SKBओधिसत्त्वादिकर्मिक-मार्गावतार-देशना
SKसंसारे दुर्गतिघ्नं च निर्याणाभ्युदयप्रदम् / दशदिक्सर्वरत्नं च गुरुपादं नमामि च
SKइह यः स्वभावतो महाकरुणाप्रज्ञावान् महायानगोत्रीयः, यश्च पूर्वजन्मसु महायानभावुकः पुरुषः संसारसुनिर्विण्णचित्तः मरणानुस्मृतिकश्च समस्तबाह्याध्यात्मिक-वस्तुस्वल्पाभिनिवेशः, ऽएकसत्कल्याणमित्रत एकाविपर्यस्तमार्गश्रवणे किं न स्यात्? अहमेकं सन्तं अन्वेष्यामिऽ - एवं चिन्तयन् सः कल्याणमित्रानुरुपं गुरुमन्विष्य अन्यत्र निर्दिष्टवत् त्रिशरणगमनविशिष्टः, अनन्तगतीः विषयीकृत्य, सदाशयः, अनुत्तरमहाबोधावसाधारणचित्तोत्पादः, सदध्याशयः, मायाशाठ्यरहितबोधिप्रस्थानमहाचित्तोः बोधिसत्त्वशीलस्य त्रिशिक्षां सुष्ठु गृह्णीयात् / ततः श्वश्वपचदाससंज्ञकस्य मायाशाठ्यरहितस्य तस्य बोधिसत्त्वस्य संभारमार्गीयत्वाद् अहोरात्रं काय-वाक्-चित्तसमस्तकर्माणि न व्यर्थानि भवन्ति /
SKएवं तेन चित्तेन भोजनमात्राज्ञानम्, इन्द्रियद्वारसंवरणम्, अणुमात्रे ऽप्यवद्ये भयदर्शनम्, अहर्निशं योगञ्च आपादयेत् / ततः श्वासप्रश्वासमपि परार्थम् अभिलषितुकामः सः पञ्चमप्रहर उत्थाय, उच्चारप्रस्रावत्यागादिचर्या सुनिर्वर्त्य मध्यदेशप्रत्यन्तजनपदविशेषे स्नात्वा, समस्तगतीः अवलम्ब्य चतुरप्रमाणैर्बोधौ चित्तमुत्पाद्य, त्रिरत्नप्रतिमासमक्षं सुलिप्य सुगन्धपुष्पप्रकरं सुविकीर्य तदग्रतो भूमौ जानुनी संस्थाप्य, कृताञ्जलिः दशदिग्लोकधात-समस्तबुद्ध-समस्तधर्ममहायानसंघसमक्षं च असंख्यानिर्वाच्यकायव्यूहान् निर्माय तेषाञ्चैकैकम् चरणयोः सुप्रणमेत् / तान् अपरिमितविपुलाप्रमेयामिषपूजया पूजयेत् / ततः प्रतिकायं अनिर्वचनीयमुखानि प्रतिमुखं चानिर्वचनीयजिह्वा निर्माय, स्वपरपापान् अशेषान् दिशेत् / स्वपरपुण्यानि चानुमोदयेत् / अचिरम् अभिसम्बोधिप्राप्तान् बुद्धान् भगवतो धर्मचक्रप्रवर्तनाय अध्येषयेत् / ये धर्मचक्रं प्रवर्त्य आयुः संस्कारान् परिजिहीर्षन्ते, (तान्) आसंसारम् अपरिनिर्वाणाय प्रार्थयेत / तेषां समस्तकुशलानाम् अनुत्तरसम्यक्सम्बोधौ परिणामनां कुर्यात् / यथा सूत्रे आगतानि तथा प्रत्यङ्गपदानि सविस्तरं पठेत् /
SKततः सप्तपूजानन्तरं सर्वसत्त्वान् अवलम्ब्य त्रिशरणगमनपदानि त्रिः पठेत् / ततः बोधिचित्तमुत्पादयेत्, यथा विधौ प्राप्यते तथा च कुर्यात् / अन्तशश्च एवम्-
SKबुद्धं च धर्मञ्च गणोत्तमं च यावद्धि बोधिं शरणं गतो ऽस्मि / दानादि-कृत्यैश्च कृतैर्मयैभिः बुद्धो भवेयं जगतो हिताय // २ // इति त्रिः पठेत् /
