञ्जीत आहारु शुचि प्रणीतम् / न चैव अध्युषित तत्र भोति अगृघ्नु सो भुञ्जति युक्तयोगी // SRS_९.६० //
SK
किं चापि विद्वान् मतिमान् विचक्षणो आभाषते बालु कुतो हि स्वागतम् / (Vऐद्य ५३) तथ संगृहीत्वा प्रियवद्यताय कारुण्यतां तत्र उपस्थपेति // SRS_९.६१ //
SK
यो भोति बालान हितानुकम्पी तस्यैव बाला व्यसनेन तुष्टाः / एतेन दोषेण जहित्व बालान् मृगोवदेको विहरेदरण्ये // SRS_९.६२ //
SK
इम ईदृशान् दोष विदित्व पण्डितो न जातु बालेहि करोति संगतिम् / विहीनप्रज्ञानुपसेवतो मे स्वर्गात्तु हानिः कुत बोधि लप्स्ये // SRS_९.६३ //
SK
मैत्रीविहारी च भवन्ति पण्डिताः करुणाविहारी मुदिताविहारी / उपेक्षकाः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशन्ति बोधिम् // SRS_९.६४ //
SK
ते बोधि बुद्धित्व शिवामशोकां विदित्व सत्त्वान् जनव्याधिपीडितान् / कारुण्यतां तत्र उपस्थपेत्वा कथां कथेन्ति परमार्थयुक्ताम् // SRS_९.६५ //
SK
ये तां विजानन्ति जिनान धर्मतामनाभिलप्यं सुगतान सत्यम् / ते धर्म श्रुत्वा इम एवरूपां लप्स्यन्ति क्षान्ति अरियां निरामिषाम् // SRS_९.६६ //
SK
इति श्रीसमाधिराजे गम्भीरधर्मक्षान्तिपरिवर्तो नाम नवमः
SK
(Vऐद्य ५४) १० Pउरप्रवेशपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार प्रतिपत्तिसारो भविष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् | तत् कस्य हेतोः? प्रतिपत्तिसारस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किं पुनरयं समाधिः | अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषिता चेयं भगवता बोधिसत्त्वानां महासत्त्वानामववादानुशासनी सर्वबोधिसत्त्वशिक्षा देशिता स्वाख्याता सुप्रज्ञप्ता | सर्वतथागतगोचरो ऽयं भगवन् यत्र अभूमिः सर्वश्रावकप्रत्येकबुद्धानां कः पुनर्वादो ऽन्यतीर्थिकानाम्? प्रतिपत्तिसाराश्च वयं भगवन् भविष्यामः अनपेक्षाः कायजीविते च भूत्वा तथागतस्यानु शिक्षिष्यामहे | तत् कस्य हेतोः? शिक्ःइतुकामाश्च वयं भगवंस्तथागतस्य, अभिसंबोद्धुकामा वयं भगवन्ननुत्तरां सम्यक्संबोधिम् | अर्थिका वयं भगवन् अनुत्तरायाः सम्यक्संबोधेः | विध्वंसयितुकामाश्च वयं भगवन् मारं पापीयांसम् | मोचयितुकामा वयं भगवन् सर्वसत्त्वान् सर्वभयेभ्यः सर्वदुःखेभ्यः | अधिवासयतु मे भगवान् श्वस्तने मम गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन सार्धं भिक्ःउसंघेन चानुकम्पामुपादाय | अधिवासयति स्म भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तूःणींभावेन श्वस्तने गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन भिक्ःउसंघेन चानुकम्पामुपादाय | अथ खलु चन्द्रप्रभः कुमारभूतो भगवतस्तूःणींभावेनाधिवासनं विदित्वा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्ःइणीकृत्य भगवतो ऽन्तिकात् प्राक्रामत् ||
SK
अथ खलु चन्दप्रभः कुमारभूतो येन राजगृहं महानगरं येन च स्वकं निवेशनं तेनोपसमक्रामत् | उपसंक्रम्य चन्द्रप्रभः स्वगृहं प्राविशत् | प्रविश्य च तामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं स्वादनीयमभिसंस्कारयति स्म | शतरसं च भोजनं संपाद्य तस्या एव रात्र्या अत्ययेन राजगृहं महानगरं सुसिक्तं सुसंमृष्टं मुक्तकुसुमाभिकीर्णं गन्धघटिकानिर्घूपितमुच्छ्रितच्छत्रध्वजपताकं (Vऐद्य ५५) धूपनधूपितं वितानविततमवसक्तपट्टदामकलापं सरथ्यान्तरापणमपगतपाषाणःअर्करकठल्लं विचित्रपुष्पाभिकीर्णं चन्दनचूर्णाभिकीर्णं गवाक्षतोरणनिर्यूहपञ्जरजालार्धचन्द्रसमलंकृतं चन्दनानुलिप्तमकार्षीत् | सर्वावन्तं नगरमुत्पलकुमुदपद्मपुण्डरीकाभ्यवकीर्णमकार्षीत् | स्वं च गृहं सर्वालंकारव्यूहितमकार्षीत् | अथ खलु चन्द्रप्रभः कुमारभूत इमानेवंरुपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहान् समलंकृत्य राजगृहान्महानगरान्निष्क्रम्य येन गृध्रकूटपर्वतो येन भगवांस्तेनोपसमक्रामत् | उपसंक्रम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् | एकान्ते स्थितः चन्द्रप्रभः कुमारभूतो भगवतः कालमारोचयामास - कालो भगवन्, कालः सुगत, सिद्धं भक्तं यस्येदानीं कालं मन्यसे | अथ खलु भगवान् उत्थायासनात् कल्यमेव निवास्य पात्रचीवरमादाय महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः परिवृतः पुरस्कृतो ऽनेकैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानो ऽभिष्टूयमानो महता बुद्धानुभावेन महता बुद्धप्रातिहार्येण महता बुद्धेर्यापथेन रश्मिकोटिनियुतशतसहस्रैर्निश्चरद्भिर्नानातूर्यशतसहस्रैः पुष्पगन्धमाल्यविलेपनचूर्णचीवरैः प्रवर्षद्भिर्येन राजगृहं महानगरं तेनोपसंक्रामति स्म | चन्द्रप्रभस्य कुमारभूतस्य निवेशने प्रक्षिप्तश्च भगवता दक्षिणश्चक्ररत्नसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले, अथ तावदेव तस्मिन् महानगरे अनेकानि आश्चर्याद्भुतानि प्रातिहार्याणि संदृश्यन्ते स्म | इयमत्र धर्मता | तत्रेदमुच्यते -
SK
पुरवर प्रविशन्ति नायकस्मिन् चरणवरु स्थपितश्च इन्द्रकीले / चलति वसुमती शिरीय तस्य प्रमुदित भोन्ति पुरोत्तमस्मि सत्त्वाः // SRS_१०.१ //
SK
ये नरः क्षुधिताः पिपासिता वा न भवति तेष जिघत्स तस्मि काले / अपगत भवती क्षुघा पिपासा यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.२ //
SK
तथ पुन नर ये भवन्ति अन्धाः श्रोत्रविहीन अनाथ अल्पपुण्याः / सर्वि प्रतिलभन्ति चक्षु श्रोत्रं यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.३ //
SK
यमविषये ये केचि भोन्ति प्रेताः सुदुःखित खेटसिंघाणकभोजनाशाः / सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.४ //
SK
(Vऐद्य ५६) शैलशिखरशृङ्गपर्वताश्च तथ वरपादपशालकर्णिकाराः / सर्वि अभिनमन्ति येन बुद्धो यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.५ //
SK
सनगरनिगमा ससागरान्ता प्रचलि वसुंधरि षड्विकार सर्वा / न भवति विहेठ कस्यपि चेह यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.६ //
SK
मरुमनुजकुम्भाण्डराक्षसाश्च नभःस्थित तुष्ट उदग्रचित्ताः / छत्र धरिय च लोकनायकस्य परमप्रीणित जनेत्व बोधिछन्दम् // SRS_१०.७ //
SK
श्रूयति च मनोज्ञ वाद्यशब्दस्तूर्यसहस्र अघट्टिता रणन्ति / प्रमुदितास्तद भोन्ति सर्वसत्त्वा यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.८ //
SK
वृक्षशतसहस्र ओनमन्ति सर्वि प्रपुष्पित भोन्ति तस्मि काले / देवशतसहस्र अन्तरीक्षे पूज करोन्ति अमानुषी जिनस्य // SRS_१०.९ //
SK
ऋषभगण तदा नदन्ति हृष्टा हयद्विरदाधिपती प्रवृद्धकायाः / मृगपतयो नदन्ति सिंहनादं यद जिनु निक्षिपतीन्द्रकीलि पादम् // SRS_१०.१० //
SK
महीपतय ये केचि भूमिपाला दिशिविदिशासु च आगता भवन्ति / धरणितलि पतन्ति हृष्टचित्ता दृष्टु जिनस्य शिरीमिममेवरूपाम् // SRS_१०.११ //
SK
अन्ये अभिष्टुवन्ति लोकनाथम् अपरि क्षिपन्ति जिनस्य पुष्पवृष्टिम् / (Vऐद्य ५७) अपरि दशनखाञ्जलिं करित्वा अहो जिनु कारुणिको भणन्ति वाचम् // SRS_१०.१२ //
SK
केचि वर क्षिपन्ति मुक्तहारान् बहुविध आभरणान् जनेत्व प्रीतिम् / चीवर रतनान् क्षिपन्ति अन्ये अतुलियु अग्रु जिनत्व बोधिचित्तम् // SRS_१०.१३ //
SK
केचि वर क्षिपन्ति हेमजालं अपरि पुनर्मुखफुल्लकं क्षिपन्ति / केचि वर क्षिपन्ति हेमनिष्कांस्तथ अपरे परिहारकान् क्षिपन्ति // SRS_१०.१४ //
SK
कटकवर क्षिपन्ति केचि तत्र अपरि केयूर क्षिपन्ति रत्नचित्रान् / अम्बर कुसुमान् क्षिपन्ति अन्ये चित्त जनेत्व ऽसियां वयं पि बुद्धाःऽ // SRS_१०.१५ //
SK
अपरि नरः क्षिपन्ति हेमचित्रांस्तथ मणिसूत्रवरान् प्रसन्नचित्ताः / केचि च रतनजालकं क्षिपन्ति द्वारि यदा स्थितु भोति लोकनाथः // SRS_१०.१६ //
SK
परमदुःखित ये भवन्ति सत्त्वा बहुविधुपद्रुवु शोकशल्य प्राप्ताः / सर्वि सुखसमर्पिता भवन्ति पुरुषवरस्य शिरीय नायकस्य // SRS_१०.१७ //
SK
परभृतशुकसारिकामयूरास्तथपि च सारसचाषहंसक्रौञ्चाः / सर्वि द्विजगणा नभे स्थिहित्वा परममनोज्ञरुतानि व्याहरन्ति // SRS_१०.१८ //
SK
प्रमुदित तद भोन्ति पक्षिसंघा मधुरमनोज्ञरुतं प्रमुञ्चमानाः / रागु तथ समेन्ति दोषमोहं ये च शृणन्ति मनोज्ञ पक्षिशब्दान् // SRS_१०.१९ //
SK
(Vऐद्य ५८) श्रुणिय रञ्जनीय सत्त्वकोट्यः सर्वि च लभन्ति क्षान्तिमानुलोमाम् / तांश्च सुगत व्याकरोति सर्वान् भविष्यथ यूय जिना अनागताश्च // SRS_१०.२० //
SK
न भवति किलेशु तस्मि काले सर्वि सगौरव भोन्ति धर्मराजे / अपगतभयदोषमोहजालाः प्रणिपतिताः सुगतमभिष्टुवन्तः // SRS_१०.२१ //
SK
पश्यिय तद रूप नायकस्य स्पृह जनयन्ति वरस्मि बुद्धज्ञाने / कद वय लभे ज्ञानमेवरूपम् आशयु ज्ञात्व जिनो ऽस्य व्याकरोति // SRS_१०.२२ //
SK
रश्मि शतसहस्र निश्चरन्ति एकैकतः सुगतस्य रोमकूपात् / तदुत्तरि यथ गङ्गवालिका वा न पि च निमित्तु गृहीतु शक्यु तासाम् // SRS_१०.२३ //
SK
सूर्यप्रभ न भान्तिं तस्मि काले न पि मणि नाग्नि न सर्वदेवतानाम् / सर्वि प्रभ न भान्ति तस्मि काले यद प्रविशन्त पुरं विभाति बुद्धः // SRS_१०.२४ //
SK
पद्मशतसहस्र प्रादुर्भूता धरणितु कोटिसहस्रपत्र शुद्धाः / यत्र दशबलः स्थपेति पादं मार्ग गतः सुगतो महागणेन // SRS_१०.२५ //
SK
अशुचि कलिमला न भोन्ति तस्मि काले नगरवरं प्रविशन्ति नायकस्मिन् / नगरु सुरभि सर्वि धूपनेन गन्ध मनोज्ञ प्रवायते समन्तात् // SRS_१०.२६ //
SK
वीथि नगरि तद भोति सर्वा अपगतलोष्टकठल्ल सिक्त गन्धैः / (Vऐद्य ५९) पुण्य दशलबस्य एवरूपा विविध विकीर्ण भवन्ति मुक्तपुष्पाः // SRS_१०.२७ //
SK
यक्ष शतसहस्र रौद्रचित्ताः कनकनिभं द्विपदेन्द्रु दृष्ट्व बुद्धम् / जनयि विपुलु नायकस्मि प्रेमं शरणमुपेति च बुद्धधर्मसंघान् // SRS_१०.२८ //
SK
ये च देवशतसहस्र कोटियो वा उपगत सर्वि नरेन्द्रदर्शनाय / वर्षति सुगतस्य पुष्पवर्षं गगनतले च स्थिहन्ति मुक्तपुष्पाः // SRS_१०.२९ //
SK
ये मनुज क्षिपी जिनस्य पुष्पं गगनतले भवतीति पुष्पछत्रम् / ये पुन कुसुमान् क्षिपन्ति देवा धरणितले स्तृत भोन्ति दिव्यपुष्पाः // SRS_१०.३० //
SK
न भवति कदाचि दृष्ट्व तृप्ती देवमनुष्यकुभाण्डराक्षसानाम् / यद दशबलु दृष्ट्व लोकनाथं प्रमुदित भोन्ति उदग्रकल्यचित्ताः // SRS_१०.३१ //
SK
न मनसि तद भोन्ति दिव्यपुष्पा न च पुन विस्मयु जायते च तत्र / यद पुरुषवरस्य कायु दृष्ट्वा तुष्ट भवन्ति उदग्र सर्वसत्त्वाः // SRS_१०.३२ //
SK
ब्रह्म दशबलस्य दक्षिणेनो तथ पुन वामतु शक्र देवराजा / गगनतलगता अनल्प देवकोट्यः पुरुषवरस्य जनेन्ति चित्रिकारम् // SRS_१०.३३ //
SK
परिवृत जिनु देवदानवेहि मरुमनुजान शिरिं ग्रसित्व सर्वाम् / धरणि क्रमतलेहि चित्रयन्तो प्रविशि पुरं भगवान्निमन्त्रणाय // SRS_१०.३४ //
SK
(Vऐद्य ६०) कुसुमित अनुव्यञ्जनेहि काये यथ गगनं परिपूर्ण तारकेहि / प्रतपति स्थितु राजमार्गि बुद्धश्चन्द्रो नभःस्थ यथैव पूर्णिमास्याम् // SRS_१०.३५ //
SK
मणिरतनु यथा विशुद्धु श्रेष्ठं व्यपगतदोषमलं प्रभासमानम् / दिशि विदिशि प्रमुञ्चि आभ शुद्धां तथ जिनु भासति सर्वलोकधातुम् // SRS_१०.३६ //
SK
परिवृतु जिनु देवदानवेहि प्रविशति राजगृहं नराण श्रेष्ठः / धरणि क्रमतलेहि चित्रयन्तो प्रविशति चन्द्रप्रभस्य गेहि बुद्धः // SRS_१०.३७ //
SK
पुरुवरु समलंकृतं समन्ताद् बहु ध्वज कोटिसहस्र उच्छितात्र / गन्धवरविलिप्त सर्वभूमी सुमनःप्रकीर्ण तथैव वार्षिकारम् // SRS_१०.३८ //
SK
यद सुगतु कथां कथेति नाथो वीथिगतो मनुजान् कृपायमानः / निर्मितु जिनु तत्र निर्मिणित्वा वितरति तेषु प्रणीत बुद्धधर्मान् // SRS_१०.३९ //
SK
दशनियुत जिनान निर्मितान कनकनिभा अभिरूप दर्शनीया / परिवृतु जिनु बुद्धु निर्मितेहि वितरति शून्यत शान्त बुद्धबोधिम् // SRS_१०.४० //
SK
प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधि चित्तु वराग्रबुद्धज्ञाने / कद वय लभि ज्ञानमेवरूपं आशयु ज्ञात्व जिनो ऽस्य व्याकरोति // SRS_१०.४१ //
SK
केचि स्पृह जनेन्ति तत्र काले परम अचिन्तिय लब्ध तेहि लाभाः / (Vऐद्य ६१) येहि जिनु निमन्त्रितो नरेन्द्रो न च पर्यन्त स तेषु दक्षिणायाः // SRS_१०.४२ //
SK
केचि पुनरुपपादयि सुचित्तं श्वो वय कारुणिकं निमन्त्रयामः / हितकरमनुकम्पकं प्रजानां यस्य सुदुर्लभु दर्शनं भवेषु // SRS_१०.४३ //
SK
केचि स्थित निर्यूहखोटके हि सुभगु विभूषितगात्र प्रेमणीयाः / दिव्य दशबलस्य मुक्तपुष्पाण्यवकिरते ऽग्रु जनित्व बोधिचित्तम् // SRS_१०.४४ //
SK
सुरुचिर वर चम्पकस्य मालां तथ अतिमुक्तक गन्धवर्षिकां च / अपरि पुन क्षिपन्ति पट्टदामान् परम निरुत्तरु चित्तु संजनित्वा // SRS_१०.४५ //
SK
केचि स्थित गृहे गृहीतपुष्पाः परमविभूषितकायु चीवरेहि / पुष्प विविधु गृहीत्व पट्टदामान् प्रवर्षि येन जिनो महानुभावः // SRS_१०.४६ //
SK
पदुमकुमुदोत्पलान् क्षिपन्ति केचि अपरि क्षिपन्ति विशिष्ट हेमपुष्पान् / मणिरतन क्षिपन्ति केचि तस्मिन् अपरि क्षिपन्ति च चूर्ण चन्दनस्य // SRS_१०.४७ //
SK
अपरिमित भवन्ति अच्छरीया अतुलिय ये न च शक्यु कीर्तनाय / पुरवरु प्रविशन्ति नायकस्मिन् बहुजनकोट्य स्थिहिंसु बुद्धज्ञाने // SRS_१०.४८ //
SK
अबृह अतपाश्च दृष्टसत्त्याः सुदृश सुदर्शन ये च अन्य देवाः / तथ पुनरकनिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय // SRS_१०.४९ //
SK
(Vऐद्य ६२) तथ शुभमरुताश्च अप्रमेया अपरिमित शुभा उदग्रचित्ताः / शुभकृत्स्न नियुताश्च अप्रमेया उपगत पश्यितु नायकं महर्षिम् // SRS_१०.५० //
SK
अपरिमितु तथाप्रमाणआभा तथ पुन देव परीत्त आभ ये च / बहु नियुत आभस्वराण तस्मिन् उपगत पश्यितु ते ऽपि लोकनाथम् // SRS_१०.५१ //
SK
बहव शतसहस्र पारिषद्यास्तथ पुन ब्रह्मपुरोहिताः प्रसन्नाः / बहुशत पुन ब्रह्मकायिकानां उपगत नायकदर्शनाय सर्वे // SRS_१०.५२ //
SK
तथ पुन परनिर्मितापि देवास्तथ निर्माणरतिश्च शुद्धसत्त्वाः / प्रमुदित तुषिताथ यामदेवा उपगत सर्वि नमस्यमान बुद्धम् // SRS_१०.५३ //
SK
त्रिदश अपु च शक्र देवराजा अप्सरकोटिशतैः सहागतो ऽत्र / कुसुमवर्ष संप्रवर्षमाणो उपगत बुद्धमुनीन्द्रदर्शनाय // SRS_१०.५४ //
SK
चतुरि चतुर्दिशासु लोकपाला वैश्रवणो धृतराष्ट्र नागराजा / विरूढकु विरूपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्र ते स्तुवन्ता // SRS_१०.५५ //
SK
ऐलविल बलवन्त यक्षराजा परिवृत यक्षशतेहि प्रेमजातः / गगनतलि स्थिहित्व हृष्टचित्तः क्षिपति अनेक विचित्र पुष्पवर्षम् // SRS_१०.५६ //
SK
अपरि पुनरनन्त मालधारी विविध विचित्र गृहीत्व माल्यगन्धान् / (Vऐद्य ६३) सर्वि सपरिवार हृष्टचित्ताः पुरुषवरस्य करोन्ति तत्र पूजाम् // SRS_१०.५७ //
SK
बहव शत करोटपाणि यक्षा अपि च सुभूषि तेष यक्षकन्याः / सुमधुर सुमनोज्ञ यक्षवाद्यैस्तूर्यशतेहि करोन्ति बुद्धपूजाम् // SRS_१०.५८ //
SK
ललितमधुरगीतवादितस्मिन् सुकुशलैः सह किन्नरीसहस्रैः / द्रुम उपगत गन्धमादनातो जिनवरु पूजितु किन्नराण राज्ञा // SRS_१०.५९ //
SK
शंबर बल वेमचित्र राहु दानवकन्य सहस्रपारिवाराः / असुरगण महर्द्धिकाश्च अन्ये उपगत ते रतनानि वर्षमाणाः // SRS_१०.६० //
SK
शतनियुत अनन्त राक्षसानां राक्षसकोटिशतैरुपास्यमानाः | पृथु विविध विचित्र मुक्तपुष्पान् पुरुषवरस्य क्षिपन्ति गौरवेण
SK
तथपि च अनवतप्तु नागराजा परमसुशिक्षिताश्च नागकन्याः / तूर्यशतसहस्र नादयन्त्यो उपगत पूजन तत्र लोकनाथम् // SRS_१०.६२ //
SK
पञ्चशत अनवतप्तु पुत्रा विपुलु अनुत्तरु ज्ञान प्रार्थयन्तः / स्वजनपरिवृता उदग्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभूम् // SRS_१०.६३ //
SK
तथपि च अपलालु नागराजा पुरुषवरस्य कृताञ्जलिः प्रणम्य / (Vऐद्य ६४) वर रुचिर गृहीत्व नागपुष्पान् स्थित गगने मुनिराज सत्करोन्तः // SRS_१०.६४ //
SK
तथपि च मुचिलिन्द नागराजा प्रीतमनाः परितुष्ट हर्षजातः / विविध रत्नमौक्तिकं गृहीत्वा उपगमि नायकु अभिकिरन्तु तत्र // SRS_१०.६५ //
SK
तथपि च कालिको ऽपि नागराजा उपगतु मुखु तथागतस्य हृष्टचित्तः / वर रूचिर गृहीत्व रत्नदामान् पुरुषवरस्य पूज करित्व श्रेष्ठाम् // SRS_१०.६६ //
SK
सो ऽपि परम गौरवं जनित्वा अनुस्मरमाणु गुणांस्तथागतस्य / स्वजनपरिवृतः सनागसंघो बहुविधु भाषति वर्ण नायकस्य // SRS_१०.६७ //
SK
नन्दु तथा उपनन्दु नागराजा तथ पुनस्तक्षक कृष्णगौतमौ च / उपगत जिनु ते नमस्यमानाः प्रणिपतिताः सुगतस्य पादयोर्हि // SRS_१०.६८ //
SK
उपगत एलपत्रु नागराजा परिवृत नागशतेहि रोचमानः / मुनिवर जिनु काश्यपं स्मरन्तो स्वक उपपत्ति अपश्यि अक्षणेषु // SRS_१०.६९ //
SK
अहो अहु पुरि आसि काङ्क्षप्राप्तो मयि पुरि च्छिन्नु परित्तमेलपत्रम् / सो अहु उपपन्नु अक्षणस्मिन् न सुकरु धर्म विजानितुं जिनस्य // SRS_१०.७० //
SK
क्षिप्र अहु जहित्व नागयोनिं परम जुगुप्सितमेतु जन्तुकायम् / (Vऐद्य ६५) धर्ममहु विजानि शान्तिभावं पुरुषवरेण य ज्ञातु बोधिमण्डे // SRS_१०.७१ //
SK
सागर अहिराजचक्रवर्ती परिवृतु नागत्रिकोटिसहस्रैः / वरुण मनस्वी गृहीत्व मुक्ताहारान् उपगतु ते भगवन्तु पूजनाय // SRS_१०.७२ //
SK
क्षिप्त शिल जिनस्य तत्र येनो गगनस्थितेन गृहीत्व तस्मि काले / राजगृहि स किम्पिलो ऽपि यक्षः पुरतः स्थितः सुगतस्य गौरवेण // SRS_१०.७३ //
SK
अलकवती समग्र राजधानी शून्य अभूषि न तत्र कश्चि यक्षः / सर्वि क्रिय करित्व अन्यमन्यं उपगत पश्यितु सर्वलोकनाथम् // SRS_१०.७४ //
SK
तथपि च खरकर्ण सूचिरोमा आटविकस्तथ यक्ष भेषकश्च / हैमवत शतगिरिश्च यक्ष उपगत गर्दभको जिनं स्वयंभूम् // SRS_१०.७५ //
SK
इन्द्रकेतु विकटश्च सुरूपो वक्कुलु पञ्चिकु शाक्य प्रवृद्धो / एते परे ऽपि च यक्षेन्द्र सहस्ता उपगत धूपघटं परिगृह्य // SRS_१०.७६ //
SK
विकृत बहु दुःसंस्थितात्मभावा विगलितआभरणा अनेकरूपाः / बहव शतसहस्र तस्मि काले उपगत तत्र गृहीत्व यक्ष पुष्पान् // SRS_१०.७७ //
SK
(Vऐद्य ६६) जलनिधि निवसन्ति ये सुपर्णा उपगत ब्राह्मणवेश निर्मिणित्वा / मुकुटधर विचित्र दर्शनीया गगनस्थिताः सुगतं नमस्यमानाः // SRS_१०.७८ //
SK
नगरशत ये केचि जम्बुद्वीपे वनविहरेषु य तत्र देवताश्च / सर्व नगरदेवताः समग्रा उपगत पूज करोन्त नायकस्य // SRS_१०.७९ //
SK
उपगत वनदेवता अनन्तास्तथपि च सर्वि य शैलदेवताश्च / तथपि च नदिदेवताः समग्रा उपगत पूज करोन्त नायकस्य // SRS_१०.८० //
SK
अटविमरुषु देवताशतानि गिरिशिखरेषु य देवता समग्राः / उत्ससरतडागदेवताश्च उपगत सागरदेवताश्च बुद्धम् // SRS_१०.८१ //
SK
देवअसुरनागयक्षसंघा गरुडमहोरगकिन्नराः कुम्भाण्डाः / तथपि च बहु प्रेतपूतनाश्चो पुरुषवरस्य करोन्ति चित्रिकारम् // SRS_१०.८२ //
SK
ते ऽपि च जिनवरे करित्व पूजां नगरवरं प्रविशन्ति नायकस्मिन् / देव असुरनागयक्षराजा | सततमतृप्त भवन्ति दर्शनेन // SRS_१०.८३ //
SK
यथ पुरिमभवेषु लोकनाथः पुरिमजिनेषु अकार्षि पूज श्रेष्ठाम् / पुण्यफलविपाक एवरूपो न च जनु तृप्तु नरेन्द्र पश्यमानः // SRS_१०.८४ //
SK
मेरु तथ सुमेरु चक्रवाला हिमगिरिस्तथ गन्धमादनश्च / (Vऐद्य ६७) आवरणा न ते जिनस्य भोन्ति आभ यदा जिनु मुञ्चि बुद्धक्षेत्रे // SRS_१०.८५ //
SK
ये च इह समुद्र बुद्धक्षेत्रे ते ऽपि महीय समास्तदा भवन्ति / सर्वमिमु समन्तु बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णम् // SRS_१०.८६ //
SK
रश्मि शतसहस्र अप्रमेया अवकिरि पादतलेहि धर्मराजा / सर्वि निरय शीतला भवन्ति धर्मदुःख उपनीत सुखं च वेदयन्ति // SRS_१०.८७ //
SK
धर्म दशबल संप्रभाषि तत्रो मरुमनुजान विशुद्ध भोति चक्षुः / प्राणि शतसहस्र अप्रमेया नियत भवन्ति च सर्वि बुद्धज्ञाने // SRS_१०.८८ //
SK
बहु इमि सुगतस्य प्रतिहार्या न सुकरु वक्तु च कल्पकोटियेभिः / पुरवर प्रविशन्ति नायकस्मिन् प्रमुदित सर्व जगज्जिनप्रवेशे // SRS_१०.८९ //
SK
इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुणाग्रपारगस्य / सर्वगुणविशेषपारगस्य शिरसि नमस्यथ बुद्धपुण्यक्षेत्रम् // SRS_१०.९० //
SK
इति श्रीसमाधिराजे पुरप्रवेशपरिवर्तो नाम दशमः ||
SK
(Vऐद्य ६८) ११ Sऊत्रधारणपरिवर्तः |
SK
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य निविशनरथ्यामवगाहमानश्चन्द्रप्रभस्य कुमारभूतस्य निवेशनं प्रविष्टो ऽभूत् | प्रविश्य च न्यषीदत् प्रज्ञप्त एवासने | यथार्हे चासने बोधिसत्त्वसंघो भिक्षुसंघश्च निषण्णो ऽभूत् | अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं बोधिसत्त्वसंघं भिक्षुसंघं च निषण्णं विदित्वा स्वयमेव शतरसेन भोजनेन प्रणीतेन प्रभूतेन खादनीयेन भोजनीयेन लेह्येन चोष्येण पेयेन भगवन्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तमपनीतधौतपाणिं विदित्वा दिव्येन नवनवतिकोटीशतसहस्रमूल्येन दूष्ययुगेन भगवन्तमभिच्छादयामास | तेषां च बोधिसत्त्वानां भिक्षुसंघस्य च प्रत्येकं प्रत्येकं त्रिचीवरमदातू ||
SK
अथ खलु चन्द्रप्रभः कुमारभूत एकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसाभिवन्द्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति स्म -
SK
कथं चरन्तो विदु बोधिसत्त्वः स्वभावु धर्माण सदा प्रजानते / कथं क्रियामाचरते विचक्षणः क्रियामाचरते भोतारु वदाहि नायक // SRS_११.१ //
SK
कथं च जातिस्मरु भोति नायक न चापि गर्भे उपपद्यते कथम् / कथं परीवारु भवेदभेद्य प्रतिभानु भोतीह कथमनन्तकम् // SRS_११.२ //
SK
सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ति ज्ञानु वर्तते / अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं मम व्याकरोहि // SRS_११.३ //
SK
स्वभाव धर्माणमभावु जानसे अनाभिलप्यां गिर संप्रभाषसे / सिंहेन वा धर्षित सर्व क्रोष्टका स्तथैव बुद्धेनिह अन्यतीर्थिकाः // SRS_११.४ //
SK
(Vऐद्य ६९) सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ज्ञानानुवर्तते / असङ्गज्ञानी परिशुद्धगोचरा तं व्याकरोहि मम धर्मस्वामी // SRS_११.५ //
SK
अतीतु जानासि तथा अनागतं यच्च इहा वर्तति प्रत्युत्पन्नम् / त्रियध्वज्ञानं ति असङ्गु वर्तते तेनाहु पृच्छामिह शाक्यसिंहम् // SRS_११.६ //
SK
त्रियध्वयुक्तान जिनान धर्मता त्वं धर्मतां जानसि धर्मराज / धर्मस्वभावकुशलः स्वयंभूस्तेनाहु पृच्छामिह ज्ञानसागरम् // SRS_११.७ //
SK
यत् किंचि धर्मं स्खलितं न ते ऽस्ति ततो ति चित्तं निखिलं प्रहीणम् / प्रहीण ग्रन्था खिलमोहसादका देशेहि मे बोधिचरिं नरेन्द्र // SRS_११.८ //
SK
यल्लक्षणा धर्म जिनेन बुद्धास्तल्लक्षणं धर्म मम प्रकाशय / यल्लक्षणं धर्ममहं विदित्वा तल्लक्षणं बोधि चरिष्यि चारिकाम् // SRS_११.९ //
SK
विलक्षणां सत्त्वचरीमनन्तां कथं चरन्तश्चरिमोतरन्ति / चरीप्रवेशं मम देशय स्वयं श्रुत्वा च सत्त्वान चरिं प्रजानियाम् // SRS_११.१० //
SK
विलक्षणं धर्मस्वभावलक्षणं स्वभावशून्यं प्रकृतीविविक्तम् / प्रत्यक्ष भोन्ति कथ बोधिसत्त्वः प्रकाशयस्व मम बुद्धनेत्रीम् // SRS_११.११ //
SK
सर्वेषु धर्मेष्विह पारमिंगताः सर्वेषु निर्देशपदेषु शिक्षिताः / (Vऐद्य ७०) निःसंशयी संशयकाङ्क्षक्षछेदके प्रकाशयाही मम बुद्धबोधिम् // SRS_११.१२ //
SK
अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य चेतसैव चेतःपरिवितर्कमाज्ञाथ चन्द्रप्रभं कुमारभूतमामन्त्रयते स्मएकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्वः एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते | कतमेनैकेन धर्मेण इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं यथाभूतं प्रजानाति?कथं च कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं जानाति? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माननामकान् नामापगतान् प्रजानाति | घोषापगतान् वाक्पथापगतान् अक्षरापगतान् उत्पादापगतान् निरोधापगतान् हेतुविलक्षणान् प्रत्ययविलक्षणान् विपाकलक्षणानारम्भणलक्षणान् विवेकलक्षणान् एकलक्षणान् यदुतालक्षणान् निमित्तापगतान् अचिन्त्यांश्चिन्तापगतान् मनोपगतान् सर्वधर्मान् यथाभूतं प्रजानाति | अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
एकु निर्देश धर्माणां सर्वधर्मा अलक्षणाः / देशिता वरप्रज्ञेन यथाभूतं प्रजानता // SRS_११.१३ //
SK
य एवं धर्मनिर्देशं बोधिसत्त्वः प्रजानति / न तस्य भोति विष्ठानं सूत्रकोट्या प्रभाषतः // SRS_११.१४ //
SK
अधिष्ठितो नायको हि भूतकोटीं प्रजानति / प्रजानाति च तां कोटीं न चात्रो किंचि भाषितम् // SRS_११.१५ //
SK
एकेन सर्वं जानाति सर्वमेकन पश्यति / कियद् बहुं पु भाषित्वा न तस्योत्पद्यते महः // SRS_११.१६ //
SK
तथास्य चित्तं निध्याप्तं सर्वधर्मा अनामकाः / शिक्षितो नामनिर्देशे भूतां वाचं प्रभाषते // SRS_११.१७ //
SK
शृणोति घोषं यं कंचित् पूर्वान्तं तस्य जानति / ज्ञात्वा घोषस्य पूर्वान्तं घोषेण ह्रियते न सः // SRS_११.१८ //
SK
यथा घोषस्य पूर्वान्तं एवं धर्माण लक्षणम् / एवं धर्मान् प्रजानन्तो न गर्भेषूपपद्यते // SRS_११.१९ //
SK
अजातिः सर्वधर्माणामनुत्पत्तिं प्रजानति / प्रजानन् जातिनिर्देशं भवेज्जातिस्मरः सदा // SRS_११.२० //
SK
यदा जातिस्मरो भोति तदा च चरते क्रियाम् / क्रियामोतरमाणस्य परिवारो न भिद्यते // SRS_११.२१ //
SK
(Vऐद्य ७१) यं एवं शून्यकान् धर्मान् बोधिसत्त्वः प्रजानति / न तस्य किंचिदज्ञातमेषा कोटिरकिंचना // SRS_११.२२ //
SK
अकिंचनायां कोट्यां हि किंचिद् बालैर्विकल्पितम् / येन ते कल्पकोटीयः संसरन्ति पुनः पुनः // SRS_११.२३ //
SK
सचेत्ते कल्प जानीयुर्यथा जानति नायकः / न तेषां दुःखु जायेत नापि गच्छेयु दुर्गतिम् // SRS_११.२४ //
SK
एवं पृथग्जनाः सर्वे अजानन्त इमं नयम् / क्षिपन्ति ईदृशान् धर्मान् यत्र दुःखं निरुध्यते // SRS_११.२५ //
SK
अलब्धिः सर्वधर्माणां धर्मसंज्ञा प्रवर्तते / सा एवंजातिका संज्ञा संज्ञामेव विजानथ // SRS_११.२६ //
SK
विजानना च संज्ञा च बालैरेतद्विकल्पितम् / प्रकल्पितेषु धर्मेषु नात्र मुह्यन्ति पण्डिताः // SRS_११.२७ //
SK
पण्डितानामियं भूमिर्बालानां नात्र गोचरः / गोचरो बुद्धपुत्राणां शून्या धर्मा अनाविलाः // SRS_११.२८ //
SK
बोधिसत्त्वानामियं भूमिर्बुद्धपुत्रचरी इयम् / बुद्धधर्माणलंकारो देशिता शान्त शून्यता // SRS_११.२९ //
SK
यदा च बोधिसत्त्वानां प्रहीणा भोति वासना / न ते ह्रियन्ति रूपेहि बुद्धगोत्रस्मि ते स्थिताः // SRS_११.३० //
SK
अस्थान सर्वधर्माणां स्थानमेषां न विद्यते / य एवं स्थान जानाति बोधिस्तस्य न दुर्लभा // SRS_११.३१ //
SK
दानं शीलं श्रुतं क्षान्तिं सेवित्वा मित्र भद्रकान् / इमां क्रियां विजानन्तः क्षिप्रं बोधिं स बुध्यते // SRS_११.३२ //
SK
देवाथ नागाः सद सत्करोन्ति गन्धर्व यक्षा असुरा महोरगाः / सर्वे च राजान सुपर्णि किन्नरा निशाचराश्चास्य करोन्ति पूजाम् // SRS_११.३३ //
SK
यशो ऽस्य भाषन्ति च बुद्धकोटियो बहुकल्पकोट्यो ऽपि अधिष्ठिहन्तः / (Vऐद्य ७२) धर्म प्रकाशन्तिय भोति वर्णो न शक्यु पर्यन्तु क्षपेतु तस्य // SRS_११.३४ //
SK
यः शून्यतां जानति बोधिसत्त्वः करोति सो ऽर्थं बहुप्राणिकोटिनाम् / देशेति धर्मं पर्यायसूत्रतो श्रुत्वास्य प्रेम जनयन्ति गौरवम् // SRS_११.३५ //
SK
ज्ञानं च तेषां विपुलं प्रवर्तते येनेति पश्यन्ति नरोत्तमान् जिनान् / क्षेत्रे च पश्यन्ति वियूह शोभनं धर्मं च देशेन्ति ते लोकनाथाः // SRS_११.३६ //
SK
मायोपमान् जानथ सर्वधर्मान् यथान्तरीक्षं प्रकृतीय शून्यम् / प्रकृतिं पि सो जानति तेष तादृशीमेवं चरन्तो न कहिंचि सज्जति // SRS_११.३७ //
SK
ज्ञानेनासङ्गेन करोति सो ऽर्थं लोके चरन्तो वरबोधिचारिकाम् / ज्ञानेन ते वीक्षिय सर्वधर्मान् प्रेषेन्ति ते निर्मित अन्यक्षेत्रान् // SRS_११.३८ //
SK
ते बुद्धकृत्यं करियाण निर्मिता प्रकृतीय गच्छन्ति यथैव धर्मताम् / यथाभिप्रायं च लभन्ति ते ऽर्थं ये बोधिचित्तस्मि नराः प्रतिष्ठिताः // SRS_११.३९ //
SK
स भोति बुद्धान् सदा कृतज्ञो यो बुद्धवंशस्य स्थितीय युज्यते / विरोचमानेन समुच्छ्रयेण द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः // SRS_११.४० //
SK
अन्याननन्तान् बहु आनुशंसान् श्रेष्ठं समाधौ चरमाणु लप्स्यते / महाबलो भोति सदा अकम्पियो राजान् तस्यो न सहन्ति तेजः // SRS_११.४१ //
SK
(Vऐद्य ७३) प्रासादिको भोति महाभिषट्कः पुण्येन तेजेन शिरीय चोद्गतः / देवापि नो तस्य सहन्ति तेजो यो बुद्धधर्मेषु चरेय पण्डितः // SRS_११.४२ //
SK
मित्रं स भोति सद सर्वप्राणिनां यो बोधिचित्तस्मि दृढं प्रतिष्ठितः / न चान्धकारो ऽस्य कदाचि भोति प्रकाशयन्तस्मि स बुद्धबोधिम् // SRS_११.४३ //
SK
अपगतगिरवाक्पथा अनभिलप्या यथ गगनं तथ ताः स्वभावधर्माः / इम गति परमां विजानमानो तथ तु भवति प्रतिभानु अक्षयं से // SRS_११.४४ //
SK
सूत्रशतसहस्र भाषमाणः सूक्ष्म प्रजानति पूर्विकां स कोटिम् / सद विदु भवती असङ्गवाक्यः सुसुखुम धर्मस्वभावु जानमानः // SRS_११.४५ //
SK
नयशतकुशलश्च नित्यु भोति बहुविधघोषनिरुक्तिकोविदश्च / कर्मफलविभक्ति निश्चिताश्चो भोन्ति विशिष्ट विशेष एवरूपाः // SRS_११.४६ //
SK
अविकलवेशधारी भोति दशबलआत्मज पण्डितो महात्मा / सद स्भृति परिशुद्ध तस्य भोति सुसुखुम धर्मस्वभावु जानमानः // SRS_११.४७ //
SK
न श्रुणति अमनोज्ञ शब्द जातु श्रुणति प्रणीत मनापु नित्य शब्दान् / सद भवति मनोज्ञ तस्य वाचा सुसुखुम धर्मस्वभावु जानमानः // SRS_११.४८ //
SK
स्मृतिमतिगतिप्रज्ञवन्तु भोति तथपि च चित्तमनाविलं प्रसन्नम् / (Vऐद्य ७४) सूत्रशतसहस्रु भाषते अनेकान् सुसुखुम धर्मस्वभावु जानमानः // SRS_११.४९ //
SK
अक्षरपदप्रभेदकोविदश्चो रुत बहु जानति नैक अन्यमन्ये / अर्थकुशल भोति व्यञ्जनो च इम गुण धर्मस्वभावु जानमानः // SRS_११.५० //
SK
देवमनुजनागराक्षसानाम् असुरमहोरगकिन्नराण नित्यम् / तेष सद प्रिय मनाप भोति सुसुखुम धर्मस्वभावु जानमानः // SRS_११.५१ //
SK
भूतगणपिशाचराक्षसाश्चो परमसुदारुण ये च मांसभक्षाः / ते ऽस्य भयु न जातु संजनेन्ति सुसुखुम धर्मस्वभावु जानमानः // SRS_११.५२ //
SK
विपुल कथं श्रुणित्व पण्डितानां विपुल प्रजायति रोमहर्ष तेषाम् / विपुल तद जनेन्ति बुद्धप्रेमं विपुल अचिन्तियु तेषु भोति अर्थः // SRS_११.५३ //
SK
पुण्यबल न शक्यु तेष वक्तुं बहुमपि कल्पसहस्र भाषमाणैः / अपरिमित अनन्त अप्रमेय इमु सुगतान धरेत्व धर्मगञ्जम् // SRS_११.५४ //
SK
सर्व जिन अतीत पूजितास्ते अपरिमिता य अनागताश्च बुद्धाः / दशसु दिशासु ये स्थिताश्च बुद्धा इम वर शान्त समाधि धारयित्वा // SRS_११.५५ //
SK
यथ नरु इह कश्चि पुण्यकामो दशबल कारुणिकानुपस्थिहेय्या / अपरिमित अनन्त कल्पकोटीरपरिमितं च जनेतु प्रेम तेषु // SRS_११.५६ //
SK
(Vऐद्य ७५) द्वितीय नरु भवेत पुण्यकामो इतु परमार्थनयात्तु गाथमेकाम् / धरिय चरिमकालि वर्तमाने परिमकु पुण्यकला न भोति तस्य // SRS_११.५७ //
SK
परम इयं विशिष्ट बुद्धपूजा चरिमकि दारुणि कालि वर्तमाने / चतुपदमित गाथमेकु श्रुत्वा धारयि पूजित तेन सर्वबुद्धाः // SRS_११.५८ //
SK
परम सद सुलब्ध तेहि लाभा परम सुभुक्तु सदा व राष्ट्रपिण्डम् / परम दशबलस्य ज्येष्ठपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम् // SRS_११.५९ //
SK
अहमपि इह दृष्ट गृघ्रकूटे तथ मय व्याकृत ते ऽपि बुद्धज्ञाने / अपि च मय परीतु मैत्रक स्यां पुनरपि व्याकरणाय तस्मि काले // SRS_११.६० //
SK
तथ पुनरमितायु तेष तत्रो भाषते बुद्ध अनेक आनुशंसाम् / सर्वि इमि सुखावतीं प्रविष्टो अभिरति गत्व अक्षोभ्य पश्यि बुद्धम् // SRS_११.६१ //
SK
कल्पशतसहस्र अप्रमेया न च विनिपातभयं कदाचि भोति / इमु वरु चरमाणु बोधिचर्यामनुभवति स हि नित्य सौमनस्यम् // SRS_११.६२ //
SK
तस्य इमु विशिष्ट एवरूपा य इमु प्रकाशित श्रेष्ठ आनुशंसाम् / प्रतिपदमनुशिक्षमाण मह्यं पश्चिमि कालि धरेयु एत सूत्रम् // SRS_११.६३ //
SK
इति श्रीसमाधिराजे सूत्रधारणपरिवर्तो नामैकादशः
SK
(Vऐद्य ७६) १२ Sअमाध्यनुशिक्षणापरिवर्तः |
SK
तत्र कुमार यो बोधिसत्त्वो महासत्त्वः सर्वधमाणां स्वभावं प्रजानाति, तस्येमे एवंरूपा गुणानुशंसा भवन्ति - स तथागतानां भूतं गुणवर्णं भाषते | न च तथागतान् व्याख्याति असता अभूतेन | तत् कस्य हेतोः? यया धर्मतया तथागतः प्रभाव्यते, तां धर्मतां यथाभूतं प्रजानाति | अनन्तात् बुद्धगुणान् प्रजानाति | तत् कस्य हेतोः? अनन्ता हि कुमार बुद्धगुणा अचिन्त्याश्चिन्तापगताः | तेनाशक्यं चिन्तयितुं वा प्रमातुं वा | तत् कस्य हेतोः? चित्तं हि कुमार निःस्वभावमरूप्यनिदर्शनम् | इति हि कुमार यत्स्वभावं चित्तं तत्स्वभावा बुद्धगुणाः, यत्स्वभावा बुद्धगुणास्तत्स्वभावास्तथागताः, तत्स्वभावाः सर्वधर्माः | यः कुमार बोधिसत्त्वो महासत्त्व एवं सर्वगुणस्वभावनिर्देशं यथाभूतं प्रजानाति, अयं कुमार उच्यते बोधिसत्त्वो महासत्त्वो निध्याप्तिमानसः | निःसरणकुशलः | त्रैधातुकनिःसरणं यथाभूतं प्रजानाति | यथावदर्शी अवितथवादी अनन्यथाभाषी, यथावादी तथाकारी, अनभिनिविष्टस्त्रैधातुके त्रैधातुकसमतिक्रान्तः | समतिक्रान्तः कामभूमिं रूपभूमिं आरूप्यभूमिं क्लेशभूमिं नामभूमिं घोषभूमिम् | अक्षरपदनयकुशलः | अक्षरविभावितज्ञानः | अनभिलप्यधर्मकोविदः | अक्षरज्ञः | अक्षरकुशलः | अक्षरपदप्रभेदज्ञानकुशलः | अक्षरपदप्रभेदविस्तारज्ञानकुशलः | सर्वधर्मपदप्रभेदकुशलः | सर्वधर्मपदप्रभेदविस्तारकुशलः | सर्वधर्मव्यवस्थानज्ञानकुशलः | निश्चितया बुद्ध्या समन्वागतो ऽनभिभूतः सर्वमारैः पापीयोभिर्मारकायिकाभिश्च देवताभिः ||
SK
अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे अष्टानवतेर्नियुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृतायाः कोटीशतसहस्रावर्ताया धारण्या अनावरणायाश्च धर्मविपश्यनायाः क्षान्तेः प्रतिलम्भो ऽभूत् | ते च सर्वे भगवता व्याकृउता अष्टाचत्वारिंशता कल्पैरसंख्येयशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते | सर्वे च अन्यान्यनामान एकायुष्प्रमाणा अन्यान्येषु बुद्धक्षेत्रेषु अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते | तत्रेदमुच्यते -
SK
यो बोधिसत्त्व मतिमान् प्राप्नोति अनुत्तरां वरां बोधिम् / अर्थे च धर्मि कुशलो चरति स धर्मस्वभावस्मि // SRS_१२.१ //
SK
नाभूत् भणति वाचं बुद्धानां यादृशा गुणविशेषाः / स हि धर्मु तं जिनानां जानति शूरो विगतकङ्क्षाः // SRS_१२.२ //
SK
एकार्थ सर्वधर्मान् प्रजानति च शून्यतां स एकांशम् / नानार्थु नास्ति तेषां एकार्थे शिक्षितो भवति // SRS_१२.३ //
SK
(Vऐद्य ७७) निष्कल्पानविकल्पान् अनोपलम्भांश्च जानाति मतिमान् / क्षति अक्षये ऽस्य संज्ञा प्रहीण सर्वा निरवशेषा // SRS_१२.४ //
SK
न हि रूपतो दशबलान् पश्यति सो धर्मकाय नरसिंहान् / नापि लक्षणेहि तस्य प्रहीण सर्वे विपर्यासाः // SRS_१२.५ //
SK
धर्मा अचिन्त्य एते चिन्तापगता स्वभाव उपशान्ताः / एवं प्रजानमानः पश्यति बुद्धान् द्विपदश्रेष्ठान् // SRS_१२.६ //
SK
यथ ज्ञात्वात्मसंज्ञास्तथैव सर्वत्र प्रेषिता बुद्धिः / सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः // SRS_१२.७ //
SK
न हि जात मानसे ऽस्य निःसरणं ज्ञात्व सर्वधर्माणाम् / त्रैधातुके विमुक्तिप्रणिधानु न विद्यते तस्य // SRS_१२.८ //
SK
यथावदर्शि भोति अवितथवचनो ऽनन्यथाभाषी / सर्वं च तस्य वचनं निश्चरति जिनानुभावेन // SRS_१२.९ //
SK
अतिक्रान्तु कामभूमिं किलेशभूमिं च रूप आरूप्यान् / धर्मेष्वसक्तमनसः प्रमुदित चरते जगहिताय // SRS_१२.१० //
SK
अतिक्रान्तु नामभूमिं घोषो ज्ञान स्वभावेन चयिकः / यावच्चिरं पि भणतो न विद्यते निश्रयस्तस्य // SRS_१२.११ //
SK
संज्ञाप्रचारु नास्ति दृष्टिविपर्यासु सर्वशः क्षीणः / सुनिश्चिता बुद्धिश्च ते गगनोपमधीराः // SRS_१२.१२ //
SK
विहार कोटीनियुता भवेयु विक्षेपणार्थ चित्तस्य / अभिभवति सर्वमारान् न चापि तेषां वशमुपैति // SRS_१२.१३ //
SK
सर्वि जह्यु मारजालं परिशुद्धः शीलवानपरिदाहः / ध्यानसुखस्मि निरतः प्रजानति च शून्यकं लोकम् // SRS_१२.१४ //
SK
लोकाश्च स्कन्ध उक्तास्तांश्चापि स शून्यकान् प्रजानति / अनुत्पादाननिरोधान् सर्वान् गगनोपमान् धर्मान् // SRS_१२.१५ //
SK
आत्मानं स त्यजते न चैव शिक्षां श्रुतां दशबलस्य / सो शीलपारमिं गत उपपद्यति यत्र प्रणिधेति // SRS_१२.१६ //
SK
विचरन्तु बुद्धक्षेत्रान् पश्यति बुद्धकोटीनियुतानि / न स्वर्गं प्रार्थयते न चापि प्रणिधानतो मुक्तः // SRS_१२.१७ //
SK
(Vऐद्य ७८) न भ्रंशयति स वीर्यं मुहूर्तमात्रमपि धर्म चरमाणः / प्रशंसितश्च भोति बुद्धभिर्दशदिशे लोके // SRS_१२.१८ //
SK
तस्मात्तर्हि कुमार श्रुत्वा धर्मानिमान् समाधिस्मिन् / जहियान ज्ञात्रलाभं प्रकाशय महाजने धर्मम् // SRS_१२.१९ //
SK
य इच्छति स्वयंभूर्भवेय बुद्धो महागुणसमङ्गी / इह शिक्षित्वा कुशलो दशबलधारी भवति बुद्धः // SRS_१२.२० //
SK
इति श्रीसमाधिराजे समाध्यनुशिक्षणापरिवर्तो नाम द्वादशः
SK
(Vऐद्य ७९) १३ Sअमाधिनिर्देशपरिवर्तः |
SK
तत्र खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिनिर्देशकुशलेन भवितव्यम् | तत्र कुमार कतमः समाधिनिर्देशः?या यथावत्तता सर्वधर्माणां समता अविषमता | अकल्पना अविकल्पना | अविठपना असमुत्थापना | अनुत्पादः अनिरोधः | कल्पविकल्पपरिकल्पसमुच्छेदः | चित्तानालम्बनता | अमनसिकारः | प्रज्ञप्तिसमुच्छेदः | वितर्कविकल्पसमुच्छेदः | रागद्वेषमोहसमुच्छेदः | नान्तानन्तमनसिकारः | मनसिकारसमुच्छेदः | स्कन्धधात्वायतनस्वभावज्ञानम् | स्मृतिमतिगतिह्रीधृतिचारित्राचारगोचरप्रतिपत्तिस्थानम् | अरणाभूमिः | शान्तभूमिः | सर्वप्रपञ्चसमुच्छेदः | सर्वबोधिसत्त्वशिक्षा | सर्वतथागतगोचरः | सर्वगुणपरिनिष्पत्तिः | अयमुच्यते कुमार समाधिनिर्देशः | यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति समाधिना, अभ्रान्तचित्तश्च भवति, महाकरुणासमन्वागतो ऽप्रमेयाणां च सत्त्वानमर्थं करोति ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
समाध्यविषमा भूमिः शान्ता सूक्ष्मा सुदुर्दृशा / सर्वसंज्ञासमुद्धातः समाधिस्तेन चोच्यते // SRS_१३.१ //
SK
अकल्पश्चाविकल्पश्चाग्राह्यत्वमनिदर्शनम् / अनुपलब्धिश्चित्तस्य समाधिस्तेन चोच्यते // SRS_१३.२ //
SK
समाहितो यदा भोति सर्वधर्मा न मन्यते / अमन्यना यथाभूतं समाधिरिति शब्दितः // SRS_१३.३ //
SK
न धर्मे ऽस्ति रजोमात्र रजश्चापि न विद्यते / अनुपलब्धिर्धर्माणां समाधिस्तेन चोच्यते // SRS_१३.४ //
SK
चित्तस्यानुपलब्धिश्च विकल्पो ह्येष चोच्यते / अविकल्पिताश्च ते धर्मा समाधिरेष जानथः // SRS_१३.५ //
SK
शब्देन सूचितो ह्यर्थः स च शब्दो अवस्तुकः / प्रतिश्रुत्कोपमः शब्दो अन्तरीक्षं यथा नभः // SRS_१३.६ //
SK
अस्थिता हि इमे धर्माः स्थितिरेषां न विद्यते / अस्थितिः स्थितिशब्देन स्वभावेन न लभ्यते // SRS_१३.७ //
SK
च्यवते अगतीत्येवं गतिश्चासौ न विद्यते / अगतिर्गतिशब्देन समाधिर्नदितस्तथा // SRS_१३.८ //
SK
(Vऐद्य ८०) असमाहितो वुच्यति एष मन्यना समाहितो एष द्वितीय मन्यना / अमन्यमाना विचरन्ति बोधये अमन्यमाना स्पृशि बोधिमुत्तमाम् // SRS_१३.९ //
SK
समविषम एष शान्तभूमिः शमथविपश्यनानिमित्त एषा / सेविय इमु शान्त बुद्धबोधिं स इह प्रयुक्त समाधिभावनायाम् // SRS_१३.१० //
SK
न च पुनरियमक्षरेहि शक्यं प्रविशितु अर्थगति प्रवेशे / सर्वरुत जहित्व भाष्यघोषं भवति समाहित नो च मन्यनास्य // SRS_१३.११ //
SK
यश्च इह समाधि बोधिसत्त्वो यथ- उपदिष्टु तथा स्थिहेत युक्तः / सचेदिह भवि कल्पदाहु क्षेत्रे गिरिवरमध्यगतं न तं दहे ऽग्निः // SRS_१३.१२ //
SK
यथ गगनु न जातु दग्धपूर्वं सुबहुकल्पशतेहि दह्यमानम् / गगनसमा अधिजानमान धर्मांस्ते न जातु दह्यति सो ऽग्निमध्ये // SRS_१३.१३ //
SK
सचि पुन ज्वलमान बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा / ज्वलनु अयु प्रशाम्यतामशेषं पृथिवी विनश्यि न चास्य अन्यथात्वम् // SRS_१३.१४ //
SK
ऋद्धिबलु अनन्तु तस्य भोति खगपथि गच्छति सो असज्जमानः / इमि गुण अनुभोति बोधिसत्त्वो यथ-अनुशिष्टु समाधिये स्थिहित्वा // SRS_१३.१५ //
SK
जायते च्यवते वापि न च जाति न च्युतिः / यस्य विजानना एषा समाध्यस्य न दुर्लभा // SRS_१३.१६ //
SK
(Vऐद्य ८१) न च्युतिर्नापि चो जाति लोकनाथेन देशिता / लोकनाथं विदित्वैवं समाधिं तेन जानथ // SRS_१३.१७ //
SK
अनोपलिप्ता लोकेन लोकधर्मे न सज्जति / असज्जमानः कायेन बुद्धक्षेत्राणि गच्छति // SRS_१३.१८ //
SK
क्षेत्रेषु पश्यते नित्यं संबुद्धान् लोकनायकान् / धर्मं च शृणुते तत्र बुद्धक्षेत्रेषु भाषितम् // SRS_१३.१९ //
SK
न जातु तस्य अज्ञानं धर्मधातुं च भाषते / गतिज्ञः सततो धर्मे धर्मधातुमयो हि सः // SRS_१३.२० //
SK
भाषतः कल्पकोट्यो ऽपि प्रतिभानं न हीयते / निर्मिणोति बहूनन्यान् बोधिसत्त्वान् विचक्षणः // SRS_१३.२१ //
SK
क्षेत्रातः क्षेत्र गच्छन्ति बोधिसत्त्वान निर्मिताः / सहस्रपत्रपद्मेषु पर्यङ्केन निषण्णकाः // SRS_१३.२२ //
SK
बुद्धबोधिं प्रकाशेन्ति धारणीसूत्रशोभनम् / अन्याश्च सूत्रकोटीयो समाधिं शान्त भावयन् // SRS_१३.२३ //
SK
अविवर्तिकपथे स्थापेन्ति बहून् सत्त्वानचिन्तियान् / प्रतिभानं क्षयं नैति बुद्धबोधिं प्रकाशिय // SRS_१३.२४ //
SK
कूटागारे हि गच्छन्ति रतनेहि विचित्रिते / ओकिरन्ति च पुष्पेहि गन्धवद्भिर्विनायकम् // SRS_१३.२५ //
SK
ओकिरन्ति च चूर्णेहि गन्धवन्तेहि नायकम् / कुर्वन्ति विपुलां पूजां सर्वे ते बोधिकारणात् // SRS_१३.२६ //
SK
अप्रमेया गुणा एते बोधिसत्त्वान तायिनाम् / निष्किलेशा यदा भोन्ति तदा ऋद्धिं लभन्ति ते // SRS_१३.२७ //
SK
अनुपत्तिकिलेशान अच्छाः शुद्धाः प्रभास्वराः / असंस्कृता अकोप्याश्च बोधिसत्त्वान गोचराः // SRS_१३.२८ //
SK
प्रशान्ता उपशान्ताश्च निष्किलेशा अनङ्गनाः / अप्रपञ्चा निष्प्रपञ्चाः प्रपञ्चसमतिक्रमाः // SRS_१३.२९ //
SK
अप्रचारो ऽक्षराणां च सर्वधर्माण लक्षणम् / दुर्विज्ञेयश्च घोषेण समाधिस्तेन चोच्यते // SRS_१३.३० //
SK
अक्षया उपशान्ता च अनाभोगा अदर्शना / गोचरः सर्वबुद्धानां भूतकोटिरनाविला // SRS_१३.३१ //
SK
(Vऐद्य ८२) सर्वबुद्धानियं शिक्षा सर्वधर्मस्वभावता / इह शिक्षित्व संबुद्धा गुणानां पारमिं गताः // SRS_१३.३२ //
SK
न संपारं न वापारं पूर्वान्तो न विकल्पितः / तेन ते सर्व संबुद्धा गुणानां पारमिं गताः // SRS_१३.३३ //
SK
अनागतानगतिकान् धर्मान् ज्ञात्वा स्वभावतः / निष्प्रपञ्चाननाभोगांस्तत्र ते पारमिं गताः // SRS_१३.३४ //
SK
इति श्रीसमाधिराजे समाधिनिर्देशपरिवर्तस्त्रयोदशः
SK
(Vऐद्य ८३) १४ Sमितसंदर्शनपरिवर्तः |
SK
अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषितेयं भगवता तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मस्वभावसमता सर्वबोधिसत्त्वशिक्षासमाधिनिर्देशः | यथापि नाम भगवन् दीर्घरात्रमत्र शिक्षित्वा समुदागतो ऽनुत्तरायां सम्यक्संबोधौ | प्रतिभाति च मे भगवन्, प्रतिभाति च मे सुगत | भगवानाह - प्रतिभातु ते कुमार यस्येदानीं कालं मन्यसे | अथ खलु चन्द्रप्रभः कुमारभूतो भगवता कृतावकाशो भगवन्तं संमुखं सारूप्याभिर्गाथाभिरभ्यष्टावीत् -
SK
दृष्ट्वान सत्त्वान् दुखितानुपद्रुतान् रागेण दोषेण सदाभिभूतान् / चित्तं त्वयोत्पादितु बोधिकारणादू बुद्धो भवेयं ति प्रजान मोचकाः // SRS_१४.१ //
SK
चीर्णो ऽसि वीर्ये बहुकल्पकोटियो दाने दमे संयमि नित्यु शिक्षितः / शीले च क्षान्तौ तथ वीर्ये ऽतन्द्रितो दानं च दत्तं विपुलमनन्तकम् // SRS_१४.२ //
SK
न चो तव मानसु जातु खिन्नं हस्तांश्च पादांस्त्यजमानु जीवितम् / हिरण्यसुवर्णं तथ पुत्रदारं राज्थं च त्यक्तमनपेक्ष भूत्वा // SRS_१४.३ //
SK
शीलं तवाच्छं विमलं विशुद्धम् आत्मा च त्यक्तो न च शील खण्डितम् / कायेन वाचा मनसा सुसंवृता सुदान्तचित्ता सुगता नमो ऽस्तु ते // SRS_१४.४ //
SK
क्षान्तीरताः क्षान्तिपथे प्रतिष्ठिताः काये कृते खण्ड पि नैव क्रुध्यसे / क्षीरं ततः प्रस्रवि मैत्रभावना आश्चर्यभूता सुगता नमो ऽस्तु ते // SRS_१४.५ //
SK
(Vऐद्य ८४) बलैरुपेता दशभिर्बलैः स्थिता असङ्गुज्ञानी विदि सर्वधर्मान् / करुणानि लोकहितकर धर्मस्वामिन् अनुकम्पसे प्रजा इम अर्थकामः // SRS_१४.६ //
SK
शून्यं ति ज्ञानं न च पुनिहास्ति सत्त्वो लोकं च दृष्ट्व तथा ति प्रनष्टमार्गम् / विबोधितास्ते प्रकृतिनिरात्मधर्मे विमुक्तिजाता न च क्वचि सा विमुक्तिः // SRS_१४.७ //
SK
प्रत्यादिशं जहिय सदा प्रमत्तं जित्वा च मारं सबलमनन्तसैन्यम् / बुद्धित्व बोधि विपुलामनन्तज्ञानं दिशेहि धर्मं परम विशुद्धशान्तम् // SRS_१४.८ //
SK
गगनं पतेय्या सह शशितारकेहि पृथिवी विनश्येत् सनगरशैलसंस्था / आकाशधातुरपि च सियान्यथात्वं नो चैव तुभ्यं वितथ भणेय्य वाचा // SRS_१४.९ //
SK
दृष्ट्वा त्वं दुःखितान् सत्त्वानुपलम्भरताः प्रजाः / अनोपलम्भं देशेसि गम्भीरां शान्तशून्यताम् // SRS_१४.१० //
SK
शिक्षितो ऽसि महावीर कल्पकोटीरचिन्तिया / अनोपलम्भशिक्षायां स्खलितं ते न विद्यते // SRS_१४.११ //
SK
यादृशे शिक्षितो धर्मे तादृशं धर्मु भाषसे / अभूमिरत्र बालानां यावन्त अन्यतीर्थिकाः // SRS_१४.१२ //
SK
ये स्थिता आत्मसंज्ञायां ते स्खलन्ति अविद्वसु / ज्ञात्वा धर्माण नैरात्म्यं स्खलितं ते न विद्यते // SRS_१४.१३ //
SK
भूतवादी महावीर भूतधर्मप्रतिष्ठितः / भूते सत्ये स्थितो नाथ भूतां वाचं प्रभाषसे // SRS_१४.१४ //
SK
भूता ते चारिका आसीद् यथा ते प्रणिधिः कृतः / तस्य भूतस्य निष्यन्दा भूतां वाचं प्रभाषसे // SRS_१४.१५ //
SK
भूतचर्यासु संपन्नो भूतकोटीसुशिक्षिता / भूताशया भूतचरी भूतप्रज्ञ नमो ऽस्तु ते // SRS_१४.१६ //
SK
(Vऐद्य ८५) समस्ते प्रज्ञया नास्ति ज्ञानवादि प्रभाकर / ज्ञाने विशेषतां प्राप्त ज्ञानवादि नमो ऽस्तु ते // SRS_१४.१७ //
SK
मित्रस्त्वं सर्वसत्त्वानां मैत्री तव सुभाविता / अप्रकम्प्यो यथा मेरुरचलः सुप्रतिष्ठितः // SRS_१४.१८ //
SK
गणे सुविपुले शास्तुर्गणान् संपरिकर्षसि / गभीरप्रज्ञा सुगता नदसे परिषद्गता // SRS_१४.१९ //
SK
सिंहनादं नदि बुद्धः सिंहविक्रान्तविक्रमः / जितास्ते तीर्थिकाः सर्वे सिंहेन क्रोष्टुका यथा // SRS_१४.२० //
SK
अदान्तदमको वीर अदान्ता दमितास्त्वया / ते च मित्रा दृढा भोन्ति अभेद्या भोन्ति सुस्थिताः // SRS_१४.२१ //
SK
दृष्ट्वा त्वं दुःखितान् सत्त्वानात्मदृष्टिसमाश्रितान् / नैरात्म्य धर्मं देशेमि यत्र नास्ति प्रियाप्रियम् // SRS_१४.२२ //
SK
अशिक्षितानां बालानां कुमार्गपथचारिणाम् / मार्गं त्वं संप्रकाशेसि येन गच्छन्ति नायकाः // SRS_१४.२३ //
SK
ये स्थिता आत्मसंज्ञायां दुःखे ते सुप्रतिष्ठिताः / न ते जानन्ति नैरात्म्यं यत्र दुःखं न विद्यते // SRS_१४.२४ //
SK
अखिलितपदधर्मदेशको ऽसि स्खलितु न लभ्यति लोकनाथ / अवितथ गिर संप्रभाषसे त्वं दुःखमोक्षकरा नमस्ते नाथ // SRS_१४.२५ //
SK
बहुनियुतशता सहस्रकोट्यो गगनस्थिताः पृथु देवनागयक्षाः / सर्विं स्पृह जनेन्ति नायकस्मिन् भगवतु वाच श्रुणित्व अर्थयुक्ताम् // SRS_१४.२६ //
SK
स्निग्धमृदुमनोज्ञकालयुक्तां सुमधुर वाच प्रणीत प्रेमणीयाम् / अपरिमितस्वराङ्गसंप्रयुक्तां हितकर मोक्षकरीं बहुजनस्य // SRS_१४.२७ //
SK
तुरियशतसहस्र अप्रमेया सुमधुर युक्त भवेयुरेककाले / (Vऐद्य ८६) दिव्यस्वर विशिष्ट प्रेमणीया अभिभवति सुगतस्य एकवाचा // SRS_१४.२८ //
SK
द्विजगणकलविङ्कमञ्जुधोषाः सुरुचिर प्रेमणीयाः सुगीतशब्दाः / शङ्खपटहभेरिवीणशब्दाः कलमपि न लभन्तिः बुद्धशब्दे // SRS_१४.२९ //
SK
परभृतशुकशारिकाण शब्दास्तथ पुनः क्रौञ्चमयूरकिन्नराणाम् / रुत रवित य केचि प्रेमणीयाः कलमपि बुद्धस्वरस्य नानुभोन्ति // SRS_१४.३० //
SK
प्रिय मधुर मनोज्ञ प्रेमणीयाः सुमधुर शान्तगिरा प्रशंसनीयाः / सर्वि गिर प्रयुक्त एककाले गिरवर हर्षणियास्तथागतस्य // SRS_१४.३१ //
SK
सुरमनुजनरेन्द्रदानवानां सकलभवे त्रिभवे य अस्ति सत्त्वाः / या प्रभा अभवत् प्रभाकराणां अभिभवति सुगतस्य एकरश्मिः // SRS_१४.३२ //
SK
कुसुमितु सुगतस्य आत्मभावः परिवृतु विचित्रु सर्वलक्षणैः / पुण्यशतनिर्वृतु अच्छ शुद्धः प्रतपति सर्वजगे जिनस्य कायः // SRS_१४.३३ //
SK
शङ्खान शब्द पणवसुघोषकाणां भेरीण शब्द तथपि च किम्पलानाम् / सर्वे च शब्द सुमधुर प्रेमणीया बुद्धस्य शब्दे शतिम कलां न भोन्ति // SRS_१४.३४ //
SK
तूर्याण कोटिनियुतसहस्रशब्दा आस्वादनीय सुमधुर दिव्यकल्पाः / प्रामोदनीय मरुगण अप्सराणां बुद्धस्य शब्दे शतिम कलां न भोन्ति // SRS_१४.३५ //
SK
(Vऐद्य ८७) क्रौञ्चा मयूर परभृत चक्रवाका हंसाः कुणाला बहुविधपक्षिसंघाः / ये ते सशब्दाः सुमधुर एककाले बुद्धस्य शब्दे शतिम कलां न भोन्ति // SRS_१४.३६ //
SK
नागान यक्षाण असुरमहोरगाणां देवेन्द्रब्रह्ममरुपतीनां च शब्दाः / यावन्त शब्दास्त्रिभवे मनोज्ञ कान्ता बुद्धस्वरस्य कलमपि ते न भोन्ति // SRS_१४.३७ //
SK
या ब्रह्मणो वा मरुपतिनश्च आभा प्रभास्वराणां मणिरतनान आभाः / सर्वा य आभा विविधमनेकरूपाः सर्वास्त एका अभिभवि बुद्धरश्मिः // SRS_१४.३८ //
SK
कायेन शुद्धो वचसा मनेन चैव ज्ञानेन शुद्धस्त्रिभवि अनोपलिप्तः / गुणसारराशि गुणरतनो नरेन्द्रः सर्वगुणेहि असमसमः स्वयंभूः // SRS_१४.३९ //
SK
एवं स्तवित्वा दशबल सत्यवादिं वाचं प्रभाषि मुदितमनः कुमारः / पूजित्व बुद्धमतुलियमप्रमेयं बुद्धो भवेय यथ इव शाक्यसिंहः // SRS_१४.४० //
SK
तस्यो विदित्वा सुगतु विशिष्ट चर्यामसङ्गज्ञानी स्मितमकरोन्नरेन्द्रः / मैत्रेयु पृच्छी दशबलज्येष्ठपुत्रं कस्यार्थि एतं स्मितु कृतु नायकेन // SRS_१४.४१ //
SK
आकम्पिताभूद्वसुमति षड्विकारं देवाश्च नाग गगनस्थिता उदग्राः / प्रेक्षन्ति बुद्धं प्रमुदित हृष्टचित्तास्तं व्याकरोहि सुगत अनाभिभूतः // SRS_१४.४२ //
SK
अभूमिरस्मि भगवतु श्रावकाणां यत्र प्रवृत्तं पुरुषवरस्य ज्ञानम् / सुविशुद्धज्ञानिन्ननुपमप्रज्ञभूमि अखिला ते स्मितु कृतु जिन कस्य अर्थे // SRS_१४.४३ //
SK
(Vऐद्य ८८) पृच्छमि दशबलं विनायकं शाक्यसिंह द्विपदानमुत्तमम् / ज्ञानपारमिं गतं प्रभाकरं रागद्वेषखिलमोहसादकम् // SRS_१४.४४ //
SK
कल्पकोटि चरितो ऽसि नायको गङ्गवालुकसमास्ततोत्तरम् / एषमाणु वरबोधिमुत्तमां कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.४५ //
SK
हस्तपाद परिकृत्त शास्तुना पुत्रदार प्रियज्ञाति बान्धवान् / एषमाणु वरज्ञानमुत्तमं को नु हेतु स्मितदर्शने मुने // SRS_१४.४६ //
SK
अश्वहस्तिरथपत्तियो त्वया दासदासिमणिरत्न रूप्यकम् / नैव द्रव्यरतनं च लभ्यते यन्न त्यक्तु चरता ति चारिकाम् // SRS_१४.४७ //
SK
ज्ञानु श्रेष्ठु त्रिभवे ऽतिवर्तते सर्वसत्त्वचरियां प्रजानसे / धातुचित्तु अधिमुक्तिकोविदा कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.४८ //
SK
केन पूजित नराणमुत्तमाः कस्य वार्थ विपुलो भविष्यति / को च अस्य चरियाय ग्राहकः कस्य अर्थि स्मितु दर्शितं मुने // SRS_१४.४९ //
SK
षड्विकार पृथिवी प्रकम्पिता पद्मकोट्य धरणीतु उत्थिताः / कोटिपत्रपरमा प्रभास्वरा हेमवर्णरुचिरा मनोरमा // SRS_१४.५० //
SK
यत्रिमे स्थित जिनस्य औरसा बोधिसत्त्व परमा महर्द्धिकाः / धर्मभाणक बहू समागतास्तेष कारुणिक पृच्छि नायकम् // SRS_१४.५१ //
SK
(Vऐद्य ८९) भेरिशङ्खतुणवाः सुघोषकास्तूर्य कोटिनियुताः प्रवादिताः / तेष शब्द गगनस्मि श्रूयते यादृशः सुगतघोष अचिन्तियः // SRS_१४.५२ //
SK
हंसक्रौञ्चकलविङ्ककोकिलाः पक्षिसंघ बहुकाः समागताः / मुञ्चि घोष परमं प्रभास्वरं बुद्धघोषकल नानुभोन्ति ते // SRS_१४.५३ //
SK
केन दान दम संयमः पुरे कल्पकोटि बहुका निषेविताः / केन पूजित नराण उत्तमा कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.५४ //
SK
केन पूर्वि द्विपदेन्द्रु पृच्छितो गौरवं परमु संजनित्वन / बुद्धबोधि कथमेष लभ्यते कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.५५ //
SK
यात्तिका दशबला अतीतकाः प्रत्युत्पन्न सुगता अनागताः / सर्व जानसि नराणमुत्तमो तेन पृच्छमि प्रजाय कारणात् // SRS_१४.५६ //
SK
चित्तसंतति प्रजाय जानते सर्वि प्राणिन अनन्तगोचराः / यस्य यादृशु नरस्य आशयस्तेन पृच्छमि नराणमुत्तमम् // SRS_१४.५७ //
SK
ये चरन्ति चरियामनुत्तमां हेतुयुक्तिविनयस्मि कोविदाः / बुद्धज्ञान कथमेतु लभ्यते एतदर्थि द्विपदेन्द्रु पृच्छिहम् // SRS_१४.५८ //
SK
ये हि धर्म सुखुमाः सुदुर्दृशाः शून्य शान्त अतुला अचिन्तियाः / भाविता दशबलान गोचरास्तेष अर्थ अहु पृच्छि नायकम् // SRS_१४.५९ //
SK
(Vऐद्य ९०) येष मैत्रि करुणा सुभाविता सर्वप्राणिषु जगे अचिन्तिया / सत्त्वसंज्ञ न च येष वर्तते तेष अर्थि द्विपदेन्द्रु पृच्छियाम् // SRS_१४.६० //
SK
येष ज्ञानमतुलमचिन्तियं तेष ग्राह्य न कदाचि विद्यते / चित्तगोचरिय पारमिं गता तेष अर्थि अहु नाथ पृच्छमि // SRS_१४.६१ //
SK
शीलज्ञानगुणपारमिं गता त्र्यध्वज्ञानमतुलं भिवर्तते / नैव तुभ्य स्खलितूपलभ्यते कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.६२ //
SK
शारिपुत्र अनिरुद्ध कोलिता ये च अन्य सुगतस्य श्रावकाः / नैव तेष इह ज्ञानु वर्तते बुद्धगोचरु अयं निरूत्तरः // SRS_१४.६३ //
SK
सर्वधर्मवशिपारमिं गताः सर्वशिक्षचरियाय उद्गताः / संजनेत्व करुणां विनायका मुञ्च घोष परमार्थकोविदा // SRS_१४.६४ //
SK
ये ऽपि पूर्व बहुकल्पकोटियो एव चिन्ति द्विपदेन्द्रु पृच्छितः / भष्यमग्रु शरणं परायणं तेष अद्य फल ब्रूहि नायका // SRS_१४.६५ //
SK
यक्षराक्षसकुम्भाण्डगुह्यकाः प्रेक्षमाण द्विपदानमुत्तमम् / सर्वि प्राञ्जलिस्थिताः सगौरवाः श्रोतु व्याकरणमग्रपुद्गलान् // SRS_१४.६६ //
SK
(Vऐद्य ९१) बोधिसत्त्व बहवो ऽद्य आगता ऋद्धिमन्त बहुक्षेत्रकोटिभिः / जेष्ठपुत्र सुगतस्य औरसाः सर्वि प्राञ्जलिस्थिताः सगौरवाः // SRS_१४.६७ //
SK
गन्धहस्ति पुरिमादिशा गतो ऽक्षोभ्यक्षेत्र दिशि लोकविश्रुतः / बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना // SRS_१४.६८ //
SK
सुखावतीय वरलोकधातुतो महास्थाम प्राप्त अवलोकितेश्वरः / बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना // SRS_१४.६९ //
SK
येन पूर्व बहुकल्पकोटियो अप्रमेय सुगता उपस्थिताः / सागराण सकला च वालिका एषता परम ज्ञानमुत्तमम् // SRS_१४.७० //
SK
सर्वबुद्धस्तुत संप्रशंसितः सर्वधर्मगुणपारमिं गतः / सर्वलोकदिशतासु विश्रुतो मञ्जुघोष स्थितु प्राञ्जलीकृतः // SRS_१४.७१ //
SK
