Commentary on the Diamond Sūtra Vajracchedikāṭīkā
Vअज्रच्छेदिकाटीका
2 SK आर्यप्रज्ञापारमिताया वज्रच्छेदिकाया विस्तृतटीकया सहितम्
3 SK नमो मञ्चुश्रिये कुमारभूताय
5 SK कायः प्रसिद्धः परिदृश्यमानो जनेषु सर्वेषु स्फुटं तथापि | स्वभावतो वस्तुतया न प्राप्तो निदर्शितः सो ऽपि च प्राप्तिहेतुः ||
1 SK फलस्य श्रेष्ठस्य च नित्यभूतपरमस्य चाग्र्यस्य जिनैः समस्तैः | अतश्य त्रैयध्विकसर्वबुद्धप्रसूं नमस्याम्यनिशं हृदा ताम्
7 SK अल्पीयसाभ्यासबलेन यस्याः, महान्ति पुण्यानि हि सञ्चिनोति | उत्खातमूलानि च पापकानि, सर्वाणि चापादयति क्षणेन ||
2 SK अतश्च तस्याश्चिरभावनार्थं, मार्गं प्रवक्ष्ये स्वबलानुरूपम् | गुरूपदिष्टं सुपरीक्षितं च मतिं स्वकीयामनुवर्तयित्वा
9 SK तत्रादौ सूत्रं व्याचिख्यासुः साध्यवसाय (विषय-) ग्रहणादौ श्रोतॄणामवतारणार्थं प्रयोजनमाह | न हि प्रयोजनमन्तरेण प्रेक्षावान् क्वचित् प्रवर्तते | तदनन्तरं प्रयोजनोपायमुपदर्शयितुमभिधेयस्तावद् वक्ष्यते, (यतो हि) अभिधेयरहितं सूत्रं दशदाडिमानीत्यादिवाक्यवन्नेष्टप्रयोजनं साधयति | ततः सौकर्येण तदभिधेयग्रहणार्थं पिण्डार्थो वक्ष्यते |
10 SK तदनन्तरं समासार्थप्रतिपत्तये पदार्थो ऽभिधास्यते | ततः क्रमस्याविरोधं निदर्शयितुं पदानामनुसन्धिर्दर्शयिष्यते | तदनन्तरं पूर्वापरयुक्तिविरोधापनोदनाय चोदकं प्रति समाधानं वक्ष्यत इत्येव न्यायः | तत्र वज्रच्छेदिका इति सूत्रस्य नामधेयम् | अनेनैव तावद् अभिधेयः प्रयोजनं चाभिधीयेते |
11 SK अत्र द्विधा वज्रच्छेदिका | सूक्ष्मक्लेशज्ञेयावरणानि वज्रवद्दुर्भेद्यानि, तेषां छेदनात् | एतेनास्य (ग्रन्थस्य) आवरणद्वयप्रहाणं तावत् प्रयोजनं निर्दिष्टम् | अथवा छेदनं हि वज्राकारसादृश्येन वज्रवदिति | वज्रस्य हि उभे शिखरे स्थूले मध्यं च सूक्ष्मम् | तथैवेयं प्रज्ञामिताप्यादावधिमुक्तिचर्याभूमिम् अन्ते च बुद्धभूमिं विस्तरेण निर्दिशति | सूक्ष्मेण तावन्मध्यभागेन शूद्धाध्याशयभूमिं निर्दिशति | अत एवेयं वज्राकारवदिति | एतेन भूमित्रितयमस्याः (वज्रच्छेदिकायाः) अभिधेयो निर्दिष्टः |
12 SK पिण्डार्थस्तु संक्षेपेण पञ्चधा, तद्यथा- निदानम्, उपोद्घातः, बुद्धवंशानुपच्छेदः प्रतिपत्तिलक्षणम्, तत्स्थानञ्च |
13 SK तत्र निदानं तु सूत्रारम्भनिमित्तम्, तच्चापि एवं मया श्रुतम् इत्यारभ्य तेन खलु आयुष्मान् सुभूतिः इत्येतावत्पर्यन्तं देशितम् | तस्य च सङ्गीतिकारैरात्मप्रामाण्यप्रतिपादनायोक्तत्वात् | एवं सुत्रान्तरेष्वपि वाच्यम् |
14 SK उपोद्घातस्तावत् प्रकरणेन सूत्रार्थव्युत्पादनार्थं संयुज्यते | अप्रस्तुताभिधानेन सर्वम् असमञ्जसं स्यादिति तन्निराकर्तुं सर्वत्रापि प्रकरणेन योज्यम् | अथ खल्वायुष्मान् सुभूतिरुत्थायासनात् इत्यादिना तन्निर्दिष्टम् | बुद्धवंशानुपच्छेदो ऽपि च तेनैव दर्शितः | आर्यसुभूतिना इमां प्रज्ञापारमितां बुद्धवंशानुपच्छेदकत्वेन विदित्वा यथा बुद्धवंशानुपच्छेदो भवेत् तथैवादौ संस्थापिता |
15 SK प्रतिपत्तिलक्षणं तु बोधिसत्त्वयानसम्प्रस्थितेन कथं स्थातव्यम्? इत्यादिना प्रोक्तम् |
16 SK तस्य प्रतिपत्तिलक्षणस्य स्थानं तावत् कस्मिन् विषये बोधिसत्त्वेन स्थातव्यम्? प्रतिपत्तव्यम्? चित्तं प्रग्रहीतव्यम्? यदेतत् तत्तस्य स्थानमिति | तदपि इह सुभूते ! बोधिसत्त्वयानसम्प्रस्थितेन एवं मया इत्यादिनारभ्य तारका तिमिरम् इत्यन्तिमगाथां यावदभिहितम् | प्रतिपत्तिलक्षणं तस्य स्थानं चेत्येताभ्यां द्वाभ्यां बोधिसत्त्वानामशेषकरणीयपरिपूर्णता सम्प्रकाशिता, इत्येष तावत् पिण्डार्थः |
18 SK पदार्थादयश्चेमे साम्प्रतमभिधीयन्ते- तत्र एवम् इति शब्दो ऽभ्युपगमादिनानार्थेषु दृश्यते | अत्र प्रकरणादिबलेन संन्निधापितार्थो ग्राह्यः | अयं हि वक्ष्यमाणसकलसूत्रार्थं व्यवस्थापयति | मया इत्यन्यव्यवच्छेदेन अर्थस्य साक्षाच्छ्रवणं निर्दिश्यते | आत्मनैव श्रुतं न श्रवणपरम्परायातमित्यर्थः | श्रुतम् इत्यधिगमो निषेध्यते | तथागताद् ऋते नान्ये स्वतस्ताथाभूतधर्माधिगमवन्तो भवन्ति | एतेनानाप्तप्वं निराक्रियते | एकस्मिन् समये इति एकस्मिन् काले, सर्वकालमेवंविधधर्मरत्नश्रवणं दुर्लभमित्याख्यातम् | (Vअज्रट्_९९) यद्वा स्वगतं बाहुश्रुत्यमुपदर्शितम् | एकस्मिन् काले इदं श्रुतमन्यदा अन्यदपि श्रुतमिति दर्श्यते | अथ वा, एकस्मिन् समये भगवान् विहरति स्म इत्युत्तरेण सम्बध्यते | अपरिमिताविनेयानां तेषां हिताय अन्यदा अन्यत्र विहरति स्म इति प्रतिपाद्यते | क्लेशस्कन्धमृत्युदेवपुत्ररूपाणां चतुर्णां माराणां भञ्जकत्वान्निरूक्तया भगवान् इति स्मर्यते | अथ वा ईश्वर्यादिमत्त्वात् ऽभगवान्ऽ; इत्युच्यते | यथोक्तम्-
19 SK ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः | ज्ञानस्याथ प्रयत्नस्य षण्णां भग इति श्रुतिः ||
20 SK श्रावस्ती इति श्रवस्तेस्तन्नामकर्षेराश्रमत्वाच्छ्रावस्ती नगरी, तयोपलक्षितो देशविशेषो ऽपि तत्सम्बन्धेन श्रावस्तीत्युच्यते | देशोक्तया अयं देशो ऽपि चैत्यभूतो ऽभिधीयते, तद्यथा चैत्यभूतः स पृथिवीप्रदेशो भविष्यति इत्यत्राप्युक्तम् | अथ च सङ्गीतिकारैरात्मवचनानामादेयताप्रतिपादनायैतत् सर्वमुक्तम् | लोकप्रत्यायनार्थं तावत् [स] प्रदेशः साकारः समृद्धश्चेत्युक्तः, एवं सति परैः ग्राह्यं भवति वचनम्, नान्यथा तदादेयवचनमिति |
21 SK श्रावस्तीप्रदेशस्य अत्यन्तं विस्तीर्णत्वात् कुत्र विहरतीति स्थाननिश्चयाभावाद् जेतवने इत्युक्तम् | ऽजेतृऽ; इत्याख्यस्य राजकुमारस्य वनत्वाद् जेतवनमिति | तदपि तावत् कस्यचिदप्रसिद्धमिति सम्भावनायाम् अनाथपिण्डदस्यारामे इत्युक्तम् | गृहपति-अनाथपिण्डद इत्यनाथेभ्यो दयया पिण्डदानेन तथा प्रसिद्धः, स खलु भगवदर्थं निरन्तरया रत्नानि विकीर्य जेतुः राजपुत्रादारामं क्रीतवान् | राजपुत्रजेतृणापि तत्र काचिद् भूमिरावासादिभिः समलङ्कृता, अतस्तयोस्तद् वनमिति प्रसिद्धिं गतम् | कस्यचिदेकस्योपादानेन अभिप्रेतदेशविशेषस्यानवबोधात् पदत्रयमुक्तम् | अथवा श्रावस्तीत्यनेन बहुनां मध्ये विहरणात् परार्थसम्पदभिहिता | जेतवने ऽनाथपिण्डदस्याराम इत्यनेन (च) विवेकविहरणात् स्वार्थसम्पत् |
22 SK अत्र कः साक्षीति चिन्त्यमाने महताभिक्षुसंघेन इत्युक्तम् | भिन्नक्लेशा हि भिक्षवः | मारादिभिः प्रत्यर्थिभिरभेद्यत्वात् तेषां समूहः संघः इत्युच्यते | महान् भिक्षुसंघस्तावत् भूयस्त्वेन आनुभावेनेति द्वैविध्येन, आनुभावस्तावद् दर्शितः | कथं भूयस्वमिति चेद्? सार्धमर्धत्रयोदशभिः (भिक्षु) शतैः इत्याद्युच्यते | तस्मिन् समये तावतामेव सत्त्वात् | भिक्षुसंघात् बोधिसत्त्वानां बाहुल्यं तु तेषामेवार्थाय सूत्राणां भाषितत्वात् | बोधौ सत्त्वमाशयो येषां ते ऽबोधिसत्त्वाःऽ; | श्रावकेष्वपि बोधौ सत्त्वं विद्यते, अतस्तेषां व्यवच्छेदाय महासत्त्वैः इत्याह | धर्म-चित्तोत्पाद-अधिमुक्ति-अध्याशय-सम्भार-काल-सम्प्रतिपत्तिलक्षणैः सप्तभिर्महत्त्वैरुपेत्वाद् महासत्त्वाः |
23 SK तत्र धर्महत्त्वं तु बोधिसत्त्वेभ्यः शतसाहस्रिकाप्रज्ञापारमितादिविपुलधर्माणां देशनात् | चित्तोत्पादमहत्त्वं तावदनुत्तरायां सम्यक्सम्बोधौ चित्तोत्पादात् |
24 SK अधिमुक्तिमहत्त्वं तमिन्नेव गम्भीरोदार धर्मे ऽधिमुक्तत्वात् | आशयमहत्त्वं तु सर्वसत्त्वहितसुखोत्पादाशयात् | सम्भारमहत्त्वं तावदपरिमितपुण्यज्ञानंसम्भरणात् | कालमहत्त्वं खलु त्रिभिरसंख्येयकल्पैर्बोधिप्राप्तेः | सम्प्रतिपत्तिमहत्त्वं हि अनुत्तरसम्यक्सम्बोधेर्निष्पादनात् |
25 SK विहरति इति चतुर्भिरीर्यापथैः, अथवा अनुत्तरेण ब्रह्म-देव-आर्यविहारेण विहरति | स्म इति विहृतवानिति दर्शितम् | तत्र भिक्षुसंघस्तु कृतकृत्यत्वाद् मृदुकारुणिकत्वाच्च सर्वकालं तथागतस्य पादान्तिके निषद्यत इति विदित्वा स्यास्नुत्वसंदर्शनार्थं पूर्वमुक्तः | बोधिअसत्त्वास्तु अपरिमेयसत्त्वार्थक्रियासाधन-परिनिष्पत्तौ अकृतकार्यत्वात्, अधिमात्रकरुणया जगदर्थकरणाय लोकधातुषु विहरणात् सर्वकालं भगवतः पादान्तिके ऽनिषीदनाच्च पश्चादुक्ताः | अत एव श्रावकसूत्रान्तेषु नोच्यन्ते बोधिसत्त्वाः, न च तानि (श्रावकसूत्राणि) तदर्थानि, अनियतानि चेति |
26 SK अथ इति तदनन्तरम् | समये इति नियते | एतेन नियतस्तावत् पिण्डकाल इति | कालनियतत्वं तु अस्मिन्नेव काले पिण्डपातो ग्रहीतव्य इति, तदपि किमिति अपरिज्ञानात् तदर्थं पूर्वाह्णः इति वचनेनाभिधीयते | पूर्वाह्णञ्च कालसमयश्चेति समासः |
27 SK उपवसतां प्रवजितानां च पिण्डकालोपलम्भेन पूर्वाह्णलक्षणं भगवता देशितमेकान्तेनेत्यवबोधनार्थं कालसमये इत्युक्तम् | अन्यथा पूर्वाह्ण इत्येतद्वचनेन तदएकान्तत्वनिर्देशो नावगम्यते | भगवता स्वेच्छया कृतमिति सम्भाव्यमानत्वाद् एतत् पदत्रयमुक्तमिति वा | निवास्य इति गृहप्रवेशानुरूपं वस्त्रधारणम् | तदपि शिक्षासु श्रोतृणां गौरवसम्पादनार्थम्, अन्यथा स्वस्यैव विनेयत्वाभावे कथं परस्य विनेयता स्यात् | चीवरमादाय इत्यत्र चीवरादानं (Vअज्रट्_१०३) तावत् प्रावरणलक्षणं द्रष्टव्यम्, नास्त्यन्तस्यावकाश इति | महानगरी इति देशविशेषः, श्रावस्तीमात्रव्यवच्छेदार्थम् | किमर्थं भगवान् पिण्डाय प्राविक्षत् इति | श्रावकेष्वल्पेच्छताप्रवृत्तिः, दरिद्र-रोगि-गृहिणी-वृद्धादिष्वनुग्रहः, अन्धादिभ्यो नेत्रादिसम्प्राप्तिरिति, विविधविस्मयहेतूनामनवरतं प्रदर्शनेन भगवति च परेषां प्रसादोत्पादनार्थं इत्येतान्यपरिमितानि प्रयोजनान्यवगन्तव्यानि | कृतभक्तकृत्यः इति यः खलु भोजनादिभक्तकृत्यं सम्पादितवान्, स एवमुच्यते |
28 SK अल्पकुशलमूलेभ्यो निर्जाता अपि ब्रह्मादयः कवलीकाराहारविनागान्नैव भक्तकृत्यं कुर्वन्ति, तर्हि अचिन्त्यकुशलमूलनिर्जातो हि भगवान् (बुद्धः) कथं कुर्यादिति? तथा आर्यधर्मसंगीतौ अपि भाषितम् ᳚तथागतस्तु क्षुत्पिपासावर्जितः मूत्रपुरीषविरहितो ऽक्षीणकायश्च भवति᳚ इति | सत्यमेवैतत् तथापि यदि भगवतः स कायो न परमार्थभूतः, तदा स्यात् सर्वोपालम्भावसरो ऽपि, यदा त्वयं भगवतो निर्माणकायः, एवंविधचरितप्रदर्शनेन वेनेयसत्त्वाशयानुरूपं प्रवर्तते, तदा कथमुमालम्भावकाशः |
29 SK मनुष्यभावे एव वीर्यारम्भेण एतादृशमनुत्तरपदं लभ्यत इति विनेयानामुत्साहनार्थं मनुष्यभावं दर्शयित्वा एवंरूपं पिण्डभक्तं दर्शितवान् | ये दायका दानपतयः तेषु पिण्डपरिकर्मप्रकाशनेन प्रहर्षः समुपजायते | भाग्यवन्तो ऽपि किञ्चित्कर्मावरणवशात् प्रेतादिषु समुपजाताः महौजस्का यक्षादयः भगवतां करनखामृतेन संस्पृस्टं परमाक्षयदिव्यरसमादाय परिभुञ्जानाः परमसुखसंतृप्तचेतस उत्तमां समाधिं समवाप्नुवन्ति | अतः अपरिमेयं तावद् भगवतो भक्तकृत्यम् |
30 SK केन प्रकारेण भक्तकृत्यं कृतमिति चेत्? तदर्थं पश्चाद् इत्याद्याह | सर्वमादाय तदनु यत् पिण्डपातं भक्तं तत् पश्चाद्भक्तपिण्डपातम् | पूर्वमेतत्समादानं तु श्रावकाणां धूतगुणेष्ववतारणार्थम् | भक्तमिति (भक्षणकृत्यं) सम्पादितमित्यर्थः | अथवा पश्चादिति यद् द्वितीयवारमादानं तत् पश्चाद्भक्तम् | तदेव पश्चाद्भक्तमपि पिण्डश्चापीति पदयोजना | अथवा अपारह्णभक्तत्वेन यः परिभुज्यते पिण्डः स एवमुच्यते |
31 SK अतश्च धूतगुणवत्त्वात् विकालभोजनपरिहृतत्वाच्च तद्विओरहितमेतद् भक्तं स्यादित्यर्थः | प्रतिशाम्य इति प्रतिष्ठाप्येत्यर्थः | तच्च शक्रादयस्तु भगवदाज्ञामादातुं समुद्यतास्तदन्तिके सदैवोपतिष्ठन्ते, किन्तु प्रव्रजितास्तु स्वयमेवानुतिष्ठन्त इति निदर्शयितुं भगवता स्वयं पात्रचीवरप्रतिष्ठापनं कृतम्, अलभ्यमानभृत्यानां मन्दभाग्यानां दौर्मनस्यपरिहाणार्थमपीति |
32 SK अशुच्याभासं सततसमितपाकर्तुं कमलेषु पादनिक्षेपणम्, क्रियान्त्राद्यधिमुक्तसत्त्वाशयानुवर्तनं वा सरजस्कपादाभ्यां शयनासनानामनवमर्दनम् इति शिक्षायामादरं दर्शयितुं पादप्रक्षालनं द्रष्टव्यम् |
33 SK प्रज्ञप्त एवासने इति देवादिभिः प्रज्ञप्ते | ऋजुकायं प्रणिधाय इति नातिनम्रं नातिस्तब्धमित्यर्थः | कथं धर्मदेशनाकाले भगवान् समाहितेन ईर्यापथेन (Vअज्रट्_१०५) न्यषीददिति चेत्? समाहितैरेव धर्मो ऽयं ज्ञातुं श्रोतुं वा शक्यते नान्यैरिति समाधौ यत्नोत्पादाय लोकाअनां प्रवर्तनात् |
34 SK प्रतिमुखीं स्मृतिमुपस्थाप्य इति पूर्वं बोधिसत्त्वावस्थायां तावद् अनुत्तरपदं प्राप्य यथा बुद्धवंशानुपच्छेदः स्यात्तथाहं करिष्ये इति यत् प्रणिधानं कृतं तत् प्रणिधानं स्मरणाभिमुखीकृतमित्यर्थः | भगवांस्तु बुद्धः सदा समाहितः सन्नपि सर्वथा स्मृतौ विहरति | असमयस्मरेण न किञ्चित् स्यात् | समये प्रणिधानस्मरणं हि सफलं भवति | समये स्मरेणनापि भगवतः सदा समाहितत्वं न विरुध्यते |
35 SK अथ खलु संबहुला भिक्षवः इत्यनेन किमुक्तम्? यत्परिमाणेन भिक्षुसंघेन सह भगवान् श्रावस्त्यां विहरति स्म, स सर्वः धर्मदेशनाकाले तत्र नैव सन्निपतितः | त्रिभ्यो ऽधिकास्तत्र सन्निपतिता इत्युक्तम् | तच्च सङ्गीतिकारैः परसम्प्रत्ययोत्पानादनार्थं निर्दिष्टम् | सन्निपतितः इति सन्निहित एव | सन्निषण्णः इत्यासने उपविष्टः | लोके प्रायः समान्यपूर्वकं विशेषः स्थाप्यत इति लोकप्रसिद्ध्यनुरूपमुभयमाह | अन्यथा निषण्णः इत्येतावत्मात्रेण अप्युभयमुक्तं स्यादिति | उक्ता निदानपदार्थाः |
36 SK उपोद्घातो बुद्धवंशानुपच्छेदश्च :
37 SK सम्प्रति उपोद्घातो बुद्धवंशानुपच्छेदश्च कथयिष्येते | परमाश्चर्यमादर्शयितुं द्विरभिधानम् | सुगत इति सम्बोधनम् | नैरात्म्यद्वयमार्गेण (Vअज्रट्_१०६) सम्यग् गत इति सुष्ठुरूपेण गतः सुगतः सुरूपवदिति | अथवा निखिलसवासनाशेषक्लेशज्ञेयावरणानि प्रहाय गतः सुगतः, सूपूर्णघटवत् | अथवा अपुनरावृत्त्या गतः सुगतः, सुनष्टज्वरवत् | यावतैवानुग्रहीताः, तावतैवानुपरिगृहीता इत्यर्थः |
38 SK राजादयो ऽपि आश्रितान् प्रजादीन् यथाशक्ति अनुपरिगृह्णन्ति किन्त्वत्र भगवति आश्चर्यमित्याशङ्काकायां किमाश्चर्यमिति तथागतेनार्हता सम्यक्संबुद्धेन इत्युक्तम् | यथावद्वस्तुतत्त्वदेशनात् तथागतः | अथवा यथा पूर्वका नैरात्म्यद्व र्गेण गताः क्लेशज्ञेयावरणप्रहाणमधिगताः, अत्रापि तथा गतत्वात् तथागतः | सर्वलोकाभ्यर्हणीयत्वात्, अरीणां क्लेशानां वा हन्तृत्वाद् अर्हन् | समस्तज्ञेयानां सम्यगबोधात् सम्यक्संबुद्धः | एभिः पदैर्भगवतः प्रहाणज्ञानरूपा स्व-परार्थसम्पदुपदर्शिता भवन्ति |
39 SK एतेनैवमभिधीयते- राजादीनां प्रजादिष्वनुग्रहे तावन्नैवाश्चर्यम्, यतो हि ते लाभसत्कारादिस्वार्थार्थितया पराननुगृह्णन्ति, भगवतस्तावत् तथागतत्वेनार्हत्त्वेन सम्यगभिसम्बुद्ध्य अधिगताशेषसम्पत्तितया यो ऽनुग्रहः स खल्वत्र आश्चर्यमित्यादर्शितम् | ऋते करुणां भगवतो ऽनुग्रहे ऽस्मिन् नास्ति किञ्चिदनुग्रहकारणान्तरमित्यनेनाभिहित एव भवति भगवान् महाकारुणिकः |
40 SK अनुपरिगृहीताः इति अभिसम्बुद्धेन भगवता धर्मचक्रप्रवर्तनाकाले परिपक्वकुशलमूला बोधिसत्त्वा भूमिष्ववतारिताः, धर्मतायां बोधिसत्त्वानां प्रतिष्ठापनेन | परीन्दिताः इति अपरिपक्वकुशलमूलानाम् आदिकर्मिकाणामनुग्रहाय त एव परीन्दिताः, धर्मतायां बोधिसत्त्वान् प्रतिष्ठापयितुम् | मम परिनिर्वाणप्रदर्शनं तु युष्मास्वप्राप्तगुणानामधिगमाय, प्राप्तानां च सम्यगपरिहाणायेति | एवमनुग्रहपरीन्दनेत्युभाभ्यां बुद्धवंशानुपच्छेदः सम्प्रकाशितः |
41 SK बोधिसत्त्वेष्वनुग्रहस्तु पञ्चधा सम्यग् वेदितव्यः- काल-विशेषता-उदारता-स्थिंरता-व्यापकताभिः | तत्र कालः- जन्मजन्मातरत्वात् | विशेषता-तैर्थिक-श्रावक-प्रत्येकबुद्धेभ्यो ऽनुग्रहेण विशिष्टत्वात् | उदारता- अनुत्तरत्वात् तदनुग्रहस्य | स्थिरता- आत्यन्तिकत्वात् | व्यापकता- तदनुग्रहेण तु स्व- परसन्तत्योर्हितसम्पादनात् |
42 SK परीन्दनापि त्रिधा सम्यग् द्रष्टव्या, आश्रय-धर्मताप्रापण-ज्ञप्तिचवनैः | कीदृशस्तावदाश्रयः? कल्याणमित्रेषु परीन्दनात् सा भवत्यविप्रणष्टा | किं तावद् धर्मताप्रापणम्? अनुपरिगृहीता बोधिसत्त्वा धर्मतया पराननुग्राहयन्ति | किं तर्हि ज्ञप्तिवचनम्? त्वया अन्ये बोधिसत्त्वा अनुग्रहीतव्या इत्याज्ञापितम्, न त्वनादरभावः | उपोद्घात-बुद्धवंशानुपच्छेदपदार्था उक्ताः |
44 SK प्रतिपत्तिलक्षणं तावदुच्युते- तदधिकारेण कथम् इत्युक्तम् | आर्यसुभूतिः खलु षड्विधप्रयोजनार्थं पृष्टवान् | १ संशयोपच्छेदाय, २ अधिमुक्तिसमुत्पादाय, ३ गम्भीरेष्वर्थेष्ववतारणाय, ४ अविनिवर्तनाय, ५ परमप्रमोदसञ्जननाय, ६ सद्धर्मस्य चिरस्थित्यै च |
45 SK तत्र प्रज्ञापारमितेयं कथं बुद्धवंशस्य अनुपच्छेदं करोतीति सन्देहकारिणां संशयोपच्छेदनार्थम् | अपरिपक्वसन्ततीनां बोधिसत्त्वानां पुण्यबाहुल्यख्यापनेन प्रज्ञापारमितासु अधिमुक्तिसमुत्पादनार्थम् | परिपक्वसन्ततीनां तावद् गम्भीरेष्वर्थेष्ववतारणार्थम् | अभूतप्रतिपत्तिपरिभूतानां तदुद्ग्रहणधारणयोर्व्यायच्छतां पुण्यवाहुल्याभिकाङ्क्षया अविनिर्वतनार्थम् | अनुगृहीतेषु विशुद्धाध्याशयेषु स्वाधिगततद्धर्मदर्शनेन परमप्रमोदसञ्जननार्थम् | अनागते काले महयानसद्धर्मस्य चिरमवस्थानार्थम् |
46 SK समासतस्तु सन्दिग्धानां सम्यक् सम्प्रकाशनाय, पुण्याभिकाङ्क्षणाम् अपरिक्वबोधिसत्त्वानां सम्यगवतारणाय, विप्रतिपत्तिविहतानां सम्प्रहर्षणाय, शुद्धाध्याशयानां प्रमोदाय च | तत्र स्थातव्यम् छन्दप्रणिधानाभ्याम् | प्रतिपत्तव्यम् योगसमापत्त्या | चित्तं प्रग्रहीतव्यम् विक्षेपनिग्रहेण | तत्र (Vअज्रट्_१०९) छन्दस्तावदभिलाषः | प्रणिधानं तु अभिलषितार्थे ऽभिसंस्कारलक्षणेन यच्चिन्तनम् | योगसमापत्तिः खल्ववितर्कसमाधिः | विक्षेपनिग्रहस्तावत् समाधितो विक्षिप्तं चित्तं विक्षेपेभ्यो निवार्य तत्रैव विनियोजनम् | प्रथमेन प्रयोगमार्गः, द्वितीयेन परिनिष्पत्तिमार्गः, तृतीयेन त्वविप्रणाशमार्गः परिदेशितः |
47 SK स्थाने पृच्छतो भगवान् आर्यसुभूतये साधुकारमदात् | शृणु इत्यवहितश्रोत्राभ्यां श्रोतुं प्रवर्तस्व | साधु इत्यविपरीतप्रतिपत्त्या उद्ग्रहीतुम् | सुष्ठु च मनसि कुरु सम्यक्तया उद्ग्रहीतुमुद्युक्तो भव इत्यर्थः | तदपि अवाङ्मुख-अशुचि-सच्छिद्रभाण्डानामिव श्रोतृजनानां यथाक्रमं त्रिविधदोषपरिहारार्थमिदमुदीरितमिति | भाषिष्ये इति तेभ्य एव सम्प्रकाशयिष्यामि, नान्येभ्य इति | अन्यथा अवाङ्मुख-अशुचि-सच्छिद्रभाण्डेषु अम्बुवृष्टिरिव (Vअज्रट्_११०) धर्मवृष्टिरपीयं निरर्थकैव स्यादित्यर्थः | अथवा अहं तु केवलं देशयिष्यामि त्वमेव तावद् यत्नतः प्रतिपद्यस्वेत्यर्थः |
48 SK बोधिसत्त्वयानेति बोधिसत्त्वानां यानम्, येन बोधिसत्त्वा निर्यान्ति | तच्च दशभिः पारमिताभिः दशभिश्च भूमिभिः परिगृह्यते | तत्र सम्प्रस्थानं तावत् प्रणिधिप्रस्थानचित्ताभ्यां सम्प्रवर्तनम् | एतद्विशेषणं तु श्रावकादिबोधिप्रतिषेधार्थम्, बोधिसंप्रस्थितेन इत्येतावदुच्यमाने बोधीनां त्रित्वादन्यस्या अपि बोधेरवगमः स्यादिति | प्रत्यश्रौषीत् इत्यभ्युपगमादित्यर्थं | उक्ताः प्रतिपत्तिलक्षणपदार्थादयः |
50 SK साम्प्रतं तत्स्थानान्यभिधीयन्ते | तत्स्थानानि तावत् समासतो ऽष्टादशप्रकाराणि; तद्यथा- १. चित्तोत्पादः २. पारमितायोगः ३. रूपकायाप्तिकामता ४. धर्मकायाप्तिकामता ५. भावनाविशेषलाभे ऽनभिमानः ६. बुद्धोत्पादारागता ७. क्षेत्रविशुद्धिप्रणिधानम् ८. सत्त्वपरिपाकः ९. बाह्यशास्त्रेषु व्यपगतरागता १०. सत्त्वभाजनलोकयोः पिण्डग्राहविशीर्णतायोगः ११. तथागतपूजासत्कारः १२. कायचित्तपरिश्रान्तौ वीर्यवैमुख्यानारम्भलासत्कारविरहितता | कायचित्तपरिश्रान्तौ वीर्यारम्भोतोविनिवृत्तिः, न आरम्भ इत्यनारम्भः | अहो, आरब्धवीर्यो ऽयमिति परेण ज्ञायमाने सति श्रद्धामागम्य लाभसत्काराध्यवसितत्वम् | तस्माद् बोधिसत्त्व एतेभ्यः सर्वेभ्यो विमुच्य प्रजह्यात् | १३. दुःखाधिवासनम् १४. ध्यानास्वादविरतिः १५. अभिसमयकाले ऽहमितिविकल्पवियोगः १६. अववादपर्येषणम् १७. अभिसमयः १८. बुद्धभूमिपर्येषणं च |
51 SK एतानि तावदष्टादशविधानि स्थानानि, यत्र बोधिसत्त्वेन स्थातव्यं प्रतिपत्तव्यं चित्तं च प्रग्रहीतव्यमिति | एतैः स्थानैर्भूमित्रयं संगृह्यते, तद्यथा- षोडशभिः स्थानैरधिमुक्तिचर्याभूमिः, अभिसमयस्थानेनैकेन शुद्धाध्याशयभूमिः, बुद्धभूमिपर्येषणेन च बुद्धभूमिः संगृह्यते | सर्वसत्त्वपरिनिर्वापणचित्तमुत्पाद्य पारमितायोगी तावत् तथागतस्य रूपकाय-धर्मकायप्राप्तौ छन्दमुत्पादयति | ततः आ अभिमानम् अन्तिमम् अहं-विकल्पं यावदभिसमयस्तान्तरायेभ्यश्चित्तं विप्रकर्षते | ततश्चाभिसमयार्थमववादं पर्येषते, तदनन्तरमभिजानाति, तदूर्ध्वं बुद्धभूमिं पर्येषते | अयमेव तेषां क्रमः |
52 SK १. चित्तोत्पाद-स्थानम् :
53 SK तत्र बोधिचित्तमधिकृत्य यावन्तः सत्त्वाः इत्याह | यावत् इति परिमाणम् | किं तत्र परिमाणम्? सत्त्वसंग्रहेण इत्युक्तम् ऽसत्त्वधातुस्तु (Vअज्रट्_११२) अपरिमितः, अथापि सत्त्वः सत्त्व इति यस्तत्स्वभावः तदितरव्यावृत्तशब्दाध्यारोपितार्थसभागरूपेण ख्यातः स एव सत्त्वेन संगृह्यते | तेन दृश्यविकल्प्ययोकत्वेनाभिसंक्षिप्य तद्रूपेणाध्यवसितत्वाद् रूपादिस्कन्धविशेषैरुपादीयन्ते | अतस्ते आयुष्मानिव प्रतीयन्ते |
54 SK एवं सामान्यतो निरूप्य विशेषतो दर्शयितुमाह- अण्डजाः इत्यादि | विशेषलक्षणं तावत् त्रिभिः प्रभेदैरभिहितम् | योनिभेदेनाण्डजादयश्चत्त्वारः | स्थानभेदेन तु रूपिणामरुपिणां च पृथक्स्थानत्वात् | कामावचरा रूपावचरास्तावद् रूपिणः, अरुपावचरास्तु अरुपिणः | निमित्तोद्ग्रहणभेदेन संज्ञिनः इत्यादयः | बृहत्फलस्यैकदेशं भवाग्रजांश्चं सत्त्वान् विहाय सर्वे सत्त्वाः संज्ञिनः | बृहत्फलस्यैकदेशस्तावद् असंज्ञीनः | अयमपि निमित्तोद्ग्रहणभेदात्मक एव, तदभावभेदेनोपलक्षितत्वात् | भवाग्रजास्तावद् नैव संज्ञिनो नासंज्ञिनो वा | प्रभेदो ऽयं मन्दमेधसामनुग्रहायैव कृतः, अन्यावध्यानपरिहारार्थं तावन्नैव प्रपञ्चितः | ऽसर्वे धर्माः निःसत्त्वाःऽ; इत्यनेन सह वचनस्यास्याविरोधः प्रदर्शितः | अत्र सत्त्वधातुरिति सांवृते सत्ये सत्त्वधातुस्तं दर्शयितुं यावान् इत्याद्याह | प्रज्ञप्यमानः इति पञ्चस्कन्धविशेषात्मकत्वेन प्रज्ञायत इति, न तु तैर्थिकाः प्रज्ञप्त्या प्रज्ञपयन्तीत्यर्थः | अनेनापवादान्तस्तावत् परिहृतः, प्रज्ञप्तावपवादाभावात् | यस्मिन् अप्रतिष्ठितनिर्वाणधातौ सास्रवोपधिर्नाशिष्यते, स तथोच्यते | श्रावकाणां परिनिर्वाणं तावद् नात्र निर्वाणधातु; तस्य हीनत्वात् | प्रणीतफले संविद्यमाने कृपालूनां हीनफलार्थिता न खलु युक्तिमती | संविद्यमाने ऽपि प्रणीतफले प्राप्तुमशक्यत्वादेवं प्रार्थ्यत इति चेत्? त्वन्मतानुसारं तावद् त्रिविधगोत्रत्वादगोत्रत्वाच्च सर्वैः हीनफलमपि प्राप्तुं नैव शक्यते |
55 SK अथ बोधिसत्त्वगोत्रं तावत्तथाविधं यद्वशतया महाकरुणावेगाभिभूतेन (मया) कथमिदं शक्यमिति, संविद्यमानेष्वपरेषु परार्थकारिषु बुद्धबोधिसत्त्वेषु निरर्थकेन मयात्र प्रणिधानेन किमिति विचारान् सन्त्यज्य परप्रत्ययतां च दूरीकृत्य महाकरुणार्द्रः जाज्वल्यमानेन दुःखाग्निना पीड्यमानं जगद् विलोक्य अहमेव तारयिष्यामीति चिन्तयमानः प्रणिदधाति | यथोक्तम्-
56 SK दुष्करादुष्करां वेति कल्पनां परिहाय च | अभ्युपेतं जगच्चार्तमित्यास्येन स्वयं त्वया ||
57 SK इति | यद्यप्येवम्, तथापि प्रियपुत्रस्य नृपत्वाय प्रणिधानमिव सत्यप्यप्राप्ये प्रणीतफले कथन्न प्रणिधानमिति | किमर्थं हीनमेव प्रार्थ्यते | अत एवाप्रतिष्ठितनिर्वाणम् एवात्र अनुपधिशेषनिर्वाणधातुर्युज्यते | तत्र सास्रवोपधेः शेषत्वाभावात् |
58 SK निर्वापयितव्याः इत्येतावन्मात्रं कस्मान्नोक्तम्? प्रथमादिध्यानानां व्यावृत्त्यर्थमिति | तानि तावदधोभूमिक्लेशाभावाद् निर्वाणपर्यायेणोक्तानि भगवता | सोपधिशेषे निर्वाणधातौ इति कस्मान्नोक्तमिति चेत्? दुःखोपधिशेषस्याप्रहीणत्वात्तत्र | सर्वसत्त्वनिर्वापणाशयस्तु बोधिसत्त्वानां त्रिभिर्हेतुभिर्द्रष्टव्यः, तद्यथा-
59 SK १. अक्षणोत्पन्नेभ्यः कालान्तरावस्थानम्, अक्षणावस्था तावदुपलक्षणमिति | नैतावन्मात्रम् | तस्यामवस्थितौ परिनिर्वाणं नैव सम्भाव्यते | २. अपरिपक्वानां परिपाचनम् | ३. परिपक्वानां विमोक्षणं च |
60 SK तस्मान्नाशक्तार्थिता (तेषाम्) | निखिलसत्त्वानां परिनिर्वापणाशयेन अनेन आदार्यं तावद् बोधिचित्तस्यादर्शितम् | छन्दप्रणिधानाभ्यां कथं स्थातव्यं- (Vअज्रट्_११४) तदप्यत्रावेदितम् | कथं योगसमापत्त्या प्रतिपत्तव्यमिति तद्देशयितुमाह एवम् इत्यादि | संवृतौ सर्वसत्त्वानां परिनिर्वापणे ऽपि यथा परमार्थतो न को ऽपि सत्त्वः बोधिसत्त्वेनोपलभ्यते, तस्याअभावादित्येवं योगमापत्त्या प्रत्यवेक्षणीयम् | व्युत्थितो भूत्वा न परमार्थतः को ऽपि सत्त्वो मया परिनिर्वापितः इति यश्चित्तोत्पादस्तेन गम्भीरत्वं परमार्थबोधिचित्तत्वञ्च दर्शितं भवति, पूर्वेण तु संवृतिरिति | तेन विक्षेपनिग्रहेण कथमत्र चित्तं प्रग्रहीतव्यमित्यादर्शयितुमाह- तत्कस्य हेतोः? सचेत् इति यदीत्यर्थः |
61 SK अथ यः पुद्गलादिसंज्ञया प्रवर्तते किं स बोधिसत्त्व इति वक्तव्यः? सत्त्व इत्युक्तौ पुनः कस्य हेतोः इति प्रश्नेनेतराभिरपि (संज्ञाभिः) न वक्तव्यः इत्याह | अस्यायमभिप्रायः- कुमतिभिस्तावत् पञ्चस्कन्धातिरिक्तः अन्तर्व्यापारवांश्चतुर्णां भोगानां भोक्ता एकः पुरुष इति परिकल्प्यते सत्त्वः, जीव इत्यादिशब्दैश्च व्यवह्रियते | ये चानिर्वचनीयत्वेन पुद्गलमिच्छन्ति तैरपि तस्य स्कन्धस्वभावविलक्षणत्वेनाभ्युगतत्वात् तद्बलेनार्थान्तर एवाभ्युपेयते | न कदापि पदार्थो ऽनिर्वचनीयः सम्भवति, सर्वस्याप्यनिर्वचनीयत्वप्रसङ्गात् | तत्साधकप्रणाभावाद् बाधकसद्भावाच्च तद्द्रष्टा बोधिसत्त्वो विपरीताभिनिवेशेन विपर्यस्त एव भवति | यः खलु विपर्यस्तः स कथं परमार्थबोधिसत्त्वः?
