Introduction to Logic

Nyāyapraveśapravṛtti · Nयायप्रवेशप्रवृत्ति

Introduction to Logic

Nyāyapraveśapravṛtti

Nयायप्रवेशप्रवृत्ति

SK
Hअरिभद्रसूरिकृता Nयायप्रवेशप्रवृत्तिः /
SK
श्रीसर्वज्ञाय नमः //
SK
सम्यग्ज्ञानस्य वक्तारं प्रणिपत्य जिनेश्वरम् / न्यायप्रवेशकव्याख्यां स्फुटार्थां रचयाम्यहम् //
SK
रचितामपि सत्प्रज्ञैर्विस्तरेण समासतः / असत्प्रज्ञो ऽपि संक्षिप्तरुचिः सत्त्वानुकम्पया //
SK
तत्र च- साधनं दूषणं चैव साभासं परसंविदे / प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे //
SK
इत्यादावेव श्लोकः / आहास्य किमादावुपन्यास इति / उच्यते / इह प्रेक्षापूर्वकारिणः प्रयोजनादिशून्ये न क्वचित्प्रवर्तन्त इत्यतो ऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रवृत्त्यर्थमिति / शास्त्रार्थकथनकालोपस्थितपरसंभाव्यमानानुपन्यासहेतुनिराकरणार्थं च न्यायप्रवेशकाख्यं शास्त्रमारभ्यते इत्युक्ते संभवत्येवंवादी परः- नारब्धव्यमिदं प्रयोजनरहितत्वात् उन्मत्तकवाक्यवत् / तथा निरभिधेयत्वात् काकदन्तपरीक्षावत् / तथा असंबद्धत्वात् दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डं सर कीटिकेत्यादिवाक्यवत् / तदमीषां हेतूनामसिद्धतोद्भावयिषया प्रयोजनादिप्रतिपादनार्थमादौ श्लोकोपन्यास / अयं चाभिधेयप्रयोजने एव दर्शयति साक्षात् संबन्धं तु सामर्थ्येन / यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेवमेव लेशतो व्याख्याय दर्शयिष्यामः // व्याख्या च पदवाक्यसंगतेति / उक्तं च-
SK
शास्रप्रकरणादीनां यथार्थावगमः कुतः / व्याख्यां विहाय तत्त्वज्ञैः सा चोक्ता पदवाक्ययोः //
SK
तत्रापि पदसमुदायात्मकत्वाद्वाक्यस्यादौ पदार्थगमनिका न्याय्या /
SK
सा च पदविभागपूर्वेत्यतः पदविभागः /
SK
साधनम् दूषणम् च एव साभासम् परसंविदे प्रत्यक्षम् अनुमानम् च साभासम् तु आत्मसंविदे इति पदानि //
SK
अधुना पदार्थ उच्यते / साध्यते अनेनेति सिद्धिर्वा साधयतीति वा साधनम् / तच्च पक्षादिवचनजातम् / वक्ष्यति च / पक्षादिवचनानि साधनम् / विषयश्चास्य धर्मविशिष्टो धर्मी /
SK
तथा दूष्यते ऽनेन दूषयतीति वा दूषणम् /
SK
तच्च साधनदोषोद्भावनं वचनजातमेव /
SK
वक्ष्यति च साधनदोषोद्भावनानि दूषणानि / विषयश्चास्य साधनाभासः न सम्यक्साधनम् / तस्य दुषयितुमशक्यत्वात् /
SK
ननु वक्ष्यति साधनदोषोद्भावनानि दूषणानीति तदेतत्कथम् / उच्यते /
SK
साधनाभास एव किंचित्साम्येन साधनोपचाराददोषः इत्येतच्च तत्रैव निर्लोठयिष्यामः / चशब्दः समुच्चये / एवकारो ऽवधारणे / स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः / तथा आभासनमाभासः / सह आभासेन वर्तते साभासम् / साभासशब्दः प्रत्येकमभिसंबध्यते /
SK
साधनं साभासं दूषणं साभासम् / तत्र साधनाभासं पक्षाभासादि / वक्ष्यति च / साधयितुमिष्टो ऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इत्यादि / दूषणाभासं चाभूतसाधनदोषोद्भावनानि /
SK
वक्ष्यति च अभूतसाधनदोषोद्भावनानि दूषणाभासानीति // परसंविदे इत्यत्र परे प्राश्निकाः संवेदनं संविद् अवबोध इत्यर्थः / परेषां संवित् परसंवित् तस्यै परसंविदे परावबोधाय / इयं तादर्थ्ये चतुर्थी / यथा यूपाय दारुः / इति पदार्थः // वाक्यर्थस्त्वयम् / साधनदूषणे एव साभासे परसंविदे परावबोधाय न प्रत्यक्षानुमाने /
SK
परसंवित्फलत्वात्तयोः / यथा पार्थ एव धनुर्धरः पार्थे धनुर्धारयति सति को ऽन्यो धनुर्धारयति इति // प्रत्यक्षम् इत्यत्र अक्षमिन्द्रियं ततश्च प्रतिगतमक्षं प्रत्यक्षं कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः / इदं च वक्ष्यति प्रत्यक्षं कल्पनापोढम् इत्यादि / तथा मीयते अनेनेति मानं परिच्छेद्यत इत्यर्थः / अनुशब्दः पश्चादर्थे / पश्चान्मानं अनुमानम् /
SK
पक्षधर्मग्रहणसंबन्धस्मरणपूर्वकमित्यर्थः / वक्ष्यति च त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् / चशब्दः पूर्ववत् / साभासम् इत्यादि / वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् इत्यादि / तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् इत्यादि च / तु शब्दस्त्वेवकारार्थः / स चावधारण इति दर्शयिष्यामः // आत्मसंविदे इति / अततीत्यात्मा जीवः / संवेदनं संवित् / आत्मनः संवित् आत्मसंवित् / तस्यै आत्मसंविदे आत्मावबोधाय / आत्मा चेह चित्तचैत्तसंतानरूपः परिगृह्यते न तु परपरिकल्पितो नित्त्यत्वादिधर्मा /
SK
तत्प्रतिपादकप्रमाणाभावात् / इति पदार्थः // वाक्यार्थस्त्वयम् / प्रत्यक्षानुमाने एव साभासे आत्मसंविदे आत्मावबोधाय न साधनदूषणे आत्मसंवित्फलत्वात् तयोः / आह ननु साधनमपि वस्तुतो ऽनुमानमेव ततश्चानुमानमित्याद्युक्ते साधनाभिधानं न युज्यते अस्मिन्वा प्रागुक्ते अनुमानाभिधानमिति / नैष दोषः / स्वार्थपरार्थभेदनाभिधानात् / तत्र साधनं परार्थमनुमानमिदं पुनः स्वार्थम् / अपरस्त्वाह / आदौ साधनदूषणाभिधानमयुक्तं प्रत्यक्षानुमानपुरःसरत्त्वात्तत्प्रयोगस्य / उच्यते / सत्यपि तत्पुरःसरत्वे शास्त्रारम्भस्य परसंवित्प्रधानत्वात्साधनदूषणयोरपि तत्फलत्वात्प्रत्यासत्तेरादावुपन्यासः / परार्थनिबन्धनः स्वार्थ इति न्यायप्रदर्शनार्थमन्ये //
SK
कृतं प्रसङ्गेन / प्रकृतं प्रस्तुमः // इह च साधनादयो ऽष्टौ पदार्थाः अभिधेयतया उक्ताः / परसंवित्त्यात्मसंवित्त्योरत्र प्रयोजनत्वेन संबन्धश्च सामर्थ्यगम्य एव / स च कार्यकारणलक्षणः / कारणं वचनरूपापन्नप्रकरणमेव / कार्यं तु प्रकरणार्थपरिज्ञानम् / तथाहीदमस्य कार्यमिति संबन्धलक्षणा षष्ठी / आह- यद्येवं परसंवित्त्यात्मसंवित्त्योः प्रकरणार्थपरिज्ञानेन व्यवहितत्वादप्रयोजनत्वमिति / न / व्यवहितस्यैव विवक्षितत्वात् / किमर्थं व्यवहितमेव विवक्षितमिति / उच्यते / उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम् / तथा चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव / तथा चोक्तम् /
SK
सम्यङ्न्यायपरिज्ञानाद्धेयोपादेयवेदिनः / उपादेयमुपादाय गच्छन्ति परमां गतिम् //
SK
आह- यद्येवमिहानुत्तरमेवेदं कस्मान्नोपन्यस्तमिति / उच्यते / अव्युत्पन्नं विनेयगणमधिकृत्य तत्प्रथमतयैव तस्याप्रयोजकत्वात् // अपरस्त्वाह / इदमिह श्रोतणां प्रयोजनमुक्तं कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम् / उच्यते / तस्याप्यनन्तरपरभेदभिन्नमिदमेव / अनन्तरं तावत्सत्त्वानुग्रहः / परंपरं तु परमगतिप्राप्तिरेव / तथा चोक्तम् /
SK
सम्यङ्न्यायोपदेशेन यः सत्त्वानामनुग्रहम् / करोति न्यायबाह्यानां स प्राप्नोत्यचिराच्छिवम् //
SK
अलं विस्तरेण //
SK
इति शास्त्रसंग्रहः / इतिशब्दः परिसमाप्तिवाचकः / एतावानेव / शिष्यते ऽनेन तत्त्वमिति शास्त्रमधिकृतमेव; अर्य(र्थ्य)त इत्यर्थः / शास्त्रस्यार्थः शास्त्रार्थः / तस्य सग्रहः शास्त्रार्थसंग्रहः / संग्रहणं संग्रहः / एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः / शास्त्रतो चास्याल्पग्रन्थस्यापि विश्वव्यापकन्यायानुशासनादिति वृद्धवादः //
SK
तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपावधारणायाह // तत्र पक्षादिवचनानि साधनम् / तत्रशब्दो निर्धारणार्थः / तत्र तेषु साधनादिषु साधनं तावन्निर्धार्यते इति / निर्धारणं च जातिगुणक्रियानिमित्तमिति / अत्र गुणनिमित्तं साधनत्वेन गुणेन निर्धार्यते इति / गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन // पच्यते इति पक्षः / पच व्यक्तीकरणे / पच्यते व्यक्तीक्रियते यो ऽर्थः स पक्षः / साध्य इत्यर्थः / स च धर्मविशिष्टो धर्मी / पक्ष आदिर्येषां ते पक्षादयः / अयं बहुब्रीहिः समासः /
SK
अयं च तद्गुणसंविज्ञानश्च भवति / तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि / लम्बौ कर्णौ यस्यासौ लम्बकर्णः / लम्बकर्णत्वं च तस्यैव गुण इत्यर्थः / अतद्गुणसंविज्ञानो यथा पर्वतादिकं क्षेत्रमित्यादि / पर्वत आदिर्यस्य तत्पर्वतादिकं क्षेत्रम् / न पर्वतः क्षेत्रगुणः / किं तर्हि / उपलक्षणमात्रमिति भावना /
