SKSपन्दकारिका, प्रथमो निःष्यन्दः
SKयस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ / तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः // VSप्क्_१.१ //
SK* [<Sपन्दकारिकानिर्णय> * शम् उपशान्ताशेषोपतापपरमानन्दाद्वयमयस्वचैतन्यस्फारप्रत्यभिज्ञापनस्वरूपम् अनुग्रहं करोति यस् तम् इमं स्वस्वभावं शंकरं स्तुमस् तं विश्वोत्कर्षित्वेन परामृशन्तस् तत्कॢप्तकल्पितप्रमातृपदनिमज्जनेन समाविशामः तत्समावेश एव हि जीवन्मुक्तिफल इह प्रकरण उपदेश्यः || VSप्क्C_१.१:१ * बहुवचनम् अनुग्रहदृष्टिकटाक्षिताशेषानुग्राह्याभेदप्रथनाय || VSप्क्C_१.१:२ * तम् इत्य् अनेन यद् अस्य असामान्यत्वम् अपि ध्वनितं तत् प्रथयति यस्येत्य् अर्धेन || VSप्क्C_१.१:३ * इह परमेश्वरः प्रकाशात्मा महादेवः शब्दराशिपरमार्थपूर्णाहन्तापरामर्शसारत्वात् सदैवानन्दघनस्फुरत्तात्मकोभयविसर्गारणिपराशक्त्यात्मकपूर्णस्वातन्त्र्यस्वरूपस् तत एव चित्स्वाभाव्याद् अचलस्यापि श्रीभगवतः स्वातन्त्र्यशक्तिर् अविभक्ताप्य् अशेषसर्गसंहारादिपरम्परां दर्पणनगरवत्स्वभित्ताव् एव भावियुक्त्यानधिकाम् अप्य् अधिकाम् इव दर्शयन्ती किंचिच् चलत्तात्मकधात्वर्थानुगमात् स्पन्द इत्य् अभिहिता तेन भगवान् सदास्पन्दतत्त्वसतत्त्वो न त्व् अस्पन्दः यद् आहुः केचित् अस्पन्दं परं तत्त्वम् इति || VSप्क्C_१.१:४ * एवं हि शान्तस्वरूपत्वाद् अनीश्वरम् एवैतद् भवेत् || VSप्क्C_१.१:५ * स्फुरत्तासारस्पन्दशक्तिमयशंकरात्मकस्वस्वभावप्रतिपादनायैव चेदं शास्त्रं समुचितस्पन्दाभिधानं महागुरुभिर् निबद्धम् || VSप्क्C_१.१:६ * एतच् च व्यक्तीभविष्यति || VSप्क्C_१.१:७ * सा चैषा स्पन्दशक्तिर् गर्भीकृतानन्तसर्गसंहारैकघनाहन्ताचमत्कारानन्दरूपा निःशेषशुद्धाशुद्धरूपामातृमेयसंकोचविकासाभासनसतत्त्वा सर्वोपनिषदुपास्या युगपद् एवोन्मेषनिमेषमयी || VSप्क्C_१.१:८ * तथा हि शिवादेः क्षित्यन्तस्याशेषस्य तत्त्वग्रामस्य प्राक्सृष्टस्य संहर्तृरूपा या निमेषभूर् असाव् एवोद्भविष्यद्दशापेक्षया स्रष्टुरूपोन्मेषभूमिस् तथा विश्वनिमेषभूश् चिद्घनतोन्मेषसारा चिद्घनतानिमज्जनभूमिर् अपि विश्वोन्मेषरूपा || VSप्क्C_१.१:९ * यद् आगमः / * लेलिहाना सदा देवी सदा पूर्णा च भासते || VSप्क्C_१.१:१०
SKयत्र स्थितमिदं सर्वं कार्यं यस्माच् च निर्गतम् / तस्यानावृतरूपत्वान् न निरोधोऽस्ति कुत्रचित् // VSप्क्_१.२ //
SK* [<Sपन्दकारिकानिर्णय> * तस्यास्य शंकरात्मनः प्रकाशानन्दघनस्य स्वस्वभावस्य न कुत्रचिद्देशे काल आकारे वा निरोधः प्रसरव्याघातो ऽस्ति अनावृतरूपत्वाद् अस्थगितस्वभावत्वात् || VSप्क्C_१.२:१ * अयं भावः इह यत्किंचित्प्राणपुर्यष्टकसुखनीलादिकं चित्प्रकाशस्यावरकं संभाव्यते तद्यदि न प्रकाशते न किंचित् प्रकाशमानं तु प्रकाशात्मकशंकरस्वरूपमेवेति किं कस्य निरोधकं को वा निरोधार्थः || VSप्क्C_१.२:२ * एतदेव तस्येत्येतद्विशेषणेन यत्रेत्यादिनोपपादयति || VSप्क्C_१.२:३ * यत्र यस्मिंश्चिद् रूपे स्वात्मनि इदं मातृमानमेयात्मकं सर्वं जगत्कार्यं स्थितं यत्प्रकाशेन प्रकाशमानं सत्स्थितिं लभते तस्य कथं तेन निरोधः शक्यस् तन्निरोधे हि निरोधकाभिमतमेव न चकास्यादित्य् आशयशेषः || VSप्क्C_१.२:४ * यथोक्तम् / * तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा || VSप्क्C_१.२:५
SK* इत्यत्र / * सर्वशब्देनोपादानादिनैरपेक्ष्यं कर्तुर्ध्वनितम् || VSप्क्C_१.२:१२
SK* यतस्तु यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः / * तथा हृदयबीजस्थं जगद् एतच् चराचरम् || VSप्क्C_१.२:१७
SK* यथोक्तं श्रीस्वच्छन्दशास्त्रे / * अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते / * देव्यभावः स विज्ञेयो यत्र भावाः क्षयं गताः || VSप्क्C_१.२:२७
SK* तदुक्तमस्मद्गुरुभिस् तन्त्रालोके / * प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते / * तेषामपि परो जीवः स एव परमेश्वरः || VSप्क्C_१.२:३०
SK* यथोक्तं श्रीमदुत्पलदेवाचार्यैः / * परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या / * अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति || VSप्क्C_१.२:३५
SK* यद्वक्ष्यते / * यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || VSप्क्C_१.२:३९
SK* तथा / * तस्माच् छब्दार्थचिन्तासु न सावस्था न या शिवः || VSप्क्C_१.२:४१
SK* भविष्यति चैतत् / * न तु यो ऽन्तर्मुखो भावः || VSप्क्C_१.२:४४
SK* यद्वक्ष्यति / * तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः || VSप्क्C_१.२:४८
SKजाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति / निवर्तते निजान् नैव स्वभावादुपलब्धृतः // VSप्क्_१.३ //
SK* [<Sपन्दकारिकानिर्णय> * जागरापरपर्यायो जाग्रच्छब्दः शिष्टप्रयुक्तत्वात् || VSप्क्C_१.३:१ * लोकप्रसिद्धे जाग्रत्स्वप्नसुषुप्तानां भेदे योगिप्रसिद्धे ऽपि वा धारणाध्यानसमाधिरूपे प्रसर्पति अन्यान्यरूपे प्रवहति सति अर्थात् तत्तत्त्वं निजादनपायिनः सर्वस्यात्मभूताच् चानुभवितृरूपात् स्वभावान् नैव निवर्तते || VSप्क्C_१.३:२ * यदिहिस्वयंनिवर्तेत तज् जाग्रदाद्य् अपि तत्प्रकाशविनाकृतं न किंचित्प्रकाशेत || VSप्क्C_१.३:३ * उपलब्धृता चैतदीया जागरास्वप्नयोः सर्वस्य स्वसंवेदनसिद्धा सौषुप्ते यद्यपि सा तथा न चेत्यते तथाप्य् औत्तरकालिकस्मृत्यन्यथानुपपत्त्या सिद्धा उपलब्धृत एव च स्वभावान् न निवर्तते उपलभ्यं त्व् अवस्थादि तन्माहात्म्यान् निवर्ततां कामं कात्र क्षतिः || VSप्क्C_१.३:४ * एवकारोऽप्यर्थे भिन्नक्रमस् तदभावेऽपि न निवर्तत इत्यर्थः || VSप्क्C_१.३:५ * जागरादिविभेदस्य विशेषणद्वारेण हेतुस्तदभिन्ने इति तस्माच् छिवस्वभावादभेदेन प्रकाशमानत्वात् प्रकाशरूपे इत्यर्थः || VSप्क्C_१.३:६ * यच् च यदेकात्मकं तत्कथं तन्निवृत्ताव् अवतिष्ठते || VSप्क्C_१.३:७ * यद्वा तदिति कर्तृपदम् || VSप्क्C_१.३:८ * अभिन्न इति तु केवलमभिन्नत्वं जागरादेः शिवापेक्षमेव || VSप्क्C_१.३:९ * अर्थात्तत्तत्त्वं जागरादिभेदेऽपि सति प्रसर्पति प्रसरति वैचित्र्यं गृह्णाति तन् नैव स्वभावान् निवर्तत इति योज्यम् || VSप्क्C_१.३:१० * किंचायं जाग्रदादिभेदः परिणामो विवर्तो वेति यत् सांख्यपाञ्चरात्रशाब्दिकादयो मन्यन्ते तद्व्युदासायाप्युक्तं तदभिन्न इति || VSप्क्C_१.३:११ * अवस्थाप्रपञ्चोऽपि यदि चिन्मात्रात् मनागप्य् अतिरिच्येत चिद्रूपं वा तत्परिणतौ मनाग् अतिरिच्येत तन् न किंचिच् च का स्याद् इति तावन् न परिणामोऽस्ति || VSप्क्C_१.३:१२ * यथोक्तम् / * परिणामोऽचेतनस्य चेतनस्य न युज्यते || VSप्क्C_१.३:१३
SKअहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः / सुखाद्यवस्थानुस्यूते वर्तन्ते ऽन्यत्र ताः स्फुटम् // VSप्क्_१.४ //
SK* [<Sपन्दकारिकानिर्णय> * य एवाहं सुखी स एव दुःखी सुखानुशायिना रागेण युक्तत्वाद् रक्तो दुःखानुशायिना द्वेषेण सम्बन्धाद् द्विष्टेत्यादयः संविदो ज्ञानानि ता अन्यत्रेति अवस्थातर्य् आत्मतत्त्वे वर्तन्ते तत्रैवान्तर्मुखे विश्राम्यन्ति स्फुटं स्वसाक्षिकं कृत्वा || VSप्क्C_१.४:१ * अन्यथा क्षणिकज्ञानानां स्वात्ममात्रक्षीणत्वात् तत्संस्कारजन्मनाम् अपि विकल्पानामनुभवागोचरे प्रवृत्त्यभावादनुसंधानम् इदं न घटेत || VSप्क्C_१.४:२ * चकारास् तुल्ययोगितापरा अनुसंधानं द्योतयन्ति || VSप्क्C_१.४:३ * कीदृशेऽन्यत्र सुखाद्यवस्था उदयप्रलयिन्यो ऽनुस्यूता दृब्धा यस्मिंस् तस्मिन् सुखाद्यवस्थानुस्यूते ऽन्तःस्रक्सूत्रकल्पतया स्थिते || VSप्क्C_१.४:४ * ता इत्य् अनेनानुसंधीयमानावस्थानां स्मर्यमाणताम् अभिदधत्क्षणिकज्ञानवादिमते ऽनुभवसंस्कारोत्पन्नत्वाद् अर्थाकारारूषितत्वे ऽपि स्मृतेः कामम् अनुभवसदृशत्वं भवतु न त्व् अनुभवानुभूतातीतकालार्थव्यवस्थापकत्वं घटते सर्वसंविदन्तर्मुखे तु प्रमातरि सति सर्वं युज्यत इति सूचितवान् इत्य् अलं सुकुमारहृदयोपदेश्यजनवैरस्यदायिनीभिर् आभिः कथाभिः || VSप्क्C_१.४:५ * एतदर्थिभिः प्रत्यभिज्ञा परीक्ष्या || VSप्क्C_१.४:६ * ग्रन्थकृतैव तु यत इह युक्तिर् आसूत्रिता ततोऽस्माभिः किंचिद् उद्घाटितम् इति सचेतोभिर् नास्मभ्यम् असूययितव्यम् || VSप्क्C_१.४:७ * मीमांसकपरिहाराय तु एतद् इत्थं व्याख्यातव्यम् || VSप्क्C_१.४:८ * अहं सुखीत्यादिसंविदो यास् ता अन्यत्रेति पुर्यष्टकस्वरूपे प्रमातरि सुखाद्यवस्थाभिर् अनुस्यूते ओतप्रोतरूपे स्फुटं लोकप्रतीतिसाक्षिकं वर्तन्ते तिष्ठन्ति न त्व् अस्मदभ्युपगते ऽस्मिंश् चिदानन्दघने शंकरात्मनि स्वस्वभावे इति न सर्वदा सुखाद्युपाधितिरस्कृतो ऽयमात्मापि तु चिन्मयः || VSप्क्C_१.४:९ * यदा तु निजाशुद्धया वक्ष्यमाणयायं स्वस्वरूपं गूहयित्वा तिष्ठति तदा पुर्यष्टकाद्यवस्थायां सुखित्वादिरूपतास्य तत्रापि न निरोधस् तैः सुखादिभिर् अस्येत्य् उक्तम् एवेति न तत्तिरस्कृतो ऽयं कदाचिदपि || VSप्क्C_१.४:१० * अहं कृशो ऽहं स्थूल इत्यादिप्रतीतिपरिहारेण अहं सुखी दुःखीत्यादि वदतो ऽयमाशयः सुखित्वादिप्रतीतिसंभिन्नां पुर्यष्टकभूमिम् अन्तर्मुखे पदे निमज्जयंस् तदनुषङ्गेण बाह्यस्यापि देहघटादेर् गलनात् प्रत्यभिजानात्य् एव स्वं शिवस्वभावत्वम् इति सर्वथा पुर्यष्टकशमनायैव यत्न आस्थेय इति || VSप्क्C_१.४:११ * उक्तोपपत्तिसिद्धां समस्तवादानाम् अनुपपन्नताम् अनुवदन्न् उपपत्तिसिद्धं स्पन्दतत्त्वम् एवास्तीति प्रतिजानाति युक्त्यनुभवागमज्ञो रहस्यगुरुप्रवरः || VSप्क्C_१.४:१२]
