Letter to a Friend
Suhṛllekha
Sउहृल्लेख
SKआचार्यनागार्जुनविरचितः
SKप्रकृतिसुकृतार्हगुणाढ्य सुगतवचोभ्यः समुदानीताश्च मया / शुभमालक्ष्य कृता वै काश्चिदार्यागीतयस्त्वया च श्रव्याः // Sल्_१ //
SKदारुमयी ह्यपि प्रतिमा सम्पूज्यते कापि सुगतस्य विद्वद्भिः / तथामनोज्ञं काव्यं सद्धर्माश्रयाच्च ममेदं न निन्द्यम् // Sल्_२ //
SKमहामुनेरतिमधुरं मन्ये वचनं भवतावगतमेव स्यात् / आकल्पितं तु सुधया नन्वतिधवलं न दृश्यते चन्द्रिकया? // Sल्_३ //
SKजिनैर्बुद्धधर्मसंघशीलत्यागदेवादिषडनुस्मृतयः / प्रदर्शितास्तास्तु तद्गुणसम्भारैः पृथगनुस्मरणीयाश्च // Sल्_४ //
SKदशकुशलाः कर्मपथाः कायवाक्चित्तैः सर्वदाभ्यसनीयाः / मद्यादिभिर्निवृते पुण्यमयैश्चाजीवैः सुप्रसन्नः स्याः // Sल्_५ //
SKज्ञात्वा चलामसारां सम्पत्तिं द्विजभिक्षुदीनमित्रेभ्यः / दानं देयं विधिना जन्मान्तरेषु न दानात् परं मित्रम् // Sल्_६ //
SKशीलं सेव्यममिश्रं त्वयानुपहतालंघितानुपलिप्तं च / चराचरप्रतिष्ठं तु गुणाश्रयं भूवच्च राजते शीलम् // Sल्_७ //
SKषडिमा दानं शीलं क्षान्तिवीर्यध्यानप्रज्ञाः पारमिताः / अप्रमेयाः संवर्ध्य भवेच्च भवसागरपारगो जिनेन्द्रः // Sल्_८ //
SKयत्र पूजा पितॄणां कुलं तदाचार्यब्रह्मभिः समृद्धम् / तत्पूजया च कीर्तिस्तदनन्तरं चाधिगम्यते ऽभ्युदयो ऽपि // Sल्_९ //
SKहिंसाचौर्ये मदिरा कामातिचारमृषोक्तिनृत्यगीतानि / त्याज्यान्यकालभक्तं मालागन्धादिविशेषोच्चशयनानि // Sल्_१० //
SKअनुकृत्यार्हच्छीलं कुर्यादुपोषधमष्टाभिरङ्गैश्चेत् / लभते हि पुमान् स्त्री वा सुरम्यकामावचरादिदेवकायम् // Sल्_११ //
SKमात्सर्यशाठ्यमायाभिमानासक्तिकौसीद्यरागद्वेषान् / कुलरूपयौवनश्रुतबलादिजं मदं रिपुमिव परिपश्येच्च // Sल्_१२ //
SKअप्रमादो ऽमृतपदं प्रमादो मृत्युपदमिति मुनिनादिष्टम् / कुशलधर्मस्य वृद्धये सदाप्रमादो ऽभ्यसनीयस्त्वया चैव // Sल्_१३ //
SKपूर्वप्रमत्तः को ऽपि मेघान्निर्गतेन्दुरिव ततो ऽप्रमादी / स हि नन्दाङ्गुलिमालोदयनाजातशत्रुसदृशः सुशोभेत // Sल्_१४ //
SKक्षान्तिसमं नैव तपस्ततस्त्वया न क्रोधावसरो देयः / बुद्धेनानुमतं वै पदमवैवर्तिकं क्रोधप्रहाणेन // Sल्_१५ //
SKअक्रोशीदवधीन्मामजैषीन्मामहार्षीद् वै वित्तं मे / वैरैरेभिः कलहस्त्यजति य एतद् वैरं स सुखं शेते // Sल्_१६ //
SKजले ऽवनौ पाषाणे चित्रमिव चित्तं त्रिधा खलु सत्त्वानाम् / क्लेशवतां हि प्रथमो धर्माभिलाषिणामन्तिमो ज्यायान् // Sल्_१७ //