बुद्धक्षेत्रनियुतैश्चरित्वना सुदुर्लभमीदृशकान दर्शनम् / बुद्धपुत्रगुणवत् सुशिक्षिताः सर्वि प्राञ्जलिस्थिताः सगौरवाः // SRS_१४.७२ //
SK
नास्ति अन्य इह कश्चि भाजनं एवरूपि यथ एत सूरताः / धर्मकोषधर सर्वशास्तुनां स्निग्धभाव गिर मुञ्च नायका // SRS_१४.७३ //
SK
न ह्यकारणक जिना विनायका दर्शयन्ति स्मितमग्रपुद्गलाः / मुञ्च घोषवर दुन्दुभिस्वर कस्य अर्थि स्मितु एतु दर्शितम् // SRS_१४.७४ //
SK
(Vऐद्य ९२) हंसकोकिलमयूरसारसा मेघनाद वृषभाः प्रगर्जिताः / दिव्यवाद्यमधुराः प्रवादिता व्याकरोहि गिर सत्त्वमोचनी // SRS_१४.७५ //
SK
मैत्रसंजननि प्रेमवर्धनी ज्ञानदर्शनि अविद्यरिञ्चनी / अर्थतीरणि प्रज्ञाविवर्धनी कल्पकोटिनियुता विशोधनी // SRS_१४.७३ //
SK
विनिश्चितभावविभावितदुःखनिरोधपदार्थनिदर्शनी / सर्वकुतीर्थकवादध्वंसनी शून्य निसत्त्व निजीव विभावनि // SRS_१४.७७ //
SK
पुण्यसहस्रशतेहि अलंकृतः बुद्धसहस्रशतेहि चरित्विह / देवसहस्रशतेहि सुसंस्तुतः ब्रह्मसहस्रशतेहि नमस्कृतः // SRS_१४.७८ //
SK
राक्षसयक्षकुम्भाण्डप्रसादनि नागसुपर्णमहोरगमोचनि / नित्यमसक्तप्रयुक्तौदीरणि कर्मफलेहि शुभेहि समुद्गतः // SRS_१४.७९ //
SK
ये च केचि जिनाः परिनिर्वृता ये च अनागत ये च अवस्थिताः / सर्वि प्रजानसि सङ्गु न ते ऽस्तीति सर्वगुणेहि समुद्गत नायक // SRS_१४.८० //
SK
भूतधरा ससमुद्रपर्वत सर्वि मही षड्विकार प्रकम्पिता / देवगणा नभि पुष्प क्षिपन्ति च दिव्यु प्रवायति गन्धु मनोरमु // SRS_१४.८१ //
SK
हतरागदोषतिमिरा निखिला परिशुद्धशील परिशुद्धमनाः / (Vऐद्य ९३) प्रशान्त शून्य अनिमित्तरता नरसिंहनादु नद कारुणिका // SRS_१४.८२ //
SK
प्रतिभानवन्त सुविशालयशा सुसमाप्तप्रज्ञ तथज्ञान जिना / तव लोकि नास्ति समु कारुणिका भण कस्यु अर्थि स्मितु दर्शयसे // SRS_१४.८३ //
SK
कलविङ्ककोकिलमयूररवास्तथ जीवंजीवं जीवकमनोज्ञरुताः / रञ्जनीय शब्दु भुवि एकक्षणे कल तेन भोन्ति सुगतस्य स्वरे // SRS_१४.८४ //
SK
भेर्यो मृदङ्गपणवाश्च तथा शङ्ख सवेणु तथा वल्लरियो / तूर्यासहस्र सिय एकरवाः कल नानुभोन्ति सुगतस्य रुते // SRS_१४.८५ //
SK
तूर्यसहस्र वर दिव्यरुता रञ्जनीय गीत सिय अप्सरसाम् / सुगीति शब्दरति संजने कल न भोन्ति सुगतस्य रुते // SRS_१४.८६ //
SK
एकस्वरा तु तव लोकहिता नानाधिमुक्ति स्वरु निश्चरति / एकैकु मन्यि मम भाषि जिनो ब्रूहि स्मितं ति कृतु कस्य कृते // SRS_१४.८७ //
SK
देवान शब्द तथ नागरुता ये चापि किन्नररुता मधुराः / प्रशमेन्ति क्लेश न कदाचिदपि बुद्धस्वरास्तु सद क्लेशनुदाः // SRS_१४.८८ //
SK
प्रीतिं जनेति न च रागरतिं मैत्रीं जनेति न च दोषमतिम् / प्रज्ञां जनेति न च मोहरतिं बुद्धान सर्व मलनाशि स्वरः // SRS_१४.८९ //
SK
न बहि च शब्दु परिषातु प्रजा सर्वेष छिन्दति स काङ्क्षशतान् / (Vऐद्य ९४) न च ओनतो न हि च औन्नमतो समसौख्यदर्शन स्वरो मुनिनः // SRS_१४.९० //
SK
भज्यादियं मही सशैलरणा क्षीयते सागरजलं च तथा / चन्द्रो ऽथ सूर्यु धरणीं प्रपतेद् गिरमन्यथा न पुन भाषि जिनः // SRS_१४.९१ //
SK
सर्वाङ्गवाक्य परिशुद्धगिरा सिंहस्वरा मधुरमञ्जगिरा / ब्रह्मस्वरा सुगत कारुणिका भण कस्य अर्थि स्मितु दर्शयसे // SRS_१४.९२ //
SK
यावन्त सत्त्व इह सर्व जगे सर्वेष चित्त चरते कुशलः / ये अतीतनागत ये सांप्रतिका भण कस्य अर्थि स्मितु दर्शयसे // SRS_१४.९३ //
SK
यावन्त केचिज्जिन कारुणिका ज्ञानस्मि सर्वि वशि पारमिं गताः / न च ते जिना विमलचन्द्रमुखा नाहैतुकं स्मित सद दर्शयसे // SRS_१४.९४ //
SK
अपि कल्पकोटि भणि अप्रतिमा यथ गङ्गवालिक भणेय्य गुणान् / न च शक्यु कीर्तितु प्रमाणु गुणे भण कस्य अर्थि स्मितु दर्शयसे // SRS_१४.९५ //
SK
इति श्रीसमाधिराजे स्मितसंदर्शनपरिवर्तश्चतुर्दशः
SK
(Vऐद्य ९५) १५ Sमितव्याकरणपरिवर्तः |
SK
अथ खलु भगवांस्तस्यां वेलायां मैत्रेयं बोधिसत्त्वं महासत्त्वमाभिः सारूप्याभिर्गाथाभिः प्रत्यभाषत -
SK
चन्द्रप्रभो एष कुमारभूतः संस्तुत्य बुद्धमतुलीय प्रीतिया / भाषित्व बुद्धान विशिष्ट वर्णं प्रशंसनीयः सद कालि भेष्यति // SRS_१५.१ //
SK
इहैव चो राजगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोटयः / सर्वेष चानेन जिनान अन्तिके अयं वरः शान्तसमाधि पृच्छितः // SRS_१५.२ //
SK
सर्वत्र चो एष ममासि पुत्रो इमां चरन्तो वरबोधिचारिकाम् / सर्वत्र चासीत् प्रतिभानवन्तः सर्वत्र चासीत् सद ब्रह्मचारी // SRS_१५.३ //
SK
स पश्चिमे कालि महाभयानके त्वमेव साक्षी अजिता ममात्र / स्थिहित्व शुद्धे सद ब्रह्मचर्ये वैस्तारिकं एष समाधि काहिते // SRS_१५.४ //
SK
समाधिमेषन्तु इदं प्रणीतं एतेन मार्गेण स बोधि लप्स्यते / परिगृहीतो बहुबुद्धकोटिभिः पूजां वरां काहिति नायकानाम् // SRS_१५.५ //
SK
ज्ञाने स्थिहित्वा अहु व्याकरोमि चन्द्रप्रभस्याचरितं विशिष्टम् / न पश्चकाले ऽस्य भवे ऽन्तरायो न ब्रह्मचर्यस्य न जीवितस्य // SRS_१५.६ //
SK
हस्ते यथा आमलकानि पञ्च प्रजानाति बुद्धसहस्रकोटयः / (Vऐद्य ९६) तदुत्तरे यात्तिक गङ्गवालिका अनागता येष्विय पूजना होति // SRS_१५.७ //
SK
देवान नागान अशीतिकोटयः यक्षाण चो कोटिसहस्र सप्ततिः / औत्सुक्यमेषन्ति य पश्चकाले पूजां करोन्ता द्विपदोत्तमानाम् // SRS_१५.८ //
SK
स पूज कृत्वा द्विपदान उत्तमान् समुदाचरि ज्ञानमिमं निरुत्तरम् / स पश्चिमे चोच्छ्रयि लोकनाथो विमलप्रभो नाम जिनो भविष्यति // SRS_१५.९ //
SK
इदं स्वकं व्याकरणं श्रुतित्वा प्रीतिस्फुटो आसि कुमारभूतः / चन्द्रप्रभो उद्गत सप्त ताल उदानुदानेति नभे स्थिहित्वा // SRS_१५.१० //
SK
अहो जिना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीबले स्थिता / सुनिश्चिते उत्तमज्ञानि तिष्ठसि अनाभिभूतो ऽसि परप्रवादिभिः // SRS_१५.११ //
SK
विवर्जिता सङ्ग विमुक्ति स्पर्शिता विभावितं वस्तु भवे न सज्जसि / प्रपञ्च सर्वे सकला न भोन्ति ते असङ्गज्ञानं त्रिभवे ऽभिवर्तते // SRS_१५.१२ //
SK
सर्वप्रपञ्चेभिरनोपलिप्ता दृष्टिः प्रपञ्चाः सकलाः प्रहीणाः / सुभाविअते मार्ग निकेतु नास्ति अनाभिभूता अविरुद्ध केनचित // SRS_१५.१३ //
SK
निकेतु त्रैधातुकि नास्ति तुभ्यं ओघाश्च ग्रन्थाश्च प्रहीण सर्वे / तृष्णालताबन्धन सर्वि छिन्ना भव प्रहीणो भवसंघि नास्ति // SRS_१५.१४ //
SK
(Vऐद्य ९७) स्वभावु धर्माणमभावु जानसे अनाभिलप्या गिर संप्रभाषसे / सिंहेन वा क्रोष्टुक तीर्थ नाशिता ये ते विपर्यासस्थिता अविद्वसु // SRS_१५.१५ //
SK
निधान श्रेष्ठं मयि लब्धमद्य धर्मं निधानं सुगतेन देशितम् / प्रहीण सर्वा विनिपातु दुर्गति काङ्क्षा न मेहास्ति भविष्य नायकः // SRS_१५.१६ //
SK
मूर्धस्मि पाणिं प्रतिस्थापयित्वा सुवर्णवर्णं रुचिरं प्रभास्वरम् / अभिषिञ्च बोधाय नरर्षभस्तं सदेवकं लोक स्थपेत्व साक्षिणम् // SRS_१५.१७ //
SK
इति श्रीसमाधिराजे स्मितव्याकरणपरिवर्तो नाम पञ्चदशः
SK
(Vऐद्य ९८) १६ Pऊर्वयोगपरिवर्तः |
SK
स्मरामि पूर्वं चरमाणु चारिकां सिंहध्वजस्य सुगतस्य शासने / अभूषि भिक्षु विदु धर्मभाणको नामेन सो उच्यति ब्रह्मदत्तः // SRS_१६.१ //
SK
अहं तदासीन्मति राजपुत्रो आबाधिको बाढ गिलान दुःखितः / मह्यं च सि आचरियो अभूषि यो ब्रह्मदत्तस्तद धर्मभाणकः // SRS_१६.२ //
SK
पञ्चोत्तरा वैद्यशता अनूनका व्याधिं चिकित्सन्ति उद्युक्तमानसाः / व्याधिं न शक्नन्ति मम चिकित्सितुं सर्वे मम ज्ञातय आसि दुःखिताः // SRS_१६.३ //
SK
श्रुत्वा च गैलान्यु स मह्य भिक्षु गिलानपृच्छो मम अन्तिकागतः / कृपां जनेत्वा मम ब्रह्मदत्तो इमं समाधिं वरु तत्र देशयी // SRS_१६.४ //
SK
तस्य ममा एतु समाधि श्रुत्वा उत्पन्न प्रीति अरिया निरामिषा / स्वभावु धर्माण प्रजानमानो उच्छ्वासि व्याधी तुहु तस्मि काले // SRS_१६.५ //
SK
दीपंकरः सो चरमाणु चारिकामभूषि भिक्षुर्विदु धर्मभाणकः / अहं च आसीन्मतिराजपुत्रः समाधिज्ञानेन हु व्याधि मोचितः // SRS_१६.६ //
SK
तस्मात् कुमारा बहु पश्चकाले अनुस्मरन्तो इमु पारिहाणिम् / सहेसि बालान दुरुक्त वाक्यं धारेन्तु वाचेन्तु इमं समाधिम् // SRS_१६.७ //
SK
(Vऐद्य ९९) भेष्यन्ति भिक्षु बहु पश्चकाले लुब्धाश्च दुष्टाश्च असंयताश्च / पापेच्छ अध्योषित पात्रचीवरे प्रतिक्षिपिष्यन्ति इमं समाधिम् // SRS_१६.८ //
SK
ईर्ष्यालुका उद्धत प्राकटेन्द्रियाः कुलेषु चाध्योषित लाभकामाः / प्रायोगिके संस्तवि नित्य संश्रिताः प्रतिक्षिपिष्यन्ति इमं समाधिम् // SRS_१६.९ //
SK
हस्तांश्च पादांश्च तथ विद्यमाना हास्ये च लास्ये च सदा प्रयुक्ताः / परस्परं कण्ठित श्लिष्यमाणा ग्रामेषु चर्यापथि अन्यु भेष्यति // SRS_१६.१० //
SK
अयुक्तयोगानिमि भोन्ति लक्षणाः परकुमारीषु च नित्य ध्योषिताः / रूपेण रक्ता ग्रथिता भवन्ति हिण्डन्ति ग्रामान्निगमांश्च राष्ट्रान् // SRS_१६.११ //
SK
ते खाद्यपेयस्मि सदा प्रयुक्ता नाट्ये य गीते च तथैव वादिते / क्रयविक्रये चो सद भोन्ति उत्सुकाः पाने ऽपि चाध्योषित नष्टलज्जाः // SRS_१६.१२ //
SK
लेखान पिष्यन्ति अयुक्तयोगाः शीलं तथेर्यापथु छोरयित्वा / मर्याद भिन्दित्व गृहीभि सार्धं ते भिन्नवृत्ता वितथप्रतिष्ठिताः // SRS_१६.१३ //
SK
ये कर्म बुद्धेहि सदा विवर्जितास्तुलमानकूटे च सदा प्रयुक्ताः / तत्कर्म कृत्वान किलिष्टपापकान् अपायु यास्यन्ति निहीनकर्माः // SRS_१६.१४ //
SK
प्रभूतवित्तं मणिहेमशंखं गृहांश्च ज्ञातींश्च विहाय प्रव्रजि / (Vऐद्य १००) ते प्रव्रजित्वानिह बुद्धशासने पापानि कर्माणि सदाचरन्ति // SRS_१६.१५ //
SK
धने च धान्ये च ते सारसंज्ञिनो धेनूश्च गावः शकटानि सज्जयी / किमर्थ तेहि इम केश छोरिता शिक्षाय येषां प्रतिपत्ति नास्ति // SRS_१६.१६ //
SK
मया च पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्र चीर्णम् / अयं च मे शान्त समाधिरेषितो यत्तेष श्रुत्वा तद हास्यु भेष्यति // SRS_१६.१७ //
SK
चिरं मृषावादि अब्रह्मचारिणो अपायनिम्नाः सद कामलाभाः / ते ब्रह्मचारीण ध्वजं गृहीत्वा दुःशील वक्ष्यन्ति न एष धर्मः // SRS_१६.१८ //
SK
भेदाय स्थास्यन्ति च ते परस्परं अयुक्तिभिर्लाभ गवेषमाणाः / अवर्ण भाषित्व त अन्यमन्यं च्युता गमिप्यन्ति अपायभूमिम् // SRS_१६.१९ //
SK
शतःसहस्रेषु सुदुर्लभास्ते क्षान्तीबलं येषु तदा भविष्यति / अतो बहू ये कलहस्मि उत्सुकाः प्रपञ्च काहिन्ति जहित्व क्षान्तिम् // SRS_१६.२० //
SK
वक्ष्यन्ति वाचा वय बोधिसत्त्वाः शब्दो ऽपि तेषां व्रजि देशदेशे / अभूतशब्देन मदेन मत्ता विपन्नशीलान कुतो ऽस्ति बोधिः // SRS_१६.२१ //
SK
न मे श्रुतं नापि कदाचि दृष्टमध्याशयो यस्य विशुद्ध नास्ति / इमेषु धर्मेषु च नास्ति क्षान्तिः स लप्स्यते बोधि क्षिपित्व धर्मान् // SRS_१६.२२ //
SK
(Vऐद्य १०१) भीताश्च त्रस्ताश्च गृहं त्यजन्ति ते प्रव्रजि दृढतरा भवन्ति / विशेषकामा विलयं प्रयान्ति क्षिपित्व यानं पुरुषोत्तमानाम् // SRS_१६.२३ //
SK
निहीनप्रज्ञा गुणविप्रहीना वक्ष्यन्ति दोषं सद अग्रयाने / यस्मै च ते तच्छरणं प्रपन्नास्तत्रैव ये दोषशतान् वदन्ति // SRS_१६.२४ //
SK
आजीवका ये बहु प्रव्रजित्वा अनर्थिकाः सर्वसुबुद्धबोधये / ते आत्मदृष्टीय स्थिहित्व बाला उत्त्रस्त भेष्यन्ति श्रुणित्व शून्यताम् // SRS_१६.२५ //
SK
विहारु कृत्वान त अन्यमन्यं व्यापाददोषांश्च खिलं जनेत्वा / अभ्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्य करित्व पापकम् // SRS_१६.२६ //
SK
यः शीलवन्तो गुणवन्तु भेष्यति मैत्रीविहारी सद क्षान्तिकोविदः / सुसंवृतो मार्दवसूरतश्च परिभूत सो भेष्यति तस्मि काले // SRS_१६.२७ //
SK
यो खो पुनर्भेष्यति दुष्टचित्तः सुदारुणो रौद्रातिहीनकर्मा / अधर्मचारी कलहे रतश्च स पूजितो भेष्यति तस्मि काले // SRS_१६.२८ //
SK
आरोचयामि प्रतिवेदयामि सचेत् कुमारा मम श्रद्ध गच्छसि / इमां स्मरित्वा सुगतानुशासनीं मा जातु विश्वस्तु भवेसि तेषाम् // SRS_१६.२९ //
SK
ते तीव्ररागास्तथ तीव्रदोषास्ते तीव्रमोहाः सद मानमत्ताः / (Vऐद्य १०२) अदान्तकायाश्च अदान्तवाचः अदान्तचित्ताश्च अपायनिम्नाः // SRS_१६.३० //
SK
अहं च भाषेय्य गुणान वर्णान् न चो गुणान् भिक्षु समाचरेय्या / न घोषमात्रेण च बोधि लभ्यते प्रतिपत्तिसाराण न बोधि दुर्लभा // SRS_१६.३१ //
SK
इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम षोडशः
SK
(Vऐद्य १०३) १७ Bअहुबुद्धनिर्हारसमाधिमुखपरिवर्तः |
SK
अथ खलु भगवांस्तां महतीं सागरोपमां पर्षदं धर्मकथया संदर्श्य समुत्तेज्य संप्रहर्ष्य समादाप्य उत्थायासनात् प्राक्रामत् | येन च गृध्रकूटपर्वतराजस्तेनैव उपसमक्रामत् | उपसंक्रम्य च प्रज्ञप्त एवासने न्यषीदत् | भिक्षुसंघपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यनमस्कृतः सागरोपमायां पर्षदि धम संदेशयति स्म | अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं निर्गतं विदित्वा अशीत्या प्राणिकोटीशतैः सार्धं सर्वैर्देवभूतैरन्यलोकधात्वागतैश्च संबहुलैर्बोधिसत्त्वमहासत्त्वनियुतैः सार्धं पुष्पधूपगन्धमाल्यविलेपनं गृहीत्वा तूर्यशतैर्वाद्यमानैश्छत्रध्वजघण्टापताकाभिरत्युच्छ्रिताभिः महामाल्याभिनिर्हारमादाय भगवतः पूजाकर्मणे येन गृध्रकूटपर्वतो येन च भगवांस्तेनोपजगाम | उपेत्य च भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य तैः पुष्पधूपगन्धमाल्यविलेपनैस्तूर्यतालावचरैः प्रवाद्यमानैर्महतीं पूजां कृत्वा एकान्ते न्यषीदत् सगौरवः सप्रतीशो धर्मपरिपृच्छायै ||
SK
अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय | एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - पृच्छ त्वं कुमार तथागतमर्हतं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि | नित्यकृतस्ते कुमार तथागतेनावकाशः | एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - कतिभिर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - चतुर्भिः कुमार धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते | कतमैश्चतुर्भिः? इह कुमार बोधिसत्त्वो महासत्त्वः सूरतो भवति सुविसंवासो दान्तो दान्तभूमिमनुप्राप्तः | स परैराक्रुष्टो वा परिभाषितो वा दुरुक्तानां दुर्भाषितानां वचनपथानां क्षमो भवत्यधिवासनजातीयः कर्मदर्शी निहतमानो धर्मकामः | अनेन कुमार प्रथमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमः समाधिं प्रतिलभते | पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः शीलवान् भवति | परिशुद्धशीलः (Vऐद्य १०४) अखण्डशीलः अच्छिद्रशीलः अशबलशीलः अकल्मषशीलः अच्युतशीलः अनाविलशीलः अगर्हितशीलः अभ्युद्गतशीलः अनिश्रितशीलः अपरामृष्टशीलः अनुपलम्भशीलः आर्यप्रशस्तशीलो विज्ञप्रशस्तशीलः | अनेन कुमार द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इम समाधिं प्रतिलभते | पुनरपरं कुमार बोधिसत्त्वो महासत्त्वस्त्रैधातुके उत्त्रस्तचित्तो भवति संत्रस्तचित्तो निर्विण्णचित्तो निःसरणचित्तः | अनर्थिकः अनभिरतः अनध्यवसितः अनभिषक्तः | सर्वत्रैधातुके उद्विग्नमानसः | अन्यत्र त्रैधातुकात् सत्त्वानि मोचयिष्यामीति व्यायमते | समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ | अनेन कुमार तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते | पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः श्राद्धो भवति | अतृप्तो भवति धर्मपर्येष्ट्याम् | बहुश्रुतो भवति | विशारदो भवति | धर्मकामश्च धर्मगुरुकः | न लाभसत्कारश्लोकगुरुको न ज्ञानगुरुकः | यथाश्रुतांश्च धर्मान् यथापर्यवाप्तान् परेभ्यश्च विस्तरेण देशयति संप्रकाशयति हितवस्तुपूर्वगमेन चित्तेन न ज्ञात्रलाभकामनया | अपि तु खलु पुनः किमितीमे सत्त्वा इमान् धर्मान् श्रुत्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति | अनेन कुमार चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमं समाधिं प्रतिलभते ||
SK
एभिः कुमार चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिभभिसंबुध्यते | तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यं यथायं समाधिर्बहुबुद्धदेशितो बहुबुद्धवर्णितो बहुबुद्धसंप्रकाशितो बहुबुद्धप्रविचितः | बहूनां च बुद्धानां भगवतामन्तिकान्मया प्रव्रजित्वा अयं कुमार सर्वधर्मस्वभावसमताविपञ्चितः समाधिर्विस्तरेण श्रुत उद्गृहीतः पृष्टो धारितो वाचितः प्रवर्तितो ऽरणभावनया भावितो बहुलीकृतः परेभ्यश्च विस्तरेण संप्रकाशितः | अथ खलु भगवानिममेव बहुबुद्धनिर्हारसमाधिमुखं पूर्वयोगकथानिर्देशं भूयस्या मात्रया तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य विस्तरेण गाथाभिगीतेन संप्रकाशयति स्म -
SK
स्मरामि कल्पे ऽतुलियाप्रमेये यदा जिनो आसि स्वराङ्गघोषः / स्वराङ्गघोषस्य तथागतस्य वर्षं शता षष्टि अभूषि आयुः // SRS_१७.१ //
SK
तस्यानु बुद्धो परिमेण आसीत् ज्ञानेश्वरो नाम नराणमुत्तमः / ज्ञानेश्वरस्य द्विपदोत्तमस्य वर्षं सहस्रा दश द्वौ च आयुः // SRS_१७.२ //
SK
ज्ञानेश्वरस्यापि परेण बुद्धो तेजेश्वरो नाम जिनो अभूषि / (Vऐद्य १०५) तेजेश्वरस्य द्विपदोत्तमस्य षट्सप्तती वर्षसहस्र आयुः // SRS_१७.३ //
SK
तेजेश्वरस्योपरतेन बुद्धो मतीश्वरो नाम जिनो अभूषि / मतीश्वरस्य द्विपदोत्तमस्य वर्षाण कोटी परिपूर्ण आयुः // SRS_१७.४ //
SK
मतीश्वरस्योपरतेन बुद्धो ब्रह्मेश्वरो नाम जिनो अभूषि / ब्रह्मेश्वरस्य द्विपदोत्तमस्य चतुर्दशो वर्षसहस्र आयुः // SRS_१७.५ //
SK
ब्रह्मेश्वरस्योपरतेन बुद्धो अग्नीश्वरो नाम जिनो अभूषि / अग्नीश्वरस्य द्विपदोत्तमस्य षष्टिस्तदा वर्षसहस्र आयुः // SRS_१७.६ //
SK
अग्नीश्वरस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि / ब्रह्माननस्य द्विपदोत्तमस्य रात्रिंदिवा सप्त अभूषि आयुः // SRS_१७.७ //
SK
ब्रह्माननस्योपरतेन बुद्धो गणेश्वरो नाम जिनो अभूषि / गणेश्वरस्य द्विपदोत्तमस्य षड्वर्षकोट्यः परिपूर्ण आयुः // SRS_१७.८ //
SK
गणेश्वरस्योपरतेन बुद्धो घोषेश्वरो नाम जिनो अभूषि / घोषेश्वरस्य द्विपदोत्तमस्य नववर्षकोट्यः परिपूर्ण आयुः // SRS_१७.९ //
SK
घोषेश्वरस्योपरतेन बुद्धो घोषाननो नाम जिनो अभूषि / घोषाननस्य द्विपदोत्तमस्य दशवर्षकोट्यः परिपूर्ण आयुः // SRS_१७.१० //
SK
(Vऐद्य १०६) घोषाननस्योपरतेन बुद्धश्चन्द्राननो नाम जिनो अभूषि / चन्द्राननस्य द्विपदोत्तमस्य रात्रिंदिवा एक अभूषि आयुः // SRS_१७.११ //
SK
चन्द्राननस्योपरतेन बुद्धः सूर्याननो नाम जिनो अभूषि / सूर्याननस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः // SRS_१७.१२ //
SK
सूर्याननस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि / ब्रह्माननस्य द्विपदोत्तमस्य त्रिविंशति वर्षसहस्र आयुः // SRS_१७.१३ //
SK
ब्रह्माननस्योपरतेन बुद्धो ब्रह्मश्रवो नाम जिनो अभूषि / ब्रह्मश्रवस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः // SRS_१७.१४ //
SK
एकस्मि कल्पस्मि इमे उपन्ना दुवे शते लोकविनायकानाम् / श्रुणोहि नामानिह कीर्तयिष्ये अनाभिभूतान् तथागतानाम् // SRS_१७.१५ //
SK
अनन्तघोषश्च विघुष्टघोषो विघुष्टतेजश्च विघुःटशब्दः / स्वराविघुष्टश्च स्वरार्चितश्च स्वराङ्गशूरश्च स्वराङ्गशब्दः // SRS_१७.१६ //
SK
ज्ञानाबलो ज्ञानविशेषगश्च ज्ञानाभिभूर्ज्ञानसमुद्गतश्च / ज्ञानार्चिमान् ज्ञानअभ्युद्गतश्च विघुष्टज्ञानस्तथ ज्ञानशूरः // SRS_१७.१७ //
SK
ब्रह्माबलो ब्रह्मवसुः सुब्रह्म ब्रह्मा च देवस्तथ ब्रह्मघोषः / (Vऐद्य १०७) ब्रह्मेश्वरो ब्रह्मनरेन्द्रनेत्रे ब्रह्मस्वराङ्गः स्वरब्रह्मदत्तः // SRS_१७.१८ //
SK
तेजोबलस्तेजवतिः सुतेजाः तेजेश्वरस्तेजसमुद्रतश्च / तेजोविभुस्तेजविनिश्चितश्च | तेजस्वरेन्द्रः सुविघुष्टतेजाः // SRS_१७.१९ //
SK
भीष्मो बलो भीष्ममतिः सुभीष्मो भीष्माननो भीष्मसमुद्रतश्च / भीष्मार्चि र्भीष्मोत्तरु र्भीष्मघोषा एते जिना लोकविनायका ऽभूत् // SRS_१७.२० //
SK
गम्भीरघोषः शिरिधारणश्च विशुद्धघोषेश्वरु शुद्धघोषः / अनन्तघोषः सुविमुक्तघोषो मारो बलो मारवित्रासनश्च // SRS_१७.२१ //
SK
सुनेत्र शुद्धाननु नेत्रशुद्धो विशुद्धनेत्रश्च अनन्तनेत्रः / समन्तनेत्रश्च विघुष्टनेत्रो नेत्राभिभूर्नेत्र अनिन्दितश्च // SRS_१७.२२ //
SK
दान्तोत्तरो दान्त सुदान्तचित्तः सुदान्त शान्तेद्रिय शान्तमानसः / शान्तोत्तरः शान्तशिरी प्रशान्तः शान्तीय पारंगतु शान्तिशूरः // SRS_१७.२३ //
SK
स्थितोत्तरः शान्त सुदान्तचित्तः सुदान्तशान्तेन्द्रियु शान्तमानसः / शान्तोत्तरः शान्तश्रिया ज्वलन्तः शान्तप्रशान्तेश्वरु शान्तिशूरः // SRS_१७.२४ //
SK
गणेन्द्र गणमुख्यु गणेश्वरश्च गणाभिभूर्गणिवर शुद्धज्ञानी / महागणेन्द्रश्च गणेन्द्रशूरो अन्यो पुनो गणिवर प्रमोचकः // SRS_१७.२५ //
SK
धर्मध्वजश्चो तथ धर्मकेतुः धर्मोत्तरो धर्मस्वभाव उद्गतः / (Vऐद्य १०८) धर्मबलश्चैव सुधर्मशूरः स्वभावधर्मोत्तरनिश्चितश्च // SRS_१७.२६ //
SK
स्वभावधर्मोत्तरनिश्चितस्य अशीतिकोट्यः सहनामधेयाः / द्वितीयकल्पस्मि उत्पन्न नायका एते मया पूजित बोधिकारणात् // SRS_१७.२७ //
SK
स्वभावधर्मोत्तरनिश्चितस्य यो नामधेयं शृणुते जिनस्य / श्रुत्वा च धारेति विघुष्ट नाम स क्षिप्रमेतं लभते समाधिम् // SRS_१७.२८ //
SK
एतेष बुद्धान् परेण अन्यो अचिन्तिये अपरिमितस्मि कल्पे / अभूषि बुद्धो नरदेवपूजितः स नामधेयेन नरेन्द्रघोषः // SRS_१७.२९ //
SK
नरेन्द्रघोषस्य तथागतस्य षट्सप्तती वर्षसहस्रमायुः / त्रयश्च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो अभूषि // SRS_१७.३० //
SK
षडभिज्ञ त्रैविद्य जितेन्द्रियाणां महानुभावान महर्द्धिकानाम् / क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि प्रभाकरस्य // SRS_१७.३१ //
SK
अशीति कोटीनियुता सहस्रा यो बोधिसत्त्वान गणो अभूषि / गम्भीरबुद्धीन विशारदानां महानुभावान महर्द्धिकानाम् // SRS_१७.३२ //
SK
अभिज्ञप्राप्ताः प्रतिभानवन्तो गतिगताः सर्वित शुन्यतायाः / ऋद्धीय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यात्तिक गङ्गवालुकाः // SRS_१७.३३ //
SK
(Vऐद्य १०९) पृच्छित्व प्रश्नं द्विपदाननुत्तमान् पुनेन्ति तस्यैव जिनस्य अन्तिके / सूत्रान्तनिर्हारनिरुक्तिकोविदा आलोकभूता विचरन्ति मेदिनीम् // SRS_१७.३४ //
SK
सत्त्वानमर्थाय चरन्ति चारिकां महानुभावाः सुगतस्य पुत्राः / न कामहेतोः प्रकरोन्ति पापं देवा पि तेषां स्पृह संजनेन्ति // SRS_१७.३५ //
SK
अनर्थिका भवगतिषु न निश्रिताः समाहिता ध्यानविहारगोचराः / विनिश्चितार्थाश्च विशारदाश्च निरामगन्धाः सद ब्रह्मचारिणः // SRS_१७.३६ //
SK
अच्छेद्यवाक्याः प्रतिभानवन्तो निरुक्तिनिर्देशपदार्थकोविदाः / सर्वत्रसंदर्शक बुद्धपुत्राः परिगृहीताः कुशलेन कर्मणा // SRS_१७.३७ //
SK
अनन्तकल्पाश्चरियाय उद्गताः स्तुताः प्रशस्ताः सद नायकेहि / विमोक्षतत्त्वार्थपदान देशकाः असंकिलिष्टाः सुविशुद्धशीलाः // SRS_१७.३८ //
SK
अनोपलिप्ताः पदुमेन वारिणा विमुक्त त्रैधातुकतो ऽप्रमत्ताः / अनोपलिप्ताष्टहि लोकधर्मैर्विशुद्धकायाः परिशुद्धकर्माः // SRS_१७.३९ //
SK
अल्पेच्छ संतुष्ट महानुभावा अगृद्ध ते बुद्धगुणाः प्रतिष्ठिताः / सर्वेष सत्त्वान गतिः परायणा न घोषमात्रप्रतिपत्तिसाराः // SRS_१७.४० //
SK
यत्र स्थितास्तं च परेषु देशयु सर्वेहि बुद्धेहि परिगृहीताः / (Vऐद्य ११०) वैश्वासिकाः कोशधरा जिनानां ते सर्वि त्रैधातुकि त्रस्तमानसाः // SRS_१७.४१ //
SK
प्रशान्तचित्ताः सद रण्यगोचरा अधिष्ठिता लोकविनायकेभिः / भाषन्ति सुत्रान्तसहस्रकोटियो यं चैव भाषन्ति त बुद्धवर्णितम् // SRS_१७.४२ //
SK
विवर्जिताः सर्वपदेभि लौकिकाः शून्याधिमुक्ताः परमार्थदेशकाः / अनन्तवर्णा गुणसागरोपमाः बहुश्रुताः पण्डित विज्ञवन्तः // SRS_१७.४३ //
SK
सचेत् कुमारो बहुकल्पकोटिय अधिष्ठिहन्तः प्रवदेय वर्णम् / स अल्पकं तत् परिकीर्तितं भवेद् यथा समुद्रादुदबिन्दुरेकः // SRS_१७.४४ //
SK
तस्मिंश्च काले स नरेन्द्रघोषो देशेतिमं शान्त समाधि दुर्दृशम् / महात्रिसाहस्रिय लोकधातु देवेहि नागेहि स्फुटो अभूषि // SRS_१७.४५ //
SK
तस्यो इमं शान्त समाधि भाषतः प्रकम्पिता मेदिनि षड्विकारम् / देवा मनुष्या यथ गङ्गवालिका अविवर्तिकाये स्थित बुद्धज्ञाने // SRS_१७.४६ //
SK
तत्रासि राजा मनुजान ईश्वरः शिरीबलो नाम महानुभावः / पुत्राण तस्यो शत पञ्च आसन्नभिरूप प्रासादिक दर्शनीयाः // SRS_१७.४७ //
SK
अशीति कोटीशत इस्त्रियाणामन्तःपुरं तस्य अभूषि राज्ञः / चतुर्दशो कोटिसहस्र पूर्णा दुहितरो तस्य अभूषि राज्ञः // SRS_१७.४८ //
SK
स कार्तिकायां तद पूर्णमास्यामष्टाङ्गिकं पोषधमाददित्वा / (Vऐद्य १११) अशीतिकोटीनियुतेहि सार्धमुपागमल्लोकगुरुस्य अन्तिकम् // SRS_१७.४९ //
SK
वन्दित्व पादौ द्विपदोत्तमस्य न्यषीदि राजा पुरतो जिनस्य / अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि // SRS_१७.५० //
SK
स पार्थिवः श्रत्व समाधिमेतमुत्सृज्य राज्यं यथ खेटपिण्डम् / परित्यजित्वा प्रिय ज्ञातिबान्धवान् स प्रव्रजी तस्य जिनस्य शासने // SRS_१७.५१ //
SK
पुत्राण पञ्चाशत प्रव्रजिंसु अन्तःपुरं चैव तथैव धीतरो / अन्ये च तत्र पुत्रज्ञातिबान्धवाः षट्सप्ततिर्नयुत त्रयश्च कोट्यः // SRS_१७.५२ //
SK
स प्रव्रजित्वेह सपुत्रदारं स्थपेत्व आहारनिर्हारभूमिम् / अधिष्ठितश्चंक्रमि अष्टवर्षं स चंक्रमे वस्थितु काल कार्षीत् // SRS_१७.५३ //
SK
स कालु कृत्वा तद राजकुञ्जरो समाधिचित्तो सुसमाहितः सदा / तत्रैव सो राजकुले उपन्नो उपपादुको गर्भमलैरलिप्तः // SRS_१७.५४ //
SK
दृढबलो नाम पितास्य भूषि महामती नाम जनेत्रि आसीत् / स जातमात्रो अवची कुमारो कच्चिन्नु सो तिष्ठति लोकनाथः // SRS_१७.५५ //
SK
जानाति मे आशयु लोकनाथो येनो ममा शान्त समाधि देशितः / (Vऐद्य ११२) अप्रत्यया अपगतप्रत्यया च यो एक निर्देशु भवे गतीनाम् // SRS_१७.५६ //
SK
या सर्वधर्माण स्वभावमुद्रा यः सूत्रकोटीनियुतान आगमः / यो बोधिसत्त्वान धनं निरूत्तरं कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.५७ //
SK
कायस्य शुद्धी तथ वाच शुद्धी चित्तस्य शुद्धिस्तथ दृष्टिशुद्धिः / आरम्बणानां समतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.५८ //
SK
अविप्रणाशः फलधर्मदर्शनं अष्टाङ्गिका मार्गवरस्य भावना / तथागतैः संगमु तीक्ष्णप्रज्ञता सत्यप्रवेशः सद धर्मज्ञानम् // SRS_१७.५९ //
SK
स्कन्धपरिज्ञा समता च धातुनामपकर्षणं चायतनान सर्वशः / अनुत्पाद साक्षात्क्रिययावतारः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६० //
SK
प्रतिसंविदा शान्त्यवतारज्ञानं सर्वाक्षराणां च प्रभेदज्ञानम् / वस्तुनिवेशसमतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६१ //
SK
घोषः परिज्ञाथ प्रामोद्यलाभः प्रीतिश्च भोती सुगतान वर्णम् / आर्या गतिर्मार्दवता च उज्जुका कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६२ //
SK
ना जातु कुर्याद्भुकुटिं स सूरतः साखिल्य माधुर्य स्मितं मुखं च / दृष्ट्वा च सत्त्वान् प्रथमालपेति कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६३ //
SK
(Vऐद्य ११३) अनालस्यता गौरवता गुरूणां शुश्रूषणा वन्दन प्रेमदर्शना / उपपत्ति संतुष्टित शुक्लता च कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६४ //
SK
आजीवशुद्धिस्तथ रण्यवासो धूते स्थितानुस्मृतेरप्रमोषः / स्कन्धेषु कौशल्यमथापि धातुषु कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६५ //
SK
आयतनकौशल्यमभिज्ञज्ञानं किलेशअपकर्षण दान्तभूमि / पृथुसर्वमन्त्राणमसावुच्छेदः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६६ //
SK
समतिक्रमः सर्वभवग्गतीनां जातिस्मृति धर्मनिष्काङ्क्षता च / धर्मे च चित्तं श्रुत एषणा च कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६७ //
SK
विशेषगामी सद भावनारति आपत्ति कौशल्यत निःसृतौ स्थितः / यत्र स्थितो ऽनुशयितां जहाति कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६८ //
SK
तीक्ष्णस्य ज्ञानस्य वरागमो यतो अचालियो शैलसमो अकम्पितः / अविवर्तितालक्षण धारणीमुखं कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.६९ //
SK
शुक्लान धर्माण सदा गवेषणा पापान धर्माण सदा विवर्जना / संक्लेशपक्षस्य सदा प्रचारु यो कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.७० //
SK
सर्वासु शिक्षासु गतिंगतो विदुः समाध्यवस्थानगतिंगतश्च / (Vऐद्य ११४) सत्त्वान चो आशयु ज्ञात्व चोदको देशेति धर्मं वरबुद्धबोधौ // SRS_१७.७१ //
SK
विशेषज्ञानं उपपत्तिज्ञानं अनन्तज्ञानं सुसमाप्तज्ञानम् / सर्वग्गतीनां प्रतिसंधिज्ञानं कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.७२ //
SK
गृहान् समुत्सृज्य प्रव्रज्यचित्तं त्रैधातुके अनभिरती ननुग्रहः / चित्तस्य संप्रग्रहणं सहर्षणा देशेति धर्मं द्विपदानमुत्तमः // SRS_१७.७३ //
SK
धर्मेषु चो नाभिनिवेश तायि परिग्रहो धर्मवरे सदा च / कर्मविपाके च दृढाधिमुक्तिं देशेति धर्म द्विपदानमुत्तमः // SRS_१७.७४ //
SK
विनयस्मि कौशल्य विपाकज्ञानं कलहं विवादान तथोपशान्तिः / अविग्रहं वाप्यविवादभूमिं देशेति धर्म द्विपदानमुत्तमः // SRS_१७.७५ //
SK
क्षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि सदा च कौशलम् / पदप्रभेदेषु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा // SRS_१७.७६ //
SK
पूर्वान्तज्ञानमपरान्तज्ञानं त्रियध्वसमता सुगतान शासने / परिच्छेद उक्तः स त्रिमण्डलस्य एवं जिनो देशयि धर्मस्वामी // SRS_१७.७७ //
SK
चित्तव्यवस्थान एकाग्रता च कायव्यवस्थान यथार्यभूमिः / ईर्यापथस्थो सद कालि रक्षणा देशेति धर्मं पुरुषर्षभो मुनिः // SRS_१७.७८ //
SK
(Vऐद्य ११५) हिरिश्च ओत्राप्यु प्रासादिकं च युक्तां गिरं भाषति लोकज्ञानम् / प्रवृत्तिधर्मं प्रकृतिं च प्राणिनां देशेति धर्मं वरबोधिउमग्र्याम् // SRS_१७.७९ //
SK
अनुग्रहं चो हिरिमोत्राप्यं च चित्तस्य चाकुशलता जुगुप्सना / धूतस्यानुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विपदानमुत्तमः // SRS_१७.८० //
SK
हिरिश्च ओत्राप्यु सदाचरेता गुरूणाभिवादन प्रत्युत्थानम् / मानस्य चो निग्रह आदितैव एवं जिनो देशयि धर्मस्वामी // SRS_१७.८१ //
SK
चित्तसमुत्थानत चित्तकल्यता ज्ञानप्रतीवेधु तथानुबोधम् / अज्ञानपक्षस्य सदा विवर्जना देशेति धर्मान् वरबुद्धबोधिम् // SRS_१७.८२ //
SK
चित्तप्रवेशं च रूतस्य ज्ञानं निरुक्त्यवस्थान विनिश्चितार्थम् / सर्वेष्वनर्थान सदा विवर्जनम् एवं जिनो देशयि धर्मस्वामी // SRS_१७.८३ //
SK
ससङ्गता सत्पुरुषेहि नित्यं विवर्जना कापुरुषान चैव / जिने प्रसादं सद प्रेमतां च एवं जिनो देशयि धर्म श्रेष्ठम् // SRS_१७.८४ //
SK
संकेतप्रज्ञप्तिव्याहारतां च संसारदुःखानि सदा विवर्जना / अलाभि लाभे च असक्तभावमेवं जिनो देशयि धर्ममुत्तमम् // SRS_१७.८५ //
SK
सत्कारु लब्ध्वा च न विस्मयेय्या असत्कृतश्चापि भवेदुपेक्षकः / भूते ऽपि वर्णं न कदाचि मोदिये इय देशना लोकहितस्य ईदृशी // SRS_१७.८६ //
SK
(Vऐद्य ११६) आक्रोशनां पंसन सर्वशो सहेदसंस्तवः सर्वगृहीहि सार्धम् / संसर्गतां प्रव्रजितेन कुर्यादेवं जिनो देशयि धर्मस्वामी // SRS_१७.८७ //
SK
बुद्धान चो गोचरि सुप्रतिष्ठितो अगोचरं सर्व विवर्जयित्वा / आचारसंपन्न सुदान्तचित्तो इय धर्मनेत्री सुगतेन देशिता // SRS_१७.८८ //
SK
ये बालधर्माः सद तान् विवर्जयेत् कुलदूषणं सर्व विवर्जयेच्च / आरक्षितव्यं सद बुद्धशासनं एवं जिनो देशयि धर्मस्वामी // SRS_१७.८९ //
SK
अल्पं च भाष्ये मधुरं सुयुक्तं कल्याणतां मृदुवचनं परेषाम् / प्रत्यर्थिकानां सहधर्मनिग्रहो इयं जिने ईदृश आनुशासनी // SRS_१७.९० //
SK
प्रतिक्रमेत् कालि न चो अकाले न विश्वसेत् सर्वपृथग्जनेषु / दुःखेन स्पृष्टो न भवेत दुर्मना इयं जिने ईदृश आनुशासनी // SRS_१७.९१ //
SK
दरिद्र दृष्ट्वा सधनं करेय्या दुःशील दृष्ट्वा अनुकम्पितव्या / हितवस्तुतायां सद ओवदेय्य इयं जिने ईदृश आनुशासनी // SRS_१७.९२ //
SK
धर्मेण सत्त्वा अनुगृह्णितव्या लोकामिषत्यागु सदा च कार्यो / न संचयं नो निचयं च कुर्यादियं जिने ईदृश आनुशासनी // SRS_१७.९३ //
SK
शीलप्रशंसा च कुशीलकुत्सना अशाठ्यता शीलवतां निषेवणम् / सर्वस्वकात्यागि धने ऽप्यनिश्रितो इयं जिने ईदृश आनुशासनी // SRS_१७.९४ //
SK
(Vऐद्य ११७) अध्याशयेनो गुरुणा निमन्त्रणा यथा च भाषे तथ सर्व कुर्याम् / अभीक्ष्ण सेवेय्य च धर्मभाणकं इयं जिने ईदृश आनुशासनी // SRS_१७.९५ //
SK
सगौरवः प्रीतमनाः सदा भवेत् सोम्याय दृष्टीय सदा स्थितो भवेत् / पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशासनी // SRS_१७.९६ //
SK
पूर्वंगमः कुशलचरीषु नित्यमुपायकौशल्य निमित्तवजने / संज्ञाविवर्ते तथ वस्तुलक्षणे इयं जिने ईदृश आनुशासनी // SRS_१७.९७ //
SK
सूत्रान्तनिर्हारपदेषु कौशलं सत्यान निर्देशपदेषु निश्चयः / विमुक्तिज्ञानस्य च साक्षिकारिता इयं जिने ईदृश आनुशासनी // SRS_१७.९८ //
SK
शून्याश्च धर्माः सद सेवितव्या विशारदाः शीलबले प्रतिष्ठिताः / समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृश आनुशासनी // SRS_१७.९९ //
SK
न ज्ञात्रलाभं पि कदाचि देशयेच्चित्तस्य चापी कुहनां न कुर्यात् / दृष्टीकृतां सर्व विवर्जयेच्च इयं जिने ईदृश आनुशासनी // SRS_१७.१०० //
SK
प्रतिभानु श्रेष्ठं वर धारणीये ज्ञानस्य चोभासु अनन्तपारो / अधिष्ठानमन्त्र प्रतिभानयुक्तिरियं जिने ईदृश आनुशासनी // SRS_१७.१०१ //
SK
(Vऐद्य ११८) शीलस्य द्वारमिम मार्गभावना प्रतिपत्ति - ओवादनयश्च भद्रको / अनुशासनी अत्र चरित्व शासनी इयं जिने ईदृश आनुशासनी // SRS_१७.१०२ //
SK
अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत / अज्ञान वर्जेय्य स्थिहित्व ज्ञाने इयं जिने ईदृश आनुशासनी // SRS_१७.१०३ //
SK
ज्ञानप्रतिष्ठा तथ योगभूमी योगेश्वरी बोधयि प्रस्थितानाम् / निषेवणा सत्पुरुषाण नित्यं इयं जिने ईदृश आनुशासनी // SRS_१७.१०४ //
SK
अयुक्तयोगीन सदा विवर्जना तथागतैर्भाषित बुद्धभूमि / अनुमोदिता सर्विहि पण्डितेहि इयं जिने ईदृश आनुशासनी // SRS_१७.१०५ //
SK
बालैः प्रतिक्षिप्त अज्ञातकेहि अभूभिरत्र पृथुश्रावकाणाम् / परिगृहीताः सद बोधिसत्त्वैः इयं जिने ईदृश आनुशासनी // SRS_१७.१०६ //
SK
तथागतेहि अनुबुद्धमेतं देवेहि चो सत्कृतु पूजितं च / अनुमोदितं ब्रह्मसहस्रकोटिभिः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.१०७ //
SK
नागसहस्रेहि सदा सुसत्कृतं सुपर्णयक्षेहि च किन्नरेहि / या भाषिता बोधिवरा जिनेभिः कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.१०८ //
SK
पर्याप्त या नित्यु सुपण्डितेहि धनं च श्रिष्ठं प्रवरं सुलब्धम् / (Vऐद्य ११९) निरामिषं ज्ञान चिकित्स उत्तमा कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.१०९ //
SK
ज्ञानस्य कोषः प्रतिभानमक्षयं सूत्रान्तकोटीन प्रवेश एषः / परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.११० //
SK
नौका इयं देशित पारगामिनां नावा पि चो ओघगतान एषा / कीर्तिर्यशो वर्धति वर्णमाला येषामयं शान्त समाधि देशितः // SRS_१७.१११ //
SK
प्रशंस एषा च तथागतानां स्तवश्च एषो पुरुषर्षभाणाम् / स्तव बोधिसत्त्वान नयश्च अक्षयो येही अयं शान्त समाधि देशितः // SRS_१७.११२ //
SK
मैत्री इयं दोषशमे प्रकाशिता उपेक्षियं कारुणिकान भूमिम् / आश्वासयन्तेष महाशयानां येषां कृतेनैष समाधि भाषितः // SRS_१७.११३ //
SK
प्रतिपत्तियं देशित सिंहनादिनामितु बुद्धज्ञानस्य वरस्य आगमः / सर्वेष धर्माण स्वभावमुद्राः समाध्ययं देशितु नायकेहि // SRS_१७.११४ //
SK
सर्वज्ञज्ञानस्य च आहरित्रिमा चर्या इयं बोधयि प्रस्थितानाम् / वित्रासनं मारचमूय चापि समाध्ययं शान्त जिनेन देशितः // SRS_१७.११५ //
SK
विद्या इयं धर्मस्थितान तायिनां अमित्रमध्ये परमा च रक्षा / प्रत्यर्थिंकानां सहधर्मनिग्रहाः समाध्ययं शान्त जिनेन देशितः // SRS_१७.११६ //
SK
(Vऐद्य १२०) प्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि / विशिष्ट अष्टादश बुद्धधर्माः समाधि शान्तेष निषेवमाणाः // SRS_१७.११७ //
SK
दशान पर्येष्टि बलान भूता पूर्वनिमित्तं पि च बुद्धज्ञाने / ये बुद्धधर्माः पुरुषोत्तमेन प्रकाशिता लोकहितानुकम्पिना // SRS_१७.११८ //
SK
बुद्धान पुत्रेभिरयं प्रतीहितो विमोक्षकामानयु मार्गु देशितः / प्रीतिश्च तस्मिन् सुगतात्मजानां श्रुणित्विमं शान्त समाधि दुर्दृशम् // SRS_१७.११९ //
SK
या बुद्धज्ञानस्य च पारिपूरिता याभेषते पण्डितु बोधिसत्त्वः / विशुद्धचित्तश्च शुचिर्निरङ्गणो इमं निषेवेत समाधि शान्तम् // SRS_१७.१२० //
SK
परिशुद्ध कायो ऽस्य यथा जिनान विमोक्षज्ञानं च विमुक्तिदर्शनम् / असंकिलिष्टः सद रागबन्धनैः इमं निषेवेत समाधि भद्रकम् // SRS_१७.१२१ //
SK
अभूमि दोषे विगमश्च मोहे ज्ञानस्य चो आगमु मुक्तिमिच्छतः / विद्याय उत्पादु अविद्यनाशकम् इमं निषेवेत समाधि शान्तम् // SRS_१७.१२२ //
SK
विमुक्तिसाराणिय तृप्ति भाषिता ध्यायीनयं शान्त समाधि देशितः / चक्षुश्च बुद्धानमनिन्दितानामिमं निषेवेत समाधि शान्तम् // SRS_१७.१२३ //
SK
अभिज्ञ एषा बहुक्षेत्रे दर्शिता ऋद्धिश्च बुद्धान अनन्त दर्शिता / या धारणी सापि ततो न दुर्लभा निषेवमाणस्य समाधिमेतम् // SRS_१७.१२४ //
SK
(Vऐद्य १२१) शान्तेन्द्रियस्यो इह स्थानु बोधये इदमधिष्ठानमनन्तदर्शितम् / सूक्ष्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम् // SRS_१७.१२५ //
SK
सु बुध्यते नैष अयुक्तयोगैर्विवर्तनं सर्वसु अक्षराणाम् / न शक्यु घोषेण विजाननाय येनो अयं शान्त समाधि न श्रुतः // SRS_१७.१२६ //
SK
ज्ञातं तु विज्ञैरयु बोधिसत्त्वैर्यथा व यं देशितु धर्मस्वामिना / प्रतिबुद्धु शान्तेहि अनिन्दितेहि इमं समाधिं प्रतिषेवमाणैः // SRS_१७.१२७ //
SK
आरब्धवीर्येहि समुद्गृहीतमुपस्थितं च सापि सदा सुधारितम् / दुःखक्षयो जातिनिरोधज्ञानमिमं समाधिं प्रतिषेवमाणैः // SRS_१७.१२८ //
SK
सर्वेष धर्माणमजाति भाषिता एवं च सर्वासु भवग्गतीषु / ज्ञानाग्रु बुद्धान महाशयानां कच्चिज्जिनो भाषति तं समाधिम् // SRS_१७.१२९ //
SK
तस्यो कुमारस्यिमि गाथ भाषतो अष्टाशीतिनियुतसहस्र पूर्णाः / घोषानुगा क्षान्ति लभिंसु तत्र अविवर्तिकाये स्थितु बुद्धज्ञाने // SRS_१७.१३० //
SK
दृढबलस्तमवदी कुमारमद्यापि सो तिष्ठति लोकनाथः / पृच्छामि त्वं दारक एतमर्थं कुतस्त्वया एष श्रुतः समाधिः // SRS_१७.१३१ //
SK
कुमारु राजन् अवदी शृणोहि दृष्टस्मि कोटीनियुतं जिनानाम् / (Vऐद्य १२२) एकस्मि कल्पस्मि ते सर्वि सत्कृता अयं च मे शान्त समाधि पृच्छितः // SRS_१७.१३२ //
SK
चत्वारि कल्पा नवतिं च अन्ये कल्पान कोटीनियुता सहस्राः / जातिस्मरो भोम्यहु तत्र तत्र न चापि गर्भे उपपद्यि जातु // SRS_१७.१३३ //
SK
ततो मया एषा समाधि भावितः शुद्धं श्रुतस्तेष जिनान भाषताम् / श्रुत्वा च उद्दिष्टु जनेत्व छन्दं निष्काङ्क्षआप्तेन स्पृशिष्यि बोधिम् // SRS_१७.१३४ //
SK
ये भिक्षु मह्यं परिपृच्छदेन्ति पर्यापुणन्तस्य इमं समाधिम् / उपस्थपेमी अहु तत्र गौरवं यथैव लोकार्थकराण अन्तिके // SRS_१७.१३५ //
SK
येषां मया अन्तिक एक गाथा उद्दिष्ट चर्यां चरतानुलोमिकीम् / मान्यामि तानप्यहु शान्तु एते उपस्थपेमी अहु बुद्धगौरवम् // SRS_१७.१३६ //
SK
यश्चापि मां पृच्छितु कश्चिदेति पर्यापुणन्तं इमु सत्समाधिम् / स्वप्नान्तरे ऽपीह न मे ऽस्ति काङ्क्षा नाहं भविष्ये जिनु लोकनायकः // SRS_१७.१३७ //
SK
वृद्धेषु मध्येषु नवेषु भिक्षुषु सगौरवो भोम्यहु सुप्रतीतः / सगारवस्यो मम वर्धते यशः पुण्यं च कीर्तिश्च गुणास्तथैव // SRS_१७.१३८ //
SK
कलीविवादेषु न भोमि उत्सुको अल्पोत्सुको भोम्यहु तत्र काले / अन्या गतिर्भोति करित्व पापकं अन्या गतिर्भोति करित्व भद्रकम् // SRS_१७.१३९ //
SK
अयुक्तयोगान असंयतानाममनोज्ञ तेषां वचनं श्रुणित्वा / (Vऐद्य १२३) कर्मस्वको भोम्यहु तस्मि काले कृतस्य कर्मस्य न विप्रणाशः // SRS_१७.१४० //
SK
न ह्यत्र क्रोधो भवती परायणं क्षान्तीबलं गृह्णयहु बुद्धवर्णितम् / क्षान्तिः सदा वर्णित नायकेहि क्षान्तिं निषेवित्व न बोधि दुर्लभा // SRS_१७.१४१ //
SK
अहं च भोमी सद शीलवन्तो अन्यांश्च शीलस्मि प्रतिष्ठपेमि / शीलस्य वर्णु सदहं भणामि वर्णं च भोति मम तत्र भाषितम् // SRS_१७.१४२ //
SK
अरण्यवर्णं च सदा पि भाषे शीलस्मि चो भोमि सदा प्रतिष्ठितः / समादपेमि अहु अन्य पोषधे तांश्चैव बोधाय समादपेमि // SRS_१७.१४३ //
SK
तान् ब्रह्मचर्ये ऽपि समादपेमि अर्थस्मि धर्मस्मि प्रतिष्ठपेमि / तेषां च बोधिम्यहु बोधिमार्गं यस्मिन्निमे भोन्ति अनन्त सङ्गाः // SRS_१७.१४४ //
SK
स्मराम्यहं कल्पमतीतमध्वनि यदा जिनो आसि स्वराङ्गघोषः / प्रतिज्ञ तस्यो पुरतः कृता मे क्षान्तीबलो भोम्यहु नित्यकालम् // SRS_१७.१४५ //
SK
तत्र प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटी चतुरो अशीतिम् / मारेणहं कुत्सित पंसितश्च न चैव चित्तं मम जातु क्षुब्धम् // SRS_१७.१४६ //
SK
जिज्ञासनां तत्र करित्व मारो ज्ञात्वान मह्यं दृढ क्षान्तिमैत्रीम् / प्रसन्नचित्तश्चरणानि वन्द्य मे पञ्चशता बोधिवराय प्रस्थिताः // SRS_१७.१४७ //
SK
(Vऐद्य १२४) अमत्सरी भोम्यहु नित्यकालं त्यागस्य चो वर्ण सदा प्रभाषे / आढ्यश्च भोमी धनवान् महात्मा दुर्भिक्षकाले बहु भोमि दायकः // SRS_१७.१४८ //
SK
ये भिक्षु धारेन्ति इमं समाधिं ये चापि वाचेन्ति य उद्दिशन्ति / करोमि तेषां अहु पारिचर्यां सर्वे च भेष्यन्ति नराणमुत्तमाः // SRS_१७.१४९ //
SK
कर्मणा तेनाहमनुत्तरेण पश्यामि बुद्धान् बहु लोकनाथान् / लभित्व प्रव्रज्य जिनानुशासने भवामि नित्यं विदु धर्मभाणकः // SRS_१७.१५० //
SK
धूताभियुक्तो अहु भोमि नित्यं कान्तारमारण्य सदा निषेवी / नाहारहेतोः कुहनां करोमि संतुष्टु भोमी इतरेतरेण // SRS_१७.१५१ //
SK
अनीर्षुको भोम्यहु नित्यकालं कुलेषु चाहं न भवामि निश्रितः / कुलेषु सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्युकस्तुष्टि वनेषु विन्दमि // SRS_१७.१५२ //
SK
मैत्रीविहारी अहु भोमि नित्यमाक्रुष्टु सन्ता न जनेमि क्रोधम् / मैत्रीविहारिष्यमि सूरतस्य चतुर्दिशं वर्धति वर्णमाला // SRS_१७.१५३ //
SK
अल्पेच्छु संतुष्टु भवामि नित्यमारण्यकश्चैव धुताभियुक्तः / न चोत्सृजामी अहु पिण्डपातं दृढं समाधान धुतेषु विन्दमि // SRS_१७.१५४ //
SK
श्राद्धश्च भोमी मनसः प्रसादो बहुप्रसादः सद बुद्धशासने / (Vऐद्य १२५) प्रसाद बहु लप्स्यमि आनुशंसा प्रासादिको भोमि अहीन इन्द्रियः // SRS_१७.१५५ //
SK
यश्चैव भाषाम्यहु तत्र तिष्ठे प्रतिपत्तिसारो अहु नित्यु भोमि / प्रतिपत्तिसारस्यिमि देवनागाः कुर्वन्त्युस्थानु प्रसन्नचित्ताः // SRS_१७.१५६ //
SK
गुणा इमे कीर्तित यावता मे एते च अन्ये च बहू अनेके / ये शिक्षितव्याः सद पण्डितेन यो इच्छती बुध्यितु बुद्धबोधिम् // SRS_१७.१५७ //
SK
स्मराम्यतो बहुतरु दुष्कराणि ये पूर्वकल्पे चरितान्यनेके / बहुं पि दानीं भणितु न शक्यं गच्छामि तावत् सुगतस्य अन्तिकम् // SRS_१७.१५८ //
SK
सुतीक्ष्णप्रज्ञो विदु बोधिसत्त्वो तस्मिन् क्षणे स्पर्शयि पञ्चभिज्ञा / ऋद्धीय सो गच्छि जिनस्य अन्तिके स प्राणिकोटीभिरशीतिभिः सह // SRS_१७.१५९ //
SK
दृढबलो परमु उदग्र आसीत् सार्धं तदा कोटिशतेहि षष्टिभिः / उपसंक्रमी मूलु तथागतस्य वन्दित्व पादौ पुरतो न्यषीदत् // SRS_१७.१६० //
SK
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि / श्रुत्वा च सो पार्थिविमं समाधिं उज्झित्व राज्यं निरपेक्षु प्रव्रजी // SRS_१७.१६१ //
SK
स प्रव्रजित्वान इमं समाधिं भावेति वाचेति प्रकाशयेति / स षष्टिभिः कल्पसहस्रु पश्चात् पद्मोत्तरो नाम जिनो अभूषि // SRS_१७.१६२ //
SK
षष्टिस्तदा कोटिशत अनूनका ये राज्ञ सार्धं उपसंक्रमी जिनान् / (Vऐद्य १२६) ते चापि श्रुत्वैव समाधिमेतं तुष्टा उदग्रास्तद प्रव्रजिंसु // SRS_१७.१६३ //
SK
ते प्रव्रजित्वान इमं समाधिं धारेंसु वाचेंसु प्रकाशयिंसु / षष्टीन कल्पानि नयुतान अत्यया स्पृशिंषु बोधिं वरमेककल्पे // SRS_१७.१६४ //
SK
अनन्तज्ञानोत्तरनामधेया अभूषि बुद्धा नरदेवपूजिताः / तदेकमेके द्विपदानमुत्तमो मोचेन्ति सत्त्वान्यथ गङ्गवालिकाः // SRS_१७.१६५ //
SK
शीरीबलो राजु अहं अभूषि इमां चरन्तो वरबोधिचारिकाम् / ये मम पुत्राः शत पञ्च आसन् इममेव एते अनुधर्मपापाः // SRS_१७.१६६ //
SK
एवं मया कल्पसहस्रकोटयो आरब्धवीर्येण अतन्द्रितेन / समाधि पर्येष्ट अयं विशुद्धः समुदानयन्नेति तमग्रबोधिम् // SRS_१७.१६७ //
SK
कुमार तस्माद्धि ये बोधिसत्त्वा आकाङ्क्षते एतु समाधिमेषितुम् / आरब्धवीर्यो निरपेक्षु जीविते ममा कुमारा अनुशिक्षते सदा // SRS_१७.१६८ //
SK
इति श्रीसमाधिराजे बहुबुद्धनिर्हारसमाधिमुखपरिवर्तो नाम सप्तदशः ||
SK
(Vऐद्य १२७) १८ Sअमाध्यनुपरिन्दनपरिवर्तः |
SK
तत्र भगवांश्चन्द्रप्रभकुमारमामन्त्रयते स्म - तस्मात् तर्हि कुमार यो बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तेन भावनायोगमनुयुक्तेन च भवितव्यम् | तस्यैतं प्रतिपद्यमानस्य चत्वारो गुणानुशांसाः प्रतिकाङ्क्षितव्याः | कतमे चत्वारः? यदुत अनभिभूतो भविष्यति पुण्यैः || अनवमर्दनीयो भविष्यति प्रत्यर्थिकैः | अप्रमेयो भविष्यति ज्ञानेन | अनन्तश्च भविष्यति प्रतिभानेन | यो हि कश्चित् कुमार बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तस्येमे चत्वारो गुणानुशंसाः प्रतिकाङ्क्षितव्याः ||
SK
अथ खलु भगवांस्तस्यां वेलायामि गाथा अभाषत -
SK
अनाभिभूतः पुण्येहि नित्यकालं भविष्यति / समाधिं शान्तुभावेन सर्वबुद्धान गोचरम् // SRS_१८.१ //
SK
पुण्येहि रक्षितः शूरो नित्यकालं भविष्यति / चरन् स परमां शुद्धां विशिष्टां बोधिचारिकाम् // SRS_१८.२ //
SK
नास्य प्रत्यर्थिको जातु विहेठां कश्चित् करिष्यति / परिगृहीतो बुद्धेहि नित्यकालं भविष्यति // SRS_१८.३ //
SK
अप्रमेयश्च ज्ञानेन नित्यकालं भविष्यति / अनन्तः प्रतिभानेन धारेन्तः शान्तिमां गतिम् // SRS_१८.४ //
SK
सततमनभिभूतपुण्यस्कन्धो भविष्यति श्रेष्ठतरं तु बोधिचर्याम् / न भविष्यति प्रत्यर्थिंकान धृष्यो इमु वरु शान्त समाधि धारयित्वा // SRS_१८.५ //
SK
ज्ञानु विपुलु तस्य भोति तीक्ष्णं तथ प्रतिभानमनन्त चक्षु शुद्धम् / भविष्यति सद तस्य पण्डितस्य स्मृतिबलमेव च धारणीबलं च // SRS_१८.६ //
SK
(Vऐद्य १२८) परम प्रियु मनापु पण्डितानां भविष्यति चार्थपदं प्रभाषमाणः / ज्ञानु बहुजनस्य प्रज्ञवन्तो इमु वरु शान्त समाधि भाषमाणः // SRS_१८.७ //
SK
लाभि परम श्रेष्ठ चीवराणां शय्य निमन्त्रणमा(खा ?)द्यभोजनानाम् / भविष्यति सुकुमार दर्शनीयो इमु वरु शान्त समाधि धारयन्तो // SRS_१८.८ //
SK
द्रक्ष्यति बहु बुद्ध लोकनाथान् अतुलिय काहिति पूज नायकानाम् / न च भविष्यति तस्य अन्तरायो इमु वरु शान्त समाधिमेषतो हि // SRS_१८.९ //
SK
भाषिष्यति पुरतः स्थित्व लोकनाथान् सुरुचिर गाथशतेहि तुष्टचित्तः / न च भविष्यति तस्य जातु हानी इमु वरु शान्त समाधि धारयित्वा // SRS_१८.१० //
SK
स्थास्यति पुरतो ऽस्य लोकनाथः सुरुचिरलक्षणकायु व्यञ्जनेभिः / न च भविष्यति तस्य ज्ञानहानी इमु वरु शान्त समाधि धारयित्वा // SRS_१८.११ //
SK
न कदाचि भविष्यति दीनचित्तः सतत भविष्यति आढ्यु नो दरिद्रः / न च भविष्यति उद्गृहीतचित्तो इमु वरु शान्त समाधि धारयित्वा // SRS_१८.१२ //
SK
न च भविष्यति वा अक्षणेषु महीपति भेष्यति राजचक्रवर्ती / सद भविष्यति राज्य तस्य क्षेमं इमु वरु शान्त समाधि धारयित्वा // SRS_१८.१३ //
SK
ज्ञानु विपुलु नात्र संशयो ऽस्ति क्षपयितु कल्पशतेहि भाषमाणैः / (Vऐद्य १२९) श्रुत इमु समाधि शान्तभूमी यथ उपदिष्ट तथा स्थिहेत धीरो // SRS_१८.१४ //
SK
अपरिमित अनन्त कल्पकोट्यो दशबल तस्य भणेयुरथानुशंसाम् / न च परिकीर्तिता कला भवेय्या यथ जलबिन्दु ग्रहीतु सागरातो // SRS_१८.१५ //
SK
हर्षितु स कुमारु तस्मि काले उत्थितु प्राञ्जलिको नमस्यमानः / दशबलभिमुखो स्थितो उदग्रो गिरवराय उदानुदानयति // SRS_१८.१६ //
SK
अचिन्तियो महावीरो लोकनाथ प्रभाकरः / यावच्चेमे नरेन्द्रेण अनुशंसाः प्रकाशिताः // SRS_१८.१७ //
SK
आख्याहि मे महावीर हितैषी अनुकम्पकः / को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति // SRS_१८.१८ //
SK
तमेनमवदच्छास्ता कलविङ्करुतस्वरः / असङ्गज्ञानी भगवानिमां वाचं प्रभाषते // SRS_१८.१९ //
SK
कुमार शृणु भाषिष्ये प्रतिपत्तिमनुत्तराम् / यो धर्माननुशिक्षन्तो इदं सूत्रं श्रुणिष्यति // SRS_१८.२० //
SK
पूजां कुर्वन् जिनेन्द्राणां बुद्धज्ञानगवेषकः / मैत्रचित्तं निषेवन्तो इदं सूत्रं श्रुणिष्यति // SRS_१८.२१ //
SK
धूतान् गुणांश्च संलेखान् गुणान् श्रेष्ठान् निषेवतः / प्रतिपत्तौ स्थिहित्वा च इदं सूत्रं श्रुणिष्यति // SRS_१८.२२ //
SK
न पापकारिणां हस्तादिदं सूत्रं श्रुणिष्यति / न यैर्विरागितं शीलं लोकनाथानमन्तिके // SRS_१८.२३ //
SK
ब्रह्मचारीण शूराणां येषां चित्तमलोलुपम् / अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रुणिष्यति // SRS_१८.२४ //
SK
ये हि पुरिमका बुद्धा लोकनाथा उपस्थिताः / तेषां हस्तादिदं सूत्रं पश्चात्काले श्रुणिष्यति // SRS_१८.२५ //
SK
ये तु पूर्वासु जातीसु अभूवन्नन्यतीर्थिकाः / तेष्विमं श्रुत्व सूत्रान्तं सौमनस्यं न भेष्यति // SRS_१८.२६ //
SK
(Vऐद्य १३०) मम च प्रव्रजित्वेह शासने जीविकार्थिकाः / लाभसत्काराभिभूता अन्यमन्यं प्रतिक्षिपि // SRS_१८.२७ //
SK
अध्योषिता परस्त्रीषु बहु भिक्षु असंयता / लाभकामाश्च दुःशीला इदं सूत्रं न श्रद्दधी // SRS_१८.२८ //
SK
पुण्यानुप्राप्ता बुद्धेषु ध्यानप्राप्त्याप्यनर्थिकाः / निश्रिताश्चात्मसंज्ञायामिदं सूत्रं न श्रद्दधे // SRS_१८.२९ //
SK
लौकिक ध्यानफलसंज्ञी भेष्यते कालि पश्चिमे / अर्हत्पिण्डं च ते भुक्त्वा बुद्धबोधिं प्रतिक्षिपि // SRS_१८.३० //
SK
यश्चैव जम्बुद्वीपस्मि भिन्देयात् सर्व चेतिया / यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते // SRS_१८.३१ //
SK
यश्चार्हतो निहनेय्या यथा गङ्गाय वालुकाः / यश्च प्रतिक्षिपेत् सूत्रमिदं पापं विशिष्यते // SRS_१८.३२ //
SK
क उत्सहन्ति युष्माकं पश्चिमे कालि दारुणे / सद्धर्म लोके वर्तन्ते इदं सूत्रं प्रकाशितुम् // SRS_१८.३३ //
SK
रोदन्तो उत्थितस्तत्र कुमारो जिनमब्रवीत् / सिंहनादं नदत्येवं पुत्रो बुद्धस्य औरसः // SRS_१८.३४ //
SK
अहं निर्वृते संबुद्धे पश्चिमे कालि दारुणे / सूत्रं वैस्तारिकं कुर्यां त्यजित्वा कायु जीवितम् // SRS_१८.३५ //
SK
सहिष्याम्यत्र बालनामभूतां परिभाषणाम् / आक्रोशांस्तर्जनां चैव अधिवासिस्ये नायक // SRS_१८.३६ //
SK
क्षपेयं पापकं कर्म यन्मया पुरिमे कृतम् / अन्येषु बोधिसत्त्वेषु व्यापादो जनितो मया // SRS_१८.३७ //
SK
स्थपेत्व पाणिं मूर्धस्मि बुद्धः काञ्चनसंनिभम् / शास्ता चन्द्रप्रभं प्राह मञ्जुघोषस्तथागतः // SRS_१८.३८ //
SK
करोमि ते अधिष्ठानं कुमार कालि पश्चिमे / न ब्रह्मचर्यान्तरायो जीवितस्य च भेष्यति // SRS_१८.३९ //
SK
अन्ये चाष्टौ शतान्यत्र उत्थिता धर्मधारकाः / वयं हि पश्चिमे काले अस्य सूत्रस्य धारकाः // SRS_१८.४० //
SK
(Vऐद्य १३१) देवनागान यक्षाण अशीतिकोट्युपस्थिता / अन्ये च नयुताः षष्टि वन्दन्ते लोकनायकम् // SRS_१८.४१ //
SK
वयमिमेषां भिक्षूणां य इमे अद्य उत्थिताः / तस्मिंश्च पश्चिमे काले रक्षां काहाम नायक // SRS_१८.४२ //
SK
अस्मिन् सूत्रे प्रभाष्यन्ते बुद्धक्षेत्राः प्रकम्पिताः / यथा वालुक गङ्गाया अधिष्ठानेन शास्तुनः // SRS_१८.४३ //
SK
ये च प्रकम्पिताः क्षेत्राः सर्वेषु बुद्धनिर्मिताः / प्रेषिता लोकनाथेन ये हि धर्माः प्रकाशिताः // SRS_१८.४४ //
SK
एकैकशश्च क्षेत्रातः सत्त्वकोट्यो अचिन्तियाः / एवं धर्मं तदा श्रुत्वा बुद्धज्ञाने प्रतिष्ठिताः // SRS_१८.४५ //
SK
इतश्च बुद्धक्षेत्रातो नवतिर्देवकोटियः / बोधिचित्तं समुत्पाद्य बुद्धं पुष्पैरवाकिरन् // SRS_१८.४६ //
SK
ते व्याकृता नरेन्द्रेण कल्पकोटेरशीतिभिः / सर्वे ऽप्येकत्र कल्पे ऽस्मिन् भविष्यन्ति विनायकाः // SRS_१८.४७ //
SK
भिक्षुभिक्षुणिकाश्चैव उपासक उपासिकाः / षट्सप्तति प्राणकोट्यो येहि सूत्रमिदं श्रुतम् // SRS_१८.४८ //
SK
ते ऽपि व्याकृत बुद्धेन द्रक्ष्यन्ते लोकनायकान् / यथा वालुक गङ्गायाश्चरन्तो बोधिचारिकाम् // SRS_१८.४९ //
SK
सर्वेषां पूज काहिन्ति बुद्धज्ञानगवेषकाः / तत्र तत्र श्रुणिष्यन्ति इदं सूत्रं निरुत्तरम् // SRS_१८.५० //
SK
अशीत्या कल्यकोटीभि भेष्यन्ते लोकनायकाः / सर्वे एकत्र कल्पे ऽस्मिं हितैषी अनुकम्पकाः // SRS_१८.५१ //
SK
मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तराम् / सद्धर्म श्रेष्ठं धारित्वा गमिष्यन्ति सुखावतीम् // SRS_१८.५२ //
SK
यत्रासौ विरजो बुद्धो अमितायुस्तथागतः / तस्य पूजां करिष्यन्ति अग्रबोधीय कारणात् // SRS_१८.५३ //
SK
त्रिसप्ततिरसंख्येया कल्पा ये च अनागताः / न दुर्गतिं गमिष्यन्ति श्रुत्वेदं सूत्रमुत्तमम् // SRS_१८.५४ //
SK
ये केचित् पश्चिमे काले श्रोष्यन्ते सूत्रमुत्तमम् / अश्रुपातं च काहिन्ति सर्वैस्तैः सत्कृतो ह्यहम् // SRS_१८.५५ //
SK
आरोचयामि सर्वेषां यावन्तः पुरतः स्थिताः / परिन्दामि इमां बोधिं या मे कृछ्रेण स्पर्शिता // SRS_१८.५६ //
SK
इति श्रीसमाधिराजे समाध्यनुपरिन्दना नाम परिवर्तो ऽष्टादशः |
SK
(Vऐद्य १३२) १९ Aचिन्त्यबुद्धधर्मनिर्देशपरिवर्तः |
SK
तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता अचिन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्यम् | अचिन्त्यबुद्धधर्मपरिपृच्छकजातिकेन भवितव्यम् | अचिन्त्यबुद्धधर्माधिमुक्तिकेन भवितव्यम् | अचिन्त्यबुद्धधर्मपर्येषणाकुशलेन भवितव्यम् | अचिन्त्यांश्च बुद्धधर्मान् श्रुत्वा नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् | एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - यथा कथं भगवन् बोधिसत्त्वो महासत्त्वः अचिन्त्यबुद्धधर्मनिर्देशकुशलो भवति, अचिन्त्यबुद्धधर्मपरिपृच्छाकुशलश्च, अचिन्त्यबुद्धधर्माधिमुक्तश्च? अचिन्त्यबुद्धधर्मपर्येषणाकुशलश्च भवति, अचिन्त्यांश्च बुद्धधर्मान् श्रत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते?