SKन दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च / न चास्ति मूढभावोऽपि तदस्ति परमार्थतः // VSप्क्_१.५ //
SK* [<Sपन्दकारिकानिर्णय> * इह यत्किंचिद्दुःखसुखाद्यान्तरं नीलपीतादिकं बाह्यं ग्राह्यं यच् चैतद् ग्राहकं पुर्यष्टकशरीरेन्द्रियादि तत्तावत्सौषुप्तवद् असंचेत्यमानं स्फुटमेव नास्तीति वक्तुं शक्यम् || VSप्क्C_१.५:१ * यदापि तु संचेत्यते तदा संचेत्यमानस्याप्य् अस्य चैतन्यमयत्वाच् चैतन्यम् एवास्तीत्य् आयातम् || VSप्क्C_१.५:२ * यदाहुः / * प्रकाशात्मा प्रकाश्यो ऽर्थे नाप्रकाशश् च सिध्यति || VSप्क्C_१.५:३
SK* इहापि वक्ष्यते / * तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || VSप्क्C_१.५:५
SK* भविष्यति चैतत् / * न तु यो ऽन्तर्मुखो भावः || VSप्क्C_१.५:९
SK* यथोक्तं प्रत्यभिज्ञायाम् / * स्वभावमवभासस्य विमर्शं विदुर् अन्यथा / * प्रकाशो ऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || VSप्क्C_१.५:१२
SK* भट्टनायकस्तोत्रे ऽपि / * नपुंसकमिदं नाथ परं ब्रह्म फलेत् कियत् / * त्वत्पौरुषी नियोक्त्री चेन् न स्यात्त्वद्भक्तिसुन्दरी || VSप्क्C_१.५:१४
SK* एवं च यत्र स्थितम् इत्यतः प्रभृति यत्तत्त्वं विचारितं तदेवास्ति तच् चास्त्येव परमार्थतो युक्त्यनुभवागमसिद्धेन रूपेण परमार्थत एव चाकल्पितेन पूर्णेन रूपेणास्ति न तु नीलादिवत् कल्पितेन / * यथोक्तं महागुरुभिः / * एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्य् अमी / * जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः || VSप्क्C_१.५:१६
SK* तत्रभवद्भर्तृहरिणापि / * यदादौ च यदन्ते च यन्मध्ये तस्य सत्यता / * न यद् आभासते तस्य सत्यत्वं तावदेव हि || VSप्क्C_१.५:१८
SK* सावधारणत्वात् सर्ववाक्यानाम् एवकारो ऽत्र त्रिर् योज्यः / * एवमनेन सूत्रेण सुखाद्याकारसंवित्संतानवादिनां सुखादिकलुषितप्रमातृतत्त्ववादिनां ग्राह्यग्राहकनानात्ववादिनां सर्वेषाम् अभाववादिनां निष्परामर्शप्रकाशब्रह्मवादिनां च मतम् अनुपपन्नत्वाद् असत्त्वेनानूद्य पारमार्थिकं स्पन्दशक्तिरूपमेव तत्त्वम् अस्तीति प्रतिज्ञातम् || VSप्क्C_१.५:२०
SK* अथ च यस्मिन्न् अस्मिन् सोपदेशसावधानमहानुभावपरिशील्ये स्फुरत्तासारे स्पन्दतत्त्वे स्फुरति दुःखसुखग्राह्यग्राहकतदभावादिकम् इदं सद् अपि न किंचिद् एव सर्वस्यैतच् चमत्कारैकसारत्वात् तद् एवैतद् अस्तीत्य् उपदिष्टम् / * यन्महागुरवः / * दुःखान्यपि सुखायन्ते विषम् अप्य् अमृतायते / * मोक्षायते च संसारो यत्र मार्गः स शांकरः || VSप्क्C_१.५:२१
SKयतः करणवर्गो ऽयं विमूढो ऽमूढवत् स्वयम् / सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः // VSप्क्_१.६ //
SKलभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् / यतः स्वतन्त्रता तस्य सर्वत्रेयम् अकृत्रिमा // VSप्क्_१.७ //
SK* [<Sपन्दकारिकानिर्णय> * तन्निर्णीतं तत्त्वम् आदरात् श्रद्धया प्रयत्नेन च / * उद्यमो भैरवः / * इति शिवसूत्रप्रतिपादितेन सर्वभेदोपसंहारात्मना निजौजोवृत्तिस्फारणरूपेण परिपूर्णान्तर्मुखस्वरूपसेवनात्मना भैरवरूपेणोद्यमेन परीक्ष्यम् || VSप्क्C_१.६-७:१
SK* यत इयमिति सर्वस्य स्वसंविदिता तस्य शंकरात्मनः स्वस्वभावस्याकृत्रिमा सहजा स्पन्दतत्त्वरूपा स्वतन्त्रता सर्वत्र जडाजडविषये स्फुरन्ती स्थितेति शेषः / * किं तत् तत्त्वम् इत्याह यत इत्यादि लभत इत्यन्तम् || VSप्क्C_१.६-७:२
SK* अयमिति लोकप्रसिद्धो गोलकादिरूपो न तु शास्त्रितस्तस्य नित्यपरोक्षत्वेनायमिति निर्देशाभावात् करणवर्गस् त्रयोदशेन्द्रियाणि विशेषेण मूढो मायावशाज् जडाभासीभूतो ऽणोर् मूढाद् अप्यधिकं मूढत्वं प्राप्तो ऽमूढवच् चेतनवत् स्वयं प्रवृत्तिस्थितिसंहृतीर् लभते विषयोन्मुखीभवति तत्र रज्यते ततश्च निवर्तत इत्यर्थः || VSप्क्C_१.६-७:३
SK* कथं सहान्तरेण चक्रेण इहान्तरं चक्रं करणेश्वर्यो नान्तःकरणानि तेषां वर्गशब्देन स्वीकारात् न वक्ष्यमाणं पुर्यष्टकं तत्स्थस्यान्तःकरणत्रयस्य वर्गशब्देनैव गृहीतत्वात् तन्मात्राणां च वासनामात्ररूपाणाम् उपदेश्यम् अयोगिनं प्रति साक्षात् प्रवृत्त्यादिकर्तृत्वेनासिद्धेः योगिनस्तु साक्षात् कृततन्मात्रस्य स्वयमेव परतत्त्वपरिशीलनावहितस्योपदेश्यत्वाभावात् तस्माद् एतदेकीयमतम् असत् || VSप्क्C_१.६-७:४
SK* विमूढो ऽमूढवद् इत्यनेन करणवर्ग एव संबन्ध्यो नत्वन्तरमपि करणेश्वरीचक्रं तस्य चिच्चमत्काररूपत्वात् || VSप्क्C_१.६-७:५
SK* एवम् अभिदधानस्यायम् आशयः यदयं शंकरात्मा स्वस्वभावो ऽतिदुर्घटकरिणः स्वातन्त्र्याद् युगपदेव संवित्तिसारं च करणेश्वरीचक्रं जडाभासरूपं च करणवर्गम् एकतयैव निर्भासयन् प्रवृत्तिस्थितिसंहृतीः कारयति येन भगवत्यः करणेश्वर्यो यथा तत्तद्भावसृष्ट्यादि विदधति तथा करणवर्गो जडो ऽपि तत्कारीव लक्ष्यते || VSप्क्C_१.६-७:६
SK* यद्यपि रहस्यदृष्टौ न कश्चिज् जडः करणवर्गो ऽस्ति अपितु विज्ञानदेहाः करणेश्वर्य एव विजृम्भन्ते तथापीह सुप्रसिद्धप्रतीत्यनुसारेणोपदेश्यः क्रमेण रहस्यार्थोपदेशे ऽनुप्रवेश्य इत्येवम् उक्तम् || VSप्क्C_१.६-७:७
SK* एवं च गोलकादिरूपकरणवर्गाप्रवृत्त्यादिक्रमेण तदधिष्ठातृरूपं निजमरीचिचक्रं चिन्वानेनैव तदुभयप्रचोदकं श्रीमच्छंकरात्मकं स्वस्वरूपं परीक्षणीयं यतस् तत्प्राप्तौ तदीयाकृत्रिमा स्वतन्त्रतास्य योगिनः स्याद् इत्य् अप्य् अनेनैवोक्तं भवति || VSप्क्C_१.६-७:८
SK* तदेतदेव परीक्षणार्हं परमोपादेयत्वाद् एतदेव च परीक्षितुं शक्यमुक्तयुक्त्या सुखोपायत्वात् अत एवादरेणाभिलषितविषयोपभोगानिरोधात्मना बहुमानेन || VSप्क्C_१.६-७:९
SK* अत्र परीक्षणस्येहत्योपदेशानुसारेण प्राप्तकालता || VSप्क्C_१.६-७:१०
SK* यथोक्तं रहस्यगुरुभिः / * निजनिजेषु पदेषु पतन्त्व् इमाः करणवृत्तय उल्लसिता मम / * क्षणम् अपीश मनागपि मैव भूत् त्वद्विभेदरसक्षतिसाहसम् || VSप्क्C_१.६-७:११
SK* इति || VSप्क्C_१.६-७:१२
SK* परीक्ष्यम् इत्य् अर्हे शक्ये प्राप्तकालतायां प्रैषादौ च कृत्यः || VSप्क्C_१.६-७:१३
SK* अथ च जडः करणवर्गो यद् बलाद् अमूढवत् प्रवृत्त्यादि लभते इति सर्वस्यानुभवसाक्षिकम् अभिदधदिन्द्रियादिचैतन्यवादिचार्वाकमतम् अप्यनेन व्युदस्तवान् || VSप्क्C_१.६-७:१४
SK* अथ कथमुक्तं ततस् तत्त्वाच् चेतनताम् इवासाद्येन्द्रियाणि स्वयं प्रवृत्त्यादि लभन्त इति यावतायम् एव ग्राहक इच्छया दात्रादीनीव करणानि प्रेरयति || VSप्क्C_१.६-७:१५
SK* यद् अप्युक्तं तत् तत्त्वं प्रयत्नेन परीक्ष्यम् इति तदपि कथं यतो ऽस्माकम् इच्छा बहिर् एवानुधावति न तु तत्त्वपरीक्षायां प्रवर्तितुम् उत्सहत इत्य् आशङ्क्याह || VSप्क्C_१.६-७:१६]
SKन हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते / अपि त्व् आत्मबलस्पर्शात् पुरुषस् तत्समो भवेत् // VSप्क्_१.८ //