SK
अयमिह तद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः / यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति / न पुनर्यथा लम्बकर्णः ब्राह्मणादयो वर्णा इति / पक्षादिवचनानि साधनमित्यादिशब्द उपलक्षणार्थः / अस्य चायमर्थः / आदीयते ऽस्मादित्यादिः यथा पर्वतादिकं क्षेत्रमित्यादौ / न पुनरादीयते इत्यादिः यथा ब्राह्मणादयो वर्णा इत्यदाविति / ततः सुस्थितमिदं पक्षः आदिर्येषां ते पक्षादयः // ते च पक्षोपलक्षिता हेतुदृष्टान्ताः / तेषां वचनान्युक्तयः // किं साधनमिति /
SK
इह च यदा साध्यते ऽनेनेति साधनं करणाभिधानार्थः साधनशब्दस्तदा पक्षोपलक्षितानि हेतुत्वादिवचनानि साधनम् / यतस्तैः करणभूतैर्विवक्षितो ऽर्थः परसंताने प्रतिपाद्यते / यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम् / तत्फलत्वात्पक्षादिवचनानाम् / कार्ये कारणोपचारात् / यथेदं मे शरीरं पौराणां कर्मेति / यदा तु कर्तृसाधनः साधयतीति साधनं तदा पक्षादिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वात् इति / तदेवं पक्षादिवचनानि साधनम् / तद्यथा वृक्षा वनं हस्त्यादयः सेना / आह / एकवचननिर्देशः किमर्थमुच्यते / समुदितानामेव पक्षादिवचनानां साधनत्वख्यापनार्थम् / उक्तं च दिङ्नागाचार्येण साधनमिति चैकवचननिर्देशः समस्तसाधनत्वख्यापनार्थः / इत्यलं विस्तरेण //
SK
एवं तावत्सामान्येन साधनमुक्तम् / इदं च न ज्ञायते किं कारकमुत व्यञ्जकम् / साधनस्य द्वैविध्यदर्शनात् / तत्र कारकं वीजाद्यङ्कुरादेः / व्यञ्जकं प्रदीपादि तमसि घटादीनाम् / अतो व्यञ्जकत्वप्रतिपादनायाह / पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतो ऽर्थः प्रतिपाद्यते इति // अस्य गमनिका / पच्यते इति पक्षः / हिनोतीति हेतुः / हि गतौ / सर्वे गत्यर्थाः ज्ञानार्थाः / तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः / स च द्विधा साधर्म्येवैधर्म्यभेदात् / ततश्चैवं समासः / दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ / हेतुश्च दृष्टान्तौ च हेतुदृष्टान्ताः / पक्षस्य हेतुदृष्टान्ताः पक्षहेतुदृष्टान्ताः / तेषां वचनानि पक्षहेतुदृष्टान्तवचनानि / तैः पक्षहेतुदृष्टान्तवचनैः / हिशब्दो यस्मादर्थे / प्रश्नेनियुक्ताः प्राश्निका विद्वांसः / स्वसमयपरसमयवेदिनः / उक्तं च-
SK
स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयस्थिताः क्षमिणः / वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः //
SK
तेषां प्राश्निकानामप्रतीतो ऽनवगतो ऽनवबुद्धो ऽर्थः प्रतिपाद्यते / आह / ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतो ऽर्थ इति / उच्यते / न तत्परिज्ञानमङ्गीकृत्याप्रतीतः / किंतु वादिप्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत इत्यतो ऽप्रतीतो ऽर्थः प्रतिपाद्यते / ननु चात्र चातुर्थ्या क्रियया चेति वक्तव्यलक्षणया भवितव्यं तत्किमर्थ षष्ठ्यत्रोच्यते / कारकाणामविवक्षा शेष इति शेषलक्षणा षष्ठी / केषां प्रतिपाद्यते / सामर्थ्याद्येषामप्रतीतः अन्येषामश्रुतत्वात्तेषामेव प्रतिपाद्यते /
SK
इतिशब्दस्तस्मादर्थे / यस्मादेवं तस्माद्व्यञ्जकमिदं साधनमप्रतीतार्थप्रतिपादकत्वात् प्रदीपवत् / व्यतिरेके बीजादि // तत्र पक्षादिवचनानि साधनम् इत्युइक्तम् // अधुना यथोद्देशं निर्देश इतिन्यायमाश्रित्य पक्षलक्षणप्रतिपादनायाह / तत्र पक्षः प्रसिद्धो धर्मी / अस्य गमनिका / तत्रशब्दो निर्धारणार्थः / निर्धारणं च प्रसिद्धधर्मित्वादिगुणतो ऽवसेयमिति / पक्ष इति लक्ष्यनिर्देशः / धर्मीति / धर्माः कृतकत्वादयस्ते ऽस्य विद्यन्ते इति धर्मी शब्दादिः / कथं प्रसिद्ध इत्यत आह / प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः / तत्र प्रसिद्धं वादिप्रतिवादिभ्यां प्रमाणबलेन प्रतिपन्नम् / विशिष्यते ऽनेनेति विशेषणम् / तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः /
SK
तद्भावः प्रसिद्धविशेषणविशिष्टतता / तया प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः / अत्राह / इह धर्मिणस्तावत्प्रसिद्धता युक्ता विशेषणस्य त्वनित्यत्वादेर्न युज्यते / साध्यत्वात् / अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः / नैतदेवम् / सम्यगर्थानवबोधात् / इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिणि समाश्रीयते किंतु धर्म्यन्तरे घटादौ / ततश्च यथोक्तदोषानुपपत्तिः / तथा स्वयमित्यनेनाभ्युपगमसिद्धान्तपरिग्रहः // साध्यत्वेनेप्सित इति / साधनीयः साधयितव्यः साधनमर्हतीति वा साध्यः / तस्य भावः साध्यत्वम / तेन साध्यत्वेन / ईप्सितः अभिमतः इष्ट इच्छाया व्याप्त इत्यर्थः / इह च विशेषणस्य व्यवच्छेदकत्वात्प्रसिद्धो धर्मीत्यनेनाप्रसिद्धविशेषणस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः / प्रसिद्धविशेपणविशिष्टयेत्यनेन त्वप्रसिद्धविशेषणस्य उभयेन चाप्रसिद्धोभयस्य स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्रप्रतितन्त्राधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः / इह तु शस्त्रनिरपेक्षवादिनोर्लोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तस्तं स्वयमित्यनेनाह / ततश्चयदपि स्वयमिति वादिना यस्तदा साधनमाह / एतेन यद्यपि क्वचिच्छास्त्रे स्थ्तिअः साधनमाह तच्छास्त्रकारेण तस्मिन्धर्मिण्यनेकधर्माभ्युपगमे ऽपि यस्तदानेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवतीति यदुक्तं वादिमुख्येन तदपि संगतमेव / साध्यत्वेनेति साध्यत्वेनैव न साधनत्वेनापि / अनेन च साध्यहेतुदृष्टान्ताभासानां पक्षत्वव्युदासः / ईप्सित इत्यनेन च नोक्तमात्रस्यैवेत्युक्तं भवति / इच्छयापि व्याप्तः पक्षः / इत्येतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्यामः / इत्यनेन धर्मविशिष्टो धर्मी पक्ष इत्यावेदितं भवति / ततश्च न धर्ममात्रं न धर्मी केवलः न स्वतन्त्रमुभयं न च तयोः संबन्धः किंतु धर्मधर्मिणोर्विशेषणविशेष्यभाव इति भावार्थः //
SK
इह चोक्तलक्षणयोगे सत्यप्यश्रावणः शब्द इत्येवमादीनामपि प्रत्यक्षाविरुद्धानां पक्षत्वप्राप्त्यातिव्याप्तिर्नाम लक्षणदोषः प्राप्नोतीत्यस्तन्निवृत्त्यर्थमाह / प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः / प्रत्यक्षादिभिरविरुद्धः / आदिशब्दादनुक्तानुमानादिपरिग्रहः / इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति / उदाहरणोपदर्शनायाह तद्यथा / अनित्यः शब्दो नित्यो वेति / तद्यथेत्युदाहरणोपन्यासार्थम् / तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति / उक्त सोदाहरणः पक्षः /
SK
सांप्रतं हेतुमभिधित्सुराह हेतुस्त्रिरूपः / तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः / स च त्रिरूपः / त्रीणि रूपाणि यस्यासौ त्रिरूपः त्रिस्वभाव इत्यर्थः / एकस्य वस्तुनो नानात्वमपश्यन् पृच्छक आह किं पुनस्त्रिरूप्यम् / किमिति परिप्रश्ने / पुनरिति वितर्के / त्रिरूपस्य भावस्त्रैरूप्यम् / एवं पृच्छकेन पृष्टः सन्नाहाचार्यः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव / अस्य गमनिका / उक्तलक्षणः पक्षतस्य धर्मः पक्षधर्मस्तद्भावः पक्षधर्मत्वम् / पक्षशब्देन चात्र केवलो धर्म्येव ऽभिधीयते / अवयवे समुदायोपचारात् / इदमेकं रूपम् / तथा सपक्षे सत्त्वम् / सपक्षो वक्ष्यमाणलक्षणः / तस्मिन्सत्त्वमस्तित्वं सामान्येन भाव इत्यर्थः / इदं द्वितीयं रूपम् / तथा विपक्षे चासत्त्वमिति तृतीयं रूपम् / विपक्षो वक्ष्यमाणलक्षणस्तस्मिन्पुनरसत्त्वमेवाविद्यमानतैव / चशब्दः पुनःशब्दार्थः / स च विशेषार्थ इति दर्शितमेव / आह इहैवावधारणे ऽभिधानं किमर्थम् / उच्यते / अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् /