SK
तेन खलु पुनः समयेन पञ्चशिखो नाम गन्धर्वपुत्रः पञ्चभिस्तूर्यशतैः सार्धं गगनतलादवतीर्य भगवतः पुरतः स्थितो ऽभूदुपस्थानपरिचर्यायै | अथ खलु पञ्चशिखस्य गन्धर्वपुत्रस्यैतदभवत् - यन्न्वहं यथैवः देवानां त्रायस्त्रिंशानां शक्रस्य च देवानामिन्द्रस्य सुधर्मायां देवसभायामुपस्थानपरिचर्यां करोमि, संगीतिं संप्रयोजयामि, तथैवाद्य देवातिदेवस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजायै संगीतिं संप्रयोजयेयम् ||
SK
अथ खलु पञ्चशिखो गन्धर्वपुत्रस्तैः पञ्चभिस्तूर्यशतैस्तैश्च पञ्चमात्रैर्गन्धर्वपुत्रशतैः सार्धमेकस्वरसंगीतिसंप्रयुक्ताभिस्तूर्यसंगीतिभिर्वैदूर्यदण्डां वीणामादाय भगवतः पुरतो वादयामास | अथ खलु भगवत एतदभूत् - यन्न्वहं तथारूपमृद्ध्यभिसंस्कारमभिसंस्कुर्यां यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन चन्द्रप्रभः कुमारभूतो ऽचिन्त्यबुद्धधर्मनिध्यप्तिकौशल्यमधिगच्छेत्, सर्वधर्मस्वभावसमताविपञ्चिताच्च समाधेर्न चलेत् | पञ्चशिखस्य च गन्धर्वपुत्रस्य तन्त्रीस्वरगीतिस्वरकौशल्यमुपदिशेयम् ||
SK
अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यत्तेभ्यः पञ्चभ्यस्तूर्यशतेभ्यः संप्रयुक्तेभ्यः प्रवादितेभ्यो यथानकुम्पोपसंहृतः शब्दो निश्चरति धर्मप्रतिसंयुक्तः | इमाश्च बुद्धधर्मनिध्यप्तिगाथा निश्चरन्ति बुद्धानुभावेन -
SK
एकहि वालपथे बहुबुद्धा यात्तिक वालिक गङ्गनदीये / (Vऐद्य १३३) क्षेत्रं तात्तिक तेष जिनानां ते च विलक्षण ते विसभागाः // SRS_१९.१ //
SK
पञ्चगतीगत बालपथस्मिन् नैरयिका पि च तिर्यगताश्च / ते यमलौकिक देवमनुष्या नापि च संकरु नो च उपीडो // SRS_१९.२ //
SK
तत्र पदे ससराः ससमुद्राः सर्व नदी तथ उत्स तडागाः / नो पि च संकरु नो च उपीडो एवमचिन्तियु धर्म जिनानाम् // SRS_१९.३ //
SK
तत्र पदे ऽपि च पर्वत नेके चक्रवाल अपि मेरु सुमेरु / ये मुचिलिन्द महामुचिलिन्द विन्ध्यथ गृध्रकूटो हिमवांश्च // SRS_१९.४ //
SK
तत्र पदे निरयाश्च सुघोरास्तपन प्रतापन आनभिरम्याः / तत्र च ये निरये उपपन्ना वेदन ते पि दुखां अनुभोन्ति // SRS_१९.५ //
SK
तत्र पदे ऽपि च देवविमाना द्वादशयोजन ते रमणीयाः / तेषु बहू मरुतान् सहस्रा दिव्यरतीषु सुखान्यनुभोन्ति // SRS_१९.६ //
SK
तत्र पदे च बुद्धान उत्पादो शासनु लोकविदून ज्वलेति / तं च न पश्यति ज्ञानविहीनो येन न शोधित चर्य विशुद्धा // SRS_१९.७ //
SK
तत्र पदे ऽपि च धर्म निरुद्धो निर्वृतु नायकु श्रूयति शब्दः / तत्र पदे ऽपि च केचि शृणोन्ति तिष्ठति नायकु भाषति धर्मम् // SRS_१९.८ //
SK
तत्र पदे ऽपि च केषचिदायुर्वर्ष अचिन्तिय वर्तति संज्ञा / (Vऐद्य १३४) तत्र पदे ऽपि वा कालु करोन्ति नो चिरु जीवति श्रूयति शब्दः // SRS_१९.९ //
SK
तत्र पदे ऽपि च केषचि संज्ञा दृष्टु तथागतु पूजितु बुद्धो / तोषितु मानसु संज्ञग्रहेण नो पि च पूजितु नो च उपन्नो // SRS_१९.१० //
SK
स्वस्मि गृहे सुपिनेव मनुष्यो कामगुणेषु रतीरनुभूय / स प्रतिबुद्धु न पश्यति कामांस्तच्च प्रजानति सो सुपिनो ति // SRS_१९.११ //
SK
यत् तथ दृष्टु श्रुत मत ज्ञातं सर्वमिदं वितथं सुपिनो वा / यस्तु भवेत समाधिय लाभी सो इमु जानति धर्मस्वभावान् // SRS_१९.१२ //
SK
सूसुखिताः सद ते नर लोके येष प्रियाप्रियु नास्ति कहिंचित् / ये वनकन्दरके ऽभिरमन्ति श्रामणकं सुसुखं अनुभोन्ति // SRS_१९.१३ //
SK
येष ममापि तु नास्ति कहिंचिद् येष परिग्रहु सर्वशु नास्ति / खङ्गसमा विचरन्तिमु लोके ते गगने पवनेव व्रजन्ति // SRS_१९.१४ //
SK
भावितु मार्ग प्रवर्तितु ज्ञानं शून्यक धर्म निरात्मनु सर्वे / येन विभावित भोन्तिमि धर्मास्तस्य भवेत् प्रतिभानमनन्तम् // SRS_१९.१५ //
SK
सूसुखिता बत ते नर कोले येष न सज्जति मानसु लोके / वायुसमं सद तेष्विह चित्तं नो च प्रियाप्रियु विद्यति सङ्गो // SRS_१९.१६ //
SK
(Vऐद्य १३५) अप्रियु ये दुखितेहि निवासो ये हि प्रिया दुखि तेहि वियोगो / अन्त उभे अपि एति जहित्वा ते सुखिता नर ये रत धर्मे // SRS_१९.१७ //
SK
ये अनुनीयति श्रुत्विमि धर्मान् स प्रतिहन्यति श्रुत्व अधर्मम् / सो मदमानहतो विपरीतो मानवशेन दुखि अनुभोति // SRS_१९.१८ //
SK
ये समताय प्रतिष्ठित भोन्ति नित्यमनुन्नत नावनताश्च / ये प्रियतो ऽप्रियतश्च सुमुक्तास्ते सद मुक्तमना विहरन्ति // SRS_१९.१९ //
SK
शीले प्रतिष्ठितु सूपरिशुद्धे ध्याने प्रतिष्ठितु नित्यमचिन्त्ये / ये वनकन्दरि शान्ति रमन्ते तेष न विद्यति वीमति जातु // SRS_१९.२० //
SK
ये च पुनर्वितथे प्रतिपन्नाः कामगुणेषु रताः सद बालाः / गृध्रु यथा कुणपेष्वधिमुक्ता नित्यवशानुगता नमुचिस्य // SRS_१९.२१ //
SK
अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे चन्द्रप्रभः कुमारभूतः अचिन्त्येषु बुद्धधर्मेषु गम्भीरनिध्यप्तिनिर्देशकौशल्यमनुप्राप्तः, सूत्रान्तनिर्हारावभासं च प्रतिलब्धवान् | पञ्चशिखस्य च गन्धर्वपुत्रस्य घोषानुगायाः क्षान्तेः प्रतिलम्भो ऽभूत् | अप्रमेयाणां च सत्त्वानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि | अप्रमेयाणां च सत्त्वानामर्थः कृतो ऽभूत ||
SK
इति श्रीसमाधिराजे अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तो नामोनविंशतितमः ||
SK
(Vऐद्य १३६) २० Iन्द्रकेतुध्वजराजपरिवर्तः ||
SK
तत्र खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलशिक्षागुणधर्मनिश्रितेन भवितव्यम् | असंसर्गबहुलेन च भवितव्यम्, पापमित्रपरिवर्जकेन कल्याणमित्रसंनिश्रितेन परिपृच्छकजातीयेन धर्मपर्येष्ट्यामतृप्तेन प्रामोद्यबहुलेन धर्मार्थिकेन धर्मकामेन धर्मरतेन धर्मपरिग्राहकेण धर्मानुधर्मप्रतिपन्नेन | शास्तृसंज्ञा अनेन सर्वबोधिसत्त्वेषूत्पादयितव्या | यस्य चान्तिकादिमं धर्मपर्यायं शृणोति, तेन तस्यान्तिके प्रीतिगौरवं शास्तृसंज्ञा चोत्पादितव्या| यः कुमार बोधिसत्त्वो महासत्त्व इमान् धर्मान् समादाय वर्तते, स क्षिप्रमनाच्छेद्यप्रतिभावनिर्यातो भवति | अचिन्त्यबुद्धधर्माधिमुक्तश्च भवति | गम्भीरेषु च धर्मेषु निध्यप्तिं गच्छति | आलोकभूतश्च भवति सदेवकस्य लोकस्य काङ्क्षाविमतिविचिकित्सान्धकारविधमनतया ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
अभ्यतीत बहुकल्पकोटियो अप्रमेय अतुला अचिन्तियाः / यद् अभूषि द्विपदानमुत्तमो इन्द्रकेतुध्वजराज नायकः // SRS_२०.१ //
SK
सो समाधिमिमु शान्तु देशयि यत्र नास्ति नरु जीव पुद्गलः / माय बुद्बुद मरीचि विद्युता सर्व धर्म दकचन्द्रसंनिभाः // SRS_२०.२ //
SK
नास्ति सत्त्व मनुजो च लभ्यते कालु कृत्व परलोकि गच्छि यो / नो च कर्म कृतु विप्रणश्यते कृष्ण शुक्ल फल देति तादृशम् // SRS_२०.३ //
SK
एष युक्ति नयद्वार भद्रकं सूक्ष्म दुर्दृशु जिनान गोचरा / यत्र अक्षरपदं न लभ्यते बुद्धबोधि भगवान् प्रजानति // SRS_२०.४ //
SK
(Vऐद्य १३७) धारणी विपुलज्ञानसंचया सूत्रकोटिनियुतान आगता / बुद्धकोटिनियुतान गोचरस्तं समाधि भगवान् प्रभाषते // SRS_२०.५ //
SK
आतुराणमय व्याधिमोचको बोधिसत्त्वसमुदानितं धनम् / सर्वबुद्धस्तुत संप्रकाशितो देवकोटिनियुतेहि पूजितः // SRS_२०.६ //
SK
सर्व बालजन भूतचोदना तीर्थिकेहि परिवर्जितः सदा / श्रेष्ठ शीलधनु बुद्धवर्णितं विद्युतेव गगने न लिप्यते // SRS_२०.७ //
SK
येहि पूजित जिनान कोटियो दानशीलचरिता विचक्षणाः / पापमित्र पुरि येहि वर्जिता तेष पैतृकधनं निरुत्तरम् // SRS_२०.८ //
SK
तत्र भिक्षु स्थितु धर्मभाणको ब्रह्मचारि सुगतस्य औरसः / श्रुत्व धर्ममिममानुलोमिकं चित्त पादेसि य लोकनायकः // SRS_२०.९ //
SK
इन्द्रकेतुध्वजराजु नायको अध्यभाषि अभु धर्मभाणकम् / भिक्षुभाव परमं ति दुष्करं चित्तुपाद वर अग्रबोधये // SRS_२०.१० //
SK
शीलु रक्ष मणिरत्नसंनिभं मित्र सेव सद आनुलोमिकम् / पापमित्र न कदाचि सेवतो बुद्धज्ञानमचिरेण लप्स्यसे // SRS_२०.११ //
SK
इति श्रीसमाधिराजे इन्द्रकेतुध्वजराजपरिवर्तो नाम विंशतितमः ||
SK
(Vऐद्य १३८) २१ Pऊर्वयोगपरिवर्तः |
SK
आसि पूर्वमिह जम्बुसाह्वये अप्रमत्त दुवि श्रेष्ठिदारकौ / प्रव्रजित्व सुगतस्य शासने खङ्गभूत वनषण्डमाश्रितौ // SRS_२१.१ //
SK
ऋद्धिमन्त चतुर्ध्यानलाभिनौ काव्यशास्त्रकुशलौ सुशिक्षितौ / अन्तरिक्षपदभूमिकोविदौ ते असक्त गगने व्रजन्ति च // SRS_२१.२ //
SK
ते च तत्र वनषण्डि शीतले नानपुष्पभरिते मनोरमे / नानपक्षिद्विजसंघसेविते अन्यमन्य कथ संप्रयोजिते // SRS_२१.३ //
SK
तेन राज मृगया अटन्तके शब्द श्रुत्व वनु तं उपागमी / दृष्ट्व पार्थिव तथ धर्मभाणकौ तेषु प्रेम परमं उपस्थहि // SRS_२१.४ //
SK
तेहि सार्धु कथ आनुलोमिकीं कृत्व राजु पुरतो निषीदि सो / तस्य राज्ञ बलकाय नन्तको षष्ठिकोटिनियुतान्युपागमी // SRS_२१.५ //
SK
एकमेकु तेषु धर्मभाणको राजमब्रवी शृणोहि क्षत्रिया / बुद्धपादु परमं सुदुर्लभो अप्रमत्तु सद भोहि पार्थिव // SRS_२१.६ //
SK
आयु गच्छति सदानवस्थितं गिरिनदीय सलिलेव शीघ्रगम् / व्याधिशोकजरपीडितस्य ते नास्ति त्राणु यथ कर्म भद्रकम् // SRS_२१.७ //
SK
(Vऐद्य १३९) धर्मपालु भव राजकुञ्जरा रक्षिमं दशबलान शासनम् / क्षीण कालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर // SRS_२१.८ //
SK
एव ते बहुप्रकार पण्डिता ओवदन्ति तद तं नराधिपम् / सार्धु षष्टनियुतेहि पार्थिवो बोधिचित्तमुदपादयत्तदा // SRS_२१.९ //
SK
श्रुत्व धर्म तद राजकुञ्जरः सूरतानखिलान भाषतो / प्रीतिजात सुमना उदग्रको वन्द्य पाद शिरसाय प्रक्रमी // SRS_२१.१० //
SK
तस्य राज्ञ बहवो ऽन्यभिक्षवो लाभकाम प्रविशिन्तु तत् कुलम् / तेष दृष्ट चरिया न तादृशी तेषु राज न तथा सगौरवम् // SRS_२१.११ //
SK
तच्च शासनमतीतशास्तुकं पश्चिमं च तद वर्षु वर्तते / जम्बुद्वीपि सुपरित्तभाजना प्रादुर्भूत बहवो असंयताः // SRS_२१.१२ //
SK
उत्क लुब्ध बहु तत्र भिक्षवो लाभकाम उपलम्भदृष्टिकाः / विप्रनष्ट सुगतस्य शासनाद् ग्राहयिंसु बहुलं तदा नृपम् // SRS_२१.१३ //
SK
घातयेति उभि धर्मभाणकौ ये उच्छेदु प्रवदन्ति तीर्थिकाः / दीर्घचारिक समादपेन्ति ते निर्वृतीय न ते किंचि दर्शिका // SRS_२१.१४ //
SK
कर्म नश्यति विपाकु नश्यति स्कन्ध नास्तीति वदन्ति कुहकाः / (Vऐद्य १४०) तां क्षिपाहि विषयातु पार्थिव एवमेव चिरु धर्म स्थास्यति // SRS_२१.१५ //
SK
श्रुत्व तेष वचनं तदन्तरं काङ्क्ष प्राप्तु भुत राजकुञ्जरः / घातयिष्यि अमु धर्मभाणकौ मा उपेक्षितु अनर्थ भेष्यति // SRS_२१.१६ //
SK
तस्य राज्ञ अनुबद्ध देवता पूर्वजाति सहचीर्णु चारिका / दीर्घरा हितकाम पण्डिता सा अवोचि तद राजपार्थिवम् // SRS_२१.१७ //
SK
चित्तुपाद म जनेहि ईदृशं पापमित्रवचनेन क्षत्रिया / मा त्व भिक्षु दुवि धर्मभाणकौ पापमित्रवचनेन घातय // SRS_२१.१८ //
SK
न त्व किंचि स्मरसी नराधिप यत्ति तेहि वनषण्डि भाषितम् | क्षीणकालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर / राज भूतवचनेन चोदितः सो न रिञ्जति जिनान शासनम् // SRS_२१.१९ //
SK
तस्य राज्ञ तद भ्रात दारुणः प्रातिसीमिकु स तेहि ग्राहितः | एष देव तव भ्रात पापको जीवितेन न जातु नन्दते / तौ च भिक्षु दुवि घोर वैद्यका ते व्रजन्ति गगनेन विद्यया // SRS_२१.२० //
SK
ते स्म श्रुत्व तव मूलमागता सर्वि भूत तव विज्ञपेमथ / क्षिप्र घातय घोर वैद्यका मा ति पश्चि अनुतापु भेष्यति // SRS_२१.२१ //
SK
संनहित्व तद राजकुञ्जरो पापमित्रवचनेन प्रस्थितः / (Vऐद्य १४१) सर्वसैन्यपरिवारितो नृपो यत्र भिक्षु वनि तं उपागतो // SRS_२१.२२ //
SK
ज्ञात्व घोरमतिदारुणं नृपं नाग यक्ष वनि तत्र ये स्थिताः / इष्टवर्ष तद तत्र पातित तेन राज सहसेनया हतो // SRS_२१.२३ //
SK
पापमित्रवचनेन पश्यथा कालु कृत्व तद राज दारुणम् / येन क्रोधु कृतु धर्मभाणके सो अवीचि गतु षष्टिजातियो // SRS_२१.२४ //
SK
ते ऽपि भिक्षु बहवोपलम्भिका येहि ग्राहितु राज क्षत्रियो / जातिकोटिशत अप्यचिन्तियो वेदयिंसु नरकेषु वेदनाम् // SRS_२१.२५ //
SK
देवता याय राजु चोदितो याय रक्षित धर्मभाणकौ / ताय बुद्ध यथ गङ्गवालिका दृष्ट्व पूजित चरन्तु चारिकाम् // SRS_२१.२६ //
SK
षष्टिकोटिनियुता अनूनका येहि धर्म श्रुतु सार्धु राजिना / येहि बोधिवरचित्तु पादितं बुद्ध भूयि पृथुलोकधातुषु // SRS_२१.२७ //
SK
तेषु आयु बहुकल्पकोटियो तेष ज्ञानमतुलमचिन्तियम् / तेहि सर्विमु समाधि भद्रकं देशयित्व द्विपदेन्दु निर्वृता // SRS_२१.२८ //
SK
एतु श्रुत्व वचनं निरुत्तरं शीलब्रह्मगुणज्ञानसंचयम् / अप्रमत्त भवथा अतन्द्रिता बुद्धज्ञानमचिरेण लप्स्यथा // SRS_२१.२९ //
SK
(Vऐद्य १४२) द्रक्ष्यथा दशदिशे तथागतान् शान्तचित्त कृपमैत्रलोचनान् | सर्वलोकशरणं परायणं धर्मवर्षु जगि उत्सृजिष्यथा
SK
इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम एकविंशतितमः ||
SK
(Vऐद्य १४३) २२ Tअथागतकायनिर्देशपरिवर्तः |
SK
अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात् तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन काये ऽनध्यवसितेन जीविते निरपेक्षेण भवितव्यम् | तत् कस्य हेतोः? कायजीविताध्यवसानहेतोर्हि कुमार अकुशलधर्माभिसंस्कारो भवति | तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन न रूपकायतस्तथागतः प्रज्ञातव्यः | तत् कस्य हेतोः? धर्मकाया हि बुद्धा भगवन्तो धर्मकायप्रभाविताश्च न रूपकायप्रभाविताः | तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन तथागतकायं प्रार्थयितुकामेन तथागतकायं ज्ञातुकामेन अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तितव्यः उद्देष्टव्यः स्वाध्यातव्यो वाचयितव्यो भावनायोगमनुयुक्तेन भवितव्यम् परेभ्यश्च विस्तरेण संप्रकाशयितव्यः | तत्र कुमार तथागतस्य कायः शतपुण्यनिर्जातया बुद्ध्यानेकार्थनिर्देशो धर्मनिर्जातः आनिमित्तः सर्वनिमित्तापगतो गम्भीरः अप्रमाणः अप्रमाणधर्मः आनिमित्तस्वभावः सर्वनिमित्तविभावितः | अचलो ऽप्रतिष्ठितो ऽत्यन्ताकाशस्वभावो ऽदृश्यश्चक्षुःपथसमतिक्रान्तो धर्मकायः प्रज्ञातव्यः | अचिन्त्यः चित्तभूमिविगतः सुखदुःखाविप्रकम्प्यः सर्वप्रपञ्चसमतिक्रान्तो ऽनिर्देश्यो ऽनिकेतो बुद्धज्ञानं प्रार्थयितुकामानां घोषपथसमतिक्रान्तः ससारो रागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रान्तो दृढो मोहपथसमतिक्रान्तो निर्दिष्टः | शून्यतानिर्देशेन अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्यो व्याहारेण | व्यवहारश्च शून्यः निर्विशेषो निर्वाणेन, निर्वृतः शब्देन, शान्तो घोषेण, सामान्यः संकेतेन, संकेतः परमार्थेन, परमार्थो भूतवचनेन | शीतलो निष्परिदानः अनिमित्तः अमन्यितः अनिन्दितः अप्रपञ्चितः - अल्पशब्दो निर्देशेन | अपर्यन्तो वर्णनिर्देशेन, महाभिज्ञापरिकर्मनिर्जातः अस्मृतितः अविदूरे महाभिज्ञापरिकर्मनिर्देशेन | अयमुच्यते कुमार तथागतकाय इति ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
य इच्छे लोकनाथस्य कायं जानितुमीदृशम् / इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति // SRS_२२.१ //
SK
(Vऐद्य १४४) पुण्यनिर्जातु बुद्धस्य कायः शुद्धः प्रभास्वरः / समेति सो ऽन्तरीक्षेण नानात्वं नास्य लभ्यते // SRS_२२.२ //
SK
यादृशा बोधिर्बुद्धस्य लक्षणानि च तादृशाः / यादृशा लक्षणास्तस्य कायस्तस्य हि तादृशः // SRS_२२.३ //
SK
संबोधिलक्षणः कायो बुद्धक्षेत्रं हि तादृशम् / बला विमोक्षा ध्यानानि सर्वे ते ऽप्येकलक्षणाः // SRS_२२.४ //
SK
एवं संभवु बुद्धानां लोकनाथान ईदृशः / न जातु केनचिच्छक्यं पश्यितुं मांसचक्षुषा // SRS_२२.५ //
SK
बहू एवं प्रवक्ष्यन्ति दृष्टो मे लोकनायकः / सुवर्णवर्णः कायेन सर्वलोकं प्रभासति // SRS_२२.६ //
SK
अधिष्ठानेन बुद्धानामनुभावाद्विकुर्वितैः / येनासौ दृश्यते कायो लक्षणेहि विचित्रितः // SRS_२२.७ //
SK
आरोहपरिणाहेन कायो बुद्धस्य दर्शितः / न च प्रमाणं कायस्य लब्धं तेन अचिन्तियः // SRS_२२.८ //
SK
यदि प्रमाणं लभ्येत कायो बुद्धस्य एत्तकः / निर्विशेषो भवेच्छास्ता देवैश्च मनुजैरपि // SRS_२२.९ //
SK
समाहितस्य चित्तस्य विपाको ऽपि तल्लक्षणः / तल्लक्षणं नामरूपं शुद्धं भोति प्रभास्वरम् // SRS_२२.१० //
SK
न चैष केनचिज्जातु समाधिः शान्तु भावितः / यथेह लोकनाथेन कल्पकोट्यो निषेवितः // SRS_२२.११ //
SK
बहुभिः शुक्लधर्मैश्च समाधिर्जनितो ऽप्ययम् / समाधेरस्य वैपुल्यात् कायो मह्यं न दृश्यते // SRS_२२.१२ //
SK
यस्य वो यादृशं चित्तं नामरूपं पि तादृशम् / निःस्वभावस्य चित्तस्य नामरूपं विलक्षणम् // SRS_२२.१३ //
SK
यस्य चोदारसंज्ञादि नामरूपस्मि वर्तते / विसभागाय संज्ञाय उदारं चित्तु जायते // SRS_२२.१४ //
SK
यस्य चो मृदुकी संज्ञा नामरूपस्मि वर्तते / अगृध्रं नामरूपस्मि चित्तं भोति प्रभास्वरम् // SRS_२२.१५ //
SK
स्मरामी पूर्वजातीषु असंख्येयेषु सप्तसु / तिस्रो मे पापिकाः संज्ञा नैवोत्पन्नाः कदाचन // SRS_२२.१६ //
SK
(Vऐद्य १४५) अनास्रवं च मे चित्तं कल्पकोट्यो ह्यचिन्तियाः / करोमि चार्थं सत्त्वानां न च मे कायु दृश्यते // SRS_२२.१७ //
SK
यथा च यस्य भावेहि विमुक्तं भोति मानसम् / न तस्य तेहि भावेहि भूयो भोति समागमः // SRS_२२.१८ //
SK
विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः / स्वभावो ज्ञातु चित्तस्य भूयो ज्ञानं प्रवर्तते // SRS_२२.१९ //
SK
क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताः / कुर्वन्ति चार्थं सत्त्वानां यत्र कायो न लभ्यते // SRS_२२.२० //
SK
अलक्षणो निर्निमित्तो यथैव गगनं तथा / कायो निरभिलाप्यो मे दुर्विज्ञेयो निदर्शितः // SRS_२२.२१ //
SK
धर्मकायो महावीरो धर्मेण काय निर्जितो / न जातु रूपकायेण शक्यं प्रज्ञापितुं जिनो // SRS_२२.२२ //
SK
कथानिर्देशु यस्यैतं श्रुत्वा प्रीतिर्भविष्यति / न तस्य मारः पापीयानवतारं लभिष्यति // SRS_२२.२३ //
SK
श्रुत्वा च धर्मं गम्भीरं यस्य त्रासो न भेष्यति / न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत् // SRS_२२.२४ //
SK
भूतकोटीसहस्राणां भूतनिर्देश ज्ञास्यति / आलोकभूतो लोकानां येन येन गमिष्यति // SRS_२२.२५ //
SK
तत्र कुमार तथागतस्य कायो निमित्तकर्मणापि न सुकरं ज्ञातुम् | नीलो वा नीलवर्णो वा नीलनिदर्शनो वा नीलनिर्भासो वा | पीतो वा पीतवर्णो वा पीतनिदर्शनो वा पीतनिर्भासो वा | लोहितो वा लोहितवर्णो वा लोहितनिदर्शनो वा लोहितनिर्भासो वा | अवदातो वा अवदातवर्णो वा अवदातनिदर्शनो वा अवदातनिर्भासो वा | मञ्जिष्ठो वा मञ्जिष्ठवर्णो वा मञ्जिष्ठनिदर्शनो वा मञ्जिष्ठनिर्भासो वा | स्फटिको वा स्फटिकवर्णो वा स्फटिकनिदर्शनो वा स्फटिकनिर्भासो वा | आग्नेयो वा अग्निवर्णो वा अग्निनिदर्शनो वा अग्निनिर्भासो वा | सर्पिर्मण्डोपमो वा सर्पिर्वर्णो वा सर्पिर्निदर्शनो वा सर्पिर्निर्भासो वा | सौवर्णो वा सुवर्णवर्णो वा सुवर्णनिदर्शनो वा सुवर्णनिर्भासो वा | वैदूर्यो वा वैदूर्यवर्णो वा वैदूर्यनिदर्शनो वा वैदूर्यनिर्भासो वा | विद्युद्वा वा विद्युद्वर्णो वा विद्युन्निदर्शनो वा विद्युन्निर्भासो वा | ब्रह्मो वा ब्रह्मवर्णो वा ब्रह्मनिदर्शनो वा ब्रह्मनिर्भासो वा | देवो वा देववर्णो वा देवनिदर्शनो वा देवनिर्भासो वा | इति हि कुमार तथागतस्य कायः शुद्धः सर्वनिमित्तैरप्यचिन्त्यः अप्यचिन्त्यनिर्देशो रूपकायपरिनिष्पत्त्या | न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणमुद्ग्रहीतुमन्यत्र सर्वाकारैरचिन्त्यः अप्रमेयः ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - (Vऐद्य १४६)
SK
यद्रजो लोकधातूषु पांसुसंज्ञानिदर्शनम् | उत्सह्रदतडागेषु समुद्रेषु च यज्जलम् / न तेषां लभ्यते अन्तो एत्तका परमाणवः // SRS_२२.२६ //
SK
समुद्राद्वालकोटीभिर्मातुं शक्यं जलं भवेत् | न तुल्या लोकनाथेन उपमा संप्रकाशिता / जलबिन्दवो ऽप्रमेयास्तथैव परमाणवः // SRS_२२.२७ //
SK
पश्माम्येकस्य सत्त्वस्य ततो बहुतरानहम् / अधिमुक्तिचित्तोत्पादो नैककाले प्रजानितुम् // SRS_२२.२८ //
SK
ये मया आत्मभावस्य भूतवर्णा निदर्शिताः / सर्वसत्त्वाधिमुक्तास्तानेतेषामुपमाक्षमाः // SRS_२२.२९ //
SK
निमित्तकर्मणा चैव वर्णनिर्भास ईदृशः / शक्यं जानितुं बुद्धस्य विशेषो हीदृशो मम // SRS_२२.३० //
SK
निमित्तापगता बुद्धा धर्मकायप्रभाविताः / गम्भीराश्चाप्रमेयाश्च तेन बुद्धा अचिन्तियाः // SRS_२२.३१ //
SK
अचिन्तियस्य बुद्धस्य बुद्धकायो ऽप्यचिन्तियः / अचिन्तिया हि ते काया धर्मकायप्रभाविताः // SRS_२२.३२ //
SK
चित्तेनापि न बुद्धानां कायश्चिन्तयितुं क्षमः / तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते // SRS_२२.३३ //
SK
अप्रमेया हि ते धर्माः कल्पकोट्यो निषेविताः / तेनो अचिन्तियः कायो निर्वृतो मे प्रभास्वरः // SRS_२२.३४ //
SK
अग्राह्यः सर्वसत्त्वेहि न प्रमाणेहि गृह्यते / तथा हि कायो बुद्धस्य अप्रमाणो ह्यचिन्तियः // SRS_२२.३५ //
SK
अप्रमाणेहि धर्मेहि प्रमाणं तत्र कल्पितम् / अकल्पितेहि धर्मेहि बुद्धो ऽप्येवमकल्पितः // SRS_२२.३६ //
SK
प्रमाणं कल्पमाख्यातो अप्रमाणमकल्पितम् / अकल्प्यः कल्पापगतस्तेन बुद्धो अचिन्तियः // SRS_२२.३७ //
SK
अप्रमाणं यथाकाशं मातुं शक्यं न केनचित् / तथैव कायु बुद्धस्य आकाशसमसादृशः // SRS_२२.३८ //
SK
ये कायमेवं जानन्ति बुद्धानां ते जिनात्मजाः / ते ऽपि बुद्धा भविष्यन्ति लोकनाथा अचिन्तियाः // SRS_२२.३९ //
SK
इति श्रीसमाधिराजे तथागतकायनिर्देशपरिवर्तो नाम द्वाविंशतितमः ||
SK
(Vऐद्य १४७) २३ Tअथागताचिन्त्यनिर्देशपरिवर्तः |
SK
तस्मात्तर्हि कुमार यो बोधिसत्त्वो महासत्त्वः आकाङ्क्षेत् किमित्यहं चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति | कतमाश्चतस्रः? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम् | इमाश्चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं समाधिरुद्ग्रहीतव्यः पर्तवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः | भावनायोगमनुयुक्तेन च भवितव्यम् | तत्र कुमार कतमा धर्मप्रतिसंविदः? इमाः कुमार बोधिसत्त्वो धर्मप्रतिसंविद एवं प्रतिसंशिक्षते - यावन्तो वा रूपव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः | एवं वेदनासंज्ञासंस्काराः | यावन्तः कुमार विज्ञानव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः | इति हि कुमार अप्रमेया अचिन्त्या असंख्येयाः अतुल्यामाप्यापरिमाणास्तथागतस्य रूपवर्णव्याहाराः | इति हि कुमार अपर्यन्ता अनन्ता रूपव्याहाराः | एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः | एवं वेदनासंज्ञासंस्काराः | इति हि अनन्ता अपर्यन्ता अचिन्त्या विज्ञानव्याहाराः | एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः ||
SK
इति हि कुमार अप्रमेया असंख्येयाः संस्कृते दोषाः | अप्रमेया असंख्येया निर्वाणे अनुशंसाः | असंख्येयास्तथागतस्य वर्णाः | इति हि कुमार यावन्ति निर्वाणनामानि तावन्तस्तथागतस्य वर्णाः | इति हि कुमार असंख्येयानि निर्वाणनामानि | असंख्येयास्तथागतस्य वर्णाः ||
SK
चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः | कतमे चत्वारः ?यदुत अचिन्त्यः संस्कारव्याहारः | अचिन्त्यः स्वरव्याहारः | अचिन्त्यः संक्लेशव्याहार | अचिन्त्यो व्यवदानव्याहारः | इमे कुमार चत्वारस्तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यव्याहाराः | चत्वार इमे कुमार तथागतस्य वर्णव्याहारा अचिन्त्या अचिन्त्यनिर्देशाः | ते न सुकरं पर्यन्तनिष्ठास्थानेन निर्देष्टुम् | कतमे चत्वारः? एष एव चतुष्कः | एवं विस्तरेण निर्देष्टव्यम् | यदुत चत्वारो बोधिसत्त्वानां नयाः | चतस्रो युक्तयः | चत्वारो द्वाराः | चत्वार निर्देशाः | चत्वारो घोषाः | चत्वारो वचनपथाः | चत्वारो व्याहाराः | चत्वारि संघाभाष्याणि | चतस्रो नामनिध्यप्तयः | चतस्रो मनुजनिध्यप्तयः | चत्वारि प्रतिवचनानि | चत्वारि द्वाराणि | चत्वार्यक्षराणि | चत्वारो ऽवताराः | चत्वारः पदाः | चत्वारि निर्हारपदानि | चत्वारः सूत्रान्तपदाः | चत्वारश्चर्यापथाः | चत्वारो ऽचिन्त्यपथाः | चत्वारः तुल्यपथाः | चत्वारो ऽनन्तपथाः | चत्वारो ऽपर्यन्तपथाः | चत्वारो ऽसंख्येयपथाः | चत्वारो ऽप्रमेयपथाः | चत्वारो ऽपरिमाणपथाः |(Vऐद्य १४८) चत्व्ःरि ज्ञ्ःन्ःनि | चत्व्ःरो ज्ञ्ःनसंचय्ःः | चत्व्ःरि ज्ञ्ःनगोत्र्ःणि | चत्व्ःरि प्रतिभ्ःन्ःनि | चत्व्ःरः प्रतिभ्ःनसंचय्ःः | चत्व्ःरि प्रतिभ्ःनगोत्र्ःणि | चत्व्ःरः सूत्र्ःन्तसंचय्ःः | चत्व्ःरि प्रतिभ्ःनकरण्ःनि | चत्व्ःरः सूत्र्ःन्तनिर्ह्ःर्ःः | चत्व्ःरि ब्ःहुश्रुत्यगोत्र्ःणि | चत्व्ःरि बुद्धधन्ःनि | चतस्रो बोधिसत्त्वशिक्ष्ःः | चत्व्ःरो बोधिसत्त्वगोचर्ःः | चत्व्ःरि बोधिसत्त्वकर्म्ःणि | चत्व्ःरि बोधिसत्त्वप्रतिभ्ःन्ःनि | चतस्रो म्ःर्गभ्ःवन्ःः | चत्व्ःरि क्लेशप्रह्ःण्ःनि | चत्व्ःर्यप्ःयजहन्ःनि | चत्व्ःर्यज्ञ्ःनविधमन्ःनि | चत्व्ःर्यविद्य्ःप्रह्ःण्ःनि | चत्व्ःरि दुःखोपशमन्ःनि | चत्व्ःरि दौर्मनस्यप्रह्ःण्ःनि | चत्व्ःर्युप्ःयसंजनन्ःनि | चत्व्ःरि दृष्टिप्रह्ःण्ःनि | चत्व्ःर्युपपन्नपरिज्ञ्ःन्ःनि | चत्व्ःर्य्ःत्मदृष्टिप्रह्ःण्ःनि | चत्व्ःरि सत्त्वदृष्टिप्रह्ःण्ःनि | चत्व्ःरि जीवदृष्टिप्रह्ःण्ःनि | चत्व्ःरि पुद्गलदृष्टिप्रह्ःण्ःनि | चत्व्ःरि भवदृष्टिप्रह्ःण्ःनि | चत्व्ःरि वस्तुप्रह्ःण्ःनि | चत्व्ःर्युपलम्भदृष्टिप्रह्ःण्ःनि | ते न सुकरं पर्यन्तस्थ्ःनेन निर्देष्टम् ||
SK
चतस्रो धारण्यः | कतमाश्चतस्रः? यदुत अनन्तः सर्वसंस्कारपरिभाषाव्याहारः | तत्र यज्ज्ञानमियं प्रथमा धारणी | अनन्तः स्वरपरिभाषाव्याहारः | तत्र यज्ज्ञानमियं द्वितीया धारणी | अनन्तः संक्लेशपरिभाषाव्याहारः | तत्र यज्ज्ञानमियं तृतीया धारणी | अनन्तो व्यवदानगुणानुशंसाव्याहारः | तत्र यज्ज्ञानमियं चतुर्थी धारणी | इमाश्चतस्रो धारण्यः | इति हि या कुमार धारणी तज्ज्ञानम्, स धर्मः | इति हि धर्मज्ञानेन धर्मप्रतिसंवित् ||
SK
धर्मज्ञाने यो ऽर्थः, इयमुच्यते अर्थप्रतिसंवित् | धर्मज्ञाने यच्छन्दः, इयमुच्यते निरुक्तिप्रतिसंवित् | धर्मज्ञाने या व्यवहारदेशना आचक्षणा प्रज्ञपना प्रकाशना प्रस्थापना विचरणा विभजना उत्तानीकरणता असक्तवचनता अनेलामूकवचनता अनवलीनवचनता, इयमुच्यते प्रतिभानप्रतिसंवित् ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
यात्तकं ज्ञानु बुद्धस्य रूपप्रज्ञप्ति तात्तिका / यावती रूपप्रज्ञप्ति रूपव्याहार तात्तका // SRS_२३.१ //
SK
यावन्तो रूपव्याहाराः शीलनामानि तात्तकाः / यावन्ति शीलनामानि बुद्धनामानि तात्तकाः // SRS_२३.२ //
SK
यात्तका बुद्धनामानि सत्त्वनामानि तात्तकाः / एत्तकान्येकसत्त्वस्य अहं नामानि जानमि // SRS_२३.३ //
SK
अनन्ता नामव्याहारा ये मे पूर्वं प्रकाशिताः / शीलनामा बुद्धनामा सत्त्वनामा च ते समाः // SRS_२३.४ //
SK
यात्तकाः संस्कृते दोषा निर्वाणे तात्तका गुणाः / बुद्धस्य तात्तका वर्णा औपम्या मे प्रकाशिताः // SRS_२३.५ //
SK
यात्तकाः सर्वसत्त्वानां चित्तोत्पादा निदर्शिताः / तात्तका लोकनाथस्य एकरोमात रश्मयः // SRS_२३.६ //
SK
(Vऐद्य १४९) नामाश्च अधिमुक्तिश्च सर्वसत्त्वान यात्तिकाः / ततो भूयो नरेन्द्रस्य स्वराङ्गवर्ण भाषिताः // SRS_२३.७ //
SK
ये नामाः सर्वसत्त्वानामेकसत्त्वस्य दर्शिताः / एकसत्त्वस्य ते नामाः सर्वसत्त्वान दर्शिताः // SRS_२३.८ //
SK
प्रतिसंविदानामोत्तार अयं बुद्धेन देशितः / अनन्तनामनिर्देशा बोधिसत्त्वान कारणात् // SRS_२३.९ //
SK
य इच्छेत् कथं भाषेय्या सूत्रकोटीरनन्तिकाः / इदं सूत्रं प्रवर्तित्वा अनोलीनः प्रकाशयेत् // SRS_२३.१० //
SK
असक्तः परिषन्मध्ये सूत्रकोटीः प्रभाषते / यथाकाशमपर्यन्तमेवं धर्मं स भाषते // SRS_२३.११ //
SK
एमेव बोधिसत्त्वानां शुद्धसत्त्वान तायिनाम् / इदं सूत्रं समुद्गृह्य भवन्ति ज्ञानसंपदः // SRS_२३.१२ //
SK
यथा यथा प्रकाशेन्ति श्रद्दधन्तो इमं नयम् / तथास्य वर्धते ज्ञानं हिमवन्तेव पादपाः // SRS_२३.१३ //
SK
इति श्रीसमाधिराजे तथागताचिन्त्यनिर्देशपरिवर्तस्त्रयोविंशतितमः ||
SK
(Vऐद्य १५०) २४ Pरतिसंविदवतारपरिवर्तः |
SK
तत्र कुमार कथं बोधिसत्त्वो महासत्त्वो धर्मप्रतिसंविदि चरन् धर्मेषु धर्मानुपश्यी समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ? इह कुमार बोधिसत्त्वो महासत्त्वो धर्मेषु धर्मानुपश्यी नान्यत्र रूपेण बोधिं समनुपश्यति | नान्यत्र रूपाद्वोधाय चरति | नान्यत्र रूपेण बोधिं पर्येषते | नान्यत्र रूपेण बोधाय समुदागच्छति | नान्यत्र रूपेण सत्त्वानि बोधाय समादापयति | नान्यत्र रूपेण तथागतं पश्यति | रूपस्याविनाशस्वभावः तथागत इति तथागतं पश्यति | अन्यद् रूपमन्यो रूपस्वभाव इति नैवं पश्यति | अन्यो रूपस्वभावो ऽन्यस्तथागत इति नैवं पश्यति | यश्च रूपस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता | एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि | एवं नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानेन बोधिं समनुपश्यति | नान्यत्र विज्ञानाद्बोधाय चरति | नान्यत्र विज्ञानेन बोधिं पर्येषते | नान्यत्र विज्ञानेन बोधाय समुदागच्छति | नान्यत्र विज्ञानेन सत्त्वानि बोधाय समादापयति | नान्यत्र विज्ञानेन तथागतं पश्यति | विज्ञानस्याविनाशस्वभावस्तथागत इति तथागतं पश्यति | अन्यद्विज्ञानमन्यो विज्ञानस्वभाव इति नैवं पश्यति | अन्यो विज्ञानस्वभावो ऽन्यस्तथागत इति नैवं पश्यति | यश्च विज्ञानस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता | एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
रूपेण दर्शिता बोधी बोधये रूप दर्शितम् / विसभागेन शब्देन उत्तरो धर्म देशितः // SRS_२४.१ //
SK
शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः / समं रूपं च बोधिश्च नानात्वं नास्य लभ्यते // SRS_२४.२ //
SK
यथा निर्वाण गम्भीरं शब्देनासंप्रकाशितम् / लभ्यते न च निर्वाणं स च शब्दो न लभ्यते // SRS_२४.३ //
SK
शब्दश्चाप्यथ निर्वाणमुभयं तन्न लभ्यते / एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम् // SRS_२४.४ //
SK
निर्वाणं निर्वृती वुत्ता निर्वाणं च न लभ्यते / अप्रवृत्त्यैव धर्माणां यथा पश्चात्तथा पुरा // SRS_२४.५ //
SK
सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः / ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धशासने // SRS_२४.६ //
SK
(Vऐद्य १५१) पश्यित्वा कायु बुद्धस्य वक्ष्यन्ते दृष्टु नायकः / न चाहं रूपकायेन पश्यितुं शक्य केनचित् // SRS_२४.७ //
SK
ज्ञातः स्वभावो रूपस्य यादृशं रूपलक्षणम् / रूपस्वभावमाज्ञाय कायो मम निदेशितः // SRS_२४.८ //
SK
एवं पञ्चान स्कन्धानां ज्ञानं मे धर्मलक्षणम् / ज्ञात्वा स्वभावं धर्माणां धर्मकाये प्रतिष्ठितः // SRS_२४.९ //
SK
देशेमि धर्म सत्त्वानां धर्मकाये ऽप्यनिःसृतः / न च धर्मत बुद्धानां शक्यं वाचाय भाषितुम् // SRS_२४.१० //
SK
इमं नयमजानन्तो बुद्धशब्दं श्रुणित्व ते / घोषमात्रेण वक्ष्यन्ति दृष्टो मे नरनायकः // SRS_२४.११ //
SK
सर्वसंज्ञाप्रहीणस्य भवसंज्ञा विगच्छति / न जातु शब्दसंज्ञस्य भवते शास्तृदर्शनम् // SRS_२४.१२ //
SK
यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम् | न चान्या शून्यता उक्ता अन्या रूपस्वभावता / यस्तु रूपं प्रजानाति स प्रजानाति शुन्यताम् // SRS_२४.१३ //
SK
यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम् / न चासौ मारकोटीभिर्भूयः शक्य पराजितुम् // SRS_२४.१४ //
SK
प्रजानाति हि यो रूपं स प्रजानाति शून्यताम् / य शून्यतां प्रजानाति स प्रजानाति निर्वृतिम् // SRS_२४.१५ //
SK
इमां गतिमजानन्तः प्रनष्टा औपलम्भिकाः / अभावे भावसंज्ञेयो भावे चाभावसंज्ञिनः // SRS_२४.१६ //
SK
वञ्चिता ज्ञात्रलाभेन प्रनष्टा मम शासनात् / फलसंज्ञा अवस्थाने रिक्ताः श्रामणकाद्धनात् // SRS_२४.१७ //
SK
कुसीदा हीनवीर्याश्च शीलस्कन्धे असंस्थिताः / पर्युप्थिताश्च वक्ष्यन्ति न एतद् बुद्धशासनम् // SRS_२४.१८ //
SK
केचिदेवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः / अदान्ता अविनीताश्च परस्परमगौरवाः // SRS_२४.१९ //
SK
शब्दकामा भविष्यन्ति धर्मे चैवानवस्थिताः / एवं सा भेष्यते इच्छा ज्ञात्रलाभगवेषणे // SRS_२४.२० //
SK
लाभकामा भविष्यन्ति संनिपाते हि चिन्तकाः / मदप्रमादाभिभूता लाभसत्कार अर्थिकाः // SRS_२४.२१ //
SK
(Vऐद्य १५२) निःसृता लाभसत्कारे ज्ञात्रलाभगवेषिणः / स्तूपान् विहारान् काहेन्ति कुलस्त्रीष्वधिमूर्च्छिताः // SRS_२४.२२ //
SK
निःसृताश्चोपलम्भस्मिन् कामतृष्णासु निःसृताः / गृहिकर्म करिष्यन्ति मारस्य विषये स्थिताः // SRS_२४.२३ //
SK
गृहिणां देशयिष्यन्ति कामा अग्निशिखोपमाः / प्रविश्य च गृहांस्तेषां दूषयिष्यन्ति तान् कुलान् // SRS_२४.२४ //
SK
गृहिणश्च भविष्यन्ति तेषु शास्तारसंज्ञिनः / तेषां च विप्रवुस्तानां पुत्रदाराणि दूषयि // SRS_२४.२५ //
SK
ये तेषामन्नपानेन करिष्यन्ति अनुग्रहम् / तेषां तत्पुत्रदारेषु भार्यासंज्ञा भविष्यति // SRS_२४.२६ //
SK
गृहिणो न स्वदारेषु भविष्यन्त्यधिमूर्च्छिताः / यथा ते प्रव्रजित्वा हि परदारेषु मूर्च्छिताः // SRS_२४.२७ //
SK
शिक्षावदातवस्त्राणं गृहीणं या मि दर्शिता / सा शिक्षा तेषां भिक्षूणां तस्मिन् काले न भेष्यति // SRS_२४.२८ //
SK
भेरीशङ्खमृदङ्गेहि पूजां काहेन्ति ते मम / या च सा उत्तमा पूजा प्रतिपत्तिर्न भेष्यति // SRS_२४.२९ //
SK
ते आत्मना सुदुःशीला दृष्ट्वा शीलप्रतिष्ठितान् / अन्योन्यमेवं वक्ष्यन्ति एते ऽपि यादृशा वयम् // SRS_२४.३० //
SK
श्रुत्वा शीलस्य ते वर्णं दुःशीलाः पापगोचराः / पर्युत्थिताश्च वक्ष्यन्ति नैवैतद्बुद्धभाषितम् // SRS_२४.३१ //
SK
न च ह्री भेष्यते तेषां नष्टं श्रामणकं धनम् / चोदिताभूतवाचाय बुद्धबोधिं प्रतिक्षिति // SRS_२४.३२ //
SK
तेषां व्यापन्नचित्तानामुत्सृष्ट्वा बुद्धशासनम् / धर्मं प्रतिक्षिपित्वा च वासो ऽवीचौ भविष्यति // SRS_२४.३३ //
SK
न मे श्रुतं च दृष्टं वा येषामेतादृशी चरी / ते बुद्धज्ञानं लप्स्यन्ते बालधर्मप्रतिष्ठिताः // SRS_२४.३४ //
SK
या तेषां कुहना तत्र शाठियं वाक्कियं तदा / जानामि तदहं सर्वं ज्ञानं मे ऽत्र प्रवर्तते // SRS_२४.३५ //
SK
सचेत् कल्पं प्रभाषेयं यत्तेषां स्खलितं पृथु / बोधिसत्त्वप्रतिज्ञानां किंचिन्मात्रं प्रकीर्तितम् // SRS_२४.३६ //
SK
नास्ति पापमकर्तव्यं कुमारा तेष भेष्यति / मा तेहि संस्तवं सार्धं कुर्यास्त्वं कालि पश्चिमे // SRS_२४.३७ //
SK
(Vऐद्य १५३) आलपेत् संलपेय्यासि कुर्यासी तेषु गौरवम् / अनोलीनः सत्करेय्यासि अग्रबोधीय कारणात् // SRS_२४.३८ //
SK
वर्षाग्रं परिपृच्छित्वा यस्ते वृद्धतरो भवेत् / कुर्या हि गौरवं तत्र शिरसा पादवन्दनम् // SRS_२४.३९ //
SK
न तेषां स्खलितं पश्येद्वोधिमण्ड विपश्यताम् / प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत् // SRS_२४.४० //
SK
यद्येषां स्खलितं पश्येद्दोषांस्तेषां न कीर्तयेत् / यादृशं काहिती कर्म लप्स्यते तादृशं फलम् // SRS_२४.४१ //
SK
स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च / पूर्वाभाषी भवेन्नित्यं हतमानश्च सूरतः // SRS_२४.४२ //
SK
चीवरैः पिण्डपातैश्च कुर्यास्तेषामनुग्रहम् / एवं चित्तं प्रदध्यास्त्वं सर्वे भेष्यन्ति नायकाः // SRS_२४.४३ //
SK
अध्येष्येयुर्यदि त्वां ते धर्मदानस्य कारणात् / प्रथमं वाचं भाषेय्या नाहं वैपुल्यशिक्षितः // SRS_२४.४४ //
SK
एवं त्वं वाच भाषेय्या आयुष्मान् विज्ञ पण्डितः / कथं महात्मनां शक्यं पुरतो भाषितुं मया // SRS_२४.४५ //
SK
सहसैषां न जल्पेत तुलयित्वा च भाजनम् / यदि भाजनं विजानीया अनधीष्टो ऽपि देशयेत् // SRS_२४.४६ //
SK
यदि दुःशील पश्येसि परिषायां बहुस्थितान् / संलेखं मा प्रभाषेस्त्वां वर्णं दानस्य कीर्तयेः // SRS_२४.४७ //
SK
भवेयुर्यदि वाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः / मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम् // SRS_२४.४८ //
SK
परीत्ता यदि पापेच्छा शीलवन्तो बहू भवेत् / लब्धपक्षस्तदा भूत्वा वर्णं शीलस्य कीर्तयेत् // SRS_२४.४९ //
SK
पूर्वं परिषदं ज्ञात्वा यदि शुद्धा भवेत्तदा / यावन्तः कुशला धर्माः सर्वांस्तेभ्यः प्रकाशयेत् // SRS_२४.५० //
SK
दानं शीलं तथा क्षान्तिं वीर्यं ध्यानं श्रुतं तथा / संतुष्ट्यल्पेच्छसंलेखान् वर्णयेत् कीर्तयेत् सदा // SRS_२४.५१ //
SK
अरण्यवासं ध्यानसुखं गणवासविवर्जनम् / एतेषां वर्ण भाषेत एवं हि धारयेत् सुखम् // SRS_२४.५२ //
SK
अरण्यवास नो रिञ्चेन्न शीलपरमो भवेत् / प्रतिसंलानु सेवेत न दानपरमो भवेत् // SRS_२४.५३ //
SK
(Vऐद्य १५४) शीलस्कन्धे स्थिहित्वा च बाहुश्रुत्यमुपार्जयेत् / इमं समाधिमेषन्तः पूजयेच्छास्तृधातवः // SRS_२४.५४ //
SK
छत्रैर्ध्वजैः पताकाभिर्गन्धमाल्यविलेपनैः / कारयेत् पूज बुद्धस्य समाधिं शान्तमेषता // SRS_२४.५५ //
SK
रञ्जनीयेहि तूर्येहि संगीतिं संप्रयोजयेत् / पूजयेद्धातुं बुद्धस्य अनोलीनो अतन्द्रितः // SRS_२४.५६ //
SK
यावन्ति गन्धमाल्यानि धूपनं चूर्ण चैलिकम् / सर्वैस्तैः पूजयेन्नाथं बुद्धज्ञानस्य कारणात् // SRS_२४.५७ //
SK
यावती काचित् पूजास्ति अप्रमेया अचिन्तिया / कुर्यास्ताः सर्वबुद्धानां समाधिं शान्तमेषताः // SRS_२४.५८ //
SK
प्रत्यंशं सर्वसत्त्वेभ्यः समं दद्यादनिश्रितः / असङ्गज्ञानमेषन्तो बुद्धज्ञानमनुत्तरम् // SRS_२४.५९ //
SK
मयापि पूर्वबुद्धानां कृता पूजा अचिन्तिया / अनिश्रितेन भूत्वैनं समाधिं शान्तमेषता // SRS_२४.६० //
SK
दुर्लभोत्पादु बुद्धानां दुर्लभो मानुषो भवः / दुर्लभा शासने श्रद्धा प्रव्रज्या उपसंपदा // SRS_२४.६१ //
SK
येन आरागितः शास्ता चित्तं बोधाय नामितम् / मा चल त्वं प्रतिज्ञायास्तिष्ठ च प्रतिपत्तिषु // SRS_२४.६२ //
SK
य इदं धारयेत् सूत्रं क्षयकाले उपस्थिते / प्रतिभानं लभेत् क्षिप्रं प्रवृत्तं यदि धारयेत् // SRS_२४.६३ //
SK
एकगाथां पि धारित्वा पुण्यस्कन्धो अचिन्तियः / किं वा पुनः सर्वसूत्रं धारयेद् यः श्रुतार्थिकः // SRS_२४.६४ //
SK
सर्वसत्त्वान् बोधिप्राप्तान् पूजयेद् यो ह्यतन्द्रितः / यः कुर्याद् गौरवेणासौ कल्पसत्त्वोपमान् सदा // SRS_२४.६५ //
SK
इतः समाधितो यश्च गाथामेकां पि धारयेत् / सर्वं पुरिमकं पुण्यं कलां नोपैति षोडशीम् // SRS_२४.६६ //
SK
अचिन्तियानानुशंसान् बुद्धज्ञानेन जानमि / इमं समाधिं श्रुत्वेह यः काङ्क्षां न करिष्यति // SRS_२४.६७ //
SK
इति श्रीसमाधिराजे प्रतिसंविदवतारपरिवर्तो नाम चतुर्विंशतितमः ||
SK
(Vऐद्य १५५) २५ Aनुमोदनापरिवर्तः |
SK
तत्र भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हिं कुमार बोधिसत्त्वेन महासत्त्वेनोपायकुशलेन भवितव्यम् | कथं च कुमार बोधिसत्त्वो महासत्त्व उपायकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामन्तिके ज्ञातिसंज्ञा उत्पादयितव्या | सर्वसत्त्वानामन्तिके ज्ञातिचित्तमुपस्थाप्य यः सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धस्तत् सर्वमनुमोदयितव्यम् | त्रिरात्र्यास्त्रिदिवसस्य सर्वसत्त्वानां कुशलमूलपुण्यस्कन्धमनुमोद्य सर्वज्ञतारम्बणेन चित्तोत्पादेन तेषामेव सर्वसत्त्वानां निर्यातयितव्यम् | अनेन कुशलमूलेन बोधिसत्त्वो महासत्त्वः क्षिप्रमिमं समाधिं प्रतिलभते,क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
सर्वे मम ज्ञातय एति सत्त्वाः यस्तेषमस्ती पृथु पुण्यस्कन्धः / रात्रेस्त्रिरेवं दिवसस्य च त्रीरनुमोदमी एमु जनित्व चित्तम् // SRS_२५.१ //
SK
अनुमोदमी ये सुविशुद्धशीला ये जीवितार्थे न करोन्ति पापम् / अधिमुक्तिसंपन्न य बोधिसत्त्वा अनुमोदमी तेष य किंचि पुण्यम् // SRS_२५.२ //
SK
अनुमोदमी येष प्रसादु बुद्धे धर्मे प्रसादो ऽस्ति तथैव संघे / अनुमोदमी ये सुगतस्य पूजां कुर्वन्ति बोधिं प्रतिकाङ्क्षमाणाः // SRS_२५.३ //
SK
अनुमोदमी येष न आत्मदृष्टिर्न भावदृष्टिर्न च जीवदृष्टिः / (Vऐद्य १५६) अनुमोदमी येष न पापदृष्टिर्ये शून्यतां दृष्ट्व जनेन्ति तुष्टिम् // SRS_२५.४ //
SK
अनुमोदमी ये सुगतस्य शासने लभन्ति प्रव्रज्योपसंपदं च / अल्पेच्छ संतुष्ट वने वसन्ति प्रशान्तचारित्र ये ध्यानगोचराः // SRS_२५.५ //
SK
अनुमोदमी एकक ये ऽद्वितीया वने वसन्ती सद खड्गभूताः / आजीवशुद्धाः सद अल्पकृत्या ये ज्ञात्रहेतोर्न न करेन्ति कूहनाम् // SRS_२५.६ //
SK
अनुमोदमी येष न संस्तवो ऽस्ति न चापि ईर्ष्या न कुलेषु तृष्णा / उत्त्रस्ति त्रैधातुकि नित्यकालम् अनोपलिप्ता विचरन्ति लोके // SRS_२५.७ //
SK
अनुमोदमी येष प्रपञ्चु नास्ति निर्विण्ण सर्वासु भवोपपत्तिषु / अविगृहीता उपशान्तचित्ता न दुर्लभस्तेष समाधिरेषः // SRS_२५.८ //
SK
अनुमोदमी ये गणदोष दृष्ट्वा सर्वान् विवादान् परिवर्जयित्वा / सेवन्त्यरण्यं वनमूलमाश्रिता विमुक्तिसाराः सुगतस्य पुत्राः // SRS_२५.९ //
SK
अनुमोदमी ये विहरन्त्यरण्ये नात्मानमुत्कर्षि परान्न पंसये / अनुमोदमी येष प्रमादु नास्ति ये अप्रमत्ता इम बुद्धशासने // SRS_२५.१० //
SK
यावन्त धर्माः पृथु बोधिपाक्षिकाः सर्वेष मूलं ह्ययमप्रमादः / ये बुद्धपुत्राः सद अप्रमत्ता न दुर्लभस्तेष अयं समाधिः // SRS_२५.११ //
SK
निधानलाभः सुगतान शासनं प्रव्रज्यलाभो द्वितीयं निधानम् / (Vऐद्य १५७) श्रद्धाय लाभस्तृतीयं निधानमयं समाधिश्चतुर्थं निधानम् // SRS_२५.१२ //
SK
श्रत्वा इमं शून्यत बुद्धगोचरं तस्याप्रतिक्षेपु निधानलम्भः / अनन्तु प्रतिभानु निधानलम्भो या धारणी तत् परमं निधानम् // SRS_२५.१३ //
SK
यावन्ति धर्माः कुशलाः प्रकीर्तिताः शीलं श्रुतं त्यागु तथैव क्षान्तिः / सर्वेष मूलं ह्ययमप्रमादो निधानलम्भः सुगतेन देशितः // SRS_२५.१४ //
SK
ये अप्रमत्ता इह बुद्धशासने सम्यक् च येषां प्रणिधानमस्ति / न दुर्लभस्तेष अयं समाधिरासन्नभूता इह बुद्धशासने // SRS_२५.१५ //
SK
इति श्रीसमाधिराजे अनुमोदनापरिवर्तो नाम पञ्चविंशतितमः ||
SK
(Vऐद्य १५८) २६ Dआनानुशंसापरिवर्तः |
SK
तस्मात्तर्हि कुमार अप्रमत्तो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्, अप्रमत्तस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किमङ्ग पुनरयं समाधिः | कथं च कुमार बोधिसत्त्वो महासत्त्वः अप्रमत्तो भवति? इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति | इह कुमार परिशुद्धशीलो बोधिसत्त्वः अप्रमत्तो भवति | इह कुमार बोधिसत्त्वो महासत्त्वः परिशुद्धशीलो भवति | इह कुमार परिशुद्धशीलो बोधिसत्त्वो महासत्त्वः अविरहितो भवति सर्वज्ञताचित्तेन षट्सु पारमितासु | तस्येमे आनुशंसा भवन्ति | तान् शृणु, साधु च सुष्ठु च मनसिकुरु | भाषिष्ये ऽहं ते | देशेमे कुमार अनुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत मात्सर्यक्लेशो ऽस्य निगृहीतो भवति | त्यागानुबृंहितं चास्य चित्तं सदा भवति | बहुजनसाधारणेभ्यश्च भोगेभ्यः सारमाददाति | महाभोगेषु च कुलेषूपपद्यते | जातमात्रस्य चास्य त्यागचित्तमामुखीभवति | प्रियश्च भवति चतसृणां पर्षदामू | विशारदश्चासंकुचितः पर्षदमवगाहते | दिग्विदिक्षु चास्योदारो वर्णकीर्तिशब्दश्लोको लोके ऽभ्युद्गच्छति | मृदुतरुणहस्तपादश्च भवति समचरणतलप्रतिष्ठितः | अविरहितश्च भवति कल्याणमित्रैर्यावद्बोधिमण्डनिषदनात् | इमे कुमार दशानुशंसा दानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
निगृहीतं सि मात्सर्यं त्यागचित्तं च बृंहितम् / आदत्तसारो भवति समृद्धे जायते कुले // SRS_२६.१ //
SK
जातमात्रस्य चित्तं सि त्याग एव प्रवर्तते / प्रियो भवति सत्त्वानां गृहप्रव्रजितान च // SRS_२६.२ //
SK
विशारदश्च पर्षत्सु अम रूप संक्रमेत् / भवत्युदारशब्दो ऽस्य ग्रामेषु नगरेषु च // SRS_२६.३ //
SK
मृदू हस्तौ च पादौ च भविष्यन्ति न दुर्लभाः / कल्याणमित्रांल्लभते बुद्धांश्च श्रावकानपि // SRS_२६.४ //
SK
मात्सर्यचित्तं सि न जातु भोति त्यागेषु चित्त रमते ऽस्य नित्यम् / प्रियश्च भोति बहुसत्त्वकोटिनां अमत्सरिस्या इमि आनुशंसाः // SRS_२६.५ //
SK
(Vऐद्य १५९) महाधने चापि कुले स जायते जातस्य त्यागे रमते मनो ऽस्य / आदत्तसारश्च करोति कालममत्सरिस्या इमि आनुशंसाः // SRS_२६.६ //
SK
विशारदश्चो परिषां विगाहते उदारशब्दो ऽस्य दिशासु याति / मृदु हस्तपादो ऽस्य सदैव जायते अमत्सरिस्या इमि आनुशंसाः // SRS_२६.७ //
SK
कल्याणमित्रास्य न भोन्ति दुर्लभा बुद्धांश्च यो पश्यति श्रावकांश्च / दृष्ट्वा च तान् पूजयते प्रसन्नो अमत्सरिस्या इमि आनुशंसाः // SRS_२६.८ //
SK
इति श्रीसमाधिराजे दानानुशंसापरिवर्तो नाम षडविंशतितमः ||
SK
(Vऐद्य १६०) २७ Śईलनिर्देशपरिवर्तः | दशेमे कुमार अनुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत ज्ञानं च परिशोधयति परिपूरयति | बुद्धानां भगवतामनुशिक्षते | अगर्हितो भवति पण्डितानाम् | प्रतिज्ञातो न चलति | प्रतिपत्तौ तिष्ठति | संसारात् पलायते | निर्वाणमर्पयति | निष्पर्युत्थानो विहरति | समाधिं प्रतिलभते | अदरिद्रश्च भवति | इमे कुमार दशानुशंसाः परिशुद्धशीलस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
ज्ञानं च परिपूरेति बुद्धानामनुशिक्षते / अगर्हितः पण्डितानां भोति नित्यं विशारदः // SRS_२७.१ //
SK
प्रतिज्ञातो न चलति प्रतिपत्तौ च तिष्ठति / अर्पेति येन निर्वाणं संसारातः पलायते // SRS_२७.२ //
SK
निष्पर्युत्थितो विहरति समाधिं लभते लघु / अदरिद्रश्च भवति शीलस्कन्धे प्रतिष्ठितः // SRS_२७.३ //
SK
ज्ञानं च तस्यो परिपूर्णु भोति अनुशिक्षते चाति तथागतानाम् / न चास्य निन्दां प्रकरोन्ति पण्डिताः तथा हि तस्यो परिशुद्ध शीलम् // SRS_२७.४ //
SK
प्रतिज्ञातो ऽसौ न चलाति पण्डितः तथा हि शूरः प्रतिपत्तिये स्थितः / दृष्ट्वा च संसारमनेकदोषं पलायते निर्वृति येन याति // SRS_२७.५ //
SK
पर्युत्थितं चित्तु न भोति तस्य तथा ह्यसौ शीलबले प्रतिष्ठितः / क्षिप्रं समाधिं लभते निरङ्गणं परिशुद्धशीलस्यिमि आनुशंसाः // SRS_२७.६ //
SK
इति श्रीसमाधिराजे शीलनिर्देशपरिवर्तो नाम सप्तविंशतिमः ||
SK
(Vऐद्य १६१) २८ Dअशानुशंसापरिवर्तः |
SK
दशेमे कुमार आनुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश?अग्निना न दह्यते | शस्त्रेण न हन्यते | विषमस्य न क्रमते | उदकेन न म्रियते | देवताश्चैनं रक्षन्ति | लक्षणालंकृतं च कायं प्रतिलभते | सर्वदुर्गतिद्वाराणि चास्य पिथितानि भवन्ति | ब्रह्मलोके चास्योपपत्तिर्भवति | सुखेन चास्य रात्रिंदिवानि व्रजन्ति | प्रीतिसुखं चास्य कायं न विजहाति | इमे कुमार दशानुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
अग्निना दह्यते नासौ शस्त्रेण न च हन्यते / विषं न क्रमते काये उदके म्रियते न सः // SRS_२८.१ //
SK
रक्षन्ति देवताश्चैनं द्वात्रिंशद् भोन्ति लक्षणाः / दुर्गतिः पिथिता चास्य क्षान्तिये अनुशंसिमे // SRS_२८.२ //
SK
ब्रह्मत्वं अथ शक्रत्वं भोति चास्य न दुर्लभम् / सुखं विहरते नित्यं प्रिति भोन्ति अचिन्तिया // SRS_२८.३ //
SK
नो अग्निशस्त्रेण स जातु हन्यते विषेण वा वारिगतो न म्रियते / रक्षन्ति देवास्तथ नाग यक्षा मैत्रीविहारिष्यिमि आनुशंसाः // SRS_२८.४ //
SK
द्वात्रिंश काये ऽस्य भवन्ति लक्षणा नो चास्य भूयो विनिपातु भोति / च्युतश्च स ब्रह्मपुरोपपद्यते क्षान्तिस्थितस्यो इमि आनुशंसाः // SRS_२८.५ //
SK
सुखेन रात्रिंदिव तस्य यान्ति प्रीतिस्फुटः कायु तदास्य भोति / स क्षान्तिसौरत्यबले प्रतिष्ठितः प्रसन्नचित्तः सद भोति पण्डितः // SRS_२८.६ //
SK