SK* [<Sपन्दकारिकानिर्णय> * अयं लौकिकः पुरुष इच्छैव नोदनं प्रतोदस्तस्य प्रेरकत्वेन करणप्रवर्तनार्थव्यापारणाय यस्मान् न प्रवर्तते अपि तु आत्मनश् चिद्रूपस्य यद् बलं स्पन्दतत्त्वात्मकं तत्स्पर्शात् तत्कृतात् कियन्मात्राद् आवेशात् तत्समो भवेत् अहंतारसविप्रुडभिषेकादचेतनो ऽपि चेतनताम् आसादयत्येव || VSप्क्C_१.८:१ * ततस् तत् तत्त्वं न केवलं करणानि यावत् तत्प्रेरकत्वेन शङ्कितं कल्पितमपि प्रमातारं चेतनीकृत्य स्वयं प्रवृत्त्यादिपात्रं करोति येनास्यायम् अभिमानो ऽहं करणानि प्रेरयामीति || VSप्क्C_१.८:२ * स्पन्दतत्त्वानुवेधं विनापि तु स एव न किंचिदिति करणानां ग्राहकस्य च स्वरश्मिचक्रप्रसरानुवेधेन चेतनीभावापादकं तत्त्वं परीक्ष्यमिति युक्तमेव || VSप्क्C_१.८:३ * यदि पुनर् इच्छाख्येन प्रतोदरूपेण करणान्तरेण करणानि प्रेरयेत् तद् अपीच्छाख्यं करणं प्रेर्यत्वात् करणान्तरं स्वप्रेरणायापेक्षेत तदप्य् अन्यद् इत्य् अनवस्था स्यात् || VSप्क्C_१.८:४ * यत् तूक्तम् अस्माकमिच्छा न तत्र प्रवर्तितुम् उत्सहते इति तत्राप्याद्यं श्लोकार्धम् अभ्युपगमेन परं तूत्तरतया योज्यम् || VSप्क्C_१.८:५ * सत्यं नायं पुरुषस्तत्त्वपरीक्षार्थम् इच्छां प्रवर्तयितुं शक्नोति नेच्छया तत्त्वं विषयीकर्तुं क्षमस् तस्याविकल्प्यत्वाद् अपि तु विषयान् अनुधावन्तीम् इच्छां तदुपभोगपुरःसरं प्रशमय्य यदा त्व् अन्तर्मुखमात्मबलं स्पन्दतत्त्वं स्वकरणानां च चेतनावहं स्पृशति तदा तत्समो भवेत् तत्समावेशात् तद्वत् सर्वत्र स्वतन्त्रताम् आसादयत्येव यस्माद् एवं तस्मात् तत्त्वं परीक्ष्यम् इत्यर्थः || VSप्क्C_१.८:६ * शक्तिभूमेः स्पर्शाप्रधानत्वाद् आत्मबलस्पर्शादित्य् उक्तम् || VSप्क्C_१.८:७ * ननु चायं क्षेत्री परमेश्वरमयो ऽपि किं न सदा पारिपूर्ण्येन स्फुरति कस्माद् अन्तर्मुखात्मबलस्पर्शम् अपेक्षत इत्य् आशङ्क्याह || VSप्क्C_१.८:८]
SKनिजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः / यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् // VSप्क्_१.९ //
SK* [<Sपन्दकारिकानिर्णय> * निजा स्वात्मीया स्वस्वातन्त्र्योल्लासिता येयं स्वरूपाविमर्शस्वभावा इच्छाशक्तिः संकुचिता सत्यपूर्णंमन्यतारूपा अशुद्धिर् आणवं मलं तन्मलोत्थितकञ्चुकपञ्चकाविलत्वात् ज्ञानशक्तिः क्रमेण भेदसर्वज्ञत्वकिंचिज्ज्ञत्वान्तःकरणबुद्धीन्द्रियतापत्तिपूर्वम् अत्यन्तं संकोचग्रहणेन भिन्नवेद्यप्रथारूपं मायीयं मलमशुद्धिर् एव क्रियाशक्तिः क्रमेण भेदसर्वकर्तृत्वकिंचित्कर्तृत्वकर्मेन्द्रियरूपसंकोचग्रहणपूर्वम् अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् अप्यशुद्धिः तयासमर्थस्य पूर्यज्ञत्वकर्तृत्वविकल्पस्य तत एव कर्तव्येषु लौकिकशास्त्रीयानुष्ठानेष्व् अभिलाषिणो ऽभीष्टानवाप्तेर् नित्यम् अभिलाषव्याकुलस्य तत एव क्षणम् अप्य् अलब्धस्वरूपविश्रान्तेः यदा उक्तवक्ष्यमाणोपपत्त्यनुभवावष्टम्भतो ऽभिलाषविवशग्राहकाभिमानात्मा क्षोभः प्रलीयेत अनात्मन्य् आत्माभिमाननिवृत्तिपुरःसरम् आत्मन्य् अनात्माभिमानोपशान्तिपर्यन्तेन प्रकर्षेण लीयेत तदा परमं स्पन्दतत्त्वात्मकं पदं स्याद् अस्य प्रत्यभिज्ञाविषयतां यायाद् इत्यर्थः || VSप्क्C_१.९:१ * न तु तदैव भवति तस्य नित्यत्वात् || VSप्क्C_१.९:२ * उक्तं च विज्ञानभैरवे | * मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् / * यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः // VSप्क्C_१.९:३ //
SK* इति || VSप्क्C_१.९:४
SK* निजाशुद्धिशब्देनमलं नाम द्रव्यं पृथग्भूतम् अस्तीति ये प्रतिपन्नास्ते दूष्यत्वेन कटाक्षिताः || VSप्क्C_१.९:५
SK* ननु च ग्राहकाहम्भावात्मनि क्षोभे क्षीणे निस्तरङ्गजलधिप्रख्यम् अस्पन्दमेव तत्त्वं प्रसक्तम् इत्याशङ्कां शमयति || VSप्क्C_१.९:६]
SKतदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः / यतस् तदेप्सितं सर्वं जानाति च करोति च // VSप्क्_१.१० //
SK* [<Sपन्दकारिकानिर्णय> * तदेत्युपदेश्यापेक्षया अकृत्रिमः सहजो धर्मः प्राङ् निर्दिष्टस्वतन्त्रतारूपः परमेश्वरस्वभावो ज्ञत्वकर्तृत्वे सामरस्यावस्थितप्रकाशानन्दात्मनी ज्ञानक्रिये लक्षणमव्यभिचारि स्वरूपं यस्य तादृक् तदा क्षोभोपशमे ऽस्य पुरुषस्य स्याद् अभिव्यज्यत इत्यर्थः || VSप्क्C_१.१०:१ * कुत एतद् अभिव्यज्यत इत्याह यतस्तदा परमपदप्रवेशसमये सर्वम् ईप्सितमिति यद्यज् जिज्ञासितं चिकीर्षितं वास्य तत् प्रविविक्षायाम् अभूत् तत्तज् जानाति च करोति च || VSप्क्C_१.१०:२ * चकाराव् अत्र यौगपद्यम् आहतुः न तु यथैके चकाराभ्यां ज्ञानक्रिययोर् ऐकात्म्यं सूचयतीति तद्धि ज्ञत्वकर्तृत्वलक्षण इत्य् अनेनैवैकधर्मविशेषणेन सम्बन्धिनिर्देशेन वास्तवस्वरूपाभिधायिनोक्तम् || VSप्क्C_१.१०:३ * अथ यतः करणेति निजाशुद्धीति सूत्रप्रतिपादितोन्मेषक्रमसमाधानसाक्षात्कृतस्य स्पन्दतत्त्वस्य दृढावष्टम्भाद् व्युत्थानमपि समाध्येकरसं कुर्वतो भवोच्छेदो भवतीत्याह || VSप्क्C_१.१०:४]
SKतमधिष्ठातृभावेन स्वभावमवलोकयन् / स्मयमान इवास्ते यस् तस्येयं कुसृतिः कुतः // VSप्क्_१.११ //
SK* [<Sपन्दकारिकानिर्णय> * उक्तोपपत्त्युपलब्ध्यनुशीलनप्रत्यभिज्ञातं तं स्पन्दतत्त्वात्मकं स्वभावम् आत्मीयम् अधिष्ठातृभावेन व्युत्थानदशायाम् अपि व्याप्नुवन्तम् अवलोकयंश् चिन्वानः / * न व्रजेन् न विशेच्छक्तिर् मरुद्रूपा विकासिते / * निर्विकल्पतया मध्ये तया भैरवरूपधृक् || VSप्क्C_१.११:१
SK* इति तथा / * सर्वाः शक्तीश् चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् / * क्षिप्त्वा मध्ये हाटकस्तम्भभूतस् तिष्ठन् विश्वाकार एको ऽवभासि || VSप्क्C_१.११:२
SK* इति श्रीविज्ञानभैरवकक्ष्यास्तोत्रनिर्दिष्टसम्प्रदाययुक्त्या निमीलनोन्मीलनसमाधिना युगपद्व्यापकमध्यभूम्यवष्टम्भाद् अध्यासितैतदुभयविसर्गारणिविगलितसकलविकल्पो ऽक्रमस्फारितकरणचक्रः || VSप्क्C_१.११:३
SK* अन्तर्लक्ष्यो बहिर् दृष्टिनिमेषोन्मेषवर्जितः / * इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता || VSप्क्C_१.११:४
SK* इत्य् आम्नातभगवद्भैरवमुद्रानुप्रविष्टो मुकुरान्तर्निमज्जदुन्मज्जन्नानाप्रतिबिम्बकदम्बकल्पमनल्पं भावराशिं चिदाकाश एवोदितम् अपि तत्रैव विलीयमानं पश्यन् जन्मसहस्रापूर्वपरमानन्दघनलोकोत्तरस्वस्वरूपप्रत्यभिज्ञानात् झटिति त्रुटितसकलवृत्तिः स्मयमानो विस्मयमुद्राप्रविष्ट इव महाविकासासादनाच् च सहसैव समुदितसमुचिततात्त्विकस्वभावो यो योगीन्द्र आस्ते तिष्ठति न त्व् अवष्टम्भाच् छिथिलीभवति तस्येयमिति सकलजगत्कम्पकारिणी कुत्सिता जननमरणादिप्रबन्धरूपा सृतिः प्रवृत्तिः कुतो निजाशुद्धिलक्षणस्य तद्धेतोर् अभावान् नैव भवतीत्यर्थः || VSप्क्C_१.११:५
SK* यथोक्तं श्रीपूर्वशास्त्रे / * तत्त्वे निश्चलचित्तस् तु भुञ्जानो विषयान् अपि / * नैव संस्पृश्यते दोषैः पद्मपत्त्रम् इवाम्भसा || VSप्क्C_१.११:६
SK* विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि / * विषं न मुह्यते तेन तद्वद्योगी महामतिः || VSप्क्C_१.११:७
SK* इति || VSप्क्C_१.११:८
SK* अथ ये श्रुत्यन्तविदक्षपादमाध्यमिकादयः क्षोभप्रलये विश्वोच्छेदरूपम् अभावात्मकमेव तत्त्वम् अवशिष्यत इत्य् उपादिक्षन् तान् प्रतिबोधयितुं तदुपगततत्त्वप्रातिपक्ष्येण लोकोत्तरतां प्रकरणशरीरस्य स्पन्दतत्त्वस्य निरूपयति || VSप्क्C_१.११:९]
SKनाभावो भाव्यतामेति न च तत्रास्त्य् अमूढता / यतो ऽभियोगसंस्पर्शात् तदासीद् इति निश्चयः // VSप्क्_१.१२ //
SKअतस् तत् कृत्रिमं ज्ञेयं सौषुप्तपदवत् सदा / न त्व् एवं स्मर्यमाणत्वं तत् तत्त्वं प्रतिपद्यते // VSप्क्_१.१३ //
SK* [<Sपन्दकारिकानिर्णय> * असद् एवेदम् अग्र आसीत् || VSप्क्C_१.१२-१३:१ * इत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतो ऽभावो भाव्यतां नैति भावनाया भाव्यवस्तुविषयत्वाद् अभावस्य न किंचित्त्वाद् भाव्यमानतायां वा किंचित्त्वे सत्यभावत्वाभावात् किंच भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं भावनीयः भावकाभ्युपगमे तु न विश्वोच्छेदो भावकस्यावशिष्यमाणत्वाद् इति न विश्वाभाव एव तत्त्वम् || VSप्क्C_१.१२-१३:२ * अथ कल्पितो ऽयं भावको विश्वोच्छेदं विकल्पकल्प्यमानं भावयन् भावनापरिनिष्पत्तौ भाव्यतादात्म्याद् अभावरूपः सम्पद्यत इति पक्षः || VSप्क्C_१.१२-१३:३ * तत्रोच्यते तत्राभावभावनायां नामूढता न च तत्रास्त्य् अमूढता अपि तु मोह एवास्ति / * यद्यद् एवातिभाव्यते / * भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् || VSप्क्C_१.१२-१३:४
SK* अथोच्यते / * सर्वालम्बनधर्मैश् च सर्वतत्त्वैर् अशेषतः / * सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः || VSप्क्C_१.१२-१३:६
SK* सावस्था काप्य् अविज्ञेया मादृशां शून्यतोच्यते / * न पुनर् लोकरूढ्येव नास्तिक्यार्थानुपातिनी || VSप्क्C_१.१२-१३:११
SK* सदुत्तरकालं स्मर्यत इति न काचिद् अनुपपत्तिर् यस्माद् एवमतस् तच् छून्यात्मकं पदं कृत्रिमम् तस्माद् भूतमभूतं वा यद् यद् एवातिभाव्यते / * इति तदुक्तयैव नीत्या अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै मूढानाम् उपेयतया तथा भासितमित्यर्थः || VSप्क्C_१.१२-१३:१८
