SK
आब्ब्रेविअतिओन्स्: अ = अध्याय अहं = अहंकार किर = किरणागम प = पटल पराशरोप = पराशरोपपुराण प प = पतिपटल पा = पाद पुं = पुंस्तत्त्व पौ = पौष्करागम प्र = प्रमाण ब्र = ब्रह्म मतङ्ग = मतङ्गागम मृ = मृगेन्द्र वा चो सू = वि = विद्या श्वेताश्वतर = श्वेताश्वतरोपनिषद् श्लो = श्लोक सर्व = सर्वज्ञानोत्तर सि सा = सिद्धान्त-सरावलि सू = सूत्र || श्रीः || || श्री गुरुभ्यो नमः || शैवपरिभाषा प्रथमः परिच्छेदः बन्दे तं परमेशानं सच्चिदानन्दलक्षणम् | सृष्ट्यादिपञ्चकृत्येशं पशूनां पतिमव्ययम् || गणेशं षण्मुखं साम्बं चित्सभेशं गुरुं नमन् | शिवभक्तानुमोदाय शैवभाषां वदाम्यहम् || १) इह खलु धर्मार्थकाममोक्षारव्यचतुर्विधपुरुषार्थानां मध्ये मोक्षस्य परमपुरुषार्थत्वात् तस्य च दीक्षादिना पाशापगमे पशौ शिवत्वाभिव्यक्तिरूपस्य पत्यनन्यतासाक्षात्कारेणैव प्राप्यत्वात् तादृशसाक्षात्कारस्यापि पति-पशु- पाशारव्यपदार्थत्रयपरिज्ञानसाध्यत्वात् तत्परिज्ञानस्य च प्रमाणाधीनत्वात्, प्रथममुद्देश-लक्षण परीक्षाभिः प्रमाणं निरूप्यते || २) तत्र नाम्ना पदार्थानां स्वरूपमात्रकीर्तनमुद्देशः, लक्षणमसाधारणो धर्मः, लक्षितस्य लक्षणमुपपद्यते न वेति विचारः परीक्षा | तत्र प्रमाणानामुद्देशः � प्रत्यक्षानुमानशब्दा इति त्रीणि प्रमाणानि इति | तदुक्तं � प्रत्यक्षमानुमानं च सह शब्देन शाङ्करे इति || ३) तत्र प्रमाणसामान्य लक्षणं तु संशयविपर्ययस्मृतिव्यतिरिक्ता प्रमापर * *? � आत्मचिच्छक्तिरिति तदुक्तं श्रीमत्पौष्करे � संशयादिविनिर्मुक्ता चिच्छक्तिर्मानमुच्यते || इति || (पौ प्र प श्लो ४) ४) तत्र संशयो नाम साधारणधर्मदर्शनात्कोटिद्वयावलम्बिनी बुद्धिः, यथा � स्थाणुर्वा पुरुषो वेत्यादि | विपर्ययस्तु अतस्मिंस्तद्बुद्धिः, यथा � शुक्तिकायां रजतमित्यादि | पूर्वानुभवजनितसंस्कारजन्या बुद्धिः स्मृतिः, यथा � कामुकस्य कामिनी साक्षात्कारादि | एतत्त्त्रितयव्यतिरिक्ता चिच्छक्तिरेव प्रमाणम् || तदुक्तं तत्रैव �