दशेमे कुमार आनुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत दुरासदश्च भवति | बुद्धपरिग्रहं च प्रतिलभते | देवतापरिगृहीतश्च भवति | श्रुत्वा चास्य धर्मा न परिहीयन्ते | अश्रतपूर्वांश्च धर्मान् प्रतिलभते | समाधिगोत्रं च प्रतिलभते | अल्पाबाधश्च भवति | आहारश्चास्य सम्यक् परिणामयति | पद्मोपमश्च भवति न मुसलोपमः | इभे कुमार दशानुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
(Vऐद्य १६२) तत्रेदमुच्यते -
SK
दुरासदः सदा भोति परिदाहो न विद्यते / रक्षन्ति देवताश्चैनं क्षिप्रं बुद्धान् स पश्यति // SRS_२८.७ //
SK
श्रुतं न हीयते तस्य अश्रतं भोति आमुखम् / प्रणिधिं परिपूरेति वीर्यवन्ते इमे गुणाः // SRS_२८.८ //
SK
समाधिगोत्रं लभते व्याधिश्चास्य न जायते / सुखं चास्यान्नपानानि पच्यन्ते न विषीदति // SRS_२८.९ //
SK
उत्पलं वरिमध्ये व सो ऽनुपूर्वेण वर्धते / एवं शुक्लेहि धर्मेहि बोधिसत्त्वो विवर्धते // SRS_२८.१० //
SK
अवन्ध्याश्चास्य गच्छन्ति रात्रयो दिवसानि च / भविष्यति मृत्युकाले फलमेतस्य चेदृशम् // SRS_२८.११ //
SK
आरब्धवीर्येण तथागतेन कल्पैरनैकैः समुदागतेन / ये बोधिसत्त्वा विरियेणुपेतास्तेषानुशंसा इमि संप्रकाशिताः // SRS_२८.१२ //
SK
आरब्धवीर्यो भवती दुरासदः परिगृहीतो भवती जिनेहि / देवा पि तस्य स्पृह संजनेन्ति नचिरेण सो लप्स्यति बुद्धबोधिम् // SRS_२८.१३ //
SK
श्रतं च तस्यो न कदाचि हीयते अन्ये पृथू चापि लभन्ति धर्माः / प्रतिभानु तस्यो अधिमात्रु वर्धते आरब्धवीर्यस्य इमे ऽनुशंसाः // SRS_२८.१४ //
SK
समाधिगोत्रं च लघुं धिगच्छति आबाधु तस्यो न कदाचि भोति / यथैव सो भोजनु तत्र भुञ्जते सुखेन तस्यो परिणामु गच्छति // SRS_२८.१५ //
SK
रात्रिंदिवं भवति शुक्लपक्षो आरब्धवीर्यस्य अतन्द्रितस्य / बोधी पि तस्यो नचिरेण भेष्यते तथा ह्यसौ वीर्यबलैरुपेतः // SRS_२८.१६ //
SK
(Vऐद्य १६३) दशेमे कुमार आनुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत आचारे तिष्ठति | गोचरे चरति | निष्परिदाहो विहरति | गुप्तेन्द्रियो भवति | प्रीतिमनुभवति | विविक्तः कामैः | अतृप्तो ध्यानैः | मुक्तो मारविषयात् | प्रतिष्ठितो बुद्धविषये | विमुक्तिं परिपाचयति | इमे कुमार दशानुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
नासौ भोति अनाचारो आचारे संप्रतिष्ठितः / गोचरे चरते योगी वर्जेति च अगोचरम् // SRS_२८.१७ //
SK
निष्परिदाह्यविहारी गुप्तेन्द्रिय सुसंवृतः / अनुभवति संप्रीतिं ध्यानध्यायिस्य गोचरः // SRS_२८.१८ //
SK
विरक्तः कामतृष्णाया ध्यानसौख्यं निषेवते / मुक्तो ऽसौ मारविषयाद् बुद्धगोचरि संस्थितः // SRS_२८.१९ //
SK
योगिनो हि विशेषो ऽयं यदेको रमते वने / विमुक्तिं परिपाचेति तं भोति दशमं पदम् // SRS_२८.२० //
SK
आचारि सो तिष्ठति बोधिसत्त्वः सर्वाननाचारु विवर्जयित्वा / अगोचरं वर्जिय गोचरे स्थितः समाधियुक्ते इमि आनुशंसाः // SRS_२८.२१ //
SK
परिदाहु तस्यो न कदाचि भोति आर्यं स्पृशित्वेह सुखं निरामिषम् / कायेन चित्तेन च भोति शीतलः समाधियुक्ते इमि आनुशंसाः // SRS_२८.२२ //
SK
विहरत्यरण्यायतनेषु गुप्तो विक्षेपु तस्यो न कदाचि भोति / प्रीतिं च तस्मिल्लंभते निरामिषं तथा हि कायेन विविक्तु भोति // SRS_२८.२३ //
SK
अलिप्त कामेहि असंकिलिष्टो तथा हि मारविषयात्तु मुक्तः / तथागतानां विषये प्रतिष्ठितो विमुक्ति तस्यो परिपाकु गच्छति // SRS_२८.२४ //
SK
दशेमे कुमार आनुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत सर्वस्वपरित्यागो भवति न च दानेन शुद्धिं मन्यते | अखण्डशीलश्च भवति न च शीलमाश्रितः |(Vऐद्य १६४) क्षान्तिबलसुप्रतिष्ठितश्च भवति न च सत्त्वसंज्ञासंप्रतिष्ठितः | आरब्धवीर्यश्च भवति कायचित्तविविक्तः | ध्यानध्यायी च भवति अप्रतिष्ठितध्यायी | दुर्धर्षश्च भवति मारैः, अप्रकम्प्यश्च भवति सर्वपरप्रवादिभिः | लव्धालोकश्च भवति सर्वसंस्कारगत्याम् | अधिमात्रा चास्य सर्वसत्त्वेषु महाकरुणा समतिक्रामति | न च श्रावकप्रत्येकभूमेः स्पृहयति | बुद्धध्यानसमाधिसमापत्तीरवतरति | इमे कुमार दशानुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
सर्वस्वं त्यजते धीरः शुद्धिं तेन न मन्यते / अखण्डं रक्षते शीलं निश्रयो ऽस्य न विद्यते // SRS_२८.२५ //
SK
क्षान्तिं भावेति स प्राज्ञः सत्त्वसंज्ञा विवर्तिता / आरब्धवीर्यो भवति कायचित्तविविक्ततः // SRS_२८.२६ //
SK
ध्यानध्यायी च सो भोति अप्रतिष्ठो अनिश्रितः / दुर्धर्षो भोति मारेहि प्रज्ञावन्त इमे गुणाः // SRS_२८.२७ //
SK
अकम्पियो च सो भोति सर्वैः परप्रवादिभिः / लब्धालोकश्च संसारे प्रज्ञाया ईदृशा गुणाः // SRS_२८.२८ //
SK
महाकृपां स लभते सर्वसत्त्वान अन्तिके / श्रावकप्रत्येकज्ञाने न स्पृहेति कदाचन // SRS_२८.२९ //
SK
सर्वस्वत्यागेन न शुद्धि मन्यते अखण्डशीलो न च शीलनिश्रितः / भावेति क्षान्ती न च सत्त्वसंज्ञा | प्रज्ञाधिमुक्ते इमि आनुशंसाः // SRS_२८.३० //
SK
आरब्धवीर्यो भवती विमुक्तो अनिश्रितो ध्यायति अप्रतिष्ठितः / दुर्धर्षु मारेण स भोति पण्डितो प्रज्ञाधिमुक्ते इमि आनुशंसाः // SRS_२८.३१ //
SK
अकम्पियो भोति परप्रवादिभिः स लब्धगाधो भवतीह संस्कृते / अधिमात्र सत्त्वेषु कृपां जनेति प्रज्ञाधिमुक्ते इमि आनुशंसाः // SRS_२८.३२ //
SK
प्रत्येकबुद्धेषु च श्रावकेषु चो न तस्य जातु स्पृह तेषु जायते / (Vऐद्य १६५) तथा ह्यसौ बुद्धगुणाः प्रतिष्ठिताः प्रज्ञाधिमुक्ते इमि आनुशंसाः // SRS_२८.३३ //
SK
दशेमे कुमार आनुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत संक्लेशं न करोति | व्यापादं न जनयति | काङ्क्षां विवृणोति | दृष्टिमृज्वीकरोति | उत्पथं च वर्जयति | मार्गे प्रतिष्ठते | अमृतद्वारे तिष्ठति | आसन्नस्थायी भवति बोधये | आलोकभूतो भवति सत्त्वानाम् | दुर्गतिभ्यो न बिभेति | इमे कुमार दशानुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
अनुशंसा दशैवैते बाहुश्रत्ये प्रकाशिताः / तथागतेन बुद्धेन यथाभूतं प्रजानता // SRS_२८.३४ //
SK
संक्लेशं व्यवदानं च उभौ पक्षौ स जानति / संक्लेशं परिअवर्जित्वा व्योदाने मार्गि तिष्ठति // SRS_२८.३५ //
SK
काङ्क्षां विवरति ज्ञानी दृष्टीमृज्वीकरोति च / मार्ग उत्पथ वर्जेति ऋजुके मार्गि तिष्ठति // SRS_२८.३६ //
SK
तिष्ठते चामृतद्वारे आसन्नो भोति बोधये / आलोकभूतः सत्त्वानां दुर्गतिभ्यो न भीयति // SRS_२८.३७ //
SK
जानाति धर्मं पृथु सांकिलेशिकं व्यवदानपक्षं पि तथैव जानति / स संकिलेशं परिवर्जयित्वा व्योदानि संशिक्षति धर्मि उत्तमे // SRS_२८.३८ //
SK
काङ्क्षां च सो विवरति सर्वप्राणिनां दृष्टी च तस्यो भवति सदोज्ज्वका / स उत्पथं मार्गु विवर्जयित्वा संतिष्ठते ऋजुकि पथे सदा शिवे // SRS_२८.३९ //
SK
अमृतस्य द्वारे भवती सदा स्थितो आसन्न भोती विपुलाय बोधये / आलोकभूतः पृथु सर्वप्राणिनां न चाप्यसौ भायति दुर्गतिभ्यः // SRS_२८.४० //
SK
दशेमे कुमार आनुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः | कतमे दश? यदुत अक्रियां विवर्जयति || क्रियामवतरति | सत्पुरुषधर्मे प्रतिष्ठते | बुद्धक्षेत्रं परिशोधयति | बोधिमण्डमर्पयति | वस्तुं परित्यजति | क्लेशान्निगृह्वाति | सर्वसत्त्वेभ्यः प्रत्यंशं (Vऐद्य १६६) ददाति | तदारम्बणां च मैत्रीं भावयति | दृष्टधार्मिकं च सुखं प्रतिलभते | इमे कुमार दशानुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः ||
SK
तत्रेदमुच्यते -
SK
यो हि दानं दादात्यग्रं धर्मदानममत्सरी / दश तस्यानुशंसा वै लोकनाथेन भाषिताः // SRS_२८.४१ //
SK
अक्रियां सर्वि वर्जेति क्रियामोतरते विदुः / सत्पुरुष धर्मप्रतिपन्नस्त्यागचित्तं निषेवते // SRS_२८.४२ //
SK
बुद्धक्षेत्रं च शोधेति क्षेत्रं भोति स्यनुत्तरम् / बोधिमण्डं समारूढो धर्मदानस्यिदं फलम् // SRS_२८.४३ //
SK
त्यजते सर्ववस्तूनि शिक्षते धर्मराजिनः / किलेशा निगृहीतास्य बोधिस्तस्य न दुर्लभा // SRS_२८.४४ //
SK
सर्वसत्त्वान प्रत्यंशं मैत्रचित्तः प्रयच्छति / अनीर्षुकश्च सो भोति सौख्यं भोति स्यमानुषम् // SRS_२८.४५ //
SK
विवर्जिता अक्रिया पण्डितेन क्रियाय सो नित्य विदुः प्रतिष्ठितः / महात्मधर्मेषु सदा प्रतिष्ठितो यो धर्मदानं सद देति पण्डितः // SRS_२८.४६ //
SK
क्षेत्रं च तस्य सद भोति शुद्धं धर्मा विवर्धन्तिमि बोधिपाक्षिकाः / आसन्न भोति सद बोधिमण्डे धर्मं ददित्वा इमि आनुशंसाः // SRS_२८.४७ //
SK
क्लेशा न सन्ती परित्यक्त वस्तून् वस्तुं परिज्ञातु स्वलक्षणेन / विमुक्त सर्वेहि परिग्रहेहि न तस्य सङ्गो भवती कदाचित् // SRS_२८.४८ //
SK
उपस्थितं चित्तु विचक्षणस्य सर्वे ऽपि सत्त्वा सुखिनो भवन्तु / स मैत्रचित्तो भवती अनीर्ष्युको दृष्टेव धर्मे ऽस्य सुखं अनल्पकम् // SRS_२८.४९ //
SK
दशेमे कुमार आनुशंसाः शून्यताविहारिणो बोधिसत्वस्य महासत्त्वस्य | कतमे दश? यदुत बुद्धविहारेण विहरति | अनिश्रितो ध्यायति | उपपत्तिं न प्रार्थयति | शीलं न परामृशति | (Vऐद्य १६७) आर्यान्नापवदति | अविरुद्धो विहरति | वस्तु नोपलभते | विविक्तश्च भवति | बुद्धान्नाभ्याख्यायति | सद्धर्मं धारयति | इमे कुमार दशानुशंसाः शून्यताविहारिणो बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
यो विहारो नरेन्द्राणां सर्वबुद्धान गोचरः / तेनो विहरते योगी यत्र जीवो न लभ्यते // SRS_२८.५० //
SK
अनिश्रितः सर्वलोके आर्यं ध्यानं न रिञ्चति / उपपत्तिं न प्रार्थेति दृष्ट्वा धर्मस्वभावताम् // SRS_२८.५१ //
SK
अपरामृष्टशीलस्य भवेच्छीलमनिश्रितम् / न सो ऽपवदते किंचिदन्यमार्यं अनास्रवम् // SRS_२८.५२ //
SK
अविरुद्धो विहरति विवादो ऽस्य न विद्यते / वस्तुं नोपलभेद् योगी विविक्तो विहरी सदा // SRS_२८.५३ //
SK
अभ्याख्याति न सो बुद्धमपि जीवितकारणात् / निश्रितः शून्यधर्मेषु कायसाक्षी विशारदः // SRS_२८.५४ //
SK
सर्वेषां लोकनाथानां बुद्धबोधिमचिन्तियाम् / धर्मं धारेति सत्कृत्य बुद्धधर्मान्न काङ्क्षति // SRS_२८.५५ //
SK
ये ते विहाराः पुरुषर्षभाणां यस्मिन्नभूमिः पृथुतीर्थिकानाम् / विहरत्यसौ तैरिह बोधिसत्त्वो यस्मिन्न सत्त्वो न जीवु न पुद्गलः // SRS_२८.५६ //
SK
न निश्रयस्तस्य कदाचि विद्यते अनिश्रितः सेवते ध्यानसौख्यम् / निरात्म निःसत्त्व विदित्व धर्मानुपपत्तिसंज्ञास्य न जातु भोति // SRS_२८.५७ //
SK
स्वभावु धर्माण प्रजानतश्च शीले ऽपि तस्येह न कश्चि निश्रयः / शीलेन नो मन्यति जातु शुद्धिं प्रसादमार्येषु करोति नित्यम् // SRS_२८.५८ //
SK
विरोधु तस्यो न कदाचि भोति विभाविताः सर्वस्वभावशून्याः / न चापि सो ऽभ्याख्याति नायकानां सद्धर्म धारित्व तथागतानाम् // SRS_२८.५९ //
SK
(Vऐद्य १६८) दशेमे कुमार आनुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश ?यदुत अनाविलचित्तो भवति | अप्रमत्तो विहरति | बुद्धमनुस्मरति | चर्यां श्रद्दधाति | ज्ञाने न काङ्क्षति | कृतज्ञो भवति | बुद्धानां धर्मं न प्रतिक्षिपति | सुसंवृतो विहरति | दान्तभूमिमनुप्राप्नोति| प्रतिसंविदः साक्षात्करोति | इमे कुमार दशानुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
चित्तमनाविलं भोति प्रमादाः सर्वि वर्जिताः / अप्रमत्तो विहरति प्रतिसंलानगोचरम् // SRS_२८.६० //
SK
श्रुत्वा च लोकनाथानां चर्यां बुद्धान श्रद्दधे / ज्ञाने न काङ्क्षते योगी बुद्धज्ञाने अचिन्तिये // SRS_२८.६१ //
SK
कृतज्ञो भोति बुद्धानां बुद्धधर्मान्न काङ्क्षति / सुसंवृतो विहरति दान्तभूमिप्रतिष्ठितः // SRS_२८.६२ //
SK
प्रतिसंविदः स लभते य एको रमते सदा / जहित्वा लाभसत्कारं प्रतिसंलानगोचरः // SRS_२८.६३ //
SK
चित्तं च तस्यो भवति अनाविलं सर्वे प्रमादाः परिवर्जितास्य / सदाप्रमत्तो भवती महात्मा समाधियुक्तस्य इमे ऽनुशंसाः // SRS_२८.६४ //
SK
स्मरित्व बुद्धान् द्विपदानमुत्तमान् श्रद्धाति तेषां चरियामनुत्तराम् / न काङ्क्षति ज्ञानु तथागतानां समाधियुक्ते इमि आनुशंसाः // SRS_२८.६५ //
SK
बुद्धान सो भोति सदा कृतज्ञो न जीवितार्थं स क्षिपेत धर्मम् / सुसंवृतो विहरति नित्यकालं समाधियुक्ते इमि आनुशंसाः // SRS_२८.६६ //
SK
स दान्तभूमीमनुप्राप्त भोति प्रतिसंविदः साक्षिकरोति क्षिप्रम् / अनाच्छेद्यवाक्य प्रतिभानवांश्च सूत्रान्तकोटिनियुतान भाषते // SRS_२८.६७ //
SK
स बुद्धबोधिं परिगृह्णते लघुम् आरक्षते शासनु नायकस्य / (Vऐद्य १६९) निहनित्व सो सर्वपरप्रवादिनः करोति वैस्तारिक बुद्धबोधिम् // SRS_२८.६८ //
SK
इतश्च्यवित्वान स बोधिसत्त्वः सुखावतीं गच्छति लोकधातुम् / अनुत्पादधर्मेषु च क्षान्ति लप्स्यते अमितायुषो धर्मवराग्रु श्रुत्वा // SRS_२८.६९ //
SK
दशेमे कुमार आनुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत अल्पकृत्यो विहरति | गणं वर्जयति | विवादो ऽस्य न भवति | अव्यावध्यो भवति | आस्रवान वर्धयति | अधिकरणं न करोति | उपशान्तश्चरति | सुसंवृतश्व विहरति | मोक्षानुकूला चास्य चित्तसंततिर्भवति | क्षिप्रं च विमुक्तिं साक्षात्करोति | इमे कुमार दशानुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
अल्पकृत्यः सदा भोति गणं वर्जेति दूरतः / विवादो न भवत्यस्य वनेष्वेकविहारिणः // SRS_२८.७० //
SK
अव्यावध्येन चित्तेन आस्रवान्न विवर्धयेत् / नास्याधिकरणं भोति गुणास्ते ऽरण्यवासिनः // SRS_२८.७१ //
SK
उपशान्तः स चरते मनोवाक्कायसंवृतः / मोक्षानुकूलो भवति विमुक्तिं क्षिप्र स्पर्शति // SRS_२८.७२ //
SK
भवति सततमल्पकृत्यु योगी पृथुगणदोषेण विवर्जयित्वा / न विवदति कदाचि मुक्त योगी इमि गुण तस्य भवत्यरण्यवासे // SRS_२८.७३ //
SK
यद भवति निर्विण्णु संस्कृते ऽसौ न भवति तस्य स्पृहा कहिंचि लोके / न च भवति विवृद्धिरास्रवाणां वनि वसतो ऽस्य भवन्ति आनुशंसाः // SRS_२८.७४ //
SK
अधिकरणु न जातु चास्य भोति उपशान्तरतो विवेकचारी / वचसि मनसि काये संवृतस्यो बहु गुण तस्य भवन्त्यरण्यवासे // SRS_२८.७५ //
SK
(Vऐद्य १७०) भवति च अनुकूल तस्य मोक्षो लघु प्रतिपद्यति सो विमुक्ति शान्तम् / वनि वसति विमुक्ति सेवतो ऽस्या इमि गुण भोन्ति अरण्यवासि सर्वे // SRS_२८.७६ //
SK
दशेमे कुमार आनुशंसाः पिण्डचारिकस्य धूतगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य | कतमे दश? यदुत ज्ञात्रकामतास्य न भवति | यशस्कामतास्य न भवति | लाभसत्कारकामतास्य न भवति | आर्यवंशप्रतिष्ठितश्च भवति | कुहनलपनतास्य न भवति | आत्मानं नोत्कर्षयति | परान्न पंसयति | अनुनयप्रतिघप्रहीणः परगृहे चरति | निरामिषं च धर्मदानं ददाति | धूतगुणसंलेखप्रतिष्ठितस्य चास्य ग्राह्या धर्मदेशना भवति | इमे कुमार दशानुशंसाः पिण्डपातिकस्य धूपगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य ||
SK
तत्रेदमुच्यते -
SK
न ज्ञात्रकामो भवति यशो नाप्यभिनन्दते / लाभालाभे समचित्तो यो धूतेषु प्रतिष्ठितः // SRS_२८.७७ //
SK
नोत्सृजत्यार्यवंशं च कुहना लपना न च / उत्कर्षेति न चात्मानं परान् पंसयते न च // SRS_२८.७८ //
SK
प्रतिघानुनयौ चास्य धर्मं देशी निरामिषम् / ग्राह्यं सि वचनं भोति पिण्डपाते गुणा अमी // SRS_२८.७९ //
SK
न मार्गते ज्ञात्र यशो न लाभं चतुरार्यवंशे भवति प्रतिष्ठितः / अकुहको अलपकु भोति पण्डितो धूताधिमुक्तस्य इमीदृशा गुणाः // SRS_२८.८० //
SK
नात्मानमुत्कर्षि परान्न पंसी पुरुषं पि उक्तो न कदाचि कुप्यते / वर्णं पि श्रुत्वा जनये न हर्षं यः पिण्डपातेन भवेत तुष्टः // SRS_२८.८१ //
SK
निरामिषं देति च धर्मदानं न लाभसत्कार गवेषते ऽसौ / ग्राह्या च तस्य भवते ऽस्य भाषितं धूताधिमुक्तस्य इमे ऽनुशंसाः // SRS_२८.८२ //
SK
इति हि कुमार एवंरूपेषु धूतगुणेषु प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽरण्ये विहरन् बुद्धनिधानं प्रतिलभते | धर्मनिधानं प्रतिलभते | ज्ञाननिधानं प्रतिलभते | पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं (Vऐद्य १७१) प्रतिलभते | कथं च कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते?इमाः कुमार विवेकचारी बोधिसत्त्वो महासत्त्वः पञ्चाभिज्ञाः प्रतिलभते | स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति | एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति | सो ऽविरहितो भवति बुद्धदर्शनेन | एवं हि कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते | कथं च कुमार बोधिसत्त्वो महासत्त्वो धर्मनिधानं प्रतिलभते? यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, तं स बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना सर्वं शृणोति | सो ऽविरहितो भवति धर्मश्रवणेन | एवं हि कुमार बोधिसत्त्वो धर्मनिधानं प्रतिलभते | कथं च कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते? येन ज्ञानेन सर्वधर्मानाराधयति | आराधयित्वा अविप्रमुषितस्मृतिः सत्त्वानां धर्मं देशयति | तस्य च यो ऽर्थः स प्रजानाति | एवं हि कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते | कथं च कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते? सो ऽभिज्ञया अतीतानागतप्रत्युत्पन्नसत्त्वचित्तचरितज्ञानमवतरति | एवं हि कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते | संक्षिप्तेन कुमार एवंगुणधर्मप्रतिष्ठितो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मान् प्रतिलभते यत्राभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्, कः पुनर्वादः सर्वपरप्रवादिनाम् ||
SK
तत्रेदमुच्यते -
SK
बुद्धनिधानं च धर्मनिधानं ज्ञाननिधानं च पूर्वान्तनिधानम् / पञ्च अभिज्ञाः स क्षिप्रं लभति यो विदु रण्णि सदा स्थितु भोति // SRS_२८.८३ //
SK
इति श्रीसमाधिराजे दशानुशंसापरिवर्तो नाम अष्टाविंशतितमः ||
SK
(Vऐद्य १७२) २९ Tएजगुणराजपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार दिव्यानि चक्रवर्तिराज्यैश्वर्यसुखान्यपहाय प्रव्रजिष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् | प्रव्रजितेन कुमार धूतगुणसंलेखप्रतिष्ठितेन विवेकचारिणा क्षान्तिसौरत्यसंपन्नेन भवितव्यम् | सदा च आरब्धवीर्येण ते कुमार आदीप्तशिरश्चैलोपमेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यः प्रवर्तयितव्यो धारयितव्यो वाचयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः | खङ्गविषाणभूतेन अद्वितीयेन च ते कुमार अरण्यनिषेविणा सदा भवितव्यम् | आत्मपरित्यागेनापि ते कुमार सर्वसत्त्वानामर्थः सदा करणीय इति ||
SK
अथ खलु भगवांस्तस्या वेलायामेतमेवार्थमुद्भावयंश्चन्द्रप्रभस्य कुमारभूतस्येमं पूर्वयोगकथापरिवर्तं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -
SK
स्मरमी अतीत बहुकल्पशता यद आसि नायकु अनन्तयशाः / नरदेवनागगणपूजनियो नामेन तेजगुणि राज जिनो // SRS_२९.१ //
SK
दश भिक्षुकोटि षडभिज्ञरुहाः प्रतिसंविदान वशिपारगताः / धूतवृत्त संलेखित शान्तमनाः इति तस्य तेन समयेन गणाः // SRS_२९.२ //
SK
षट्सप्तती नगर कोटिशताः पञ्चाशयोजनप्रमाण समाः / रतनान सप्तन विशिष्टवरा इह जम्बुद्वीपि तद कालि अभूत् // SRS_२९.३ //
SK
तद कालि ते पुरवरा सकलाः प्रतिमण्डिता बहु उद्यानशतैः / उद्यान सर्वि घनमेघनिभाः फलपुष्पमण्डित तरुनिचिताः // SRS_२९.४ //
SK
फलवृक्षजाति विविधा रुचिराः लकुचाम्रजम्बुपनसैर्निचिताः / (Vऐद्य १७३) कर्णिकारचम्पकपुन्नागशतैः प्रतिमण्डितास्त उद्यानवराः // SRS_२९.५ //
SK
न्यग्रोध सर्वि द्विजसंघरुताः कलविङ्ककोकिलमयूरशतैः / शुकजीवंजीवककुणालरुता बहुपक्षिसंघरुत कालि तदा // SRS_२९.६ //
SK
धृतराष्ट्रराजहंसोपनिभा भृङ्गकुणाला वरघोषरुताः / चित्राङ्गरक्तमहावर्णप्रभाः सुमनोज्ञशब्द मधुरा मुदिताः // SRS_२९.७ //
SK
इति पक्षि समागत कालि तदा कलविङ्कमयूरविहङ्गरुतैः / परपुष्ट शारिक विचित्र द्विजा बहुपक्षिघोषरुत नानविधाः // SRS_२९.८ //
SK
तेहि निषेवित उद्यानशता मुचिलिन्दवार्षिक अशोकशतैः / अतिमुक्तकाथ जवपुष्पपत्रैः पद्मोत्पलैः कुमुदपुण्डरिकैः // SRS_२९.९ //
SK
पदुमैः सहस्रशतपत्रचिता इमि पुष्प पुष्करिणिशोभकराः / प्रतिमण्डिताः सुरभिगन्धवराः शोभन्ति पुष्करिणियो रुचिराः // SRS_२९.१० //
SK
तहि कालि राज इह जम्बुध्वजे दृढदत्तु आसि मनुजाधिपतिः / पुत्राण तस्य अभु पञ्चशताः प्रासादिकाः परमदर्शनिकाः // SRS_२९.११ //
SK
तहि कालि राज्यु शिवु क्षेम अभूत् अनुपद्रुतं सुरमणीय शिवम् / अयु जम्बुद्वीप कुसुमैर्निचितो निर्विंशेष देवभवनेहि समम् // SRS_२९.१२ //
SK
(Vऐद्य १७४) तहि कालि सो दशबलो अनिधो जिनु भाषते इमु समाधिवरम् / स्वप्नोपमा भवगती सकला न व कश्चि जायति न चो म्रियते // SRS_२९.१३ //
SK
न सत्त्व लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः / मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः // SRS_२९.१४ //
SK
न च अस्मि लोकि मृतु कश्चि नरो परलोकि संक्रमति गच्छति वा / न च कर्म नश्यति कदाचि कृतं फलमेति कृष्ण शुभ संसरतो // SRS_२९.१५ //
SK
न च शाश्वतं न च उच्छेदु पुनो न च कर्मसंचयु न चापि स्थितिः / न च सो ऽपि कृत्व पुनरस्पृशती न च अन्यु कृत्व पुन वेदयते // SRS_२९.१६ //
SK
न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः / न च दृष्टिस्थानु गतिशुद्धिरिहो न च सत्त्वचरु न प्रशान्तगती // SRS_२९.१७ //
SK
अनुपादु शान्तु अनिमित्तपदं सुगतान गोचरु जिनान गुणाः / बल धारणी दशबलान बलं बुद्धानियं वृषभिता परमा // SRS_२९.१८ //
SK
वरशुक्लधर्म गुणसंनिचयो गुणज्ञानधारणिबलं परमम् / ऋद्धिविकुर्वणाविधिः परमा वरपञ्चाभिज्ञा प्रतिलाभनयः // SRS_२९.१९ //
SK
न च स प्रजानतीह स्वभावु क्वचि अगतागती निपुणधर्मगती / (Vऐद्य १७५) न च धर्मधातु व्रजतीह क्वचि एवं गती अगति धर्मगती // SRS_२९.२० //
SK
न च घोषसंचयु स्वभावगती गतियो स्वभावु न कहिंचि स्थितः / अस्थिता अनिश्रिता स्वभावगती जिनगोचरो विरजु शान्तपदम् // SRS_२९.२१ //
SK
शान्तप्रशान्त उपशान्तगती न च सा गती क्वचन संस्थिहती / भावु स्वभावु नुगताः सततं निपुणं सुदुर्दृशु पदं अचलम् // SRS_२९.२२ //
SK
न च सा चला हि स्वयमेव स्थिता अस्थिता अनागत स्वभावु स्थिता / न च शक्य भाषितु स्वभावु स्थिती शून्या च सा अचलु धर्मस्थिती // SRS_२९.२३ //
SK
घोषश्च उक्त न च घोषगती घोषस्वभावगति धर्मगती / न च घोषसंचयु स्थिती च क्वचि एवंस्वभावु गति धर्मगती // SRS_२९.२४ //
SK
गतिशब्द उक्तु न च सत्त्वगती धर्मस्वभाव निपुणार्थगती / घोषो ऽपि चोक्तु न च सत्त्वगती न च घोषु लभ्यति न सत्त्वगतिः // SRS_२९.२५ //
SK
न च अनन्त नान्त न च मध्यगतिः नैवास्ति नास्ति न च देशगती / ज्ञाता च यादृश स्वभावगती इय देशना जिनवराण समा // SRS_२९.२६ //
SK
विरजं विशुद्धि परमार्थपदं शान्त प्रशान्त अरजं विरजम् / न च कल्प मन्यन प्रशान्तपदं जिनु भाषते परमकारुणिको // SRS_२९.२७ //
SK
(Vऐद्य १७६) न पि चास्ति अक्षरप्रचार इहो विपुला गतिर्विपुला अर्थगती / बुद्धेहि सेवित जिनेहि स्तुता अवभास धर्मनय सूक्ष्मगती // SRS_२९.२८ //
SK
धर्मनिधान विरजं विपुलं यत्र स्थिता अप्रतिमा सुगता / देशेन्ति धर्मरतनं विरजं परमार्थशून्य निपुणार्थगती // SRS_२९.२९ //
SK
अश्रौषि राज दृढदत्तु तदा द्विपदेन्द्र भाषति समाधिमिमम् / सो ऽशीतिकोटिनयुतेहि तदा उपसंक्रमी तद जिनु कारुणिकम् // SRS_२९.३० //
SK
बलवन्तु गौरवु जनेत्व जिने वन्दित्व पादु मनुजाधिपतिः / पुरतः स्थितो दशबलस्य तदा कृताञ्जलिर्दशनखः प्रमुदितः // SRS_२९.३१ //
SK
तस्यो विदित्व परिशुद्ध चरीं जिन इन्द्रियेषु वशि पारगतः / अधुमुक्तिकोविदु नरः प्रवरो इमु तस्य देशयि समाधिवरम् // SRS_२९.३२ //
SK
यद तेन राज्ञ परमार्थ श्रुतो उत्पन्न प्रीति अरिया विपुला / उज्झित्व द्वीप सकलांश्चतुरो विजहित्व काम अभिनिष्क्रमि सो // SRS_२९.३३ //
SK
यद राज प्रव्रजि जहित्व महीं बोधाय अर्थिकु भविष्यजिनः / सर्वे मनुष्य इह जम्बुध्वजे विजहित्व कामरती प्रव्रजिता // SRS_२९.३४ //
SK
विपुलो गणो दशबलस्य तदा बहु भिक्षु भिक्षुणि प्रयुक्तमनाः / (Vऐद्य १७७) अकृष्टा अनुप्त तद ओषधयो प्रादुर्भूता मरुत्परिचराः // SRS_२९.३५ //
SK
काषाय त्रिचीवर प्रादुर्भूता समच्छिन्न सुसीवित ते ऽनुपमाः / अमला विरजाश्च सुवर्णचित्ता बुद्धस्य गुणोचित पुण्यबलाः // SRS_२९.३६ //
SK
पश्यो कुमार स हि राजवरो विजहित्व सर्व महि प्रव्रजितः / भेष्यन्ति सत्त्व क्षयकालि बहु अपरीत्तभोगा न त्यजन्ति गृहान् // SRS_२९.३७ //
SK
ताडन बन्धन कुदण्ड बहु आक्रोश तर्जनमनिष्टदुखम् / सहिष्यन्ति राजकुल पीड बहु सुपरीत्तभोग न च भक्तु गृहे // SRS_२९.३८ //
SK
अपरीत्त आयु न च अस्ति धनं सुमहान् प्रमादु न च पुण्यबलम् / न च शिल्पस्थानकुशला अबुधा दारिद्रियं च न च वित्तु गृहे // SRS_२९.३९ //
SK
परदारगृद्ध अविशुद्धमना ईर्ष्यालुकाः परमसाहसिकाः / संक्लिष्टधर्म न च वृत्तु स्थिता वक्ष्यन्ति बुद्ध भविष्याम् वयम् // SRS_२९.४० //
SK
उत्कोचवञ्चनक साहसिका अहमाढ्यु धर्म धनदास्मि जगे / उपघातकाः कुहक नैकृतिका वक्ष्यन्ति बुद्ध भविष्याम वयम् // SRS_२९.४१ //
SK
वधबन्धुपद्रवि परस्य रताः दुःशील दारुण प्रदुष्टमनाः / अकृतज्ञ भेदक विहिंसस्थिता वक्ष्यन्ति हं ते भण बोधिचरिम् // SRS_२९.४२ //
SK
यस्यैव तेन श्रुत बोधिचरी तस्यैव मध्यि प्रतिघं जनयी / (Vऐद्य १७८) श्रुत्वा च बुधं स्खलितमेकपदं तस्यैव भाषति अवर्णशतान् // SRS_२९.४३ //
SK
तदिमां कुमार मम श्रुत्व गिरं मा तेहि संस्तवु करोहि तदा / सुपिनान्तरे ऽपि अविश्वस्त सिया यदि इच्छसे स्पृशितु बोधिचरीम् // SRS_२९.४४ //
SK
धूतवृत्त संलिखित नैकगुणान् परिकीर्तयन्तु बहुकल्पशतान् / भणती गुणान्न च गुणेषु स्थितो न स बुध्यते परमबोधिगिराम् // SRS_२९.४५ //
SK
भवथा सदापि अखिला मधुरा सद शुद्धशील सुप्रसन्नमनाः / परिशुद्धशील भवथा सततं नचिरेण लप्स्यथ समाधिवरम् // SRS_२९.४६ //
SK
न करोथ मान न जनेथ खिलं परिशुद्धमानस सदा भवथा / मद मान म्रक्ष विजहित्व ततः प्रतिलप्स्यथा इमु समाधिवरम् // SRS_२९.४७ //
SK
गुणतो अनुस्मरि जिनं सततं वरकाञ्चनच्छविप्रभासकरम् / गगनं च रात्रिय नक्षत्रस्फुटं तथ कायु लक्षणस्फुटो मुनिनो // SRS_२९.४८ //
SK
ध्वजच्छत्रवितानपताकवरां चूर्णानुलेपनं गृहीत्व बहून् / पूजां करोथ सुगतस्य सदा नचिरेण लप्स्यथ समाधिवरम् // SRS_२९.४९ //
SK
वर गन्धमाल्यकुसुमा रुचिरां वादित्र तूर्य प्रगृहीत बहु / (Vऐद्य १७९) जिनस्तूपि पूज प्रकरोथ सदा नचिरेण लप्स्यथ समाधिवरम् // SRS_२९.५० //
SK
पणवैः सुघोषकमृदङ्गशतैः पटहैर्विपञ्चिवरवेणुरवैः / मधुरस्वरैर्विंविधवाद्यगणैः पूजेथ नायकु प्रसन्नमनाः // SRS_२९.५१ //
SK
कारेथ बुद्धप्रतिमां रुचिरां रतनामयीं सुपरिकर्मकृताम् / प्रासादिकां परमसुदर्शनीयां नचिरेण लप्स्यथ समाधिवरम् // SRS_२९.५२ //
SK
वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् / अद्वितीय खङ्गसम भोथ सदा नचिरेण लप्स्यथ समाधिवरम् // SRS_२९.५३ //
SK
अहु धर्मस्वामि मम यूयु सुता अनुशिक्षथा मम समाधिचरिम् / अहु सो अभूषि दिशता सुविश्रुतो दृढदत्तु नाम मनुजाधिपतिः // SRS_२९.५४ //
SK
मय बुद्ध पूजित अनन्त पुरे मय शीलु रक्षितु विशुद्धमनाः / मय गौरवं दशबलेषु कृतं इमु शान्तमेषत समाधिवरम् // SRS_२९.५५ //
SK
मय पुत्र दार परित्यक्त पुरे शिरहस्तपादनयनाग्रवराः / न च लीनचित्तत कदाचि कृता इमु शान्तमेषत समाधिवरम् // SRS_२९.५६ //
SK
(Vऐद्य १८०) धनधान्य दास बहुदासिशता रतना प्रभूत परित्यक्त मया / संतर्पिता पि बहुयाचनका इमु शान्तमेषत समाधिवरम् // SRS_२९.५७ //
SK
मय मुक्ति स्फाटिक सुवर्ण बहु वैदूर्य शङ्ख शिल त्यक्त पुरे / मणि शुद्धरूपिय प्रवाल घना इमु शान्तमेषत समाधिवरम् // SRS_२९.५८ //
SK
मय त्यक्त आभरण नानविधा वरमुक्तहार तथ सीहनुकाः / रतनान जालिक विशिष्ट पृथु इमु शान्तमेषत समाधिवरम् // SRS_२९.५९ //
SK
मय वस्त्रकोट्य परमा सुखुमाः परिशुद्ध काशिकदुकूलवराः / बहुहेमचित्र परित्यक्त परे इमु शान्तमेषत समाधिवरम् // SRS_२९.६० //
SK
मय हस्ति अश्व रथ नानविधाः परित्यक्त स्वप्रियसुतो महिलाः / न च दौर्मनस्यत कदाचि कृता इमु शान्तमेषत समाधिवरम् // SRS_२९.६१ //
SK
मय दृष्ट्व पूर्वि सुदरिद्र नराः पर्येष्टिदुःखित च कृच्छ्रगताः / मय ते धनेन अदरिद्र कृताः इमु शान्तमेषत समाधिवरम् // SRS_२९.६२ //
SK
हस्ती रथाश्वरथका नयुताः प्रच्छन्नरतनमणिजालचिताः / दत्ता मया याचनकान पुरा इमु शान्तमेषत समाधिवरम् // SRS_२९.६३ //
SK
उद्यान कोटिनयुता बहवः समलंकरित्व मय दत्त पुरा / (Vऐद्य १८१) हर्षेत्व मानसु जनित्व कृपां इमु शान्तमेषत समाधिवरम् // SRS_२९.६४ //
SK
ग्रामाथ राष्ट्रनगरा निगमाः समलंकरित्व मय दत्त पुरा / दत्वा च प्रीतिमनुभोमि सदा इमु शान्तमेषत समाधिवरम् // SRS_२९.६५ //
SK
रतनान राशय सुमेरुसमास्तथ चीवराभरणकाश्च बहु / ये दत्त पूर्वि मय याचनके इमु शान्तमेषत समाधिवरम् // SRS_२९.६६ //
SK
सुदरिद्र सत्त्व कृत आढ्य मया परिकृच्छ्रप्राप्त परित्रात बहु / बहुदुःखपद्रुत सुखी मि कृता इमु शान्तमेषत समाधिवरम् // SRS_२९.६७ //
SK
यद आसि ईश्चरु महीय अहं दुखितां च पश्यमि बहुं जनताम् / उत्सृष्ट तेषु मय राज्यमभूत् कृप संजनेत्व सुखितो च यथा // SRS_२९.६८ //
SK
ये मे कुमार कृत आश्चरिया कृत दुष्कराणि बहु कल्पशता / न च ते मय क्षपण शक्य सिया कल्पान कोटिनयुता भणतः // SRS_२९.६९ //
SK
उन्मत्तचित्तभूमि गच्छि नरा | अश्रद्दधन्त सुगतस्य चरिम् / कृत ये मि दुष्कर तदाश्चरिया इमु शान्तमेषत समाधिवरम् // SRS_२९.७० //
SK
आरोचयामि च कुमार इदं श्रद्दधन्त मे अवितथं वचनम् / न हि वाच भाषति मृषां सुगतः सद सत्यवादि जिनु कारुणिकः // SRS_२९.७१ //
SK
(Vऐद्य १८२) अन्ये इमे ऽपि च प्रकार बहू चरता शोधित य कल्पशताः / कथमहं लभित्विमु समाधिवरं मोचेय सत्त्वनियुतां दुखिताम् // SRS_२९.७२ //
SK
यस्मिन् क्षणे अयु समाधि मया प्रतिलब्ध भूत महाज्ञानपथः / सो ऽहं लभित्विमु समाधिवरं पश्यामि बुद्धनयुतान् सुबहून् // SRS_२९.७३ //
SK
ऋद्धी अनन्त प्रतिलब्ध मया स विकुर्वमाणु व्रजि क्षेत्रशतान् / गत्वा च पृच्छि अहु कारुणिकान् प्रश्नान कोटिनियुतान बहुम् // SRS_२९.७४ //
SK
यश्चैव भाषि मम ते सुगता प्रश्नान कोटिनियुतान तदा / गृह्णित्व सर्वमहु धारयमी न च भ्रश्यते एकपदं पि ममा // SRS_२९.७५ //
SK
तं चो श्रुणित्व अहु भूतनयं प्रश्नान कोटिनयुतान बहुम् / देशित्व तं विरज शान्तपदं स्थापेमि सत्त्व बहु ज्ञानपथे // SRS_२९.७६ //
SK
अस्मिन् समाधिय स्थिहित्व मया शिक्षित्व भूतनय कल्पशतान् / बहुसत्त्वकोटिनयुतानि पुरा ये स्थापिता विरजि मार्गवरे // SRS_२९.७७ //
SK
येही न दृष्ट पुरिमा सुगता भाषन्तका इमु नयं विरजम् / तेही न शक्यमिह श्रद्दधितुं परमार्थशून्यत समाधिवरम् // SRS_२९.७८ //
SK
ये श्राद्ध पण्डित विधिज्ञ नरा गम्भीरभूतनयलब्धनयाः / (Vऐद्य १८३) ते ना त्रसन्ति न च संत्रसिषू श्रुत्वा च भोन्ति सद आत्तमनाः // SRS_२९.७९ //
SK
ते ते धरेन्ति वरबोधि समा ते ते हि पुत्र अनुजात ममा / ते ते ह्युदुम्बरकुसुमसमास्तेषार्थ हं चरितु कल्पशतान् // SRS_२९.८० //
SK
न पि तस्य अस्ति विनिपातभयं अष्टाक्षणा विगत तस्य सदा / द्रक्ष्यन्ति बुद्धनयुतान् सुबहून् इमु यः समाधि नरु धारयती // SRS_२९.८१ //
SK
यथ मैत्रको जिनु अनन्तयशाः सत्त्वान भेष्यि बहु अर्थकरः / तथ व्याकरोम्यहमनन्तमतिं हस्तस्मि यस्य सुसमाधिवरम् // SRS_२९.८२ //
SK
स्मृतिमान् स भोति मतिमान् ज्ञानोद्गतः श्रुतिधरो भवति / प्रतिभानु तस्य भवति विपुलं इमु यः समाधि नरु धारयती // SRS_२९.८३ //
SK
देवानां च स भवति पूजनियो मरुतां च सद नमस्यनीयः / अभिरक्षितः सतत देवगणैः इमु यः समाधि नरु धारयति // SRS_२९.८४ //
SK
न च सो ऽग्निमध्ये म्रियते न जले न च तस्य शस्त्र क्रमते न विषम् / न च वैरिणां गमनियो भवती इमु यः समाधि नरु धारयती // SRS_२९.८५ //
SK
वनकन्दरे वसतु तस्य सदा मरुता करोन्ति वर पारिचरिम् / उपस्थायकाश्च बहु यक्षशता इमु यः समाधि नरु धारयती // SRS_२९.८६ //
SK
(Vऐद्य १८४) ज्ञानेन सागरसमो भवती न सज्जते गुण भणन्तु मुनेः / भूतांश्च बुद्धगुण कीर्तयते इमु यः समाधि नरु धारयती // SRS_२९.८७ //
SK
नान्तो न चास्य पर्यन्तु श्रुते न प्रमाणु लभ्यति यथा गगने / ज्ञानोल्कधारि तिमिरं हरति इमु यः समाधि नरु धारयती // SRS_२९.८८ //
SK
स्निग्धं सुयुक्त सद मुञ्च गिरां पर्षत्सु भाषति सुप्रेमणियाम् / सिंहो यथा स विनदं भणती इमु यः समाधि नरु धारयती // SRS_२९.८९ //
SK
वैद्यो भिषकु समु सो भवती गति लेनु त्राण शरणं बहूनाम् / आलोकभूतु जगि सो भवति इमु यः समाधि नरु धारयती // SRS_२९.९० //
SK
न च तस्य मैथुनि मनो रमते शमथे रतः स्पृशति ध्यानसुखम् / शान्तां स भाषति प्रशान्त गिरम् इमु यः समाधि नरु धारयती // SRS_२९.९१ //
SK
न च तस्य मानसु निमित्तरतं सर्वे विभावित निमित्त पृथु / सततं समाहितु विदू भवती इमु यः समाधि नरु धारयती // SRS_२९.९२ //
SK
चक्षुश्च सो लभति अप्राकृतकं येनो स पश्यति अनन्तजिनान् / सो ऽनन्तचक्षुर्भवति वृषभो इमु यः समाधि नरु धारयती // SRS_२९.९३ //
SK
क्रौञ्चस्वरो मधुरयुक्तगिरो कलविङ्कदुन्दुभिस्वरो भवती / संगीतियुक्तस्वरु मञ्जुगिरो इमु यः समाधि नरु धारयती // SRS_२९.९४ //
SK
(Vऐद्य १८५) मेघाभिगर्जितस्वरो भवती हंसस्वरो रवति मञ्जुगिरः / पञ्चस्वराङ्गशतयुक्तस्वरो इमु यः समाधि नरु धारयती // SRS_२९.९५ //
SK
बहुकल्पकोटिनयुता विविधा मधुरस्वराङ्गसुप्रयुक्तस्वराः / अचिन्तिया स गिर निश्चरती इमु यः समाधि नरु धारयती // SRS_२९.९६ //
SK
न च भोजने भवति गृध्नुमना न पात्रचीवररतो भवती / अल्पेच्छु संतुष्ट सुसंलिखितो इमु यः समाधि नरु धारयती // SRS_२९.९७ //
SK
न च आत्म उत्कर्षकु सो भवती न परस्य भाषति अवर्णु क्वचित् / ध्याने रतः सुखुमचित्तु सदा इमु यः समाधि नरु धारयती // SRS_२९.९८ //
SK
आत्मानुप्रेक्षी सततं भवती न परस्य स्खलितेमेषति च / अविरुद्धु सर्वि जगि सो भवती इमु यः समाधि नरु धारयती // SRS_२९.९९ //
SK
अकिलिष्टचित्तु परिशुद्धचरी अशठो अवञ्चकु सदा भवती / सदमार्दवः सद विमोक्षरतो इमु यः समाधि नरु धारयती // SRS_२९.१०० //
SK
त्यागाधिमुक्त सततं भवती मात्सर्यचित्तु न च तस्य रतम् / शीलेनुपेतु सततं भवती इमु यः समाधि नरु धारयती // SRS_२९.१०१ //
SK
अभिरूप दर्शनियु प्रेमणियो वरकाञ्चनच्छवि प्रभासकरः / (Vऐद्य १८६) द्वात्रिंशल्लक्षणधरो भवती इमु यः समाधि नरु धारयती // SRS_२९.१०२ //
SK
प्रासादिकश्च सद सो भवती अभिलक्षितो बहुजनस्य प्रियो / प्रेक्षन्त तृप्ति न लभन्ति नरा इमु यः समाधि नरु धारयती // SRS_२९.१०३ //
SK
देवास्य नाग तथ यक्षगणास्तुष्टा उदग्राः सद आत्तमनाः / भाषन्ति वर्ण प्रविशित्व कुलानिमु यः समाधि नरु धारयती // SRS_२९.१०४ //
SK
ब्रह्मा च शक्र वशवर्ति वहु उपस्थानु तस्य प्रकरोन्ति सदा / न च तस्य उन्नत मनो भवती | इमु यः समाधि नरु धारयती // SRS_२९.१०५ //
SK
न च तस्य दुर्गतिभयं भवती न पि चाक्षणा न विनिपातभयम् / परिमुक्तु सर्वविनिपातभयादिमु यः समाधि नरु धारयती // SRS_२९.१०६ //
SK
न च तस्य काङ्क्ष विमतिर्भवती वर बुद्धधर्म श्रुणिया निपुणान् / गम्भीरज्ञानानुगतो भवती इमु यः समाधि नरु धारयती // SRS_२९.१०७ //
SK
यं यं पि धर्मं श्रुणती सुखुमं सर्वत्र भोति वशि पारगतः / बलवन्तु हेतुनिपुणो भवती इमु यः समाधि नरु धारयती // SRS_२९.१०८ //
SK
एवं प्रभाषित जिनेन गिरा अहु तेन भोमि परिचीर्ण सदा / लभते च धारणि विशिष्ट वरामिमु यः समाधि नरु धारयती // SRS_२९.१०९ //
SK
कालक्रियां च स करोति यदा अमिताभु तस्य पुरतः स्थिहती / (Vऐद्य १८७) भिक्षुगणेन सह कारुणिको इमु यः समाधि नरु धारयती // SRS_२९.११० //
SK
लाभी च धारणिय सो भवती धर्मनिधान वशिपारगतः / प्रतिभानवाननाच्छेद्यगिरो य इमं समाधि नरु धारयती // SRS_२९.१११ //
SK
येनैव सो व्रजति धर्मधरो आलोकभूत भवती जगतः / सिप्रशान्तचर सुविशुद्धमना इमु यः समाधि नरु धारयती // SRS_२९.११२ //
SK
वर धर्मकोश विविधं निपुणं सो धर्मकाय वशि पारगतः / सो संशयं छिनत्ति सर्वजगे इमु यः समाधि नरु धारयती // SRS_२९.११३ //
SK
सर्वे ऽपि सत्त्व सिय कारुणिका भगवान् भवान्तकरणे सुगतः / तान् सत्करेय्या बहु कल्पशतान् यथ गङ्गवालुक तथोत्तरि वा // SRS_२९.११४ //
SK
यश्चैव पश्चि क्षयकालि इमं श्रुत्वा समाधिमिह कश्चि नरः / अनुमोदमीति भणतैकगिरं कल पुण्यस्कन्ध न स पूर्व भवेत् // SRS_२९.११५ //
SK
यस्यो कुमार इय शान्तगती परमार्थशून्यत समाधिवरो / प्रावर्तु भोति तथ पुस्तगतः सो धर्मभाणकु स्थितः सुमतिः // SRS_२९.११६ //
SK
इति श्रीसमाधिराजे तेजगुणराजपरिवर्तो नामोनत्रिंशतितमः
SK
(Vऐद्य १८८) ३० Aनुशंसापरिवर्तः |
SK
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः - किमित्यहं सर्वसत्त्वानां रुतमधिगच्छेयमिन्द्रियाणां च परापरज्ञतां विज्ञाय धर्मं देशयेयमिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
अपरिमित अतीत नायकास्तेन दृष्टाः पुरतु कथ प्रयुक्ता पृच्छिता लोकनाथाः / प्रवर कुशलमूले तिष्ठतो बोधिसत्त्वो इमु विरजसमाधिं धारयन् मोक्षकामः // SRS_३०.१ //
SK
लभति सुख प्रणीतं दिव्यमानुष्यकं चो लभति परमपूजां दिव्यमानुष्यकां सो / लभति सुख प्रणीतं ध्यानसौख्यार्यसौख्यम् इमु विरज समाधिं धारयन् मोक्षकामः // SRS_३०.२ //
SK
वर्णु श्रुणिय उदारं हर्षु तस्यो न भोति न पि च पुनरवर्णे मङ्कुभावं निगच्छेत् / शैलोपमु अकम्पेय्यो अष्टभिर्लोकधर्मैर् इमु विरज समाधिं धारयन् मोक्षकामः // SRS_३०.३ //
SK
अखिलमधुरवाणी श्लक्ष्णवाचा सुयुक्ता अपगतभ्रुकुटिश्चो पूर्वआलापि भोति / सततस्मितमुखश्चो शिक्षितो नायकानाम् इमु विरजसमाधिं धारयन् मोक्षकामः // SRS_३०.४ //
SK
भवति स सुखवासः सूरतः स्निग्धचित्तो भवति सद सुदान्तो दान्तभूमिस्थितश्च / सुमधुर प्रियवाणी स्निग्धसत्याभिधायी इमु विरजसमाधिं धारयन् बोधिकामः // SRS_३०.५ //
SK
न च स कथ करोती वैग्रहीं नो विवादान् अपगतखिल दोषा वर्जितास्तेन शेषाः / (Vऐद्य १८९) प्रमुदितु सद भोती सूरतो मार्दवश्च इमु विरज समाधिं धारयन् बोधिकामः // SRS_३०.६ //
SK
भवति च सद विद्वांस्त्यागि नित्याभियुक्तः सुदुखित जन दृष्ट्वा तेषमन्नं ददाति / प्रियतरु परित्यक्तुं भोति नित्यं सुदाता इमु विरजसमाधिं धारयन् बोधिकामः // SRS_३०.७ //
SK
देवशतसहस्राण स्पृहां ये संजनेन्ती नाग असुर यक्षा नित्युपस्थायकास्य / वनि पवनि वसन्ते रक्ष तस्या करोन्ती इमु विरज समाधिं यो नरो धारयति // SRS_३०.८ //
SK
भणि वचनमसक्तं ब्रह्मधोषस्वरो ऽसौ हंसरवितघोषः किन्नरोद्गीतघोषः / पञ्चशतस्वराङ्गो हर्षणीयस्वरश्चो भवति नदितशब्दो घुष्टशब्दः सुशब्दः // SRS_३०.९ //
SK
यावततु पृथु क्षत्राण नरः कश्चिदेव सूक्ष्म रज करेय्या शक्य ते लक्षणाय / ततु बहुतरु तस्यो ये स्वरा निश्चरन्ती इमु विरज समाधिं यो नरो धारयाति // SRS_३०.१० //
SK
इति श्रीसमाधिराजे ऽनुशंसापरिवर्तो नाम त्रिंशतितमः
SK
(Vऐद्य १९०) ३१ Sअर्वधर्मस्वभावनिर्देशपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः किमित्यहं सर्वधर्माणां स्वभावं कथं जानीयामिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्य उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
तस्यो रागु न जातु कुप्यते न च दोषो तस्यो मोह न जातु कुप्यते वृषभिस्य / तेनो सर्वि किलेश च्छोरितानवशेषा यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.१ //
SK
सो ऽसौ शिक्ष न जातु ओषिरी सुगतानां सो ऽसौ शूरु न जातु इस्त्रियाणां वशमेति / सो ऽसौ शासनि प्रीति विन्दते सुगतानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.२ //
SK
सो ऽसौ ज्ञानविधिज्ञ पण्डितो मतिमांश्च सो ऽसौ बुद्ध अनन्त पश्यती अपर्यन्तां / सो ऽसौ धारणिज्ञानु जानती अपर्यन्तं यो ऽसौ धर्मस्वभावु जानती नययुक्तिम् // SRS_३१.३ //
SK
सो ऽसौ नेह चिरेण भेष्यति द्विपदेन्द्रः सो ऽसौ वैद्यु भिषकु भेष्यते सुखदाता / सो ऽसौ उद्धरि शल्य सर्वशो दुखितानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.४ //
SK
सो ऽसौ आतुरु ज्ञात्व दुःखितानिमि सत्त्वान् सो ऽसौ भेरी सदा पराहनी अमृतस्य / सो ऽसौ भेष्यति नायको जिनो नचिरेण यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.५ //
SK
(Vऐद्य १९१) सो ऽसौ भैषज्यनयेषु कोविदो वरवैद्यो आदिं जानति सर्वव्याधिनां यत्र मुक्तिः / सो ऽसौ भूतनयशिक्षितो मतिमन्तो शिक्षित्वा बहुसत्त्व मोचयी पृथु नष्टान् // SRS_३१.६ //
SK
सो ऽसौ शून्यनयेषु कोविदो मतिशूरः सो ऽसौ लोकि असक्तु भुञ्जति सद पिण्डम् / सो ऽसौ बोधिवराय स्थापयि बहुसत्त्वान् यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.७ //
SK
सो ऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः सो ऽसौ लोष्टकदण्डताडितो न च कुप्यी / सो ऽसौ छिद्यतु अङ्गमङ्गशो न च क्षुभ्ये यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.८ //
SK
सो ऽसौ क्षान्तिबले प्रतिष्ठितो बलवन्तो सो ऽसौ क्षान्तिय वस्तु तादृशो सुप्रशान्तः / सो ऽसौ क्षान्तिबलेन मन्यते मतिशूरो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.९ //
SK
सो ऽसौ वस्तु न जातु मन्यते अहु च्छिन्ना तेनो सर्वि भवा विभाविताः सद शून्याः / तस्यो संज्ञा प्रहीण सर्वशो निखिलेनो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.१० //
SK
ते ते धर्मस्वभावु देशयी सुप्रणीतं ते ते बोधि स्पृशी अनुत्तरां नचिरेण / येषां धर्मस्वभावु गोचरः सुनिध्यप्तो तेषां दत्त अनन्त दक्षिणा अपर्यन्ता // SRS_३१.११ //
SK
सो ऽसौ भाषति सूत्रकोटियो अपर्यन्ता यथ गङ्गनदीय वालिकास्ततु भूयः / नो चास्यु प्रतिभानु छिद्यते वर्णमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.१२ //
SK
सो ऽसौ कल्पसहस्रकोटिशो नयुतानि ज्ञानेनो सद भोति उद्गतो यथ मेरुः /
SK
(Vऐद्य १९२) धर्म तस्य क्षयो न विद्यते भणमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.१३ //
SK
विस्तीर्णं विपुलं अचिन्तियं प्रतिभानं भोती बोधिवरां गवेषतः सद तस्यो / नित्यं भाषति सूत्रकोटियो अपर्यन्ता यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // SRS_३१.१४ //
SK
यं चैते द्विपदोत्तमा जिना भणि धर्मं सर्वं तं च श्रुणित्व गृह्णती परिपूर्णम् / नो वा एकपदे ऽपि विद्यते विमतिस्यो यो ऽसौ सर्वि अभाव जानती इमि धर्मान् // SRS_३१.१५ //
SK
सो ऽसौ भोति विशिष्ट त्यागवान् सद कालं भोती दानपतिः सुखंददो दुखितानाम् / दृष्टा दुःखित सत्त्व तर्पयी रतनेही यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // SRS_३१.१६ //
SK
सौ ऽसौ जम्बुध्वजे भविष्यती सद राजा सत्त्वानां सद सौख्य काहिती अपर्यन्तम् / मैत्राये समुपेतु प्राणीनां सद काले यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // SRS_३१.१७ //
SK
पुत्रान् धीतर दासदासियो त्यज्य धीरो हस्तौ पाद शिरांसि स त्यजी तथ राज्यम् / नो चालीयति तस्य मानसं वृषभिस्यो यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // SRS_३१.१८ //
SK
अङ्गाङ्गं पुन तस्य छिद्यती यदि कायो नो तस्य प्रतिहन्यते मनः सुपिने ऽपि / तेनो पूजित भोन्ति नायका द्विपदेन्द्रा यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // SRS_३१.१९ //
SK
तेनो पूजित सर्वि नायका य अतीतास्तथ पूजित ये अनागता द्विपदेन्द्राः / तेही सत्कृत सर्वि नायका स्थित ये चो यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // SRS_३१.२० //
SK
(Vऐद्य १९३) सो ऽसौ कोश धरेति पण्डितः सुगतानां सो ऽसौ धारणिये प्रतिष्ठितः परमायाम् / सो ऽसौ भेष्यति लोकनायको नचिअरेण यच्छुत्वा इमु सूत्रं धारयेत् क्षयकाले // SRS_३१.२१ //
SK
सो ऽन्धो नैव कदाचि भेष्यती विदु जातु नो चो अङ्गविहीनु भेष्यती बहुकल्पान् / तेनो अक्षण अष्ट वर्जिता इमि नित्यं येनो सूत्रमिदं प्रभाषितं अप्रमुष्टम् // SRS_३१.२२ //
SK
नासौ दुर्गतिषु गमिष्यति पुन जातु नित्यं लक्षणधारि भेष्यती अभिरूपः / पच्चो तस्य अभिज्ञ भाविता इमि नित्यं पुरतः सो सुगतान स्थास्यती सद शूरः // SRS_३१.२३ //
SK
बहुकान् निर्मित निर्मिणित्वान अयु ज्ञानी प्रेषती बहुक्षेत्रकोटिषु विनयार्थम् / येहि दृष्ट भवन्ति निर्मिता बहु बुद्धाः तेही बोधिवराय स्थापिता बहु सत्त्वाः // SRS_३१.२४ //
SK
स्मृतिमन्तः गतिमन्तः प्रज्ञावान् धृतिमांश्च स्थाम्ना वीर्यबलेन सो सदा समुपेतः / धर्मपारमिप्राप्त भेष्यति महतेजा यः श्रुत्वा इमु सूत्र धारयेत् क्षयकाले // SRS_३१.२५ //
SK
रश्मिकोटिसहस्र निश्चरी सद तेषां व्योमाः सर्वि करोन्ति मण्डलाः सुरियाणाम् / येही भावित भोन्ति शून्यका इमि धर्मास्ते ते शूर भवन्ति नायका नचिरेण // SRS_३१.२६ //
SK
एषो गोचरु शान्तु भावितो मय पूर्वं बहुकल्पान सहस्र कोटियो नियुतानि / (Vऐद्य १९४) वीर्यं मे न कदाचि सहसित इह मार्गे यदहं दीपंकरेण व्याकृतो जिनभूमी // SRS_३१.२७ //
SK
यूयं पी मम चर्या शिक्षथा इह सूत्रे गम्भीरा परमार्थ देशिता इय नेत्री / यत्रामी बहु नष्ट तीर्थिका विपरिता क्षिप्त्वा बोधिमपायि भैरवे प्रपतन्ति // SRS_३१.२८ //
SK
बहुकल्पान सहस्रकोटियो नयुतानि वेदित्वा अमु तत्र वेदना कटु तीब्राः / बहुकल्पा नयुतानमत्ययात् पुनरेव हेतुः सो अमृतस्य प्राप्तये भविष्यते // SRS_३१.२९ //
SK
ये ते पश्चिमि कालि भैरवे सुगतस्यो रक्षन्ति इमु सूत्रमीदृशं प्रशान्तम् / तेषां बोधि वरा न दुर्लभा इय श्रेष्ठा ते ते पश्चिमि कालि व्याकृत धरि धर्मान् // SRS_३१.३० //
SK
इति श्रीसमाधिराजे सर्वधर्मस्वभावनिर्देशपरिवर्तो नामैकत्रिंशतितमः
SK
(Vऐद्य १९५) ३२ Sऊत्रधारणानुशंसापरिवर्तः |
SK
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन महाभिज्ञापरिकर्म धारयितुकामेनायं समाधिर्धारयितव्यः उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्य | कतमच्च तत् कुमार सर्वधर्माणामभिज्ञापरिकर्म? यदुत सर्वधर्माणामपरिग्रहः अपरामर्शः शीलस्कन्धस्यामन्यना समाधिस्कन्धस्य अप्रचारः प्रज्ञास्कन्धस्य विवेकदर्शनं विमुक्तिस्कन्धस्य यथाभूतदर्शनं विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावशून्यतादर्शनं सर्वधर्माणाम् | ययाभिज्ञया समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वसमाधिविकुर्वितानि विकुर्वन् सर्वसत्त्वानां धर्मं देशयति | इदमुच्यते कुमार महाभिज्ञापरिकर्मेति ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
महाभिज्ञापरिकर्म अविवादेन देशितम् / विवादे यस्तु चरति सोद्गृह्णन् न विमुच्यते // SRS_३२.१ //
SK
अभिज्ञा तस्य सा प्रज्ञा बौद्धं ज्ञानमचिन्तियम् / उद्ग्रहे यः स्थितो भोति ज्ञानं तस्य न विद्यते // SRS_३२.२ //
SK
बहवो ऽचिन्तिया धर्मा ये शब्देन प्रकाशिताः / यस्तत्र निविशेच्छब्दे संघाभाष्यं न जानति // SRS_३२.३ //
SK
संघाभाष्यमजानानः किं संघाय तु भाषितम् / अधर्मं भाषते धर्मं धर्मतायामशिक्षितः // SRS_३२.४ //
SK
लोकधातुसहस्रेषु ये मया सूत्र भाषिताः / नानाव्यञ्जन एकार्था न शक्यं परिकीर्तितुम् // SRS_३२.५ //
SK
एकं पदार्थं चिन्तेत्वा सर्वे ते भोन्ति भाविताः / यावन्तः सर्वबुद्धेहि बहु धर्माः प्रकाशिताः // SRS_३२.६ //
SK
नैरात्म्यं सर्वधर्माणां ये नरा अर्थकोविदाः / अस्मिन् पदे तु शिक्षित्वा बुद्धधर्मा न दुर्लभाः // SRS_३२.७ //
SK
सर्वधर्मा बुद्धधर्मा धर्मतायां य शिक्षिताः / ये धर्मतां प्रजानन्ति न विरोधेन्ति धर्मताम् // SRS_३२.८ //
SK
(Vऐद्य १९६) सर्वा वाग् बुद्धवागेव सर्वशब्दो ह्यवस्तुकः / दिशो दश गवेषित्वा बुद्धवाग् नैव लभ्यते // SRS_३२.९ //
SK
एषा वाचा बुद्धवाचा गवेषित्वा दिशो दश / न लभ्यते ऽनुत्तरैषा न लब्धा न च लप्स्यते // SRS_३२.१० //
SK