62 SK अन्ये पुनराहुः- अस्ति तावदात्मसाधकं प्रमाणमिति | तथा हि-बन्ध-मोक्ष-मार्ग-हेतुफलसम्बन्धस्मृतिप्रत्यभिज्ञादीनामेकाधिकरणकत्वे तावत् प्रसिद्धे नैरात्म्यवादिनां युष्माकं मते तु यस्तदाधार एकः प्रसिद्धः स नास्ति कश्चिदिति कस्तावदाधारः? विज्ञानक्षणानां प्रतिक्षाणं पृथक्त्वात् | बद्धो (Vअज्रट्_११५) देवदत्तः मुक्तश्चान्यो यज्ञदत्त इति नैव व्यवस्था, न चान्यः प्रत्यनुभविष्यति अन्येन कृतस्य कर्मणः फलमित्यतिप्रसङ्गः | कृतविप्रणाशो ऽकृताभ्यागमश्च प्रसज्येते | तथा हि- कर्तृत्वेन प्रज्ञप्तो यो हि विज्ञानक्षणः, तस्य फलेनानभिसम्बन्धात् कृतविप्रणाशाख्यो दोषः | अकर्तुश्चैव तस्य फलेन योगादकृताभ्यागमो दोषः स्यात् |
63 SK स्मृत्यादिकं अ भिन्नाधिकरणकमिति न लोके प्रतीतम् | अथ कथमिति चेत्? एकाधिकरणकमेव | देवदत्तस्य चित्तानुभवः यज्ञदत्तचित्तेन न स्मर्यते वा प्रत्यभिज्ञायते वा | येनानुभूयते तेनैव स्मर्यते प्रत्यभिज्ञायते वेति प्रसिद्धम् | फलतश्चैक एव पुरुषः सर्वावस्थास्वनुगन्ता भवति | प्रयोगः- यौ बन्धमोक्षौ तावेकाधिकरणकौ, यथा- देवदत्तस्यैव शृङ्खलाबन्धनं मोक्षश्च | विवादास्पदीभूतौ बन्धमोक्षावपि बन्धमोक्षावेवेति बन्धमोक्षावेवेति स्वभावहेतुः | तथैव कर्त्रादेरप्येकाधिकरणत्वसाधने प्रयोगाः कल्पयितव्या इति |
64 SK तत्र यदि स्वतन्त्रस्यैकस्य परमार्थसतो नित्यस्य पुरुषस्याधिकरणत्वं साध्यते, तदा तथाविधेन पुरुषेण सह क्वापि हेतोः सम्बन्धासिद्धेरनैकान्तिकत्वम्, सर्वेषां संस्काराणां क्षणिकत्वात्, देवदत्तादेः नित्यत्वैकतस्वभावासिद्धेः दृष्टान्तस्यापि साध्यविकलत्वम् | अत एव विरुद्धो हेतुः तद्विपर्यव्याप्तत्वात् |
65 SK अथ एकाधिकरणत्वमात्रं साध्यते, तदा सिद्धसाधनम् | एकसन्तानप्रवृत्तत्वेन तेन बन्धनादीनामेकाधिकरणत्वमिष्यत एव |
66 SK अपि च, यदा यत्र सन्ताने ऽविद्यादिकं कार्यकारणभावेनाविच्छिन्नं निरन्तरं प्रवर्तते, तदा स बद्धः इत्युचर्यते, स एव पुनः श्रुतमयादिक्रमेणार्यमार्गोत्पादाद् अविद्यादिनिरोधेनाश्रयपरावृत्तौ मुक्तः इत्युपचर्यते | उभावपि तौ बन्धमोक्षौ नित्यैकपरमार्थवस्तुविषयकौ नतरां सिद्धौ | लौकिकबन्धमोक्षयोरपि तथात्वात् |
67 SK यस्मिन् सन्ताने शुभोओ वा अशुभो वा चित्तानुभवः समुत्पद्यते, तस्मिन्नेव कालान्तरे सन्ततिपरिपाकमागम्य मस्तुलुङ्गलाक्षादिरसावसिक्तसन्ततिपरिपाक इव सुख-दुःख-स्मृत्यादिफलोदयो दृष्टाः, तस्माच्छुभादीनामेकाधिकरणत्वं तावत् प्रसिद्धम् | नैव खलु कश्चिदेकः कर्ता भोक्ता स्मर्ता वा | सर्वेषामेतेषां व्यवहारस्य प्रज्ञप्तेर्वा कार्यकारणभावमात्रेण प्रभावितत्वात् | न चातिप्रसङ्गः, नियतसामर्थ्यवतो बीजादेरिव कारणशक्तेः प्रतिनियतत्वात् | ततश्च येषु कार्यकारणभावः प्रतिनियतः तेषु नैव कश्चिद् एको ऽनुगतः भिन्नावस्थश्च परिदृश्यते | इह सत्त्वहेतोस्तथात्वे सति किमनेनात्मना परिकल्पितेन | आत्मोपचारस्य या खलु कर्त्राद्यवस्था, सा तावद् हेतुः, या खलु भोक्त्राद्यवस्था, सा फलमित्येवंविधो हि कार्यकारणभावो ऽवश्यमभ्युपेतव्य इति | अन्यथा तयोरुभयोरप्यवस्थयोरनुपपन्नत्वे परस्परोकारकत्वाभावे वा आकाशमिव कथं तावत् तावत् सिध्येत् भोक्त्रादिः | शक्तिप्रतिनियमो ऽप्यभ्युपगन्तव्य एव | इत्थं प्रतिनियतात्मना सम्बन्धेन सुखादीनां सम्भवः न तु सर्वत्र | अतः (Vअज्रट्_११७) कार्यकारणभावेन दृश्यमानानि कुशलादीन्येव कर्ता, भोक्ता च स्यात्, किमनेनादृष्टस्वभावेन आत्मना परिकल्पितेन |
68 SK अथ नानुमानेन आत्मा सिद्धः स्यात्, तथापि प्रत्यविषयत्वाद् अहंबुद्धेः प्रत्यक्षत एवात्मा सिध्यतीति चेत्? तदपि तावन्न युज्यते, भ्रान्तत्वात् सविकल्पत्वाद् असिद्धत्वाच्च प्रत्यक्षेण तत्राहंबुद्धेरिति | अहंबुद्धौ प्रतीयमानत्वे यथा खलु प्रत्यक्ष एको नित्यो विभुश्चात्मा स्वसिद्धान्तैरुकल्प्यते तथा नैवोपलभ्यत इत्यवश्यमेव द्रष्टव्यम् | अन्यथा अहंबुद्धेर्यदि प्रत्यक्षत्वं स्यात् तदा विवादमानेषु तावन्नैव प्रवर्तेत आत्मविषये कश्चन विवादः, सविकल्पाया अहंबुद्धेर्निश्चयात्मकत्वात्, निश्चयेन च विषयीकृते अध्यारोपाभावाच्च |
69 SK एवमेवान्यो ऽन्येष्वप्येवञ्चातीयेषु सम्भवाद् विप्रलम्भः | अनादिकालाभ्यासवशात् प्रतिनीयतेषु रूपादिस्कन्धेषु एकत्वमध्यारोप्य परं व्यावर्त्तीयतुमहमिति प्रतीतिः, तस्यां प्रतीतौ तेषामेव रूपादीनां प्रतिभासमानत्वात् |
70 SK काये चायमात्मग्रहः, कथं तर्हि मम देह इति भेदमात्रग्रहणमिति चेत्? तच्चात्मालम्बने ऽपि तुल्यम् | यदि चात्मनि अयमात्मग्रहः, कथं तर्हि मम आत्मा इति चिन्त्यते | अथ वस्तुतो ऽभिन्ने ऽपि भेदान्तरपरिहारेण तन्मात्रजिज्ञासायां शिलापुत्रकस्य शरीरवद् भेदोपचारेण ग्रहणान्नास्ति विरोध इति चेत्? देहालम्बने ऽपि चैतत् समानम् |
71 SK आत्मा खलु विषयः पुनः क्रमोत्पत्त्या विरुध्यत इति पश्चात् वक्ष्यते | न केवलमात्मग्रह आत्मा अपितु तद्विषयो रूपादिरात्मास्तीत्यपि वक्तुं न शक्यते, तदविलक्षणत्वात्तस्य | क्रमेणोपलभ्यमानत्वान्न ते एकस्वभावाः, न च स्वतन्त्राः | अत एवोक्तम्-
72 SK न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा |
73 SK नामव्यवहास्य तु अभीष्टत्वान्नात्र कश्चिदपि विवादः | अत एव नास्ति किञ्चिदात्मप्रसाधकं प्रमाणम् | नास्ति प्रत्यक्षमनुमानं च व्यतिरिच्य प्रमाणमित्यन्यत्र विचारितम् |
74 SK बाधकप्रमाणं तावन्निराक्रियते- यद्येवमात्मा स्कन्धेभ्यो ऽभिन्नस्तदा स्कन्धवत् क्षाणिकः स्याद् अथवा स्कन्धाः खल्वात्मवन्नित्याः स्युः, तदभिन्नत्वात्, स्कन्धवदनेकत्वप्रसङ्गो ऽपि दुर्निवारः स्यात् | अतः स्कन्धेष्वेव आत्मेति प्रज्ञप्यते, न तावन्नाम्नि विवादः |
75 SK अथ स्कन्धेभ्यो भिन्न आत्मा इष्यते तदा सुखादिनासम्बद्धत्वे न सिध्येत् तस्य भोक्तृत्वादिकम् | तत्र प्रयोगः- यो नास्ति सुखदुःखादिभिः सम्बद्धः स नास्ति कर्ता वा भोक्ता वा, मुक्तः संसारी वापि न युज्यते, यथा वन्ध्यापुत्रः | आत्मापि तथार्थक्रियादिभिर्न कथञ्चनापि सम्बध इति व्यापकानुपलब्धिः | न चायमसिद्धो हेतुः, तथा हि- सुखादिना हि सम्बन्धे सति आधाराधेयलक्षणो वा संयोगलक्षणो वा कार्यकारणलक्षणो वेति पक्षत्रयम् |
76 SK न तावत् प्रथमः पक्षः, अकिञ्चित्करत्वात् | तथा हि- अधःप्रसर्पणधर्मिणां जलादीनामधोगमनप्रतिबन्धकत्वेन व्यवस्थाप्यते तावदाधारः | सुखादीनाममूर्तत्वान्न सम्भवति (तेषाम्) अधोगमनमिति कथमिव आत्मन आधारत्वमिति | स्थित्यापि नाधारः, स्थितेः स्थातुरभिन्नत्वात्, तस्यैव कारकत्वमिति? तदपि तावन्निषिध्यते | स्थितेः पृथकत्वे सति सा नैव तावत्स्थातुरुपकारिका अर्थान्तरभूतत्वात्तस्याः | नास्त्येव तस्यां स्थातुरुत्पादसामर्थ्यम्, असामर्थस्य सर्वत्रैवाभिव्यक्तत्वात् | स्वयं भङ्गात्मनः तावन्नास्ति कश्चन स्थापकः, अनवस्थितत्वात्तस्य, अन्यथा तेन भङ्ग एव तस्य स्यान्न तावदवस्थानम् | अविपरिणामात्मनि तावत् स्थापकेन किं क्रियते, स्थीरात्मना स्वभावेन स्वयमवस्थितत्वात् |
77 SK अत एवाकिञ्चित्करत्वेन संयोगसम्बन्धो ऽपि तावन्नैव युज्यते, अतिप्रसङ्गात् | एवं हि सति सर्वस्य सर्वसंयोगहेतुत्वम् | एवं च नैवोपपद्यते तावद् भिन्नार्थेन भिन्नार्थस्य संयोगः, सर्वस्य स्वयमवस्थितत्वात् लौहशलाकावत् | अपि च, संयोगबलेन यदि आत्मा सुखी वा दुःखी वा भवेत्, तदा संयोगैकत्वमेव स्यात्, अविशिष्टत्वेन प्रतिनियतात्मभिः सुखादिभिर्नैव स्यात् सम्बन्धः | तत एवात्मना सहैकत्वे सुखादिना नैव स्यात् कश्चित् सुखी वा दुःखी वा | अदर्शने ऽपि बलेनाभ्युपगते निश्चये तेनैव निश्चितः स्यात्तदा किं तावत् संयोगपरिकल्पनया, सर्वसामर्थ्यविरहितत्वात्तस्य | सम्बन्धिभेदेन भिन्नायामपि प्रज्ञप्तौ परमार्थतः भावानामभिन्नस्वभावे सति कथं स्वभावभेदाश्रितः पृथगर्थक्रियाभेदः स्यादिति कुमतिपरिकल्पित एवायं खलु सम्बन्धः |
78 SK न चापि कार्यकारणसम्बन्धः | क्रमेण वेद्यमानत्वात् सुखादिनाम् | अविकले हेतौ सति न युज्यते तावत् कादाचित्ककार्यसम्भवः, अविशिष्टत्वात् | परैरनाधेयातिशयो ऽप्रतिबद्धसामर्थ्यो वा खल्वात्मा कथं सहकारिकाकारणमपेक्ष्यक्रमेणोत्पादयेत्, न हि सहकारिणि तदपेक्षा | दुःखोत्पादहेतुत्वाद् यदि बद्धस्तदा सर्वथा बद्धत्वान्नैव मुक्तः स्यात्, तत्स्वभावापरित्यागात्, परित्यागे वा कथं नित्यः स्यात् | अदुःखावस्थोत्पादहेतुत्वाद् यदि मुक्तस्तदा विमुक्त एव भवेन्न कदाचिदपि बद्धः स्यात्तदा कथं तावत् कल्प्येत आधेयनिबन्धनं बन्धमोक्षत्वमिति |
79 SK यदि चैतन्यादिलक्षणत्वेनोत्पादसामर्थ्येन वा कर्ता स्यात्तदा कर्ता एव सदा भवेत् कथ तावद् भोक्ता? अथ सुखाद्युत्पादहेतुत्वेन यदि भोक्ता स्यात्तदा भोक्तैव भवेत् कथं तावत् कर्ता? किञ्च कापिलपरिकल्पितस्य (अत्मनः) (Vअज्रट्_१२०) सुखादिभिराकाशवन्निर्विकारत्वेन नैव खलु युज्यते भोक्तृत्वम्, अतिप्रसङ्गात् | सति वा विकारे नित्यताहानिः | न खलु हेतुमात्रतया कर्ता वा भोक्ता वा, अतिप्रसङ्गात् | तथैव स्मृत्यादिष्वपि नाश्रयित्वमुपयुज्यत इति योज्यम् |
80 SK तस्मान्नैरात्म्यवादिन्येव पक्षे बन्धोमोक्षादिव्यवस्था युक्तिमती | कार्यकारणवैशिष्टयमात्रेण तस्या व्यवस्थाया प्रभावितत्वात् | स च कार्यकारणभावस्तावदनित्येष्वेव सम्भवति, न खलु नित्येषु | तेषु नास्ति कस्यचिदपि कार्यस्य क्रमेणोत्पादसामर्थ्यम्, यथोक्तं प्राक् | न चापि युगपद्, तथाविधफलोत्पादसमर्थस्वभावानुगमे फलोत्पादाभावस्तावन्न युज्यते प्राग्वत् | अननुगमे च प्राक्स्वभावताहानिः | क्रमयौगपद्याभ्यां व्यतिरिक्तो नास्त्येव कश्चिदाकारान्तरः, यः स्यादर्थक्रियायां प्रभुविष्णुः, परस्परपरिहारस्थितलक्षणत्वात्तयोः | अत एव यावन्तः परपरिकल्पिता आकाशादयो ऽक्षणिकाभावास्ते सर्वे अर्थक्रियासामर्थ्यहितत्वाद् अभावव्यवहारविषया उच्यन्ते परमविचक्षणैर्बौद्धैरिति | शशविषाणादावपि अभावव्यवहारप्रज्ञप्तिः अर्थक्रियायां सामर्थ्याभावमात्रनिबन्धनैव, एअतद्बलेनार्थक्रियासमर्थविषयिका खलु भावव्यहारप्रज्ञप्तिः, परस्परपरिहारस्थितलक्षणत्वाद् भावाभावयोः |
81 SK एवंविधे सर्वसामर्थ्यशून्ये शशविषाणाद्यविशेषे ऽपि ऽभावःऽ; इति नाम व्यवहारे सति नास्ति नाम्नि विवादः | तथापि अर्थक्रियार्थिनो हि प्रेक्षावन्तः (Vअज्रट्_१२१) तथाविधानुपलम्भस्वभावे वन्ध्यापुत्राद्यविशेषे च भावव्यवहारो न युज्यत इत्याहुः | अत एव नासिद्धो हेतुः | न चानैकान्तिकः, आकाशादिष्वपि कर्तृत्वप्रसङ्गात् | सपक्षे सत्त्वान्न च विरुद्धः | तस्मादात्मनो लक्षणान्तराभावाद् बन्ध्यापुत्रसदृश एव | विनश्वरत्वे सति स्कन्धान्तर्गता एव पुद्गलाः प्रसज्येरन्, सर्वसंस्कृतानां स्कन्धसंगृहीतत्वात् | अथाविनश्वरत्वे तावत् स्कन्धान्तर्गतधर्मविसदृशत्वादर्थान्तरा एव ते भवेयुरिति दोषो ऽयमुक्तपूर्व एव | अतो नास्ति कश्चिदनिर्वचनीयो भाव इति | अतः ऽसर्वे धर्मा निरात्मानःऽ; इति भगवतः सिंहनादः समस्ततैर्थिककुञ्जरवृन्दानां भीकरः, अनवमर्दनीयत्वात् | अलमतिविस्तरेण |
82 SK २. पारमितायोग-स्थानम् :
83 SK पारमितायोगमधिकृत्याह- अपि तु खलु पुनः इत्यादि | एतच्च पदद्वयं सामान्यविशेषस्वभावात्मकं द्रष्टव्यम् | दानं दातव्यं न तुवस्तुप्रतिष्ठितेन बोधिसत्त्वेनेत्यर्थः | दानम् इत्यनेन त्रिविधदानमधिकृत्य षट् पारमिता दर्शिताः न तु दानमात्रम् | तत्रामिषदानेन दानपारमिता निर्दिष्टा, अभयदानेन तावद् शील-क्षान्तिपारमिते, धर्मदानेन तु वीर्य-ध्यान-प्रज्ञापारमिताः | वीर्याभावे धर्मादान-प्रवचनयोः परिखिन्नत्वान्न धर्मं देशयेत् | ध्यानाभावे श्रद्धातिरेककर्माभिलषतया संक्लिष्टा भवेद् देशना | प्रज्ञायाश्चाभावे स तद् विपरीततया धर्मं देशयेत् | तस्मात् त्रयाभावे न सिध्यति धर्मदानम् | वीर्यं सर्वत्रगमित्यपरे |
84 SK दानं दातव्यम् इत्यनेन षट्सु पारमितासु छन्द-प्रणिधानाभ्यां कथं स्थातव्यमिति निर्दिष्टम् | न वस्तुप्रतिष्ठितेन इत्यादिनात्र योगसमापत्त्या (Vअज्रट्_१२२) कथं प्रतिपत्तव्यमित्यावेदितम् | एवं हि बोधिसत्त्वेन दानं दातव्यम् इत्यादिना विक्षेपं निगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतन्निर्दिष्टम् | तत्र न वस्तुप्रतिष्ठितेनेति प्रज्ञापारमितायां योगस्य याथावत्त्वं तावन्निर्दिष्टम् |
85 SK तत्र देय-दायक-प्रतिग्राहकादिवस्तुषु यत्तत्त्वतो ऽभिनिवेशनं तत् प्रतिष्ठानम् | यदि बोधिसत्त्वः वस्तुन्यभिनिविश्य पारमितायां युञ्जीत, मिथ्यायोगोभवेत्, परमार्थतः कस्यचिदप्यभिनिवेश्यवस्तुनः सर्वथाभावेन विपरीताभिनिवेशात्, तस्साधकबाधकप्रमाणाभावभावतश्च |
86 SK तथा हि- परैः परमार्थतः इष्टा विज्ञानव्यतिरिक्ता अर्थास्तावान्न प्रत्यक्षसिद्धाः, अर्थान्तरेण ज्ञानेन ग्रहणायोगात् | अर्थे सति साकारेण निराकारेण अन्याकारेण वा ज्ञानेन ग्रहणमिति त्रयः पक्षाः | तत्र तावन्न साकारेण चित्रवर्णादिदर्शनकाले एकज्ञानाभिन्नत्वादाकारणामप्येकत्वं प्रसज्येत, अथवा आकारभिन्नत्वादाकारवज्ज्ञानस्याप्यनेकात्मकत्वं प्रसज्येत |
87 SK अनेकत्वं तावन्न युज्यत एव, एकैकपरमाणुग्राह्यज्ञानानुभवाभावान्न सिध्यति तावज्ज्ञानस्यैकत्वम्, तदसिद्धावनेकत्वमपि खल्वसिद्धम्, एकैकसहंतिस्वरूपत्वाद् अनेकस्य | चित्राकारव्यवस्थापनायै अनेकज्ञानोत्पादपरिकल्पनयापि ज्ञानस्य विषयं व्याप्य स्थितत्वाद् ग्राहकज्ञानानामुत्पादो ऽपि न सम्भवति, अमूर्त्तत्वाज्ज्ञानानाम् |
88 SK अन्यच्च, सारूप्यं तावदेकदेशेन भवेत् सर्वात्मना वा | तत्र न तावत् सर्वात्मना- अर्थज्ज्ञानस्यापि जडस्वभावप्रसङ्गात् | न चैकदेशेन- एकस्य तावन्निरवयवत्वाद् | व्यावृत्तिभेदेनांशोपचारे ऽपि वस्त्वादिसारुप्यधर्माणां सर्वत्र (Vअज्रट्_१२३) विद्यमानत्वात् सर्वेण सर्वमवगम्येत | अथ तदुत्पन्नं तत्सारूप्यं चेत्येतद्द्वयेन वेदयतीति अर्थसारुप्यस्य समनस्तरप्रत्ययस्यापि ग्राहकत्वप्रसङ्गः |
89 SK सत्यपि सारूप्ये परमार्थतः बाह्यार्थो न प्रत्यक्षसिद्धः, नीलाकारात्मनो ज्ञानस्य स्वसंविदितत्वात् | यतो हि प्रत्यक्षैव नीलादिविज्ञप्तिर्नापरा | यत्तद् विज्ञानं तदेवार्थग्राहकमिति चेत्? भवतु नाम प्रज्ञप्तितः, न तु परमार्थतस्तद् वेदनम्, आत्माकारस्य स्वसंविदितत्वात्, अत्यन्तपरोक्षत्वादर्थानां कथं तदाकारं ज्ञानं भवेदिति | स्वाकाराधानेन तावदुत्पादको हेतुर्नैव नियमेन सिध्यति, व्यभिचारात् |
90 SK परमाणवः खलु नैव स्थूलप्रतीतिविषयः, सूक्ष्मत्वात्तेषाम् | न च संहिताः, तेभ्यो ऽनर्थान्तरत्वात् विकल्पविषयाणाम् असत्त्वाच्च | संहतार्थान्तरत्वे पृथक् प्रतिभासः स्यात् | आवृतानावृतयोश्च विरोधान्नैव तावद् युज्यत एकत्वम् | अनेकत्वे संघातस्य परमाणुरेव स स्यान्न त्वर्थान्तरः |
91 SK न च तावन्निराकारपक्षः- नीलादिष्वकिञ्चित्करत्वात्तस्य | भावमात्रेण वेदने सति सर्वैः सर्ववेदनप्रसङ्गः, अविशिष्टत्वात् सर्वस्य | अतो नीलसंवेदनमिदम्, न पीतमिति व्यवस्था न स्यात्, व्यवस्थायाः कस्यापि हेतुविशेषस्याभावात् | विशेषस्य कस्यचिदभ्युपगमे स एव तावत् साकारत्वाभ्युपगमः | प्रतीतिस्वभावमात्रे तावद् विशेषाभावाज्ज्ञानात्मनि नाकारातिरिक्तं भेदकमन्यत् स्यात् |
92 SK नैवान्याकारपक्षः, अतिप्रसङ्गात् | एवं हि सति रूपविषयकमाकारविज्ञानं तावत् परीक्षामर्हति, तथा हि- न तावत् प्रत्यक्षतो ऽर्थः सिध्यति, नानुमानादपि | अप्रत्यक्षस्यार्थस्य ज्ञानस्य च केनापि हेतुना सम्बन्धासिद्धेः | फलज्ञानाद् भिन्नस्य कारणमात्रत्वानुमाने नेष्टसिद्धिः, इतरस्य समनन्तरप्रत्ययस्य विद्यमानत्वात् | इतरत् प्रमाणं नास्ति, अतो तावन्नैव सिध्यति बाह्यो ऽर्थः |
93 SK न तावत् परमार्थतः ज्ञानस्वभावता प्रत्यक्षेण सिध्यति, अद्धैतस्वभावताया असंविदितत्वात्, अन्यथा न को ऽपि तत्त्वद्रष्टा स्यात् | नानुमानेनापि एवंविधेनाकारेण कस्यापि हेतोः सम्बन्धस्यासिद्धेः |
94 SK नन्वेवं कथं संक्लेशव्यवदाने स्यातामिति चेत्? न, त्वन्मते ताभ्यां सह तस्य कस्यचिदपि सम्बन्धस्यासिद्धत्वात् | तयोः परमार्थतः क्वचिदपि वस्तुनि (Vअज्रट्_१२४) सम्बन्धासिद्धेः | न तावत् तदुत्पत्तिलक्षणसम्बन्धः, सर्वथा परोक्षत्वात्तस्य | परोक्षेण सह सम्बन्धस्तु न केनाप्यर्वाग्दर्शिना ग्रहीतुं शक्यते | अविद्यादीनामविचाररमणीयत्वे ऽपि संक्लेशमूलत्वे नास्ति विरोधः, अविद्यादौ विचारेण तृष्णानिवृत्तौ व्यवदानम्, ततो विपक्षभूतलक्षणम् अविचारैकरमणीयमुपपद्यते, तदा परमार्थतो वस्त्वभावेन कथं तयोरप्यभावप्रसङ्गः | ये एतयोरेकान्तेन निर्हेतुकत्वमभ्युपगच्छन्ति, तेष्वेवायं प्रसङ्गः, न तु संवृतितः प्रतीत्यसमुत्पादवादिषु |
95 SK अत एव परमार्थतः भावस्वभावसाधकं किञ्चिदपि प्रमाणं नास्ति, अस्त्येव च बाधकम् | इत्येवं तावत्- यदेकानेकस्वभावविगतं तत् परमार्थतो निःस्वभावम्, गगनारविन्दवत् | परैरिष्टाः सर्वे ज्ञानज्ञेयात्मकाः भावाकाराः, एकानेकस्वभावशून्या इत्यतो व्यापकानुपलब्धिः, एकानेकाभ्यां व्याप्तत्वात् स्वभावस्य | द्वयमेतत् तत्र नास्ति | एवं तावद् रूपाद्यायतनानां बाह्यवस्तूनां नैकत्वम्, आवृत्यनावृत्योर्विरुद्धर्मयोस्तत्रोपलब्धे | अपि च, विरुद्धधर्मसंसर्गे ऽप्येकत्वे विश्वमप्येकद्रव्यं स्यात् | ततो युगपदुत्पत्तिविनाशौ स्याताम् |
96 SK नानेकत्वमपि, तथा हि- अनेकस्मिन् विभज्यमाने सति विभक्ताः परमाणव एव स्युः ततश्च पौर्वापर्यावस्थानं न स्यान्निरवयवत्वात् परमाणूनाम्, चित्तचैतसिकवत् | ततो दिशं व्याप्य अवस्थिता न प्रतिभासेरन् | अत एव दिग्भागभेदो ऽभ्युपगन्तव्य एव | सति चाभ्युपगमे कथं नाम भवेदेकत्वम् | अतः सिद्ध एव तावदेकानेकस्वभावविरहत्वं बाह्यार्थानाम् |
97 SK नीलादिप्रतिभासिनो ज्ञानस्यापि नैकस्वभावत्वम्, चित्राकारग्रहितयावभास्यमानत्वात्, भिन्नसन्तानवर्त्त्यनेकविज्ञानक्षणवत् | यथासंख्यम् अनेकविज्ञानानि युगपत् प्रवर्तन्त इत्यपि वक्तुं न युज्यते निरवयवानाममूर्तानां खलु पौर्वापर्यावस्थितेरयुक्तत्वात् | तथावस्थानाभावे न तथावभासः |
98 SK अथ स्यात्- विज्ञानं त्वेकमेव, मिथ्याकाराणां तत्रावभास्यमानत्वान्न नानात्वदोष इति चेत्? सति चैवं कथं ते तत्र भासेरन् मृषाः | अवभास इति प्रकाशात्मक उच्यते | तस्य ज्ञानगतधर्मत्वे सति मिथ्याकाराणां शशविषाणादिवदत्यन्ताभ्यावः स्यादिति कथमवभासेरन्निति |
99 SK ततः प्रकाशात्मकाकारेभ्यः मृषात्वेनाभ्युपेतेभ्यः कस्तावदन्यः ज्ञानस्वभावः सद्भूतस्ते ऽवशिष्यते, प्रकाशात्मलक्षणत्वाद् विज्ञानस्य | नीलादयो ऽपि प्रकाशात्मकाः स्वभावेनावभास्यमानत्वात् | नीलादीनां स्वस्वभावाद् भिन्नं यदन्यत् प्रकाशरूपमिति सद्भूतं किमपि नाति, अन्यव्यवच्छेदापेक्षया विशेषे प्रायशो व्यवहारात् |
100 SK विशेषाणां मिथ्यात्वे सर्वेषां मिथ्यात्वमतिविस्पष्टं स्यात् | निराकारस्य (मिथ्याकाररस्य) सत्याकारात्मनि (साकारात्मनि) ज्ञाने कथं नियमेनाअभासः स्यात्, तयोस्तावत् तादात्म्यलक्षणो वा तदुत्पत्तिलक्षणो वा सम्बन्ध एव नास्ति | सम्बन्धाभावे न खलु युज्यते ऽवभासनम्, अतिप्रसङ्गात् | अत एव नास्ति तावदसिद्धो हेतुः | भावानामन्याकाराभावान्नाप्यैकान्तिकः | न चापि विरुद्ध, सपक्षे सत्त्वात् | अत एव यथा यथार्थाश्चित्यन्ते विशीर्यन्ते तथा तथा | तथा चोक्तम्-
101 SK वस्तुस्वभावचिन्तायां यथा न सत्स्वभावता | एकानेकस्वभावो ऽपि न तेषां विद्यते तथा ||
102 SK अपि चार्यलङ्कावतारे भगवतोक्तम् :
103 SK यथा हि दर्पणे रूपमेकत्वान्यत्ववर्जितम् | दृश्यते न च तन्नास्ति तथा चोत्पादलक्षणम् | बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते | तस्मादनभिलाप्यास्ते निःस्वभावाश्च देशिताः ||
104 SK तथा चार्यमाधिराजसूत्रे ऽपि
105 SK यथैव आर्द्रं कदलीयस्कन्धं सारार्थिकः पुरुषु विपाटयेत् | बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् ||
106 SK तस्मात् सर्वभावानां मायावदविचाररमणीयत्वादनभिनिवेशेन दानं दातव्यम्, न तु वस्तुप्रतिष्ठितेन इत्ययमर्थो ऽत्र युक्तिसङ्गतः | एवं दानादिषु यथा योगस्तथा आदर्शितः, नान्यत्र |
107 SK यदि परमार्थत कस्यचिदपि वस्तुनो भावाभावाद् वस्तुप्रतिष्ठितेन दानं न दातव्यम्, तदा अवस्त्वभिनिवेशेन तु दानस्य कथैव का, अत एव न (Vअज्रट्_१२७) क्वचिप्रतिष्ठितेन इत्युक्तम् | बोधिसत्त्वेनाभावविकल्पो ऽपि प्रहातव्यः, भावग्राहाभावे सति तस्याप्यभावात् | संवृतौ तावद् देयदायकादयो भवन्त्येव | ततो वस्तुनो ऽभावे ऽपि तावदभिनिवेशो न युज्यत एवेत्यभिप्रायः | न रूपप्रतिष्ठितेन इत्यादिना बोधिसत्त्वेन न क्वचित्प्रतिष्ठितेन दानं दातव्यमित्येव विस्तरेणाभिहितम् |
108 SK धर्मः इत्यनेन शब्देन धर्मायतनं परिगृह्यते, आयतनेन प्रपञ्चः अभिव्यज्यते, अतश्चक्षुरादीनि आध्यात्मिकायतनानि नोच्यन्ते | अनुत्पादादयो विकल्पा अपि न करणीया इति निदर्शनार्थ सुभूते, यथा इत्याद्युक्तम् | निमित्तं तु वस्तुस्वलक्षणं लिङ्गं वानुत्पादादि, तस्योद्ग्रहणं संज्ञा | तत्र निर्विकल्पन्तु अप्रतिष्ठितम् | अत एव न क्वचित् प्रतिष्ठितेन इति निर्दिष्टम् | अथवा समग्रेणैतेन गाम्भीर्यमस्य व्यपदिष्टम्, अध्यारोपावादान्तौ प्रतिषिद्धौ चेति |
109 SK अस्मिन् दर्शने उपलम्भकानां ज्ञानपुण्यसम्भारपारिपूरोयोग्यत्वं प्रतिषिध्यते, एवं पूजानुग्रहकाम्यया यद् दीयते, तेनातितरां सम्प्रसादो जन्यते, न तु देय-दायक-प्रतिग्राहकानुपलम्भे प्रतिष्ठितत्वेन, एवं ह्यभावः, देयाद्यनुपलब्धत्वाद् विषयस्याभावाच्च | प्रथमपक्षे केनापि कस्यचिदपि देयस्याभावात् पुण्याभावः प्रसज्यते, (द्वितीयपक्षे तावत्) बोधिसत्त्वैः यो हि सत्त्वार्थं श्रम आस्थितः, सो ऽपि व्यर्थः स्यात् सत्त्वाभावात् | अत एव नाभावमात्रम् |
110 SK भगवता देयादिवस्तूनां दृष्टत्वात्, न च विषयस्याप्यभावः | अन्यथा कथं भगवतार्थिजनेभ्यः पुत्रादयः प्रदत्ता इति सर्वाण्येतानि चोद्यानि मनसि निधाय तत्कस्य हेतोः? इति पृच्छायां यः सुभूते, बोधिसत्त्वः इत्यादिना विसर्जितम् |
111 SK अयमभिप्रायः- सम्यग्दृटिविहितानि दानादीनि सुविशुद्धतया विशिष्टेष्टफलानि अभिनिर्वर्तयन्ति, न विपरीततया समुद्भूतानि, मिथ्यादृष्टिप्रवर्तितशीलाङ्गादिवत् | देयादिवस्तूनि यथोक्तन्यायेन कथञ्चिदप्यसत्त्वात् मिथ्योपलब्धान्येव, मरीचिकासु उदकोपलम्भवत् | तस्मात् तदुद्भूतः सर्वपारमिताइधिस्तावद् आत्मात्मीयविपर्यसोद्गतसोद्गतदानादिवदविशुद्धहेतोः सम्भूतत्वात् क्षीणबलः, देयाद्युपलक्षणप्राप्तानुपलम्भस्तु भूर्तार्थगोचरत्वादविपर्यस्तः, मरिचिकायामुदकानुपलब्धिवत् | तस्मादुपचितहेतुसम्भूतदानादीनि बृहत्फलानि, पुष्टबीजाभिनिर्वृत्ताङ्कुरादिवत् | अत एव अनुपलम्भप्रतिष्ठितानि दानादीनि सम्यग्दृष्टिसम्भूतानीति विपश्चित्सु प्रसादातिशयं जनयन्ति, नान्येषु |
112 SK ततश्च दानादिष्वप्रवृत्ततया पुण्याभावो देयादीनां चैकान्ताभावो नेष्यते, संवृतिसत्त्वाभ्युपगमात् | असमाहितावस्थायां मायावदुपलम्भान्न सर्वत्रानुपलम्भः | तदा चाधिमुक्तितः प्रादुर्भावादेवानुपलम्भो व्यवस्थाप्यते | समाहितावस्थायाम् उपलम्भस्यात्यन्ताभावमात्रम्, तदा दानादिषु प्रवृत्तिर्नाभ्युपेयते प्रयोगावस्थायां (Vअज्रट्_१२९) व्युत्थितावस्थायां वा क्रिययोपालम्भो न युज्यते | अतो महाफलत्वाय पारमितायोगस्यैदार्यमभिधीयते | संवृतौ कार्यकारणभावस्योपदर्शनाद् अपवादान्तो ऽपि निषिध्यते |
113 SK ३. रूपकायाप्तिकामता-स्थानम् :
114 SK त्रिधा पुण्यमाकाशसमं भवति- सर्वत्रगोदाराक्षयत्वैः | लौकिकलोकोत्तरपुण्यप्रसवनात् सर्वत्रगत्वम्, लौकिकं तावत् पुण्यमसमाहितावस्थायां प्रसूयते, लोकोत्तरं तु समाहितावस्थायामेव | विशिष्ट-विशिष्टतरगमनादुदारत्वम् | यावत्संसारमपर्यादानादक्षयत्वम् | तदभावान्न रूपप्रतिष्ठितेन दानं दातव्यमिति बोधिसत्त्वः तथागतरूपकायाप्तिकामनया दानादिषु कथं प्रवर्तेतेति चेदिति चोद्यमाशङ्कय तत्किं मन्यसे सुभूते इत्यादिना रूपकायाप्तिकामता स्थानं निर्दिष्टम् | अर्थतो ऽत्र रूपकाये तथागतत्वाभिमानलक्षणो विपक्षो ऽपाक्रियते | लक्षणसम्पदा इति निमित्तमात्राभिधानेन तथागतस्य निखिलो रूपकायः लक्षणानुव्यञ्जनैरलङ्कृतः परिदीपितः |