SKवाचस्त्रिधा जनेभ्यः प्रोक्ता जिनेन मधुरसत्यमिथ्याख्या / क्रमशो मधुः पुष्पाशुचितुल्याश्चरमा च परिहर्त्तव्यैतासु // Sल्_१८ //
SKचतुर्विधा वै पुरुषाः प्रकाशात्प्रकाशे तमसस्तमसि पुनः / तमः प्रकाशाद् गच्छति तमसस्तेजसि पुद्गलो वरः प्रथमः // Sल्_१९ //
SKजनानां त्वाम्रफलमिव पक्वमपक्वे पक्वे ऽपक्वतुल्यं च / अपक्वे ऽपक्वं तथा पक्वे पक्वमिव भाति चातुर्विध्यम् // Sल्_२० //
SKपरदारान्न तु पश्येद् दृष्टे च ज्ञेया अवस्थानुरूप्येण / कन्याम्बाभगिनीवद् आसक्तावप्यशुचिमेव चिन्तयेच्च // Sल्_२१ //
SKरक्षेच्चञ्चलचित्तं श्रुतिपुत्रनिधिप्राणसदृशं च नितराम् / चित्तं परिहर्त्तव्यं शत्रुसर्पविषायुधाग्निसमात् कामात् // Sल्_२२ //
SKकामस्त्वनर्थजनकः प्रोक्तः किम्पाकफलसमो जिनेन्द्रेण / पाशैस्तस्य हि बद्धो भवचारके लोकः स प्रहातव्यः // Sल्_२३ //
SKचलाध्रुवाणि षडक्षाणि जयन्ति समरे वा शत्रूनपि चैके / तयोश्च सुधियः प्रथमं वरमिन्द्रियविजेतारं च मन्यन्ते // Sल्_२४ //
SKयुवतिशरीरं हि पूति यन्नवाशुचिद्वारमशुचिभाण्डसमम् / चर्मावृतदुष्पूरं भूषितमपि भूषणैः पृथग् द्रष्टव्यम् // Sल्_२५ //
SKकृमिपीडितो हि कुष्ठी सुखलिप्सया च यथा वह्निमाश्रयते / पीडा न याति शान्तिं तथैव हि कामासक्तिरपि बोद्धव्या // Sल्_२६ //
SKपरमार्थं प्रतिवेत्तुं सर्वभावेषु सविधि मनसि निधायैव / स च खलु भावयितव्यो न हि तत्तुल्यो ऽपरो गुणयुतो धर्मः // Sल्_२७ //
SKसुकुलीनो ऽपि न पूज्यो ज्ञानशीलविमुखो श्रुतिरूपवान् पुमान् / गुणद्वयैतद्युक्तः पूज्यते सो ऽन्यगुणैर्हीनो ऽपि सततम् // Sल्_२८ //
SKअष्टसु लोकधर्मेषु लोकवित् समतया प्रवर्तयेच्चित्तम् / हानिलाभयशो ऽयशो ऽनुशंसानिन्दासुखदुःखेष्वशोच्येषु // Sल्_२९ //
SKभवद्भिर्ब्राह्मणभिक्षुदेवातिथिमातापितृकुलमहिषीभ्यः / पापं नाचरणियं यतः कतमो ऽपि न नरकफलस्य भागी // Sल्_३० //
SKन च कृन्तति पापकर्म तत्क्षणमस्त्रपातवत् कमपि पापिनम् / मृत्योर्हि समये किन्तु तत्कर्मणः फलमभिमुखीभवत्येव // Sल्_३१ //
SKसप्तधनान्युक्तानि श्रद्धाशीलत्यागामलश्रुतधियः / अपत्रपा ह्री मुनिना मुधैवापरधनानि हि साधारणानि // Sल्_३२ //
SKद्यूतक्रीडा कौतुकदर्शनालस्यकुमित्रसङ्गमदिराश्च / निशाविहरणं षडिमे त्याज्या दुर्गतिदा यशोविनाशकाश्च // Sल्_३३ //
SKसनरामरशासकेन सन्तोषः सर्वधनप्रधानमुक्तम् / सन्तोषो ऽनुष्ठेयः धनं विनैव स धनिकः सति सन्तोषे // Sल्_३४ //
SKयथा समृद्धाः पुरुषा दुःखिनो भवन्ति नैव तथाल्पेच्छुकाः / यावत्यः सन्ति फणा आर्य, दुःखकराः, नागस्य तावत्यः // Sल्_३५ //