SK
सपक्षे त्वेकदेशे ऽपि सत्त्वमदुष्टमेवेति / तथा च सत्येकान्ततो विपक्षव्यावृत्ताः सपक्षैकदेशव्यापिनो ऽपि प्रयत्नानन्तरीयकत्वादयः सम्यग्घेतव एवेत्यावेदितं भवति // सपक्षे सत्त्वमित्यादि यदुक्तं तत्र सपक्षविपक्षयोः स्वरूपमजानानो विनेयः पृच्छति / कः पुनः सपक्षः को वा विपक्ष इति / अयं तु प्रश्नो निगदसिद्ध एव / निर्वचनं त्विदं साध्यधर्मेत्यादि / अस्य गमनिका / इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते / साध्यश्चासौ धर्मश्च साध्यधर्मः / अनित्यत्वादिः / समानः सदृशस्तस्य भावः सामान्यं तुल्यता / साध्यधर्मस्य साध्यधर्मेण वा सामान्यं साध्यधर्मसामान्यम् / तेन समानो ऽर्थः सपक्ष इति / समं तुल्यं मानमस्येति समानः / तुल्यमानपरिच्छेद्य इति भावना / अर्थो घटादिः / न तु वचनमात्रम् / समानः पक्षं सपक्ष इति / अथवा उपचारवृत्त्या धर्मिणि साध्यत्वमधिक्रियते /
SK
ततश्च / साध्यस्य धर्मः साध्यधर्मः / शेषं पूर्ववत् / अनुपचरितं तु साध्यम् / धर्मविशिष्टो धर्मीति भावार्थः // सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह / तद्यथा अनित्ये शब्दे साध्ये इत्यादि / तद्यथेत्युदाहरणोपन्यासार्थः / अनित्ये शब्दे साध्ये किम्? / घटादिरनित्यः पदार्थसंघातः सपक्षः / साध्यानित्यात्वसमानत्वात् // अधुना विपलक्षणप्रतिपादनायाह / विपक्षो यत्र साध्यं नास्ति / विसदृशः पक्षो विपक्षः / स कीदृगिति स्वरूपतो दर्शयति / यत्र यस्मिन्नर्थे / साधनीयं साध्यम् / नास्ति न विद्यते / इह च साध्यप्रतिबन्धत्वात् साधनस्य तदपि नास्तीति गम्यते / उदाहरणं दर्शयति / यथा यन्नित्यमित्यादि / तत्र यन्नित्यमिति किमुक्तं भवति? / यदनित्यं न भवति तदकृतकं दृष्टमिति / तत्कृतकमपि न दृष्टम् यथाकाशमिति / तत्र हि साध्यभावात् साधनाभावः / सांप्रतं विचित्रत्वादवधारणविधेः विपक्षधर्मत्वादिषु तमुपदर्शयन्नाह / तत्र कृतकत्वमित्यादि / तत्रेति पूर्ववत् / कृतकत्वं प्रयत्नानन्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः / तत्र क्रियते इति कृतकः / अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति / तद्भावः कृतकत्वम् / प्रयत्नान्तरीयकत्वं वा इति / प्रयत्नश्चेतनावतो व्यापारः / तस्य प्रयत्नानन्तरं तत्र भावो जात इति वा प्रयत्नानन्तरीयः / स एव प्रयत्नानन्तरीयकः / तद्भावः प्रयत्नानन्तरीयकत्वम् /
SK
वाशब्दः चशब्दार्थः / स च समुच्चये / द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः / सपक्षैकदेशवृत्तिरपि सम्यग्घेतुर्यथा / यमेवेति दर्शनार्थत्वाददुष्टमिति / अयं च हेतुः किं पक्षधर्म एव न तु पक्षस्यैव धर्मः / अयोगव्यवच्छेदमात्रफलत्वादवधारणस्य / यथा चैत्रो धनुर्धर एव / अनेन चासिद्धानां चतुर्णामसाधारणस्य च व्यावृत्तिः / तथा सफल एवास्त्वन्ययोगव्यवच्छेदः यथा पार्थ एव धनुर्धरः / अनेन तु साधारणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः / आह / यदि सपक्ष एवास्ति ततश्च तद्व्यतिरेकेणान्यत्र पक्षे ऽप्यभावात् धर्मत्वानुपपत्तिः / न अनवधृतावधारणात् / पक्षधर्मत्वस्यावधारित्वात् / आह / यद्येवं विपक्षे नास्ति एवेति तृतीयमवधारणं किमर्थम्? / उच्यते / प्रयोगोपदर्शनार्थम् / उक्तं च / अन्वयव्यतिरेकयोरेकमपि रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपकं स्यादिति / प्रभूतमत्र वक्तव्यं तत्तु नोच्यते / ग्रन्थविस्तरभयात् / गमनिकामात्नमेतत् / अनित्यादौ हेतुरित्यत्रादिग्रहणात् दुःखादिपरिग्रहः / इत्युक्तो हेतुः // सांप्रतं दृष्टान्तमभिधित्सुराह / दृष्टान्त इत्यादि / दृष्टं तत्रार्थं अन्तं नयतीति दृष्टान्तः / प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठां नयतीत्यर्थः / स च द्विविधः / द्वे विधे यस्य स द्विविधस्तदेव द्वैविध्यम् / दर्शयति साधर्म्येण वैधर्म्येण च / समानो धर्मो यस्यासौ सधर्मा सधर्मणो भावः साधर्म्यं तेन / विसदृशो धर्मो यस्यासौ विधर्मा विधर्मणो भावः वैधर्म्यं तेन / चशब्दः समुच्चये / तत्र साधर्म्येण तावदिति / तावच्छब्दः क्रमार्थः / यत्रेति / अभिधेयहेतोरुक्तलक्षणस्य सपक्ष एवास्तित्वं ख्याप्यते / सपक्ष उक्तलक्षणस्तस्मिंश्चास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन / तच्चेदम् / यत्कृतकं तदनित्यं यथा घटादिः इति सुगमम् / अनेन साधनदृष्टान्ताभासः / वैधर्म्येणापि / यत्र साध्याभावे हेतोरभाव एव कथ्यते / यत्रेत्यभिधेये / साध्यं अनित्यत्वादि तस्याभावे हेतोः कृतकत्वादेः / किम्? / अभाव एव कथ्यते प्रतिपाद्यते वचनेन / तच्चेदमुदाहरणं दर्शयति / यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति सुगमम् / आह / न सौगतानां नित्यं नाम किंचिदस्ति / तदभावात् कथं वैधर्म्यदृष्टान्त इत्युच्यते? / नित्यशब्देनात्रनित्यत्वस्याभाव उच्यते / अत्रेति प्रयोगे दृष्टान्तवाक्ये वा / किं नित्यशब्देन अनित्यस्वस्याभाव उच्यते? / अनित्यो न भवतीति नित्यः / अकृतकशब्देनापि कृतकत्वस्याभावः उच्यते / इति च वर्तते / कृतकौ न भवतीत्यकृतकः / न तु वस्तु सन्नित्यमकृतकं वास्ति / अत्रैवोदाहरणमाह / यथा भावाभावो ऽभावः / यथेत्यौपम्ये / भावः सत्ता तस्याभावो भावाभावः / असावभाव उच्यते / न तु भावादन्यो ऽभावो नाम वस्तुस्वरूपो ऽस्ति एवं नित्यशब्देनात्रेत्यादि दार्ष्टान्तिके ऽपि भावितमेव // उक्ताः पक्षादयः //
SK
सह पक्षेण विषयभूतेन हेतुदृष्टान्ता इत्यर्थः / एषां वचनानि / एषामिति पक्षोपलक्षितानां हेतुदृष्टान्तानाम् / वचनानि ये वाचकाः शब्दाः / किम्? / परप्रत्यायनकाले प्रास्निकप्रत्यायनकाले साधनम् / यथा प्रयोगतो दर्शयति / यथा अनित्यः शब्दः इति पक्षवचनम् / कृतकत्वादिति पक्षधर्मवचनम् / यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् / यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम् / इति निगदसिद्धम् / यावत् एतान्येव त्रयो ऽवयवा इत्युच्यन्ते / एतान्येव पक्षहेतुदृष्टान्तानां वचनानि / त्रय इति संख्या / अवयवा इत्युच्यन्ते / पूर्वाचार्याणां संज्ञान्तरमेतत् / यथोक्तं साधनमवयवाः //
SK
उक्तं साधनम् / अधुना तदाभास उच्यते / तत्रापि पक्षादिवचनानि साधनमिति पक्षस्योपलक्षणत्वात्प्रथमं पक्ष उक्तः / इहापि पक्षाभास एवोच्यते साधयितुमित्यदि / साधयितुमिष्टो ऽपि पक्षादिविरुद्धः पक्षाभासः / सिसाधयिषया वाञ्छितः अपिशब्दात्प्रसिद्धो धर्मीत्यादि तदन्यलक्षणयुक्तो ऽपि / किम्? / प्रत्यक्षादिविरुद्धः / विरुध्यते स विरुद्धः / प्रत्यक्षादयो वक्ष्यमाणलक्षणास्तैर्विरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः / किम्? / पक्षाभासः / तस्यात्रोक्तलक्षणः पक्षः आभासनमाभासः आकारमात्रम् / पक्षस्येवाभासो यस्यासौ पक्षाभासः पक्षाकारमात्रम् / न तु सम्यक् पक्ष इत्यर्थः / तद्यथेत्युदाहरणोपन्यासार्थः / प्रत्यक्षविरुद्ध इत्यादि / प्रत्यक्षं वक्ष्यमाणलक्षणम् / इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्यायात् / ततश्च प्रसिद्धर्मधर्मशब्दलोपात् प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः / एवमनुमानविरुद्धः आगमलोकस्ववचनविरुद्धाश्चेति भावनीयमिति /
SK
