समदर्शिनाम बोधिसत्त्वेन च समासमदर्शिना च समाधिविकुर्वितराजेन च धर्मेश्वरेण च धर्मकेतुना च प्रभाकेतुना च प्रभाव्यूहेन च रत्नव्यूहेन च महाव्यूहेन च प्रतिभानकूटेन च रत्नकूटेन च रत्नपाणिना च रत्नमुद्राहस्तेन च नित्यप्रलम्बहस्तेन च नित्योत्क्षिप्तहस्तेन च नित्यतपसा च नित्यनन्दहासेन्द्रियेण च प्रामोद्यराजेन च देवराजेन च प्रणिधानव्यसनानुप्राप्तेन प्रतिसंवित्प्रसाधनप्राप्तेन च गगनगंजेन च रत्नप्रदीपधरेण च रत्नवीरेण च रत्ननन्दिना च रत्नश्रिया चेन्द्रजालेन च जालिनीप्रभेण चानुपलब्धिध्यानेन च प्रज्ञाकूटेन च रत्नमुक्तेन च मारहन्त्रा च विद्युद्देवेन च बिकुर्वणराजेन च निमित्तकूटसमतिक्रान्तेन च सिंहगर्जिताभ्यवघोषणस्वरेण च गिर्यग्रसमुद्घातराजेन च गन्धहस्तिना च गन्धकुंजरनागेन च नित्योद्युक्तेन चानिक्षिप्तधुरेण च प्रमतिना च सुन्दरजातेन च पद्मश्रीगर्भेण पद्मव्यूहेन चावलोकितेश्वरेण च महास्थामप्राप्तेन च ब्रह्ममजालकेन च रत्नश्वेतासनेन च मारजिता च समक्षेत्रालङ्कारेण च मणिरत्नच्छत्रेण च मणिचूडेन च मैत्रेयेण च मञ्जुश्रीकुमारभूतेन च तैरित्यादिभिर्द्वात्रिंशदा बोधिसत्त्वसहस्रैः (सार्धम्)
᳚एकस्मिन् समय एकस्मिन् वृक्ष मूले माम् प्रतिसंलीनं लिच्छविर्विमलकीर्तिरपि, येन तस्य वृक्षस्य मूलं तेनोपसंक्रम्यैतद्वदति स्म- ऽभदन्त शारिपुत्र, यथा त्वं प्रतिसंलीनस्तादृशे प्रतिसंलयने न प्रतिसंलयितव्यम्ऽ /
SK
᳚ऽयथा त्रैधातुककायश्च चित्तंच न प्रज्ञायेते, तथा हि प्रतिसंलय / यथा निरोधान्नोत्तिष्ठति सर्वत्रापीर्यापथमाविर्भवति, तथा हि प्रतिसंलय / यथा प्राप्तिलक्षणानुत्सृजनातायाम् पृथग्जनलक्षणमेवापि दृश्यते, तथा हि प्रतिसंलय / यथा पुनस्तव चित्तमध्यात्ममनवस्थितम्, बाह्यरूपे ऽपि नानुविचरति, तथा प्रतिसंलय / यथा सर्वदृष्टिगतेष्वचलो ऽपि च सप्तत्रिंशद्बोधिपाक्षिकधर्माभासं गच्छति, तथा हि प्रतिसंलय / यथा संसारावचरक्लेशाप्रहाणे निर्वाणसमवसरणमपि गच्छति, तथा हि प्रतिसंलय / भदन्त शारिपुत्र, य एवम् प्रतिसंलयने प्रतिसंलीनाः, तान् भगवान् प्रतिसंलयन आमन्त्रयते स्मऽ /
᳚ऽसर्वचर्याविगते, भदन्त महामौद्गल्यायन, एवं धर्मे देशना कथम् भवति? भदन्त महामौद्गल्यायन, सापि धर्मदेशना नामारोपितवचनम् / यच्छ्रवणम्, तदप्यारोपितश्रवणम् / भदन्त मौद्गल्यायन, यत्रारोपितवचनन्नास्ति, नास्ति तत्र धर्मदेशना, श्रवणं च ज्ञानं च न स्तः / तद्यथापि नाम मायापुरुषेण मायापुरुषेभ्यो धर्मो देश्येत /