SKपत्नी त्याज्या त्रिविधा प्रकृत्या रिपुसम्बद्धा स्वघातिकेव / पत्युरपमानकर्त्री स्वैरा लघुवस्तुचौर्यरता स्तेयीव // Sल्_३६ //
SKभगिनीसमानुकूला मित्रवद् हृदयङ्गमा च सेवनीया / मातेवोपकारिणी पूज्या सेविकेवाज्ञाकृद् देवीव // Sल्_३७ //
SKविहाय रागद्वेषौ भोजनमौषधिवदवगत्य सेवेत / कायस्थित्यै नितरां न च सौन्दर्यगर्वमानार्थं सेव्यम् // Sल्_३८ //
SKदिनमखिलं शुभकार्ये यापयेद् रात्रेराद्यन्तौ यामौ च / धीमन्, मध्ये यामे शयीत यतो हि न भवेद् विफला निद्रा // Sल्_३९ //
SKमैत्रीकरुणोपेक्षामुदिताश्च सदा सम्यग् भावयितव्याः / अलब्धे ऽनुत्तरपदे ध्रुवमेव ब्रह्मलोके सुखावाप्तिः // Sल्_४० //
SKकामान् प्रीतिविचारौ सुखञ्च दुःखञ्च विहाय चतुर्भिरेव / ध्यानैर्ब्रह्माभास्वरशुभकृत्स्नबृहत्फलभागिनश्च भवन्ति // Sल्_४१ //
SKकुशलाकुशलं च कर्म सदाभिनिवेशाप्रतिपक्षवस्तुगुणैः / पञ्चभिश्चोत्पद्यते तस्माद् यतनीयं कुशलचर्यायाम् // Sल्_४२ //
SKयथाल्पक्षारनीरं परिवर्तयत्यल्पजलरसं न गाङ्गम् / पापं तथैव चाल्पं नाशयत्यल्पकुशलं न पूर्णकुशलम् // Sल्_४३ //
SKऔद्धत्यं कौकृत्यं व्यापादः स्त्यानमिद्धे च कामेच्छा / विचिकित्सेति पञ्चैव कुशलधनहारकाणीमानि ज्ञेयानि // Sल्_४४ //
SKउत्तमाः पञ्चधर्माः श्रद्धावीर्ये स्मृतिसमाधिप्रज्ञाश्च / बलेन्द्रियाणि चाग्र्याणि कथ्यन्ते यतनीयमेतेषु तस्माद् // Sल्_४५ //
SKव्याधिजरामरणप्रियवियोगवच्च कर्मपरायणाः सर्वे / पुनः पुनस्तु चिन्तया प्रतिपक्षेणैवं प्रहीयते मानः // Sल्_४६ //
SKस्वर्गं मोक्षं चेच्छेत् सम्यग्दृष्टिस्तावद् भावनीयैव / कृतानि मिथ्यादृष्ट्या पुरुषैः सुचरितान्यपि विषमविपाकानि // Sल्_४७ //
SKअनात्माशुचिर्दुःखी पुद्गलो ऽनित्यश्च सम्यग्विज्ञेयः / स्मृत्युपस्थानरहिता विनश्यन्ते च विपर्यासैश्चतुर्भिः // Sल्_४८ //
SKउक्तं रूपं नात्मा रूपवांश्च नात्मा रूपे नैवात्मा / न चात्मन्यस्ति रूपं शून्यमेवं स्कन्धचतुष्कमपि ज्ञेयम् // Sल्_४९ //
SKस्कन्धा न हि जायन्ते यदृच्छया न प्रकृतीश्वरकालेभ्यः / नाहेतोः स्वभावतो ज्ञेया अज्ञानेन तृष्णया जाताः // Sल्_५० //
SKकालः पचति भूतानि कालः संहरते प्रजाः / कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः //
SKआत्मनि मिथ्यादृष्टिः शीलव्रतपरामर्शो विचिकित्सा च / मुक्तिपुरद्वाराणां बाधकं संयोजनत्रयमवगच्छेत् // Sल्_५१ //
SKआत्मापेक्षो मोक्षः परस्मान्न लभ्यते किमपि साहाय्यम् / चत्वार्यार्यसत्यानि वृत्तस्थः श्रुतचिन्ताभिरभ्यस्येच्च // Sल्_५२ //