SK* यद्वक्ष्यति / * तदा तस्मिन्महाव्योम्नि || VSप्क्C_१.१२-१३:२३
SK* इत्यारभ्य / * सौषुप्तपदवन्मूढः || VSप्क्C_१.१२-१३:२४
SK* तथा चेह हेयतयैव तन् निर्णीयापि पुनरपि निर्णेष्यते / * कार्योन्मुखः प्रयत्नो यः / * इत्यत्र || VSप्क्C_१.१२-१३:२७
SK* तथा चाहुः / * विज्ञातारम् एरे केन विजानीयात् || VSप्क्C_१.१२-१३:३१
SK* यद्वक्ष्यति / * तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः || VSप्क्C_१.१२-१३:३४
SKअवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् / कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् // VSप्क्_१.१४ //
SKकार्योन्मुखः प्रयत्नो यः केवलं सो ऽत्र लुप्यते / तस्मिंल् लुप्ते विलुप्तो ऽस्मीत्यबुधः प्रतिपद्यते // VSप्क्_१.१५ //
SKन तु यो ऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् / तस्य लोपः कदाचित्स्याद् अन्यस्यानुपलम्भनात् // VSप्क्_१.१६ //
SK* [<Sपन्दकारिकानिर्णय> * अत्र स्पन्दतत्त्वे कार्यत्वं कर्तृत्वमिति च शब्दितं शब्दव्यवहारमात्रेण भेदितमवस्थायुगलमस्ति वस्तुतो हि तदेकमेव स्वतन्त्रप्रकाशघनशंकररूपं तत्त्वं कर्तृसत्त्वाव्यतिरिक्तया प्रकाशात्मना क्रियया व्याप्तं तदभेदेन प्रकाशमानं तत्त्वभुवनशरीरतदभावादिरूपत्वं स्वीकुर्वत्कार्यम् इत्युच्यते तदन्यस्य कस्यापि कारणत्वायोगात् || VSप्क्C_१.१४-१६:१ * यथोक्तं श्रीप्रत्यभिज्ञायाम् / * जडस्य तु न सा शक्तिः सत्ता यदसतः सतः / * कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः || VSप्क्C_१.१४-१६:२
SK* अथ चान्यः कश्चित् तल्लोपं नोपलभते ऽपितु स एव प्रकाशात्मा तत्कथं तस्याभावः / * एवं चान्यस्यानुपलम्भनाद् इत्य् अत्रान्यकर्तृकस्योपलम्भस्याभावाद् इत्यर्थः || VSप्क्C_१.१४-१६:९
SKतस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी / नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु // VSप्क्_१.१७ //
SK* [<Sपन्दकारिकानिर्णय> * तस्य प्राकरणिकस्वभावस्य योपलब्धिः अनवच्छिन्नः प्रकाशः सा कथितयुक्त्यवष्टम्भात् सुष्ठु प्रबुद्धस्याप्रबुद्धतासंस्कारेणापि शून्यस्य सततं त्रिष्वपि जागरस्वप्नसौषुप्तपदेषु नित्यमिति आदौ मध्येऽन्ते चाव्यभिचारिणी अनपायिनी स्याद्भवत्येव सदासौ शंकरात्मकस्वस्वभावतया स्फुरतीत्य् अर्थः || VSप्क्C_१.१७:१ * परस्याप्रबुद्धस्य पुनस्तासां दशानां स्वोचितसंविद्रूपाणां प्रत्येकम् आदाव् उद्बुभूषायाम् अन्ते च विश्रान्त्यात्मकान्तर्मुखत्वे न तु स्वोचितार्थावभासावस्थितिरूपे मध्यपदे || VSप्क्C_१.१७:२ * यदुक्तं श्रीशिवदृष्टौ / * यावत् समग्रज्ञानाग्रज्ञातृस्पर्शदशास्व् अपि / * स्थितैव लक्ष्यते सा तु तद्विश्रान्त्याथवा फले || VSप्क्C_१.१७:३
SK* इति / * तथा स्वप्नेऽपि / * इत्यादि / * प्रबुद्धः सर्वदा तिष्ठेत् || VSप्क्C_१.१७:६
SK* तथा च शिवसूत्रम् / * जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः || VSप्क्C_१.१७:९
SK* त्रिषु चतुर्थं तैलवद् आसेच्यम् / * इति / * त्रितयभोक्ता वीरेशः / * इति || VSप्क्C_१.१७:१०
SKज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः / पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः // VSप्क्_१.१८ //
SK* [<Sपन्दकारिकानिर्णय> * सुप्रबुद्धस्य भूम्ना ज्ञानज्ञेयस्वरूपया मध्यमे पदे ज्ञानाग्रपर्यन्तयोस् तु स्वस्वरूपयैव स्पन्दतत्त्वात्मना पराशक्त्या युक्तो विभुः शंकरात्मा स्वभावो जागरास्वप्नरूपे पदद्वये भाति || VSप्क्C_१.१८:१ * तत्र हि विश्वमसौ सदाशिवेश्वरवत्स्वाङ्गवत् पश्यति तदन्यत्र तु सुषुप्ते न तु यथान्ये सुषुप्ततुर्ययोर् इति त्रिपदाव्यभिचारिणी इति प्रक्रान्ते तुर्यस्याप्रस्तुतत्वात् तदुपलब्धेर् एव च तुर्यरूपत्वात् असौ विभुश् चिन्मय एवास्य भाति अशेषवेद्योपशमाद् इत्य् एतत् सुप्रबुद्धाभिप्रायम् एव न तु वस्तुवृत्तानुसारेण तदन्यत्र तु चिन्मयः इत्य् अस्यानुपपन्नत्वापत्तेः लोके सौषुप्तस्य मोहमयत्वात् शिवापेक्षया तु जाग्रत्स्वप्नयोरपि चिन्मयत्वात् एवमपि च प्रकृतानुपयुक्तत्वात् || VSप्क्C_१.१८:२ * इतः प्रभृति प्रथमनिःष्यन्दान्तो ग्रन्थः प्रबुद्धस्य सुप्रबुद्धतायै स्थितो यथा टीकाकारैर्न चेतितस् तथा परीक्ष्यतां स्वयमेव कियत्प्रतिपदं लिखामः || VSप्क्C_१.१८:३ * यथेयं जागरादिमध्यदशापि प्रबुद्धं न प्रतिबध्नाति तथोपपादयति || VSप्क्C_१.१८:४]
SKगुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् / लब्धात्मलाभाः सततं स्युर् ज्ञस्यापरिपन्थिनः // VSप्क्_१.१९ //
SK* [<Sपन्दकारिकानिर्णय> * गुणाः सत्त्वरजस्तमांसि येषां प्रकृतितत्त्वं विभवभूते मायातत्त्वावस्थिता इहाभिप्रेताः || VSप्क्C_१.१९:१ * यथोक्तं श्रीस्वच्छन्दे मायामसूरकविन्यासे / * अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् / * मध्ये तमो विजानीयाद्गुणास् त्व् एते व्यवस्थिताः || VSप्क्C_१.१९:२
SK* तथाहि / * स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या / * मायातृतीये त एव पशोः सत्त्वं रजस्तमः || VSप्क्C_१.१९:५
SKअप्रबुद्धधियस् त्व् एते स्वस्थितिस्थगनोद्यताः / पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि // VSप्क्_१.२० //
SK* [<Sपन्दकारिकानिर्णय> * अप्रबुद्धधियः प्रायः सर्वान् अप्रत्यभिज्ञातपारमेश्वरीशक्त्यात्मकनिजस्पन्दतत्त्वान् देहात्ममानिनो लौकिकान् प्राणाद्यात्माभिमानिनश् च मितयोगिनस् त्व् एते पूर्वोक्ता गुणादिस्पन्दनिःष्यन्दाः स्वस्याः स्पन्दतत्त्वात्मनः स्थितेः स्थगनायोद्यता नित्यं तदुद्यमैकसाराः दुःखेनोत्तार्यन्ते ऽस्माद् दैशिकैर् जन्तुचक्रमिति दुरुत्तारे लङ्घयितुम् अशक्ये घोरे दुःखमये संसरणमार्गे पातयन्ति || VSप्क्C_१.२०:१ * यथोक्तं श्रीमालिनीविजये / * विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् / * रुद्राणून्याः समालिङ्घय घोरतर्यो ऽपराः स्मृताः || VSप्क्C_१.२०:२
SKअतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये / जाग्रदेव निजं भावम् अचिरेणाधिगच्छति // VSप्क्_१.२१ //
SK* [<Sपन्दकारिकानिर्णय> * उक्तवक्ष्यमाणरूपस्य स्पन्दतत्त्वस्य विविक्तये विमर्शनाय सततम् उद्युक्तः / * मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते || VSप्क्C_१.२१:१
SK* इति गीतोक्तदृशा सततम् एवान्तर्मुखस्वरूपनिभालनप्रवणो यः स जाग्रदेव जागरावस्थास्थित एव निजमात्मीयं शंकरात्मकं स्वस्वभावम् अचिरेणाधिगच्छति तथा अस्य शंकरात्मा आन्तरः स्वभावः स्वयम् एवोन्मज्जति येन प्रबुद्धो नित्योदितसमावेशासादनात् सुप्रबुद्धो जीवन्मुक्तो भवतीत्यर्थः || VSप्क्C_१.२१:२
SK* यथास्योद्युक्तस्य बलवदालम्बनवशोदितानायासतदन्यसकलवृत्तिक्षयमयीषु नियतासु यास्ववस्थासु स्पन्दनिधानम् उन्मुद्रितम् अभिमुखीभूतम् आस्ते ता एताः प्रथमम् उद्योगस्य विषया इत्युपदेष्टुम् आह || VSप्क्C_१.२१:३]
SKअतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् / धावन्वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः // VSप्क्_१.२२ //
SK* [<Sपन्दकारिकानिर्णय> * सर्वत्र तावद् उपायमार्गे समस्तेतरवृत्तिप्रशमपूर्वम् एकाग्रीभवन्ति योगिनः एतास्वतिक्रोधाद्यवस्थासु स्वरसत एव समस्तापरवृत्तिक्षयमयीषु यदि स्पन्दतत्त्वविविक्तये सततम् उद्युक्तो झटित्य् अन्तर्मुखीभवन्ति योगिनस् तत्समीहितम् अचिरेणैव लभन्ते || VSप्क्C_१.२२:१ * अयोगिनस्त्वत्र मूढा एवेति तात्पर्यम् || VSप्क्C_१.२२:२ * तथाहि समनन्तरविहितदारुणोपघातशत्रुदर्शनान् मर्मस्पर्शितत्तद्वचनाकर्णनाद् वा प्रथमम् एवोन्मिषत्संजिहीर्षादेवताबलाद् अन्तर्मुखीभवद्रश्मिचक्रो ऽतिक्रुद्धः चिरप्रार्थितप्राणेशीवदनेन्दुदर्शनाद् एव तत्क्षणम् एवोन्मज्जत्पूर्णाभिलाषदेवतावशविकासितानुधावत्समस्तकरणचक्रः प्रहृष्टो वा बलवदाततायिबलेन सर्वतो वलितत्वात् कान्दिशीकः किं करोमीति मृशन् विकल्पयन् संशयधाराधिरोहात्मनि पदे ऽनुप्रविष्टः क्षीणसकलालम्बनविकसत्संशयसंविन्निरालम्बनीकृतवृत्तिप्रसरो वा मत्तवारणाद्यनुबध्यमानो धावन् शरीरनिरपेक्षम् एव स्वात्मप्रवणीकृतेतरवृत्तिप्रसरदुद्योगदेवीप्रेरणयातित्वरितपलायनक्रियाविष्टो वा एवम् अन्यास्व् अप्य् एवम्प्रायासु सिंहाजगराद्यवलोकनजनितमहात्रासाद्यवस्थासु यद् वृत्तिक्षयात्मकं पदं गच्छेद् अधितिष्ठेत् स्पन्दतत्त्वविविक्तये सततम् उद्युक्तो यो योगिजनस् तस्य तत्र वृत्तिक्षयात्मके पदे ऽवस्थाविशेषे स्पन्दः प्रतिष्ठितः स्पन्दतत्त्वम् अभिमुखीभूतमेव तिष्ठति || VSप्क्C_१.२२:३ * तस्माद् एतद् वृत्तिक्षयपदं संचेत्य झटिति कूर्माङ्गसंकोचयुक्त्या क्रोधसंशयवृत्तीः प्रशमय्य महाविकासव्याप्तियुक्त्या वा प्रहर्षधावनवृत्तीर् विस्फार्याभिमुखीभूतनिजस्पन्दशक्तिविमर्शवता योगिना भयम् || VSप्क्C_१.२२:४ * यथोक्तं श्रीविज्ञानभैरवे / * कामक्रोधलोभमोहमदमात्सर्यगोचरे / * बुद्धिं निस्तिमितां कृत्वा तत् तत्त्वम् अवशिष्यते || VSप्क्C_१.२२:५