अप्रसिद्धिविशेषणादिशब्दार्थमुदाहरणनिरूपणायामेव वक्ष्यामः / सांप्रतमुदाहरणानि दर्शयति / तत्र प्रत्यक्षविरुद्धः इत्युद्देशः / यथा अश्रावणः शब्दः इत्युदाहरणम् / अत्र शब्दो धर्मी / अश्रावणत्वं साध्यधर्मः / अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्धः / आह / श्रावणत्वं सामान्यलक्षणत्वात्प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः? इति / अत्रोच्यते / भावप्रत्ययेन स्वरूपमात्राभिधानात्सामान्यलक्षणत्वानुपपत्तेरदोष इति / अत्र च बहु वक्तव्यं तत्तु नोच्यते / अक्षरगमनिकामाफलत्वात्प्रयासस्य // अनुमानविरुद्धो यथा / नित्यो घट इति / अत्र घटो धर्मी / नित्यत्वं साध्यधर्मः / स चानुमानप्रसिद्धेनानित्यत्वेन तत्रैव धर्मिणि बाध्यते / अनुमानं चेदम् / अनित्यो घटः कारणाधीनात्मलाभत्वात् प्रदिपवत् // आगमविरुद्धो यथा / वैशेषिकस्य नित्यः शब्द इति साधयतः / वैशेषिको ऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य नित्यत्वं प्रतिजानिते तदागमविरूद्धः / यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम् / उक्तं च बुद्धिमत्पूर्वा वाक्यकृतिर्वेदे तद्वचनादाम्नायस्य प्रामाण्यमित्यादि // लोकविरुद्धो यथा / शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खशुक्तिवत् इति / अत्र नरशिरःकपालं धर्मित्वेनोपादयिते / शुचित्वं साध्यधर्मः / स च साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धशुचित्वेन निराक्रियत इति / आह / इह हेतुदृष्टान्तोपादानं किमर्थमुच्यते? / लोकस्थितेर्बलीयस्त्वख्यापनार्थम् / नानुमानेनापि लोकप्रसिद्धिर्बाध्यत इत्यर्थः // स्ववचनविरुद्धो यथा / माता मे वन्ध्या इति / इह च माता साध्यधर्मित्वेनोपात्ता / वन्ध्येति च साध्यधर्मः / स च साध्यमानस्तत्रैव धर्मिणि स्ववचनप्रसिद्धेन मातृत्वेन विरुद्ध्यते / विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते वन्ध्याशब्देन तद्विपरीता / ततश्च यदि माता कथं वन्ध्या? वन्ध्या चेत्कथं मातेति? // तथा अप्रसिद्धविशेषणो यथा / बौद्धस्य सांख्यं प्रति विनाशी शब्दे इति / न प्रसिद्धमप्रसिद्धम् / विशिष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम् / ततश्चाप्रसिद्धं विशेषणं यस्मिन् स तथाविधः / एवं शेषेप्यक्षरगमनिका कार्येति / अत्र च शब्द इति निर्देशः / विनाशीति साध्यधर्मः / अयं च बौद्धस्य सांख्यं प्रति अप्रसिद्धिविशेषणः / न हि तस्य सिद्धान्ते किंचिद्विनश्वरमस्ति / यत उक्तम्- तदेतत्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् / अपेतमप्यस्ति विनाशप्रतिषेधादित्यादि [यागसूत्र- ३, १३ व्यासभाष्य] / आह / यद्येवं न कश्चित्पक्षाभासो नामास्ति / तथाहि- विप्रतिपत्तौ इष्टार्थसिद्ध्ये ऽनुमानप्रयोगः / विप्रतिपत्तिरेव चैतद्दोषकर्त्रीति कृतो ऽनुमानम् / अत्रोच्यते / न विप्रतिपत्तिमात्रं तद्दोषकर्तृ युक्तिविरुद्धत्वात् / तथाहि- उपपत्तिभिर्दृष्टान्तसाधने कृते ऽनुमानप्रयोगः इष्टार्थसिद्धये भवति / नान्यथा / पुनः साधनापेक्षत्वात् / अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति / अप्रसाधिते तु पक्षाभासः / इति कृत प्रसङ्गेन // तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति / तत्र विशेष्यो धर्मीत्यनर्थान्तरम् / इह चात्मा धर्मी / चेतनत्वं साध्यधर्मः / इति पक्षः सांख्यस्य बौद्धं प्रति अप्रसिद्धविशेष्यः / आत्मनो ऽप्रसिद्धत्वात् / सर्वे धर्मा निरात्मान इत्यभ्युपगमात् /
SK
आक्षेपपरिहारौ पूर्ववत् // तथा अप्रसिद्धोभयो यथा / वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मा इति / उभयं धर्मधर्मिणौ / तत्रात्मा धर्मी / सुखादिसमवायिकारणत्वं साध्यधर्मः / वैशेषिकस्य हि कारणत्रयात्कार्यं भवति / तद्यथा- समवायिकारणात् असमवायिकारणात् निमित्तकारणाच्च / तथाहि- तन्तवः पटस्य समचायिकारणं तन्तुसंयोगो ऽसमवायिकारणं तुरीवेमादयस्तु निमित्तकारणम् / इत्थमात्मा सुखदुःखेच्छादीनां समवायिकारणम् / आत्ममनःसंयोगो ऽसमवायिकारणम् / स्रक्चन्दनादयो निमित्तकारणम् / इत्येवं वैशेषिकस्य बौद्धं प्रति अप्रसिद्धोभयः / न तस्यात्मा विशेष्यः सिद्धो नापि समवायिकारणं विशेषणम् / सामग्र्या एव जनकत्वाभ्युपगमात् / आक्षेपपरिहारौ पूर्ववत् // तथा प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति / प्रसिद्धो वादिप्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धो धर्मधर्मिलक्षणो यस्मिन् स तथाविधः / इह शब्दो धर्मी श्रावणत्वं साध्यधर्मः / उभयं चैतत् वादिप्रतिवादिनोः प्रसिद्धम् / एषां वचनानि इत्यादि / एषामिति नवानामपि परमार्शः / वचनानि / प्रतिज्ञादोषा इति संबन्धः कारणमाह / धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम् / स्वं च तद्रूपं च स्वरूपमित्यर्थः / निराक्रियते ऽनेनेति निराकरोतीति वा निराकरणम् / प्रतिषेधनमित्यर्थः / धर्मस्वरूपस्य निराकरणं तत्तथा मुखमिव मुखं द्वारमिति भावः / धर्मस्वरूपनिराकरणमेव मुखं तेन धर्मस्वरूपनिराकरणमुखेन धर्मयाथात्म्यप्रतिषेधद्वारेणेत्यर्थः / प्रतिषिध्यते चाश्रावणः शब्दः / इत्येवमादिषु पञ्चसु प्रत्यक्षादिप्रसिद्धं धर्मयाथात्म्यमिति भावना / तथा प्रतिपादनासंभवतस्त्रयाणाम् / तत्र प्रतिपाद्यते ऽनेन प्रतिपादयतीति वा प्रतिपादनम् / परमप्रत्यायनमिति हृदयम् / तस्यासंभवः प्रतिपादनासंभवः तस्मात् प्रतिपादनासंभवतः / न च दृष्टान्ताद्यप्रतिपत्तौ प्रतिपादनं संभवति / तथा साधनवैफल्यतश्चैकस्य / विफलस्य भावो वैफल्यं साधनस्य वैफल्यं साधनवैफल्यं तस्मात्साधनवैफल्यतः / च समुच्चये / ततश्च एषां वचनानि / प्रतिज्ञादोषाः / प्रतिज्ञापक्ष इत्यनर्थान्तरम् / दोषाभास इति च तुल्यम् / इत्यभिहिताः पक्षाभासाः //
SK
सांप्रतं हेत्वाभासानभिधित्सुराह / असिद्धानैकान्तिकविरुद्धा हेत्वाभासाः / असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धानैकान्तिकविरुद्धाः / हेतुवदाभासन्ते इति हेत्वाभासाः / यथोद्देशं निर्देश इति न्यायमङ्गीकृत्यासिद्धप्रतिपिपादयिषयाह / तत्रासिद्धश्चतुःप्रकारः / तत्र एषु असिद्धादिषु / असिद्धः सिध्यति स सिद्धः प्रतीतः न सिद्धः असिद्धः अप्रतीतः / चतुःप्रकारश्चतुर्भेदः / प्रकारान्दर्शयति / तद्यथा / उभयासिद्ध इत्यादि / तद्यथेति पूर्ववत् / उभयोर्वादिप्रतिवादिनोः असिद्ध उभयासिद्धः // अन्यतरस्य वादिनः प्रतिवादिनो वा असिद्ध अन्यतरासिद्धः // संदिह्यते स संदिग्धः / संदिग्धत्वादेवासिद्धः संदिग्धसिद्धः // आश्रयो धर्मी सो ऽसिद्धो यस्यासौ आश्रयासिद्धः / च समुच्चये / इतिशब्दः परिसमाप्त्यर्थः // इदानीमुदाहरणान्याह / तत्र शब्दानित्यत्वे इत्यादि / तत्रेति पूर्ववत् / शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्येतस्मिन् चाक्षुषत्वादिति /
SK
चक्षुरिन्द्रियग्राह्यश्चाक्षुषस्तद्भावश्चाक्षुषत्वम् / तस्मादित्ययं हेतुरुभयासिद्धः / तथाहि- चाक्षुषत्वं न वादिनः प्रसिद्धं नापि प्रतिवादिनः / श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य // कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः / शब्दनित्यत्वे साध्ये इति / वर्तते कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं वा प्रत्यन्यतरासिद्धः / तथाहि- न तस्य ताल्वोष्ठपुटादिभिः क्रियते शब्दः किंत्वभिव्यज्यत इति // तथा बाष्पादिभावेनेत्यादि / बाष्पो जलादिप्रभवः स आदिर्यस्य रेणुवर्त्यादेः स बाष्पादिस्तस्य भावः सत्ता तेन बाष्पादिभावेन / संदिह्यमानः किमयं धूम उत बाष्प उत रेणुवर्तिरिति संदेहमापद्यमानः / भूतसंघातः सूक्ष्मः क्षित्यादिसमूहः / किम्? / अग्नेः सिद्धिरग्निसिद्धिस्तस्यामग्निसिद्धौ / अग्निरत्र थूमादिति उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः / निश्चितो हि धूमो धूमत्वेन हुतवहं गमयति नानिश्चित इति / तथा द्रव्यमाकाशमित्यादि / आकाश इति धर्मिनिर्देशः / द्रव्यमिति साध्यो धर्मः / गुणाश्चास्य षट् / तद्यथा / संख्या परिमाणं पृथक्त्वं संयोगो विभागः शब्देश्चेति //
SK