SKअधिशीलचित्तप्रज्ञास्तिस्त्रो ऽपि शिक्षाः सदैव शिक्षणीयाः / एतास्वन्तर्भूतानि शतमेकपञ्चाशच्च शिक्षापदानि // Sल्_५३ //
SKराजन्, बुद्धेनोक्तः कायगता स्मृतिश्चैकायनो मार्गः / रक्षेदिमं सयत्नं स्मृतिनाशाच्च सर्वधर्मप्रध्वंसः // Sल्_५४ //
SKबहुबाधं तु जीवनं वायूद्भूतजलबुद्बुदवदनित्यं च / आश्चर्यं जागर्तेः क्षणमिदं निःश्वासोच्छ्वासनिद्राभ्यः // Sल्_५५ //
SKविशरणगलनः पूतिः शोषासारशुचिस्वभावः कायः / रजःसधर्मी चान्ते सदा वियोगशीलो नश्वरो ज्ञेयः // Sल्_५६ //
SKपृथ्वीमेरुसमुद्राः सप्तार्कज्वालैर्नावशिष्यन्ते / धूलिमात्रं हि मूर्ताः का कथा दुर्बलवपुषां मानवानाम् // Sल्_५७ //
SKइत्थं सर्वमनित्यं ह्यनात्मकमशरणमनाथमनिकेतम् / कदलीतरुरिव राजन् चित्तमपसारयासारसंसारात् // Sल्_५८ //
SKमहार्णवयुगच्छिद्रे हि कूर्मग्रीवार्पणाच्च मानुषं जन्म / तिर्यगादिसुदुर्लभं सफलीकुरु सद्धर्माभ्यासान्नरेन्द्र // Sल्_५९ //
SKकेचिद् रत्नालङ्कृतकनकपात्रं च पूरयन्ति पुरीषेण / ततो ऽप्यसावतिमूढो यश्च नृजन्म लब्ध्वापि पापमाचरति // Sल्_६० //
SKप्रतिरूपदेशवासः सत्पुरुषसमाश्रयः शुभप्रणिधानं च / स्वकीयपूर्वकुशलं ह्येतच्चक्रचतुष्कं हि विद्यते त्वयि // Sल्_६१ //
SKकल्याणमित्रसेवा ब्रह्मचर्यपूर्तये देशिता मुनिना / सेव्यः सदा सुपुरुषः शमः प्राप्तो यतो जिनमपेक्ष्य बहुभिः // Sल्_६२ //
SKमिथ्यादृक् प्रत्यन्ते नरकप्रेततिर्यक्षूत्पद्यमानः / म्लेच्छो जडश्च सत्त्वो यो ह्युत्पन्नो बुद्धविरहिते // Sल्_६३ //
SKदीर्घायुषि देवकुले जनिलब्धश्चाष्टाक्षणा इमे दोषाः / एभी रहितो भूत्वा क्षणं लब्ध्वा जन्मनिवृत्तौ प्रयतेत // Sल्_६४ //
SKइष्टविघातव्याधिमृत्युजरादिदुःखावहः संसारः / विरज्य ततः शृणु तावद् दोषानेतस्यावगच्छन् नरदेव // Sल्_६५ //
SKमित्रत्वेन च शत्रुः पुत्रत्वेन पिताम्बा च भार्यात्वेन / परिवर्त्योत्पद्यन्ते तस्मान्न नियतं किमपीह संसारे // Sल्_६६ //
SKचतुःसमुद्रजलादपि जनैरधिकं जनन्याः स्तन्यं पीतम् / पृथग्जनाननुसृत्य हि पुनस्ततो ऽप्यधिकञ्च पास्यन्ति लोकाः // Sल्_६७ //
SKआत्मनश्चास्थिपुञ्जं मेरुसमं ततो ऽधिकमुच्चैर्जायेत / भूमिमृदा बदराणां गुलिकाभिर्न गणना सम्भवाम्बानाम् // Sल्_६८ //
SKलोकपूज्यो ऽपि शक्रः पतति च पुनः कर्मवशाद्धि संसारे / तद्वच्च चक्रवर्ती राजापि पुनर्भवति हि दासो लोके // Sल्_६९ //
SKस्वर्गे ऽप्सरसां सौख्यं कुचतटिस्पर्शजं चैव चिरमनुभूय / नरके दुःसहदुःखं पेषणछेदनभेदनयन्त्रैर्भुङ्क्ते // Sल्_७० //