SK* क्षुताद्यन्ते भये शोके गह्वरे वारणद्रुते / * कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || VSप्क्C_१.२२:८
SKयामवस्थां समालम्ब्य यदयं मम वक्ष्यति / तदवश्यं करिष्ये ऽहमिति संकल्प्य तिष्ठति // VSप्क्_१.२३ //
SKतामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्याव् उभाव् अपि / सौषुम्नेऽध्वन्य् अस्तमितो हित्वा ब्रह्माण्डगोचरम् // VSप्क्_१.२४ //
SKतदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे / सौषुप्तपदवन् मूढः प्रबुद्धः स्याद् अनावृतः // VSप्क्_१.२५ //
SK* [<Sपन्दकारिकानिर्णय> * अयं शंकरात्मा स्वभावो यन् मम वक्ष्यति अभिव्यक्तं सत् यच् चिदानन्दघनम् अनुभूतपूर्वं स्वरूपं मां विमर्शयिष्यति तदवश्यमहं करिष्ये बहिर्मुखतां हित्वा तत्प्रवण एव भविष्यामि इति संकल्प्य निश्चित्य याम् अतिक्रोधाद्यवस्थास्व् अनुभूतचरीं चिदानन्दघनां स्पन्दात्मिकाम् अवस्थाम् अवलम्ब्य प्राप्यत्वेनाभिसंधाय तिष्ठति शमितविकल्पगतिम् अविकल्पाम् अवस्थाम् अविचलत्वेन भजते यो योगी तदीयां तामवस्थां समाश्रित्य चन्द्रसूर्यौ अपानः प्राणश् चोभाव् अपि हृदयभूमौ मिलित्वा युगपदेव सौषुम्नेऽध्वनि ब्रह्मनाड्याम् ऊर्ध्वमार्गेणोदानपथेनास्तमितः शाम्यतः कथं ब्रह्माण्डलक्षणं गोचरं हित्वा ब्रह्मबिलाधिष्ठातृब्रह्माधिष्ठितमण्डं मुक्त्वा ऊर्ध्वकवाटान्तां देहव्याप्तिं त्यक्त्वा तदा चोल्लङ्घितदेहव्याप्तिके ऽत एव प्रकर्षेण लीनाव् उक्तरूपौ शशिभास्करौ यत्र तस्मिन् महाव्योम्नि निःशेषवेद्योपशमरूपे परमाकाशे प्राप्ते ऽपि यः शिथिलप्रयत्नतया खेचर्याद्यात्मना गुणादिस्पन्दनिःष्यन्देन व्यामोहितत्वात् सौषुप्तपदवद् भवति सौषुप्तेन च सुप्तमप्य् उपलक्षितं तेन च स्वप्नसुषुप्तवत् यः शून्यादिभूमिम् एवाधितिष्ठति स योगी सम्यगनभिव्यक्तस्वस्वभावो मूढ इत्य् उच्यते || VSप्क्C_१.२३-३५:१ * यथोक्तं श्रीभट्टकल्लटेन / * यां स्पन्दात्मिकाम् अवस्थाम् अवलम्ब्य / * इति योगिनः || VSप्क्C_१.२३-३५:२
SK* इति च / * यस्य स्वस्वभावाभिव्यक्तिर् न सम्यक् वृत्ता स स्वप्नादिना मुह्यमानो ऽप्रबुद्धो निरुद्धः स्यात् / * इति || VSप्क्C_१.२३-३५:३
SKस्पन्दकारिका, द्वितीयो निःष्यन्दः
SKतदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः / प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् // VSप्क्_२.१ //
SKतत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः / सहाराधकचित्तेन तेनैते शिवधर्मिणः // VSप्क्_२.२ //
SK* [<Sपन्दकारिकानिर्णय> * तत् स्पन्दतत्त्वात्मकं बलं प्राणरूपं वीर्यमाक्रम्य अभेदेन आश्रयतयावष्टभ्य भगवन्तो ऽनन्तव्योमव्याप्यादयो मन्त्राः सर्वज्ञबलेन सर्वज्ञत्वादिसामर्थ्येन श्लाघमाना जृम्भमाणा अधिकाराय देहिनां प्रवर्तन्ते सृष्टिसंहारतिरोधानानुग्रहादि कुर्वन्तीत्यर्थः || VSप्क्C_२.१:१ * सर्वज्ञशब्दो भावप्रधानः सर्वकर्तृत्वाद्य् उपलक्षयति || VSप्क्C_२.१:२ * यथा देहिनां करणान्य् उपपादितदृशा तद्बलमाक्रम्य विषयप्रकाशादौ प्रवर्तन्ते इति दृष्टान्तः || VSप्क्C_२.१:३ * तथा निरञ्जनाः कृतकृत्यत्वान् निवृत्ताधिकारमलाः शान्तविशिष्टवाचकात्मस्वरूपास् तत्रैव स्पन्दात्मके बले सम्यगभेदापत्त्या प्रकर्षेणापुनरावृत्त्या लीयन्ते अधिकमलान्मुच्यन्ते आराधकचित्तेन उपासकलोकसंवेदनेन सह || VSप्क्C_२.१:४ * यथोक्तम् / * अनुगृह्याणुसंघातं याताः पदम् अनामयम् || VSप्क्C_२.१:५
SK* घटो ऽयम् इत्यध्यवसा नामरूपातिरेकिणी / * परेशशक्तिरात्मेव भासते न त्व् इदंतया || VSप्क्C_२.१:११
SK* एतच् च / * भेदे त्व् एकरसे भाते || VSप्क्C_२.१:१३
SKयस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् / तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः // VSप्क्_२.३ //
SKतस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः / भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः // VSप्क्_२.४ //
SK* [<Sपन्दकारिकानिर्णय> * यतो जीवो ग्राहकः सर्वमयः शिववद् विश्वरूपः तेन हेतुना शब्देषु वाचकेषु अर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपासु आदिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव शिवस्वरूपम् इत्यर्थः || VSप्क्C_२.३-४:१ * यतश् चैवमतो भोक्तैव चिदात्मा ग्राहको भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे सम्यगनूनाधिकतया स्थितः न तु भोग्यं नाम किंचिद्भोक्तुर् भिन्नम् अस्ति || VSप्क्C_२.३-४:२ * जीव इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न को ऽपि भेदः इति देहाद्यवस्थासु न कासुचिद् अप्यपूर्णमन्यता मन्तव्या अपि तु चिद्घनशिवस्वभावतैवेति भङ्ग्योपदिशति || VSप्क्C_२.३-४:३ * यथोक्तम् शरीरमपि ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च ते सिध्यन्ति घटादिकम् इव तथाभिनिविश्य पश्यन्ति अर्चयन्ति च ते ऽपीति नास्त्यत्र विवादः इति श्रीप्रत्यभिज्ञाटीकायाम् || VSप्क्C_२.३-४:४ * भट्टश्रीवामनेनाप्युक्तम् / * आलम्ब्य संविदं यस्मात् संवेद्यं न स्वभावतः / * तस्मात्संविदितं सर्वमिति संविन्मयो भवेत् || VSप्क्C_२.३-४:५
SK* प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात् त्वयि / * निवृत्तविवृतौ क्वचित् तद् अपयाति तेनाध्वाधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित् || VSप्क्C_२.३-४:८
SKइति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् / स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः // VSप्क्_२.५ //
SK* [<Sपन्दकारिकानिर्णय> * वाशब्दः प्रथमनिःष्यन्दोक्तनिमीलनसमाधिप्रकारं विकल्पयन् अस्याः समापत्तेर् दुर्लभतां ध्वनयति || VSप्क्C_२.५:१ * तेनायमर्थः ईदृशी तावत्संवित्तिः दुर्लभा यस्य कस्यचिद् एवापश्चिमजन्मनो भवति सो ऽखिलं जगत्क्रीडात्वेन पश्यन् निजसंविदुन्मेषनिमेषाभ्यां सृजन् संहरंश् च / * मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते || VSप्क्C_२.५:२
SKअयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि / तदात्मतासमापत्तिर् इच्छतः साधकस्य या // VSप्क्_२.६ //
SKयमेवामृतप्राप्तिर् अयम् एवात्मनो ग्रहः / इयं निर्वाणदीक्षा च शिवसद्भावदायिनी // VSप्क्_२.७ //
SK* [<Sपन्दकारिकानिर्णय> * इह शिवो भूत्वा शिवं यजेत् इति यद् उद्घोष्यते तत्र ध्यायिनश् चेतसि संवेदने तस्येति न सावस्था न या शिवः इति प्रतिपादितशिवस्वभावस्य ध्येयस्य अन्यस्य वा कस्यचित् तत्तत्सिद्धिहेतोर् मन्त्रदेवताविशेषस्य अयम् एवोदयः प्रकटीभावः या साधकस्य ध्यातुराचार्यादेः / * तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः || VSप्क्C_२.६-७:१
SK* इति प्रतिपादितरूपा तदात्मतासमापत्तिः शिवैक्यावेशो न तु पञ्चवक्त्रादेर्व्यतिरिक्तस्याकारस्य दर्शनं न तु निश्चयमात्रेण तदात्मतासमापत्तिः अपि तु इच्छतो ऽविकल्पविश्वाहंतात्मकशिवैक्यरूपेच्छापरामर्शाधिरूढस्य || VSप्क्C_२.६-७:२
SK* एतद् उक्तं भवति अहमेव तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितो विश्वशरीरश् चिदानन्दघनः शिव इति संकल्पो यस्याविकल्पशेषीभूतत्वेन फलति तस्य ध्येयमन्त्रदेवतादि किं न नाम अभिमुखीभवति सर्वस्यैतदद्वयप्रथालग्नत्वात् || VSप्क्C_२.६-७:३
SK* यथोक्तमस्मत्परमेष्ठिपादैः / * साक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे / * किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिध्यति || VSप्क्C_२.६-७:४
SK* इति || VSप्क्C_२.६-७:५
SK* इयमेव च समापत्तिः परमाद्वयरूपस्यामृतस्य प्राप्तिः अन्यस्मिंस् त्व् अमृते कतिपयकालशरीरदार्ढ्यदायिनि प्राप्तेऽपि साधकैर्मरणमवश्यमवाप्यत एवेत्य् एवकाराशयः || VSप्क्C_२.६-७:६
SK* एवं सर्वत्रानेनैवाशयेन श्रीस्वच्छन्दे स्थूलदृष्ट्यामृतप्राप्तिप्रकरणे / * नैव चामृतयोगेन कालमृत्युजयो भवेत् || VSप्क्C_२.६-७:७
SK* इत्युक्त्योपसंहृत्य तात्त्विकस् तत्प्राप्तिप्रकारः / * अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते || VSप्क्C_२.६-७:८