तत्र गुणानामाश्रयः गुणाश्रयस्तद्भावस्तत्त्वं तस्मात् गुणाश्रयत्वादिति / अयं हेतुराकाशासत्त्ववादिनं बौद्धं प्रत्याश्रयासिद्धः / धर्मिण एवासिद्धत्वात् / तथा च तस्यायं सिद्धान्तः / पञ्च इमानि भिक्षवः संज्ञामात्रं संवृतिमात्रं प्रतिज्ञामात्रं व्यवहारमात्रं कल्पनामात्रम् / कतमानि पञ्च / अतीतः अद्धा अनागतः अद्धा प्रतिसंख्यानिरोधः आकाशं पुग्दल इति / ननु चान्यो ऽप्यस्ति असिद्धः स च द्विधा / प्रतिज्ञार्थैकदेशासिद्धः / यथा अनित्यः शब्दो ऽनित्यत्वात् / अव्यापकासिद्धश्चेति / यथा सचेतनास्तरवः स्वापात् / स कस्मान्नोक्तः / आचार्य आह / अन्तर्भावात् / क्व पुनरन्तर्भाव इति चैत् उभयासिद्धे / तस्माददोषः / आह / यद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धो ऽन्यतरासिद्धश्चेति / शेषद्वयस्यात्रैवान्तर्भावात् / तथा चान्यैरप्युक्तम्-
SK
असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा //
SK
इत्यादि / नैतदेवम् / धर्म्यसिद्धिहेतुसंदेहोपाधिद्वारेण भेदविशेषस्य सिद्धेः / विनेयव्युत्पत्तिफलत्वाच्च शस्त्रारम्भस्य / पर्याप्तं विस्तरेणोक्तो ऽसिद्धः // सांप्रतम् अनैकान्तिकः उच्यते / स च षट्प्रकारः षड्विधः / एकान्ते भव ऐकान्तिकः / न ऐकान्तिकौ ऽनैकान्तिकः / षट् प्रकारा अस्येति षट्प्रकारः षड् विधैत्यर्थः // भेदानेवाह / साधारण इत्यादि / अन्वर्थम् / इत्युदाहरणमेव वक्ष्यामः / तत्र साधारणः प्रभेयत्वान्नित्य इति / तत्रेति पूर्ववत् / द्वयोर्बहूनां वा यः सामान्यः स साधारणः / प्रमीयते इति प्रमेयो ज्ञेय इत्यर्थः तद्भावः प्रमेयत्वं तस्मात्प्रमेयत्वात् प्रमाणपरिच्छेद्यत्वात् / नित्य इत्यत्र शब्दाख्यो धर्मी गम्यते / इदं च सपक्षेतराकाशघटादिभावेन साधारणत्वात् संशयनिमित्तमिति / आह च / तद्धि नित्यानित्येत्यादि / तत् प्रमेयत्वं धर्मः / हि रूपप्रदर्शने / नित्यश्चानित्यश्च नित्यानित्यौ नित्यानित्यौ च तौ पक्षौ च नित्यानित्यपक्षौ / तयोर्नित्यानित्यपक्षयोरित्यर्थः / किम्? / साधारणत्वात् तुल्यवृत्तित्वादनैकान्तिकम् / प्रयोग एव दर्शयति / किं घटवत् प्रमेयत्वादनित्यः शब्दः आहोस्विदाकाशवत् प्रमेयत्वान्नित्य इति प्रकटार्थं दर्शयति / अहो नायं संशयहेतुः / एतत्प्रयोगमन्तरेण प्रागेव संशयस्य भावात् / तद्भावभावित्वानुपपत्तेः / उक्तं च /
SK
अनैकान्तिकभेदाश्च नैव संशीतिकारणम् / संदेहे सति हेतूक्ते सद्भावस्याविशेषतः //
SK
इत्यादि / नैतदेवम् / संशयस्याविवक्षितत्वात् / तमन्तरेणापि प्रयोगोपपत्तेश्च / क्रियते च विपर्यस्तमतिप्रभृतिप्रतिपत्त्यर्थमपि प्रयोगः / तत्रापि संशयहेतुत्वादनैकान्तिकामिति // असाधारणः श्रावणत्वान्नित्य इत्यादि / साधारणविलक्षणः असाधारणः असामान्यः पक्षधर्मः सन् सपक्षविपक्षाभ्यां व्यावृत्त इत्यर्थः / उदाहरणमाह / श्रावणत्वान्नित्य इति / श्रवणेन्द्रियग्राह्यः श्रावणस्तद्भावः श्रावणत्वं तस्मात् / नित्यः अविनाशी / शब्द इति गम्यते / तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि विपक्षे घटादौ वर्तत इति संशयनिमित्तम् / अत एवाह / तद्धीत्यादि / तत् श्रावणत्वम् / हि रूपप्रदर्शने नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् / संशयहेतुरिति योगः / अन्यत्र वर्तिष्यत इतीदमपि निराकुर्वन्नाह / नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् / यदस्ति तेन नित्येन वा भवितव्यमनित्येन वा नान्यथा / विरोधादतिप्रसंगाच्च / अतः संशयहेतुः संशयकारणम् / कथमित्याह / किंभूतस्येत्यादि / किंप्रकारस्य किं नित्यस्याहोस्विदनित्यस्यास्येति / प्रस्तुतस्य शब्दस्य श्रावणत्वमित्येतदुक्तं भवति / यदि तदन्यत्र नित्ये वानित्ये वोपलब्धं भवति ततस्तब्दलेनेतरत्रापि निश्चयो युज्यते नान्यथा / विपर्यकल्पनाया अप्यन्यनिवारितप्रसरत्वात् / इत्यत्र बहु वक्तव्यम् / अलं प्रसङ्गेन / आक्षेपपरिहारौ पूर्ववत् / एवं शेषेष्वपि भावनीयमिति // सपक्षैकदेशवृत्तिरित्यादि / समानः पक्षः सपक्षः तस्यैकदेशः सपक्षैकदेशः तस्मिन्वृत्तिरस्येति सपक्षैकदेशवृत्तिः / तथा विसदृशः पक्षो विपक्षस्तं व्याप्तुं शीलमस्येति विपक्षव्यापी / उदाहरणमाह / यथा / अप्रयत्नानन्तरीयकः शब्दो नित्यत्वादिति / शब्दो धर्मी / अप्रयत्नानन्तरीयकत्वं साध्यो धर्मः / अनित्यत्वादिति हेतुः / तत्र अप्रयत्नानन्तरीयकः पक्षः / अप्रयत्नानन्तरीयको ऽर्थः / अस्य साध्यविद्युदाकाशादिपदार्थसंघातः किम्? / सपक्षः / तत्रैकदेशे विद्युदादौ वर्तते ऽनित्यत्वं नाकाशादौ / नित्यत्वात्तस्य / तथा अप्रयत्नानन्तरीयकः पक्षो ऽस्य घटादिर्विपक्षः / तत्र सर्वत्र घटादौ विद्यते ऽनित्यत्वम् / प्रयत्नान्तरीयकस्यानित्यत्वात् / यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्घतसाधर्म्येण विद्युद्घतुल्यतयानिकान्तिकम् / भावनिकामाह / किं घटवत् अनित्यत्वात् प्रयत्नानन्तरीयकः / शब्दः आहोस्विद्विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति /
SK
प्रकटार्थम् // विपक्षैकदेशवृतिः सपक्षव्यापी / समासः सुकर एव / उदाहरणमाह / यथा प्रयत्नानन्तरीयकः शब्दो ऽनित्यत्वात् / प्रयत्नानन्तरीयकः पक्षो ऽस्य घटादिः सपक्षः / तत्र सर्वत्र घटादौ विद्यते ऽनित्यत्वम् / प्रयत्नानन्तरीयकः पक्षो ऽस्य विद्युदाकाशादिर्विपक्षः / तत्रैकदेशे विद्युदादौ विद्यते ऽनित्यत्वम् / नाकाशादौ / तस्मादेतदपि विद्युद्घटसाधर्म्येण पूर्ववदनैकान्तिकम् इति सूत्रार्थः / उक्तवैपरीत्येन स्वधिया भावनीयमिति // उभयपक्षैकदेशवृत्तिः / उभयपक्षयोः सपक्षविपक्षयोरेकदेशवृत्तिरस्येति उभयपक्षैकदेशवृत्तिः / उदाहरणमाह / यथा नित्यः शब्दो ऽमूर्तत्वादिति // नित्यः पक्षो ऽस्याकाशपरमाण्वादिः सपक्षः / तत्रैकदेश आकाशार्दो विद्यते ऽमूर्तत्वं न परमाण्वादौ / अनित्यः पक्षो ऽस्य घटसुखादिर्विपक्षः / तत्रैकदेशे सुखादौ विद्यते ऽमूर्तत्वं न घटादौ / तस्मादेतदपि सुखाकाशसाधर्म्येणानैकान्तिकम् / एतदपि सूत्रं निगदसिद्धम् / तथा विरुद्धाव्यभिचारी / अधिकृतहेत्वनुमेयविरुद्धार्थसाधको विरुद्धः / विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी / उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः / ततश्चानेन प्रतियोगिसाध्यमपाकृत्य हेतुप्रयोगः कर्तव्य इत्येतदाह / अन्ये तु विरुद्धश्चासावव्यभिचारी च विरुद्धाव्यभिचारीति व्याचक्षते / इदं पुनरयुक्तमेव / विरोधादनेकान्तवादापत्तेश्च / उदाहरणमाह / यथानित्यः शब्दः कृतकत्वाद् घटवत् / नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् / उभयोः संशयहेतुत्वात् द्वावप्येतावेको ऽनैकान्तिकः समुदितावेव / अनित्यः शब्दः कृतकत्वाद्घटवदिति वैशेषिकेणोक्ते मीमांसक आह / नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् / शब्दत्वं हि नाम वेणुवीणामृदङ्गपणवादिभेदभिन्नेषु सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं नित्यमिति / उभयोः संशयहेतुत्वादिति / एकत्र धर्मिणि उभयोः कृतकत्वश्रावणत्वयोः संशयहेतुत्वात् संदेहहेतुत्वा / तथा चैकत्र धर्मिणि कृतकत्वश्रावणत्वाख्यौ हेतु संदेहं कुरुतः किं कृतकत्वाद्घटवदनित्यः आहोस्विच्छ्रावणत्वाच्छब्दत्ववन्नित्यः इति / एवं संदेहहेतुत्वे प्रतिपादिते परश्चोदयति किं समस्तयोः संदेहहेतुत्वम् उत व्यस्तयोः /
SK
