शाण्डिल्योपनिषत् भद्रं कर्णेभिः- इति शान्तिः प्रथमोऽध्यायः योगाष्टाङ्गनिर्देशः शाण्डिल्यो ह वा अथर्वाणं पप्रच्छात्मलाभोपायभूतमष्टाङ्गयोगमनुब्रूहीति || १ || स होवाचाथर्वा- यमनियमासनप्राणायामप्रत्याहारधारणा- ध्यानसमाधयोऽष्टाङ्गानि || २ || तत्र दश यमाः | तथा नियमाः | आसनान्यष्टौ | त्रिः प्राणायामः | पञ्च प्रत्याहाराः | तथा धारणाः | द्विप्रकारं ध्यानम् | समाधिस्त्वेकरूपः || ३ || शाण्डिल्योपनिषत्प्रोक्तयमाद्यष्टाङ्गयोगिनः | यद्बोधाद्यान्ति कैवल्यं स रामो मे परा गतिः || इह खलु अथर्वणवेदप्रविभक्तेयं शाण्डिल्योपनिषत् यमाद्यष्टाङ्गयोगतद्गौणमुख्यसिद्धिप्रकाशनव्यग्रा निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजृम्भते | अस्याः प्. ५१९) स्वल्पग्रन्थतो विवरणमारभ्यते | शाण्डिल्याथर्वप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | आख्यायिकामवतारयति- शाण्डिल्य इति | किमिति ? आत्मेति || १ || एवं शाण्डिल्येन पृष्टः स होवाच | किं तत् ? योगोऽष्टाङ्ग उच्यते- यमेति || २- १४ || दशविधयमनिरूपणम्
SK
तत्राहिंसासत्यास्तेयब्रह्मचर्यदयार्जवक्षमाधृतिमिताहार- शौचानि चेति यमा दश || ४ || तत्राहिंसा नाम मनोवाक्कायकर्मभिः सर्वभूतेषु सर्वदाक्लेशजननम् || ५ || सत्यं नाम मनोवाक्कायकर्मभिर्भूतहितयथार्थाभिभाषणम् || ६ || अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहा || ७ || ब्रह्मचर्यं नाम सर्वावस्थासु मनोवाक्कायकर्मभिः सर्वत्र मैथुनत्यागः || ८ || दया नाम सर्वभूतेषु सर्वत्रानुग्रहः || ९ || आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा एकरूपत्वम् || १० || क्षमा नाम प्रियाप्रियेषु सर्वेषु ताडनपूजनेषु सहनम् || ११ || घृतिर्नामार्थहानौ स्वेष्टबन्धुयोगे तत्प्राप्तौ सर्वत्र चेतःस्थापनम् || १२ || मिताहारो नाम चतुर्थांशावशेषकसुस्निग्धमधुराहारः || १३ || शौचं नाम द्विविधं बाह्यमान्तरं चेति | तत्र मृज्जलाभ्यां बाह्यम् | मनःशुद्धिरान्तरम् | तदध्यात्मविद्यया लभ्यम् || १४ || इति प्रथमः खण्डः दशविधनियमनिरूपणम् तपःसंतोषास्तिक्यदानेश्वरपूजनसिद्धान्तश्रवणह्रीमतिजप- व्रतानि दश नियमाः || १ || तत्र तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् || २ || संतोषो नाम यदृच्छालाभतुष्टिः || ३ || आस्तिक्यं नाम वेदोक्तधर्माधर्मेषु विश्वासः || ४ || दानं नाम न्यायार्जितधनधान्यादेः श्रद्धयार्थिभ्यः प्रदानम् || ५ || ईश्वरपूजनं नाम प्रसन्नस्वभावेन यथाशक्ति विष्णुरुद्रादिपूजनम् || ६ || सिद्धान्तश्रवणं नाम वेदान्तार्थविचारः || ७ || ह्रीर्नाम वेदलौकिकमार्गकुत्सितकर्मणि लज्जा || ८ || मतिर्नाम वेदविहितकर्ममार्गेषु श्रद्धा || ९ || जपो नाम विधिवद्गुरूपदिष्टवेदाविरुद्धमन्त्राभ्यासः | तद्द्विविधं वाचिकं मानसं चेति | मानसं तु मनसा ध्यानयुक्तम् | वाचिकं द्विविधमुच्चैरुपांशुभेदेन | उच्चैरुच्चारणं यथोक्तफलम् | उपांशु सहस्रगुणम् | मानसं कोटिगुणम् || १० || व्रतं नाम वेदोक्तविधिनिषेधानुष्ठाननैयत्यम् || ११ ||
SK