अनुत्तरा बुद्धवाचा बुद्धवाचा निरुत्तरा / अणुर्न लप्स्यते ऽत्रेति तेनोक्तेयमनुत्तरा // SRS_३२.११ //
SK
अणु नोत्पद्यते धर्मो अणुशब्देन देशितः / अणुमात्रो न चो लब्धो लोके शब्देन देशितः // SRS_३२.१२ //
SK
अलब्धिर्लब्धधर्माणां लब्धौ लब्धिर्न विद्यते / य एवं धर्म जानन्ति बुध्यन्ते बोधिमुत्तमाम् // SRS_३२.१३ //
SK
ते बुद्धानुत्तरां बोधिं धर्मचक्रं प्रवर्तयी / धर्मचक्रं प्रवर्तित्वा बुद्धधर्मान् प्रकाशयी // SRS_३२.१४ //
SK
बोधिसत्त्वाश्च बुध्यन्ते बुद्धज्ञानमनुत्तरम् / तेन बुद्धा इति प्रोक्ता बुद्धज्ञाना प्रबोधनात् // SRS_३२.१५ //
SK
अभावो अप्रणिहितमानिमित्तं च शून्यता / एभिर्विमोक्षद्वारेहिर्द्वारं बुद्धः प्रकाशयी // SRS_३२.१६ //
SK
चक्षुः श्रोत्रं च घ्राणं च जिह्वा कायो मनस्तथा / एते शून्याः स्वभावेन संबुद्धैः संप्रकाशिताः // SRS_३२.१७ //
SK
एतादृशानां धर्माणां स्वभावं यः प्रजानति / नासौ विवादं कुरुते ज्ञात्वा धर्माण लक्षणम् // SRS_३२.१८ //
SK
एष गोचरु शूराणां बोधिसत्त्वान तायिनाम् / न ते कदाचित् काङ्क्षन्ति जानन्ते धर्मशून्यताम् // SRS_३२.१९ //
SK
धर्मस्वभावं जानाति बुद्धस्तेनोच्यते हि सः / बोधये विनयी सत्त्वानप्रमेयानचिन्तियान् // SRS_३२.२० //
SK
सत्कृतो बुद्धशब्देन शीलशब्देन सो कृतः / शीलशब्दो बुद्धशब्द उभौ तावेकलक्षणौ // SRS_३२.२१ //
SK
यावन्तः कीर्तिताः शब्दा हीन उत्कृष्टमध्यमाः / समाहितैकशब्देन बुद्धशब्देन देशिताः // SRS_३२.२२ //
SK
न बुद्धधर्मा देशस्था न प्रदेशस्थ कीर्तिताः / न चोत्पन्ना निरुद्धा व एकत्वेन पृथक् तथा // SRS_३२.२३ //
SK
(Vऐद्य १९७) न ते नवाः पुराणा वा न तेषामस्ति मन्यना / न च नीला न पीता व नावदता न लोहिताः // SRS_३२.२४ //
SK
अनाभिलाप्या अग्राह्या एवं घोषेण देशिताः / न च घोषस्य सा भूमिः प्रातिहार्यं मुनेरिदम् // SRS_३२.२५ //
SK
अनास्रवा हि ते धर्मा- नेन उच्यन्ति हि / स्तृता अपर्यापन्ना दशदिशे एषा बुद्धान देशना // SRS_३२.२६ //
SK
परिनिर्वृतस्य बुद्धस्य दृश्यते बुद्धविग्रहः / तत्स्थानं मनसीकुर्वन् प्रातिहार्यं स पश्यति // SRS_३२.२७ //
SK
न चासौ लभ्यते सत्त्वो निर्वृतिर्येन स्पर्शिता / एवं च दिशितो धर्मो बहवः सत्त्व मोचिताः // SRS_३२.२८ //
SK
यथा चन्द्रश्च सूर्यश्च कांसपात्रीय दृश्यते / न च याति स्वकं बिम्बमेवं धर्माण लक्षणम् // SRS_३२.२९ //
SK
प्रतिभासोपमा धर्मा यैर्हि ज्ञाता स्वभावतः / नैव ते रूपकायेन पश्यन्ते बुद्धविग्रहम् // SRS_३२.३० //
SK
अविग्रहो ह्ययं धर्मो विग्रहो नात्र कश्चन / अविग्रहश्च यो धर्म एष बुद्धस्य विग्रहः // SRS_३२.३१ //
SK
धर्मकायेन पश्यन्ति ये ते पश्यन्ति नायकम् / धर्मकाया हि संबुद्धा एतत् संबुद्धदर्शनम् // SRS_३२.३२ //
SK
प्रतीत्य प्रतिनिर्दिष्टा अप्रति प्रतिदेशिताः / इमां गतिं विजानीत श्रामण्येन हि ये ऽर्थिकाः // SRS_३२.३३ //
SK
अप्राप्ति प्राप्ति निर्दिष्टा सत्त्वानां ज्ञात्व आशयम् / यो संधाभाष्योत्तरते न सो केन विहन्यते // SRS_३२.३४ //
SK
यस्य भोति मया प्राप्तमप्राप्तं तेन चोच्यते / येन श्रामण्यमप्राप्तं तेन श्रमण उच्यते // SRS_३२.३५ //
SK
कथं गम्भीरिमे धर्मा वक्ष्यन्ते ये न शिक्षिताः / ते च गम्भीरनामेन न शक्यं परिकीर्तितुम् // SRS_३२.३६ //
SK
अवस्तुकाः पञ्च स्कन्धा अभूत्वा एत उत्थिताः / नात्र उत्थाप्यको ह्यस्ति यस्य स्कन्धाः समुत्थिताः // SRS_३२.३७ //
SK
यल्लक्षणाः पञ्च स्कन्धाः सर्वधर्मास्तल्लक्षणाः / तल्लक्षणास्ते निर्दिष्टा लक्षणं च न विद्यते // SRS_३२.३८ //
SK
(Vऐद्य १९८) यथान्तरीक्षं गगनमेवं धर्माण लक्षणम् / पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यन्तः // SRS_३२.३९ //
SK
अग्राह्यं गगनं प्रोक्तं ग्राह्यमत्र न लभ्यते / एष स्वभावो धर्माणामग्राह्यो गगनोपमः // SRS_३२.४० //
SK
एवं च देशिता धर्मा न श्रावको विपश्यति / यश्चो न पश्यती धर्मं तस्य धर्मा अचिन्तियाः // SRS_३२.४१ //
SK
अस्वभावा इमे धर्माः स्वभावैषां न लभ्यते / योगिनां गोचरो ह्येष ये युक्ता बुद्धबोधये // SRS_३२.४२ //
SK
य एवं जानाति धर्मान् स न धर्मेषु सज्जते / असज्जमानो धर्मेषु धर्मसंज्ञा प्रबोधयी // SRS_३२.४३ //
SK
विभाविताः सर्वधर्मा बोधिसत्त्वेन तायिना / धर्मसंज्ञा विभावित्वा बुद्धधर्मान्न मन्यते // SRS_३२.४४ //
SK
अमन्यमाना हि सा कोटी कल्पेत्वा कोटि व्याहृता / य एवं कोटिं जानाति कल्पकोटिं न मन्यते // SRS_३२.४५ //
SK
पुरिमां कोटि कल्पित्वा बालः संसारि संसरि / न चास्य लभ्यते स्थानं गवेषित्वा दिशो दश // SRS_३२.४६ //
SK
शून्यं ज्ञात्वा च संसारं बोधिसत्त्वो न सज्जते / चरन्ति चैव बोध्यर्थं चरिस्तेषां न लभ्यते // SRS_३२.४७ //
SK
शकुनानां यथाकाशे पदं तेषां न लभ्यते / एवंस्वभावा सा बोधिर्बोधिसत्त्वैश्च बुध्यते // SRS_३२.४८ //
SK
यथा मायां विदर्शेति मायाकारः सुशिक्षितः / नानाप्रकाररूपाणि न च रूपोपलभ्यते // SRS_३२.४९ //
SK
अलब्धिलब्धिर्नो मन्ये लब्धे लब्धिर्न विद्यते / मायोपमं च तज्ज्ञानं न मायायां च तत् स्थितम् // SRS_३२.५० //
SK
एवं शून्येषु धर्मेषु बालबुद्धिं विकल्पयेत् / विकल्पे चरमाणानां गतयः षट परायणम् // SRS_३२.५१ //
SK
जातिजरोपगाः सत्त्वा जातिस्तेषां न क्षीयते / जातिमरणस्कन्धानां दुःखं तेषामनन्तकम् // SRS_३२.५२ //
SK
दुःखो जातिसंसारो बालबुद्धीहि कल्पितः / कल्पास्तेषां न क्षीयन्ते कल्पकोट्यश्च संसरी // SRS_३२.५३ //
SK
(Vऐद्य १९९) अयुक्ताः संप्रयुक्ताश्च कर्मयोगस्मि ते स्थिताः / कर्मणस्ते न मुच्यते कर्मोपादानि ये रताः // SRS_३२.५४ //
SK
कर्मौघे वहतां तेषां कर्म न क्षीयते सदा / पुनः पुनश्च म्रीयन्ते मारपक्षे स्थिताः सदा // SRS_३२.५५ //
SK
माराभिभूता दुष्प्रज्ञाः संक्लिष्टेन हि कर्मणा / अनुभोन्ति जातिमरणं तत्रतत्रोपपत्तिषु // SRS_३२.५६ //
SK
मरणं ते निगच्छन्ति अन्धा बालाः पृथग्जनाः / हन्यन्ते च विहन्यन्ते गतिश्चैषां न भद्रिका // SRS_३२.५७ //
SK
परस्परं च घातेन्ति शस्त्रेभिर्बालबुद्धयः / एवं प्रयुज्यमानानां दुःखं तेषां प्रवर्धते // SRS_३२.५८ //
SK
पुत्रा मह्यं धनं मह्यं बालबुद्धीहि कल्पितम् / असतं कर्म कल्पित्वा संसारो भूयु वर्धते // SRS_३२.५९ //
SK
संसारं वर्धयन्तस्ते संसरन्ति पृथग्जनाः / पृथक् पृथक् च गच्छन्ति तेन चोक्ताः पृथग्जनाः // SRS_३२.६० //
SK
पृथुधर्मा प्रवक्ष्यन्ति उज्झित्वा बुद्धशासनम् / न ते मोक्षं लभिष्यन्ति मारस्य वशमागताः // SRS_३२.६१ //
SK
कामनां कारणं बालाः स्त्रियं सेवन्ति पूतिकाम् / पूतिकां गति गच्छन्ति पतन्ते तेन दुर्गतिम् // SRS_३२.६२ //
SK
कामान्न बुद्धा वर्णेन्ति नापि स्त्रीणां निषेवणम् / महाभयो ऽहिपाशो ऽयमिस्त्रिपाशः सुदारुणः // SRS_३२.६३ //
SK
विवर्जयन्ति तं धीराश्चण्डमाशीविषं यथा / न विश्वसन्ति इस्त्रीणां नैष मार्गो हि बोधये // SRS_३२.६४ //
SK
भावेन्ति बोधिमार्गं च सर्वबुद्धैर्निषेवितम् / भावयित्वा च तं मार्गं भोन्ति बुद्धा अनुत्तराः // SRS_३२.६५ //
SK
अनुत्तराश्च ते युक्ता भोन्ति लोकस्य चेतियाः / अनुत्तरेण ज्ञानेन बुद्धा भोन्ति अनुत्तराः // SRS_३२.६६ //
SK
पोषधं च निषेवन्ति शीलस्कन्धे समादपी / समादपेन्ति बोधाय सत्त्वकोटीरचिन्तियाः // SRS_३२.६७ //
SK
कुर्वन्ति ते ऽर्थं सत्त्वानामप्रमेयचिन्तियम् / ते ते शूरा महाप्रज्ञा ताडेन्त्यमृतदुन्दुभिम् // SRS_३२.६८ //
SK
(Vऐद्य २००) कम्पेन्ति मारभवनं चालेन्ति मारकायिकान् / समादपेन्ति बोधाय मारकोटीरचिन्तियाः // SRS_३२.६९ //
SK
परवादीन्निगृह्णन्ति निर्जिनन्ति च तीर्थिकान् / कम्पेन्ति वसुधां सर्वां ससमुद्रां सपर्वताम् // SRS_३२.७० //
SK
विकुर्वमाणा कायेभिरनेकर्द्धिविकुर्वितैः / निदर्शेन्ति महाप्रज्ञाः प्रातिहार्यानचिन्तियान् // SRS_३२.७१ //
SK
क्षेत्रकोटी प्रकम्पेन्ति यथा गङ्गाय वालिका / पराजिनित्वा ते मारा बोधिं बुध्यन्त्यनुत्तराम् // SRS_३२.७२ //
SK
निर्मिण्वन्ति च ते वृक्षान् रतनैः सुविचित्रितान् / फलपुष्पेहि संयुक्तान् गन्धवन्तान् मनोरमान् // SRS_३२.७३ //
SK
प्रासादांश्च विमानानि कूटागारान् सहर्षिकान् / निर्मिण्वन्ति च ते शूराः पुष्करिण्यो मनोरमाः // SRS_३२.७४ //
SK
अष्टाङ्गजलसंपन्नाः स्वच्छाः शीता अनाविलाः / पिबन्ति ये ततो वारि तिस्रस्तृष्णा जहन्ति ते // SRS_३२.७५ //
SK
अविवर्त्याश्च ते भोन्ति पीत्वा वारि निरुत्तरम् / अनुत्तरेण ज्ञानेन भोन्ति बुद्धा अनुत्तराः // SRS_३२.७६ //
SK
अनुत्तरां गतिं शान्तां गच्छन्तीति विजानथ / इमां गतिमजानन्तः प्रनष्टाः सर्वतीर्थिकाः // SRS_३२.७७ //
SK
ते च तद्गतिकाः सत्त्वा ये तेषां भोन्ति निश्रिताः / पतिष्यन्ति महाघोरामवीचिमपरायणाः // SRS_३२.७८ //
SK
यास्तत्र वेदना घोरा न शक्यास्ताः प्रकीर्तितुम् / अहं च ताः प्रजानामि बोधिसत्त्वाश्च तायिनः // SRS_३२.७९ //
SK
ये चेह धर्मे काङ्क्षन्ति एवं गम्भीरि दुर्दृशे / अभूमिस्तत्र बालानामुपलम्भस्मि ये स्थिताः // SRS_३२.८० //
SK
निर्मिण्वन्ति वियूहांस्ते नैकरूपनिदर्शनान् / येन ते सर्वि गच्छन्ति बुद्धक्षेत्राननुत्तरान् // SRS_३२.८१ //
SK
यावन्त्यो बुद्धक्षेत्रेषु रूपनिर्हारसंपदः / सर्वास्ता इह दर्शेन्ति बोधिसत्त्वा महर्द्धिकाः // SRS_३२.८२ //
SK
महाधर्मेण संनद्धा महावीरा महाबलाः / महाशून्यार्थवज्रेण प्रहाराणि ददन्ति ते // SRS_३२.८३ //
SK
रश्मिकोटिसहस्राणि यथा गङ्गाय वालिका / कायतो निश्चरन्त्येषां येभिर्लोकः प्रभासते // SRS_३२.८४ //
SK
(Vऐद्य २०१) न ते स्त्रीष्वभिरज्यन्ते न च तेषां विरागता / विभावितैतेषां संज्ञा इस्त्रिसंज्ञा स्वभावतः // SRS_३२.८५ //
SK
अशून्या बुद्धक्षेत्रास्ते येषु शूरा भवन्ति ते / किं तेषां मारु पापीयानन्तरायं करिष्यति // SRS_३२.८६ //
SK
दृष्टीकृतेषु ये स्थित्वा बहु बुद्धा विरागिताः / व्यापादेन उपस्तब्धा इच्छालोभप्रतिस्थिताः // SRS_३२.८७ //
SK
सर्वसंज्ञा विभावित्वा संज्ञावैवर्तिये स्थिताः / य एवं ज्ञास्यते ज्ञानं बुद्धज्ञानमचिन्तियम् // SRS_३२.८८ //
SK
पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यति / एवं च देशिता धर्मा न चात्र किंचि देशितम् // SRS_३२.८९ //
SK
न च ज्ञानेन जानाति न चाज्ञानेन सीदति / ज्ञानाज्ञाने विकल्पेत्वा बुद्धज्ञानेति वुच्चति // SRS_३२.९० //
SK
विज्ञप्तिवाक्यसंकेतं बोधिसत्त्वः प्रजानति / करोति अर्थं सत्त्वानामप्रमेयचिन्तियम् // SRS_३२.९१ //
SK
संज्ञा संजाननार्थेन उद्ग्रहेण निदर्शिता / अनुद्ग्रहश्च सा संज्ञा विविक्तार्थेन देशिता // SRS_३२.९२ //
SK
यच्चो विविक्तं सा संज्ञा या विविक्ता स देशना / संज्ञास्वभावो ज्ञातश्च एवं संज्ञा न भेष्यति // SRS_३२.९३ //
SK
प्रहास्याम इमां संज्ञां यस्य संज्ञा प्रवर्तते / संज्ञा प्रपञ्चे चरति न स संज्ञातु मुच्यते // SRS_३२.९४ //
SK
कस्येयं संज्ञा उत्पन्ना केन संज्ञा उत्पादिता / केन सा स्पर्शिता संज्ञा केन संज्ञा निरोधिता // SRS_३२.९५ //
SK
धर्मो न लब्धो बुद्धेन यस्य संज्ञा उत्पद्यते / इह चिन्तेथ तं अर्थं ततः संज्ञा न भेष्यति // SRS_३२.९६ //
SK
कदा संज्ञा अनुत्पन्ना कस्य संज्ञा विरुध्यते / विमोक्ष चिअतचारस्य कथं तत्र उत्पद्यते // SRS_३२.९७ //
SK
यदा विमोक्षं स्पृशति सर्व चिन्ता अचिन्तिया / अचिन्तिया यदा चिन्ता तदा भोति अचिन्तियः // SRS_३२.९८ //
SK
चिन्ताभूमौ स्थिहित्वान पूर्वमेव विचिन्तिता / सर्वचिन्तां जहित्वान ततो भेष्यत्यचिन्तियः // SRS_३२.९९ //
SK
(Vऐद्य २०२) शुक्लधर्मविपाको ऽयमसंस्कारेण पश्यति / एकक्षणेन जानाति सर्वसत्त्वविचिन्तितम् // SRS_३२.१०० //
SK
यथा सत्त्वास्तथा चिन्ता यथा चिन्ता तथा जिनाः / अचिन्तियेन बुद्धेन इयं चिन्ता प्रकाशिता // SRS_३२.१०१ //
SK
यो रहो एकु चिन्तेति कदा चिन्ता न भेष्यति / न चिन्तां चिन्तयन्तस्य सर्वचिन्ता विगच्छति // SRS_३२.१०२ //
SK
च्युते मृते कालगते यस्य चिन्ता प्रवर्तते / चिन्तानुसारि विज्ञानं नासा चिन्तान्तमुच्यते // SRS_३२.१०३ //
SK
ये स्थिता इस्त्रिसंज्ञायां रागस्तेषां प्रवर्तते / विभावितायां संज्ञायां न रागेणोपलिप्यते // SRS_३२.१०४ //
SK
इयं चिन्ता महाचिन्ता धर्मचिन्ता निरुत्तरा / अनया धर्मचिन्ताय भूतचिन्ता प्रवर्तते // SRS_३२.१०५ //
SK
बहु अचिन्तिया चिन्ता दीर्घरात्रं विचिन्तिता / न च चिन्ताक्षयो जातश्चिन्तयित्वा अयोनिशः // SRS_३२.१०६ //
SK
यो ऽसौ चिन्तयते नाम क्षये ज्ञानं न विद्यते / न क्षयो भूमिज्ञानस्य क्षयस्यो एष धर्मता // SRS_३२.१०७ //
SK
घोषो वाक्पथ विज्ञप्तिः क्षयशब्देन देशिता / निर्विशेषाश्च ते धर्मा यथा ज्ञानं तथा क्षयः // SRS_३२.१०८ //
SK
अनुत्पन्नानिरुद्धाश्च अनिमित्ता अलक्षणाः / कल्पकोटिं पि भाषित्वा अनिमित्तेन देशिताः // SRS_३२.१०९ //
SK
सर्वभावान् विभावित्वा अभावे ये प्रतिष्ठिताः / न चान्यो दर्शितो भावो नाभावो ऽन्यो निदर्शितः // SRS_३२.११० //
SK
विज्ञप्ता भावशब्देन अभावस्य प्रकाशना / न चासौ सर्वबुद्धेहि अभावः शक्यु पश्यितुम् // SRS_३२.१११ //
SK
यो भावः सर्वभावानामभाव एष दर्शितः / एवं भावान् विजानित्वा अभावो भोति दर्शितः // SRS_३२.११२ //
SK
नासौ स्पर्शयितुं शक्यमभावो जातु केनचित् / स्पर्शनात्तु अभावस्य निर्वृति एष देशिता // SRS_३२.११३ //
SK
अहं बुद्धो भवेल्लोके यस्यैषा हो मतिर्भवेत् / न जातु भवतृष्णार्तो बोधिं बुध्येत पण्डितः // SRS_३२.११४ //
SK
न कंचि धर्मं प्रार्थेति बोधिसत्त्वः समाहितः / निष्किंचना निराभोगा एषा बोधीति उच्यते // SRS_३२.११५ //
SK
(Vऐद्य २०३) बहू एवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः / इमां गतिमजानन्तो दूरे ते बुद्धबोधये // SRS_३२.११६ //
SK
शब्देन देशिता धर्माः सर्वे संस्कार शून्यकाः / यश्व स्वभावः शब्दस्य गम्भीरः सूक्ष्म दुर्दृशः // SRS_३२.११७ //
SK
महाभिज्ञाय निर्देश इदं सूत्रं प्रवुच्चति / अर्थाय बोधिसत्त्वानां सर्वबुद्धेहि देशितम् // SRS_३२.११८ //
SK
प्रतिपक्षा हतास्तेषां यावन्तः सांकिलेशिकाः / प्रतिष्ठिता अभिज्ञासु ऋद्धिस्तेषां सुभाविता // SRS_३२.११९ //
SK
स्थिताः प्रणिधिज्ञानस्मिंस्तच्च ज्ञानं विभावितम् / अतृप्तिर्लब्धज्ञानस्य अप्रमेया अचिन्तिया // SRS_३२.१२० //
SK
न तेषामभिसंस्कारः समाधी रिद्धिकारणम् / विपाक एष शूराणां नित्यकालं समाहितः // SRS_३२.१२१ //
SK
विपाकजाये ऋद्धीये गच्छन्ती क्षेत्रकोट्यः / पश्यन्ति लोकप्रद्योतान् यथा गङ्गाय वालिका // SRS_३२.१२२ //
SK
उपपत्तिश्च्युतिस्तेषां यथा चित्तस्य वर्तते / चित्तस्य वशितां प्राप्ताः कायस्तेषां प्रभास्वरः // SRS_३२.१२३ //
SK
भावनामयि ऋद्धीये ये स्थिता बुद्धश्रावकाः / तेभिः संस्कारऋद्धीये कलां नायान्ति षोडशीम् // SRS_३२.१२४ //
SK
न तेषां सर्वदेवेभिराशयः शक्यु जानितुम् / अन्यत्र लोकनाथेभ्यो ये वा तेषां समे स्थिताः // SRS_३२.१२५ //
SK
न तेषामस्ति खालित्यं न चैव पलितं शिरे / औदारिका जरा नास्ति न दुःखमरणं तथा // SRS_३२.१२६ //
SK
संशयो विमतिर्नास्ति काङ्क्षा तेषां न विद्यते / रात्रिंदिवं गवेषन्ति सूत्रकोटीशतानि ते // SRS_३२.१२७ //
SK
प्रहीणानुशयास्तेषां यावन्तः सांकिलेशिकाः / समचित्ताः सदा भोन्ति सर्वसत्त्वान ते ऽन्तिके // SRS_३२.१२८ //
SK
समाधिकोटिनियुतां निर्दिशन्ति दशद्दिशे / प्रश्नकोटीसहस्राणि व्याकुर्वन् ह्यनवस्थिताः // SRS_३२.१२९ //
SK
स्त्रीसंज्ञा पुरुषसंज्ञा च सर्वसंज्ञा विभाविताः / स्थिता अभावसंज्ञायां देशेन्ति भूतनिश्चयम् // SRS_३२.१३० //
SK
परिशुद्धेन ज्ञानेन यथावद्धर्मदेशकाः / धर्मसंगीत्याभियुक्ताः समाधिज्ञानगोचराः // SRS_३२.१३१ //
SK
(Vऐद्य २०४) यापि ध्यानचरिस्तेषां नासौ भावप्रतिष्ठिता / अवन्ध्यं वचनं तेषामवन्ध्या धर्मदेशना // SRS_३२.१३२ //
SK
सुलब्धं तेन मानुष्यं प्रहीणाः सर्वि अक्षणाः / कृतज्ञाः सर्वबुद्धानां येषां सूत्रमिदं प्रियम् // SRS_३२.१३३ //
SK
कल्पा अचिन्तियास्तेहि ये संसारात्तु छोरिताः / यैरितः सूत्रश्रेष्ठातो धृता गाथा चतुष्पदा // SRS_३२.१३४ //
SK
दृष्टास्ते सर्वबुद्धेहि तैस्ते बुद्धाश्च सत्कृताः / क्षिप्रं च बोधिं प्राप्स्यन्ति तेषां सूत्रमिदं प्रियम् // SRS_३२.१३५ //
SK
न तेषां काङ्क्ष विमती सर्वधर्मेषु भेष्यती / आसन्ना निर्वृतिस्तेषां येषां सूत्रमिदं प्रियम् // SRS_३२.१३६ //
SK
दृष्टस्तेहि महावीरो गृध्रकूऊटे तथागतः / सर्वे व्याकृतु बुद्धेन द्रक्ष्यन्ति मैत्रकं जिनम् // SRS_३२.१३७ //
SK
दृष्ट्वा मैत्रेय संबुद्धं लप्स्यन्ते क्षान्ति भद्रिकाम् / ये केचि क्षयकालस्मिन्निह सूत्रे प्रतिष्ठिताः // SRS_३२.१३८ //
SK
स्थितास्ते भूतकोटीये भूतकोटिरचिन्तिया / अचिन्तियायां कोटीये काङ्क्षा तेषां न विद्यते // SRS_३२.१३९ //
SK
न तेषां विद्यते काङ्क्षा अणूमात्रापि सर्वशः / अणूमात्रे प्रहीणेस्मिन् बोधिस्तेषां न दुर्लभा // SRS_३२.१४० //
SK
चरतां दुष्करं चैव क्षयकाले सुभैरवे / शिक्षित्व सूत्ररत्ने ऽस्मिन् प्रतिभानस्मि अक्षयम् // SRS_३२.१४१ //
SK
इदं सूत्रं प्रियं कृत्वा बुद्धानां गञ्जरक्षकाः / सर्वबुद्धानियं पूजा धर्मपूजा अचिन्तिया // SRS_३२.१४२ //
SK
न तेषां दुर्लभं ज्ञानं बुद्धज्ञानमचिन्तियम् / धारयिष्यन्तिदं सूत्रं क्षयकालेस्मि दारुणे // SRS_३२.१४३ //
SK
येभिश्च पूर्वबुद्धानामिमे सूत्रान्त धारिताः / तेषां कायगता एते क्षयकाले प्रवर्तिषु // SRS_३२.१४४ //
SK
ते ते नादं नदिष्यन्ति बुद्धानां क्षेत्रकोटिषु / संमुखं लोकनाथानां शाक्यसिंहस्य या चरी // SRS_३२.१४५ //
SK
सिंहनादं नदन्तस्ते बुद्धनादमचिन्तियम् / अनन्तप्रतिभानेन वक्ष्यन्ते बोधिमुत्तमाम् // SRS_३२.१४६ //
SK
(Vऐद्य २०५) ते ते व्याकृत बुद्धेन इक्ष्वाकुकुलसंभवाः / ये रक्षिष्यन्तिमां बोधिं क्षयकाले महाभये // SRS_३२.१४७ //
SK
ते ते रूपेण संपन्ना लक्षणेहि विचित्रिताः / विकुर्वमाणा यास्यन्ति बुद्धकोटीय वन्दकाः // SRS_३२.१४८ //
SK
मायोपमेहि पुष्पेहि हेमवर्णनिदर्शनैः / रूप्यामयेहि पुष्पेहि वैदूर्यस्फटिकेहि च // SRS_३२.१४९ //
SK
सर्वाणि रत्नजातानि प्रादुर्भोन्त्येषु पाणिषु / यैराकिरन्ति संबुद्धान् बोधिमार्गगवेषकाः // SRS_३२.१५० //
SK
चित्रा नानाविधा पूजा वाद्यनिर्हारसंपदा / निश्चरी रोमकूपेभ्यो यथा गङ्गाय वालिकाः // SRS_३२.१५१ //
SK
ये च शृण्वन्ति तं शब्दं सत्त्वकोट्यो अचिन्तियाः / भवन्त्यविनिवर्त्यास्ते बुद्धज्ञाने अनुत्तरे // SRS_३२.१५२ //
SK
तेषां च बुद्धकोटीनां वर्णं भाषन्त्यचिन्तियम् / अचिन्तियेषु क्षेत्रेषु तेषां शब्दः श्रुणीयति // SRS_३२.१५३ //
SK
ये च शृण्वन्ति तं शब्दं तेषां संज्ञा निरुध्यते / निरोधितायां संज्ञायां बुद्धान् पश्यन्त्यनल्पकान् // SRS_३२.१५४ //
SK
एतादृशेन ज्ञानेन चरित्वा बोधिचारिकाम् / कृत्वार्थं सर्वसत्त्वानां भवन्त्यर्थकरा जिनाः // SRS_३२.१५५ //
SK
गुणानुशंसा इत्येते या लभन्ते ह पण्डिताः / अन्ये अपरिमाणाश्च यैरियं बोधि धारिता // SRS_३२.१५६ //
SK
मातृग्रामो ऽपिदं सूत्रं श्रुत्वा गाथापि धारयेत् / विवर्तयित्वा स्त्रीभावं स भवेद् धर्मभाणकः // SRS_३२.१५७ //
SK
न सा पुनो ऽपि स्त्रीभावमितः पश्चाद् ग्रहीष्यति / भवेत् प्रासादिको नित्यं लक्षणैः समलंकृतः // SRS_३२.१५८ //
SK
श्रेष्ठे ऽथ इह सूत्रस्मिन् गुणाः श्रेष्ठाः प्रकाशिताः / ते ऽस्य सर्वे भविष्यन्ति क्षिप्रं बोधिं च प्राप्स्यते // SRS_३२.१५९ //
SK
विशारदश्च सो नित्यं भोति सर्वासु जातिषु / धारयित्वा इदं सूत्रं बोधिसत्त्वान गोचरम् // SRS_३२.१६० //
SK
जनको बोधिसत्त्वानां समाधिः शान्त भाषितः / य इच्छेद् बुद्धितुं बोधिमिदं सूत्रं प्रवर्तयेत् // SRS_३२.१६१ //
SK
(Vऐद्य २०६) आसन्नास्ते मुनीन्द्राणामासन्ना वुद्धबोधये / लप्स्यन्ति नचिरेणेमां भूमिं शान्तां समाहिताः // SRS_३२.१६२ //
SK
इह बोधीय ते शूरा बोधिसत्त्वाः स्थिताः सदा / पश्यन्ति बुद्धकोटीयो यथा गङ्गाय वालिकाः // SRS_३२.१६३ //
SK
राजा भवित्वा महीपति चक्रवर्ती दृष्ट्वा च बुद्धान् विरजान् सुशान्तचित्तान् / गाथाशतैस्तां स्तविष्यति लोकनाथान् स लभित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१६४ //
SK
सो पूज कृत्व अतुलिय नायकानां सुमहायशानां देवनरोत्तमानाम् / मुक्त्वा स राज्यं यथरिव खेटपिण्डं शुद्धो विशुद्धश्चरिष्यति ब्रह्मचर्यम् // SRS_३२.१६५ //
SK
स प्रव्रजित्व जिनवरशासनस्मिं लब्ध्वापि चैतं विरजु समाधि शान्तम् / कल्याणवाक्यो मधुरगिरः स भूत्वा अधिष्ठानु धीमान् भविष्यति सूत्रकोट्याः // SRS_३२.१६६ //
SK
शून्यानिमित्तं परमप्रणीतु शान्तं धर्म प्रशान्तं चर निपुणं असङ्गम् / स्वभावशून्यं सद विरजं प्रशान्तं समाधिप्राप्त्या बहु जनि संप्रकाशयी // SRS_३२.१६७ //
SK
गम्भीरबुद्धी सततमनन्तबुद्धी विस्तीर्णबुद्धी अपरिमितार्थबुद्धी / गम्भीर शान्तं लभिय इमं समाधिमालोकप्राप्तो भविष्यति सर्वलोकः // SRS_३२.१६८ //
SK
शुचिश्च नित्यं भविष्यति ब्रह्मचारी स निरामगन्धः सततमसंकिलिष्टः / अन्यांश्च तत्र स्थपिष्यति सत्त्वकोटयो लब्ध्वा प्रशान्तं इमु विरजं समाधिम् // SRS_३२.१६९ //
SK
स सुतीक्ष्णप्रज्ञो भविष्यति श्रेष्ठप्रज्ञः श्रुतिसागरो ऽसौ नित्यमनन्तबुद्धिः / कल्याणवाक्यो मतिकुशलो विधिज्ञो धारित्व शान्तिं इमु विरजं समाधिम् // SRS_३२.१७० //
SK
(Vऐद्य २०७) ये कर्मस्थाना तथरिव शिल्पस्थाना भैषज्यस्थानास्तथरिव औषधीनाम् / सर्वत्र धीरो भविष्यति पारप्राप्तो धारित्व सूत्रं इमु विरजं समाधिम् // SRS_३२.१७१ //
SK
काव्येषु शास्त्रेषु तथपि च हास्यलास्ये नृत्ये ऽथ गीते सुकुशल पारप्राप्तः / आचार्यु लोके भविष्यति नित्यकालं धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७२ //
SK
परिवारवान् सो भविष्यति नित्यकालं स अभेद्यपक्षः सद सहितः समग्रः / चरमाणु श्रेष्ठां वरां शिव बोधिचर्यां धारित्व सूत्रं इमु विरजं समाधिम् // SRS_३२.१७३ //
SK
शोकाथ शल्या तथरिव चित्तपीडा नो तस्य जातु भविष्यति पण्डितस्य / आरोग्यप्राप्तो भविष्यति सर्वकालं धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७४ //
SK
ये कायशूलास्तथरिव चित्तशूलाः ये दन्तशूलास्तथपि च शीर्षशूलाः / नो तस्य भोन्ती व्याधयु जीवलोके धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७५ //
SK
यावन्त रोगा बहुविध मर्तलोके ये कायरोगास्तथरिव चित्तरोगाः / ते तस्य रोगाः सतत न जातु भोन्ति धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७६ //
SK
चित्तस्य वा ये बहुविधु यत्किलेशाः काये वापि बहुविध रोगजाताः / ते तस्य नास्ती बहुविध संकिलेशा धारित्व शान्तं इमु विरज समाधिम् // SRS_३२.१७७ //
SK
यथन्तरीक्षं गगनमनोपलिप्तं प्रकृतिविशुद्धं विमल प्रभास्वरं च / (Vऐद्य २०८) चित्तं तथैव भवति विशुद्ध तस्यो धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७८ //
SK
चन्द्रस्य आभा तथरिव सूर्यआभा शुद्धा अग्राह्या भवति प्रभास्वराश्च / चित्तं तथैव भवति प्रभास्वरं च धारित्व शान्तं इमु विरजं समाधिम् // SRS_३२.१७९ //
SK
यथ अन्तरीक्षं न सुकरु चित्रणाय रङ्गान् गृहीत्वा बहुविध नैकरूपान् / चित्तं तथैव न सुकरु चित्रितुं सेवेत्व शान्तं इमु विरजं समाधिम् // SRS_३२.१८० //
SK
वातो यथैव चतुर्दिश वायमानो असज्जमानो व्रजति दिशः समन्तात् / वातसमाना भवति स चित्तधारा जगि सो असक्तो व्रजति अनोपलिप्तः // SRS_३२.१८१ //
SK
जालेन शक्यं गृह्णितु वायमानः पाशेन चापी बन्धितु शक्य वातः / नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तमिमु विरजं समाधिम् // SRS_३२.१८२ //
SK
प्रतिभासु शक्यं जलगत गृह्णनाय संप्राप्तु तोयं तथपि च तैलपात्रे / नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तं इमु विरजं समाधिम् // SRS_३२.१८३ //
SK
गर्जन्ति मेघा विद्युलता चरन्ता शक्यं ग्रहीतु पाणिन मानुषेण / नो तस्य चित्तं सुकरु प्रमाणु ज्ञातुं भावेत्व शान्तं इमु विरजं समाधिम् // SRS_३२.१८४ //
SK
सत्त्वान शक्यं रूतरवितं ग्रहीतुं ये सन्ति सत्त्वा दशदिशि बुद्धक्षेत्र / चित्तस्य तस्यो न सुकरु ज्ञातु कोटिं समाधिलब्धो यद भवि बोधिसत्त्वः // SRS_३२.१८५ //
SK
(Vऐद्य २०९) सो तां लभित्व विरजं समाधिभूमिं असंंकिलिष्टो भवति अनोपलिप्तः / नो तस्य भूयो त्रिभवि निवेश जातु अनेन लब्धो भवति समाधि शान्तः // SRS_३२.१९६ //
SK
नो कामलोलो न च पुन रूपलोलो न इस्त्रिलोलो न च पुन भ्रान्तचित्तः / शान्तः प्रशान्तो भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः // SRS_३२.१८७ //
SK
न पुत्रलोलो न च पुन धीतलोलो नो भार्यलोलो न च परिवारलोलः / सुशान्तचारी भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः // SRS_३२.१८८ //
SK
न हिरण्यलोलो न च पुनरर्थलोलो न स्वर्गलोलो धनरतनेष्वसक्तः / सुविशुद्धचित्तो भवति स निर्विकल्पः समाधिप्राप्तो अयु भवती विशेषः // SRS_३२.१८९ //
SK
न स्वर्गहेतोश्चरति स ब्रह्मचर्यं न स्वर्गलोलो ददति सदा नु विज्ञः / संबोधिकामः कुशलचरिं चरन्तः | समाधिप्राप्तो अयु भवती विशेषः // SRS_३२.१९० //
SK
नो राज्यहेतोश्चरति तपो व्रतं वा नैश्वर्यमर्थास्त्रिभुवनि प्रार्थमानः / संबोधिलोलो बहुजनहिताय निष्पादयी सो इमु विरजं समाधिम् // SRS_३२.१९१ //
SK
नो तस्य रागो जनयति जातु पीडां यो न स्त्रीलोलो सो भवति भ्रान्तचित्तः / तथापि तेन प्रकृतिप्रज्ञाय रागो लभित्व एतं विरजु समाधि शान्तम् // SRS_३२.१९२ //
SK
नो तस्य दोषो जनयति जातु पीडां व्यापादु येनो प्रतिघमथो करेय्य / (Vऐद्य २१०) मैत्राय तेनो निहत स दोषधातु प्रतिलभ्य एतं विरजु समाधि शान्तम् // SRS_३२.१९३ //
SK
नो तस्य मोहो जनयति जातु पीडां प्रज्ञाय तेनो निहत स मोह अविद्या / तं ज्ञानु लब्धं वितिमिरमप्रमेयं समाधिप्राप्ते इमि गुण अप्रमेयाः // SRS_३२.१९४ //
SK
अशुभाय रागः सतत सुनिगृहीतो मैत्र्याय दोषो निहतु सदा अशेषः / प्रज्ञाय मोहो विधमिय क्लेशजालं समाधिप्राप्तः प्रतपति सर्वलोके // SRS_३२.१९५ //
SK
नो तस्य मिद्धं जनयति जातु पीडां सुभाविता से विविध उत्किलेशाः / अनोपलिप्तो भवति च विप्रमुक्तः समाधिप्राप्ते इमि गुण अप्रमेयाः // SRS_३२.१९६ //
SK
नो तस्य मोहो जनयति जातु पीडां तथा हि त्यागे अभिरतु नित्यकालम् / सर्वस्वत्यागी भवति सुखस्य दाता य इमं समाधिं धारयति बोधिसत्त्वः // SRS_३२.१९७ //
SK
स्थामेनुपेतो भवति अनोपमेयो स बलेनुपेतो भवति नित्यकालम् / नो तस्य लोके भवति समः कदाचिद् य इमं समाधिं धारयति बोधिसत्त्वः // SRS_३२.१९८ //
SK
यदापि राजा स भवति चक्रवर्तीं मनुजानु लोके उपगत जम्बुद्वीपे / तदापि भोती बहुजनपूजनीयो विशेषप्राप्तो मतिम विशिष्टप्रज्ञः // SRS_३२.१९९ //
SK
ये भोन्ति मुख्याः कुलरतना विशिष्टाः सुप्रभूतभोगा बहुजनस्वापतेयाः / यत्राश्व हस्ती रथवर युग्ययाना हिरण्यस्वर्णं मणीरतनं प्रभूतम् // SRS_३२.२०० //
SK
(Vऐद्य २११) ये श्राद्ध भोन्ती इह वरबुद्धज्ञाने ते जम्बुद्वीपे कुलरतनाभियुक्ताः / तत्रोपपन्नः कुलरतने विशिष्टे करोति सो ऽर्थं सुविपुल ज्ञातिसंघे // SRS_३२.२०१ //
SK
अश्राद्ध ये वा इह कुल जम्बुद्विपे श्रद्धां स तेषां जनयति अप्रमत्तः / यं बोधिचित्ते प्रतिष्ठिति सत्त्वकाये ते बुद्ध भोन्ती जिनप्रवरः स्वयंभूः // SRS_३२.२०२ //
SK
ते च स्पृशित्व अतुलियमग्रबोधिं चक्रं प्रवर्तेन्त्यसदृश बुद्धक्षेत्रे / ये चो विजानी इमु तद धर्मचक्रं अनुत्पत्तिधर्मे निखिल ते संप्रतिष्ठी // SRS_३२.२०३ //
SK
सुबहुकराश्चो अमि तद बोधिसत्त्वाः सत्त्वान भोन्ति सततु ते पूजनीयाः / करोन्ति ते ऽर्थं अतुलिय नित्यकालं सत्त्वान चक्षुर्वितिमिरु ते जनेन्ति // SRS_३२.२०४ //
SK
बहव शतसहस्राः सत्त्वकोटी अनन्ता येष कुशलमूला भोन्ति तत्र श्रुणित्वा / ते अपि प्रतिलभन्ते उत्तमं बोधिचित्तं यद जिनु अनुशासी बोधिसत्त्वं महात्मा // SRS_३२.२०५ //
SK
अशून्यक्षेत्रा प्रमुदित भोन्ति नित्यं निरुपलेपा अमि तद बुद्ध भोन्ती / यत्र स्थिहन्ती इमि तद बोधिसत्त्वाः सत्त्वानमर्थ अपरिमितं करोन्ति // SRS_३२.२०६ //
SK
रक्षन्ति शीलं असदृशु ब्रह्मचर्यं भावी समाधी विपुलमनन्तकल्पान् / ध्याने विमोक्षे सुनिश्रित नित्यकालं ते बोधिसत्त्वा भवि सद बुद्धपुत्राः // SRS_३२.२०७ //
SK
ते ऋद्धिपादान् सतत् निषेवमाणा क्षेत्राणि गत्वा बहु विविधाननन्तान् / (Vऐद्य २१२) शृण्वन्ति धर्मं सुगतवरप्रभाषं सर्वं च गृह्णी प्रतिष्ठितु धारणीये // SRS_३२.२०८ //
SK
प्रभाषि सूत्रानपरिमिताननन्तान् ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः / सत्त्वान अर्थं अपरिमितं करोन्ति ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः // SRS_३२.२०९ //
SK
च्युतोपपादं जानाति सत्त्वानामागतिं गतिम् / यादृशं तैः कृतं कर्म विपाको ऽपि च तादृशः // SRS_३२.२१० //
SK
कर्मणो न च संक्रान्तिरणुमात्राणि लभ्यते / ते ऽपि तेषां विजानन्ति बोधिसत्त्वा महायशाः // SRS_३२.२११ //
SK
शून्यता च महात्मानां विहारो भोति उत्तमः / स्थापयन्ति महायाने सत्त्वकोटीरचिन्तियाः // SRS_३२.२१२ //
SK
न तेषामोवदन्तानां सत्त्वसंज्ञा प्रवर्तते / अप्रवृत्तिं च धर्माणां बोधिसत्त्वाः प्रकाशयी // SRS_३२.२१३ //
SK
न प्रकाशयतां धर्माणुपलम्भः प्रवर्तते / शून्याविहारिणो भोन्ति दृढज्ञाने प्रतिष्ठिताः // SRS_३२.२१४ //
SK
उद्दिश्येमं समाधिं च विहारं सर्वशास्तुनाम् / न तेषां वर्तते संज्ञा इस्त्रिसंज्ञा स्वभावता // SRS_३२.२१५ //
SK
इस्त्रिसंज्ञां विभावित्वा बोधिमण्डे निषीदति / बोधिमण्डे निषिदित्वा मारसंज्ञा निवर्तते // SRS_३२.२१६ //
SK
न चात्र पश्यते मारं मारसैन्यं च पण्डितः / न च पश्यति मारस्य तिस्रो दुहितरो ऽपि सः // SRS_३२.२१७ //
SK
बोधिमण्डे निषण्णस्य सर्वसंज्ञा प्रहीयते / सएर्वसंज्ञाप्रहीणस्य सर्वा कम्पति मेदिनी // SRS_३२.२१८ //
SK
सुमेरवः समुद्राश्च याव सन्ति दशा दिशे / तं च सत्त्वा विजानन्ति सर्वदिक्षु दशस्वपि // SRS_३२.२१९ //
SK
बोधिसत्त्वस्य ऋद्ध्येयं मेदिनी संप्रकम्पिता / षड्विकारं तदा काले बुध्यतो बोधिमुत्तमाम् // SRS_३२.२२० //
SK
यावन्तः संस्कृता धर्मा ये च धर्मा असंस्कृताः / सर्वांस्तान् बुध्यते धर्मान् धर्मशब्देन देशितान् // SRS_३२.२२१ //
SK
(Vऐद्य २१३) न चात्र बुध्यते कश्चित् सिंहनादश्च वर्तते / वर्तनीयं विजानित्वा भोति बुद्धः प्रभाकरः // SRS_३२.२२२ //
SK
प्रतीत्य धर्मा वर्तन्ते उत्पद्यन्ते प्रतीत्य च / प्रतीत्यतां यद्धर्माणां सर्वे जानन्ति ते विदुः // SRS_३२.२२३ //
SK
विधिज्ञाः सर्वधर्मेषु शून्यताया गतिंगताः / गतिं च ते प्रजानन्ति सर्वधर्मगतिंगताः // SRS_३२.२२४ //
SK
गतिमेतां गवेषित्वा बोधिसत्त्वो न लभ्यते / येनैषा सर्वबुद्धानां ज्ञाता गतिरचिन्तिया // SRS_३२.२२५ //
SK
स तां गतिं गतो भोति यः सर्वां गति जानति / सर्वस्य माया उच्छिन्ना ज्ञात्वा सद्धर्मलक्षणम् // SRS_३२.२२६ //
SK
बोधिमण्डे निषीदित्वा सिंहनादं नदी तथा / विज्ञापयी क्षेत्रकोटीरप्रमेया अचिन्तियाः // SRS_३२.२२७ //
SK
तांश्च प्रकम्पयी सर्वा बुद्धवीरा महायशाः / यथ वैनयिकान् सत्त्वान् विनेती सत्त्वसारथिः // SRS_३२.२२८ //
SK
स्पृशित्वा उत्तमां बोधिं बोधिमण्डात्तु उत्थितः / विनेयान् विनयेत् सत्त्वानप्रमेयानचिन्तियान् // SRS_३२.२२९ //
SK
ततो निर्मिणि संबुद्धो अनन्तान् बुद्धनिर्मितान् / क्षेत्रकोटीसहस्राणि गच्छन्ती धर्मदेशकाः // SRS_३२.२३० //
SK
स्थापयन्त्यग्रबोधीये सत्त्वकोटीरचिन्तियाः / देशयन्त्युत्तमं धर्मं हितार्थं सर्वप्राणिनाम् // SRS_३२.२३१ //
SK
ईदृशं तन्महाज्ञानं बुद्धज्ञानमचिन्तियम् / तस्माज्जनयथ च्छन्दं बोधिच्छन्दमनुत्तरम् // SRS_३२.२३२ //
SK
जनेथ गौरवं बुद्धे धर्मे संघे गुणोत्तमे / बोधिसत्त्वान शूराणां बोधिमग्र्यां निषेवताम् // SRS_३२.२३३ //
SK
अनोलीनेन चित्तेन सत्करोथ अतन्द्रिताः / भविष्यथ ततो बुद्धा नचिरेण प्रभाकराः // SRS_३२.२३४ //
SK
ये च क्षेत्रसहस्रेषु बोधिसत्त्वा इहागताः / पश्यन्ति लोकप्रद्योतं धर्मं देशेन्तमुत्तमम् // SRS_३२.२३५ //
SK
ओकिरन्ति महावीरा महारत्नेहि नायकम् / मान्दारवेहि पुष्पेहि ओकिरी बोधिकारणात् // SRS_३२.२३६ //
SK
(Vऐद्य २१४) अलंकरोन्तिदं क्षेत्रं बुद्धक्षेत्रमनुत्तरम् / रत्नजालेन च्छादेन्ति समन्तेन दिशो दश // SRS_३२.२३७ //
SK
पताका अवसक्ताश्च उच्छ्रिता ध्वजकोटयः / अलंकारैरनन्तैश्च इदं क्षेत्रमलंकृतम् // SRS_३२.२३८ //
SK
कूटागारांश्च मापेन्ति सर्वरत्नविचित्रितान् / प्रासादहर्म्यनिर्यूहानसंख्येयान् मनोरमान् // SRS_३२.२३९ //
SK
विमानान्यर्धचद्रांश्च गवाक्षान् पञ्जरांस्तथा / धूपिता ध्वजघटिका नानारत्नविचित्रिताः // SRS_३२.२४० //
SK
धूप्यमानेन गन्धेन अभ्रकूटसमं स्फुटम् / क्षेत्रकोटीसहस्रेषु वाति गन्धो मनोरमः // SRS_३२.२४१ //
SK
ते च सर्वे स्फरित्वान गन्धवर्षं प्रवर्षिषुः / ये च घ्रायन्ति तं गन्धं ते बुद्धा भोन्ति नायकाः // SRS_३२.२४२ //
SK
रागशल्यं प्रहीणैषां दोषशल्यं न विद्यते / विध्वंसितं मोहजालं तमः सर्वं विगच्छति // SRS_३२.२४३ //
SK
ऋद्धिं च तत्र स्पर्शेन्ति बलबोध्यङ्ग इन्द्रियान् / ध्यानविमोक्षान् स्पर्शेन्ति भोन्ति चो दक्षिणार्हाः // SRS_३२.२४४ //
SK
पञ्चकोटीय प्रज्ञप्ता वस्त्रकोटीभि संस्तृता / संछन्ना रत्नजालेहि च्छत्रकोटीभि चित्रिताः // SRS_३२.२४५ //
SK
निषण्णास्तत्र ते शूरा बोधिसत्त्वाः समागताः / लक्षणैस्ते विरोचन्ते तथानुव्यञ्जनैरपि // SRS_३२.२४६ //
SK
वृक्षै रत्नमयैः सर्वं बुद्धक्षेत्रमलंकृतम् / निर्मिताः पुष्करिण्यश्च अष्टाङ्गजलपूरिताः // SRS_३२.२४७ //
SK
पानीयं ते ततः पीत्वा पुष्करिणीतटे स्थिताः / सर्वे तृष्णां विनोदित्वा भोन्ति लोकस्य चेतियाः // SRS_३२.२४८ //
SK
अन्योन्येषु च क्षेत्रेषु बोधिसत्त्वाः समागताः / बुद्धस्य वर्णं भाषन्ते शाक्यसिंहस्य तायिनः // SRS_३२.२४९ //
SK
शृण्वन्ति ये च तं वर्णं ते भोन्ती लोकनायकाः / अचिन्त्या अनुशंसा मे इह सूत्रे प्रकाशिताः // SRS_३२.२५० //
SK
स्वर्णमयेहि पत्रेहि पद्मकोट्यो अचिन्तियाः / शुद्धस्योरगसारस्य कर्णिकास्तत्र निर्मिताः // SRS_३२.२५१ //
SK
(Vऐद्य २१५) वैडूर्यस्य च दण्डानि स्फटिकस्य च पञ्जराः / केसरा गिरिगर्भस्य मापितास्तत्र शोभनाः // SRS_३२.२५२ //
SK
ये च घ्रायन्ति तं गन्धं निश्चरन्तं मनोरमम् / तेषां सर्वे प्रशाम्यन्ति व्याधयः प्रीतचेतसाम् // SRS_३२.२५३ //
SK
रागो द्वेषश्च मोहश्च अशेषास्तेहि क्षीयते / त्रीन् दोषान् क्षपयित्वा च भोन्ति बुद्धा सुखंददाः // SRS_३२.२५४ //
SK
शब्दस्ततो निश्चरति बुद्धशब्दो ह्यचिन्तियः / सद्धर्मसंघशब्दश्च विनिश्चरति सर्वतः // SRS_३२.२५५ //
SK
शून्यता अनिमित्तस्य स्वरो अप्रणिहितस्य च / श्रुत्वा तं सत्त्वकोटीयो भोन्तिवैवर्तिका बहु // SRS_३२.२५६ //
SK
निश्चरंश्चैव शब्दो ऽसौ क्षेत्रकोटीषु गच्छति / स्थापेन्ति बुद्धज्ञानस्मिन् सत्त्वकोटीरचिन्तियाः // SRS_३२.२५७ //
SK
शकुन्ता कलविङ्काश्च जीवंजीवकपक्षिणः / ते ऽपि प्रव्याहरी शब्दं बुद्धशब्दमनुत्तरम् // SRS_३२.२५८ //
SK
रत्नामयाश्च ते वृक्षा इह क्षेत्रस्मि निर्मिताः / विशिष्टा दर्शनीयाश्च मणीवृक्षा मनोरमा // SRS_३२.२५९ //
SK
लम्बन्ते तेषु वृक्षेषु सर्वाभरणवेणयः / अनुभावेन बुद्धस्य इह क्षेत्रस्मि निर्मिताः // SRS_३२.२६० //
SK
न सो ऽस्ति केषुचिद् व्यूहः सर्वक्षेत्रेषु सर्वशः / यो नेह दृश्यते क्षेत्रे तद्विशिष्टतमस्तदा // SRS_३२.२६१ //
SK
पेयालमेतदाख्यातं शाक्यसिंहेन तायिना / न ते ज्ञाने ऽत्र काङ्क्षति बोधिसत्वा महायशाः // SRS_३२.२६२ //
SK
कोटीय एतां बुध्यन्ति गतिस्तेषामचिन्तिया / ज्ञानेन ते विवर्धन्ते सागरो वा स्रवन्तिभिः // SRS_३२.२६३ //
SK
(Vऐद्य २१६) न तेषां लभ्यते ऽन्तो हि पिबतो वा महोदघेः / आख्यातो बोधिसत्त्वानां नयो ह्येष अचिन्तियः // SRS_३२.२६४ //
SK
इह कोटयां स्थिताः शूरा बोधिसत्त्वा यशस्विनः / स्वराङ्गानि प्रमुञ्चन्ति यथा गङ्गाय वालिकाः // SRS_३२.२६५ //
SK
ततश्चिन्त्यः स्वरो ऽप्येवं बोधिसत्त्वो न मन्यते / मन्यनायां प्रहीणायामासन्नो भोति बोधते // SRS_३२.२६६ //
SK
न स शीलं विलुम्पेति अपि जीवितकारणात् / अविलुप्तः स चरति बोधिसत्त्वो दृढवतः // SRS_३२.२६७ //
SK
नासौ भूयो विलुप्येत कमसंज्ञाय सर्वशः / सर्वसंज्ञाप्रहीणस्त अप्रमेयाः समाधयः // SRS_३२.२६८ //
SK
समाहितः स चरति सज्जते न समाधिषु / असक्तश्चाप्रमत्तश्च नासौ लोकेषु सज्जते // SRS_३२.२६९ //
SK
लोकधातूनतिक्रम्य स गच्छति सुखावतीम् / गतश्च तत्र संबुद्धममिताभं स पश्यति // SRS_३२.२७० //
SK
बोधिसत्त्वांश्च तान् शूरान् लक्षणैः समलंकृतान् / पञ्चाभिज्ञापारमिं च प्राप्ता धारणिगोचराः // SRS_३२.२७१ //
SK
गच्छन्ति क्षेत्रकोटीयो बुद्धानां पादवन्दकाः / ओभाषयन्तो गच्छन्ति बुद्धक्षेत्रानचिन्तियान् // SRS_३२.२७२ //
SK
सर्वदोषप्रहीणाश्च सर्वक्लेशविशोधिताः / सर्वक्लेशसमुच्छिन्ना एकजातिस्थिता जिनाः // SRS_३२.२७३ //
SK
न चो अपायान् गच्छन्ति तस्मात् क्षेत्रात्तु ते नराः / सर्वे ऽपाया समुच्छिन्नास्तस्मिन् क्षेत्रे अशेषतः // SRS_३२.२७४ //
SK
बोधिता बुद्धश्रेष्ठेन अमिताभेन तायिना / करोथ मा तत्र काङ्क्षां गमिष्यथ सुखावतीम् // SRS_३२.२७५ //
SK
यः क्षेत्रश्रेष्ठस्य श्रुणित्व वर्णं चित्तप्रसादं प्रतिलभि मातृग्रामः / स क्षिप्र भोती पुरुषवरः सुविद्वान् ऋद्ध्या च याति क्षेत्रसहस्रकोटीः // SRS_३२.२७६ //
SK
यावन्ति पूजा बहुविध अप्रमेया या क्षेत्रकोटीनयुतयबिंबरेषु / (Vऐद्य २१७) तां पूज कृत्व पुरुषवरेषु नित्यं संख्याकलापी न भवति मैत्रचित्तः // SRS_३२.२७७ //
SK
शीलं समाधिं सततु निषेवमाणो ध्यानान् विमोक्षांस्तथपि च अप्रमाणान् / शून्यानिमित्तान् सततु निषेवमाणो नचिरेण सो हि सुगतु भवति लोके // SRS_३२.२७८ //
SK
एषा हि पूजा परमा विशिष्ट मह्यं यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो / सद सर्वबुद्धास्तेन सुपूजिता हि क्षयान्तकाले यः स्थितु बोधिचित्ते // SRS_३२.२७९ //
SK
सुपरीन्दितास्ते बुद्धसहस्रकोट्यो ये बोधिसत्त्वा इमु क्षयि कालि घोरे / रक्षन्ति धर्मं सुगतवरोपदिष्टं ते मह्य पुत्राश्चरिमक धर्मपालाः // SRS_३२.२८० //
SK
इति श्रीसमाधिराजे सूत्रधारणानुशंसापरिवर्तो नाम द्वात्रिंशतितमः
SK
(Vऐद्य २१८) ३३ Kषेमदत्तपरिवर्तः |
SK
अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमिते यदासीत् | तेन कालेन तेन समयेन घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | स खलु पुनः कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धो अप्रमेयानचिन्त्यानपरिमाणानसंख्येयान् सत्त्वानास्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य परिनिर्वाप्य अप्रमेयानसंख्येयांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य परिनिर्वृतो ऽभूत् | तेन च कुमार कालेन तेन समयेन राजाभूच्छ्रीघोषो नाम | स तस्य तथागतस्य पूजार्थं तथागतधातुगर्भाणि चतुरशीतिस्तूपकोटिसहस्राणि कारयामास | एकैकस्मिंश्च स्तूपे चतुरशीतिचतुरशीतिदीपार्ध्यकोटीनियुतसहस्राणि प्रतिष्ठापयामास | एवं वाद्यानां तूर्याणां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकानाम् | एकैकत्र च स्तूपे चतुरशीतिचतुरशीतिकोटिसहस्राणि प्रतिष्ठापयामास | इहि हि कुमार स राजा श्रीघोषस्तथागतशरीराणां पूजां कृत्वा चतुरशीत्या बोधिसत्त्वकोटीनियुतशतसहस्त्राणां महान्तं बोधिसत्त्वसंनिपातं कारयित्वा तेषां बोधिसत्त्वानां महासत्त्वानां सर्वसुखोपधानेन पूजायामुद्युक्तो ऽभूत् | सर्वे च ते बोधिसत्त्वा महासत्त्वा धर्मभाणका अभूवन् अनाच्छेद्यप्रतिभानाः समाधिप्रतिलब्धाः असङ्गधारणीप्रतिलब्धा भूतगुणधर्मदेशकाः परिशुद्धधर्मदेशकाः बोधिसत्त्ववशिपारमिप्राप्ताः | तेन च कुमार कालेन तेन समयेन तत्रैव पर्षदि क्षेमदत्तो नाम बोधिसत्त्वो महासत्त्वो ऽभूच्छिशुर्दहरः कृष्णकेशः प्रथमयौवनसमन्वागते भद्रके वयसि वर्तमानः अविक्रीडितावी कामेषु कौमारब्रह्मचारी एकवर्ष उपसंपदा | तेन च कुमार कालेन तेन च समयेन राज श्रीघोषस्तं महान्तं बोधिसत्त्वमहासत्त्वगणमध्येषते स्म यदुत षट्पारमितासंगीतौ | बोधिसत्त्वपिटकमहाधारण्युपायकौशल्यवशिविनयासङ्गाभिनिर्हारार्थं तान् बोधिसत्त्वान् महासत्त्वानध्येष्य रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः तत्रानेकानि दीपार्ध्यकोटिनियुतशतसहस्राणि प्रज्वालितानि | सिक्तसंमृष्टशोधितश्च मण्डलमात्रः कृतो ऽभूत् पुष्पाभिकीर्णो नानाविचित्रशयनासनप्रज्ञप्तः | राजापि श्रीघोषः सान्तःपुरग्रामनगरजनपदपारिषद्यः सपौरो निष्क्रान्तः | वाद्यतूर्यतालावचरपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः परिगृहीताभिस्तथागतचैत्यस्य पूजां कृत्वा सार्धमन्तःपूरेण प्रासादतलमभिरूढो ऽभुद्धर्मश्रवणाय | महती च देवमानुषिका परिषत् संनिपतिता धर्मश्रवणार्थिका | अद्राक्षीत् क्षेमदत्तो बोधिसत्त्वो महासत्वस्तानि च महान्ति दीपार्ध्यकोटीनियुतशतसहस्राणि संप्रज्वलितानि | अवभासेनैव (Vऐद्य २१९) स्फुटमभूत् | सदेवमानुषिकां च जनतां धर्मश्रवणाय संनिपतितां विदित्वा तस्यैतदभूत् - अहमपि महायानसंप्रस्थितः | यन्न्वहमिमं समाधिमाकाङ्क्षस्तथागतपूजां कुर्याम्,यथारूपया पूजया सदेवमानुषासुरलोकश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवेद्धर्मालोकप्राप्तः | इमां च सर्वां तथागतपूजामभिभवेयं येयं श्रीघोषेण राज्ञा कृता | राजा च श्रीघोषश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सान्तःपुरपरिवारः ||
SK
अथ खलु क्षेमदत्तो बोधिसत्त्व एवंचित्तः प्रीतिसौमनस्यजातस्तं महान्तं जनकायं संनिपतितं विदित्वा धर्मश्रवणिकानां रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः स्थित्वा दक्षिणं बाहुं चीवरपरिवेष्टितं कृत्वा तैलप्लुतं कृत्वा दीपयामास | अथ खलु क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्याध्याशयेनानुत्तरां सम्यक्संबोधिं पर्येषमाणस्य तथा प्रदीप्ते दक्षिणे पाणौ नाभूत् चित्तस्य मुखवर्णस्य वा अन्यथात्वम् | अथ खलु कुमारः समनन्तरप्रदीप्ते क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य पाणौ संप्रज्वलिते संज्योतीभूते एकज्वालाप्राप्ते, अथ खलु तस्यां वेलायां महापृथिवीचालः प्रादुरभूत् | तस्य पाणौ दीप्यमानस्य प्रभया तान्यनेकानि दीपार्ध्यकोटीनयुतशतसहस्राणि ध्यामीकृतान्यभूवन् | सर्वासु च दिक्षु महानवभासो ऽभूत्, येनावभासेन सर्वा दिशो ऽवभासिताः समन्तात् स्फुटा अभूवन् | स प्रीतिसौमनस्यजात इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं वल्गुना मनोरमेण स्वरेण विशिष्टया वाचानुप्रबद्धैः पदव्यञ्जनैर्विस्तरेण सर्वपर्षदं विज्ञापयन् संप्रकाशयति स्म | तत्र द्वादश सहस्राणि त्रायत्रिंशत्कायिकानां देवानां संनिपतितानि धर्मश्रवणाय | ते प्रीतिसौमनस्यजाता विविधां दिव्यां पूजामकार्षुः, अप्सरोगणाश्च दिव्याः संगीतीः प्रयोजयामासुः | अद्राक्षीद्राजा श्रीघोषः उपरिष्टात् प्रासादतलगतः स्वजनपुरस्कृतः अन्तःपुरमध्यगतो ऽष्टाङ्गपोषधसमादत्तः क्षेमदत्तं बोधिसत्त्वं महासत्त्वं बाहुनावभासयन्तं सर्वाः प्रभा अभिभूय दिव्यया अतिक्रान्तमानुषिकयावभासितम् | दृष्ट्वा च पुनरस्यैतदभूत् - अभिज्ञाप्राप्तो बतायं क्षेमदत्तो बोधिसत्त्वो महासत्त्वो भविष्यतीति | स तीव्रं प्रेम च प्रसादं च गौरवं च चिपस्थाप्य सपरिवारो महाकुशलमूलपुण्यस्कन्धोपस्तब्धः सार्धमशीत्यान्तःपुरिकाभिस्ततः प्रासादतलादात्मानमुत्प्राक्षिपत् यदुत् क्षेमदत्तस्य बोधिसत्त्वस्य दर्शनाय प्रीतिसंमोदनाय | स गौरवनिर्जातेन कुशलमूलेन दृष्ट एव धर्मे सपरिवारो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिग्रहं प्रतिलभते | स देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिगृहीतः पुनरेव राजा श्रीघोषः सपरिवारः परिपूर्णाद्धस्तशतसहस्रिकात् प्रासादात् पतितः | न चास्य कायविहेठश्चित्तविहेठो वा अवलीनता वाभूत् ||
SK
(Vऐद्य २२०) अथ खलु राजा श्रीघोषः उभौ बाहू प्रगृह्य महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्द्रं चाकार्षीत् यदुत क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य बाहुं दह्यमानं दृष्ट्वा संप्रज्वलितम् | स राजा तेन महता जनकायेन सार्धं प्रारोदीदश्रूणि प्रवर्तयमानः ||
SK
अथ खलु क्षेमदत्तो बोधिसत्त्वो महासत्त्वः राजानं श्रीघोषमामन्त्रयते स्म - किं पुनस्त्त्वं महाराज अनेन महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्दं कुर्वन् रोदिषि अश्रूणि च प्रवर्तयसि? अथ खलु राजा श्रीघोषः क्षेमदत्तं बोधिसत्त्वं गाथाभिगीतेन प्राभाषत -
SK
क्षेमदत्तं महाप्राज्ञं पण्डितं धर्मभाणकम् / अङ्गहीनं विदित्वैनं जनो ऽयं तेन रोदिति // SRS_३३.१ //
SK
एतादृशं रूपमिदं तेजोराशिसमुद्गतम् / बाहुहीनं विदित्वा हि भूयो ऽहमपि दुःखितः // SRS_३३.२ //
SK
यस्त्वया दीपितो बाहुः प्रभा मुक्ता दिशो दश / इमे जिह्मीकृता दीता दिव्यया त्वत्प्रभूतया // SRS_३३.३ //
SK
प्रकम्पितेयं पृथिवी चित्तं ते न च लीइयते / तत उत्पादितं चित्तं नैषो अवरकोविदः // SRS_३३.४ //
SK
हस्तशतसहस्रातः प्रासादात् पतितो ह्यहम् / सार्धमन्तःपुरेणेह न च मे कायु हिंसितः // SRS_३३.५ //
SK
साधु ते ज्ञानमाश्चर्यं साधु चित्तमनुत्तरम् / साधु वीर्यं च स्वारब्धं साधुं चाध्याशयो महान् // SRS_३३.६ //
SK
यस्य हस्तौ विदह्यन्ते न जात्वस्तीह इञ्जना / प्रीतिप्रामोद्यजातश्च भूयो धर्मं प्रभाषते // SRS_३३.७ //
SK
पूर्णमास्यां यथा चन्द्रः सूर्यो वासौ नभस्तले / सुमेरुगिरिराजो वा एवं शोभसि मारिष // SRS_३३.८ //
SK
अहं पि एवं प्रणिधिं परिपूरेय पण्डितः / काये प्रेमं जहित्वाहं कुर्यामर्थं च प्राणिनाम् // SRS_३३.९ //
SK
धर्मप्रेम्णा च हृष्यामि प्रीइतिर्मे ऽत्र अचिन्तिया / यत् पुनो अङ्गहीनो ऽसि तेन मे दुःखमुत्तमम् // SRS_३३.१० //
SK
क्षेमदत्तो हि राजानं देवनागेहि पूजितः / अनन्तप्रतिभानेन इमा गाथा अभाषत // SRS_३३.११ //
SK
नैवं स्यादङ्गहीनो ऽसौ यस्य बाहुर्न विद्यते / स तु देवाङ्गहीनः स्याद यस्य शीलं न विद्यते // SRS_३३.१२ //
SK
(Vऐद्य २२१) अनेन पूतिकायेन पूजिता मे तथागताः / अचिन्तिया दक्षिणीयाः सर्वलोकस्य चेतियाः // SRS_३३.१३ //
SK
अनन्ता यास्त्रिसाहस्रा परिपूरिताः / प्रदद्याल्लोकनाथेभ्यो बुद्धज्ञानगवेषकः // SRS_३३.१४ //
SK
अस्त्येषा लौकिकी पूजा अन्या पूजा अचिन्तिया / ये धर्मान् शून्यान् जानन्ति त्यजन्ते कायजीवितम् // SRS_३३.१५ //
SK
सत्यवाक्यं करिष्यामि महाराज शृणोहि मे / या चेयं जनता सर्वा इमां गाथां विजानथ // SRS_३३.१६ //
SK
येन सत्येन बुद्धो ऽहं भेष्ये लोकस्य चेतियः / तेन सत्येन धरणी षडविकारं प्रकम्पतु // SRS_३३.१७ //
SK
भाषिता व इयं वाचा धरणी च प्रकम्पिता / आश्चर्यमद्भतप्राप्ता देवकोट्यः प्रहर्षिताः // SRS_३३.१८ //
SK
हर्षिता देवमनुजा बोधिचित्तमुपादयुः / प्रस्थिता अग्रयानस्मिन्नप्रमेया अचिन्तियाः // SRS_३३.१९ //
SK
यात्तकानां कृतो अर्थः क्षेमदत्तेन भिक्षुणा / बुद्धानां वर्तते ज्ञानं यत्राक्षयमचिन्तियम् // SRS_३३.२० //
SK
येन सत्येन धर्मो ऽसौ बाहुर्नाम न विद्यते / तेन सत्येन मे बाहुर्भोति क्षिप्रं यथा पुरा // SRS_३३.२१ //
SK
येन सत्येन धर्मो ऽसौ क्षेमदत्तो न विद्यते / दिशो दश गवेषद्भिः शुन्यत्वान्नोपलभ्यते // SRS_३३.२२ //
SK
यो ऽपि निश्चरते शब्दस्तं पु शून्यं विजानथ / प्रतिश्रुत्कोपमः शब्दो धर्मानेवं विजानथ // SRS_३३.२३ //
SK
सदा विशारदो भोति शुन्यतायां गतिंगतः / तस्य सत्येन वाक्येन सर्वलोको न दह्यते // SRS_३३.२४ //