SKसुखदे सुमेरुशिखरे चिरमनुभवंश्चरंश्चरणस्पर्शसुखम् / चञ्चलकुक्कुलकुणपैर्गाढं दुःखं चिन्तयेत् सदा मनसा // Sल्_७१ //
SKदेवाङ्गनासेविते नन्दने रम्ये चोपवने च विहृत्य / असिपत्रवने तेषां हस्तपादकर्णनासाश्च छिद्यन्ते // Sल्_७२ //
SKसुवदनदेवसुताभिः स्वर्णोत्पलैर्युतायां मन्दाकिन्याम् / स्नात्वा पुनश्च नरके क्षारोष्णोदकवैतरण्यां हि पतन्ति // Sल्_७३ //
SKदेवेषु कामसुखं च कामवीतरागसुखं ब्रह्मलोकेषु / प्राप्यावीचौ सततं लभ्यते ऽग्नेरिन्धनीभूय च दुःखम् // Sल्_७४ //
SKपदमवाप्य सुर्येन्द्वोः स्वकायप्रभया प्रदीप्य हि संसारम् / तमसि च घने प्रविष्टः प्रसारितमपि च स्वीयकरं न पश्यति // Sल्_७५ //
SKएवं मृत्युं ज्ञात्वा ग्राह्यस्त्रिविधपुण्यमयदीपालोकः / अन्यथा रवीन्दुभ्याममर्दनीये ऽन्धतमसि प्रवेष्टव्यम् // Sल्_७६ //
SKदुष्टाचरणे लग्नाः सत्त्वाः संजीवकालसूत्रतपनेषु / रौरवावीच्यादौ हि संघाते चापि नरके सदा दुःखम् // Sल्_७७ //
SKनिष्पीड्यन्ते तिलवत् केचनान्ये चूर्णवत् पेष्यन्ते च / छिद्यन्ते शाणेनान्ये दीर्यन्ते तथा तीक्ष्णपरशुनापि // Sल्_७८ //
SKआस्ये ऽन्येषां तद्वत् पात्यते ज्वलितं तावल्लौहद्रवम् / आरोप्यन्ते केचन सकण्टके तप्तायसे सदा शूले // Sल्_७९ //
SKश्वभिः केचन क्रूरैर्लौहदन्तैर्विदीर्यन्ते गर्जद्भिः / उत्थाय करौ विवशा लुञ्च्यन्ते तीक्ष्णनखतुण्डैश्च काकैः // Sल्_८० //
SKकेचित् कृमिसंस्पर्शाद् मांसादकृष्णमक्षिकायुतपाताच्च / वृद्धं व्रणन्त्वसह्यं भक्ष्यमाणं रुदन्ति चाकुला भूम्याम् // Sल्_८१ //
SKदह्यन्ते ऽग्निकुण्डेषु तेन तदाननानि च भवन्ति विवृतानि / पच्यन्ते च कटाहे तण्डुलवल्लौहमये ऽधःशिरसस्ते // Sल्_८२ //
SKश्वासावरोधसमये पापः कालंकृते च नरकं प्रयाति / श्रुत्वापि नरकदुःखं सहस्रशो वज्रस्वभावात्र बिभेति // Sल्_८३ //
SKश्रुत्वा दृष्ट्वा स्मृत्वा पठित्वा चापि चित्राङ्कनं नरकस्य / आकृतिरपि भयजनिका का कथा तदसह्यविपाकानुभवस्य // Sल्_८४ //
SKयथा समस्तसुखानां तृष्णाक्षय एव सर्वोत्तमं सुखमिति / तद्वत् सर्वदुःखेष्ववीचिनरकदुःखमत्यसहनीयं तत् // Sल्_८५ //
SKइहैकस्मिंश्च दिवसे, त्रिशतशूलघाताद् भवति च यद् दुःखम् / नारकीयदुःखस्य हि तत्राप्नोति समतां न लघुकलां चापि // Sल्_८६ //
SKकोटिवर्षपर्यन्तं दारुणातिदुःखेष्वनुभवत्सु सत्स्वपि / यावत्तान्यकुशलानि न क्षीणानि तावत्र जीवनान्मुक्तिः // Sल्_८७ //
SKअनिष्टफलबीजानि तु कायवाक्चित्तानां हि दुराचरणानि / भवतैवं यतनीयं शक्त्या येन तदणुमात्रं न शिष्येत // Sल्_८८ //