115 SK तत्र लक्षणानि तावत् चक्राङ्कहस्तपादतादीनि द्वात्रिंशत् पदबाहुल्यभिया नोल्लिख्यन्ते, सूत्रेषु यथोक्तानी तथैवावधेयानि | स्थानस्थोत्तप्तपूर्णत्वेन निष्पत्तिः | (Vअज्रट्_१३०) अशीतिरनुव्यञ्चनानि ताम्रवर्णनखादीनि, यथासूत्रं ज्ञातव्यानि | तानि लक्षनादीन्यपि मायानिर्मितबुद्धलक्षणवन्मिथ्यैव | अत एव तथाविधे रूपकाये छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्देशः |
116 SK अथेमानि लक्षणानि परमाणुसञ्चयस्वभावानि वा तदारब्धावयविरूपाणि वा भवेयुरिति? न तावत् प्रथमः पक्ष, परमाणूनां पूर्वमेव निरस्तत्वात् | नापि द्वितीयः, असति चारम्भके तदारब्धावयविनो ऽप्यभावात्, पूर्वोक्तावरणादिविरुद्धर्मोपलम्भाच्च | तदुद्दिष्टेनाभिहितो ऽभिप्रायः | एतद् विचिन्त्य सुभूतिराह नो हीदम् इति व्यक्तीकृतम् |
117 SK यदि लक्षणानि मृषा भवेयुस्तर्हि कथं भगवता तत्तत्सूत्रेषु लक्षणानि समुपदिष्टानीति चिन्तयन् तत्कस्य हेतोः इति पृष्ट्वैवं सैवालक्षणसम्पद् इत्याह | सा लक्षणसम्पत् तावन्नोक्ता परमार्थतः | मायानिर्मितबुद्धवदित्यनेन मृषास्वभावत्वमात्रमुक्तमित्यर्थः |
118 SK आर्यसुभूतिनोक्तमेवार्थ परिपूरयितुं भगवता यावत् इत्याद्याह | यावल्लक्षणसम्पद् इति परमार्थतो यावल्लक्षनसम्पत्स्वभिनिवेशः, तावन्मिथ्याभिनिवेश एवेत्यर्थः, यथोक्तमेव पूर्वम् | यावल्लक्षणसम्पद् इति तद्वीपरीततया अभिहितेत्यवगन्तव्यम् | एतेन योगसमापत्त्या कथं प्रतिपत्तव्यमिति तद्देशितम् | कथमन्तद्वयं परिवर्ज्य चित्तं प्रग्रहीतव्यमिति तन्निर्दिष्टम् | एवम् इति मायानिर्मितबुद्धवल्लक्षणतस्तथागतो द्रष्टव्यः | अनेनापवादान्तो निराक्रियते, संवृतौ भगवतो रूपकायस्पाप्रत्याख्यानात् | अलक्षणं तावत् परमार्थे द्रष्टव्यम्, कस्यापि लक्षणस्यासिद्धत्वात् | अनेन तावत् समारोपान्तो निराक्रियते | तथागतस्य रूपकायावाप्तये प्रणिधानैस्त्वौदार्यमुक्तम् | तदनुपलम्भतया च गाम्भीर्यम् | रूपकायाप्तिकामतास्थानं तावदुक्तम् |
119 SK ४. धर्मकायाप्तिकामतास्थानम् : (अ) प्रवचनधर्मकायः
120 SK द्विविधः खलु धर्मकायः- प्रवचनधर्मकायः, अधिगमधर्मकायश्च | अधिगमधर्मकायो ऽपि द्विविधः-ज्ञानहेतुकः पुण्यहेतुकश्च | तत्रानागते पुरुषेषु पञ्चकषायाणामाधिक्यादेवंविधधर्मरत्नस्य अत्यन्तगम्भीरोदारफलत्वात् प्रवचनधर्मकाये ऽनाप्तत्वाशङ्कया अस्ति इति पृष्टवान् | अस्ति इति पदं तु केचित् सत्त्वाः ये इमेष्वेवंरूपेषु सूत्रान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादयिष्यन्ति इत्यर्थपदेन योज्यम् | पश्चिमायां पञ्चशत्याम् इत्यत्र शतानां पञ्चकं पञ्चशती, भगवतां शासनं पञ्चशतवर्षाणि स्थास्यतीति प्रसिद्धेः | अत एव पश्चिमेति विशेषणं विहितम् | तस्मिन् काले पञ्चकषायाणामधिमात्रता भवति |
121 SK सद्धर्मविप्रलोपस्तावद् अधिमुक्ति-वाचन-स्वाध्याय-उपदेश-आख्यान-श्रवण-चिन्तादीनां हानिः | एवं इति गम्भीरोदारार्थः | सूत्रान्तपदेषु इति सूत्रान्तदेशनावाचः, ताभिरर्थस्य प्रतिपाद्यमानत्वात् ज्ञाप्यमानत्वाच्च | अनेन निमित्तमात्राभिधानेन समस्तप्रवचनधर्मकायस्तावत् परिदीप्यते | अथवा सूत्रान्तपदेषु इत्यभिधियमानार्थकेषु | अस्मिन् कथने ऽएवम्ऽ; इत्यनेन तावद् गम्भीरौदार्ये योजनीये | भाष्यमाणेषु इति प्रथमतया अभिधियमानेषु | द्वीतीयतया (Vअज्रट्_१३२) अर्थप्रतिपादकेष्वित्यर्थः | अर्थतो ऽविपर्ययस्तसंज्ञैवात्र भूतसंज्ञेत्यभिधीयते न तु शब्दाभिनिवेशमात्रम् ऽअयं भूतःऽ; इति संज्ञा | अनेन तावदर्थसिद्धौ अभूतसंज्ञा निराक्रियते |
122 SK सर्वत्राप्रतिहतज्ञानेन तान् भाविनः (सत्त्वान्) प्रत्यक्षवद् दृष्टवा भगवान् सूभूतिसशयं परिहर्तुं भविष्यन्ति इत्याह | महासत्त्वाः इति तेषां बोधिसत्त्वगुणानां सम्प्रदर्शनार्थमुक्तम् | ते ऽपि यथा प्रतिपन्नाः, यादृशेन च हेतुना सम्प्रतिपन्नाः, याद्दृशेन कल्याणमित्रेण परिगृहीताः, यथा वा भूतसंज्ञया संज्ञितास्तान् भगवान् परिदीपितंवान् | शीलवन्तः गुणवन्तः प्रज्ञावन्तश्च इत्यनेन तु क्रमशो ऽधिशीलाधिचित्ताधिप्रज्ञाश्चेति शिक्षात्रयप्रतिप्रत्तिसमन्विताः निर्दिष्टाः | शीलप्रज्ञयोश्च पृथगुक्तत्वाद् गुणस्तावदत्र ध्यानजो ग्राह्यः, गोबलीवर्दन्यायेनेति |
123 SK क्लेशवति पश्चिमकाले तु कथं तथाविधशीलादिगुणवन्तो भविष्यन्तीति चिन्तयित्वा सूभूते इत्याद्याह | पर्युपासिताः इति चीवर-पिण्डपातादिभिः पर्यूपासिताः, छत्रध्वजपताकादिभिश्च पूजिता भविष्यन्ति | अवरोपितकुशलमूलाः तावदववादमनुशासनीं च शिरसादाय शीलादिगुणसम्पद्भ्यः प्रयत्नवन्तो द्रष्टव्याः | तेषां ततो ऽपि बहुतरं पुण्यमभिधातुं अनेकबुद्धशतसहस्रः इत्युक्तम् | (Vअज्रट्_१३३) अनेन तेषां हेतुसिद्धिः संदर्शिता | ज्ञातास्ते तथागतेन इति नामान्याशयाश्च | दृष्टास्ते तथागतेन इति कायाः |
124 SK अनेन तावत् कल्याणमित्रपरिगृहीता इओति दर्शितम् | तच्च सम्प्रस्थितानां प्रोत्साहनार्थम्, विप्रस्थितानां ह्रीसञ्जननार्थमाह | अन्यथा सर्वेषां ज्ञानात् ज्ञानात् सर्वज्ञो भगवानिति देशनया को विशेषो दर्शितो भवेत्, अथवा तत्तेषां भव्यत्वं यत् तत्प्रमुखं कृत्वा देशना प्रवर्तितेत्यवगन्तव्यम् | भव्या ज्ञाता इति वाक्यशेषः | अतस्तेषामशेषं पुण्यस्कन्धसङ्ग्रहं दर्शयितुं सर्वे ते सत्त्वाः इत्याह | प्रसविष्यन्ति इति पुण्योत्पादकालः, प्रतिग्रहीष्यन्ति इति निरोधकाले तद्वासनाः परिग्रहीष्यन्ति |
125 SK एभिः सर्वैरभूतसंज्ञां निराकृत्य भूतसंग्योत्पादने छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितं तथा स्थानस्यास्यौदार्यमपि परिदीपितम् | तत्कस्य हेतोः? ते अनेकबुद्धशतसहस्रपर्युपासिताः कथं ज्ञास्यन्त इति ज्ञापकहेतौ परिपृष्टे ऽत्र तेषां बोधिसत्त्वानां महासत्त्वानाम् इत्याद्याह | अनेन तवत् योगसमापत्तौ कथं प्रतित्तव्यमित्येतत् प्रकाशितम्, गम्भीरता चाप्यभिहिता |
126 SK अहमित्यात्मग्रहणम् आत्मसंज्ञा सा | ममेति ग्रहणं सत्त्वसंज्ञा, तस्यैवात्मन आ स्थितिं परिग्रहः जीवसंज्ञा, पुनः पुनः गतिषु गमनादानं पुद्गलसंज्ञा | यदि नास्ति आत्मादिसंज्ञा तर्हि किं श्रावकादिवद् अस्ति रूपादिधर्मसंज्ञा? इति चिन्तायां न धर्मसंज्ञा इत्युक्तम् | परमार्थतः कस्यचिदपि धर्मस्याभावादित्यभिप्रायः |
127 SK अथ किम् उच्छेदवादिनामिव अभावसंज्ञा? इति चिन्तायां एवं नाधर्मसंज्ञा प्रवर्तते इत्युक्तम् | संवृतौ अविचाररमणीयतया धर्माणां सद्भावात् संवृतिपथस्थितेभ्यस्तावद् अधर्मसंज्ञा नैव युक्तिमती, न तु परमार्थज्ञानस्थितेभ्यः | तन्निषेधान्न कश्चिद् धर्म उपलभ्यते यत्राधर्मसंज्ञा प्रवर्तेत, धर्माग्रहणे तदभावात् | विषयाभावनिषेधस्तु न कुत्रापि सम्भवति, तद्यथा सत्ये ऽपि विज्ञप्तिमात्रे विज्ञप्तिमात्रतेयमिति विकल्पयन् न विज्ञप्तिमात्रतायां स्थितः, एवमेव सत्ये ऽप्यधर्मे ऽधर्मबोधस्य तत्रावस्थानासम्भवात् सर्वं समानम् |
128 SK यद्यात्मादीनामसत्त्वं तदा तत्र तत्संज्ञाया अप्रवृतौ सत्यां ऽआत्मैव रूपमिदम्ऽ; इत्यादिकं नाममात्रमिति नामाभिनिवेशसंज्ञा तेषां भवेदिति मत्वा संज्ञापि इत्युक्तम् | नाम्नस्तावद् रूपस्कन्धान्तर्भूतत्वाद् रूपादिवद् मिथ्यात्वमेव, विप्रयुक्तमपि प्रज्ञप्तिमात्रमिति | तस्मात् संज्ञापि मिथ्याभिनिवेश एवेत्यभिप्रायः |
129 SK यद्येवं तर्हि तस्यामवस्थायां सर्वसंज्ञाविगमाद् मृत-निरोधसमापन्नपुद्गलवद् योगिनो ऽभाव एव स्यादिति नापि..... नाअंज्ञा प्रवर्तते इत्युक्तम् | येन ते योगिनो भवन्ति, तच्च योगिज्ञानं तथ्यसंवृतिस्वभावमिति | व्युत्थाने शुद्धलौकिकज्ञानमुद्भवतीति, अन्यथा अहेतुकमेव तद् भवेत् | यद् योगिज्ञानं संवृतिस्वभावं तत् केनावगम्यत इति चेत्? तेनैव हेतुना | यथा प्रत्यात्मवेद्यतया पुद्गलनैरात्मावबोधेन आत्मस्थितं पुद्गलनैरात्म्यमधिगम्यते, अत्रापि तत्तुल्यम् | ज्ञानं संवित्तिश्च न संवृतौ नाभ्युपगम्येते | योगिना स्वलक्षणप्रत्यभिमुखीकरणात् तत्रस्थं नैरात्म्यं नोपलभ्यते, तदानीमतीतादेस्तावदसंनिहितत्वादनन्तत्वाच्च |
130 SK कथ तर्हि? निःस्वभावताविचारेण तद्गोचरीभूतानां सर्वधर्माणां सामान्येन नैरात्मसङ्ग्रहात् या खलु व्यवस्था सैव युगपदुलम्भनम् | तेषां तज्ज्ञानमपि परमार्थतो ऽविषय एव, (तथापि) सत्यस्वप्नज्ञानवदविसंवादकत्वेन प्रामाण्यं व्यवस्थाप्यते | सामान्येन तत्र तदात्मभावो ऽपि संगृह्यते, न तत्र पृथक् तदालम्बकत्वम् | तस्मात् सति नैरात्म्यद्वयावबोधे तेषामनेकशतसहस्रबुद्धानां पर्युपासनं प्रतीयते | बुद्धानामपर्युपासनया तावन्न सम्भवति तदवबोधः तैर्थिकवत् | स तु संसारे न उचितो भवतीत्यभिप्रायः | अनया योगसमापत्त्या कथं प्रतिपत्तव्यं कीदृश्या च भूतसंज्ञया तत् संज्ञातव्यमिति संदर्शितं तद्गाम्भीर्यमित्यपि च परिदीपितम् |
131 SK आत्मादीनामसत्त्वे तेषामात्मादिसंज्ञाया अभावात् पदसमुदायादिभिः आत्मत्व सूक्तं दुरक्तं च लक्षणं धर्माधर्मसंज्ञं किं तेषु नियमेन न प्रवर्तते? नैवम्, यदि बोधिसत्त्वाना न भवेत् तत्र संज्ञा, (तर्हि) अयुक्तयुपपन्नतीर्थकरधर्मान् परित्यज्य भगवद्देशितेषु धर्मेषु तदधिगमाय कथं छन्द उत्पादनीय इत्याशङ्कायां तत्कस्य हेतोः? इति तत्समाधानाय सचेत् सुभूते इत्याह |
132 SK अयमभिप्रायः- एकानेकस्वभावविचारेण यथा रूपादिलक्षणधर्मा न संविद्यन्ते, तथा देशनाधर्मा अपि | यत्र धर्मसंज्ञा तत्रात्मादिसंज्ञा अपि निश्चयेन नैव प्रहीणा, धर्मनिमित्तग्रहणमूलत्वात् तस्याः | धर्मनिमित्तग्राहकमनसिकारस्य (Vअज्रट्_१३६) तस्या एव मनसिकाररूपत्वात् मैत्रीप्रभृतिषु तत्त्वमनसिकारासद्भावे नात्मदृष्टिः परिहीयते | अत एव एकमेव यानम्, तच्च महायानमित्युक्तम् |
133 SK अपि च, बोधिसत्त्वानां सा धर्मसंज्ञा यद्यवश्यमनुत्पन्नदर्शनमार्गः स्यात् तथा सति तेन कथमात्मादिसंज्ञा प्रहीणा स्यात्? दर्शनमार्गप्रहेयत्वात्तस्याः | अतः सर्वमेतत् परीक्ष्य स एव तेषामात्मग्राहो भवेत् इत्युक्तम् | तस्य तद्धेतुत्वात् तदनुशयाप्रहीणत्वाच्चेत्यभिप्रायः | अन्यथा तयोर्भिन्नाकारत्वात् कथं धर्मसंज्ञैव आत्मग्राहः स्यादिति | धर्मास्तावदत्र युक्त्युपपन्नागमलक्षणा एवेष्टाः तद्विपरीता अधर्माः | एवं सति तत्तत्सूत्रेषु कथं भगवता बोधिसत्त्वेभ्यः सद्धर्मः परिग्राहयिष्यते? एवमनुचिन्त्य तत्कस्य हेतोः? इति परिपप्रच्छ | तदर्थं सुभूते इत्याद्याह | नोद्ग्रहीतव्यः वितथमार्गेण विपरीताभिनिवेशक्षणेन नोद्ग्रहीतव्यः, सत्य इति नाभिनिविष्टव्यमिति वाक्यार्थः | अभिप्रेतसिद्ध्यर्थं कोलोपमदेशितस्य लक्षणस्य न ग्रहणनिषेध इत्यभिप्रायः |
134 SK तस्मात् इत्यादिना स एवार्थः पदान्तरै प्रयुक्तः, यतो हि सर्वो धर्मो ऽधर्मश्च सत्य इत्यभिनिवेशस्य विपरीताभिनिवेशत्वाद्, युक्त्योपपन्नो य आगमसमूहः संसारार्णवोत्तरणाय प्रोक्तः कोलोपमः स (यदा) पारं गत्वा निष्प्रयोजनत्वात् परित्याज्यो भवति, किमु (तदा) ते ऽयुक्तयोपपन्नास्तैर्थिकानामिवाधर्माः | सप्रयोजनमपि तदालम्बनं मया नानुज्ञातमित्येवमुक्तवान् तथागतः | अन्यथा धर्माधर्मादिकं यदि सत्यस्वभावं स्यात् तदा परमार्थविषयत्वात् तदभिनिवेशस्य संसारपारगतेष्वपि युक्तिसहं (Vअज्रट्_१३७) स्यादिति, किमिति तथागतः तन्निषेधतीति? इति तु संग्रहार्थः | तथा आर्यरत्नकरण्डसूत्रे ऽपि भगवता उक्तम्-
135 SK ᳚भदन्त सुभूते कोलोपमं धर्मपर्यायजानद्भिर्धर्मा एव प्रहातव्याः, प्रागेवाधर्मा इति | यो हि धर्मः प्रहीयते, सो ऽपि नाधर्मः इति |᳚
136 SK यः सूत्रादिधर्मपर्यायः स कोलोपम उच्यते | धर्मा एव इत्येतद् उपलक्षणम् | तेन रूपादयो मार्गलक्षणाश्च धर्माः संगृह्यन्ते | अधर्मा इत्यपि उपलक्षणमात्रम्, तेन प्रसिद्धविरुद्धाः अधर्मलक्षणाः परपरिकल्पिता आत्मादयश्च उपदिष्टास्ते ऽपि संगृह्यन्ते | अथवा धर्माधर्माभिधेयाभिधानात् न सर्वसंग्रहे दोषः | अनेन तावद् विक्षेपं नीगृह्य कथं चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् |
137 SK [ब] अधिगमधर्मकायस्थानम् : [१] ज्ञानहेतुधर्मकायः ननु धर्मादयः सर्वे परमार्थतो मिथ्यास्वभावाः, तदा अभिसम्बुद्धो भूत्वा ऽभगवता सर्वे धर्मा देशिताःऽ; इति तदपि मृषैव स्यात्, अत एव बोधिसत्त्वैः तथागतज्ञानहेतुमधिगमधर्मकायं प्राप्तुं छन्दो न जनयितव्यः, इत्येतद् विचार्य ज्ञानहेतुधर्मकायावाप्तये छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्यक्तम् |
138 SK अनेनार्थतः परमार्थस्तु अनुत्तरा सम्यक्संबोधिरिति अभिसम्बुद्ध इत्येतयोः (Vअज्रट्_१३८) ग्रहणमपि विपक्षतया परिदीपितम्, तथ्यसंवृतिस्वभावं तु तथागतस्य ज्ञानहेतुं ज्ञानधर्मकायं प्राप्तुं छन्दः प्रणिधानं च प्रदर्शिते | अनुत्तरा सम्यक्सम्बोधिः इत्युपलक्षणमात्रपरिदीपनेन श्रावक-प्रत्येकबुद्धादीनां प्रतिपत्तिभेदेन भिन्नः ज्ञानहेतुको ऽधिगमकायस्तावन्निर्दिश्यते | श्रावकादीनामपि गुणा बोधिसत्त्वेनावगन्तव्या एव, अन्यथा कथं तावत् सर्वज्ञपदलाभः |
139 SK संवृतिस्वभावस्त्वेवम्- सम्बोधिः सम्बोद्धव्यं देशना देशितव्यमित्यादयः सर्वे पर्यायाः | भगवता कं परमार्थाभिप्रायमभिलक्ष्य सर्वं मिथ्यैवेत्युक्तम्, तदुक्ताभिप्रायं संगृह्य आर्यसुभूतिस्थविरः यथाहं भगवतो भाषितस्यार्थमाजानामि इत्येतदवोचत् | यथाहमाजानामित्यभिप्रायविवरणम् | कस्मान्नाभिसम्बुद्धः, धर्मदेशना च न स्त इति चिन्तायां तत्कस्य हेतोः? इति | अग्राह्यः इति परमार्थस्तावन्निर्विकल्पज्ञानगोचरो ऽपि न भवतीति उक्तपूर्वम् | अनभिलाप्यः शब्दाविषयत्वादिति | सर्वे शब्दगोचरास्तावत् समारोपितसामान्यमात्रात्मकाः, सामान्यस्य चाभावरूपत्वात् | इमौ द्वौ (शब्दौ) अभिसम्बुद्धाभावस्य धर्मदेशनाभावस्य च यथाक्रमं हेतुतयाभिहितौ |
140 SK ननु स्युः सर्वे भावा अग्राह्याः अनभिलाप्याः, तथापि स्वलक्षणधारणात् परमार्थतः धर्मस्वभावतास्थिता एवेत्याशङ्कायां न स धर्मः इत्याह | सर्वभावानां परमार्थतः स्वभावेन परिनिर्वृत्तत्वान्न सम्भवति स्वलक्षणधारकत्वम् | यद्येवं तर्हि भगवता अभावो ऽभिसम्बुद्धो द्रष्टव्य इति विचार्य नाधर्मः इत्युक्तम् | स तु प्रसज्यप्रतिषेधस्वभावः अनेन तावत् योगसमापत्तिं निर्दिश्य अध्यारोपो ऽपवादान्तश्च निरस्तौ | तत्कस्य हेतोः? इत्युपपत्तिः पृच्छ्यते, तदर्थं असंस्कृतप्रभाविताः इत्याह | असंस्कृतत्वं तावद् धर्माणां परमार्थस्वभावः, तच्च युक्त्या विचार्यमाणमनुत्पत्तिलक्षणमेव पर्यवस्यति, यथा पूर्वं विचारितम् |
141 SK उक्तं भगवता धर्मसंगीतौ-
142 SK ऽयो आनन्द, धर्मो ऽनुत्पन्नः, अनिरुद्धः, अस्थितः अविकृतस्तदुच्यते आर्यसत्यमितिऽ; | इदमानन्द, अभिसन्धाय तथागतेन असंस्कृतप्रभाविता आर्यश्रावका इति देशितम्, यथा पूर्वमुक्तम् |
143 SK अयञ्च ऽउत्पादाद् वा तथागतानाम्, अनुत्पादाद् वा तथागतानाम्, नित्यं तथैव सत्त्वान्निर्विकारत्वाच्चासंस्कृतः, तदधिगमादार्यपुद्गलाः तत्प्रभाविता भवन्ति, धर्मतत्त्वाधिगमेन प्रभावितत्वादार्यणाम् | अन्येषु तत्त्वसद्भावो नैव तावद् युज्यते, तच्च (तत्त्वं) असंस्कृतमपि न (स्यात्) प्रसज्यप्रतिषेधस्वभावाभावात्, भावस्वभावस्वात्तस्य | आर्यैः नान्यविधो भावस्वभावो ऽवबुध्यते, तद्भिन्नस्वभावस्यैवाधिगमात् | भावग्रहणाभावेन तदभावरूपत्वे सति भावग्राह एव तावत् प्रसज्यते | अत एव आर्यसन्धिनिर्मोचनसूत्रे उक्तम्- ऽन तत्त्वस्य भावादितरो ऽर्थःऽ; इति |
144 SK अतः यथोक्तदोष आपद्यते | तत्तु (तत्त्वं) परमार्थतो नास्ति भावस्वभावः, असिद्धैव भावस्वभावता कस्यापि | भावस्वभावतेव तदपि (Vअज्रट्_१४०) संस्कृतं प्रसज्येत | अतः अभावरूपत्वेन धर्मेषु सत्त्वादतत्त्वमेव स्वभावेन तत् | सर्वेषामपि तज्ज्ञानप्रसङ्गः, भावस्वभाववत् | संक्लेशहेतुप्रसङ्गो ऽपि दुर्निर्वारः स्यात् | अत एव तेषु आर्यसन्धिनिर्मोचनादिषु- ऽन तत्त्वस्य भावादितरो ऽर्थःऽ; इत्युक्तम् | अत एव न धर्मो नाधर्मः इत्युवाच | अनेन भावाभावसदसदादीनां निषेधरूपं देशितम् | अपि चानेन विक्षेपनिग्रहो ऽपि निर्दिष्टः | एतत्सर्वैः स्थानस्यास्य गम्भीरत्वमपि संदर्शितम् |
145 SK (२) पुण्यहेतुकधर्मकायः
146 SK यदि भगवतो ऽभिसम्बोधिर्वा धर्मदेशना वा नास्ति कश्चिओद् धर्मः, कथं तर्हि बोधिसत्त्वेन पुण्यहेतुधर्मकायं प्राप्तुकामेन सद्धर्मपरिग्रहे ऽनुप्रवर्तितव्यमिति विचिन्त्य पुण्यहेतुधर्मकयकामताच्छन्दोत्पादनाय तत्किं मन्यसे सुभूते इत्युक्तम् | तत्र सप्तरत्नानि तावत् स्वर्ण-रौप्य-वैडूर्य-अश्मगर्भ-मुसारगल्व-लोहितमुक्ता-स्फटिकाः आर्यसद्धर्मपुण्दरीके उक्तानि | ऽचतुर्दीपादानां सहस्रं (Vअज्रट्_१४१) साहस्रो लोकधातुः | तत्सहसं द्विसाहस्रः | तत्सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुःऽ; | ततो निदानम् इति रत्नदानानां निदानात् ततः पुण्योद्भवः, तदहेतोः सम्भवतीत्यर्थः | सर्वाणि कुशलचित्तानि, तदुत्पन्ना वासनाः पुण्यानि | तेषां राशिः स्कन्ध इति | फलबाहुल्यात् तद्बाहुल्यम् | बहु इति विशेषणम् | बहु बहु इति द्विरुक्त्या बाहुल्याधिक्यम् |
147 SK यदि परमार्थतः सर्वे (धर्माः) अनुत्पन्नाः, कथं ततो निदान पुण्यस्कन्धं प्रसुनुयात्? इत्याशङ्क्य तत्कस्य हेतोः? इत्युक्त्वा स्वयमभिप्रायं विदित्वा अस्कन्धः इत्यभिहितवान् | परमार्थत इति शेषः | प्रज्ञप्तिसत्त्वात् स्कन्धानां न पुण्यस्कन्धो भावरूपेण सम्भवति | पुण्यमपि वासनास्वरूपमवस्थाविशेषे उपचर्यते | भावानां स्थिरत्वेन अभिसंस्कारेण अप्रवृत्तत्वात् चित्तमपि प्रज्ञप्तिसन्मात्रमेव | एकानेकस्वभावेन प्रतिस्वं परीक्षायां मिथ्यैव तावत् स्वभावः | अत एव न पुण्यस्कन्धः परमार्थतो विद्यते |
148 SK अनेन योगसमापत्तिः परिदीपिता, अध्यारोपान्तश्च निषिद्धः | विद्यन्त एव पुण्यस्कन्धाः संवृतौ | अत एव पुण्यस्कन्धस्तथागतेन भाषितः इत्युक्तम् | यद्येवं न स्यात्, परमार्थतः स पुण्यस्कन्धो भवेत् (तदा) परमार्थस्य शब्दागोचरत्वात् न भवेत् तदभिधानम् | अभाषितमित्येवं वचनं निरर्थकमिति चेत्? यतो भाषितास्तस्मात् संवृतावेवेत्यवगन्तव्यम् | अनेनापवादान्तस्य निषेधो निर्दिष्टः | एवमार्यसुभूतिना अन्तद्वयपरिहारः कृतः |
149 SK तदनन्तरं पार्षदा उदारधर्मश्रवणभव्याः, तेन च बहुतरं पुण्यमिति आवेदितुं भगवता यश्च खलु पुनः सुभूते इत्याद्युक्तम् | अनेन तथागतानां (Vअज्रट्_१४२) पुण्यहेतुकाधिगमकायस्य प्रवचनकायतो निर्जातत्वात् ततश्चतुष्पादिकायामपि गाथायां देश्यमानायां (यदा) तादृशं पुण्यायतनं भवेत् (तदा) तथागतानां पुण्यहेतुकधर्मकायस्य तु कथैव केति निर्दिश्यते | नायं पदार्थः, (तथापि) सामर्थ्यलभ्यो ऽयमर्थ इत्यदोषः | एतेन परमार्थतः धर्मदेशनायाः अभिसम्बुद्धस्य चाप्यसत्त्वे संवृतौ तावत् पुण्यकायदेशनायाः सत्त्वात् बोधिसत्त्वैः पुण्यमधिगान्तुं प्रवर्तयितव्यमेवेत्यभिप्रायः |
150 SK अनेन तावद् विशिष्टपुण्यप्रतिपादनेन औदार्यमस्य परिदीपितम्, तदुत्पादाय च छन्दप्रणिधाने निर्दिष्टे | षट्पादिकाया गाथायाः सत्त्वे ऽपि चतुष्पादिका इति विशेषीकृता | गाथा इति यत्र न यतिओ, ऽपादऽ; शब्देन चतुःपादं गाथापरिमाणं परिगृह्यते | उद्गृह्य इति स्वाध्यायं विधाय | देशयेत् इति पदानि | सम्प्रकाशयेत् इत्यर्थः | असंख्येयम् इति संबहुलम् | अप्रमेयम् इति प्रमविषयातीतत्वात् | अनेन चार्थतः पुण्यानुत्तिविपक्षस्तावन्निराकृतः | पुण्यमित्युपलक्षणमात्रमेतेन तथागतस्य समस्तः पुन्यसम्भारो निर्दिष्टः |
151 SK किमिति श्रद्धेयमात्रमुत युक्तितो ऽवगम्यमिति मनसि कृत्वा तत्कस्य हेतोः? इति पृच्छायाम् अतो निर्जाता हि सुभूते, तथागतानामर्हतां सम्यक्संबुद्धानामनुत्तरा सम्यक्संबोधिः इति युक्तिवचनमभिहितवान् | एवं (Vअज्रट्_१४३) बहुतरं पुण्यम् इति तच्च बृहत्फलत्वात्तत् बहुतरं पुण्यम्, न तु स्वरूपतस्यस्य कायाभावात् | रत्ननिर्जातं तत्पुण्यं तु महापरिभोगादि गौणसाअंसारिकं फलं प्रापयति | प्रज्ञापरिगृहीतत्वे सति दानादीनां महाबोधिफलमधिगम्यते, न तु प्रादेशिकानाम् | धर्मदानेन तावदक्षयाप्रतिमतथागतपदप्राप्तेः तन्महत्त्वं किमिति न प्रसक्तम्? यथा धर्मेणानुग्रहो न तथा रत्नैः परेषामनुग्रहः | तथा हि परेभ्यः सम्प्रकाशितेन क्रमशो ऽनेन धर्मेण क्षिप्रमेव बुद्धत्वपदं लभ्यते, न तु रत्नैः | अत एव परेभ्यः परानुग्राहकत्वाद् रत्नदानाद् धर्मदानं विशिष्टमित्याभिसन्धिः |
152 SK अतो निर्जाताः इति संसाध्यते | दशचरितानि निःश्रित्य पारम्पर्येण प्राप्यन्त इत्यर्थः | तानि तावद् दश चरितानि- लेखनं पूजनं दानं वाचनं श्रवणम् उद्ग्रहणम् सम्प्रकाशनं स्वाध्यायः चिन्तनं भावना चेति | अतो निर्जाताश्च बुद्धा भगवन्तः इति संवृतौ एतान्याश्रित्य बुद्धाः प्रज्ञप्ता इति (Vअज्रट्_१४४) वाक्यशेषः परमार्थतस्तु बोधिः बुद्धश्च भिन्नौ न स्तः | अनेन तावत् पुण्यस्य परमवैशिष्टयपरिदीपनेन तदुत्पादयितुं छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् |
153 SK यदि परमार्थतः सर्वधर्मानुत्पाद एव तदा सर्वे बुद्धधर्मा अप्यनुत्पन्ना एव भवेयुः तत्कथम् अतो निर्जाता अनुत्तरा सम्यक्संबोधिरिति? न बुद्धानां बोधेर्भिन्नत्वमिति विचार्य तत्कस्य हेतो? इति परिपृच्छा, एतदर्थमत्र बुद्धधर्माः इत्युक्तम् | बुद्धप्रज्ञप्तिहेतुका अनुत्तरसम्यक्संबोधिलक्षणा धर्मा एव हि बुद्धधर्माः | तस्मान्नैव केवलं बोधिभिन्नाः परमार्थतः बुद्धाः, अपितु प्रज्ञप्तिहेतुत्वाद् अतो निर्जाता बुद्धः इत्युक्तमित्यभिप्रायः | ते ऽपि परमार्थतो ऽनुत्पन्नत्वाद् अबुद्धधर्मा इति, संवृतिमाश्रित्य तथागतानामनुसम्यक्संबोधिस्तु अतो निर्जाता इत्यादिना तथागतेन भाषिता, न तु परमार्थत इति | अत एव तत्तदितरपक्षेभ्यः बुद्धधर्मा इति परमार्थतो नैव वक्तुं शक्यते | प्रत्यात्मवेदनीयत्वेनानभिलाप्यास्त इत्यभिप्रायः | अनेन योगसमापत्तिः विक्षेपनिग्रहः गाम्भीर्यञ्च देशितानि |
154 SK अत्र केचिदाहुः कथं त्रिधा भिन्नो ऽयं धर्मकायः | अथ धर्मकायप्राप्तिः धर्मकायहेतोश्चानुरूपतया पुण्यस्वभावः, प्रज्ञप्त्या च प्रवचनस्वभावो धर्मकाय इति चेद्? तथा सति रूपकायो ऽपि तत्प्राप्तेरनुरूपहेतुत्वात् तत्प्रापकहेतुत्वाच्च धर्मकायः स्यादिति | (अतः) तन्न सत्यम्, भगवतां बुद्धानां धर्मकायस्तु परिशुद्धज्ञानस्वभावस्तथा या च तस्य सामान्यधर्मता,. तस्यां व्यवस्थाप्यते | नास्त्यस्यायं विपाकभेदः, न चात्र प्रवचनपुण्ययोरुपचारेण धर्मः इति देशनापि | किमिव तर्हीति चेत्? वस्तुमात्रं धर्म इति देशना | धर्मा इत्यादि स्वयमेवं ख्यातत्वात् | स्वसामान्यलक्षणधारणाद् धर्मा इति यत् व्याख्यातं तत् सर्वधर्मसाधारणमिति न रूपकायस्तथागतत्वेन निर्दिष्टः, अज्ञापकत्वात् | प्रज्ञप्तित इत्युच्यमाने ऽपि न रूपकायो धर्मकायत्वेन प्रसक्तो भवति, पुण्यहेत्वनुरूपत्वात् (Vअज्रट्_१४५) तस्य | यथोक्तम्-
155 SK बुद्धानां रूपिकायो हि पुण्यं सम्भृत्य जायते | धर्मकायः समासेन ज्ञानसम्भारजो नृप ||
156 SK तस्माज्ज्ञानसम्भारस्यैव तत्प्राप्त्युपायत्वान्न रूपकायेन स गृह्यते, प्रज्ञप्तिहेत्वभावान्नोच्यते रूपकायो ऽधर्मकायःऽ; इति | प्रवचनकायस्तु सम्यग्ज्ञानस्य फलमिति | सम्भारलक्षणपुण्यनिचयस्यापि तत्प्राप्तिहेतुत्वात् प्रज्ञप्त्या धर्मकाय इत्युच्यमानो ऽपि युज्यत एवेति अलमधिकेन | अन्यत् कुचोद्यं युक्तमयुक्तं वेति विचक्षणैर्विवेचियिष्यत इति मत्वा पदबाहुल्यभिया न लिख्यते | धर्मकायाप्तिछन्दस्थानमुक्तम् |