SK
यावन्तस्त्रिभवे सत्त्वा ये देवा ये च मानुषाः / सर्वज्ञतायास्तेजेन सर्वे भोन्ति समाहिताः // SRS_३३.२५ //
SK
यावन्त्युपद्रवाः केचिद् ये दिव्या ये च मानुषाः / अवैवर्तिकतेजेन सर्वे ते भोन्ति निर्वृताः // SRS_३३.२६ //
SK
भाषिताश्च इमा गाथा बाहुश्च पुनरुत्थितः / क्षेमदत्तस्य कायश्च लक्षणेहि विचित्रितः // SRS_३३.२७ //
SK
(Vऐद्य २२२) देवकोटीसहस्राणि अन्तरिक्षे स्थितानि च / मन्दारपुष्पैस्तं भिक्षुमोकिरन्ति च तत्क्षणम् // SRS_३३.२८ //
SK
अमानुष्येहि पुष्पेहि जम्बुद्वीपो ह्ययं स्फुटः / अप्सरःकोटिनियुतै संगीत्यः संप्रयोजिताः // SRS_३३.२९ //
SK
इमं नादं नदन्तस्य क्षेमदत्तस्य तत्क्षणम् / बुद्धकोटीसहस्राणि पश्यन्तीदं विकुर्वितम् // SRS_३३.३० //
SK
स्वकस्वकेषु क्षेत्रेषु आरोचेत् सुमहायशाः / भिक्षूणां भिक्षुणीनां च उपासक उपासिकाम् // SRS_३३.३१ //
SK
क्षेमदत्तो ह्यसौ भिक्षुः पण्डितः सुमहाबलः / येनासौ दीपितो बाहुर्बुद्धज्ञानस्य कारणात् // SRS_३३.३२ //
SK
तेन क्षेत्रसहस्राणि यथा गङ्गाय वालिकाः / ओभासिताः प्रदीपेन कल्पोद्दाह इव स्थिते // SRS_३३.३३ //
SK
पुष्पचन्दनचूर्णैश्च सर्वक्षेत्राः स्फुटा अभूत् / यावद्भूमिमुपादाय जानुमात्रमभूत् स्फुटम् // SRS_३३.३४ //
SK
सर्वरत्नैः सर्वपुष्पैर्बुद्धक्षेत्रमभूत् स्फुटम् / क्षेमदत्तस्य पूजायै नागा वर्षन्ति मौक्तिकम् // SRS_३३.३५ //
SK
सर्वरत्नामयैर्व्यूहैरिदं क्षेत्रमलंकृतम् / संस्तृतं रत्नमुक्ताभिओः क्षेमदत्तस्य पूजया // SRS_३३.३६ //
SK
देवा नागाश्च यक्षाश्च किन्नराप्सरमहोरगाः / प्रस्थिता अग्रबोधीये यथा गङ्गाय वालिकाः // SRS_३३.३७ //
SK
शाक्यसिंहो ऽपि संबुद्धो गृध्रकूटस्मि पर्वते / पुरतो भिक्षुसंधस्य सिंहनादं नदी जिनः // SRS_३३.३८ //
SK
क्षेमदत्तो ऽहमभवं श्रीघोषो ऽप्यजितो ऽभवत् / कल्पकोटीसहस्राणि चरन् संबोधिचारिकाम् // SRS_३३.३९ //
SK
सहदर्शनेन भिक्षुस्य क्षेमदत्तस्य तत्क्षणम् / अचिन्त्याभिस्तदा स्त्रीभिः स्त्रीभावो विनिवर्तितः // SRS_३३.४० //
SK
व्याकृतास्ते नरेन्द्रेण नास्ति तेषां विनिवर्तना / स्वयंभुवो भविष्यन्ति सर्वे लोकविनायकाः // SRS_३३.४१ //
SK
श्रुत्वा सूत्रमिदं विद्वान् संलेखगुणदर्शनम् / काये प्रेम न कुर्वीत इह धर्मे सुशिक्षितः // SRS_३३.४२ //
SK
इति श्रीसमाधिराजे क्षेमदत्तपरिवर्तो नाम त्रयस्त्रिंशतितमः
SK
(Vऐद्य २२३) ३४ Jञानावतीपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन कुशलमूले प्रतिष्ठिते धर्मदानेन वा आमिषदानेन वा योगः करणीयः | तेन बोधिसत्त्वेन महासत्त्वेन तद्दानं चतुसृभि परिणामनाभिः परिणामयितव्यम् | कतमाभिश्चतसृभिः? यदुत यैरुपायकौशल्यैस्तैर्बुद्धैर्भगवद्भिरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तेषामुपायकौशल्यानां प्रतिलम्भायेदं दानकुशलमूलमवरोपयामि | अयं प्रथमः परिणामः | येभ्यः कल्याणमित्रेभ्यो ऽन्तिकात्तान्युपायकौशल्यानि शृणुयामुद्गृह्णीयां पर्यवाप्नुयां धारयेयम्, तैरनुत्तरा सम्यक्संबोधिरभिसंबुध्यते | तैर्यैः कल्याणमित्रैः सार्धं समवधानं भवेत्, एवमेतद्दानकुशलमूलमवरोपयामि | अयं द्वितीयः परिणामः | ये भोगप्रतिलाभाः सर्वलोकोपजीव्या भवेयुस्तैर्मे भोगप्रतिलाभैः समवधानं भवेत्, एवमिदं कुशलमूलवरोपयामि | अयं तृतीयः परिणामः | य आत्मभावप्रतिलाभः द्वाभ्यामनुग्रहाभ्यां सत्त्वाननुगृह्णीयादामिषानुग्रहेण च धर्मानुग्रहेण च, तस्य मे आत्मभावस्य प्रतिलम्भो भवेत्, एवमिदं कुशलमूलवरोपयामि | अयं चतुर्थः परिणामः | आभिः कुमार चतसृभिः परिणामनाभिर्बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि परिणामयितव्यानि ||
SK
पुनरपरं कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता गृहीणा वा प्रव्रजितेन वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन शीलवन्तो गुणवन्तः प्रज्ञावन्तो बोधिसत्त्वा महासत्त्वाः सेवितव्या भजितव्याः पर्युपासितव्या अशाठ्येन | यो ऽस्य समाधेर्धारको भिक्षुर्बोधिसत्त्वो महासत्त्वो भवेत्,स च स्यादाबाधिको बाढग्लानः, तेन स्वमांसशोणिअतेनापि स भिक्षुस्तस्मादाबाधाद् व्युत्थापयितुमुत्सोढव्यः | अध्याशयसंपन्नेन कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षत क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनाविकम्पमानेन विशारदेन स्वकं मांसशोणितमपि परित्यज्य धर्मभाणको भिक्षुराबाधाद् व्युत्थापयितव्यः | तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम् ||
SK
भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे यदासीत् तेन कालेन तेन समयेनाचिन्त्यप्रणिधानविशेषसमुद्गतराजो नाम तथागतो ऽहन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | स खलु पुनः कुमार अचिन्त्यप्रणिधानविशेषसमुद्गतराजस्तथागतो ऽर्हन् सम्यक्संबुद्धो यस्मिन्नेव दिवसे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्तत्रैव दिवसे परिहते अप्रमेयानसंख्येयान् बुद्धनिर्मितान् निर्माय अपरिमाणानां च सत्त्वानां विनयं कृत्वा (Vऐद्य २२४) आस्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य अपरिमाणांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य तत्रैव दिवसे परिनिर्वृतो ऽभूत् | तस्य खलु पुनर्भगवतः परिनिर्वृतस्य चतुरशीतिः वर्षकोटीनयुतशतसहस्राणि सद्धर्मो ऽतिष्ठत् | तस्य च भगवतो ऽचिन्त्यप्रणिधानविशेषसमुद्गतराजस्य तथागतस्य शासनान्तर्धानकालसमये पश्चिमायां पञ्चशत्यां वर्तमानायां बहवो भिक्षवः प्रादुर्भूता उपलम्भदृष्टयः | तेषामेवंरूपाः सूत्रान्ता न रोचन्ते न चाधिमुच्यन्ते प्रतिबाधन्ते प्रतिक्षिपन्ति | ईदृशानां च सूत्रान्तधारकाणां भिक्षूणां पीडां कुर्वन्तो यावज्जीविताद् व्यवरोपणमकार्षुः | तैरभिसत्काराध्यवसितैरीदृशसुत्रान्तधारकाणां भिक्षुणां सहस्रं जीविताद् व्यवरोपितमभूत् | तेन च पुनः कुमार कालेन तेन समयेन राजाभूद् ज्ञानबलो नाम जम्बुद्वीपेश्वरः सद्धर्मपरिग्राहकः पूर्वप्रणिधानसंपन्नः | तेन खलु पुनः कुमार कालेन तेन समयेन इह जम्बुद्वीपे एको भिक्षुर्धर्मभाणको ऽभूत् तस्य समाधेर्धारको भूतमतिर्नाम्ना तस्य राज्ञः कुलप्रवेशकः कल्याणमित्रो हितैषी अनुकम्पकः अर्थकामः | स चास्य राजा अतृप्तो दर्शनेनाभीक्ष्णप्रतिकाङ्क्षी चाभूद्दर्शनेन धर्मसंकथनोपसंक्रमणपर्युपासनपरिपृच्छाग्रहणधारणवाचनविज्ञापनसमर्थः | स खलु पुनर्धर्मभाणको भिक्षुः सत्त्वानामीर्याचर्याधिमुक्तिधातुवासनाकुशलो ऽभूत् | सत्त्वानामिन्द्रियबलवीर्यविमात्रताज्ञानधातुवासनाकुशलः सत्यसंधिकुशलः विसंधिप्रतिवचनकुशलः अर्थविनिश्चयकुशलः गम्भीरप्रतिभानः सत्त्वानां विनयविधिज्ञः पूर्वाभिलापी स्मितमुखः अपगतभ्रूकुटिमुखो महद्गतचित्तविहारी महाकरूणाभियुक्तः अनभिभूतः सर्वपरप्रवादिभिः | तेन च कुमार कालेन तेन च समयेन राज्ञो ज्ञानबलस्य दुहिता दारिकाभूत् षोडशवर्षा जात्या अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता ज्ञानावती नाम | तस्याः स भूतमतिर्भिक्षुराचार्यो ऽभूत् कुशलेषु धर्मेषु संदर्शकः समुत्तेजकः संप्रहर्षकः समादापकः | तेन च कुमार कालेन तेन समयेन तस्य धर्मभाणकस्य भिक्षोर्महाकृष्णवैसर्पः ऊरौ प्रादुरभूत् दुश्चिकित्स्यो दुर्लभभैषज्यः | स वैद्येः ग्लानः प्रतिक्षिप्तो ऽभूत् ||
SK
अथ खलु राजा सान्तपुरः सपुत्रः सदुहितृपरिवारः तं भिक्षुं ग्लानं विदित्वा प्रारोदीदश्रूणि प्रवर्तयति स्म सार्धमशीत्या स्त्रीसहस्रैः सार्धं पौरैर्नागरैः सार्धं राष्ट्रेण नैगमजानपदैर्गणकमहामात्रैः सार्धममात्यदौवारिकपारिषद्यैः | ते सर्वे तं भिक्षुं ग्लानं विदित्वा प्ररोदन्तः अश्रणि प्रवर्तयामासुः - मा खल्वयं भिक्षुः कालं कुर्यादिति | तेन च कुमार कालेन तेन समयेन राज्ञो ज्ञानबलस्यान्यतरा देवता पुराणसालोहिताभूदनुबद्धा | सा तस्य राज्ञः स्वप्नान्तर्गतस्यापदर्शयति स्म - सचेत् महाराज एतस्य भिक्षोर्नवकेनासंक्लिष्टेन मानुष्येण रुधिरेणैष कृष्णवैसर्प आलिप्येत, नवकं चासंक्लिष्टं मानुषं मासं नानारससंप्रयुक्तं भोजनं दीयेत, एवमेष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत | अथ खलु राजा ज्ञानबलस्तस्या रात्र्या अत्ययेन ततः स्वप्नान्तरात् प्रतिविबुद्धो ऽन्तःपुरमध्यगतः इमां स्वप्नप्रकृतिमन्तःपुरायारोचयामास - एवंरूपः स्वप्नो मया दृष्टः | इति हि कुमार ततः स्त्र्यागारात्ततश्च राजकुलान्न काचित् स्त्री उत्सहते तस्य (Vऐद्य २२५) भिक्षोस्तद्भैषज्यं दातुम् | ज्ञानावत्यपि राजदुहिता इममीदृशमेव स्वप्नमद्राक्षीत् | दृष्ट्वा च पुनः प्रतिविबुद्धा अन्तःपुरमध्ये इमामेव स्वप्नप्रकृतिं मातॄणां परिवारस्य चारोचयति स्म | न च काचिदुत्सहते स्त्री तस्य भिक्षोरेतद् भैषज्यं दातुम् ||
SK
अथ खलु ज्ञानवती राजदुहिता तुष्टा उदग्रा आत्तमनस्का प्रमुदिता प्रीतिसौमनस्यजाता एवं व्यवसायमकार्षीत् - यन्न्वहमेतद् भैषज्यं स्वकाच्छरीराद् यथोपदिष्टं नवं रुधिरं नवं च मांसं दद्याम् | अहमेवेह राजकुले सर्वदहरा च सर्वतरुणी च असंक्लिष्टकायवाङ्भनस्कर्मा च | असंक्लिष्टं ज्ञानमेषामि असंक्लिष्टस्य धर्मभाणकस्य स्वशरीराद रुधिरं च मांसं चोपनामयिष्यामि | अप्येव नामैष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत | अथ खलु सा ज्ञानवती राजदुहिता स्वकमावासं गत्वा तीक्ष्णं शस्त्रं गृहीत्वा धर्मान्तर्गतेन मानसेन स्वकमूरुमांसं छित्त्वा नानारससंप्रयुक्तं प्रणीतमभिसंस्कृत्य लोहितं च प्रगृह्य तं चाचार्यं प्रवेश्य राज्ञो ज्ञानबलस्य पुरतो निषद्य लोहितेन तं विसर्पमालेपयित्वा तेन च स्वभिसंस्कृतेन भोजनेन संतर्पयति | अथ खलु स भिक्षुरजानन्नपरिबुध्यमानः अपरिशङ्कमानस्तद्भक्तं परिभुक्तवान् | समनन्तरपरिभुक्ते च तस्मिन्नाहारे तस्य भिक्षोः सर्वास्ता वेदना प्रतिप्रस्रब्धाः, सर्वश्च व्याधिरपगतः | तेन विगतपरिदाहेन सर्वसुखसमर्पितेन तथा धर्मो देशितो यथा ततो ऽन्तःपुरात्ततश्च नगरजनपदराष्ट्रसंनिपाताद् द्वादशानां प्राणिसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ||
SK
अथ खलु राजा ज्ञानबलः स्वकां दुहितरं गाथाभिरध्यभाषत -
SK
कुतस्त्वया शोणितु लब्धु दारिके कुतो इदं आहृतु मांस मानुषम् / आहारु यः साधितु ते ऽद्य धीते येनो सुखीयं कृतु धर्मभाणकः // SRS_३४.१ //
SK
हतो ह्ययं वाथ मृतो ऽथ लब्धो यत् साधितं नानरसेहि व्यञ्जनम् / कुतश्च ते शोणितु लब्धु दारिके येनो अयं मोचितु व्याधि पापकः // SRS_३४.२ //
SK
पितुः श्रुणित्वा वचनं च दारिका ज्ञानावती तस्य इदं ब्रवीति / अलीनचित्ता च गिरं प्रभाषते शृणुष्व ताता यदहं ब्रवीमि ते // SRS_३४.३ //
SK
दृष्टस्तात मया स्वप्नो देवताया निदर्शितः / शृणुष्व मे भूमिपते भूतमर्थं विजानथ // SRS_३४.४ //
SK
(Vऐद्य २२६) सा देवता ममाविचन्मानुषं मांसशोणितम् / यो दद्यादस्य भिक्षुस्य व्याधेर्मुच्येत् स पापकात् // SRS_३४.५ //
SK
मया चोत्थाय शय्यातः प्रविश्यान्तःपुरं नृप / स्वप्नस्तदायमाख्यातो ज्येष्ठिकानां हि मातृणाम् // SRS_३४.६ //
SK
चेटिकानां मयाख्यातं का शक्ता कर्तुमीदृशम् / मानुषं शोणितं मांसं रससिद्धं सुसंस्कृतम् // SRS_३४.७ //
SK
भोजनं च प्रदातव्यं शोणितेन च लेपनम् / कृष्णवैसर्पतो एष कथं भिक्षुर्विमुच्यते // SRS_३४.८ //
SK
यदि क्रिया न क्रियते क्षिप्रमेतेन व्याधिना / कालं कुर्यादयं भिक्षुर्भैषज्येन विनेति वा // SRS_३४.९ //
SK
त्रिभवे को न सत्त्वस्त्याजयेत् स्वमांसशोणितम् / इमं दृष्ट्वा न को विद्वान् कुर्यात् कायस्मि निश्रयम् // SRS_३४.१० //
SK
अन्तःपुरस्यो प्रतिवेदयाम्यहं न एक नारीपि भणाति दास्ये / प्रियश्च मे भिक्षुः प्रियश्च आत्मा बोध्यर्थु त्यक्तं मय मांसशोणितम् // SRS_३४.११ //
SK
तेषां न कायेस्मि च भक्ति निश्रिता प्रेमापि नैवात्मनि चाणुमात्रम् / त्यक्त्वापि चात्मानु न भोति दुर्मनाः ये बोधि प्रार्थेन्ति शिवामशोकाम् // SRS_३४.१२ //
SK
अन्तःपुरं ततः श्रुत्वा सर्वं तद्विस्मितं अभूत् / न चात्रोत्सहते काचिदेनां योजयितुं क्रियाम् // SRS_३४.१३ //
SK
ततो मे नामितं चित्तं भिक्षोर्दास्यामि भोजनम् / स्वानि मांसान्यहं छित्त्वा शोणितेन च लेपनम् // SRS_३४.१४ //
SK
स्वकमूरुं मया छित्त्वा गृहीतं मांसशोणितम् / मांसपेशी मया पक्वा नानारससुसंस्कृता // SRS_३४.१५ //
SK
भिक्षोस्तस्यातुरस्याहं दास्यामि पितुरग्रतः / भोजनं मानुषं मांसं शोणितेन च लेपनम् // SRS_३४.१६ //
SK
शृणोहि मह्यं वचनं नराधिपा मनुष्यमांसस्मि अविद्यमाने / (Vऐद्य २२७) छित्त्वा स्वमांसानि मयोरुतो नृपा साधेत्व दत्तानिम धर्मभाणके // SRS_३४.१७ //
SK
एषो मयानुत्तरबोधि अर्थे स्वकात्त कायात्त कृतो महार्थः / भिक्षुश्च मुक्तः कृतु निर्विकारो मया च पुण्यं कृतमप्रमेयम् // SRS_३४.१८ //
SK
राजाप्यवोचद्दुहितां कथं ते छिद्यन्ति कायात्तु स्वकात्तु मांसे / भैषज्ययोगे क्रियमाणि दारिके मा ते अभूद् दुःख शरीरवेदना // SRS_३४.१९ //
SK
स राजधीता मतिमान् विशारदा तमालपी राज शृणु नराधिपा / श्रुत्वा च तत्र प्रतिपद्य योनिशो अचिन्तियः कर्मविपाकु तादृशः // SRS_३४.२० //
SK
पापेन कर्मेण कृतेन ताता निरये ऽपि सत्त्वा प्रपचन्ति दारुणे / निर्मांस भूत्वा च समांस भोन्ति पश्येतु कर्माण फलं अचिन्तियम् // SRS_३४.२१ //
SK
पापेन कर्मेण निर्मांसशोणिताः क्षणेन चो भोन्ति समांसशोणिताः / किं वा पुना तत् कुशलेन कर्मणा अधिमुक्तितो जायति मांसशोणितम् // SRS_३४.२२ //
SK
छिद्यन्ति मांसे न ममासि वेदना आहारि मे शोणितु नास्ति इञ्जना / न धर्मकायस्य व्रणो न छिद्रं यदि सर्वु छिद्येयु मम स्वमांसम् // SRS_३४.२३ //
SK
प्रीतिं मया धर्मि परां जनित्वा छित्त्वा प्रदत्तं स्वकमूरुमांसम् / न चो ममा तात व्रणेन दुःखं जानामि कायो यथपूर्वमासीत् // SRS_३४.२४ //
SK
(Vऐद्य २२८) औदुम्बरं पुष्पु यथैव ताता बहुकल्पकोटीषु कदाचि दृश्यते / एमेव एतादृश धर्मभाणको कदाचि दृश्यन्तिह जम्बुद्वीपे // SRS_३४.२५ //
SK
यथैव जाम्बूनद निष्कु भासते पश्यन्त सत्त्वा न वितृप्तिमेन्ति / एमेव एतादृश धर्मभाणकान् दृष्ट्वा न तृप्यन्तिह देवमानुषाः // SRS_३४.२६ //
SK
पीत्वा यथाच्छं सलिलं जनस्य तृषाभिभूतस्य तृषा विगच्छति / एमेव एते विदु धर्मभाणका धर्मामृतैस्तृष्ण विनेन्ति प्राणिनाम् // SRS_३४.२७ //
SK
सुत्यक्तमेतन्मय मांसशोणितं यद्दत्तु भिक्षुस्य गिलानकस्य / विसर्पु शान्तश्च स धर्मभाणके कृतं मया गौरवु बुद्धवर्णितम् // SRS_३४.२८ //
SK
चारित्रवन्तस्य बहुश्रुतस्य इमं समाधीवरधारकस्य / यन्मे तु त्यक्तं स्वकमात्ममांसमेतेष धर्माण भवेय्य लाभिनी // SRS_३४.२९ //
SK
यथैव गन्धः सुरभी मनोरमः कालानुसारी शुभ चन्दनस्य / प्रवाति गन्धो दशसु दिशासु एमेव गन्धोपम धर्मभाणकाः // SRS_३४.३० //
SK
यथैव मेरुर्दिशतासु दृश्यते समन्तप्रासादिकु दर्शनीयः / अवभासयन्तो दिशतासु रोचते तथैव मेरूपम धर्मभाणकाः // SRS_३४.३१ //
SK
यथैव स्तूपं पतमानु कश्चिद् व्युत्थापयेत् संस्करि पण्डितो नरः / यस्तत्र स्तूपे ऽपि प्रसादु कुर्याद् व्युत्थापितो येन स तस्य हेतुः // SRS_३४.३२ //
SK
(Vऐद्य २२९) एमेवयं धर्मस्तूपो गिलानको विमोचितो लोहितलेपनेन / स्वकेन मांसेन च धर्मगौरवाद् दीपो मया दीपितु जम्बुद्वीपे // SRS_३४.३३ //
SK
एषो ऽकरिष्यद् यदि भिक्षु कालं समाधिशब्दो ऽपिह जम्बुद्वीपे / निरुद्धु सत्त्वान सदाभविष्यत् चिकित्सिते ऽस्मिन् स समाधि लब्धः // SRS_३४.३४ //
SK
सर्वस्य लोकस्य परित्राणु भिक्षुरन्धस्य लोकस्य च चक्षुदायकः / रागस्य दोषस्य मोहस्य चैव चिकित्सको ऽयं मम वैद्यराजः // SRS_३४.३५ //
SK
महद्गते चित्ति सदा प्रतिष्ठितः प्रमाणु चर्याय न तस्य लभ्यते / सुविनिश्चितार्थेषु पदेषु शिक्षितो अनाभिभूतश्च परप्रवादिभिः // SRS_३४.३६ //
SK
न मह्य भूयो विनिपाततो भयं स्त्रीत्वं पुनर्मे न च भूयु भेष्यति / सहस्रकल्पान च कोटियो भुयो कृत्वा परं गौरवु धर्मभाणके // SRS_३४.३७ //
SK
यो बुद्धक्षेत्रान् यथ गङ्गवालिकाः रतनान पूर्णान् ददि नायकानाम् / यश्चैव पादाङ्गुलिमेक दद्यादिदं ततः पुण्यु विशिष्यते परम् // SRS_३४.३८ //
SK
सा दारिका कालमितश्च कृत्वा अद्राक्षि बुद्धान सहस्रकोट्यः / सर्वेष चो शासनि प्रव्रजित्वा इमं वरं शान्तु समाधि देशयी // SRS_३४.३९ //
SK
सर्वेष तेषां द्विपदोत्तमानां परिनिर्वृतानां चरमिस्मि काले / (Vऐद्य २३०) प्रव्रज्यलाभिन्यभु नित्यकालमसंकिलिष्टाः सुगतान पुत्रकाः // SRS_३४.४० //
SK
दीपप्रभस्याथ तथागतस्य चरित्व सा शासनि ब्रह्मचर्यम् / स्त्रीभावु तस्मिन् विनिवर्तयित्वा अभूषि भिक्षुस्तद धर्मभाणकः // SRS_३४.४१ //
SK
मैत्रेय ज्ञानंबलु सो नरेन्द्रः सद्धर्मपरिग्राहकु नित्यकालम् / दीपंकरो ऽसौ अभूद्धर्मभाणको अहं च आसं तद राजधीता // SRS_३४.४२ //
SK
स्वकेन मांसेन च शोणितेन चो उपस्थितो मे तद धर्मभाणकः / शाठ्यं च सर्वं परिवर्जयित्वा इमं समाधिं प्रतिकाङ्क्षता तदा // SRS_३४.४३ //
SK
येभी तदा रोदितु भिक्षु दृष्ट्वा गिलानकं पीडितु वेदनाभिः / अविवर्तिकास्ते सद सर्वि भूवन् न जातु याता विनिपातभूमिम् // SRS_३४.४४ //
SK
नाभूषि तेषां सद अक्षिरोगो न शीर्षरोगो न च कर्णरोगः / न घ्राणरोगो न च जिह्वरोगो न च दन्तशूलं न कदाचिदासीत् // SRS_३४.४५ //
SK
समन्तप्रासादिकु भोन्ति नित्यं शिरीय तेजेन ज्वलन्तकायाः / द्वात्रिंशकेतुशतपुण्यलक्षणा उपस्थितो यैस्तद भिक्षु ग्लानकः // SRS_३४.४६ //
SK
(Vऐद्य २३१) मह्यं च ते शासनि प्रव्रजित्वा प्रलुज्यमानानिमु बुद्धबोधिम् / धारित्व ते गञ्जु तथागतानां द्रक्ष्यन्ति बुद्धान सहस्रकोटियो // SRS_३४.४७ //
SK
सुसंगृहीत्वानिम बुद्धबोधिं धारेत्व नित्यं च हि गौरवेण / ते अर्थु कृत्वा विपुलं प्रजानां द्रक्ष्यन्ति अक्षोभ्य नराणमुत्तमम् // SRS_३४.४८ //
SK
श्रुत्वा च ते चर्य निरुत्तरामिमां लप्स्यन्ति प्रीतिं चरियां निरामिषाम् / श्रुत्वा च ते आत्मन पूर्वचर्यां काहिन्ति बुद्धान उदारपूजाम् // SRS_३४.४९ //
SK
दृष्टा च भिक्षून् विदु शीलवन्तो निःशाठियेनो सद सेवितव्याः / अखिलं च दोषं च विवर्जयित्वा सेवेत भिक्षुं तद धर्मभाणकाः // SRS_३४.५० //
SK
आघातु क्रोधं च विवर्जयित्वा पूजेथ पुत्रान् मम धर्मशासने / मा अन्धभूता बहुकल्पकोटियो विनिपातप्राप्ताश्च भवेत दुःखिताः // SRS_३४.५१ //
SK
न शीलु त्रायेत श्रतं च तस्य न ध्यानु त्रायेन्न अरण्यवासः / तदा नु त्रायेन्न च बुद्धपूजा व्यापादु कृत्वान परस्परेण // SRS_३४.५२ //
SK
इति श्रीसमाधिराजे ज्ञानावतीपरिवर्तश्चतुस्त्रिंशतितमः
SK
(Vऐद्य २३२) ३५ Sउपुष्पचन्द्रपरिवर्तः |
SK
अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् प्रष्टव्यप्रश्नव्याकरणाय | एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - तेन ह्यानन्द स्वके आसने निषद्य पृच्छ त्वं तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि, अहं ते तस्य तस्य प्रश्नस्य व्याकरणेन चित्तमाराधयिष्ये | एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - कृतावकाशो ऽस्मि भगवन्, कृतावकाशो ऽस्मि सुगत प्रश्नव्याकरणाय | अथ खल्वायुष्मानानन्दो भगवतः पुरतः आसने निषद्य भगवन्तमेतदवोचत् - को नु भगवन् हेतुः कः प्रत्ययो यदिह एकत्या बोधिसत्त्वा बोधिसत्त्वचारिकां चरमाणा हस्तच्छेदान् पादच्छेदान् कर्णच्छेदानक्ष्युत्पाटनानि अङ्गोत्तमाङ्गच्छेदान् निगच्छन्ति प्रत्यङ्गच्छेदांश्च? विविधानि दुःखानि प्रत्यनुभवन्ति? नो च हीयन्ते?न च परिक्षीयन्ते ऽनुत्तरायाः सम्यक्संबोधेः? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - सचेत् त्वमानन्द जानीया यानि मे दुःखानि प्रत्यनुभूतानि इमामनुत्तरां सम्यक्संबोधिं समुदानयितुम्, एतदपि ते च प्रतिभायात् | किं पुनर्यत्तथागतं परिप्रष्टव्यं मन्यथाः | तद् यथापि नाम आनन्द इह काश्चिदेव पुरुषः अधस्तात् पादतलमुपादाय यावन्मूर्धकादादीप्तो भवेत् प्रज्वलितः एकज्वालीभूतः, तं कश्चिदेव पुरुष उपसंक्रम्य एवं वदेत् - एहि त्वं भोः पुरुष अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति | तत् किं मन्यसे आनन्द अपि तु स पुरुषः अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेत रमेत परिचारयेत? आनन्द आह - नो हीदं भगवन् | भगवानाह - क्रीडेतानन्द स पुरुषो रमेत परिचारयेत परिकल्पमुपादायानिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः | न त्वेव तथागतस्य पूर्वं बोधिसत्त्वचारिकां चरमाणस्य सत्त्वांस्त्रिभिरुपायैर्दुःखितान् दृष्ट्वा दरिद्रान्नाभूत् सुखं वा सौमनस्यं वा चित्तप्रहर्षो वा | ये आनन्द बोधिसत्त्वा महासत्त्वाः पूर्वं बोधिसत्त्वचारिकां चरमाणा अखण्डशीला भवन्ति अछिद्रशीलाः अकल्माषशीला अशबलशीलाः अपरामृष्टशीलाः अचलितशीलाः, अलुलितशीला अकोप्यशीलाः, नोत्तानशीलाः,न परदर्शनशीलाः न विसंवादशीलाः, ऋजुशीलाः यथाप्रतिज्ञाशीलाः सत्त्वानुग्रहशीलाः | एवंरूपेण शीलेन समन्वागता भवन्ति, ते आनन्द बोधिसत्त्वा महासत्त्वा अनन्तां बोधिसत्त्वचारिकां चरमाणा न हस्तच्छेदेन परिहाणिं निगच्छन्ति | न पादच्छेदेन परिहाणिं निगच्छन्ति | न कर्णनासाच्छेदेन परिहाणिं निगच्छन्ति | (Vऐद्य २३३) न नेत्रोत्पाटनशीर्षच्छेदेन परिहाणिं निगच्छन्ति | नाङ्गप्रत्यङ्गच्छेदेन परिहाणिं निगच्छन्ति | न च विविधानि दुःखानि प्रत्यनुभवन्ति | क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ||
SK
भूतपूर्वमानन्द अतीते ऽध्वन्यसंख्येयकल्पैरसंख्येयतरैर्विपुलैरप्रमाणैरचिन्त्यैरतुल्यैरमाप्यैरपरिमाणैर्यदासीत् | तेन कालेन तेन समयेन रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान् | तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नवतिकल्पकोटीनियुतशतसहस्राण्यायुष्प्रमाणमभूत् | सर्वत्र च दिवसे नवतिकल्पकोटीसहस्राणि सत्त्वानामवैवर्तिकतायां बुद्धधर्मेषु प्रतिष्ठापयति स्म | तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य चरमिकायां पञ्चाशति सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने इमे एवंरूपाः सूत्रान्ता बहुजनजुगुप्सिता बहुजनविवर्जिता बहुजनविरुद्धा महाजनोत्सृष्टाश्चाभूवन् | महाभयभैरवकाले वर्तमाने महोपद्रवे अतिवृष्टिकालसमये अनावृष्टिकालसमये वर्तमाने व्यालकालसमये वर्तमाने विद्युत्कान्तारकल्पसमये दुर्भिक्षकालसमये मिथ्यादृष्टिकालसमये असम्यग्दृष्टिकालसमये तीर्थिकमन्त्रपर्येष्टिकालसमये बुद्धबोधेः प्रलुज्यमानकालसमये वर्तमाने सप्त बोधिसत्त्वसहस्राणि ग्रामनगरनिगमरा राजधानीजनपदेभ्यो निर्वासितानि समन्तभद्रं नाम वनखण्डं तदुपनिश्रित्य विहरन्ति स्म सार्धं सुपुष्पचन्द्रेण धर्मभाणकेन, यस्तेषां भिक्षूणां धारणीधर्मपयाय देशयति स्म | स खलु पुना राजा सुपुष्पचन्द्रो धर्मभाणक एको रहोगतः प्रतिसंलीनो दिव्येन चक्षुषा अतिक्रान्तमानुषेण पश्यति स्म - बह्वीर्बोधिसत्त्वकोटिरवरुप्तकुशलमूला अन्योन्येभ्यो बुद्धक्षेत्रेभ्यः इहोपपन्नाः | सचेत्ते लभेरन् धारणीधर्मपर्यायश्रवणाय, न निवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः | अथ न लभेरन् धारणीधर्मपर्यायश्रवणाय, विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः | अथ खलु सुपुष्पचन्द्रो धर्मभाणकः स्मृतः संप्रजानंस्ततः समाधेर्व्युत्थाय येनासौ महान् बोधिसत्त्वगणस्तेनोपसंक्रान्तः उपसंक्रम्य तं महान्तं बोधिसत्त्वगणमेतदवोचत् - गमिष्यामः कुलपुत्राः | ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वेभ्यो धर्मं देशयिष्यामः | अथ खलु स महान् बोधिसत्त्वगणः सुपुष्पचन्द्रं धर्मभाणकमेतदवोचत् - नास्माकमभिप्रेतं यदायुष्मानितो वनषण्डाद् ग्रामनगरनिगमराष्ट्रराजधानीरवतरेत् | तत्कस्य हेतोः? बह्वयो ऽभिमानिका भिक्षुभिक्षुण्युपासकोपासिकाः| सद्धर्मप्रतिक्षेपकालश्च वर्तते | तमायुष्मन्तं जीविताद्वयवरोपयिष्यन्ति | आयुष्मांश्चातीव प्रासादिको ऽभिरूपो दर्शनीयः प्रथमयौवनसमन्वागतो भद्रके वयसि वर्तते | स धौतकाञ्चनहाटकच्छविः (Vऐद्य २३४) शङ्खकुन्देन्दुवर्णयोर्णया प्रतिमण्डितो ऽपि शोभितललाटो नीलकुञ्चितकेशोणीषश्च | मा ते राजपुत्रा वा अन्ये वा तत्प्रतिमा ईर्ष्यामात्सर्योपहचेतसो जीविताद्वयवरोपयिष्यन्ति | अथ खलु सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणमेतदवोचत् - सचेन्मे आत्मा आरक्ष्यो भवेत्, न मया अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शासने आरक्षा कृता भवेत् | तस्यां च वेलायामिमा गाथा अभाषत -
SK
न आत्मसंज्ञाय वसित्व जातु शक्यं इहा शासनि रक्ष कुर्वणा / महाविताना सुगतान बोधिः प्रकाशना पश्चिमि कालि दारुणे // SRS_३५.१ //
SK
यो आत्मसंज्ञा प्रजहित्व सर्वशः सत्त्वानिमान् पुद्गलवादनिश्रितान् / रूपाणि शब्दांश्च रसांश्च गन्धान् स्प्रष्टव्यु वर्जेति स रक्षि शासनम् // SRS_३५.२ //
SK
बुद्धान कोटीनयुतान्युपस्थिहेदन्नेन पानेन प्रसन्नचित्तः / छत्रैः पताकाभि दीपक्रियाभिः कल्पान कोटी यथ गङ्गवालिकाः // SRS_३५.३ //
SK
यश्चैव सद्धर्म प्रलुज्यमाने निरुध्यमाने सुगतान शासने / रात्रिंदिवं एक चरेय्य शिष्यान् इदं ततः पुण्यु विशिष्टु भोति // SRS_३५.४ //
SK
ये दानि तेषां पुरुषर्षभाणां सद्धर्मि लुज्यन्ति उपेक्षि भावयी / न तैर्जिना सत्कृत भोन्ति केचित् न चो कृतं गौरवु नायकेषु // SRS_३५.५ //
SK
युष्मे भोथ सुखी स्वकार्थु कुरुथा गोपायथा आत्मनं युष्मे भोथ इहाप्रमत्त विनये मैत्रीविहारी सदा / शीलं रक्षथ उज्ज्वलं अशबलं शुद्धं शुचि निर्मलं येही रक्षितु शीलु भोति अमलं बुद्धेभि संवर्णितम् // SRS_३५.६ //
SK
(Vऐद्य २३५) येही सत्कृतु भोन्ति सर्वि सुगता यावन्त पूर्वे अभूत् तेहि त्रायितु भोन्ति सर्वजनता या बोधिसंप्रस्थिता / तेही उद्धरिताः भवन्ति नरका सत्त्वा बहू पापकाः येही रक्षितु भोन्ति शीलु अमलं बुद्धैः प्रशस्तं पुरा // SRS_३५.७ //
SK
दानं देथ विशिष्ट धर्मरतनं क्षान्तिं सदा रक्षथारण्यं चाश्रयथा समाधिकुशला भावेथ चो मार्दवम् / मा चो विग्रह सर्वथा विचरथा शिष्टां शिवां चारिकां गच्छामो वयु राजधानि नगरं सत्त्वान त्राणार्थिकाः // SRS_३५.८ //
SK
तस्मिन्नोतरती महामतिधरे सत्त्वाग्रसारे ऋषौ वर्तेन्ती इमि अश्रुकाः सुकरुणं पादेहि अन्ये पती / मा ही ओतरही महामति विदु प्रेक्ष वने पादपान् मञ्जुगन्ध मनोरमान् सुरुचिरानात्मान त्राणात्मकः // SRS_३५.९ //
SK
ते ऽपी पूर्व विनायका दशबलाः शान्तेन्द्रियाः सूरताः गत्वा काननि शैलशृङ्गशिखरे बोधाधिगम्यां वराम् / श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः तेषां शिक्षिहि कानने निवसतो मा गच्छ त्वं सुव्रत // SRS_३५.१० //
SK
गात्रं चित्रितु लक्षणैः सुरुचिरैः केशाश्च नीलास्तवा वर्णः काञ्चनसंनिभप्रभकरो ओभासते मेदिनीम् / ऊर्णा ते भ्रमुखान्तरे सुरुचिरा शङ्खनिकाशप्रभा मा ते ईर्ष्यु जनित्व कायु विकिरी राजानुराजे तथा // SRS_३५.११ //
SK
अथ खल्वानन्द सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणं गाथयाभ्यभाषत -
SK
यावन्तः परिमेण आसि सुगताः सर्वज्ञ क्षीणास्रवाः सर्वे ते ऽथ करिंसु लोकि त्रिभवे बोधाधिगम्यां वराम् / श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः तेषां शिक्षय बोधिसत्व नियुता सत्त्वान त्राणार्थिकः // SRS_३५.१२ //
SK
सर्वे कृत्व प्रदक्षिणं ऋषिविदुं पादानि वन्दित्वना घोरं आश्वसतो स्वनन्ति करुणं क्रन्दन्त आर्तस्वरम् / अन्ये छिन्न प्रपात मेदिनि पती मूर्च्छित्व सालो यथा नो चा ते परिवर्ति पुण्यनिचितः सत्त्वार्थकामो ऋषिः // SRS_३५.१३ //
SK
पात्रं चीवरु गृह्य प्रस्थितु ऋषी सिंहो यथा केसरी नो चास्यो गुणदोष तत्र अकरी धर्मस्वभावे स्थितः / (Vऐद्य २३६) घने काननि अस्मि लोकि वसतः सत्त्वा अपाये पति सो ऽभूत्तं नगरं गमी पुरवरं सत्त्वानं त्राणार्थिकः // SRS_३५.१४ //
SK
अथ खलु सुपुष्पचन्द्रो धर्मभाणको ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वानां धर्मं देशयति स्म | तेन पूर्वाह्णे अवतरित्वा सत्त्वानां नवनवति प्राणिकोट्यः अवैवर्तिंकतायां स्थापिताः अनुत्तरायाः सम्यक्सःबोधौ | न च ताः रत्नावतीः राजधानीमनुप्राप्तः | सो ऽनुपूर्वेण ताः रत्नावतीः राजधानीमनुप्राप्तः | स तस्याः रत्नावत्याः राजधान्यामुपसःक्रमित्वा अन्यतरस्मिन् प्लक्षसालमूले व्यहार्षीत् | स तस्या रात्र्या अत्ययेन ताः रत्नावतीः राजधानीः प्राविशत् | प्रविश्य षटत्रिःशत्प्राणिकोटीरवैवर्तिकत्वे स्थापयति बुद्धधर्मेषु | न च तावद् भक्तकृत्यमकार्षीत् | स भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य आस्थितक एव रात्रिःदिवमतिनामयति स्म | स तस्या रात्र्या अत्ययेन द्वितीये प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य त्रयोविःशतिप्राणिकोटीरवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म | न च तावद् भक्तकृत्यमकार्षीत् | स द्वितीयभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव रात्रिःदिवमतिनामयति स्म | स तस्याः रात्र्यामतीतायाः त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावतीः राजधानीः प्रविश्य नवनवतिप्राणिकोटीशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म | न च तावद् भक्तकृत्यमकार्षीत् | स त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव तृतीयः रात्रिःदिवमतिनामयति स्म | स तस्या रात्र्या अत्ययेन चतुर्थे प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य नवनवतिप्राणिशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति | स चतुर्दिवसभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव रात्रिःदिवमतिनामयति स्म | स तस्या रात्र्या अत्ययेन पञ्चमे दिवसे रत्नावतीः राजधानीः प्रविश्य राज्ञो ऽन्तःपुरः प्राविशत् | प्रविस्य चाशीतिः स्त्रीसहस्राण्यवैवर्तिकत्वे ऽनुत्तरायाः समक्सःबोधौ प्रतिष्ठापयति स्म | तस्माच्च नगरात् सर्वसत्त्वानवैवर्तिकतायाः स्थापयति बुद्धधर्मेषु | स तस्या रात्र्या अत्ययेन षष्ठे प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य सहस्रः राजपुत्राणामवैवर्तिकत्वे स्थापयति स्म अनुत्तरायाः सम्यक्सःबोधौ | न च तावद् भक्तस्य कृत्यः करोति स्म | स षष्ठे भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य रात्रिःदिवमतिनामयति स्म | स तस्य रात्र्या अत्ययेन सप्तमे पुरोभक्ते रत्नावतीः राजधानीः प्रविश्याद्राक्षीच्छूरदत्तः राजानमुद्यानमभिनिष्क्रमन्तः सुवर्णमयेन रथेन रूप्यमयैः पक्षभिरुरगसारचन्दनमय्या ईषया वैदूर्यमयैश्चक्रैः उच्छ्रितच्छत्रध्वजसमलःकृतेन ईषापट्टावनद्धेन दूष्यपट्टसःछादितेन (Vऐद्य २३७) यत्राष्टौ शतानि कुमारीणाः रत्नसूत्रपरिगृहीतानाम्, यास्तः रथः वाहयन्ति अभिरूपाः प्रासादिका दर्शनीयाः परमया शुभ्रवर्णपुष्कलतया समन्वागताः प्रितिकार्ये औद्विल्यकार्ये बालानाः न पिण्डतानाम् | चतुरशीतिक्षत्रियमहाशालकुलसहस्राणि पृष्ठतः समनुबद्धान्यभूवन् | चतुरशीतिब्राह्मणमहाशालसहस्राणि चतुरशीतिगृहपतिमहाशालसहस्राणि पृष्ठतः पृष्ठतो ऽनुबद्धान्यभूवन् | पञ्च च दुहितृशतानि रत्नमयीशिबिकाभिरूढाः पुरतो निर्यान्ति स्म | ताः सहदर्शनेनैव तस्य भिक्षोरवैवर्तिका अभूवन्ननुत्तरायाः सम्यक्सःबोधौ | अष्टःअःटिश्चान्तःपुरिकाशतसहस्राणि सहदर्शनेनैव तस्य भिक्ःउरवैवर्तिकान्यभूवन्ननुत्तरायाः सम्यक्सःबोधौ | स च महाजनकायो मणिकुण्डलान्यपनीय पादुकाश्चापनीय एकाःसः चीवरः प्रावृत्य दक्ःइणः जानुमण्डलः पृथिव्याः प्रतिःठाप्य येन स भिक्ःउस्तेनाञ्जलिः प्रणम्य नमस्यमानः स्थितो ऽभूत् | अथ खलु ता अपि कुमार्थः पूर्वकैः कुशलमूलैः सःचोदिताः समानास्ताभ्यः शिबिकाभ्यो ऽवतरित्वा एकाःसः चीवरः प्रावृत्य दक्ःइणः जानुमण्डलः पृथिव्याः प्रतिःठाप्य येन स भि स्तेनाञ्जाल प्रणम्य गाथाभिरध्यभाःअन्त -
SK
अवभासितमद्यैवं रविणेव समन्ततः / भिक्षुणा प्रविशन्तेन जनकायश्च धिष्ठितः // SRS_३५.१५ //
SK
रागदोषाः समुच्छिन्ना मोहाश्च विधमीकृताः / क्रोधो दोषश्च ईर्ष्या च सर्वं छिन्नं तदन्तरम् // SRS_३५.१६ //
SK
न राजं प्रेक्षते कश्चिन्नं चैवमनुयात्यसौ / यो राज्ञः शूरदत्तस्य परिवारः सुतादिकः // SRS_३५.१७ //
SK
पूर्णमास्यां यथा चन्द्रो नक्षत्रपरिवारितः / एवं स शोभते भिक्षू राजपुत्रपुरस्कृतः // SRS_३५.१८ //
SK
स्वर्णबिम्बं यथा चित्रं कुशलेभिः सुचित्रितम् / पुष्पितः सालराजो वा एमेव भिक्षु शोभते // SRS_३५.१९ //
SK
शक्रश्च देवेन्द्र महानुभावः सहस्रनेत्राधिपतिः पुरंदरः / सुमेरुमूर्ध्नि त्रिदशान ईश्वरो एमेव भिक्षुः प्रविशतु शोभते ऽयम् // SRS_३५.२० //
SK
ब्रह्मेव मन्ये प्रतिष्ठितु ब्रह्मलोके सुनिर्मितो वाधिपति देवपुत्रः / सुयामु देवो यथरिव कामधातौ एमेव भिक्षुः प्रविशतु शोभते ऽयम् // SRS_३५.२१ //
SK
(Vऐद्य २३८) सूर्यो वा मन्ये प्रतपति अन्तरीक्षे सहस्ररश्मिर्विधमिय अन्धकारम् / ओभासयन्तो समु दिशता समन्ताद् एमेव भिक्षुः प्रविशतु शोभते ऽयम् // SRS_३५.२२ //
SK
दानं ददित्वा सुविपुल नन्तकल्पान् रक्षित्व शीलं अशबलु नित्यकालम् / भावेत्व क्षान्तिमसदृश सर्वलोके सो लक्षणेभिः परिवृतु एव शोभी // SRS_३५.२३ //
SK
जनयित्व वीर्यं अरियजनप्रशस्तं सेवित्व ध्याना चतुरि अलीनचित्तः / उत्पाद्य प्रज्ञां निहनिय क्लेशजालं तेनैष भिक्षुः प्रतपति सर्वलोके // SRS_३५.२४ //
SK
ये बुद्धवीरा असदृश सत्त्वसाराः समतीत शूरा विकिरिय धर्मश्रेष्ठान् / ये ऽनागते ऽध्वे तथरिव प्रत्युत्पन्ने तेनैष पुत्रो वशगानु धर्मराज्ञः // SRS_३५.२५ //
SK
मा ते अनित्यं भवतु कदाचि भिक्षो यद्रपतैवं प्रतपसि सर्वलोके / संपश्य तेजो सुरुचिर शब्दघोषो राजान तेजो न तपति सुष्ठु भूयः // SRS_३५.२६ //
SK
धर्मो यथायं अधिगतु आत्मना ते बुद्धानुज्ञातो विचरसि सर्वलोके / एमेव सर्वे विजहित इस्त्रिभावं सर्वे ऽपि यामो यथरिव एष भिक्षुः // SRS_३५.२७ //
SK
ते अञ्जलीयो दशनख कृत्व सर्वे भाषित्व गाथाः क्षिपिंसु पिलन्धनानि / सौवर्णमाला तथपि च मुक्तहारानवतंसकानि तथपि च कर्णनिष्कान् // SRS_३५.२८ //
SK
राजा वै यथ चक्रवर्ति बलवान् सर्वान् विपश्यी मही पुत्रसंज्ञ उपस्थपेति विचरन् द्वीपानि चत्वारिमे / (Vऐद्य २३९) श्रेष्ठी क्षत्रिय ब्राह्मणां गृहपती ये कोट्टराजा स्वका नो तेषामतिरेकु स्नेह जनयी सर्वेषु प्रेमं समम् // SRS_३५.२९ //
SK
एवं शिक्षित धारणीवशगतो भिक्षू अयं सूरतो बोध्यङ्गा बल इन्द्रियान् बिभजति मार्गं च अष्टाङ्गिकम् / चन्द्रो वा यथ रात्रिये प्रतपति तारागणैर्मध्यगो सूर्यश्चो यथ मण्डलं प्रतपते वैरोचनस्तेजवान् // SRS_३५.३० //
SK
सर्वान् बुद्धान्नमस्यामो दशबलान् शान्तेन्द्रियान् सूरतान् येषां वर्णनु कश्चिदुत्सहि नरो कल्पाशतैः क्षेपितुम् / कल्पा कोटिसहस्र भाषितु बहून् नो चेद् गुणा क्षेपितुं नो चो वर्ण क्षिपेय लोकप्रवरे एकस्य रोमस्य हि // SRS_३५.३१ //
SK
येनो चक्र प्रवर्तितं असदृशं ज्ञानोपदं देशितं निपुणं धर्म प्रभाषितस्य विरजं नो चास्य दृश्यं क्वचित् / श्रमणाब्राह्मणदेवानाग असुरौर्मारैः सब्रह्मादिभिर् नो शक्तो गुणआर्णवः प्रकथितुं बुद्धस्य सर्वज्ञिनः // SRS_३५.३२ //
SK
वन्दामो जिनवैद्यराजमसमं यस्येदृशा औरसाः भाषित्वा इमि गाथ सर्वि मुदिता राज्ञः कुमार्यस्तदा / स्वर्णं काञ्चनचूर्णकांश्च प्रकिरी चैलानि च प्रस्तरी चूडानां च मणीन् सहाररुचिरा कोटीशतामूलिका तं भिक्षुं अभिछादयित्व मुदिता बोधाय संप्रस्थिताः // SRS_३५.३३ //
SK
अथ खलु राज्ञः शूरदत्तस्यैतदभवत् - विप्रतिपन्नं बतेदमन्तःपुरं जनकायश्च व्युत्थितः | स च जनो मणिकुण्डलान्यपनीय एकांसं चीवरमावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन स भिक्षुस्तेनाञ्जलिं प्रणम्य नमस्यति स्म | स च राजा शूरदत्तस्तावत् प्रासादिको ऽभूत् तावद्दर्शनीयो न च तावदभिरूपो यावदभिरूपः स भिक्षुः | स राज्यहेतोरुत्त्रस्तो ऽभूत् | रूपकायपरिनिष्पत्तिं च तस्य भिक्षोदृष्ट्वा अतीव रोषमकार्षीत् | तस्य च भिक्षो राजमार्गस्थस्य राज्ञश्चक्षुर्भ्यां प्रविष्टः | तस्यैतदभवत् - संरक्तचित्तेनैतेन भिक्षुणा ममान्तःपुरः दृष्टम् | अक्षिभ्यां चानेन संकेतः कृतः | तस्यैतदभवत् - क इदानीमिमं भिक्षुं जीविताद् व्यवरोपयिष्यतीति | अथ राज्ञः शूरदत्तस्यः पृष्ठतः पुत्रसहस्रमनुबद्धमभूत् | स तानामन्त्रयति स्म - व्यवरोपयध्वं कुमारा एतं भिक्षुं जीवितादिति ||
SK
(Vऐद्य २४०) अथ खलु ते कुमारा राज्ञः शूरदत्तस्य प्रतिवहन्ति स्म तस्य भिक्षोः कृतशः | तस्यैतदभवत् - पुत्रा अपि मे आज्ञां न कुर्वन्ति | एक एवाहं स्थापितः अद्वितीयः | क इदानीमिमं भिक्षुं जीविताद्वयवरोपयिष्यति? अथ राज्ञः शूरदत्तस्य नन्दिको नाम वध्यघातको ऽभूत् चण्डः साहसिको रौद्रः | अथ राजा शूरदत्तस्तुष्ट उदग्रः आत्तमनाः एवं चिन्तयामास - अयं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयिष्यति | अथ खलु नन्दिको वध्यघातको येन राजा शूरदत्तस्तेनोपसंक्रामत् | अथ खलु राजा शूरदत्तस्तमाह - शक्ष्यसि त्वं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयितुम्? महान्तं ते ऽभिच्छादं दास्यामि | नन्दिक आह - सुष्ठु देव, यथाज्ञापयसि | अद्यैनं भिक्षुं जीविताद्वयवरोपयिष्यामि | तेन हि नन्दिक यस्येदानीं कालं मन्यसे | तीक्ष्णमसिं गृहीत्वा एतं भिक्षोर्हस्तपादं छिन्द | कर्णनासां छिन्द | अनेन मे संरक्तचित्तेनान्तःपुरं प्रेक्षितम् | अतो ऽस्य संदंशेनाक्षिणी उत्पाटय | अथ नन्दिकेन वध्यघातकेन तस्यामेन वेलायां तीक्ष्णमसिं गृहीत्वा भिक्षोहस्तपादाश्छिन्ना अक्षिणी चोत्पाटिते | ततो ऽसौ महान् जनकायो रुदन् क्रन्दन् परिदेवमानः पुनरपि रत्नावतीं राजधानीं प्रविष्टः ||
SK
अथ खलु राजा शूरदत्तः सप्ताहस्यात्ययादुद्यानगतो न रमते न क्रीडति न परिचारयति | स उद्यानान्निवृत्तः सप्ताहस्यात्ययेन रत्नावतीं राजधानीं प्राविशत् | सो ऽद्राक्षीत्तं भिक्षुं राजमार्गे छोरितं सप्ताहमृतकं अविवर्णशरीरम् | तस्यैतदभूत् - यथायं भिक्षुरविवर्णशरीरः, निःसंशयमेष भिक्षुरवैवर्तिको भविष्यत्यनुत्तरायां सम्यक्संबोधौ | पापं मया कर्म कृतं महानगरकसंवर्तनीयम् | क्षिप्रमेव मया महानिरये प्रतिपत्तव्यं भविष्यति | तस्यैवं चिन्तयतः उपर्यन्तरीक्षे चतुरशीतिभिर्देवपुत्रसहस्रैरेकरुतस्वरघोषशब्दमुदीरितम् - एवमेतन्महाराज यथा वदसि | अवैवर्तिक एष भिक्षुरनुत्तर्ःय्ःं सम्यक्संबोधौ | तस्य त्ःवद् भूयस्य्ः म्ःत्रय्ः भयं च त्र्ःसं च स्तम्भितत्वं च रोमहर्षश्चोत्पन्नो विप्रतिस्ःरश्च्ःभूत् | अथ र्ःज्ः शूरदत्तो दुःखितो दुर्मन्ः विप्रतिस्ःरी तस्य्ःं वेल्ःय्ःमिम्ः ग्ःथ्ः अभ्ःषत -
SK
राज्यं त्यजिष्ये तथपि च राजधानीं हिरण्य सुवर्णं तथ मणिमुक्त रत्नान् / घातेयमात्मा स्वय शस्त्र गृह्य निहीनकर्मास्मिह बालबुद्धिः // SRS_३५.३४ //
SK
सुपुष्पचन्द्रो ऽयमिह भिक्षुरासीद् द्वात्रिंशता कवचितु लक्षणेभिः / ओभासयन्तो प्रविशति राजधानीं नक्षत्रराजो यथरिव पूर्णमास्याम् // SRS_३५.३५ //
SK
(Vऐद्य २४१) अहं च हीनः प्रलुलितु कामभोगे नारीगणेना प्रमुदितु निष्क्रमामि / रथाभिरूढः परिवृतु क्षत्रियेभिः अयं च एती सुरभि सुनेत्र भिक्षुः // SRS_३५.३६ //
SK
तं दृष्ट्व भिक्षुं प्रमुदितु नारिसंघो सौवर्णमालानवसिरि प्रेमजाता / सर्वे गृहीत्वा दशनखु अञ्जलीयो गाथाभिगीतैस्तमभिस्तविंसु भिक्षुम् // SRS_३५.३७ //
SK
ते गीतशब्दाः प्रशमित सर्वि राज्ञः स रथाभिरूढः परिवृतु क्षत्रियेभिः / अयं च एती सुरभि सुनेत्रो भिक्षुर्महानुभावः सुगतवरस्य पुत्रः // SRS_३५.३८ //
SK
मम चैव चित्तं परम निहीनु मासीदीर्ष्यां च क्रोधं च तत्र जनेमि मूढः / मुदितं विदित्व सुविपुल नारिसंघो आलोक्य भिक्षुं प्रविशतु राजधानिम् // SRS_३५.३९ //
SK
अतिघोररूपा अहु गिरि भाषि तत्र पुत्रसहस्रं भणमि तत्क्षणस्मिन् / गत्वान भिक्षुं प्रकुरुत खण्डखण्डामेषो हि मह्यं परम अमित्र घोरः // SRS_३५.४० //
SK
ते कुमार सर्वे परमसुशीलवन्तो स्वहितैषिचित्ता अभिरत येन भिक्षुः / आणत्ति देवा न करिय एवरूपा शोकाभिभूतो अहमभु तस्मि काले // SRS_३५.४१ //
SK
इमु भिक्षु दृष्ट्वा परम सुशीलवन्तं मैत्र्या उपेतं पितरमिव प्रवृत्तम् / सुदृष्टचित्तो अवसरि घातनार्थं पतितो अवीचौ अहु पश्चकाले // SRS_३५.४२ //
SK
यन्नन्दिको ऽयं इह स्थितु राजमार्गे अतिरौद्रकर्मा दुखकरु मानुषाणाम् / (Vऐद्य २४२) आणत्ति तेना मम कृत एवरूपा मालागुणो वा अयमिह छिन्न भिक्षुः // SRS_३५.४३ //
SK
समन्तभद्रे वनवरि प्रेमणीये द्विजाभिकीर्णे कुसुमितमञ्जुगन्धे / सो चापि अन्यः सुविपुल भिक्षुसंघो मात्रा विहीनो यथरिव एकपुत्रकः // SRS_३५.४४ //
SK
उत्तिष्ठ भिक्षो प्रतिवस काननस्मिन् कृतो ते अर्थः सुविपुल मानुषाणाम् / यद्राजधानीमिमु तद आगतो ऽसि एष्यन्ति भिक्षु सुकरुण क्रन्दमानाः // SRS_३५.४५ //
SK
पुष्पध्वजानि इम कृत दक्षिणेना वामेन अन्ये सुरुचिर दर्शनीयाः / प्रज्ञप्त मार्गः स्फुट कृत चीवरेभि उत्तिष्ठ भिक्षो प्रतिभण धर्म श्रेष्ठम् // SRS_३५.४६ //
SK
चिरप्रविष्टो तुहु इह राजधान्यामेष्यन्ति भिक्षु सुकरुणु क्रन्दमानाः / मा अन्तरायो भव सिय जीवितस्य प्रलोपकाले जिनवरशासनस्मिन् // SRS_३५.४७ //
SK
यथैव कश्चित पुरुष महानुभावो दिक्षु विदिक्षु सततु विघुष्टशब्दः / महाप्रपातं प्रपतति वसुंधरायां सर्वाभिभूय त्रिभवमिमं समन्तात् // SRS_३५.४८ //
SK
एमेव भिक्षुरिह पतितो धरण्यां सुरूपरूपो भूषितु लक्षणैर्वरैः / अदोषदुष्टो मय कृत पापबुद्धिना सुपुष्पचन्द्रो तिष्ठति खण्डखण्डः // SRS_३५.४९ //
SK
भिक्षु इहो दुःखहत सर्व एव अप्रीतिजातास्तथपि च शल्यचित्ताः / (Vऐद्य २४३) भेष्यन्ति क्षिप्रं दृष्ट्विमु धर्मभाणकं सुपुष्पचन्द्रं हतु पतितं पृथिव्याम् // SRS_३५.५० //
SK
सुपुष्पचन्द्रो यथरिव शैलराजो द्वात्रिंशतीभिः कवचितु लक्षणेभिः / मालागुणेव प्रमदगणेन गृह्य क्षणे विकीर्णं कृतु खण्डखण्डम् // SRS_३५.५१ //
SK
कृतस्मि कर्मं परम सुघोररूपम् अवीचि गमिष्ये यमविषयमनाथो / बुद्धान भेष्ये परम सुदूरदूरे स भिक्षुः कृतु इह खण्डखण्डम् // SRS_३५.५२ //
SK
न पुत्र त्राण न पि मम ज्ञातिसंघो नो चास्य मान्या न च भटपादमूलिकाः / मेष्यन्ति त्राणं नरकगतस्य मह्यं स्वयं करित्व परम निहीनकर्म // SRS_३५.५३ //
SK
ये ऽतीत बुद्धास्तथपि च ये अनागतास्तिष्ठन्ति ये चो दशसु दिशासु केचित् / ते सार्थवाहा दशबला निष्किलेशाः शरणं उपैमी वज्रघन आत्मभावान् // SRS_३५.५४ //
SK
दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं क्रोशः प्रमुक्तः सुकरुण देवताभिः / गत्वान ते आरोचयि भिक्षुसंघे सुपुष्पचन्द्रो इतु इह राज्यधान्याम् // SRS_३५.५५ //
SK
यो ऽसौ विदु पण्डितु धर्मभाणको महानुभावो दिशिविदिशासु घुष्टः / सो बोधिसत्त्वो प्रतिष्ठितु धारणीये सुपुष्पचन्द्रो हतु इह राजधान्याम् // SRS_३५.५६ //
SK
यो देति दानं विविधमनन्तकल्पान् यो शील रक्षत्यशबलमसंप्रवेधिम् / यो भावि क्षान्तीमसदृश सर्वलोके सुपुष्पचन्द्रो हतु इह राजधान्याम् // SRS_३५.५७ //
SK
(Vऐद्य २४४) यो वीर्यवन्तः सततमनन्तकल्पान् यो ध्यानु ध्यायी चतुरि अलीनचितः / यः प्रज्ञ भावेति किलेशघातकीं सुपुष्पचन्द्रो हतु इह राजधानिये // SRS_३५.५८ //
SK
यः कायप्रेमं विजहित्व सर्वशो ऽ नपेक्ष भूत्वा तथ जीवितातो / समन्तभद्राद्वनतोतरित्वा सुपुष्पचन्द्रो हतु इह राजधानिये // SRS_३५.५९ //
SK
ते राजधानीं प्रविशित्व सूरता आर्तस्वरं क्रन्दिषु घोररूपम् / दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं मूर्च्छित्व सर्वे प्रपतित ते धरण्याम् // SRS_३५.६० //
SK
राजान तं सो अवचिषु भिक्षुसंघो किमापराद्धं तव देव भिक्षुणा / अच्छिदशीलेन सुसंवृतेन यः पूर्वजातिं स्मरते अचिन्तियाम् // SRS_३५.६१ //
SK
एषो वशी धारणिज्ञानपारगो एष प्रजानातिह शून्य संस्कृतम् / एषो ऽनिमित्तं जगतो निदर्शयी प्रणिधानसंज्ञां इति सर्व वर्जयी // SRS_३५.६२ //
SK
एषो मुञ्चि मनोज्ञ घोष रुचिरं शान्तेन्द्रियः सूरतो एषो पूर्वनिवासपारमिगतो लोकस्य अभ्युद्गतः / एषो बुद्ध स्वयंभु ज्ञानवृषयो लोकस्य चित्रीकृतः शुद्धा चक्षुष प्रेक्षिषू वितिमिरो अत्यर्थमैत्रीकृपः // SRS_३५.६३ //
SK
कामा हीन जघन्य दुःखजननाः स्वर्गस्य निर्नाशकाः कामान् सेवतु भोन्ति श्रोत्रविकलाः प्रज्ञाविहीना नराः / कामान् सेवतु अन्धु भोति मनुजो मातापित घातयी कामान् सेवतु शीलवन्तु वधयी तस्माद्विवर्जेन्नरो // SRS_३५.६४ //
SK
(Vऐद्य २४५) कामान् सेवतु राज पार्थिववरा वर्जेत्व ऋद्धिमिमां घोरान् गच्छति कर्कशान् दुखकरान्नरकान् भयानन्तकान् / पापं कर्म करोति ईदृश विदुं भिक्षुं वधेती सदा तस्मात् पापु विवर्जितव्यु विविधं यो इच्छि बोधिं शिवाम् // SRS_३५.६५ //
SK
रूपाणि शब्दान् रस तथ गन्ध श्रेष्ठान् स्प्रष्टव्यधर्मान् त्यजति अलीनचित्तः / कायं विदित्व यथरिव माय तुच्छं चक्षुं च श्रोत्रं तथरिव घ्राण जिह्वम् // SRS_३५.६६ //
SK
दाने शिक्षितु शीलि अप्रतिसमः क्षान्तिं च वीर्यं तथा ध्यानं सेवतु प्रज्ञपारमिगतः सत्त्वान अर्थकरः / लोकः सर्वु सदेवकः समनुजः प्रेक्षन्ति मैत्र्या जिनं तेनो चक्षु महान्धकारगहने बुध्यन्ति बोधिं शिवाम् // SRS_३५.६७ //
SK
हस्ती अश्वरथांस्त्यजन्ति मुदिता अङ्गालमञ्चांस्तथा शिबिकां दोल्लिकयुग्ययानवृषभान् ग्रामाणि राष्ट्राणि च / नगरं राज्य त्यजित्व स्वर्णस्फटिकां रूप्यं प्रवालांस्तथा भार्याप्रियपुत्रधीरस्वशिरास्त्यजित्वा बोधिप्रस्थिताः // SRS_३५.६८ //
SK
पूजां चो अतुलां करोन्ति मुदिताः पुष्पेभि गन्धेभि चो गृह्य च्छत्रध्वजा पताक विविधा संगीतिभाण्डानि च / नो चापी अभिनन्दिषु भवगतिं ज्ञात्वान शून्यान् भवान् तेनो लक्षणचित्रिता दशबला भासन्ति सर्वा दिशः // SRS_३५.६९ //
SK
न कामधातौ न च रूपधातावारूप्यधातौ च न ते निविष्टाः / त्रैधातुकं नाभिनिविष्टधर्मा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // SRS_३५.७० //
SK
नो आत्मसंज्ञा न च पुन सत्त्वसंज्ञा नो जीवसंज्ञा पुद्गलसंज्ञ नापि / नित्यं चरन्ता अशबलु ब्रह्मचर्यं ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // SRS_३५.७१ //
SK
न भावसंज्ञा न च पुनरभावसंज्ञा न क्षेमसंज्ञा न पुनरक्षेमसंज्ञा / (Vऐद्य २४६) नो सौख्यसंज्ञा न पुनरसौख्यसंज्ञा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // SRS_३५.७२ //
SK
नो अस्तिसंज्ञा न पुनर्नास्तिसंज्ञा नो इस्त्रिसंज्ञा न पुनः पुरुषसंज्ञा / न ग्रामसंज्ञा न च नगरेषु संज्ञा नो राष्ट्रसंज्ञा न पि निगमेषु संज्ञा // SRS_३५.७३ //
SK
नो रागसंज्ञा न पुन विरागसंज्ञा नो दोषसंज्ञा न पुनरदोषसंज्ञा / नो मोहसंज्ञा न पुनरमोहसंज्ञा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // SRS_३५.७४ //
SK
नो इन्द्रियेभिर्न पुन ते बलेभिर्बोध्यङ्गध्याने न च पुन ते निविष्टाः / त्रैधातुके ते प्रविजहि दोष सर्व ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // SRS_३५.७५ //
SK
नो रागरक्ता न च पुन दोषदुष्टा नो मोहमूढा अशठ भवन्ति नित्यम् / दृष्ट्वा च बुद्धा दशबल सत्करोन्ति नो चापि स्वर्गं मतिधर प्रार्थयन्ति // SRS_३५.७६ //
SK
तेषां श्रुत्वा परत विशिष्टधर्मं नो भुय तस्मिन् भवति कदाचि काङ्क्षा / तैलस्य पात्रं यथरिव अच्छ शुद्धं छेदाच्छेदं परमत तेभि ज्ञातम् // SRS_३५.७७ //
SK
स्नेहं कुर्वतु जायते अनुनयः सो ऽपी किलेशो महान् दोषं कुर्वतु जायते ऽस्य प्रतिघो वैरं भयं पापकम् / द्वावेतौ विजहित्वना मतिघरा बोधाय ये प्रस्थिताः ते भोन्तीह नरर्षभा दशबला लोके समभ्युद्गताः // SRS_३५.७८ //
SK
अध्यात्मं प्रजहित्व बाह्यमपि चो धर्मस्वभावे स्थिताः शीलस्कन्धु विशोधितो अशबलो अखण्ड अच्छिद्रितः / (Vऐद्य २४७) नो वा तेषु कदाचि शील शबलं नो चापि कल्माषता द्वावेतौ परिवर्जिया मतिधरा बुध्यन्ति बोधिं शिवाम् // SRS_३५.७९ //