SKतिर्यग्योनिषु नाना दुःखानि भवन्ति च बधबन्धनादीनि / परस्परं भक्षयन्ति शममूलशुभकर्मपरिहर्तारस्ते // Sल्_८९ //
SKकेचिद् वै हन्यन्ते मुक्तोर्णास्थिमांसचर्मार्थं जीवाः / योज्यन्ते खलु विवशा अन्ये पदमुष्टिकशाङ्कुशैः पशवश्च // Sल्_९० //
SKप्रेतयोनौ न क्षयं यातीष्टालाभजनिता दुःखधारा च / दुःखमसह्यं लभते शीतोष्णक्षुत्तृषाश्रमभयजनितं हि // Sल्_९१ //
SKसूचीछिद्रवदास्यं केषाञ्चिदुदरमतिविशालं नगवच्च / तच्च पीडितं क्षुधया क्षिप्तमशुचि वस्तु न प्रतिकारक्षमम् // Sल्_९२ //
SKकेचित् प्रेता नग्नाः शुष्कतालशिखरवदस्थिचर्माणः / नक्तमग्निमुद्गिरतां मुखे पतत्तप्तसिकताशनं तेषाम् // Sल्_९३ //
SKनिम्नकोटिकैः कैश्चित् पूयरक्ताद्यशुचीनि न च लभ्यन्ते / आक्रम्यान्यमुखोपरि गलनिर्गतलसिकादीनि च खाद्यन्ते // Sल्_९४ //
SKचन्द्रो ग्रीष्मे तप्तः शैत्ये शीतो भानुश्च ह्येतेभ्यः / तेषां दृष्टि पाताच्च निष्फलास्तरवो नद्यश्च शुष्यन्ते // Sल्_९५ //
SKसततं दुःखभाजस्ते दुश्चरितकर्मपाशसुदृढबद्धा वै / न च म्रियन्ते केचित् पञ्च वा दश सहस्रवर्षाणि सत्त्वाः // Sल्_९६ //
SKयच्च लभन्ते प्रेता नानादुःखास्वादमेकविधमित्थम् / प्रीतिरत्र कार्पण्ये मात्सर्यमनार्यमुक्तमतो बुद्धेन // Sल्_९७ //
SKस्वर्गे चातिसुखं यत् ततो ऽप्यधिकदुःखं ततश्च्युतेर्नूनम् / एवं विचिन्त्य तज्ज्ञैः क्षरत्सुखाय न तृष्णा कार्या स्वर्गे // Sल्_९८ //
SKवैवर्ण्यं देहस्य स्वासने न रतिर्म्लायते ऽपि माला च / वसनेष्वपि दौर्गन्ध्यं स्वेदश्चापूर्वो निर्याति देहात्तु // Sल्_९९ //
SKलक्षणानि हि पञ्चैव मृत्योर्भवन्ति स्वर्गस्थदेवेषु / भूलोकीयनराणां सदृशान्यपि तानि मृत्युलक्षणैश्च // Sल्_१०० //
SKदेवेभ्यश्च्युतस्य यदि नावशिष्येत् कुशलमणुमात्रमपि / विवशतयोषितव्यं हि ततस्तिर्यक्प्रेतनरकेष्वेकस्मिन् // Sल्_१०१ //
SKदुःखं स्यान्मानसिकं देवैश्वर्यं प्रतीर्ष्ययासूरेष्वपि / न कुर्वन्ति धीमन्तो जन्मावरणाच्च ते सत्यदर्शनानि // Sल्_१०२ //
SKसंसारे ऽस्मिन्नेवं देवनरकप्रेततिर्यग्योनिषु / जन्मग्रहणमयुक्तं बहुबाधं जन्म तत्रेति विज्ञेयम् // Sल्_१०३ //
SKज्वलिते शिरसि च वसने तन्निवृत्त्युपायमुपेक्ष्य त्वरितमेव / अपुनर्भवाय यतेत यतस्तस्मान्महत्प्रयोजनं नान्यत् // Sल्_१०४ //
SKशीलसमाधिज्ञानैर्भूजलतेजोवायुरविविधुरहितं च / अजरामरणमक्षयं प्राप्यं शान्तदान्तविमलं निर्वाणम् // Sल्_१०५ //
SKप्रस्रब्धिवीर्यप्रीतिधर्मविचयस्मृतिसमाध्युपेक्षाः सप्त / बोध्यङ्गानीमानि प्राप्त्यै निर्वाणस्य कुशलसम्भारः // Sल्_१०६ //