यदि समस्तयोः संदेहहेतुत्वं तदासाधारणान्न भिद्यते / श्रावणत्वं चासाधारणत्वेनोक्तम् / अथ व्यस्तयोस्तदपि न / व्यस्तयोः सम्यग्धेतुत्वात् / अत्रोच्यते / समस्तयोरेव संदेहहेतुत्वम् / ननूक्तम् असाधारणान्न भिद्यते / तन्न / यतो भिद्यत एव / परस्परसापेक्षो विरुद्धाव्यभिचारी चेति / एककः असहायो ऽसाधारणः / स चानेनांशेनाचार्येण भिन्न उपात्त इति तस्माददोषः / उक्तं च मूलग्रन्थे द्वावप्येतावेको ऽनैकान्तिकः समुदितावेव / अनुद्भाविते तु तदभाव इति / अत्र बहु वक्तव्यम् / तत्तु नोच्यते / संक्षेपरुचिसत्त्वानुग्रहार्थो ऽयमारम्भः / इत्युक्तो ऽनैकान्तिकः // सांप्रतं विरुद्धमाहः विरुद्धश्चतुःप्रकार इत्यादि / विरुध्यते स विरुद्धः / तथा ह्ययं धर्मस्वरूपादिविपरीतसाधनार्द्धर्मेण धर्मिणा वा विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः / तद्यथा / धर्मस्वरूपविपरीतसाधन इत्यादि / तद्यथेति भेदोपन्यासार्थः / शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः / तत्र धर्मेत्यादि / तत्र धर्मस्वरूपविपरीतसाधनो यथा नित्येति पूर्ववत् / धर्मः पर्याय इत्यनर्थान्तरम् / तस्य स्वरूपमसाधारणामात्मलक्षण धर्मस्वरूपं तस्य विपरीतसाधन इति समासः / एवं शेषेष्वपि द्रष्टव्यमिति / अधुनोदाहरणमाह / यथा नित्य शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावद्विरुद्धः / अत्र धर्मस्वरूपनित्यत्वम् / अयं च हेतुविपरीतमनित्यत्वं साधयति / तेनैवाविनाभूतत्वात् / तथा चाह / विपक्ष एव भावाद्विरुद्धः / आह अयमपक्षधर्मत्वादसिद्धान्न विशिष्यते कथं विरुद्ध इति? / अत्रोच्यते / नावश्यं पक्षधर्म एव विरुद्धता अन्यथाप्याचार्यप्रवृत्तेः / अधिकृतयोगज्ञापकात् / न चायमसिद्धान्न विशिष्यते इति /
SK
विपर्ययसाधकत्वेनासिद्धेः / एतत्प्रधानत्वाच्चोपन्यासस्य / अन्यथानैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः / नित्यत्वादिसाधनत्वेन प्रमेयत्वादीनामपि असिद्धत्वात् / इत्यलं प्रसङ्गेन / गमनिकामात्रमेतत् / धर्मविशेषविपरीतसाधन इत्यस्योदाहरणं यथा परार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवत् इति / कः पुनरेवमाह? / सांख्यो बौद्धं प्रति / इह चक्षुरादयो धर्मिणः / आदिशब्दात् शेषेन्दियमहदहंङ्कारादिपरिग्रहः / पारार्थ्यं साध्यधर्म / अस्य च विशेषो ऽसंहतपरार्थत्वमिष्टम् / अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैकल्यप्रसङ्गः / संघातत्वादिति हेतुः / तत्र द्वयोर्बहूनां वा मेलकः संघातस्तस्य भावः संघातत्वं तस्मात्संघातत्वात् / शयनासनाद्यङ्गवदिति दृष्टान्तः / शयनं पल्यङ्कादि / आसनमासन्दकादि / तदङ्गानि प्रतीतान्येव / यथैतदङ्गानि संघातत्वाद्देवदत्तादिपरार्थानि वर्तन्ते एवं चक्षुरादयो ऽपीति भावार्थः / अधुना विरुद्धमाह /
SK
अयमित्यादि / अयं हेतुः संघातत्वलक्षनो यथा येन प्रकारेण पारार्थ्यं परार्थभावं चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः साधयति / तेनाप्यविनाभूतत्वात् / तथा चाह / उभयत्राव्यभिचारात् / उभयत्रेति परार्थे संहतत्वे च अव्यभिचाराद् गमकत्वादित्यर्थः / तथा चैवमपि वक्तुं शक्यत एव संहतपरार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यङ्गवदिति / शयनासणाद्यङ्गानि हि संहतस्य करचरणोरुग्रीवादिमत एवार्थं कुर्वन्ति नान्यस्य / तथोपलब्धेरिति / आह विपक्ष एव भावाद्विरुद्ध इति सामान्यं विरुद्धलक्षणं तत्कथमिहोपपद्यते? इति / उच्यते / असंहतपरविपक्षो हि संहत इति तत्रैव वृत्तिदर्शनात् / किं नोपपद्यते? / आक्षेपपरिहारौ पूर्ववत् // धर्मिस्वरूपविपरीतेत्यादि / धर्मा अस्य विद्यन्ते इति धर्मी / उदाहरणं तु यथा न द्रव्यमित्यादि / कः पुनरेवमाह? / वैशेषिको बौद्धान्प्रति / केन पुनः संबन्धेन? इति / उच्यते / तस्य सिद्धान्तो द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट्पदार्थाः /
SK
ततः पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति द्रव्याणि / गुणाश्चतुर्विशतिः / रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखेच्छाद्वेषाः प्रयत्नश्चेति सूत्रोक्ताः / चशब्दात् द्रवत्वं गुरुत्वं संस्कारः स्नेहो धर्माधर्मौ शब्दश्चेति / एवं चतुर्विशति र्गुणाः / पञ्च कर्माणि / तद्यथा उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि / गमनग्रहणाब्ध्रमणरेचनस्पन्दनाद्यवरोधः / सामान्यं द्विविधं परमपरं चेति / तत्र परं सत्ता भावो महासामान्यमिति चोच्यते / अपरं द्रव्यत्वादि / तत्र सत्ता द्रव्यगुणकर्मभ्यो ऽर्थान्तरम् / कथापुनर्युक्त्या? इत्यत्राह / न द्रव्यं भावः एकद्रव्यवत्त्वादिति हेतुः / सामान्यविशेषवदिति दृष्टान्तः / अधुना भावार्थ उच्यते / न द्रव्यं भावः / द्रव्यादन्य इत्यर्थः / एकद्रव्यवत्त्वादित्यत्र एकं च तद्द्रव्यं च एकद्रव्यमस्यास्तीति आश्रयभूतमिति एकद्रव्यवान् /
SK
समानाधिकरणाब्दहुव्रीहिः कदाचित्कर्मधारयः सर्वधनाद्यर्थ इति वचनात् / तद्भावस्तत्त्वं तस्मादेकद्रव्यवत्त्वात् / एकस्मिन्द्रव्ये वर्तमानत्वादित्यर्थः / वैशेषिकस्य हि अद्रव्यं द्रव्यं अनेकद्रव्यं च द्रव्यम् / तत्राद्रव्यं द्रव्यमाकाशकालदिगात्मनः परमाणवः / अनेकद्रव्यं तु द्वयणुकादिस्कन्धाः / एकद्रव्यं तु द्रव्यमेव नास्ति / एकद्रव्यवांश्च भावः / इत्यतो द्रव्यलक्षणविलक्षणत्वात् न द्रव्यं भाव इति / दृष्टान्तः सामान्यविशेषः / स च द्रव्यत्वगुणत्वकर्मत्वलक्षणः / द्रव्यत्वं हि नवसु द्रव्येषु वर्तमानत्वात्सामान्यं गुणकर्मभ्यो व्यावर्तमानत्वाद्विशेषः / एवं गुणत्वकर्मत्वयोरपि भावना कार्येति / ततश्च सामान्यं च तद्विशेषश्च स इति सामान्यविशेषस्तेन तुल्यं वर्तत इति सामान्यविशेषवत् / द्रव्यत्ववदित्यर्थः / ततश्चैतदुक्ते भवति / यथा नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावो ऽपीत्यभिप्रायः / आह यदि नाम द्रव्यं न भवति तथापि गुणोभविष्यति कर्म च इत्येतदपि निराचिकीर्षुराह / गुणकर्मसु च भावात् / ततश्च न गुणो भावः गुणेषु भावाद् गुणत्ववत् / यदि च भावो गुणः स्यान्न तर्हि गुणेषु वर्तेत निर्गुणत्वाद् गुणानाम् / वर्तते च गुणेषु भावः / सन् गुण इति प्रतीतेः / तथा न कर्म भावः कर्मसु भावात्कर्मत्ववत् / यदि च भावः कर्म स्यात् न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात्कर्मणाम् / वर्तते च कर्मसु भावः / सत्कर्मेति प्रतीतेः / व्यत्ययोपन्यासस्तु प्रतिज्ञाहेत्वोर्विचित्रन्यायप्रदर्शनार्थम् / इत्येवं वैशेषिकेणोक्ते बौद्ध आह / अयं च हेतुस्त्रिप्रकारो ऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा भावस्य धर्मिणो ऽभावत्वमपि साधयति /
SK
तेनाप्यविनाभूतत्वात् / तथा चाह / उभयत्राव्यभिचारात् / उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात् / तथा च / यतथैद्बक्तुं शक्यते न द्रव्यं भावः एकद्रव्यत्वात् द्रव्यत्ववत् एवमिदमपि शक्यते भावो भाव एव न भवति एकद्रव्यत्वात् द्रव्यत्ववत् / न च द्रव्यत्वं भावः सामान्यविशेषत्वात् / एवं न गुणः गुणेषु भावात् गुणत्ववत् / अत्रापि भावो भाव एव न भवति गुणेषु भावात् गुणत्ववत् / न च गुणत्वं भावः सामान्यविशेषत्वादेव / एवं न कर्म भावः कर्मसु भावात् कर्मत्ववत् अत्रापि भावो भाव एव न भवति कर्मसु भावात् कर्मत्ववत् / न च कर्मत्वं भावः सामान्यविशेषत्वात् / सामान्यविरुद्धलक्षणयोजना तु भावविपक्षत्वात्सामान्यविशेषस्य सुकरैव / आह अयमसिद्धान्न विशिष्यते इति कथं विरुद्धः? / तथाहि / न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम् / तदभावाच्चश्रयासिद्ध एव हेतुरिति / अत्रोच्यते सत्यमेतत् / किंतु परप्रसिद्धो ऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात् / एकस्मिन्नपि चानेकदोषजात्युपनिपातनात् तद्भेददर्शनार्थत्वान्न दोष इति / आह एवमविरुद्धभावः सर्वत्र विशेषविरुद्धभावादिति / न / विरोधिनो ऽधिकृतहेत्वन्वितदृष्टान्तबलेनैव निवृतेः / तथाप्यनित्यः शब्दः पाक्यत्वाद्घतवत् पाक्यः शब्द इति विरुद्धप्रेरणायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्तरसामर्थ्यात्तन्निवृत्त्या न विरुद्धता / अनिवृत्तौ चाभ्युपगम्यत एव /
SK