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - अहं स पूर्वे चरमाणु चारिकां राजा अभूवं तद शूरदत्तः / रतनावती नाम स राजधानी उद्यानभूमिर्यतु निष्क्रमामि // SRS_३५.८० //
SK
रथाभिरूढस्तद दृष्ट्व भिक्षुं समन्तप्रासादिकु दर्शनीयम् / द्वात्रिंशता कवचितु लक्षणेभिरोभासयन्तं दश दिशता समन्तात् // SRS_३५.८१ //
SK
सुपुष्पचन्द्रो दिशता सुविश्रुतो हितानुकम्पी करुणाविहारी / सत्त्वानुकम्पी नगरं प्रविष्टः शिरीय तेजेन च शोभमानः // SRS_३५.८२ //
SK
अहं च रूपेण तादृशो ऽभवं मात्सर्यमुत्पन्नु सुभैरवं मे / कामेषु गृद्धो ग्रथितश्च राज्ये मा एष राज्यान्मम च्यावयेत // SRS_३५.८३ //
SK
पुत्राण संपूर्ण सहस्र मह्यं रथानुरूढा अनुयान्ति पृष्ठतः / विचित्रमुकुटाभरणा विभूषिता यथ देवपुत्रास्त्रिदशेन्द्र यान्ति // SRS_३५.८४ //
SK
दुहितॄण तस्मिन् शत पञ्च मह्यं मणिपादुकारूढ सुदर्शनीयाः / आबद्धमुकुटाभरणा विभूषितास्ते हेमजालै रथु ते वहन्ति // SRS_३५.८५ //
SK
स्त्रीणां सहस्राणि अशीति मह्यं प्रासादिकाः सर्व सुदर्शनीयाः / (Vऐद्य २४८) रथाधिरूढाः समुदीक्ष्य भिक्षुं प्रासादिकं मेरुमिवोद्गतश्रियम् // SRS_३५.८६ //
SK
दृष्ट्वा च तासां पितृसंज्ञ जाता उत्पादितं चित्त वराग्रबोधये / समादयित्वा तद ब्रह्मचर्यं क्षिपिंसु तानाभरणान् मनोरमान् // SRS_३५.८७ //
SK
ईर्ष्या ममोत्पन्न अभूषि तत्क्षणं व्यापाददोषश्च खिलं चा दारुणम् / ऐश्वर्यमत्तश्च वदामि पुत्रान् घातेय भिक्षुं स्थितु यः पुरस्तात् // SRS_३५.८८ //
SK
श्रुत्वाथ ते मह्य कुमार वाक्यं सुदुःखिता दुर्मनसो अभूवन् / मा एव प्रव्याहर तात वाचं न घातयामो वय भिक्षुमीदृशम् // SRS_३५.८९ //
SK
यद्यङ्गमङ्गातु शरीर छिद्येत् कल्पान कोट्यो यथ गङ्गवालुकाः / न त्वेव भिक्षुं वय हिंसयेम तथाहि बोधाय उत्पन्नु चित्तम् // SRS_३५.९० //
SK
श्रुत्वाथ राजा तद पुत्रवास्यं भृत्यं भणी रोषितु वध्यघातकम् / आनेथ शीघ्रं इमु भिक्षु घातयी स्थितु यः पुरस्तापि अन्तःपुरस्य // SRS_३५.९१ //
SK
अथागमी पश्चि स वध्यघातको स रौद्रचित्तो व सु नन्दिनामा / असिं गृहीत्वान स तैलपायितं येनो कृतो भिक्षुण अष्टखण्डः // SRS_३५.९२ //
SK
कृत्वा त्वकर्मेति सुघोररूपं निर्यातु उद्यानु गता क्षणेन / (Vऐद्य २४९) न तस्य क्रीडा न रती च जायते स्मरित्व भिक्षुं तद पुष्पचन्द्रम् // SRS_३५.९३ //
SK
स शीघ्रशीघ्रं त्वरमाणरूपः ततः प्रविष्टः स्वकु राजधानीम् / रथाभिरूढो गतु तं प्रदेशं यस्मिन् कृतो भिक्षु स अष्टखण्डम् // SRS_३५.९४ //
SK
अश्रौषि सो घोषमथान्तरीक्षाद् बहून् देवानयुतान क्रन्दताम् / कलिराज पापं सुबहु त्वया कृतं च्युतो गमिष्यस्यसुखं अवीचिम् // SRS_३५.९५ //
SK
श्रुत्वान राजा मरुतान घोषं सुदुःखितो दुर्मनु त्रस्तचित्तः / बहू मया दारुण पापकं कृतं येनो मया घातितु पुष्पचन्द्रः // SRS_३५.९६ //
SK
यः पुत्रु बुद्धान नरर्षभाणां अनन्तज्ञानीन तथागतानाम् / गुप्तेन्द्रियः सूरतु शान्तमानसः सो ऽपी मया घातितु कामकारणात् // SRS_३५.९७ //
SK
यो धर्मु धारेति तथागतानां सद्धर्मकोशं क्षयि वर्तमाने / ज्ञानप्रदीपं करि सर्वलोके कष्टं स मे घातितु कामकारणात् // SRS_३५.९८ //
SK
यो धर्म प्रव्याहरती प्रजानां गम्भीर शान्तं निपुणं सुदुर्दृशम् / यो बोधिमण्डस्य वरस्य देशकः सो ऽयं मया घातितु कामकारणात् // SRS_३५.९९ //
SK
यो धर्मकोशंधरु नायकानामन्धस्य लोकस्य प्रदीपभूतः / (Vऐद्य २५०) यो धारणी धारयि सूत्रराजं स किं मया घातितु कामकारणात् // SRS_३५.१०० //
SK
असंकिलिष्टः सुविशुद्धज्ञानी शान्तः प्रशान्तः सततं समाहितः / कामान्धभूतेन मयाद्य घातितो येनातिकष्टं निरयं गमिष्ये // SRS_३५.१०१ //
SK
ये ऽतीत बुद्धाप्यथ ये अनागता ये चापि तिष्ठन्ति नरोत्तमा जिनाः / अनन्तवर्णान् गुणसागरोपमान् उपैमि सर्वान् शरणं कृताञ्जलिः // SRS_३५.१०२ //
SK
घोरान् गमिष्ये निरयांश्च्युतस्य त्राता न तत्र प्रतिविद्यते मम / कर्मं ह्यनिष्टं हि कृतं मयाद्य यद् घातितो ऽयं मय धर्मभाणकः // SRS_३५.१०३ //
SK
धिक् पापचित्तं व्यसनस्य कर्तृ धिग् राजभावं मदगर्वितानाम् / एकः प्रयास्यामि विहाय सर्वं सारं न मे किंचिदितो गृहीतम् // SRS_३५.१०४ //
SK
विशुद्धधर्मो गतदोषमोहः प्रियंवदः कारुणिको जितात्मा / अदूषकः सर्वजनैकबन्धुः कस्माद्धतो मे वरपुष्पचन्द्रः // SRS_३५.१०५ //
SK
हा सुव्रता क्षान्तितपोधनाढ्या हा रूपदाक्षिण्यगुणैरुपेता / हा निष्कुहा श्रीघन निष्प्रपञ्चा कुह प्रयातो ऽसि विहाय मा त्वम् // SRS_३५.१०६ //
SK
अद्यावगच्छामि महर्षिवाक्यं कामा ह्यनित्या वधकाः प्रजानाम् / मनोज्वरा दुर्गतिहेतवश्च तस्मात् प्रहास्ये एत कामचर्याम् // SRS_३५.१०७ //
SK
(Vऐद्य २५१) यास्ये घोरमहं ह्यवीचिनिरयं त्राणं न मे विद्यते पापं कर्म कृतं ह्यनिष्टमसुखं भिक्षुर्मया घातितः / मुक्त्वा राज्य हु ब्रह्मचर्यपरमः पूजां करिष्ये वरां पुष्पैर्गन्धविलेपनैः सुरुचिरैः स्तूपं करिष्याम्यहम् // SRS_३५.१०८ //
SK
पुत्राश्चो दुहितॄः स्त्रियो गृहपती ये चा अमात्या मम श्रेष्ठी नैगम क्षत्रिया बहुविधाः सर्वेष भाषाम्यहम् / अगरुं पद्मकु चन्दनं सुरुचिरं गन्धाश्च ये शोभनाः शीघ्रं कुर्वथ मञ्जुगर्भशिबिकां यद्भिक्षु ध्मापीयतु // SRS_३५.१०९ //
SK
श्रुत्वा पार्थिववाक्य सर्वनगरं गन्धां हरित्वा वरां चितिकां कृत्व मनोज्ञगन्ध रुचिरामारोप्य भिक्षुं तहिम् / अगरुं पद्मकु चन्दनं सतगरं स्पृक्कां तथा पाटलां पुष्पैर्माल्यविलेपनेन रुचिरैस्तैलेन प्रज्वालयी // SRS_३५.११० //
SK
द्रोण्यां तस्य कृतं शरीरमभवद् या मापिता भिक्षुभिस् तेषां स्तूपु करित्व राज अवची पूजास्य कामाम्यहम् / पुष्पं माल्य विलेपनं च ग्रहिय च्छत्रान् पताकां ध्वजांस् तस्मिंस्तूर्यसहस्रकोटिनयुतां वादापयी पार्थिवः // SRS_३५.१११ //
SK
त्रैकाल्यं दिवसे व्रजी महिपति भिक्षुस्य स्तूपं तदा त्रिष्वप्यध्वसु देशयी पुरीमकं यत्किंचि पापं कृतम् / वर्षा कोटिसहस्र पञ्चनवतिं तं क्षेपयी दुष्कृतं शीलं पश्चि अखण्ड रक्षितु वरं शुद्धं शुची निर्मलम् // SRS_३५.११२ //
SK
वर्षा कोटिसहस्र पञ्चनवतिं पोषी तदा पोषधं भिन्ने चो तद आत्मभावि पतितो घोरामवीचिं पुनः / कृत्वा निर्घृण कर्म वेदयि दुखं कामंनिदानं बहु बुद्धा कोटिसहस्र पञ्चनवतिं वीरागिता ये मया // SRS_३५.११३ //
SK
वर्षा कोटिसहस्र पञ्चनवती अन्धो ऽहमासं तदा द्वाषष्टी पि च कल्प कोटिनयुता नेत्रा मि भिन्ना पुरा / नैका कल्पसहस्र कोटिनयुतामुत्पाट्य चक्षुर्हृतं हस्ता च्छिन्न अनन्तकल्पनयुतान् पादाश्च कर्णाः शिराः // SRS_३५.११४ //
SK
मानुष्ये सति कल्पकोटिनयुतानन्यासु वा जातिषु दुःखा वेदन वेदयामि च चिरं संसारदुःखार्दितः / कृत्वा पापकु कर्म दुःखनुभवी संसारमाणश्चिरं तस्मात् पापु न कुर्यु अध्वि त्रिभवे यो बोधिमिच्छेच्छिवाम् // SRS_३५.११५ //
SK
(Vऐद्य २५२) देशेत्व कर्मं पुरिमकु राजश्रेष्ठो नासौ विमुच्यी पुरिमकु दुष्कृतातः / कृत्वा च कर्मं पुरिमकु घोररुपं स च च्यवित्व गच्छेन्निरयमवीचि घोरम् // SRS_३५.११६ //
SK
हस्ता विच्छिन्नास्तथपि च पाद कर्ण नासा विच्छिन्ना बहुविध नन्तकल्पान् / नेत्रा च मह्यं बलशो हृता क्षिपित्वा उत्क्षिप्त दण्डैर्विचरतु चारिकायाम् // SRS_३५.११७ //
SK
त्यक्त्वा स्वकाये शिर कर बोधिहेतोः पुत्राश्च दारान्नयन तथात्ममांसम् / हस्तांश्च पादान् परित्यजि हृष्टचित्तो नो च क्षपेमी पुरिमकु पापकर्म // SRS_३५.११८ //
SK
राजा अभूवं तद अहु शूरदत्तो ते पुत्र मह्यं चरिमक धर्मपालाः / पद्मोत्तरो ऽयं आसि सुपुष्पचन्द्रो वसुनन्दि आसीद्दशबलु शान्तिराजः // SRS_३५.११९ //
SK
सि नारिसंघो सुविपुल क्षत्रियाश्चो गृहपती ये बलपति ये चमात्याः / श्रेष्ठी तथैव नैगम कोदृराजा सर्वे ऽप्यभूषी दशबल निष्किलेशाः // SRS_३५.१२० //
SK
कुमार एवाचरितमनन्तकल्पं दृष्ट्वान् बुद्धान् धुतगुण निष्किलेशाः / ते ते मि दुःखा तद अनुभूतपूर्वा चरन्तु श्रेष्ठां इम बोधिचर्याम् // SRS_३५.१२१ //
SK
यो बोधिसत्त्वः प्रतिष्ठित धारणीये मैत्राविहारी अचलितु अप्रकम्पी / (Vऐद्य २५३) नासौ कदाचिद् व्रजति अपायभूमिं पूजेत्व बुद्धान् धुतगुण निष्किलेशान् // SRS_३५.१२२ //
SK
यो इच्छि बुद्धो कथमिह धर्मस्वामी द्वात्रिंशतीभिः कवचितु लक्षणेभिः / सो शीलरक्षी अशबल अप्रवेधा देशेति धर्मं प्रतिष्ठितु धारणीये // SRS_३५.१२३ //
SK
इति श्रीसमाधिराजे सुपुष्पचन्द्रपरिवर्तः पञ्चत्रिंशतितः
SK
(Vऐद्य २५४) ३६ Śईलस्कन्धनिर्देशपरिवर्तः |
SK
तस्मात्तर्हि कुमार य आकाङ्क्षेद्बोधिसत्त्वो महासत्त्वः किमित्यहं सुखमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन शीलस्कन्धे सुप्रतिष्ठितेन भवितव्यम्, सर्वबोधिसत्त्वेषु च शास्तृप्रेमसंज्ञा उपस्थापयितव्या ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो हितैषिचित्तो विचरति चारिकायाम् / क्षिप्रं स गत्वा अभिरतिबुद्धक्षेत्रं क्षान्तिंं लभित्वा भविष्यति धर्मराजः // SRS_३६.१ //
SK
तस्मात् समग्रा भवथ अदुष्टचित्ताः सर्वे च भोगा सतत मनापकारी / दृष्ट्वा च बुद्धान् शिरिघन अप्रमेयान् बोधिं स्पृशित्वा भविष्यथ धर्मस्वामी // SRS_३६.२ //
SK
तस्माच्छ्रुणित्वा इम वर आनुशंसान् दृष्टा च भिक्षून् परम सुशीलवन्ता / निःशाठियेनो विदु सद सेवितव्याः समाधिप्ताप्ता भविष्यथ नोचिरेण // SRS_३६.३ //
SK
सचेन्निधानापरिमिताप्रमाण पूर्णा भवेयु मणिरतनेभि सप्तैः / तथैव भूयो रतनवराण पूर्णाः क्षेत्रा भवेयुर्वालिकगङ्गतुल्याः // SRS_३६.४ //
SK
दानाधिमुक्तो भविय स बोधिसत्त्व एकैक रात्रिंदिवमिह दानु दद्यात् / एवं ददन् सो बहुविध कल्पकोटीः नो विष्ठितः स्याद् वालिक गङ्गतुल्याः // SRS_३६.५ //
SK
यश्चो समाधिं इमुमिह बोधिसत्त्वो श्रुत्वान धारेत सुगतवराण गञ्जम् / यः पुण्यस्कन्धो भवति गृहीतु तेनो तत् सर्वदानं कलमपि नानुभोति // SRS_३६.६ //
SK
(Vऐद्य २५५) एषो वरो अनुपम पुण्यस्कन्धो ज्ञानस्य कोश अपरिमिताकरोपम / श्राद्धो नरो यो इमु आनुलोमिकं धारेय्य अग्रं इमु विरजं समाधिम् // SRS_३६.७ //
SK
धारेय्य एत विरज समाधि शान्त महाधनो भवति स बोधिसत्त्वः / महासमुद्रो बहुविधरतनस्य आकरो न तस्य पुण्यस्य प्रमाणमस्ति // SRS_३६.८ //
SK
वरेहि धर्मेहि अचिन्तियेहि संबृहितो वुच्चति बोधिसत्त्वः / न तस्य बोधाय कदाचि संशयो य उद्दिशेयाति इमः समाधिम् // SRS_३६.९ //
SK
संस्थाप्य लोकाचरियं विनायकं बुद्धं महाकारुणिकं स्वयंभुवम् / यः पुण्यस्कन्धेन वरेणुपेतो अचिन्तियो यस्य प्रमाणु नास्ति // SRS_३६.१० //
SK
न उत्तरो तस्य च सत्त्व कश्चित् महासहस्राय कदाचि विद्यते / यः पुण्यस्कन्धेन समो भवेत ज्ञानेन वासादृशाचिन्तियेन // SRS_३६.११ //
SK
अन्यत्र यः श्रुत्व समाधिमेतं धारेय्य वाचेय्य पर्यापुणेय्या / पर्येषमाणो ऽतुल बुधबोधिं न तस्य ज्ञानेन समो भवेत // SRS_३६.१२ //
SK
सचेत् कुमारा सिय अयु धर्मरूप यः पुण्यस्कन्धो उपचितु तेन भोति / धारतु वाचेतु इमं समाधिं न सो विचेय्या इह पृथुलोकधातुषु // SRS_३६.१३ //
SK
तस्मात् कुमारेह य बोधिसत्त्वो आकाङ्क्षते पूजितु सर्वबुद्धान् / (Vऐद्य २५६) असङ्गनिर्देशपदार्थकोविदो अतीत उत्पन्न तथागतांश्च धारेतु वाचेतु इमं समाधिम् // SRS_३६.१४ //
SK
एषा हि सा बोधि तथागतानां श्रद्धेहि मह्यं वचनं कुमाराः / न भाषते वाचमृषां तथागतो न हीदृशाः सत्त्व मृषां वदन्ति // SRS_३६.१५ //
SK
यस्मिन् मया शोधितु आत्मग्राहो इतः पुरे कल्पशतानचिन्तियान् / श्रेष्ठा चरन्तेन पि बोधिचारिकां पर्येषमाणेन इमां समाधिम् // SRS_३६.१६ //
SK
तस्मादिमं श्रुत्व अथ धर्मगञ्जं यः सूत्रकोटीनयुतान आगमः / यः पुण्यस्कन्धो विपुलो अचिन्तियो येनो लघुं बुध्यति बुद्धज्ञानम् // SRS_३६.१७ //
SK
सर्वेष सूत्राणिदमग्रसूत्रमचिन्तियस्यो कुशलस्य आकरम् / पर्यन्तु धर्माण न तेष लभ्यते यां सो सदा निर्दिशते विशारदः // SRS_३६.१८ //
SK
छिन्दित्व भिन्दित्व महासहस्रं शक्यं गणेतुं परमाणुसंचयः / न त्वेव ते सूत्रशता अचिन्तियान् प्रमातु यं भाषति सो अविष्ठितः // SRS_३६.१९ //
SK
आश्वास प्रश्वास गणेतु शक्यं सर्वेष सत्त्वानिह बुद्धक्षेत्रे / पर्यन्तु सूत्राण न तेष शक्यं यान् भाषते सो ऽत्र समाधिये स्थितः // SRS_३६.२० //
SK
बुद्धान क्षेत्रा यथ गङ्गवालिका ये तेष सत्त्वा गति तेषूपपन्नाः / गणेतु ते शक्यमथापि चिन्तितुं न तेष सूत्राण य नित्यु भाषते // SRS_३६.२१ //
SK
(Vऐद्य २५७) गणेतु शक्यमित कल्पकोटिभिः महासमुद्रेष्विह यात्ति वालिकाः / नदीषु कुण्डेषु ह्रदेषु तद्वद् अनन्त सूत्रान्त स यत् प्रभाषते // SRS_३६.२२ //
SK
शक्यं गणेतुं बहुकल्पकोटिषु य आपस्कन्धः सद तत्र तिष्ठति / शताय भिन्नाय वालाग्रकोटियो स्वराङ्ग तेषां न तु शक्यु सर्वशः // SRS_३६.२३ //
SK
शक्यं गणेतुं बहुकल्पकोटिभिर्ये सत्त्व आसन् पुरिमेण तत्र / य आत्मभावे विनिबद्धसारा न तेष सूत्रान्तनिर्हार जानितुम् // SRS_३६.२४ //
SK
गणेतु शक्यं रुत सर्वप्राणिनां ये सन्ति सत्त्वा दशसु दिशासु / न शक्यु सूत्रान्त गणेतु तस्य यद् भाषते ऽसौ सततमविष्ठितः // SRS_३६.२५ //
SK
सर्वेष धर्माण निदेशु जानति निरुक्तिनिर्देशपदार्थकोविदः / विनिश्चये भूतनयेषु शिक्षितो विशालबुद्धिः सद हर्षप्रज्ञः // SRS_३६.२६ //
SK
अभिन्नबुद्धिर्विपुलार्थचिन्ती अचिन्त्य चिन्तेति सदा प्रजानति / घोषस्वभावं पृथु सर्व जानती शब्दांश्च तान् निर्दिशतो न सज्जति // SRS_३६.२७ //
SK
असक्त सो वुच्चति धर्मभाणको न सज्जते सर्वजगस्य भाषतः / प्रश्नान निर्देशपदेहि कोविदः तथाहि तेनो परमार्थु ज्ञातः // SRS_३६.२८ //
SK
एकस्य सूत्रस्युपदेशकोटियो अचिन्तियां निओर्दिशतो न सज्जति / (Vऐद्य २५८) असङ्गनिर्देशपदार्थकोविदो भाषन्तु सो पर्षगतो न सज्जते // SRS_३६.२९ //
SK
यः सुस्थितो भोति इहो समाधिये स बोधिसत्त्वो भवती अकम्पियः / धर्मे बलाधानविशेषप्राप्तः करोति सो ऽर्थं बहुप्राणकोटिनाम् // SRS_३६.३० //
SK
यथैव मेरुरचलो अकम्पियः सर्वेहि वातेहि न शक्य कम्पितुम् / तथैव भिक्षुर्विदु धर्मभाणकं कम्पेतु शक्यं न परप्रवादिभिः // SRS_३६.३१ //
SK
महासहस्रेष्विह लोकधातुषु ये पर्वता उक्त अकम्पनीयाः / ते शक्य वातेन प्रकम्पनाय न त्वेव धर्मे स्थितु शून्यि भिक्षुः // SRS_३६.३२ //
SK
य शून्यतायां सततं प्रयुक्तो बुद्धान एषो नियतं विहारः / प्रजानती निश्चितु धर्म शून्यां स सर्ववादीभि न शक्यु क्षोभितुम् // SRS_३६.३३ //
SK
अकम्पियो भोति परप्रवादिभिः सवप्रवादेहि अनाभिभूतः / अनाभिभूतश्च अनिन्दितश्च इमुमुद्दिशित्वान समाधि शान्तम् // SRS_३६.३४ //
SK
गतिं गतो भोति स शुन्यतायां सर्वेषु धर्मेषु न काङ्क्षते ऽसौ / अनन्तज्ञाने सद सुप्रतिष्ठितो इमुमुद्दिशित्वान समाधि शान्तम् // SRS_३६.३५ //
SK
बलानि बोध्यङ्ग न तस्य दुर्लभा प्रतिसंविदो ऋद्धिविधी अचिन्तिया / अभिज्ञ नो तस्य भवन्ति दुर्लभा धारेत्व वाचेत्व इम समाधिम् // SRS_३६.३६ //
SK
(Vऐद्य २५९) भवाभिवृत्तस्य न तस्य दुर्लभं अनन्तज्ञानेन जिनान दर्शनम् / संबुद्ध कोटीनयुतानचिन्तियान् सो द्रक्ष्यते एतु समाधि धारयन् // SRS_३६.३७ //
SK
सर्वेष चो तेष जिनान अन्तिके स श्रोष्यते एतु समाधि शान्तम् / वरेण ज्ञानेन उपेतु भेष्यती प्रतिसंविदासु वश पारमिं गतः // SRS_३६.३८ //
SK
सचेद् भवेन्मणिरतनान पूर्णा महासहस्रा इय लोकधातुः / ये दिव्य श्रेष्ठा मणिरतनाः प्रधाना हेष्टं उपादाय भवाग्रु यावत् // SRS_३६.३९ //
SK
यावन्त क्षेत्रा बहुविध ते अनन्ता जाम्बूनदासंस्तृत पूर्ण सर्वे / दानं ददे जिनवरेषु सर्वं भूमीतलादुपरि भवाग्र यावत् // SRS_३६.४० //
SK
यावन्ति सन्ति बहु विविधा हि सत्त्वा दानं ददेयुर्विविधमनन्तकल्पान् / बुद्धान दद्युः सततमविष्ठिहन्तो बोध्यर्थिको चो ददितु दानस्कन्धम् // SRS_३६.४१ //
SK
यश्चैव भिक्षुरभिरतु शून्यतायां बुद्धान्नमस्ये दशनखप्राञ्जलीयो / न स दानस्कन्धः पुरिमकु याति संख्यां यः शून्यतायामभिरतु बोधिसत्त्वः // SRS_३६.४२ //
SK
तं चो लभित्वा स हि नरु पुण्यवन्तो दानं ददेति विपुलु जनेत्व श्रद्धाम् / पर्येषमाणो अतुलिय बुद्धबोधिं औपम्यमेतं कृतु पुरुषोत्तमेन // SRS_३६.४३ //
SK
यश्चो समाधिमिमु वरु श्रेष्ठ गृह्णेच्चतुष्पदां गाथ स तुष्टचित्तः / यः पुण्यस्कन्धो उपचितु तेन भोति तत् सर्वदानं शतिमकला नु भोति // SRS_३६.४४ //
SK
(Vऐद्य २६०) न ताव शीघ्रं प्रतिलभि बुद्धज्ञानं दानं ददेत् सो हितकरु बोधिसत्त्वः / अश्रुत्व एतं विरजु समाधि शान्तं यथ श्रुत्व शीघ्रं लभति स बुद्धज्ञानम् // SRS_३६.४५ //
SK
यश्चो लभित्वा इमु वर शान्तभूमिं श्रुतस्य गोत्रं इमु विरजं समाधिम् / पुर्यापुणेय्या प्रमुदितु बोधिसत्त्वः स शीघ्रमेतं प्रतिलभि बुद्धज्ञानम् // SRS_३६.४६ //
SK
यो ऽपी निधानं प्रतिलभि एवरूपं क्षेत्राननन्तान् यथरिव गङ्गवालिकाः / ते चो भवेयुर्मणिरतनान पूर्णा दिव्यान चो तथपि च मानुषाणाम् // SRS_३६.४७ //
SK
दुर्धर्षु सो भोति प्रेभूतकोशो महाधनो धनरतनेनुपेतः / यो बोधिसत्त्वो लभति इमं समाधिं पर्यापुणन्तः सततमतृप्तु भोति // SRS_३६.४८ //
SK
राज्यं लभित्वा परमसमृद्ध स्फीतं न तेन तुष्टो भवति कदाचि विज्ञः / यथा लभित्वा इमु विरजं समाधिं तुष्टो उदग्रो भवति स बोधिसत्त्वः // SRS_३६.४९ //
SK
ते ते धर्मधरा भवन्ति सततं बुद्धान सर्वज्ञिनां धारेन्ती वरधर्मनेत्रि विपुलां क्षीणान्तकाले तथा / धर्मकोशधरा महामतिधराः सर्वज्ञगञ्जंधराः ते ते सत्त्व सहस्रकोटिनियुतांस्तोषन्ति धर्मस्वरैः // SRS_३६.५० //
SK
ते ते शीलधनेनुपेत मतिमान् शिक्षाधनाढ्या नराः ते ते शीलव्रते स्थिता अभिरता धर्मद्रुमस्याङ्कुराः / ते ते रक्तकषायचीवरधरा नैष्क्रम्यतुष्टाः सदा ते ते सत्त्वहिताय अप्रतिसमाः सर्वज्ञतां प्रस्थिताः // SRS_३६.५१ //
SK
ते ते दान्त सुदान्त सत्त्वदमका दमथेनुपेताः सदा ते ते शान्त सुशान्ततामनुगताः शान्तप्रशान्तेन्द्रियाः / ते ते सुप्त प्रसुप्त सत्त्व सततं धर्मस्वनैर्बोधयी बोधित्वा वरश्रेष्ठ धर्मरतनैः सत्त्वान् प्रतिष्ठापयी // SRS_३६.५२ //
SK
(Vऐद्य २६१) ते ते दानपती भवन्ति सततं सद मुक्तत्यागी विदु ते ते मत्सरियैर्न संवसि महात्यागे रमन्ते सदा / ते ते सत्त्व दरिद्र दृष्ट्व दुखितान् भोगेहि संतर्पयी ते ते सत्त्वहिते सुखाय सततं सर्वज्ञतां प्रस्थिताः // SRS_३६.५३ //
SK
ते ते आहनि धर्मभेरि विपुलां ज्ञाने सदा शिक्षिताः छिन्दन्ती जन सर्व संशयलतां ज्ञाने सदा प्रस्थिताः / ते ते सुश्रुत धर्मधारि विरजा सूत्रान्तकोटीशतान् पर्षायां स्थित आसने मतिधराः प्रव्याहरी पण्डिताः // SRS_३६.५४ //
SK
ते ते भोन्ति बहुश्रुताः श्रुतिधराः संबुद्धधर्मंधराः कोशान् धर्ममयान् धरन्ति मुनिनां धर्मान्निधाने रताः / ते ते भोन्ति विशालप्रज्ञ विपुलां प्रीइतिं जनेन्ति सदा देशेन्ता वरधर्म शान्त निपुणं नैर्याणिकं दुर्दृशम् // SRS_३६.५५ //
SK
ते ते धर्ममधर्मज्ञेय मतिमान् धर्मे स्थिताः सूरताः धर्मराज्यि प्रशासि अप्रतिसमा वरधर्मचारी सदा / ते ते भोन्ति विशिष्टधर्मगुरुका गुरुगौरवे च स्थिताः धर्मे नगवरे स्थिता मतिधरा धर्मध्वजोच्छ्रायिकाः // SRS_३६.५६ //
SK
ते ते मत्त प्रमत्त सत्त्व सततं दृष्ट्वा प्रमादे स्थितान् दृष्ट्वा चैव प्रनष्ट उत्पथगतान् संसारमार्गे स्थितान् / तेषू मैत्र जनित्वुदार करुणा मुदिताप्युपेक्षा स्थिता तेषां मार्गवरं प्रदर्शयि शिवमष्टाङ्गिकं दुर्दृशम् // SRS_३६.५७ //
SK
ते तु नाव करित्व धर्म सुदृढां धारेन्ति सत्त्वान् बहून् उद्यन्तान् महार्णवेषु पतितान् संसारस्रोतोगतान् / बोध्यङ्गा बल इन्द्रियैः कवचिताः सद्धर्मनावारुहाः तीरे पारमि क्षेम नित्यमभये स्थापेन्ति सत्त्वान् सदा // SRS_३६.५८ //
SK
ते ते वैद्यवरा व्रतेषु चरिता वैद्योत्तमा वेदका विद्याज्ञानविमुक्तिपारगमिता सद्धर्मभैषज्यदाः / दृष्ट्वा सत्त्व गिलान नेकविविधै रोगैः समभ्याहतान् तेषां धर्मविरेचनं ददति तद्धर्मैश्चिकित्सन्ति तान् // SRS_३६.५९ //
SK
ते ते वादि अपवादिमथना लोकेन्द्र वागीश्वराः सर्वज्ञेयप्रभंकरा मतिधरा वरज्ञानभूमिस्थिताः / शूर ज्ञानबला बलप्रमथनाः संवर्णिता ज्ञानिभिः ज्ञानेनो बहुसत्त्वकोटिनियुतांस्तोष्यन्ति धर्मे स्थिताः // SRS_३६.६० //
SK
(Vऐद्य २६२) ते ते ऽधिपति सार्थवाह विपदः सत्त्वान त्राणार्थिकाः दृष्ट्वा सत्त्व प्रमूढ मार्गरतने सद मारपाशे स्थिताः / तेषां मार्गवरं प्रकाशयि शिवं क्षेमं सदा निर्वृती येन ज्ञानपथेन नेन्ति कुशलान् बहुसत्त्वकोटीशतान् // SRS_३६.६१ //
SK
ते ते लेनु भवन्ति त्राणु शरणं चक्षुः प्रदीपंकराः भीतानामभयप्रदाश्च सततं त्रस्तान चाश्वासकाः / ते ऽतिदुःखित सत्त्व ज्ञात्व परमान् जात्यन्धभूतानिमान् धर्मालोकु करोन्ति धर्मरतने भूतनये शिक्षिताः // SRS_३६.६२ //
SK
ये ये शिल्पवरा जगे बहुकराः सत्त्वान अर्थावहा येभिः सत्त्व सदा भवन्ति सुखिताः शिल्पेषु संशिक्षिताः / शिक्षापारमितां गताः सुकुशला आश्चर्यप्राप्ताद्भुता ये बोधीनभिप्रस्थिता मतिधरा लोकस्य चक्षुर्ददाः // SRS_३६.६३ //
SK
नो ते तृप्त कदाचिदप्रतिसमा वरबुद्धधर्मश्रुताः शीलक्षान्तिसमाधिपारगमिता गम्भीरधर्मश्रुताः / नो तृप्ताश्च परेषु धर्मरतनं ते देशयन्तः शिवं मोक्षोपायु प्रवर्षमाणु वर्षं धर्मैर्नरांस्तर्पयी // SRS_३६.६४ //
SK
यावन्तो बहु सत्त्व तेषुपगता धर्मार्थिकाः पण्डिताः श्रोष्यामो वरधर्मश्रेष्ठरतनं मार्गं ऋजुं अञ्जसम् / तेषां छिन्दिषु संशयान् मतिअधरा धर्मेण संतोषयी शीलक्षान्तिसमाधिपारमिगता जानन्त सत्त्वशयान् // SRS_३६.६५ //
SK
ज्ञानी ज्ञानवराग्र पारमिगताः सत्त्वाशये कोविदाः जानन्तः परसत्त्वचित्तचरितं येषां कथा यादृशी / ये ये ज्ञानकथाय सत्त्वनयुता वरधर्मचक्षुर्लभाः ते ते ज्ञानविशेषपारमिगता मार्गोपदेशंकराः // SRS_३६.६६ //
SK
मारा कोटिसहस्र तेष विदुषां चित्तं पि नो जानिषु आकाशे यथ पक्षिणां पदगतिं ज्ञातुं न शक्या क्वचित् / शान्ता दान्त प्रशान्त ज्ञानवशिनो आर्यस्मि ज्ञाने स्थिताः सर्वान् मार निहत्य शूर वृषभा बुध्यन्ति बोधिं शिवाम् // SRS_३६.६७ //
SK
ऋद्धिपारमिप्राप्त भोन्ति सततं गच्छन्ति क्षेत्रान् शतान् पश्यन्ति बहुबुद्धकोटिनियुतान् गङ्गा यथा वालिकाः / (Vऐद्य २६३) चक्षुस्तेष न सज्जते दशदिशे पश्यन्ति रूपान् बहु ये चो सत्त्व दशद्दिशे भवस्थिताः सर्वेष ते नायकाः // SRS_३६.६८ //
SK
ते तस्यो भणि आनुशंस सकलां कल्पान कोटीशतान् नो चो पूर्वचरीय वर्ण क्षपये प्रतिभानतो भाषतो / बुद्धानां धनमक्षयं सुविपुलं ज्ञानस्य चो सागरं यो एतं विरजं समाधिमतुलं धारेय कश्चिन्नरः // SRS_३६.६९ //
SK
इति श्रीसमाधिराजे शीलस्कन्धनिर्देशपरिवर्तः षट्त्रिंशतितमः
SK
(Vऐद्य २६४) ३७ Yअशःप्रभपरिवर्तः |
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमांश्चापरिमाणानाश्चर्याद्भुतान् बोधिसत्त्वधर्मानाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः | क्षान्तिबलं चानेन भावयितव्यम् | क्षान्तिरासेवयितव्या भावयितव्या बहुलीकर्तव्या | धर्मार्थिकेन च भवितव्यं धर्मकामेन धर्मप्रतिग्राहकेन धर्मानुधर्मप्रतिपन्नेन | बुद्धपूजाभियुक्तेन भवितव्यम् | तेन त्रिषु स्थानेष्वभियोगः करणीयः | कतमेषु त्रिषु? यदुत क्लेशक्षयाय पुण्यबलाधिपतये बुद्धज्ञानमाकाङ्क्षता कुशलमूलान्यवरोपयितव्यानि नो तु खलु लोकसुखस्पर्शाभिकाङ्क्षिणा | एषु त्रिषु स्थानेष्वभियोगः करणीयः ||
SK
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य तमेवार्थमुद्योतयमान इममेव पूर्वयोगकथानिर्देशं गाथाभिगीतेन संप्रकाशयति स्म -
SK
हन्त शृणोथ ममेतु कुमारा कल्पसहस्र यथा चरिता मे / पूजित बुद्धसहस्रशतानि एषतु एति समाधि प्रणीतम् // SRS_३७.१ //
SK
कल्प अचिन्तिय एवमतीताः क्षेत्रशतेषु ये वालिक अस्ति / एष निदर्शनु कीर्तितु भोती यं जिनु आसि गणेश्वरनामा // SRS_३७.२ //
SK
षष्टिरनूनक कोटिसहस्राण्यासि गणोत्तमु तस्य जिनस्थ / सर्वि अनास्रवि क्षीणकिलेशा अष्टविमोक्षप्रतिष्ठित ध्यायी // SRS_३७.३ //
SK
तत्र च कालि इयमपि सर्वा क्षेम सुभिक्ष अनाकुल आसीत् / सौख्यसमर्पित सर्वमनुष्याः प्रीणित मानुषकेभि सुखेभिः // SRS_३७.४ //
SK
(Vऐद्य २६५) पुण्यबलेन च सर्व उपेता दर्शनियास्तथ प्रेमणियाश्च / आढ्य महाधन सर्व समृद्धा दिव्यसुखेन समर्पितगात्राः // SRS_३७.५ //
SK
सूरतु सुव्रत मन्दकिलेशाः क्षान्तिबलाभिरता अभिरूपाः / देवपुरेषु यथा मरुपुत्राः शीलगुणोपगता मतिमन्तः // SRS_३७.६ //
SK
तत्र च कालि महीपतिरासीद् राजसुतो वरपुष्पसुनामा / तस्य च पुत्र अनूनकमासन् पञ्चशता स्मृतिमन्मतिमन्तः // SRS_३७.७ //
SK
तेन च राजसुतेन जिनस्यो षष्टि उद्यानसहस्रशतानि / पुष्पफलप्रतिमण्डित सर्वे तस्य निर्यातित कारुणिकस्य // SRS_३७.८ //
SK
विचित्र उद्यान सहस्रशता चंक्रमशय्यनिषद्यसहस्रैः / चीवरकोटिसहस्रशतेभिः संस्तृत चंक्रमणाश्च निषद्याः // SRS_३७.९ //
SK
एवमनेकप्रकारसहस्रा यात्तक श्रामणकाः परिभोगाः / राजसुतेन प्रसन्नमनेना तस्य उपस्थापिताः सुगतस्य // SRS_३७.१० //
SK
सो दशसु शुभकर्मपथेषु राज प्रतिष्ठित साधूजनेना / प्राणसहस्रशतानयुतेभिर्गच्छि पुरस्कृतु नायकु द्रष्टम् // SRS_३७.११ //
SK
पुष्पविलेपनधूप गृहीत्वा छत्रपताकध्वजांस्तथ वाद्यान् / (Vऐद्य २६६) पूज करित्व स तस्य जिनस्य प्राञ्जलिकः पुरत स्थित आसीत् // SRS_३७.१२ //
SK
तुष्ट अभूत्तद भिक्षुसहस्रा देवमनुष्यथ यक्षसुराश्च / व्याकरु किं नु जिनो इमु पूजां साधु किं वक्ष्यति धर्मु नरेन्द्रः // SRS_३७.१३ //
SK
तस्य च आशय ज्ञात्व स्वयंभू राजसुतस्य निरुत्तरु चित्तम् / पारगतो अभिमुक्तिपदेषु तस्यिम देशयि शान्त समाधिम् // SRS_३७.१४ //
SK
याव प्रमुक्त गिरा सुगतेना कम्पित मेदिनि सवनषण्डा / पुष्प प्रवर्षि तदा गगनातः पद्मशतापि च उद्गत भूमौ // SRS_३७.१५ //
SK
व्याकरि नायकु आशयु ज्ञात्वा अर्थपदेषु सुशिक्षित शास्ता / देशयि शान्त समाधि नरेन्द्रस्तत्रिमि अर्थपदानि शृणोथ // SRS_३७.१६ //
SK
सर्वि भवा अभवाः परिकल्पास्तुच्छ मरीचिसमा यथ मायाः / विद्यतमेघसमाश्चल शून्याः सर्वि निरात्म निसत्त्व निजीवाः // SRS_३७.१७ //
SK
आदितु शून्य अनागत धर्मा नागत अस्थित स्थानविमुक्ताः / नित्यमसारक मायस्वभावाः शुद्ध विशुद्ध नभोपम सर्वे // SRS_३७.१८ //
SK
नैव च नील न पित न श्वेता नामतु रिक्तकु घोषस्वभावाः / चित्तविविक्त अचित्तस्वभावाः सर्वरूतापगताः क्षणिकत्वात् // SRS_३७.१९ //
SK
भाषतु अक्षरु संक्रमु नास्ति नो पि अभाषतु संकरु भोति / (Vऐद्य २६७) नापि च अक्षर देश व्रजन्ती नो पुनरक्षरु क्रान्ति कुतश्चित् // SRS_३७.२० //
SK
अक्षर अक्षय क्षीण निरुद्धा भाषततो व अभाषततो वा / नित्यमिमक्षर अक्षय उक्ता यः परिजानति सो ऽक्षयु भोति // SRS_३७.२१ //
SK
बुद्धसहस्रशता य अतीता धर्मसहस्रशतानि भणित्वा / नैव च धर्मु न चाक्षर क्षीणा | नास्ति समुत्पत्ति तेन अक्षीणा // SRS_३७.२२ //
SK
येन प्रजानति अक्षयधर्मान् नित्यु प्रजानति अक्षयधर्मान् / सुत्रसहस्रशतानि भणित्वा सर्वि अनक्षर जानति धर्मान् // SRS_३७.२३ //
SK
यं च प्रभाषति धर्म जिनस्यो तं च न मन्यति सो ऽक्षयताये / आदि निरात्मनि ये त्विमि धर्मा तांश्च प्रभाषति नो च क्षपेति // SRS_३७.२४ //
SK
सर्वगिरः स प्रभाषति विज्ञो नो च गिराय हरीयति चित्तम् / सर्वगिरो गिरिघोषनिकाशो तेन न सज्जति जातु गिराये // SRS_३७.२५ //
SK
याय गिराय स कीर्तितु धर्मः सा गिर तत्क्षणि सर्व निरुद्धा / यादृशु लक्षणु तस्य गिराये सर्विमि धर्म तल्लक्षणप्राप्ताः // SRS_३७.२६ //
SK
सर्विमि धर्म अलक्ष विलक्षा सर्वि अलक्षण लक्षणशुद्धाः / नित्य विविक्त विशुद्ध नभो वा संख्य समासतु ते न उपेन्ति // SRS_३७.२७ //
SK
संस्कृतासंस्कृत सर्वि विविक्ता नास्ति विकल्पन तेषमृषीणाम् / (Vऐद्य २६८) सर्वगतीषु असंस्कृत प्राप्ता दृष्टिगतेहि सदैव विविक्ताः // SRS_३७.२८ //
SK
नित्यमरक्त अदुष्ट अमूढास्तस्य स्वभाव समाहितचित्ताः / एष समाधिबली बलवन्तो यो इमु जानति ईदृश धर्मान् // SRS_३७.२९ //
SK
शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुत्क जायि प्रतीत्य / एविमु संस्कृति सर्वि विजाने मायमरीचिसमं जगु सर्वम् // SRS_३७.३० //
SK
प्रज्ञबलं गुण धर्मगतानां ज्ञानबलेन अभिज्ञ ऋषीणाम् / वाच उपायकुशल्य निरुक्ता यत्र प्रकाशितु शान्त समाधिः // SRS_३७.३१ //
SK
कल्पितु वुच्चति कल्पनमात्रं अन्तु न लभ्यति संसरमाणे / कोटि अलक्षण या पुरि आसीदपि अनागति प्रत्ययताये // SRS_३७.३२ //
SK
कर्म क्रियाय च वर्तति एवं हीन उत्कृष्टतया समुदेन्ति / विविक्त धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् // SRS_३७.३३ //
SK
संवृति भाषितु धर्म जिनेनासंस्कृतसंस्कृत पश्यथ एवम् / नास्तिह भूततु आत्म नरो वा एतकु लक्षण सर्वजगस्य // SRS_३७.३४ //
SK
कृष्णाशुभ च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् / नो पुन संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोन्ति // SRS_३७.३५ //
SK
(Vऐद्य २६९) सर्वि भवा अलिका वशिकाश्चो रिक्तकु तुच्छ फेनसमाश्च / मायमरीचिसमाः सद शुन्या देशितु शब्दितु ते च विविक्ताः // SRS_३७.३६ //
SK
एवं विजानतु मन्यन नास्ती शीलवु भोती अनिश्रितचित्तः / क्षान्तिबलेन न कल्पयि किंचि एव चरन्तु समाहितु भोति // SRS_३७.३७ //
SK
यात्तक धर्म विजानि स राजा तात्तक देशित तेन जिनेन / श्रुत्व नृपो इमु धर्म जिनस्यो सपरिवारु समाददि शिक्षाम् // SRS_३७.३८ //
SK
राजसुतो इमु श्रुत्व समाधिं आत्तमना मुदितो भणि वाचम् / सुष्ठु सुभाषितु एष समाधी एष तवा चरणेषु पतामि // SRS_३७.३९ //
SK
तत्र च प्राणिसहस्र अशीतिः श्रुत्विमु धर्मस्वभाव प्रणीतम् / भूतु अयं परमार्थ निर्देशो ते अनुत्पत्तिक क्षान्ति लभिंसु // SRS_३७.४० //
SK
नास्ति उपादु निरोधु नरस्यो एविमि धर्म सदा विविक्ताः / एव प्रजानतु नो परिहाणि राज लभी अनुत्पत्तिक क्षान्तिम् // SRS_३७.४१ //
SK
राज तदा विजहित्वन राज्यं प्रव्रजि शासनि तस्य जिनस्य / ते ऽप्यनु प्रव्रजिताः सुत राज्ञः पञ्चशतानि अनूनक सर्वे // SRS_३७.४२ //
SK
प्रव्रजितो यद राज सपुत्रो अन्य तदा बहुप्राणिसहस्राः / प्रव्रजिताः सुगतस्य समीपे धर्म गवेषियु तस्य जिनस्य // SRS_३७.४३ //
SK
(Vऐद्य २७०) विंशतिवर्षशतान् परिपूर्णान् धर्म प्रकाशितु तेन जिनेना / राज सपुत्रकु तेन जनेना विंशतिवर्षशता चरि धर्मम् // SRS_३७.४४ //
SK
अथ अपरेण पुनः समयेन सो ऽपि जिनः परिनिर्वृतु आसीत् / ये जिनश्रावक ते ऽपि अतीताः सो ऽपि च धर्मु परित्तकु आसीत् // SRS_३७.४५ //
SK
तस्य च राजिन पुत्र अभूषी पुण्यमती सद श्राद्धु प्रसन्नः / तस्य च भिक्षु कुलोपगु आसीत् | सो इमु देशयि शान्त समाधिम् // SRS_३७.४६ //
SK
सो अखिलो मधुरो च अभूषी सत्कृतु प्राणिसहस्रशतेभिः / देवत कोटिशतान्यनुबद्धा वर्ण भणन्ति कुलान् प्रविशित्वा // SRS_३७.४७ //
SK
स स्मृतिमान् मतिमान् गतिमांश्चो सुव्रतु सूरतु शीलरतश्च / सुस्वरु अपरुष सो मधुरश्चो धातुषु ज्ञानवशी वरप्राप्तः // SRS_३७.४८ //
SK
चीवरकोटिशतान च लाभी आसि स भिक्षु यशःप्रभु नाम्ना / तस्य च पुण्यबलं असहन्ता भिक्षुसहस्र तदा जनि ईर्षाम् // SRS_३७.४९ //
SK
पुण्यबलेन च रूपबलेन ज्ञानबलेन च ऋद्धिबलेन / शीलबलेन समाधिबलेनो धर्मबलेन समुद्गत भिक्षुः // SRS_३७.५० //
SK
हृष्टमनश्च प्रियश्च जनस्यो भिक्षु उपासकभिक्षुणिकानाम् / (Vऐद्य २७१) ये जिनशासनि सत्त्व प्रसन्नास्तेषमभीप्सित पूजनियाश्च // SRS_३७.५१ //
SK
यश्च स राजिनु पुत्रु अभूषी पुण्यमती सद श्राद्धु प्रसन्नः / ज्ञात्व प्रदुष्टमनान् बहुभिक्षूं रक्ष स कारयि आचरियस्य // SRS_३७.५२ //
SK
पञ्चहि प्राणिसहस्रशतेही वर्मित खड्गगदायुधकेहि / तेहि सदा परिवारित भिक्षु भाषति भूतचरीमपर्यन्ताम् // SRS_३७.५३ //
SK
सो परिषाय प्रभाषति धर्मं शून्य निरात्म निर्जीविमि धर्माः / ये उपलम्भिक आत्मनिविष्टास्तेष न रोचति यं भणि भिक्षुः // SRS_३७.५४ //
SK
उत्थितु भिक्षव शस्त्र गृहीत्वा येष न रोचति शून्यत शान्ता / एष अधर्म प्रभाषति भिक्षुः एतु हनित्व भविष्यति पुण्यम् // SRS_३७.५५ //
SK
दृष्ट्व च शस्त्र न भायति भिक्षुः शून्यक धर्ममनुस्मरमाणः / नास्तिह सत्त्व नरो वापहत्यै कुड्यसमा इमि रिक्तक धर्माः // SRS_३७.५६ //
SK
भिक्षु करोति स अञ्जलि मूर्ध्ना भाषति वाच नमो ऽस्तु जिनानाम् / येन सत्येनिमि शून्यक धर्मा भोन्तिमि शस्त्र मान्दारवपुष्पाः // SRS_३७.५७ //
SK
शीलव्रतोपगतस्य मुनिस्यो भाषितमात्र अनन्यथवाक्ये / कम्पित मेदिनि सवनषण्डा शस्त्र ते जात मान्दारवपुष्पाः // SRS_३७.५८ //
SK
(Vऐद्य २७२) भिक्षु अभूत्तद मंकुशरीरा ये उपलम्भिक शस्त्रगृहीताः / भूयु य शक्युपसंक्रमणाये त्रस्य अभूत् सुमहाद्भुतजाताः // SRS_३७.५९ //
SK
ये पुन श्राद्ध प्रसन्न मुनीन्द्रे येषिह रोचति शुन्यत शान्ता / तेहि हुंकारसहस्र करित्वा दूष्यशतैरभिछादित भिक्षुः // SRS_३७.६० //
SK
भिक्षु जनित्वन मैत्र स तेषु सर्वजनस्य पुरस्त भणाति / ये मयि सत्त्व प्रदोष करोन्ती तेष कृते न हु बोधि चरामि // SRS_३७.६१ //
SK
तेन च वर्ष अशीतिरनूना भाषित शून्यत कोषु जिनानाम् / भिक्षुसहस्र प्रत्यर्थिक आसन् ये च निवारित राजसुतेन // SRS_३७.६२ //
SK
सो ऽपि तदा परिभूत् अभूषी तस्य च भिक्षु परीत्तकु आसन् / वाचमनिष्ट तदा श्रुणमानः क्षान्तिबला च्युत नो च कदाचित् // SRS_३७.६३ //
SK
सो ऽपरेण च पुनः समयेन प्राणिशतान करी महदर्थम् / शीलमखिलमनुस्मरमाणः पुण्यमतिस्य तदा भणि वाचम् // SRS_३७.६४ //
SK
तत्र स गौरवु कृत्व उदारं पुण्यमती अवची तद भिक्षुम् / मा मम किनचिदाचरियस्यो चेतसि किंचि कृतं अमनापम् // SRS_३७.६५ //
SK
सो अवची शृणु राजकुमारा क्षान्तिबलेन समुद्गत बुद्धाः / (Vऐद्य २७३) येन मि भाषित वाचमनिष्टास्तस्यिमि अन्तिकि मैत्र उदारा // SRS_३७.६६ //
SK
येन स कल्पसहस्रशतानि क्षान्ति निषेवित पूर्वभवेषु / सो अहु भिक्षु यशःप्रभु आसं शाक्यमुनिर्भगवान् भणि वाचम् // SRS_३७.६७ //
SK
येन यशःप्रभु रक्षितु भिक्षुः पुण्यमती तद राजिनु पुत्रः / जातिसहस्र ममासि सहायः सो मय व्याकृतु मैत्रकु बुद्धः // SRS_३७.६८ //
SK
येन गणेश्वर पूजितु शास्ता येन तु कारित श्रेष्ठ विहाराः / पूर्वमसौ वरपुष्पसुनामा सो पदुमोत्तुरु आसि मुनीन्द्रः // SRS_३७.६९ //
SK
एव मया बहुकल्प अनन्ता धारयितामिमु धर्म जिनानाम् / क्षान्तिबलं समुदानित पूर्वे श्रत्व कुमार ममा अनुशिक्षाः // SRS_३७.७० //
SK
निर्वृतिमप्यथ भेष्यति एवं पश्चिमि कालि सद्धर्मविलोपे / भिक्षु व तीर्थमतेष्वभियुक्ता ते मम धर्म प्रतिक्षिपि शान्तम् // SRS_३७.७१ //
SK
उन्नत उद्धत दुष्ट प्रगल्भा पापसहायक भोजनलुब्धाः / चीवरपात्ररताः पटलुब्धाः लाभसंनिश्रित ते क्षिपि धर्मम् // SRS_३७.७२ //
SK
दुष्तप्रदुष्टमना अकृतज्ञा हीनकुलेषु दरिद्रकुलेषु / प्रव्रजिता इह शासनि मह्यं ते ऽपि प्रतिक्षिपि शान्तमु धर्मम् // SRS_३७.७३ //
SK
(Vऐद्य २७४) मारमतेन च मोहित सत्त्वा रागवशानुगताभिनिविष्टाः / मोहवशेन तु मोहित बाला येष न रोचति शून्यत शान्ता // SRS_३७.७४ //
SK
भिक्षु च भिक्षुणिका गृहिणश्चो ग्राहित मोहित पापमतीभिः / तेष वशानुगता सद भूत्वा पश्चिमि कालि प्रतिक्षिपि बोधिम् // SRS_३७.७५ //
SK
श्रुत्व कुमार इमा मम वाचं भिक्षु अरण्यकुले वसि नित्यम् / येषिय रोचति शून्यत शान्ता तैरयु धारितु धर्मु जिनानाम् // SRS_३७.७६ //
SK
प्रव्रजि ते मम शासनि चरित्व भिक्षु उपसंपदपोषधकर्मम् / भुञ्जिमु पिण्डमसक्ता अदुष्टा ये इमु धारयिष्यन्ति समाधिम् // SRS_३७.७७ //
SK
जीवित काय अपेक्षि प्रहाया शून्यत भावयथा सुप्रशान्ताम् / युक्तप्रयुक्तमना च भवित्वा सेव अरण्य सदा मृगभूताः // SRS_३७.७८ //
SK
नित्य करोथ च पूज जिनानां छत्रध्वजर्द्धियमाल्यविहारैः / चेतिय पूजयथा प्रतिमानां क्षिप्र लभिष्यथ एतु समाधिम् // SRS_३७.७९ //
SK
स्तूप करापयथा सुगतानां हेमविभूषित रूपियलिप्तान् / प्रतिम सुनिष्ठित रत्नविचित्रा बोधिनिधानु जनित्वन चित्तम् // SRS_३७.८० //
SK
यावति पूज जगेस्मि प्रणीता दिव्यथ मानुषिका रमणीया / (Vऐद्य २७५) सर्व गवेषिय बुद्ध महेथा बोधिनिधानु करित्व प्रतिज्ञाम् // SRS_३७.८१ //
SK
धर्मत पश्यथ सर्वि नरेन्द्रान् यावत सन्ति दश दिशि लोके / दृश्यति निर्वृति सर्वजिनानां धर्मतया स्थित संमुख बुद्धाः // SRS_३७.८२ //
SK
भोथ च सर्विषु त्यागाधिमुक्ताः शीलविशुद्धगता स्थिरचित्ताः / क्षान्तिरताः सद मैत्ररताश्चो सर्वि प्रजानथ शून्यक धर्मान् // SRS_३७.८३ //
SK
वीर्यु जनेथ अलीन अदीनाः ध्यानरताः प्रविवेकरताश्च / प्रज्ञ प्रजानथ प्रज्ञविशुद्धिं भेष्यथ कारुणिका नचिरेण // SRS_३७.८४ //
SK
रागु शमेथ सदा अशुभा ये दोषु निगृह्णथ क्षान्तिबलेन / मोहु निगृह्णथ प्रज्ञबलेना प्राप्स्यथ बोधि जिनानु प्रशस्ताम् // SRS_३७.८५ //
SK
कायु विभावयथा यथा फेनं दुःखमसारकु पूतिदुर्गन्धम् / स्कन्ध प्रजानथ रिक्तक सर्वांल्लप्स्यथ ज्ञानमनुत्तरु क्षिप्रम् // SRS_३७.८६ //
SK
दृष्टि म गृह्णथ पापिक जातु आत्म अयं पुरुषो अथ जीवः / सर्वि प्रजानथ शून्यक धर्मान् क्षिप्र स्पृशिष्यथ उत्तमबोधिम् // SRS_३७.८७ //
SK
लाभ म कुर्वथ गृद्धो कदाचित् मा परितप्यथ पिण्डलमब्ध्वा / निन्दित शंसित मा खु चलेथा मेरुसमाश्च अकम्पिय भोथा // SRS_३७.८८ //
SK
(Vऐद्य २७६) धर्म गवेषथ गौरवजाताः श्रत्व तदापि च तत्पर भोथ / तिष्ठत गोचरि सर्वजिनानां यास्यथ क्षिप्र सुखावतिक्षेत्रम् // SRS_३७.८९ //
SK
सर्वजगे समचित्त भवित्वा अप्रिय मा प्रिय चित्त करोथ / मा न गवेषथ लाभु यशो वा क्षिप्र भविष्यथ बुद्ध मुनीन्द्राः // SRS_३७.९० //
SK
बुद्धगुणांश्च प्रभाषथ नित्यं भूतगुणेहि निरुक्तिपदेहि / यान् गुण श्रुत्विह सत्त्व प्रसन्नाः बुद्धगुणेषु स्पृहां जनयेयुः // SRS_३७.९१ //
SK
नित्य सगौरव चाचरियेषु मातु पितुस्तथ सर्वजगस्मिन् / मा पुन मानवशानुग भोथा लप्स्यथ लक्षण त्रिंश दुवे च // SRS_३७.९२ //
SK
संगणिकां विजहित्व अशेषां नित्यु विवेकरतापि च भोथ / सूरत नित्युपशोभन शान्ता आत्महिताः परसत्त्वहिताश्च // SRS_३७.९३ //
SK
मैत्रि निषेवि तथा करुणां चो मुदितपेक्षरताः सद भोथ / शास्तुः प्रशासनु पश्यथ नित्यं भेष्यथ क्षिप्र हितंकरु लोके // SRS_३७.९४ //
SK
पापक मित्र म जातु भजेथ सेवथ मित्र ये भोन्ति उदाराः / येषिह रोचति शून्यत शान्ता ये अभिप्रस्थिता उत्तमबोधिम् // SRS_३७.९५ //
SK
श्रावकभूमि म शिक्षथ जातु मा च स्पृहेष्यथ तत्र चरीये / (Vऐद्य २७७) चित्तु म रिञ्चथ बुद्धगुणेषु क्षिप्र भविष्यथ बुद्ध जिनेन्द्राः // SRS_३७.९६ //
SK
सत्य गिरं सद भाषथ शुद्धां मा मृष भाषथ मा परुषां च / नित्य प्रियं मधुरं च भणेथा लप्स्यथ वाच लोकाचरियाणाम् // SRS_३७.९७ //
SK
कायि अनर्थिक जीवित भोथा मात्म उत्कर्षक मा परपंसी / आत्मगुणान् समुदानयमानाः परचरियासु उपेक्षक भोथ // SRS_३७.९८ //
SK
शून्यविमोक्षरताः सद भोथा मा प्रणिधान करोथ गतीषु / सर्वनिमित्त विवर्ज्य अशेषां भोथ सदा अनिमित्तविहारी // SRS_३७.९९ //
SK
अन्त विवर्जयथा सदकालं शाश्वतुच्छेदस्थिता म भवाथ / प्रत्ययता सद बुध्यत सर्वं एव भविष्यथ यादृश शास्ता // SRS_३७.१०० //
SK
कामरतीषु रतिं विजहित्वा दोषखिलांश्च मलान् विजहित्वा / मोहतमो विजहित्वसे सर्वं शान्तरता नरसिंह भवाथ // SRS_३७.१०१ //
SK
नित्यमनित्य च पश्यथ नित्यं सर्वभवा सुखदुःख विमुच्य / अशुभमनात्मत आत्मशुभेषु भावयमानु भवेय नरेद्रः // SRS_३७.१०२ //
SK
लोकप्रदीपकरेभि जिनेभिर्येषिह योनिशो धर्म सुनीत / तैरिह मारबलानि हनित्वा प्राप्तमनुत्तरबोधिरुदारा // SRS_३७.१०३ //
SK
(Vऐद्य २७८) यात्तक भाषित एति गुणा मे ये च प्रकाशित दोषशता मे / दोष विवर्जिय शिक्ष गुणेषु भेष्यसि बुद्धु तदेह कुमार // SRS_३७.१०४ //
SK
इति श्रीसमाधिराजे यशःप्रभपरिवर्तः सप्तत्रिंशतितमः
SK
(Vऐद्य २७९) ३८ Kआयवाङ्मनःसंवरपरिवर्तः |
SK
तस्मात्तर्हि कुमार कायसंवरसंवृतो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् | तत्र कुमार कतमः कायसंवरः? येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वधर्मेष्वसङ्गज्ञानं प्रतिलभते, अयमुच्यते कुमार कायसंवर इति | येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते, अयमुच्यते - - - - - - इति | येन - - - - - - महासत्त्वो दश तथागतबलानि चत्वारि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते, अयमुच्यते - - - - इति | येन - - - - महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते | कतमानि त्रीणि? यदुत शून्यतामनिमित्तमप्रणिहितम् | इमानि त्रीणि विमोक्षमुखानि, अयमुच्यते - - - - इति | येन - - - - महासत्त्वश्चतुरो ब्राह्मान् विहारान् प्रतिलभते | कतमांश्चतुरः ?यदुत मैत्रीं करुणां मुदितामुपेक्षां इमांश्चतुरो ब्राह्मान् विहारान्, अयमुच्यते - - - - इति | येन - - - - महासत्त्वश्चतस्रः प्रतिसंविदः प्रतिलभते | कतमाश्चतस्रः? यदुत अर्थप्रतिसंवित् धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् | इमाश्चतस्रः प्रतिसंविदः, अयमुच्यते - - - - इति | येन महासत्त्वः सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते | कतमान् सप्तत्रिंशत्?यदुत चत्वारि स्मृत्युपस्थानानि | चत्वारि सम्यक्प्रहाणानि | चतुर ऋद्धिपादान् | पञ्चेन्द्रियाणि | पञ्च बलानि | सप्त बोध्यङ्गानि | आर्याष्टाङ्गकं मार्गम् | इमान् सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते | अयमुच्यते - - - - इति | येन - - - - महासत्त्वो महाकरुणाविहारं प्रतिलभते | महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते | प्रविवेकांश्च धर्मान् प्रतिलभते | अयमुच्यते कायसंवर इति ||
SK
पुनरपरं कुमार येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः प्राणातिपातात् प्रतिविरतो भवति | अदत्तादानात् अब्रह्मचर्यान्मृषावादात् पिशुनवचनात् परुषवचनात् संभिन्नप्रलापात् अभिध्यायादू व्यापादन्मिथ्यादृष्टेः प्रतिविरतो भवति | तुलाकूटान्मानकूटात्कांस्यकूटात् कर्षणबन्धनरोधनताडनच्छेदनभेदनविपरामोषालोकसाहसेभ्यः प्रतिवरतो भवति | न हस्तलोलः न पादलोलो हस्तपादसंयतः| तस्य सर्वं कायवाङ्भनोदौष्ठुल्यं प्रहीणं भवत्युच्छिन्नमूलं तालामस्तकवदायत्यामनुत्पादधर्मि | अयमुच्यते कुमार कायसंवर इति | तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम् ||
SK
भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमाणे यदासीत् | तेन कालेन तेन समयेन ज्ञानप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक (Vऐद्य २८०) उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् | तेन खलु पुनः कुमार कालेन तेन समयेन तस्य भगवतो ज्ञानप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य षष्टिवर्षकोट्यः आयुष्प्रमाणमभूत् | षष्टिरर्हत्कोट्यः श्रावकसंघो ऽभूत् | अप्रमेयाश्च बोधिसत्त्वा महासत्त्वाः सद्धर्मपरिग्राहका अभूवन् ||
SK
तेन च कुमार कालेन तेन समयेन राजाभूद्विशेषचिन्ती नाम | अथ खलु राजा विशेषचिन्ती अशीत्या प्राणिकोटिभिः सार्धं तथागतमुपसंक्रान्तः| उप्संक्रम्य तस्य तथागतस्य पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्यैकान्ते न्यषीदत् | एकान्तनिषण्णश्च राजा विशेषचिन्ती तं तथागतं पर्युपास्ते | अथ खलु कुमार ज्ञानप्रभासस्तथागतो ऽर्हन् सम्यक्संबुद्धो राज्ञो विशेषचिन्तिनः सपरिवारस्याध्याशयं विदित्वा इतो धर्मपर्यायादिमं कायसंवरसमाधिमुखप्रवेशं गाथाभिगीतेन देशयति -
SK
यथान्तरीक्षं गगनं विशुद्धमत्यन्तशुद्धं प्रकृतिप्रभास्वरम् / एमेव शुद्धो अयु कायसंवरो न शक्यु घोषेण कदाचि देशितुम् // SRS_३८.१ //
SK
विविक्तु शून्यो अयु कायसंवरो एतादृशे ते उभि कायलक्षणे / अलक्षणास्ते यथ अन्तरीक्षं तल्लक्षणो देशितु कायसंवरः // SRS_३८.२ //
SK
यो जानती संवरमेवलक्षणं न तस्य जातु भवती नसंवरः / ये चाप्रवृत्ताः कृतु तेष गोचरो अनास्रवस्यो उपपत्ति नास्ति // SRS_३८.३ //
SK
न शक्यु कामान् प्रतिसेवमानै रूपेषु भोगेषु जहित्व तृष्णाम् / भवेषु दोषानविजानमानैर्न शक्यु ज्ञातुमयु कायसंवरः // SRS_३८.४ //
SK
अनास्रवं संवरु यः प्रजानते न तस्य भोती उपपत्ति जातु / अर्हन्तधर्मा इम एवरूपाः न सुकरं जानितु तीर्थिकेभिः // SRS_३८.५ //
SK
(Vऐद्य २८१) ये सर्वत्रैधातुकि त्रस्तमानसा न कामभोगेषु स्पृहां जनेन्ति / राज्येन भोगैश्च न जातु अर्थिका ज्ञास्यन्ति ते ईदृश कायसंवरः // SRS_३८.६ //
SK
अर्थो अयं वुच्चति कायसंवरो अर्थश्च शब्देन न शक्यु देशितुम् / यो जानती ईदृशु धर्मनेत्रीं स संवरे ऽस्मिन् भवति प्रतिष्ठितः // SRS_३८.७ //
SK
अर्थे प्रयुक्तान मयार्थु देशितो ये अर्थनेत्रीपरता विचक्षणाः / अनर्थु वर्जेन्ति य अर्थयुक्ता ते संवरे ऽस्मिन् सततं प्रतिष्ठिताः // SRS_३८.८ //
SK
अर्थो य उक्तो हि जिनान शासने कथं स अर्थो भवती विजानतो / यो अर्थनेत्रीय स्वभावु जानति प्रतिष्ठितः सोच्यति कायसंवरे // SRS_३८.९ //
SK
येनानिमित्तं भवती विजानितं नैरात्म्यतः शून्यतु तुच्छतो वा / न तस्य जातू भवति नसंवरस्तथाहि सो शिक्षितु भूतनिश्चये // SRS_३८.१० //
SK
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते / यः सर्वभावेषु न जातु सज्जते | स आनिमित्तं स्पृशती समाधिम् // SRS_३८.११ //
SK
विज्ञात येनेह निरात्मधर्माः स्वभावशून्याः प्रकृतिप्रभास्वराः / न तस्य जातु भवती असंवरस्तथाहि सो शिक्षितु भूतनिश्चये // SRS_३८.१२ //
SK
यो जानती शून्यत पञ्चस्कन्धान् विदित्व नैरात्मस्वभावशून्यान् / (Vऐद्य २८२) न तस्य जातु भवती असंवरो यत् कर्म कायेन समाचरेत // SRS_३८.१३ //
SK
निमित्तग्राहिस्य असंवृतस्य य आत्मसंज्ञाय सदा प्रतिष्ठितः / रूपेषु आस्वादगतस्य जन्तुनः प्रकुप्यते राग असंवृतस्य // SRS_३८.१४ //
SK
ये भूतकोटीय भवन्ति शिक्षिता गतिंगताः सूरत शून्यतायाम् / न तेष रागः पुन जातु कुप्यते असंवरो येन व्रजेत दुर्गतिम् // SRS_३८.१५ //
SK
न शक्यु कम्पेतु यथा सुमेरु अचालियः सर्वपिपीलिकैर्महान् / तथा विदू भूतनयेषु शिक्षितो रूपेहि दिव्यैरपि सो न कम्पते // SRS_३८.१६ //
SK
शक्येत रङ्गैर्गगनं विचित्रितुं शक्येत चाकाश गृहीतु पाणिना / न त्वेव शक्यं स विचालनाय रागेण दोषेण न च मारकोटिभिः // SRS_३८.१७ //
SK
प्रतिश्रुका शक्यु गृहीतु केनचिच्छिला प्लवेदप्युदकस्य मध्ये / द्रष्टुं न शक्यं त्विह तस्य आशया यः शिक्षितो ईदृशि कायसंवरे // SRS_३८.१८ //
SK
यावन्त शब्दाः पृथु सर्वलोके गृह्णित्व पेडागत शक्य कर्तुम् / न तस्य शक्यं स्थितिरस्थितिर्वा विजानितुं यः स्थितु कायसंवरे // SRS_३८.१९ //
SK
शक्यं प्रभा गृह्णितु सूर्यमण्डलात् प्रगर्जतो मेघतु विद्युतो वा / न तस्य कायस्य स्वभाव ज्ञातुं यः शिक्षितः स्यादिह कायसंवरे // SRS_३८.२० //
SK
जालेन पाशेन च शक्यु बन्धितुं चतुर्दिशं वायति वातमण्डली / (Vऐद्य २८३) न शक्यमाजानितु तस्य कायः प्रतिष्ठितो यो इह कायसंवरे // SRS_३८.२१ //
SK
अगोचरो ऽसाविह सर्वप्राणिनां यत्र स्थितो यो विदु चित्तसंयमे / यत्र स्थितो गोचरि कायसंवरे न लिप्यते खमिव स लोकधर्मैः // SRS_३८.२२ //
SK
शक्यं पदं पश्यितु सर्वप्राणिनां नमे चरन्तान पृथक् चतुर्दिशम् / न तस्य कायस्य न चित्तगोचरो प्रमाणु ज्ञातुमिह शक्य केनचित् // SRS_३८.२३ //
SK
एवं स्थितस्यो इह कायसंवरे सर्वे न भोन्ति विविधाः किलेशाः / प्रहीण तस्येह उपकिलेशास्तथा ह्यसौ शिक्षितु कायसंवरे // SRS_३८.२४ //
SK
न तस्य अग्निः क्रमते न शस्त्रं तथापि अग्राह्यु स तस्य कायः / शन्तप्रशान्ते स्थितु सो समाधौ तथा ह्यसौ शिक्षितु कायसंवरे // SRS_३८.२५ //
