Verses on Reasoning

Yuktiṣaṣṭikakārikā-fragments · Yउक्तिषष्टिककारिका-fरग्मेन्त्स्

Verses on Reasoning

Yuktiṣaṣṭikakārikā-fragments

Yउक्तिषष्टिककारिका-fरग्मेन्त्स्

SK
अस्तिनास्तिव्यतिक्रान्ता बुद्धिर् येषां निराश्रया | गम्भीरस् तैर् निरालम्बः प्रत्ययार्थो विभाव्यते || Nअग्Yस्क्_०१
SK
...
SK
संसारं चैव निर्वाणं मन्यन्ते ऽतत्त्वदर्शिनः | न संसारं न निर्वाणं मन्यन्ते तत्त्वदर्शिनः || Nअग्Yस्क्_०५
SK
निर्वाणं च भवश् चैव द्वयम् एतन् न विद्यते | परज्ञानं भवस्यैव निर्वाणम् इति कथ्यते || Nअग्Yस्क्_०६
SK
...
SK
तत् तत् प्राप्य यद् उत्पन्नं नोत्पन्नं तत् स्वभावतः | स्वभावेन यन् नोत्पन्नम् उत्पन्नं नाम तत् कथम् || Nअग्Yस्क्_१९
SK
...
SK
सर्वम् अस्तीति वक्तव्यम् आदौ तत्त्वगवेषिणः | पश्चाद् अवगतार्थस्य निःसङ्गस्य विविक्तता || Nअग्Yस्क्_३०
SK
...
SK
ममेत्य् अहम् इति प्रोक्तं यथा कार्यवशाज् जिनैः | तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः || Nअग्Yस्क्_३३
SK
महाभूतादि विज्ञाने प्रोक्तं समवरुध्यते | तज्ज्ञाने वगमं याति ननु मिथ्या विकल्पितम् || Nअग्Yस्क्_३४
SK
...
SK
हेतुतः संभवो यस्य स्थितिर् न प्रत्ययैर् विना | विगमः प्रत्ययाभावात् सो ऽस्तीत्य् अवगतः कथम् || Nअग्Yस्क्_३९
SK
...
SK
रागद्वेषोद्भवस् तीव्रदुष्टदृष्टिपरिग्रहः | विवादास् तत्समुत्थाश् च भावाभ्युपगमे सति || Nअग्Yस्क्_४६
SK
स हेतुः सर्वदृष्टीनां क्लेशोत्पत्तिर् न तं विना | तस्मात् तस्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः || Nअग्Yस्क्_४७
SK
परिज्ञा तस्य केनेति प्रतीत्योत्पाददर्शनात् | प्रतीत्य जातं चाजातम् आह तत्त्वविदां वरः || Nअग्Yस्क्_४८
SK
...
SK
बालाः सज्जन्ति रूपेषु वैराग्यं यान्ति मध्यमाः | स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः || Nअग्Yस्क्_५५
SK
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
SK
Cओप्य्रिघ्त् (C) २००३ ब्य् Cह्र्. Lइन्द्त्नेर् - Dएन्मर्क्
SK
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Nāgārjuna: Yuktiṣaṣṭikakārikā-fragments (sa_nAgArjuna-yuktiSaSTikakArikA-fragments.htm).

Source