अशक्या चेह तन्निवृत्तिरेकद्रव्यवत्वस्य तद्व्यतिरेकेणान्यत्रावृत्तेरिति / अत्र बहु वक्तव्यम् / अलं प्रसङ्गेन // धर्मिविशेषविपरीतसाधनो यथा / धर्मी भाव एव तद्विशेषः सत्प्रत्ययकर्तृत्वम् / यत उक्तं सदिति यतो द्रव्यगुणकर्मसु सा सत्ता / तद्विपरीतसाधनो यथा / अयमेव हेतुरेकद्रव्यवत्त्वाख्यः अस्मिन्नेव पूर्वपक्षे न द्रव्यं भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरितमसत्प्रत्ययकर्तृत्वमपि साधयति / तेनापि व्याप्यत्वात् / तथा ह्येतदपि वक्तुं शक्यत एव भावः सत्प्रत्ययकर्ता न भवति एकद्रव्यवत्त्वाद्रव्यत्वत् / न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात् / एवं गुणकर्मभावहेत्वोरपि वाच्यम् / अत एवमुक्तम्- उभयत्राव्यभिचारादिति / भावितार्थमेव / आक्षेपपरिहारौ पूर्ववत् //
SK
उक्ता हेत्वाभासाः / सांप्रतं दृष्टान्ताभासानामवसरः / ते उच्यन्ते / तत्र यथा दृष्टान्तो द्विविधः एवं मूलभेदव्यपेक्षया तदाभासो ऽपि तथा / आह / दृष्टान्ताभसो द्विविधः / साधर्म्येण वैधर्म्येण च / दृष्टान्त उक्तलक्षणः / दृष्टान्तवदाभास इति दृष्टान्ताभासः / दृष्टान्तप्रतिरूपक इत्यर्थः / तत्र साधर्म्येण तावद्दृष्टान्ताभासः पञ्चप्रकारः पञ्चभेदः तद्यथा / साधनधर्मासिद्ध इत्यादि / तद्यथेति भेदोपदर्शनार्थः / साधनधर्मो हेतुरसिद्धो नास्तीत्युच्यते / ततश्च साधनधर्मो ऽसिद्धो ऽस्मिन् सो ऽयं साधनधर्मासिद्धः / न तु बहुब्रीहौ निष्ठान्तं पूर्वं निपततीति कृत्वासिद्धसाधनधर्मा इति / न वाहिताग्न्यादिषु वचनात् / आहिताग्न्यादेश्चाकृतिगणत्वाद्विकल्पवृत्तेरिति / अन्ये तु साधनधर्मेण रहितत्वादसिद्धः साधनधर्मासिद्धः इति व्याचक्षते / न चैतदतिशोभनम् / एवं साध्योभयधर्मासिद्धयोरपि भावनीयम् / अन्वयादिशब्दार्थं तूदाहरणाधिकारे वक्ष्यामः / स चावसरः प्राप्त एवेति यथाक्रमं निर्दिश्यते / तत्र साधनधर्मासिद्धो यथा / नित्यः शब्दो ऽमूर्तत्वात् / यथेत्युदाहरणोपन्यसार्थः / नित्यः शब्द इति प्रतिज्ञा पक्षः / अमूर्तत्वादिति हेतुः / अन्वयमाह /
SK
यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तत्वम् / एतदाभासानामेव प्रक्रान्तत्वात् / नार्थो वैधर्म्येणेति न प्रदर्शितः / अयं च साध्यसाधनधर्मानुगत इष्यते / इह तु साध्यधर्मो ऽस्ति न साधनधर्मः / तथा चाह / परमाणौ हि साध्यं नित्यत्वमस्ति / अन्त्यकारणत्वेन नित्यत्वात् / साधनधर्मो ऽमूर्तत्वं नास्ति / कुतः / मूर्तत्वात् परमाणुनाम् / मूर्तत्वं च मूर्तिमत्कार्यघटाद्युपलब्धेः सिद्धमिति // साध्यधर्मासिद्धो यथा / नित्यः शब्दो ऽमूर्तत्वाद् बुद्धिवदिति / यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः / बुद्धौ हि साधनधर्मो ऽमूर्तत्वस्ति साध्यधर्मो नित्यत्वं नास्ति अनित्यत्वाद्बुद्धोरिति सूत्रप्रयोगः सुगम एव / व्याप्तिं दर्शयति / यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः / आह कथमयं साध्यधर्मासिद्ध? इति / अत्राह / बुद्धौ हि साधनधर्मो ऽमूर्तत्वमस्ति / तदमूर्तत्वप्रतीतेः / साध्यधर्मो नित्यत्वं नास्ति / कुतः? / अनित्यत्वाद्बुद्धेरिति // उभयासिद्धो द्विविधः / कथम्? इत्यत्राह / सन्नसंश्चेति / सन्निति विद्यमानोभयासिद्धः / ततश्च असन्निति अविद्यमानोभयासिद्धः / प्रयोगो मौल एव द्रष्टव्यः / यत आह / तत्र घटवदीति विद्यमानोभयासिद्धः / ततश्च नित्यः शब्दो ऽमूर्तत्वाद्घटवदित्यत्र न साध्यधर्मो नित्यत्वलक्षणः नापि साधनधर्मो ऽमूर्तत्वलक्षणो ऽस्ति अनित्यत्वान्मूर्तत्वाद्घटस्येति / तथाआकाशवदित्यविद्यमानोभयासिद्धः / ततश्च नित्यः शब्दो ऽमूर्तत्वादाकाशवदिति /
SK
नन्वयमुभयसब्धावात्कथमुभयासिद्ध इत्याशङ्कयाह / तदसत्त्ववादिनं प्रति / आकाशासत्त्ववादिनं बौद्धं प्रति / सांख्यस्येत्यर्थः / सति हि तस्मिन्नित्यत्वादिधर्मचिन्ता नान्यथेति // अनन्वय इत्यादि / अविद्यमानो ऽन्वयो ऽनन्वयः / अप्रदर्शितान्वय इत्यर्थः / अन्वयो ऽनुगमो व्याप्तिरिति अनर्थान्तरम् / लक्षणमाह / यत्रेत्यादि / यत्रेत्यभिधेयमाह / विनान्वयेन विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः / सहभाव एकवृत्तिमात्रम् / प्रदर्श्यते कथ्यते आख्यायते / न वीप्सया साध्यानुगतेषु हेतुरिति / उदाहरणमाह / यथा घटे कृतकत्वमनित्यं च दृष्टमिति / घटः कृतकत्वानित्यत्वयोराश्रय इति / एवं सति आश्रयाश्रयिभावमात्राभिधानादन्यत्र व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः / विपरीतान्वय इत्यादि / विपरीतो विपर्ययवृत्तिरन्वयो ऽनुगमो यस्मिन् तथाविधः / उदाहरणमाह / यत्कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति / एवं प्राक्साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति / आह / एवमपि को दोषः? इति / उच्यते / न्यायमुद्राव्यतिक्रमः / अन्यत्र व्याप्तिव्यभिचारात् / यथा ह्यनित्यः शब्दः प्रयत्नान्तरीयकत्वादियत्र यद्यदनित्यं तत्तत्प्रयत्नान्तरीयकम् / अनित्यानामपि विद्युदादीनामप्रयत्नानन्तरीयकत्वात् / इत्यलं प्रसङ्गेन / अयं साधर्म्यदृष्टान्ताभासः समाप्तः // वैधर्म्येणापि / न केवलं साधर्म्येणैव / किम्? / दृष्टान्ताभासः / प्राङ्निरूपितशब्दार्थः / पञ्चप्रकारः / तद्यथा साध्याव्यावृत्त इत्यादि / तत्र साध्यं प्रतीतं तदव्यावृत्तस्मादिति साध्याव्यावृत्तः / आक्षेपपरिहारौ पूर्ववत् / एवं साधनोभयाव्यावृत्तयोरपि वक्तव्यम् / अव्यतिरेकादिशब्दार्थं तूदाहरणाधिकार एव वक्ष्यामः / स चावसरः प्राप्त एव // तत्र साध्याव्यावृत्तः यथा नित्यः शब्दो ऽमूर्तत्वात्परमाणुवत् / यथेत्युदाहरणोपन्यासार्थः / नित्यः शब्द इति प्रतिज्ञा / अमूर्तत्वादिति हेतुः / वैधर्म्यदृष्टान्ताभासस्य प्रक्रान्तत्वात्साधर्म्यदृष्टान्तो नोक्तः / अभ्यूह्यश्चाकाशादिः /
SK
वैधर्म्यदृष्टान्तस्तु परमाणुः / अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते / यत उक्तम् / साध्याभावे हेतोरभाव एव कथ्यते इत्यादि / न चायं तथेत्याह च / परमाणोर्हि सकाशात् / साधनधर्मो हेतुः / तमेव दर्शयति अमूर्तत्वमिति / व्यावृत्तं निवृत्तम् / कुतः? / मूर्तत्वात्परमाणुनाम् / साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम् / कुतः? / नित्यत्वात्परमाणूनाम् / आह / साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः इह साध्याव्यावृत्त इति किमर्थमुच्यते? / तस्यान्वयप्रधानत्वात् / अन्वयस्य च साधनधर्मपुरःसरसाध्यधर्मोच्चारणरूपत्वात् / व्यतिरेकस्तु उभयव्यावृत्तिरूपः साध्याभावे च हेतोरभाव इति / अतः साध्याव्यावृत्तः // तथा साधनाव्यावृत्तः कर्मवत् / प्रयोगः पूर्ववदेव /
SK
वैधर्म्यदृष्टान्तस्तु कर्म / तच्च उत्क्षेपणादि गृह्यते / तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम् / अनित्यत्वात्कर्मणः / साधनधर्मो हेतुः / तमेव दर्शयति अमूर्तत्वमिति / तन्न व्यावृत्तम् / अमूर्तत्वात्कर्मण इति // उभयाव्यावृत्तःआकाशवदिति / नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत् / वैधर्म्यदृष्टान्तस्त्वाकाशमिति / ततो हि आकाशात् / न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वम् / कुतः? / नित्यत्वादमूर्तत्वादाकाशस्येति // अव्यतिरेक इत्यादि / अविद्यमानव्यातिरेकः अव्यतिरेकः अनिदर्शितव्यतिरेक इत्यर्थः / लक्षणमाह / यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते / यत्रेत्यभिधेयमाह / विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्तं दृष्टमित्यादिलक्षणया / तद्विपक्षभावः साध्यसाधनविपक्षभावमात्रम् / निदर्श्यते प्रतिपाद्यते इति यावत् / दृष्टान्तमाह / यथा घटे ऽनित्यत्वं च मुर्तत्वं च दृष्टमिति / इत्थं ह्येकत्राभिधेयमात्राभिधानाद्वैधर्म्याप्रतिपादनादर्थापत्त्यापि गम्यते
SK
प्रतिपत्तिगौरवादिष्टार्थसाधकत्वमिति // विपरितव्यतिरेक इत्यादि / विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः / तमेव दर्शयति / यदनित्यमित्यादि / प्रस्तुतप्रयोग एव तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदेशयन् यदनित्यं तन्मूर्तं दृष्ट मिति वक्तव्ये यन्मूर्त तदनित्यं दृष्टमिति ब्रवीति / आह / एवमपि को दोषः? इति / उच्यते / अन्यत्र व्यभिचारः / तथा ह्यनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति / व्यतिरेको विद्युता व्यभिचारः // निगमयन्नाह / एषामित्यादि / यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि / किं न साधनम्? / आभासत्वादेव / किं तर्हि? / साधनाभासमिति // उक्तं साधनाभासम् //