SK
᳚ऽअनेन चित्तस्थानेन धर्मो दर्शयितव्यः- त्वया सत्त्वेन्द्रियकौशल्यम् करणीयम् / प्रज्ञाचक्षुषा सुदर्शिना च महाकरुणाभिमुखीभूतेन च महायानवर्णवादिना च बुद्धकृतज्ञेन च परिशुद्धाशयेन च धर्मनिरुक्तिविज्ञानेन त्रिरत्नगोत्राच्छिन्नकरणार्थाय त्वया धर्मो दर्शयितव्यःऽ /
᳚ऽअनादानेन पिण्डपात उपादेयः, जात्यन्धोपमेन रूपाणि द्रष्टव्यानि, प्रतिश्रुत्कानिभाः शब्दाः श्रोतव्याः, वायुतुल्या गन्ध घ्रातव्याः, अविज्ञप्तिकेन रसा अनुभवितव्याः, ज्ञानस्पर्शाभावेन स्प्रष्टव्यानि स्पर्ष्टव्यानि, मायापुरुषस्य विज्ञानेन धर्मा वेदितव्याः / यौ न च स्वभावो न च परभावस्तौ नोज्ज्वलौ / यदज्वलनम्, तन्न शाम्यति /
SK
᳚ऽयदि, स्थविर महाकाश्यप, अष्टमिथ्यात्वाव्यतिक्रमणे चाष्टविमोक्षसमापत्त्यांच मिथ्यात्वसमतया सम्यक्त्वसमताम् प्रविशसे, एकपिण्डपातमपि सर्वसत्त्वेभ्यो ददत्, सर्वबुद्धेभ्यश्च सर्वार्येभ्यो ऽप्यनुप्रयच्छसि चोपनाभ्य, पुरत आत्मना भोजनं दृष्टं स्यात्, यथा न च क्लेशसंप्रयुक्तो न च क्लेशविप्रमुक्तस्तथा हि परिभोक्ष्यसि; न समाहितो वा (समाधि-)समुत्थितो व परिभोक्ष्यसि संसारनिर्वाणाप्रतिष्ठितः /
SK
᳚ऽभदन्त, ये केचन तुभ्यं पिण्डपातं ददति, तेभ्यो महाफलं वाल्पफलं वा न भवतः, न च मध्य(-फलं) विशेष(-फलं) वा / (ते) बुद्धप्रवृत्तिं समवसरन्ति, न तु श्रावकगतिं / स्थविर महाकाश्यप, तथा ह्यमोघराष्ट्रपिण्डम् परिभोक्ष्यसिऽ /
᳚अहमपि श्राद्ध आश्चर्यप्राप्तः सत्पुरुषस्य पादावभिवन्द्य,मत्कण्ठादवतार्य शतसहस्रमूल्यं मुक्ताहारमनुप्रयच्छामि स्म / स न प्रतीच्छति स्म / अथ खल्वहमेतदवोचम्- ऽ प्रतिगृहाण त्वमिम् मुक्ताहारं, यं चाधिमुच्यसे तस्मै देहीऽ ति / स तं मुक्ताहारं प्रतिगृह्य च द्वौ प्रत्यंशौ कृत्वा चैकं प्रत्यंशं तस्मिन् यज्ञस्थाने सर्वलोकनिन्दितेभ्यो नगरदरिद्रेभ्यो ददाति स्म; द्वितियं प्रत्यंशं दुष्प्रसहाय तथागताय निर्यातयामास / एवम् रूपं प्रातिहार्यं दर्शयति स्म, यथा सर्वाभिः पर्षद्भिर्मरीचिर्नाम लोकधातुर्दुष्प्रसहो नाम तथागतश्च दृश्येते स्म / स च मुक्तहार स्तस्य दुष्प्रसहस्य तथागतस्य मुर्ध्निमुक्ताहार्कूटागारः संस्थितो ऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयो विचित्रः /
SK