SK* इत्यादिना || VSप्क्C_२.६-७:९
SK* सर्वं शिवशक्तिमयं स्मरेत् || VSप्क्C_२.६-७:१०
SK* इति मध्येन / * जीवन्न् एव विमुक्तो ऽसौ यस्येयं भावना सदा / * यः शिवं भावयेन् नित्यं न कालः कलयेत्तु तम् / * योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा / * स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् / * स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत् सदा || VSप्क्C_२.६-७:११
SK* अयमेवात्मनो ग्रहो ज्ञानं यदुच्यते आत्मा ज्ञातव्य इति तत्रेदम् एव सर्वज्ञसर्वकर्तृस्वतन्त्रशिवस्वरूपतया प्रत्यभिज्ञानम् आत्मनो ज्ञानं न तु / * पुरुष एवेदं सर्वम् || VSप्क्C_२.६-७:१३
SK* इति श्रुत्यन्तविदुक्तम् / * त आत्मोपासकाः सर्वे न गच्छन्ति परं पदम् || VSप्क्C_२.६-७:१४
SK* यथोक्तम् / * एवं यो वेद तत्त्वेन तस्य निर्वाणदायिनी / * दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता || VSप्क्C_२.६-७:१८
SKस्पन्दकारिका, तृतीयो निःष्यन्दः यथेच्छाभ्यर्थितो धाता जाग्रतो ऽर्थान् हृदि स्थितान् / सोमसूर्योदयं कृत्वा सम्पादयति देहिनः // VSप्क्_३.१ //
SKतथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् / नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् // VSप्क्_३.२ //
SK* [<Sपन्दकारिकानिर्णय> * धत्ते सर्वमात्मनीति धाता शंकरात्मा स्वभावः स यथा जाग्रतः जागरायामभिव्यक्तस्वस्वातन्त्र्यस्य देहिनो देहभूमिकामेव प्रकटीभूतपिण्डस्थज्ञानस्य योगिनः सम्बन्धिन्येच्छयाभ्यर्थितो ऽन्तर्मुखस्वरूपविमर्शबलेन प्रसादितो हृदि चेतसि स्थितानर्थानिति बिन्दुनादादिज्ञानपुरः क्षोभप्रतिभाचालनबोधस्तोभज्ञानसंचारादिप्रयोजनानि सम्पादयति || VSप्क्C_३.१-२:१ * कथं सोमसूर्ययोर् ज्ञानक्रियाशक्त्योर् उदयं कृत्वा ज्ञानशक्त्या भास्यमानं हि तत्तत्क्रियाशक्त्योन्मील्यते || VSप्क्C_३.१-२:२ * समावेशोन्मिषत्प्रतिभात्मकमूलावष्टम्भयुक्तिस्फारितज्ञानक्रियाव्याप्तिसारसव्येतरमरीचिविस्फारणक्रमेण तत्तद्वेधसंक्रमणादि सम्पादयति योगिशरीरानुप्रविष्टः परमेश्वरः || VSप्क्C_३.१-२:३ * यथा चैवं तथा / * अनागतायां निद्रायां विनष्टे बाह्यगोचरे / * सावस्था मनसा गम्या परा देवी प्रकाशते || VSप्क्C_३.१-२:४
SK* पीनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे / * प्रविश्य हृदये ध्यायन् स्वप्नस्वातन्त्र्यम् आप्नुयात् || VSप्क्C_३.१-२:६
SKअन्यथा तु स्वतन्त्रा स्यात् सृष्टिस् तद्धर्मकत्वतः / सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये // VSप्क्_३.३ //
SK* [<Sपन्दकारिकानिर्णय> * यद्युक्तयुक्त्या नित्यं नाराध्यते धाता तदा स्वस्वरूपस्थित्यभावे सततं प्रत्यहं लौकिकस्येव चास्य योगिनो ऽपि जागरायां स्वप्ने च साधारणासाधारणार्थप्रकाशनतन्निश्चयनादिस्वभावा पारमेश्वरी सृष्टिः स्वतन्त्रा स्याल्लौकिकवद्योगिनम् अपि संसारावट एवासौ पातयेद् इत्यर्थः || VSप्क्C_३.३:१ * यथोक्तम् / * प्रवृत्तिर् भूतानामैश्वरी / * इति || VSप्क्C_३.३:२
SKयथा ह्य् अर्थो ऽस्फुटो दृष्टः सावधानेऽपि चेतसि / भूयः स्फुटतरो भाति स्वबलोद्योगभावितः // VSप्क्_३.४ //
SKतथा यत्परमार्थेन येन यत्र यथा स्थितम् / तत्तथा बलमाक्रम्य न चिरात् सम्प्रवर्तते // VSप्क्_३.५ //
SK* [<Sपन्दकारिकानिर्णय> * हिशब्दः किलशब्दार्थे || VSप्क्C_३.४-५:१ * सावधानेऽपि चेतसि दूरत्वादिदोषैर् यथा किलार्थो ऽस्फुटो दृष्टो भूयो ऽध्यक्षनिरीक्षणात्मना स्वबलोद्योगेन भावितो भृशम् आलोकितो न केवलं स्फुटो यावत् स्फुटतरोऽपि भाति तथा यत्स्पन्दतत्त्वात्मकं बलं येनानन्दघनतात्मना परमार्थेन यत्रेति शंकरात्मनि स्वस्वभावे यथेति अभेदव्याप्त्या स्थितं तत्कर्तृ तथेति स्वबलोद्योगेन अन्तर्मुखतदेकात्मतापरिशीलनप्रयत्नेन संभावितं शीघ्रमेव स्फुटतरत्वेन प्रवर्तते अभिव्यज्यते || VSप्क्C_३.४-५:२ * कथमाक्रम्याराधकस्य कल्पितदेहादिप्रमातृभूमिं स्वात्मन्येव निमग्नां कृत्वाथ च स्पन्दात्मकं बलमाक्रम्य स्थितस्य कल्पितदेहबुद्धिप्रमातृभूमिम् असकृद् उत्तेजयतः साधकस्य योगिनो यज्जिज्ञासितं निधानादि यत्र देशादौ येन हेमादिना परमार्थेन यथा संनिवेशेन स्थितं तथा तदचिराद् एव प्रकाशते || VSप्क्C_३.४-५:३ * कर्तृशक्त्यादिर् अप्यमुत एव बलात् प्रादुर्भवतीत्याह || VSप्क्C_३.४-५:४]
SKदुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते / आच्छादयेद्बुभुक्षां च तथा यो ऽतिबुभुक्षितः // VSप्क्_३.६ //
SK* [<Sपन्दकारिकानिर्णय> * यथा क्षीणधातुर् ऋषिप्रायः सो ऽपि स्पन्दात्मकं बलम् आक्रम्य स्पन्दसमावेशबलेन प्राणप्रमातृभूमिम् असकृद् उत्तेज्य कार्ये ऽवश्यकर्तव्ये कर्मणि प्रवर्तते अशक्यम् अपि वस्तु तद्बलाक्रमणेनैव करोतीत्यर्थः || VSप्क्C_३.६:१ * तथा यो ऽप्यतिबुभुक्षितः सो ऽपि तद्बलाक्रान्त्या क्षुत्पिपासादि शमयति || VSप्क्C_३.६:२ * न हि चिद्घनां भूमिम् अनुप्रविष्टस्य द्वंद्वाभिभवः कश्चित् प्राणादिभुव एव तदाश्रयत्वात्तस्याश् चेह चिद्भूमौ निमग्नत्वात् || VSप्क्C_३.६:३ * यत एवम् उक्तसूत्रोपपत्तिक्रमानुसारेणेदृक् सिद्धिसमुदायो ऽस्माद् भवतीत्यतः || VSप्क्C_३.६:४]
SKअनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः / तथा स्वात्मन्यधिष्ठानात् सर्वत्रैवं भविष्यति // VSप्क्_३.७ //
SK* [<Sपन्दकारिकानिर्णय> * अनेन स्वस्वभावात्मना स्पन्दतत्त्वेनाधिष्ठिते व्याप्ते देहे सति यथा तदवस्थोचितार्थानुभवकरणादिरूपाः सर्वज्ञतासर्वकर्तृतादयो धर्मा आविर्भवन्ति देहिनः तथा यद्ययं कूर्माङ्गसंकोचवत् सर्वोपसंहारेण महाविकासयुक्त्या वा स्वस्मिन्ननपायिन्यात्मनि चिद्रूपे अधिष्ठानं करोति उक्ताभिज्ञानप्रत्यभिज्ञाते तत्रैव समावेशस्थितिं बध्नाति तदा सर्वत्रेति शिवादौ क्षित्यन्ते एवम् इति शंकरतदुचितसर्वज्ञतासर्वकर्तृतादिरूपो भविष्यति || VSप्क्C_३.७:१ * इदम् अप्येतत्प्रसादेनेत्याह || VSप्क्C_३.७:२]
SKग्लानिर् विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः / तदुन्मेषविलुप्तं चेत् कुतः सा स्यादहेतुका // VSप्क्_३.८ //
SK* [<Sपन्दकारिकानिर्णय> * म्ना सर्वकेशानामास्पदं ततश्च देहे या ग्लानिः अर्थाद्देहाभिमानिनः पुंसो यो हर्षक्षयोऽसौ विलुण्ठिका परसंविद्द्रविणापहारेण पारिमित्यदौर्गत्यप्रदा तस्याश्च ग्लानेर् अज्ञानतश् चिदानन्दघनस्वस्वरूपाप्रत्यभिज्ञानात् सृतिर् उद्भवो ऽवस्थितिश्च || VSप्क्C_३.८:१ * तदज्ञानं प्रदर्शयिष्यमाणस्वरूपेणोन्मेषरूपेण चेद्विलुप्तं निकृत्तं तदासौ ग्लानिरज्ञानात्मनो हेतोरभावात् कुतः स्यान्न भवेद् इत्यर्थः || VSप्क्C_३.८:२ * ग्लान्यभावे च देहे ऽवश्यम्भाविन्यो व्याध्यादिसंतापावस्था अपि यथा यथा योगिनो ऽपकृष्यन्ते तथा तथा हेम्न इवातिताप्यमानस्य कालिकापगमे स्वस्वरूपं देदीप्यत एव || VSप्क्C_३.८:३ * एवं च देहावस्थितस्यापि सर्वदा ग्लान्यभाव एव परयोगिनो विभूतिः || VSप्क्C_३.८:४ * यथोक्तं परमयोगिन्या मदालसया बालदारकान् प्रयोगीकुर्वत्या / * त्वं कञ्चुके शीर्यमाणे निजेऽस्मिन् देहे हेये मूढतां मा व्रजेथाः / * शुभाशुभैः कर्मभिर् देहमेतन्मदादिभिः कञ्चुकस्ते निबद्धः || VSप्क्C_३.८:५
SKएकचिन्ताप्रसक्तस्य यतः स्याद् अपरोदयः / उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् // VSप्क्_३.९ //
SK* [<Sपन्दकारिकानिर्णय> * भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् / * तदा तन्मध्यभावेन विकसत्यतिभावना || VSप्क्C_३.९:१
SK* इति नीत्या एकस्यां कस्यांचिद् आलम्बनविशेषनिभृतविकारात्मिकायां चिन्तायां प्रसक्तस्य एकाग्रीभूतस्य योगिनो यत इति तदेकाग्रताप्रकर्षोल्लसत्संवित्स्फारतस् तदालम्बननिमीलनाज्झटिति ग्रस्तसमस्तचिन्तासंततेर् अग्नीषोमाविभेदात्मनः स्पन्दतत्त्वादपर एवोदयश्चिच्चमत्कारात्मान्य एव लोकोत्तर उल्लासः स्यात् स तच्चमत्कारोन्मेषकत्वाद् एवोन्मेषो विज्ञातव्यो ऽन्वेषणीयः इत्थम् एव योगिना ज्ञातुं शक्यः ततश्च स्वयमिति इदंताविषयत्वाभावाद् अकृतकप्रयत्नात्मनावधानेनाहंतयैवोपेत्यात्मनि लक्षयेत् असाधारणेन चमत्कारात्मना प्रत्यभिजानीयात् || VSप्क्C_३.९:२
SK* यत एकस्यां विषयविचारादिचिन्तायां प्रसक्तस्य अपरस्याश् चिन्ताया झटित्युदयः स्यात् स चिन्ताद्वयव्यापक उन्मेषः इत्यन्ये || VSप्क्C_३.९:३
SK* इदानीं मितयोगिजनप्रयत्नसाध्यास्वपि तासु तासु सिद्धिषून्मेषणपरिशीलनमात्रोदितासु परयोगिनो हेयत्वम् एव मन्तव्यम् इत्यादिशति || VSप्क्C_३.९:४]