SKप्रज्ञाभावे ध्यानं ध्यानाभावे ऽपि न जायते सा प्रज्ञा / यत्रोभे विद्येते ज्ञेयस्तस्य भवसागरो गोष्पदवत् // Sल्_१०७ //
SKये ऽव्याकृतधर्माश्चादित्यबन्धुना चतुर्दशोपदिष्टाश्च / लोके न चिन्तनीया यतो तैर्नाप्नोति चित्तमेव शान्तिम् // Sल्_१०८ //
SKएवं प्रोक्तं मुनिनाविद्यया कर्म कर्मणा च विज्ञानम् / तस्माच्च नामरूपं ततः षडायतनानि ततः स्पर्शा वै // Sल्_१०९ //
SKतत उत्पन्ना वित्तिर्वेदनाश्रयेण जायते खलु तृष्णा / तस्याश्चोपादानं ततो भवो ऽपि भवाच्च जायते जातिः // Sल्_११० //
SKसत्यां जातौ दुःखव्याधिजरेष्ट वस्त्वलाभभयमरणानि / दुःखस्कन्धो विपुलः सति जातिनिषेधे निषिद्धानीमानि // Sल्_१११ //
SKगम्भीरो ऽनर्घकोशः प्रियः प्रतीत्योत्पादो जिनवचनानाम् / सम्यगिमं यः पश्यति स च पश्यति तत्त्वदर्शिनं बुद्धमेव // Sल्_११२ //
SKशमाय भाव्याः सम्यग्दृष्टिसंकल्पवाक्कर्माजीवस्मृति / समाधिव्यायामेत्यार्याष्टाङ्गिकमार्गाश्चैते चारुतया // Sल्_११३ //
SKजातिरियं दुःखमेव तृष्णा च तस्य समुदयो महान् ज्ञेयः / निर्वृतिस्तन्निरोधस्तदधिगमाय चाष्टाङ्गिको ऽयं मार्गः // Sल्_११४ //
SKयत्नः सदा विधेयश्चतुरार्यसत्यप्रतिवेधायैवम् / क्रोडे श्रियश्च येषां गृहस्थास्तरन्ति क्लेशनदीं ज्ञानात् // Sल्_११५ //
SKये दृष्टार्यसत्याश्च नाविर्भवन्ति ते ऽङ्कुरवत् पृथिवीतः / नावतरन्ति च गगनात् ते ऽपि पृथग्जनाः क्लेशवशा हि पूर्वम् // Sल्_११६ //
SKचित्तं हि धर्ममूलं भगवतोक्तमतस्तदपि साधु दमयेच्च / भो निर्भय, किं बहुना कथनेन यतो ऽयमेव हितोपदेशः // Sल्_११७ //
SKयन्मयोपदिष्टं तत्सप्रयासैरपि भिक्षुभिर्दुःसाध्यम् / चर्यागुणान् सेवस्व शिक्षामाचर जीवनं च कुरु सार्थम् // Sल्_११८ //
SKसर्वेषां कुशलानि तु सर्वार्थमनुमोद्य स्वचर्यात्रयीं च / बुद्धत्वाय परिणाम्य ततस्तदनेन पुण्यराशिना भवता // Sल्_११९ //
SKजन्मस्वप्रमेयेषु देवनरलोकयोगिनश्च वशीकृत्य / दुःखिनो ऽनुग्राह्यास्त्वसहाया अवलोकितेश्वरचर्याभिः // Sल्_१२० //
SKचरमं भवं गृहीत्वा व्याधिजरारागद्वेषांश्च प्रहाय / बुद्धक्षेत्रे भगवानमिताभ इव लोकेशो ऽमितायुर्भव // Sल्_१२१ //
SKप्रज्ञाशीलत्यागोद्भूतविमलख्यातिं भुवि खे स्वर्गे च / लोके प्रसार्य शमयन् नरान् युवतिसुखरतदेवांश्च भूमौ // Sल्_१२२ //
SKक्लेशोपहतसत्त्वस्य जातिभयमरणनाशकं जिनेन्द्राख्यम् / लोकोत्तरमक्लिष्टं शान्ताभयाक्षयनामैव पदमाप्नुहि // Sल्_१२३ //
SKइति सुहृल्लेख समाप्ता //