157 SK इतः परं द्वादशविपक्षाणां प्रतिपक्षाणि द्वादशस्थानानि यथाक्रमं वेदितव्यानि | इमे तावद् द्वादश विपक्षाः- १. अभिमानः २. अभिमानाभावे ऽपि अल्पश्रुतत्वम् ३. बाहुश्रुत्ये ऽपिहीनालम्बनमनसिकारभावना ४. हीनालम्बनमनसिकारभावनाया अभावे ऽपि सत्त्वोपेक्षा ५. तदुपेक्षाया अभावे ऽपि बाह्यशास्त्रेषु सानुरागा प्रवृत्तिः ६. तथा प्रवृत्त्यभावे ऽपि भावनिमित्ताभिभवोपायेष्वकौशलम् ७. तत्र उपायकौशले ऽपि पुण्यसम्भारासञ्चयः ८. पुण्यसम्भारसञ्चये ऽपि लाभसत्कारकौसीद्यैः पिण्डास्वादनम् ९. तथास्वादनाभावे ऽपि दुःखाक्षान्तिः १०. दुःखाधिवासनायामपि ज्ञानसम्भारासञ्चयः ११. ज्ञानसम्भारसञ्चये ऽपि आत्मपरिग्रहः १२. आत्मग्रहाभावे ऽपि अववादायोगः
158 SK ५. भावनाविशेषलाभे ऽनभिमानस्थानम् :
159 SK तत्र भगवता धर्मपुद्गलयोर्विस्तरेण नैरात्म्ये देशिते ऽपि अनादिकालीनदृढात्माभिनिवेशसञ्चयबलेन यदि कश्चिदेवं मन्येत- यस्य सत्त्वादिसंज्ञा प्रवर्तते, न स बोधिसत्त्व इति? एवं तर्हि यदुक्तं भगवता ऽतस्मिन् काले ऽहं वीरदत्तो नाम नृपो ऽभवम्,ऽ; युष्मभ्यं मया धर्मो देशयिष्यते इत्यादि कथं स्यात् | (अतः) सत्त्वसंज्ञादिविरहस्य नैवमभिप्राय इति विघ्नभूताभिमानविसंयोगार्थं पञ्चमस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि |
160 SK अस्यायमत्र सामान्यतो ऽर्थः- ये मम मृदुश्रावकाः स्रोतआपन्नत्वादिषु धर्मनैरात्म्यानधिगमाद् अप्राप्तरसानुभवाः, तेषामपि अहन्त्वेन ममत्वेन चाभिनिवेशो न भवति, किं खलु पुनः उभयनैरात्म्याधिगमेन प्रहीणनिरवशेषावरणानामिति | तस्मिन् काले ऽहम्..... इत्यादि यत्तल्लोकेन सह व्यवहारप्रज्ञप्त्यर्थं परसन्तानव्यवच्छेदमात्रज्ञापनार्थं वा, सेनावनादिव्यवहारवत्, न त्वेकत्व- (Vअज्रट्_१४७) शाश्वतत्वाभिनिवेशतया | तत्त्वज्ञानस्थितैः न शक्यते तावल्लोकेन सह व्यवहर्तुम् | तस्मादभिमानस्थानविसंयोगार्थं त्वयापि नात्मन्यभिनिवेष्टव्यमिति समादापयति |
161 SK तत्र स्रोतः निर्वाणमहानगरप्रापकदर्शनमार्गलक्षणम्, आपन्नः प्राप्तः, दर्शनप्रहेयसमस्तक्लेशप्रहायकः स्रोत आपन्न इति, तस्य च कर्तरि कर्मणि क्रियायां चाभिनिवेशप्रहाणेन इदम्प्रत्ययताधिगमान्नैरात्म्याधिगमो दर्शितः | मया इति कर्तर्यभिनिवेशः | फलम् इति कर्मण्यभिनिवेशः | प्राप्तः इति क्रियायामभिनिवेशः | इत्यनेन तावदर्थतः मया प्राप्तमिति विपक्षत्वेन परिदीत्यते | न स्रोतआपन्नस्यैवं भवति मया प्राप्तम् इत्यनेन अपलक्षणमात्रप्रदर्शनेन सर्वेषामभिमानानां प्रहेयत्वं प्रदर्शये | तत्र छन्दः प्रणिधानञ्चापि निर्दिश्यत इति | आर्यसुभूतिरपि भगवतो ऽभिप्रायं निर्दिशन् परमार्थस्थापन्नार्थं तत्र योगसमापत्तिं च ग्रहीतुं न हि स भगवन् कञ्चिद् (धर्मं) आपन्नः इत्याह | कथमिति न रूपमापन्नः इत्याद्याह |
162 SK अनेन तावत् परमार्थत फलद्वैविध्यस्याप्राप्यत्वमपि निर्दिश्यते, तथा हि-फलभूतं प्राप्यस्वभावं किञ्चित् स्यात् (तर्हि) संस्कृतमसंस्कृतं वा स्यात् | तत्र तावदनुत्पन्नमेवासंकृतम्, अभावरूपत्वाद् शशविषाणमिव तन्न युज्यते (Vअज्रट्_१४८) प्राप्तुम्, अप्राप्त्यवस्थाविशिष्टत्वात् | संस्कृतं तावत् क्षणिकम्, उत्पादसमनन्तरं विनाशित्वात्, स्थितेरभावात् केनापि कथमपि तन्न प्राप्तुं शक्यते | यस्मिन् सन्ताने नैरात्म्यमार्गलक्षणहेतुसन्निहिततया क्लेशमुत्पादात्यन्तविरुद्धाश्रयलक्षणं फलमुत्पद्यत इति फलं प्राप्त्यत इत्येवमुच्यते, न तु परमार्थतः |
163 SK अपि च, प्राप्यप्रापकभावः खलु भिन्नकालिकः समकालिको वा स्यात् | तत्र न तावत् प्रथमः पक्षः द्वयोरपि स्थितत्वात्, भिन्नकालिकस्तु एकस्मिन् प्रत्यासन्ने ऽपरस्य चासंनिहिते सति (भवति), तत्कथं द्वयोः स्थितिरिति | न च समकालावस्थितयोरुभयोः परस्परोपकारकत्वम्, असति चोपकारे प्राप्यप्रापकभावो नैवोपयुज्यते, अतिप्रसङ्गत्वात् |
164 SK अन्यो ऽन्यसंयोगेनोत्पादलक्षणेनापि प्राप्यप्रापकभावस्य समकालिकत्वं न युज्यते, तथा हि- ये ऽमूर्तभावाः, ते नैव संयुज्यन्ते, क्वचिदप्यनवस्थानात्तेषाम् | न स्यात् प्राप्यप्रापकभावे समकालत्वमात्रमपि तेषाम्, अतिप्रसङ्गात् | न चाप्येकस्य हेतुत्वम्, उभयोः साधारणत्वात्, इदं प्राप्यमिदञ्च प्रापकमिति निश्चयो न भवती | ये तावन्मूर्ताः, तेषां सर्वात्मना संयोगे सति एकत्वं प्रसज्यते, एकदेशेन (संयोगे तु) सावयवत्वं प्रसज्यते | नैरन्तर्येणावस्थाने ऽपि न भवितुं शक्नोति उभयोः साधारणत्वात् | अविशेषान्न निश्चयः | अतः कल्पनासमारोपित एवायम् | अनेन तावत् सर्वः कर्मकर्त्रादिव्यवहारः स्पष्टमवबोद्धव्यः |
165 SK धर्माः इति धर्मायतनम्, अनेनासंस्कृतमपि संगृह्यते, धर्मायतनस्य सप्तद्रव्यात्मकत्वात्, शेषेण रूपादिना च धर्मायतनैकदेशेन च संस्कृता निर्दिश्यन्ते | उपलक्षणमिदम् अतश्चक्षुरादिकं ग्रहीतव्यम् | एवं यतः परमार्थतः स कञ्चित् (धर्मं) नापन्नः, मया प्राप्तमित्यपि न मन्यते, तस्मात् सन्मार्गस्थितत्वात् स्रोतआपन्न इत्युच्यते |
166 SK यदि मया प्राप्तमित्यभिनिवेशस्तदा कथं नोच्येत स्रोत आपन्न इति विचिन्त्य सचेद् भगवन् इत्याद्याह | मया इति यस्याहमित्यभिनिवेशः स्यात्तस्य नास्त्यात्मदृष्टिप्रहाणम्, यश्चाप्रहीणात्मदृष्टिः स अनुत्पन्नार्यमार्गः, यश्चानुत्पन्नार्यमार्गः, स पृथग्जन इति कथं स्यात् स्रोत-आपन्न इत्यभिसन्धिः | एवं हि ऽमया इति यो ऽयमभिनिवेशः, स आत्मदृष्टिसमुदयः | अनेन चित्तप्रग्रहो निर्दिष्टः | अनेन तावत् सकलेन स्थानस्यास्य गाम्भीर्यमभिहितम् |
167 SK अमुमेवार्थं दृष्टान्तान्तरे प्रपञ्च्य निर्देष्टुं सकृदागामिनः इत्याद्याह | अत्रापि पदार्थाभिसन्ध्यादीनि पूर्ववद् योज्यानि | प्रहीणभावनाहेतषड्विधकामावचरक्लेश एवार्यसकृदागामी, सकृदागामित्वात् कामधातौ | प्रहीणभावनाहेयसकलकामावचरक्लेश एवानागामीत्युच्यते, पुनरनागामित्वात् (Vअज्रट्_१५०) कामधातौ | यदा समस्तत्रैधातुकावचरक्लेशमलानां प्रहाणं जायते, तदा स सकललोकपुज्यत्वाद् अर्हन्नित्युच्यते | न हि स कश्चिद् धर्मो यो ऽर्हन्नाम प्रहीणतथाविधक्लेशावरणज्ञानसन्ततौ उपचरितत्वात्, सन्ततेश्च प्रज्ञप्तौ सत्त्वान्न स कश्चन परमार्थतः, समारोपित एवासावित्यभिप्रायः |
168 SK साम्प्रतम् आर्यसुभूतिः ऽअहंऽ; पदप्रयोज्यमात्मानमधिकृत्य विशिष्टत्वेन अरणाविहारीति साधारणगुणत्वेन अर्हन्निति च ऽअहमस्मिऽ; इत्यनेनोक्त्वा चित्तप्रग्रहमात्रं दर्शयितुं अहम् इत्याद्यवोचत् | अरणा इति समाधिविशेषः, अत्र चोभतोभागविमुक्तत्वमर्हत्त्वमालम्ब्य तदितरेषु रणा नोत्पाद्यन्त इति विचिन्त्य योगः समापद्यते | ततो व्युत्थाय तमालम्ब्य तदितरेषु नोपजायन्ते रणाः | यस्तया अरणया विहरणशीलः स एवमुच्यते | सुगमो ऽयं विभङ्गः |
169 SK न मां व्याकरिष्यत् इति तदा अप्रहीणत्वादात्मदृष्टेर्मया स्रोत-आपत्तिफलमपि दुर्लभम्, किं खलु पुनः उभतोभागविमुक्तेनार्हता प्राप्यमरणाविहारित्वमित्यभिसन्धिः | कथमरणायां विहर्तव्यमिति चिन्तायां न क्वचिद् विहरति इत्यवोचत् | प्राप्तं मया किञ्चत् संकृतमंस्कृतं वेत्येवमभिनिवेशेन यो ऽस्थितः, स एवारणाविहारीति द्विरभिधानम्, नापर इत्यर्थः | अधुना अहमस्मि भगवंस्तथागतेनार्हता सम्यक्सम्बुद्धेन अरणाविहारिणामग्र्यो निर्दिष्टः | अहमस्मि भगवन् अर्हन् वीतरागः इति नात्माभिनिवेशेन, अथ कथमिति चेत्? व्यवहारमात्राभिनिवेशतया, एतच्च प्रागेव मया प्रोक्तम् |
170 SK ६. बुद्धोत्पादारागता-स्थानम् :
171 SK नन्वसति कस्मिंश्चिदपि प्राप्ये प्रापके वा परमार्थतः, बोधिसत्त्वभूतेन भगवता कथं तथागतदीपङ्करस्यान्तिकाद् धर्म उद्गृहीतः? अथ नोद्गृहीत इति चेद्? तदास्माभिर्धर्ममुद्ग्रहीतुकामैः कथमाराधनीस्तथागतोत्पाद इति ये परिकल्पयन्ति तेषामल्पश्रुतत्वप्रतिबन्धापाकरणार्थ षष्ठं स्थानमधिकृत्याह- अस्ति स कश्चिद् धर्मो यस्तथागतेन दीपङ्करस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्यान्तिकादुद्गृहीतः? इति | सुभूतिरपि प्रागेवाभिप्रायं विदित्वा नो हीदम् इत्यवोचत् | नास्ति परमार्थतः कस्यचिदपि धर्मस्य प्राप्यप्रापकत्वेन उद्ग्रहणं नाम, यथोक्तं पूर्वम् | ऽसर्वे धर्माः प्रकृत्या शान्ताःऽ; (Vअज्रट्_१५२) तथापि तथागतानुभावेन नानापदसमुदायादीनां ज्ञानावभासोत्पादमत्रे उद्गृहीतः इत्युपचर्यते, अतः श्रुतपर्येषणं सफलम् |
172 SK अनेनार्थतः ऽबोधिसत्त्वेन श्रुतपर्येषणकाले बुद्धोत्पाद आराधनीयस्तदनन्तरं बुद्धधर्मा उद्गृहीतव्याःऽ; इत्यभिनिवेशो विपक्षत्वेन निर्दिष्टः | तत्प्रहाणे छन्दप्रणिधानाभ्यां स्थातव्यमित्यपि निर्दिष्टम् | अस्ति स कश्चिद् धर्मो दीपङ्करस्यान्तिकादुद्गृहीतः? इति दिङ्मात्राभिधानेन उद्गृहीतधर्मस्य सर्वनिमित्तं विनिवर्तते | ऽनास्ति स कश्चिद् धर्म उद्गृहीतःऽ; इत्यनेन परमार्थतः धर्माणामग्राह्यत्वं व्यवस्थाप्य तत्र योगसमापत्तिः विक्षेपनिग्रहश्च निर्दिष्टौ | स्थानस्यास्य गाम्भीर्यमपि परिदीपितम् |
173 SK ७. क्षेत्रविशुद्धिप्रणिधान-स्थानम् :
174 SK यदि परमार्थतः कर्मकर्त्रादयो न स्युस्तदा कथं बोधिसत्त्वा बुद्धक्षेत्रपरिशोधनार्थं प्रणिदधतीति तर्कयतां तेषां हीनालम्बनमनसिकारभावनाविबन्धसंयोगार्थं सप्तमस्थानमधिकृत्याह- यः कश्चिद् बोधिसत्त्वः इति | वितथम् इति मृषा | यद्येवं (तर्हि) भगवान् बोधिसत्त्वानां तत्तत्क्षेत्रपरिशुद्धिसम्पदं कथमुक्तवानिति विचिन्त्य तत्कस्य हेतोः? इति पृच्छायं क्षेत्रव्यूहाः इत्यादि समाधानमभिहितम् | बहूनि क्षेत्राणि तु क्षेत्रव्यूहाः | अव्यूहास्ते इति परमाणुभिराब्धो ऽवयविभूतो वा नास्ति कश्चिद् व्यूहः परमार्थत इत्यव्यूहा एव ते, तथापि स्वप्नोपलब्धक्षेत्रव्यूहवद् अविचाररमणीयमात्र संवृतिसत्त्वमुक्तं तेनोच्यन्ते क्षेत्रव्यूहाः इति | अन्यथा (Vअज्रट्_१५३) परमार्थस्वभावस्त्वनाभिलाप्यतायानभिलाप्य इत्यभिप्रायः | उक्तञ्चाप्रतिष्ठितत्वं प्रागेव | एवां मुषितस्मृतिकानामुपकाराय उपसंहारोपयेन स्मारयितुं तस्माद् इत्याद्याह | एवम् इति यथोक्तेन विधिना, कस्यचिदपि वस्तुनः सिद्धेरभावात् तत्र ऽअप्रतिष्ठितं चित्तमुत्पादयितव्यम्ऽ; इत्यर्थः | शेषं तु पूर्ववत् |
175 SK तत्र वितथं वदेत् इत्यनेनार्थतः परमार्थतः मया क्षेत्रव्यूहो निष्पाद्यत इत्यभिनिवेशो विपक्षत्वेन परिदीपितः | ऽक्षेत्रव्यूहाःऽ; इति निमित्तमात्राभिधानेन समस्तहीनालम्बनभावनाविसंयोगो निर्दिष्टः | हीनालम्बनमनसिकारभावनां प्रति छन्दः प्रणिधानमपि [न कर्त्तव्यमित्यपि] निर्दिष्टम् | अव्यूहास्ते तथागतेन भाषिताः इत्यनेन परमार्थव्यवस्थापनेन योगसमापत्तौ प्रवृत्तिः गम्भीरता च निर्दिश्येते | तेनोच्यन्ते क्षेत्रव्यूहाः इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्टः, स्थानस्यास्य औदार्यं च परिदीपितम् |
176 SK ८. सत्त्वपरिपाक-स्थानम् :
177 SK स्कन्धेभ्यः पृथक्त्वेनासत्त्वे ऽपि किं नाभिन्ना एव सत्त्वाः? अन्यथा सत्त्वपरिपाकार्थं कथं बोधिसत्त्वाः प्रवर्तेरन्? इति यो विचारः, तस्मात् सत्त्वोपेक्षालक्षणविघ्नभूताद् विसंयोगार्थम् अष्टमस्थानमधिकृत्य तद्यथापि नाम इत्युक्तम् | पुरुषः इत्यसुरेन्द्रो राहुरिति | तस्यात्मभावस्तु कामधातौ सुमेरुपरिमाणः | तस्य महत्त्वे ऽपि व्यर्थैव तन्महत्ता | किमर्थं देशितं भगवतेत्यभिप्रायं वक्तुकामनया तत्कस्य हेतोः? इत्यापृष्टम् | तमेव अभिप्रायं वक्तुमाह- न भावः इति | परमार्थतः एकानेकस्वभावेन वियोगात् (Vअज्रट्_१५४) निःस्वभावता एव | स्वप्नदृष्ट इव स आत्मभावः संवृतितः प्रोक्तस्तथागतेन, न तु परमार्थतः |
178 SK तेनोच्यते आत्मभावः इत्यत्रोपपत्तिमाह | एवमयं संवृतिरेव, तस्मात्तथोच्यते, अन्यथा परमार्थतः कस्यचिदपि धर्मस्यासिद्धत्वात् तथा नोच्येतेत्यभिप्रायः | अभावं तावद् भावत्वेनाभ्युपगच्छतां तेषां जैमिन्यादीनां प्रतिषेधार्थम् न स भावः इत्याह | अभावस्य तु भावव्यतिरेकेण स्थितलक्षणत्वात् कथं तद्विपरीतस्वभावो न स्यात्?ऽ; तेनोच्यते आत्मभावःऽ; | अन्यथा पतमार्थतः कस्यचिदप्यात्मभावस्यासिद्धेः किमित्यात्मभाव इहोच्यते, ततो ऽयमभावत्वेन देशितः सुमेरुमात्रपरिमाणो ऽपि य आत्मभावो यदा निःस्वभावत्वात् परमार्थतो नास्ति, तदा कथं परात्मभावः सस्वभावः सात्मको वा भवेत्?
179 SK अत्रार्थतः सत्त्वपरिपाकायोद्यमरतानां बोधिसत्त्वानां सत्त्वाभिनिवेशः परमार्थतः विपक्षत्वेन प्रदर्शितः तत्प्रहाणाय छन्दः प्रणिधानं च निर्दिष्टे | ऽपुरुषःऽ; इत्युपलक्षणमात्राभिधानेन अण्डजादीनां सर्वेषां पृथगात्मभावानां परिग्रहणमुक्तम् | न भावः स तथागतेन भाषितः इत्यनेन तावत् परमार्थं व्यस्थाप्य योगसमापत्तिस्थानं गम्भीरत्वं च परिदीपिते | न स भावः इत्यनेन तु विक्षेपनिग्रहो निर्दिष्टः |
180 SK ९. बाह्यशास्त्रेषु व्यपगतरागता-स्थानम् :
181 SK सम्प्रत्यस्य धर्मपर्यायस्य महार्थत्वप्रतिपादनेन बाह्यशास्त्रेष्वभिनिविष्टानां तत्रानुनयविक्षेपपरिहारार्थं नवमस्थानमधिकृत्य- तत्किं मन्यसे सूभूते इत्याह | (Vअज्रट्_१५५) अनेन तावत् चतुर्भिः प्रकारैरस्य धर्मपर्यायस्य वैशिष्ट्यं परिदीप्यतेपुण्यपरिग्रहः, देवादिभिः सत्कारः, दुस्करकृत्यविधानम्, तथागतादितुल्यताकरणम् | तत्र पुण्यपरिग्रहस्तु यदाह ततो निदानं बहुपुण्यस्कन्धं प्रसुनुयात् इति | देवादिभिः सत्कारस्तु यदाह स पृथिवीप्रदेशः चैत्यभूत्यभूतो भवेद् इति | दुष्करकृत्यविधानं तु यदाह परमेण ते आश्चर्येण समन्वागता भविष्यन्ति इति | तथागतादितुल्यताकरणं तु यदाह तस्मिंश्च पृथिवीप्रदेशे शास्ता विहरत्यन्यतरान्यतरो वा विज्ञगुरुस्थानीयः इति |
182 SK तत्र रत्नदानस्य पुण्याभिधानं विशेषद्वयेन विशिष्टं परिदीपितम्- वस्तुविशेषः क्षेत्रविशेषश्च | वस्तुविशेषो ऽपि तावत् उदारः प्रणीतश्चेति |- (Vअज्रट्_१५६) तत्रौदार्यं तु वस्तुभेदसंबाहुल्यम्, यदाह तावतो लोकधातून् इति | प्रणीतस्तु लोके दूर्लभत्वेन ख्यातः यदाह सप्तरत्नपरिपूर्णं कृत्वा इति | क्षेत्रं स्वपरार्थसम्पद्योगेन विशिष्टम् | तत्र परार्थसम्पत्तावत् हेयोपादेयार्थानां परेभ्यो ऽविपर्ययेण सम्प्रकाशनम्, आह तथागतेभ्यः इति | यथा वस्तुतथता तथा भाषितत्वात् निरुक्त्या तथा उक्त इति कथ्यते |
183 SK स्वार्थसम्पत्तु ज्ञान-प्रहाणसम्पद्भेदेन द्विविधा | तत्र अर्हद्भ्यः इत्यनेन प्रहाणसम्पद् दर्शिता, हतक्लेशारित्वाद् निरुक्त्या ऽअर्हन्ऽ; इत्युच्यते | सम्यक्सम्बुद्धेभ्यः इत्यनेन तावज्ज्ञानसम्पदुक्ता | तस्मात् पदत्रयस्योक्तेः साफल्यमिति सामान्येन सङ्ग्रहार्थः |
184 SK आरोचयामि इतीच्छा द्योतिता भवति | आरोचयामि प्रतिवेदयामि अवबोधयामि प्रज्ञामुत्पादयामीत्यर्थः | तत्र पूर्वं तावत् परस्य फलम् अथवा अपरं तु पूर्वस्य व्याख्यानम् | देशयेत् इति शब्दं सम्प्रकाशयेत् इति छन्दम् अधिमुक्तिमुत्पादयेदित्यर्थः | संख्यया परिच्छेत्तुमशक्यत्वाद् असंख्येयम् इति | प्रमापयितुमशक्यत्वाद् दृष्तान्ताभावाद् वा अप्रमेयम् इति |
185 SK भाष्येत इति आत्मना ग्रन्थस्वाध्यायः, सम्प्रकाश्येत इति परेभ्यः सम्यक् पदार्थदेशाना, अथवा ऽभाष्येतऽ; इति पदम् ऽसम्प्रकाश्येतऽ; इत्यर्थम् | चैत्यभूत्यभूतः इति वन्दनीयः, चैत्य एव चैत्यभूतः वशीभूत इतिवत्, यदैवं पुद्गलनैरात्म्यगाथामात्रोपदेशेनापि चैत्यभूत्यभूतो जायते किं खलु पुनः नैरात्म्यद्वयोपदेशेन इत्यभिप्रायः | उद्गृह्य इति पदम्, धारयिष्यन्ति इत्यविस्मरणम्, वाचयिष्यन्ति इति पुस्तकगतम् पर्यवाप्स्यन्ति इति अर्थम् |
186 SK अनेन तावद् श्रुतमयप्रज्ञया धारणं दर्शितम्, चिन्तामय्या भावनामय्या प्रज्ञया चोद्गृहीतत्वाद् योनिशश्च (मनसि करिष्यन्ति) इत्याह | अविपरीततयार्थमवबोधयिष्यन्तीति वाक्यशेषः | क्वचिद् धारयिष्यन्ति इत्येकमेव पदम्, तत्र धारणं तु पदार्थयोर्द्रष्टव्यम् | परमेण आश्चर्येण इति तु एवंविधगम्भीरोदारधर्मस्याधिगतत्वात् |
187 SK शास्ता ........ स्थानीयः इति धर्मभाणकः, शास्तृकृत्यकरणात्, स एव साक्षाद् धरमाणबुद्ध इवेति वाक्यशेषः | गुरु इति मञ्जुघोषाद्यन्यतरः कश्चित् तत्कार्यसाधनाय धर्मभाणकः स्थानीयरूपेण द्रष्टव्यः | कुत्रचित् अन्यतरान्यतरो इति पदद्वयम् | तच्च ये केचन गुरुसदृशाः (तेषां) सर्वेषां पर्यायः | अतस्तत्र स्थानीयः इति निर्दिष्टः | एभिः सर्वैः स्थानस्यास्यौदार्यं निरूपितम् | अर्थतश्च सद्धर्मपरिग्रहमुत्सृज्य बाह्यशास्त्रानुरागो विपक्षत्वेन परिदीपितः, तस्मिन्ननुरागं परित्यज्य धर्मं प्रतिपत्तुं छन्दः प्रणिधानं च दर्शिते | इतो धर्मपर्यायाद् इत्युपलक्षणमात्रपरिकीर्तनेन बाह्यशास्त्रेष्वनुरागं परिवर्ज्य सर्वसद्धर्मान् प्रति यत्न आस्थेय इति परिदीपितम् |
188 SK अचिन्त्यसामर्थ्यन्वितत्वादयं धर्मपर्यायः नाममात्रश्रवणेनापि परानुपकरोतीति सत्त्वानां पुण्योत्पादकथनाय आर्यसुभूतिः को नाम अयम् इति पृष्टवान् |- (Vअज्रट्_१५८) कथं चैनं धारयामि इत्यनेन अस्योद्ग्रहणेनाप्यप्रमेयपुण्यं भवतीति परिदीप्यते |
189 SK प्रज्ञापारमिता नाम इति यस्या तन्नाम तत्तथा उच्यते | इयं प्रज्ञापि, पारमधिगम्य परिच्छेदयतीत्यपि पारमितेति, प्रज्ञा च सा पारमिता चेति समासः | अथवा प्रज्ञायाः पारं प्रज्ञापारम्, अनया तदधिगम्य परिच्छिद्यते ऽतस्तथोच्यते | सा चार्थतः सर्वविधप्रज्ञासु उत्तमा ताथागती प्रज्ञा नान्यदा प्रज्ञया पारं परिमापयितुं शक्यम् | अथवा प्रज्ञ्यापारम् इता गता इत्येवार्थः | सा च यथोक्ता प्रज्ञैव, न त्वन्यत् तत्पारगमनासम्भवात् | अनेन दानपारमितादयो ऽप्युक्ता भवन्तीति | तदभिधानेनायं धर्मपर्यायो ऽपि तथोक्तः, यथा सीताहरणादिकाव्ययोजना | तस्याश्च भगवताः प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्चानुत्पन्नत्वात् सा शब्देनाभिधातुं न शक्यत इत्याशयेन वितर्क्य तत्कस्य हेतोः? इतिओ पृष्टवान् | यैव सुभूते, प्रज्ञापारमिता तथागतेन भाषिता सा इत्युदतरत् |
190 SK परमार्थतः प्रत्यात्मवेद्यत्वेनासाधारणत्वात् परमार्थतश्च सर्वधर्माणाम् अत्यन्तानुत्पन्नत्वात् च सा न शब्देनाभिधेया, तथापि विकल्पप्रतिबिम्बः- (Vअज्रट्_१५९) स्वस्वरूपबहिर्भूत इवारोप्यते | स विकल्पो ऽपि प्रकृत्या भ्रान्तः, अतस्तेन समारोपित आकारो ऽपि मिथ्यैव | तस्मात् विकल्पप्रतिबिम्बभूता या प्रज्ञापारमिता तथागतेन देशिता, सा शब्देन व्युत्पाद्यमाना अपारमितैव, न तु तथागतस्य प्रज्ञा, सत्यसंवृत्या ज्ञेयस्य पारङ्गतत्वात्तस्याः, अन्यथा कथं भगवान् सर्वज्ञः स्यादिति | ततो भ्रान्तप्रतीतेः स विकल्पप्रतिबिम्बो नैव भेदेनावगम्यते, अतो ज्ञानस्वभावत्वेन सैव परमार्थप्रज्ञा तथागतेन भाषिता इत्युच्यते | तस्मात् तथाविधदेशनायां नैव विरोध इत्यभिप्रायः | अथवा या ताथागती प्रज्ञा प्रतीतिरूपत्वेन तथागतेन भाषिता सैव परमार्थतो न विद्यते, परमार्थतो ऽपारङ्गतत्वात्तस्याः | एव इति शब्दस्तु अपारमिता इत्येतदनन्तरं द्रष्टव्यः |
191 SK अनेन परमार्थत्वं प्रतिपाद्य तत्र योगसमापत्त्या कथं प्रतिपत्तव्यमिति निर्दिष्टम् | यथा प्रज्ञापारमिता विकल्पप्रतिबिम्बात्मिकैव बाह्यत्वेन समारोप्य भगवता भाषिता, तथैव सर्वे धर्मा अपि नान्यथा तथागतेन कथिता इति देशनार्थमाह- तत्किं मन्यसे सुभूते इति | परमार्थतः सर्वधर्माणामसिद्धत्वात्, सिद्धेष्वपि स्वलक्षणस्यासाधारणत्वेन सङ्केतेन प्रज्ञपयितुमशक्यत्वात्, सामान्यलक्षणमेव तावत् प्रज्ञप्यमानत्वात्, स्वसामान्यलक्षणे व्यतिरिच्य अपरस्याभिधेयस्याभावात् परस्परपरिहारस्थितलक्षणत्वात्तयोः, अत एव च परमार्थतः ऽनास्ति कश्चिद् धर्मो यस्तथागतेन भाषितःऽ; इति विज्ञाय स्थविरः सुभूतिः नो हीदं भगवन्, नास्ति स कश्चिद् धर्मो यस्तथागतेन भाषितः इत्यवोचत् | अनेन विक्षेपनिग्रहः गाम्भीर्यं च निर्दिष्टे भवतः |
192 SK १०. सत्त्वभाजनलोकयोः पिण्डग्राहविशीर्णतायोग-स्थानम् :
193 SK एवं सर्वधर्मेषु नैरात्म्यं विस्तरेण दर्शितम्, तथापि ये तावद् आदिकर्मिकाः कथं सर्वधर्मेषु नैरात्म्यं भावयितव्यमिति चिन्तयन्ति, भावनिमित्तमभिओभवितुमनुपायकौशलविसंयोगार्थं दशमस्थानधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि | अत्र द्विविधेन उपायेन एकानेकस्वभाववियोगाधिगमात् सर्वधर्मनैरात्म्यं भावयितव्यमिति दर्श्यते | तत्र द्विविध उपायस्तावत् तनूकरणोपायः निराभासकरणोपायश्च | तत्र यावत् पृथिवीरजो भवेत् इत्यनेन एकस्वभाववियोगाधिगमात् तनूकरणोपायो निर्दिश्यते | न युज्यते ह्यस्य लोकधातोरेकत्वम्, आवृत्तानावृत्तादिविस्पष्टलक्षणयुक्तत्वाद् | अनेकत्वनिराकरणाय तावत् परमाणोर्निराकरणमभ्युपेतव्यम् | अत एव परमाणुविभावनायां सत्त्यामेकत्वं प्रहीयत एवेति | बोधिसत्त्वैस्तावत् प्रायेण परीत्तालम्बनमनसिकाराभावात् त्रिसाहस्रमहासाहस्रलोकधात्वालम्बनार्थं त्रिसाहस्रमहासाहस्रे इत्याह | अनेन तावदौदार्यं परिदीपितम् |
194 SK ते च परमाणवो ऽपि यदि दिग्भागभेदेन भिन्नत्वादसिद्धा एव स्युः, (तर्हिं) कथं तद् बहु रजः? इति प्रवादिनामाशयमभिलक्ष्य कस्य (Vअज्रट्_१६१) हेतोः? इत्यपृच्छत् | यत्तद् पृथिवीरजः इति तदुदतरत् | बहु तत् पृथिवीरजो ऽपि यः परमाणुस्वभाव उक्तस्तदेकत्वग्रहणनिषेधात् तदरज एव | मायानिर्मितस्वभावत्वान्नास्ति परमाणुः परमार्थतः, बुद्ध्योपचरितरूपत्वात् | इदं तावदेकत्वग्रहणोपायमात्रम्, न तु परमार्थम्, तेनोच्यते पृथिवीरज इति | तद् युक्तं संवृतौ सत्त्वात्, अन्यथा परमार्थस्तस्यासत्त्वाद् अनभिलाप्यत्वाच्च स्वलक्षणं नाभिलप्यत इत्येवमभिप्रायः | उद्भावनासंवृत्यापि तस्य देशनं न युज्यते, तदीयान्यतरात्मस्वभावस्य अप्रतिभासमानत्वात् | अनेन तावद् अनेकस्वभाववियोगाधिगमोपायो निराभासकरणत्वेनोपदर्श्यते | एवञ्चान्तशः परमाणूनामपि युक्त्या प्रत्येकं परिक्ष्यमाणानां प्रतीतावेव सत्त्वात् प्रतीयते लोकधातूनां चानेकस्ववियुक्तत्वम्, ततश्च (तेषां) निःस्वभावत्वमवगम्यते |
195 SK एवं खलु भाजनलोकस्य एकानेकस्वभाववियोगेन निःस्वभावत्वमॄ एवमभिधाय सत्त्वलोकस्याप्यभिधानार्थ यो ऽसौ लोकधातुः इत्याह | अत्र लोकधातुना सत्त्वलोको ऽभिप्रेतः, इतरस्य पूर्वमेवोक्तत्वात् | अधातुः सः इति एकानेकस्वभावरहितः स इत्यभिप्रायः | एवं यो हि रूपस्कन्धः स भाजनलोकत्वेनाभिहितः, शेषाश्चत्वारः स्कन्धास्तु यथैकानेकस्वभावेन वियुक्तास्तथा पूर्वं विवेचिता एव | एवं सति परमार्थतो निःस्वभावत्वात् सर्वे धर्मा मायोपमा दृश्यन्ते योगिभिः |
196 SK अनेन गाम्भीर्यमपि तावदुक्तम् | अर्थतः परमार्थे सत्त्वभाजनलोकीयभावाभिनिवेशो विपक्षत्वेन परिदीपितः | तत्प्रहाणार्थं च छन्दः प्रणिधानं च निर्दिष्टे | त्रिसाहस्रमहासाहस्रे लोकधातौ इति निमित्तमात्राभिधानेन सर्वभावानां निःस्वभावत्वभावना सन्दर्शिता | अरजस्तत् इति अधातुः इत्याभ्यां परमार्थव्यवस्थापनया योगसमापत्त्या कथं प्रतिपत्तव्यमिति तत् परिदीपितम् | तेनोच्यते लोकधातुः इत्यनेनापवादान्तं परिहृत्य विक्षेपनिग्रहो निर्दिष्टः |
197 SK ११. तथागतपूजासत्कार-स्थानम् :
198 SK सम्प्रति ये बोधिसत्त्वाः पुण्यसम्भारप्रतिपत्तये ऽत्यन्तमुपकारित्वाद् भगवन्तं पूजयेयुस्तेषां तस्य (भगवतः) अविनाशिकायो न पूरयति पुण्यसम्भारम्, सम्यङ्मनसिकाराप्रवृत्तत्वात् | तस्मात् तेषां सम्भारासञ्चयतो वियोगार्थं एकादशस्थानमधिकृत्याह- तत्किं मन्यसे सुभूते इत्यादि | सामान्यतो ऽत्रायं सङ्ग्रहार्थः, तथागतपूजासत्कारेषु लक्षणसम्पदा तथागतो न द्रष्टव्यः, अथ कथमिति चेत्? परमार्थधर्मतायामित्युच्यते |
199 SK इह अवशिष्टव्याख्यानं तु रूपकायाप्तिकामतास्थानानुरूपम् | न चात्र पुनरुक्तिरप्याशङ्कनीया | पूर्वं रूपकायाप्तिकामताप्रसङ्गे तु तद्व्युदासो दर्शितः, अधुना तथागतपूजासत्कारप्रसङ्गे दर्शितत्वाद् भिन्न एव (रूपकायः) | अत्रार्थतः रूपकाये तथागताभिनिवेशं विपक्षत्वेन निर्दिश्य तत्प्रहानार्थं छन्दः प्रणिधानं चापि प्रदर्शिते | लक्षणानि इत्युपलक्षणमात्रोक्त्या सकलो रूपकायः परिदीपितः | अलक्षणानि इति परमार्थव्यवस्थानम् | तेन इत्यादिना विक्षेपनिग्रहो निर्दिष्टः |
200 SK १२. कायचित्तपरिश्रान्तौ विर्यम्युख्यानारम्भलाभ-सत्कारविरहितता :
201 SK एवं सर्वधर्माणां नैरात्म्यावगमोपाये निर्दिष्टे ऽपि कायजीवितेष्वासज्य ये लाभसत्काराध्यसिताः कौसीद्यलाभसत्कारपिण्डपातानुरक्ता तेषां तत्रानुरक्तिविसंयोगार्थं द्वादशस्थानमधिकृत्याह- यश्च खलु पुनः सूभूते, स्त्री वा पुरुषो वा इत्यादि |