SKततः स्वकायार्पणं, ततः महापुरुषाणां धर्मनये महारथिनां च मार्गे अवस्थानाय प्रतिजानीयात् / ततः स्वशय्यायां पर्यङ्कमाभुज्य गुरुभट्टारक-श्री-बोधिभद्रकृत-समाधि-(सम्भार) परिवर्त्तोक्तानिनवाङ्गानि ज्ञात्वा शमथविपश्यनायोगं भावयेत् / सो ऽपि लयौद्धत्यादिसमस्तदोषान् प्रहाय भावनीयः /
SKततः चक्षुरुन्मील्य, निःश्वस्य, बाह्याभ्यन्तरवस्तुदर्शने- ऽअहो! आश्चर्यम्, अहो! आश्चर्यम् / आकाशोपमानुत्पादतः प्रतीत्यसमुत्पादबलेन नानाभासेयमवस्थितिः अयम्ऽ अहो! आश्चर्यम्ऽ इति विचिन्त्य अष्टमायोपमरुपेण जानीयात् / ततो महाकरुणचित्तेन समस्तादृश्यसत्त्वेभ्यो धर्मदेशनार्थ यथाबोधि महायान-सूत्रपाठं कुर्यात् / ततः भोजनावसरे- ऽषट्त्रिंशदशुचिपरिपूर्णेन असारेण नाशपर्यवसितेन कायेनानेन तद्बुद्धधर्मकाय-सारमन्वेषयामिऽ इति विचिन्त्य न पुष्ट्यर्थ, नापि रसासक्तया यानधिया भोक्तव्यम् / भोजनमात्रापि ज्ञातव्या / अष्टाङ्गचिकित्सातन्त्रे-
SKअन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत् / आश्रयं पवनादीनां चतुर्थमवशेषयेत् // ३ // इति /
SKतद्भोजनं चतुर्भागेषु विभाज्यम् / प्रथमो भागस्त्रिरत्नेभ्यो गुरवे चार्पणीयः / एकं भागं स्वयमेव भुञ्जीत् / एको भागो बालेभ्यो ऽनाथेभ्यश्च देयः / एकश्च भागः कुक्कुरकाकादितिर्यग्भ्यो देयः / कैश्चिच्चर्यासङ्ग्रहो ऽन्यथापि कथितः / अन्यो नयस्तु चर्यासङ्ग्रहप्रदीपोक्तवत् /
SKततः पूर्वाह्णयामेष्वपि पञ्चमप्रहरे यथोक्तवत् सर्वं कार्यम् / मध्याह्ने सन्ध्यायां रात्रेः प्रथमे मध्ये च यामे सर्वथा यथोक्ताः सर्वे विधयः पूरयितव्याः / ऽतादृग्योगिनस्तस्य निद्राशयनकालनियमो नास्तिऽ एवं गुरवो वदन्ति / तादृग्योगिनः सम्भारमार्गीयाः, मोक्षमार्गीयकुशलमूलोत्पादकामआदिकार्मिका अहोरात्रं व्यर्थमनवस्थिताः, तादृग्भ्य आपत्तिदोषः कथं भवेत् / यदि दुर्वासनाबलाद् आपत्तिर्भवेत्, एवं शीघ्रम् प्रतिकुर्यात् /
SKएवं तेषां षड्यामानाम् अष्टादशधा विभागे कृते सति चतुःपञ्चाशत्क्षणा भविष्यन्ति / बोधिसत्त्वा अपि उत्तममध्यमा (ऽधमाः) नव स्युः / गुरुपदेशतः प्रतिपत्त्युपायान् जानीयात् /
SKश्रेष्ठैः समाख्याततमं सुमार्ग बोधिप्रभाद्यैः कलितश्च शिष्यैः / गत्त्वा महायानकुलाभिजातैः प्राप्यं पदं तद् द्विपदेन्द्रकस्य
SKगुरुर्हि भट्टारकबोधिसत्त्वः बोधिप्रभैर्भिक्षुवरैः प्रणुन्नः / अनूदिता शीलजयेन भिक्षुणा चरेन् महायानपथानुयायी
SKऽबोधिसत्त्वादिकर्मिकमार्गावतारदेशनाऽ आचार्यदीपङ्करश्रीज्ञानविरचिता समाप्ता //
SKतेनैव पण्डितेन लोकचक्षुषा च जयशीलेन अनूदिता //