᳚स एवं रूपं प्रातिहार्यं दर्शय्य, वचनमेतदवोचत्- ᳚ऽ दायको यो दानपतिर्यथा तथागतं, तथा नगरदरिद्रान् दक्षिणीयान् सञ्जानाति चासंभिन्नं सममहाकरुणाचित्तेन विपाकप्रतिकाङ्क्षी परित्यागी, स हि धर्म यज्ञ परिनिष्पन्न ऽ इति /
᳚भदन्त शारिपुत्र, कि धर्मार्थिक आगतो ऽसि? आहोस्विदासनार्थिकः?᳚ आह- ᳚धर्मार्थिक आगतः, नास्म्यासनार्थिकः᳚ / अवोचद्- ᳚भदन्त शारिपुत्र, यद्यतो यो धर्मार्थिकः सो ऽपि स्वकायार्थिको न स्यात्, आसनछन्दीक्षणं कुत आगतम्? भदन्त शारिपुत्र, यो धर्मकामः, स हि रूपवेदनासंज्ञासंस्कारविज्ञानकामो नास्ति, स्कन्धधात्वायतनकामो नास्ति / यो धर्मकामः, स कामरूपारूप्यधातुकामो नास्ति, / यो धर्मकामः, स बुद्धभिनिवेशकामो नास्ति, धर्मसंघाभिनिवेशकामो नास्ति / ᳚भदन्त शारिपुत्र, पुनरपरं यो धर्मकामः, स दुःखपरिज्ञानकामो नास्ति, समुदयप्रहाणकामो नास्ति, निरोधसाक्षात्कारकामो नास्ति, मार्गभावनाकामो नास्ति / तत् कस्य हेतोः? धर्मो ह्यप्रपञ्चऽनक्षरः; ततो यद्- ऽदुःखं परिज्ञातव्यम्, समुदायः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यऽ इत्युत्तरिकरणीयं, तद्धर्मकामो नास्ति, तधि प्रपञ्चकामः / ᳚भदन्त शारिपुत्र, धर्मो ह्युपशान्तश्च प्रशान्तः, ततो य उत्पादविनाशनसमुदाचारः, स धर्मकामो नास्ति, विवेककामो नास्ति; स उत्पादविनाशकामः / भदन्त शारिपुत्र, पुनरपरं धर्मो ऽ रजो विरजः; ततः कश्चिद्धर्मश्चेद् यस्मिन् अनुनयस्-(स्याद्-) अन्तमशो निर्वाणे ऽपि, स हि धर्मकामो नास्ति; स ऽरागरजः कामःऽ / धर्मो विषयो नास्ति / या विषयगणना, सा धर्मकामो नास्ति; स विषयकामः / धर्मो ह्यनाव्यूहो ऽनिर्व्युहः; कश्चिद्धर्मो यस्मिनभिग्रहणं चोत्सर्गः, स धर्मकामो नास्ति; स ह्यभिग्रहणोत्सर्गकामः /
SK
᳚धर्मो ऽनालयः; य आलयारामाः, ते न धर्मकामाः, ते ह्यालयकामाः / धर्मो ऽनिमित्तः शून्यः; येषां विज्ञाननिमित्तानुगमनम्, ते न धर्मकामाः, ते निमित्तकामाः / धर्मो ऽसहवासः; ये केचिद्धर्मेण सह विहरन्ति, ते न धर्मकामाः, ते विहारकामाः / धर्मो दृष्टश्रुतमतविज्ञातन्नास्ति; ये दृष्टश्रुतमतविज्ञाते चरन्ति ते दृष्टश्रुतमतविज्ञातकामाः, न तु धर्मकामाः /
SK
᳚भदन्त शारिपुत्र,, धर्मस्संस्कृतासंस्कृतन्नास्ति; ये संस्कृतावचराः ते न धर्मकामाः, ते संस्कृरग्रहणकामाः / भदन्त शारिपुत्र, अत इच्छेश्चेद्धर्म, त्वया सर्वधर्मा अप्रतिकांक्षितव्याः᳚ /
᳚(सर्वधर्मेषु) तुच्छरिक्तनिःसारास्वामिकानिकेतप्रत्यवेक्षा, परं त्वतुच्छपुण्ये चारिक्तज्ञाने च परिपुर्णसंकल्प् (एषु) च स्वयम्भूज्ञानाभिषेके च स्वयम्भूज्ञानाभियोगे च नीतार्थबुद्धगोत्रे प्रतिष्ठा /