SK
एवं स्थितस्यो न भयं न त्रासो न क्षोभु चित्तस्यु न चेर्ष्यु जायते / मुक्तः स सर्वेभिरुपद्रवेभिर्यः शिक्षितो तादृश कायसंवरे // SRS_३८.२६ //
SK
विषस्य शस्त्रस्य न जातु भायति न चाग्निमध्ये न जलस्य मध्ये / सर्वेहि मुक्तः स उपद्रवेहि य शिक्षितो ईदृश कायसंवरे // SRS_३८.२७ //
SK
चौराण धूर्तान च पापकारिणामाशीविषामध्यगतो न भायते / तथा हि तस्यो विगतात्मसंज्ञा संज्ञाविमुक्तस्य भयं न भोति // SRS_३८.२८ //
SK
भयैर्विमुक्तस्य न त्रासु जायते असंत्रसन्तस्य न भोति इञ्जना / (Vऐद्य २८४) अनिञ्जमानस्य कुतो ऽस्ति त्रासो न मारकोटीभि स शक्यु कम्पितुम् // SRS_३८.२९ //
SK
आचक्षितो देशितु संप्रकाशितो यो बोधिसत्त्वस्य हिताय संवरः / यः शिक्षते ईदृश कायसंवरे सो भोति नो कम्पियु मारकोटिभिः // SRS_३८.३० //
SK
सर्वेषु धर्मेषु असंज्ञज्ञानं पूर्णा अशीतिरनुव्यञ्जनानि / द्वात्रिंश चो लक्षण चित्तशुद्धा न दुर्लभा भोन्ति स्थितस्य संवरे // SRS_३८.३१ //
SK
य इच्छते बुध्यितु बुद्धधर्मान् अचिन्तियान् येष प्रमाणु नास्ति / स शिक्षितु ईदृशुः कायसंवरे भविष्यते चेतियु सर्वलोके // SRS_३८.३२ //
SK
य इच्छते धर्ममिमं महर्षिणां दशो बलान् बुद्धबलानचिन्तियान् / स शिक्षितु ईदृश कायसंवरे यः शिक्षितस्तस्य बला न दुर्लभाः // SRS_३८.३३ //
SK
ये चापि अष्टादश बुद्धधर्मा आवेणिका येषु जिना प्रतिष्ठिताः / ते चापि तस्यो न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // SRS_३८.३४ //
SK
ये सप्त बोध्यङ्ग महामहर्षिणां प्रतिसंविदश्चो तथ ऋद्धिपादाः / ते चापि तस्यो न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // SRS_३८.३५ //
SK
ब्रह्माविहाराश्चतुरश्च ध्याना विमोक्षद्वारास्त्रय संप्रकाशिताः / क्षेमा वितर्का अथ प्राविवेक्या न दुर्लभा भोन्ति स्थितस्य संवरे // SRS_३८.३६ //
SK
करुणाविहारी तथुपेक्षलाभी तथ ईर्यचर्यामिह मैत्रिवराम् / (Vऐद्य २८५) हितचित्तु भोति च स सर्वजगे यः कायसंवरि स्थितो भवति // SRS_३८.३७ //
SK
स्मृती उपस्थान प्रहाण सम्यक् पञ्चेन्द्रियाः पञ्च बला महर्षिणाम् / आश्चर्य अष्टाङ्गिकु मार्गश्रेष्ठो न दुर्लभो शिक्षितु कायसंवरे // SRS_३८.३८ //
SK
ये चापि अन्ये वर बुद्धधर्मा अचिन्तिया येष प्रमाणु नास्ति / ते तस्य सर्वे न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // SRS_३८.३९ //
SK
श्रुत्वा इहो ईदृश कायसंवरे विशेषप्राप्तो अभु राजपुत्रः / तुष्टो उदग्रो अतुलाय प्रीतिया स प्रव्रजी तस्य जिनस्य शासने // SRS_३८.४० //
SK
स प्रव्रजित्वा दश वर्षकोटीरचार्षि शुद्धं वर ब्रह्मचर्यम् / भावेत्व ब्राह्मान् चतुरो विहारानर्थाय लोकस्य सदेवकस्य // SRS_३८.४१ //
SK
सुभाविता ब्रह्मविहार कृत्वा अद्राक्षि बुद्धान अशीतिकोटियः / ततोत्तरे यात्तिक गङ्गवालिका इदं चरं सो वर ब्रह्मचर्यम् // SRS_३८.४२ //
SK
सर्वेष चो शासनि प्रव्रजित्वा अचार्षि शुद्धं वर ब्रह्मचर्यम् / भिक्षु अभूषी वर धर्मभाणको बहुश्रुतश्चो प्रतिभानवांश्च // SRS_३८.४३ //
SK
अखण्डशीलश्च अच्छिद्रशीलो विशुद्धशीलो अकल्माषशीलः / आर्ये च शीले स अनास्रवे स्थितः | प्रजानमानो इमु कायसंवरम् // SRS_३८.४४ //
SK
(Vऐद्य २८६) सिया कुमारा तव अन्य सासीद् विशेषचिन्ती तद राजकुञ्जरः / न एव द्रष्टव्यमिहान्यु सो ऽभूत्तदाहमासं चरमाणु चारिकाम् // SRS_३८.४५ //
SK
तस्मात् कुमारा मम शिक्षमाणा प्रतिष्ठिहेसी इह कायसंवरे / अन्येष चो देशय प्राणकोटिनां नचिरेण त्वं भेष्यसि यादृशो ऽहम् // SRS_३८.४६ //
SK
तस्मात्तर्हि कुमार परिशुद्धकायसमाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् | तत् कस्य हेतोः? परिशुद्धकायसमाचारो हि कुमार बोधिसत्त्वो महासत्त्वो न निरयेभ्यो बिभेति | न तिर्यग्योनेर्न यमलोकान्न सर्वदुर्गतिभ्यो बिभेति | नोदकाद् बिभेति | न शस्त्रतो न सिंहेभ्यो न व्याघ्रेभ्यो न ऋक्षेभ्यो न हस्तिभ्यो नर्षभेभ्यो न मनुष्येभ्यो बिभेति | परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्वः इममपि त्रिसाहस्रं महासाहस्रं लोकधातुं करतले कृत्वा तालमात्रं द्वितालमात्रं त्रितालमात्रं चतुस्तालमात्रं पञ्चतालमात्रं षट्तालमात्रं सप्ततालमात्रमुत्क्षिपेत् | यावन्तं वा पुनराकाङ्क्षेत्तावन्तमेवोत्क्षिपेत् ||
SK
पुनरपरं परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्व ऋद्धिप्रातिहार्ये परमपारमिप्राप्तो भवति | स ऋद्धिपादविपाकविशुद्धः पुण्यपरिगृहीतो विवेकविविक्तः सर्वत्रानुगत एतत्समाधिप्रतिलब्धः अनास्रवपुण्यपरिनिष्पन्नः सर्वलोकधातावप्रतिहतचक्षुः एवंरूपैः ऋद्धिप्रतिहार्यैः समन्वागतो भवति | तत्र कतमा ऋद्धिः? यया ऋद्धया प्रार्थनासमृद्धिपरिनिष्पत्तिः | इयमुच्यते ऋद्धिरिति | तत्र कतमद् ऋद्धिप्रातिहार्यम्? यया ऋद्धया समन्वागतो बोधिसत्त्वो महासत्त्व अनेकविधानृद्धिविषयान् प्रत्युनुभवति | एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वैको भवति | अविर्भावं तिरोभावमपि प्रत्यनुभवति | तिरःकुड्यं तिरःप्राकारः तिरःपर्वतमप्यसज्जमानो गच्छति | आकाशे ऽपि क्रमते तद्यथापि नाम पक्षी शकुनिः | पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नामोदके | उदके ऽप्यभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम् | धूमायत्यपि प्रज्वलत्यपि तद्यथापि नाम महानग्निस्कन्धः | इमावपि चन्द्रसूर्यावेवंमहर्द्धिकावेवंमहानुभावौ एवंमहौजस्कौ पाणिना परामृशति परिमार्जति | आकाङ्क्षमाणो यावद् ब्रह्मलोकादपि सत्त्वान् कायेन वशे वर्तयति ||
SK
(Vऐद्य २८७) अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
पृथिवीय उन्मज्ज निमज्ज गच्छती अभिद्यमानो उदके ऽपि गच्छति / पक्षी यथा गगनतलेन गच्छती धूमायते प्रज्वलते च ऋद्धिया // SRS_३८.४७ //
SK
यथान्तरीक्षस्मि न वायु सज्जते गच्छन्ति चास्मिं बहवो ऽभ्रकूटाः / तथैव योगी गगनेन गच्छती असज्जमानो यथ वातमेघः // SRS_३८.४८ //
SK
यथा निषण्णो विदु योगि भोती परिमार्जते पाणिन चन्द्रसूर्यौ / आसन्न सो जानति ब्रह्मलोकं ब्रह्माण कोटीन स धर्म देशयी // SRS_३८.४९ //
SK
यदा च आकाङ्क्षति धर्म भाषितुं महात्रिसाहस्र स विज्ञपेति / आकाङ्क्षमाणो बहुक्षेत्रकोटिषु देशेति धर्म बहुसत्त्वकोटिनाम् // SRS_३८.५० //
SK
तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् | तत् कस्य हेतोः? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना अतिक्रान्तमानुषकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश्च | नैरयिकानामपि तिर्यग्योनिगतानामपि यामलौकिकानामपि | ये दूरे अन्तिके वा देवानां मनुष्याणां वा दूरावचराणां वा अन्तिकावचराणां वा ||
SK
तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् | तत् कस्य हेतोः? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः परसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कचरितानि यथाभूतं प्रजानाति | सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति | वीतरागं चित्तं वीतरागं चित्तमिति यथाभूतं प्रजानाति | पेयालं | सदोषं (Vऐद्य २८८) वीतदोषं समोहं वीतमोहं सोपादानमनुपादानं संक्षिप्तं विक्षिप्तं विपरीतमविपरीतं सक्लेशं निष्क्लेशं महद्गतममहद्गतं प्रभास्वरमप्रभास्वरं सप्रमाणमप्रमाणं सोत्तरमनुत्तरं समाहितमसमाहितं विमुक्तमविमुक्तं - - - - साङ्गणं चित्तं साङ्गणं चित्तमिति यथाभूतं प्रजानाति | अनङ्गणं चित्तमनङ्गणं चित्तमिति यथाभूतं प्रजानाति | इति हि सर्वसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कं यथाभूतं प्रजानाति ||
SK
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः साकारं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति | एकामपि जातिमनुस्मरति | द्वे तिस्रः पञ्च दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् जातिअशतमप्यनुस्मरति | जातिसहस्रप्यनुस्मरति | जातिशतसहस्रमपि यावदनेकान्यपि कल्पकोटिनयुतशतसहस्राण्यनुस्मरति | संवर्तकल्पमप्यनुस्मरति विवर्तकल्पमपि | यावदनेकानपि संवर्तविवर्तकल्पाननुस्मरति | कल्पमप्यनुस्मरति कल्पशतमपि कल्पसहस्रमपि कल्पशतसहस्रमपि, यावदनेकान्यपि कल्पकोटीनयुतशतसहस्राण्यनुस्मरति | यावत् पूर्वान्तकोटीमप्यनुस्मरति | अमुत्राहमासमेवंनामा एवंगोत्र एवंजात्य एवंवर्ण एवमाहार एवमाजीव एवमायुष्प्रमाण एवंचिरस्थितिक एवंसुखदुःखप्रतिसंवेदी | ततश्च्युतः अमुत्रोपपन्नः | सो ऽहं ततश्च्युत इहास्म्युपपन्न इति | साकारं सनिमित्तं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति ||
SK
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सर्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति इमे बत सत्त्वाः कायदुश्चरितेन समन्वागता वागदुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टिका मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणादपायं दुर्गतिं विनिपातं निरयेषु उपपन्नाः | इमे पुनर्बत सत्त्वाः कायसुचरितेन समन्वागता वाकसुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिर्मसमादानहेतोः कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोके देवेषूपपन्नाः | इति हि देव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति ||
SK
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः एकक्षणसमायुक्तया प्रज्ञया यत् किंचिज्ज्ञातव्यमधिमोक्तव्यं विकुर्वितव्यं तत्सर्वं यथाभूतं प्रजानाति शृणोति पश्यते बुध्यते ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
अभिज्ञाक्रमनिर्दिष्टो बोधिसत्त्वान तायिनाम् / समाधीय स्थिहित्वान बोधिसत्त्वो ऽधिगच्छति // SRS_३८.५१ //
SK
(Vऐद्य २८९) श्रोत्रं च ते विशोधेन्ति दिव्यं श्रोत्रमचिन्तियम् / येन शृण्वन्ति ते धर्मान् सर्वबुद्धेहि भाषितान् // SRS_३८.५२ //
SK
सरागमसरागं वा सदोषं वीतदोषकम् / समोहं वीतमोहं वा चित्तं जानन्ति प्राणिनाम् // SRS_३८.५३ //
SK
पूर्वेनिवासं जानन्ति यत्र ते उषिताः पुरा / कल्पकोटीसहस्राणि सङ्गस्तेषां न विद्यते // SRS_३८.५४ //
SK
चक्षुश्च ते विशोधेन्ति दिव्यं चक्षुरनुत्तरम् / अनुपश्यन्ति ते सत्त्वांश्च्यवतो ऽप्युपपद्यतः // SRS_३८.५५ //
SK
एकक्षणसमायुक्तप्रज्ञया सर्वजातिषु / यत् किंचिदिह ज्ञातव्यं धर्माणां भूतलक्षणम् // SRS_३८.५६ //
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार वाक्संवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् | तत्र कुमार कतमो वाक्संवरः? येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः षष्ट्याकारसमन्वागतमसङ्गबुद्धस्वरघोषमचित्यं प्रतिलभते | अयमुच्यते कुमार वाक्संवरः | येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः आदेयवाक्यतां प्रतिलभते | अयमुच्यते कुमार वाक्संवरः | येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते | दश तथागतबलानि, चत्वारि तथागतवैशारध्यानि, अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते | अयमुच्यते कुमार वाक्संवरः | येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते, चतुरो ब्रह्मविहारान् प्रतिलभते | अयमुच्यते कुमार वाक्संवरः | येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते | चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि,पञ्च बलानि,सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते | अयमुच्यते कुमार वाक्संवरः | येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते, महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते, प्रविवेकांश्च वितर्कान् प्रतिलभते | अयमुच्यते कुमार वाक्संवर इति ||
SK
पुनरपरं कुमार वाक्संवर उच्यते - येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मृषावादात् प्रतिविरतो भवति | पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवति | मातापितृणामाचार्याणां चान्तिके असभ्यां वाचं न निश्चारयति | या अपि तदन्या दोषोपसंहिता वाचस्ताभ्यो बोधिसत्त्वः प्रतिविरतो भवति | ताश्च वाचः प्रतिश्रुत्कोपमा अवतरति | स्वप्नोपमा निर्मितोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा मायोपमा अवतरति | स तामेवंभूतां वाचं नोपलभते, न कल्पयति,न मन्यते,नावलम्बते, नाभिनिविशते | अयमुच्यते कुमार (Vऐद्य २९०) वाक्संवरः | परिशुद्धवाक्संवरो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वापायेभ्यो न बिभेति | सर्वबुद्धधर्मान् प्रतिलभते | सर्वबुद्धर्द्धि सर्वाभिज्ञां प्रतिलभते ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
येनेह वाक्संवरणेनुपेतो लभत्यवशं स हि बोधिसत्त्वः / सर्वेषु धर्मेषु असङ्गज्ञानमयं हि सो उच्यति वाचसंवरः // SRS_३८.५७ //
SK
येनेह वाक्संवरणेन धीरा लभन्ति द्वात्रिंशति लक्षणानि / दशो बलावेणिकबुद्धधर्मानयं हि सो उच्यति वाचसंवरः // SRS_३८.५८ //
SK
येनह वाक्संवरणेन धीमान् प्राप्नोति सर्वानिम बुद्धधर्मान् / ये पूर्वमस्मिन् परिकीर्तिता मे अयं हि सो उच्यति वाचसंवरः // SRS_३८.५९ //
SK
येनेह वाचावरणेन धीमान् लभेद्विहारान् प्रतिसंविदश्च / अत्यद्भुतान् धर्म अचिन्तियांश्च अयं हि सो उच्यति वाचसंवरः // SRS_३८.६० //
SK
येनेह वाचावरणेन धीमान् स्मृत्युपस्थानानि सम्यक्प्रहाणा / तथर्द्धिपादान् बल इन्द्रियाणि लभत्ययं सोच्यति वाचसंवरः // SRS_३८.६१ //
SK
येनेह वाक्संवरणेन धीमान् महा उपेक्षां लभते विशारदः / महाकृपां शुद्धविहारतां च अयं हि सो उच्यति वाचसंवरः // SRS_३८.६२ //
SK
येनेह वाक्संवरणेन धीमान् क्षेमान् वितर्कांल्लभते विशुद्धान् / (Vऐद्य २९१) तथा वितर्कान् प्रविवेकशान्तानयं हि सो उच्यति वाचसंवरः // SRS_३८.६३ //
SK
येनेह वाक्संवरणेन धीमान् मृषा न भाषी पिशुनाश्च वाचः / संभिन्नप्रलापं परुषां च वाचं अयं खु सो उच्यति वाचसंवरः // SRS_३८.६४ //
SK
येनेह वाक्संवरणेन धीमान् सद्धर्मक्षेपं न करोति जातु / न बुद्धसंघं च अभ्याचक्षेत अयं खो सो उच्यति वाचसंवरः // SRS_३८.६५ //
SK
येनेह वाक्संवरणेन धीमान् मातापितृष्वाचरियानमन्तिके / असत्यवाचं पुरतो न भाषी अयं खु सो उच्यति वाचसंवरः // SRS_३८.६६ //
SK
येनेह वाक्संवरणेन धीमान् या अन्यवाचो इह दोषसंहिताः / ताभ्यो ऽप्यशेषं विरतः स भोति अयं खु सो उच्यति वाचसंवरः // SRS_३८.६७ //
SK
येनेह वाक्संवरणेन धीमान् प्रतिश्रुत्कसंनिभतां पि वाचम् / सुपिनोपमामो तरते विशारदो अयं खु सो उच्यति वाचसंवरः // SRS_३८.६८ //
SK
निरात्मनिर्जीवनिरीहतां चा प्रतीत्युत्पन्नां सुपिनोपमां मृषा / यदेव वाचोत्तरि बोधिसत्त्वो अयं खु सो उच्यति वाचसंवरः // SRS_३८.६९ //
SK
निरोधसत्यं सुपिनं यथैव स्वप्नस्वभावा अथ निर्वृतिं च / यदेव वाचोत्तरि बोधिसत्त्वो अयं खु सो उच्यति वाचसंवरः // SRS_३८.७० //
SK
(Vऐद्य २९२) नो चापि वाचं लभते स कांचिन्न कल्पयी नापि च मन्यते सः / नालम्बते नाभिनिवेश जातू अयं खु सो उच्यति वाचसंवरः // SRS_३८.७१ //
SK
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार मनःसंवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् | तत्र कुमार कतमो मनःसंवरः? येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो वज्रोपमं समाधिं प्रतिलभते | अयमुच्यते कुमार मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्वो महासत्त्वो ज्वलनान्तराभां नाम रश्मिं प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो ऽष्टाङ्गोपेतस्वरघोषसंपदं प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते | दश तथागतबलानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिकांश्च बुद्धधर्मान् प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः त्रीणि विमोक्षमुखानि प्रतिलभते | शून्यतामनिमित्तमप्रणिहितं विमोक्षमुखं प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेणः समन्वागतो बोधिसत्त्वो महासत्त्वश्चतुरो ब्रह्मविहारान् प्रतिलभते | महामैत्रीं महाकरुणां महामुदितां महोपेक्षां प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते | चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि,पञ्च बलानि,सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते | अयमुच्यते मनःसंवरः | येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते | महोपेक्षाविहारं प्रतिलभते | क्षेमांश्च वितर्कान् प्रतिलभते | प्रविवेकांश्च वितर्कान् प्रतिलभते | हितैषितां च ईर्यां च चर्यां च प्रतिलभते | अयमुच्यते मनःसंवरः ||
SK
पुनरपरं कुमार मनःसंवर उच्यते - येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मिथ्यादृष्टिप्रहाणाय मिथ्यादृष्ट्या सार्धं न संवसति | अभिध्याप्रहाणाय अनभिध्यालुर्भवति | व्यापादप्रहाणाय व्यापादेन सार्धं न संवसति | कौसीद्यप्रहाणाय कुसीदेन सार्धं न संवसति | गुरुणामन्तिके मातापित्रोराचार्यांणां चान्तिके शाठ्यचित्तं नोत्पादयति | रागद्वेषमोहचित्तं नोत्पादयति | न च तैः सार्धं संवसति | बोधिचित्तं नोत्सृजति | अध्याशयचित्तं च नोत्सृजति | ये चान्ये दोषोपसंहिता मनःसंकल्पास्तेभ्यः सर्वेभ्यः प्रतिविरतो भवति | न च तैः सार्धं संवसति | अयमुच्यते मनःसंवर | तच्च मनो मायोपममित्यवतरति | स्वप्नोपममपि मरीच्युपममपि | निर्मितोपममिति प्रतिभासोपममित्यवतरति | न कुतश्चिदागमनतो ऽवतरति | स्वप्नोपमं सुखमवतरति | स्वप्नोपममनित्यतो ऽवतरति | स्वप्नोपमं निर्जीवतो ऽवतरति | (Vऐद्य २९३) स्वप्नोपमं शून्यतो ऽवतरति | तच्च नोपलभते न कल्पयति न मन्यते नावलम्बते नाभिनिविशते | अयमुच्यते कुमार मनःसंवरः ||
SK
परिशुद्धमनःसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वाक्षणांश्च वर्जयति | अचिन्त्यांश्च सर्वबुद्धधर्मान् प्रतिलभते | सर्वबुद्धेभ्यश्च सर्वबुद्धाभिज्ञां अकोप्यां च चेतोविमुक्तिं प्रतिलभते | अयमुच्यते मनःसंवरः ||
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
शृणोथ सर्वि अविक्षिप्तमना मम भाषतो मनःसंवरणम् / श्रुत्वा च तत्र प्रतिअपद्यथा मे यदीच्छथा लघु विशोधनताम् // SRS_३८.७२ //
SK
मनःसंवरेण लभि येन विदु परम प्रशान्त विपुलानचलान् / जिनधर्मचिन्तिय तथाद्भुततां मनःसंवरुच्यति विशुद्ध अयम् // SRS_३८.७३ //
SK
मनःसंवरेण लभि येन विदु चेतोविमुक्तिमचलां सततम् / वज्रोपमं तथ समाधिवरं मनःसंवरूच्यति हि श्रेष्ठ अयम् // SRS_३८.७४ //
SK
निष्पादयत्यपि च येन विदु उपचाररश्मिं विपुलार्थकरीम् / आर्याष्टाङ्गुपेतश्वर येन लभी मनःसंवरूच्यति विशुद्ध अयम् // SRS_३८.७५ //
SK
मनःसंवरेण विदु येन वरां द्वात्रिंशलक्षण लघू लभते / यश चो बलान्यखिलबुद्धगुणान् मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.७६ //
SK
मनसंवरेण लभि येन विदु प्रतिसंविदस्तथ विशारदताम् / परमाद्भुतान् गुण अचिन्त्य तथा मनःसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.७७ //
SK
(Vऐद्य २९४) मनःसंवरेण लभि येन विदु स्मृत्युपस्थान चतु ऋद्धिपादान् / सम्यक्प्रहाण बल इन्द्रिय चो मनःसंवर कथितु श्रेष्ठ अयम् // SRS_३८.७८ //
SK
मनःसंवरेण लघु येन विदु बोध्यङ्ग सप्त लभते विमलान् / अष्टाङ्गिकं च तथ मार्गवरं मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.७९ //
SK
मनःसंवरेण लभि येन विदु महुपेक्षताविहरणं प्रवरम् / करुणाविहारिममलं च परं मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८० //
SK
मनःसंवरेण लभि येन शिवान् क्षेमान् वितर्क विदु शुद्ध सदा / लभते गुणाढ्यु प्रविवेककथां मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८१ //
SK
मनसंवरेण विदु येन युतो मिथ्याकुदृष्ट्या सह न वसति / व्यापादाभिध्या न च संजनयी मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८२ //
SK
मनःसंवरेण विदु येन युतः कुहनां करोति न मुहूर्तमपि / गुरूणां च शाठियु न संजनयी मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८३ //
SK
मनःसंवरेण विदु येन युतो रागथ द्वेष न जनेति मनः / तथ मोहचित्तु न जनेति क्वचित् मनःसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.८४ //
SK
मनःसंवरेण विदु येन युतो बोधाय चित्त न विनिःसृजती / अध्याशयं च न विकोपयती मनःसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८५ //
SK
(Vऐद्य २९५) मनःसंवरेण विदु येन युतो ये चान्य दोष विविधा मनसः / सर्वेभि सार्ध न च संवसती मनःसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.८६ //
SK
मायोपमं च मन ओतरती सुपिनोपमं तथ मरीचिसमम् / प्रतिभासलक्षणमथो सततं मनःसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.८७ //
SK
सुपिमोपमं च सुखमोतरती तथनित्य शून्यत अशाश्वततः / मन एव ओतरति येन विदु मनसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.८८ //
SK
निर्जीवमोतरति निःसत्त्व मनो उत्पन्नु प्रत्ययत चक्रसमम् / न कुतश्चिदागतु न चापि गतं मनसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.८९ //
SK
न च तन्मन्ये उपलभाति क्वचि न च कल्पयत्यथ न मन्यत्यसौ / नालम्भते विनिविशति न चो मनसंवरः कथितु श्रेष्ठु अयम् // SRS_३८.९० //
SK
परमार्थसत्य सुपिनेन समं निर्वाण स्वप्नसममोतरति / मन एवमोतरति येन विदु मनसंवरः कथितु श्रेष्ठ अयम् // SRS_३८.९१ //
SK
इति श्रीसमाधिराजे कायवाङ्भनःसंवरपरिवर्तः अष्टत्रिंशतितमः
SK
(Vऐद्य २९६) ३९ Pअदत्रिशतनिर्देशपरिवर्तः |
SK
तत्र कुमार कतमा कर्मविशुद्धिः? यदिदं स्वप्नोपमं त्रिभवं दृष्ट्वा तत्र विरागतामुत्पादयति | इयमुच्यते कर्मविशुद्धिः || तत्र कतम आलम्बनसमतिक्रमः? यदिदं मायोपमतां स्कन्धधात्वायतनानां बुद्धा तेषां व्यवसर्गः | अयमुच्यते आलम्बनसमतिक्रमः || तत्र कतमा स्कन्धपरिज्ञा? यदिदं मरीच्युपमतां स्कन्धानामवतरति || तत्र कतमा धातुसमता? यदिदं निर्मितोपमानां धातूनां प्रतिनिसर्गः || तत्र कतम आयतनाप्रकर्षः? यदिदं प्रतिभासोपमानामायतनानां प्रतिनिसर्गः || - - - - तृष्णाप्रहाणम्? यदिदं सर्वधर्माणामनालम्बनता || - - - - अनुत्पादसाक्षात्क्रिया? यदिदं सर्वधर्माणामनुपलब्धिः || - - - - क्रियावतारः? यदिदं वीर्यसमुत्थितस्य दुःखस्य विप्रणाशः || - - - - हेतुदीपना? यदिदं प्रतिश्रुत्कोपमानां स्कन्धानामभिनिर्वृत्तिः || - - - - फलाविप्रणाशः? यदिदं स्वप्नोपमस्य कर्मफलस्याविप्रणाशः || - - - - धर्मदर्शनम्? यदिदं सर्वधर्माणामपश्यनता || - - - - मार्गभावना? यदिदं सर्वधर्माणामनुपलब्धिभावना || - - - - तथागतसमवधानम्? यदिदं सर्वबुद्धानां शिक्षाप्रतिपत्तिः || - - - - तीक्ष्णप्रज्ञता? यदिदं सर्वधर्माणामनुत्पत्तिकक्ःआन्तिः || - - - - सत्त्वानुप्रवेशज्ञानम्? यदिदं इन्द्रियपरापरज्ञताज्ञानम् ||
SK
तत्र कतमद् धर्मज्ञानम्? यदिदं सर्वधर्माणामनुपलब्धिः || - - - - प्रतिसंविदावतारज्ञानम्? यदिदं यथाभूतधर्मनयप्रवेशः || - - - - अक्षरप्रभेदज्ञानम्? यदिदं त्रिमन्त्रप्रयोगज्ञानम्, आकारानाकारज्ञानम् || - - - - वस्तुसमतिक्रमः? यदिदं अवस्तुबुध्यना || - - - - घोषपरिज्ञा? यदिदं प्रतिश्रुत्कोपमावतारज्ञ्ःनम् || - - - - प्र्ःमोद्यप्रतिल्ःभः? यदिदं सर्वधर्म्ःण्ःमनुपलब्धिः, संस्ःर्ःत् दुःखस्य उत्सर्गो भ्ःर्ःवहरणम् || - - - - धर्मप्रीत्यनुभवनत्ः? यदिदं अवव्ःदसंतोषण्ःनुत्सर्गस्वय्ःन्ःनुशंस्ःपश्यन्ः || - - - - ःर्जवत्ः? यदिदं ःर्यसत्यप्रतिवेधः || - - - - रिजुकत्ः? यदिदं ईर्य्ःपथस्य्ःकल्पनत्ः || - - - - अपगतभृकुटित्ः? यदिदं दोषप्रह्ःणम् || - - - - सौशील्यत्ः? यदिदं सुखसंव्ःसत्ः || - - - - म्ःधुर्यत्ः? यदिदं परेषु हितवस्तुत्ःं || - - - - पूर्व्ःल्ःपित्ः? यदिदं एहिस्व्ःगतवचनत्ः लघूत्थ्ःनत्ः || - - - - गुरुगौरवत्ः? यदिदं गुरूण्ःमन्तिके भयं च कल्य्ःणमित्रत्ः च || - - - - गुरुशुश्रूष्ः? यदिदं गुरुण्ःमुपस्थ्ःन्ःवस्थ्ःनपरिचर्य्ः || - - - - उपपत्तिसंतुष्टिः? यदिदं सर्वोपपत्तिष्वन्ःस्व्ःदनत्ः | - - - - शुक्लधर्म्ःतृप्तत्ः? यदिदं शुक्लधर्म्ःण्ःं पर्येष्टिः किंकुशलम्ःर्गणत्ः च ||
SK
तत्र कतमा आजीवपरिशुद्धिः? यदिदं इतरेतरसंतुष्टिता अकूहणता अनैषिकता, लाभेन लाभाचिकीर्षणता च|| - - - - अरण्यवासानुत्सर्गः? यदिदं अनिक्षिप्तधुरता कुशलेषु धर्मेषु (Vऐद्य २९७) प्रान्तशय्यासनाभिरतिर्वनगहनगिरिदुर्गगुहाकन्दरेष्वभिरतिः धर्मप्रीत्यनुभवनता च | असंसर्गः गृहिप्रव्रजितैरभिसत्कारश्लोकेनानध्यवसानता तृष्णाप्रहाणध्यानप्रीत्यनुभवनता च | अयमुच्यते ऽरण्यवासानुत्सर्गः || तत्र - - - - भूम्यवस्थानज्ञानम्? यदिदं श्रावकभूमिफलव्यवस्थानज्ञानं प्रत्येकबुद्धभूमिव्यवस्थानज्ञानं बोधिसत्त्वभूमिव्यवस्थानज्ञानं च | तत्र - - - - स्मृत्युविप्रणाशः? यदिदं अनित्यदुःखशून्यानात्ममनसिकारः || तत्र - - - - स्कन्धकौशल्यज्ञानम्? यदिदं स्कन्धधात्वायतनप्रभेदज्ञानं च तत्र चानुपलब्धिः || तत्र - - - - अभिज्ञासाक्षात्क्रिया? यदिदं चतुर्णामृद्धिपादानां प्रतिलम्भः ऋद्धिविकुर्वणता च || तत्र - - - - क्लेशापकर्षः? यदिदं रागद्वेषमोहप्रहाणम् || तत्र - - - - वासनानुसंघिसमुद्धातज्ञानम्? यदिद पूर्वबालचरिविजुगुप्सनता श्रावकप्रत्येकबुद्धभूम्यस्पृहणता च || तत्र - - - - विशेषगामिता? यदिदं बुद्धवैशारद्यप्रतिसंविदां निष्पादनता || तत्र - - - - भावनाभिनिष्यन्दः? यदिदं अनुनयप्रतिघप्रहाणम् || तत्र - - - - आपत्तिकौशल्यम्? यदिदं प्रातिमोक्षविनयसंवरः || - - - - पर्युत्थानविष्कम्भणम्? यदिदं अत्ययदेशना आयतिसंवरश्चाकुशलानां धर्माणाम् || - - - - अनुनयप्रहाणम्? यदिदं त्रैधातुकभवतृष्णालतासमुद्धातो ऽसमुत्पन्नानां चाकुशलानां धर्माणामनुत्पादनता, उत्पन्नानां च कुशलमूलानां धर्माणामविप्रणाशः | - - - - भवसमतिक्रमः? यदिदं त्रैधातुकानुपलब्धिः, अमनसिकारता च || - - - - जातिस्मरता? यदिदं पूर्वेनिवासज्ञानम् || - - - - कर्मविपाकनिष्काङ्क्षणता? यदिदं उच्छेदशाश्वतविवर्जनता || तत्र - - - - धर्मचिन्ता? यदिदं यथाभूतचिन्ता || तत्र - - - - श्रुतपर्येष्टिः? यदिदं श्रावकप्रत्येकबुद्धपिटकस्य बोधिसत्त्वपिटकस्य च आधारणता भावनता च || - - - - ज्ञानतीक्ष्णता? यदिदं स्वप्नोपममनुत्पादज्ञानम् || - - - - ज्ञानतृष्णा? यदिदं ज्ञानपर्येष्टिः || - - - - ज्ञानावबोधः? यदिदं अनुत्तरसम्यक्संबोध्यभिनिष्पादनता च || - - - - आजानेयभूमिः? यदिदं बोधिसत्त्वशिक्षास्थानम् || - - - - शैलोपमता? यदिदं बोधिचित्तस्यानुत्सर्गः? - - - - अकम्पनता? यदिदं क्लेशैरसंहार्यता || - - - - अचलनता? यदिदं सर्वनिमित्तानाममनसिकारः || - - - - अवैवर्त्यलक्षणम्? यदिदं षट्पारमितानामखण्डनता, अन्यलोकधातुस्थितानां बुद्धानामभीक्ष्णदर्शनता च || - - - - कुशलधर्माभिसंपत्? यदिदं आसन्नीभावो ऽनुत्तरायाः समक्संबोधेः || - - - - पापकर्मजुगुप्सनता? यदिदं आयतिसंवरता चानुत्पादश्च पापस्य || - - - - क्लेशानामसमुदाचारः? यदिदं अविद्याया भवतृष्णायाश्च क्रोधस्य चानुत्पादनता || - - - - शिक्षाया अपरित्यागः? यदिदं कर्मविपाकपत्तीयनता बुद्धगौरवता च || - - - - समाधिव्यवस्थानम्? यदिदं चित्तचैतसिकानां धर्माणामनुत्पादाव्ययकौशल्यं चित्तैकाग्रता च || - - - - सत्त्वाशयज्ञानम्? यदिदं इन्द्रियपरापरज्ञताज्ञानम् || - - - - उपपत्तिविशेषज्ञानम्? यदिदं पञ्चानां गतीनां व्यवस्थानज्ञानम् || - - - - ज्ञानानन्तता? यदिदं लौकिकलोकोत्तरेषु शिल्पेष्वनाभोगज्ञानम् || - - - - वचनप्रतिसंघिज्ञानम्? यदिदं तथागतसंघाभाष्यानुबुध्यनता || - - - - गृहावासपरित्यागः? यदिदं कायचित्तविवेकाभिनिष्क्रमः || - - - - त्रैधातुके ऽनभिरतिः? यदिदं त्रैधातुकयथाभूतदर्शनता || - - - - चित्तस्यानवलीनता? यदिदं चित्तस्यापरित्यागः समापद्यमानापरित्यागश्च || (Vऐद्य २९८) - - - - धर्मेष्वभिनिवेशः? यदिदं सर्वस्नेहप्रहाणम् || - - - - धर्मपरिग्रहः? यदिदं बुद्धबोध्यारक्षा, एषां चैव सूत्रान्तानां प्रतीच्छनता || - - - - धर्मगुप्तिः? यदिदं सद्धर्मप्रतिक्षेपकाणां सहधर्मेण निग्रहः || - - - - कर्मविपाकपत्तियनता? यदिदं लज्जया पापकात् कर्मणो विरतिः, कुशलधर्मपर्येष्टौ चाभियोगः || - - - - विनयकौशल्यम्? यदिदं प्रकृत्यायपत्त्यनापत्तिबुध्यनता || - - - - अधिकरणव्युपशमः? यदिदं गणविवर्जनता || - - - - अविग्रहो ऽविवादः? यदिदं लौकिककथानिरर्थिकता || - - - - क्षान्तिभूमिः? यदिदं कायचित्तपीडाधिवासनता || - - - - क्षान्तिसमादानम्? यदिदं परतो दुरुक्तानां वचनपथानामध्युपेक्षा क्षान्त्यखण्डनता च || - - - - धर्मप्रविचयः? यदिदं स्कन्धधात्वायतनानां प्रभेदः संक्लेशव्यवदानपक्षस्य च प्रभेदस्तेषां चानुपलब्धिः || - - - - धर्मविनिश्चयकौशल्यम्? यदिदं सर्वधर्माणामनभिलापः || - - - - धर्मपदप्रभेद्ज्ञानम्? यदिदं सर्वधर्माणां व्यवस्थाननिस्तीरणता || - - - - धर्मपदनिर्हारकौशल्यम्? यदिदं यथाभूतानां धर्माणां निर्देशः || - - - - अर्थानर्थसंभेदनिर्हारकौशल्यज्ञानम्? यदिदं धर्मप्रकृत्यनुत्क्षेपाप्रक्षेपः || - - - - पूर्वान्तज्ञानम्? यदिदं हेतुज्ञानम् || - - - - अपरान्तज्ञानम्? यदिदं प्रत्ययज्ञानम् || - - - - त्रिमण्डलपरिशुद्धिज्ञानम्? यदिदं अतीतानागतप्रत्युत्पन्नानां धर्माणामनुपलब्धिः, अमनसिकारिता च || - - - - चित्तावस्थानम्? यदिदं चित्तानुपलब्धिः || - - - - कायव्यवस्थानम्? यदिदं कायगतानुस्मृतिः ||.... ईर्यापथलक्षणम्? येयमार्यधर्मासंभ्रान्तता | - - - - ईर्यापथस्याविकोपनता? यदिदं प्रच्छन्नकल्याणता ||.... ईर्यापथस्याविकल्पनता? यदिदं विगतपापेच्छता || - - - - इन्द्रियप्रासादिकता? यदिदं धर्मगतमनसिकारता युक्तभाणिता कालज्ञता यथाभूतानां धर्माणां भूतप्रकाशनता || .... लोकज्ञता? यदिदं अतिक्रममसंप्रजानता ||....मुक्तत्यागिता? यदिदं सतां वस्तूनामग्रहणता, अमात्सर्यता च ||.... प्रततपाणिता? यदिदं संविभावशीलता ||.... अगृहीतचित्तता? यदिदं श्रद्धानाविलता ||....व्यपत्रापिता? यदिदं अमुखरता ||....ह्रियापणत || यदिदं अनभिमुखता ||.... अकुशलचित्तजुगुप्सनता? यदिदं बालधर्मबुध्यनता तैश्चासमवधानम् ||.... धूतानवसृजनता? यदिदं दृढसमादानता ||.... चारित्रसमवधानता? यदिदं चर्यापथक्रमसंजाननता ||.... प्रीतिसमुदाचारः? यदिदं कुशलानां धर्माणामनुशंसाचित्तता ||.... गुरूणामासनप्रत्युत्थानम्? यदिदं निहतमानता, अनालस्यता चा ||.... मानस्य निग्रहः? यदिदं आत्मनो ऽनुपलब्धिरनालम्बनता च ||.... चित्तस्य संग्रहः? यदिदं शुक्लधर्माणामविप्रणाशज्ञानम् |....चित्तोत्साहनता? यदिदं वीर्यफलाविप्रणाशज्ञानम् ||.... अर्थप्रतिसंविज्ज्ञानम्? यदिदं यथाभूतसत्यप्रतिवेधज्ञानम् ||.... ज्ञानानुबोधः? यदिदं लौकिकलोकोत्तराणां धर्माणामनुबुध्यनता ||.... अज्ञानविगमः? यदिदं यथाभूतानां धर्माणामध्यारोपविगमः ||.... चित्तप्रवेशज्ञानम्? यदिदं उत्पादव्ययज्ञानम् ||.... आहारनिर्हारकौशल्यज्ञानम्? यदिदं तीक्ष्णप्रज्ञता ||.... रुतरवितज्ञानम्? यदिदं यथाभूतधर्मप्रकाशनता ||....व्यवस्थानज्ञानम्? यदिदं यथाभूतस्यावतारज्ञानम् ||....अर्थविनिश्चयः? यदिदं संस्कारस्कन्धोच्छेदः ||....अर्थानर्थविवर्जनता? (Vऐद्य २९९) यदिदं भवसमतिक्रमः, परेषां च भवसमतिक्रमणावतारणता च ||.... सत्पुरुषाश्रयः? यदिदं बुद्धाविरहितता ||....सत्पुरुषसमवधानम्? यदिदं बुद्धबोधिसत्त्वप्रत्येकबुद्धश्रावकसेवनता ||.... असत्पुरुषवर्जनता? यदिदं उपलम्भिकानां कुसीदानां च विवर्जनता ||.... ध्यानाभिरतिः? यदिदं कामकण्टकविवर्जनता, ध्यानानामनुत्सर्जनता, प्रीत्यविजहता च ||.... ध्यानेष्वनध्यवसानम्? यदिदं त्रैधातुकसमतिक्रमणच्छन्दः सत्वपरिपाचनाच्छन्दः उत्तरिप्रज्ञावभासच्छन्दश्च ||....अभिज्ञाविकुर्वणता? यदिदं पञ्चस्वभिज्ञासु स्थित्वा दुर्विज्ञेयानां बुद्धधर्माणां परेभ्यः संप्रकाशनता ||.... नामसंकेतः? यदिदं अपरिनिष्पन्नानां नाम्नामनुबुध्यनता ||.... प्रज्ञप्तिव्यवहारः? यदिदं लोकव्यवहारः ||....प्रज्ञप्तिसमुद्धातः? यदिदं प्रव्याहारज्ञानम् ||....संसारनिवृत्तिः? यदिदं संसारदोषप्रत्यवेक्षा ||.... लाभानर्थिकता? यदिदं भूताल्पेच्छता ||.... लाभसत्कारानादेयता? यदिदं अनुत्कण्ठता च विअगतपापेच्छता च ||.... अवर्णैरमङ्कुभावता? यदिदं स्कन्धधातुपरीक्षाज्ञानम् ||.... भूतानां वर्णानामनधिवासनता? यदिदं प्रतिच्छन्नकल्याणता च लाभसत्कारस्य चान्तरायबुध्यनता || ....सत्कारेषूपेक्षा? यदिदं कर्मविपाकबुध्यनता ||.... असत्कारेष्वमङ्कुभावता? यदिदं योगस्यानुत्सर्जनता ||.... निन्दायामकुप्यनता? यदिदं लौकिकधर्मप्रत्यवेक्षा ||.... प्रशंसायामुपेक्षा? यदिदं कल्याणधर्मपर्येष्टिनिष्क्रमणम् ||.... अलाभे ऽलीनता? यदिदं स्वयंकृतानां धर्माणां प्रत्यवेक्षणता |.... गृहीभिः सार्धमसंस्तवः? यदिदं आमिषकिंचिद्विवर्जनता || .... प्रव्रजितैः सार्धमसंस्तवः? यदिदं अयुक्तविवर्जनता च युक्तपर्येषणता च ||....अगोचरविवर्जनता? यदिदं पञ्चानां निवरणानां प्रहाणम् ||.... गोचरप्रचारः? यदिदं स्मृत्युपस्थानानां भावना ||....आचारसंपद्? यदिदं परानुरक्षा ||....आचारविवर्जनता? यदिदं आत्मनः कल्याणधर्मानुरक्षणता ||.... कुलानामदूषणता? यदिदं ज्ञात्रविवर्जनता ||.... शासनरक्षाः? यदिदं धर्मपर्येष्टिसमादानता धर्मानुधर्मप्रतिपत्तिश्च || ....अल्पभाष्यता? यदिदं शमथप्रतिलम्भः ||.... मार्दवता? यदिदं विपश्यनाप्रतिलम्भः ||....प्रतिवचनकौशल्यम्? यदिदं उत्तरप्रत्युत्तरज्ञानम् ||.... प्रत्यर्थिकनिग्रहः? यदिदं यथाभूतानां धर्माणां प्रकाशनता व्यवस्थापनता च, उपालम्भानिग्रहश्च ||....कालप्रतिक्रमः? यदिदं कालज्ञता ||.... पृथग्जनेष्वविश्वासः? यदिदं बालधर्मदोषदर्शिता ||....दुःखितानामपरिभवः? यदिदं सर्वसत्त्वेषु समचित्तता ||.... दुःखितानां धनानुप्रयच्छनता? यदिदं लोकामिषदानम् ||.... दरिद्राणामनवसादनम्? यदिदं परेषामन्तिके कृपाबुद्धिता ||.... दुःशीलानामनुकम्पना? यदिदं परेषामापत्तेरुद्धरणता च शीलप्रतिष्ठापनता च || ....हितवस्तुता? यदिदं परेषामुपकारकरणता ||....कृपाबुद्धिता? यदिदं सत्त्वानामनागतदुःखपश्यनता ||.... धर्मानुग्रहः? यदिदं परेषां यथाभूतधर्मावतरणता ||.... आमिषपरित्यागः? यदिदं स्कन्धपरित्यागः, परेषां चामिषानुग्रहः ||.... असंनिचयस्थानम्? यदिदं आमिषजुगुप्सनता आरक्षादोषदर्शनता च ||.... शीलप्रशंसा? यदिदं शीलफलानुबोधः || (Vऐद्य ३००) .... दौःशील्यजुगुप्सनता? यदिदं दौःशील्यदोषबुद्ध्यनता ||.... शीलवतामकम्प्यसेवनता? यदिदं शीलवत्सु दुर्लभसंज्ञाज्ञानम् ||....सर्वास्तिपरित्यागिता? यदिदं कल्याणाशयता ||....अध्याशयनिमन्त्रणता? यदिदं परेषां सुखार्थिकता ||....यथोक्तकारिता? यदिदं कल्याणाशयसंपत् ||.... अभीक्ष्णपर्युपासनता? यदिदं कुशलगवेषणपरिपृच्छनता ||....प्रीत्यनुभवनता? यदिदं अधिगमज्ञानं चागमज्ञानं च |.... दृष्टान्तज्ञानम्? यदिदं उपमाज्ञानमववादज्ञानं च ||.... पूर्वयोगकौशल्यम्? यदिदं जात्यनुस्मरणता श्रुतबहुलता च ||....कुशलमूलपूर्वंगमता? यदिदं बोधौ तीव्रच्छन्दता च परेषां समुत्साहनता च || .... उपायकौशल्यम्? यदिदं प्रतिदेशनानुमोदनाध्येषणा कुशलानां च परिणामनाकौशल्यम् || ....निमित्तप्रहाणम्? यदिदं स्वप्नोपमानां धर्माणां बुध्यनता च वस्तुविभावनता च |.... संज्ञाविवर्तः? यदिदं विपर्यासोत्सर्गः ||.... वस्तुलक्षणता? यदिदं अलक्षणज्ञानम् ||.... सूत्रान्ताभिनिर्हारकौशल्यम्? यदिदं यथाभूतानां धर्माणां कुशलाकुशलानां उपमावदानैः संप्रकाशनता ||.... सत्यविनिश्चयः? यदिदं विज्ञाननिरोधो नामरूपानुत्पत्तिश्च ||.... विमुक्तिसाक्षात्क्रिया? यदिदं वज्रोपमसमाधेरचलनता अप्रकुप्यनता च ||.... एकप्रव्याहारः? यदिदं तीर्थ्यायतनविजुगुप्सनता चानुत्पत्तिकज्ञानता च ||.... वैशारद्यप्रतिलम्भः? यदिदं बुद्धधर्मावबुध्यनता ||.... शीलाधिष्ठानता? यदिदं कायसंवरः प्रातिमोक्षसंवरश्च ||.... समापत्त्यवतारः? यदिदं त्रैधातुकवैराग्यता ||.... प्रज्ञाप्रतिलाभः? यदिदं सामर्थ्यज्ञानं चानुपलब्धिश्च ||.... एकारामता? यदिदं संगणिकादोषविवर्जनता च शुक्लधर्मानुत्सृजनता ||.... अल्पज्ञात्रसंतुष्टिः? यदिदं इतरेतरसंतुष्टिः ||.... चित्तस्यानाविलता? यदिदं निवरणानां विष्कम्भणता ||.... दृष्टिकृतानां विवर्जनता? यदिदं उपलम्भदृष्टिविवर्जनता ||.... धारणीप्रतिलम्भः? यदिदं यथादृष्टानां धर्माणां यथाभूतासङ्गसंप्रकाशनता || ....ज्ञानावतारः? यदिदं प्रकृतिप्रवेशः ||.... स्थानम्? यदिदं शीलस्थानम् ||....अवस्थानम्? यदिदं चित्तावस्थानम् ||.... प्रतिष्ठानम्? यदिदं श्रद्धाप्रतिष्ठानम् ||.... प्रतिपत्तिः? यदिदं मार्गप्रतिपत्तिः ||.... हेतुः? यदिदं अविद्या हेतुः संसारस्य ||.... युक्तिः? यदिदं विद्या युक्तिर्मोक्षस्य ||....नयः? यदिदं तृष्णाप्रहाणम् ||.... द्वारम्? यदिदं दोषप्रहाणम्? ....मार्गः? यदिदं अनित्यदुःखशून्यानात्मज्ञानम् ||.... भूमिः? यदिदं दशाप्रणिहितभूमिः ||....जातिविगमः? यदिदं जात्युपच्छेदः ||.... ज्ञानभूमिः? यदिदं असंमोहः ||.... अज्ञानप्रहाणम्? यदिदं मोहप्रहाणम् ||....ज्ञानप्रतिष्ठानम्? यदिदं अप्रतिष्ठानम् ||.... योगाचारभूमिः? यदिदं सप्तत्रिशतां बोधिपक्षिकाणां धर्माणां भावना ||.... बोधिसत्त्वगोचरः? यदिदं षट्पारमिता ||....सत्पुरुषसंसेवना? यदिदं बुद्धाभिनिषेविता ||....असत्पुरुषविवर्जनता? यदिदं तीर्थिकानां उपलम्भदृष्टिकानां विवर्जनता ||.... तथागतैराख्यातः? यदिदं बुद्धबलेषु स्थित्वा प्रकृतिज्ञानेन मोक्षः ||.... बुद्धभूमिः? यदिदं सर्वेषां कुशलानां धर्माणां प्रतिलाभिता ||.... पण्डितैरनुमोदिता? यदिदं अतीतानागतप्रत्युत्पन्नैर्बुद्धैभगवद्भिः श्रावकैश्चानुमोदिताः ||.... बालै प्रतिक्षिप्तम्? यदिदं सर्वबालैर्दुर्विज्ञेयम् ||.... श्रावकप्रत्येकबुद्धैर्दुविज्ञेयम्? यदिदं बुद्धधर्माचिन्त्यता ||....अभूमिस्तीर्थिकानाम्? (Vऐद्य ३०१) यदिदं मिथ्यामानो योगिनाम् ||.... बोधिसत्त्वैः परिगृहीताः? यदिदं दुर्लभता च महाभैषज्यता च ||.... दशबलैरनुबद्धम्? यदिदं कृच्छ्रयोगेन ||.... देवैः पुजनीयम्? यदिदं सर्वसुखाहारकमुपादाय ||.... ब्रह्मणा वन्दनीयम्? यदिदं सर्वमोक्षाहारकयोगेन |.... नागैर्नमस्यनीयम्? यदिदं सर्ववासनासमुत्यागतामुपादाय ||....यक्षैरनुमोदनीयम्? यदिदं सर्वदुर्गतीनां मार्गच्छेदनतामुपादाय ||....किन्नरैः स्तवनीयम्? यदिदं सर्वमोक्षप्रामोद्याहरणतामुपादाय? महोरगैः प्रशंसनीयम्? यदिदं संसारोच्छेदनतामुपादाय ||.... बोधिसत्त्वैर्भावयितव्यम्? यदिदं सर्वज्ञानाहारिकमुपादाय ||.... पण्डितैः पर्यवाप्तव्यम्? यदिदं अवैवर्त्यभूम्याहारित्रकमुपादाय ||....धनमनुत्तरम्? यदिदं देवमानुषिकायाः प्रजायाः संपत्तेराहातित्रकं चोपादाय मोक्षाहारित्रकमुपादाय ||.... दानं निरामिषम्? यदिदं सर्वक्लेशच्छेदित्रकतामुपादाय ||.... भैषज्यं ग्लानानाम्? यदिदं रागद्वेषमोहप्रशमनतामुपादाय ||.... कोशो ज्ञानस्य? यदिदं भावनामुपादाय ||.... अक्षयता प्रतिभानस्य? यदिदं यथाभूतज्ञानदर्शनतामुपादाय ||.... विगमः शोकस्य? यदिदं निरर्थकः व्याधिदुःखबुध्यनावतरणतामुपादाय नैरात्म्यदुःखप्रजाननतामुपादाय ||.... परिज्ञा त्रैधातुकस्य? यदिदं स्वप्नमायाबुध्यनतामुपादाय ||.... नावः पारमितानाम्? यदिदं अध्याअशयेन परिनिर्वातुकामानामनित्यदुःखशून्यताभावनतामुपादाय ||.... नौरोघमध्यगतानाम्? यदिदं निर्वाणस्याहारकतामुपादाय ||.... कीर्तिर्यशस्कामानाम्? यदिदं विपुलधर्माहारकतामुपादाय ||.... वर्णो बुद्धानाम्? यदिदं अनन्तगुणभैषज्यदानपतिमुपादाय ||.... यशस्तथागतानाम्? यदिदं सर्वगुणसुखमोक्षदानपतिमुपादाय ||.... स्तवो दशबलानाम्? यदिदं दुर्लभधर्मरत्नदानपतिमुपादाय ||.... गुणा बोधिसत्त्वानाम्? यदिदं धर्मशिक्षिततामुपादाय ||.... उपेक्षा कारुणिकानाम्? यदिदं कृतबुद्धकृत्यकरणीयतामुपादाय ||.... मैत्र्या दोषप्रशमनम्? यदिदं प्रतिघप्रतिपक्षतामुपादाय ||....श्वासो महायानिकानाम्? यदिदं सर्वबुद्धधर्माभिप्रायपारिपूरित्रकमुपादाय ||.... प्रतिपत्तिः सिंहनादनादिनाम्? यदिदं अग्रधर्मश्रेष्ठधर्माहारित्रकमुपादाय ||.... मार्गो बुद्धज्ञानस्य? यदिदं सर्वकुशलधर्माहारित्रकमुपादाय || .... मुद्रा सर्वधर्माणाम्? यदिदं पारादपारमवबुध्यनतामुपादाय ||.... असंहार्यता सर्वज्ञानस्य? यदिदं सर्वाकुशलधर्मप्रहाणाय च संवर्तते सर्वकुशलधर्माहारणतायै च सर्वसत्त्वमोक्षाहरणतायै संवर्तते ||....उद्यानं बोधिसत्त्वानाम्? यदिदं सर्वप्रीतिप्रामोद्यात्मसुखेन सर्वसत्त्वसुखाहरणतामुपादाय || ....विद्रापणं मारसैन्यानाम्? यदिदं सर्वबलाहारित्रकमुपादाय सर्वक्लेशशमनं चोपादाय || ....विद्या क्षेमगामिनाम् यदिदं सर्वोपद्रवक्षयाय संवर्तते ||.... अर्थः सिद्धानाम्? यदिदं सर्वधर्मसंपत्त्याहारित्रकमुपादाय ||.... परित्राणममित्रमध्यगतानाम्? यदिदं सर्वोपलम्भिकानां मिथ्यादृष्टिकानां पराजयतायै संवर्तते || ....सहधर्मेण तीर्थिकानां निग्रहः? यदिदं सहधर्मेण तीर्थिकानां निग्रहमुपादाय ||....सत्याकारो वैशारद्यानाम्? यदिदं सर्वधर्माकोटितप्रत्याकोटितक्षेमतामुपादाय ||.... भूतपर्येष्टिर्बलानाम्? यदिदं अविपरीतयोगेन ||.... पूर्वनिमित्तमष्टादशानामावेणिकानां बुद्धधर्माणाम्? यदिदं सर्वशुक्लधर्माहरणतामुपादाय || (Vऐद्य ३०२).... अलंकारः? यदिदं द्वात्रिंशतां महापुरुषलक्षणानामाहारकमुपादाय ||.... रतिर्मोक्षकामानाम्? यदिदं आदिमध्यपर्यवसानकल्याणतामुपादाय ||.... प्रीतिर्ज्येष्ठपुत्राणाम्? यदिदं पैतृकं धनं बुद्धधनानुभावाहारकमुपादाय ||.... पारिपूरिर्बुद्धज्ञानस्य? यदिदं सर्वशुक्लधर्मानुरक्षणतामुपादाय सर्वशुक्लधर्मानन्यपोषणाहरणतामुपादाय ||....अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्? यदिदं उदाराप्रमेयबुद्धधर्माहारकमुपादाय ||.... संविशुद्धिश्चित्तस्य? यदिदं सर्वमलप्रहाणाय संवर्तते ||.... परिशुद्धिः कायस्य? यदिदं सर्वग्लानिप्रशमनतामुपादाय ||.... परिनिष्पत्तिः विमोक्षमुखानाम्? यदिदं अनित्यदुःखशून्यानात्मशान्तप्रत्यवेक्षणतामुपादाय || ....असंक्लिष्टता रागेण? यदिदं अमृतपदाहारिकमुपादाय ||.... विगमो दोषस्य? यदिदं महामैत्र्याहारिकमुपादाय ||.... अभूमिर्मोहस्य? यदिदं भूतधर्मालोकाहारकमुपादाय ||.... आगमः संज्ञानस्य? यदिदं सर्वलौकिकलोकोत्तरकायज्ञानस्योत्पादमुपादाय ||.... उत्पादो विद्यायाः? यदिदं सर्वयोनिशोमनसिकारहरणतामुपादाय ||.... प्रहाणमविद्यायाः? यदिदं सर्वयोनिशोमनसिकारविगमाय संवर्तते ||.... तृप्तिर्विमुक्तिसाराणाम्? यदिदं आर्यमाहात्म्याहरणतामुपादाय ||.... तुष्टिः समाधिसाराणाम्? यदिदं सर्वसुखचित्तैकाग्राहरणतामुपादाय ||.... चक्षुर्द्रष्टुकामानाम्? यदिदं अहंपश्यितामुपादाय ||.... अभिज्ञा विकुर्वितुकामानाम्? यदिदं अनावरणतामुपादाय कामनीयधर्मतां चोपादाय ||.... ऋद्धिरभिभवितुकामानाम्? यदिदं सर्वधर्मविकल्पितज्ञानानावरणतामुपादाय ||.... धारणी श्रुतार्थिकानाम्? यदिदं सर्वधर्मनिर्वाणसमतामुपादाय ||.... स्मृतेरसंप्रमोषः? यदिदं निर्वाणालम्बनप्रकृतिव्युपशमतामुपादाय ||.... अधिष्ठानं बुद्धानाम्? यदिदं अनन्ताहरणतामुपादाय ||.... उपायकौशल्यं नाथानाम्? यदिदं सर्वसुखक्षेमगमनतामुपादाय ||.... सूक्ष्मम? यदिदं निर्वाणालम्बनव्युपशमतामुपादाय ||.... दुर्विज्ञेयम्? यदिदं दुःखप्रतिज्ञानतामुपादाय ||.... दुराजानतानभियुक्तैः? यदिदं अप्रतिलब्धपूर्वतामुपादाय ||.... विवर्तो ऽक्षराणाम्? यदिदं सर्ववाक्यकथानुपलब्धितामुपादाय ||.... दुर्विज्ञेयो घोषेण? यदिदं सर्वधर्माचिन्त्यतामुपादाय ||.... अज्ञातं विज्ञैः? यदिदं रत्नमहार्थिकतामुपादाय ||.... ज्ञानं सुरतैः? यदिदं सत्काराजानतामुपादाय ||.... विबुद्धमल्पेच्छैः? यदिदं सत्काराजानतामुपादाय ||.... उद्गृहीतमारव्धवीयैः? यदिदं अनिक्षिप्तधुरतामुपादाय ||.... धारितं स्मृतिमद्भिः? यदिदं कृताविप्रणाशतामुपादाय ||.... क्षयो दुःखस्य? यदिदं रागद्वेषमोहसंवर्तनतामुपादाय ||.... अनुत्पादः सर्वधर्माणाम्? यदिदं सर्वविज्ञाननिरोधतामुपादाय ||.... एकनयनिर्देशः || यदिदं सर्वभवगतिच्युत्युपपत्त्यायतनानां सर्वधर्माः स्वप्नोपमा इति सर्वधर्मानुत्पाद्यतामुपादाय? अयमेषां त्रयाणां पदशतानां निर्देशो द्रष्टव्यः | अयं स उच्यते कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ||
SK
इति श्रीसमाधिराजे एकोनचत्वारिंशतितमः परिवर्तः
SK
(Vऐद्य ३०३) ४० Pअरीन्दनापरिवर्तः |
SK
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
SK
विपुला बुद्धधर्मा हि विपुलो देशितो नयः / विपुलं धर्म देशित्वा विपुलांल्लभते गुणान् // SRS_४०.१ //
SK
यथा विपुलमाकाशमेवं धर्माण लक्षणम् / रत्नानि विपुलान्यत्र तस्माद्वैपुल्यमुच्यते // SRS_४०.२ //
SK
विपुला चरि सत्त्वानां विपुला तेषु देशिता / विपुलो आगमो यस्य तस्माद्वैपुल्यमुच्यते // SRS_४०.३ //
SK
अस्मिन् खलु पुनः सर्वधर्मस्वभावसमताविपञ्चितसमाधिनिर्देशे धर्मपर्याये भाष्यमाणे अप्रमेयैः सत्त्वैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, अप्रमेयाश्च सत्त्वा अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ | अप्रमेयाणां च सत्त्वानां प्रत्येकबोधौ चिअत्तमुत्पन्नम् | अप्रमेयाणां च सत्त्वानामर्हत्त्वफलसाक्षात्क्रियायां चित्तान्युत्पन्नानि | अयं च त्रिसाहस्रमहासाहस्रलोकधातुः षडविकारं कम्पितः प्रकम्पितः संप्रकम्पितः | चलितः प्रचलितः संप्रचलितः | वेधितः प्रवेधितः | संप्रवेधितः | क्षुमितः प्रक्षुभितः संप्रक्षुभितः | रणितः प्ररणितः संप्ररणितः | गर्जितः प्रगर्जितः संप्रगर्जितः | पूर्वा दिगवनमति पश्चिमा दिगुन्नमति | पश्चिमा दिगवनमति पूर्वा दिगुन्नमति| उत्तरा दिगुन्नमति दक्षिणा दिगवनमति | उत्तरा दिगवनमति दक्षिणा दिगुन्नमति | अन्तादवनमति मध्यादुन्नमति | मध्यादवनमति अन्तादुन्नमति | अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो ऽभूत् | महच्च दिव्यगन्धवर्षमभिप्रावर्षत् | देवताश्च महान्तं दिव्यं पुष्पवर्षमुत्सृजन्ति स्म | दिव्यानि च तूर्यशतसहस्राण्युपर्यन्तरीक्षे भ्रामयन्ति | एवं च वाचमभाषन्त -
SK
सुलब्धा लाभास्तेषां सत्त्वानां य इमं महाकरुणावतारधर्मपर्यायं श्रोष्यन्ति | बहुबुद्धपर्युपासितास्ते सत्त्वा भविष्यन्ति य इमं सर्वधर्मस्वभावसमताविपञ्चितसमाधिं पुनः पुनः श्रोष्यन्ति, श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति अरणाभावनया भावयिष्यन्ति, बहुलीकरिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति | सर्वसत्वानां ते दक्षिणीया भविष्यन्ति ||
SK
अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - उद्गृह्वीष्व त्वमानन्द इमं धर्मपर्यायं धारय वाचय पर्यवाप्नुहि, परेषां च विस्तरेण संप्रकाशय | अथ खल्वायुष्मानानदो भगवन्तमेतदवोचत् - को नामायं भगवन् धर्मपर्यायः, कथं चैन धारयामि? भगवानाह - महाकरुणावतारो नामानन्द इदं सूत्रं धारय | सर्वधर्मसमताविपञ्चितो नाम समाधिरिति धारय | आनन्द आह - उद्गृहीतो मे भगवन्नयं धर्मपर्याय इति ||
SK
(Vऐद्य ३०४) इदमवोचद् भगवान् | आत्तमनाश्चन्द्रप्रभः कुमारभूत आयुष्मांश्चानन्दः ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकाः अनेके च शुद्धावासकायिका देवपुत्राः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ||
SK
इत्यार्यसर्वधर्मस्वभावसमताविपञ्चितात् समाधेर्यथालब्धं समाधिराजं नाम महायानसूत्रं परिवर्तो नाम चत्वारिंशतितमं समाप्तम्
SK
* * * * * * ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् | तेषां च यो निरोध एवं वादी महाश्रमणः ||

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Samādhirājasūtra (sa_samAdhirAjasUtra.htm).

Source