दशधा भिन्नयमस्वरूपमुक्त्वा तथा नियमस्वरूपमाह- तप इति || १-९ || मन्त्रार्थानुसंधानं मानसमित्यर्थः || १०-११ || इति द्वितीयः खण्डः अष्टविधासननिरूपणम् स्वस्तिकगोमुखपद्मवीरसिंहभद्रमुक्तमयूराख्यान्यासना- न्यष्टौ | स्वस्तिकं नाम- जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे | ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते || १ || सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् | दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा || २ || अङ्गुष्ठेन निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण च | ऊर्वोरुपरि शाण्डिल्य कृत्वा पादतले उभे | पद्मासनं भवेदेतत् सर्वेषामपि पूजितम् || ३ || एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितः | इतरस्मिंस्तथा चोरुं वीरासनमुदीरितम् || ४ || दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् | हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च || ५ || व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः | सिंहासनं भवेदेतत् पूजितं योगिभिः सदा || ६ || योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् | भ्रूमध्ये च मनोलक्ष्यं सिद्धासनमिदं भवेत् || ७ || गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् | पादपार्श्वे तु पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् | भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् || ८ || प्. ५२२) संपीड्य सीविनीं सूक्ष्मां गुल्फेनैव तु सव्यतः | सव्यं दक्षिणगुल्फेन मुक्तासनमिदं भवेत् || ९ || अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयोः | हस्तयोः कूर्परौ चापि स्थापयेन्नाभिपार्श्वयोः || १० || समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः | मयूरासनमेतत्तु सर्वपापप्रणाशनम् || ११ || शरीरान्तर्गताः सर्वरोगा विनश्यन्ति | विषाणि जीर्यन्ते || १२ || येन केनासनेन सुखधारणं भवत्यशक्तस्तत्समाचरेत् || १३ ||
SK
स्वस्तिकाद्यष्टासनप्रकारमाह- स्वस्तिकेति || १ || गोमुखासनमाह- सव्य इति || २ || पद्मासनमाचष्टे- अङ्गुष्ठेनेति || ३ || वीरासनलक्षणमाह- एकमिति || ४ || सिंहासनप्रकारमाह- दक्षिणमिति || ५-६ || सिद्धासनस्वरूपमाह- योनिमिति || ७ || भद्रासनमाह- गुल्फाविति || ८ || मुक्तासनप्रकारमाह- संपीड्येति || ९ || मयूरासनमाह- अवष्टभ्येति || १०-१३ || आसनजयफलम् येनासनं विजितं जगत्त्रयं तेन विजितं भवति || १४ || यमनियमासनाभ्यासयुक्तः पुरुषः प्राणायामं चरेत् | तेन नाडयः शुद्धा भवन्ति || १५ || आसनजयफलमाह- येनेति || १४ || ततः किमित्यत आह- यमेति || १५ || इति तृतीयः खण्डः नाडीसंख्यादिजिज्ञासा अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ केनोपायेन नाडयः शुद्धाः स्युः | नाडयः कतिसंख्याकाः तासामुत्पत्तिः कीदृशी | तासु कति वायवस्तिष्ठन्ति | तेषां कानि स्थानानि | तत्कर्माणि कानि | देहे यानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति || १ || शाण्डिल्यः प्रश्नबीजमवष्टभ्याथर्वाणं पृच्छतीत्याह- अथेति || १ || शरीरप्राणप्रमाणम् स होवाचाथर्वा | अथेदं शरीरं षण्णवत्यङ्गुलात्मकं भवति | शरीरात् प्राणो द्वादशाङ्गुलाधिको भवति || २ || शाण्डिल्येन एवं पृष्टः सः | स्वस्वाङ्गुलिमानेन षण्णवतीति || २ || कुम्भकविधिः शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा यः करोति स योगिपुङ्गवो भवति || ३ || समन्यूनशब्दाभ्यां कुम्भकदीर्घकुम्भकावुच्येते इत्यर्थः || ३ || मनुष्यादीनामग्निस्थानम् देहमध्ये शिखिस्थानं त्रिकोणं तप्तजाम्बूनदप्रभं मनुष्याणाम् | चतुष्पदां चतुरश्रम् | विहगानां वृत्ताकारम् | तन्मध्ये शुभा तन्वी पावकी शिखा तिष्ठति || ४ || प्. ५२४) मनुष्यादीनामग्निस्थानमाह- देहेति || ४ || मनुष्यादिदेहमध्यलक्षणम्