202 SK अनेन चासारे ऽनेकशतसहस्रदुःखैकस्थानतुच्छात्मभावे तस्मिन् स्निह्यन् एतावच्छरिरपरित्यागेनापि यत्पुण्यं न प्राप्तम्, तदन्तरायकरत्वात्तस्मिन् कायजीविते निरपेक्षचित्ततया सर्वात्मनास्मिन् (धर्मपर्याये) योगः करणीय इति परिदिपितम् | अनेनार्थतः कौसीद्यादयो विपक्षत्वेन दर्शिताः | तत्प्रहाणाय सद्धर्मसमादानाय च छन्दः प्रणिधानञ्चापि निर्दिष्टे | इतो धर्मपर्यायात् इत्युपलक्षणमात्रोक्त्या समस्तमहायानश्रवणादीनि आबध्यन्ते | बहुतरं पुण्यम् इत्यनेन आदार्यमुक्तम् |
203 SK धर्मवेगेन इति धर्मश्रद्धाबलेनेत्यर्थः | आर्यसुभूतिः अश्रूणि प्रामुञ्चत् तदपि भगवतो ऽधिष्ठानेनान्येषु कुसीदेषु जनेषु अद्भुतमहायानधर्मस्याभिधानेन परमश्रद्धोत्पादार्थे द्रष्टव्यम् | तस्माद् हस्तेन अश्रूणि प्रमृज्य भगवन्तमेतदवोचत् आश्चर्यं भगवन्, यावदयं धर्मपर्यायस्तथागतेन भाषितः इत्याह | यावद् इति कारित्रविशेषः | यावता प्रकारेण देशानार्हास्तान् बोधिसत्त्वानुपदिशन्त्विति वाक्यार्थः |
204 SK कस्मादित्याकाङ्क्षायां यतो मे ज्ञानमुत्पन्नम् इत्यकथयत् | यतः इत्यार्यसत्यगोचरज्ञानोत्पादमारभ्य एतत्पर्यन्तं धर्मपर्यायस्य परमपुण्यफलस्य यथोक्ता देशना श्रावक-प्रत्येकबुद्धनामगोचरा नैवं श्रुतपूर्वेत्यर्थः | एतेन (Vअज्रट्_१६४) दौर्लभ्यं प्रोक्तम् | एवं विशिष्टं पुण्यं श्रुत्वा येषां वीर्यमारभ्य प्रवृत्तानामस्मिन् धर्मे यथारुतसंज्ञा भवति तेषां तद्दोषपरिजिहीर्षया परमेणाश्चर्येण इत्यवोचत् | विपुलपुण्यान्युत्पादयतो ऽधमपुरुषस्य तादृग्दुष्करश्रद्धाधिमुक्तितो ऽत्यन्तगम्भीरपुद्गल-धर्मनैरत्म्याधिमुक्तिश्च ममेव पुद्गलनैरात्म्यमात्रशुद्धज्ञानेन, परमेण ते आश्चर्येणं समन्वागता भविष्यन्ति | भूतसंज्ञाम् इत्यविपरीतार्थसंज्ञाम्, न तु शब्दाभिनिवेशेनेदं भूतत्वमिति संज्ञा | एवमत्र परमार्थभिप्रेत्य सर्वधर्मनिःस्वभावत्वं निर्दिष्टम्, न तु संवृतिम्, निःस्वभावताया अभावात्तत्र | तस्मान्न दर्शनदिना विरोध इत्यभिप्रायः |
205 SK ननु भूतसंज्ञायां सत्यां, संज्ञाया अपि सत्त्वं परमार्थतः स्यात्, असत्सु च संज्ञेयेषु संज्ञाया अप्यभावः प्रसज्येत, तस्मात् कथं परमार्थतः सर्वधर्मनिःस्वभावत्वं सिध्येदित्युपालम्भं विचिन्त्य तत्कस्य हेतोः? इत्यवोचत् | या चैषा भगवन्, भूतसंज्ञा इत्युअदतरत् | संज्ञानाम न काचन, एकानेकस्वभावेन वियोगात्, परमार्थतः सा असंज्ञैव | अत एव नोच्यते भूतसंज्ञेयं भूतसंज्ञात्वेनेति दर्शितम्, यतो ह्यविचाररमणीयमात्रतः विद्यते तस्मात् तां तथागतो भाषते भूतसंज्ञा, अन्यथा सर्वथाभावान्न भाषेत | ततः परमार्थव्यवस्थायां कथं योगसमापत्त्या प्रतिपत्तव्यम्, कथं च विक्षेपो निग्रहीतव्य इत्युभयं दर्शितं गाम्भीर्यञ्चापि निगदितम्, अध्यारोपापवादान्तावपि परिहृतौ |
206 SK तेषु कुसीदेष्वेवाश्चर्योत्पादनार्थम् न मम भगवन्, आश्चर्यं यदहमिमं धर्मपर्यायं भाष्यमाणमवकल्पयामि, अधिमुच्ये, ये ऽपि ते भगवन्, सत्त्वा भविष्यन्त्यनागते ऽध्वनि पश्चिमे काले पश्चिमे (Vअज्रट्_१६५) समये पश्चिमायां पञ्चशत्यां ये इमं भगवन्, धर्मपर्यायम् उद्ग्रहीष्यन्ति, धारयिष्यन्ति, पर्यवाप्स्यन्ति, ते परमाश्चर्येण समन्वागता भविष्यन्ति इत्याह |
207 SK अत्रायं सामान्येन समासार्थः- अनागते सद्धर्मविप्रलोपकाले ये बोधिसत्त्वा इमं धर्मपर्यायं धारयिष्यन्ति, न ते पुद्गलादिभिर्गृहीता भविष्यन्ति, मय्यप्येवं सम्भावनायां सद्धर्मोत्थानकाले ऽपि युष्माकमेतादृशप्रतिपत्त्यभावे इदमत्यन्तं लज्जास्थानं तत् स्यादित्युच्यते | तत्र ऽअहम्ऽ; इति पद्गलनैरात्म्यं बोध्यते, इमं इत्यनेन पुद्गलधर्मनैरात्म्यं प्रकाश्यते, भाष्यमाणम् इति तु साक्षात् प्राकाश्यमानं भगवता, अवकल्पयामि इति प्रसादाकारः प्रसन्नता संदर्श्यते, अधिमुच्ये इति सम्प्रत्ययश्च, ते सत्त्वाः इत्यनेन भगवन्, अनागते कल्पे भाविनः | अत्रोद्ग्रहीष्यन्तीत्यादीनि यानि पदानि तानि पूर्वमेवोक्तानि |
208 SK तच्चैवं निरुच्यते- पुद्गलनैरात्म्यमात्रमवगन्तुर्मम भगवतः सकाशात् साक्षात् श्रवणबलेन यद्धि नैरात्म्यद्वयप्रतिपादके ऽस्मिन् धर्मे प्रसादसम्प्रत्ययमात्रं जातं तन्नैवाश्चर्यम् | ये भगवन् (तेषु) कल्पेषु अस्मिन् [धर्मे] धारणादिक्रमेण ईदृशं धर्मपर्यायमधिगम्य पर्यवाप्स्यन्ति ते परमाश्चर्येण समन्वागता भविष्यन्ति | भगवन्, (तेषु) कल्पेषु बहुलतया महायानविप्रकृष्टा भवन्ति, तेषु (Vअज्रट्_१६६) श्रद्धोत्पादस्त्वतिदुर्लभ इत्यभिप्रायः |
209 SK एतेन कौसीद्यं प्रहाय सद्धर्मग्रहणादौ छन्देन प्रणिधानेन च स्थातव्यमित्यादर्शितम् | न केवलं तेषु आगमयोग एवापितु (तेषु) प्रतिपत्तिसम्पदमपि दर्शयितुम् अपि तु खलु पुनर्भगवन् इत्यवोचत् | आत्मा इत्यादिवचनम्, तूपलक्षणम्, अतस्तेषां धर्मसंज्ञा (अपि) न प्रवर्तिष्यते, द्वयोर्नैरात्म्ययोर्युगपदधिगमात् |
210 SK यद्यनात्मादिकं सत् तदा संज्ञापि तत्र नियमेन प्रवर्तयेदिति विचिन्त्य तत्कस्य हेतोः? इति पृष्ट्वा आत्मसंज्ञा इत्युदतारीत् | यथात्मेत्याद्युक्तस्तथा अयमहमित्ययात्मसंज्ञा या सर्वजनप्रसिद्धा, तस्या अपि परिक्षाक्षमत्वादकिञ्चनत्वे सति आत्माद्यनुभवाभावादसत्याः का कथा | अनेन तावद् योगसमापत्तिः निर्दिष्टा |
211 SK ननु चासत्त्वे सत्यात्मादेस्तद्विपर्ययेण नात्मसंज्ञा प्रवर्तिष्यत इति कुत इत्याभ्यन्तरोत्थितं प्रश्नं विचार्य तत्कस्य हेतोः? इत्यवोचत् | सर्वसंज्ञापगता हि बुद्धा भगवन्तः इत्युदतरत् | अत्रायमर्थः- समस्तभावानां यथावत्तत्त्वाधिगमेन ऽबुद्धा भगवन्तःऽ; इत्युच्यते | परमार्थतः कस्यापि संज्ञेयस्याभावात्, न कुत्रापि ते संज्ञा प्रवर्तते, अन्यथा विपर्यासः स्यात् | बोधिसत्त्वास्तु बुद्धानुनुशिक्षामनुवर्तन्ते, अन्यथा कथं तत्पदं प्राप्नुयुः, तस्मात् बुद्धैर्भगवद्भिर्यथा सर्वसंज्ञापगतत्वं शिक्षितं तथा बोधिसत्त्वैरपि शिक्षितव्यम् | तस्माद् ये बोधिसत्त्वास्तस्यामनुशिक्षन्ते तेषामात्मादिसंज्ञा नियमतो न प्रवर्तते | (Vअज्रट्_१६७) एवमेतत् इति विनेयानां निश्चयापादनार्थं स्वयमभ्युपगम्य भगवता द्विरुक्तम् | इतः पूर्वमनारब्धवीर्यानधिकृत्याभिहितम् | सम्प्रति पुद्गला धर्मगाम्भीर्यं श्रुत्वा त्रस्यन्ति | अतः प्रथमतरमनारब्धवीर्याणां तेषाम् अनारब्धवीर्यत्वापनयनार्थं ये सत्त्वाः इत्याद्याह | सन्त्रासे सति नारभन्ते वीर्यम्, श्रावकयाने ऽस्मिन् भगवता धर्ममात्रमिदं पुद्गलासत्त्वमित्युक्तम्, महायाने तु तदपि धर्ममात्रं मिथ्येति देशितम्, तस्माद् अनादिकालीनसहजात्मदृष्टिसम्प्रयुक्तान्तःकरणा अभावितात्मानः पुद्गलनैरात्म्यं श्रुत्वा नास्त्यहमिति त्रसिष्यन्ति | तन्निषेधार्यं नो त्रसिष्यन्ति इति देशितम् | ये धर्ममात्रे ऽभिनिविष्टास्ते धर्मनैरात्म्यदेशनाश्रवणकाले सन्त्रसिष्यन्ति, यद् धर्ममात्रं तस्याप्यसत्त्वे ऽअहो ! न मया भाव्यम्ऽ; इति मत्वा दशदिगवलोकनेनापि शरणाभावात् सन्त्रासे तदपाकरणाय न सन्त्रसिष्यन्ति इत्युद्दिष्टम् | चिन्ताकाले उभयाभावयोगस्याशक्यत्वात् सन्त्रसिष्यन्ति ऽकथमस्माभिर्नैरात्म्यद्वयमधिगन्तव्यम्ऽ; इत्यादिमसन्त्रासापसारणार्थं न सन्त्रासमापत्स्यन्ते इत्युक्तम् |
212 SK अन्ये तावन्नैरात्म्यद्वयानवबोधाद् यो हि त्रासो मृदु-मध्याधिमात्रात्मकः स एभिस्त्रिभिः पदैः यथाक्रममुदीरित इत्येवं मन्यन्ते, अपरे तु त्रिविधस्त्रासः श्रवण-मनन-भावनाकाले भवतीत्यभ्युपगच्छन्ति | सम्प्रति लाभसत्कारेषु वीतरागत्वात् ऽते परमाश्चर्येण समन्वागता भविष्यन्तीति |ऽ; श्रोतुकामानां हिताय स्वयं पूर्वं प्रश्नमुथ्याप्य तत्कस्य हेतोः? इत्यवोचत् | परमपारमितेयं इत्युक्तम् | प्रज्ञापारमितेयं बोधेरासान्नहेतुः | अस्या अभावेन दानादिपारमितानामभावात् सर्वपारमितासु श्रेष्ठा | न केवलं मयैवेयं परमा परमा प्रोक्ता, (Vअज्रट्_१६८) अपि तु सर्वबुद्धैरपीयं परमेत्युक्तेति दर्शनार्थं यां च परमपारमितां इति निगदितम् |
213 SK अनेन ऽएकबुइद्धेन देशितमपि अविपरीतार्थत्वेन गृह्यते सर्वबुद्धैकाभिप्रेतत्वे खलु किमुच्यताम्ऽ; इत्येवं दीपितम् | (यदि) अस्माभिः सर्वैः परमा संसाधिता स्यात्, कथं न (वयं) परमेणाश्चर्येण समन्वागता भविष्यामः? अनेन परमत्वदर्शनेन ह्रियः द्वितीयं स्थानं निर्दिश्यते, तथा हि- धर्मो ऽयं (एतावान्) श्रेष्ठस्तथापि त्वं यल्लाभसत्काराध्यवसितः प्रमादेन स्थितस्तदतीव लज्जाजनकमित्युच्यते | अनेन चित्तप्रग्रहः सन्दर्शितः |
214 SK १३. दुःखाधिवासन-स्थानम् :
215 SK एवं ह्रीस्थाने देशिते ऽपि ये दुःखे ऽक्षान्त्या वीर्यातिशयमारब्धुं नोत्सहन्ते, तेषां दुःखाक्षान्तेर्व्यपगमार्थं त्रयोदशस्थानमधिकृत्याह अपिअ तु खलु पुनः सुभूते इत्यादि | किमत्र क्षान्तिः? केन लक्षणेन सा क्षान्तिर्ज्ञायते? तस्याः य आकारः, यथा वाकारः, यश्चाक्षान्तेः प्रतिपक्षः सो ऽनेन स्थानेन दर्श्यते | कीदृशी क्षान्तिरिति चेत्? सर्वधर्मानुपलम्भस्वभावः, अतः या तथागतस्य क्षान्तिपारमिता सैव अपारमिता इत्युक्तम् | परमार्थतः का क्षान्तिः, येन क्षान्तिः, यत्र क्षान्तिः, यश्च क्षम्यः, या च क्षान्तिः, तेषां सर्वेषामनुपलम्भात् (Vअज्रट्_१६९) सैव अपारमिता | एवं परमार्थतो ऽनुत्पन्नत्वात् नास्ति तत्र पारं गतेत्यभिसन्धिः | अनेन तस्याः क्षान्तेः स्वभावेनानुत्पन्नत्वं गाम्भीर्यं चापि दर्शितम् |
216 SK एवं सर्वधर्मानुपलम्भमनसिकारेण कुतः बोधिसत्त्वानां क्षान्तिरिति विचिन्त्य तत्कस्य हेतोः? इति ज्ञापकहेतौ पृष्टे यदा सुभूते इत्याद्यत्तरमाह | अङ्गानि हस्तपादादीनि, प्रत्यङ्गानि अङ्गुल्यादीनि | नापि मे काचित्संज्ञा इति परदेहसंज्ञा, शस्त्रसंज्ञा, छेदसंज्ञा, परसंज्ञा, क्षान्तिसंज्ञादयश्च | अनेन सर्वधर्मानुपलम्भो ऽभिहितः |
217 SK ननु असत्याञ्च कस्याञ्चित् संज्ञायां मूर्च्छावस्थावद् चित्ताभावो भविष्यतीति चेत्? तत्र नापि असंज्ञा वा बभूव इत्याह | तस्मिन् काले सर्वधर्मनैरात्म्यावबोधकं योगिज्ञानं तथ्यसंवृतिस्वभावभिप्रेतम् | तच्च कथमिति चित्तगतं प्रश्नं विकल्प्य स्वयं तत्कस्य हेतोः? इत्युक्त्वा सचेत् सूभूते इत्युदतरत् | व्यापादसंज्ञापि अस्यायमभिप्रायः- यत्र आत्मसंज्ञा, तत्र नूनं तन्मत्रेणात्मस्नेहो जायते | एवमात्मस्नेहसम्प्रयोगे ऽवश्यं स्व-परविकल्पौ जायेते | तेनैवं य आत्मोपकारित्वेनोपादत्तास्तेष्वात्मीयत्वं परिकल्प्यते, इतरेषु च परत्वं कल्प्यते | अत एवात्मानुरूपा प्रवृतिः | तत्रात्मनि आत्मीयेषु च प्रवृत्तौ अनुरागः, तद्विपरीतेषु च द्वेषः | ताभ्यां सम्बद्धः समस्तो दोषराशिः सम्भवति | अत एवोक्तम् :
218 SK आत्मनि सति परसंज्ञा स्व-परविभागात् परिग्रहद्वेषौ | अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते || इति ||
219 SK यत्र व्यापादादिदोषौस्तत्र कथं क्षान्तिवादीति प्रसेत्स्यति, येन क्षान्तिबलेन कलिङ्गराजा एव सत्त्वः नरकं गमिष्यतीत्यभिप्रेतम् | अनेन कृतापकारे ऽपि (Vअज्रट्_१७०) सति निर्विकारतया नियतं व्यापादादिसम्भवाभावतया आत्मादिसंज्ञाव्यपगमहेतुतया च ईदृश्याः क्षान्तेर्ज्ञानमादर्शितम् |
220 SK अनेनैव च त्रिविधाः क्षान्तयो ऽपि तावन्निर्दिश्यन्ते | अत्र कलिङ्गराजा इत्यनेन अपकारमर्षणक्षान्तिः परिदीपिता, अङ्ग-प्रत्यङ्ग इत्यनेन दुःखाधिवासनक्षान्तिः मे तस्मिन् समये इत्यादिना च धर्मनिध्यानक्षान्तिः | अनेन धर्मपुद्गलविकल्पयोर्विपक्षतया निर्देशेन विनेयास्तत्प्रहाणे यथोक्तक्षान्त्युत्पादे सम्यग्ग्रहणे चावतरन्ति | तदेवम्, विनेयजनाः ऽयदा भगवानेव बोध्यर्थमेवंविधां परां क्षान्तिं भावितवान्, तत्कथमस्माभिर्न भावनीया, दुष्करकर्मण्यननुष्ठिते दुर्लभपदं नाधिगम्यतेऽ; इति विचारयन्ति | ततस्ते विनेयास्तस्यां प्रओत्साह्यन्ते | अङ्ग-प्रत्यङ्गेति निमित्तमात्राभिधानेन सर्वदुःखाधिवासनक्षान्तिः समुदीरीता |
221 SK सम्प्रति यदाकारा सा क्षान्तिः, तथा दर्शयितुम्- अभिजानाम्यहं सुभूते इत्याह | तदपि कलिङ्गराजा मे अङ्गप्रत्यङ्गमांसान्यच्छेत्सीत् इत्येतत्प्रसङ्गप्राप्तम्, साक्षान्नोक्तम् | सा च क्षान्तिः द्विविधा दीपितानिरन्तरपरापकारदुःखविषयिका परापकारासह्यदुःखविषयिका च | तत्र निरन्तरदुःखविषयस्तु यत् पञ्चजातिशतानि इति | एतेन अस्यौदार्यम् अभिहितम् | असह्यदुःखविषयस्तु यत् अङ्ग-प्रत्यङ्गानीति कथितम् |
222 SK त्रिविधं (हि) दुःखं तावद् असह्यं वस्तु, तद्यथा- संसारदुःखं सत्त्वप्रतिकूलप्रवृत्तिदुःखं परिभोगवैकल्यदुःखं च | तत्र प्रथमस्यासह्यवस्तुनः प्रतिपक्षत्वेन तस्मात्तर्हि इत्युक्तम् | समस्तेनानेन असह्यप्रहाणात् बोधौ छन्देन (Vअज्रट्_१७१) प्रणिधानेन च स्थातव्यमिति दर्शितम् | बोधिचित्तोत्पादे सति न केनापि संसारदुःखेन स्पृष्टो भविष्यतीत्यभिप्रायः | बोधिचित्तोत्पादे ऽपि आत्माभिनिविष्टतया त्रिविधदुःखसंज्ञाभिः सन्त्रस्य कदाचित् पुनर्नोत्पादः स्यादतः सर्वसंज्ञा विवर्जयित्वा इत्याह | सर्वसंज्ञाश्चात्र आत्मादिसंज्ञाः त्रिविधदुःखसंज्ञाश्च | रूपाद्यभिनिवेशेन श्रावकादिवत् संसारं परिकल्प्य तद्दुःखसन्तप्ताः न कदाचिदपि बोधिचित्तमुत्पादयन्ति, अतः न रूपप्रतिष्ठितम् इत्याद्यूक्तम् |
223 SK रूपादिषु सताभिनिवेशो हि तत्र प्रतिष्ठित इति पूर्ववदत्राप्युक्तः, न चात्रपुनरुक्तिरपि | अनेन असह्यवस्तुनः प्रतिपक्षो ऽभिहितः | पूर्वेण तु पारमितायां योगः करणीयः | अत्र विनेयैः नाधर्मप्रतिष्ठितम् इति शेषः | अनेन तावदभावे ऽभिनिवेशः प्रतिषिध्यते | न क्वचित् प्रतिष्ठितम् इत्यनेन रूपादिषु नाममात्रसत्ताभिनिवेशः प्रतिषिध्यते, योगसमापत्तिश्चोदीरिता भवति |
224 SK किं रूपादीनां सतां तत्सत्त्वस्य प्रहाणार्थम्, यदुत असतां वितथाभिनिवेशस्य प्रहाणार्थं प्रतिषेधः क्रियते? इति चित्तोत्थितं प्रश्नं वितर्क्य तत्कस्य हेतोः? इत्यपृच्छत् | उत्तरार्थमाह- यत्प्रतिष्ठितं तदेवाप्रतिष्ठितम् इति | अत्रायमर्थः- अनादिकालस्तच्चितं रूपादिषु भावाभिनिवेशबलेन रूपादौ प्रतिष्ठितम्, यः खलु सत्याभिनिवेशः, स तस्य रूपादिवस्तुनो ऽभावात् परमार्थतो न प्रतिष्ठितः | तस्मादेव इत्यनेनोपसंहारेणात्र द्वितीये पक्षे प्रतिस्ठितत्वमेव दर्शितं भवति | दानशब्देनात्रापि पूर्ववत् षट् पारमिता एवाभिप्रेताः |
225 SK द्वितीयासह्यवस्तुन प्रतिपक्षत्वेन अपि तु खलु पुनः सुभूते इत्याद्याह | समस्तेनानेन बोधिसत्त्वा येषामर्थायातिदुष्करपारमितायोगमारब्धुमुत्सहन्ते, ते ऽपि सत्त्वा यदि परमार्थतो न स्युः, सत्त्वसंज्ञापि परमार्थतो न स्यात्, कथं ते तथाविधेषु मिथ्याप्रवृत्तेषु सत्त्वेषु खिन्ना भवेयुः (Vअज्रट्_१७२) इत्यादर्शितम् | तत्र सत्त्वं संज्ञां च प्रतिषिध्य नैरात्म्यद्वयमुदीरितम् | सर्वसत्त्वानामर्थाय इत्यनेनात्रौदार्य दर्शितम् | अवशिष्टेन सकलेन गाम्भीर्यं सन्दर्शितम् |
226 SK एवं तावद् युक्त्या क्षान्तिर्युज्यत इति निर्दिश्य साम्प्रतं तथागते सम्प्रत्ययो ऽपि युज्यत इति निरूपयन् भूतवादी इत्याद्याह | प्रथमम् उद्देशः, शेषः विधेयम् | अथवा सत्यचतुष्टयमुद्देशः, क्रमशः अभिसम्बध्यते | अथवा भूतवादी इति साध्यम्, तथागतः इति ज्ञापकनिर्देशः | यथान्ये बुद्धा भगवन्तः क्लेशज्ञेयावरणानि प्रहीणवन्तस्तथैव तथागतो ऽप्ययं गतः प्राप्तः, तेन तथागतः | तस्मादविपर्यस्तत्वेन भूतवादीति, विपरीतदेशनायाश्च हेतोरावरणस्याभावः सिध्यति हेत्वनुपलब्धेः |
227 SK तथागत एवायमिति कथं सिध्यतीत्याह- सत्यवादी इति | ऽसत्यम्ऽ; चतुरार्यसत्यलक्षणम्, तस्य यो वादी, स तथागत इति निर्धार्यते | अत्यन्तपरोक्षार्थस्तु सर्वथा सम्यक् कथयितुं न शक्यते, यथोक्तम्-
228 SK परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् |
229 SK अयं सत्यवादी सत्यं केन रूपेण जानातित्याह- तथावादी इति | स वस्तुतत्त्वमविपरीततया यथावद् वदतीति तथावादी | स हेयोपादेयतत्त्वं सोपायं यथास्थितं तथैव भाषते ऽतः स कथं न सत्यवादी स्यादिति | एवंभूते ऽपि तद्देशितानि चत्वारि सत्यानि किं तथैव प्रतिष्ठितानीति? इत्यत आह- न वितथवादी इति | यतो ऽविपरीतप्रमाणोपपन्नानि, न प्रमाणबाधितानि उक्तान्यतः सत्यानीत्यर्थः एतेन समग्रेण कार्यकारणेन भगवतः प्रामाण्यं साधितम् | अत एवोक्तम्-
230 SK तायात् तत्त्वस्थिराशेषविशेषज्ञानसाधनम् |
231 SK एकस्यापि भावस्वभावस्य परमार्थतो ऽसिद्धत्वाद् एकमपि सत्यं तावद् दुःसाध्यम्, किमिति सत्यचतुष्टयमिति चतुःसत्याभिधानाच्च भूतवादीति |
232 SK एवं भगवता ऽमायोपमाः पञ्चस्कन्धाःऽ; इत्युक्ते सति कथं तेषां दुःखसत्यस्वभावत्वम्, दुःखस्यापि परमार्थतो ऽनृतत्वात् तत्समुदयनिरोधयोप्यसत्त्वमेव, अत्यन्ताभावभूते शशश्रृङ्गादौ तावत्तौ (समुदय-निरोधौ) न सम्भवतः | निरोधस्य त्वभावात् तत्प्रापको मार्गो ऽपि नैव परमार्थतः, गम्याभावे नैव गमको ऽपि | तथोक्तम्- ऽबोधिं प्रतिष्ठाय एकस्यापि सत्यस्य सिद्धिर्न दृष्टा, किमिति चतुर्णाम्?ऽ; इति देशनावत् |
233 SK एतत् प्रविचिन्त्य ये भूतवादिनि शब्दशो ऽभिनिविष्टास्तेषामध्यारोपान्तपरिहारार्थम् अपि तु खलु पुनः सुभूते इत्याद्याह | न तत्र सत्यम् इति परमार्थतः कस्यचिदपि स्वभावस्यासिद्धेः | न मृषा इत्यत्र सत्यव्यवच्छेदेन (Vअज्रट्_१७४) स्थितत्वात् तद्व्यवच्छेद्यत्वाभावाद् येन मृषाअत्वं भवेत् तन्मृषा | अथ वा न सत्यम् इति यथा मायोपमा मृषा ज्ञानरूपाः | अविचाररमणीयमात्रतया स्थितत्वाद् न मृषा इति | अनेन तावद् अन्तद्वयप्रतिषेधेन मध्यमा प्रतिपद् एव निर्दिश्यते | श्रावकाणामात्माभिनिवेशस्य प्रहाणार्थं पुद्गलनैरात्म्यांशमात्रेण चत्वार्यार्यसत्यानि देशितानि, न तु सर्वेभ्य इत्यविरोधः |
234 SK कायादिकमुपलभ्य तदर्थको दानं ददाति, अनुपलभ्य अतदर्थको वा, तयोः को विशेष इति यच्चिन्तनं तत् तृतीयस्यासह्यवस्तुनः प्रतिपक्षत्वेनाह तद्यथापि नाम इत्यादि | यः काय-भव-भोगात्मकवस्तुषु सुखमात्रत्वेनाभिनिविश्य (सत्यत्वेनैवाभिनिविश्य) तदर्थिकस्तत्र पतित्वा दानं ददाति, स अन्धकारप्रविष्टपुरुषसदृशः, सतोरपि चक्षुषोः वस्त्वर्थानुपलम्भेन हेयोपादेयार्थानभिज्ञतया विपर्यस्तार्थेषु समस्तदुःखस्थानेषु पतितो भवति | ततः बोधिसत्त्वा महासुखभोगात् प्रच्युता भविष्यन्ति | तद्वियोगेन श्रावकादिवत् दुःखसन्तप्ततया बोधेर्व्यावृता भविष्यन्ति |
235 SK यो वस्त्वपतिओतो दानं ददाति, कायादिवस्त्वनुपलभ्य तदनर्थी भूत्वा दानं ददाति तत्तु यथापि नाम चक्षुष्मान् पुरुषः नानाविधानि रूपाणि पश्येत् दृष्ट्वा च हेयस्य हानम् उपादेयस्य चोपादानमिव | (अथ) तदपि असत्यरुणोदये कदाचिन्न दृश्यत इति? सूर्ये ऽभ्युद्गते इत्याह | सूर्ये ऽभ्युद्गते ऽपि अन्धकारपूर्णेषु गृहादिषु न पश्यतीति मत्वाह प्रभातायाम् इति | (Vअज्रट्_१७५) प्रभातेति शब्दः अन्धकारद्योतनार्थमुक्तः तस्मान्निरन्धकारायां दिशायामित्यर्थः |
236 SK तत्सामग्र्ये ऽपि यो ऽन्धः, स कदाचिदपि न पश्यतीत्याशङ्कायां चक्षुष्मान् इत्याह | एवमवस्तुपतितो बोधिसत्त्वो द्रष्टव्यः, सः अविद्यातामिस्रप्रबोधेन ज्ञानसूर्याभ्युद्गमेन च नानाविधानि ज्ञेयानि यथावत् सम्पश्यति, विपर्यस्तवस्तूनि समस्तदुःखस्थानानि हेयदुःखानि चापि मृषात्वात् परिवर्जयति, समस्तसुखस्थानस्यानुरसम्यक्सम्बोधिलक्षणस्योपादेयस्योत्तमपदस्यापि कामनया तत्र प्रवर्तते |
237 SK तस्माद् बोधिसत्त्वा महाभोगसम्पदनुप्राप्य अनुत्तरसुखेन कायं स्थिरीकृत्य बोधेरविनिवृत्ता भवन्तीत्यभिप्रायः, अत एव अविनिवृता इति | पूर्वं त्वालम्बनमात्रेण तस्मिन् स्थितिरादर्शिता, अत्र तु आलम्बनपूर्वकं तस्मिन्ननुरागलक्षणे पतनम् | तस्मादत्र पतित इत्युक्तम्, पूर्वं तु प्रतिष्ठित इत्युक्तम् | अनेन सकलेन चित्तप्रग्रहः परिदीपितः |
238 SK १४. ध्यानसास्वादविरति-स्थानम् :
239 SK अनेन प्रकारेण क्षान्तिप्रवृता अपि ये ध्यानसमास्वादयन्तस्तत्रैवासक्ता ज्ञानसम्भारपारिपूरये हेतुभूतं महायानधर्ममनारब्धास्तेषां ज्ञानसम्भारवियोगपरिहारार्थं चतुर्दशस्थानमधिकृत्य अपि तु खलु पुनः सुभूते इत्याद्याह | स्थानेनानेन ध्यानरसास्वादापगमाय पञ्चभिः प्रकारैः सद्धर्मं प्रति वीर्यार्थं गुणविशेषः परिदीपितः, (यथा)- १. तथागतानुभावः, २. विशिष्टपुण्यसञ्चयः, ३. धर्मतत्साधनयोः प्रशंसनम्, ४. देवादिभिः सत्कारः, ५. पापपरिशोधनं च |
240 SK तत्र तथागतानुभावस्तु ज्ञातास्ते तथागतेन इत्यादि यदाह | उद्ग्रहीष्यन्ति इत्यादिपदानां व्याख्यानं पूर्ववदेव | भगवान् हि सर्वं विजानातीति सर्वज्ञः द्रष्टा च | तत्र किं महद् आश्चर्यं तेष्वित्यन्वेषणायां पुण्यसञ्चयवैशिष्ट्यमादर्शयितुमाह सर्वे ते सत्त्वाः इति | अप्रमेयपुण्यस्कन्धानां प्रसवनाद् ज्ञातास्ते भाग्यवन्त इति वाक्यशेषः |
241 SK किं च तावत् पुण्यस्कन्धस्य वैशिष्ट्यम्, येन (सः पुण्यस्कन्धः) अपरिमितो भवतीति विचिन्त्य विशिष्टपुण्यसंग्रहं दर्शयन् पश्च खलु पुनः सुभूते ! स्त्री वा पुरुषो वा इत्याद्याह |
242 SK सूर्य-प्रभा-पृथ्वीजलाद्यवस्थाविशेषः पूर्वाह्णः | एवम्भूतेष्ववस्थाविशेषेष्वेव कालः इति प्रज्ञप्यते, न तु विशिष्टत्वेन परिकल्पित इवेति दर्शयितुं कालशब्दस्तत्सामान्याधिकरण्येन विशेष्यते | अन्यथैकात्म्याद् अयं पूर्वाह्ण इत्यादिभेदा न स्युः | विशेषणान्तरैर्भेदे ऽभ्युपगते स एव विशेषः सूर्याद्यवस्थानां विशेषः पूर्वाह्णादिव्यवहारप्रज्ञप्तीनां च हेतुः स्यात्, अकिञ्चित्करत्वे किमदृष्टसामार्थ्येन कालेन प्रज्ञप्तेनेत्यभिप्रायः | न च स मन्दतीव्रबुद्धयादिलिङ्गवानपि युज्यते, मन्दादिबुद्धीनां तद्धेतुतः समुद्भवे क्रमोणोत्पत्तिविरोधाद्, एतच्च पूर्वं दर्शितमेव | बाधकप्रमाणस्यापि प्रागेवात्मदूषणप्रसङ्गे दर्शितत्वात् किमधिकेन |
243 SK सामान्यजनैः सङ्केतवशेनोत्पन्नस्तथाविधः प्रणिनामवस्थाविशेषः कालः इति व्यवहारे प्रज्ञप्यते, न तु शब्दार्थसम्बन्धप्रज्ञप्तिवशेनेति दर्शयितुं समये इति शब्देन विशेष्यते | कस्यचिदेकस्याप्यकथनेन यथोक्तदेशनाभिप्रायस्य प्रतिपादनाभावात् पदत्रयमुक्तम् | सङ्केतविषयत्वेन प्रज्ञापकं शब्दमारोप्य समानाधिकरण्यं कॄतम् | ध्यानरसास्वादविरागायात्रेदमुक्तम् | पूर्वं देयस्य एवंविधस्य च कालस्यानिर्देशान्नैव तावत् पुनरुक्तिदोषः |
244 SK अयमेव ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयाद् अप्रमेयमसंख्येयम् इत्यनेन औदार्यं परिदीप्यते | संख्या-द्रव्यकाल-विशेषैर्विशिष्टं दानोद्भूतं पुण्यमभिभूयते | एवं तावत् गङ्गानदीबालुकासमान इति संख्याविशेषं दर्शयति | आत्मभावः इति दुरवगाहो द्रव्यविशेषः | कल्पकोटिनियुतशतसहस्राणि इति कालविशेषः | सा च कल्पकोटिः नियुता, सापि शतसहस्रेति पदेन युक्ता |
245 SK एतत् कथं ज्ञातव्यम्? इति धर्मस्तुतिवैशिष्ट्यं दर्शयितुम् अपि तु खलु सुभूते इत्याद्याह | अचिन्त्यो ऽयं धर्मपर्यायः अत्यन्तगम्भीरः सर्वधर्माणां निस्वभावतालक्षणः तथागतैः प्रत्यात्मवेदनीयः, श्रावकादिभिरपरैश्चापि (Vअज्रट्_१७८) चिन्तयितुमशक्यो ह्यत्र निर्दिष्टः | अतुल्यः इति अन्यत्र एवंविधस्य अदर्शनात्, एतत्तुल्यस्य विशिष्टस्य वाभावात्, तुल्यस्य अधिकस्य वाभावेन अचिन्त्यहेतुतो ऽचिन्त्यमेव फलं सम्भवतीत्युक्तम् | कथं अतुल्य इति चिन्तायामाह श्रेष्ठयानसम्प्रस्थितानाम् इति | अतिशयेन पारं गतस्तु श्रेष्ठ इति | श्रावकादीनाम् अयं धर्मपर्यायः इत्युक्तम् | अग्रयानम् इत्यग्राणां यानं वा अग्रं चेदं यानमिति वा पदविग्रहः | ये तत्र सम्प्रस्थितास्ते तथोच्यन्ते | एवमेव श्रेष्ठयानसम्प्रस्थितनामित्यपि तस्समानमेव | तौ तावत् पर्यायौ | पर्यायदेशनाभिप्रायस्तु विनेयजनोपकारः, येन कतिपये भव्या भवन्ति |