SK
अधुना दूषणस्यावसरः / तच्चातिक्रम्य बहुतरवक्तव्यत्वात्प्रत्यक्षानुमाने तावदाह / आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे / प्रत्यक्षं वक्ष्यमाणलक्षणं अनुमानं च / असमासकरणं विभिन्नविषयज्ञापनार्थम् / स्वलक्षणविषयमेव प्रत्यक्षम् / सामान्यलक्षणविषयमेवानुमानम् / च समुच्चये / द्वे एव प्रमाणे इत्यनेन संख्यानियममाह / तथाहि बौद्धानां द्वे एव प्रमाणे प्रत्यक्षानुमाने / शेषप्रमाणानामत्रैवान्तर्भावात् / अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यते / अधुना प्रत्यक्षणिरूपणायाह / तत्र प्रत्यक्षमित्यादि / तत्रेति निर्धारणार्थः / प्रत्यक्षमिति लक्ष्यनिर्देशः / कल्पनापोढमिति लक्षणम् / अयं लक्ष्यलक्षणप्रविभागः / तत्र प्रतिगतमक्षं प्रत्यक्षम् / कल्पनापोढमिति / कल्पना वक्ष्यमाणलक्षणा सा अपोढा अपेता यस्मात् तत् कल्पनापोढम् / समासाक्षेपपरिहारौ पूर्ववत् / कल्पनयापोढं कल्पनाया वापोढं कल्पनापोढम् / यत् इति तत्स्वरूपनिर्देशः / एवंभूतं चार्थे स्वलक्षणमपि भवति / आह / ज्ञानं संवेदनम् / तच्च निर्विषयमपि भवति अत आह अर्थे विषये / स च द्विधा स्वलक्षणसामान्यलक्षणभेदात् / अत आह / रूपादौ स्वलक्षणे इत्यर्थः / इह यदुक्तं कल्पनापोढमिति तत्स्वरूपाभिधानत एव व्याचष्टे नामजात्यादिकल्पनारहितम् / तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् / तत्र नामकल्पना यथा डित्था इति / जातिकल्पना यथा गौरिति / आदिशब्देन गुणक्रियाद्रव्यपरिग्रहः / तत्र गुणकल्पना शुक्ल इति / क्रियाकल्पना पाचक इति / द्रव्यकल्पना दण्डीति / आभिः कल्पनाभी रहितं शब्दरहितम् / स्वलक्षणहेतुत्वात् / उक्तं च / न ह्यर्थे शब्दाः अन्ति तदात्मानो वा येन तस्मिन्प्रतिभासमाने ते ऽपि प्रतिभासेरन्नित्यादि / तदक्षमित्यादि / तदित्यनेन यन्निर्दिष्टस्य परामर्शः / अक्षाणीन्द्रियाणि /
SK
ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रतिवर्तत इति प्रत्यक्षम् / आह / यथेन्द्रियसामर्थ्याज्ज्ञानमुत्पद्यते तथा विषयसामर्थ्यादपि तत्कस्मादिन्द्रियेणैव व्यपदेशो न विषयेणेति? / अत्रोच्यते / असाधारणत्वादिन्द्रियस्य साधरणत्वाच्चार्थस्येति / तथा हि / इन्द्रियमिन्द्रियविज्ञानस्यैव हेतुरित्यसाधरणम् / अर्थस्तु मनोविज्ञानस्यापीति साधारणः / असाधारणेन च लोके व्यपदेशप्रवृत्तिर्यथा भेरीशब्दो यवाङ्कुर इति / उक्तं च भदन्तेन /
SK
असाधारणहेतुत्वादक्षैस्तद्यपरिश्यते इत्यादि / आह / मनोविज्ञानाद्यपि प्रत्यक्षमित्युक्तं न च तदनेन संगृहीतमिति कथं व्यापिता लक्षणस्य / उच्यते / कल्पनापोढं यत्तज्ज्ञानर्थे रूपादौ इत्यनेनार्थसाक्षात्कारित्वग्रहणान्मनोविज्ञानदेरपि तदव्यभिचारात्संगृहीतमेव तन्मानसम् / लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः / इति कृतं प्रसङ्गेण / गमनिकामात्रमेतत् // अनुमानमित्यादि / अनुमितिरमुमानम् / तच्च लिङ्गादर्थदर्शनमालिङ्गं पुनस्त्रिरूपमुक्तम् / पक्षधर्मत्वादि / तस्मात्रिरूपाल्लिङ्गाद्यदनुमेये ऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते किंविशिष्टम्? अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात् तदनुमानमिति / उदाहरणद्वयं तु वस्तुसाधनकार्यस्वभावाख्यहेतुद्वयख्यापनार्थम् / अधुना फलमाह / उभयत्रेत्यादि / उभत्र प्रत्येक्षे ऽनुमाने च / तदेव ज्ञानं प्रत्यक्षनुमानलक्षणम् / फलं कार्यम् / कुतः? / अधिगमरूपत्वात् / अधिगमः परिच्छेदस्तद्रूपत्वात् / तथाहि परिच्छेदरूपमेव ज्ञानमुत्पद्यते / न च परिच्छेदादृते अन्यज्ज्ञानं फलम् / भिन्नाधिकरणत्वात् / इत्यत्र बहु वक्तव्यम् अलं प्रसङ्गेन / सर्वथा न प्रत्यक्षानुमानाभ्यामन्यद्विभिन्नं फलमस्तीति / आह / यद्येवं प्रमाणाभावप्रसङ्गः / तब्धावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात् / प्रमाणाभावे च तत्फलस्याप्यभावः इति /
SK
तत्र प्रमाणाभावनिराचिकीर्षयाह / सव्यापारवत्ख्यातेः प्रमाणत्वमिति सह व्यापारेण विषयग्रहणलक्षणेन वर्तते इति सव्यापारम् / प्रमाणमिति गम्यते / सव्यापारमस्या विद्यत इति सव्यापारवती / ख्यातिरिति गम्यते / सव्यापारवती चासौ ख्यातिश्च सव्यापारवत्ख्यातिः प्रतीतिः / तस्याः सव्यापारवत्त्याः ख्यातेः प्रमाणत्वमिति / एतदुक्तं भवति / विषयाकारं ज्ञानमुत्पद्यमानं विषयं गृण्हदेवोत्पद्यते इति प्रतीतेः ग्राहकाकारस्य प्रमाणतेति / अन्ये तु संश्चासौ व्यापारः सद्व्यापारः प्रमाणव्यवस्थाकारित्वात्सन्नित्युच्यते / सो ऽस्या विद्यत इति सद्यापारवती शेषं पूर्ववत् व्याचक्षते / इत्युक्ते प्रत्यक्षानुमाने // अधुना प्रत्येक्षाभासमाह / कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् / एतदेव ग्रहणवाक्यं व्याचिख्यासुराह / यज्ज्ञानं घटः पट इति वा विकल्पयतः शब्दारोपितमुत्पद्यते / अर्थान्तरे सामान्यलक्षणे / तदर्थस्वलक्षणाविषयत्वात् / सामान्यलक्षणविषयत्वादित्यर्थः / उक्तं प्रत्यक्षाभासम् //
SK
सांप्रतमनुमानाभासमाह / हेत्वाभासपूर्वकं हेत्वाभासनिमित्तं ज्ञानमनुमानाभासम् / व्यभिचारात् / एतदेव व्याचष्टे / हेत्वाभासो हि बहुप्रकार उक्तः अस्ति वादिभेदेन / तस्मात् हेत्वाभासात् यदनुमेये ऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानम् अव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञस्य भवति तदनुमानाभासम् / इत्युक्तं प्रत्यक्षादिचतुष्टयम् // इदानीमुक्तशेषं दुषणमभिधातुकाम आह / साधनदोषोद्भावनानि दूषणानि / प्रमाणदोषप्रकटनानीत्यर्थः / बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञादिदोषाणां दूषणत्वात् / एतान्येव दशयीर्त / साधनदोषो न्यूनत्वम् / सामान्येन विशेषमाह / पक्षदोषः प्रत्यक्षदिविरुद्धत्वम् / प्रत्यक्षादिविरुद्धा प्रतिज्ञेत्येवमादि / हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम् / असिद्धो हेतुरित्येवमादि / एवं दृष्टान्तदोषाः साधनधर्माद्यसिद्धत्वम् / तस्योद्भावनमिति / तस्य प्रत्यक्षविरुद्धहेत्वादेः प्रकाशनं प्राश्निकप्रत्यायनं न तुद्भावनमात्रमेव / दूषणमिति सामान्येन दूषणजात्यनतिक्रमादेकवचनमिति / उक्तं दूषणम् // अधुना दूषाणाभासमाह / अभूतसाधनदोषोद्भावनानि दूषणाभासानि / अभूतमविद्यमानमेव तद्यतः साधनदोषं सामान्यनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातिदूषणाभासानि / एतदेव दर्शयति / संपूर्णे साधने अवयवे न्यूनत्ववचनम् / न्यूनमिदमित्येवंभूतम् / अदुष्टपक्षे पक्ष दोषवचनम् इत्यादि निगदसिद्धम् / यावद् एतानि दुषणाभासानि किम्? / इत्यत आह / नह्येभिः परपक्षो दूष्यते / कुतः? / निरवद्यत्वात्परपक्षस्य / इत्युपरम्यते शास्त्रकरणात् //
SK
शास्त्रपरिसमाप्तौ तत्स्वरूपप्रतिपादनायैवाह / पदार्थमात्रमित्यादि / पदार्थमात्रमिति साधनादिपदोद्देशमात्रम / आख्यातं कथितम् / आदौ प्रथमम् / दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्धयर्थम् / यात्र युक्तिरन्वयव्यतिरेकलक्षणा / अयुक्तिर्वा असिद्धादिभेदा / सान्यत्र प्रमाणसमुच्चयादौ / सुविचारिता प्रपञ्चेन निरूपितेत्यर्थः //
SK
न्यायप्रवेशकं यद्याख्यायावाप्तमिह मया पुण्यम् / न्यायादिगमसुखदं संलभता भव्यो जनस्तेन //
SK
समाप्ता चेयं शिष्यहिता नाम न्यायप्रवेशकटीका //
SK
कृतिरियं हरिभद्रसूरेः //

Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Haribhadrasūri: Nyāyapraveśapravṛtti (sa_haribhadrasUri-nyAyapravezapravRtti.htm).

Source