SK
कुलपुत्राः, एवं हि तादृशधर्माधिमुक्तबोधिसत्त्वो ऽसंस्कृते न तिष्ठति, संस्कृतञ्चापि न क्षपयति /
᳚स) सर्वधर्मेष्वश्लेषनिष्ठागतः, भूतकोट्यपगतः, तथतासुप्रतिष्ठितः सो ऽन्योन्यविगतः / (तथागतो) हेत्वनुत्पादितो ऽप्रत्ययप्रतिबद्धः, लक्षणापगतः, असलक्षणः, न चैकलक्षणो न च भिन्नलक्षणः, अकल्पितः, असंकल्पितः, अविकल्पितः / (तथागतः) पारे नास्ति, अपारे च नास्ति, नास्ति मध्ये ऽपि; इह वा तेन वा तत्र वान्यत्र वा नास्ति / विज्ञानेन (सो) ऽज्ञातव्यः, विज्ञानस्थानन्नास्ति; (स) न च तमो न चालोकः /
SK
᳚(तथागतो) नामापगतो निमित्तापगतः, (स) नास्ति दुर्वलो वा बलवान् वा, न च देशस्थो न च पक्षस्थितः, कुशलाकुशलापगतः, संस्कृतासंस्कृतापगतः, कश्चिदभिलाप्यो ऽर्थो नास्ति; दानमात्सर्यशीलदौः शील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानौद्धत्यप्रज्ञादौष्प्रज्ञासु(सो) ऽनभिलाप्यः / (तथागतो) नास्ति सत्यं वा मृषा वावधारणं वाअनवधारणं वा, न च जगद्विधिर्न च जगदबिधिः, सर्ववादचर्यात्यन्तसमुच्छिन्नः / (स) क्षेत्रभावो वा क्षेत्राभावो वा नास्ति, न च दक्षिणीयो न च दानानुपभोगः, न ग्राहितव्यं वा स्पृशेयं वा निमित्तं वा / (सो) ऽसंकृतः, संख्याविगतः, समतासमः, धर्मतासमासमः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, गमनं वा, आपन्नं वा, समतिक्रान्तं वा (स) नास्ति / ᳚(तथागतो) ऽदृष्टः, अश्रुतः, अमतः, अविज्ञातः, सर्वग्रन्थापगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वधर्मसम(ता)निर्विशेषप्राप्तः, सर्वत्र निरवद्यः, अकिञ्चिनः, कषायरहितः, अकल्पः, अविकल्पः, अकृतः, अनुत्पन्नः, अजातः, अभूतः, असंभूतः; अभावी, अनभावी, अभयः, अनालयः; अशोकः अनानन्दः, अतरंगः, सर्वव्यवहारनिर्देशावक्तव्यः / ᳚तथागतकायो हि, भगवन्, ईदृशः; स एवं द्रष्टव्यः / य एवं पश्यति, सम्यक् पश्यति सः / यो ऽन्यथा पश्यति, स मिथ्या पश्यति᳚ / तत आयुष्मांशारिपुत्रो भगवन्तमेतदवोचत्- ᳚स कुलपुत्रो विमलकीर्तिः, भगवन्, कस्माद्बुद्धक्षेत्राच्च्युत्वा, अस्मिन् बुद्धक्षेत्र आगतः?᳚ भगवानामन्त्रयते स्म- ᳚शारिपुत्र, इमं सत्पुरुषं ऽत्वं कस्माच्च्युत्वा, इह जात?ऽ इति पृच्छ᳚ / तत आयुष्मांशारिपुत्रो लिच्छवि विमलकीर्तिमेतदवोचत्- ᳚कुलपुत्र, त्वं कस्माच्च्युत्वा, इह जातः?᳚ विमलकीर्तिराह-