246 SK इतरयानान्यपेक्ष्य श्रेष्ठ इति केचित् | समस्तक्लेशज्ञेयावरणविशुद्धया वा श्रेष्ठ अथवा अग्रमिति परमम् | प्रत्येकबुद्धयानमपि श्रावकयानापेक्षया परमिति विचारणायामाह- श्रेष्ठयानसम्प्रस्थितानाम् इति | अत्यन्तं प्रशस्तगमनात् श्रेष्ठ इत्युक्तम् | श्रावकाद्येनेकयानेभ्यो ऽतिशयेन प्रशस्यत्वादत्र श्रेष्ठः इति शब्द प्रयुक्तः | तच्च महायानमित्येव | श्रावकादिनामभव्यत्वाद् धर्मदेशनेयं बोधिसत्त्वेभ्य एवोक्ता | तेन सिद्धो ऽयं धर्मपर्यायो ऽतुल्य इति | तथागतेन भाषितः इत्यन्येषामगोचरत्वात् | धर्मपर्यायो ऽयम् इत्यादिभिः यथोक्तार्थान् प्रसाध्य उपसंहृत्य च तत्प्रतिपत्तुं विशेषस्तुतिः सन्दर्शिता |
247 SK यतो हि धर्मपर्यायो ऽयमचिन्त्यो ऽप्रमेयश्च तस्माद् विपाको ऽप्यस्याचिन्त्य एव | ततः ये इमं धर्मपर्यायं धारयिष्यन्ति इत्यादि तु सिद्धमेवेत्यर्थः | अप्रमेयम् इत्युद्देशः, शेषस्तान्निर्देशः | तत्र अचिन्त्यम् इति चिन्ताविषयातिक्रान्तत्वेन अननुमेयत्वात् | अतुल्यम् इत्यप्रतिसमम् | अमाप्यम् इति सर्वसत्त्वप्रयोगे ऽपि मापयितुमशक्यत्वात् | अपरिमाणम् इति (Vअज्रट्_१७९) महद्भिर्देशादिभिरप्यपरिमाप्यत्वाद् आकाशतोप्यधिकम् | अथवा सर्वाण्यपीमानि पर्यायान्तर्गतानि | सर्वे ते सुभूते, सत्त्वाः समांशेन बोधिं धारयिष्यन्ति इति बोधिभारोद्वहनम् अंशोद्वहनसदृशम् | अनेन तावत् सकलेन ध्यानसुखास्वादं परित्यज्य ज्ञानसम्भारपारिपूरिहेतौ धर्मपरिग्रहणादौ छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् |
248 SK कस्मात् खलु श्रेष्ठयानसम्प्रस्थितेभ्यो भगवता भाषितो न त्वन्येभ्यः, किं खलु भगवत्यपि रागो द्वेषश्च इति विचिन्त्य तत्कस्य हेतोः? इत्याह, अतः सुभूते हीनाधिमुक्तिकैः इत्युदतरत् | अनेन खलु भगवति सर्वसत्त्वेषु एकसुतवद् वात्सल्यमिति नास्ति रागो द्वेषो वा | तथापि ये यदा भव्या भवन्ति तदा तेभ्यो देशयन्ति, न त्वन्येभ्यः | अन्यथा उपायानभिज्ञत्वान्नैव भवेद् भगवान् सर्वज्ञः इत्येवं दर्श्यते | हीनाधिमुक्तिकैरिति श्रावकप्रत्येकबुद्धैः | आत्मादिदृष्टिकैः इति तैर्थिकैः | नेदं स्थानं विद्यते इति नास्ति तदर्थमवकाश इति |
249 SK यच्छ्रावकैः प्रत्येकबुद्धैश्चापि श्रोतुं न शक्यते तत्कथं शक्यते पृथग्जनैः श्रोतुम्? यत्तैर्न श्रोतुं शक्यं तत् कथं शक्यत उद्ग्रहीतुं वा पर्यवाप्तुं वा | अतस्तदसम्भवमित्यर्थः | अनेन तावद् योगसमापत्ताववातार्यते |
250 SK यद्येवं कथं तावदार्यसुभूतिना धर्मपर्यायो ऽयं श्रोतुं शक्यत इति चेद्? भगवतो ऽधिष्ठानेनेति नास्ति दोषः | सर्वप्रदेशेषु यस्मिन् पृथिवीप्रदेशे सूत्रमिदं भाष्यते स एवैकः पृथिवीप्रदेशो ऽनुशंसनीय इति प्रतिपादयन् देवदिसत्कारवैशिष्ट्यं दर्शयितुम् अपि तु खलु पुनः सुभूते इत्याद्यवोचत् |
251 SK पूर्वं तावद् बाह्यशास्त्राभिष्वङ्गपरिवर्जनार्थमुक्तम्, सम्प्रति ध्यानरसास्वादवर्जनार्थमिति नास्ति पुनरुक्तता, समस्तसंगृहीतार्थाभिधाने ऽपि भिन्नप्रसङ्गाभिधानान्नास्ति पुनरुक्ततेति ज्ञातव्यम् | पूजनीयः इति छत्रध्वजपताकादिभिः, वन्दनीयः इति नमस्करणीयः, प्रदक्षिणीयः प्रदक्षिणायोग्यः, अत एव पूजनीयत्वादिधर्मैर्युक्तावाद् चैत्यः |
252 SK ननु ईदृशेषु धर्मपर्यायेषु अभ्युद्यतानामपि कथं केचित् परिभूता दृश्यन्त इति चिन्तायां पापपरिशोधनविशेषदेशनाय ये सुभूते, कुलपुत्रा वा कुलदुहितरो वा इत्याद्याह | परिभूता भविष्यन्ति इति परिभाषणभण्डनादिभिर्व्यापन्ना भविष्यन्ति, सुपरिभूताश्च भविष्यन्ति इति वधबन्धनादिभिः पीडिता भविष्यन्ति |
253 SK एवमेते महात्मानः कथं परिभूता भविष्यन्तीति विचिन्त्याह तत्कस्य हेतोः? इति | तेषां सत्त्वानाम् इत्याद्युदतरत् | पौर्वजन्मिकानि इति पूर्वजन्मनि कृतानि | दृष्ट एव धर्मे इति प्रत्युत्पन्नजीविते | बुद्धबोधिं (Vअज्रट्_१८१) चानुप्राप्स्यन्ति इति पापानि परिशोध्य कालान्तरे भावनानिरता न चिरं अनुत्तरसम्यक्सबोधिमभिसम्बुद्ध्य बुद्धा भविष्यन्तीति वाक्यार्थः |
254 SK ततो निदानं बहुतरं पुण्यस्कन्धं प्रसुनुयादप्रमेयमसंख्येयम् इति यदाह तत्र केन प्रकारेण अप्रमेयाख्येयावबोधः स्यात्? इत्यत्र अभिजानाम्यहं सुभूते इत्याद्याह | अत्र प्रभावेण बहुतरेण चाप्रमेयमसंख्येयं च परिदीपितम् | तत्राभिजानामि सुभूते अतीते ऽध्वन्यसंख्येयैः कल्पैः असंख्येयतरैः इत्यादिना प्रभावः परिदीपतः | अयं तावत् पुण्यस्कन्धस्यैव प्रभावः | एतावता प्रशस्तरो विशिष्टतरः (पूर्वकः) पुण्यस्कन्धो ऽप्यभिभूयते | दीपङ्करतः यावत् असंख्येयकल्पम् | असंख्येयकल्पस्तावद् गणनातीतत्वात्, दीपङ्करस्य परेण परतरेण चतुरशीतिबुद्धकोटिनियुतशतसहस्राण्यभूवन्, ये मयारागिताः इति प्रतिपत्त्यर्चया आराधिताः | न विरागिताः इत्यन्तराले ऽपि तदभिनिर्हारस्य अनुत्सृष्टत्वात् | यच्च इति कर्तृविशेषः |
255 SK ततो ऽयमर्थः यश्च आरागणादिकः (पुण्यस्कन्धः), यश्च उद्ग्रहणादिश्रद्धादिपुण्यस्कन्धस्तदुत्पादितश्च वासनात्मकः स्कन्धः, अनयोः (पुण्यस्कन्धयोः) पूर्वपुण्यस्कन्धः उत्तरपुण्यस्कन्धस्यास्य शततमीमपि कलां (Vअज्रट्_१८२) नोपैति इति | एतावतो ऽल्पीयस्त्वं दर्शयितुं सहस्रतमीमपि इत्याह | संख्या इति तुल्येष्वेव युज्यते, यथा हिमवता (तुल्य) विन्ध्य इत्युच्यते, न तु सर्षपः | कलाम् इत्यंशः, स च समानजातीय एव, यथा सुमेरोः कला पर्वतशिखरमेव, न तु तृणशिखरः | गणनाम् इत्यपि तुल्येष्वेव्, यथा सुमेरुरपि गिरिः, हिमवानपि गिरिः, न तु सर्षपः | उपमाम् इत्यपि सदृशेष्वेव, यथा गोसदृशो गवय इत्युच्युते, न तु मक्षिका | लघुरपि परिकर्मवशेन तस्य (महतः) कृत्यं करोति, यथा निशिते कृते सति दात्रमप्यसिकृत्यं करोतीति मत्वा उपनिषदम् इत्याह | ताडनपीडनादिविस्तारोपायेन तीक्ष्णीकृते ऽप्यतिलघुतया न क्षमत इत्यर्थः | अत एव औपम्यमपि इत्याह | तस्योपमाभावमपि न क्षमते |
256 SK सर्वज्ञवचनादेवैतज्ज्ञातव्यम्, एवंविधेषु इन्द्रियविषयातीतेषु विषयेषु सर्वज्ञवचनस्यैव प्रामाण्यात् | अपि च परिशुद्धे काले सर्वसत्त्वानामपि परिशुद्धत्वान्नाश्चर्याम्, अपरिशुद्धे तावत् काले ये सत्त्वा क्षणमात्रमश्यपरिशुद्धा भवन्ति, तदाश्चर्यम् | एवं प्रभावमुखेन तावदप्रमेयत्वं प्रदर्शितम् |
257 SK कथमसंख्येयं संख्ययेति विचारणायां सचेत्पुनः सुभूते...... तस्मिन् समये इत्याद्याह | तेन बहुलं परिदीपितम् | तत्पुण्यगणनयापि विषादमनुप्राप्य (Vअज्रट्_१८३) व्यामुग्धचित्तान्तर्विशेषे उन्मादमनुप्राप्नुयुः | ततः उद्भूतेनोन्मादेन चित्तविक्षेपं वा गच्छेयुः | अनेन गाम्भीर्यमौदार्यं चोपदिष्टिम् |
258 SK एवमस्नाद् धर्मपर्यायात् संख्याप्रभावप्रतिसंयुक्तमेवंविधं फलं कथं ज्ञायत इति? अपि तु खलु पुनः सुभूते इत्याद्याह | फलं पुनः हेत्वनुरूपमेव भवति | लघिष्ठे ऽपि न्यग्रोधवृक्षबीजे ऽतिशयसारसम्पन्नत्वाद् बृहच्छाखापल्ल्ववृक्षभूतं फलं नोपदृश्यते | धर्मपर्यायो ऽप्ययम् अल्पपरिवर्तो ऽप्यत्यन्तगम्भीरः, अचित्यधर्मदेशनाद् अचिन्त्यः | अतो ऽस्मादचिन्त्याद् हेतुप्रत्यययानुरूपमचिन्त्यं फलं भवति, हेतुप्रत्ययप्रभावस्तावत् सर्वज्ञगोचरत्वाद् अचिन्त्यः | विपाकशब्दो ऽत्र फलार्थः, तेन निष्यन्दादिफलानि संगृह्यन्ते | एतेन सर्वेण चित्तप्रग्रहो दर्शितः |
259 SK १५. अभिसमयकाले ऽहमितिविकल्पवियोग-स्थानम् :
260 SK एवं निराकृते ऽपि ध्यानसास्वादे प्रत्यासन्ने ऽभिसमयकालें यैः बोधिसत्त्वैः आत्मवैशिष्ट्यमवलोक्य ऽअहं सम्यक्सम्बोधिमार्गप्रतिपन्नः, सर्वे मया सत्त्वाः परिनिर्वापयितव्याःऽ; इति मन्यमानैस्तैस्तस्मिन् आत्मग्राहविकले ऽभिसमयाकाले कथं स्थातव्यम्, कथं प्रतिपत्तव्यम्, कथं चित्तं प्रग्रहीतव्यम्? इत्येतद् दर्शयितुं पञ्चदशस्थामधिकृत्याह- सूभूति....... अवोचत्- कथं भगवन्, बोधिसत्त्वयानसम्प्रस्थितेन स्थातव्यम् इति | स्थातव्यमित्यादिदेशनात्रयं तु (Vअज्रट्_१८४) प्रागेवोक्तं भगवता | नास्ति सुभूते, स कश्चिद् धर्मो यो बोधिसत्त्वयानसम्प्रस्थितो नाम इत्यवशिष्टेनात्र आत्मग्राहविसंयोगः क्रियते | शेषाणां (पदानां) व्याख्या तु पूर्ववत् |
261 SK यथेदं पुद्गलधर्मनैरात्म्यं प्रागेव भगवता प्रकाशितं तथोक्ते सति बोधिसत्त्वेषु पुनः अभिसमयकाले कथमात्मग्राहः सम्भवेद्? तन्निराकरणायोक्तमपि किं पुनरुच्यते? अथैवमपि देशनायां संमुह्येत् प्रागुक्तस्यानवस्थानं च स्यादिति? तथा देशिते ऽपि अनादिकालात्यन्तदृढीभूतात्माभिनिवेशवशतया केषाञ्चित् सम्मोहस्यानिवृत्तेः देशितो ऽप्यर्थः पुनरुपदिश्यते | पुनर्देशनाकाले पारिषद्यानां सम्मोहनिवृत्तेनार्नवस्था स्यात् | भगवता कृतस्योपदेशस्य फलं तावत् सम्मोहविनिवृत्तिरेव विनेयजनानामिति न निष्फलम् | अत एव सम्मोहनिर्वृतौ सत्यां फलाभावेन पुनः प्रवृत्त्यभावात् प्रकृतमेवेदम् |
262 SK १६. अववादपर्येषणस्थानम् :
263 SK यदि बोधिसत्त्वयानसम्प्रस्थितो नाम न स्यात् स कश्चिद् धर्मः (तर्हि) कथं भगवान् दीपङ्करस्य शास्तुरन्तिकादववादं प्राप्य अनुत्तरां सम्यक्सम्बोमभिसम्बुद्धः? अथ न स्याद् (सः) अभिसम्बुद्धः (तर्हि) अभिसमयकाङ्क्षिणाववादो न पर्येष्टव्य इति ये मन्यन्ते, तेषामववादवियोगविसंयोगाय षोडशस्यामधिकृत्य तत्किं मन्से सुभूते इत्याद्याह | पूर्वं धर्मकायाप्तिकामतावसरे धर्मग्राहनिषेध उक्तः, इदानीमभिसमयकाले अभिसम्बुद्धस्य तस्य निषेधः क्रियते ऽतो न पुनरुक्तता | नास्ति परमार्थतः स कश्चिदपि ज्ञानज्ञेयात्मको धर्मः, यथा पूर्वं विचारितम् | तद्बलेन अविचाररमणीयमात्रतया श्रुतमय्यादिप्रज्ञोपादकमेण भगवतः- (Vअज्रट्_१८५) स्वयम्भूसर्वज्ञज्ञानं तथ्यसंवृत्या ग्राह्यात्मकं समुद्भवति |
264 SK ननु तदपि भगवतो दीपङ्करस्यानुभावमात्रमिति चेद्? एवं सत्यपि अनुरूपमेव, तथापि तस्मिन् सर्वबुद्धानां साधारणानुभावाः, न केवलं भगवतो दीपङ्करस्यैव | यदि न स्यादभिसम्बुद्धः (कश्चित् तर्हि) कथं तेन सम्यक्संबोधौ भगवान् व्याकृत इति विचार्य सचेत् पुनः सूभूते इत्याद्याह |
265 SK अयमभिप्रायः- यदि भगवतः प्रत्यात्मवेद्यो धर्मः परमार्थतो तथाभूतो भवर्त् तदा स्यादभिसम्बुद्धः, अथवा ऽमया पुनः धर्मो ऽभिसम्बुद्धःऽ; इत्यहङ्कारः समुद्भवेत् तदा स्याद् ऽअभिसम्बुद्धःऽ; इत्येवं विपरीताभिनिवेशात् तथागतस्य व्याकरणं न भवेत् | यतो हि तदा ऽमयाभिसम्बुद्धःऽ; इति न भवति, न च धर्मोदिष्वप्यभिनिवेशः भवति | तत एवाहम् अविपरीतसम्यग्ज्ञानमार्गस्थितौ व्याकृतः |
266 SK नास्ति स कश्चिद् धर्मो ऽभिसम्बुद्धः इत्यनेन अर्थतो दीपङ्करस्यान्तिकाद् अववादग्राहविकल्पं विपक्षत्वेन दर्शयित्वा तद्विकल्पप्रहाणाय छन्दः प्रणिधानं चापि देशितम् | दीपङ्करेत्युपलक्षणमात्रेणाभिहितेन सर्वे धर्मोद्ग्रहणविकल्पा निर्वतन्ते | नास्ती इत्यनेन तस्य गम्भीरत्वमुक्तम्, सम्यक्सम्बोधये अववादपर्येषणविधानेन तावदस्योदारत्वं चोक्तम्, श्रावकप्रत्येकबुद्धाववादाद् अत्यन्तविशिष्टत्वात् |
267 SK यदि तथागतेन सम्यक्सम्बुद्धेन न स्यात् स कश्चिद् धर्मो यो ऽनुत्तरायां सम्यक्सम्बोधौ अभिसम्बुद्धः, तदा कथं तथागतत्वं भवेत्? तद्यथा पूर्वबुद्धा अभिसम्बोधिं गताः, तथैवात्रापि गतत्वादभिसम्बुद्धस्तथागत उच्यत इति चेत्? अभिसम्बुद्ध इत्याख्यस्य कस्यचिद् धर्मस्याभावात् तत्कथं भवेदिति विचिन्त्य तत्कस्य हेतोः इति पृष्ठवान् | तथागत इति सुभूते इत्यादि चोदतरत् | तथता इति धर्माणामविपरीतस्वभाव उच्यते, स चन्दिशान्तादिस्वभावः, सर्वधर्मसाधारणत्वात् सा भूतः इति वचनेन विशेषिता, भुतस्तु यथार्थत्वेन तथागतज्ञानमभिधीयते | तस्यास्तथताया या परमार्थतो ऽनुपन्नधर्मता स तथागत इत्युच्यते | यथोक्तम्-
268 SK अनुत्पादधर्मः सततं तथागतः | इति |
269 SK परमार्थतो धर्मतापि धर्मिणो नेतरा, अतः परमार्थतः सर्वधर्माणामनुत्पादो धर्मता | सर्वधर्माधिगमस्वभावो ऽविचाररमणीयः परमार्थतो ऽनुत्पन्नः तथ्यसंवृतौ परिकल्प्यमानः सज्ज्ञानविशिष्टः ऽतथागतःऽ; उच्यत इति वाक्यार्थः | तस्य च परमार्थतो ऽनुत्पन्नत्वान्नास्ति कश्चिद् ग्राह्यो ग्राहको वा | तस्मान्नास्ति कश्चिद् धर्मो ऽप्यभिसम्बुद्धः (नाम) परमार्थतः | तथ्यसंवृतिमाश्रीत्य तेन विशिष्टज्ञानेन यथा अभिसम्बुद्धः तथा गत इत्येवमभिप्रायः |
270 SK परमार्थाश्रयेणाभिसम्बुद्ध इति कस्मात्तथा नोच्यते? इति चिन्तायां यः कश्चित् सुभूते इत्याद्याह | तत्कस्य हेतोः? इति न सत्यम् इत्यनेन योग्जम् | शेषस्तु सुगमान्न व्याख्यायते | एवं तर्हि ऽसंवृतितः तथागतेन अभिसम्बुद्धःऽ; इति व्यवस्थैव कथं व्यवस्थाप्यत इति विचार्य यश्च धर्मः इत्युक्तम् | यः इति रूपादिलक्षणधर्मः, तत्र न सत्यम् इतिः मायावत्प्रतिभासमानानां विचार्यमाणानामत्यन्तशून्यत्वेनानुत्पन्नत्वात् शशश्रृङ्गवद् अत्यन्ताभावः | न मृषा अविचाररमणीयस्वभावेन मायावत्प्रतिभासमानात् | अथवा नापि सत्यम्, न कस्यापि धर्मस्य परमार्थतः सिद्धेः | न मृषा, न च विचारगोचरः कश्चित् सत्यः सिद्धः, सर्वधर्माणामनुत्पादात् |
271 SK अनेनाध्यारोपापवादान्तौ निराकृत्य मध्यममार्गं च व्यवस्थाप्य योगसमापत्तौ प्रवर्त्त्यते | तस्मात् इत्येवं परमार्थतः सर्वधर्माणामनुत्पादात् न सत्यं न च मृषा | तथागतो ऽपि परिशुद्ध्यानुत्पादधर्मया प्रभावितः, अनुत्पादधर्मतायाः साधारणत्वात्, (तथा हि)-
272 SK अनुत्पादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः | निमित्तग्राहेण तु बालबुद्धयः असत्सु धर्मेषु चरन्ति लोके ||
273 SK इत्यादि | सर्वधर्मा बुद्धधर्माः इति तथागतो भाषते | यद्यनुत्पन्ना एवामी धर्मास्तत् कथं सर्वधर्माः इत्युच्यन्त इति प्रविचिन्त्य सर्वधर्मा इति सुभूते इत्याद्याह | अयमत्रार्थः- परमार्थतस्तथा विद्यन्ते, न तु व्यवहारप्रज्ञप्तितः | असन्तस्तावत् परमार्थतो रूपादिधर्माः, किन्त्वपरमार्थं खल्वविचारितमाश्रित्य यस्मात् स्वसामान्यलक्षणग्रहणं तस्मात् सर्वधर्माः इत्युच्यन्ते, न तु परमार्थतः, तत्र स्थितानां सर्वेषां दृश्यमानत्वे ऽप्यभावात् | अनेन तावद् विक्षेपनिग्रहः सन्दर्शितः |
274 SK १७. अभिसमय-स्थानम् :
275 SK यदि न स्यात् स कश्चिद् धर्मो भगवताभिसम्बुद्धः कथं (तर्हि) बोधिसत्त्वा उपादत्तमववादं सम्मुखीकृत्य धर्मपुद्गलनैरात्म्यमधिगच्छेयुः? इति विचिन्त्याभिसमयप्रतिपादनार्थः तद्यथापि नाम इत्याद्याह | अयमभिसमयस्तावत् ज्ञानप्राप्तिनिरभिमानिताभ्यां संदर्श्यते | कथं ज्ञानप्रात्येति चेत्? द्विविधं ज्ञानमाश्रित्य, गोत्रसम्परिग्रहज्ञानं समताज्ञानञ्च | तत्र यज्ज्ञानप्राप्त्या तथागतगोत्रे समुत्पद्य बुद्धगोत्रे नियतो जायते तद् गोत्रसम्परिग्रहज्ञानम् | तदुत्पादेन उपेतकायो भवति | उपेत इत्यात्मना परिगृहीतः, कायस्तु तथागतकायः | येन सो ऽधिगतः, स उपेतकायः | कथं ज्ञायते तज्ज्ञानप्राप्तिरित्याह- महाकायः इति |
276 SK अनेन पुद्गलधर्मनैरात्म्यसमताज्ञानं समवाप्य अभिसमयः सम्प्रदर्श्यत इत्यतो गोत्रज्ञानमभिधीयते | तेन समताज्ञानेन पुद्गलधर्मनैरात्म्यधिगम्य सर्वे (Vअज्रट्_१८९) सत्त्वा आत्मनि (आत्मवत्) सङ्गृहीता भवन्ति | तस्मात् समस्तसत्त्वकायानामात्मनि सङ्ग्रहेण स महाकाय इति | नाप्यपार्थको ऽयं शब्दः, एवं सर्वसत्त्वानामात्म- सङ्ग्रहेण स काय इत्युच्यते | तेषां संबहुल्वे ऽपि न महाकायशब्दार्थत्वम् | अनेन स्थानस्यास्य औदार्यं समुदीरितम् |
277 SK अयमभिप्रायः- बोधिसत्त्वानामभिसमयो ऽप्ययं तथ्यसंवृतिमाश्रित्य विशिष्टज्ञानोत्पादमात्रेण प्रभावितो भवति | परमार्थतो न किञ्चिन्निरूपकं निरूप्यं वेति दर्शयितुम्, आर्यसुभूतिः- भगवंस्तथागतेन पुरुषो भवेदुपेतकायः इत्याद्याह | अनेनार्थतस्तावदुपेतकाय-महाकायाभिनिवेशस्तु विपक्षत्वेन निर्दिष्टः | (अतः) तत्प्रहाणाय छन्दप्रणिधानाभ्यां स्थातव्यमिति दर्शितम् | उपेतकायो महाकाय इति निमित्तमात्राभिधानेन बोधिअसत्त्वानां सर्वधर्मेष्वभिनिवेशो निवर्तते | परमार्थे ऽपि तावद् व्यवस्थाप्य योगसमापत्तौ चावतार्यते | गम्भीर्यमप्युक्तम्, समारोपान्तो ऽपि निराकृतः | पूर्वेण तावदपवादान्तः प्रतिषिद्धः |
278 SK यदि तथागतेन स एव कायो स्यात् नोक्तः स्यात् तदा प्राप्ताभिसमयो बोधिसत्त्वं ऽएवं मया बोधिसत्त्वाभिसमयः सम्प्राप्तः साम्प्रतमहं सत्त्वान् परिनिर्वापयिष्यामिऽ; इत्येतत् कथं सञ्चितयेत्यन्यदीयं सद्विकल्पं समुदीक्ष्य निरभिमानितयाभिसमयं दर्शयितुं यो बोधिसत्त्वं इत्याद्याह | अनेन य एवं वदेत्- अहं सत्त्वान् परिनिर्वापयिष्यामीति ऽअहं य एवं वदेत्- अहं सत्त्वान् परिनिर्वापयिष्यामीतिऽ; अहं बोधिअसत्त्वो ऽस्मि (Vअज्रट्_१९०) इत्यभिमानी स तथ्यतो न बोधिसत्त्वः इति दर्श्यते | तत्कस्य हेतोः? इत्यत्र ज्ञापकहेतुः परिपृष्टः | धर्मः इति तु रुपादिअस्वभावो वा पुद्गलादिस्वभावो व | युक्तितो विचारणायां तस्य धर्मस्यादृस्टत्वाद् आर्यसुभूतिरप्याह नो हीदम् इति | तस्या युक्तेः सर्वत्र साधारणत्वाद् भगवान् नैरात्म्यद्वयावतारणार्थं तस्माद् इत्याह | निसत्त्वाः इत्यादि तावदुपलक्षणम्, निःस्वभावा अपि द्रष्टव्याः | अनेन विक्षेपनिग्रहो निर्दिष्टः | उक्तो ऽभिसमयः |
279 SK अत ऊर्ध्वं बुद्धभूमे पर्येषणम् | तदपि बुद्धस्य सप्तभिः सम्पद्भिः संगृह्यते | सप्त सम्पदश्च- १. क्षेत्रपरिशुद्धिसम्पद् २. अनुत्तरदृष्टिपरिशुद्धिसम्पद् ३. अनुत्तरज्ञानपरिशुद्धिसम्पद् ४. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् ५. कायसम्पद् ६. वाक्-सम्पद् ७. चित्तसम्पच्च |
280 SK १. क्षेत्र परिशिद्धिसम्पद् :
281 SK तत्र यदि न स्यात् कश्चिद् बोधिसत्त्वो नाम धर्मः, (तर्हि) कस्तावद् बुद्धक्षेत्रं परिनिष्पादयितुं यत्नं कुर्यात्? इत्याशङ्कां निराकर्तुं बुद्धक्षेत्रपरिशुद्धिसम्पदमधिकृत्य- यः सुभूते बोधिसत्त्वः इत्याद्याह | सो ऽपि तथैव वक्तव्यः इत्यभिमानित्वान्नोच्यते स बोधिसत्त्व इत्यर्थः | (Vअज्रट्_१९१) पुद्गलधर्मनैरात्म्ययोरनधिगमे ऽप्यधिगतमित्यभिमानात् | एवमहस्मीत्यभिमानान्न तस्य पुद्गलनैराअत्म्यावगमः, न च धर्मनैरात्म्यावबोधः, असत्सु क्षेत्रव्युहेष्वपि तत्राभिमानात् | अनेन क्षेत्रव्यूहेषु मायोपमत्वाधिमुक्त्या बोधिसत्त्वेन कथं स्थातव्यमित्येतद् दर्शितम् |
282 SK यदि परमार्थतो न स्युस्ते क्षेत्रव्यूहाः (तदा) भगवता कथमुक्ता इति विचिन्त्य तत्कस्य हेतोः? इत्याह | पूर्ववदस्य व्याख्यानम् | न चेयं पुनरुक्तिः | पूर्वं तावदधिमुक्तिचर्याभूमिस्थितानां बोधिसत्त्वानां बोधिसत्त्वक्षेत्रपरिशुद्धौ प्रणिधानावस्थायां बोधिसत्त्वविकल्पस्य निषेधार्थम् (उक्ताः), सम्प्रति बुद्धेक्षेत्रपरिशुद्धिपरिनिष्पत्तये ये बोधिसत्त्वा एवंविधेनाभिनिवेशेन प्रवर्तन्ते, येषां चैवंविधो विकल्पः, तन्निराकरणार्थमुक्तम् | न चानवस्थाप्रसङ्ग, तदैवंविधस्य कस्यचिदितरविकल्पस्यासम्भवात् |
283 SK अनेनेह बोधिसत्त्वेन कथं प्रतिपत्तव्यं तद् व्यपदिष्टम् | कीदृशो बोधिसत्त्वो नामेत्यत्र यः सुभूते बोधिसत्त्वः इत्याद्याह | निरात्मानो धर्माः इति द्विरुक्तया द्विविधेन नैरात्म्येन सर्वधर्माणां नैरात्म्यं दर्श्यते | बोधिसत्त्वो बोधिसत्त्वः इति द्विरुक्त्या तदेव द्विविधं नैरात्म्यज्ञानं दर्श्यते | अथवा एकस्तावद् बोधिसत्त्वः आवृत्तः, बोधिसत्त्व इत्याख्यात इत्युत्तरस्तु (कथनस्य) प्रकारः |
284 SK तेन किं दर्शयिष्यत इति चेद्? केन निष्पाद्यन्ते यदि पुद्गलादिग्राहकाभावः, क्षेत्रव्यूहाः इति धर्मग्राहकस्याप्यभावः, उभयभावाधिगमेन बोधिसत्त्व इत्याख्यात इति निर्दिष्टम् | अनेन चित्तप्रग्रहो देशितः | एभिः सर्वैः स्थानै गाम्भीर्यं दर्शितम् | तत्र मायावद्बुद्धक्षेत्रपरिनिष्पादनाधिमुक्तया बोधिसत्त्वानां प्रवृत्तिप्रदर्शनेनौदार्यमुक्तम् |
285 SK २. अनुत्तरदृष्टिपरिशुद्धिसम्पद् :
286 SK यदि नास्ति बोधिसत्त्वो नामः कश्चिद् धर्मः, तदा तथागतः परिशुद्धदर्शनेन परिशुद्धज्ञानेन च युक्त एव न भवेत्, तस्य बोधिसत्त्वादुत्पन्नात्वात्, तस्याभावे स कथं भवतुमर्हति, अहेतुकत्वे नित्यसत्त्वादिदोषाः, तस्माद् यस्यां संनिपतिततायां परिषधेवं विकल्पो भवेत्, तस्याः कृते परिशुद्धं दर्शनं ज्ञानञ्चेत्यनुत्तरद्वयमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह | पूर्वतः भगवतो ऽभिप्रायं गृहीत्वा आर्यसुभूतिरप्याहसंविद्यते इति |
287 SK अनेन परमार्थतः बोधिसत्त्वो नाम स कश्चिद् धर्मो न भवति, तथापि संवृतौ पुण्यज्ञानसम्भारं परिपूर्य परिशुद्धंज्ञानदर्शनाभ्यां यस्तथागतो भवति, (तेन) अविचारमणीयस्कन्धमात्रस्य बोधिसत्त्वस्यास्तित्वं भवन्त्येव | अन्यथा संवृतावपि यदि स न भवेत् तदा कस्तथागतो भवेदित्येवं तावत् दर्शितम् | तत्र संविद्यते तथागतस्य प्रज्ञाचक्षुः इत्येव तावन्नोच्यते, (अपि तु) विशिष्टं विशुद्धदर्शनमभिधातुं चक्षुषो विद्यामानत्वं दर्शितम् |
288 SK समासतश्चतुर्विधं भवति चक्षुः- रूपग्राहकम्, परमार्थसत्यग्राहकम्, संवृतिसत्यग्राहकम्, सर्वाकारज्ञेयग्राहकं च | रूपग्राहकमपि द्विविधम्- कर्मफलं भावनाफलञ्चेति | पञ्चविधं चक्षुः क्रमशः- तत्र स्थूलविषयत्वात् प्रथमं रूपग्राहकं कथितम्, परमार्थवशेन संवृतिज्ञानं परिशुद्धध्यतीत्यतः पूर्वं परमार्थसत्यग्राहकं पश्चाच्च संवृतिसत्यग्राहकमभिहितमिति सङ्गच्छते क्रमनिर्देशः | पुद्गलधर्मनैरात्म्ययोः संविद्यते प्रज्ञाचक्षुः, संवृतौ धर्ममात्रमेव तावदवभासते, न तु पुद्गल इति पुद्गलशून्ये धर्ममात्रे धर्मचक्षुः, सर्वज्ञेयानां सर्वाकारज्ञानं तावद् बुद्धचक्षुरित्युच्यते, अनेनेदानीं साक्षात्कृत्य विहरणात् | तथ्यसंवृतौ पञ्चचक्षुषां देशनयोक्तं विशुद्धदर्शनम् |
289 SK ३. अनुत्तरज्ञानपरिशुद्धिसम्पद् :
290 SK विशुद्धज्ञानाभिधानार्थम्- तत्किं मन्यसे सुभूते इत्याद्याह | त्रैकालिकाः चित्तचैतसास्तावच्चित्तसन्ततिः | ततः त्रैकाल्यविषयत्वेन तद्विषयावबोधो ज्ञानमित्युच्यते, न तु दर्शनम् | तदपि सरागचित्तवीतरागचित्तेत्यादिनानाविधसंक्लेशव्यवदानभावेन वेदितव्यम् |
291 SK तावन्तो लोकधातवः इत्युपलक्षणम्, अनन्तलोकधात्वन्तर्निहितसत्त्वानां चित्तधारायाः परिज्ञानात् | तथाहि- संवृतौ तथागतस्य मांसचक्षुरादीनि भवन्ति, अतस्तन्निष्पादनार्थं बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यम् | अनेन तावद् वचनेन सम्पद्द्वयं परिदीपितम् |
292 SK मांसचक्षुरादीन्यपि एकानेकस्वभावाभ्यां विचारणायामनुपलब्धान्येव | न ह्यर्थान्तरज्ञानेन ग्रहणं युज्यते, यथा पूर्वं विचारितम्, एवं सति कथं प्रज्ञास्येते तथागतस्य मांसचक्षुरादिविद्यमानता चित्तधारा चेति चित्ताशयं विदित्वा तत्कस्य हेतोः? इत्याह | बोधिसत्त्वेन कथमनयोर्द्वयोर्विशुद्धयोर्योगसमापत्त्या प्रतिपत्तव्यम्? इत्येतदभिधातुं चित्तधारा चित्तधारा इत्याद्याह | परमार्थतः अधारा इति | स्वभावतो ऽसत्त्वे ऽपि संवृतिमधिकृत्याह- तेनोच्यते चित्तधारेति इति | अन्यथा परमार्थतः सर्ववाग्गोचरातीतत्वान्न वक्तुं शक्ष्यत इत्यभिप्रायः | चित्तधारेत्युपलक्षणम् | मांसचक्षुरादीन्यपि चक्षुःस्वभावरहितान्येव उक्तानीति कथनं प्रकृतं साक्षान्नोक्तम् |
293 SK अत्र कथं चित्तं प्रग्रहीतव्यमिति तदभिधातुमाह तत्कस्य हेतोः? इति | अधारेत्यनेन सह योजनीयम् | अतीतादीनां चित्तानां परमार्थतो ऽनुत्पन्नत्वाद् अनुपलम्भः | सत्त्वे ऽपि ग्रहणानुपपत्त्या नानुपलम्भः | तथा सति अचित्तधारादेशनमपि न भवेत्, न चानुपलम्भमात्रेण भावानां निःस्वभावत्वं स्यात् | यथा त्रैकालिकचित्तस्य परमार्थतो ऽभावस्तथा पूर्वमुक्तं वक्ष्यते च | चित्तोक्तिरूपलक्षणम्, ततो ऽतीतादिमांसचक्षुरादीन्यप्यनुपलब्धान्येव | अत्र अधारा इत्यादिभिः पदैर्गाम्भीर्यमुक्तम्, शेषैरौदार्यम् |
294 SK ४. प्राप्तपुण्यस्कन्धाधिपत्यसम्पद् :
295 SK यदि नास्ति त्रैकालिकं चित्तं तदा पुण्यस्कन्धो ऽपि न स्यात्, चित्ताश्रितत्वात्तस्य | ततः तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं सम्पादयितुं कथं बोधिसत्त्वो यत्नं कूर्यादिति विचिन्त्य पुण्यस्कन्धाधिपत्यसम्पदमधिकृत्य- तत्किं मन्यसे सुभूते इत्याद्याह | अनेन कुलपुत्रो वा कुलदुहिता वा यो ऽन्तशो रत्नादिकं बाह्यवस्तु त्यजति, सो ऽपि (यदि) महापुण्यस्कन्धेन युक्तो भवति (तदा) कथं न तथागतस्य असंख्येयाप्रमेयकल्पेषु दुष्करानेकशतान्यभ्यस्यतः पुण्यस्कन्धाधिपत्यं स्यादित्येवं देशितम् |