SKअतो बिन्दुर् अतो नादो रूपम् अस्माद् अतो रसः / प्रवर्तन्ते ऽचिरेणैव क्षोभकत्वेन देहिनः // VSप्क्_३.१० //
SK* [<Sपन्दकारिकानिर्णय> * अत उन्मेषाद् उपलक्ष्यमाणाद् अप्रलीयमानस्थूलसूक्ष्मादिदेहाहम्भावस्य योगिनो ऽचिरेणैव भ्रूमध्यादौ तारकाप्रकाशरूपो बिन्दुर् अशेषवेद्यसामान्यप्रकाशात्मा नादः सकलवाचकाविभेदिशब्दनरूपो ऽनाहतध्वनिरूपो रूपमन्धकारे ऽपि प्रकाशनं तेजः रसश्च रसनाग्रे लोकोत्तर आस्वादः क्षोभकत्वेन स्पन्दतत्त्वसमासादनविघ्नभूततावत्संतोषप्रदत्वेन वर्तन्ते || VSप्क्C_३.१०:१ * यदाहुः / * ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः / * इति || VSप्क्C_३.१०:२
SKदिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते / तदा किं बहुनोक्तेन स्वयम् एवावभोत्स्यते // VSप्क्_३.११ //
SK* [<Sपन्दकारिकानिर्णय> * यथा पश्यन्तीरूपाविकल्पकदिदृक्षावसरे दिदृक्षितो ऽर्थो ऽन्तरभेदेन स्फुरति तथैव स्वच्छन्दाद्यध्वप्रक्रियोक्तान् धरादिशिवान्तान्तर्भाविनो ऽशेषानर्थान् व्याप्येति सर्वम् अहम् इति सदाशिववत् स्वविकल्पानुसंधानपूर्वकम् अविकल्पान्तम् अभेदविमर्शान्तःक्रोडीकारेणाच्छाद्य यदावतिष्ठते अस्याः समापत्तेर्न विचलति तावद् अशेषवेद्यैकीकारेणोन्मिषत्तावद्वेद्यग्रासीकारिमहाप्रमातृतासमावेशचमत्काररूपं यत् फलं तत् स्वयम् एवावभोत्स्यते स्वसंविदेवानुभविष्यति किम् अत्र बहुना प्रतिपादितेन || VSप्क्C_३.११:१ * तस्योपलब्धिः सततम् इति प्रतिज्ञाय तदनन्तरम् उपपादितम् उपायजातं परिशीलयतः सततं स्पन्दतत्त्वसमाविष्टत्वं सुप्रबुद्धस्य भवतीति तदनन्तप्रमेयसंभिन्नत्वाद् उपदेश्यहृदये स्मारयन्न् अनुप्रवेशयुक्त्युपसंहारभङ्ग्याह || VSप्क्C_३.११:२]
SKप्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम् / एकत्रारोपयेत्सर्वं ततो ऽन्येन न पीड्यते // VSप्क्_३.१२ //
SK* [<Sपन्दकारिकानिर्णय> * सर्वदा जागरास्वप्नसुषुप्तसंविदादिमध्यान्तपदेषु प्रबुद्धस् तिष्ठेत् उन्मीलितस्पन्दतत्त्वावष्टम्भदिव्यदृष्टिः सुप्रबुद्धताम् एव भजेत || VSप्क्C_३.१२:१ * कथं ज्ञानेन बहिर्मुखेनावभासेन सर्वं गोचरं नीलसुखादिरूपं विषयम् आलोक्य / * तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः / * इत्युपपादितदृशा विमृश्य एकत्र स्रष्टरि शंकरात्मनि स्वभावे सर्वम् आरोपयेत् निमीलनोन्मीलनदशयोस् तदभेदेन जानीयात् पूर्वापरकोट्यवष्टम्भदार्ढ्यान् मध्यभूमिम् अपि चिद्रसाश्यानतारूपतयैव पश्येद् इत्यर्थः || VSप्क्C_३.१२:२
SK* यथोक्तं श्रीप्रत्यभिज्ञाकारेण / * यो ऽविकल्पम् इदम् अर्थम् अण्डजं पश्यतीश निखिलं भवद्वपुः / * स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् / * इति || VSप्क्C_३.१२:४
SKशब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् / कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः // VSप्क्_३.१३ //
SK* [<Sपन्दकारिकानिर्णय> * इह यो ऽयं प्रकाशात्मा स्वस्वभावः शांकर उक्तः असौ / * व्यवस्थितः करोत्येष विश्वकारणम् ईश्वरः / * सृष्टिं स्थितिं च संहारं तिरोधानमनुग्रहम् || VSप्क्C_३.१३:१
SK* इति श्रीस्वच्छन्दशास्त्रदृष्ट्या निजशक्त्याश्लिष्टः सदा पञ्चविधकृत्यकारी स्वतन्त्रः स्पन्दललितेश्वरादिशब्दैर् आगमेषूद्घोष्यते || VSप्क्C_३.१३:२
SK* स्वातन्त्र्यशक्तिर् एवास्य सनातनी पूर्णाहंतारूपा परा मत्स्योदरी महासत्ता स्फुरत्तोर्मिः सारं हृदयं भैरवी देवी शिखा इत्यादिभिर् असंख्यैः प्रकारैस् तत्र तत्र निरुच्यते || VSप्क्C_३.१३:३
SK* पूर्णाहंतैव चास्यानुत्तरानाहतशक्तिसंपुटीकारस्वीकृतादिक्षान्तवर्णभट्टारिका तत एव स्वीकृतानन्तवाच्यवाकरूपषडध्वस्फारमयाशेषशक्तिचक्रक्रोडीकारान्तः कृतनिःशेषसर्गप्रलयादिपरम्पराप्यक्रमविमर्शरूपैव नित्योदितानुच्चार्यमहामन्त्रमयी सर्वजीवितभूता परा वाक् || VSप्क्C_३.१३:४
SK* एषैव भगवत इयद्विश्ववैचित्र्यचलत्ताम् इव स्वात्मनि प्रथयन्ती स्पन्दते इत्यर्थानुगमात् स्पन्द इति इहोच्यते || VSप्क्C_३.१३:५
SK* एवं चेयद् विश्वशक्तिखचितपराशक्तिसुन्दरस्य स्वात्मनः स्वरूपगोपनक्रीडया स्वात्मभित्ताव् एवांशांशिकया निर्भासनं भगवान् यावच्चिकीर्षति तावदेकैवाभिन्नाप्यसौ तदीया विमर्शशक्तिरिच्छात्वं प्रतिपद्य ज्ञानक्रियारूपतया स्थित्वा शिवशक्तिपरामर्शात्मकबीजयोनिभेदेन द्विधा भूत्वा वर्गभेदेन तत्कलाभेदेन च नवधा पञ्चाशद्धा च स्फुरन्ती तद्विमर्शसारैर् अघोरघोरघोरतरैः संवित्तिदेवतात्मभिः रूपैः प्रथमाना भगवतः पञ्चविधकृत्यकारितां निर्वहति || VSप्क्C_३.१३:६
SK* यथोक्तं श्रीमालिनीविजयोत्तरे / * या सा शक्तिर्जगद्धातुः कथिता समवायिनी / * इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते || VSप्क्C_३.१३:७
SK* सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु / * एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || VSप्क्C_३.१३:८
SK* ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते / * एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || VSप्क्C_३.१३:९
SK* जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते / * एवमेषा द्विरूपापि पुनर्भेदैरनन्तताम् || VSप्क्C_३.१३:१०
SK* अर्थोपाधिवशाद् याति चिन्तामणिरिवेश्वरी / * तत्र तावत्समापन्ना मातृभावं विभिद्यते || VSप्क्C_३.१३:११
SK* द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी / * बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः || VSप्क्C_३.१३:१२
SK* कादयश्च स्मृता योनिर्नवधा वर्गभेदतः / * पृथग्वर्णविभेदेन शतार्धकिरणोज्ज्वला || VSप्क्C_३.१३:१३
SK* बीजमत्र शिवः शक्तिर् योनिर् इत्यभिधीयते / * वर्गाष्टकमिति ज्ञेयमघोराद्यमनुक्रमात् || VSप्क्C_३.१३:१४
SK* तदेव शक्तिभेदेन माहेश्वर्यादि चाष्टकम् / * शतार्धभेदभिन्ना च तत्संख्यानां वरानने || VSप्क्C_३.१३:१५
SK* रुद्राणां वाचकत्वेन कल्पिता परमेष्ठिना / * तद्वदेव च शक्तीनां तत्संख्यानामनुक्रमात् || VSप्क्C_३.१३:१६
SK* इत्यादि || VSप्क्C_३.१३:१७
SK* तथा / * विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् / * रुद्राणून्याः समालिङ्ग्य घोरतर्यो ऽपरास्तु ताः || VSप्क्C_३.१३:१८
SK* मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः || VSप्क्C_३.१३:१९
SK* मुक्तिमार्गनिरोधिन्यस्ताः स्युर् घोराः परापराः || VSप्क्C_३.१३:२०
SK* पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः / * पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः || VSप्क्C_३.१३:२१
SK* इति || VSप्क्C_३.१३:२२
SK* एवं शब्दराशेः समुत्थितो वर्गनवकरूपो यो ब्राह्म्यादिदेवतावर्गः शिवसहितस्तस्य भोग्यतां पाश्यतां गतः सन्स एव शंकरात्मा स्वभावः पशुः स्मृतः आगमेषु तथोक्तः || VSप्क्C_३.१३:२३
SK* ननु कथं भोक्ता महेश्वर इमामवस्थां प्राप्तः इत्याशङ्काशान्त्यै विशेषणद्वारेण हेतुमाह कलाविलुप्तविभव इति || VSप्क्C_३.१३:२४
SK* कलयति बहिः क्षिपति पारिमित्येन परिच्छिनत्तीति कला मायाशक्तिः तया विलुप्तविभवः स्वमायया गूहितैश्वर्यः स्थित इत्यर्थः || VSप्क्C_३.१३:२५
SK* अथ च कलया किंचित्कर्तृत्वोपोद्बलनात्मना शक्त्या तदुपलक्षितेन कलाविद्याकालनियतिरागात्मना कञ्चुकेन विलुप्तविभवः स्थगितपूर्णत्वकर्तृत्वादिधर्मः || VSप्क्C_३.१३:२६
SK* भवत्वेवं भोग्यतां तु कथमसौ शक्तिवर्गस्य गतः इत्यत्रैतद् एवोत्तरम् || VSप्क्C_३.१३:२७
SK* कलाभिर् अकारादिवर्गाधिष्ठायिकाभिर् ब्राह्म्यादिभिस् तद्वर्णभट्टारकाधिष्ठातृभूताभिश् च श्रीमालिनीविजयोक्तदेवतारूपाभिः कलाभिर् अकारादिवर्णैर् विलुप्तविभवः संकुचितोऽस्मि अपूर्णो ऽस्मि करवाणि किंचिदिदम् उपाददे इदं जहामि इत्यादिविचित्रविकल्पकाविकल्पकप्रतिपत्तिकदम्बकान्तरनुप्रविष्टस्थूलसूक्ष्मशब्दानुवेधकदर्थितो हर्षशोकादिरूपतां नेनीयमान इव क्षणम् अपि स्वरूपस्थितिं न लभते यतः अतोऽसाव् उक्तरूपः शक्तिवर्गेण भुज्यमानः पशुर् उक्तः || VSप्क्C_३.१३:२८
SK* कलया अख्यात्यात्मनांशेन विलुप्तविभवः संकुचित इव न तु तत्त्वतः शिवात्मा स्वभावो ऽस्य क्वापि गतः तदभावे हि स एव न स्फुरेत् || VSप्क्C_३.१३:२९
SK* तथावभासमानैरेव कलाभिः संकुचितैः शब्दैर् ज्ञानैश् च विलुप्तविभवस् तथारूपम् आत्मानं न विम्रष्टुं क्षम इत्यर्थः || VSप्क्C_३.१३:३०
SK* अधुना पशुः संकुचितदृक्शक्तिबाध्यः पाश्यश् चेत्येतद् विभजति || VSप्क्C_३.१३:३१]