296 SK अत एव परमार्थतो ऽसत्यपि पुण्यस्कन्धे संवृतौ सत्त्वाद् बोधिसत्त्वेन तत्र वशीभावं निष्पादयितुं छन्दप्रणिधानाभ्यां स्थातव्यमित्यादर्शितम् | अनेनौदार्यमप्युक्तम् | कथं न परमार्थतः पुण्यस्कन्धसत्त्वं व्यवस्थाप्यत इति विचिन्त्य ऽबोधिसत्त्वेनात्र कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यम्,ऽ; इत्युभयं सन्दर्शियितुं सचेत् सुभूते इत्याद्याह | सचेत् इति ऽयदिऽ; इत्यर्थः | न तथागतो ऽभाषिष्यत् इति परमार्थतो ऽभिधानं नाचरिष्यत् | अनिर्देशे ऽपि तथा ख्यायत इत्यभिप्रायः | यथा परमार्थतः पुण्यस्कन्धस्याभावस्तथा प्राग्वर्णितः | अनेन तथागतस्य पुण्यस्कन्धाधिपत्यसम्पदं परिनिष्पादयितुं प्रस्थितेन बोधिसत्त्वेन परमार्थतस्तदनुपलम्भेन योगसमापत्त्या प्रतिपत्तव्यम् | परमार्थतस्तदालम्बनाभिनिवेशपरिहारेण (Vअज्रट्_१९६) चित्तं प्रग्रहीततव्यम् इत्युभयं देशितम्, गाम्भीर्यमप्युक्तम् |
297 SK ५. कायसम्पद् : (अ) रूपकायसम्पद्
298 SK यदि पुण्यस्कन्धो नैव स्यात् तदा तथागतानां द्विविधा कायलक्षणसम्पद्-अनुव्यञ्जनकायसम्पद्, लक्षणकायसम्पच्च यानुत्तरपुण्येनाभिनिर्वर्तयितुमिष्यते, सा नैव स्यात्, कारणाभावात् | तस्मात् तथागतस्य द्विविधां कायसम्पदं परिनिष्पादयितुं कथं बोधिसत्त्वैर्यत्नो ऽनुष्ठेय इति विचिन्तयद्भ्यस्तथागतस्य रूपकायसम्पदमधिकृत्य- तत्किं मन्यसे सुभूते इत्याद्याह |
299 SK रूपकायः इत्यनुव्यञ्जनकायरूपेण द्रष्टव्यः | लक्षणकायः पश्चाद् वक्ष्यते गोबलिवर्दन्यायेन | ततो ऽयमत्रार्यसुभूतेराशयः- यथा परमार्थतो ऽस्कन्ध एव पुण्यस्कन्धस्तथा रूपकायो ऽप्युनुत्पन्न एव | अतः परमार्थतः न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः इत्युच्यते | संवृतौ मायानिर्मितबुद्धवद् विद्यत एव रूपकायः, तत उपपन्न एव (तस्य) पुण्यस्कन्धादुद्भवः |
300 SK तस्माद् बोधिसत्त्वेन मायानिर्मितबुद्धस्य तथाविधरूपाधिमुक्तया तत्प्रतिपत्तये छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् | नाप्यत्र पुनरुक्तिता | पूर्वमधिमुक्तिचर्याभूमौ रूपकायाप्तिकामताकाले तथागतपूजासत्कारकाले च तथाविधो ऽभिनिवेशः परिवर्जितः, सम्प्रति शुद्धाध्याशयभूमौ तथागतरूपकायसम्पदं (Vअज्रट्_१९७) परिनिष्पादयितुं सम्प्रस्थितस्य बोधिसत्त्वस्य रूपे ऽभिनिवेशो भवतीति यासां प्रसिद्धिस्तासां परिषदां दुर्विकल्पो निराकृत इत्युक्तत्वात् |
301 SK एवं तर्हि तथागतानां रूपकायः कस्माद् देशित इति विचिन्त्य तत्कस्य हेतोः? इत्यपृच्छत् | न रूपकायपरिनिष्पत्त्या तथागतो द्रष्टव्यः इत्यनेन योजनीयम् | नासौ तावत् सिध्यति, अवपविरूपेण परमाणुसञ्चयरूपेण वा रूपस्यासिद्धत्वाद्, यथा विचारितं प्राक् | अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, तन्निर्दिष्टम् | तेन इति इत्यं संवृतौ भावः, न तु शशविषाणवत् सर्वथाभावः | अनेन चापवादान्तं परिहृत्य कथं चित्तं प्रग्रहीतव्यम्, (इति) एतन्निर्दिष्टम् | अनेन सर्वस्थानेन गाम्भीर्यं प्रदर्शितम् | संवृतौ तथागतस्य रूपकायसम्पदं निष्पादयितुं बोधिसत्त्वैः करणीयानां यत्नानां निदर्शनेन आदार्यमपि दीपितम् |
302 SK (ब) लक्षणकायसम्पद् :
303 SK लक्षणकायसम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्यद्याह | अत्र पूर्ववत् सर्वमभिहिअतम् |
305 SK यदि रूपकायपरिनिष्पत्त्याअ न तथागतो द्रष्टव्य इति चेत्, तदा देशनापि भगवता नैव भवेत्, रूपकायेन संगृहीत्वात् तस्याः? अतो (Vअज्रट्_१९८) बोधिसत्तवैस्तथागतस्य वाक्सम्पदं निष्पादयितुं कथं यत्नः कर्त्तव्य इति विचिन्तयद्भ्यो वाक्सम्पदमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह | परमार्थतो वाच्य-वाचक-वचनानामभावात् न तथागतस्यैवं भवति मया धर्मो देशित इति | अन्यथा विपर्ययान्न भवेत् सर्वज्ञः | यथा वाचकाः आत्मादयः, वाच्या बाह्याध्यात्मिका भावाः, वचनानि करणरूपाणि शब्दस्वभावाभावात्मकानि वा तथा विस्तरेण प्रागेवोक्तानि | सर्वे भावाः शून्यत्वव्याप्ताः प्रागेव प्रतिपादिताः | संवृतौ वाच्य-वाचक-वचनानाम् अविचाररमणीयत्वेन व्यवहारमात्र एव (ते) भवन्ति, न तु परमार्थे |
306 SK यदि वस्तुतत्त्वस्यैवमभिधाने ऽपि व्यामोहेन किचित् परमार्थतस्त्रयाणां (तेषां) परामार्थसत्त्वं कल्पयेयस्तदा ऽकिं नु स्यात्ऽ; इति विचिन्त्य यः सुभूते इत्याद्याह | अभ्याचक्षीत इत्यभ्यालपेत् | कथं तदभूतमालपितुं शक्यत इति विचारणायामाह असतोद्गृहीतेन इति | विपरीताभिनिवेशतो वितथग्रहणात् तदभूतमित्यर्थः | अनेन तथागतस्य वाक्सम्पदि प्रवृत्तेन बोधिसत्त्वेन प्रतिश्रुत्कादिवज्ज्ञात्वा प्रवर्तितव्यमिति, बोधिसत्त्वेन कथं स्थातव्यमिति देशितम् |
307 SK यदि वचनादित्रयमसत् (तदा) पुद्गलधर्मनैरात्म्यदेशकेन भगवता नानापदवाक्यात्मिकेयं धर्मदेशना कथं प्रसिध्यति? तस्यां सत्यां तदभिधेयो वाच्यो ऽपि स्यादेव, यश्च तद्देशको वाचकः, सो ऽपि भवेदेव | तद्बलेन त्रीण्यपि (वाच्य-वाचक-वचनानि) भवेयुरिति चिन्तायां तत्कस्य हेतोः? इति पृष्टम् | अत्र धर्मदेशना इत्युदतरत् |
308 SK अयमभिप्रायः- परमार्थतः धर्मदेशनायां सत्यां (सा) स्वलक्षणस्वभावा वा स्यात् सामान्यलक्षनस्वभावा वा | तत्र न तावत् प्रथमः पक्षः, सर्वं पारमार्थिकं स्वलक्षणं तावत् पूर्वमेव विस्तरेण निराकृतम् | न च द्बितीयो ऽपि (Vअज्रट्_१९९) असति स्वलक्षणे आधारस्याभावेन कस्यचिदप्यसत्त्वात् | सामान्यद्रव्यत्वाभ्युपगमे स्वलक्षण एव सङ्गृहीतं स्यादिति तन्निषेधेन तस्यापि निषेध एव | अन्यव्यावृत्त्या सामान्यलक्षणमध्यारोपितस्वभावमिति परिकल्पिते सति धर्मदेशनाया नैरर्थक्यत्वेन सिद्धसाधनम् |
309 SK तस्याः (शब्दात्मिकाया देशनायाः) परमार्थतः स्वलक्षणसत्त्वे ऽपि न युज्यते तया धर्मदेशना | स्फोटादिशब्दस्य नित्यस्वभावस्य परैः पदत्वेन परिकल्पितस्य क्रमाक्रमाभ्यामर्थक्रियाकारित्वं तावद् विरुध्यते, सर्वसाअमर्थ्यापगतत्वाच्चैतन्यादिषु कुत्रापि खलु नैव युज्यते, अकिञ्चित्करत्वेन कथं तद् भवेत् पदम्? अनित्यस्यापि तावत् स्वलक्षणस्व न युज्यते पदत्वम्, सङ्केतकाले दृष्टस्य व्यवहारकाले ऽनन्वयात् | न हि युज्यते अन्यस्य सङ्केतो ऽन्यस्य च व्यवहारः, अतिप्रसङ्गात् | अत एव स्वलक्षणमप्यभिधातुं न युज्यते, अनन्वयात् | सामान्यपदार्थे ऽभिधेयत्वेनाभ्युपगते सति अभिधेयस्वभावत्वेन तस्य स्वलक्षणस्वरूपत्वान्न हि प्रदेशान्तरगमनम् |
310 SK एकत्वं तु देशकालादिभिन्नास्वनेकव्यक्तिष्वनुगतमपि न युज्यते तथा हि- (अथ) एकस्यां व्यक्तौ सर्वात्मना व्याप्तं स्यात् तदा येन एकत्वेन परिकल्पितः स स्वभावस्तेन अन्यत्राधिगतेतरव्यक्तिभिः सम्बद्धः तदितरस्वभावस्तत्र न भवेदिति, एकत्वहानिप्रसङ्गात् | (अथ) एकदेशेन व्याप्तं स्यात् तदा सावयत्वाग्रहणदोषः | एवं यावत्यो भिन्नव्यक्तयस्तासामेकदेशेन व्याप्तिव्यवस्थया तावतीनां ग्रहणं स्यात्तदा एकव्यक्तिग्रहणं तावदेकदेशग्रहणेन युक्तं भवेत्, भिन्नव्यक्तिषु देशकालपरिमाणादिभिन्नासु तास्वेकव्यक्तिग्रहणं तावदेकदेशग्रहणाद् युगपुद्ग्रहणाभाव एव | तस्माद् वाच्य-वाचकत्वं तावदश्यारोपेणैव युज्यते, न तत्त्वतः | अत एवोक्तं भगवतान्यत्र-
311 SK येन येन हि नाम्ना वै यो यो धर्मो ऽभिलप्यते | न स संविद्यते तत्र धर्माणां सा हि धर्मता ||
312 SK वचनं मिथ्या, वाच्य-वाच्यकानां या देशना तद्द्वारा आगता, सापि स्पष्टैव | उभयोरभावो भगवता पृथकत्वेन नोक्तः | अनेन बोधिसत्त्वेन कथं प्रतिपत्तव्यम्, कथञ्च चित्तं प्रग्रहीतव्यमित्येतद् दर्शितम् | एतेन सर्वेण गाम्भीर्यं दर्शितम् |
313 SK ७. सप्तधा चित्तसम्पदः- १. स्मृत्युपस्थानम् २. अभिसम्बोधिः ३. महाधर्मार्थप्रज्ञप्तिः ४. महाववादार्थप्रज्ञप्तिः ५. धर्मकायपरिग्रहणम् ६. संसारे निर्वाणे चाप्रतिष्ठानम् ७. प्रस्थिति-पारिशुद्धिः |
314 SK १. स्मृत्युपस्थानम् :
315 SK तत्रेदानीमेवं गम्भीरधर्मो ऽयमनागते काले घनीभूते कुदृष्टिजाले कथं सफलो भविष्यतीति नाभिश्रद्धधन्ति परिवाराः | य एवं चिन्तयन्ति तेषामविश्रम्भं निवारयितुम् आर्यसुभूतिश्चित्तसम्पत्सु स्मृत्युपस्थानमधिकृत्य भगवन् इत्याद्याह | भगवताप्यनागते ऽध्वनि शीलवन्तो गुणवन्तश्च भविष्यन्तीति किं नोक्तपूर्वम् | सम्प्रति तेषां सत्त्वे ऽसत्त्वे वा एकान्तेनानभिनिवेशं देशयितुम् अस्ति इति नोक्तम्, अन्तद्वयनिषेधार्थं ते सुभूते इत्याद्याह |
316 SK परमार्थतः स्कन्धपुद्गलादीनां सत्स्वभावानुपलम्भात् न सत्त्वाः इत्यनेनाध्यारोपान्तनिषेधः, अविचारैकरमणीयत्वेन सदैव विद्यमानत्वेन नासत्त्वाः इत्यनेनापवादान्तनिषेधः | भविष्यन्ति इत्यनया देशनया भगवतः कीदृगविपरीतस्मृत्युपस्थानमिति सत्त्वेभ्यो दर्शयित्वा भगवतस्तस्यां स्मृत्युपस्थानसम्पदि बोधिसत्त्वेन छन्द-प्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् | न ते सत्त्वाः नासत्त्वाः? इत्यनेन योगसमापत्तिनिर्दिष्टा |
317 SK यदि न ते सत्त्वाः स्युस्तदा कथं भगवता ऽभविष्यन्त्यनागते ऽध्वनि शीलवन्तो गुणवन्तश्च तेऽ; इत्याद्युक्तमित्येवं परिवितर्कं विचार्यं तत्कस्य हेतोः? इत्यपृच्छत् | असत्त्वास्ते भाषिताः इति परमार्थतो ऽसत्त्वा एव, संवृतिसत्स्कन्धसद्भावमाश्रित्य भाषितास्ते | संवृतौ सत्त्वात् तेनोच्यन्ते सत्त्वा इति | अन्यथा संवृतावप्यसत्त्वे न (ते) भाषिताः स्युरित्यनेन चित्तप्रग्रहो दर्शितः | सर्वेण तावदनेन गाम्भीर्यमुक्तम् | सर्वसत्त्वेभ्यो भगवताप्रतिहतस्मृत्युपस्थानदेशनात् तावदौदार्यं निर्दिष्टम् |
319 SK यदि न स्याद् भगवतः काचिदपि धर्मदेशना, तदा न स्यात् (सः) सम्यक्सम्बुद्धो ऽपि ततस्तथागताभिसम्बोधिसिद्धये व्यर्थः स्याद् बोधिसत्त्वानां यत्नः | यतो ऽभिसम्बुद्धधर्मा इष्यन्ते, अतो देशनापि भवतीति मन्वानेभ्यः (Vअज्रट्_२०२) तेभ्यो ऽभिसम्बोधिम् अधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह | आर्यसुभूतिः पूर्वाभिप्रायं गृहीत्वा नास्ति सः इत्युदतरत् | तदेवं मन्यते- परमार्थाभिप्रायेण भगवता धर्मदेशना प्रतिषिद्धेति | यथा परमार्थतः कस्याश्चिदपि धर्मदेशनाया अभावः (तथा) अभिसम्बुद्धस्याप्यभावः, एतत् पूर्वं निर्दिष्टम् |
320 SK संवृतितः भगवतो धर्मदेशना, सम्बोधिः, तद्धेतुप्रतिपत्तिश्चापि विद्यन्त एव, तस्माद् बोधिसत्त्वेनानुत्तरसम्यक्सम्बोधेस्तथ्यसंवृतिस्वभावायाः साधनार्थं यत्नः करणीयः | अनेन बोधिसत्त्वेन कथं स्थातव्यमिति दर्शितम् | पूर्वमववादपर्येषणकाले बोधिसत्त्वाना ऽअभिसम्बोधि परमार्थःऽ; इति यो विकल्पः, स अपनोदितः, इदानीं बुद्धभूमिपर्येषणकाले परेषां तादृग्विकल्पनिराकरणान्न भवति पुनरुक्तिदोषः |
321 SK भगवता अनुत्तरा सम्यक्सम्बोधिस्तथ्यसंवृतौ व्यवस्थापिता, सा कीदृशीति अत्र अणुरपि इत्याद्याह | यत्र ज्ञानं प्रचरति (तत्र) भगवता ग्राह्यस्वरूपस्य स्वलक्षणस्य सूक्ष्मो ऽपि धर्मस्वभावो नोपलब्धः, स तावत् समस्तधर्मनैरात्म्यावबोधस्वरूपा अनुत्तरा सम्पक्सम्बोधिः | तैर्थिक-शैक्षाशैक्षज्ञानाच्छ्रेष्ठत्वेन ऽअनुत्तरा | सर्वभावानां तथताया यथावदधिगमस्वभावत्वेन उच्यते सम्यक्सम्बोधिरित्यर्थः | तत्र सर्वधर्माणामनुपलब्धिहेतो ᳚न᳚ इत्युक्तम् | यतो ह्यसत्त्वं ततो ऽनुपलम्भः | विद्यमानत्वे नानुपलब्धिः, सत्सु सर्वधर्मेषु तथागतस्य आलम्बनज्ञानस्यैव ज्ञापकत्वात् | अनेन धर्मनैरात्म्यावबोधस्वभावो निर्दिष्टः |
322 SK साम्प्रतं पुद्गलनैरात्म्यावबोधस्वभावं प्रतिपादयितुं अपि तु खलु पुनः सूभूते इत्याद्याह | समाः स धर्मः इति तदवबोधितेषु सर्वधर्मेषु पुद्गलनैरात्म्यसाम्यात् | न तत्र किञ्चिद्विषमम् इति सर्वत्र तदविपर्ययात्, आत्मग्राहहेतोर्भावाभिनिवेशस्य प्रहीणत्वात् | भगवता तावदात्मग्राहः सवासनः प्रहीणः | तेन सैव पुद्गलनैरात्म्यज्ञानस्वभावा सम्बोधिः, अनुत्तरा सम्यक्सम्बोधिरित्युच्यते, नान्या | केन रूपेण समः स धर्म इत्यत्र निःसत्त्वत्वेन इत्याद्याह | अनेन सर्वेण कथं योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् | सा कथमभिसम्बुद्ध्यत इत्याह कुशलैर्धर्मैः इति | सा पुण्यज्ञानसम्भारात्मकैः कुशलैर्धर्मैरभिसम्बुद्ध्यत इत्यर्थः |
323 SK यद्यसत्त्वाद् अणुरपि धर्मो नोपलभ्येत, कथं नाम भवेयुः कुशला धर्माः? यतस्तैरभिसम्बुद्ध्यते ऽतः कुशला धर्माः इत्याद्याह | परमार्थास्तु अर्धमा एव | संवृतौ सत्त्वात् कुशला धर्माः इत्युक्तम् | तस्मात् कुशलेर्धर्मैरभिसम्बुध्यत इत्यत्र नास्ति दोषः | अनेन अध्यारोपापवादान्तग्राहविक्षेपनिराकरणेन चित्तप्रग्रहो निर्दिष्टः | एतैः सर्वः स्थानैः गाम्भीर्यमपि सन्दर्शितम् | अशेषपुद्गलधर्मनैरात्म्यावबोधरूपस्य सम्यक्सम्बोधिस्वभावस्य परिदीपनेन औदार्यमपि दर्शितम् |
324 SK ३. महाधर्मार्थप्रज्ञप्तिः
325 SK भगवतः सा सम्यक्सम्बोधिः कथं वेदित्वया? इति विचार्यमाणे महार्थधर्मतया प्रज्ञापितत्वेन तत्सत्तां दर्शयितुं यश्च खलु पुनः सुभूते (Vअज्रट्_२०४) इत्याद्याह | सुमेरवः पर्वतराजानः इत्युपलक्षणम् | अनन्तलोकधातून् रत्नैः परिपूर्य दानेन यत् पुण्यं तदपि उपमां नैव क्षमते | इतः प्रज्ञापारमितायाः इत्युपलक्षणमात्रपरिदीपनेन सकलो महायानधर्मः परिलक्षितो भवति | यावद् इति वचनेन सहस्रतमी कला- ऽशतसहस्रतमी कला .......... उपमा-औपम्यमित्येतानिऽ; संगृह्यन्ते | एवं महार्थधर्मप्रज्ञपनेन हेतुना भगवतश्चित्तसम्पदः सम्यक्संबोधेः आनुत्तर्यमवगम्यते, तथाविधसम्यक्संबोधिम् अन्तरा तथाविधधर्मदेशनाया अशक्यत्वात् |
326 SK तस्मादेतादृक्चित्तसम्पत्सम्पादने छन्द-प्रणिधानाभ्यां स्थातव्यम् | सकलेनानेन कथं स्थातव्यं बोधिसत्त्वेनेति निर्दिश्यते, अनेनैवौदार्यमप्यभिहितम् | सा च सम्बोधिः तथ्यसंवृतिस्वभावा द्रष्टव्या, न तु परमार्थतः, प्रागेवोक्तत्वात्, साक्षादनुक्तमपि सामर्थ्यतः योगसमापत्तिः, चित्तप्रग्रहः गाम्भीर्यं च निर्दिष्टम् | ४. महाववादार्थप्रज्ञप्ति : भगवतो लोकोत्तरज्ञानावस्थायां सत्त्वसंज्ञा सर्वथा न प्रवर्तते, अत्यन्तसमाहितत्वात्, अदो नाश्चर्यम् | सत्त्वेभ्यो विमुक्तयुपदेशकाले ऽसमाहितावस्थायां विशुद्धलौकिकज्ञानावस्थायामपि सत्त्वादिसंज्ञा न प्रवर्तत इति तन्निर्दिश्य अववादमहार्थत्वेन प्रज्ञप्तिहेतुना भगवतो ऽनुत्तरचित्तसम्पदं (Vअज्रट्_२०५) प्रतिपत्स्यमानां दर्शयितुं महार्थाववादमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह | प्रश्नस्योत्तरमप्रतीक्षमाणः सपदि स्वतः न खलु पुनः सुभूते, एवं द्रष्टव्यम् इत्याद्याह | तस्माद् भगवतश्चित्तसम्पदस्तादृशे महार्थाववादहेतौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् |
327 SK किं सत्त्वानां सत्त्वे ऽपि संक्लेशहेतुभूततया तथा नाभिप्रेयते तथागतेन? आहोस्वित् सत्त्वाभावादिति चिन्तयतामाशयं विज्ञाय तत्कस्य हेतोः? इति पप्रच्छ | स्कन्धात्मकस्य पुद्गलात्मकस्य च कस्यचित् सत्त्वस्य परमार्थतो ऽभावाद् एवं नोपलभ्यत इति दर्शयितुमाह- नास्तिं कश्चित् सत्त्वो यस्तथागतेन परिमोचित्तः इति | अनेन बोधिसत्त्वैः कथमत्र योगसमापत्त्या प्रतिपत्तव्यमिति तन्निर्दिष्टम् |
328 SK अभावः कथं ज्ञातव्य इत्यत्र यदि पुनः सुभूते इत्याद्याह | अयमत्राभिप्रायः यथाज्ञेयं तथागतस्य ज्ञानं प्रवर्तते, अन्यथा अप्रहीणावरणत्वेन कथं स्यात् तथागतत्वम् | तस्माद् यदि सत्त्वः स्यात् तदा सन्दृश्येत स तथागतेन, आत्मनः प्रत्यक्षोपलब्धतया विचिअकित्साभावात् | स एव तावत्तस्य प्रगाढः आत्मग्राहः स्यात् | ततश्च आत्मग्राहहेतुतः समुत्पन्नं निखिलक्लेशजालबन्धनमप्यतिदृढं स्यात् तदा रागाद्यतिप्रगाढबद्धस्य आवरणाप्रहाणेन भगवतः तथागतपदप्राप्तिर्न स्यात् | भगवता च तत्पदं प्राप्तम्, अतः प्रहीणसकलावरणः सः | प्रहीणावरणया अशेष आत्मग्राहशिखरी विशीर्यते, तस्मात् सत्त्वाभावो न ज्ञायते |
329 SK आत्मन्यसति किमात्मदृष्टिलक्षण आत्मग्राहो न भवति? किमर्थं भगवता आत्मादिसंज्ञा नोच्यते? इत्यत्र आत्मग्राह इति सुभूते इत्याद्याह | यदि (भगवता) आत्मादिवस्तुन एव ग्रहणं स्यात्तदा प्रहीणावरणस्य तस्य भगवत (Vअज्रट्_२०६) आत्मग्राहः समुद्भवेत्, कस्याप्यात्मग्राहस्याभावात् अग्राह एष तथागतेन भाषितः |
330 SK अथ कीदृश आत्मग्राह इति? स च इत्याद्याह | श्रवणादिविरहाद् हेयोपादेययोरनभिज्ञत्वाद् बालाः, प्रेक्षावत्त्ववियोगाद् आअर्येभ्यः पृथक्त्वाच्च पृथग्जनाः | पृथग्जना अपि केचित् सच्छास्त्रं श्रुत्वा योनिशोमनस्कारस्थिताः धर्मनैरात्म्याधिमुक्ताः सत्यमभिनिविशन्ते, तदनात्मग्राहव्यवच्छेदतो बाला इत्याह | बालमात्रकथनात् स्कन्धाद्यभिज्ञा अपि तादृशाः पृथग्जना अनुपजातार्यमार्गतया बाला एव | बालानां वैशिष्टयमभिधातुं व्यावृत्ते ऽप्यात्मग्राहे बालत्वेन तेष्वात्मग्राह इत्यवभासते, तस्मात्तदाशयवशाद् आत्मग्राह इत्येवं निर्दिष्टम् |
331 SK न तन्मात्रेण सत्यम्, अतिप्रसङ्गात् | अनात्मशब्दप्रयोगेणापि कथं नात्मादीनां सत्यग्रहणम्, यद्यात्मा न स्यात्तदा के तावत् पृथग्जना अभिधीयेरन्? इति विचिन्त्य बालपृथग्जनाः इत्याद्युक्तम् | परमार्थतस्तु अजना एव, संवृतिमाश्रित्योक्तत्वान्न दोषः | एभिः सर्वैरध्यारोपापवादान्तनिराकरणेन चित्तप्रगृहीत्तत्वं दर्शितम् | अनेन सर्वेण तावत् साक्षाद् गाम्भीर्यं प्रोक्तम् | अशेषसत्त्वधातुभ्यो महार्थाववदप्रज्ञप्तेर्हेतुत्वदर्शनेन चित्तसम्पद आदौर्यमपि निर्दिष्टम् |
332 SK ५. धर्मकायपरिग्रहणम् :
333 SK यदि बालपृथग्जनाः न स्युः, कथं तथागतस्य लक्षणानुव्यञ्जनैरलङ्कृताः कायसम्पदः सम्भवेयुः? पृथग्जनाः स्वकरुणामूलकबोधिचित्तमुत्पाद्य पारमितासु प्रयतन्ते (ततश्च) लक्षणादिभीरलङ्कृतास्तथागतकायसम्पत्तिवन्तो भवन्ति, तदभावे मूलभावात् कथं भवेयुः तादृयस्तथागतकायसम्पद इति? ये पारिषद्याः (Vअज्रट्_२०७) कृतानल्पविकल्पाः रूपादिषु भावाभिनिवेशेनैवं चिन्तयन्ति, तेभ्यो धर्मकायपरिग्रहमधिकृत्य तत्किं मन्यसे सुभूते इत्याद्याह | पूर्वं धर्मकायतया न व्यवस्थापितम्, इदानीं धर्मकायं व्यवस्थापयितुमुक्तत्वान्न पुनरुक्तिदोषः |
334 SK लक्षणसम्पदा तावत् परमार्थविचारणायामवयविनः परमाणुसंघातस्य वा स्वभावेनानुपपत्तिं विदित्वा पूर्वकमेवाभिप्रायं गृह्णन् सुभूतिराह नो हीदम् | एवमेव उपपत्त्यन्तरं भगवता सचेत् पुनः सुभूते इत्यादिनोक्तम् |
335 SK यदि तथागतो लक्षणसम्पन्मात्रेण प्रभावितः स्यात् तदा वक्ष्यमाणहेतुना तुल्यत्वाद् राजापि चक्रवर्ती कथं न भवेत् तथागतः? ननु स्थानस्थोत्तप्तपूर्णत्वेन विशिष्टा भगवतो लक्षणसम्पद्, न तु चक्रवर्तिनः, ततः स नोच्यते तथागत इत्यपि न युज्यते, स्थानस्थादिविशेषस्यापि जडस्वभावत्वे नास्ति कश्चिद् विशेषः | तेन यदि तथागतो जडस्वभावैर्लक्षणादिधर्मैः प्रभावितो ऽभविष्यत् तदा चक्रवर्ती अपि तथागतो ऽभविष्यत् इति चेत्? न, तस्मात्तथागस्तावद् अशेषवस्तुस्वभावस्य यथावदधिगममात्रेण प्रभावित इत्यभिप्रायः | अनेन तथाविधं ज्ञानहेतुकं तथागतकायं प्रति बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् |
336 SK अधुना परमार्थतस्तत्तथागतज्ञाने ऽपि नाभिनिवेष्टव्यमिति दर्शयितुं धर्मकायो (Vअज्रट्_२०८) व्यवस्थाप्यते | बोधिसत्त्वेन कथं योगसमापत्त्या प्रतिपत्तव्यमिति द्वाभ्यां गाथाभ्यां प्रदर्श्यते |
337 SK तत्र पूर्वगाथया कथं तथागतो न द्रष्टव्यः, कैश्च न दृश्यत एतन्निर्दिष्टम् | कथं न द्रष्टव्य इति चेत्? दर्शनादिव्यवहारप्रज्ञप्त्या | के न पश्यन्तीति चेत्? मिथ्याप्रहाणप्रसृताः | रूपेण चाद्राक्षुः इत्यनेन रूपे ऽभिनिविष्टाः पुद्गलाः पारमार्थिकलक्षणादिभिरलङ्कृतं धर्मरूपं पुद्गलरूपं च पश्यन्तीति व्यवहारप्रज्ञप्तिर्निदिष्टा | घोषेण चान्वयुः इति मां शब्देन एवमेव स तथागत इति ज्ञातवन्त इत्यर्थः | अनेन श्रवणव्यवहारप्रज्ञाप्तिर्निदिष्टा | उपलक्षणमात्रमिमौ व्यवहारौ | तेन विशेषभेदो विज्ञानं चापि संगृहीतम् |
338 SK मिथ्याप्रहाणप्रसृतास्ते जनाः तावद् वितथामार्गस्थितत्वान्न मां सम्यग् रूपेण द्रक्ष्यन्ति | प्रहीयते ऽनेनेति प्रहाणं मार्ग इत्युच्यते, तच्च विपरीतत्वान्मिथ्या | तदप्यदर्शनहेतुः |
339 SK अथ कथं बुद्धा द्रष्टव्या इत्यत्र धर्मतः इत्याद्याह | धर्माणां यो ह्यकृत्रिमः स्वभावः, स ऽधर्मताऽ; इत्युच्यते | सा च युक्त्यागमाभ्यां सिद्धत्वादादितः शान्तादिस्वभावा | सैव तथता, धर्मधातुः, भूतकोटिः, अनिमित्तं परमार्थश्चेत्यादिपर्यायैरुच्यते |
340 SK सर्वत्र तथाभावात् ऽतथता तदालम्बनेन सर्वे बुद्धधर्माः सम्भवन्ति | तद्धेतुभूतत्वाद् ऽधर्मधातुऽ; अविपरीतत्वाद् भूतः, तत्पर्यन्तत्वाद् भूतकोटिः | (Vअज्रट्_२०९) तत्र नीलादिसर्ववस्तुनिमित्तानामभावाद् अनिमित्तं | परमस्य ज्ञानस्य गोचरत्वात् परमार्थः | किमिति सा धर्मतया द्रष्टव्येत्यत्राह- धर्मकायाः इति | स्वभावार्थः कायशब्द उच्यते | तेनायमर्थः- सम्यग्ज्ञाननिबन्धना ये तथागतेषु व्यवस्थापितास्ते परमार्थतो धर्मस्वभावाः | यो यत्स्वभावः, स तत्स्वभावेन द्रष्टव्यः, न त्वन्यस्वभावेन | यद्येवं तर्हि धर्मता प्रकाशस्वभावा भवेत्, अन्यथा कथं तल्लक्षितास्ते द्रष्टुं शक्यन्त इति विचार्य धर्मता इत्याद्याह |
341 SK किमशक्यत्वाद् अपरिज्ञेया अथवा परिज्ञाने दोषसद्भावादिति विचिन्त्य न शक्या इत्याद्याह | धर्मिस्वभावे सिद्धे तद्धर्मता विज्ञातुं शक्यते, यदा धर्मिस्वभाव एव कश्चित् परमार्थतो न सिद्धस्तदा कथं सा धर्मतापि विज्ञातुं शक्यते केवलया स्वसन्तत्या | नास्ति सा केवलेत्यभिप्रायः |
342 SK यद्येवं सम्यग्ज्ञानस्वभावानां बुद्धनामपि धर्मिणां परमार्थतो ऽसिद्धत्वान्न स्याद् दर्शनम्, तत्कथं धर्मता द्रष्टव्येति चेत्? नैष दोषः | ये परमार्थतः सर्वधर्मिणो न पश्यन्ति त एव धर्मतां पश्यन्ति | धर्मता तावदनुत्पन्नस्वभावा, सा कथं तद्विपरीतोत्पादग्रहणेन ग्राह्या, न हि घटग्रहणेन तदनुत्पादग्रहणम् | अनेन तथागतो न रूपकायेन द्रष्टव्यः, अपि तु धर्मकायेन द्रष्टव्य इत्येतन्निर्दिश्यते |
343 SK असत्यपि तथागतस्य लक्षणसम्पत्स्वभावत्वे युज्यत एव लक्षणसम्पद्धेतुकं तथागतस्यानुत्तरसम्यक्सम्बोधिलक्षणम्, गणकैः (लक्षणज्ञैः) बोधिसत्त्वस्य लक्षणसम्पदं द्रष्ट्वा भगवान् अनुत्तरसम्यक्सम्बोधौ व्याकृत इति (Vअज्रट्_२१०) येषां संशयः, तत्परिहारार्थं तत्किं मन्यसे सुभूते इत्याद्याह | यदि लक्षणसम्पद् अनुत्तरसम्यक्सम्बोधेर्हेतुः स्यात् तदा चक्रवर्तिनो ऽपि स्यादित्यभिप्रायः | गणकैस्तावत् तथाविधं लक्षणमात्रं द्रष्ट्वा व्याकृतम्, न तु हेतुमित्यदोषः |
344 SK अनेन चित्तप्रग्रहीतत्वं निर्दिष्टम् | अनेन तावत् सकलेन स्थानेन गाम्भीर्यं दर्शितम् | संवृतौ चाशेषवस्तुस्वभावाधिमगलक्षणस्य तथागतज्ञानस्य निर्देशेन आउदार्यमपि निर्दिष्टम् |
345 SK ६. संसारे निर्वाणे चाप्रतिष्ठानम् : (अ) निर्वाणे ऽप्रतिष्ठानम्
346 SK परमार्थतः सर्वधर्माणामभावाद् यदि सा धर्मता विज्ञातुं न शक्यत इति चेत् तत उच्छेदवादी भवान् स्यात् | ततश्च तथागतस्याप्यभावाद् अप्रतिष्ठितनिर्वाणमपि न सिध्यतीति यदाशङ्कितं तदर्थं संसारनिर्वाणयोः अप्रतिष्ठानमधिकृत्य सुभूते ..... एवं ..... बोधिसत्त्वयानसम्प्रस्थितैः ....... इत्याद्याह | न च भूतविनाशो ऽपि प्रज्ञप्तः, धर्मताया यथावदवबोधात् | अत एव चोक्तम्-
347 SK नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन | द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ||
348 SK अनागते धर्मवृत्तिप्रतिबन्धकत्वेन उच्छेदो ऽपि न प्रज्ञप्तः, यथाभूतधर्मताया देशनात् | सर्वे धर्मो अविचाररमणीयतया यथाभूतैः प्रत्ययैरुत्पद्यमाना अभ्युपेयन्ते, अतो भगवता बुद्धेन तथ्यसंवृतिस्वभावायाः माहाकरुणाया निर्माणादौ अधिपतित्वमादाय पुनर्विनेयेभ्यो यथावदुपायोपदर्शनेन (Vअज्रट्_२११) निरवच्छिन्नसंसारप्रवाहो ऽभ्युपेयते | अनेन भगवतो निर्वाणे ऽप्रतिष्ठितत्वं निर्दिष्टम् | तथाविधे भगवत्काये छन्दप्रणिधानाभ्यां स्थातव्यमिति तदपि निर्दिष्टम् |