SKपरामृतरसापायस् तस्य यः प्रत्ययोद्भवः / तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः // VSप्क्_३.१४ //
SK* [<Sपन्दकारिकानिर्णय> * तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां भिन्नार्थज्ञानानां विकल्पानाम् अप्युद्भवः विनाशाघ्रात उत्पादः स परस्यामृतरसस्य चिद्घनस्यानन्दप्रसरस्यापायो निमज्जनम् || VSप्क्C_३.१४:१ * उदितेषु भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्य् अपरामृश्यमानत्वाद् अस्थितेव लक्ष्यते तत एवम् उक्तम् || VSप्क्C_३.१४:२ * तेन च प्रत्ययोद्भवेनायम् अस्वतन्त्रताम् एति तद्वशः सम्पद्यते || VSप्क्C_३.१४:३ * यदुक्तं श्रीशिवसूत्रेषु ज्ञानं बन्धः इति || VSप्क्C_३.१४:४ * श्रीमद्व्यासमुनिनापि मातापितृमयो बाल्ये इति || VSप्क्C_३.१४:५ * श्रीमदालसयापि || VSप्क्C_३.१४:६ * तातेति किंचित्तनयेति किंचित् अम्बेति किंचिद्दयितेति किंचित् / * ममेति किंचिन् न ममेति किंचित् भौतं संघं बहुधा मा लपेथाः || VSप्क्C_३.१४:७
SKस्वरूपावरणे चास्य शक्तयः सततोत्थिताः / यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः // VSप्क्_३.१५ //
SK* [<Sपन्दकारिकानिर्णय> * चः शङ्कां द्योतयन् तत्परिहाररूपं प्रमेयान्तरं समुच्चिनोति || VSप्क्C_३.१५:१ * अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततम् उत्थिताः यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानम् अस्य न वृत्तं तावद् एताः स्वस्वरूपावरणायोद्यच्छन्त्येव || VSप्क्C_३.१५:२ * यतोऽस्य यः प्रत्ययोद्भवो विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामि इत्यादिना सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति इति तिरश्चाम् अप्यसांकेतिकः निर्देशप्रख्यः स्वात्मनि च शिरोनिर्देशप्रख्यो ऽन्तरभ्युपगमरूपः शब्दनविमर्शो ऽस्त्येव अन्यथा बालस्य प्रथमसंकेतग्रहणं न घटेत अन्तरूहापोहात्मकविमर्शशून्यत्वात् / * स्थूलशब्दानुवेधमयस् तु विकल्पः सर्वस्य स्वानुभवसिद्धः || VSप्क्C_३.१५:३
SKसेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी / बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका // VSप्क्_३.१६ //
SK* [<Sपन्दकारिकानिर्णय> * सेति श्लोकत्रयनिर्णीतत्वात् इयमिति प्रमेयपर्यन्तेन रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात् क्रियाशक्तिः प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना प्राणपुर्यष्टकरूपम् अमुं कर्तृतात्मनाहंताविप्रुषा प्रोक्षितं कुर्वाणा तथारूपेणाप्रत्यभिज्ञाय स्वरूपावारकत्वाद् धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति || VSप्क्C_३.१६:१ * यदा तु स्वस्य शिवात्मनो रूपस्य यो मार्गः / * शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना / * तदासौ शिवरूपी स्याच्छैवी मुखम् इहोच्यते || VSप्क्C_३.१६:२
SKतन्मात्रोदयरूपेण मनोऽहम्बुद्धिवर्तिना / पुर्यष्टकेन संरुद्धस् तदुत्थं प्रत्ययोद्भवम् // VSप्क्_३.१७ //
SKभुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः / संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे // VSप्क्_३.१८ //
SK* [<Sपन्दकारिकानिर्णय> * पुर्यष्टकोत्थितं भोगं भुङ्क्ते || VSप्क्C_३.१७-१८:१ * यत एव प्रत्ययेषु सुखादिप्रत्ययोद्भवः अत एवासौ प्रत्ययोद्भवात् पशुः परवशः शब्दानुवेधक्रमेण पदे पदे ब्राह्म्यादिदेवीभिर् आक्षिप्यमाणः न तु सुप्रबुद्धवत् स्वतन्त्रः तस्य पुर्यष्टकस्य भावादेव पुनःपुनरुद्बोधितविचित्रवासनः संसरेत् तत्तद्भोगोचितभोगायतनानि शरीराण्यर्जयित्वा गृह्णाति चोत्सृजति च || VSप्क्C_३.१७-१८:२ * यतश् चैवम् अतो ऽस्य पुर्यष्टकसंरुद्धस्य या संसृतिस् तस्या यः प्रकृष्टो लयः पुर्यष्टकात्मकमलोच्छेदेन विनाशः तस्य कारणं सम्यक् सुखोपायं प्रचक्ष्महे समनन्तरम् एव ब्रूमः तथा सम्प्रचक्ष्महे प्रकरणे ऽस्मिन् स्वयं प्रतिपादितवन्तः || VSप्क्C_३.१७-१८:३ * वर्तमानसामीप्ये वर्तमानवद् वा || VSप्क्C_३.१७-१८:४ * इति वर्तमानप्रयोगः || VSप्क्C_३.१७-१८:५ * एतत् प्रतिपादयन् आद्यसूत्रोक्तमर्थं निगमयति || VSप्क्C_३.१७-१८:६]
SKयदा त्व् एकत्र संरूढस् तदा तस्य लयोदयौ / नियच्छन् भोक्तृताम् एति ततश् चक्रेश्वरो भवेत् // VSप्क्_३.१९ //
SK* [<Sपन्दकारिकानिर्णय> * यदा पुनरयमुक्ताः परतत्त्वसमावेशोपदेशयुक्तीः परिशीलयन् एकत्र पूर्णाहंतात्मनि स्पन्दतत्त्वे सम्यगविचलत्वेन रूढः समाविष्टस् तन्मयो भवति तदा तस्येति पूर्वसूत्रनिर्दिष्टस्य पुर्यष्टकस्य तद्द्वारेणैव विश्वस्य निमीलनोन्मीलनसमावेशाभ्यां लयोदयौ नियच्छन् प्रथमसूत्रनिर्णीतदृशा एकस्माद् एव शंकरात्मनः स्वभावात् संहारं सर्गं च कुर्वन् भोक्तृताम् एति धरादिशिवान्तसमग्रभोग्यकवलनेन परमप्रमातृतां सतीम् एव प्रत्यभिज्ञानक्रमेणावलम्बेत || VSप्क्C_३.१९:१ * ततश् च प्रथमसूत्रनिर्णीतस्य शक्तिचक्रस्य स्वमरीचिनिचयस्येश्वरो ऽधिपतिर् भवेत् || VSप्क्C_३.१९:२ * अनेनैव च देहेन महेश्वरत्वम् अवाप्नोत्येवेति यावत् || VSप्क्C_३.१९:३ * एवं चोपक्रमोपसंहारयोर् महार्थसंपुटीकारं दर्शयन् तत्सारतया समस्तशांकरोपनिषन्मूर्धन्यताम् अस्याविष्करोति शास्त्रस्य श्रीमान् वसुगुप्ताचार्यः इति शिवम् || VSप्क्C_३.१९:४]
SKस्पन्दकारिका, चतुर्थो निःष्यन्दः
SKअगाधसंशयाम्भोधिसमुत्तरणतारिणीम् / वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् // VSप्क्_४.१ //
SK* [<Sपन्दकारिकानिर्णय> * तामसामान्यां भगवतीं गुरुं शैवी मुखम् इहोच्यते इति स्थित्या शिवधामप्राप्तिहेतुत्वाद् आचार्यरूपाम् || VSप्क्C_४.१:१ * अथ च गुरुं पश्यन्त्यादिक्रोडीकारात् महतीं भारतीं परां वाचम् तथा गुरोर् आचार्यस्य सम्बन्धिनीम् उपदेष्ट्रीं गिरं चित्रां लोकोत्तरचमत्काररूपां वन्दे सर्वोत्कृष्टत्वेन समाविशामि || VSप्क्C_४.१:२ * अथ च सर्वावस्थासु स्फुरद्रूपत्वाद् अभिवदन्तीम् उद्यन्तृताप्रयत्नेनाभिवादये स्वरूपविमर्शनिष्ठां तां समावेष्टुं संमुखीकरोमि || VSप्क्C_४.१:३ * कीदृशीम् अगाधो दुरुत्तरो यः संशयः पूर्णाहंतानिश्चयाभावात्मा विचित्रः शङ्काकलङ्कः स एव विततत्वेनाम्भोधिस् तस्य सम्यगुत्तरणे या तारिणी नौर् इव ताम् इत्युभयत्रापि योज्यम् / * तथा विचित्रार्थानि नानाचमत्कारप्रयोजनानि पदानि विश्रान्तयो यस्यां परस्यां वाचि तां विचित्राणि रम्यरचनानुप्रविष्टानि अर्थपदानि वाच्यवाचकानि यस्यां गुरुवाचि ताम् || VSप्क्C_४.१:४
SKलब्ध्वाप्यलभ्यम् एतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः / वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य // VSप्क्_४.२ //
SK* [<Sपन्दकारिकानिर्णय> * एतच्छास्त्रोक्तम् एतज्ज्ञानम् एव पुरुषार्थप्राप्तिहेतुत्वाद् धनम् अलभ्यम् अपि दुष्प्रापम् अपि लब्ध्वा शंकरस्वप्नोपदेशसारं शिलातलाद् अवाप्य प्रकाशविमर्शात्मकं हृदयम् एव विश्वान्तःप्रवेशावकाशप्रदत्वाद् गुहा तस्याम् अन्तेन निश्चयेन कृता निहितिः स्थापना येन अर्थात्तस्यैव ज्ञानधनस्य तस्य स्वामिनः श्रीवसुगुप्ताभिधानस्य गुरोर्यथैव तच्छिवाय जातं तद्वदधिकारिनियमसंकोचाभावात् सर्वलोकस्यापि हृद्गुहान्तकृतनिहितेर् यत्नाद् असामयिकात् गोपयतः दृढप्रतिपत्त्या च स्वात्मीकुर्वतः सदा शिवाय भवति नित्यशंकरात्मकस्वस्वभावसमावेशलाभाय सम्पद्यत इति शिवम् || VSप्क्C_४.२:१ * यद्यप्यस्मिन् विवृतिगणना विद्यते नैव शास्त्रे लोकश्चायं यदपि मतिमान् भूयसोत्तानवृत्तिः / * जानन्त्येते तदपि कुशलास्ते ऽस्मदुक्तेर् विशेषं केचित् सारग्रहणनिपुणाश् चेतनाराजहंसाः || VSप्क्C_४.२:२
SK* अनन्तापरटीकाकृन्मध्ये स्थितिम् अमृष्यता / * विवृतं स्पन्दशास्त्रं नो गुरुणा नो मयास्य तु || VSप्क्C_४.२:३
SK* विशेषलेशः संदोहे दर्शितः पूर्वमद्य तु / * रुद्रशक्तिसमावेशशालिनः शिवरूपिणः || VSप्क्C_४.२:४
SK* शूरनाम्नः स्वशिष्यस्य प्रार्थनातिरसेन तत् / * निर्णीतं क्षेमराजेन स्फारान्निजगुरोर् गुरोः || VSप्क्C_४.२:५
SK* येषां नो धिषणोपदेशविशदा सद्दैशिकैर्दर्शिता श्रीमच्छाम्भवशासनोपनिषदा येषां न भग्नो भ्रमः / * ये नास्वादितपूर्विणो मृदुधियः श्रीप्रत्यभिज्ञामृतं तेनात्राधिकृताः परैः पुनर् इदं पूर्णाशयैश् चर्व्यताम् || VSप्क्C_४.२:६
SK* शिवादिक्षित्यन्तो विततविततो यो ऽध्वविभवः स्फुरन्नानासर्गस्थितिलयदशाचित्रिततनुः / * इयद्विश्वं यस्य प्रसरकणिकासौ विजयते परः संवित्स्पन्दो लसदसमसौख्यायतनभूः || VSप्क्C_४.२:७]