349 SK (ब) संसारे ऽप्रतिष्ठानम् :
350 SK यद्येवं भगवान् संसारप्रवृत्तिमभ्युपैति, तदा संसर्ता एव भवतीति विकल्प्य संसारे ऽप्रतिष्ठितत्वं दर्शयितुं यश्च खलु पुनः सुभूते इत्याद्याह | निरात्मकेषु इति मायावत् परतन्त्रत्वात्, न स्वत आत्मभावः, नित्यस्य क्रमक्रमाभ्यां हेतोर्विरोधात्, अहेतुकस्य अकिञ्चित्करत्वात् | स्वपरयोर्नाधिष्ठानमपि, अधिष्ठातुरेवासम्भावात्, तस्मात् सर्वधर्मास्ते उभयविधाः निरात्मकाः |
351 SK यथोक्तम् : ᳚आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथ्ग्जनः प्रज्ञप्तिमनुपतितः, न त्वत्रात्मा वा आत्मीयं वा |᳚ अनेन सर्वधर्मेषु पुद्गलनैरात्म्क्षान्तिः सन्दर्शिता | अनुत्पत्तिकेषु इत्यनेन धर्मनैरात्मक्षान्तिनिर्दिष्टा |
352 SK यदि भावानामुत्पादो भवेद्, अहेतुको वा भवेत्, सहेतुको वा | सहेतुके ऽपि नित्यहेतुको वा अनित्यहेतुको वेति विकलद्वयम् | तत्र न तावत् (Vअज्रट्_२१२) प्रथमो विकल्पः कादाचित्कत्वप्रतीतेः | निरपेक्षस्य सदसदवस्थासमत्वेन सर्वत्र निर्विशिष्टत्वात् नित्यं सत्त्वमसत्त्वं वा स्यात् |
353 SK अतश्च कादाचित्कत्वसम्भवाद् द्वितीयो ऽपि पक्षस्तावन्न युज्यते | नित्यस्य इतरैः सहकारिभिस्तावन्न कश्चित् सामर्थ्यविशेषः क्रियते | कुत्रचिदप्यनपेक्षः सन् किमिव क्रमेण कार्यमुत्पादयेन्न युगपदिति | कारणे ऽविकाले न कादाचित्ककार्यतिरोधानं युज्यते | कथं क्रमेणोत्पादः स्यादिति |
354 SK ये स्वहेतुं भावानां वदन्ति, ते ऽप्यर्थतो ऽभावादेवभ्युपगच्छन्ति | स्वभावे सिद्धे हेतुरपि स्यान्न त्वसिद्धे, सर्वसामर्थ्यविरहलक्षणत्वात्तस्य | स्वाभवे सिद्धे तस्याहेतुकसिद्धिरेवाभ्युपगता स्यात्, तदितरान्यहेतौ चानभीष्टे कथं न निर्हेतुकः स्यात् | न भावः स्वभावाद् भिन्नः | अतः सिध्यति तत्सिद्धे, (फलतः) अहेतुक एव स्यात् | अन्यथा तत्सिद्धे ऽप्यसिद्धत्वात् कथं तदभिन्नस्वभावत्वम् | ततो यो ऽहेतुवादी पक्षो निरस्तः, स अत्रापि तुल्यः |
355 SK न तावद् युज्यते तृतीयपक्षो ऽपि समानासमानकालयोः कारणत्वविरोधात् | तथा हि, हेतौ सति स फलेन (कार्येण) समानकालो वा भवेद् भिन्नकालो वा? न तावत् समानकालात्, स्वयप्राप्तात्मस्वभावस्य सर्वसामर्थ्यशून्यत्वात् कुत्रापि फले योगाभावात् | आत्मस्वभावे च (प्राप्ते) तत्स्वभाववत् फलस्यापि तत्समानकालभावितया आत्मस्वभावत्वमेव | न तत्र फलं युज्यते |
356 SK भिन्नकाले ऽपि तावत् तदितरकालव्यवधानेन वा भवेद्, यथावैभाषिकैर्विपाकहेतुरिष्यते, तथा | अथवा अव्यवधानेन वा भवेद्, यथासौत्रान्तिकैः कार्यकारणयोरुत्पादविनाशौ ऽतुलादण्डोन्नामावनामवद्ऽ; उच्येते तथा स्यादिति? तत्र तदितरकालव्यवधानेन फलोत्पादे सति विनाशादेवोत्पादः अभ्युपगम्येत, सर्वसामर्थ्यविरहितत्वात्तस्य विनाशस्य न युज्यते हेतुभावत्वम्, अन्यथा अकारकस्य विनष्टवस्तुनो विनाशात् कथं (उत्पादः) भवेत् |
357 SK अव्यवधानेनेति पक्षे ऽपि यदि सर्वात्मना अव्यबहितस्तदा तदेव समकालत्वं स्यात् | निरवयवयोर्द्वयोर्वस्तुनोः सर्वात्मना अव्यवहितत्वे एककालत्वातिरिक्ता नान्या गतिः | तस्मात् सर्वात्मना अव्यवहिते सति पूर्वं यथा अणुमात्रकम् (इति प्रसक्तम्), तथैव कल्पस्यापि क्षणमात्रकत्वं दुर्निवारम् |
358 SK एकदेशेन चाव्यवहिते सावयवत्वं प्रसज्यते, अतः परमार्थतः सर्वे भावा अनुत्पन्ना एव | अविचाररमणीया मिथ्यात्वेनोत्पन्ना इव प्रतीयन्त एव, यथा भ्रान्तिज्ञाने प्रतिभासस्वभावाः | (यदि) न स्यात् प्रसिद्धमात्रं प्रमाणं (तदा) ऽकार्यकारणयोरागोपालं प्रसिद्धत्वान्न युज्यते विमर्शः इति वादः कथं युज्येत, प्रसिद्धस्य रूपादेः प्रमाणतः विशीर्णत्वात् | तस्मादुक्तं भगवता चन्द्रप्रदीपसूत्रे (समाधिराजसूत्रम्)-
359 SK न चक्षु प्रमाणं न श्रोत्रग्राणं न जिह्वा प्रमाणं न कायचित्तम् | प्रमाणं यद्येत भवेयुरिन्द्रियाः कस्यार्यमार्गेण भवेत् कार्यम् ||
360 SK यस्मादिमे इन्द्रिय अप्रमाणा जदा स्वभावेन अव्याकृतश्च | तस्माद् य निर्वाणपथैव आर्थिकः स आर्यमार्गेण करोतु कार्यम् ||
361 SK यत्प्रत्यक्षलक्षणमाहुराचार्यास्तच्च प्रत्यक्षं संवृतितः, परमार्थे ऽवतारणाय द्रष्टव्यम् | न च संवृतौ न समानपर्यनुयोगः, ततस्तस्य संवृतावुक्तत्वान्न परीक्षणं क्षमते | अतो भगवता शालिस्तम्बादिषु भावानां स्वपरोदयो निषिद्धः | तथोक्तम् आर्यलङ्कावतारे-
362 SK ᳚सदसतोरुत्पत्तिविरहितत्वान्महामते, सर्वधर्मा अनुत्पन्नाः |᳚
363 SK विस्तृतप्रज्ञापारमितासुं चोक्तम्- ᳚सुभूते, न कश्चिद् धर्म उत्पन्नः, सा (अपि) अनुत्पन्ना᳚ तत्र या प्रज्ञा, सानुत्पत्तिकधर्मक्षान्तिरित्युच्यते |
364 SK तथोक्तं रत्नाकरनाम(महायान) सूत्रे-
365 SK स्व एव यदा नास्ति परो हेतुः कथं भवेत् | स्वाभावात् कथमुत्पादः परस्मात् सुगतो ऽवदत् ||
367 SK भावा जायन्ति संवृत्या परमार्थे ऽस्वभावकाः |
368 SK यद्येतत् सर्वं परिकल्पितस्वभावमधिकृत्योक्तमिति चेत्? न, सर्वस्वभावानां प्रमाणतो निराकृतत्वात् | अनेनापरो ऽल्पकुशलमूलो ऽपि (जनो यदा) संसारदुःखं नानुभवति, (तदा) अनुत्पत्तिकधर्मक्षान्तिप्राप्तत्वात् महाज्ञानालोकोदया लब्धानुत्तरपुण्यस्कन्धा बोधिसत्त्वाः कथं संसारदुःखम् अनुभवेयुरित्येवमावेदितम् |
369 SK द्विविधो हि संसारदुःखस्यानुभवः- कायिको दौर्मनस्यलक्षणश्च | तत्र पूर्वकस्तु पापकर्मणः फलम्, अपरस्तु मोहजः, विपर्यस्तज्ञानसम्भूत एव | तत्रानुत्पन्नेषु धर्मेषु क्षान्तिप्राप्त्या बोधिसत्त्वेषु नास्त्युभयविधो दुःखहेतुः, पापं मोहश्चेति | अकारणान्न सम्भवति दुःखस्पर्शविहारः | अनेन कथं बोधिसत्त्वेन प्रतिपत्तव्यमिति देशितम् |
370 SK उत्पादितबहुतरपुण्यस्कन्धा रूपावचरादिसत्त्वा इव किं (ते) संसार एव न भवन्ति? कथं वा बहुतरपुण्यस्कन्धोत्पादमात्रेण संसारे ऽप्रतिष्ठितत्वं सन्दर्शितमित्याशङ्क्य पुनः सुभूते इत्याद्याह |
371 SK अनेन तावद् उत्पन्नपुण्यस्कन्धे ऽपि तेषां मिथ्याभिनिवेशेन पुण्यस्कन्धपरिग्रहस्य सर्वसंक्लेशमूलविपर्यासस्याप्रहीणत्वम्, अतः (ते) विशिष्टगतिं प्राप्ता अपि संसारे व्यवस्थाप्यन्ते, बोधिसत्त्वानां तु अनुत्पत्तिकधर्मक्षान्तिप्राप्तेः पुण्यस्कन्धेषु नास्ति सत्याभिनिवेशः, अतस्तेषां सर्वसंक्लेशमूलसंमोहस्य प्रहीणत्वान्न संसारे ऽवस्थानभित्येवं निर्दिश्यते | परविकल्पनिराकरणार्थमार्यसुभूतिरविदिताभिप्राय इव ननु परिग्रहीतव्यः इति विपरीतमभ्यधात् |
372 SK तदयमाशयः- तत्तत्सूत्रेषु भगवता ऽबोधिसत्त्वः पुण्यस्कन्धं परिगृह्णातिऽ; इत्युक्तम् | अत्र न परिग्रहीतव्यः इति वचनेन कथं न विरोध इति? भगवानपि येनाभिप्रायेणोक्तवान् तदुभयमपि दर्शयितुमाह- परिग्रहीतव्यः इति | परिग्रहीत इति यदाह तत्तु परिग्रहलक्षणनय उपसंहारलक्षणः |
373 SK विपरीतग्राहकलक्षणनिराकरणेन नात्र विरोधः | वितथमार्गग्राहकत्वं विपरितग्रहणमित्यनेन तद्विकल्पप्रहणाच्चित्तप्रग्रहणं दर्शितम् | यश्च खलु- (Vअज्रट्_२१६) पुनः सुभूते, कुलपुत्रो वा कुलदुहिता वा प्रारभ्य औदार्यमुक्तम्, अवशिष्टपूर्वभागैर्गाम्भीर्यं निर्दिष्टम् | एतेन सकलेन स्थानेन शाश्वतोच्छेदान्तं परिहृत्य मध्यममार्गो देशितः, निर्दिष्टं च संसारे निर्वाणे चाप्रतिष्ठितत्वम् |
374 SK ७. प्रस्थिति-परिशुद्धिः
375 SK प्रस्थितिः परिशुद्धिरुच्यते | त्रिविधस्तस्याः प्रभेदः- १. ईर्यापथेन प्रस्थितिः, २. सत्त्वभाजनलोकाधिपत्येन प्रस्थितिः, ३. असंक्लेशेन प्रस्थितिश्च |
376 SK १. ईर्यापथेन प्रस्थितिः
377 SK तत्र यदि बुद्धो द्रष्टव्यो धर्मकायेन, न तु रूपकायेन, तदा भगवतश्चतुरीर्यापथेन जन्माभिनिष्क्रमणादिना चागमप्रसिद्धेन कथं न विरोध इति यो मन्यते तदर्थं प्रस्थानसम्पद ईर्यापथेन प्रस्थितिमधिकृत्य अपि तु खलु पुनः सुभूते यः कश्चिद् इत्याद्याह |
378 SK गच्छति वा आगच्छति वा इत्येतद्द्वयेन चङ्क्रमणम्, तिष्ठति इत्यादिभिः क्रमेणावशिष्टा ईर्यापथा उक्ताः | ईर्यापथपिर्देशस्तूपलक्षणमात्रम् तेन जन्मादीनामप्यत्र निर्देशो द्रष्टव्यः | भगवत आगमेन परिदीपितानामीर्यापथादीनां यः सम्यक्तया शब्दशो ऽभिनिवेशस्तास्य विपरीताभिनिवेशान्न जानाति तथागतेन भाषितस्यार्थम् |
379 SK न च भगवान् रूपकायेन प्रभावितः, असौ तु ज्ञानपरिशुद्धः, तस्यामूर्तत्वाज्ज्ञानस्य संवृतावपि गत्यादयो न सम्भवन्ति | गत्यादयस्तु रूपस्कन्धस्य स्थानविशेषप्रभावितत्वात् | ते च भगवतो निर्माणकायमाश्रित्योक्ताः, न च ज्ञानकायमाश्रित्य, तत्र संवृतितः परमार्थतो वा गत्यादीनामसम्भवात् | तस्माद् एवंविधायां ईर्यापथप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति सन्दर्शितम् |
380 SK यदि तथागते गत्यादयो न संविद्यन्ते (तर्हि) कथं तथागतः इति गत्या प्रभावित इवोच्यत इति चित्ताशयं वितर्क्याह- तत्कस्य हेतोः? इति | न मे स भाषितस्यार्थमाजानाति इत्यनेन योजनीयम् | अत्रोत्तरार्थं तथागतः इत्याद्याह |
381 SK एवमभिप्रेयते- व्यपदेशो ऽयं न गत्या प्रभावितः, अपि तु अधिगमेन प्रभावितः गतः इत्यस्याधिगत्यर्थत्वात् | वस्तुतत्त्वं यथास्थितिः, तथैवाधिगम्यते, अधिगतत्वात् तथागतः | अथवा पूर्वकैर्बुद्धैर्यथा वस्तुतत्त्वमधिगतमविपर्ययेण तथैवानेनाप्यधिगतमित्यधिगतत्वात् तथागतः | स च तथ्यसंवृतौ ज्ञानकायत्वेन युज्यते, न चान्यत्राविकल्पितत्वात् | तच्च गमनादि क्वचित् संवृतावपि न सम्भवति, अमूर्तत्वात् | परमार्थे तु न सम्भवतितराम्, अनुत्पन्नत्वात् | ततः स वस्तुस्वभावाधिगत्या समस्तलोकस्य ज्येष्ठत्वात् पूजनीयत्वात् अर्हन् इत्युच्यते, सम्यगवबुद्धत्वात् सम्यक्सम्बुद्धः इत्युच्यते, अन्यथात्वेन जडस्वभावेन रूपकायस्तु तथा नोच्यत इति भावः |
382 SK अनेन योगसमापत्तिः चित्तप्रग्रहश्च सन्दर्शितः | अनेन तावत् सकलस्थानेन गाम्भीर्यं निर्दिष्टम् | संवृतौ तथागतस्य निर्माणकायमाश्रित्य अनन्तलोकधातुषु अप्रतिहतगमनादिप्रदर्शनेन आदार्यमपि प्रदर्शितम् |
383 SK २. (अ) भाजनलोकाधिपत्येन प्रस्थितिः
384 SK यस्तथागतस्य निर्मितरूपकायः, यश्च मनोमयकायः, तस्यापि एकानेकस्वभावविसंयोगान्मायानिर्मितबुद्धवत् मृषात्वं दर्शयितुं भाजनसत्त्वलोकभावविगमात् प्रस्थितिमधिकृत्य यश्च खलु पुनः सुभूते इत्याद्याह | पूर्वं त्वधिमुक्तिचर्याभूमौ बोधिसत्त्वस्याभावो दर्शितः, सम्प्रति बुद्धभूमौ भगवतः प्रस्थितिदर्शनान्न पुनरुक्तिः |
385 SK अत्र पुनद्विविधेनोपायेन एकानेकस्वभाववियोगावबोधान्नैरात्म्यं दर्शितम् | तद्यथापि नाम मषिं कुर्यात्....... परमाणुसञ्चयः इत्यनेन एकानेकस्वभाववियोगावगमेन तनुकरणोपायो दर्शितः | अत्रापि पूर्ववद् व्याख्यानं (वेदितव्यम्) | ननु दिग्भागभेदेन परमाणवो ऽसिद्धा (तदा) कथं ते सञ्चिताः? इति सञ्चिन्त्य तत्कस्य हेतोः? इत्याशङ्क्योत्तरमाह (परिहरन्नाह) सचेद् भगवन् इति विज्ञय एकत्वग्राहकनिवृत्त्युपायार्थमेव परमाणुप्रभेदेन (यः) सञ्चयः स उक्तो न तु परमार्थतो ऽनवस्थितत्वात्, अन्यथा परमाणुसञ्चयः सर्वत्र प्रत्यक्षत्वेन प्रसिद्ध्येत | तस्मात् न भगवानवक्ष्यत् परमाणुसञ्चय इति अभाषिते ऽप्येवमाख्यातत्वात् | अनेन तथागतस्य रूपाभावत्वेन तादृश्यां स्थितौ छन्द-प्रणिधानाभ्यां स्थातव्यमिति देशितम् |
386 SK यदि न स्यात् सञ्चयः (तदा) अपि नु बहुः स परमाणुसञ्चयो भवेत्? इति कस्माद् भगवानवक्ष्यदित्याशयं विदित्वा तत्कस्य हेतोः? इत्याह | असञ्चयः सः इति पूर्वोत्तरादिदिग्भागभेदेन अवस्थितानां तेषां परमाणूनां स्वभावेनासिद्धत्वान्न युज्यते तत्त्वतः सञ्चयः | एकत्वग्राहनिराकरणायैव (Vअज्रट्_२१९) भाषितम् तेनोच्यते परमाणुसञ्चय इति |
387 SK असति च दिग्भागभेदे परमाणवः परमाण्वन्तरैः पूर्वापरोर्ध्वाधोदिग्भागभेदेन परिवृता न स्युः, ततो न भवेदुपचयश्चित्तचैत्तादिवत् | भाग एव भवति परमाणुरित्यपि कथनं न युज्यते, तत्रापि तर्कसाम्यात् | एवंभूतेनिष्ठितो ऽपि न युज्यते | अनिष्ठिताः परमाणवः स्वभावेन तर्हि त्वया किं साध्यते? अनिष्ठितस्वभावे भावो न सिध्यति, ततः सिद्धमस्माकं मतमिति | अनेकस्वभावत्वमणूनां यदृच्छयापि नोच्यते, (तदा) अनिष्ठिते परमाणौ (अनेकस्वभावत्वं) कथमुपपद्येतेति मयोक्तम् | ये परमाणवस्त्वया निरवयवत्वेन व्यवस्थाप्यन्ते तेषां पूर्वोत्तरादिदिग्भेदाभ्युपेतत्वात् दिग्भागभेदेनाभ्युपगम्यन्ते, तेन सावयवाः [ते] प्रसज्यन्ते | ततः प्रसङ्गसिद्धो हेतोराश्रयासिद्धिः, न च केवलं चित्तचैतसिकाभ्यामनैकान्तिकाः, अमूर्तत्वात्ते न दिक्ष्ववस्थिताः, पूर्वोत्तरादिदिग्भिरपि नावतिष्ठन्ते |
389 SK न रूपे नैव नेत्रे च तयोर्मध्ये ऽपि न स्थितः | यत्र स्थितो भवेत्तत्र न सन्नैव हि चाप्यसत् ||
390 SK अलं प्रसङ्गेनेति | अनेन त्वनेकस्वभावराहित्यमवगम्य निराभासोपायसन्दर्शनेन योगसमापत्तिश्चित्तप्रहश्चेति निर्दिष्टम् | बहुः स परमाणुसञ्चयो भवेत् इत्यनेनौदार्यं चाभिहितम्, अवशेषेण तु गाम्भीर्यम् |
391 SK (ब) सत्त्वलोकाधिपत्येन प्रस्थितिः
392 SK सम्प्रति सत्त्वलोकाभावप्रस्थितिमधिकृत्य भाषितस्त्रिसाहस्रमहासाहस्रो लोकधातुरिति सः इत्याद्याह | भाजनलोकस्य पूर्वमुक्तत्वादत्र लोकधातुस्तावत् सत्त्वलोकत्वेनेष्टः | उभयत्र त्रिसाहस्रमहासाहस्राभिधानेन तावदनन्तलोकधातुरुपलक्ष्यते | अत एव अधातुः स तथागतेन भाषितः इति पञ्चस्कन्धात्मकः स सत्त्वलोको ऽप्येकानेकस्वभावविरहितः पूर्ववदुक्तः |
393 SK अनेन तथागतस्य तथाविधायां सत्त्वलोकाभावप्रस्थितौ बोधिसत्त्वेन छन्दप्रणिधानाभ्यां स्थातव्यमिति निर्दिष्टम् | निराभासेन तु योगसमापत्तिरियं कथं प्रतिपत्तव्येत्यपि सन्दर्शितम् |
394 SK इदानीं चित्तं कथं प्रग्रहीतव्यमिति दर्शयितुं तत्कस्य हेतोः? इति पृष्टवान् | ऽअधातुः स तथागतेन भाषितऽ; इत्यनेन योजनीयम् | उत्तरार्थं सचेद् भगवन् इत्याद्याह | यदि सत्त्वलोको यथाप्रसिद्धस्तथा परमार्थतः स्यात् स्थूलैकस्वभावस्तदा तथागतेन यथास्थिति वस्तुतत्त्वमधिगतमिति स एव (Vअज्रट्_२२१) पिण्डग्राहः स्यात् |
395 SK स्कन्धेषु पिण्डग्राह एवात्मग्रहणहेतुः, स एव च तथागतस्य पिण्डग्राहो ऽतिगाढतरः स्यात्, तदप्रहाणं चाभिप्रेतं भवेत् | न त्वेवम्, अत एवान्यत्र यो बालजनेभ्यः पिण्डग्राह आत्मग्राहस्य हेतुत्वेन भगवता भाषितः स परमार्थतो ऽग्राह्य एव | ग्राह्ये हि पिण्डे एकानेकस्वभावस्य कस्यचिदभावात् | बालजनप्रसिद्धो भावः केवलं संवृतित उक्तः | तेनोच्यते पिण्डग्राह इति | तदर्थसाधनायैवं भगवान् पिण्डग्राअस्यार्थमुक्तवान् | किमुच्यत इति चेत्? व्यवहारे पिण्डग्राह इति परमार्थे ऽभावात् स धर्मस्त्वनभिलाप्य इत्युक्तवान् |
396 SK यद्येवं ग्राह्यः पिण्डो न स्यात् तदा तत्र ग्राहकस्याप्यभावात् कथं व्यवहारे पिण्डग्राह इति विचिन्त्याह- स च बालपृथजनैरुद्गृहीतः इति | बालास्तु भ्रान्तिवशादसन्तमपि सद्भूतमिव गृहणन्ति | तदाशयवशेन व्यवहारः प्रज्ञप्यते, (अतो) न विरोध इत्यभिप्रायः | तस्मात् ते बाला इत्युच्यन्ते, अन्यथा यथावस्तु व्यवहारप्रज्ञप्तौ कथं ते बालाः स्युः?
397 SK उक्तमत्र कथं चित्तं प्रग्रहीतव्यमिति | गाम्भीर्यमौदार्यमपि चात्र पूर्ववद् योजनीयम् | अनेन यदा सर्वे भावाः परमार्थतः स्वभावशून्यास्तदा रूपकायः ज्ञानकायश्च कथं भवेत् परमार्थतः सस्वभावः, मूलसत्त्वस्याभावादिति देशितम् |
398 SK सम्प्रति यो हि कश्चित् सुभूते इत्यादिना सर्वस्थानेषु योगसमापत्तेः केनोपायेन सर्वत्र समाधेयमिति तत् प्रदर्श्यते | एवमनुसन्धिः- यदि नास्ति पिण्डग्राहस्तदा तन्मूलप्रभवायाः सत्कायदृष्टेरेवाभावात् कथं भगवान् पञ्चसु दृष्टिषु सत्कायदृष्टिमाहेति तदर्थं यो हि कश्चित् सुभूते इत्याद्याह | अत्र कथमविकल्प्यम्, यश्चाविकल्पकः, यमिन्नविकल्प्यम्, येनाविकल्पकः, यश्चाविकल्पः, तद्दर्शनेन योगसमापत्तेः सम्यगुपायो दर्शितो भवति |
399 SK तत्र यो हि कश्चित् सुभूते इत्यारभ्य तेनोच्यते आत्मदृष्टिः एतत्पर्यन्तमनेन कथमविकल्प्यं तदुद्दिष्टम् | कथमिति चेत्? उक्तो ऽन्यैर्थिकैरात्मा, भगवता तु पुद्गलनैरात्म्यप्रतिपादनादात्मनिषेधार्थमाह आत्मदृष्टिः इति तस्याः आत्मदृष्टेर्निराकरणेन धर्मनैरात्म्यं व्यवस्थाप्यते अदृष्टिः सा तथागतेन भाषिता इत्युक्तम् | तामात्मदृष्टिं यदि सत्यतो न गृह्णाति (तदा) एवं प्रयोगे बोधिसत्त्वो योगसमापत्तौ प्रवर्तते | यस्मादविकल्पकस्तस्मात् स तत्रावरणोपायः |
400 SK एवं हि सुभूतेअ बोधिसत्त्वयानसम्प्रस्थितेन इत्यनेन यो ऽविकल्पकः स परिदीप्यते | सर्वधर्माः इत्यनेन यस्मिन्नविकल्प्यम् तद्दर्शितम् | ज्ञातव्या द्रष्टव्या अधिमोक्तव्याः इत्यनेन येनाविकल्प्यं तदभिहितम् | केनाविकल्प्यमितिं चेत्? ज्ञानेन दर्शनेन अधिमुक्त्या च | तत्र ज्ञानं श्रुतमयी प्रज्ञा, दर्शनं चिन्ताययी प्रज्ञा, तयोपनिध्यानत्वाद्, अधिमुक्तिः भावनामयी प्रज्ञा, अध्याशयो ऽत्राधिमुक्तिशब्देन वक्तुमिष्यते | सा तु भावनाबलेन सिध्यतीति, अत एव भावनमयी प्रज्ञा निर्वेधभागीयावस्थायामधिमुक्तिशब्देनोक्ता |
401 SK तथा चाधिमोक्तव्या, यथा न प्रत्युपस्थामहे इत्यनेन यो ऽविकल्पस्तं दर्शयति | असंज्ञैषा तथागतेन भाषिता इत्यत्र हेतुः परिकीर्तितः | कस्यचित् संज्ञेयस्य अभावो ऽपि, एकानेकस्वभावशून्यत्वात् परमार्थत सा असंज्ञा | संवृतिसत्यमधिकृत्यान्यत्र तथागतेन भाषितम् | तस्या (Vअज्रट्_२२३) मिथ्यार्थाधिगमावस्थायां कथं न स्यादविकल्प इत्यभिप्रायः | सर्वस्थानेषु योगसमापत्त्युपायो ऽभिहितः |
402 SK ३. असंक्लेशेन प्रस्थितिः (अ) देशनासंक्लेशः
403 SK द्विधा तवदसङ्क्लेशः- देशनासंक्लेशः, संसारासंक्लेशश्च | तत्र यदि नास्ति धर्मसंज्ञा तदा तथागतस्य सत्त्वेभ्यो तद्धर्मदेशनासंज्ञासमुत्पादे कथं न भवेत् संक्लेशः? कृपया सत्त्वार्थं यावत्संसारावस्थाने सति धर्मसंज्ञया कथं न स्यात् संक्लेशः? इति विचिन्त्य तयैव चित्तसम्पदा देशनासंक्लेशं गाथया च संसाराक्लेशमावेदयितुम् यश्च खलु पुनः सुभूते इत्याद्याह |
404 SK पूर्वं प्रसङ्गान्तरे लोकधातुप्रशस्तिप्रदर्शनमनुशंसायाः प्रशंसनम्, सम्प्रत्यसंक्लेशाधिकारे ऽनन्तलोकधातुदेशनया नोच्यते अनुशंसेति न पुनरुक्तिः | अत्रापि युक्तिस्तु प्राग्वद् वक्तव्या | उद्गृह्य इति स्वध्याये ऽधीतम्, धारयेत् इति पदम्, वाचयेत् इति पुस्तकासिकं वाचयेत्, पर्यवाप्नुयात् इति त्वर्थग्रहणमित्यर्थः | अनेन यमान्महार्थो ऽयं धर्मस्तस्माद्बोधिसत्त्वेनैवंविधायां महार्थधर्मदेशनायामवश्यमेव छन्द-प्रणिधानाभ्यां स्थातव्यं तत्परिदीपितम् |
405 SK भाष्यमाणायामपि कथं न स्यात्संक्लेश इत्येतद्दर्शयितुं कथं न सम्प्रकाशयेत् इत्याह | अयमभिप्रायः- परमार्थतो ऽनुत्पन्नत्वेनभिलाप्यत्वेन देशितत्वे ऽपि सर्वधर्माणाम्, ते धर्मा अनभिलाप्यस्वभावेन नोच्यते | एवमुक्तम्- यथा विनेयजनास्तथा सर्वे धर्मा आदितो ऽनुत्पन्नत्वादनभिलाप्याः (Vअज्रट्_२२४) तस्मान्न ते केनापि व्यपदेश्या इत्येवं दर्श्यत इति | तथा सति असंक्लेशेन देशना, अविपरीतार्थत्वात् | अन्यथा संक्लिष्टा स्याद् विपरीतदेशनत्वात् | अत एव तथागतो धर्मदेशनाकाले विशुद्धलोकज्ञाने प्रस्थितः, अतो धर्मसंज्ञाभाससमुद्भवे ऽपि तत्त्वतो ऽभिनिवेशाभावात् संक्लेशदोषाभावः | अनेन योगसमापत्तिः, चित्तप्रग्रहः गाम्भीर्यञ्च निर्दिष्टम्, पूर्वेण तावदौदार्यम् |
407 SK साम्प्रतं निखिलप्रज्ञापारमिताकायं व्यवस्थाप्य गाथया संसारासंक्लेशो देश्यते | अनया गाथया चत्वारि संस्कृतलक्षणानि परिदीपितानि | (तानि तावत्) स्वभावलक्षणम्, विषयरसास्वादनलक्षणम्, आदीनवान्वयलक्षणम्, निर्याणान्वयलक्षणं चेति |
408 SK तत्र पञ्चस्कन्धात्मकानां भावानां यथाप्रतीति प्रतीत्यसमुत्पादस्तावद् हेतुप्रत्ययसंगृहितत्वात् संस्कृतं इत्युच्यते | एतेषां सर्वेषां स्वभावः तारकाः इव द्रष्टव्यः | रात्रौ यथा तारका अवभासन्ते, न तु दिवसे, तथैव संस्कृता अपि अविद्याज्ञानान्धकारे सति प्रतिभासन्ते, ज्ञानसूर्यालोके सति नावभासन्ते, अतः (ते) तारकस्वभावा इव द्रष्टव्याः | पुद्गलधर्मदृष्टयभिनिवेशात्मकाः संस्कृतास्तु मिथ्याप्रतीतिहेतुत्वात् तिमिरवज्ज्ञातव्याः |
409 SK विज्ञानलक्षणं च कर्मवर्तिकं तृष्णास्नेहं चाश्रित्य प्रज्वलनाद् दाप इव द्रष्टव्यम्, एवमेतन्निदर्शनेन संस्कृतस्वभावलक्षणं परिदीपितम् | मायोपमया विषयरसास्वादनलक्षणं निर्दिश्यते, वितथावभासमानत्वात् | तत्रादीनवान्वयलक्षणं संस्कृतस्वभावं द्विविधम्- अनित्यान्वयः दुःखान्वयश्च | अवश्यायोपमया अनित्यतान्वयः प्रदर्श्यते, न चिरं स्थितत्वात् | बुद्बुदोपमया तावद् (Vअज्रट्_२२५) दुःखतान्वयः प्रदर्श्यते, वेदना बुद्बुदोपमा इति, या काचिद् वेदना सेह दुःखमिति भाषितत्वात् |
410 SK त्रिविधैः दुखैः सर्वा वेदना दुःखा वेदितव्या | तत्र दुःखवेदना तावद् दुःखदुःखम्, तत्सहिता ये संस्कारास्ते ऽपि तदनुरूपतया दुःखमेव; सुखावेदना तावद् विपरिणामदुःखेन दुःखम्, तत्सहिता ये धर्मास्ते ऽपि तदनुरूपतया दुःखम्, न दुःखा न सुखा वेदना, तत्सहितानि वस्तूनि च संस्कारदुःखम्, उत्पादभङ्गलक्षणत्वेन तानि दुःखम् | एवं सर्वं संस्कृतं दुःखान्वितं द्रष्टव्यम् |
411 SK तत्र निर्याणान्वयलक्षणं तावत् पुद्गलधर्मशून्यतान्वयम्, तदालम्बननिर्वृतत्वाद्भगवता खलु द्विविधंनिर्याणालम्बनमुक्तम् | आर्यसमाधिराजसूत्रेचाप्युक्तम् :
412 SK नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत | स हेतुर्निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ||
413 SK द्विविधनैरात्म्यसम्प्रयुक्ताः सर्वसंस्कृताः, तथा हि- अतीत-प्रत्युत्पन्न-अनागतभेदेन त्रिविधाः संस्कृताः | तत्र ये तावदतीतास्ते स्मृतिमात्रावस्थिता अतो निःस्वभावत्वेन, धर्म-पुद्गलतया शून्याः आत्मनानधिष्ठितत्वात्, ततश्च स्वप्नौपम्येन द्विविधनैरात्म्यान्वयास्ते व्यपदिष्टाः | प्रत्युपन्ना विद्युदौपम्येन एकानेकस्वभावरहिताः अग्राह्यस्वभावत्वदिति तेनान्विता व्यपदिष्टाः | (Vअज्रट्_२२६) अनागतास्तावदलब्धस्वभावाः, अभ्रौपम्येन आकाशसमचित्ते तद्बीजदौष्ठुल्येन जनितत्वादिति नैरात्म्यद्वयं तावद्देशितम् |
414 SK अतो ऽनेन खलु समग्रेणात्र बोधिसत्त्वैः सदा सर्वसंस्कृतस्वभावमेवं विचार्य छन्द-प्रणिधानाभ्यां स्थातव्यमिति परिदीपितम् | निर्याणान्वप्रदर्शनेन तावद् योगसमापत्तिश्चित्तप्रग्रहश्च निर्दिष्टः | अनेन सम्पूर्णेनस्थानेन गाम्भीर्यञ्च व्यपदिष्टम् |
415 SK गाथायामस्यां तावदिदं परिदीप्यते- संक्लेशमुलं तावद् विपर्यासः | अतः संस्कृतस्वभावेष्वनेकशः केनचिद् विचारयता मनसिकुर्वता अप्येवं संस्कारपरिज्ञानाद्यदा विपर्यासाभावात् न भवति संक्लेशं (तदा) कथं (नाम) यथावदशेसवस्तुस्वभावपरिभावको विधूताशेषविपर्यासजालस्तथागतः संक्लिष्टो भवेत् | अत एव समस्तसंस्कृतदोषान् अवगच्छन् तथागतः, पद्ममिव संसारदोषाम्भसानवलिप्तचित्तः, प्रतिज्ञातसमस्तजगत्समुद्धरणाशयः, सफलकारित्रः, महाकरुणान्वितचित्तः, निरवधिजगद्धितसुखसाधनाभिप्रायेण संसारचक्रसंसरणं यावत् प्रतिष्ठितो वेदितव्यः | तथा चोक्तम्-
416 SK कर्तुं लोके सुखं शान्तौ भवे चाप्यनधिष्ठितः | इति सर्वसत्त्वानवलोकितुं भूमावस्थीयत इत्यप्युक्तम् |
417 SK त्रैयध्विकानां जननी मुनीनां ख्याता यथाशक्ति मया ततो जगत् | विपुलेन पुण्येन वियत्समेन विधूय चान्ध्यं सुगतत्वमाप्नुयात् ||
418 SK आचार्यकमलशीलेन माध्यमिकनयेन विरचिता विस्तृता आर्यवज्रच्छेदिकाटीका परिसमाप्ता | अष्टम्यां शताब्द्यां भारतीयाचार्य मञ्जुश्रीमित्रेण भोत-लोचावा येशे-देमहाभागेन च भोटभाषायामनूदिता | विदुषां वशंवदेन आचार्यपेमातेनजिनमहादयेन भोटभाषातः संस्कृतभाषायां पुनरुद्धृता सर्वसत्त्वहितसुखार्थम् इति |
Sanskrit e-text from (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Kamalaśīla: Vajracchedikāṭīkā (sa_kamalazIla-vajracchedikATIkA.htm).
Source